अध्यायः 14
अग्निचयने द्वितीय तृतीय चतुर्थी चिति मन्त्राः
14.1
ध्रुवक्षितिर् ध्रुवयोनिर् ध्रुवासि ध्रुवं योनिम् आ सीद साधुया ।
उख्यस्य केतुं प्रथमं जुषाणा ।
अश्विनाध्वर्यू सादयताम् इह त्वा ॥
14.2
कुलायिनी घृतवती पुरन्धिः स्योने सीद सदने पृथिव्याः ।
अभि त्वा रुद्रा वसवो गृणन्त्व् इमा ब्रह्म पीपिहि सौभगाय ।
अश्विनाध्वर्यू सादयताम् इह त्वा ॥
14.3
स्वैर् दक्षैर् दक्षपितेह सीद देवानाँ सुम्ने बृहते रणाय ।
पितेवैधि सूनव ऽ आ सुशेवा स्वावेशा तन्वा सं विशस्व ।
अश्विनाध्वर्यू सादयताम् इह त्वा ॥
14.4
पृथिव्याः पुरीषम् अस्य् अप्सो नाम तां त्वा विश्वे ऽ अभि गृणन्तु देवाः ।
स्तोमपृष्ठा घृतवतीह सीद प्रजावद् अस्मे द्रविणा यजस्व ।
अश्विनाध्वर्यू सादयताम् इह त्वा ॥
14.5
अदित्यास् त्वा पृष्ठे सादयाम्य् अन्तरिक्षस्य धर्त्रीं विष्टम्भनीं दिशामधिपत्नीं भुवनानामूर्मिर् द्रप्सो ऽ अपाम् असि विश्वकर्मा त ऽ ऋषिः ।
अश्विनाध्वर्यू सादयताम् इह त्वा ॥
14.6
शुक्रश् च शुचिश् च ग्रीष्माव् ऋतू ऽ अग्नेर् अन्तःश्लेषो ऽसि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ऽ ओषधयः कल्पन्ताम् अग्नयः पृथङ् नम ज्यैष्ठ्याय सव्रताः ।
ये ऽ अग्नयः समनसो ऽन्तरा द्यावापृथिवी ऽ इमे ग्रैष्माव् ऋतू ऽ अभिकल्पमानाऽ इन्द्रम् इव देवा ऽ अभिसं विशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम् ॥
14.7
सजूर् ऋतुभिः सजूर् विधाभिः सजूर् देवैः सजूर् देवैर् वयोनाधैर् अग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयताम् इह त्वा ।
सजूर् ऋतुभिः सजूर् विधाभिः सजूर् वसुभिः सजूर् देवैर् वयोनाधैर् अग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयताम् इह त्वा ।
सजूर् ऋतुभिः सजूर् विधाभिः सजू रुद्रैः सजूर् देवैर् वयोनाधैर् अग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयताम् इह त्वा ।
सजूर् ऋतुभिः सजूर् विधाभिः सजूर् आदित्यैः सजूर् देवैर् वयोनाधैर् अग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयताम् इह त्वा ।
सजूर् ऋतुभिः सजूर् विधाभिः सजूर् विश्वैर् देवैः सजूर् देवैर् वयोनाधैर् अग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयताम् इह त्वा ॥
14.8
प्राणं मे पाहि ।
अपानं मे पाहि ।
व्यानं मे पाहि ।
चक्षुर् म ऽ उर्व्या वि भाहि ।
श्रोत्रं मे श्लोकय ।
अपः पिन्व ।
ओषधीर् जिन्व ।
द्विपाद् अव ।
चतुष्पात् पाहि ।
दिवो वृष्टिम् एरय ॥
14.9
मूर्धा वयः प्रजापतिश् छन्दः ।
क्षत्रं वयो मयन्दं छन्दः ।
विष्टम्भो वयो ऽधिपतिश् छन्दः ।
विश्वकर्मा वयः परमेष्ठी छन्दः ।
वस्तो वयो विवलं छन्दः ।
वृष्णिर् वयो विशालं छन्दः ।
पुरुषो वयस् तन्द्रं छन्दः ।
व्याघ्रो वयो ऽनाधृष्टं छन्दः ।
सिँहो वयश् छदिश् छन्दः ।
पष्ठवाड् वयो बृहती छन्दः ।
ऽ उक्षा वयः ककुप् छन्दः ।
ऽ ऋषभो वयः सतोबृहती छन्दः ॥
14.10
अनड्वान् वयः पङ्क्तिश् छन्दः ।
धेनुर् वयो जगती छन्दः ।
त्र्यविर् वयस् त्रिष्टुप् छन्दः ।
दित्यवाड् वयो विराट् छन्दः ।
पञ्चाविर् वयो गायत्री छन्दः ।
त्रिवत्सो वय ऽ उष्णिक् छन्दः ।
तुर्यवाड् वयो ऽनुष्टुप् छन्दः ।
[ लोकं पृण छिद्रं पृणाथो सीद ध्रुवा त्वम् ।
इन्द्राग्नी त्वा बृहस्पतिर् अस्मिन् योनाव् असीषदन् ।
ता अस्य सूददोहसः सोमँ श्रीणन्ति पृश्नयः ।
जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः ।
इन्द्रं विश्वा अवीवृधन्त् समुद्रव्यचसं गिरः ।
रथीतमँ रथीनां वाजानाँ सत्पतिं पतिम् ॥ ]???
14.11
इन्द्राग्नी ऽ अव्यथमानाम् इष्टकां दृँहतं युवम् ।
पृष्ठेन द्यावापृथिवी ऽ अन्तरिक्षं च विबाधसे ॥
14.12
विश्वकर्मा त्वा सादयत्व् अन्तरिक्षस्य पृष्ठे व्यचस्वतीं प्रथस्वतीम् अन्तरिक्षं यच्छान्तरिक्षं दृँहान्तरिक्षं मा हिँसीः ।
विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय ।
वायुष् ट्वाभि पातु मह्या स्वस्त्या छर्दिषा शन्तमेन तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥
14.13
राज्ञ्य् असि प्राची दिक् ।
विराड् असि दक्षिणा दिक् ।
सम्राड् असि प्रतीची दिक् ।
स्वराड् अस्य् उदीची दिक् ।
अधिपत्न्य् असि बृहती दिक् ॥
14.14
विश्वकर्मा त्वा सादयत्व् अन्तरिक्षस्य पृष्ठे ज्योतिष्मतीम् ।
विश्वस्मै प्राणायापानाय व्यानाय विश्वं ज्योतिर् यच्छ ।
वायुष्टे ऽधिपतिस् तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥
14.15
नभश् च नभस्यश् च वार्षिकाव् ऋतू ऽ अग्नेर् अन्तःश्लेषो सि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ऽ ओषधयः कल्पन्ताम् अग्नयः पृथङ् नम ज्यैष्ठ्याय सव्रताः ।
ये ऽ अग्नयः समनसोऽन्तरा द्यावापृथिवी ऽ इमे वार्षिकाव् ऋतू ऽ अभिकल्पमानाऽ इन्द्रम् इव देवा ऽ अभिसं विशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम् ॥
14.16
इषश् चोर्जश् च शारदाव् ऋतू ऽ अग्नेर् अन्तःश्लेषोऽसि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ऽ ओषधयः कल्पन्ताम् अग्नयः पृथङ् नम ज्यैष्ठ्याय सव्रताः ।
ये ऽ अग्नयः समनसोऽन्तरा द्यावापृथिवी ऽ इमे शारदाव् ऋतू ऽ अभिकल्पमाना ऽइन्द्रम् इव देवाऽ अभिसं विशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम् ॥
14.17
आयुर् मे पाहि ।
प्राणं मे पाहि ।
अपानं मे पाहि ।
व्यानं मे पाहि ।
चक्षुर् मे पाहि ।
श्रोत्रं मे पाहि ।
वाचं मे पिन्व ।
मनो मे जिन्व ।
आत्मानं मे पाहि ।
ज्योतिर् मे यच्छ ॥
14.18
मा छन्दः ।
प्रमा छन्दः ।
प्रतिमा छन्दः ।
ऽ अस्रीवयश् छन्दः ।
पङ्क्तिश् छन्दः ।
ऽ उष्णिक् छन्दः ।
बृहती छन्दः ।
ऽअनुष्टुप् छन्दः ।
विराट् छन्दः ।
गायत्री छन्दः ।
त्रिष्टुप् छन्दः ।
जगती छन्दः ॥
14.19
पृथिवी छन्दः ।
ऽअन्तरिक्षं छन्दः ।
द्यौश् छन्दः ।
समाश् छन्दः ।
नक्षत्राणि छन्दः ।
वाक् छन्दः ।
मनश् छन्दः ।
कृषिश् छन्दः ।
हिरण्यं छन्दः ।
गौश् छन्दः ।
ऽअजा छन्दः ।
ऽअश्वश् छन्दः ॥
14.20
अग्निर् देवता ।
वातो देवता ।
सूर्यो देवता ।
चन्द्रमा देवता ।
वसवो देवता ।
रुद्रा देवता ।
ऽऽआदित्या देवता ।
मरुतो देवता ।
विश्वे देवा देवता ।
बृहस्पतिर् देवता ।
इन्द्रो देवता ।
वरुणो देवता ॥
14.21
मूर्धासि राड् ध्रुवासि धरुणा धर्त्र्य् असि धरणी ।
आयुषे त्वा वर्चसे त्वा कृष्यै त्वा क्षेमाय त्वा ॥
14.22
यन्त्री राड् यन्त्र्य् असि यमनी ध्रुवासि धरित्री ।
इषे त्वोर्जे त्वा रय्यै त्वा पोषाय त्वा ।
लोकं पृण छिद्रं पृणाथो सीद ध्रुवा त्वम् ।
इन्द्राग्नी त्वा बृहस्पतिर् अस्मिन् योनाव् असीषदन् ।
ता अस्य सूददोहसः सोमँ श्रीणन्ति पृश्नयः ।
जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः ।
इन्द्रं विश्वा अवीवृधन्त् समुद्रव्यचसं गिरः ।
रथीतमँ रथीनां वाजानाँ सत्पतिं पतिम् ॥
14.23
आशुर् त्रिवृत् ।
भान्तः पञ्चदशः ।
व्योमा सप्तदशः ।
धरुण ऽ एकविँशः ।
प्रतूर्तिर् अष्टादशः ।
तपो नवदशः ।
ऽअभीवर्तः सविँशः ।
वर्चो द्वाविँशः ।
सम्भरणस् त्रयोविँशः ।
योनिश् चतुर्विँशः ।
गर्भाः पञ्चविँशः ।
ऽ ओजस् त्रिणवः ।
क्रतुर् एकत्रिँशः ।
प्रतिष्ठा त्रयस्त्रिँशः ।
ब्रध्नस्य विष्टपं चतुस्त्रिँशः ।
नाकः षट्त्रिँशः ।
विवर्तो ष्टाचत्वारिँशः ।
धर्त्रं चतुष्टोमः ॥
14.24
अग्नेर् भागो ऽसि दीक्षाया ऽ आधिपत्यं ब्रह्म स्पृतं त्रिवृत् स्तोमः ।
इन्द्रस्य भागो ऽसि विष्णोर् आधिपत्यं क्षत्रँ स्पृतं पञ्चदशः स्तोमः ।
नृचक्षसां भागो ऽसि धातुर् आधिपत्यं जनित्रँ स्पृतँ सप्तदशः स्तोमः ।
मित्रस्य भागो ऽसि वरुणस्याधिपत्यं दिवो वृष्टिर् वात स्पृत ऽएकविँश स्तोमः ॥
14.25
वसूनां भागो ऽसि रुद्राणाम् आधिपत्यं चतुष्पात् स्पृतं चतुर्विँश स्तोमः ।
आदित्यानां भागो ऽसि मरुताम् आधिपत्यं गर्भा स्पृताः पञ्चविँश स्तोमः ।
अदित्यै भागो ऽसि पूष्ण ऽ आधिपत्यम् ओज स्पृतं त्रिणव स्तोमः ।
देवस्य सवितुर् भागो ऽसि बृहस्पतेर् आधिपत्यँ समीचीर् दिश स्पृताश् चतुष्टोम स्तोमः ॥
14.26
यवानां भागो ऽस्य् अयवानाम् आधिपत्यं प्रजा स्पृताश् चतुश्चत्वारिँश स्तोमः ।
ऋभूणां भागो ऽसि विश्वेषां देवानाम् आधिपत्यं भूतँ स्पृतं त्रयस्त्रिँश स्तोमः ॥
14.27
सहश् च सहस्यश् च हैमन्तिकाव् ऋतू ऽ अग्नेर् अन्तःश्लेषो सि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ऽ ओषधयः कल्पन्ताम् अग्नयः पृथङ् नम ज्यैष्ठ्याय सव्रताः ।
ये ऽ अग्नयः समनसो न्तरा द्यावापृथिवी ऽ इमे हैमन्तिकाव् ऋतू ऽ अभिकल्पमाना ऽ इन्द्रम् इव देवा ऽ अभिसंविशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम् ॥
14.28
एकयास्तुवत प्रजा ऽ अधीयन्त प्रजापतिर् अधिपतिर् आसीत् ।
तिसृभिर् अस्तुवत ब्रह्मासृज्यत ब्रह्मणस्पतिर् अधिपतिर् आसीत् ।
पञ्चभिर् अस्तुवत भूतान्य् असृज्यन्त भूतानां पतिर् अधिपतिर् आसीत् ।
सप्तभिर् अस्तुवत सप्त ऋषयो ऽसृज्यन्त धाताधिपतिर् आसीत् ॥
14.29
नवभिर् अस्तुवत पितरो ऽसृज्यन्तादितिर् अध्निपत्न्य् आसीत् ।
एकादशभिर् अस्तुवत ऽ ऋतवो ऽसृज्यन्तार्तवा ऽ अधिपतय ऽ आसन् ।
त्रयोदशभिर् अस्तुवत मासा ऽ असृज्यन्त संवत्सरो ऽधिपतिर् आसीत् ।
पञ्चदशभिर् अस्तुवत क्षत्रम् असृज्यतेन्द्रो ऽधिपतिर् आसीत् ।
सप्तदशभिर् अस्तुवत ग्राम्याः पशवो ऽसृज्यन्त बृहस्पतिर् अधिपतिर् आसीत् ॥
14.30
नवदशभिर् अस्तुवत शूद्रार्याव् असृज्येताम् अहोरात्रे ऽ अधिपत्नी आस्ताम् ।
एकविँशत्यास्तुवतैकशफाः पशवो सृज्यन्त वरुणो ऽधिपतिर् आसीत् ।
त्रयोविँशत्यास्तुवत क्षुद्रां पशवो ऽसृज्यन्त पूषाधिपतिर् आसीत् ।
पञ्चविँशत्यास्तुवताऽऽरण्याः पशवो ऽसृज्यन्त वायुर् अधिपतिर् आसीत् ।
सप्तविँशत्यास्तुवत द्यावापृथिवी व्यैतां वसवो रुद्राऽ आदित्याऽ अनुव्य् आयँस् त ऽ एवाधिपतय ऽ आसन् ॥
14.31
नवविँशत्यास्तुवत वनस्पतयोऽसृज्यन्त सोमो ऽधिपतिर् आसीत् ।
एकत्रिँशतास्तुवत प्रजा ऽ असृज्यन्त यवाश् चायवाश् चाधिपतय ऽ आसन् ।
त्रयस्त्रिँशतास्तुवत भूतान्य् अशाम्यन् प्रजापतिः परमेष्ठ्य् अधिपतिर् आसीत् ।
[लोकं पृण छिद्रं पृणाथो सीद ध्रुवा त्वम् ।
इन्द्राग्नी त्वा बृहस्पतिर् अस्मिन् योनाव् असीषदन् ।
ता अस्य सूददोहसः सोमँ श्रीणन्ति पृश्नयः ।
जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः ।
इन्द्रं विश्वा अवीवृधन्त् समुद्रव्यचसं गिरः ।
रथीतमँ रथीनां वाजानाँ सत्पतिं पतिम् ॥