अध्याय 16 रुद्र सूक्तम्
अग्निचयने रुद्रः
16.1
नमस् ते रुद्र मन्यव ऽ उतो त ऽ इषवे नमः ।
बाहुभ्याम् उत ते नमः ॥
16.2
या ते रुद्र शिवा तनूर् अघोरापापकाशिनी ।
तया नस् तन्वा शन्तमया गिरिशन्ताभि चाकशीहि ॥
16.3
याम् इषुं गिरिशन्त हस्ते बिभर्ष्य् अस्तवे ।
शिवां गिरित्र तां कुरु मा हिँसीः पुरुषं जगत् ॥
16.4
शिवेन वचसा त्वा गिरिशाच्छा वदामसि ।
यथा नः सर्वम् इज् जगद् अयक्ष्मँ सुमना ऽ असत् ॥
16.5
अध्य् अवोचद् अधिवक्ता प्रथमो दैव्यो भिषक् ।
अहीँश् च सर्वान् जम्भयन्त् सर्वाश् च यातुधान्यो ऽधराचीः परा सुव ॥
16.6
असौ यस् ताम्रो ऽ अरुण ऽ उत बभ्रुः सुमङ्गलः ।
ये चैनँ रुद्रा ऽ अभितो दिक्षु श्रिताः सहस्रशो वैषाँ हेड ऽ ईमहे ॥
16.7
असौ यो ऽवसर्पति नीलग्रीवो विलोहितः ।
उतैनं गोपा ऽ अदृश्रन्न् अदृश्रन्न् उदहार्यः स दृष्टो मृडयाति नः ॥
16.8
नमो ऽस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे ।
अथो ये ऽ अस्य सत्वानो ऽहं तेभ्यो ऽकरं नमः ॥
16.9
प्र मुञ्च धन्वनस् त्वम् उभयोर् आर्त्न्योर् ज्याम् ।
याश् च ते हस्त ऽ इषवः ऽ परा ता भगवो वप ॥
16.10
विज्यं धनुः कपर्दिनो विशल्यो वाणवाँ२ऽ उत ।
अनेशन्न् अस्य याऽइषव ऽआभुर् अस्य निषङ्गधिः ॥
16.11
या ते हेतिर् मीढुष्टम हस्ते बभूव ते धनुः ।
तयास्मान् विश्वतस् त्वम् अयक्ष्मया परि भुज ॥
16.12
परि ते धन्वनो हेतिर् अस्मान् वृणक्तु विश्वतः ।
अथो य ऽइषुधिस् तवारे ऽ अस्मन् नि धेहि तम् ॥
16.13
अवतत्य धनुष् ट्वँ सहस्राक्ष शतेषुधे ।
निशीर्य शल्यानां मुखा शिवो नः सुमना भव ॥
16.14
नमस् त ऽ आयुधायानातताय धृष्णवे ।
उभाभ्याम् उत ते नमो बाहुभ्यां तव धन्वने ॥
16.15
मा नो महान्तम् उत मा नो ऽ अर्भकं मा न ऽ उक्षन्तम् उत मा न ऽ उक्षितम् ।
मा नो वधीः पितरं मोत मातरं मा नः प्रियास् तन्वो रुद्र रीरिषः ॥
16.16
मा नस् तोके तनये मा न ऽ आयुषि मा नो गोषु मा नो ऽ अश्वेषु रीरिषः ।
मा नो वीरान् रुद्र भामिनो वधीर् हविष्मन्तः सदम् इत् त्वा हवामहे ॥
16.17
नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः शष्पिञ्जराय त्विषीमते पथीनां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमः ॥
16.18
नमो बभ्लुशाय व्याधिने ऽन्नानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्रायाततायिने क्षेत्राणां पतये नमो नमः सूतायाहन्त्यै वनानां पतये नमः ॥
16.19
नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नम ऽ उच्चैर्घोषायाक्रन्दयते पत्तीनां पतये नमः ॥
16.20
नमः कृत्स्नायतया धावते सत्वनां पतये नमो नमः सहमानाय निव्याधिनऽ आव्याधिनीनां पतये नमो नमो निषङ्गिणे ककुभाय स्तेनानां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमः ॥
16.21
नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो निषङ्गिण ऽ इषुधिमते तस्कराणां पतये नमो नमः सृकायिभ्यो जिघाँसद्भ्यो मुष्णतां पतये नमो नमो ऽसिमद्भ्यो नक्तं चरद्भ्यो विकृन्तानां पतये नमः ॥
16.22
नम ऽ उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम ऽ इषुमध्भ्यो धन्वायिभ्यश् च वो नमो नम ऽ आतन्वानेभ्यः प्रतिदधानेभ्यश् च वो नमो नम ऽ आयच्छद्भ्यो स्यद्भ्यश् च वो नमः ॥
16.23
नमो विसृजद्भ्यो विध्यद्भ्यश् च वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश् च वो नमो नमः शयानेभ्य ऽ आसीनेभ्यश् च वो नमो नमस् तिष्ठद्भ्यो धावद्भ्यश् च वो नमः ॥
16.24
नमः सभाभ्यः सभापतिभ्यश् च वो नमो नमो ऽश्वेभ्यो ऽश्वपतिभ्यश् च वो नमो नम ऽ आव्याधिनीभ्यो विविध्यन्तीभ्यश् च वो नमो नम ऽ उगणाभ्यस् तृँहतीभ्यश् च वो नमः ॥
16.25
नमो गणेभ्यो गणपतिभ्यश् च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश् च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश् च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश् च वो नमः ॥
16.26
नमः सेनाभ्यः सेनानिभ्यश् च वो नमो नमो रथिभ्यो ऽ अरथेभ्यश् च वो नमो नमः क्षत्तृभ्यः सङ्ग्रहीतृभ्यश् च वो नमो नमो महद्भ्यो ऽ अर्भकेभ्यश् च वो नमः ॥
16.27
नमस् तक्षभ्यो रथकारेभ्यश् च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश् च वो नमो नमो निषादेभ्यः पुञ्जिष्ठेभ्यश् च वो नमो नमः श्वनिभ्यो मृगयुभ्यश् च वो नमः ॥
16.28
नमः श्वभ्यः श्वपतिभ्यश् च वो नमो नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च ॥
16.29
नमः कपर्दिने च व्युप्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशयाय च शिपिविष्टाय च नमो मीढुष्टमाय चेषुमते च ॥
16.30
नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च सवृधे च नमो ऽग्र्याय च प्रथमाय च ॥
16.31
नम ऽ आशवे चाजिराय च नमः शीघ्र्याय च शीभ्याय च नम ऽ ऊर्म्याय चावस्वन्याय च नमो नादेयाय च द्वीप्याय च ॥
16.32
नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुध्न्याय च ॥
16.33
नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः श्लोक्याय चावसान्याय च नम ऽ उर्वर्याय च खल्याय च ॥
16.34
नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नम ऽ आशुषेणाय चाशुरथाय च नमः शूराय चावभेदिने च ॥
16.35
नमो बिल्मिने च कवचिने च नमो वर्मिणे च वरूथिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय चाहनन्याय च ॥
16.36
नमो धृष्णवे च प्रमृशाय च नमो निषङ्गिणे चेषुधिमते च नमस् तीक्ष्णेषवे चायुधिने च नमः स्वायुधाय च सुधन्वने च ॥
16.37
नमः स्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः कुल्याय च सरस्याय च नमो नादेयाय च वैशन्ताय च ॥
16.38
नमः कूप्याय चावट्याय च नमो वीध्र्याय चातप्याय च नमो मेध्याय च च विद्युत्याय नमो वर्ष्याय चावर्ष्याय च ॥
16.39
नमो वात्याय च रेष्म्याय च नमो वास्तव्याय च वास्तुपाय च नमः सोमाय च रुद्राय च नमस् ताम्राय चारुणाय च ॥
16.40
नमः शङ्गवे च पशुपतये च नम ऽ उग्राय च भीमाय च नमोऽग्रेवधाय च दूरेवधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस् ताराय ॥
16.41
नमः शम्भवाय च मयोभवाय च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥
16.42
नमः पार्याय चावार्याय च नमः प्रतरणाय चोत्तरणाय च नमस् तीर्थ्याय च कूल्याय च नमः शष्प्याय च फेन्याय च ॥
16.43
नमः सिकत्याय च प्रवाह्याय च नमः किँशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नम ऽ इरिण्याय च प्रपथ्याय च ॥
16.44
नमो व्रज्याय च गोष्ठ्याय च नमस् तल्प्याय च गेह्याय च नमो हृदय्याय च निवेष्याय च नमः काट्याय च गह्वरेष्ठाय च ॥
16.45
नमः शुष्क्याय च हरित्याय च नमः पाँसव्याय च रजस्याय च नमो लोप्याय चोलप्याय च नम ऽ ऊर्व्याय च सूर्व्याय च ॥
16.46
नमः पर्णाय च पर्णशदाय च नम ऽ उद्गुरमाणाय चाभिघ्नते च नम ऽ आखिदते च प्रखिदते च नम ऽ इषुकृद्भ्यो धनुष्कृद्भ्यस् च वो नमो नमो वः किरिकेभ्यो देवानाँ हृदयेभ्यो नमो विचिन्वत्केभ्यो नमो विक्षिणत्केभ्यो नम ऽ आनिर्हतेभ्यः ॥
16.47
द्रापे ऽ अन्धसस् पते दरिद्र नीललोहित ।
आसां प्रजानाम् एषां पशूनां मा भेर् मा रोङ् मो च नः किं चनाममत् ॥
16.48
इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतीः ।
यथा शम् असद् द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे ऽ अस्मिन्न् अनातुरम् ॥
16.49
या ते रुद्र शिवा तनूः शिवा विश्वाहा भेषजी ।
शिवा रुतस्य भेषजी तया नो मृड जीवसे ॥
16.50
परि नो रुद्रस्य हेतिर् वृणक्तु परि त्वेषस्य दुर्मतिर् अघायोः ।
अव स्थिरा मघवद्भ्यस् तनुष्व मीढ्वस् तोकाय तनयाय मृड ॥
16.51
मीढुष्टम शिवतम शिवो नः सुमना भव ।
परमे वृक्ष ऽ आयुधं निधाय कृत्तिं वसान ऽ आ चर पिनाकं बिभ्रद् आ गहि ॥
16.52
विकिरिद्र विलोहित नमस् ते ऽ अस्तु भगवः ।
यास् ते सहस्रँ हेतयो ऽन्यम् अस्मन् नि वपन्तु ताः ॥
16.53
सहस्राणि सहस्रशो बाह्वोस् तव हेतयः ।
तासाम् ईशानो भगवः पराचीना मुखा कृधि ॥
16.54
असङ्ख्याता सहस्राणि ये रुद्रा ऽ अधि भूम्याम् ।
तेषाँ सहस्रयोजनेऽव धन्वानि तन्मसि ॥
16.55
अस्मिन् महत्य् अर्णवे ऽन्तरिक्षे भवा ऽ अधि ।
तेषाँ सहस्रयोजनेऽव धन्वानि तन्मसि ॥
16.56
नीलग्रीवाः शितिकण्ठा दिवँ रुद्रा ऽ उपश्रिताः ।
तेषाँ सहस्रयोजनेऽव धन्वानि तन्मसि ॥
16.57
नीलग्रीवाः शितिकण्ठाः शर्वा ऽ अधः क्षमाचराः ।
तेषाँ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.58
ये वृक्षेषु शष्पिञ्जरा नीलग्रीवा विलोहिताः ।
तेषाँ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.59
ये भूतानाम् अधिपतयो विशिखासः कपर्दिनः ।
तेषाँ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.60
ये पथां पथिरक्षस ऽ ऐलबृदा ऽ आयुर्युधः ।
तेषाँ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.61
ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः ।
तेषाँ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.62
ये ऽन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् ।
तेषाँ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.63
ये एतावन्तश् च भूयाँसश् च दिशो रुद्रा वितस्थिरे ।
तेषाँ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.64
नमो ऽस्तु रुद्रेभ्यो ये दिवि येषां वर्षम् इषवः ।
तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वाः ।
तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥
16.65
नमो ऽस्तु रुद्रेभ्यो ये ऽन्तरिक्षे येषां वात ऽ इषवः ।
तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वाः ।
तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥
16.66
नमो ऽस्तु रुद्रेभ्यो ये पृथिव्यां येषाम् अन्नम् इषवः ।
तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वाः ।
तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥