०२३

अध्यायः 23
आश्वमेधिकाहुति मन्त्राः

23.1
हिरण्यगर्भः सम् अवर्तताग्रे भूतस्य जातः पतिर् एक ऽ आसीत् ।
स दाधार पृथिवीं द्याम् उतेमां कस्मै देवाय हविषा विधेम ॥

23.2
उपयामगृहीतो ऽसि प्रजापतये त्वा जुष्टं गृह्णामि ।
एष ते योनिः सूर्यस् ते महिमा ।
यस् ते ऽहन्त् संवत्सरे महिमा सम्बभूव यस् ते वायाव् अन्तरिक्षे महिमा सम्बभूव यस् ते दिवि सूर्ये महिमा सम्बभूव तस्मै ते महिम्ने प्रजापतये स्वाहा देवेभ्यः ॥

23.3
यः प्राणतो निमिषतो महित्वैक ऽ इद् राजा जगतो बभूव ।
य ऽ ईशे ऽ अस्य द्विपदश् चतुष्पदः कस्मै देवाय हविषा विधेम ॥

23.4
उपयामगृहीतो ऽसि प्रजापतये त्वा जुष्टं गृह्णामि ।
एष ते योनिश् चन्द्रस् ते महिमा ।
यस् ते रात्रौ संवत्सरे महिमा सम्बभूव यस् ते पृथिव्याम् अग्नौ महिमा सम्बभूव यस् ते नक्षत्रेषु चन्द्रमसि महिमा सम्बभूव तस्मै ते महिम्ने प्रजापतये देवेभ्यः स्वाहा ॥

23.5
युञ्जन्ति ब्रध्नम् अरुषं चरन्तं परि तस्थुषः ।
रोचन्ते रोचना दिवि ॥

23.6
युञ्जन्त्य् अस्य काम्या हरी विपक्षसा रथे ।
शोणा धृष्णू नृवाहसा ॥

23.7
यद् वातो ऽ अपो ऽ अगनीगन् प्रियाम् इन्द्रस्य तन्वम् ।
एतँ स्तोतर् अनेन पथा पुनर् अश्वम् आ वर्तयासि नः ॥

23.8
वसवस् त्वाञ्जन्तु गायत्रेण छन्दसा ।
रुद्रास् त्वाञ्जन्तु त्रैष्टुभेन छन्दसा ।
आदित्यास् त्वाञ्जन्तु जागतेन छन्दसा ।
भूर् भुवः स्वर् लाजी3ञ् छाची3न् यव्ये गव्यऽ एतद् अन्नम् अत्त देवा ऽ एतद् अन्नम् अद्धि प्रजापते ॥

23.9
कः स्विद् एकाकी चरति क ऽ उ स्विज् जायते पुनः ।
किँ स्विद्धिमस्य भेषजं किम् व् आवपनं महत् ॥

23.10
सूर्य ऽ एकाकी चरति चन्द्रमा जायते पुनः ।
अग्निर् हिमस्य भेषजं भूमिर् आवपनं महत् ॥

23.11
का स्विद् आसीत् पूर्वचित्तिः किँ स्विद् आसीद् बृहद् वयः ।
का स्विद् आसीत् पिलिप्पिला का स्विद् आसीत् पिशङ्गिला ॥

23.12
द्यौर् आसीत् पूर्वचित्तिः अश्व ऽ आसीद् बृहद् वयः ।
अविर् आसीत् पिलिप्पिला रात्रिर् आसीत् पिशङ्गिला ॥

23.13
वायुष् ट्वा पचतैर् अवतु ।
असितग्रीवश् छागैः ।
न्यग्रोधश् चमसैः ।
शल्मलिर् वृद्ध्या ।
एष स्य राथ्यो वृषा ।
पड्भिश् चतुर्भिर् एद् अगन् ।
ब्रह्माकृष्णश् च नो ऽवतु ।
नमो ऽग्नये ॥

23.14
सँशितो रश्मिना रथः सँशितो रश्मिना हयः ।
सँशितो अप्स्व् अप्सुजा ब्रह्मा सोमपुरोगवः ॥

23.15
स्वयं वाजिँस् तन्वं कल्पयस्व स्वयं यजस्व स्वयं जुषस्व ।
महिमा ते ऽन्येन न सन्नशे ॥

23.16
न वा ऽ उ ऽ एतन् म्रियसे न रिष्यसि देवाँ२ऽ इद् एषि पथिभिः सुगेभिः ।
यत्रासते सुकृतो यत्र ते ययुस् तत्र त्वा देवः सविता दधातु ॥

23.17
अग्निः पशुर् आसीत् तेनायजन्त स ऽ एतं लोकम् अजयद् यस्मिन्न् अग्निः स ते लोको भविष्यति तं जेष्यसि पिबैता ऽ अपः ।
वायुः पशुर् आसीत् तेनायजन्त स ऽ एतं लोकम् अजयद् यस्मिन् वायुः स ते लोको भविष्यति तं जेष्यसि पिबैता ऽ अपः ।
सूर्यः पशुर् आसीत् तेनायजन्त स ऽ एतं लोकम् अजयद् यस्मिन्त् सूर्यः स ते लोको भविष्यति तं जेष्यसि पिबैता ऽ अपः ॥

23.18
प्राणाय स्वाहा ।
अपानाय स्वाहा ।
व्यानाय स्वाहा अम्बे ऽ अम्बिके ऽम्बालिके न मा नयति कश् चन ।
ससस्त्य् अश्वकः सुभद्रिकां काम्पीलवासिनीम् ॥

23.19
गणानां त्वा गणपतिँ हवामहे प्रियाणां त्वा प्रियपतिँ हवामहे निधीनां त्वा निधिपतिँ हवामहे वसो मम ।
आहम् अजानि गर्भधम् आ त्वम् अजासि गर्भधम् ॥

23.20
ता ऽ उभौ चतुरः पदः सम्प्र सारयाव स्वर्गे लोके प्रोर्णुवाथां वृषा वाजी रेतोधा रेतो दधातु ॥

23.21
उत्सक्थ्या ऽ अव गुदं धेहि सम् अञ्जिं चारया वृषन् ।
य स्त्रीणां जीवभोजनः ॥

23.22
यकासकौ शकुन्तिकाहलग् इति वञ्चति ।
आ हन्ति गभे पसो निगल्गलीति धारका ॥

23.23
यको ऽसकौ शकुन्तक ऽ आहलग् इति वञ्चति ।
विवक्षत ऽ इव ते मुखम् अध्वर्यो मा नस् त्वम् अभि भाषथाः ॥

23.24
माता च ते पिता च ते ऽग्रं वृक्षस्य रोहतः ।
प्रतिलामीति ते पिता गभे मुष्टिम् अतँसयत् ॥

23.25
माता च ते पिता च ते ऽग्रे वृक्षस्य क्रीडतः ।
विवक्षत ऽइव ते मुखं ब्रह्मन् मा नस् त्वं वदो बहु ॥

23.26
ऊर्ध्वम् एनाम् उच्छ्रापय गिरौ भारँ हरन्न् इव ।
अथास्यै मध्यम् एधताँ शीते वाते पुनन्न् इव ॥

23.27
ऊर्ध्वम् एनम् उच्छ्रापय गिरौ भारँ हरन्न् इव ।
अथास्य मध्यम् एजतु शीते वाते पुनन्न् इव ॥

23.28
यद् अस्या ऽ अँहुभेद्याः कृधु स्थूलम् उपातसत् ।
मुष्काविदस्या ऽ एजतो गोशफे शकुलाव् इव ॥

23.29
यद् देवासो ललामगुं प्र विष्टीमिनम् आविषुः ।
सक्थ्ना देदिश्यते नारी सत्यस्याक्षिभुवो यथा ॥

23.30
यद्धरिणो यवम् अत्ति न पुष्टं पशु मन्यते ।
शूद्रा यद् अर्यजारा न पोषाय धनायति ॥

23.31
यद्धरिणो यवम् अत्ति न पुष्टं बहु मन्यते ।
शूद्रो यद् अर्यायै जारो न पोषम् अनु मन्यते ॥

23.32
दधिक्राव्णो ऽ अकारिषं जिष्णोर् अश्वस्य वाजिनः ।
सुरभि नो मुखा करत् प्र ण ऽ आयूँषि तारिषत् ॥

23.33
गायत्री त्रिष्टुब् जगत्य् अनुष्टुप् पङ्क्त्या सह ।
बृहत्य् उष्णिहा ककुप् सूचीभिः शम्यन्तु त्वा ॥

23.34
द्विपदा याश् चतुष्पदास् त्रिपदा याश् च षट्पदाः ।
विच्छन्दा याश् च सच्छन्दाः सूचीभिः शम्यन्तु त्वा ॥

23.35
महानाम्न्यो रेवत्यो विश्वा आशाः प्रभूवरीः ।
मैघीर् विद्युतो वाचः सूचीभिः शम्यन्तु त्वा ॥

23.36
नार्यस् ते पत्न्यो लोम विचिन्वन्तु मनीषया ।
देवानां पत्न्यो दिशः सूचीभिः शम्यन्तु त्वा ॥

23.37
रजता हरिणीः सीसा युजो युज्यन्ते कर्मभिः ।
अश्वस्य वाजिनस् त्वचि सिमाः शम्यन्तु शम्यन्तीः ॥

23.38
कुविद् अङ्ग यवमन्तो यवं चिद् यथा दान्त्य् अनुपूर्वं वियूय ।
इहेहैषां कृणुहि भोजनानि ये बर्हिषो नम ऽ उक्तिं यजन्ति ॥

23.39
कस् त्वा छ्यति कस् त्वा वि शास्ति कस् ते गात्राणि शम्यति ।
क ऽ उ ते शमिता कविः ॥

23.40
ऋतवस्त ऽ ऋतुथा पर्व शमितारो वि शासतु ।
संवत्सरस्य तेजसा शमीभिः शम्यन्तु त्वा ॥

23.41
अर्धमासाः परूँषि ते मासा ऽ आ च्छ्यन्तु शम्यन्तः ।
अहोरात्राणि मरुतो विलिष्टँ सूदयन्तु ते ॥

23.42
दैव्या ऽ अध्वर्यवस् त्वा छ्यन्तु वि च आसतु ।
गात्राणि पर्वशस् ते सिमाः कृण्वन्तु शम्यन्तीः ॥

23.43
द्यौस् ते पृथिव्यन्तरिक्षं वायुश् छिद्रं पृणातु ते ।
सूयस् ते नक्षत्रैः सह लोकं कृणोतु साधुया ॥

23.44
शं ते परेभ्यो गात्रेभ्यः शम् अस्त्व् अवरेभ्यः ।
शम् अस्थभ्यो मज्जभ्यः शम् व् अस्तु तन्वै तव ॥

23.45
कः स्विद् एकाकी चरति क ऽ उ स्विज् जायते पुनः ।
किँ स्विद्धिमस्य भेषजं किम् व् आवपनं महत् ॥

23.46
सूर्य ऽ एकाकी चरति चन्द्रमा जायते पुनः ।
अग्निर् हिमस्य भेषजं भूमिर् आवपनं महत् ॥

23.47
किँ स्वित् सूर्यसमं ज्योतिः किँ समुद्रसमँ सरः ।
किँ स्वित् पृथिव्यै वर्षीयः कस्य मात्रा न विद्यते ॥

23.48
ब्रह्म सूर्यसमं ज्योतिर् द्यौः समुद्रसमँ सरः ।
इन्द्रः पृथिव्यै वर्षीयान् गोस् तु मात्रा न विद्यते ॥

23.49
पृच्छामि त्वा चितये देवसख यदि त्वम् अत्र मनसा जगन्थ ।
येषु विष्णुस् त्रिषु पदेष्व् एष्टस् तेषु विश्वं भुवनम् आ विवेशाँ३ऽ ॥

23.50
अपि तेषु त्रिषु पदेष्व् अस्मि येषु विश्वं भुवनम् आविवेश ।
सद्यः पर्य् एमि पृथिवीम् उत द्याम् एकेनाङ्गेन दिवो ऽ अस्य पृष्ठम् ॥

23.51
केष्व् अन्तः पुरुष ऽ आ विवेश कान्य् अन्तः पुरुषे ऽ अर्पितानि ।
एतद् ब्रह्मन्न् उपवल्हामसि त्वा किँ स्विन् नः प्रति वोचास्य् अत्र ॥

23.52
पञ्चस्व् अन्तः पुरुष ऽ आ विवेश तान्य् अन्तः पुरुषे ऽ अर्पितानि ।
एतत् त्वात्र प्रतिमन्वानो ऽ अस्मि न मायया भवस्य् उत्तरो मत् ॥

23.53
का स्विद् आसीत् पूर्वचित्तिः किँ स्विद् आसीद् बृहद् वयः ।
का स्विद् आसीत् पिलिप्पिला का स्विद् आसीत् पिशङ्गिला ॥

23.54
द्यौर् आसीत् पूर्वचित्तिः अश्वऽ आसीद् बृहद् वयः ।
अविर् आसीत् पिलिप्पिला रात्रिर् आसीत् पिशङ्गिला ॥

23.55
का ऽ ईमरे पिशङ्गिला का ऽ ईं कुरुपिशङ्गिला ।
क ऽ ईम् आस्कन्दम् अर्षति क ऽ ईं पन्थां वि सर्पति ॥

23.56
अजारे पिशङ्गिला श्वावित् कुरुपिशङ्गिला ।
शश आस्कन्दम् अर्षत्य् अहिः पन्थां वि सर्पति ॥

23.57
कत्य् अस्य विष्ठाः कत्य् अक्षराणि कति होमासः कतिधा समिद्धः ।
यज्ञस्य त्वा विदथा पृच्छम् अत्र कति होतार ऽ ऋतुशो यजन्ति ॥

23.58
षड् अस्य विष्ठाः शतम् अक्षराण्य् अशीतिर् होमाः समिधो ह तिस्रः ।
यज्ञस्य ते विदथा प्र ब्रवीमि सप्त होतार ऋतुशो यजन्ति ॥

23.59
को ऽ अस्य वेद भुवनस्य नाभिं को द्यावापृथिवी ऽ अन्तरिक्षम् ।
कः सूर्यस्य वेद बृहतो जनित्रं को वेद चन्द्रमसं यतोजाः ॥

23.60
वेदाहम् अस्य भुवनस्य नाभिं वेद द्यावापृथिवी ऽ अन्तरिक्षम् ।
वेद सूर्यस्य बृहतो जनित्रं अथो वेद चन्द्रमसं यतोजाः ॥

23.61
पृच्छामि त्वा परम् अन्तं पृथिव्याः पृच्छामि यत्र भुवनस्य नाभिः ।
पृच्छामि त्वा वृष्णो ऽ अश्वस्य रेतः पृच्छामि वाचः परमं व्योम ॥

23.62
इयं वेदिः परो ऽ अन्तः पृथिव्या ऽ अयं यज्ञो यत्र भुवनस्य नाभिः ।
अयँ सोमो वृष्णो ऽ अश्वस्य रेतः ब्रह्मायं वाचः परमं व्योम ॥

23.63
सुभूः स्वयम्भूः प्रथमो ऽन्तर् महत्य् अर्णवे ।
दधे ह गर्भम् ऋत्वियं यतो जातः प्रजापतिः ॥

23.64
होता यक्षत् प्रजापतिँ सोमस्य महिम्नः ।
जुषतां पिबतु सोमँ होतर् यज ॥

23.65
प्रजापते न त्वद् एतान्य् अन्यो विश्वा रूपाणि परि ता बभूव ।
यत्कामास् ते जुहुमस् तन् नो ऽ अस्तु । वयँ स्याम पतयो रयीणाम्॥