०२८

अध्यायः 28
सौत्रामण्यङ्गभूताः पशुप्रयाजानुयाज प्रैषमन्त्राः

28.1
होता यक्षद् समिधेन्द्रम् इडस् पदे नाभा पृथिव्या ऽ अधि ।
दिवो वर्ष्मन्त् सम् इध्यत ऽ ओजिष्ठश् चर्षणीसहां वेत्व् आज्यस्य होतर् यज ॥

28.2
होता यक्षत् तनूनपातमूतिभिर् जेतारम् अपराजितम् ।
इन्द्रं देवँ स्वर्विदं पथिभिर् मधुमत्तमैर् नराशँसेन तेजसा वेत्व् आज्यस्य होतर् यज ॥

28.3
होता यक्षद् इडाभिर् इन्द्रम् ईडितम् आजुह्वानम् अमर्त्यम् ।
देवो देवैः सवीर्यो वज्रहस्तः पुरन्दरो वेत्व् आज्यस्य होतर् यज ॥

28.4
होता यक्षद् बर्हिषीन्द्रं निषद्वरं वृषभं नर्यापसम् ।
वसुभी रुद्रैर् आदित्यैः सुयुग्भिर् बर्हिर् आसदद् वेत्व् आज्यस्य होतर् यज ॥

28.5
होता यक्षद् ओजो न वीर्यँ सहो द्वार ऽ इन्द्रम् अवर्धयन् ।
सुप्रायणा ऽ अस्मिन् यज्ञे वि श्रयन्ताम् ऋतावृधो द्वार ऽ इन्द्राय मीढुषे व्यन्त्व् आज्यस्य होतर् यज ॥

28.6
होता यक्षद् उषे ऽ इन्द्रस्य धेनू सुदुघे मातरा मही ।
सवातरौ न तेजसा वत्सम् इन्द्रम् अवर्धतां वीताम् आज्यस्य होतर् यज ॥

28.7
होता यक्षद् दैव्या होतारा भिषजा सखाया हविषेन्द्रं भिषज्यतः ।
कवी देवौ प्रचेतसाव् इन्द्राय धत्त ऽ इन्द्रियं वीताम् आज्यस्य होतर् यज ॥

28.8
होता यक्षत् तिस्रो देवीर् न भेषजं त्रयस् त्रिधातवो ऽपस इडा सरस्वत् भारती महीः ।
इन्द्रपत्नीर् हविष्मतीर् व्यन्त्व् आज्यस्य होतर् यज ॥

28.9
होता यक्षत् त्वष्टारम् इन्द्रं देवं भिषजँ सुयजं घृतश्रियम् ।
पुरुरूपँ सुरेतसं मघोनम् इन्द्राय त्वष्टा दधद् इन्द्रियाणि वेत्व् आज्यस्य होतर् यज ॥

28.10
होता यक्षद् वनस्पतिँ शमितारँ शतक्रतुं धियो जोष्टारम् इन्द्रियम् ।
मध्वा समञ्जन् पथिभिः सुगेभिः स्वदाति यज्ञं मधुना घृतेन वेत्व् आज्यस्य होतर् यज ॥

28.11
होता यक्षद् इन्द्रँ स्वाहाज्यस्य स्वाहा मेदसः स्वाहा स्तोकानाँ स्वाहा स्वाहाकृतीनाँ स्वाहा हव्यसूक्तीनाम् ।
स्वाहा देवा ऽ आज्यपा जुषाणा ऽ इन्द्र आज्यस्य व्यन्तु होतर् यज ॥

28.12
देवं बर्हिर् इन्द्रँ सुदेवं देवैर् वीरवत् स्तीर्णं वेद्याम् अवर्धयत् ।
वस्तोर् वृतं प्राक्तोर् भृतँ राया बर्हिष्मतो ऽत्य् अगाद् वसुवने वसुधेयस्य वेतु यज ॥

28.13
देवीर् द्वार ऽ इन्द्रँ सङ्घाते वीड्वीर् यामन्न् अवर्धयन् ।
आ वत्सेन तरुणेन कुमारेण च मीवतापार्वाणँ रेणुककाटं नुदन्तां वसुवने वसुधेयस्य व्यन्तु यज ॥

28.14
देवी उषासानक्तेन्द्रं यज्ञे प्रयत्य् अह्वेताम् ।
दैवीर् विशः प्रायासिष्टाँ सुप्रीते सुधिते वसुवने वसुधेयस्य वीतां यज ॥

28.15
देवी जोष्ट्री वसुधिती देवम् इन्द्रम् अवर्धताम् ।
अयाव्य् अन्याघा द्वेषाँस्य् आन्या वक्षद् वसु वार्याणि यजमानाय शिक्षिते वसुवने वसुधेयस्य वीतां यज ॥

28.16
देवी ऽ ऊर्जाहुती दुघे पयसेन्द्रम् अवर्धताम् ।
इषमूर्जम् अन्या वक्षत् सग्धिँ सपीतिम् अन्या नवेन पूर्वं दयमाने पुराणेन नवम् अधातामूर्जमूर्जाहुती ऽ ऊर्जयमाने वसु वार्याणि यजमानाय शिक्षिते वसुवने वसुधेयस्य वीतां यज ॥

28.17
देवा देव्या होतारा देवम् इन्द्रम् अवर्धताम् ।
हताघशँसाव् आभार्ष्टां वसु वार्याणि यजमानाय शिक्षितौ वसुवने वसुधेयस्य वीतां यज ॥

28.18
देवीस् तिस्रस् तिस्रो देवीः पतिम् इन्द्रम् अवर्धयन् ।
अस्पृक्षद् भारती दिवँ रुद्रैर् यज्ञँ सरस्वतीडा वसुमती गृहान् वसुवने वसुधेयस्य व्यन्तु यज ॥

28.19
देव ऽ इन्द्रो नराशँसस् त्रिवरूथस् त्रिबन्धुरो देवम् इन्द्रम् अवर्धयत् ।
शतेन शितिपृष्ठानाम् आहितः सहस्रेण प्र वर्तते मित्रावरुणेद् अस्य होत्रम् अर्हतो बृहस्पति स्तोत्रम् अश्विनाध्वर्यवं वसुवने वसुधेयस्य वेतु यज ॥

28.20
देवो देवैर् वनस्पतिर् हिरण्यपर्णो मधुशाखः सुपिप्पलो देवम् इन्द्रम् अवर्धयत् ।
दिवम् अग्रेणास्पृक्षद् आन्तरिक्षं पृथिवीम् अदृँहद् वसुवने वसुधेयस्य वेतु यज ॥

28.21
देवं बर्हिर् वारितीनां देवम् इन्द्रम् अवर्धयत् ।
स्वासस्थम् इन्द्रेणासन्नम् अन्या बर्हीँष्य् अभ्य् अभूद् वसुवने वसुधेयस्य वेतु यज ॥

28.22
देवो ऽ अग्निः स्विष्टकृद् देवम् इन्द्रम् अवर्धयत् ।
स्विष्टं कुर्वन्त् स्विष्टकृत् स्विष्टम् अद्य करोतु नो वसुवने वसुधेयस्य वेतु यज ॥

28.23
अग्निम् अद्य होतारम् अवृणीतायं यजमानः पचन् पक्तीः पचन् पुरोडाशं बध्नन्न् इन्द्राय छागम् ।
सूपस्था ऽ अद्य देवो वनस्पतिर् अभवद् इन्द्राय छागेन ।
अघत् तं मेदस्तः प्रति पचताग्रभीद् अवीवृधत् पुरोडाशेन ।
त्वाम् अद्य ऽ ऋष [आर्षेय ऋषीणां नपाद् अवृणीतायं यजमानो बहुभ्य आ सङ्गतेभ्य एष मे देवेषु वसु वार्यायक्ष्यत इति ता या देवा देव दानान्य् अदुस् तान्य् अस्मा आ च शास्स्वा च गुरस्वेषितश् च होतर् असि भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहि ॥]???

28.24
होता यक्षत् समिधानं महद् यशः सुसमिद्धं वरेण्यम् अग्निम् इन्द्रं वयोधसम् ।
गायत्रीं छन्द ऽ इन्द्रियं त्र्यविं गां वयो दधद् वेत्व् आज्यस्य होतर् यज ॥

28.25
होता यक्षत् तनूनपातम् उद्भिदं यं गर्भम् अदितिर् दधे शुचिम् इन्द्रं वयोधसम् ।
उष्णिहं छन्द ऽ इन्द्रियं दित्यवाहं गां वयो दधद् वेत्व् आज्यस्य होतर् यज ॥

28.26
होता यक्षद् ईडेन्यम् ईडितं वृत्रहन्तमम् इडाभिर् ईड्यँ सहः सोमम् इन्द्रँ वयोधसम् ।
अनुष्टुभं छन्द ऽ इन्द्रियं पञ्चाविं गां वयो दधद् वेत्व् आज्यस्य होतर् यज ॥

28.27
होता यक्षत् सुबर्हिषं पूषण्वन्तम् अमर्त्यँ सीदन्तं बर्हिषि प्रिये ऽमृतेन्द्रं वयोधसम् ।
बृहतीं छन्द ऽ इन्द्रियं त्रिवत्सं गां वयो दधद् वेत्व् आज्यस्य होतर् यज ॥

28.28
होता यक्षद् व्यचस्वतीः सुप्रायणा ऽ ऋतावृधो द्वारो देवीर् हिरण्ययीर् ब्रह्माणम् इन्द्रं वयोधसम् ।
पङ्क्तिं छन्द ऽ इहेन्द्रियं तुर्यवाहं गां वयो दधद् व्यन्त्व् आज्यस्य होतर् यज ॥

28.29
होता यक्षत् सुपेशसा सुशिल्पे बृहती ऽ उभे नक्तोषासा न दर्शते विश्वम् इन्द्रं वयोधसम् ।
त्रिष्टुभं छन्द ऽ इहेन्द्रियं पष्ठवाहं गां वयो दधद् वीताम् आज्यस्य होतर् यज ॥

28.30
होता यक्षत् प्रचेतसा देवानाम् उत्तमं यशो होतारा दैव्या कवी सयुजेन्द्रं वयोधसम् ।
जगतीं छन्द ऽ इन्द्रियम् अनड्वाहं गां वयो दधद् वीताम् आज्यस्य होतर् यज ॥

28.31
होता यक्षत् पेशस्वतीस् तिस्रो देवीर् हिरण्ययीर् भारतीर् बृहतीर् महीः पतिम् इन्द्रं वयोधसम् ।
विराजं छन्द ऽ इहेन्द्रियं धेनुं गां न वयो दधद् व्यन्त्व् आज्यस्य होतर् यज ॥

28.32
होता यक्षत् सुरेतसं त्वष्टारं पुष्टिवर्धनँ रूपाणि बिभ्रतं पृथक् पुष्टिम् इन्द्रं वयोधसम् ।
द्विपदं छन्द ऽ इन्द्रियम् उक्षाणं गां न वयो दधद् वेत्व् आज्यस्य होतर् यज ॥

28.33
होता यक्षद् वनस्पतिँ शमितारँ शतक्रतुँ हिरण्यपर्णम् उक्थिनँ रशनां बिभ्रतं वशिं भगम् इन्द्रं वयोधसम् ।
ककुभं छन्द ऽ इहेन्द्रियं वशां वेहतं गां वयो दधद् वेत्व् आज्यस्य होतर् यज ॥

28.34
होता यक्षत् स्वाहाकृतीर् अग्निं गृहपतिं पृथग् वरुणं भेषजं कविं क्षत्रम् इन्द्रं वयोधसम् ।
अतिच्छन्दसं छन्द ऽ इन्द्रियं बृहद् ऋषभं गां वयो दधद् व्यन्त्व् आज्यस्य होतर् यज ॥

28.35
देवं बर्हिर् वयोधसं देवम् इन्द्रम् अवर्धयत् ।
गायत्र्या छन्दसेन्द्रियं चक्षुर् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वेतु यज ॥

28.36
देवीर् द्वारो वयोधसँ शुचिम् इन्द्रम् अवर्धयन् ।
उष्णिहा छन्दसेन्द्रियं प्राणम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य व्यन्तु यज ॥

28.37
देवी ऽ उषासानक्ता देवम् इन्द्रं वयोधसं देवी देवम् अवर्धताम् ।
अनुष्टुभा छन्दसेन्द्रियं बलम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वीतां यज ॥

28.38
देवी जोष्ट्री वसुधिती देवम् इन्द्रं वयोधसं देवी देवम् अवर्धताम् ।
बृहत्या छन्दसेन्द्रियँ श्रोत्रम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वीतां यज ॥

28.39
देवी ऽ ऊर्जाहुती दुघे सुदुघे पयसेन्द्रं वयोधसं देवी देवम् अवर्धताम् ।
पङ्क्त्या छन्दसेन्द्रियँ शुक्रम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वीतां यज ॥

28.40
देवा दैव्या होतारा देवम् इन्द्रं वयोधसं देवौ देवम् अवर्धताम् ।
त्रिष्टुभा छन्दसेन्द्रियं त्विषिम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वीतां यज ॥

28.41
देवीस् तिस्रस् तिस्रो देवीर् वयोधसं पतिम् इन्द्रम् अवर्धयन् ।
जगत्या छन्दसेन्द्रियँ शूषम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य व्यन्तु यज ॥

28.42
देवो नराशँसो देवम् इन्द्रं वयोधसं देवो देवम् अवर्धयत् ।
विराजा छन्दसेन्द्रियँ रुपम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वेतु यज ॥

28.43
देवो वनस्पतिर् देवम् इन्द्रं वयोधसं देवो देवम् अवर्धयत् ।
द्विपदा छन्दसेन्द्रियं भगम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वेतु यज ॥

28.44
देवं बर्हिर् वारितीनां देवम् इन्द्रं वयोधसं देवं देवम् अवर्धयत् ।
ककुभा छन्दसेन्द्रियं यश ऽ इन्द्रे वयो दधद् वसुवने वसुधेयस्य वेतु यज ॥

28.45
देवो ऽ अग्निः स्विष्टकृद् देवम् इन्द्रं वयोधसं देवो देवम् अवर्धयत् ।
अतिच्छन्दसा छन्दसेन्द्रियं क्षत्रम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वेतु यज ॥

28.46
अग्निम् अद्य होतारम् अवृणीतायं यजमानः पचन् पक्तीः पचन् पुरोडाशं बध्नन्न् इन्द्राय वयोधसे छागम् ।
सूयस्था ऽ अद्य देवो वनस्पतिर् अभवद् इन्द्राय वयोधसे छागेन ।
अघत् तं मेदस्तः प्रति पचताग्रभीद् अवीवृधत् पुरोडाशेन ।
त्वाम् अद्य ऽ ऋष [आर्षेय ऋषीणां नपाद् अवृणीतायं यजमानो बहुभ्य आ सङ्गतेभ्य एष मे देवेषु वसु वार्यायक्ष्यत इति ता या देवा देव दानान्य् अदुस् तान्य् अस्मा आ च शास्स्वा च गुरस्वेषितश् च होतर् असि भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहि ॥ ]