०२९

अध्यायः 29
आश्वमेधिको अध्यायः। शिष्टाश्वमेध मन्त्राः

29.1
समिद्धो ऽ अञ्जन् कृदरं मतीनां घृतम् अग्ने मधुमत् पिन्वमानः ।
वाजी वहन् वाजिनं जातवेदो देवानां वक्षि प्रियम् आ सधस्थम् ॥

29.2
घृतेनाञ्जन्त् सं पथो देवयानान् प्रजानन् वाज्य् अप्य् एतु देवान् ।
अनु त्वा सप्ते प्रदिशः सचन्ताँ स्वधाम् अस्मै यजमानाय धेहि ॥

29.3
ईड्यश् चासि वन्द्यश् च वाजिन्न् आशुश् चासि मेध्यश् च सप्ते ।
अग्निष् ट्वा देवैर् वसुभिः सजोषाः प्रीतं वह्निं वहतु जातवेदाः ॥

29.4
स्तीर्णं बर्हिः सुष्टरीमा जुषाणोरु पृथु प्रथमानं पृथिव्याम् ।
देवेभिर् युक्तम् अदितिः सजोषाः स्योनं कृण्वान सुविते दधातु ॥

29.5
एता ऽ उ वः सुभगा विश्वरूपा वि पक्षोभिः श्रयमाणा ऽ उदातैः ।
ऋष्वाः सतीः कवषः शुम्भमाना द्वारो देवीः सुप्रायणा भवन्तु ॥

29.6
अन्तरा मित्रावरुणा चरन्ती मुखं यज्ञानाम् अभि संविदाने ।
उषासा वाँ सुहिरण्ये सुशिल्पे ऽ ऋतस्य योनाव् इह सादयामि ॥

29.7
प्रथमा वाँ सरथिना सुवर्णा देवौ पश्यन्तौ भुवनानि विश्वा ।
अपिप्रयं चोदना वां मिमाना होतारा ज्योतिः प्रदिशा दिशन्ता ॥

29.8
आदित्यैर् नो भारती वष्टु यज्ञँ सरस्वती सह रुद्रैर् न ऽ आवीत् ।
इडोपहूता वसुभिः सजोषा यज्ञं नो देवीर् अमृतेषु धत्त ॥

29.9
त्वष्टा वीरं देवकामं जजान त्वष्टुर् अर्वा जायत ऽ आशुर् अश्वः ।
त्वष्टेदं विश्वं भुवनं जजान बहोः कर्तारम् इह यक्षि होतः ॥

29.10
अश्वो घृतेन त्मन्या समक्त ऽ उप देवाँ२ऽ ऋतुशः पाथ ऽ एतु ।
वनस्पतिर् देवलोकं प्रजानन्न् अग्निना हव्या स्वदितानि वक्षत् ॥

29.11
प्रजापतेस् तपसा वावृधानः सद्यो जातो दधिषे यज्ञम् अग्ने ।
स्वाहाकृतेन हविषा पुरोगा याहि साध्या हविर् अदन्तु देवाः ॥

29.12
यद् अक्रन्दः प्रथमं जायमान ऽ उद्यन्त् समुद्राद् उत वा पुरीषात् ।
श्येनस्य पक्षा हरिणस्य बाहू ऽ उपस्तुत्यं महि जातं ते ऽ अर्वन् ॥

29.13
यमेन दत्तं त्रित ऽ एनम् आयुनग् इन्द्र ऽ एणं प्रथमो ऽ अध्य् अतिष्ठत् ।
गन्धर्वो ऽ अस्य रशनाम् अगृभ्णात् सूराद् अश्वं वसवो निर् अतष्ट ॥

29.14
असि यमो ऽ अस्य् आदित्यो ऽ अर्वन्न् असि त्रितो गुह्येन व्रतेन ।
असि सोमेन समया विपृक्त ऽ आहुस् ते त्रीणि दिवि बन्धनानि ॥

29.15
त्रीणि त ऽ आहुर् दिवि बन्धनानि त्रीण्य् अप्सु त्रीण्य् अन्तः समुद्रे ।
उतेव मे वरुणश् छन्त्स्य् अर्वन् यत्रा त ऽ आहुः परमं जनित्रम् ॥

29.16
इमा ते वाजिन्न् अवमार्जनानीमा शफानाँ सनितुर् निधाना ।
अत्रा ते भद्रा रशना ऽ अपश्यम् ऋतस्य या ऽ अभिरक्षन्ति गोपाः ॥

29.17
आत्मानं ते मनसाराद् अजानाम् अवो दिवा पतयन्तं पतङ्गम् ।
शिरो ऽ अपश्यं पथिभिः सुगेभिर् अरेणुभिर् जेहमानं पतत्रि ॥

29.18
अत्रा ते रूपम् उत्तमम् अपश्यं जिगीषमाणम् इष ऽ आ पदे गोः ।
यदा ते मर्तो ऽ अनु भोगम् आनड् आद् इद् ग्रसिष्ठ ऽ ओषधीर् अजीगः ॥

29.19
अनु त्वा रथो ऽ अनु मर्यो ऽ अर्वन्न् अनु गावो ऽनु भगः कनीनाम् ।
अनु व्रातासस् तव सख्यम् ईयुर् अनु देवा ममिरे वीर्यं ते ॥

29.20
हिरण्यशृङ्गो ऽयो अस्य पादा मनोजवा ऽ अवर इन्द्र ऽ आसीत् ।
देवा ऽ इद् अस्य हविरद्यम् आयन् यो ऽ अर्वन्तं प्रथमो ऽ अध्यतिष्ठत् ॥

29.21
ईर्मान्तासः सिलिकमध्यमासः सँ शूरणासो दिव्यासो ऽ अत्याः ।
हँसा ऽ इव श्रेणिशो यतन्ते यद् आक्षिषुर् दिव्यम् अज्मम् अश्वाः ॥

29.22
तव शरीरं पतयिष्ण्व् अर्वन् तव चित्तं वात ऽ इव ध्रजीमान् ।
तव शृङ्गाणि विष्ठिता पुरुत्रारण्येषु जर्भुराणा चरन्ति ॥

29.23
उप प्रागाच् छसनं वाज्य् अर्वा देवद्रीचा मनसा दीध्यानः ।
अजः पुरो नीयते नाभिर् अस्यानु पश्चात् कवयो यन्ति रेभाः ॥

29.24
उप प्रागात् परमं यत् सधस्थम् अर्वाँ२ऽ अच्छा पितरं मातरं च ।
अद्या देवान् जुष्टतमो हि गम्या ऽ अथा शास्ते दाशुषे वार्याणि ॥

29.25
समिद्धो ऽ अद्य मनुषो दुरोणे देवो देवान् यजसि जातवेदः ।
आ च वह मित्रमहश् चिकित्वान् त्वं दूतः कविर् असि प्रचेताः ॥

29.26
तनूनपात् पथ ऽ ऋतस्य यानान् मध्वा समञ्जन्त् स्वदया सुजिह्व ।
मन्मानि धीभिर् उत यज्ञम् ऋन्धन् देवत्रा च कृणुह्य् अध्वरं नः ॥

29.27
नराशँसस्य महिमानम् एषाम् उप स्तोषाम यजतस्य यज्ञैः ।
ये सुक्रतवः शुचयो धियन्धाः स्वदन्ति देवा ऽ उभयानि हव्या ॥

29.28
आजुह्वान ऽ ईड्यो वन्द्यश् चा याह्य् अग्ने वसुभिः सजोषाः ।
त्वं देवानाम् असि यह्व होता स ऽ एनान् यक्षीषितो यजीयान् ॥

29.29
प्राचीनं बर्हिः प्रदिशा पृथिव्या वस्तोर् अस्या वृज्यते ऽ अग्रे ऽ अह्नाम् ।
व्य् उ प्रथते वितरं वरीयो देवेभ्यो ऽ अदितये स्योनम् ॥

29.30
व्यचस्वतीर् उर्विया वि श्रयन्तां पतिभ्यो न जनयः शुम्भमानाः ।
देवीर् द्वारो बृहतीर् विश्वमिन्वा देवेभ्यो भवत सुप्रायणाः ॥

29.31
आ सुष्वयन्ती यजते ऽ उपाके ऽ उषासानक्ता सदतां नि योनौ ।
दिव्ये योषणे बृहती सुरुक्मे ऽ अधि श्रियँ शुक्रपिशं दधाने ॥

29.32
दैव्या होतारा प्रथमा सुवाचा मिमाना यज्ञं मनुषो यजध्यै ।
प्रचोदयन्ता विदथेषु कारू प्राचीनं ज्योतिः प्रदिशा दिशन्ता ॥

29.33
आ नो यज्ञं भारती तूयम् एत्व् इडा मनुष्वद् इह चेतयन्ती ।
तिस्रो देवीर् बर्हिर् एदँ स्योनँ सरस्वती स्वपसः सदन्तु ॥

29.34
य ऽ इमे द्यावापृथिवी जनित्री रूपइर् अपिँशद् भुवनानि विश्वा ।
तम् अद्य होतर् इषितो यजीयान् देवं त्वष्टारम् इह यक्षि विद्वान् ॥

29.35
उपाव सृज त्मन्या समञ्जन् देवानां पाथ ऽ ऋतुथा हवीँषि ।
वनस्पतिः शमिता देवो ऽ अग्निः स्वदन्तु हव्यं मधुना घृतेन ॥

29.36
सद्यो जातो व्यमिमीत यज्ञम् अग्निर् देवानाम् अभवत् पुरोगाः ।
अस्य होतुः प्रदिश्य् ऋतस्य वाचि स्वाहाकृतँ हविर् अदन्तु देवाः ॥

29.37
केतुं कृण्वन्न् अकेतवे पेशो मर्या ऽ अपेशसे ।
सम् उषद्भिर् अजायथाः ॥

29.38
जीमूतस्येव भवति प्रतीकं यद् वर्मी याति समदाम् उपस्थे ।
अनाविद्धया तन्वा जय त्वँ स त्वा वर्मणो महिमा पिपर्तु ॥

29.39
धन्वना गा धन्वनाजिं जयेम धन्वना तीव्राः समदो जयेम ।
धनुः शत्रोर् अपकामं कृणोति धन्वना सर्वाः प्रदिशो जयेम ॥

29.40
वक्ष्यन्तीवेद् आ गनीगन्ति कर्णं प्रियँ सखायं परिषस्वजाना ।
योषेव शिङ्क्ते वितताधि धन्वन् ज्या इयँ समने पारयन्ती ॥

29.41
ते ऽ आचरन्ती समनेव योषा मातेव पुत्रं बिभृताम् उपस्थे ।
अप शत्रून् विध्यताँ संविदाने ऽ आर्त्नी इमे विष्फुरन्ती ऽ अमित्रान् ॥

29.42
बह्वीनां पिता बहुर् अस्य पुत्रश् चिश्चा कृणोति समनावगत्य ।
इषुधिः सङ्काः पृतनाश् च सर्वाः पृष्ठे निनद्धो जयति प्रसूतः ॥

29.43
रथे तिष्ठन् नयति वाजिनः पुरो यत्र-यत्र कामयते सुषारथिः ।
अभीशूनां महिमानं पनायत मनः पश्चाद् अनु यच्छन्ति रश्मयः ॥

29.44
तीव्रान् घोषान् कृण्वते वृषपाणयो ऽश्वा रथेभिः सह वाजयन्तः ।
अवक्रामन्तः प्रपदैर् अमित्रान् क्षिणन्ति शत्रूँ१ऽ रनपव्ययन्तः ॥

29.45
रथवाहनँ हविर् अस्य नाम यत्रायुधं निहितम् अस्य वर्म ।
तत्रा रथम् उप शग्मँ सदेम विश्वाहा वयँ सुमनस्यमानाः ॥

29.46
स्वादुषँसदः पितरो वयोधाः कृच्छ्रेश्रितः शक्तीवन्तो गभीराः ।
चित्रसेना ऽ इषुबला ऽ अमृध्राः सतोवीरा ऽ उरवो व्रातसाहाः ॥

29.47
ब्राह्मणासः पितरः सोम्यासः शिवे नो द्यावापृथिवी ऽ अनेहसा ।
पूषा नः पातु दुरिताद् ऋतावृधो रक्षा माकिर् नो ऽ अघशँस ऽ ईशत ॥

29.48
सुपर्णं वस्ते मृगो ऽ अस्या दन्तो गोभिः सन्नद्धा पतति प्रसूता ।
यत्रा नरः सं च वि च द्रवन्ति तत्रास्मभ्यम् इषवः शर्म यँसन् ॥

29.49
ऋजीते परि वृङ्धि नो ऽश्मा भवतु नस् तनूः ।
सोमो ऽ अधि ब्रवीतु नो ऽदितिः शर्म यच्छतु ॥

29.50
आ जङ्घन्ति सान्व् एषां जघनाँ२ऽ उप जिघ्नते ।
अश्वाजनि प्रचेतसो ऽश्वान्त् समत्सु चोदय ॥

29.51
अहिर् इव भोगैः पर्य् एति बाहुं ज्याया हेतिं परिबाधमानः ।
हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमाँसं परि पातु विश्वतः ॥

29.52
वनस्पते वीड्वङ्गो हि भूया ऽ अस्मत्सखा प्रतरणः सुवीरः ।
गोभिः सन्नद्धो ऽ असि वीडयस्वास्थाता ते जयतु जेत्वानि ॥

29.53
दिवः पृथिव्याः पर्य् ओज ऽ उद्भृतं वनस्पतिभ्यः पर्य् आभृतँ सहः ।
अपाम् ओज्मानं परि गोभिर् आवृतम् इन्द्रस्य वज्रँ हविषा रथं यज ॥

29.54
इन्द्रस्य वज्रो मरुताम् अनीकं मित्रस्य गर्भो वरुणस्य नाभिः ।
सेमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय ॥

29.55
उप श्वासय पृथिवीम् उत द्यां पुरुत्रा ते मनुतां विष्ठितं जगत् ।
स दुन्दुभे सजूर् इन्द्रेण देवैर् दूराद् दवीयो ऽ अप सेध शत्रून् ॥

29.56
आ क्रन्दय बलम् ओजो न ऽ आ धा नि ष्टनिहि दुरिता बाधमानः ।
अप प्रोथ दुन्दुभे दुच्छुना ऽ इत ऽ इन्द्रस्य मुष्टिर् असि वीडयस्व ॥

29.57
आमूर् अज प्रत्या वर्तयेमाः केतुमद् दुन्दुभिर् वावदीति ।
सम् अश्वपर्णाश् चरन्ति नो नरो ऽस्माकम् इन्द्र रथिनो जयन्तु ॥

29.58
आग्नेयः कृष्णग्रीवः सारस्वती मेषी बभ्रुः सौम्यः पौष्णः श्यामः शितिपृष्ठो बार्हस्पत्यः शिल्पो वैश्वदेव ऽ ऐन्द्रो ऽरुणो मारुतः कल्माष ऽ ऐन्द्राग्नः सँहितो ऽधोरामः सावित्रो वारुणः कृष्ण ऽ एकशितिपात् पेत्वः ॥

29.59
अग्नये ऽनीकवते रोहिताञ्जिर् अनड्वान् अधोरामौ सावित्रौ पौष्णौ रजतनाभी वैश्वदेवौ पिशङ्गौ तूपरु मारुतः कल्माष ऽ आग्नेयः कृष्णो ऽजः सारस्वती मेषी वारुणः पेत्वः ॥

29.60
अग्नये गायत्राय त्रिवृते राथन्तरायाष्टाकपाल ऽ इन्द्राय त्रैष्टुभाय पञ्चदशाय बर्हतायैकादशकपालो विश्वेभ्यो देवेभ्यो जागतेभ्यः सप्तदशेभ्यो वैरूपेभ्यो द्वादशकपालो मित्रावरुणाभ्याम् आनुष्टुभाभ्याम् एकविँशाभ्यां वैराजाभ्यां पयस्या बृहस्पतये पाङ्क्ताय त्रिणवाय शाक्वराय चरुः सवित्र ऽ औष्णिहाय त्रयस्त्रिँशाय रैवताय द्वादशकपालः प्राजापत्यश् चरुर् अदित्यै विष्णुपत्न्यै चरुर् अग्नये वैश्वानराय द्वादशकपालो ऽनुमत्या ऽ अष्टाकपालः ॥