०१ ईशा वास्यमिदम्म्
विश्वास-प्रस्तुतिः ...{Loading}...
ई॒शा वा॒स्य᳖मि॒दंँ सर्वं॒ यत्किञ्च॒ जग॑त्यां॒ जग॑त्। तेन॑ त्य॒क्तेन॑ भुञ्जीथा॒ मा गृ॑धः॒ कस्य॑ स्वि॒द्धन॑म् ॥१ ॥
मूलम् ...{Loading}...
ई॒शा वा॒स्य᳖मि॒दंँ सर्वं॒ यत्किञ्च॒ जग॑त्यां॒ जग॑त्। तेन॑ त्य॒क्तेन॑ भुञ्जीथा॒ मा गृ॑धः॒ कस्य॑ स्वि॒द्धन॑म् ॥१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ई॒शा। वा॒स्य᳖म्। इ॒दम्। स॒र्व॑म्। यत्। किम्। च॒। जग॑त्याम्। जग॑त्। तेन॑। त्य॒क्तेन॑। भु॒ञ्जी॒थाः॒। मा। गृ॒धः॒। कस्य॑। स्वि॒त्। धन॑म्। १।
महीधरः
म० एकोनचत्वारिंशताध्यायैः कर्मकाण्डं निरूपितम् । इदानीं कर्माचरणशुद्धान्तःकरणं प्रति ज्ञानकाण्डमेकेनाध्यायेन निरूप्यते । ईशावास्यमित्यादिमन्त्राणां कर्मसु विनियोगो नास्ति तेषां शुद्धत्वैकत्वापापविद्धत्वाशरीरत्वसर्वगतत्वाद्यात्मयाथात्म्यप्रतिपादनात् । तच्च कर्मणा विरुध्यते । नहीदृगात्मोत्पाद्यो विकार्य आप्यः संस्कार्यः कर्ता भोक्ता वा भवेद्येन कर्मशेषता स्यात् । तस्मादविद्याकृतमात्मनोऽनेकत्वकर्तृत्वभोक्तृत्वाशुद्धत्वपापविद्धत्वाद्यङ्गीकृत्य लोकबुद्धिसिद्धानि कर्माणि विहितानि । यो हि दृष्टेन ब्रह्मवर्चसादिना अदृष्टेन स्वर्गादिना कर्मफलेनार्थी सन्नहं द्विजातिः कर्माधिकारवानित्यात्मानं मन्यते तस्य कर्माधिकारः । तस्मादेते मन्त्रा आत्मयाथात्म्यप्रकाशनेन शोकमोहादिसाधनमज्ञानं विनिवर्त्यात्मज्ञानं जनयन्तीत्यभिधेयसंबन्धप्रयोजनानि । इदानीं ते मन्त्रा व्याख्यायन्ते । ईशा वास्यम् । | आत्मदेवत्य अनुष्टुप्छन्दस्कोऽध्यायो दधीचाथर्वणेन दृष्टः । गर्भाधानादिसंस्कारसंस्कृतमधीतवेदं जनितसुतं यथाशक्तिकृतयज्ञं निष्पापं निःस्पृहं यमनियमोपेतं मुमुक्षुमुपसन्नं शिष्यं पुत्रं वा ऋषिरुपदिशन्नाह । ‘ईश ऐश्वर्ये’ क्विप् ईष्ट इतीदं ईशिता परमेश्वरः । स हि सर्वजन्तूनामात्मा सन् सर्वमीष्टे । तेन स्वेनात्मनेशा इदं प्रत्यक्षतो दृश्यमानं सर्वं वास्यम् ‘वस आच्छादने’ ‘ऋहलोर्ण्यत्’ (पा० ३।१।१२४) इति ण्यत्प्रत्ययः । आच्छादनीयं परमात्माहमेवेदं सर्वमिति परमार्थसत्यरूपेणात्मना सर्वमिदमनृतमाच्छादनीयम् । परमात्माहमेवास्मि नान्यदस्तीति चिन्तयेदित्यर्थः । यत् किंचेति भिन्नक्रमः । किंच यत् जगत्यां लोकत्रये जगत् जङ्गमादिकं स्वामिसंबन्धालिङ्गितं भवेत् तेन सर्वेण त्यक्तेन त्यक्तस्वस्वामिसंबन्धेन भुञ्जीथाः भोगमनुभवेः। मा गृधः ‘गृधु अभिकाङ्क्षायाम्’ आकाङ्क्षां मा कृथाः । ममेदमिति धियं त्यजेत्यर्थः । किमिति । स्विदिति निपातौ वितर्के । धनं कस्य स्वित् । न कस्यापीत्यर्थः । सर्वाणि द्रव्याण्यन्योन्यमुपगच्छन्ति दृश्यन्ते अतो ममेदमिति बुद्धिरविद्या तां त्यजतो योगेऽधिकार इत्यर्थः ॥ १ ॥
द्वितीया ।
अधिमन्त्रम् (VC)
- आत्मा देवता
- दीर्घतमा ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब चालीसवें अध्याय का आरम्भ है। इसके प्रथम मन्त्र में मनुष्य ईश्वर को जानके क्या करें, इस विषय को कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य ! तू (यत्) जो (इदम्) प्रकृति से लेकर पृथिवीपर्य्यन्त (सर्वम्) सब (जगत्याम्) प्राप्त होने योग्य सृष्टि में (जगत्) चरप्राणीमात्र (ईशा) संपूर्ण ऐश्वर्य से युक्त सर्वशक्तिमान् परमात्मा से (वास्यम्) आच्छादन करने योग्य अर्थात् सब ओर से व्याप्त होने योग्य है (तेन) उस (त्यक्तेन) त्याग किये हुए जगत् से (भुञ्जीथाः) पदार्थों के भोगने का अनुभव कर (किंच) किन्तु (कस्य, स्वित्) किसी के भी (धनम्) वस्तुमात्र की (मा) मत (गृधः) अभिलाषा कर ॥१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य ईश्वर से डरते हैं कि यह हमको सदा सब ओर से देखता है, यह जगत् ईश्वर से व्याप्त और सर्वत्र ईश्वर विद्यमान है। इस प्रकार व्यापक अन्तर्यामी परमात्मा का निश्चय करके भी अन्याय के आचरण से किसी का कुछ भी द्रव्य ग्रहण नहीं किया चाहते, वे धर्मात्मा होकर इस लोक के सुख और परलोक में मुक्तिरूप सुख को प्राप्त करके सदा आनन्द में रहें ॥१ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ मनुष्याः परमात्मानं विज्ञाय किङ्कुर्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! त्वं यदिदं सर्वं जगत्यां जगदीशा वास्यमस्ति, तेन त्यक्तेन भुञ्जीथाः, किञ्च कस्य स्विद्धनं मा गृधः ॥१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्या ईश्वराद् बिभ्यत्ययमस्मान् सर्वदा सर्वतः पश्यति, जगदिदमीश्वरेण व्याप्तं सर्वत्रेश्वरोऽस्तीति व्यापकमन्तर्यामिणं निश्चित्य कदाचिदप्यन्यायाचरणेन कस्यापि किञ्चिदपि द्रव्यं ग्रहीतुं नेच्छेयुस्ते धार्मिका भूत्वाऽत्र परत्राभ्युदयनिःश्रेयसे फले प्राप्य सदाऽऽनन्देयुः ॥१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - परमेश्वर आपल्याला सगळीकडून पाहतो तो या जगात सर्वत्र व्याप्त आहे. विद्यमान आहे. अशा व्यापक अंतर्यामी परमेश्वराचा निश्चय करून जी माणसे अन्यायपूर्वक वागून कुणाचे द्रव्य घेऊ इच्छित नाहीत त्या धर्मात्म्यांनी इहलोक व परलोक मुक्तिरूपी सुख प्राप्त करून आनंदाने राहावे.
०२ कुर्वन्नेवेह कर्माणि
विश्वास-प्रस्तुतिः ...{Loading}...
कु॒र्वन्ने॒वेह कर्मा॑णि जिजीवि॒षेच्छ॒तँ समाः॑। ए॒वं त्वयि॒ नान्यथे॒तो᳖ऽस्ति॒ न कर्म॑ लिप्यते॒ नरे॑ ॥२ ॥
मूलम् ...{Loading}...
कु॒र्वन्ने॒वेह कर्मा॑णि जिजीवि॒षेच्छ॒तँ समाः॑। ए॒वं त्वयि॒ नान्यथे॒तो᳖ऽस्ति॒ न कर्म॑ लिप्यते॒ नरे॑ ॥२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
कु॒र्वन्। ए॒व। इ॒ह। कर्मा॑णि। जि॒जी॒वि॒षेत्। श॒तम्। समाः॑। ए॒वम्। त्वयि॑। न। अ॒न्यथा॑। इ॒तः। अ॒स्ति॒। न। कर्म॑। लि॒प्य॒ते॒। नरे॑। २।
महीधरः
म० आत्मज्ञानाशक्तस्य कर्मोपदेशमाह । कर्माणि अग्निहोत्रादीनि निष्कामानि मुक्तिहेतुकानि कुर्वन्नेवेह लोके शतं समाः शतवर्षपर्यन्तं जिजीविषेत् । पुरुषव्यत्ययः । त्वं जिजीविषेः जीवितुमिच्छेः । पुरुषायुषः शतवर्षत्वाच्छतग्रहणम् । त्वयीति विभक्तिव्यत्ययः। तवैवं कर्म कुर्वतो जिजीविषतो मुक्तिरस्तीति शेषः । इतः प्रकारादन्यथा प्रकारान्तरेण मुक्तिर्नास्ति । अयमर्थः । स्वर्गादिप्राप्तौ यथा नानाप्रकाराः सन्ति न तथा मुक्तावित्यर्थः । निष्कामकर्मानुष्ठानेन शुद्धान्तःकरणस्यैव मुक्तिरित्यर्थः । ननु कर्मणः फलेन भाव्यम् , कथं मुक्तिरित्यत आह न कर्मेति । मुक्त्यर्थं क्रियमाणं कर्म नरे मनुष्ये न लिप्यते न संबध्यते । मुक्तिकारणान्तःकरणशुद्ध्यापादकत्वेनोपक्षीणशक्तित्वात् यावदिच्छा तावत्कर्मस्वधिकार इति दर्शितम् । उत्तरार्धस्वार्थान्तरं वा । एवंप्रकारे त्वयि जिजीविषति नरे नरमात्राभिमानिनि इतः एतस्मात्कर्मकरणादन्यथा प्रकारान्तरं नास्ति येन प्रकारेणाशुभं कर्म न लिप्यते । अतः शास्त्रविहितं कर्म कुर्वन्नेव जीवितुमिच्छेत् प्रत्यवायपरिहारायेत्यर्थः । तदुक्तम् ‘द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः । प्रवृत्तिलक्षणो धर्मो निवृत्तौ च विभाषितः’ इति ॥ २॥
तृतीया।
अधिमन्त्रम् (VC)
- आत्मा देवता
- दीर्घतमा ऋषिः
- भुरिगनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब वेदोक्त कर्म की उत्तमता अगले मन्त्र में कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - मनुष्य (इह) इस संसारे में (कर्माणि) धर्मयुक्त वेदोक्त निष्काम कर्मों को (कुर्वन्) करता हुआ (एव) ही (शतम्) सौ (समाः) वर्ष (जिजीविषेत्) जीवन की इच्छा करे (एवम्) इस प्रकार धर्मयुक्त कर्म में प्रवर्त्तमान (त्वयि) तुझ (नरे) व्यवहारों को चलानेहारे जीवन के इच्छुक होते हुए (कर्म) अधर्मयुक्त अवैदिक काम्य कर्म (न) नहीं (लिप्यते) लिप्त होता (इतः) इस से जो (अन्यथा) और प्रकार से (न, अस्ति) कर्म लगाने का अभाव नहीं होता है ॥२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्य आलस्य को छोड़ कर सब देखने हारे न्यायाधीश परमात्मा और करने योग्य उसकी आज्ञा को मानकर शुभ कर्मों को करते हुए अशुभ कर्मों को छोड़ते हुए ब्रह्मचर्य के सेवन से विद्या और अच्छी शिक्षा को पाकर उपस्थ इन्द्रिय के रोकने से पराक्रम को बढ़ा कर अल्पमृत्यु को हटावे, युक्त आहार-विहार से सौ वर्ष की आयु को प्राप्त होवें। जैसे-जैसे मनुष्य सुकर्मों में चेष्टा करते हैं, वैसे-वैसे ही पापकर्म से बुद्धि की निवृत्ति होती और विद्या, अवस्था और सुशीलता बढ़ती है ॥२ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ वैदिककर्मणः प्राधान्यमुच्यते
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - मनुष्य इह कर्माणि कुर्वन्नेव शतं समा जिजीविषेदेवं धर्म्ये कर्मणि प्रवर्त्तमाने त्वयि नरे न कर्म लिप्यते इतोऽन्यथा नास्ति लोपाभावः ॥२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्या आलस्यं विहाय सर्वस्य द्रष्टारं न्यायाधीशं परमात्मानं कर्त्तुमर्हां तदाज्ञां च मत्वा शुभानि कर्माणि कुर्वन्तोऽशुभानि त्यजन्तो ब्रह्मचर्य्येण विद्यासुशिक्षे प्राप्योपस्थेन्द्रियनिग्रहेण वीर्य्यमुन्नीयाल्पमृत्युं घ्नन्तु युक्ताहारविहारेण शतवार्षिकमायुः प्राप्नुवन्तु। यथा यथा मनुष्याः सुकर्मसु चेष्टन्ते तथा तथैव पापकर्मतो बुद्धिर्निवर्त्तते विद्यायुः सुशीलता च वर्द्धन्ते ॥२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी आळस सोडून सर्वद्रष्टा व न्यायाधीश असलेल्या परमेश्वराच्या आज्ञेप्रमाणे शुभ कर्म करावे. अशुभ कर्म सोडून द्यावे. ब्रह्मचर्याचे पालन करून विद्या व उत्तम शिक्षण प्राप्त करावे. गुह्य इंद्रियावर नियंत्रण ठेवावे आणि पराक्रम करून अल्पमृत्यू टाळावा. युक्त आहार-विहार करून शंभर वर्षांचे आयुष्य प्राप्त करावे. माणसे जसजसे चांगले कर्म करण्याचा प्रयत्न करतात तसतसे पापकर्मापासून बुद्धी दूर जाते आणि विद्या, आयुष्य व सुशीलता वाढते.
०३ असुर्य्या नाम
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒सु॒र्य्या नाम॒ लो॒काऽअ॒न्धेन॒ तम॒सावृ॑ताः। ताँस्ते प्रेत्यापि॑ गच्छन्ति॒ ये के चा॑त्म॒हनो॒ जनाः॑ ॥३ ॥
मूलम् ...{Loading}...
अ॒सु॒र्य्या नाम॒ लो॒काऽअ॒न्धेन॒ तम॒सावृ॑ताः। ताँस्ते प्रेत्यापि॑ गच्छन्ति॒ ये के चा॑त्म॒हनो॒ जनाः॑ ॥३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒सु॒र्य्याः᳙। नाम॑। ते। लो॒काः। अ॒न्धेन॑। तम॑सा। आवृ॑ता॒ इत्याऽवृ॑ताः। तान्। ते। प्रेत्येति॒ प्रऽइ॑त्य। अपि॑। ग॒च्छ॒न्ति॒। ये। के। च॒। आ॒त्म॒हन॒ इत्या॑त्म॒ऽहनः॑। जनाः॑। ३।
महीधरः
म० अथ काम्यकर्मपरान्निन्दति । ये के च ये केचित् जनाः नराः आत्महनः आत्मानं घ्नन्तीत्यात्महनः अविद्वांसः काम्यकर्मपराः विद्यमानस्याजरामरस्यात्मनोऽविद्यादोषेण तिरस्करणादात्महन्तारः। ते प्रेत्य मृत्वा देहं त्यक्त्वा तान् लोकान् जन्मानि स्थावरान्तानि अपिगच्छन्ति प्राप्नुवन्ति । तान् कान् नाम प्रसिद्धम् । ते ये यत्तदोर्व्यत्ययः । ये लोकाः लोक्यन्ते दृश्यन्ते भुज्यन्ते कर्मफलानि यत्रेति लोका जन्मानि । असुर्याः असुराणामिमे असुर्याः, असुषु प्राणेषु रमन्तेऽसुराः प्राणपोषणपराः । अद्वैतमपेक्ष्य देवा अपि असुराः । कीदृशा लोकाः । अन्धेन तमसा अदर्शनात्मकेनाज्ञानेन आवृताः आच्छादिताः । अनात्मज्ञाः पुनर्जायन्ते म्रियन्ते चेत्यर्थः ॥ ३ ॥
चतुर्थी ।
अधिमन्त्रम् (VC)
- आत्मा देवता
- दीर्घतमा ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब आत्मा के हननकर्त्ता अर्थात् आत्मा को भूले हुए जन कैसे होते हैं, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (लोकाः) देखनेवाले लोग (अन्धेन) अन्धकाररूप (तमसा) ज्ञान का आवरण करनेहारे अज्ञान से (आवृताः) सब ओर से ढँपे हुए (च) और (ये) जो (के) कोई (आत्महनः) आत्मा के विरुद्व आचरण करनेहारे (जनाः) मनुष्य हैं (ते) वे (असुर्य्याः) अपने प्राणपोषण में तत्पर अविद्यादि दोषयुक्त लोगों के सम्बन्धी उनके पापकर्म करनेवाले (नाम) प्रसिद्ध में होते हैं (ते) वे (प्रेत्य) मरने के पीछे (अपि) और जीते हुए भी (तान्) उन दुःख और अज्ञानरूप अन्धकार से युक्त भोगों को (गच्छन्ति) प्राप्त होते हैं ॥३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - वे ही मनुष्य असुर, दैत्य, राक्षस तथा पिशाच आदि हैं, जो आत्मा में और जानते वाणी से और बोलते और करते कुछ ही हैं, वे कभी अविद्यारूप दुःखसागर से पार हो आनन्द को नहीं प्राप्त हो सकते, और जो आत्मा, मन, वाणी और कर्म से निष्कपट एकसा आचरण करते हैं, वे ही देव, आर्य्य, सौभाग्यवान् सब जगत् को पवित्र करते हुए इस लोक और परलोक में अतुल सुख भोगते हैं ॥३ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथात्महन्तारो जनाः कीदृशा इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये लोका अन्धेन तमसाऽऽवृता ये के चात्महनो जनाः सन्ति, तेऽसुर्य्या नाम ते प्रेत्यापि तान् गच्छन्ति ॥३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - त एव असुरा दैत्या राक्षसाः पिशाचा दुष्टा मनुष्या य आत्मन्यन्यद् वाच्यन्यत् कर्मण्यन्यदाचरन्ति, ते न कदाचिदविद्यादुःखसागरादुत्तीर्याऽऽनन्दं प्राप्तुं शक्नुवन्ति। ये च यदात्मना तन्मनसा यन्मनसा तद्वाचा यद्वाचा तत्कर्मणाऽनुतिष्ठन्ति, त एव देवा आर्य्या सौभाग्यवन्तोऽखिलं जगत् पवित्रयन्त इमामुत्रातुलं सुखमश्नुवते ॥३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे विचार एक, वाणी दुसरी व कर्म तिसरेच करतात अशी माणसेच असूर, दैत्य, राक्षस व पिशाच्च असतात व ती माणसे अविद्यारूपी दुःख सागरातून बाहेर पडून आनंद प्राप्त करू शकत नाहीत. जी माणसे आत्मा, मन, वाणी व कर्म यांनी निष्कपट व एकसारखे आचरण करतात तीच देव, श्रेष्ठ (आर्य) भाग्यवान असतात व सर्व जगाला पवित्र करतात आणि इहलोक व परलोकांचे अतुल सुख भोगतात.
०४ अनेजदेकं मनसो
विश्वास-प्रस्तुतिः ...{Loading}...
अने॑ज॒देकं॒ मन॑सो॒ जवी॑यो॒ नैन॑द्दे॒वाऽआ॑प्नुव॒न् पूर्व॒मर्ष॑त्। तद्धाव॑तो॒ऽन्यानत्ये॑ति॒ तिष्ठ॒त्तस्मि॑न्न॒पो मा॑त॒रिश्वा॑ दधाति ॥४ ॥
मूलम् ...{Loading}...
अने॑ज॒देकं॒ मन॑सो॒ जवी॑यो॒ नैन॑द्दे॒वाऽआ॑प्नुव॒न् पूर्व॒मर्ष॑त्। तद्धाव॑तो॒ऽन्यानत्ये॑ति॒ तिष्ठ॒त्तस्मि॑न्न॒पो मा॑त॒रिश्वा॑ दधाति ॥४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अने॑जत्। एक॑म्। मन॑सः। जवी॑यः। न। ए॒न॒त्। दे॒वाः। आ॒प्नु॒व॒न्। पूर्व॑म्। अर्ष॑त्। तत्। धाव॑तः। अ॒न्यान्। अति॑। ए॒ति॒। तिष्ठ॑त्। तस्मि॑न्। अ॒पः। मा॒त॒रिश्वा॑। द॒धा॒ति॒। ४।
महीधरः
म० मुमुक्षुभिर्यादृशं ब्रह्मात्मत्वेनोपास्यं यस्याज्ञानात्संसारस्तदात्मस्वरूपमाह । त्रिष्टुप्छन्दस्केयमृक् । यत् ब्रह्म अनेजत् ‘एजृ कम्पने’ न एजतीत्यनेजत् अचलत् स्वावस्थाप्रच्युतिः कम्पनं तद्रहितम् । सदैकरूपमित्यर्थः । एकमद्वितीयं सर्वभूतेषु विज्ञानघनरूपेण । मनसः संकल्पादिलक्षणाज्जवीयः वेगवत्तरम् जवोऽस्यास्तीति जववत् अत्यन्तं जववत् जवीयः । ईयसुनि कृते ‘विन्मतोर्लुक्’ ( पा० ५। ३ । ६५ ) इति मतुपो लुक् । नन्वनेजद्वेगवतोर्विरोधः । मैवम् निरुपाधित्वेनानेजत् संकल्पविकल्परूपान्तःकरणस्योपाधेरनुवर्तनाज्जविष्ठम् । देहस्थस्य मनसो दूरस्थब्रह्मलोकादिसंकल्पनं क्षणमात्राद्भवतीति मनो वेगवत्तरं लोके प्रसिद्धम् । मनसि दूरं गच्छत्यात्मचैतन्यावभासः प्रथमप्राप्त इव गृह्यते अतो मनसो जवीय इत्युक्तम् । देवा द्योतनात्मकाश्चक्षुरादीन्द्रियाणि एनत् प्रकृतमात्मतत्त्वं नाप्नुवन् न प्राप्तवन्तः । चक्षुरादिभ्यो मनो जवीयः । अतो मनोव्यापारे व्यवहितत्वादात्मन आभासमात्रमपि देवानां गोचरो न भवतीत्यर्थः । यतः पूर्वमर्शत् वेगवन्मनसोऽपि प्रथममेव गच्छत् । ‘ऋश गतौ’ व्योमवद्व्यापित्वात्सर्वसंसारधर्मवर्जितं तदात्मतत्त्वं निरुपाधिकेन स्वरूपेणाविक्रियमेव सदुपाधिकृताः सर्वाः संसारविक्रिया अनुभवतीवेत्यविवेकिनां प्रतिदेहमनेकमिव प्रतिभासत इति भावः । यद्वा पूर्वं पूर्वमपि विद्यमानम् । अर्शत् ‘रिश हिंसायां’ रिशति नश्यति रिशत् न रिशदरिशत् अर्शत् । धातोरिकारलोपश्छान्दसः । किंच तत् । तदः स्थाने यदो वृत्तिः । यदात्मतत्त्वं धावतो द्रुतं गच्छतोऽन्यान् । मनोवागिन्द्रियादीनात्मविलक्षणान् अत्येति अतीत्य गच्छतीव । कीदृशम् । तिष्ठत् स्वयमविक्रियमेव सद्गच्छतीव । मातरि अन्तरिक्षे श्वयति गच्छतीति मातरिश्वा वायुः तस्मिन्नित्यचैतन्यस्वभावे आत्मतत्त्वे सति अपः कर्माणि दधाति धारयति कार्यकारणजातानि यस्मिन्नोतानि प्रोतानि यः सूत्रसंज्ञः सर्वस्य जगतो विधारयिता सर्वप्राणभृत्क्रियात्मकः सोऽपि वायुः प्राणिनां चेष्टालक्षणानि अग्निरविमेघादीनां ज्वलनदहनप्रकाशाभिवर्षणादीनि च कर्माणि यस्मिन् ब्रह्मणि सत्येव दधाति. विभजति धारयति वा । ‘भीषास्माद्वातः पवते भीषोदेति सूर्यः’ (तै० आर० ८।८) इत्यादिश्रुतेः। सर्वा हि कार्यकारणादिक्रियाः सर्वास्पदे नित्यचैतन्यरूपे ब्रह्मणि सत्येव भवन्तीत्यर्थः। यद्वा मातरिश्वा वायुरपः कर्माणि आप्यन्ते प्राप्यन्ते सुखदुःखानि याभिस्ता आपः कर्माणि ‘आप्नोतेर्ह्रस्वश्च’ ( उणा० २ ॥ ५९) इति क्विप् धातोर्ह्रस्वश्च । तानि कर्माणि यज्ञहोमादीनि यस्मिन् दधाति स्थापयति ‘स्वाहा वाते धाः’ (८।२१) इति समिष्टयजुषि वायुस्थत्वोक्तेः कर्माणि तावद्वायौ स्थाप्यन्ते समष्टिरूपोऽसौ वायुरपि यस्मिन्कर्माणि स्थापयति । यागहोमदानादिकर्मणां परमं निधानमित्यर्थः ॥ ४ ॥
पञ्चमी।
अधिमन्त्रम् (VC)
- ब्रह्म देवता
- दीर्घतमा ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
कैसा जन ईश्वर को साक्षात् करता है, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् मनुष्यो ! जो (एकम्) अद्वितीय (अनेजत्) नहीं कम्पनेवाला अर्थात् अचल अपनी अवस्था से हटना कम्पन कहाता है, उससे रहित (मनसः) मन के वेग से भी (जवीयः) अति वेगवान् (पूर्वम्) सबसे आगे (अर्षत्) चलता हुआ अर्थात् जहाँ कोई चलकर जावे, वहाँ प्रथम ही सर्वत्र व्याप्ति से पहुँचता हुआ ब्रह्म है (एनत्) इस पूर्वोक्त ईश्वर को (देवाः) चक्षु आदि इन्द्रिय (न) नहीं (आप्नुवन्) प्राप्त होते (तत्) वह परब्रह्म अपने-आप (तिष्ठत्) स्थिर हुआ अपनी अनन्त व्याप्ति से (धावतः) विषयों की ओर गिरते हुए (अन्यान्) आत्मा के स्वरूप से विलक्षण मन, वाणी आदि इन्द्रियों का (अति, एति) उल्लङ्घन कर जाता है, (तस्मिन्) उस सर्वत्र अभिव्याप्त ईश्वर की स्थिरता में (मातरिश्वा) अन्तरिक्ष में प्राणों को धारण करनेहारे वायु के तुल्य जीव (अपः) कर्म वा क्रिया को (दधाति) धारण करता है, यह जानो ॥४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ब्रह्म के अनन्त होने से जहाँ-जहाँ मन जाता है, वहाँ-वहाँ प्रथम से ही अभिव्याप्त पहिले से ही स्थिर ब्रह्म वर्त्तमान है, उसका विज्ञान शुद्ध मन से होता है, चक्षु आदि इन्द्रियों और अविद्वानों से देखने योग्य नहीं है। वह आप निश्चल हुआ सब जीवों को नियम से चलाता और धारण करता है। उसके अतिसूक्ष्म इन्द्रियगम्य न होने के कारण धर्मात्मा, विद्वान्, योगी को ही उसका साक्षात् ज्ञान होता है, अन्य को नहीं ॥४ ॥
दयानन्द-सरस्वती (सं) - विषयः
कीदृशो जन ईश्वरं साक्षात्करोतीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वांसो मनुष्याः ! यदेकमनेजन्मनसो जवीयः पूर्वमर्षद्ब्रह्माऽस्त्येनद्देवा नाप्नुवँस्तत्स्वयं तिष्ठत् सत्स स्वानन्तव्याप्त्या धावतोऽन्यानत्येति, तस्मिन् स्थिरे सर्वत्राभिव्याप्ते मातरिश्वा वायुरिव जीवोऽपो दधातीति विजानीत ॥४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ब्रह्मणोऽनन्तत्वाद्यत्र यत्र मनो याति तत्र तत्र पुरस्तादेवाऽभिव्याप्तमग्रस्थं ब्रह्म वर्त्तते, तद्विज्ञानं शुद्धेन मनसैव जायते, चक्षुरादिभिरविद्वद्भिश्च द्रष्टुमशक्यमस्ति, स्वयं निश्चलं सत्सर्वान् जीवान् नियमेन चालयति धरति च। तस्यातिसूक्ष्मत्वादतीन्द्रियत्वाद् धार्मिकस्य विदुषो योगिन एव साक्षात्कारो भवति नेतरस्य ॥४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ब्रह्म अनंत असल्यामुळे जेथे जेथे मनाची गती असते तेथे तेथे ते पूर्वीपासूनच व्याप्त असते. त्याचे ज्ञान शुद्ध मनानेच होते. ब्रह्म हे चक्षू इत्यादी इंद्रियांनी व विद्वान नसलेल्या लोकांना दिसू शकत नाही. ब्रह्म हे निश्चल असून सर्व जीवांना धारण करते व नियमाने सर्वांवर नियंत्रण ठेवते. ते इंदियगम्य नसून अतिसूक्ष्म असते म्हणून धर्मात्मा, विद्वान योग्यालाच त्याचे साक्षात ज्ञान होते इतरांना नाही.
०५ तदेजति तन्नैजति
विश्वास-प्रस्तुतिः ...{Loading}...
तदे॑जति॒ तन्नैज॑ति॒ तद् दू॒रे तद्व॑न्ति॒के। तद॒न्तर॑स्य॒ सर्व॑स्य॒ तदु॒ सर्व॑स्यास्य बाह्य॒तः ॥५ ॥
मूलम् ...{Loading}...
तदे॑जति॒ तन्नैज॑ति॒ तद् दू॒रे तद्व॑न्ति॒के। तद॒न्तर॑स्य॒ सर्व॑स्य॒ तदु॒ सर्व॑स्यास्य बाह्य॒तः ॥५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
तत्। ए॒ज॒ति॒। तत्। न। ए॒ज॒ति॒। तत्। दू॒रे। तत्। ऊँ॒ऽइत्यूँ॑। अ॒न्ति॒के। तत्। अ॒न्तः। अ॒स्य॒। सर्व॑स्य। तत्। ऊँ॒ऽइत्यूँ॑। सर्व॑स्य। अ॒स्य॒। बा॒ह्य॒तः। ५।
महीधरः
म०. रहस्यं सकृदुक्तं चित्ते नायातीति पूर्वमन्त्रोक्तमप्यर्थं पुनर्वदति । तत् प्रकृतमात्मतत्त्वमेजति चलति । तदेव च न एजति स्वतो नैव चलति । अचलमेव सत् मूढदृष्ट्या चलतीवेत्यर्थः । किंच तत् दूरे अविदुषामब्दकोट्याप्यप्राप्यत्वाद् दूरे इवेत्यर्थः । तत् उ तदेव अन्तिके समीपे । विदुषामात्मत्वेन भासमानत्वान्न केवलं दूरेऽन्तिके च । अस्य सर्वस्य नामरूपक्रियात्मकजगतोऽन्तरभ्यन्तरे तदेव । अस्य सर्वस्य बाह्यतः बहिरपि तदु तदेव ब्रह्म नभोवद्व्यापकत्वात् । अस्य मन्त्रस्यार्थान्तरम् । यथा पूर्वमन्त्रेण कारणरूपमात्मानमुद्दिश्य कार्यरूपमुद्दिशति-तदेजति । तिस्रोऽनुष्टुभः । तत् आत्मतत्त्वमेजति सर्वजन्तुरूपेण स्थितं सत् कम्पते क्रियावद्भवति । तदेव च न एजति स्थावररूपावस्थं न चलति । तदेव दूरे आदित्यनक्षत्रादिरूपेण स्थितत्वात् । तदु अन्तिके समीपे धरादिरूपत्वात् ‘सर्वं खल्विदं ब्रह्म’ इति श्रुतेः । अस्य सर्वस्य प्राणिजातस्यान्तर्मध्ये तदेवास्ते विज्ञानघनरूपेण । अस्य सर्वस्य बहिः तदु तदेव जडरूपत्वात् । चेतनाचेतनरूपमनन्तं ब्रह्मेत्यर्थः। एतदुपासितुरर्चिरादिमार्गेण गमनं नास्ति इहैव ब्रह्मप्राप्तेः । न तस्य प्राणा उत्क्रामन्त्यत्रैव समवलीयन्ते ब्रह्मैव सन्ब्रह्माप्येति’ इति श्रुतेः ५
षष्ठी।
अधिमन्त्रम् (VC)
- आत्मा देवता
- दीर्घतमा ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
विद्वानों के निकट और अविद्वानों के ब्रह्म दूर है, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (तत्) वह ब्रह्म (एजति) मूर्खों की दृष्टि से चलायमान होता (तत्) (न, एजति) अपने स्वरूप से न चलायमान और न चलाया जाता (तत्) वह (दूरे) अधर्मात्मा अविद्वान् अयोगियों से दूर अर्थात् क्रोड़ों वर्ष में भी नहीं प्राप्त होता (तत्) वह (उ) ही (अन्तिके) धर्मात्मा विद्वान् योगियों के समीप (तत्) वह (अस्य) इस (सर्वस्य) सब जगत् वा जीवों के (अन्तः) भीतर (उ) और (तत्) वह (अस्य, सर्वस्य) इस प्रत्यक्ष और अप्रत्यक्षरूप के (बाह्यतः) बाहर भी वर्त्तमान है ॥५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! वह ब्रह्म मूढ़ की दृष्टि में कम्पता जैसा है, वह आप व्यापक होने से कभी नहीं चलायमान होता, जो जन उसकी आज्ञा से विरुद्ध हैं, वे इधर-उधर भागते हुए भी उसको नहीं जानते और जो ईश्वर की आज्ञा का अनुष्ठानवाले वे अपने आत्मा में स्थित अति निकट ब्रह्म को प्राप्त होते हैं, जो ब्रह्म सब प्रकृति आदि के बाहर-भीतर अवयवों में अभिव्याप्त हो के अन्तर्यामिरूप से सब जीवों के सब पाप पुण्यरूप कर्मों को जानता हुआ यथार्थ फल देता है, वही सबको ध्यान में रखना चाहिये और इसी से सबको डरना चाहिये ॥५ ॥
दयानन्द-सरस्वती (सं) - विषयः
विदुषां निकटेऽविदुषां च ब्रह्म दूरेऽस्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! तद् ब्रह्मैजति तन्नैजति तद् दूरे तद्वन्तिके सर्वस्यान्तस्तदु सर्वस्याऽस्य बाह्यतो वर्त्तत इति निश्चिनुत ॥५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! तद्ब्रह्म मूढदृष्टौ कम्पत इव तत्स्वतो व्यापकत्वात् कदाचिन्न चलति, ये तदाज्ञाविरुद्धास्ते इतस्ततो धावन्तोऽपि तन्न विजानन्ति। ये चेश्वराज्ञानुष्ठातारस्ते स्वात्मस्थमतिनिकटं ब्रह्म प्राप्नुवन्ति, यद्ब्रह्म सर्वस्य प्रकृत्यादेर्बाह्याऽभ्यन्तरावयवानभिव्याप्य सर्वेषां जीवानामन्तर्यामिरूपतया सर्वाणि पापपुण्यात्मककर्माणि विजानन् याथातथ्यं फलं प्रयच्छत्येतदेव सर्वैर्ध्येयमस्मादेव सर्वैर्भेतव्यमिति ॥५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! ब्रह्म हे मूर्खाच्या दृष्टीने चलायमान असते. वास्तविक सर्वव्यापक असल्यामुळे ते कधीही चलायमान होत नाही. जे लोक त्याच्या आज्ञेविरुद्ध इकडे-तिकडे भटकतात ते त्याला जाणू शकत नाहीत व जे ईश्वराच्या आज्ञेचे पालन करतात ते आपल्या आत्म्यात अतिनिकट स्थित असलेल्या ब्रह्माला प्राप्त करतात. ब्रह्म प्रकृतीच्या आत व बाहेर व्याप्त असून अंतर्यामी रूपाने सगळ्या जीवांचे सर्व पाप पुण्यरूपी कर्म जाणून यथार्थ फळ देते हे सर्वांनी लक्षात ठेवले पाहिजे व सर्वांना त्याचेच भय वाटले पाहिजे.
०६ यस्तु सर्वाणि
विश्वास-प्रस्तुतिः ...{Loading}...
यस्तु सर्वा॑णि भू॒तान्या॒त्मन्ने॒वानु॒पश्य॑ति। स॒र्व॒भू॒तेषु॑ चा॒त्मानं॒ ततो॒ न वि चि॑कित्सति ॥६ ॥
मूलम् ...{Loading}...
यस्तु सर्वा॑णि भू॒तान्या॒त्मन्ने॒वानु॒पश्य॑ति। स॒र्व॒भू॒तेषु॑ चा॒त्मानं॒ ततो॒ न वि चि॑कित्सति ॥६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यः। तु। सर्वा॑णि। भू॒तानि॑। आ॒त्मन्। ए॒व। अ॒नु॒पश्य॒तीत्य॑नु॒ऽपश्य॑ति। स॒र्व॒भू॒तेष्विति॑ सर्वऽभू॒तेषु॑। च॒। आ॒त्मान॑म्। ततः॑। न। वि। चि॒कि॒त्स॒ति॒। ६।
महीधरः
म० अथोपासनप्रकारमाह । यस्तु यः पुनः मुमुक्षुः सर्वाणि भूतानि अव्यक्तादीनि स्थावरान्तानि चेतनानि आत्मन् । सप्तम्या लुक् । आत्मनि एवानुपश्यति मय्येव सर्वभूतानि स्थितानि न मद्व्यतिरिक्तानीति पश्यति । आत्मव्यतिरिक्तानि न पश्यतीत्यर्थः । सर्वभूतेषु चात्मानमवस्थितमव्यतिरिक्तं पश्यति तेषां भूतानां स्वं आत्मानमात्मत्वेन पश्यतीत्यर्थः । अयमर्थः । अस्य कार्यकारणसंघातस्यात्माहं सर्वप्रत्ययसाक्षिभूतश्चेतयिता निर्गुणश्च तथा तेनैव स्वरूपेणाव्यक्तादीनां स्थावरान्तानामहमेवात्मेति सर्वेषु चात्मानं निर्विशेषं पश्यति । ततस्तस्माद्दर्शनान्न विचिकित्सति न संशेते ‘कित रोगापनयने संशये च’ इति धातोः ‘गुप्तिज्किद्भ्यः सन्’ (पा० ३ । १।५) इति स्वार्थे सन्प्रत्ययः। आत्मनोऽन्यत्पश्यतः सर्वः संदेहो भवत्यात्मानमेवात्यन्तं शुद्धं निरन्तरं पश्यतो न संदेहावकाश इति भावः । अत आत्मज्ञस्य विचारनिवृत्तिः ॥ ६॥
सप्तमी।
अधिमन्त्रम् (VC)
- आत्मा देवता
- दीर्घतमा ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब ईश्वर विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (यः) जो विद्वान् जन (आत्मन्) परमात्मा के भीतर (एव) ही (सर्वाणि) सब (भूतानि) प्राणी-अप्राणियों को (अनुपश्यति) विद्या, धर्म और योगाभ्यास करने के पश्चात् ध्यानदृष्टि से देखता है (तु) और जो (सर्वभूतेषु) सब प्रकृत्यादि पदार्थों में (आत्मानम्) आत्मा को (च) भी देखता है, वह विद्वान् (ततः) तिस पीछे (न) नहीं (वि चिकित्सति) संशय को प्राप्त होता, ऐसा तुम जानो ॥६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जो लोग सर्वव्यापी, न्यायकारी, सर्वज्ञ, सनातन, सबके आत्मा, अन्तर्यामी, सबके द्रष्टा परमात्मा को जान कर सुख-दुःख हानि-लाभों में अपने आत्मा के तुल्य सब प्राणियों को जानकर धार्मिक होते हैं, वे ही मोक्ष को प्राप्त होते हैं ॥६ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथेश्वरविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! य आत्मन्नेव सर्वाणि भूतान्यनुपश्यति, यस्तु सर्वभूतेष्वात्मानं च समीक्षते, स ततो न विचिकित्सतीति यूयं विजानीत ॥६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! ये सर्वव्यापिनं न्यायकारिणं सर्वज्ञं सनातनं सर्वात्मानं सकलस्य द्रष्टारं परमात्मानं विदित्वा सुखदुःखहानिलाभेषु स्वात्मवत् सर्वाणि भूतानि विज्ञाय धार्मिका जायन्ते, त एव मोक्षमश्नुवते ॥६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! जे लोक सर्वव्यापी, न्यायकारी, सर्वज्ञ, सनातन, सर्वांचा आत्मा, अंतर्यामी, सर्वदृष्टा अशा परमेश्वराला जणून सुख-दुःख हानी लाभ यामध्ये आपल्या आत्म्याप्रमाणे सर्व प्राण्यांना समजून धार्मिक बनतात तेच मोक्ष प्राप्त करतात.
०७ यस्मिन्त्सर्वाणि भूतान्यात्मैवाभूद्विजानतः
विश्वास-प्रस्तुतिः ...{Loading}...
यस्मि॒न्त्सर्वा॑णि भू॒तान्या॒त्मैवाभू॑द्विजान॒तः। तत्र॒ को मोहः॒ कः शोक॑ऽएकत्वम॑नु॒पश्य॑तः ॥७ ॥
मूलम् ...{Loading}...
यस्मि॒न्त्सर्वा॑णि भू॒तान्या॒त्मैवाभू॑द्विजान॒तः। तत्र॒ को मोहः॒ कः शोक॑ऽएकत्वम॑नु॒पश्य॑तः ॥७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यस्मि॑न्। सर्वा॑णि। भू॒तानि॑। आ॒त्मा। ए॒व। अभू॑त्। वि॒जा॒न॒त इति॑ विऽजान॒तः। तत्र॑। कः। मोहः॑। कः। शोकः॑। ए॒क॒त्वमित्ये॑क॒ऽत्वम्। अ॒नु॒पश्य॑त॒ऽइत्य॑नु॒पश्य॑तः। ७।
महीधरः
म० इममेवार्थमन्यो मन्त्रो वदति । यस्मिन्नवस्थाविशेषे विजानतः ‘आत्मैवेदम्’ ‘सर्वं खल्विदं ब्रह्मे’त्यादिवाक्यविचारेणावधृतपरमार्थस्य सतः सर्वाणि भूतानि आत्मैवाभूत् परमार्थदर्शनादात्मैव संवृत्तः । तत्र तस्यामवस्थायामेकत्वं विशुद्धं गगनोपममात्मैकलं पश्यतः जानतः को मोहः कः शोकश्च । अविद्याकार्ययोः शोकमोहयोरसंभवात्सकारणस्य संसारस्यात्यन्तमुच्छेद इति भावः ॥ ७ ॥
अष्टमी।
अधिमन्त्रम् (VC)
- आत्मा देवता
- दीर्घतमा ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब कौन अविद्यादि दोषों को त्यागते हैं, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (यस्मिन्) जिस परमात्मा, ज्ञान, विज्ञान वा धर्म में (विजानतः) विशेषकर ध्यानदृष्टि से देखते हुए को (सर्वाणि) सब (भूतानि) प्राणीमात्र (आत्मा, एव) अपने तुल्य ही सुख-दुःखवाले (अभूत्) होते हैं, (तत्र) उस परमात्मा आदि में (एकत्वम्) अद्वितीय भाव को (अनुपश्यतः) अनुकूल योगाभ्यास से साक्षात् देखते हुए योगिजन को (कः) कौन (मोहः) मूढावस्था और (कः) कौन (शोकः) शोक वा क्लेश होता है अर्थात् कुछ भी नहीं ॥७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो विद्वान् संन्यासी लोग परमात्मा के सहचारी प्राणीमात्र को अपने आत्मा के तुल्य जानते हैं अर्थात् जैसे अपना हित चाहते वैसे ही अन्यों में भी वर्त्तते हैं, एक अद्वितीय परमेश्वर के शरण को प्राप्त होते हैं, उनको मोह, शोक और लोभादि कदाचित् प्राप्त नहीं होते। और जो लोग अपने आत्मा को यथावत् जान कर परमात्मा को जानते हैं, वे सदा सुखी होते हैं ॥७ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ केऽविद्यादिदोषान् जहतीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यस्मिन् परमात्मनि विजानतः सर्वाणि भूतान्यात्मैवाभूत्, तत्रैकत्वमनुपश्यतो योगिनः को मोहोऽभूत् कः शोकश्च ॥७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये विद्वांसः संन्यासिनः परमात्मना सहचरितानि प्राणिजातानि स्वात्मवद् विजानन्ति, यथा स्वात्मनो हितमिच्छन्ति तथैव तेषु वर्त्तन्त एकमेवाऽद्वितीयं परमात्मनः शरणमुपागताः सन्ति, तान् मोहशोकलोभादयो दोषाः कदाचिन्नाप्नुवन्ति, ये च स्वात्मानं यथावद् विज्ञाय परमात्मानं विदन्ति, ते सदा सुखिनो भवन्ति ॥७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे विद्वान, सन्यासी परमेश्वराचा सखा (सहचर) बनून सर्व प्राणीमात्रांना आपल्या आत्म्याप्रमाणेच समजतात अर्थात् आपले हित जसे इच्छितात (जपतात) तसे इतरांचेही इच्छितात व त्याप्रमाणे वर्तन करतात. एका अद्वितीय परमेश्वराला ते शरण जातात. त्यांना लोभ, मोह, शोक वगैरे बांधून ठेवू शकत नाहीत. जे लोक आपल्या आत्म्यांना यथावत् जाणून परमेश्वराला जाणतात ते नेहमी सुखी होतात.
०८ स पर्यगाच्छुक्रमकायमव्रणमस्नाविरम्
विश्वास-प्रस्तुतिः ...{Loading}...
स पर्य॑गाच्छु॒क्रम॑का॒यम॑व्र॒णम॑स्नावि॒रँ शु॒द्धमपा॑पविद्धम्। क॒विर्म॑नी॒षी प॑रि॒भूः स्व॑य॒म्भूर्या॑थातथ्य॒तोऽर्था॒न् व्य᳖दधाच्छाश्व॒तीभ्यः॒ समा॑भ्यः ॥८ ॥
मूलम् ...{Loading}...
स पर्य॑गाच्छु॒क्रम॑का॒यम॑व्र॒णम॑स्नावि॒रँ शु॒द्धमपा॑पविद्धम्। क॒विर्म॑नी॒षी प॑रि॒भूः स्व॑य॒म्भूर्या॑थातथ्य॒तोऽर्था॒न् व्य᳖दधाच्छाश्व॒तीभ्यः॒ समा॑भ्यः ॥८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सः। परि॑। अ॒गा॒त्। शु॒क्रम्। अ॒का॒यम्। अ॒व्र॒णम्। अ॒स्ना॒वि॒रम्। शु॒द्धम्। अपा॑पविद्ध॒मित्यपा॑पऽविद्धम्। क॒विः। म॒नी॒षी। प॒रि॒भूरिति॑ परि॒ऽभूः। स्व॒यम्भूरिति॑ स्वय॒म्ऽभूः। या॒था॒त॒थ्य॒त इति॑ याथाऽत॒थ्य॒तः। अर्था॑न्। वि। अ॒द॒धा॒त्। शा॒श्व॒तीभ्यः॑। समा॑भ्यः। ८।
महीधरः
म० एवंभूतात्मज्ञस्य फलमाह । य एवमात्मानं पश्यति स ईदृशं ब्रह्म पर्यगात् परिगच्छति प्राप्नोतीत्यर्थः । कीदृशम् । शुक्रं शुद्धं विज्ञानानन्दस्वभावमचिन्त्यशक्ति । अकायं न कायः शरीरं यस्य तत् । अकायत्वादेवाव्रणमक्षतम् । अस्नाविरं न विद्यन्ते स्नावाः शिरा यत्र तदस्नाविरं स्नायुरहितम् । अकायत्वादेव शुद्धमनुपहतं सत्त्वरजस्तमोमिः । अपापविद्धं न पापैर्विद्धं क्लेशकर्मविपाकाशयैरस्पृष्टम् । अकायमव्रणमस्नाविरमिति पुनरुक्तिरर्थातिशयद्योतनाय । ‘अभ्यासे भूयांसमर्थं मन्यन्ते’ (निरु.१०।४२) इति यास्कोक्तेः । ईदृशं ब्रह्मात्मज्ञः प्रतिपद्यत इत्यर्थः । पुनस्तस्यैव फलान्तरमाह । य ईदृश उपासकः स शाश्वतीभ्यः समाभ्यः निरन्तरमनन्तवर्षेभ्योऽर्थाय अनन्तवर्षप्राप्तये याथातथ्यतः यथातथाभावो याथातथ्यं तेन यथास्वरूपमर्थान् व्यदधाद्विहितवान् । त्यक्तस्वस्वामिसंबन्धैश्चेतनाचेतनैरर्थैरुपभोगं कृतवानित्यर्थः । कीदृशः । कविः क्रान्तदर्शी । मनीषी मेधावी । परि सर्वतो भवतीति परिभूः ज्ञानबलात्सर्वरूपः । स्वयं भवतीति स्वयंभूः ब्रह्मरूपेण भविता । ईदृशोऽपि पूर्वोक्तं शुक्रमकायमित्यादिविशेषणविशिष्टं ब्रह्म प्राप्नोतीत्यर्थः । एतस्या ऋचोऽर्थान्तरं यथा । योऽयमतीतमन्त्रोक्त आत्मा स पर्यगात् परितः सर्वत्र गच्छति नभोवत्सर्वं व्याप्नोति । व्याप्य च शाश्वतीभ्यो नित्याभ्यः समाभ्यः संवत्सराख्येभ्यः प्रजापतिभ्यो याथातथ्यतः यथाभूतकर्मफलसाधनतः अर्थान्कर्तव्यपदार्थान् व्यदधात् । यथानुरूपं व्यभजदित्यर्थः । स कीदृशः । शुक्रमित्यादिविशेषणानि लिङ्गव्यत्ययेन पुंलिङ्गे नेतव्यानि । शुक्रः शुद्धो दीप्तिमान् । अकायोऽशरीरः । लिङ्गशरीरवर्जित इत्यर्थः । अव्रणोऽक्षतः । अस्नाविरः शिरारहितः । अव्रणोऽस्नाविर इति विशेषणद्वयेन स्थूलशरीरप्रतिषेधः । शुद्धो निर्मलः । अपापविद्धोऽधर्मादिवर्जितः । क्रविः सर्वदृक् ‘नान्यदतोऽस्ति द्रष्टृ इति श्रुतेः । मनीषी मनस ईषिता सर्वज्ञः । परिभूः परि सर्वेषामुपर्युपरि भवतीति परिभूः । स्वयंभूः स्वयमेव भवतीति येषामुपरि भवति यश्चोपरि भवति स स्वयमेव भवतीति स्वयंभूः । स नित्य ईश्वरः सर्वं कृतवानित्यर्थः ॥ ८॥
नवमी।
अधिमन्त्रम् (VC)
- आत्मा देवता
- दीर्घतमा ऋषिः
- स्वराड्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर परमेश्वर कैसा है, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो ब्रह्म (शुक्रम्) शीघ्रकारी सर्वशक्तिमान् (अकायम्) स्थूल, सूक्ष्म और कारण शरीररहित (अव्रणम्) छिद्ररहित और नहीं छेद करने योग्य (अस्नाविरम्) नाड़ी आदि के साथ सम्बन्धरूप बन्धन से रहित (शुद्धम्) अविद्यादि दोषों से रहित होने से सदा पवित्र और (अपापविद्धम्) जो पापयुक्त, पापकारी और पाप में प्रीति करनेवाला कभी नहीं होता (परि, अगात्) सब ओर से व्याप्त जो (कविः) सर्वत्र (मनीषी) सब जीवों के मनों की वृत्तियों को जाननेवाला (परिभूः) दुष्ट पापियों का तिरस्कार करनेवाला और (स्वयम्भूः) अनादि स्वरूप जिसकी संयोग से उत्पत्ति, वियोग से विनाश, माता, पिता, गर्भवास, जन्म, वृद्धि और मरण नहीं होते, वह परमात्मा (शाश्वतीभ्यः) सनातन अनादिस्वरूप अपने-अपने स्वरूप से उत्पत्ति और विनाशरहित (समाभ्यः) प्रजाओं के लिये (याथातथ्यतः) यथार्थ भाव से (अर्थान्) वेद द्वारा सब पदार्थों को (व्यदधात्) विशेष कर बनाता है, (सः) वही परमेश्वर तुम लोगों को उपासना करने के योग्य है ॥८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जो अनन्त शक्तियुक्त, अजन्मा, निरन्तर, सदा मुक्त, न्यायकारी, निर्मल, सर्वज्ञ, सबका साक्षी, नियन्ता, अनादिस्वरूप ब्रह्म कल्प के आरम्भ में जीवों को अपने कहे वेदों से शब्द, अर्थ और उनके सम्बन्ध को जनानेवाली विद्या का उपदेश न करे तो कोई विद्वान् न होवे और न धर्म, अर्थ, काम और मोक्ष के फलों के भोगने को समर्थ हो, इसलिये इसी ब्रह्म की सदैव उपासना करो ॥८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः परमेश्वरः कीदृश इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यद् ब्रह्म शुक्रमकायमव्रणमस्नाविरं शुद्धमपापविद्धं पर्यगाद्यः कविर्मनीषीः परिभूः स्वयम्भूः परमात्मा शाश्वतीभ्यः समाभ्यो याथातथ्यतोऽर्थान् व्यदधात् स एव युष्माभिरुपासनीयः ॥८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यद्यनन्तशक्तिमदजं निरन्तरं सदा मुक्तं न्यायकारि निर्मलं सर्वज्ञं साक्षि-नियन्तृ-अनादिस्वरूपं ब्रह्म कल्पादौ जीवेभ्यः स्वोक्तैर्वेदैः शब्दार्थसम्बन्धविज्ञापिकां विद्यां नोपदिशेत् तर्हि कोऽपि विद्वान्न भवेत्, न च धर्मार्थकाममोक्षफलं प्राप्तुं शक्नुयात्, तस्मादिदमेव सदैवोपाध्वम् ॥८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! ब्रह्म अनंत शक्तीनेयुक्त, जन्मरहित, सदैव मुक्त, न्यायी, निर्मळ, सर्वज्ञ, सर्वसाक्षी, नियंत्रक, अनादी स्वरूप असून, त्याने सृष्टीच्या आरंभी जीवांना वेदांचे शब्द, अर्थ व त्यांचा संबंध दर्शविणाऱ्या विद्येचा उपदेश न केल्यास कोणीही विद्वान होणार नाही व धर्म, अर्थ, काम, मोक्ष यांचे फळ भोगण्यास समर्थ होणार नाही. त्यासाठी त्या ब्रह्माची सदैव उपासना करा.
०९ अन्धन्तमः प्र
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒न्धन्तमः॒ प्र वि॑शन्ति॒ येऽस॑म्भूतिमु॒पास॑ते। ततो॒ भूय॑ऽइव॒ ते तमो॒ यऽउ॒ सम्भू॑त्याँ र॒ताः ॥९ ॥
मूलम् ...{Loading}...
अ॒न्धन्तमः॒ प्र वि॑शन्ति॒ येऽस॑म्भूतिमु॒पास॑ते। ततो॒ भूय॑ऽइव॒ ते तमो॒ यऽउ॒ सम्भू॑त्याँ र॒ताः ॥९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒न्धम्। तमः॑। प्र। वि॒श॒न्ति॒। ये। अस॑म्भूति॒मित्यस॑म्ऽभूतिम्। उ॒पास॑त॒ इत्यु॑प॒ऽआस॑ते। ततः॑। भूय॑ऽइ॒वेति॒ भूयः॑ऽइव। ते। तमः॑। ये। ऊँ॒ऽइत्यूँ॑। सम्भू॑त्या॒मिति॒ सम्ऽभू॑त्या॒म्। र॒ताः। ९।
महीधरः
म० अतः परमुपासनामन्त्रा उच्यन्ते षडनुष्टुभः । यमनियमसंबन्धवान्विज्ञानात्मा कश्चिन्नास्ति जलबुद्बुदवज्जीवाः मदशक्तिवद्विज्ञानमित्यादिमतवादिनो बौद्धाः प्रस्तूय निन्द्यन्ते । ये नराः असंभूतिमसंभवमुपासते मृतस्य पुनः संभवो नास्ति अतः शरीरान्तेऽस्माकं मुक्तिरेवेति वदन्ति ते अन्धं तमोऽज्ञानलक्षणं प्रविशन्ति । ये उ ये च संभूत्यामेव रताः संभवत्यस्या इति संभूतिरात्मा तत्रैवासक्ताः कर्मपराङ्मुखाः स्वबुद्धिलाघवमजानाना आत्मज्ञानमात्ररताः आत्मैवास्ति नान्यत् कर्मादीनि कर्मकाण्डज्ञानकाण्डयोः संबन्धो नास्तीत्यभिप्रायवन्त इत्यर्थः । ते नराः ततोऽन्धात्तमसो भूय इव । इवशब्दोऽनर्थकः । बहुतरं तमोऽज्ञानं विशन्ति । अस्या ऋचोऽर्थान्तरमुच्यते । अधुना व्याकृताव्याकृतोपासनयोः समुच्चिचीषया प्रत्येकं निन्दोच्यते । संभवनं संभूतिः कार्यस्योत्पत्तिः तस्या अन्या असंभूतिः प्रकृतिः कारणमव्याकृताख्यं तामसंभूतिमव्याकृताख्यां प्रकृतिं कारणमविद्याकामकर्मबीजभूतामदर्शनात्मिकां ये उपासते ते तदनुरूपमेवान्धं तमोऽदर्शनात्मकं संसारं प्रविशन्ति । ये संभूत्यां कार्यब्रह्मणि हिरण्यगर्भाख्ये रताः ते ततस्तस्मादपि भूयो बहुतरमिव तमः प्रविशन्ति ॥ ९॥
दशमी।
अधिमन्त्रम् (VC)
- आत्मा देवता
- दीर्घतमा ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
कौन मनुष्य अन्धकार को प्राप्त होते हैं, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ये) जो लोग परमेश्वर को छोड़कर (असम्भूतिम्) अनादि अनुत्पन्न सत्व, रज और तमोगुणमय प्रकृतिरूप जड़ वस्तु को (उपासते) उपास्यभाव से जानते हैं, वे (अन्धम्, तमः) आवरण करनेवाले अन्धकार को (प्रविशन्ति) अच्छे प्रकार प्राप्त होते और (ये) जो (सम्भूत्याम्) महत्तत्त्वादि स्वरूप से परिणाम को प्राप्त हुई सृष्टि में (रताः) रमण करते हैं (ते) वे (उ) वितर्क के साथ (ततः) उससे (भूय इव) अधिक जैसे वैसे (तमः) अविद्यारूप अन्धकार को प्राप्त होते हैं ॥९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य समस्त जड़जगत् के अनादि नित्य कारण को उपासना भाव से स्वीकार करते हैं, वे अविद्या को प्राप्त होकर क्लेश को प्राप्त होते और जो उस कारण से उत्पन्न स्थूल-सूक्ष्म कार्य्यकारणाख्य अनित्य संयोगजन्य कार्य्यजगत् को इष्ट उपास्य मानते हैं, वे गाढ़ अविद्या को पाकर अधिकतर क्लेश को प्राप्त होते हैं, इसलिये सच्चिदानन्दस्वरूप परमात्मा की ही सब सदा उपासना करें ॥९ ॥
दयानन्द-सरस्वती (सं) - विषयः
के जना अन्धन्तमः प्राप्नुवन्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये परमेश्वरं विहायाऽसम्भूतिमुपासते तेऽन्धन्तमः प्रविशन्ति, ये सम्भूत्यां रतास्त उ ततो भूय इव तमः प्रविशन्ति ॥९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये जनाः सकलजडजगतोऽनादि नित्यं कारणमुपास्यतया स्वीकुर्वन्ति, तेऽविद्यां प्राप्य सदा क्लिश्यन्ति। ये च तस्मात् कारणादुत्पन्नं पृथिव्यादिस्थूलसूक्ष्मं कार्य्यकारणाख्यमनित्यं संयोगजन्यं कार्य्यं जगदिष्टमुपास्यं मन्यन्ते, ते गाढामविद्यां प्राप्याधिकतरं क्लिश्यन्ति तस्मात् सच्चिदानन्दस्वरूपं परमात्मानमेव सर्वे सदोपासीरन् ॥९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे संपूर्ण जड जगाच्या अनादी नित्य कारणाची (प्रकृती) उपासना करतात ती अविद्येत राहून क्लेश भोगतात व जी माणसे त्या कारणापासून उत्पन्न होणाऱ्या स्थूल व सूक्ष्म अनित्य कार्य जगाच्या संयोगाला इष्ट उपास्य मानतात (आणि त्या सृष्टीत रमतात) ते गाढ अविद्येत राहून अधिकात अधिक क्लेश भोगतात म्हणून सर्वांनी सच्चिदानंद स्वरूप परमेश्वराचीच नेहमी उपासना करावी.
१० अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒न्यदे॒वाहुः स॑म्भ॒वाद॒न्यदा॑हु॒रस॑म्भवात्। इति॑ शुश्रुम॒ धीरा॑णां॒ ये न॒स्तद्वि॑चचक्षि॒रे ॥१० ॥
मूलम् ...{Loading}...
अ॒न्यदे॒वाहुः स॑म्भ॒वाद॒न्यदा॑हु॒रस॑म्भवात्। इति॑ शुश्रुम॒ धीरा॑णां॒ ये न॒स्तद्वि॑चचक्षि॒रे ॥१० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒न्यत्। ए॒व। आ॒हुः। स॒म्भ॒वादिति॑ सम्ऽभ॒वात्। अ॒न्यत्। आ॒हुः। अस॑म्भवा॒दित्यस॑म्ऽभवात्। इति॑। शु॒श्रु॒म॒। धीरा॑णाम्। ये। नः॒। तत्। वि॒च॒च॒क्षि॒र इति॑ विऽचचक्षि॒रे। १०।
महीधरः
म० अथोभयोरुपासनयोः समुच्चयकारणमवयवबलभेदमाह । संभवात्संभूतेः कार्यब्रह्मोपासनात् अन्यदेव पृथगेवाणिमाद्यैश्वर्यलक्षणं फलमाहुः कथयन्ति धीराः। तथा असंभवात् असंभूतेरव्याकृतादव्याकृतोपासनादन्यदेव बलमुक्तम् । | अन्धं तमः प्रविशन्तीत्युक्तं प्रकृतिलय इति पौराणिकोक्तं फलमाहुः इत्येवंविधं धीराणां विदुषां वचः शुश्रुम वयं श्रुतवन्तः। | ये धीराः नोऽस्माकं तत् पूर्वोक्तं संभूत्यसंभूत्युपासनाफलं | विचचक्षिरे व्याख्यातवन्तः ॥ १०॥
एकादशी। |
अधिमन्त्रम् (VC)
- आत्मा देवता
- दीर्घतमा ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्य क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे हम लोग (धीराणाम्) मेधावी योगी विद्वानों से जो वचन (शुश्रुम) सुनते हैं (ये) जो वे लोग (नः) हमारे प्रति (तत्) (विचचक्षिरे) व्याख्यानपूर्वक कहते हैं, वे लोग (सम्भवात्) संयोगजन्य कार्य्य से (अन्यत्, एव) और ही कार्य्य वा फल (आहुः) कहते (असम्भवात्) उत्पन्न नहीं होनेवाले कारण से (अन्यत्) और (आहुः) कहते हैं, (इति) इस बात को तुम भी सुनो ॥१० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जैसे विद्वान् लोग कार्य्यकारणरूप वस्तु से भिन्न-भिन्न वक्ष्यमाण उपकार लेते और लिवाते हैं तथा उन कार्य्यकारण के गुणों को जानकर जनाते हैं, ऐसे ही तुम लोग भी निश्चय करो ॥१० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्याः किं कुर्य्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा वयं धीराणां सकाशाद् यद् वचः शुश्रुम ये नस्तद्विचचक्षिरे ते सम्भवादन्यदेवाहुर- सम्भवादन्यदाहुरिति यूयमपि शृणुत ॥१० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यथा विद्वांसः कार्य्यात् कारणाद् वस्तुनो भिन्नम्भिन्नं वक्ष्यमाणमुपकारं गृह्णन्ति ग्राहयन्ति तद्गुणान् विज्ञायाधिज्ञापयन्त्येवमेव यूयमपि निश्चिनुत ॥१० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! विद्वान लोक कार्यकारणरूपी वस्तूचा भिन्न भिन्न प्रकारे उपयोग करतात व करवून घेतात, तसेच त्या कार्यकारणांच्या गुणांना जाणतात व इतरांकडून जाणूनही घेतात, तसेच तुम्हीही निश्चयपूर्वक जाणा.
११ सम्भूतिं च
विश्वास-प्रस्तुतिः ...{Loading}...
सम्भू॑तिं च विना॒शं च॒ यस्तद्वेदो॒भयँ॑ स॒ह। वि॒ना॒शेन॑ मृ॒त्युं ती॒र्त्वा सम्भू॑त्या॒मृत॑मश्नुते ॥११ ॥
मूलम् ...{Loading}...
सम्भू॑तिं च विना॒शं च॒ यस्तद्वेदो॒भयँ॑ स॒ह। वि॒ना॒शेन॑ मृ॒त्युं ती॒र्त्वा सम्भू॑त्या॒मृत॑मश्नुते ॥११ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सम्भू॑ति॒मिति॒ सम्ऽभू॑तिम्। च॒। वि॒ना॒शमिति॑ विऽना॒शम्। च॒। यः। तत्। वेद॑। उ॒भय॑म्। स॒ह। वि॒ना॒शेनेति॑ विना॒शेन॑। मृ॒त्युम्। ती॒र्त्वा। सम्भू॒त्येति॒ सम्ऽभू॑त्या। अ॒मृत॑म्। अ॒श्नु॒ते॒। ११।
महीधरः
म० संभूतिं सर्वजगत्संभवैकहेतुं परं ब्रह्म । विनाशं विनाशोऽस्यास्तीति विनाशः अर्शआदित्वादच्प्रत्ययः। विनाशधर्मकं शरीरम् । तदुभयं शरीरिशरीररूपं द्वयं यो योगी सह एकीभूतं वेद जानाति । देहभिन्नोऽहं देहीवासे कर्मवशादिति ज्ञात्वा शरीरेण ज्ञानोत्पत्तिकराणि निष्कामकर्माणि करोतीत्यर्थः । स विनाशेन विनाशिना शरीरेण मृत्युं तीर्त्वान्तःकरणशुद्धिं संपाद्य संभूत्यात्मज्ञानेनामृतमश्नुते मुक्तिं प्राप्नोति । अस्या ऋचोऽर्थान्तरम् । यथा । संभूत्युपासनयोरेकपुरुषार्थत्वात्समुच्चय एव युक्त इत्याह । अत्र विनाशशब्दद्वये अवर्णलोपो द्रष्टव्यः पृषोदरादित्वात् । अन्यदाहुरसंभवादित्युक्तेः । संभूतिमविनाशं च व्याकृताव्याकृतोपासनद्वयं यः सह वेद । उभयमुपास्त इत्यर्थः । स योगी अविनाशेनाव्याकृतोपासनेन मृत्युमनैश्वर्यमधर्मकामादिदोषजातं च तीर्त्वातिक्रम्य संभूत्या हिरण्यगर्भोपासनेनामृतं प्रकृतिलयलक्षणमश्नुते ॥ ११ ॥
द्वादशी।
अधिमन्त्रम् (VC)
- आत्मा देवता
- दीर्घतमा ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को कार्य्यकारण से क्या-क्या सिद्ध करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (यः) जो विद्वान् (सम्भूतिम्) जिसमें सब पदार्थ उत्पन्न होते उस कार्य्यरूप सृष्टि (च) और उसके गुण, कर्म, स्वभावों को तथा (विनाशम्) जिसमें पदार्थ नष्ट होते उस कारणरूप जगत् (च) और उसके गुण, कर्म, स्वभावों को (सह) एक साथ (उभयम्) दोनों (तत्) उन कार्य्य और कारण स्वरूपों को (वेद) जानता है, वह विद्वान् (विनाशेन) नित्यस्वरूप जाने हुए कारण के साथ (मृत्युम्) शरीर छूटने के दुःख से (तीर्त्वा) पार होकर (सम्भूत्या) शरीर, इन्द्रियाँ और अन्तःकरणरूप उत्पन्न हुई कार्यरूप धर्म में प्रवृत्त करानेवाली सृष्टि के साथ (अमृतम्) मोक्षसुख को (अश्नुते) प्राप्त होता है ॥११ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! कार्य्यकारणरूप वस्तु निरर्थक नहीं हैं, किन्तु कार्यकारण के गुण, कर्म और स्वभावों को जानकर धर्म आदि मोक्ष के साधनों में संयुक्त करके अपने शरीरादि कार्यकारण को नित्यत्व से जान के मरण का भय छोड़ कर मोक्ष की सिद्धि करो। इस प्रकार कार्य्यकारण से अन्य ही बल सिद्ध करना चाहिये। इन कार्य्यकारण का निषेध परमेश्वर के स्थान में जो उपासना उस प्रकरण में जानना चाहिये ॥११ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैः कार्य्यकारणाभ्यां किं किं साधनीयमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यो विद्वान् सम्भूतिं च विनाशं च सहोभयं तद्वेद, स विनाशेन सह मृत्युं तीर्त्वा सम्भूत्या सहामृतमश्नुते ॥११ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! कार्य्यकारणाख्ये वस्तुनी निरर्थके न स्तः, किन्तु कार्य्यकारणयोर्गुणकर्मस्वभावान् विदित्वा धर्मादिमोक्षसाधनेषु संप्रयोज्य स्वात्मकार्यकारणयोर्विज्ञातेन नित्यत्वेन मृत्युभयं त्यक्त्वा मोक्षसिद्धिं सम्पादयतेति कार्यकारणाभ्यामन्यदेव फलं निष्पादनीयमिति। अनयोर्निषेधो हि परमेश्वरस्थान उपासनाप्रकरणे वेदितव्यः ॥११ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! कार्यकारण्रूपी वस्तू निरर्थक नाहीत. त्यामुळे कार्यकारणाने गुण, कर्म, स्वभाव जाणून धर्म साधनांमध्ये संयुक्त करून आपले शरीर इत्यादी कार्यकारणाला नित्यत्वाने जाणून, मृत्यूचे भय दूर करून मोक्ष प्राप्त करा. या प्रकारे कार्यकारणाने अन्य फळ प्राप्त केले पाहिजे. परमेश्वराऐवजी कार्यकारणाची (जगत हे कार्य व प्रकृती हे कारण) उपासना केली जाते तेथे कार्यकारणाचा निषेध केला पाहिजे.
१२ अन्धन्तमः प्र
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒न्धन्तमः॒ प्र वि॑शन्ति॒ येऽवि॑द्यामु॒पास॑ते। ततो॒ भूय॑ऽइव॒ ते तमो॒ यऽउ॑ वि॒द्यायाँ॑ र॒ताः ॥१२ ॥
मूलम् ...{Loading}...
अ॒न्धन्तमः॒ प्र वि॑शन्ति॒ येऽवि॑द्यामु॒पास॑ते। ततो॒ भूय॑ऽइव॒ ते तमो॒ यऽउ॑ वि॒द्यायाँ॑ र॒ताः ॥१२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒न्धम्। तमः॑। प्र। वि॒श॒न्ति॒। ये। अवि॑द्याम्। उ॒पास॑त॒ इत्यु॑प॒ऽआस॑ते। ततः॑। भूय॑ऽइ॒वेति॒ भूयः॑ऽइव। ते। तमः॑। ये। ऊँ॒ऽइत्यूँ॑। वि॒द्याया॑म्। र॒ताः। १२।
महीधरः
म० ये तु कर्मनिष्ठाः कर्म कुर्वन्त एव जिजीविषन्ति तान्प्रत्युच्यते । विद्याविद्ययोः समुच्चिचीषया प्रत्येकं निन्दोच्यते । विद्याया अन्या अविद्या कर्म । ये जना अविद्यामग्निहोत्रादिलक्षणां केवलामुपासते स्वर्गार्थानि कर्माणि केवलमनुतिष्ठन्ति ते अन्धमदर्शनात्मकं तमोऽज्ञानं प्रविशन्ति । संसारपरम्परामनुभवन्तीत्यर्थः । ततस्तस्मादन्धात्मकात्तमसो भूय इव बहुतरमेव तमः ते प्रविशन्ति । ये उ ये पुनर्विद्यायामात्मज्ञाने देवताज्ञाने एव रताः कर्माणि हित्वा कर्माकरणे प्रत्यवायोत्पत्यान्तःकरणशुद्ध्यभावेन ज्ञानानुदयादिति भावः ॥ १२ ॥
त्रयोदशी ।
अधिमन्त्रम् (VC)
- आत्मा देवता
- दीर्घतमा ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब विद्या-अविद्या की उपासना का फल कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ये) जो मनुष्य (अविद्याम्) अनित्य में नित्य, अशुद्ध में शुद्ध, दुःख में सुख और अनात्मा शरीरादि में आत्मबुद्धिरूप अविद्या उसकी अर्थात् ज्ञानादि गुणरहित कारणरूप परमेश्वर से भिन्न जड़ वस्तु की (उपासते) उपासना करते हैं, वे (अन्धम्, तमः) दृष्टि के रोकनेवाले अन्धकार और अत्यन्त अज्ञान को (प्र, विशन्ति) प्राप्त होते हैं और (ये) जो अपने आत्मा को पण्डित माननेवाले (विद्यायाम्) शब्द, अर्थ और इनके सम्बन्ध के जानने मात्र अवैदिक आचरण में (रताः) रमण करते (ते) वे (उ) भी (ततः) उससे (भूय इव) अधिकतर (तमः) अज्ञानरूपी अन्धकार में प्रवेश करते हैं ॥१२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जो-जो चेतन, ज्ञानादिगुणयुक्त वस्तु है वह जाननेवाला, जो अविद्यारूप है वह जानने योग्य है और जो चेतन ब्रह्म तथा विद्वान् का आत्मा है वह उपासना के योग्य है, जो इससे भिन्न है, वह उपास्य नहीं है, किन्तु उपकार लेने योग्य है। जो मनुष्य अविद्या, अस्मिता, राग, द्वेष और अभिनिवेश नामक क्लेशों से युक्त हैं, परमेश्वर को छोड़ इससे भिन्न जड़वस्तु की उपासना कर महान् दुःखसागर से डूबते हैं और जो शब्द अर्थ का अन्वयमात्र संस्कृत पढ़कर सत्यभाषण पक्षपातरहित न्याय का आचरणरूप धर्म नहीं करते, अभिमान में आरूढ़ हुए विद्या का तिरस्कार कर अविद्या को ही मानते हैं, वे अत्यन्त तमोगुणरूप दुःखसागर में निरन्तर पीडि़त होते हैं ॥१२ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ विद्याऽविद्योपासनाफलमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये मनुष्या अविद्यामुपासते तेऽन्धन्तमः प्रविशन्ति, ये विद्यायां रतास्त उ ततो भूय इव तमः प्रविशन्ति ॥१२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। ज्ञानादिगुणयुक्तं वस्तु तज्ज्ञातृ यदविद्यारूपं तज्ज्ञेयं यच्च चेतनं ब्रह्मविद्वदात्मस्वरूपं वा तदुपासनीयं सेवनीयं च यदतो भिन्नं तन्नोपासनीयं किन्तूपकर्त्तव्यम्। ये मनुष्या अविद्याऽस्मिताराग-द्वेषाभिनिवेशैः क्लेशैर्युक्तास्ते परमेश्वरं विहायातो भिन्नं जडं वस्तूपास्य महति दुःखसागरे मज्जन्ति, ये च शब्दार्थान्वयमात्रं संस्कृतमधीत्य सत्यभाषणपक्षपातरहितन्यायाचरणाख्यं धर्मं नाचरन्त्यभिमानारूढाः सन्तो विद्यां तिरस्कृत्याविद्यामेव मन्यन्ते, ते चाऽधिकतमसि दुःखार्णवे सततं पीडिता जायन्ते ॥१२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जी जी चेतन ज्ञान व गुणयुक्त वस्तू आहे ती ज्ञाता व जी अविद्यारूपी वस्तू असते ती जाणण्यायोग्य असते व जे चेतन ब्रह्म आहे ते उपासना करण्यायोग्य आहे. यापेक्षा जे भिन्न असते ते उपास्य नसून त्याचा उपयोग करून घेतला पाहिजे. जी माणसे अविद्या, अस्मिता, राग, द्वेश व अभिनिवेश नामक क्लेशांनी युक्त आहेत ती परमेश्वराला सोडून त्यापेक्षा भिन्न जड वस्तूची उपासना करून महान दुःख सागरात बुडतात व जे संस्कृत शब्द अर्थ अन्वय जाणून स्वतःला पंडित मानणारे असून, सत्य भाषण, पक्षापातरहित न्यायाचा आचरणरूपी धर्म स्वीकारीत नाहीत आणि अभिमानी बनून विद्येचा तिरस्कार करून अविद्येलाच मानतात ते अत्यंत तमोगुणरूपी दुःखसागराने निरंतर पीडित होतात.
१३ अन्यदेवाहुर्विद्यायाऽअन्यदाहुरविद्यायाः इति
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒न्यदे॒वाहुर्वि॒द्याया॑ऽअ॒न्यदा॑हु॒रवि॑द्यायाः। इति॑ शुश्रुम॒ धीरा॑णां॒ ये न॒स्तद्वि॑चचक्षि॒रे ॥१३ ॥
मूलम् ...{Loading}...
अ॒न्यदे॒वाहुर्वि॒द्याया॑ऽअ॒न्यदा॑हु॒रवि॑द्यायाः। इति॑ शुश्रुम॒ धीरा॑णां॒ ये न॒स्तद्वि॑चचक्षि॒रे ॥१३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒न्यत्। ए॒व। आ॒हुः। वि॒द्यायाः॑। अ॒न्यत्। आ॒हुः॒। अवि॑द्यायाः। इति॑। शु॒श्रु॒म॒। धीरा॑णाम्। ये। नः॒। तत्। वि॒च॒च॒क्षि॒रे इति॑ विऽचचक्षि॒रे। १३।
महीधरः
म० तयोः फलभेदमाह । विद्याया आत्मज्ञानस्य फलमन्यदेवाहुरमृतरूपम् । अविद्यायाः कर्मणश्च फलं पितृलोकरूपमन्यदेवाहुः । धीराः । ‘कर्मणा पितृलोको विद्यया देवलोक’ इति श्रुतेः । ये धीराः धीमन्तः आचार्याः नोऽस्मभ्यं ज्ञानं कर्म च विचचक्षिरे व्याचख्युः । तदुक्तमित्येवं धीराणां वचः शुश्रुम श्रुतवन्तः ॥ १३ ॥
चतुर्दशी।
अधिमन्त्रम् (VC)
- आत्मा देवता
- दीर्घतमा ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब जड़-चेतन का भेद कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (ये) जो विद्वान् लोग (नः) हमारे लिये (विचचक्षिरे) व्याख्यापूर्वक कहते थे (विद्यायाः) पूर्वोक्त विद्या का (अन्यत्) अन्य ही कार्य वा फल (आहुः) कहते थे (अविद्यायाः) पूर्व मन्त्र से प्रतिपादन की अविद्या का (अन्यत्, एव) अन्य फल (आहुः) कहते हैं (इति) इस प्रकार उन (धीराणाम्) आत्मज्ञानी विद्वानों से (तत्) उस वचन को हम लोग (शुश्रुम) सुनते थे, ऐसा जानो ॥१३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ज्ञानादि गुणयुक्त चेतन से जो उपयोग होने योग्य है, वह अज्ञानयुक्त जड़ से कदापि नहीं और जो जड़ से प्रयोजन सिद्ध होता है, वह चेतन से नहीं। सब मनुष्यों को विद्वानों के सङ्ग, योग, विज्ञान और धर्माचरण से इन दोनों का विवेक करके दोनों से उपयोग लेना चाहिये ॥१३ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ जडचेतनयोर्विभागमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्या ये विद्वांसो नो विचचक्षिरे विद्याया अन्यदाहुरविद्याया अन्यदेवाहुरिति तेषां धीराणां तद्वचो वयं विजानीत ॥१३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ज्ञानादिगुणयुक्तस्य चेतनस्य सकाशाद्य उपयोगो भवितुं योग्यो न स अज्ञानयुक्तस्य जडस्य सकाशात् यच्च जडात् प्रयोजनं सिध्यति न तच्चेतनादिति सर्वैर्मनुष्यैर्विद्वत्सङ्गेन विज्ञानेन योगेन धर्माचरणेन चानयोर्विवेकं कृत्वोभयोरुपयोगः कर्त्तव्यः ॥१३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - अनादी गुणयुक्त चेतनाकडून जो व्यवहार होतो तो अज्ञानयुक्त जडाकडून कधीही होत नाही व जडाने जे प्रयोजन सिद्ध होते ते चेतनाने होत नाही. म्हणून सर्व माणसांनी विद्वानांची संगती, योगविज्ञान व धर्माचरणाने या दोन्हींचा (विद्या व अविद्या) विवेक करून दोन्ही गोष्टींचा उपयोग करून घ्यावा.
१४ विद्यां चाविद्याम्
विश्वास-प्रस्तुतिः ...{Loading}...
वि॒द्यां चावि॑द्यां च॒ यस्तद्वेदो॒भयँ॑ स॒ह। अवि॑द्यया मृ॒त्युं ती॒र्त्वा वि॒द्यया॒मृत॑मश्नुते ॥१४ ॥
मूलम् ...{Loading}...
वि॒द्यां चावि॑द्यां च॒ यस्तद्वेदो॒भयँ॑ स॒ह। अवि॑द्यया मृ॒त्युं ती॒र्त्वा वि॒द्यया॒मृत॑मश्नुते ॥१४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वि॒द्याम्। च॒। अवि॑द्याम्। च॒। यः। तत्। वेद॑। उ॒भय॑म्। स॒ह। अवि॑द्यया। मृ॒त्युम्। ती॒र्त्वा। वि॒द्यया॑। अ॒मृत॑म्। अ॒श्नु॒ते॒। १४।
महीधरः
म० समुच्चयमाह । विद्यां देवताज्ञानं अविद्यां कर्म च तदुभयं विद्याविद्यारूपं द्वयं यः सह वेद एकीकृत्य वेद एकेन पुरुषेणानुष्ठेयं जानाति । कर्मकाण्डं ज्ञानकाण्डस्य गुणभूतमित्यर्थः। सोऽविद्ययाग्निहोत्रादिकर्मणा मृत्युं स्वाभाविककर्मज्ञानं मृत्युशब्दवाच्यं तीर्त्वोत्तार्यान्तःशुद्ध्या कृतकृत्यो भूला विद्यया देवताज्ञानेनामृतं देवतात्मभावमश्नुते प्राप्नोति ‘तद्धि अमृतमुच्यते यद्देवतात्मगमनम्’ इति श्रुतेः ॥ १४ ॥
पञ्चदशी।
अधिमन्त्रम् (VC)
- आत्मा देवता
- दीर्घतमा ऋषिः
- स्वराडुष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यः) जो विद्वान् (विद्याम्) पूर्वोक्त विद्या (च) और उसके सम्बन्धी साधन-उपसाधनों (अविद्याम्) पूर्व कही अविद्या (च) और इसके उपयोगी साधनसमूह को और (तत्) उस ध्यानगम्य मर्म (उभयम्) इन दोनों को (सह) साथ ही (वेद) जानता है, वह (अविद्यया) शरीरादि जड़ पदार्थ समूह से किये पुरुषार्थ से (मृत्युम्) मरणदुःख के भय को (तीर्त्वा) उल्लङ्घ कर (विद्यया) आत्मा और शुद्ध अन्तःकरण के संयोग में जो धर्म उससे उत्पन्न हुए यथार्थ दर्शनरूप विद्या से (अमृतम्) नाशरहित अपने स्वरूप वा परमात्मा को (अश्नुते) प्राप्त होता है ॥१४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य विद्या और अविद्या को उनके स्वरूप से जानकर इनके जड़-चेतन साधक हैं, ऐसा निश्चय कर सब शरीरादि जड़पदार्थ और चेतन आत्मा को धर्म, अर्थ, काम और मोक्ष की सिद्धि के लिये साथ ही प्रयोग करते हैं, वे लौकिक दुःख को छोड़ परमार्थ के सुख को प्राप्त होते हैं। जो जड़प्रकृति आदि कारण वा शरीरादि कार्य्य न हो तो परमेश्वर जगत् की उत्पत्ति और जीव कर्म, उपासना और ज्ञान के करने को कैसे समर्थ हों? इससे न केवल जड़, न केवल चेतन से अथवा न केवल कर्म से तथा न केवल ज्ञान से कोई धर्मादि पदार्थों की सिद्धि करने में समर्थ होता है ॥१४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यो विद्वान् विद्यां चाऽविद्यां च तदुभयं सह वेद सोऽविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते ॥१४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्या विद्याऽविद्ये स्वरूपतो विज्ञायऽनयोर्जडचेतनौ साधकौ वर्त्तेते इति निश्चित्य सर्वं शरीरादिजडं चेतनमात्मानं च धर्मार्थकाममोक्षसिद्धये सहैव संप्रयुञ्जते, ते लौकिकं दुःखं विहाय पारमार्थिकं सुखं प्राप्नुवन्ति। यदि जडं प्रकृत्यादिकारणं शरीरादिकार्यं वा न स्यात्, तर्हि परमेश्वरो जगदुत्पत्तिं जीवः कर्मोपासने ज्ञानं च कर्त्तुं कथं शक्नुयात्, तस्मान्न केवलेन जडेन न च केवलेन चेतनेनाथवा न केवलेन कर्मणा न केवलेन ज्ञानेन च कश्चिदपि धर्मादिसिद्धिं कर्त्तुं समर्थो भवति ॥१४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे विद्या व अविद्या यांचे स्वरूप जाणून जड व चेतनाचा निश्चय करून शरीर वगैरे सर्व जड पदार्थ आणि चेतन आत्मा यांना धर्म, अर्थ, काम मोक्षाच्या सिद्धीसाठी बरोबरच प्रयोगात आणतात. ते लौकिक दुःखांपासून दूर होतात आणि परमार्थाचे सुख भोगतात. जर जड प्रकृती इत्यादी कारण किंवा शरीरादी कार्य नसेल तर परमेश्वर जगाची उत्पत्ती करण्यास व जीव ज्ञान, कर्म, उपासना करण्यास समर्थ कसे होऊ शकतील? म्हणून कोणीही केवळ जडाने किंवा चेतनाने अथवा केवळ ज्ञानाने किंवा केवळ कर्माने वगैरे गोष्टी साध्य करू शकत नाहीत.
१५ वायुरनिलममृतमथेदं भस्मान्तम्
विश्वास-प्रस्तुतिः ...{Loading}...
वा॒युरनि॑लम॒मृत॒मथे॒दं भस्मा॑न्तँ॒ शरी॑रम्। ओ३म् क्रतो॑ स्मर। क्लि॒बे स्म॑र। कृ॒तँ स्म॑र ॥१५ ॥
मूलम् ...{Loading}...
वा॒युरनि॑लम॒मृत॒मथे॒दं भस्मा॑न्तँ॒ शरी॑रम्। ओ३म् क्रतो॑ स्मर। क्लि॒बे स्म॑र। कृ॒तँ स्म॑र ॥१५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वा॒युः। अनि॑लम्। अ॒मृत॑म्। अथ॑। इ॒दम्। भस्मा॑न्त॒मिति॒ भस्म॑ऽअन्तम्। शरी॑रम्। ओ३म्। क्रतो॒ इति॒ क्रतो॑। स्म॒र॒। क्लि॒बे। स्म॒र॒। कृ॒तम्। स्म॒र॒। १५।
महीधरः
म० अथ कृतोपासनो योगी अन्तकाले प्रार्थयते । द्वे यजुषी । अथेदानीं परोष्यतो मम वायुः प्राणः । वायुग्रहणं | सप्तदशकलिङ्गोपलक्षणार्थम् । सप्तदशात्मकलिङ्गरूपः प्राणोऽध्यात्मपरिच्छेदं हित्वाधिदैवतरूपं सर्वात्मकममृतं सूत्रात्मानमनिलं वायुं प्रतिपाद्यतामिति वाक्यशेषः । ‘वायुर्वाव गौतम सूत्रं वायुना गौतम सूत्रेणेदᳪं᳭ सर्वᳪं᳭ संदृब्धम्’ (बृह० माध्य. ३ । ५ । ६) इति श्रुतेः ज्ञानकर्मसंस्कृतं लिङ्गमुत्रातममत्वित्यर्थः । अथ इदं स्थूलं शरीरमग्नौ हुतं सत् भस्मान्तं भस्मरूपं भूयात् । भस्मान्तः स्वरूपं यस्य तत्कृतप्रयोजनत्वात् । अथ योगिनोऽवलम्बभूतमक्षरमुच्यते । ओमिति ब्रह्मणः प्रतिमा नाम वा । अस्य ब्रह्म ऋषिः गायत्रीच्छन्दः परमात्मा देवता वेदारम्भे होमे शान्तिपुष्टिकर्मसु काम्येषु नैमित्तिकेष्वपि कर्मसु विनियोगः । ओंप्रतीकात्मकत्वात्सत्यात्मकमग्न्याख्यं ब्रह्माभेदेनोच्यते। हे ओम् , हे क्रतो संकल्पात्मक, स्मर यन्मम स्मर्तव्यं तस्यायं कालः प्रत्युपस्थितोऽतः स्मर । यस्त्वं ब्रह्मचर्ये गार्हपत्ये च मया परिचरितस्तत् स्मर । क्लिबे स्मर कल्प्यते भोगायेति क्लृप् लोकः तस्मै स्मर । जशादेश आर्षः ‘छन्दस्युभयथा’ इति पदान्तत्वात् । मयास्मै अयं लोको दातव्यस्तस्मै क्लृप्ताय लोकाय स्मर। कृतं स्मर यन्मया बाल्यप्रभृत्यनुष्ठितं कर्म तच्च स्मर । स्मरेत्यस्यावृत्तिरादरार्था । ‘क्रतो इत्यादि त्रिभिर्यजुर्भिरन्ते यज्ञान्योगी स्मारयति’ ( अनु० ४ । ९) इति कात्यायनः ॥ १५॥
षोडशी।
अधिमन्त्रम् (VC)
- आत्मा देवता
- दीर्घतमा ऋषिः
- स्वराडुष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
अब देहान्त के समय क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (क्रतो) कर्म करनेवाले जीव ! तू शरीर छूटते समय (ओ३म्) इस नामवाच्य ईश्वर को (स्मर) स्मरण कर (क्लिबे) अपने सामर्थ्य के लिये परमात्मा और अपने स्वरूप का (स्मर) स्मरण कर (कृतम्) अपने किये का (स्मर) स्मरण कर। इस संस्कार का (वायुः) धनञ्जयादिरूप वायु (अनिलम्) कारणरूप वायु को, कारणरूप वायु (अमृतम्) अविनाशी कारण को धारण करता (अथ) इसके अनन्तर (इदम्) यह (शरीरम्) नष्ट होनेवाला सुखादि का आश्रय शरीर (भस्मान्तम्) अन्त में भस्म होनेवाला होता है, ऐसा जानो ॥१५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि जैसी मृत्यु समय में चित्त की वृत्ति होती है और शरीर से आत्मा का पृथक् होना होता है, वैसे ही इस समय भी जानें। इस शरीर की जलाने पर्य्यन्त क्रिया करें। जलाने के पश्चात् शरीर का कोई संस्कार न करें। वर्त्तमान समय में एक परमेश्वर की ही आज्ञा का पालन, उपासना और सामर्थ्य को बढ़ाया करें। किया हुआ कर्म निष्फल नहीं होता, ऐसा मान कर धर्म में रुचि और अधर्म में अप्रीति किया करें ॥१५ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ देहान्तसमये किं कार्य्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे क्रतो ! त्वं शरीरत्यागसमये (ओ३म्) स्मर क्लिबे परमात्मानं स्वस्वरूपं च स्मर कृतं स्मर। अत्रस्थो वायुरनिलमनिलोऽमृतं धरति। अथेदं शरीरं भस्मान्तं भवतीति विजानीत ॥१५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्यथा मृत्युसमये चित्तवृत्तिर्जायते शरीरादात्मनः पृथग्भावश्च भवति, तथैवेदानीमपि विज्ञेयम्। एतच्छरीरस्य भस्मान्ता क्रिया कार्य्या नातो दहनात् परः कश्चित् संस्कारः कर्त्तव्यो वर्त्तमानसमय एकस्य परमेश्वरस्यैवाज्ञापालनमुपासनं स्वसामर्थ्यवर्द्धनञ्चैव कार्य्यम्। कृतं कर्म विफलं न भवतीति मत्वा धर्मे रुचिरधर्मेऽप्रीतिश्च कर्त्तव्या ॥१५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - मृत्यूच्या वेळी माणसाची जशी चित्तवृत्ती असेल व शरीरापासून आत्मा वेगळा व्हावयाचा असतो. त्यावेळची स्थिती माणसांनी जाणावी मृत्यूनंतर शरीराची दहनक्रिया करावी. दहन केल्यानंतर शरीराचा कोणताही संस्कार करू नये. या जन्मात एका परमेश्वराची आज्ञा पालन करून व उपासना करून आपले सामर्थ्य वाढवावे. केलेले कर्म कधीच निष्फळ होत नाही. असे जाणून धर्मामध्ये रूची व अधर्मामध्ये अरूची असावी.
१६ अग्ने नय
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने॒ नय॑ सु॒पथा॑ रा॒येऽअ॒स्मान् विश्वा॑नि देव व॒युना॑नि वि॒द्वान्। यु॒यो॒ध्य᳙स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑ऽउक्तिं विधेम ॥१६ ॥
मूलम् ...{Loading}...
अग्ने॒ नय॑ सु॒पथा॑ रा॒येऽअ॒स्मान् विश्वा॑नि देव व॒युना॑नि वि॒द्वान्। यु॒यो॒ध्य᳙स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑ऽउक्तिं विधेम ॥१६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अग्ने॑। नय॑। सु॒पथेति॑ सु॒ऽपथा॑। रा॒ये। अ॒स्मान्। विश्वा॑नि। दे॒व॒। व॒युना॑नि। वि॒द्वान्। यु॒यो॒धि। अ॒स्मत्। जु॒हु॒रा॒णम्। एनः॑। भूयि॑ष्ठाम्। ते॒। नम॑ऽउक्ति॒मिति॒ नमः॑ऽउक्तिम्। वि॒धे॒म॒। १६।
महीधरः
म०. पुनरन्येन मन्त्रेणाग्न्याख्यं ब्रह्मप्रति योगी मार्गं याचते । अगस्त्यदृष्टाग्नेयी त्रिष्टुप् ( अ० ५ । क० ३६ )। व्याख्यातापि विशेषाय पुनर्व्याख्यायते । हे देव दानादिगुणयुक्त हे अग्ने, अस्मान् सुपथा शोभनेन मार्गेण देवयानेन नय । सुपथेति विशेषणं दक्षिणमार्गनिवृत्त्यर्थम् । गतागतलक्षणेन दक्षिणमार्गेण निर्विष्टोऽहम् अतोऽग्ने, त्वां याचे पुनर्गमनागमनवर्जितेन शोभनेन पथास्मान्कर्मफलविशिष्टान्नय । किमर्थम् । राये धनाय मुक्तिलक्षणाय । कर्मफलभोगायेत्यर्थः । किंविधस्त्वम् । विश्वानि सर्वाणि वयुनानि कर्माणि प्रज्ञानानि वा विद्वान् जानन् । किंच जुहुराणं । ‘हुर्च्छा कौटिल्ये’ शानचि जुहोत्यादित्वेन रूपम् । कुटिलं प्रतिबन्धकं वञ्चनात्मकमेनः पापमस्मत् अस्मत्तः सकाशात् युयोधि पृथक्कुरु वियोजय । नाशयेत्यर्थः । ‘यु मिश्रणामिश्रणयोः’ ह्वादित्वाश्छब्लोपद्वित्वे छान्दसं हेर्धित्वम्। ततो विशुद्धा वयं ते तुभ्यं भूयिष्ठां बहुतरां नमउक्तिं नमस्कारवचनं विधेम कुर्याम । इदानीं सपापत्वात्तव परिचर्यां कर्तुं न शक्नुमस्ततस्त्वया पापनाशे कृते शुद्धा वयं नमस्कारेण त्वां परिचरेमेत्यर्थः ॥ १६ ॥
सप्तदशी।
इति माध्यन्दिनीयायां वाजसनेयसंहितायां चत्वारिंशोऽध्यायः ॥ ४० ॥
(१ दशाध्याये समाख्यातानुवाकाः सर्वसंख्यया। शतं दशानुवाकाश्च नवान्ये च मनीषिभिः ॥ सप्तषष्टिश्चितौ ज्ञेयाः सौत्रे द्वाविंशतिस्तथा । अश्व एकोनपञ्चाशत्पञ्चत्रिंशत्खिले स्मृताः ॥ शुक्रियेषु तु विज्ञेया एकादश मनीषिभिः । एकीकृत्य समाख्यातं त्रिशतं त्र्यधिकं मतम् ॥)
अधिमन्त्रम् (VC)
- आत्मा देवता
- दीर्घतमा ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
ईश्वर किन मनुष्यों पर कृपा करता है, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (देव) दिव्यरूप (अग्ने) प्रकाशस्वरूप करुणामय जगदीश्वर ! जिस से हम लोग (ते) आपके लिये (भूयिष्ठाम्) अधिकतर (नमउक्तिम्) सत्कारपूर्वक प्रशंसा का (विधेम) सेवन करें, इससे (विद्वान्) सबको जाननेवाले आप (अस्मत्) हम लोगों से (जुहुराणम्) कुटिलतारूप (एनः) पापाचरण को (युयोधि) पृथक् कीजिये, (अस्मान्) हम जीवों को (राये) विज्ञान, धन वा धन से हुए सुख के लिये (सुपथा) धर्मानुकूल मार्ग से (विश्वानि) समस्त (वयुनानि) प्रशस्त ज्ञानों को (नय) प्राप्त कीजिये ॥१६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो सत्यभाव से परमेश्वर की उपासना करते, यथाशक्ति उसकी आज्ञा का पालन करते और सर्वोपरि सत्कार के योग्य परमात्मा को मानते हैं, उनको दयालु ईश्वर पापाचरण मार्ग से पृथक् कर धर्मयुक्त मार्ग में चला के विज्ञान देकर धर्म, अर्थ, काम और मोक्ष को सिद्ध करने के लिये समर्थ करता है, इससे एक अद्वितीय ईश्वर को छोड़ किसी की उपासना कदापि न करें ॥१६ ॥
दयानन्द-सरस्वती (सं) - विषयः
ईश्वरः काननुगृह्णातीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे देवाग्ने परमेश्वर ! यतो वयं ते भूयिष्ठां नमउक्तिं विधेम तस्माद् विद्वांस्त्वमस्मज्जुहुराणमेनो युयोध्यस्मान् राये सुपथा विश्वानि वयुनानि नय प्रापय ॥१६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये सत्यभावेन परमेश्वरमुपासते यथासामर्थ्यं तदाज्ञां पालयन्ति, सर्वोपरि सत्कर्त्तव्यं परमात्मानं मन्यन्ते, तान् दयालुरीश्वरः पापाचरणमार्गात् पृथक्कृत्य धर्म्यमार्गे चालयित्वा विज्ञानं दत्वा धर्मार्थकाममोक्षान् साद्धुं समर्थान् करोति, तस्मात् सर्वं एकमद्वितीयमीश्वरं विहाय कस्याप्युपासनं कदाचिन्नैव कुर्य्युः ॥१६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे सत्यभावनेने परमेश्वराची उपासना करतात व यथाशक्ती त्याच्या आज्ञेचे पालन करतात. परमेश्वराबद्दल सर्व प्रकारे श्रद्धा बाळगतात तेव्हा दयाळू परमेश्वर त्यांना पापाचरणाच्या मार्गापासून दूर करून धर्मयुक्त मार्गाकडे वळवून ज्ञान देतो व धर्म, अर्थ, काम, मोक्ष सिद्ध करण्यास समर्थ करतो. त्यामुळे एका अद्वितीय ईश्वराला सोडून इतर कोणाचीही उपासना करू नये.
१७ हिरण्मयेन पात्रेण
विश्वास-प्रस्तुतिः ...{Loading}...
हि॒र॒ण्मये॑न॒ पात्रे॑ण स॒त्यस्यापि॑हितं॒ मुखम्। यो॒ऽसावा॑दि॒त्ये पु॑रुषः॒ सो᳙ऽसाव॒हम्। ओ३म् खं ब्रह्म॑ ॥१७ ॥
मूलम् ...{Loading}...
हि॒र॒ण्मये॑न॒ पात्रे॑ण स॒त्यस्यापि॑हितं॒ मुखम्। यो॒ऽसावा॑दि॒त्ये पु॑रुषः॒ सो᳙ऽसाव॒हम्। ओ३म् खं ब्रह्म॑ ॥१७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
हि॒र॒ण्मये॑न॒। पात्रे॑ण। स॒त्यस्य॑। अपि॑हित॒मित्यपि॑ऽहितम्। मुख॑म्। यः। अ॒सौ। आ॒दि॒त्ये। पुरु॑षः। सः। अ॒सौ। अ॒हम्। ओ३म्। खम्। ब्रह्म॑। १७।
महीधरः
म० पुनरादित्योपासनमाह । उष्णिक् यजुर्द्वयान्ता ‘उष्णिक् त्रिपादान्त्यो द्वादशक’ इति वचनात् । हिरण्मयमिव हिरण्मयं ज्योतिर्मयं यत् पात्रम् पिबन्ति यत्र स्थिता रश्मयो रसानिति पात्रं मण्डलम् तेन तेजोरूपेण मण्डलेन सत्यस्यादित्यमण्डलस्थस्याविनाशिनः पुरुषस्य मुखं शरीरमपिहितमाच्छादितं वर्तते । तथापि यः असौ प्रत्यक्षः आदित्ये रविमण्डले पुरुषः पुरुषाकारत्वात् पूर्णमनेन प्राणबुद्ध्यात्मना जगत्समस्तमिति वा पुरुषः पुरिशयनाद्वा स मण्डलस्थः पुरुषः असौ प्रत्यक्षः कार्यकारणसंघातप्रविष्टोऽहमस्मि । एतां चोपासनां कुर्यादित्यर्थः । ओम् खं ब्रह्मेति यजुषी । ओ३मिति नामनिर्देशो ब्रह्मणः खं ब्रह्मेत्याकाशरूपमन्ते ब्रह्म ध्यायेत् ( अनु० ४ । ९)। यद्यपि ब्रह्म चेतनमाकाशस्त्वचेतनस्तथाप्येकदेशे सादृश्यम् । नभोवद्व्यापकं ब्रह्म ओमिति जपन्ध्यायेदित्यर्थः । सूर्यमण्डलस्थः पुरुषोऽहमेवेत्यभेदेन चिन्तयेत् ॥ १७ ॥
अथ विचारः । विद्यां चाविद्यां चेत्यत्र विद्याशब्देन किं मुख्या परमात्मविद्योच्यते उतोपासना वा । अमृतमश्नुत इत्यत्र अमृतशब्देन साक्षान्मुक्तिरुत्तरमार्गेण परम्परया वा । नाद्यः । विद्याकर्मणोर्यस्तद्वेदोभयᳪं᳭ सहेति समुच्चयानुपपत्तेस्तयोर्विरोधात् विद्योत्पत्तौ तदाश्रयेऽविद्यानुत्पत्तेः । वह्निरुष्णः प्रकाशश्चेति ज्ञानोत्पत्तौ शीतोऽग्निरप्रकाशश्चेति अविद्योत्पत्तिर्न संभवति नापि संशयोऽज्ञानं वा ‘यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः । तत्र को मोहः कः शोकः’ इत्युक्तत्वात् । किंच विद्याशब्देन परमात्मविद्याग्रहणे अग्ने नयेति सुपथयाचनमनुपपन्नम् । तस्माद्विद्योपासना अमृतं चापेक्षितमिति दिक् ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे।
व्यरमच्चरमोऽध्यायः परमात्मनिरूपकः ॥ ४० ॥
शुक्लयजुर्वेदस्य मन्त्रभागः समाप्तः ।
समाप्तोऽयं ग्रन्थः ।
समाप्तोयं ग्रन्थः।
अधिमन्त्रम् (VC)
- आत्मा देवता
- दीर्घतमा ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब अन्त में मनुष्यों को ईश्वर उपदेश करता है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जिस (हिरण्मयेन) ज्योतिःस्वरूप (पात्रेण) रक्षक मुझसे (सत्यस्य) अविनाशी यथार्थ कारण के (अपिहितम्) आच्छादित (मुखम्) मुख के तुल्य उत्तम अङ्ग का प्रकाश किया जाता (यः) जो (असौ) वह (आदित्ये) प्राण वा सूर्य्यमण्डल में (पुरुषः) पूर्ण परमात्मा है (सः) वह (असौ) परोक्षरूप (अहम्) मैं (खम्) आकाश के तुल्य व्यापक (ब्रह्म) सबसे गुण, कर्म और स्वरूप करके अधिक हूँ (ओ३म्) सबका रक्षक जो मैं उसका ‘ओ३म्’ ऐसा नाम जानो ॥१७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सब मनुष्यों के प्रति ईश्वर उपदेश करता है कि हे मनुष्यो ! जो मैं यहाँ हूँ, वही अन्यत्र सूर्य्यादि लोक में, जो अन्यस्थान सूर्य्यादि लोक में हूँ वही यहाँ हूँ, सर्वत्र परिपूर्ण आकाश के तुल्य व्यापक मुझसे भिन्न कोई बड़ा नहीं, मैं ही सबसे बड़ा हूँ। मेरे सुलक्षणों के युक्त पुत्र के तुल्य प्राणों से प्यारा मेरा निज नाम ‘ओ३म्’ यह है। जो मेरा प्रेम और सत्याचरण भाव से शरण लेता, उसकी अन्तर्यामीरूप से मैं अविद्या का विनाश, उसके आत्मा को प्रकाशित करके शुभ, गुण, कर्म, स्वभाववाला कर सत्यस्वरूप का आवरण स्थिर कर योग से हुए शुद्ध विज्ञान को दे और सब दुःखों से अलग करके मोक्षसुख को प्राप्त कराता हूँ। इति ॥१७ ॥ इस अध्याय में ईश्वर के गुणों का वर्णन, अधर्मत्याग का उपदेश, सब काल में सत्कर्म के अनुष्ठान की आवश्यकता, अधर्माचरण की निन्दा, परमेश्वर के अतिसूक्ष्म स्वरूप का वर्णन, विद्वान् को जानने योग्य का होना, अविद्वान् को अज्ञेयपन का होना, सर्वत्र आत्मा जान के अहिंसाधर्म की रक्षा, उससे मोह शोकादि का त्याग, ईश्वर का जन्मादि दोषरहित होना, वेदविद्या का उपदेश, कार्य्यकारणरूप जड़ जगत् की उपासना का निषेध, उन कार्य्य-कारणों से मृत्यु का निवारण करके मोक्षादि सिद्धि करना, जड़ वस्तु की उपासना का निषेध, चेतन की उपासना की विधि, उन जड़-चेतन दोनों के स्वरूप के जानने की आवश्यकता, शरीर के स्वभाव का वर्णन, समाधि से परमेश्वर को अपने आत्मा में धर के शरीर त्यागना, दाह के पश्चात् अन्य क्रिया के अनुष्ठान का निषेध, अधर्म के त्याग और धर्म के बढ़ाने के लिये परमेश्वर की प्रार्थना, ईश्वर के स्वरूप का वर्णन और सब नामों से “ओ३म्” इस नाम की उत्तमता का प्रतिपादन किया है, इससे इस अध्याय में कहे अर्थ की पूर्वाध्याय में कहे अर्थ के साथ संगति है, यह जानना चाहिये ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्याणां श्रीपरमविदुषां विरजानन्दसरस्वतीस्वामिनां शिष्येण श्रीमद्दयानन्दसरस्वतीस्वामिना निर्मिते संस्कृतार्य्यभाषाभ्यां समन्विते सुप्रमाणयुक्ते यजुर्वेदभाष्ये चत्वारिंशत्तमोऽध्यायः समाप्तः ॥४०॥
दयानन्द-सरस्वती (सं) - विषयः
अथान्ते मनुष्यानीश्वर उपदिशति ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! येन हिरण्मयेन पात्रेण मया सत्यस्यापिहितं मुखं विकाश्यते योऽसावादित्ये पुरुषोऽस्ति, सऽसावहं खम्ब्रह्मास्म्यो३मिति विजानीत ॥१७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सर्वान् मनुष्यान् प्रतीश्वर उपदिशति। हे मनुष्याः ! योऽहमत्रास्मि स एवान्यत्र सूर्यादौ योऽन्यत्र सूर्य्यादावस्मि स एवाऽत्राऽस्मि सर्वत्र परिपूर्णः खवद् व्यापको न मत्तः किञ्चिदन्यद् बृहदहमेव सर्वेभ्यो महानस्मि मदीयं सुलक्षणपुत्रवत् प्राणप्रियं निजस्य नामौ३मिति वर्त्तते। यो मम प्रेमसत्याचरणभावाभ्यां शरणं गच्छति तस्यान्तर्यामिरूपेणाहमविद्यां विनाश्य तदात्मानं प्रकाश्य शुभगुणकर्मस्वभावं कृत्वा सत्यस्वरूपावरणं स्थापयित्वा शुद्धं योगजं विज्ञानं दत्वा सर्वेभ्यो दुःखेभ्यः पृथक्कृत्य मोक्षसुखं प्रापयामीत्यो३म् ॥१७ ॥ अत्रेश्वरगुणवर्णनमधर्मत्यागोपदेशः सर्वदा सत्कर्मानुष्ठानावश्यकत्वमधर्माचरणनिन्दा परमेश्वरस्यातिसूक्ष्मस्वरूपवर्णनं विदुषा ज्ञेयत्वमविदुषामविज्ञेयत्वं सर्वत्रात्मभावेनाहिंसाधर्मपालनं तेन मोहशोकादित्याग ईश्वरस्य जन्मादिदोषराहित्यं वेदविद्योपदेशनं कार्य्यकारणात्मकस्य जडस्योपासननिषेधस्ताभ्यां कार्य्यकारणाभ्यां मृत्युं निवार्य्य मोक्षसिद्धिकरणं जडवस्तुन उपासनानिषेधश्चेतनोपासनविधिस्तदुभयस्वरूपविज्ञानाऽऽवश्यकत्वं शरीरस्वभाववर्णनं समाधिना परमेश्वरमात्मनि निधाय शरीरत्यागकरणं शरीरदाहादूर्ध्वमन्यक्रियानुष्ठाननिषेधोऽधर्मत्यागाय धर्मवर्द्धनाय परमेश्वरप्रार्थनमीश्वरस्वरूपवर्णनं सर्वेभ्यो नामभ्य ओ३मित्यस्य प्राधान्यप्रतिपादनं च कृतमत एतदर्थस्य पूर्वाऽध्यायोक्तार्थेन सह सङ्गतिरस्तीति वेद्यम् ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सर्व माणसांना ईश्वर उपदेश करतो की, हे माणसांनो ! मी येथे सूर्यलोकात व त्याबाहेर इतर सूर्य लोकातही आहे व आकाशाप्रमाणे सर्वत्र व्यापक आहे. माझ्यापेक्षा कोणी मोठा नाही. मीच सर्वांत मोठा आहे. सुलक्षणी पुत्राप्रमाणे माझे प्रिय नाव ओ३म् आहे. जो माझी भक्ती करतो व सत्याचरण करून शरण येतो. त्याच्या अविद्येचा नाश करून मी अंतर्यामी रूपाने त्याच्या आत्म्यात प्रकाश पाडतो. त्याला शुभ, गुण, कर्म स्वभावाचा बनवितो व सत्यस्वरूपाचे आवरण स्थिर करून योगाच्या साह्याने विज्ञानयुक्त बनवून त्याची सर्व दुःखातून सुटका करतो आणि मोक्ष सुख प्राप्त करून देतो.