अध्यायः 33
सार्वमेधिके सप्तदशकाः पुरोरुग्गणाः
33.1
अस्याजरासो दमाम् अरित्रा ऽ अर्चद्धूमासो ऽ अग्नयः पावकाः ।
श्वितीचयः श्वात्रासो भुरण्यवो वनर्षदो वायवो न सोमाः ॥
33.2
हरयो धूमकेतवो वातजूता ऽ उप द्यवि ।
यतन्ते वृथग् अग्नयः ॥
33.3
यजा नो मित्रावरुणा यजा देवाम्̐ २ऽ ऋतं बृहत् ।
अग्ने यक्षि स्वं दमम् ॥
33.4
युक्ष्वा हि देवहूतमाम्̐२ऽ अश्वाम्̐२ऽ अग्ने रथीर् इव ।
नि होता पूर्व्यः सदः ॥
33.5
द्वे विरूपे चरतः स्वर्थे ऽ अन्यान्या वत्सम् उप धापयेते ।
हरिर् अन्यस्यां भवति स्वधावाञ्छुक्रो ऽ अन्यस्यां ददृशे सुवर्चाः ॥
33.6
अयम् इह प्रथमो धायि धातृभिर् होता यजिष्ठो ऽ अध्वरेष्व् ईड्यः ।
यम् अप्नवानो भृगवो विरुरुचुर् वनेषु चित्रं विभ्वं विशे-विशे ॥
33.7
त्रीणि शता त्री सहस्राण्य् अग्निं त्रिम्̐शच् च देवा नव चासपर्यन् ।
औक्षन् घृतैर् अस्तृणन् बर्हिर् अस्मा ऽ आद् इद् होतारं न्य् असादयन्त ॥
33.8
मूर्धानं दिवो ऽ अरतिं पृथिव्या वैश्वानरम् ऋत ऽ आ जातम् अग्निम् ।
कविम्̐ सम्राजम् अतिथिं जनानाम् आसन्न् आ पात्रं जनयन्त देवाः ॥
33.9
अग्निर् वृत्राणि जङ्घनद् द्रविणस्युर् विपन्यया ।
समिद्धः शुक्र ऽ आहुतः ॥
33.10
विश्वेभिः सोम्यं मध्व् अग्न ऽ इन्द्रेण वायुना ।
पिबा मित्रस्य धामभिः ॥
33.11
आ यद् इषे नृपतिं तेज ऽ आनट् शुचि रेतो निषिक्तं द्यौर् अभीके ।
अग्निः शर्धम् अनवद्यं युवानम्̐ स्वाध्यं जनयत् सूदयच् च ॥
33.12
अग्ने शर्ध महते सौभगाय तव द्युम्नान्य् उत्तमानि सन्तु ।
सं जास्पत्यम्̐ सुयमम् आ कृणुष्व शत्रूयताम् अभि तिष्ठा महाम्̐सि ॥
33.13
त्वाम्̐ हि मन्द्रतमम् अर्कशोकैर् ववृमहे महि नः श्रोष्य् अग्ने ।
इन्द्रं न त्वा शवसा देवता वायुं पृणन्ति राधसा नृतमाः ॥
33.14
त्वे ऽ अग्ने स्वाहुत प्रियासः सन्तु सूरयः ।
यन्तारो ये मघवानो जनानामूर्वान् दयन्त गोनाम् ॥
33.15
श्रुधि श्रुत्कर्ण वह्निभिर् देवैर् अग्ने सयावभिः ।
आ सीदन्तु बर्हिषि मित्रो ऽ अर्यमा प्रातर्यावाणो ऽ अध्वरम् ॥
33.16
विश्वेषाम् अदितिर् यज्ञियानां विश्वेषाम् अतिथिर् मानुषाणाम् ।
अग्निर् देवानाम् अव ऽ आवृणानः सुमृडीको भवतु जातवेदाः ॥
33.17
महो ऽ अग्नेः समिधानस्य शर्मण्य् अनागा मित्रे वरुणे स्वस्तये ।
श्रेष्ठे स्याम सवितुः सवीमनि तद् देवानाम् अवो ऽ अद्या वृणीमहे ॥
33.18
आपश् चित् पिप्यु स्तर्यो न गावो नक्षन्न् ऋतं जरितारस् त ऽ इन्द्र ।
याहि वायुर् न नियुतो नो ऽ अच्छा त्वम्̐ हि धीभिर् दयसे वि वाजान् ॥
33.19
गाव ऽ उपावतावतं मही यज्ञस्य रप्सुदा ।
उभा कर्णा हिरण्यया ॥
33.20
यद् अद्य सूर ऽ उदिते नागा मित्रो ऽ अर्यमा ।
सुवाति सविता भगः ॥
33.21
आ सुते सिञ्चत श्रियम्̐ रोदस्योर् अभिश्रियम् ।
रसा दधीत वृषभम् ॥[ तं प्रत्नथा। अयं वेनः॥]
33.22
आतिष्ठन्तं परि विश्वे ऽ अभूषञ् छ्रियो वसानश् चरति स्वरोचिः ।
महत् तद् वृष्णो ऽ असुरस्य नामा विश्वरूपो ऽ अमृतानि तस्थौ ॥
33.23
प्र वो महे मन्दमानायान्धसो ऽर्चा विश्वानराय विश्वाभुवे ।
इन्द्रस्य यस्य सुमखम्̐ सहो महि श्रवो नृम्णं च रोदसी सपर्यतः ॥
33.24
बृहन्न् इद् इध्म ऽ एषां भूरि शस्तं पृथुः स्वरुः ।
येषाम् इन्द्रो युवा सखा ॥
33.25
इन्द्रेहि मत्स्य् अन्धसो विश्वेभिः सोमपर्वभिः ।
महाम्̐२ऽ अभिष्टिर् ओजसा ॥
33.26
इन्द्रो वृत्रम् अवृणोच्छर्धनीतिः प्र मायिनाम् अमिनाद् वर्पणीतिः ।
अहन् व्यम्̐सम् उशधग् वनेष्व् आविर् धेना ऽ अकृणोद् राम्याणाम् ॥
33.27
कुतस् त्वम् इन्द्र माहिनः सन्न् एको यासि सत्पते किं त ऽ इत्था ।
सं पृच्छसे समराणः शुभानैर् वोचेस् तन् नो हरिवो यत् ते ऽ अस्मे ।
महाम्̐२ऽ इन्द्रो य ऽ ओजसा ।
कदा चन स्तरीर् असि ।
कदा चन प्र युच्छसि ॥
33.28
आ तत् त ऽ इन्द्रायवः पनन्ताभि य ऽ ऊर्वं गोमन्तं तितृत्सान् ।
सकृत्स्वं ये पुरुपुत्रां महीम्̐ सहस्रधारां बृहतीं दुदुक्षन् ॥
33.29
इमां ते धियं प्र भरे महो महीम् अस्य स्तोत्रे धिषणा यत् त ऽ आनजे ।
तम् उत्सवे च प्रसवे च सासहिम् इन्द्रं देवासः शवसामदन्न् अनु ॥
33.30
विभ्राड् बृहत् पिबतु सोम्यं मध्व् आयुर् दधद् यज्ञपताव् अविह्रुतम् ।
वातजूतो यो ऽ अभिरक्षति त्मना प्रजाः पुपोष पुरुधा वि राजति ॥
33.31
उद् उ त्यं जातवेदसं देवं वहन्ति केतवः ।
दृशे विश्वाय सूर्यम्̐ स्वाहा ॥
33.32
येना पावक चक्षसा भुरण्यन्तं जनाम्̐२ऽ अनु ।
त्वं वरुण पश्यसि ॥
33.33
दैव्याव् अध्वर्यू ऽ आ गतम्̐ रथेन सूर्यत्वचा ।
मध्वा यज्ञम्̐ सम् अञ्जाथे ।
तं प्रत्नथा । अयं वेनः। चित्रं देवानाम्(अ.वे.)
अयं वेनः ।
चित्रम् देवानाम् ॥
33.34
आ न ऽ इडाभिर् विदथे सुशस्ति विश्वानरः सविता देव ऽ एतु ।
अपि यथा युवानो मत्सथा नो विश्वं जगद् अभिपित्वे मनीषा ॥
33.35
यद् अद्य कच् च वृत्रहन्न् उदगा ऽ अभि सूर्य ।
सर्वं तद् इन्द्र ते वशे ॥
33.36
तरणिर् विश्वदर्शतो ज्योतिष्कृद् असि सूर्य ।
विश्वम् आ भासि रोचनम् ॥
33.37
तत् सूर्यस्य देवत्वं तन् महित्वं मध्या कर्तोर् विततम्̐ सं जभार ।
यदेद् अयुक्त हरितः सधस्थाद् आद् रात्री वासस् तनुते सिमस्मै ॥
33.38
तन् मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योर् उपस्थे ।
अनन्तम् अन्यद् रुशद् अस्य पाजः कृष्णम् अन्यद् धरितः सं भरन्ति ॥
33.39
बण् महाम्̐२ऽ असि सूर्य बड् आदित्य महाम्̐२ऽ असि ।
महस् ते सतो महिमा पनस्यते द्धा देव महाम्̐२ऽ असि ॥
33.40
बट् सूर्य श्रवसा महाम्̐२ऽ असि सत्रा देव महाम्̐२ऽ असि ।
मह्ना देवानाम् असुर्यः पुरोहितो विभु ज्योतिर् अदाभ्यम् ॥
33.41
श्रायन्त ऽ इव सूर्यं विश्वेद् इन्द्रस्य भक्षत ।
वसूनि जाते जनमान ऽ ओजसा प्रति भागं न दीधिम ॥
33.42
अद्या देवा ऽ उदिता सूर्यस्य निर् अम्̐हसः पिपृता निर् अवद्यात् ।
तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी ऽ उत द्यौः ॥
33.43
आ कृष्णेन रजसा वर्तमानो निवेशयन्न् अमृतं मर्त्यं च ।
हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ॥
33.44
प्र वावृजे सुप्रया बर्हिर् एषाम् आ विश्पतीव बीरिट ऽ इयाते ।
विशाम् अक्तोर् उषसः पूर्वहूतौ वायुः पूषा स्वस्तये नियुत्वान् ॥
33.45
इन्द्रवायू बृहस्पतिं मित्राग्निं पूषणं भगम् ।
आदित्यान् मारुतं गणम् ॥
33.46
वरुणः प्राविता भुवन् मित्रो विश्वाभिर् ऊतिभिः ।
करतां नः सुराधसः ॥
33.47
अधि न इन्द्रेषां विष्णो सजात्यानाम् ।
इता मरुतो ऽ अश्विना ।
[तं प्रत्नथा । अयं वेनः । ये देवासः । आ न इडाभिः । विश्वेभिः सोम्यं मधु ।] (अ.वे. 7.12, 16. 19, )
ओमासश् चर्षणीधृतः ॥
33.48
अग्न ऽ इन्द्र वरुण मित्र देवाः शर्धः प्र यन्त मारुतोत विष्णो ।
उभा नासत्या रुद्रो ऽ अध ग्नाः पूषा भगः सरस्वती जुषन्त ॥
33.49
इन्द्राग्नी मित्रावरुणादितिम्̐ स्वः पृथिवीं द्यां मरुतः पर्वताम्̐२ऽ अपः ।
हुवे विष्णुं पूषणं ब्रह्मणस्पतिं भगं नु शम्̐सम्̐ सवितारमूतये ॥
33.50
अस्मे रुद्रा मेहना पर्वतासो वृत्रहत्ये भरहूतौ सजोषाः ।
यः शम्̐सते स्तुवते धायि पज्र ऽ इन्द्रज्येष्ठा ऽ अस्माम्̐२ऽ अवन्तु देवाः ॥
33.51
अर्वाञ्चो ऽ अद्या भवता यजत्रा ऽ आ वो हार्दि भयमानो व्ययेयम् ।
त्राध्वं नो देवा निजुरो वृकस्य त्राध्वं कर्ताद् अवपदो यजत्राः ॥
33.52
विश्वे ऽ अद्य मरुतो विश्व ऽ ऊती विश्वे भवन्त्व् अग्नयः समिद्धाः ।
विश्वे नो देवा ऽ अवसा गमन्तु विश्वम् अस्तु द्रविणं वाजो ऽ अस्मे ॥
33.53
विश्वे देवाः शृणुतेमम्̐ हवं मे ये ऽ अन्तरिक्षे य ऽ उप द्यवि ष्ठ ।
ये ऽ अग्निजिह्वा ऽ उत वा यजत्रा ऽ आसद्यास्मिन् बर्हिषि मादयध्वम् ॥
33.54
देवेभ्यो हि प्रथमं यज्ञियेभ्यो ऽमृतत्वम्̐ सुवसि भागम् उत्तमम् ।
आद् इद् दामानम्̐ सवितर् व्य् ऊर्णुषे ऽनूचीना जीविता मानुषेभ्यः ॥
33.55
प्र वायुम् अच्छा बृहती मनीषा बृहद्रयिं विश्ववारम्̐ रथप्राम् ।
द्युतद्यामा नियुतः पत्यमानः कविः कविम् इयक्षसि प्रयज्यो ॥
33.56
इन्द्रवायू ऽ इमे सुता ऽ उप प्रयोभिर् आगतम् ।
इन्दवो वाम् उशन्ति हि ॥
33.57
मित्रम्̐ हुवे पूतदक्षं वरुणं च रिशादसम् ।
धियं घृताचीम्̐ साधन्ता ॥
33.58
दस्रा युवाकवः सुता नासत्या वृक्तबर्हिषः ।
आ यातम्̐ रुद्रवर्तनी । [ तं प्रत्नथा । अयं वेनः ॥ ](अ.वे. 7.12.16)
33.59
विदद् यदी सरमा रुग्णम् अद्रेर् महि पाथः पूर्व्यम्̐ सध्र्यक् कः ।
अग्रं नयत् सुपद्य् अक्षराणाम् अच्छा रवं प्रथमा जानती गात् ॥
33.60
नहि स्पशम् अविदन्न् अन्यम् अस्माद् वैश्वानरात् पुर ऽ एतारम् अग्नेः ।
एम् एनम् अवृधन्न् अमृता ऽ अमर्त्यं वैश्वानरं क्षैत्रजित्याय देवाः ॥
33.61
उग्रा विघनिना मृध ऽ इन्द्राग्नी हवामहे ।
ता नो मृडात ऽ ईदृशे ॥
33.62
उपास्मै गायता नरः पवमानायेन्दवे ।
अभि देवाम्̐२ऽ इयक्षते ॥
33.63
ये त्वाहिहत्ये मघवन्न् अवर्धन् ये शाम्बरे हरिवो ये गविष्टौ ।
ये त्वा नूनम् अनुमदन्ति विप्राः पिबेन्द्र सोमम्̐ सगणो मरुद्भिः ॥
33.64
जनिष्ठा ऽ उग्रः सहसे तुराय मन्द्र ऽ ओजिष्ठो बहुलाभिमानः ।
अवर्धन्न् इन्द्रं मरुतश् चिद् अत्र माता यद् वीरं दधनद् धनिष्ठा ॥
33.65
आ तू न ऽ इन्द्र वृत्रहन्न् अस्माकम् अर्धम् आ गहि ।
महान् महीभिर् ऊतिभिः ॥
33.66
त्वम् इन्द्र प्रतूर्तिष्व् अभि विश्वा ऽ असि स्पृधः ।
अशस्तिहा जनिता विश्वतूर् असि त्वं तूर्य तरुष्यतः ॥
33.67
अनु ते शुष्मं तुरयन्तम् ईयतुः क्षोणी शिशुं न मातरा ।
विश्वास् ते स्पृधः श्नथयन्त मन्यवे वृत्रं यद् इन्द्र तूर्वसि ॥
33.68
यज्ञो देवानां प्रत्य् एति सुम्नम् आदित्यासो भवता मृडयन्तः ।
आ वो ऽर्वाची सुमतिर् ववृत्याद् अम्̐होश् चिद् या वरिवोवित्तरासत् ॥
33.69
अदब्धेभिः सवितः पायुभिष् ट्वम्̐ शिवेभिर् अद्य परि पाहि नो गयम् ।
हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर् नो ऽ अघशम्̐स ऽ ईशत ॥
33.70
प्र वीरया शुचयो दद्रिरे वाम् अध्वर्युभिर् मधुमन्तः सुतासः ।
वह वायो नियुतो याह्य् अच्छा पिबा सुतस्यान्धसो मदाय ॥
33.71
गाव ऽ उपावतावतं मही यज्ञस्य रप्सुदा ।
उभा कर्णा हिरण्यया ॥
33.72
काव्ययोर् आजानेषु क्रत्वा दक्षस्य दुरोणे ।
रिशादसा सधस्थ ऽ आ ॥
33.73
दैव्याव् अध्वर्यू आ गतम्̐ रथेन सूर्यत्वचा ।
मध्वा यज्ञम्̐ सम् अञ्जाथे । [ + तं प्रत्नथा । अयं वेनः ॥]
33.74
तिरश्चीनो विततो रश्मिर् एषाम् अधः स्विद् आसी३द् उपरि स्विद् आसी३त् ।
रेतोधा ऽ आसन् महिमान ऽ आसन्त् स्वधा ऽ अवस्तात् प्रयतिः परस्तात् ॥
33.75
आ रोदसी ऽ अपृणद् आ स्वर् महज् जातं यद् एनम् अपसो ऽ अधारयन् ।
सो ऽ अध्वराय परि णीयते कविर् अत्यो न वाजसातये चनोहितः ॥
33.76
उक्थेभिर् वृत्रहन्तमा या मन्दाना चिद् आ गिरा ।
आङ्गूषैर् आविवासतः ॥
33.77
उप नः सूनवो गिरः शृण्वन्त्व् अमृतस्य ये ।
सुमृडीका भवन्तु नः ॥
33.78
ब्रह्माणि मे मतयः शम्̐ सुतासः शुष्म ऽ इयर्ति प्रभृतो मे ऽ अद्रिः ।
आ शासते प्रति हर्यन्त्य् उक्थेमा हरी वहतस् ता नो ऽ अच्छ ॥
33.79
अनुत्तमा ते मघवन् नकिर् नु न त्वावाम्̐२ऽ अस्ति देवता विदानः ।
न जायमानो नशते न जातो यानि करिष्या कृणुहि प्रवृद्ध ॥
33.80
तद् इद् आस भुवनेषु ज्येष्ठं यतो जज्ञ ऽ उग्रस् त्वेषनृम्णः ।
सद्यो जज्ञानो नि रिणाति शत्रून् अनु यं विश्वे मदन्त्य् ऊमाः ॥
33.81
इमा ऽ उ त्वा पुरूवसो गिरो वर्धन्तु या मम ।
पावकवर्णाः शुचयो विपश्चितो ऽभि स्तोमैर् अनूषत ॥
33.82
यस्यायं विश्व ऽ आर्यो दासः शेवधिपा ऽ अरिः ।
तिरश् चिद् अर्ये रुशमे परीरवि तुभ्येत् सो ऽ अज्यते रयिः ॥
33.83
अयम्̐ सहस्रम् ऋषिभिः सहस्कृतः समुद्र ऽ इव पप्रथे ।
सत्यः सो ऽ अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ॥
33.84
अदब्धेभिः सवितः पायुभिष् ट्वम्̐ शिवेभिर् अद्य परि पाहि नो गयम् ।
हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर् नो ऽ अघशम्̐स ऽ ईशत ॥
33.85
आ नो यज्ञं दिविस्पृशं वायो याहि सुमन्मभिः ।
अन्तः पवित्र ऽ उपरि श्रीणानो ऽयम्̐ शुक्रो ऽ अयामि ते ॥
33.86
इन्द्रवायू सुसन्दृशा सुहवेह हवामहे ।
यथा नः सर्व ऽ इज् जनो ऽनमीवः सङ्गमे सुमना ऽ असत् ॥
33.87
ऋधग् इत्था स मर्त्यः शशमे देवतातये ।
यो नूनं मित्रावरुणाव् अभिष्टय ऽ आचक्रे हव्यदातये ॥
33.88
आ यातम् उप भूषतं मध्वः पिबतम् अश्विना ।
दुग्धं पयो वृषणा जेन्यावसू मा नो मर्धिष्टम् आ गतम् ॥
33.89
प्रैतु ब्रह्मणस् पतिः प्र देव्य् एतु सूनृता ।
अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः ॥
33.90
चन्द्रमा ऽ अप्स्व् अन्तर् आ सुपर्णो धावते दिवि ।
रयिं पिशङ्गं बहुलं पुरुस्पृहम्̐ हरिर् एति कनिक्रदत् ॥
33.91
देवं-देवं वो ऽवसे देवं-देवम् अभिष्टये ।
देवं-देवम्̐ हुवेम वाजसातये गृणन्तो देव्या धिया ॥
33.92
दिवि पृष्टो ऽ अरोचताग्निर् वैश्वानरो बृहन् ।
क्ष्मया वृधान ऽ ओजसा चनोहितो ज्योतिषा बाधते तमः ॥
33.93
इन्द्राग्नी ऽ अपाद् इयं पूर्वागात् पद्वतीभ्यः ।
हित्वी शिरो जिह्वया वावदच् चरत् त्रिम्̐शत् पदा न्य् अक्रमीत् ॥
33.94
देवासो हि ष्मा मनवे समन्यवो विश्वे साकम्̐ सरातयः ।
ते नो ऽ अद्य ते अपरं तुचे तु नो भवन्तु वरिवोविदः ॥
33.95
अपाधमद् अभिशस्तीर् अशस्तिहाथेन्द्रो द्युम्न्य् आभवत् ।
देवास् त ऽ इन्द्र सख्याय येमिरे बृहद्भानो मरुद्गण ॥
33.96
प्र व ऽ इन्द्राय बृहते मरुतो ब्रह्मार्चत ।
वृत्रम्̐ हनति वृत्रहा शतक्रतुर् वज्रेण शतपर्वणा ॥
33.97
अस्येद् इन्द्रो वावृधे वृष्ण्यम्̐ शवो मदे सुतस्य विष्णवि ।
अद्या तम् अस्य महिमानम् आयवो ऽनु ष्टुवन्ति पूर्वथा ।
[इमा ऽ उ त्वा । यस्यायम् । अयम्̐ सहस्रम् । ऊर्ध्व ऽ ऊ षु णः ॥] (अ.वे. )