०३९

अध्यायः 39
प्रवर्ग्ये घर्मभेदे प्रायश्चित्तम्

39.1
स्वाहा प्राणेभ्यः साधिपतिकेभ्यः ।
पृथिव्यै स्वाहा ।
अग्नये स्वाहा ।
अन्तरिक्षे स्वाहा ।
वायवे स्वाहा ।
दिवे स्वाहा ।
सूर्याय स्वाहा ॥

39.2
दिग्भ्यः स्वाहा ।
चन्द्राय स्वाहा ।
नक्षत्रेभ्यः स्वाहा ।
अद्भ्यः स्वाहा ।
वरुणाय स्वाहा ।
नाभ्यै स्वाहा ।
पूताय स्वाहा ॥

39.3
वाचे स्वाहा ।
प्राणाय स्वाहा ।
प्राणाय स्वाहा ।
चक्षुषे स्वाहा ।
चक्षुषे स्वाहा ।
श्रोत्राय स्वाहा ।
श्रोत्राय स्वाहा ॥

39.4
मनसः कामम् आकूतिं वाचः सत्यम् अशीय ।
पशूनाम्̐ रूपम् अन्नस्य रसो यशः श्रीः श्रयतां मयि स्वाहा ॥

5
प्रजापतिः सम्भ्रियमाणः सम्राट् सम्भृतो वैश्वदेवः सम्̐सन्नो घर्मः प्रवृक्तस् तेज ऽ उद्यत ऽ आश्विनः पयस्या नीयमाने पौष्णो विष्यन्दमाने मारुतः क्लथन् ।
मैत्रः शरसि सन्ताय्यमाने वायव्यो ह्रियमाण ऽ आग्नेयो हूयमानो वाग्घुतः ॥

39.6
सविता प्रथमे ऽहन्न् अग्निर् द्वितीये वायुस् तृतीय ऽ आदित्यश् चतुर्थे चन्द्रमाः पञ्चम ऽ ऋतुः षष्ठे मरुतः सप्तमे बृहस्पतिर् अष्टमे ।
मित्रो नवमे वरुणो दशम ऽ इन्द्र ऽ एकादशे विश्वे देवा द्वादशे ॥

39.7
उग्रश् च भीमश् च ध्वान्तश् च धुनिश् च ।
सासह्वाम्̐श् चाभियुग्वा च विक्षिपः स्वाहा ॥

  1. 8
    अग्निम्̐ हृदयेनाशनिम्̐ हृदयाग्रेण पशुपतिं कृत्स्नहृदयेन भवं यक्ना ।
    शर्वं मतस्नाभ्याम् ईशानं मन्युना महादेवम् अन्तःपर्शव्येनोग्रं देवं वनिष्ठुना वसिष्ठहनुः शिङ्गीनि कोश्याभ्याम् ॥

39.9
उग्रं लोहितेन मित्रम्̐ सौव्रत्येन रुद्रं दौर्व्रत्येनेन्द्रं प्रक्रीडेन मरुतो बलेन साध्यान् प्रमुदा ।
भवस्य कण्ठ्यम्̐ रुद्रस्यान्तःपार्श्व्यं महादेवस्य यकृच् छर्वस्य वनिष्ठुः पशुपतेः पुरीतत् ॥

39.10
लोमभ्यः स्वाहा लोमभ्यः स्वाहा त्वचे स्वाहा त्वचे स्वाहा लोहिताय स्वाहा लोहिताय स्वाहा मेदोभ्यः स्वाहा मेदोभ्यः स्वाहा ।
माम्̐सेभ्यः स्वाहा माम्̐सेभ्यः स्वाहा स्नावभ्यः स्वाहा स्नावभ्यः स्वाहास्थभ्यः स्वाहास्थभ्यः स्वाहा मज्जभ्यः स्वाहा मज्जभ्यः स्वाहा ।
रेतसे स्वाहा पायवे स्वाहा ॥

39.11
आयासाय स्वाहा प्रायासाय स्वाहा संयासाय स्वाहा वियासाय स्वाहोद्यासाय स्वाहा ।
शुचे स्वाहा शोचते स्वाहा शोचमानाय स्वाहा शोकाय स्वाहा ॥

39.12
तपसे स्वाहा तप्यते स्वाहा तप्यमानाय स्वाहा तप्ताय स्वाहा घर्माय स्वाहा ।
निष्कृत्यै स्वाहा प्रायश्चित्त्यै स्वाहा भेषजाय स्वाहा ॥

39.13
यमाय स्वाहान्तकाय स्वाहा मृत्यवे स्वाहा ब्रह्मणे स्वाहा ब्रह्महत्यायै स्वाहा विश्वेभ्यो देवेभ्यः स्वाहा द्यावापृथिवीभ्याम्̐ स्वाहा ॥