शुक्लयजुर्वेदसंहिता उवट-महीधर-भाष्ये
उवटः, महीधरः
Exported from Wikisource on ११ नवंबरमासः २०२५
शुक्लयजुर्वेदसंहिता उवट-महीधर-भाष्ये
उवटः, महीधरः
श्रीमद्वाजसनेयिमाध्यन्दिन-
शुक्लयजुर्वेदसंहिता।
महामहोपाध्यायसर्वतन्त्रस्वतन्त्रप्रतिभश्रीमदुवटाचार्यविरचितमन्त्रभाष्येण
श्रीमन्महीधरकृतवेददीपाख्यभाष्येण च संवलिता ।
(विविधपरिशिष्ट-मन्त्रकोशसहिता च ।)
पणशीकरोपाह्वविद्वद्वरलक्ष्मणशर्मतनुजनुषा वासुदेवशर्मणा
विद्वत्साहाय्येन संशोधिता ।
(द्वितीयावृत्तिः।)
सा चेयं
मुम्बय्यां
पाण्डुरङ्ग जावजीश्रेष्ठिना
स्वीये निर्णयसागराख्यमुद्रणयन्त्रालये आयसाक्षरैरानङ्क्य प्राकाश्यं नीता ।
शाकः १८५०, सनः १९२९.
मूल्यं ५। सपादपञ्च रूप्यकाः।
अथात्र कश्चिच्छ्रौतः प्रस्तावः-
‘अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽर्वाङ्गिरस-’ इत्यादि नैकशो
निगमागमादिषु भगवन्निःश्वासात्मकत्वेनोद्घुष्टः कर्मकाण्डब्रह्मकाण्डात्मको वेदो धर्मार्थकाममोक्षहेतुः । स
च मन्त्रब्राह्मणात्मकः । तत्र मन्त्रास्तावद्यज्ञाद्यनुष्ठानकारणभूतद्रव्यदेवताप्रकाशकत्वेनाम्नाताः । ब्राह्मण-
विषयश्चोपरिष्टात्स्फुटीभविष्यति । निर्दिष्टो वेदश्च प्रयोगत्रयेण यज्ञनिर्वाहार्थमृग्यजुःसामभेदेन भिन्नस्त्रयी-
संज्ञितः । तत्र हौत्रप्रयोग ऋग्वेदेन, आध्वर्यवप्रयोगो यजुर्वेदेन, औद्गात्रप्रयोगः सामवेदेन, ब्राह्मया-
जमानप्रयोगौ त्वत्रैवान्तर्भूतौ । अथर्ववेदस्तु यज्ञानुपयुक्तोऽपि शान्तिकपौष्टिकाभिचारिकादिकर्मप्रति-
पादकत्वेनात्यन्तविलक्षण एवेति वेदत्रयीतोऽस्य पृथग्ग्रहणम् । एवंच प्रवचनभेदात्प्रतिवेदं भिन्नाः सन्ति
भूयस्यः शाखाः । तथाच कर्मकाण्डे व्यापारभेदेऽपि सर्वासां वेदशाखानामैकरूप्यमेव ब्रह्मकाण्डमिति
चतुर्णां वेदानां प्रयोजनभेदेन भेदो निगमपारावारपारीणैर्महर्षिभिः कृतो निर्दिष्टः ।
प्रसङ्गादिह शुक्लयजुर्वेदयाज्ञवल्क्यसंबद्धमैतिह्यं किंचिदुच्यते । तथाहि श्रीमज्जगदीशसिसृक्षोपक्रम-
निर्वचनावसरे श्रीमद्भागवतद्वादशस्कन्धषष्ठाध्याय उक्तम्–
सूत उवाच-समाहितात्मनो ब्रह्मन्ब्रह्मणः परमेष्ठिनः । हृद्याकाशादभून्नादो वृत्तिरोधाद्विभाव्यते ॥ ३७ ॥
ततोऽक्षरसमाम्नायमसृजद्भगवानजः । अन्तस्थोष्मस्वरस्पर्शह्रस्वदीर्घादिलक्षणम् ॥ ४३ ॥
तेनासौ चतुरो वेदांश्चतुर्भिर्वदनैर्विभुः । सव्याहृतिकान्सोङ्कारांश्चातुर्होत्रविवक्षया ॥ ४४ ॥
वैशंपायनशिष्या वै चरकाध्वर्यवोऽभवन् । यच्चेरुर्ब्रह्महत्यांहःक्षपणं स्वगुरोर्व्रतम् ॥ ६१ ॥
याज्ञवल्क्यश्च तच्छिष्य आहाहो भगवन्कियत् । चरितेनाल्पसाराणां चरिष्येऽहं सुदुश्चरम् ॥६२॥
इत्युक्तो गुरुरप्याह कुपितो याह्यलं त्वया । विप्रावमन्त्रा शिष्येण मदधीतं त्यजाश्विति ॥ ६३ ॥
देवरातसुतः सोऽपि छर्दित्वा यजुषां गणम् । ततो गतोऽथ मुनयो ददृशुस्तान्यजुर्गणान् ॥ ६४ ॥
यजूंषि तित्तिरा भूत्वा तल्लोलुपतयाददुः । तैत्तिरीया इति यजुःशाखा आसन्सुपेशलाः ॥६५॥
याज्ञवल्क्यस्ततो ब्रह्मंश्छन्दान्यधिगवेषयन् । गुरोरविद्यमानानि सूपतस्थेऽर्कमीश्वरम् ॥ ६६ ॥
याज्ञवल्क्य उवाच-ॐनमो भगवते आदित्यायाखिलजगतामात्मस्वरूपेण कालस्वरूपेण चतुर्विधभूत-
नेकायानां ब्रह्मादिस्तम्बपर्यन्तानामन्तर्हृदयेषु बहिरपिचाकाशइवोपाधिनाऽव्यवधीयमानो भगवानेक एव
क्षणलवनिमेषावयवोपचितसंवत्सरगणेनापामादानविसर्गाभ्यामिमां लोकयात्रामनुवहति ॥ ६७ ॥ यदुहवाव
विबुधर्षभ सवितरदस्तपत्यनुसवनमहरहराम्नायविधिनोपतिष्ठमानानामखिलदुरितवृजिनबीजावभर्जनभगवतः
समभिधीमहि तपनमण्डलम् ॥ ६८ ॥ य इह वाव स्थिरचरनिकराणां निजनिकेतनानां मनइन्द्रियासुगणा-
नात्मनः स्वयमात्मान्तर्यामी प्रचोदयति ॥६९॥ य एवेमं लोकमतिकरालवदनान्धकारसंज्ञाजगरग्रहगिलितं
संमृतकमिव विचेतनमवलोक्यानुकम्पया परमकारुणिक ईक्षयैवोत्थाप्याहरहरनुसवनं श्रेयसि स्वधर्मा-
ख्यात्मावस्थाने प्रवर्तयत्यवनिपतिरिवासाधूनां भयमुदीरयन्नटति ॥ ७० ॥ परित आशापालैस्तत्रतत्र
कमलकोशाञ्जलिभिरुपहृतार्हणः ॥७१॥ अथ ह भगवंस्तव चरणनलिनयुगुलं त्रिभुवनगुरुभिर्वन्दितमहमया-
तयामयजुःकाम उपसरामीति ॥ ७२ ॥
सूत उवाच-एवं स्तुतः स भगवान्वाजिरूपधरो हरिः । यजूंष्ययातयामानि मुनयेऽदात्प्रसादितः ॥ ७३
यजुर्भिरकरोच्छाखा दशपञ्चशतैर्विभुः । जगृहुर्वाजसन्यस्ताः काण्वमध्यन्दिनादयः ॥ ७४ ॥
इति शुक्लयजुर्वेदमाध्यन्दिनवाजसनेयशाखाविचारसंक्षेपः ।
त्रयीशब्दितानामृग्यजुःसाम्नां लक्षणान्युच्यन्ते-पादबद्धगायत्र्यादिच्छन्दोविशिष्टा ‘अग्निमीळे पुरोहितं’
इत्याद्या ऋचः । ता एव गीतिविशिष्टाः सामानि । तदुभयविलक्षणानि यजूंषि ‘अग्नीदग्नीन्विहर’
इत्यादिसंबोधनरूपाणि । निगदमन्त्रा अपि यजुरन्तर्भूता एव । तदेवं त्रय्या मन्त्रविभागः । उपक्रान्तयजुः-
संहितायां चरमश्चत्वारिंशोऽध्यायो ब्रह्मप्रतिपादकः । शेषा मूलादारभ्यैकोनचत्वारिंशदध्यायास्तु धर्मापर-
पर्यायविविधयज्ञकाण्डनिरूपणमिति यज्ञजाततदङ्गोपाङ्गनिरूपणपरा सपरिकरा कर्ममीमांसोपस्थिता भवति ।
कर्ममीमांसाच ‘अथातो धर्मजिज्ञासा’ इत्यारभ्य ‘अन्वाहार्ये च दर्शनात्’ इत्यन्ता द्वादशाध्यायी
सुगृहीतनामधेयेन भगवता श्रीजैमिनिमहर्षिणा प्रणीता वरीवर्ति । तत्र प्रथमेऽध्याये धर्मप्रमाणम् १, द्वितीये
धर्मभेदाभेदौ २, तृतीये शेषशेषिभावः ३, चतुर्थे क्रत्वर्थपुरुषार्थभेदेन प्रयुक्तिविशेषः ४, पञ्चमे
श्रुत्यर्थपठनादिना क्रमभेद: ५, षष्ठेऽधिकारविशेषः ६, सप्तमे सामान्यातिदेशः ७, अष्टमे विशेषातिदेशः
८, नवमे ऊहः ९, दशमे बाधः १०, एकादशे तन्त्रम् ११, द्वादशे प्रसङ्गः १२, इति क्रमेण
द्वादशाध्यायानां प्रतिपाद्यार्थाः । तथा संकर्मकाण्डमध्यायचतुष्टयात्मकं तेनैव महर्षिवरेण प्रणीतं देवता-
काण्डसंज्ञया प्रसिद्धमप्युपासनाख्यकर्मप्रतिपादकत्वात्कर्ममीमांसान्तर्गतमेव ।
ब्राह्मणं तु त्रिविधं विधिरूपमर्थवादरूपमुभयविलक्षणं च । तत्र शब्दभावना विधिरिति भाट्टाः, नियोगो
विधिरिति प्राभाकराः, इष्टसाधनता विधिरिति तार्किकादयः । सर्वोऽपि विधिश्चतुर्विधः-उत्पत्त्यधिकार-विनि-
योग-प्रयोगभेदात् । तत्र देवताकर्मस्वरूपमात्रबोधको विधिरुत्पत्तिविधिः ‘आग्नेयोऽष्टाकपालो भवती’त्यादिः।
सेतिकर्तव्यताकस्य करणस्य यागादेः फलसंबन्धबोधको विधिरधिकारविधिः ‘दर्शपूर्णमासाभ्यां स्वर्गकामो
यजेते’त्यादिः । अङ्गसंबन्धबोधको विधिर्विनियोगविधिः ‘व्रीहिभिर्यजेत’, ‘समिधो यजती’त्यादिः । साङ्गप्र-
धानकर्मप्रयोगैक्यबोधकः पूर्वविधित्रयमेलनरूपः प्रयोगविधिः । स च श्रौत इत्येके । काल्प इत्यपरे आहुः ।
अथार्थवादः । प्राशस्त्यनिन्दान्यतरलक्षणया विधिशेषभूतं वाक्यमर्थवादः । सच त्रिविधः गुणवादो-
ऽनुवादो भूतार्थवादश्च । प्रमाणान्तरविरुद्धार्थबोधको गुणवाद: ‘आदित्यो यूपः’ इत्यादिः । प्रमाणान्तर-
प्राप्तार्थबोधकोऽनुवादः ‘अग्निर्हिमस्य भेषजं’ इत्यादिः । प्रमाणान्तरविरोधतत्प्राप्तिरहितार्थबोधको भूतार्थ-
वादः ‘इन्द्रो वृत्राय वज्रमुदयच्छत्’ इत्यादिः । तत्र त्रिविधानामप्यर्थवादानां विधिस्तुतिपरत्वे समानेऽपि
भूतार्थवादस्य स्वतःप्रामाण्यं देवताधिकरणन्यायात् । अबाधिताज्ञातार्थज्ञापकत्वं हि प्रामाण्यम् । तच्च
बाधितविषयत्वाज्ज्ञातज्ञापकत्वाच्च न गुणवादानुवादयोः । भूतार्थवादस्य तु स्वार्थे तात्पर्यरहितस्याप्यौत्स
र्गिक प्रामाण्यं न विहन्यत इत्येवमर्थवादः ।
अथाङ्गजातं त्रिविधं दृष्टार्था-ऽदृष्टार्थोभयात्मकभेदात् । यद्दृष्टार्थं जातिगुणकर्मद्रव्यात्मकं तत्र
जातिगुणौ ‘पशुना यजेत’, ‘अरुणया क्रीणाति’ इति क्रियासाधनत्वेन विनियुक्तौ तत्साधनद्रव्यपरिच्छेदेन
दृष्टेनैवोपकारेण तस्य शेषभावमनुभवतः । कथं पुनर्द्रव्यपरिच्छेदात्कर्मसाधनत्वमिति चेत् विशिष्टद्रव्यस्य
कर्मसाधनत्वात्तस्य च विशेषणाधीनप्रतिपत्तिकत्वादप्रतिपन्नस्य साधनाभावासंभवात्तत्प्रत्युपात्तयोर्जातिगुणयोस्तद्द्वारेण भवति कर्मसाधनत्वम् । गुणस्य तु साधनत्वं श्रुतं यथोक्तप्रकारेणोपपादयितुं तद्विशिष्टस्य कर्मसाधनत्वं कल्प्यते तदेव जातिगुणयोर्दृष्टार्थत्वम् । द्रव्यस्य तु साक्षादेव कर्मनिर्वृत्तिः । दृष्टमेव प्रयोजनम् ।
१-रविणाऽश्वरूपेण वाजेभ्यः केसरेभ्यो वाजेन वेगेन वा संन्यस्तास्त्यक्ताः शाखा वाजसनीसंज्ञा इति श्रीधरस्वामिनः ।
अङ्गकर्म द्विधा संनिपत्योपकारकरूपमारादुपकारकरूपं च । तत्र प्रोक्षणादि संनिपत्योपकारकरूपं
प्रयाजाद्यारादुपकारकरूपम् । संनिपत्योपकारकारीणि दृष्टार्थानि कर्माणि स्वकारकाणां वह्न्यादीनामुत्पत्तिं
प्राप्तिं विकृतिं संस्कारं कुर्वन्ति सन्ति साध्यस्य प्रधानस्योपकुर्वन्ति । यथा-‘वसन्ते ब्राह्मणोऽग्नीनादधीत’,
‘यूपं तक्षति’ इत्यादावाधान-तक्षणादिना संस्कारविशेषविशिष्टाग्नि-यूपादेरुत्पत्तिः । ‘स्वाध्यायोऽ-
ध्येतव्यः’, ‘गां पयो दोग्धि’ इत्यादावध्ययन-दोहनादिना विद्यमानस्यैव स्वाध्याय-पयःप्रभृतेः प्राप्तिः ।
‘सोममभिषुणोति’, ‘व्रीहीनवहन्ति’, ‘आज्यं विलापयति’ इत्यादावभिषवा-ऽवघात-विलापनैः सोमादीनां
विकारः । ‘व्रीहीन्प्रोक्षति’, ‘पत्न्यवेक्षते’ इत्यादौ प्रोक्षणा-ऽवेक्षणादिभिर्व्रीह्यादिद्रव्याणां संस्कार इति ।
तदेवमुत्पत्त्यादिसाध्यभेदाच्चतुर्विधं कर्म कर्मादीनामन्यतमे कारके यथायथमुत्पत्त्यादीनि करोति । कर्मण्येव
व्रतादि, कर्तरि व्रतं, करणे प्रयाजशेषाभिघारणं, संप्रदाने पशुपुरोडाशयागः, अपादाने अग्नेस्तृणान्यप-
चिनोतीति, अधिकरणे दध्यानयनम् । आरादुपकारकं कारकद्वारकं प्रधानस्योपकरोतीत्युभयार्थः पशु-
पुरोडाशयागः । सोऽपि त्यागांशेनादृष्टमुद्देशांशेन च दृष्टं देवतास्मरणं करोतीत्युभयार्थः । ननु ‘एकं वा
चेदनेकत्वात्’ इति न्यायेन विध्युपपत्तेः प्रयोजनद्वयमनुपपन्नमितिचेत् दृष्टार्थत्वादिप्रयोजनापेक्षायां स्मरणं
प्रथमं स्वीक्रियते । स्वीकृते च तस्मिन् त्यागांशस्य तत्र प्रयोजनमपश्यतः पुनरपेक्षा जायते । साचादृष्टकल्पनेन निवर्तते तेनैवंजातीयकमुभयोर्लिङ्गमुभयोपकारतामावहति । संपूर्णाङ्गसंयुक्तो विधिः प्रकृतिः । विकलाङ्गयुक्तश्च विकृतिः। तदुभयविलक्षणो विधिर्दर्वीहोमादिः, एवमन्यदप्यूह्यम् । आस्तां दुरवगाहविषयावगाहनोल्लेखपल्लवितेनेति विरम्यते ।
श्रीमच्छुक्लयजुर्वेदसंहितेयं पुण्यपत्तनगतडेक्कनकालेजाख्याङ्ग्लविद्यालयसंगृहीतग्रन्थवर्तिहस्ताक्षरप्राचीन-
द्वित्रपुस्तकानां, तथा श्रीक्षेत्रनासिकवास्तव्यविद्वद्वर वे. शा. सं. आण्णाशास्त्रीवारे इत्येतैर्दत्तस्य कलिकाता-
वाराणसीमुद्रितानां च सहायेन विहितशोधनाभ्यां उवटभाष्य-महीधरभाष्याभ्यां सनाथीकृत्याधुनाङ्कितास्ति
जिज्ञासूनामेकत्र भाष्यद्वयलाभाय । यद्यप्यस्याध्ययनाध्यापनपारायणादावैतदीयप्रातिशाख्य-याज्ञवल्क्य-
शिक्षा-प्रतिज्ञासूत्रादिनिर्दिष्टप्रकारेण तत्रतत्र परसवर्णपूर्वस्वरगुरुत्वद्वित्वोच्चारणानुकूलो वर्णविन्यासोऽपेक्षित-
स्तथापि ‘योऽर्थज्ञ इत्सकलं भद्रमश्नुते’ इत्यादिप्रामाण्यादर्थज्ञानस्यापि पाठादिसदृक्षफलवत्त्वेनावश्यादरणी-
यत्वात्तत्र पाठक्रमानुगुणवर्णविन्यासेन चेतरेतरवर्णपदसापेक्षशृङ्खलावत्त्वेनातीव दुरूहता स्यात्तद्वारणायाञ्जसा
विशदपदस्वरूपप्रतिपत्तिद्वाराऽर्थावगमसौकर्याय च प्रतिज्ञासूत्रद्वितीयकण्डिकान्ते “-ऽसंयुक्तस्य टुमृते
संयुक्तस्य च खकारोच्चारणमध्ययनादिककर्मस्वर्थवेलायां प्रकृत्या” इत्यनुशासनमनुसृत्यार्थज्ञानानौपयिक-
द्वित्वपरसवर्णादिपरिहारेण वर्णविन्यास आदृतोऽस्ति । तथा प्रमाणभूतपरिशिष्टानामखिलमन्त्रकोशस्य चान्ते
कृतोऽस्ति समावेशः यत्क्रमकोशसाहाय्येनेप्सितमन्त्रस्य द्रुतमुपलब्धिः स्यात् ।
एतादृशानल्पपरिश्रमेण विहितेऽपि संस्करणेऽस्मादृशाल्पप्रज्ञमानुषशेमुषीसुलभत्वेन जनिमन्ति स्खलितानि
सुविमृश्य प्रबोधयन्तु विपश्चिद्वरा येन कृतज्ञताप्रकाशनपुरःसरं यतेयाग्रिमसंस्करणेऽस्या विशेषनिर्दोषता-
संपादनाय । क्षन्तारश्च परपरिश्रमज्ञा गुणैकपक्षपातिनो दूषणवाचंयमाः सुधियोऽस्मद्दृगादिदोषोपनता
अशुद्धीरिति भूयोभूयः सप्रश्रयं साञ्जलिबन्धं च विज्ञापयति—
विद्वद्वशंवदः
पणशीकरोपाह्वो वासुदेवशर्मा ।
श्रीः
शुक्लयजुर्वेदवाजसनेयिमाध्यन्दिनसंहिताध्यायविषयाः-
पूर्वार्धम्
विषयाः
१ दर्शपूर्णमासेष्टिविषया मन्त्राः
२ दर्शपूर्णमासमन्त्राः …. ….
३ आधानाग्न्युपस्थानचातुर्मास्यादिमन्त्राः
४ अग्निष्टोमे सर्त्विग्यजमानस्य शालाप्रवेशमारभ्य क्रीतसोमस्य शालाप्रवेशान्तमन्त्राः …. …. …. ….
५ सौमिकवेदिप्रधानेऽत्र आतिथ्यमारभ्य यूपनिर्माणपर्यन्ता मन्त्राः ….
६ अग्नीषोमीयपशुप्रधाने यूपसंस्कारमारभ्य सोमाभिषवान्ता मन्त्राः …. ….
७ उपांशुग्रहादिसवनद्वयगता दक्षिणादानान्ता मन्त्राः …. …. ….
८ तृतीयसवनगता आदित्यग्रहादिमन्त्राः
९ वाजपेयराजसूययज्ञाङ्गमन्त्राः ….
१० अभिषेकार्थजलादानादिराजसूयशेषचरकसौत्रामणीमन्त्राः …. ….
११ अमिचयने उखादिसमिदाध्यन्तमन्त्राः
१२ उखाधारणादिमन्त्राः …. ….
१३ चितिपुष्करपर्णाद्युपधानमन्त्राः
१४ द्वितीयतृतीयचतुर्थचितिमन्त्राः ….
१५ पञ्चमचितिमन्त्राश्चयनमन्त्राश्च
१६ रुद्रः । शतरुद्रियाख्यहोममन्त्राः
१७ चित्यपरिषेकादिजपपर्यन्ता मन्त्राः ….
१८ वसोर्धारादिमन्त्राः …. …. ….
१९ सौत्रामणीयाः सुगदीन्द्राभिषेकान्ता मन्त्राः
२० सेकाद्यासन्दीहौत्रान्ता मन्त्राः ….
उत्तरार्धम्अध्यायः
२१ याज्यादिप्रेषणमन्त्राः
२२ आश्वमेधिका मन्त्राः ….
२३ आश्वमेधिकाहुतिमन्त्राः ….
२४ आश्वमेधिकानां पशूनां देवतासंबन्धविधायिनो मन्त्राः…. ….
२५ शादंदद्भिरित्याद्यश्वाङ्गेभ्यो होमः ….
२६ खिलसंज्ञा मन्त्राः …. ….
२७ पञ्चचितिकस्याग्नेर्मन्त्राः ….
२८ सौत्रामण्यङ्गभूताद्यन्तपशुप्रयाजानुयाजप्रेषमन्त्राः ….
२९ आश्वमेधिकोऽध्यायः । शिष्टाश्वमेधमन्त्राः
३० पुरुषमेधसंबद्धा मन्त्राः…. ….
३१ पुरुषसूक्ताध्यायः परमात्मविज्ञानानन्दादिगुणाद्यात्मकः …. ….
३२ सर्वमेधसंबद्धा मन्त्राः …. ….
३३ सार्वमेधिके सप्तदशकाः पुरोरुग्गणाः
३४ अनारभ्याधीतोऽध्यायो ब्रह्मयज्ञार्थकः। शिवसंकल्पादिमन्त्राः ….
३५ पितृमेधसंबन्धिनो मन्त्राः …. ….
३६ प्रवर्ग्याग्निकाश्वमेधोपनिषत्संबद्धा मन्त्राः शान्तिपाठार्थाः ….. ….
३७ महावीरसंभरणाभ्यादानमन्त्राः । अभ्र्यादिरौहिणान्तोऽध्यायः …. ….
३८ महावीरोपक्रमे धर्मधुग्दोहादयः ….
३९ प्रवर्ग्ये घर्मभेदे प्रायश्चित्तम्
४० ईशावास्योपनिषत् । ज्ञानकाण्डम् …. ६०४
अन्ते परिशिष्टानि-
वेदपारायणविधिः १,
याज्ञवल्क्यशिक्षा २,
प्रतिज्ञासूत्रम् ३,
सर्वानुक्रमणी ४,
अनुवाकसूत्रम् ५,
मन्त्राणामकारादिवर्णक्रमकोशश्च ६, इति ।
समाप्तेयं शुक्लयजुर्वेदसंहिताध्यायविषयानुक्रमणिका ।
–
श्रीमद्वाजसनेयिमाध्यन्दिन शुक्लयजुर्वेदसंहिता।
उवटभाष्य-महीधरभाष्यसंवलिता।