०३१

अध्याय 31 विष्णु सूक्तम्
पुरुषसूक्ताध्यायः

31.1
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
स भूमिम्̐ सर्वत स्पृत्वात्य् अतिष्ठद् दशाङ्गुलम् ॥

31.2
पुरुषऽएवेदम्̐ सर्वं यद् भूतं यच् च भाव्यम् ।
उतामृतत्वस्येशानो यद् अन्नेनातिरोहति ॥

31.3
एतावान् अस्य महिमातो ज्यायाम्̐श् च पूरुषः ।
पादो ऽस्य विश्वा भूतानि त्रिपाद् अस्यामृतं दिवि ॥

31.4
त्रिपाद् ऊर्ध्व उद् ऐत् पुरुषः पादो ऽस्येहाभवत् पुनः ।
ततो विष्वङ् व्यक्रामत् साशनानशने ऽ अभि ॥

31.5
तस्माद् विराड् अजायत विराजो ऽ अधि पूरुषः ।
स जातो ऽ अत्य् अरिच्यत पश्चाद् भूमिम् अथो पुरः ॥

31.6
तस्माद् यज्ञात् सर्वहुतः सम्भृतं पृषदाज्यम् ।
पशूम्̐स् ताम्̐श् चक्रे वायव्यान् आरण्या ग्राम्याश् च ये ॥

31.7
तस्माद् यज्ञात् सर्वहुत ऽ ऋचः सामानि जज्ञिरे ।
छन्दाम्̐सि जज्ञिरे तस्माद् यजुस् तस्माद् अजायत ॥

31.8
तस्माद् अश्वा ऽ अजायन्त ये के चोभयादतः ।
गावो ह जज्ञिरे तस्मात् तस्माज् जाता ऽ अजावयः ॥

31.9
तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातम् अग्रतः ।
तेन देवा ऽ अयजन्त साध्या ऽ ऋषयश् च ये ॥

31.10
यत् पुरुषं व्य् अदधुः कतिधा व्यकल्पयन् ।
मुखं किम् अस्य कौ बाहू का ऊरू पादा ऽ उच्येते ॥

31.11
ब्राह्मणो ऽस्य मुखम् आसीद् बाहू राजन्यः कृतः ।
ऊरू तद् अस्य यद् वैश्यः पद्भ्याम्̐ शूद्रो ऽ अजायत ॥

31.12
चन्द्रमा मनसो जातश् चक्षोः सूर्यो ऽ अजायत ।
श्रोत्राद् वायुश् च प्राणश् च मुखाद् अग्निर् अजायत ॥

31.13
नाभ्या ऽ आसीद् अन्तरिक्षम्̐ शीर्ष्णो द्यौः सम् अवर्तत ।
पद्भ्यां भूमिर् दिशः श्रोत्रात् तथा लोकाम्̐ऽ अकल्पयन् ॥

31.14
यत् पुरुषेण हविषा देवा यज्ञम् अतन्वत ।
वसन्तो ऽस्यासीद् आज्यं ग्रीष्म ऽ इध्मः शरद् धविः ॥

31.15
सप्तास्यासन् परिधयस् त्रिः सप्त समिधः कृताः ।
देवा यद् यज्ञं तन्वाना ऽ अबध्नन् पुरुषं पशुम् ॥

31.16
यज्ञेन यज्ञम् अयजन्त देवास् तानि धर्माणि प्रथमान्य् आसन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥

31.17
अद्भ्यः सम्भृतः पृथिव्यै रसाच् च विश्वकर्मणः सम् अवर्तताग्रे ।
तस्य त्वष्टा विदधद् रूपम् एति तन् मर्त्यस्य देवत्वम् आजानम् अग्रे ॥

31.18
वेदाहम् एतं पुरुषं महान्तम् आदित्यवर्णं तमसः परस्तात् ।
तम् एव विदित्वाति मृत्युम् एति नान्यः पन्था विद्यते ऽयनाय ॥

31.19
प्रजापतिश् चरति गर्भै ऽ अन्तर् अजायमानो बहुधा वि जायते ।
तस्य योनिं परि पश्यन्ति धीरास् तस्मिन् ह तस्थुर् भुवनानि विश्वा ॥

31.20
यो देवेभ्य ऽ आतपति यो देवानां पुरोहितः ।
पूर्वो यो देवेभ्यो जातो नमो रुचाय ब्राह्मये ॥

31.21
रुचं ब्राह्म्यं जनयन्तो देवा ऽ अग्रे तद् अब्रुवन् ।
यस् त्वैवं ब्राह्मणो विद्यात् तस्य देवा ऽ असन् वशे ॥

31.22
श्रीश् च ते लक्ष्मीश् च पत्न्याव् अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्ताम् ।
इष्णन्न् इषाणामुं म ऽ इषाण सर्वलोकं म ऽ इषाण ॥