अध्यायः 20
सौत्रामणी यागे सेकाद्यासन्दीहौत्रान्ता मन्त्राः
20.1
क्षत्रस्य योनिर् असि क्षत्रस्य नाभिर् असि ।
मा त्वा हिँसीन् मा मा हिँसीः ॥
20.2
नि षसाद घृतव्रतो वरुणः पस्त्यास्व् आ ।
साम्राज्याय सुक्रतुः ।
मृत्योः पाहि ।
विद्योत् पाहि ॥
20.3
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
अश्विनोर् भैषज्येन तेजसे ब्रह्मवर्चसायाभि षिञ्चामि ।
सरस्वत्यै भैषज्येन वीर्यायान्नाद्यायाभि षिञ्चामि ।
इन्द्रस्येन्द्रियेण बलाय श्रियै यशसेऽभि षिञ्चामि ॥
20.4
को ऽसि कतमो ऽसि कस्मै त्वा काय त्वा ।
सुश्लोक सुमङ्गल सत्यराजन् ॥
20.5
शिरो मे श्रीर् यशो मुखं त्विषिः केशाश् च श्मश्रूणि ।
राजा मे प्राणो ऽ अमृतँ सम्राट् चक्षुर् विराट् श्रोत्रम् ॥
20.6
जिह्वा मे भद्रं वाङ् महो मनो मन्युः स्वराड् भामः ।
मोदाः प्रमोदा ऽ अङ्गुलीर् अङ्गानि मित्रं मे सहः ॥
20.7
बाहू मे बलम् इन्द्रियँ हस्तौ मे कर्म वीर्यम् ।
आत्मा क्षत्रम् उरो मम ॥
20.8
पृष्टीर् मे राष्ट्रम् उदरम् अँसौ ग्रीवाश् च श्रोणी ।
ऊरू ऽ अरत्नी जानुनी विशो मे ऽङ्गानि सर्वतः ॥
20.9
नाभिर् मे चित्तं विज्ञानं पायुर् मे ऽपचितिर् भसत् ।
आनन्दनन्दाव् आण्डौ मे भगः सौभाग्यं पसः ।
जङ्घाभ्यां पद्भ्यां धर्मो ऽस्मि विशि राजा प्रतिष्ठितः ॥
20.10
प्रति क्षत्रे प्रति तिष्ठामि राष्ट्रे प्रत्य् अश्वेषु प्रति तिष्ठामि गोषु ।
प्रत्य् अङ्गेषु प्रति तिष्ठाम्य् आत्मन् प्रति प्राणेषु क्षत्रे प्रति तिष्ठामि पुष्टे प्रति द्यावापृथिव्योः प्रति तिष्ठामि ॥
20.11
त्रया देवा ऽ एकादश त्रयस्त्रिँशाः सुराधसः ।
बृहस्पतिपुरोहिता देवस्य सवितुः सवे ।
देवा देवैर् अवन्तु मा ॥
20.12
प्रथमा द्वितीयैर् द्वितीयास् तृतीयैस् तृतीयाः सत्येन सत्यं यज्ञेन यज्ञो यजुर्भिर् यजूँषि सामभिः सामान्य् ऋग्भिर् ऋचः पुरोनुऽवाक्याभिः पुरोऽनुवाक्या याज्याभिर् याज्या वषट्कारैर् वषट्कारा ऽ आहुतिभिर् आहुतयो मे कामान्त् सम् अर्धयन्तु भूः स्वाहा ॥
20.13
लोमानि प्रयतिर् मम त्वङ् म ऽ आनतिर् आगतिः ।
माँसं म ऽ उपनतिर् वस्व् अस्थि मज्जा म ऽ आनतिः ॥
20.14
यद् देवा देवहेडनं देवासश् चकृमा वयम् ।
अग्निर् मा तस्माद् एनसो विश्वान् मुञ्चत्व् अँहसः ॥
20.15
यदि दिवा यदि नक्तम् एनाँसि चकृमा वयम् ।
वायुर् मा तस्माद् एनसो विश्वान् मुञ्चत्व् अँहसः ॥
20.16
यदि जाग्रद् यदि स्वप्न ऽ एनाँसि चकृमा वयम् ।
सूर्यो मा तस्माद् एनसो विश्वान् मुञ्चत्व् अँहसः ॥
20.17
यद् ग्रामे यद् अरण्ये यत् सभायां यद् इन्द्रिये ।
यच्छूद्रे यद् अर्ये यद् एनश् चकृमा वयं यद् एकस्याधि धर्मणि तस्यावयजनम् असि ॥
20.18
यद् आपो ऽ अघ्न्या ऽ इति वरुणेति शपामहे ततो वरुण नो मुञ्च ।
अवभृथ निचुम्पुण निचेरुर् असि निचुम्पुणः ।
अव देवैर् देवकृतम् एनो ऽयक्ष्य् अव मर्त्यैर् मर्त्यकृतम् ।
पुरुराव्णो देव रिषस् पाहि ॥
20.19
समुद्रे ते हृदयम् अप्स्व् अन्तः सं त्वा विशन्त्व् ओषधीर् उतापः ।
सुमित्रिया न ऽ आप ऽ ओषधयः सन्तु दुर्मित्रियास् तस्मै सन्तु यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥
20.20
द्रुपदाद् इव मुमुचानः स्विन्नः स्नातो मलाद् इव ।
पूतं पवित्रेणेवाज्यम् आपः शुन्धन्तु मैनसः ॥
20.21
उद् वयं तमसस् परि स्वः पश्यन्त ऽ उत्तरम् ।
देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् ॥
20.22
अपो ऽ अद्यान्व् अचारिषँ रसेन सम् असृक्ष्महि ।
पयस्वान् अग्न ऽ आगमं तं मा सँ सृज वर्चसा प्रजया च धनेन च ॥
20.23
एधोऽस्य् एधिषीमहि ।
समिद् असि तेजो ऽसि तेजो मयि धेहि ।
समाववर्ति पृथिवी सम् उषाः सम् उ सूर्यः ।
सम् उ विश्वम् इदं जगत् ।
वैश्वानरज्योतिर् भूयासं विभून् कामान् व्यश्नवै भूः स्वाहा ॥
20.24
अभ्यादधामि समिधम् अग्ने व्रतपते त्वयि ।
व्रतं च श्रद्धां चोपैमीन्धे त्वा दीक्षितोऽअहम् ॥
20.25
यत्र ब्रह्म च क्षत्रं च सम्यञ्चो चरतः सह ।
तं लोकं पुण्यं प्रज्ञेषं यत्र देवाः सहाग्निना ॥
20.26
यत्रेन्द्रश् च वायुश् च सम्यञ्चो चरतः सह ।
तं लोकं पुण्यं प्रज्ञेषं यत्र सेदिर् न विद्यते ॥
20.27
अँशुना ते अँशुः पृच्यतां परुषा परुः ।
गन्धस् ते सोमम् अवतु मदाय रसोऽअच्युतः ॥
20.28
सिञ्चन्ति परि षिञ्चन्त्य् उत् सिञ्चन्ति पुनन्ति च ।
सुरायै बभ्र्वै मदे किन्त्वो वदति किन्त्वः ॥
20.29
धानावन्तं करम्भिणम् अपूपवन्तम् उक्थिनम् ।
इन्द्र प्रातर् जुषस्व नः ॥
20.30
बृहद् इन्द्राय गायत मरुतो वृत्रहन्तमम् ।
येन ज्योतिर् अजनयन्न् ऋतावृधो देवं देवाय जागृवि ॥
20.31
अध्वर्यो ऽ अद्रिभिः सुतँ सोमं पवित्र ऽ आ नय ।
पुनीहीन्द्राय पातवे ॥
20.32
यो भूतानाम् अधिपतिर् यस्मिंल्लोका ऽ अधि श्रिताः ।
य ऽ ईशे महतो महाँस् तेन गृह्णामि त्वाम् अहं मयि गृह्णामि त्वाम् अहम् ॥
20.33
उपयामगृहीतो ऽस्य् अश्विभ्यां त्वा सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्णेऽ ।
एष ते योनिर् अश्विभ्यां त्वा सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्णे ॥
20.34
प्राणपा मे ऽअपानपाश् चक्षुष्पाः श्रोत्रपाश् च मे ।
वाचो मे विश्वभेषजो मनसो ऽसि विलायकः ॥
20.35
अश्विनकृतस्य ते सरस्वतिकृतस्येन्द्रेण सुत्राम्णा कृतस्य ।
उपहूत ऽउपहूतस्य भक्षयामि ॥
20.36
समिद्ध ऽ इन्द्र ऽ उषसाम् अनीके पुरोरुचा पूर्वकृद् वावृधानः ।
त्रिभिर् देवैस् त्रिँशता वज्रबाहुर् जघान वृत्रं वि दुरो ववार ॥
20.37
नराशँसः प्रति शूरो मिमानस् तनूनपात् प्रति यज्ञस्य धाम ।
गोभिर् वपावान् मधुना समञ्जन् हिरण्यैश् चन्द्री यजति प्रचेताः ॥
20.38
ईडितो देवैर् हरिवाँ२ऽ अभिष्टिर् आजुह्वानो हविषा शर्धमानः ।
पुरन्दरो गोत्रभिद् वज्रबाहुर् आ यातु यज्ञम् उप नो जुषाणः ॥
20.39
जुषाणो बर्हिर् हरिवान् न ऽ इन्द्रः प्राचीनँ सीदत् प्रदिशा पृथिव्याः ।
उरुप्रथाः प्रथमानँ स्योनम् आदित्यैर् अक्तं वसुभिः सजोषाः ॥
20.40
इन्द्रं दुरः कवष्यो धावमाना वृषाणं यन्तु जनयः सुपत्नीः ।
द्वारो देवीर् अभितो वि श्रयन्ताँ सुवीरा वीरं प्रथमाना महोभिः ॥
20.41
उषासानक्ता बृहती बृहन्तं पयस्वती सुदुघे शूरम् इन्द्रम् ।
तन्तुं ततं पेशसा संवयन्ती देवानां देवं यजतः सुरुक्मे ॥
20.42
दैव्या मिमाना मनुषः पुरुत्रा होताराव् इन्द्रं प्रथमा सुवाचा ।
मूर्द्धन् यज्ञस्य मधुना दधाना प्राचीनं ज्योतिर् हविषा वृधातः ॥
20.43
तिस्रो देवीर् हविषा वर्धमाना ऽ इन्द्रं जुषाणा जनयो न पत्नीः ।
अच्छिन्नं तन्तुं पयसा सरस्वतीडा देवी भारती विश्वतूर्तिः ॥
20.44
त्वष्टा दधच्छुष्मम् इन्द्राय वृष्णे ऽपाको ऽचिष्टुर् यशसे पुरूणि ।
वृषा यजन् वृषणं भूरिरेता मूर्धन् यज्ञस्य सम् अनक्तु देवान् ॥
20.45
वनस्पतिर् अवसृष्टो न पाशैस् त्मन्या समञ्जञ्छमिता न देवः ।
इन्द्रस्य हव्यैर् जठरं पृणानः स्वदाति यज्ञं मधुना घृतेन ॥
20.46
स्तोकानां इन्दुं प्रति शूर ऽ इन्द्रो वृषायमाणो वृषभस् तुराषाट् ।
घृतप्रुषा मनसा मोदमानाः स्वाहा देवा ऽ अमृता मादयन्ताम् ॥
20.47
आ यात्व् इन्द्रो ऽवस ऽ उप न ऽ इह स्तुतः सधमादस्तु शूरः ।
वावृधानस् तविषीर् यस्य पूर्वीर् द्यौर् न क्षत्रम् अभिभूति पुष्यात् ॥
20.48
आ न ऽ इन्द्रो दूराद् आ न ऽ आसाद् अभिष्टिकृद् अवसे यासद् उग्रः ।
ओजिष्ठेभिर् नृपतिर् वज्रबाहुः सङ्गे समत्सु तुर्वणिः पृतन्यून् ॥
20.49
आ न इन्द्रो हरिभिर् यात्व् अच्छार्वाचीनो ऽवसे राधसे च ।
तिष्ठाति वज्री मघवा विरप्शीमं यज्ञम् अनु नो वाजसातौ ॥
20.50
त्रातारम् इन्द्रम् अवितारम् इन्द्रँ हवे-हवे सुहवँ शूरम् इन्द्रम् ।
ह्वयामि शक्रं पुरुहूतम् इन्द्रँ स्वस्ति नो मघवा धात्व् इन्द्रः ॥
20.51
इन्द्रः सुत्रामा स्ववाँ२ऽ अवोभिः सुमृडीको भवतु विश्ववेदाः ।
बाधतां द्वेषो ऽ अभयं कृणोतु सुवीर्यस्य पतयः स्याम ॥
20.52
तस्य वयँ सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ।
स सुत्रामा स्ववाँ२ऽ इन्द्रो ऽ अस्मे आराच्चिद् द्वेषः सनुतर् युयोतु ॥
20.53
आ मन्द्रैर् इन्द्र हरिभिर् याहि मयूररोमभिः ।
मा त्वा के चिन् नि यमन् विं ना पाशिनो ऽति धन्वेव ताँ२ऽ इहि ॥
20.54
एवेद् इन्द्रं वृषणं वज्रबाहुं वसिष्ठासो ऽ अभ्य् अर्चन्त्य् अर्कैः ।
स न स्तुतो वीरवद् धातु गोमद् यूयं पात स्वस्तिभिः सदा नः ॥
20.55
समिद्धो ऽ अग्निर् अश्विना तप्तो घर्मो विराट् सुतः ।
दुहे धेनुः सरस्वती सोमँ शुक्रम् इहेन्द्रियम् ॥
20.56
तनूपा भिषजा सुते ऽश्विनोभा सरस्वती ।
अध्वा रजाँसीन्द्रियम् इन्द्राय पथिभिर् वहान् ॥
20.57
इन्द्रायेन्दुँ सरस्वती नराशँसेन नग्नहुम् ।
अधाताम् अश्विना मधु भेषजं भिषजा सुते ॥
20.58
आजुह्वाना सरस्वतीन्द्रायेन्द्रियाणि वीर्यम् ।
इडाभिर् अश्विनाव् इषँ समूर्जँ सँ रयिं दधुः ॥
20.59
अश्विना नमुचेः सुतँ सोमँ शुक्रं परिस्रुता ।
सरस्वती ताम् आभरद् बर्हिषेन्द्राय पातवे ॥
20.60
कवष्यो न व्यचस्वतीर् अश्विभ्यां न दुरो दिशः ।
इन्द्रो न रोदसी ऽ उभे दुहे कामान्त् सरस्वती ॥
20.61
उषासानक्ताश्विना दिवेन्द्रँ सायम् इन्द्रियैः ।
सञ्जानाने सुपेशसा सम् अञ्जाते सरस्वत्या ॥
20.62
पातं नो ऽ अश्विना दिवा पाहि नक्तँ सरस्वति ।
दैव्या होतारा भिषजा पाताम् इन्द्रँ सचा सुते ॥
20.63
तिस्रस् त्रेधा सरस्वत्य् अश्विना भारतीडा ।
तीव्रं परिस्रुता सोमम् इन्द्राय सुषुवुर् मदम् ॥
20.64
अश्विना भेषजं मधु भेषजं नः सरस्वती ।
इन्द्रे त्वष्टा यशः श्रियँ रूपँ-रूपम् अधुः सुते ॥
20.65
ऋतुथेन्द्रो वनस्पतिः शशमानः परिस्रुता ।
कीलालम् अश्विभ्यां मधु दुहे धेनुः सरस्वती ॥
20.66
गोभिर् न सोमम् अश्विना मासरेण परिस्रुता ।
सम् अधातँ सरस्वत्या स्वाहेन्द्रे सुतं मधु ॥
20.67
अश्विना हविर् इन्द्रियं नमुचेर् धिया सरस्वती ।
आ शुक्रम् आसुराद् वसु मघम् इन्द्राय जभ्रिरे ॥
20.68
यम् अश्विना सरस्वती हविषेन्द्रम् अवर्धयन् ।
स बिभेद वलं मघं नमुचाव् आसुरे सचा ॥
20.69
तम् इन्द्रँ सचाश्विनोभा सरस्वती ।
दधाना ऽ अभ्य् अनूषत हविषा यज्ञ ऽ इन्द्रियैः ॥
20.70
य ऽ इन्द्र ऽ इन्द्रियं दधुः सविता वरुणो भगः ।
स सुत्रामा हविष्पतिर् यजमानाय सश्चत ॥
20.71
सविता वरुणो दधद् यजमानाय दाशुषे ।
आदत्त नमुचेर् वसु सुत्रामा बलम् इन्द्रियम् ॥
20.72
वरुणः क्षत्रम् इन्द्रियं भगेन सविता श्रियम् ।
सुत्रामा यशसा बलं दधाना यज्ञम् आशत ॥
20.73
अश्विना गोभिर् इन्द्रियम् अश्वेभिर् वीर्यं बलम् ।
हविषेन्द्रँ सरस्वती यजमानम् अवर्द्धयन् ॥
20.74
ता नासत्या सुपेशसा हिरण्यवर्तनी नरा ।
सरस्वती हविष्मतीन्द्र कर्मसु नो ऽवत ॥
20.75
ता भिषजा सुकर्मणा सा सुदुघा सरस्वती ।
स वृत्रहा शतक्रतुर् इन्द्राय दधुर् इन्द्रियम् ॥
20.76
युवँ सुरामम् अश्विना नमुचाव् आसुरे सचा ।
विपिपानाः सरस्वतीन्द्रं कर्मस्व् आवत ॥
20.77
पुत्रम् इव पितराव् अश्विनोभेन्द्रावथुः काव्यैर् दँसनाभिः ।
यत् सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्न् अभिष्णक् ॥
20.78
यस्मिन्न् अश्वास ऽ ऋषभास ऽ उक्षणो वशा मेषा ऽ अवसृष्टास ऽ आहुताः ।
कीलालपे सोमपृष्ठाय वेधसे हृदा मतिं जनये चारुम् अग्नये ॥
20.79
अहाव्य् अग्ने हविर् आस्ये ते स्रुचीव घृतं चम्वीव सोमः ।
वाजसनिँ रयिम् अस्मे सुवीरं प्रशस्तं धेहि यशसं बृहन्तम् ॥
20.80
अश्विना तेजसा चक्षुः प्राणेन सरस्वती वीर्यम् ।
वाचेन्द्रो बलेनेन्द्राय दधुर् इन्द्रियम् ॥
20.81
गोमद् ऊ षु णासत्या अश्वावद् यातम् अश्विना ।
वर्ती रुद्रा नृपाय्यम् ॥
20.82
न यत् परो नान्तरऽ आदधर्षद् वृषण्वसू ।
दुःशँसो मर्त्यो रिपुः ॥
20.83
ता न ऽ आ वोढम् अश्विना रयिं पिशङ्गसन्दृशम् ।
धिष्ण्या वरिवोविदम् ॥
20.84
पावका नः सरस्वती वाजेभिर् वाजिनीवती ।
यज्ञं वष्टु धियावसुः ॥
20.85
चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् ।
यज्ञं दधे सरस्वती ॥
20.86
महो ऽ अर्णः सरस्वती प्र चेतयति केतुना ।
धियो विश्वा वि राजति ॥
20.87
इन्द्रा याहि चित्रभानो सुता ऽ इमे त्वायवः ।
अण्वीभिस् तना पूतासः ॥
20.88
इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः ।
उप ब्रह्माणि वाघतः ॥
20.89
इन्द्रा याहि तूतुजान ऽ उप ब्रह्माणि हरिवः ।
सुते दधिष्व नश् चनः ॥
20.90
अश्विना पिबतां मधु सरस्वत्या सजोषसा ।
इन्द्रः सुत्रामा वृत्रहा जुषन्ताँ सोम्यं मधु ॥