००९

अध्यायः 9
वाजपेय राजसूय यज्ञाङ्गमन्त्राः। वाजपेयः 1-34, राजसूयः 35-40

9.1
देव सवितः प्र सुव यज्ञं प्र सुव यज्ञपतिं भगाय ।
दिव्यो गन्धर्वः केतपूः केतं नः पुनातु वाचस्पतिर् वाजं नः स्वदतु स्वाहा ॥

9.2
ध्रुवसदं त्वा नृषदं मनःसदम् ।
उपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णामि ।
एष ते योनिर् इन्द्राय त्वा जुष्टतमम् ।
अप्सुषदं त्वा घृतसदं व्योमसदम् ।
उपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णामि ।
एष ते योनिर् इन्द्राय त्वा जुष्टतमम् ।
पृथिवीसदं त्वाऽन्तरिक्षसदं दिविसदं देवसदं नाकसदम् ।
उपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णामि ।
एष ते योनिर् इन्द्राय त्वा जुष्टतमम् ॥

9.3
अपाँ रसम् उद्वयसँ सूर्ये सन्तँ समाहितम् ।
अपाँ रसस्य यो रसस् तं वो गृह्णाम्य् उत्तमम् ।
उपयामगृहीतो सीन्द्राय त्वा जुष्टं गृह्णामि ।
एष ते योनिर् इन्द्राय त्वा जुष्टतमम् ॥

9.4
ग्रहा ऽ ऊर्जाहुतयो व्यन्तो विप्राय मतिम् ।
तेषां विशिप्रियाणां वो ऽ हम् इषमूर्जँ सम् अग्रभम् ।
उपयामगृहीतो ऽसीन्द्राय त्वा जुष्टं गृह्णामि ।
एष ते योनिर् इन्द्राय त्वा जुष्टतमम् ।
सम्पृचौ स्थः सं मा भद्रेण पृङ्क्तम् ।
विपृचौ स्थो वि मा पाप्मना पृङ्क्तम् ॥

9.5
इन्द्रस्य वज्रो ऽसि वाजसास् त्वयाऽयम् वाजँ सेत् ।
वाजस्य नु प्रसवे मातरं महीम् अदितिं नाम वचसा करामहे ।
यस्याम् इदं विश्वं भुवनम् आविवेश तस्यां नो देवः सविता धर्म साविषत् ॥

9.6
अप्स्व् अन्तर् अमृतम् अप्सु भेषजम् अपाम् उत प्रशस्तिष्व् अश्वा भवत वाजिनः ।
देवीर् आपो यो व ऽ ऊर्मिः प्रतूर्तिः ककुन्मान् वाजसास् तेनायं वाजँ सेत् ॥

9.7
वातो वा मनो वा गन्धर्वाः सप्तविँशतिः ।
ते ऽ अग्रेऽ श्वम् अयुञ्जँस् ते ऽ अस्मिन् जवम् आदधुः ॥

9.8
वातरँहा भव वाजिन् युज्यमान ऽ इन्द्रस्येव दक्षिणः श्रियैधि ।
युञ्जन्तु त्वा मरुतो विश्ववेदस ऽ आ ते त्वष्टा पत्सु जवं दधातु ॥

9.9
जवो यस् ते वाजिन् निहितो गुहा यः श्येने परीत्तो ऽ अचरच् च वाते ।
तेन नो वाजिन् बलवान् बलेन वाजजिच् च भव समने च पारयिष्णुः ।
वाजिनो वाजजितो वाजँ सरिष्यन्तो बृहस्पतेर् भागम् अव जिघ्रत ॥

9.10
देवस्याहँ सवितुः सवे सत्यसवसो बृहस्पतेर् उत्तमं नाकँ रुहेयम् ।
देवस्याहँ सवितुः सवे सत्यसवस इन्द्रस्योत्तमं नाकँ रुहेयम् ।
देवस्याहँ सवितुः सवे सत्यप्रसवसो बृहस्पतेर् उत्तमं नाकम् अरुहम् ।
देवस्याहँ सवितुः सवे सत्यप्रसवस ऽ इन्द्रस्योत्तमं नाकम् अरुहम् ॥

9.11
बृहस्पते वाजं जय बृहस्पतये वाचं वदत बृहस्पतिं वाजं जापयत ।
इन्द्र वाजं जयेन्द्राय वाचं वदतेन्द्रं वाजं जापयत ॥

9.12
एषा वः सा सत्या संवाग् अभूद् यया बृहस्पतिं वाजम् अजीजपताजीजपत बृहस्पतिं वाजं वनस्पतयो वि मुच्यध्वम् ।
एषा वः सा सत्या संवाग् अभूद् ययेन्द्रं वाजम् अजीजपताजीजपतेन्द्रं वाजं वनस्पतयो वि मुच्यध्वम् ॥

9.13
देवस्याहँ सवितुः सवे सत्यप्रसवसो बृहस्पतेर् वाजजितो वाजं जेषम् ।
वाजिनो वाजजितोऽध्वन स्कभ्नुवन्तो योजना मिमानाः काष्ठां गच्छत ॥

9.14
एष स्य वाजी क्षिपणिं तुरण्यति ग्रीवायां बद्धो ऽ अपिकक्ष आसनि ।
क्रतुं दधिक्रा ऽ अनु सँसनिष्यदत् पथाम् अङ्काँस्य् अन्व् आपनीफणत् स्वाहा ॥

9.15
उत स्मास्य द्रवतस् तुरणयतः पर्णं न वेर् अनु वाति प्रगर्धिनः ।
श्येनस्येव ध्रजतो ऽ अङ्कसं परि दधिक्राव्णः स होर्जा तरित्रः स्वाहा ॥

9.16
शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः ।
जम्भयन्तो हिं वृकँ रक्षाᳬंसि सनेम्य् अस्मद् युयवन्न् अमीवाः ॥

9.17
ते नो ऽ अर्वन्तो हवनश्रुतो हवं विश्वे शृण्वन्तु वाजिनो मितद्रवः ।
सहस्रसा मेधसाता सनिष्यवो महो ये धनँ समिथेषु जभ्रिरे ॥

9.18
वाजे-वाजे ऽवत वाजिनो नो धनेषु विप्रा ऽ अमृता ऽ ऋतज्ञाः ।
अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर् देवयानैः ॥

9.19
आ मा वाजस्य प्रसवो जगम्याद् एमे द्यावापृथिवी विश्वरूपे ।
आ मा गन्तां पितरा मातरा चा मा सोमो ऽ अमृतत्वेन गम्यात् ।
वाजिनो वाजजितो वाजँ ससृवाँसो बृहस्पतेर् भागम् अव जिघ्रत निमृजानाः ॥

9.20
आपये स्वाहा ।
स्वापये स्वाहा ।
ऽअपिजाय स्वाहा ।
क्रतवे स्वाहा ।
वसवे स्वाहा ।
ऽअहर्पतये स्वाहा ।
ऽअह्ने मुग्धाय स्वाहा ।
मुग्धाय वैनँशिनाय स्वाहा ।
विनँशिन ऽ आन्त्यायनाय स्वाहा ।
ऽऽअन्त्याय भौवनाय स्वाहा ।
भुवनस्य पतये स्वाहा ।
ऽअधिपतये स्वाहा ॥

9.21
आयुर् यज्ञेन कल्पताम् ।
प्राणो यज्ञेन कल्पताम् ।
चक्षुर् यज्ञेन कल्पताम् ।
श्रोत्रं यज्ञेन कल्पताम् ।
पृष्ठं यज्ञेन कल्पताम् ।
यज्ञो यज्ञेन कल्पताम् ।
प्रजापतेः प्रजा ऽ अभूम ।
स्वर्देवा ऽ अगन्म ।
अमृता ऽ अभूम ॥

9.22
अस्मे वो ऽ अस्त्व् इन्द्रियम् अस्मे नृम्णम् उत क्रतुर् अस्मे वर्चाँसि सन्तु वः ।
नमो मात्रे पृथिव्यै नमो मात्रे पृथिव्यै ।
ऽइयं ते राट् ।
यन्तासि यमनो ध्रुवो ऽसि धरुणः कृष्यै त्वा क्षेमाय त्वा रय्यै त्वा पोषाय त्वा ॥

9.23
वाजस्येमं प्रसवः सुषुवे ऽग्रे सोमँ राजानम् ओषधीष्व् अप्सु ।
ता ऽ अस्मभ्यं मधुमतीर् भवन्तु वयँ राष्ट्रे जागृयाम पुरोहिताः स्वाहा ॥

9.24
वाजस्येमां प्रसवः शिश्रिये दिवम् इमा च विश्वा भुवनानि सम्राट् ।
अदित्सन्तं दापयति प्रजानन् स नो रयिँ सर्ववीरं नि यच्छतु स्वाहा ॥

9.25
वाजस्य नु प्रसव आबभूवेमा च विश्वा भुवनानि सर्वतः ।
सनेमि राजा परियाति विद्वान् प्रजां पुष्टिं वर्धयमानो ऽ अस्मे स्वाहा ॥

9.26
सोमँ राजानमवसेऽग्निमन्वारभामहे।
आदित्यान् विष्णुँ सूर्यं ब्रह्माणं च बृहस्पतिँ स्वाहा ॥

9.27
अर्यमणं बृहस्पतिम् इन्द्रं दानाय चोदय ।
वाचं विष्णुँ सरस्वतीᳬं सवितारं च वाजिनँ स्वाहा ॥

9.28
अग्ने ऽ अच्छावदेह नः प्रति नः सुमना भव ।
प्र नो यच्छ सहस्रजित्त्वँ हि धनदा ऽ असि स्वाहा ॥

9.29
प्र नो यच्छत्व् अर्यमा प्र पूषा प्र बृहस्पतिः ।
प्र वाग् देवी ददातु नः स्वाहा ॥

9.30
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
सरस्वत्यै वाचो यन्तुर् यन्त्रिये दधामि बृहस्पतेष् ट्वा साम्राज्येनाभि षिञ्चाम्य् असौ ॥

9.31
अग्निर् एकाक्षरेण प्राणम् उद् अजयत् तम् उज् जेषम् ।
अश्विनौ द्व्यक्षरेण द्विपदो मनुष्यान् उद् अजयतां तान् उज् जेषम् ।
विष्णुस् त्र्यक्षरेण त्रील्ँ लोकान् उद् अजयत् तान् उज् जेषम् ।
सोमश् चतुरक्षरेण चतुष्पदः पशून् उद् अजयत् तान् उज् जेषम् ॥

9.32
पूषा पञ्चाक्षरेण पञ्च दिश ऽ उद् अजयत् ता ऽ उज् जेषम् ।
सविता षडक्षरेण षड् ऋतून् उद् अजयत् तान् उज् जेषम् ।
मरुतः सप्ताक्षरेण सप्त ग्राम्यान् पशून् उद् अजयँस् तान् उज् जेषम् ।
बृहस्पतिर् अष्टाक्षरेण गायत्रीम् उद् अजयत् ताम् उज् जेषम् ॥

9.33
मित्रो नवाक्षरेण त्रिवृतँ स्तोमम् उद् अजयत् तम् उज् जेषम् ।
वरुणो दशाक्षरेण विराजम् उद् अजयत् ताम् उज् जेषम् ।
इन्द्र ऽ एकादशाक्षरेण त्रिष्टुभम् उद् अजयत् ताम् उज् जेषम् ।
विश्वे देवा द्वादशाक्षरेण जगतीम् उद् अजयँस् ताम् उज् जेषम् ॥

9.34
वसवस् त्रयोदशाक्षरेण त्रयोदशँ स्तोमम् उद् अजयँस् तम् उज् जेषम् ।
रुद्राश् चतुर्दशाक्षरेण चतुर्दशँ स्तोमम् उद् अजयँस् तम् उज् जेषम् ।
आदित्याः पञ्चदशाक्षरेण पञ्चदशँ स्तोमम् उद् अजयँस् तम् उज् जेषम् ।
अदितिः षोडशाक्षरेण षोडशँ स्तोमम् उद् अजयत् तम् उज् जेषम् ।
प्रजापतिः सप्तदशाक्षरेण सप्तदशँ स्तोमम् उद् अजयत् तम् उज् जेषम् ॥

9.35
एष ते निर्ऋते भागस् तं जुषस्व स्वाहा ।
ऽअग्निनेत्रेभ्यो देवेभ्यः पुरःसद्भ्यः स्वाहा ।
यमनेत्रेभ्यो देवेभ्यो दक्षिणासद्भ्यः स्वाहा ।
विश्वदेवनेत्रेभ्यो देवेभ्यो पश्चात्सद्भ्यः स्वाहा ।
मित्रावरुणनेत्रेभ्यो वा मरुन्नेत्रेभ्यो वा देवेभ्य ऽ उत्तरासद्भ्यः स्वाहा ।
सोमनेत्रेभ्यो देवेभ्यो ऽ उपरिसद्भ्यो दुवस्वद्भ्यः स्वाहा ॥

9.36
ये देवा ऽ अग्निनेत्राः पुरःसदस् तेभ्यः स्वाहा ।
ये देवा यमनेत्रा दक्षिणासदस् तेभ्यः स्वाहा ।
ये देवा विश्वदेवनेत्राः पश्चात्सदस् तेभ्यः स्वाहा ।
ये देवा मित्रावरुणनेत्रा वा मरुन्नेत्रा वोत्तरासदस् तेभ्यः स्वाहा ।
ये देवाः सोमनेत्रा ऽ उपरिसदो दुवस्वन्तस् तेभ्यः स्वाहा ॥

9.37
अग्ने सहस्व पृतना ऽ अभिमातीर् अपास्य ।
दुष्टरस् तरन्न् अरातीर् वर्चो धा यज्ञवाहसि ॥

9.38
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
उपाँशोर् वीर्येण जुहोमि हतँ रक्षः स्वाहा ।
रक्षसां त्वा वधाय ।
अवधिष्म रक्षोऽ वधिष्मामुम् असौ हतः ॥

9.39
सविता त्वा सवानाँ सुवताम् अग्निर् गृहपतीनाᳬं सोमो वनस्पतीनाम् ।
बृहस्पतिर् वाच ऽ इन्द्रो ज्यैष्ठ्याय रुद्रः पशुभ्यो मित्रः सत्यो वरुणो धर्मपतीनाम् ॥

9.40
इमं देवा ऽअसपत्नँ सुवध्वं महते क्षत्राय महते ज्यैष्ठ्याय महते जानराज्यायेन्द्रस्येन्द्रियाय ।
इमम् अमुष्य पुत्रम् अमुष्यै पुत्रम् अस्यै विश ऽ एष वो ऽमी राजा सोमो स्माकं ब्राह्मणानाᳬं राजा ॥