अध्याय 15
पञ्चम चिति मन्त्राः, चयन मन्त्राश्च
15.1
अग्ने जातान् प्र णुद नः सपत्नान् प्रत्य् अजातान् नुद जातवेदः ।
अधि नो ब्रूहि सुमना ऽ अहेडँस् तव स्याम शर्मँस् त्रिवरूथ ऽ उद्भौ ॥
15.2
सहसा जातान् प्र णुदा नः सपत्नान् प्रत्य् अजातान् जातवेदो नुदस्व ।
अधि नो ब्रूहि सुमनस्यमानो वयँ स्याम प्र णुदा नः सपत्नान् ॥
15.3
षोडशी स्तोम ऽ ओजो द्रविणम् ।
चतुश्चत्वारिँश स्तोमो वर्चो द्रविणम् ।
अग्नेः पुरीषम् अस्य अप्सो नाम तां त्वा विश्वे ऽ अभि गृणन्तु देवाः ।
स्तोमपृष्ठा घृतवतीह सीद प्रजावद् अस्मे द्रविणा यजस्व ॥
15.4
एवश् छन्दः ।
वरिवश् छन्दः ।
शम्भूश् छन्दः ।
परिभूश् छन्दः ।
ऽ आच्छच् छन्दः ।
मनश् छन्दः ।
व्यचश् छन्दः ।
सिन्धुश् छन्दः ।
समुद्रश् छन्दः ।
सरिरं छन्दः ।
ककुप् छन्दः ।
त्रिककुप् छन्दः ।
काव्यं छन्दः ।
ऽ अङ्कुपं छन्दः ।
अक्षरपङ्क्तिश् छन्दः ।
पदपङ्क्तिश् छन्दः ।
विष्टारपङ्क्तिश् छन्दः ।
क्षुरो भ्राजश् छन्दः ॥
15.5
आच्छच् छन्दः ।
प्रच्छच् छन्दः ।
संयच् छन्दः ।
वियच् छन्दः ।
बृहच् छन्दः ।
रथन्तरं छन्दः ।
निकायश् छन्दः ।
विवधश् छन्दः ।
गिरश् छन्दः ।
भ्रजश् छन्दः ।
सँस्तुप् छन्दः ।
ऽ अनुष्टुप् छन्दः ।
ऽ एवश् छन्दः ।
वरिवश् छन्दः ।
वयश् छन्दः ।
वयस्कृच् छन्दः ।
विष्पर्धाश् छन्दः ।
विशालं छन्दः ।
छदिश् छन्दः ।
दूरोहणं छन्दः ।
तन्द्रं छन्दः ।
ऽ अङ्काङ्कं छन्दः ॥
15.6
रश्मिना सत्याय सत्यं जिन्व ।
प्रेतिना धर्मणा धर्मं जिन्व ।
अन्वित्या दिवा दिवं जिन्व ।
सन्धिनान्तरिक्षेणान्तरिक्षं जिन्व ।
प्रतिधिना पृथिव्या पृथिवीं जिन्व ।
विष्टम्भेन वृष्ट्या वृष्टिं जिन्व ।
प्रवया ऽह्नाहर् जिन्व ।
अनुया रात्र्या रात्रीं जिन्व ।
उशिजा वसुभ्यो वसून् जिन्व ।
प्रकेतेनादित्येभ्य ऽ आदित्यान् जिन्व ॥
15.7
तन्तुना रायस्पोषेण रायस्पोषं जिन्व ।
सँसर्पेण श्रुताय श्रुतं जिन्व ।
ऐडेनौषधीभिर् ओषधीर् जिन्व ।
उत्तमेन तनूभिस् तनूर् जिन्व ।
वयोधसाधीतेनाधीतं जिन्व ।
अभिजिता तेजसा तेजो जिन्व ॥
15.8
प्रतिपद् असि प्रतिपदे त्वा ।
अनुपद् अस्य् अनुपदे त्वा ।
सम्पद् असि सम्पदे त्वा ।
तेजो ऽसि तेजसे त्वा ॥
15.9
त्रिवृद् असि त्रिवृते त्वा ।
प्रवृद् असि प्रवृते त्वा ।
विवृद् असि विवृते त्वा ।
सवृद् असि सवृते त्वा ।
ऽऽआक्रमो ऽस्य् आक्रमाय त्वा ।
सङ्क्रमो ऽसि सङ्क्रमाय त्वा ।
उत्क्रमो ऽस्य् उत्क्रमाय त्वा ।
उत्क्रान्तिर् अस्य् उत्क्रान्त्यै त्वा ।
अधिपतिनोर्जोर्जं जिन्व ॥
15.10
राज्ञ्य् असि प्राची दिग् वसवस् ते देवा ऽ अधिपतयो ऽग्निर् हेतीनां प्रतिधर्ता त्रिवृत् त्वा स्तोमः पृथिव्याँ श्रयत्व् आज्यम् उक्थम् अव्यथायै स्तभ्नातु रथन्तरँ साम प्रतिष्ठित्याऽ अन्तरिक्ष ऽ ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु ॥
15.11
विराड् असि दक्षिणा दिग् रुद्रास् ते देवा ऽ अधिपतय ऽ इन्द्रो हेतीनां प्रतिधर्ता पञ्चदशस् त्वा स्तोमः पृथिव्याँ श्रयतु प्रौगम् उक्थम् अव्यथायै स्तभ्नातु बृहत् साम प्रतिष्ठित्या ऽ अन्तरिक्ष ऽ ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु ॥
15.12
सम्राड् असि प्रतीची दिग् आदित्यास् ते देवा ऽ अधिपतयो वरुणो हेतीनां प्रतिधर्ता सप्तदशस् त्वा स्तोमः पृथिव्याँ श्रयतु मरुत्वतीयम् उक्थम् अव्यथायै स्तभ्नातु वैरूपँ साम प्रतिष्ठित्या ऽ अन्तरिक्ष ऽ ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु ॥
15.13
स्वराड् अस्य् उदीच्य् दिङ् मरुतस् ते देवा ऽ अधिपतयः सोमो हेतीनां प्रतिधर्तैकविँशस् त्वा स्तोमः पृथिव्याँ श्रयतु निष्केवल्यम् उक्थम् अव्यथायै स्तभ्नातु वैराजँ साम प्रतिष्ठित्या ऽ अन्तरिक्ष ऽ ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु ॥
15.14
अधिपत्न्य् असि बृहती दिग् विश्वे ते देवा ऽ अधिपतयो बृहस्पतिर् हेतीनां प्रतिधर्ता त्रिणवत्रयस्त्रिँशौ त्वा स्तोमौ पृथिव्याँ श्रयतां वैश्वदेवाग्निमारुते ऽ उक्थे ऽ अव्यथायै स्तभ्नीताँ शाक्वररैवते सामनी प्रतिष्ठित्या ऽ अन्तरिक्ष ऽ ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु ॥
15.15
अयं पुरो हरिकेशः सूर्यरश्मिस् तस्य रथगृत्सश् च रथौजाश् च सेनानीग्रामण्यौ ।
पुञ्जिकस्थला च क्रतुस्थला चाप्सरसौ दङ्क्ष्णवः पशवो हेतिः पौरुषेयो वधः प्रहेतिस् तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥
15.16
अयं दक्षिणा विश्वकर्मा तस्य रथस्वनश् च रथेचित्रश् च सेनानीग्रामण्यौ ।
मेनका च सहजन्या चाप्सरसौ यातुधाना हेती रक्षाँसि प्रहेतिस् तेभ्यो नमो ऽअस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥
15.17
अयं पश्चाद् विश्वव्यचास् तस्य रथप्रोतश् चासमरथश् च सेनानीग्रामण्यौ ।
प्रम्लोचन्ती चानुम्लोचन्ती चाप्सरसौ व्याघ्रा हेतिः सर्पा प्रहेतिस् तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥
15.18
अयम् उत्तरात् संयद्वसुस् तस्य तार्क्ष्यश् चारिष्टनेमिश् च सेनानीग्रामण्यौ ।
विश्वाची च घृताची चाप्सरसाव् आपो हेतिर् वातः प्रहेतिस् तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥
15.19
अयम् उपर्य् अर्वाग्वसुस् तस्य सेनजिच् च सुषेणश् च सेनानीग्रामण्यौ ।
उर्वशी च पूर्वचित्तिश् चाप्सरसाव् अवस्फूर्जन् हेतिर् विद्युत् प्रहेतिस् तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥
15.20
अग्निर् मूर्धा दिवः ककुत् पतिः पृथिव्या ऽ अयम् ।
अपाँ रेताँसि जिन्वति ॥
15.21
अयम् अग्निः सहस्रिणो वाजस्य शतिनस् पतिः ।
मूर्धा कवी रयीणाम् ॥
15.22
त्वाम् अग्ने पुष्कराद् अध्य् अथर्वा निर् अमन्थत ।
मूर्ध्नो विश्वस्य वाघतः ॥
15.23
भुवो यज्ञस्य रजसश् च नेता यत्रा नियुद्भिः सचसे शिवाभिः ।
दिवि मूर्धानं दधिषे स्वर्षां जिह्वाम् अग्ने चकृषे हव्यवाहम् ॥
15.24
अबोध्य् अग्निः समिधा जनानां प्रति धेनुम् इवायतीम् उषासम् ।
यह्वा ऽ इव प्र वयाम् उज्जिहानाः प्र भानवः सिस्रते नाकम् अच्छ ॥
15.25
अवोचाम कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे ।
गविष्ठिरो नमसा स्तोमम् अग्नौ दिवीव रुक्मम् उरुव्यञ्चम् अश्रेत् ॥
15.26
अयम् इह प्रथमो धायि धातृभिर् होता यजिष्ठो ऽ अध्वरेष्व् ईड्यः ।
यम् अप्नवानो भृगवो विरुरुचुर् वनेषु चित्रं विभ्वं विशे-विशे ॥
15.27
जनस्य गोपा ऽ अजनिष्ट जागृविर् अग्निः सुदक्षः सुविताय नव्यसे ।
घृतप्रतीको बृहता दिविस्पृशा द्युमद् वि भाति भरतेभ्यः शुचिः ॥
15.28
त्वाम् अग्ने ऽ अङ्गिरसो गुहा हितम् अन्व् अविन्दञ् छिश्रियाणं वने-वने ।
स जायसे मथ्यमानः सहो महत् त्वाम् आहुः सहसस् पुत्रम् अङ्गिरः ॥
15.29
सखायः सं वः सम्यञ्चम् इषँ स्तोमं चाग्नये ।
वर्षिष्ठाय क्षितीनामूर्जो नप्त्रे सहस्वते ॥
15.30
सँ-सम् इद् युवसे वृषन्न् अग्ने विश्वान्य् अर्य ऽ आ ।
इडस् पदे सम् इध्यसे स नो वसून्य् आ भर ॥
15.31
त्वां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः ।
शोचिष्केशं पुरुप्रियाग्ने हव्याय वोढवे ॥
15.32
एना वो ऽ अग्निं नमसोर्जो नपातम् आ हुवे ।
प्रियं चेतिष्ठम् अरतिँ स्वध्वरं विश्वस्य दूतम् अमृतम् ॥
15.33
विश्वस्य दूतम् अमृतं विश्वस्य दूतम् अमृतम् ।
स योजते ऽ अरुषा विश्वभोजसा स दुद्रवत् स्वाहुतः ॥
15.34
स दुद्रवत् स्वाहुतः स दुद्रवत् स्वाहुतः ।
सुब्रह्मा यज्ञः सुशमी वसूनां देवँ राधो जनानाम् ॥
15.35
अग्ने वाजस्य गोमत ऽ ईशानः सहसो यहो ।
अस्मे धेहि जातवेदो महि श्रवः ॥
15.36
स ऽ इधानो वसुष् कविर् अग्निर् ईडेन्यो गिरा ।
रेवद् अस्मभ्यं पुर्वणीक दीदिहि ॥
15.37
क्षपो राजन्न् उत त्मनाग्ने वस्तोर् उतोषसः ।
स तिग्मजम्भ रक्षसो दह प्रति ॥
15.38
भद्रो नोऽअग्निर् आहुतो भद्रा रातिः सुभग भद्रो ऽअध्वरः ।
भद्राऽ उत प्रशस्तयः ॥
15.39
भद्रा ऽ उत प्रशस्तयो भद्रं मनः कृणुष्व वृत्रतूर्ये ।
येना समत्सु सासहः ॥
15.40
येना समत्सु सासहो ऽव स्थिरा तनुहि भूरि शर्धताम् ।
वनेमा ते ऽ अभिष्टिभिः ॥
15.41
अग्निं तं मन्ये यो वसुर् अस्तं यं यन्ति धेनवः ।
अस्तम् अर्वन्त ऽ आशवो ऽस्तं नित्यासो वाजिन ऽ इषँ स्तोतृभ्य ऽ आ भर ॥
15.42
सो अग्निर् यो वसुर् गृणे सं यम् आयन्ति धेनवः ।
सम् अर्वन्तो रघुद्रुवः सँ सुजातासः सूरय ऽ इषँ स्तोतृभ्य ऽ आ भर ॥
15.43
उभे सुश्चन्द्र सर्पिषो दर्वी श्रीणीष ऽ आसनि ।
उतो न ऽ उत् पुपूर्या ऽ उक्थेषु शवसस् पत ऽ इषँ स्तोतृभ्य ऽ आ भर ॥
15.44
अग्ने तम् अद्याश्वं न स्तोमैः क्रतुं न भद्रँ हृदिस्पृशम् ।
ऋध्यामा त ऽ ओहैः ॥
15.45
अधा ह्य् अग्ने क्रतोर् भद्रस्य दक्षस्य साधोः ।
रथीर् ऋतस्य बृहतो बभूथ ॥
15.46
एभिर् नो ऽ अर्कैर् भवा नो अर्वाङ् स्वर्ण ज्योतिः ।
अग्ने विश्वेभिः सुमना ऽ अनीकैः ॥
15.47
अग्निँ होतारं मन्ये दास्वन्तं वसुँ सूनुँ सहसो जातवेदसं विप्रं न जातवेदसम् ।
य ऽ ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा ।
घृतस्य विभ्राष्टिम् अनु वष्टि शोचिषाऽऽजुह्वानस्य सर्पिषः ॥
15.48
अग्ने त्वं नो ऽ अन्तम उत त्राता शिवो भवा वरूथ्यः ।
वसुर् अग्निर् वसुश्रवा ऽ अच्छा नक्षि द्युमत्तमँ रयिं दाः ।
तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनम् ईमहे सखिभ्यः ॥
15.49
येन ऽ ऋषयस् तपसा सत्रम् आयन्न् इन्धाना ऽ अग्निँ स्वर् आभरन्तः ।
तस्मिन्न् अहं नि दधे नाके ऽ अग्निं यम् आहुर् मनव स्तीर्णबर्हिषम् ॥
15.50
तं पत्नीभिर् अनु गच्छेम देवाः पुत्रैर् भ्रातृभिर् उत वा हिरण्यैः ।
नाकं गृभ्णानाः सुकृतस्य लोके तृतीये पृष्ठे ऽ अधि रोचने दिवः ॥
15.51
आ वाचो मध्यम् अरुहद् भुरण्युर् अयम् अग्निः सत्पतिश् चेकितानः ।
पृष्ठे पृथिव्या निहितो दविद्युतद् अधस् पदं कृणुतां ये पृतन्यवः ॥
15.52
अयम् अग्निर् वीरतमो वयोधाः सहस्रियो द्योतताम् अप्रयुच्छन् ।
विभ्राजमानः सरिरस्य मध्य ऽ उप प्र याहि दिव्यानि धाम ॥
15.53
सम्प्रच्यवध्वम् उप सम्प्रयाताग्ने पथो देवयानान् कृणुध्वम् ।
पुनः कृण्वाना पितरा युवानान्वा ताँसीत् त्वयि तन्तुम् एतम् ॥
15.54
उद् बुध्यस्वाग्ने प्रति जागृहि त्वम् इष्टापूर्ते सँ सृजेथाम् अयं च ।
अस्मिन्त् सधस्थे अध्य् उत्तरस्मिन् विशवे देवा यजमानश् च सीदत ॥
15.55
येन वहसि सहस्रं येनाग्ने सर्ववेदसम् ।
तेनेमं यज्ञं नो नय स्वर् देवेषु गन्तवे ॥
15.56
अयं ते योनिर् ऋत्वियो यतो जातो ऽ अरोचथाः ।
तं जानन्न् अग्न ऽ आरोहाथा नो वर्धया रयिम् ॥
15.57
तपश् च तपस्यश् च शैशिराव् ऋतू ऽ अग्नेर् अन्तःश्लेषो सि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ऽ ओषधयः कल्पन्ताम् अग्नयः पृथङ् नम ज्यैष्ठ्याय सव्रताः ।
ये ऽ अग्नयः समनसो न्तरा द्यावापृथिवी ऽ इमे शैशिराव् ऋतू ऽ अभिकल्पमाना ऽ इन्द्रम् इव देवा ऽ अभिसं विशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम् ॥
15.58
परमेष्ठी त्वा सादयतु दिवस् पृष्ठे ज्योतिष्मतीम् ।
विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय ।
सूर्यस् ते ऽधिपतिस् तया देवतयाऽङ्गिरस्वद् ध्रुवा सीद ॥
15.59
लोकं पृण छिद्रं पृणाथो सीद ध्रुवा त्वम् ।
इन्द्राग्नी त्वा बृहस्पतिर् अस्मिन् योनाव् असीषदन् ॥
15.60
ता ऽ अस्य सूददोहसः सोमँ श्रीणन्ति पृश्नयः ।
जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः ॥
15.61
इन्द्रं विश्वा अवीवृधन्त् समुद्रव्यचसं गिरः ।
रथीतमँ रथीनां वाजानाँ सत्पतिं पतिम् ॥
15.62
प्रोथद् अश्वो न यवसे विष्यन् यदा महः संवरणाद् व्य् अस्थात् ।
आद् अस्य वातो ऽ अनु वाति शोचिर् अध स्म ते व्रजनं कृष्णम् अस्ति ॥
15.63
आयोष् ट्वा सदने सादयाम्य् अवतश् छायायाँ समुद्रस्य हृदये ।
रश्मीवतीं भास्वतीम् आ या द्यां भास्य् आ पृथिवीम् ओर्व् अन्तरिक्षम् ॥
15.64
परमेष्ठी त्वा सादयतु दिवस् पृष्ठे व्यचस्वतीं प्रथस्वतीम् दिवं यच्छ दिवं दृँह दिवं मा हिँसीः ।
विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय ।
सूर्यस् त्वाभि पातु मह्या स्वस्त्या छर्दिषा शन्तमेन तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम् ॥
15.65
सहस्रस्य प्रमासि ।
सहस्रस्य प्रतिमासि ।
सहस्रस्योन्मासि ।
साहस्रो ऽसि ।
सहस्राय त्वा ॥