अध्याय 7
अग्निष्टोमे उपांशुग्रहादि सवनद्वयगता दक्षिणादानान्ता मन्त्राः
7.1
वाचस् पतये पवस्व वृष्णो अँशुभ्यां गभस्तिपूतः ।
देवो देवेभ्यः पवस्व येषां भागो ऽसि ॥
7.2
मधुमतीर् न ऽ इषस् कृधि ।
यत् ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहा ।
स्वाहा ।
उर्व् अन्तरिक्षम् अन्व् एमि ॥
7.3
स्वाङ्कृतो ऽसि विश्वेभ्य इन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यो मनस् त्वाष्टु स्वाहा त्वा सुभव सूर्याय ।
देवेभ्यस् त्वा मरीचिपेभ्यः ।
देवाᳬंशो यस्मै त्वेडे तत् सत्यम् उपरिप्रुता भङ्गेन हतो ऽसौ फट् ।
प्राणाय त्वा ।
व्यानाय त्वा ॥
7.4
उपयामगृहीतो ऽस्य् अन्तर्यच्छ मघवन् पाहि सोमम् ।
उरुष्य राय ऽएषो यजस्व ॥
7.5
अन्तस् ते द्यावापृथिवी दधाम्य् अन्तर्दधाम्य् उर्व् अन्तरिक्षम् ।
सजूर् देवेभिर् अवरैः परैश्चान्तर्यामे मघवन् मादयस्व ॥
7.6
स्वाङ्कृतोऽसि विश्वेभ्य ऽ इन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यो मनस् त्वाष्टु स्वाहा त्वा सुभव सूर्याय ।
देवेभ्यस् त्वा मरीचिपेभ्यः ।
ऽ उदानाय त्वा ॥
7.7
आ वायो भूष शुचिपा ऽ उप नः सहस्रं ते नियुतो विश्ववार ।
उपो तेऽअन्धो मद्यम् अयामि यस्य देव दधिषे पूर्वपेयम् ।
वायवे त्वा ॥
7.8
इन्द्रवायू ऽ इमे सुता ऽ उप प्रयोभिर् आगतम् ।
इन्दवो वाम् उशन्ति हि ।
उपयामगृहीतोऽसि वायव ऽ इन्द्रवायुभ्यां त्वा ।
एष ते योनिः ।
सजोषोभ्यां त्वा ॥
7.9
अयं वां मित्रावरुणा सुतः सोम ऽ ऋतावृधा ।
ममेद् इह श्रुतँ हवम् ।
उपयामगृहीतो ऽसि मित्रावरुणाभ्यां त्वा ॥
7.10
राया वयँ ससवाँसो मदेम हव्येन देवा यवसेन गावः ।
तां धेनुं मित्रावरुणा युवं नो विश्वाहा धत्तम् अनपस्फुरन्तीम् ।
एष ते योनिर् ऋतायुभ्यां त्वा ॥
7.11
या वां कशा मधुमत्याश्विना सूनृतावती ।
तया यज्ञं मिमिक्षतम् ।
उपयामगृहीतो ऽस्य् अश्विभ्यां त्वा ।
एष ते योनिर् माध्वीभ्यां त्वा ॥
7.12
तं प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठतातिं बर्हिषदँ स्वर्विदम् ।
प्रतीचीनं वृजनं दोहसे धुनिम् आशुं जयन्तम् अनु यासु वर्धसे ।
उपयामगृहीतो ऽसि शण्डाय त्वा ।
एष ते योनिर् वीरतां पाहि ।
अपमृष्टः शण्डः ।
देवास् त्वा शुक्रपाः प्रणयन्तु ।
अनाधृष्टासि ॥
7.13
सुवीरो वीरान् प्रजनयन् परीह्य् अभि रायस्पोषेण यजमानम् ।
सञ्जग्मानो दिवा पृथिव्या शुक्रः शुक्रशोचिषा ।
निरस्तः शण्डः ।
शुक्रस्याधिष्ठानम् असि ॥
7.14
अच्छिन्नस्य ते देव सोम सुवीर्यस्य रायस्पोषस्य ददितारः स्याम ।
सा प्रथमा सँस्कृतिर् विश्ववारा स प्रथमो वरुणो मित्रो ऽ अग्निः ॥
7.15
स प्रथमो बृहस्पतिश् चिकित्वाँस् तस्मा ऽ इन्द्राय सुतम् आ जुहोत स्वाहा ।
तृम्पन्तु होत्रा मध्वो याः स्विष्टा याः सुप्रीताः सुहुता यत् स्वाहा ।
अयाड् अग्नीत् ॥
7.16
अयं वेनश् चोदयत् पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने ।
इमम् अपाँ सङ्गमे सूर्यस्य शिशुं न विप्रा मतिभी रिहन्ति ।
उपयामगृहीतो ऽसि मर्काय त्वा ॥
7.17
मनो न येषु हवनेषु तिग्मं विपः शच्या वनुथो द्रवन्ता ।
आ यः शर्याभिस् तुविनृम्णो ऽ अस्याश्रीणीतादिशं गभस्तौ ।
एष ते योनिः प्रजाः पाहि ।
अपमृष्टो मर्कः ।
देवास् त्वा मन्थिपाः प्रणयन्तु ।
अनाधृष्टासि ॥
7.18
सुप्रजाः प्रजाः प्रजनयन् परीह्य् अभि रायस्पोषेण यजमानम् ।
सञ्जग्मानो दिवा पृथिव्या मन्थी मन्थिशोचिषा ।
निरस्तो मर्कः ।
मन्थिनो ऽधिष्ठानम् असि ॥
7.19
ये देवासो दिव्य् एकादश स्थ पृथिव्याम् अध्य् एकादश स्थ ।
अप्सुक्षितो महिनैकादश स्थ ते देवासो यज्ञम् इमं जुषध्वम् ॥
7.20
उपयामगृहीतो ऽस्य् आग्रयणो ऽसि स्वाग्रयणः पाहि यज्ञं पाहि यज्ञपतिं विष्णुस् त्वाम् इन्द्रियेण पातु विष्णुं त्वं पाह्य् अभि सवनानि पाहि ॥
7.21
सोमः पवते सोमः पवते ऽस्मै ब्रह्मणे ऽस्मै क्षत्रायास्मै सुन्वते यजमानाय पवत ऽ इष ऽ ऊर्जे पवते ऽ द्भ्य ऽ ओषधीभ्यः पवते द्यावापृथिवीभ्यां पवते सुभूताय पवते विश्वेभ्यस् त्वा देवेभ्यः ऽ ।
एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥
7.22
उपयामगृहीतो ऽसीन्द्राय त्वा बृहद्वते वयस्वत ऽ उक्थाव्यं गृह्णामि ।
यत् त ऽ इन्द्र बृहद् वयस् तस्मै त्वा विष्णवे त्वा ।
एष ते योनिर् उक्थेभ्यस् त्वा ।
देवेभ्यस् त्वा देवाव्यं गृह्णामि यज्ञस्यायुषे गृह्णामि ॥
7.23
मित्रावरुणाभ्यां त्वा देवाव्यं यज्ञस्यायुषे गृह्णामि ।
इन्द्राय त्वा देवाव्यं यज्ञस्यायुषे गृह्णामि ।
इन्द्राग्निभ्यां त्वा देवाव्यं यज्ञस्यायुषे गृह्णामि ।
इन्द्रावरुणाभ्यां त्वा देवाव्यं यज्ञस्यायुषे गृह्णामि ।
इन्द्राबृहस्पतिभ्यां त्वा देवाव्यं यज्ञस्यायुषे गृह्णामि ।
इन्द्राविष्णुभ्यां त्वा देवाव्यं यज्ञस्यायुषे गृह्णामि ॥
7.24
मूर्धानं दिवो ऽ अरतिं पृथिव्या वैश्वानरम् ऋत ऽ आ जातम् अग्निम् ।
कविँ सम्राजम् अतिथिं जनानाम् आसन्ना पात्रं जनयन्त देवाः ॥
7.25
उपयामगृहीतो ऽसि ध्रुवो ऽसि ध्रुवक्षितिर् ध्रुवाणां ध्रुवतमो ऽच्युतानाम् अच्युतक्षित्तमः ।
ऽ एष ते योनिर् वैश्वानराय त्वा ।
ध्रुवं ध्रुवेण मनसा वाचा सोमम् अव नयामि ।
अथा न ऽ इन्द्र ऽ इद् विशो ऽसपत्नाः समनसस् करत् ॥
7.26
यस् ते द्रप्स स्कन्दति यस् ते ऽ अँशुर् ग्रावच्युतो धिषणयोर् उपस्थात् ।
अध्वर्योर् वा परि वा यः पवित्रात् तं ते जुहोमि मनसा वषट्कृतँ स्वाहा ।
देवानाम् उत्क्रमणम् असि ॥
7.27
प्राणाय मे वर्चोदा वर्चसे पवस्व ।
व्यानाय मे वर्चोदा वर्चसे पवस्व ।
उदानाय मे वर्चोदा वर्चसे पवस्व ।
वाचे मे वर्चोदा वर्चसे पवस्व ।
क्रतूदक्षाभ्यां मे वर्चोदा वर्चसे पवस्व ।
श्रोत्राय मे वर्चोदा वर्चसे पवस्व ।
चक्षुर्भ्यां मे वर्चोदसौ वर्चसे पवेथाम् ॥
7.28
आत्मने मे मे वर्चोदा वर्चसे पवस्व ।
ओजसे मे वर्चोदा वर्चसे पवस्व ।
आयुषे मे वर्चोदा वर्चसे पवस्व ।
विश्वाभ्यो मे प्रजाभ्यो वर्चोदसौ वर्चसे पवेथाम् ॥
7.29
को ऽसि कतमो ऽसि कस्यासि को नामासि ।
यस्य ते नामामन्महि यं त्वा सोमेनातीतृपाम ।
भूर् भुवः स्वः सुप्रजाः प्रजाभिः स्याᳬं सुवीरो वीरैः सुपोषः पोषैः ॥
7.30
उपयामगृहीतो ऽसि मधवे त्वा ।
उपयामगृहीतो ऽसि माधवाय त्वा ।
उपयामगृहीतो ऽसि शुक्राय त्वा ।
उपयामगृहीतो ऽसि शुचये त्वा ।
उपयामगृहीतो ऽसि नभसे त्वा ।
उपयामगृहीतो ऽसि नभस्याय त्वा ।
उपयामगृहीतो ऽसीषे त्वा ।
उपयामगृहीतो ऽस्य् ऊर्जे त्वा ।
उपयामगृहीतो ऽसि सहसे त्वा ।
उपयामगृहीतो ऽसि सहस्याय त्वा ।
उपयामगृहीतो ऽसि तपसे त्वा ।
उपयामगृहीतो ऽसि तपस्याय त्वा ।
उपयामगृहीतो स्य् अँहसस्पतये त्वा ॥
7.31
इन्द्राग्नी ऽ आ गतँ सुतं गीर्भिर् नभो वरेण्यम् ।
अस्य पातं धियेषिता ।
उपयामगृहीतो ऽसीन्द्राग्निभ्यां त्वा ।
एष ते योनिर् इन्द्राग्निभ्यां त्वा ॥
7.32
आ घा ये ऽ अग्निम् इन्धते स्तृणन्ति बर्हिर् आनुषक् ।
येषाम् इन्द्रो युवा सखा ।
उपयामगृहीतो ऽस्य् अग्नीन्द्राभ्यां त्वा ।
एष ते योनिर् अग्नीन्द्राभ्यां त्वा ॥
7.33
ओमासश् चर्षणीधृतो विश्वे देवास ऽ आ गत ।
दाश्वाँसो दाशुषः सुतम् ।
उपयामगृहीतो ऽसि विश्वेभ्यस् त्वा देवेभ्यः ।
एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥
7.34
विश्वे देवास ऽ आ गत शृणुता म इमँ हवम् ।
एदं बर्हिर् नि षीदत ।
उपयामगृहीतो ऽसि विश्वेभ्यस् त्वा देवेभ्यः ।
एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥
7.35
इन्द्र मरुत्व ऽ इह पाहि सोमं यथा शार्याते ऽ अपिबः सुतस्य ।
तव प्रणीती तव शूर शर्मन्न् आ विवासन्ति कवयः सुयज्ञाः ।
उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वते ।
ऽ एष ते योनिर् इन्द्राय त्वा मरुत्वते ॥
7.36
मरुत्वन्तं वृषभं वावृधानम् अकवारिं दिव्यँ शासम् इन्द्रम् ।
विश्वासाहम् अवसे नूतनायोग्रँ सहोदाम् इह तँ हुवेम ।
उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वते ।
एष ते योनिर् इन्द्राय त्वा मरुत्वते ।
उपयामगृहीतो ऽसि मरुतां त्वौजसे ॥
7.37
सजोषा ऽ इन्द्र सगणो मरुद्भिः सोमं पिब वृत्रहा शूर विद्वान् ।
जहि शत्रूँन्२ ऽ अप मृधो नुदस्वाथाभयं कृणुहि विश्वतो नः ।
उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वते ।
एष ते योनिर् इन्द्राय त्वा मरुत्वते ॥
7.38
मरुत्वाँ२ ऽ इन्द्र वृषभो रणाय पिबा सोमम् अनुष्वधं मदाय ।
आसिञ्चस्व जठरे मध्व ऽ ऊर्मिं त्वँ राजासि प्रतिपत्सुतानाम् ।
उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वते ।
एष ते योनिर् इन्द्राय त्वा मरुत्वते ॥
7.39
महाँ२ ऽ इन्द्रो नृवद् आ चर्षणिप्रा ऽ उत द्विबर्हा ऽ अमिनः सहोभिः ।
अस्मद्र्यग् वावृधे वीर्यायोरुः पृथुः सुकृतः कर्तृभिर् भूत् ।
उपयामगृहीतो ऽसि महेन्द्राय त्वा ।
एष ते योनिर् महेन्द्राय त्वा ॥
7.40
महाँ२ ऽ इन्द्रो य ऽ ओजसा पर्जन्यो वृष्टिमाᳪ२ ऽ इव ।
स्तोमैर् वत्सस्य वावृधे ।
उपयामगृहीतो ऽसि महेन्द्राय त्वा ।
एष ते योनिर् महेन्द्राय त्वा ॥
7.41
उद् उ त्यं जातवेदसं देवं वहन्ति केतवः ।
दृशे विश्वाय सूर्यँ स्वाहा ॥
7.42
चित्रं देवानाम् उद् अगाद् अनीकं चक्षुर् मित्रस्य वरुणस्याग्नेः ।
आप्रा द्यावापृथिवी ऽ अन्तरिक्षँ सूर्य ऽ आत्मा जगतस् तस्थुषश् च स्वाहा ॥
7.43
अग्ने नय सुपथा राये ऽ अस्मान् विश्वानि देव वयुनानि विद्वान् ।
युयोध्य् अस्मज् जुहुराणम् एनो भूयिष्ठां ते नमऽउक्तिं विधेम स्वाहा ॥
7.44
अयं नो ऽ अग्निर् वरिवस् कृणोत्व् अयं मृधः पुर ऽ एतु प्रभिन्दन् ।
अयं वाजान् जयतु वाजसाताव् अयँ शत्रून् जयतु जर्हृषाणः स्वाहा ॥
7.45
रूपेण वो रूपम् अभ्यागां तुथो वो विश्ववेदा वि भजतु ।
ऋतस्य पथा प्रेत चन्द्रदक्षिणाः ।
वि स्वः पश्य व्यन्तरिक्षम् ।
यतस्व सदस्यैः ॥
7.46
ब्राह्मणम् अद्य विदेयं पितृमन्तं पैतृमत्यम् ऋषिम् आर्षेयँ सुधातुदक्षिणम् ।
अस्मद्राता देवत्रा गच्छत प्रदातारम् आ विशत ॥
7.47
अग्नये त्वा मह्यं वरुणो ददातु सो ऽमृतत्वम् अशीयायुर् दात्र ऽ एधि मयो मह्यं प्रतिग्रहीत्रे ।
रुद्राय त्वा मह्यं वरुणो ददातु सो ऽमृतत्वम् अशीय प्राणो दात्र ऽ एधि वयो मह्यं प्रतिग्रहीत्रे ।
बृहस्पतये त्वा मह्यं वरुणो ददातु सो ऽमृतत्वम् अशीय त्वग् दात्र ऽ एधि मयो मह्यं प्रतिग्रहीत्रे ।
यमाय त्वा मह्यं वरुणो ददातु सो ऽमृतत्वम् अशीय हयो दात्र ऽ एधि वयो मह्यं प्रतिग्रहीत्रे ॥
7.48
को ऽदात् कस्मा अदात् कामो ऽदात् कामायादात् ।
कामो दाता कामः प्रतिग्रहीता कामैतत् ते ॥