अध्याय 1
दर्शपूर्णमासेष्टिः
1.1
इषे त्वा ऊर्जे त्वा ।
वायव स्थ ।
देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणऽ आ प्यायध्वम् अघ्न्या ऽइन्द्राय भागं प्रजावतीर् अनमीवा ऽअयक्ष्मा मा व स्तेनऽ ईशत माघशँसो ध्रुवा ऽअस्मिन् गोपतौ स्यात बह्वीः ।
यजमानस्य पशून् पाहि ॥
1.2
वसोः पवित्रम् असि ।
द्यौर् असि पृथिव्यसि ।
मातरिश्वनो ऽघर्मो सि विश्वधा ऽअसि परमेण धाम्ना दृँहस्व मा ह्वार् मा ते यज्ञपतिर् ह्वार्षीत् ॥
1.3
वसोः पवित्रम् असि शतधारं वसोः पवित्रम् असि सहस्रधारम् ।
देवस् त्वा सविता पुनातु वसोः पवित्रेण शतधारेण सुप्वा ।
काम् अधुक्षः ॥
1.4
सा विश्वायुः ।
सा विश्वकर्मा ।
सा विश्वधायाः ।
इन्द्रस्य त्वा भागँ सोमेना तनच्मि ।
विष्णो हव्यँ रक्ष ॥
1.5
अग्ने व्रतपते व्रतं चरिष्यामि तच् छकेयं तन् मे राध्यताम् ।
इदम् अहम् अनृतात् सत्यम् उपैमि ॥
1.6
कस् त्वा युनक्ति स त्वा युनक्ति कस्मै त्वा युनक्ति तस्मै त्वा युनक्ति ।
कर्मणे वां वेषाय वाम् ॥
1.7
प्रत्युष्टँ रक्षः प्रत्युष्टा अरातयः ।
निष्टप्तँ रक्षो निष्टप्ता ऽ अरातयः ।
उर्व् अन्तरिक्षम् अन्व् एमि ॥
1.8
धूर् असि धूर्व धूर्वन्तं धूर्व तं योऽ स्मान् धूर्वति तं धूर्व यं वयं धूर्वामः ।
देवानाम् असि वह्नितमँ सम्नितमं पप्रितमं जुष्टतमं देवहूतमम् ॥
1.9
अह्रुतम् असि हविर्धानं दृँहस्व मा ह्वार् मा यज्ञपतिर् ह्वार्षीत् ।
विष्णुस् त्वा क्रमताम् ।
उरु वाताय ।
अपहतँ रक्षः ।
यच्छन्तां पञ्च ॥
1.10
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
अग्नये जुष्टं गृह्णामि ।
अग्नीषोमाभ्यां जुष्टं गृह्णामि ॥
1.11
भूताय त्वा नारातये ।
स्वर् अभिवि ख्येषम् ।
दृँहन्तां दुर्याः पृथिव्याम् ।
उर्व् अन्तरिक्षम् अन्व् एमि ।
पृथिव्यास् त्वा नाभौ सादयाम्य् अदित्या ऽउपस्थेऽ ग्ने हव्यँ रक्ष ॥
1.12
पवित्रे स्थो वैष्णव्यौ ।
सवितुर् वः प्रसव उत् पुनाम्य् अच्छिद्रेन पवित्रेण सूर्यस्य रश्मिभिः ।
देवीर् आपो अग्रेगुवोऽ अग्रेपुवोऽग्र इमम् अद्य यज्ञं नयताग्रे यज्ञपतिँ सुधातुं यज्ञपतिं देवयुवम् ॥
1.13
युष्मा ऽ इन्द्रोऽवृणीत वृत्रतूर्ये यूयम् इन्द्रम् अवृणीध्वं वृत्रतूर्ये ।
प्रोक्षिता स्थ ।
अग्नये त्वा जुष्टं प्रोक्षामि ।
अग्नीषोमाभ्यां त्वा जुष्टं प्रोक्षामि ।
दैव्याय कर्मणे शुन्धध्वं देवयज्यायै यद् वोऽशुद्धाः पराजघ्नुर् इदं वस् तच् छुन्धामि ॥
1.14
शर्मासि ।
अवधूतँ रक्षोऽवधूता ऽ अरातयः ।
ऽअदित्यास् त्वग् असि प्रति त्वादितिर् वेत्तु ।
अद्रिर् असि वानस्पत्यः ।
ग्रावासि पृथुबुध्नः प्रति त्वादित्यास् त्वग् वेत्तु ॥
1.15
अग्नेस् तनूर् असि वाचो विसर्जनं देववीतये त्वा गृह्णामि ।
बृहद्ग्रावासि वानस्पत्यः ।
सऽइदं देवेभ्यो हविः शमीष्व सुशमि शमीष्व ।
हविष्कृद् एहि हविष्कृद् एहि हविष्कृद् एहि ॥
1.16
कुक्कुटोऽसि मधुजिह्वऽइषमूर्जम् आ वद त्वया वयँ सङ्घातँ-सङ्घातं जेष्म ।
वर्षवृद्धम् असि ।
प्रति त्वा वर्षवृद्धं वेत्तु ।
परापूतँ रक्षः परापूता अरातयः ।
ऽअपहतँ रक्षः ।
वायुर् वो वि विनक्तु ।
देवो वः सविता हिरण्यपाणिः प्रति गृभ्णात्व् अच्छिद्रेण पाणिना ॥
1.17
धृष्टिर् असि ।
अपाऽग्ने ऽ अग्निम् आमादं जहि निष् क्रव्यादँ सेध ।
आ देवयजं वह ।
ध्रुवम् असि पृथिवीं दृँह ब्रह्मवनि त्वा क्षत्रवनि सजातवन्य् उप दधामि भ्रातृव्यस्य वधाय ॥
1.18
अग्ने ब्रह्म गृभ्णीष्व ।
धरुणम् अस्य् अन्तरिक्षं दृँह ब्रह्मवनि त्वा क्षत्रवनि सजातवन्य् उप दधामि भ्रातृव्यस्य वधाय ।
धर्त्रम् असि दिवं दृँह ब्रह्मवनि त्वा क्षत्रवनि सजातवन्य् उप दधामि भ्रातृव्यस्य वधाय ।
विश्वाभ्यस् त्वाशाभ्यऽ उप दधामि ।
चित स्थोर्ध्वचितः ।
भृगूणाम् अङ्गिरसां तपसा तप्यध्वम् ॥
1.19
शर्मासि ।
अवधूतँ रक्षोऽवधूता ऽ अरातयः ।
ऽअदित्यास् त्वग् असि प्रति त्वादितिर् वेत्तु ।
धिषणासि पर्वती प्रति त्वादित्यास् त्वग् वेत्तु ।
दिव स्कम्भनीर् असि ।
धिषणासि पार्वतेयी प्रति त्वा पर्वती वेत्तु ॥
1.20
धान्यम् असि धिनुहि देवान् ।
प्राणाय त्वा ।
उदानाय त्वा ।
व्यानाय त्वा ।
दीर्घाम् अनु प्रसितिम् आयुषे धां देवो वः सविता हिरण्यपाणिः प्रति गृभ्णात्व् अच्छिद्रेण पाणिना ।
चक्षुषे त्वा ।
महीनां पयोऽसि ॥
1.21
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
सं वपामि ।
सम् आपऽóषधीभिः सम् ओषधयो रसेन ।
सँ रेवतीर् जगतीभिः पृच्यन्ताँ सं मधुमतीर् मधुमतीभिः पृच्यन्ताम् ॥
1.22
जनयत्यै त्वा सं यौमि ।
इदम् अग्नेः ।
इदम् अग्नीषोमयोः ।
इषे त्वा ।
घर्मोऽसि विश्वायुः ।
उरुप्रथाऽ उरु प्रथस्वोरु ते यज्ञपतिः प्रथताम् ।
अग्निष्टे त्वचं मा हिँसीत् ।
देवस् त्वा सविता श्रपयतु वर्षिष्ठेऽधि नाके ॥
1.23
मा भेर् मा संविक्थाः ।
ऽ अतमेरुर् यज्ञो ऽतमेरुर् यजमानस्य प्रजा भूयात् ।
त्रिताय त्वा ।
द्विताय त्वा ।
एकताय त्वा ॥
1.24
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
आ ददे ऽध्वरकृतं देवेभ्यः ।
ऽइन्द्रस्य बाहुर् असि दक्षिणः सहस्रभृष्टिः शततेजा वायुर् असि तिग्मतेजा द्विषतो वधः ॥
1.25
पृथिवि देवयजन्य् ओषध्यास् ते मूलं मा हिँसिषम् ।
व्रजं गच्छ गोष्ठानम् ।
वर्षतु ते द्यौः ।
बधान देव सवितः परमस्यां पृथिव्याँ शतेन पाशैर् यो स्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अतो मा मौक् ॥
1.26
अपाररुं पृथिव्यै देवयजनाद् वध्यासम् ।
व्रजं गच्छ गोष्ठानम् ।
वर्षतु ते द्यौः ।
बधान देव सवितः परमस्यां पृथिव्याᳬं शतेन पाशैर् योऽस्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अतो मा मौक् ।
अररो दिवं मा पप्तः ।
द्रप्सस् ते द्यां मा स्कन् ।
व्रजं गच्छ गोष्ठानम् ।
वर्षतु ते द्यौः ।
बधान देव सवितः परमस्यां पृथिव्याँ शतेन पाशैर् योऽस्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अतो मा मौक् ॥
1.27
गायत्रेण त्वा छन्दसा परि गृह्णामि ।
त्रैष्टुभेन त्वा छन्दसा परि गृह्णामि ।
जागतेन त्वा छन्दसा परि गृह्णामि ।
सुक्ष्मा चासि शिवा चासि ।
स्योना चासि सुषदा चासि ।
ऊर्जस्वती चासि पयस्वती च ॥
1.28
पुरा क्रूरस्य विसृपो विरप्शिन्न् उदादाय पृथिवीं जीवदानुम् ।
याम् ऐरयँश् चन्द्रमसि स्वधाभिस् ताम् उ धीरासो ऽअनुदिश्य यजन्ते ।
प्रोक्षणीर् आ सादय ।
द्विषतो वधोऽ सि ॥
1.29
प्रत्युष्टँ रक्षः प्रत्युष्टा ऽअरातयः ।
निष्टप्तँ रक्षो निष्टप्ता ऽ अरातयः ।
अनिशितोऽ सि सपत्नक्षिद् वाजिनं त्वा वाजेध्यायै सं मार्ज्मि ।
प्रत्युष्टँ रक्षः प्रत्युष्टाऽ अरातयः ।
निष्टप्तँ रक्षो निष्टप्ताऽ अरातयः ।
अनिशिताऽसि सपत्नक्षिद् वाजिनीं त्वा वाजेध्यायै सं मार्ज्मि ॥
1.30
अदित्यै रास्नासि ।
विष्णोर् वेष्यो सि ।
ऊर्जे त्वा ।
ऽअदब्धेन त्वा चक्षुषाव पश्यामि ।
अग्नेर् जिह्वासि सुहूर् देवेभ्यो धाम्ने-धाम्ने मे भव यजुषे-यजुषे ॥
1.31
सवितुस् त्वा प्रसवऽ उत् पुनाम्य् अच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः ।
सवितुर् वः प्रसव ऽ उत् पुनाम्य् अच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः ।
तेजो ऽसि शुक्रम् अस्य् अमृतम् असि ।
धाम नामासि प्रियं देवानाम् अनाधृष्टं देवयजनम् असि ॥