०१९

१९.१
स्वाद्वीं त्वा स्वादुना तीव्रां तीव्रेणामृताम् अमृतेन ।
मधुमतीं मधुमता सृजामि सँ सोमेन ।
सोमो सि ।
अश्विभ्यां पच्यस्व ।
सरस्वत्यै पच्यस्व ।
इन्द्राय सुत्राम्णे पच्यस्व ॥

१९.२
परीतो षिञ्चता सुतँ सोमो य ऽ उत्तमँ हविः ।
दधन्वान् यो नर्यो अप्स्व् अन्तर् आ सुषाव सोमम् अद्रिभिः ॥

१९.३
वायोः पूतः पवित्रेण प्रत्यङ्क् सोमो ऽ अतिद्रुतः ।
इन्द्रस्य युज्यः सखा ।
वायोः पूतः पवित्रेण प्राङ् सोमो ऽ अतिद्रुतः ।
इन्द्रस्य युज्यः सखा ॥

१९.४
पुनाति ते परिस्रुतँ सोमँ सूर्यस्य दुहिता ।
वारेण शश्वता तना ॥

१९.५
ब्रह्म क्षत्रं पवते तेज ऽ इन्द्रियँ सुरया सोमः सुत ऽ आसुतो मदाय ।
शुक्रेण देव देवताः पिपृग्धि रसेनान्नं यजमानाय धेहि ॥

१९.६
कुविद् अङ्ग यवमन्तो यवं चिद् यथा दान्त्य् अनुपूर्वं वियूय ।
इहेहैषां कृणुहि भोजनानि ये बर्हिषो नम ऽ उक्तिं यजन्ति ।
उपयामगृहीतो ऽस्य् अश्विभ्यां त्वा सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्णे ।
ऽ एष ते योनिस् तेजसे त्वा वीर्याय त्वा बलाय त्वा ॥

१९.६
नाना हि वां देवहितँ सदस् कृतं मा सँ सृक्षाथां परमे व्योमन् ।
सुरा त्वम् असि शुष्मिणी सोम ऽ एष मा मा हिँसीः स्वां योनिम् आविशन्ती ॥

१९.८
उपयामगृहीतो ऽस्य् आश्विनं तेजः सारस्वतं वीर्यम् ऐन्द्रं बलम् ।
एष ते योनिर् मोदाय त्वानन्दाय त्वा महसे त्वा ॥

१९.९
तेजो ऽसि तेजो मयि धेहि ।
वीर्यम् असि वीर्यं मयि धेहि ।
बलम् असि बलं मयि धेहि ।
ओजो ऽस्य् ओजो मयि धेहि ।
मन्युर् असि मन्युं मयि धेहि ।
सहो ऽसि सहो मयि धेहि ॥

१९.१०
या व्याघ्रं विषूचिकोभौ वृकं च रक्षति ।
श्येनं पतत्रिणँ सिँहँ सेमं पात्व् अँहसः ॥

१९.११
यद् आपिपेष मातरं पुत्रः प्रमुदितो धयन् ।
एतत् तद् अग्ने ऽ अनृणो भवाम्य् अहतौ पितरौ मया ।
सम्पृच स्थ सं मा भद्रेण पृङ्क्त ।
विपृच स्थ वि मा पाप्मना पृङ्क्त ॥

१९.१२
देवा यज्ञम् अतन्वत भेषजं भिषजाश्विना ।
वाचा सरस्वती भिषग् इन्द्रायेन्द्रियाणि दधतः ॥

१९.१३
दीक्षायै रूपँ शष्पाणि प्रायणीयस्य तोक्मानि ।
क्रयस्य रूपँ सोमस्य लाजाः सोमाँशवो मधु ॥

१९.१४
आतिथ्यरूपं मासरं महावीरस्य नग्नहुः ।
रूपम् उपसदाम् एतत् तिस्रो रात्रीः सुरासुता ॥

१९.१५
सोमस्य रूप क्रीतस्य परिस्रुत् परि षिच्यते ।
अश्विभ्यां दुग्धं भेषजम् इन्द्रायैन्द्रँ सरस्वत्या ॥

१९.१६
आसन्दी रूपँ राजासन्द्यै वेद्यै कुम्भी सुराधानी ।
अन्तर ऽ उत्तरवेद्या रूपं कारोतरो भिषक् ॥

१९.१७
वेद्या वेदिः सम् आप्यते बर्हिषा बर्हिर् इन्द्रियम् ।
यूपेन यूप ऽ आप्यते प्रणीतो ऽ अग्निर् अग्निना ॥