०२७

अध्यायः 27
पञ्चचितिकस्याग्नेः मन्त्राः

27.1
समास् त्वाग्न ऽ ऋतवो वर्धयन्तु संवत्सरा ऽ ऋषयो यानि सत्या ।
सं दिव्येन दीदिहि रोचनेन विश्वा ऽ आ भाहि प्रदिशश् चतस्रः ॥

27.2
सं चेध्यस्वाग्ने प्र च बोधयैनम् उच् च तिष्ठ महते सौभगाय ।
मा च रिषद् उपसत्ता ते ऽ अग्ने ब्रह्माणस् ते यशसः सन्तु मा ऽन्ये ॥

27.3
त्वाम् अग्ने वृणते ब्राह्मणा ऽ इमे शिवो ऽ अग्ने संवरणे भवा नः ।
सपत्नहा नो ऽ अभिमातिजिच् च स्वे गये जागृह्य् अप्रयुच्छन् ॥

27.4
इहैवाग्ने ऽ अधि धारया रयिं मा त्वा नि क्रन् पूर्वचितो निकारिणः ।
क्षत्रम् अग्ने सुयमम् अस्तु तुभ्यम् उपसत्ता वर्धतां ते ऽ अनिष्टृतः ॥

27.5
क्षत्रेणाग्ने स्वायुः सँ रभस्व मित्रेणाग्ने मित्रधेये यतस्व ।
सजातानां मध्यमस्था ऽ एधि राज्ञाम् अग्ने विहव्यो दीदिहीह ॥

27.6
अति निहो ऽ अति स्रिधो ऽत्य् अचित्तिम् अत्य् अरातिम् अग्ने ।
विश्वा ह्य् अग्ने दुरिता सहस्वाथास्मभ्यँ सहवीराँ रयिं दाः ॥

27.7
अनाधृष्यो जातवेदा ऽ अनाधृष्टो विराड् अग्ने क्षत्रभृद् दीदिहीह ।
विश्वा ऽ आशाः प्रमुञ्चन् मानुषीर् भयः शिवेभिर् अद्य परि पाहि नो वृधे ॥

27.8
बृहस्पते सवितर् बोधयैनँ सँशितं चित् सन्तराँ सँ शिशाधि ।
वर्धयैनं महते सौभगाय विश्व ऽ एनम् अनु मदन्तु देवाः ॥

27.9
अमुत्रभूयादध यद् यमस्य बृहस्पते ऽ अभिशस्तेर् अमुञ्चः ।
प्रत्य् औहताम् अश्विना मृत्युम् अस्माद् देवानाम् अग्ने भिषजा शचीभिः ॥

27.10
उद् वयं तमसस् परि स्वः पश्यन्त ऽ उत्तरम् ।
देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् ॥

27.11
ऊर्ध्वा ऽ अस्य समिधो भवन्त्य् ऊर्ध्वा शुक्रा शोचीँष्य् अग्नेः ।
द्युमत्तमा सुप्रतीकस्य सूनोः ॥

27.12
तनूनपाद् असुरो विश्ववेदा देवो देवेषु देवः ।
पथो अनक्तु मध्वा घृतेन ॥

27.13
मध्वा यज्ञं नक्षसे प्रीणानो नराशँसो ऽ अग्ने ।
सुकृद् देवः सविता विश्ववारः ॥

27.14
अच्छायम् एति शवसा घृतेनेडानो वह्निर् नमसा ।
अग्निँ स्रुचो ऽ अध्वरेषु प्रयत्सु ॥

27.15
स यक्षद् अस्य महिमानम् अग्नेः स ऽ ईं मन्द्रा सुप्रयसः ।
वसुश्चेतिष्ठो वसुधातमश् च ॥

27.16
द्वारो देवीर् अन्व् अस्य विश्वे व्रता ददन्ते ऽ अग्नेः ।
उरुव्यचसो धाम्ना पत्यमानाः ॥

27.17
ते ऽ अस्य योषणे दिव्ये न योना ऽ उषासानक्ता ।
इमं यज्ञम् अवताम् अध्वरं नः ॥

27.18
दैव्या होतारा ऽ ऊर्ध्वम् अध्वरं नो ऽग्नेर् जिह्वाम् अभि गृणीतम् ।
कृणुतम् नः स्विष्टम् ॥

27.19
तिस्रो देवीर् बर्हिर् इदँ सदन्त्व् इडा सरस्वती भारती ।
मही गृणाना ॥

27.20
तन् नस् तुरीपम् अद्भुतं पुरुक्षु त्वष्टा सुवीर्यम् ।
रायस्पोषं वि ष्यतु नाभिम् अस्मे ॥

27.21
वनस्पते ऽव सृजा रराणस् त्मना देवेषु ।
अग्निर् हव्यँ शमिता सूदयाति ॥

27.22
अग्ने स्वाहा कृणुहि जातवेदो ऽ इन्द्राय हव्यम् ।
विश्वे देवा हविर् इदं जुषन्ताम् ॥

27.23
पीवो ऽ अन्ना रयिवृधः सुमेधाः श्वेतः सिषक्ति नियुताम् अभिश्रीः ।
ते वायवे समनसो वि तस्थुर् विश्वेन् नरः स्वपत्यानि चक्रुः ॥

27.24
राये नु यं जज्ञतू रोदसीमे राये देवी धिषणा धाति देवम् ।
अध वायुं नियुतः सश्चत स्वा ऽ उत श्वेतं वसुधितिं निरेके ॥

27.25
आपो ह यद् बृहतीर् विश्वम् आयन् गर्भं दधाना जनयन्तीर् अग्निम् ।
ततो देवानाँ सम् अवर्ततासुरेकः कस्मै देवाय हविषा विधेम ॥

27.26
यश् चिद् आपो महिना पर्यपश्यद् दक्षं दधाना जनयन्तीर् यज्ञम् ।
यो देवेष्व् अधि देव ऽ एक ऽ आसीत् कस्मै देवाय हविषा विधेम ॥

27.27
प्र याभिर् यासि दाश्वाँसम् अच्छा नियुद्भिर् वायविष्टये दुरोणे ।
नि नो रयिँ सुभोजसं युवस्व नि वीरं गव्यम् अश्व्यं च राधः ॥

27.28
आ नो नियुद्भिः शतिनीभिर् अध्वरँ सहस्रिणीभिर् उप याहि यज्ञम् ।
वायो ऽ अस्मिन् सवने मादयस्व यूयं पात स्वस्तिभिः सदा नः ॥

27.29
नियुत्वान् वायवा गह्य् अयँ शुक्रो अयामि ते ।
गन्तासि सुन्वतो गृहम् ॥

27.30
वायो शुक्रो ऽ अयामि ते मध्वो ऽ अग्रं दिविष्टिषु ।
आ याहि सोमपीतये स्पार्हो देव नियुत्वता ॥

27.31
वायुर् अग्रेगा यज्ञप्रीः साकं गन् मनसा यज्ञम् ।
शिवो नियुद्भिः शिवाभिः ॥

27.32
वायो ये ते सहस्रिणो रथासस् तेभिर् आ गहि ।
नियुत्वान्त् सोमपीतये ॥

27.33
एकया च दशभिश् च स्वभूते द्वाभ्याम् इष्टये विँशती च ।
तिसृभिश् च वहसे त्रिँशता च नियुद्भिर् वायव् इह ता वि मुञ्च ॥

27.34
तव वायवृतस्पते त्वष्टुर् जामातर् अद्भुत ।
अवाँस्य् आ वृणीमहे ॥

27.35
अभि त्वा शूर नोनुमो ऽदुग्धा इव धेनवः ।
ईशानम् अस्य जगतः स्वर्दृशम् ईशानम् इन्द्र तस्थुषः ॥

27.36
न त्वावाँ२ऽ अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते ।
अश्वायन्तो मघवन्न् इन्द्र वाजिनो गव्यन्तस् त्वा हवामहे ॥

27.37
त्वाम् इद्धि हवामहे साता वाजस्य कारवः ।
त्वां वृत्रेष्व् इन्द्र सत्पतिं नरस् त्वां काष्ठास्व् अर्वतः ॥

27.38
स त्वं नश् चित्र वज्रहस्त धृष्णुया मह स्तवानो ऽ अद्रिवः ।
गाम् अश्वँ रथ्यम् इन्द्र सं किर सत्रा वाजं न जिग्युषे ॥

27.39
कया नश् चित्र ऽ आ भुवद् ऊती सदावृधः सखा ।
कया शचिष्ठया वृता ॥

27.40
कस् त्वा सत्यो मदानां मँहिष्ठो मत्सद् अन्धसः ।
दृढा चिद् आरुजे वसु ॥

27.41
अभी षु णः सखीनाम् अविता जरितॄणाम् ।
शतं भवास्य् ऊतये ॥

27.42
यज्ञा-यज्ञा वो ऽ अग्नये गिरा-गिरा च दक्षसे ।
प्र-प्र वयम् अमृतं जातवेदसं प्रियं मित्रं न शँसिषम् ॥

27.43
पाहि नो ऽ अग्न ऽ एकया पाह्य् उत द्वितीयया ।
पाहि गीर्भिस् तिसृभिर् ऊर्जां पते पाहि चतसृभिर् वसो ॥

27.44
ऊर्जो नपातँ स हिनायम् अस्मयुर् दाशेम हव्यदातये ।
भुवद् वाजेष्व् अविता भुवद् वृध ऽ उत त्राता तनूनाम् ॥

27.45
संवत्सरो ऽसि परिवत्सरोऽसीदावत्सरो ऽसीद्वत्सरो ऽसि वत्सरो ऽसि ।
उषसस् ते कल्पन्ताम् अहोरात्रास् ते कल्पन्ताम् अर्धमासास् ते कल्पन्तां मासास् ते कल्पन्ताम् ऋतवस् ते कल्पन्ताँ संवत्सरस् ते कल्पताम् ।
प्रेत्या ऽ एत्यै सं चाञ्च प्र च सारय ।
सुपर्णचिद् असि तया देवतयाङ्गिरस्वद् ध्रुवः सीद ॥