००३

अध्याय 3
अग्न्याधानम्, अग्निहोत्रम्, अग्न्युपस्थानम्. चातुर्मास्यः

3.1
समिधाग्निं दुवस्यत घृतैर् बोधयतातिथिम् ।
आस्मिन् हव्या जुहोतन ॥

3.2
सुसमिद्धाय शोचिषे घृतं तीव्रं जुहोतन ।
अग्नये जातवेदसे ॥

3.3
तं त्वा समिद्भिर् अङ्गिरो घृतेन वर्धयामसि ।
बृहच्छोचा यविष्ठ्य ॥

3.4
उप त्वाग्ने हविष्मतीर् घृताचीर् यन्तु हर्यत ।
जुषस्व समिधो मम ॥

3.5
भूर् भुवः स्वः ।
द्यौर् इव भूम्ना पृथिवीव वरिम्णा ।
तस्यास् ते पृथिवि देवयजनि पृष्ठेऽ ग्निम् अन्नादम् अन्नाद्याया दधे ॥

3.6
आयं गौः पृश्निर् अक्रमीद् असदन् मातरं पुरः ।
पितरं च प्रयन्त्स्वः ॥

3.7
अन्तश् चरति रोचनास्य प्राणाद् अपानती ।
व्यख्यन् महिषो दिवम् ॥

3.8
त्रिँशद् धाम वि राजति वाक् पतङ्गाय धीयते ।
प्रति वस्तोर् अह द्युभिः ॥

3.9
अग्निर् ज्योतिर् ज्योतिर् अग्निः स्वाहा ।
सूर्यो ज्योतिर् ज्योतिः सूर्यः स्वाहा ।
अग्निर् वर्चो ज्योतिर् वर्चः स्वाहा ।
सूर्यो वर्चो ज्योतिर् वर्चः स्वाहा ।
ज्योतिः सूर्यः सूर्यो ज्योतिः स्वाहा ॥

3.10
सजूर् देवेन सवित्रा सजू रात्र्येन्द्रवत्या ।
जुषाणो ऽअग्निर् वेतु स्वाहा ।
सजूर् देवेन सवित्रा सजू उषसेन्द्रवत्या ।
जुषाणः सूर्यो वेतु स्वाहा ॥

3.11
उपप्रयन्तो ऽ अध्वरं मन्त्रं वोचेमाग्नये ।
आरे ऽ अस्मे च शृण्वते ॥

3.12
अग्निर् मूर्धा दिवः ककुत् पतिः पृथिव्या ऽ अयम् ।
अपाᳬं रेताᳬंसि जिन्वति ॥

3.13
उभा वाम् इन्द्राग्नी ऽ आहुवध्या ऽ उभा राधसः सह मादयध्यै ।
उभा दाताराव् इषाँ रयीणाम् उभा वाजस्य सातये हुवे वाम् ॥

3.14
अयं ते योनिर् ऋत्वियो यतो जातो ऽ अरोचथाः ।
तं जानन्न् अग्न ऽ आरोहाथा नो वर्धया रयिम् ॥

3.15
अयम् इह प्रथमो धायि धातृभिर् होता यजिष्ठो ऽ अध्वरेष्व् ईड्यः ।
यम् अप्नवानो भृगवो विरुरुचुर् वनेषु चित्रं विभ्वं विशे-विशे ॥

3.16
अस्य प्रत्नाम् अनु द्युतँ शुक्रं दुदुह्रे ऽ अह्रयः ।
पयः सहस्रसाम् ऋषिम् ॥

3.17
तनूपा ऽ अग्ने ऽसि तन्वं मे पाहि ।
आयुर्दा ऽ अग्नेऽ स्य् आयुर् मे देहि ।
वर्चोदा ऽ अग्ने ऽसि वर्चो मे देहि ।
अग्ने यन् मे तन्वा ऽ ऊनं तन् मऽ आ पृण ॥

3.18
इन्धानास् त्वा शतँ हिमा द्युमन्तँ सम् इधीमहि ।
वयस्वन्तो वयस्कृतँ सहस्वन्तः सहस्कृतम् ।
अग्ने सपत्नदम्भनम् अदब्धासो ऽ अदाभ्यम् ।
चित्रावसो स्वस्ति ते पारम् अशीय ॥

3.19
सं त्वम् अग्ने सूर्यस्य वर्चसागथाः सम् ऋषीणाᳬं स्तुतेन ।
सं प्रियेण धाम्ना सम् अहम् आयुषा सं वर्चसा सं प्रजया सँ रायस् पोषेण ग्मिषीय ॥

3.20
अन्ध स्थान्धो वो भक्षीय मह स्थ महो वो भक्षीयोर्ज स्थोर्जं वो भक्षीय रायस् पोष स्थ रायस् पोषं वो भक्षीय ॥

3.21
रेवती रमध्वम् अस्मिन् योनाव् अस्मिन् गोष्ठे ऽस्मिंल् लोके स्मिन् क्षये ।
इहैव स्त मापगात ॥

3.22
सँहितासि विश्वरूप्य् ऊर्जा माविश गौपत्येन ।
उप त्वाग्ने दिवे-दिवे दोषावस्तर् धिया वयम् ।
नमो भरन्त ऽéमसि ॥

3.23
राजन्तम् अध्वराणां गोपाम् ऋतस्य दीदिविम् ।
वर्धमाणँ स्वे दमे ॥

3.24
स नः पितेव सूनवे ऽग्ने सूपायनो भव ।
सचस्वा नः स्वस्तये ॥

3.25
अग्ने त्वं नोऽ अन्तमऽ उत त्राता शिवो भवा वरूथ्यः ।
वसुर् अग्निर् वसुश्रवाऽ अच्छानक्षि द्युमत्तमँ रयिं दाः ॥

3.26
तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनम् ईमहे सखिभ्यः ।
स नो बोधि श्रुधी हवम् उरुष्या णोऽ अघायतः समस्मात् ॥

3.27
इडऽ एह्य् अदित ऽ एहि ।
काम्या ऽ एत ।
मयि वः कामधरणं भूयात् ॥

3.28
सोमानँ स्वरणं कृणुहि ब्रह्मणस्पते ।
कक्षीवन्तं य ऽ औशिजः ॥

3.29
यो रेवान् यो ऽअमीवहा वसुवित् पुष्टिवर्धनः ।
स नः सिषक्तु यस् तुरः ॥

3.30
मा नः शँसोऽ अररुषो धूर्तिः प्र णङ् मर्त्यस्य ।
रक्षा णो ब्रह्मणस्पते ॥

3.31
महि त्रीणाम् अवो ऽस्तु द्युक्षं मित्रस्यार्यम्णः ।
दुराधर्षं वरुणस्य ॥

3.32
नहि तेषाम् अमा चन नाध्वसु वारणेषु ।
ईशे रिपुर् अघशँसः ॥

3.33
ते हि पुत्रासो ऽ अदितेः प्र जीवसे मर्त्याय ।
ज्योतिर् यच्छन्त्य् अजस्रम् ॥

3.34
कदा चन स्तरीर् असि नेन्द्र सश्चसि दाशुषे ।
उपोपेन् नु मघवन् भूय ऽ इन् नु ते दानं देवस्य पृच्यते ॥

3.35
तत् सवितुर् वरेण्यं भर्गो देवस्य धीमहि ।
धियो यो नः प्रचोदयत् ॥

3.36
परि ते दूडभो रथोऽस्माँ अश्नोतु विश्वतः ।
येन रक्षसि दाशुषः ॥

3.37
भूर् भुवः स्वः सुप्रजाः प्रजाभि स्याँ सुवीरो वीरैः सुपोषः पोषैः ।
नर्य प्रजां मे पाहि ।
शँस्य पशून् मे पाहि ।
अथर्य पितुं मे पाहि ॥

3.38
आगन्म विश्ववेदसम् अस्मभ्यं वसुवित्तमम् ।
अग्ने सम्राड् अभि द्युम्नम् अभि सह ऽ आ यच्छस्व ॥

3.39
अयम् अग्निर् गृहपतिर् गार्हपत्यः प्रजाया वसुवित्तमः ।
अग्ने गृहपते ऽभि द्युम्नम् अभि सह ऽ आ यच्छस्व ॥

3.40
अयम् अग्निः पुरीष्यो रयिमान् पुष्टिवर्धनः ।
अग्ने पुरीष्याभि द्युम्नम् अभि सह ऽ आ यच्छस्व ॥

3.41
गृहा मा बिभीत मा वेपध्वमूर्जं बिभ्रत ऽ एमसि ।
ऊर्जं बिभ्रद् वः सुमनाः सुमेधा गृहान् ऐमि मनसा मोदमानः ॥

3.42
येषाम् अध्येति प्रवसन् येषु सौमनसो बहुः ।
गृहान् उप ह्वयामहे ते नो जानन्तु जानतः ॥

3.43
उपहूताऽ इह गावऽ उपहूताऽ अजावयः ।
अथो ऽअन्नस्य कीलाल ऽउपहूतो गृहेषु नः ।
क्षेमाय वः शान्त्यै प्र पद्ये शिवँ शग्मँ शंयोः शंयोः ॥