अध्याय 38
महावीरोपक्रमे घर्मधुग्दोहादयः मन्त्राः
38.1
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
आ ददे ऽदित्यै रास्नासि ॥
38.2
इड ऽ एहि ।
अदित ऽ एहि ।
सरस्वत्त्य् एहि ।
असाव् एहि ।
असाव् एहि ।
असाव् एहि ॥
38.3
अदित्यै रास्नासीन्द्राण्या ऽ उष्णीषः ।
पूषासि ।
घर्माय दीष्व ॥
38.4
अश्विभ्यां पिन्वस्व ।
सरस्वत्यै पिन्वस्व ।
इन्द्राय पिन्वस्व ।
स्वाहेन्द्रवत् ।
स्वाहेन्द्रवत् ।
स्वाहेन्द्रवत् ॥
38.5
यस् ते स्तनः शशयो यो मयोभूर् यो रत्नधा वसुविद् यः सुदत्रः ।
येन विश्वा पुष्यसि वार्याणि सरस्वति तम् इह धातवे ऽकः ।
उर्व् अन्तरिक्षम् अन्व् एमि ॥
38.6
गायत्रं छन्दो ऽसि ।
त्रैष्टुभं छन्दो ऽसि ।
द्यावापृथिवीभ्यां त्वा परि गृह्णामि ।
अन्तरिक्षेणोप यच्छामि ।
इन्द्राश्विना ।
मधुनः सारघस्य घर्मं पात वसवो यजत वाट् ।
स्वाहा सूर्यस्य रश्मये वृष्टिवनये ॥
38.7
समुद्राय त्वा वाताय स्वाहा ।
सरिराय त्वा वाताय स्वाहा ।
अनाधृष्याय त्वा वाताय स्वाहा ।
अप्रतिधृष्याय त्वा वाताय स्वाहा ।
अवस्यवे त्वा वाताय स्वाहा ।
अशिमिदाय त्वा वाताय स्वाहा ॥
38.8
इन्द्राय त्वा वसुमते रुद्रवते स्वाहा ।
इन्द्राय त्वादित्यवते स्वाहा ।
इन्द्राय त्वाभिमातिघ्ने स्वाहा ।
सवित्रे त्व ऽ ऋभुमते विभुमते वाजवते स्वाहा ।
बृहस्पतये त्वा विश्वदेव्यावते स्वाहा ॥
38.9
यमाय त्वाङ्गिरस्वते पितृमते स्वाहा ।
स्वाहा घर्माय ।
स्वाहा घर्मः पित्रे ॥
38.10
विश्वा ऽ आशा दक्षिणसद् विश्वान् देवान् अयाड् इह ।
स्वाहाकृतस्य घर्मस्य मधोः पिबतम् अश्विना ॥
38.11
दिवि धा ऽ इमं यज्ञम् इमम् यज्ञं दिवि धाः ।
स्वाहाग्नये यज्ञियाय शं यजुर्भ्यः ॥
38.12
अश्विना घर्मं पातम्̐ हार्द्वानम् अहर् दिवाभिर् ऊतिभिः ।
तन्त्रायिणो नमो द्यावापृथिवीभ्याम् ॥
38.13
अपाताम् अश्विना घर्मम् अनु द्यावापृथिवी ऽ अमम्̐साताम् ।
इहैव रातयः सन्तु ॥
38.14
इषे पिन्वस्व ।
ऊर्जे पिन्वस्व ।
ब्रह्मणे पिन्वस्व ।
क्षत्राय पिन्वस्व ।
द्यावापृथिवीभ्यां पिन्वस्व ।
धर्मासि सुधर्म ।
अमेन्य् अस्मे नृम्णानि धारय ब्रह्म धारय क्षत्रम् धारय विषं धारय ॥
38.15
स्वाहा पूष्णे शरसे ।
स्वाहा ग्रावभ्यः ।
स्वाहा प्रतिरवेभ्यः ।
स्वाहा पितृभ्य ऽ ऊर्ध्वबर्हिर्भ्यो घर्मपावभ्यः ।
स्वाहा द्यावापृथिवीभ्याम् ।
स्वाहा विश्वेभ्यः देवेभ्यः ॥
38.16
स्वाहा रुद्राय रुद्रहूतये ।
स्वाहा सं ज्योतिषा ज्योतिः ।
अहः केतुना जुषताम्̐ सुज्योतिर् ज्योतिषा स्वाहा ।
रात्रिः केतुना जुषताम्̐ सुज्योतिर् ज्योतिषा स्वाहा ।
मधु हुतम् इन्द्रतमे ऽ अग्नाव् अश्याम ते देव घर्म नमस् ते ऽ अस्तु मा मा हिम्̐सीः ॥
38.17
अभीमं महिमा दिवं विप्रो बभूव सप्रथाः ।
उत श्रवसा पृथिवीम्̐ सम्̐ सीदस्व महाम्̐२ऽ असि रोचस्व देववीतमः ॥
[वि धूमम् अग्ने ऽ अरुषं मियेध्य सृज प्रशस्त दर्शतम्] ॥
38.18
या ते घर्म दिव्या शुग् या गायत्र्याम्̐ हविर्धाने ।
सा त आ प्यायतां निष्ट्यायतां तस्यै ते स्वाहा ।
या ते घर्मान्तरिक्षे शुग् या त्रिष्टुभ्य् आग्नीध्रे ।
सा त ऽ आ प्यायतां निष्ट्यायतां तस्यै ते स्वाहा ।
या ते घर्म पृथिव्याम्̐ शुग् या जगत्याम्̐ सदस्या ।
सा त ऽ आ प्यायतां निष्ट्यायतां तस्यै ते स्वाहा ॥
38.19
क्षत्रस्य त्वा परस्पाय ब्रह्मणस् तन्वं पाहि ।
विशस् त्वा धर्मणा वयम् अनु क्रामाम सुविताय नव्यसे ॥
38.20
चतुःस्रक्तिर् नाभिर् ऋतस्य सप्रथाः स नो विश्वायुः सप्रथाः स नः सर्वायुः सप्रथाः ।
अप द्वेषो ऽ अप ह्वरो ऽन्यव्रतस्य सश्चिम ॥
38.21
घर्मैतत् ते पुरीषं तेन वर्धस्व चा च प्यायस्व ।
वर्धिषीमहि च वयम् आ च प्यासिषीमहि ॥
38.22
अचिक्रदद् वृषा हरिर् महान् मित्रो न दर्शतः ।
सम्̐ सूर्येण दिद्युतद् उदधिर् निधिः ॥
38.23
सुमित्रिया न ऽ आप ऽ ओषधयः सन्तु दुर्मित्रियास् तस्मै सन्तु यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥
38.24
उद् वयं तमसस् परि स्वः पश्यन्त ऽ उत्तरम् ।
देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् ॥
38.25
एधो ऽस्य् एधिषीमहि ।
समिद् असि तेजो ऽसि तेजो मयि धेहि ॥
38.26
यावती द्यावापृथिवी यावच् च सप्त सिन्धवो वितस्थिरे ।
तावन्तम् इन्द्र ते ग्रहमूर्जा गृह्णाम्य् अक्षितं मयि गृह्णाम्य् अक्षितम् ॥
38.27
मयि त्यद् इन्द्रियं बृहन् मयि दक्षो मयि क्रतुः ।
घर्मस् त्रिशुग् वि राजति विराजा ज्योतिषा सह ब्रह्मणा तेजसा सह ॥
38.28
पयसो रेत ऽ आभृतं तस्य दोहम् अशीमह्य् उत्तराम्-उत्तराम्̐ समाम् ।
त्विषः संवृक् क्रत्वे दक्षस्य ते सुषुम्णस्य ते सुषुम्णाग्निहुतः ।
इन्द्रपीतस्य प्रजापतिभक्षितस्य मधुमत ऽ उपहूत ऽ उपहूतस्य भक्षयामि ॥