०१ देवस्य त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳙ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम्। आ द॒देऽदि॑त्यै॒ रास्ना॑ऽसि ॥१ ॥
मूलम् ...{Loading}...
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳙ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम्। आ द॒देऽदि॑त्यै॒ रास्ना॑ऽसि ॥१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दे॒वस्य॑। त्वा॒। स॒वि॒तुः। प्र॒स॒व इति॑ प्रस॒वे। अ॒श्विनोः॑। बा॒हुभ्या॒मिति॑ बा॒हुऽभ्या॑म्। पू॒ष्णः। हस्ता॑भ्याम्। आ। द॒दे॒। अदि॑त्यै। रास्ना॑। अ॒सि॒। १।
महीधरः
म० ‘देवस्य त्वेति रज्जुसंदानमादायेड एहीति गामाह्वयति नाम्ना च त्रिरुच्चैरपरेण गार्हपत्यं गच्छन्’ (का० २६ । ५।१)। अध्वर्युर्देवस्य त्वेति रज्जुसंदानमादाय गार्हपत्यस्य पश्चाद्गच्छन् इड एहीति वाक्यत्रयेण घर्मदुघां गामाह्वयति असावेहीति गोर्नाम्ना चोच्चैस्त्रिवारमाह्वयतीति सूत्रार्थः । रज्जुदेवत्यं यजुः प्राजापत्या गायत्री । हे रज्जो, सवितुर्देवस्याज्ञायां वर्तमानोऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां त्वामाददे गृह्णामि । यतः त्वमदित्यै अदित्या देवमातुः रास्ना रसना मेखलासि भवसि । षष्ठ्यर्थे चतुर्थी ॥ १ ॥
द्वितीया।
अधिमन्त्रम् (VC)
- सविता देवता
- आथर्वण ऋषिः
- उष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
अब अड़तीसवें अध्याय का आरम्भ है। उसके प्रथम मन्त्र में स्त्री को कैसी होना चाहिये, इस विषय को कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विदुषि स्त्री ! जिस कारण तू (अदित्यै) नाशरहित नीति के लिये (रास्ना) दानशील (असि) है, इससे (सवितुः) समस्त जगत् के उत्पादक (देवस्य) कामना के योग्य परमेश्वर के (प्रसवे) उत्पन्न होनेवाले जगत् में (अश्विनोः) सूर्य और चन्द्रमा के (बाहुभ्याम्) बल-पराक्रम के तुल्य बाहुओं से (पूष्णः) पोषक वायु के (हस्ताभ्याम्) गमन और धारण के समान हाथों से (त्वा) तुझको (आ, ददे) ग्रहण करूँ ॥१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे स्त्री ! जैसे सूर्य्य भूगोलों का, प्राण शरीर का और अध्यापक-उपदेशक सत्य का ग्रहण करते हैं, वैसे ही तुमको मैं ग्रहण करता हूँ, तू निरन्तर अनुकूल सुख देनेवाली हो ॥१ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ पत्न्या किंभूतया भवितव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विदुषि ! यतस्त्वमदित्यै रास्नासि तस्मात् सवितुर्देवस्य प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां त्वाऽऽददे ॥१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे स्त्रि ! यथा सूर्यो भूगोलान् प्राणः शरीरमध्यापकोपदेशकौ सत्यं गृह्णन्ति, तथैव त्वामहं गृह्णामि। त्वं सततमनुकूला सुखप्रदा च भव ॥१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे स्रिये ! सूर्य भूगोलाचा स्वीकार करतो, प्राण शरीराचा स्वीकार करतो व अध्यापक उपदेशक जसा सत्याचा स्वीकार करतात तसा मी तुझा स्वीकार करतो. तू निरंतर अनुकूल सुख देणारी असावीस.
०२ इडऽएह्यदितऽएहि सरस्वत्येहि
विश्वास-प्रस्तुतिः ...{Loading}...
इड॒ऽएह्यदि॑त॒ऽएहि॒ सर॑स्व॒त्येहि॑। असा॒वेह्यसा॒वेह्यसा॒वेहि॑ ॥२ ॥
मूलम् ...{Loading}...
इड॒ऽएह्यदि॑त॒ऽएहि॒ सर॑स्व॒त्येहि॑। असा॒वेह्यसा॒वेह्यसा॒वेहि॑ ॥२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इडे॑। एहि॑। अदि॑ते। एहि॑। सर॑स्वति। एहि॑। असौ॑। एहि॑। असौ॑। एहि॑। असौ॑। एहि॑। २।
महीधरः
म०. हे इडे मानवि, एहि आगच्छ । हे अदिते देवमातः, एहि । हे सरस्वति वाक्, एहि । अतस्मिंस्तच्छब्दस्तत्सादृश्यार्थः । ‘इडा हि गौरदितिर्हि गौः सरस्वती हि गौः’ ( १४ । २।१।७) इति श्रुतेः । नाम्ना त्रिरुच्चैराह्वयति असौ धवलि, एहि एवं त्रिः ॥२॥
तृतीया ।
अधिमन्त्रम् (VC)
- सरस्वती देवता
- आथर्वण ऋषिः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
स्त्री-पुरुष कैसे विवाह करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इडे) सुशिक्षित वाणी के तुल्य स्त्रि ! तू मुझको (एहि) प्राप्त हो जो (असौ) वह तुझको प्राप्त हो उसको तू (एहि) प्राप्त हो। हे (अदिते) अखण्डित आनन्द देनेवाली ! तू अखण्डित आनन्द को (एहि) प्राप्त हो, जो (असौ) वह तुमको अखण्डित आनन्द देवे उसको (एहि) प्राप्त हो। हे (सरस्वति) प्रशस्त विज्ञानयुक्त स्त्रि ! तू विद्वान् को (एहि) प्राप्त हो, जो (असौ) वह सुशिक्षित हो, उसको (एहि) प्राप्त हो ॥२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जब स्त्री-पुरुष विवाह करने की इच्छा करें, तब ब्रह्मचर्य और विद्या से स्त्री और पुरुष के धर्म और आचरण को जानकर ही करें ॥२ ॥
दयानन्द-सरस्वती (सं) - विषयः
स्त्रीपुरुषौ कथं विवहेतामित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे इडे ! त्वं मामेहि योऽसौ त्वां प्राप्नुयात् तमेहि। हे अदिते ! त्वमखण्डितानन्दमेहि, योऽसौ त्वामखण्डितानन्दं दद्यात् तमेहि। हे सरस्वती ! त्वं विद्वांसमेहि योऽसौ सुशिक्षकः स्यात् तमेहि ॥२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदा स्त्रीपुरुषौ विवाहं कर्तुमिच्छेतां तदा ब्रह्मचर्येण विद्यया स्त्रीपुरुषधर्माचरणे विदित्वैव कुर्याताम् ॥२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - स्री व पुरुषाला जेव्हा विवाह करण्याची इच्छा होते तेव्हा ब्रह्मचर्य व विद्या या द्वारे स्री आणि पुरुषांचा धर्म (गुण, कर्म, स्वभाव) व वर्तन जाणूनच विवाह करावा.
०३ अदित्यै रास्नासीन्द्राण्याऽउष्णीषः
विश्वास-प्रस्तुतिः ...{Loading}...
अदि॑त्यै॒ रास्ना॑सीन्द्रा॒ण्याऽउ॒ष्णीषः॑। पू॒षासि॑ घ॒र्माय॑ दीष्व ॥३ ॥
मूलम् ...{Loading}...
अदि॑त्यै॒ रास्ना॑सीन्द्रा॒ण्याऽउ॒ष्णीषः॑। पू॒षासि॑ घ॒र्माय॑ दीष्व ॥३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अदि॑त्यै। रास्ना॑। अ॒सि॒। इ॒न्द्रा॒ण्यै। उ॒ष्णीषः॑। पू॒षा। अ॒सि॒। घ॒र्माय। दी॒ष्व॒। ३।
महीधरः
म० ‘अदित्यै रास्नेति गां पाशेन प्रतिमुच्य स्थूणायां बद्ध्वा पूषासीति वत्समुत्सृजति’ ( का० २६ । ५। ३)। आगतां गामदित्या इति मन्त्रेण पाशेन बद्ध्वा तं पाशं स्तम्भे बद्ध्वा पूषासीति वत्सं मुञ्चतीत्यर्थः । हे रज्जुपाश, त्वमदित्यै रास्ना रसनासि । इन्द्राण्यै इन्द्रपत्न्याः उष्णीषः शिरोवेष्टनमसि। एतेन पाशमिन्द्राण्युष्णीषं करोतीत्यर्थः । ‘तमेवैनमेतत्करोति’ ( १४। ।२।१। ८) इति श्रुतेः । वत्सं मुञ्चति पूषासि दैव्यनुष्टुप् वत्सो देवता । हे वत्स, त्वं पूषा वायुरसि वायुर्यथा वृष्टिमाप्याययति तथा त्वं प्रस्रवेण पय आप्याययस्वेति भावः । ‘अयं वै पूषा योऽयं पवत एष हीदᳪं᳭ सर्वं पुष्यत्येष उ प्रवर्ग्यः’ (१४ । २ । १ । ९) इति श्रुतेः । ‘संदाय घर्माय दीष्वेति वत्समुन्नयति’ ( का० २६ । ५ । ४ ) धेनुं रज्ज्वा पश्चिमपादयोर्बद्ध्वा वत्समपाकरोतीत्यर्थः । दैवी पङ्क्तिः । वत्सो देवता । हे वत्स, घर्माय घर्मार्थं दीष्व देहि पयः । पयः शेषय मा सर्वं पासीरित्यर्थः । ‘दो दाने’ ‘बहुलं छन्दसि’ (पा० २ । ४ । | ७३ ) इति शपो लुक् ॥ ३ ॥
चतुर्थी।
अधिमन्त्रम् (VC)
- पूषा देवता
- आथर्वण ऋषिः
- भुरिक्साम्नी बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
स्त्री को क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे कन्ये ! जो तू (अदित्यै) नित्य विज्ञान के (रास्ना) देनेवाली (असि) है, (इन्द्राण्यै) परमैश्वर्य करनेवाली नीति के लिये (उष्णीषः) शिरोवेष्टन पगड़ी के तुल्य (पूषा) भूमि के सदृश पोषण करनेहारी (असि) है, सो तू (घर्माय) प्रसिद्ध-अप्रसिद्ध सुख देनेवाले यज्ञ के लिये (दीष्व) दान कर ॥३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे स्त्रि ! जैसे पगड़ी आदि वस्त्र सुख देनेवाले होते हैं, वैसे तू पति के लिये सुख देनेवाली हो ॥३ ॥
दयानन्द-सरस्वती (सं) - विषयः
स्त्रिया किं कार्य्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - कन्ये ! मा त्वमदित्यै रास्नासि उष्णीष इवेन्द्राण्यै पूषासि सा त्वं घर्माय दीष्व ॥३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे स्त्रि ! यथोष्णीषादीनि वस्त्राणि सुखप्रदानि सन्ति, तथा पत्ये सुखानि प्रयच्छ ॥३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे स्रिये ! पगडी वगैरे जशी सुख देणारी वस्रे असतात तशी पतीसाठी तू सुख देणारी आहेस.
०४ अश्विभ्यां पिन्वस्व
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒श्विभ्यां॑ पिन्वस्व॒ सर॑स्वत्यै पिन्व॒स्वेन्द्राय॑ पिन्वस्व। स्वाहेन्द्र॑व॒त् स्वाहेन्द्र॑व॒त् स्वाहेन्द्र॑वत् ॥४ ॥
मूलम् ...{Loading}...
अ॒श्विभ्यां॑ पिन्वस्व॒ सर॑स्वत्यै पिन्व॒स्वेन्द्राय॑ पिन्वस्व। स्वाहेन्द्र॑व॒त् स्वाहेन्द्र॑व॒त् स्वाहेन्द्र॑वत् ॥४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒श्विभ्या॑म् पि॒न्वस्व॒। सर॑स्वत्यै। पि॒न्व॒स्व॒। इन्द्रा॑य। पि॒न्व॒स्व॒। स्वाहा॑। इन्द्र॑व॒दितीन्द्र॑ऽवत्। स्वाहा॑। इन्द्र॑व॒दितीन्द्र॑ऽवत्। स्वाहा॑। इन्द्र॑व॒दितीन्द्र॑ऽवत्। ४।
महीधरः
म० ‘अश्विभ्यां पिन्वस्वेति पिन्वने दोग्धि’ ( का० २६ । ५।५)। पिन्वने पात्रे प्रतिमन्त्रं गां दोग्धीत्यर्थः । अश्विभ्यां पिन्वस्व इन्द्राय पिन्वस्व यजुर्गायत्र्यौ । सरस्वत्यै पिन्वस्व यजुरनुष्टुप् । लिङ्गोक्ता देवताः । हे पयः, अश्विभ्यामर्थाय त्वं पिन्वस्व संप्लवस्व । सरस्वत्यै च पिन्वस्व । ‘अश्विनौ वा एतद्यज्ञस्य शिरः प्रत्यधत्तां तावेवैतत्प्रीणाति’ (१४ । २ । १ । १३) इति श्रुतिः । सरस्वत्या वाचा कृत्वा इन्द्राय यज्ञशिरोऽश्विभ्यां ‘संहितमिति तयोरर्थे क्षरस्वेति भावः । ‘स्वाहेन्द्रवदिति विप्रुषोऽभिमन्त्रयते’ ( का० २६ । ५। ६) । पिन्वनपतितान्पयःकणानभिमन्त्रयत इत्यर्थः । यजुर्जगती विप्रुषो देवता । यद्दुह्यमाने स्कन्नं तत्स्वाहा सुहुतमस्तु । इन्द्रवत् इन्द्रसंयुक्तं चास्तु ॥४॥
पञ्चमी।
अधिमन्त्रम् (VC)
- सरस्वती देवता
- आथर्वण ऋषिः
- आर्ची पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विदुषि स्त्रि ! तू (इन्द्रवत्) परम ऐश्वर्ययुक्त वस्तु को ग्रहण कर (स्वाहा) सत्यक्रिया से (अश्विभ्याम्) सूर्य्य-चन्द्रमा के लिये (पिन्वस्व) तृप्त हो, (इन्द्रवत्) चेतनता के गुणों से संयुक्त शरीर को पाकर (स्वाहा) सत्यवाणी से (सरस्वत्यै) सुशिक्षित वाणी के लिये (पिन्वस्व) संतुष्ट हो, (इन्द्रवत्) विद्युत् विद्या को जानकर (स्वाहा) सत्यता से (इन्द्राय) परमोत्तम ऐश्वर्य के लिये (पिन्वस्व) संतुष्ट हो ॥४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो स्त्री-पुरुष विद्युत् आदि विद्या से ऐश्वर्य की उन्नति करें, वे सुख को भी प्राप्त होवें ॥४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विदुषि स्त्रि ! त्वमिन्द्रवत् स्वाहाऽश्विभ्यां पिन्वस्वेन्द्रवत् स्वाहा सरस्वत्यै पिन्वस्वेन्द्रवत् स्वाहेन्द्राय पिन्वस्व ॥४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये स्त्रीपुरुषा विद्युदादिविद्ययैश्वर्यमुन्नयेयुस्ते सुखमपि लभेरन् ॥४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे स्री, पुरुष विद्युत वगैरे विद्येने ऐश्वर्य प्राप्त करतात त्यांना सुख मिळते.
०५ यस्ते स्तनः
विश्वास-प्रस्तुतिः ...{Loading}...
यस्ते॒ स्तनः॑ शश॒यो यो म॑यो॒भूर्यो र॑त्न॒धा व॑सु॒विद्यः सु॒दत्रः॑। येन॒ विश्वा॒ पुष्य॑सि॒ वार्य्या॑णि॒ सर॑स्वति॒ तमि॒ह धात॑वेऽकः। उ॒र्व᳙न्तरि॑क्ष॒मन्वे॑मि ॥५ ॥
मूलम् ...{Loading}...
यस्ते॒ स्तनः॑ शश॒यो यो म॑यो॒भूर्यो र॑त्न॒धा व॑सु॒विद्यः सु॒दत्रः॑। येन॒ विश्वा॒ पुष्य॑सि॒ वार्य्या॑णि॒ सर॑स्वति॒ तमि॒ह धात॑वेऽकः। उ॒र्व᳙न्तरि॑क्ष॒मन्वे॑मि ॥५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यः। ते॒। स्तनः॑। श॒श॒यः। यः। म॒यो॒भूरिति॑ मयः॒ऽभूः। यः॒। र॒त्न॒धा इति॑ रत्न॒ऽधाः। व॒सु॒विदिति॑ वसु॒ऽवित्। यः। सु॒दत्र॒ इति॑ सु॒ऽदत्रः॑। येन॑। विश्वा॑। पुष्य॑सि। वार्य्या॑णि। सर॑स्वति। तम्। इ॒ह। धात॑वे। अ॒क॒रित्य॑कः। उ॒रु। अ॒न्तरि॑क्षम्। अनु॑। ए॒मि॒। ५।
महीधरः
म० ‘यस्ते स्तन इति स्तनमालभते’ ( का० २६ । ५। ७)। गोस्तनानालभते । जातावेकवचनमित्यर्थः । वाग्देवत्या त्रिष्टुप् दीर्घतमोदृष्टा । हे सरस्वति, तं स्तनमिहास्मिन्स्थाने धातवे ‘धेट् पाने’ तुमर्थे तवेप्रत्ययः। पानार्थमकः कुरु । मम पानाय प्रयच्छेत्यर्थः । लोडर्थे लङ् शपि लुप्ते गुणः । तं कम् । यस्ते तव स्तनः स्तन इव स्तनः । शशयः शेते इति शशयः । अच्प्रत्यये द्वित्वं पूर्वस्यात्वं च छान्दसम् । सुप्त इवास्ते अन्यैरनुपभुक्तत्वात् ‘यस्ते स्तनो निहितो गुहायाम्’ (१४ । २ । १।१५) इति श्रुतेः । यश्च स्तनो मयोभूः मयः सुखं भावयति प्रापयति सर्वभूतानामिति मयोभूः । यश्च रत्नधाः रत्नानि दधाति रत्नधाः रमणीयानां धनानां धारयिता । यश्च वसुवित् वसु धनं विन्दति वेत्ति वा वसुवित् । यश्च सुदत्रः सुष्ठु ददातीति सुदत्रः दाता । धनवानन्यो दातुं न शक्नोति त्वत्समस्तु धनवान् दाता चेति अन्येभ्य आधिक्यम् । किंच येन स्तनेन विश्वा विश्वानि सर्वाणि वार्याणि वरणीयानि वस्तूनि त्वं पुष्यसि पुष्णासि । तं स्तनं मत्पानाय प्रयच्छेत्यर्थः । ‘उपद्रव पयसेत्युच्यमाने गच्छत्युर्वन्तरिक्षमिति’ ( का० २६ । ५। ११) उपद्रवेति मन्त्रे होत्रोच्यमाने उर्विति मन्त्रेणाध्वर्युर्गोसमीपाद्गार्हपत्यं प्रति गच्छतीत्यर्थः । प्राजापत्या गायत्री । विशालमन्तरिक्षमनु एमि गच्छामि ॥ ५ ॥
षष्ठी।
अधिमन्त्रम् (VC)
- वाग्देवता
- दीर्घतमा ऋषिः
- निचृदतिजगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर स्त्री-पुरुष क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सरस्वति) बहुत विज्ञानवाली स्त्रि ! (यः) जो (ते) तेरा (शशयः) जिसके आश्रय से बालक सोवे वह (स्तनः) दूध का आधार थन तथा (यः) जो (मयोभूः) सुख सिद्ध करनेहारा (यः) जो (रत्नधाः) उत्तम-उत्तम गुणों का धारणकर्त्ता (वसुवित्) धनों को प्राप्त होनेवाला और (यः) जो (सुदत्रः) सुन्दर दान देनेवाला पति (येन) जिसके आश्रय से (विश्वा) सब (वार्य्याणि) ग्रहण करने योग्य वस्तुओं को (पुष्यसि) पुष्ट करती है, (तम्) उसकी (इह) इस संसार में वा घर में (धातवे) धारण करने वा दूध पिलाने को नियत (अकः) कर, उससे मैं (उरु) अधिकतर (अन्तरिक्षम्) आकाश का (अन्वेमि) अनुगामी होऊँ ॥५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो स्त्री न होवे तो बालकों की रक्षा होना भी कठिन होवे। जिस स्त्री से पुरुष बहुत सुख और पुरुष से स्त्री भी अधिकतर आनन्द पावे, वे ही दोनों आपस में विवाह करें ॥५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स्त्रीपुरुषौ किं कुर्य्यातामित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सरस्वति स्त्रि ! यस्ते शशयः स्तनो यो मयोभूर्यो रत्नधा वसुविद्यः सुदत्रो येन विश्वा वार्य्याणि पुष्यसि, तमिह धातवेऽकः। तेनाहमुर्वन्तरिक्षमन्वेमि ॥५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदि स्त्री न स्यात् तर्हि बालकानां पालनमप्यशक्यं भवेत्। यया पुरुषो बहुसुखं येन स्त्री च पुष्कलं सुखमाप्नुयात् तौ द्वावितरेतरं विवहेताम् ॥५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जर स्री नसती तर बालकांचे रक्षण होणे कठीण आहे. ज्या स्रीकडून पुरुषाला जास्त सुख मिळते व पुरुषापासून स्रीला जास्तीत जास्त आनंद मिळतो त्या दोघांनीच आपापसात विवाह करावा.
०६ गायत्रं छन्दोऽसि
विश्वास-प्रस्तुतिः ...{Loading}...
गा॒य॒त्रं छन्दो॑ऽसि॒ त्रैष्टु॑भं॒ छन्दो॑ऽसि॒ द्यावा॑पृथि॒वीभ्यां॑ त्वा॒ परि॑ गृह्णाम्य॒न्तरि॑क्षे॒णोप॑ यच्छामि। इन्द्रा॑श्विना॒ मधु॑नः सार॒घस्य॑ घर्मं पा॑त॒ वस॑वो॒ यज॑त॒ वाट्। स्वाहा॒ सूर्य्य॑स्य र॒श्मये॑ वृष्टि॒वन॑ये ॥६ ॥
मूलम् ...{Loading}...
गा॒य॒त्रं छन्दो॑ऽसि॒ त्रैष्टु॑भं॒ छन्दो॑ऽसि॒ द्यावा॑पृथि॒वीभ्यां॑ त्वा॒ परि॑ गृह्णाम्य॒न्तरि॑क्षे॒णोप॑ यच्छामि। इन्द्रा॑श्विना॒ मधु॑नः सार॒घस्य॑ घर्मं पा॑त॒ वस॑वो॒ यज॑त॒ वाट्। स्वाहा॒ सूर्य्य॑स्य र॒श्मये॑ वृष्टि॒वन॑ये ॥६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
गा॒य॒त्रम्। छन्दः॑। अ॒सि॒। त्रैष्टु॑भम्। त्रैस्तु॑भ॒मिति॒ त्रैस्तु॑भम्। छन्दः॑। अ॒सि॒। द्यावा॑पृथि॒वीभ्या॑म्। त्वा॒। परि॑। गृ॒ह्णा॒मि॒। अ॒न्तरि॑क्षेण। उप॑। य॒च्छा॒मि॒। इन्द्र॑। अ॒श्वि॒ना॒। मधु॑नः। सा॒र॒घस्य॑। घ॒र्मम्। पा॒त॒। वस॑वः। यज॑त। वाट्। स्वाहा॑। सूर्य॑स्य। र॒श्मये॑। वृ॒ष्टि॒वन॑य॒ इति॑ वृष्टि॒ऽवन॑ये। ६।
महीधरः
म० ‘परिशासावादत्ते गायत्रं छन्दोऽसीति प्रतिमन्त्रम्’ ( का० २६ । ५ । १२) गायत्रमिति मन्त्राभ्यां परीशासौ गृह्णातीत्यर्थः । यजुर्गायत्र्यौ परीशासौ देवते । हे परीशास, त्वं गायत्रं छन्दोऽसि गायत्र्येव गायत्रं स्वार्थेऽण् । गायत्रीच्छन्दोरूपोऽसि । त्रिष्टुबेव त्रैष्टुभं त्रिष्टुप्छन्दोरूपोऽसीति द्वितीयम्। ‘ताभ्यां महावीरं परिगृह्णाति द्यावापृथिवीभ्यां त्वा परिगृह्णामीति’ ( का० २६ । ५। १४ ) ताभ्यां परीशासाभ्यां महावीरमादत्त इत्यर्थः । यजुर्जगती महावीरो देवता । हे महावीरद्यावापृथिवीभ्यां द्युभूमिभ्यां कृत्वा त्वा त्वां परिगृह्णामि । परीशासयोर्द्यावाभूमी अध्यस्ते महावीरे चादित्योऽध्यस्तः । तथाच श्रुतिः ‘इमे वै द्यावापृथिवी परीशासावादित्यः प्रवर्ग्योऽमुं तदादित्यमाभ्यां द्यावापृथिवीभ्यां परिगृह्णाति’ (१४ । २।१।१६ ) इति । ‘उद्यम्य मुच्चवेदेनोपमृज्योपयमन्योपगृह्णात्यन्तरिक्षेणोपयच्छामि’ इति । परिशासगृहीतं महावीरमूर्ध्वं कृत्वा मुञ्जकृतवेदेन संमार्ज्योपयमन्या स्रुचा तं गृह्णातीत्यर्थः । यजुर्बृहती घर्मो देवता । हे घर्म, अन्तरिक्षेणाकाशेनोदरेण वा त्वामुपयच्छामि निगृह्णामि । उपयमन्यन्तरिक्षत्वेनोदरत्वेन च स्तूयते । तथाच श्रुतिः ‘अन्तरिक्षं वा उपयमन्यन्तरिक्षेण हीदᳪं᳭ सर्वमुपयतमथो उदरं वा उपयमन्युदरेण हीदᳪं᳭ सर्वमन्नाद्यमुपयतं तस्मादाहान्तरिक्षेणोपयच्छामि’ (१४।२।१।१७) इति । ‘अजापयसावासिच्य शान्ते गोः पयोऽवनयतीन्द्राश्विनेति’ ( का० २६ । ५। १६ ) । अजादुग्धेन महावीरं तूष्णीं सिक्त्वा शान्ते क्षीणज्वाले तत्र गोपयः सिञ्चतीत्यर्थः । ब्राह्मी गायत्री विश्वेदेवा देवताः । हे इन्द्र, हे अश्विना अश्विनौ, हे वसवः वासयितारः, यूयं मधुनो मधुरस्य पयसो घर्मं रसं पात पिबत । पिबादेशाभावश्छान्दसः । कीदृशस्य मधुनः, सारघस्य सरघा मधुमक्षिका । अत्र सरघा मधुकृतो भ्रमरा इव ऋत्विजः तैः कृतं सारघं तस्य । ‘घर्मं पातेति रसं पातेत्यैवैतदाह’ (१४ । २।१।२०) इति श्रुतिः। किंच हे इन्द्रादयः, वाट् वषट्कारेण स्वाहा सुष्ठु हुतं सारघं मधु सूर्यस्य रश्मये किरणाय यूयं यजत दत्त । यजतिर्दानार्थः । ‘वषट्कृतᳪं᳭ हृतमेवमस्यैतद्भवति’ (१४ । २ । १।२०) इति श्रुतेः । किंभूताय रश्मये । वृष्टिवनये वृष्टिं वनति ददाति वृष्टिवनिस्तस्मै यो रश्मिर्वृष्टिं दत्ते तस्मै मधु दत्तेत्यर्थः । तथाच श्रुतिः ‘सूर्यस्य ह वा एको रश्मिर्वृष्टिवनिर्नाम येनेमाः सर्वाः प्रजा बिभर्ति | तमेवैतत्प्रीणाति’ ( १४ । २।१। २१ ) इति ॥ ६ ॥
सप्तमी।
अधिमन्त्रम् (VC)
- अश्विनौ देवते
- दीर्घतमा ऋषिः
- निचृदत्यष्टिः
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी स्त्री-पुरुष का कैसा सम्बन्ध हो, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) परम ऐश्वर्ययुक्त पुरुष ! जैसे आप (गायत्रम्) गायत्री छन्द से प्रकाशित (छन्दः) स्वतन्त्र आनन्दकारक अर्थ के समान हृदय को प्रिय स्त्री को प्राप्त (असि) हैं, (त्रैष्टुभम्) त्रिष्टुप् छन्द से व्याख्यात हुए (छन्दः) स्वतन्त्र अर्थमात्र के समान प्रशंसित पत्नी को प्राप्त हुए (असि) हैं, वैसे मैं (त्वा) तुमको देखकर (द्यावापृथिवीभ्याम्) सूर्य-भूमि से अति शोभायमान प्रिया स्त्री को (परि, गृह्णामि) सब ओर से स्वीकार करता हूँ और (अन्तरिक्षेण) हाथ में जल लेकर प्रतिज्ञा कराई हुई को (उप, यच्छामि) स्त्रीत्व के साथ ग्रहण करता हूँ। हे (अश्विना) प्राण-अपान के तुल्य कार्यसाधक स्त्री-पुरुषो ! तुम दोनों भी वैसे ही वर्त्ता करो। हे (वसवः) पृथिवी आदि वसुवों के तुल्य प्रथम कक्षा के विद्वानो ! तुम लोग (स्वाहा) सत्या क्रिया से (मधुनः, सारघस्य) मक्खियों ने बनाये मधुरादि गुणयुक्त शहद और (घर्मम्) सुख पहुँचानेवाले यज्ञ की (पात) रक्षा करो। (सूर्य्यस्य) सूर्य्य के (वृष्टिवनये) वर्षा का विभाग करनेवाले (रश्मये) संशोधक किरण के लिये (वाट्) अच्छे प्रकार (यजत) सङ्गत होओ ॥६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे शब्दों का अर्थों के साथ वाच्य-वाचक सम्बन्ध, सूर्य के साथ पृथिवी का, किरणों के साथ वर्षा का, यज्ञ के साथ यजमान और ऋत्विजों का सम्बन्ध है, वैसे ही विवाहित स्त्री-पुरुषों का सम्बन्ध होवे ॥६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स्त्रीपुरुषयोः कीदृशः सम्बन्धः स्यादित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे इन्द्र ! यथा त्वं गायत्रं छन्द इव हृद्यां स्त्रियं प्राप्तवानसि, त्रैष्टुभं छन्दः इव प्रशंसितां लब्धवानसि, तथाऽहं त्वा दृष्ट्वा द्यावापृथिवीभ्यां प्रियां स्त्रियं परिगृह्णाम्यन्तरिक्षेणोपयच्छामि। हे अश्विना ! स्त्रीपुरुषौ युवां तथैव वर्त्तेयाथाम्। हे वसवो विद्वांसो ! यूयं स्वाहा मधुनः सारघस्य घर्मं पात सूर्य्यस्य वृष्टिवनये रश्मये वाट् यजत ॥६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा शब्दानामर्थैः सह वाच्यवाचकसम्बन्धः सूर्य्येण सह पृथिव्या रश्मिभिस्सह वृष्टेर्यज्ञेन सह यजमानस्यर्त्विजा चास्ति, तथैव विवाहितयोः स्त्रीपुरुषयोः सम्बन्धो भवतु ॥६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसा शब्दांचा अर्थांबरोबर वाच्यवाचक संबंध असतो. सूर्याचा पृथ्वीबरोबर असतो, पर्जन्याचा किरणांबरोबर असतो, यजमानांचा व ऋत्विजांचा संबंध यज्ञाबरोबर असतो तसा विवाहित स्री, पुरुषांचा संबंध असावा.
०७ समुद्राय त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
स॒मु॒द्राय त्वा॒ वाता॑य॒ स्वाहा॑। सरि॒राय॑ त्वा॒ वाता॑य॒ स्वाहा॑। अ॒ना॒धृ॒ष्याय॑ त्वा॒ वाता॑य॒ स्वाहा॑। अ॒प्र॒ति॒धृ॒ष्याय॑ त्वा॒ वाता॑य॒ स्वाहा॑। अ॒व॒स्यवे॑ त्वा॒ वाता॑य॒ स्वाहा॑। अ॒शि॒मि॒दाय॑ त्वा॒ वाता॑य॒ स्वाहा॑ ॥७ ॥
मूलम् ...{Loading}...
स॒मु॒द्राय त्वा॒ वाता॑य॒ स्वाहा॑। सरि॒राय॑ त्वा॒ वाता॑य॒ स्वाहा॑। अ॒ना॒धृ॒ष्याय॑ त्वा॒ वाता॑य॒ स्वाहा॑। अ॒प्र॒ति॒धृ॒ष्याय॑ त्वा॒ वाता॑य॒ स्वाहा॑। अ॒व॒स्यवे॑ त्वा॒ वाता॑य॒ स्वाहा॑। अ॒शि॒मि॒दाय॑ त्वा॒ वाता॑य॒ स्वाहा॑ ॥७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स॒मुद्राय॑। त्वा॒। वाता॑य। स्वाहा॑। स॒रि॒राय॑। त्वा॒। वाता॑य॒। स्वाहा॑। अ॒ना॒धृष्याय॑। त्वा॒। वाता॑य। स्वाहा॑। अ॒प्र॒ति॒धृ॒ष्यायेत्य॑प्रति॑ऽधृ॒ष्याय॑। त्वा॒। वाता॑य। स्वाहा॑। अ॒व॒स्यवे॑ त्वा॒। वाता॑य। स्वाहा॑। अ॒शि॒मि॒दायेत्य॑शिमि॒ऽदाय॑। त्वा॒। वाता॑य। स्वाहा॑। ७।
महीधरः
म० ‘प्रैतु ब्रह्मणस्पतिरित्युच्यमाने समुद्राय त्वेति वातनामानि जपति गच्छन्नाहवनीयम्’ ( का० २६ । ५। १७)। प्रैत्विति होत्रोच्यमाने आहवनीयं प्रति गच्छन्नध्वर्युः समुद्रायेत्यादीनि द्वादश वातनामानि स्वरेण जपतीत्यर्थः । द्वादश यजूंषि वातनामदेवत्यानि । हे घर्म, वाताय त्वा त्वां स्वाहा जुहोमि । कीदृशाय वाताय । समुद्राय समुद्द्रवन्त्युद्भवन्ति सर्वाणि भूतानि यस्मात् स समुद्रस्तस्मै ‘अयं वै समुद्रो योऽयं पवत एतस्माद्वै समुद्रात्सर्वे देवाः सर्वाणि भूतानि समुद्द्रवन्ति तस्मा एवैनं जुहोति’ (१४ । २ । २।२) इति श्रुतेः। सरिराय । सह ईरते यच्छन्ति सर्वभूतानि सिद्धार्थानि यस्मात् सरिरस्तस्मै वाताय घर्म, त्वां जुहोमि । ‘अयं वै सरिरो योऽयं पवत एतस्माद्वै सरिरात्सर्वे देवाः सर्वाणि भूतानि सहेरते’ ( १४ । २ । २ । ३) इति श्रुतेः । अनाधृष्याय न आधर्षितुं पराभवितुं शक्योऽनाधृष्यः तस्मै । अप्रतिधृष्याय न प्रतिधर्षितुं प्रतियोद्धुं शक्योऽप्रतिधृष्यस्तस्मै वातायेत्युक्तम् ‘अयं वा अनाधृष्योऽप्रतिधृष्यो योऽयं पवते’ ( १४ । २ । २ । ४) इति श्रुतेः । अवस्यवे । अवो रक्षणमिच्छति अवस्यति अवस्यतीत्यवस्युः ‘सुप आत्मनः क्यच् ‘क्याच्छन्दसि’ (पा० ३ । २। १७०) इत्युप्रत्ययः । अवनशीलाय । अशिमिदाय । क्लेशात्मकं कर्म शिमि तन्न ददातीत्यशिमिदस्तस्मै क्लेशनिवर्तकाय वाताय ‘अयं वा अवस्युरशिमिदो योऽयं पवते’ ( १४ । २ । २। ५) इति श्रुतेः ॥ ७॥
अष्टमी।
अधिमन्त्रम् (VC)
- वातो देवता
- दीर्घतमा ऋषिः
- अष्टिः
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर विवाह किये स्त्रीपुरुष क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि वा पुरुष ! मैं (स्वाहा) सत्य से (समुद्राय) आकाश में चलने के अर्थ (वाताय) वायुविद्या वा वायु के शोधन के लिये (त्वा) तुझको (स्वाहा) सत्यक्रिया से (सरिराय) जल के तथा (वाताय) घर के वायु के शोधने के लिये (त्वा) तुझको (स्वाहा) सत्यवाणी से (अनाधृष्याय) भय और धमकाने से रहित होने के लिये (वाताय) ओषधिस्थ वायु के जानने को (त्वा) तुझको (स्वाहा) सत्यवाणी वा क्रिया से (अप्रतिधृष्याय) नहीं धमकाने योग्यों के प्रति वर्त्तमान के अर्थ (वाताय) वायु के वेग की गति जानने के लिये (त्वा) तुझको (स्वाहा) सत्यक्रिया से (अवस्यवे) अपनी रक्षा चाहनेवाले के अर्थ तथा (वाताय) प्राणशक्ति को विशेष जानने के लिये (त्वा) तुझको और (स्वाहा) सत्यक्रिया से (अशिमिदाय) भोग्य अन्न जिसमें स्नेह करनेवाला है, उस रस और (वाताय) उदान वायु के लिये (त्वा) तुझको समीप स्वीकार करता हूँ ॥७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में पूर्व मन्त्र में से (उप, यच्छामि) इन पदों की अनुवृत्ति आती है। विवाह किये हुए स्त्री-पुरुष सृष्टिविद्या की उन्नति के लिये प्रयत्न किया करें ॥७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः कृतविवाहौ स्त्रीपुंसौ किं कुर्यातामित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि पुरुष वाऽहं स्वाहा समुद्राय वाताय त्वा स्वाहा सरिराय वाताय त्वा स्वाहाऽनाधृष्याय वाताय त्वा स्वाहाऽप्रतिधृष्याय वाताय त्वा स्वाहाऽवस्यवे वाताय त्वा स्वाहाऽशिमिदाय वाताय त्वोपयच्छामि ॥७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र पूर्वस्मान्मन्त्रादुपयच्छामिति पदे अनुवर्त्तेते। कृतविवाहौ स्त्री-पुरुषौ सृष्टिविद्योन्नतये प्रयतेयाताम् ॥७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात पूर्वीच्या मंत्रातील (उप, यच्छामि) या पदांची अनुवृत्ती होते. विवाह करणाऱ्या स्री-पुरुषांनी सृष्टिविद्या उन्नत व्हावी यासाठी प्रयत्न करावा.
०८ इन्द्राय त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रा॑य त्वा॒ वसु॑मते रु॒द्रव॑ते॒ स्वाहेन्द्रा॑य त्वादि॒त्यव॑ते॒ स्वाहेन्द्रा॑य त्वाभिमाति॒घ्ने स्वाहा॑। स॒वि॒त्रे त्व॑ऽऋभु॒मते॑ विभु॒मते॒ वाज॑वते॒ स्वाहा॒ बृह॒स्पत॑ये त्वा वि॒श्वदे॑व्यावते॒ स्वाहा॑ ॥८ ॥
मूलम् ...{Loading}...
इन्द्रा॑य त्वा॒ वसु॑मते रु॒द्रव॑ते॒ स्वाहेन्द्रा॑य त्वादि॒त्यव॑ते॒ स्वाहेन्द्रा॑य त्वाभिमाति॒घ्ने स्वाहा॑। स॒वि॒त्रे त्व॑ऽऋभु॒मते॑ विभु॒मते॒ वाज॑वते॒ स्वाहा॒ बृह॒स्पत॑ये त्वा वि॒श्वदे॑व्यावते॒ स्वाहा॑ ॥८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इन्द्रा॑य। त्वा॒। वसु॑मत॒ इति॒ वसु॑ऽमते। रु॒द्रव॑त॒ इति॑ रु॒द्रऽव॑ते। स्वाहा॑। इन्द्रा॑य। त्वा॒। आ॒दि॒त्यव॑त॒ इत्या॑दि॒त्यऽव॑ते। स्वाहा॑। इन्द्रा॑य। त्वा॒। अ॒भि॒मा॒ति॒घ्न इत्य॑भिऽमाति॒घ्ने। स्वाहा॑। स॒वि॒त्रे। त्वा॒। ऋ॒भु॒मत॒ इत्यृ॑भु॒ऽमते॑। वि॒भु॒मत॒ इति॑ विभु॒ऽमते॑। वाज॑वत॒ इति॒ वाज॑ऽवते। स्वाहा॑। बृह॒स्पत॑ये। त्वा॒। वि॒श्वदे॑व्यावते। वि॒श्वेदे॑व्यवत॒ इति॑ वि॒श्वऽदे॑व्यऽवते। स्वाहा॑। ८।
महीधरः
म० वसवो विद्यन्ते यस्य स वसुमान् रुद्रा विद्यन्ते यस्य रुद्रवान् तस्मै वसुयुताय रुद्रयुतायेन्द्राय वाताय हे घर्म, त्वां स्वाहा जुहोमि ‘अयं वा इन्द्रो योऽयं पवते’ (१४।२।२।६) इति श्रुतेः । आदित्या विद्यन्ते यस्य स आदित्यवान् तस्मै आदित्ययुक्तायेन्द्राय वाताय स्वाहा । अभिमातीन्सपत्नान् हन्तीत्यभिमातिहा । ‘सपत्नो वा अभिमातिः’ ( १४ । २ । २।८) इति श्रुतेः। शत्रुनाशकायेन्द्राय वाताय त्वां जुहोमि। सूते स सविता तस्मै चेष्टयित्रे वाताय त्वां जुहोमि । ‘अयं वै सविता योऽयं पवते’ (१४ । २ । २।९) इति श्रुतेः। कीदृशाय । ऋभुमते ऋभुरस्यास्ति ऋभुमान् विभुरस्यास्ति विभुमान् वाजोऽस्यास्ति वाजवान् । आङ्गिरसस्य सुधन्वनस्त्रयः पुत्रा ऋभुविभुवाजास्तद्युक्ताय वाताय । बृहस्पतये बृहतां महतां पतिर्वातस्तस्मै ‘अयं वै बृहस्पतिर्योऽयं पवते’ (१४ । २ । २। १० ) इति श्रुतेः । कीदृशाय । विश्वदेव्यावते विश्वेषां देवानां समूहो विश्वदेव्यम् तदस्यास्ति विश्वदेव्यवान् तस्मै । ‘मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ’ (पा०६।३।१३१) इति दीर्घः । सर्वदेवसहिताय जुहोमि ॥ ८ ॥
नवमी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- दीर्घतमा ऋषिः
- अष्टिः
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर स्त्री-पुरुषों को क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्री वा पुरुष ! मैं (स्वाहा) सत्यवाणी से (वसुमते) बहुत धनयुक्त (इन्द्राय) उत्तम ऐश्वर्यवाले सन्तान के अर्थ (त्वा) तुझको (स्वाहा) उत्तम क्रिया से (आदित्यवते) समस्त विद्याओं की पण्डिताई से युक्त (रुद्रवते) बहुत प्राणों के बलवाले (इन्द्राय) दुःखनाशक सन्तान के लिये (त्वा) तुझको (स्वाहा) सत्यवाणी से (अभिमातिघ्ने) शत्रुओं को मारनेवाले (इन्द्राय) उत्तम ऐश्वर्य देनेवाले सन्तान के लिये (त्वा) तुझको (स्वाहा) सत्यक्रिया से (सवित्रे) सूर्यविद्या के ज्ञाता (ऋभुमते) अनेक बुद्धिमानों के साथी (विभुमते) विभु आकाशादि पदार्थों को जिसने जाना है, (वाजवते) पुष्कल अन्नवाले सन्तान के अर्थ (त्वा) तुझको और (स्वाहा) सत्यवाणी से (बृहस्पतये) बड़ी वेदरूपवाणी के रक्षक (विश्वदेव्यावते) समस्त विद्वानों के हितकारी पदार्थोंवाले सन्तान के लिये (त्वा) तुझको ग्रहण करता वा करती हूँ ॥८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में भी (उप, यच्छामि) इन पदों की अनुवृत्ति आती है। जो स्त्री-पुरुष पृथिवी आदि वसुओं और चैत्रादि महीनों से अपने ऐश्वर्य को बढ़ाते हैं, वे विघ्नों को नष्ट कर बुद्धिमान् सन्तानों को प्राप्त होकर सबकी रक्षा करने को समर्थ होते हैं ॥८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स्त्रीपुरुषैः किं कर्त्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि पुरुष ! वाऽहं स्वाहा वसुमत इन्द्राय त्वा स्वाहाऽऽदित्यवते रुद्रवत इन्द्राय त्वा स्वाहाऽभिमातिघ्न इन्द्राय त्वा स्वाहा सवित्र ऋभुमते विभुमते वाजवते त्वा स्वाहा बृहस्पतये विश्वदेव्यावते त्वोपयच्छमि ॥८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्राप्युपयच्छामीति पदे अनुवर्त्तेते। ये स्त्रीपुरुषा वसुभिरादित्यैरैश्वर्यमुन्नयन्ति ते विघ्नान् हत्वा बुद्धिमतः सन्तानान् प्राप्य सर्वस्य रक्षां विधातुं शक्नुवन्ति ॥८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात (उप यच्छामि) या पदांची अनुवृत्ती झालेली आहे. जे स्री-पुरुष पृथ्वी इत्यादी वसूद्वारे चैत्र वगैरे महिन्यात आपले ऐश्वर्य वाढवितात. त्याची संकटे नाहीशी होतात व त्यांनी बुद्धिमान संतान प्राप्ती होते, तसेच ते सर्वांचे रक्षणकर्ते बनण्यास समर्थ होतात.
०९ यमाय त्वाङ्गिरस्वते
विश्वास-प्रस्तुतिः ...{Loading}...
य॒माय॒ त्वाङ्गि॑रस्वते पितृ॒मते॒ स्वाहा॑। स्वाहा॑ घ॒र्माय॒ स्वाहा॑ घ॒र्मः पि॒त्रे ॥९ ॥
मूलम् ...{Loading}...
य॒माय॒ त्वाङ्गि॑रस्वते पितृ॒मते॒ स्वाहा॑। स्वाहा॑ घ॒र्माय॒ स्वाहा॑ घ॒र्मः पि॒त्रे ॥९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
य॒माय॑। त्वा॒। अङ्गि॑रस्वते। पि॒तृ॒मत॒ इति॑ पितृ॒मते। स्वाहा॑। स्वाहा॑। घ॒र्माय॑। स्वाहा॑। घ॒र्मः। पि॒त्रे। ९।
महीधरः
म० यमाय वायवे हे घर्म, त्वां जुहोमि ‘अयं वै यमो योऽयं पवते’ ( १४ । २।२ । ११) इति श्रुतेः । कीदृशाय यमाय । अङ्गिरस्वते अङ्गिरसो मुनयोऽस्य सन्ति अङ्गिरस्वान् | ‘अयस्मयादीनि छन्दसि’ (पा० १।४।२०) इति भसंज्ञायां सस्य विसर्गाभावः । पितृमते पितरोऽस्य सन्ति पितृमान् अङ्गिरःपितृयुताय वातायेत्यर्थः । वातनामानि समाप्तानि । ‘स्वाहा घर्मायेत्युपयमन्या सिञ्चति घर्मे’ (का० २६ । ६।२)। उपयमन्या स्रुचा सुक्स्थं घृतं घर्मे सिञ्चतीत्यर्थः। घर्माय स्वाहा एतदाज्यं सुहुतमस्तु । ‘स्वाहा घर्मः पित्र’ इति ‘जपित्वातिक्रम्याश्राव्याह घर्मस्य ययेति’ (का० २६ । ६ । ३)। अपसव्यवान् दक्षिणास्यः स्वाहेति मन्त्रं स्वरेण जपित्वा सव्येन जलं स्पृष्ट्वा घर्महस्तोऽतिक्रम्याश्राव्य घर्मस्य यजेत्याहेत्यर्थः । स्वाहा घर्मः पित्रे पित्रर्थायास्तु ॥ ९॥
दशमी।
अधिमन्त्रम् (VC)
- वायुर्देवता
- दीर्घतमा ऋषिः
- भुरिग्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि वा पुरुष ! (घर्मः) यज्ञ के तुल्य प्रकाशमान मैं (स्वाहा) सत्यवाणी से (अङ्गिरस्वते) विद्युत् आदि विद्या जाननेवाले (यमाय) न्यायाधीश के अर्थ (पितृमते) रक्षक ज्ञानी जनों से युक्त सन्तान के लिये (स्वाहा) सत्यक्रिया से (घर्माय) यज्ञ के लिये और (स्वाहा) सत्यक्रिया से (पित्रे) रक्षक के लिये (त्वा) तुझको स्वीकार करती वा करता हूँ ॥९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में भी (उप, यच्छामि) पदों की अनुवृत्ति आती है। जो स्त्री-पुरुष प्राण के तुल्य, न्याय, पितरों और विद्वानों का सेवन करें, वे यज्ञ के तुल्य सबको सुखकारी होवें ॥९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि पुरुष वा ! घर्मोऽहं स्वाहाऽङ्गिरस्वते यमाय पितृमते स्वाहा घर्माय स्वाहा पित्रे त्वोपयच्छामि ॥९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपयच्छामीति पदे अनुवर्त्तेते। यौ स्त्रीपुरुषौ प्राणवन्न्यायं जनकान् विदुषश्च सेवेतां तौ यज्ञवत् सर्वेषां सुखकरौ स्याताम् ॥९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रातही (उप यच्छामि) पदांची अनुवृत्ती झालेली आहे. जे स्री-पुरुष प्राणाप्रमाणे न्यायी असून, पितरांचे व विद्वानांचे अनुसरण करतात. ते यज्ञासारखे सर्वांना सुख देतात.
१० विश्वाऽआशा दक्षिणसद्
विश्वास-प्रस्तुतिः ...{Loading}...
विश्वा॒ऽआशा॑ दक्षिण॒सद् विश्वा॑न् दे॒वानया॑डि॒ह। स्वाहा॑कृतस्य घ॒र्मस्य॒ मधोः॑ पिबतमश्विना ॥१० ॥
मूलम् ...{Loading}...
विश्वा॒ऽआशा॑ दक्षिण॒सद् विश्वा॑न् दे॒वानया॑डि॒ह। स्वाहा॑कृतस्य घ॒र्मस्य॒ मधोः॑ पिबतमश्विना ॥१० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
विश्वाः॑। आशाः॑। द॒क्षि॒ण॒सदिति दक्षिण॒ऽसत्। विश्वा॑न्। दे॒वान्। अया॑ट्। इ॒ह। स्वाहा॑कृत॒स्येति॒ स्वाहा॑ऽकृतस्य। घ॒र्मस्य॑। मधोः। पि॒ब॒त॒म्। अ॒श्वि॒ना॒। १०।
महीधरः
म० ‘वषट्कृते जुहोति विश्वा आशा इति’ ( का० २६ । ६। ४)। वषट्कृते सति घर्मं जुहोतीत्यर्थः । अश्विदेवत्यानुष्टुप् । इह यज्ञे दक्षिणसत् दक्षिणस्यां दिशि सीदति तिष्ठति दक्षिणसत् । सर्वनाम्नो वृत्रिमात्रे पुंवद्भावः । दक्षिणतः स्थितोऽध्वर्युर्विश्वाः सर्वाः आशाः दिशो विश्वान् सर्वान् देवान् च अयाट् अयाक्षीत् । यजेर्लुङि च्लेर्लोपे रूपम् । इष्टवान् दक्षिणतः स्थितो ह्याहुतीर्जुहोति । अतो ब्रवीमि हे अश्विना अश्विनौ, स्वाहाकृतस्य वषट्कारानन्तरं हुतस्य मधोर्मधुरास्वादस्य घर्मं युवां पिबतम् । कर्मणि षष्ठी ॥ १० ॥
एकादशी।
अधिमन्त्रम् (VC)
- अश्विनौ देवते
- दीर्घतमा ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर अध्यापक-उपदेशक क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अश्विना) अध्यापक उपदेशक लोगो ! तुम (इह) इस जगत् में (स्वाहाकृतस्य) सत्यक्रिया से सिद्ध हुए (घर्मस्य, मधोः) मधुरादि गुणयुक्त यज्ञ के अवशिष्ट भाग को (पिबतम्) पिओ, वैसे यह (दक्षिणसत्) वेदी से दक्षिण दिशा में बैठनेवाला आचार्य्य (विश्वाः) सब (आशाः) दिशाओं तथा (विश्वान्) समस्त (देवान्) उत्तम गुणों वा विद्वानों का (अयाट्) सङ्ग वा सेवन पूजन करे ॥१० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे उपदेशक शिक्षा करें और अध्यापक पढ़ावें, वैसे ही सब लोग ग्रहण करें ॥१० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनरध्यापकोपदेशकौ किं कुर्यातामित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अश्विना ! यथा युवामिह स्वाहाकृतस्य घर्मस्य मधोरवशिष्टं भागं पिबतं तथाऽयं दक्षिणसज्जनो विश्वा आशा विश्वान् देवानयाट् सङ्गच्छेत् ॥१० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यथोपदेशकाध्यापकाः शिक्षेरन्नध्यापयेयुश्च तथैव सर्वे सङ्गृह्णीयुः ॥१० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जसे उपदेशक शिक्षण देतात व अध्यापक शिकवितात, तसेच सर्व लोकांनी शिकावे.
११ दिवि धाऽइमम्
विश्वास-प्रस्तुतिः ...{Loading}...
दि॒वि धा॑ऽइ॒मं य॒ज्ञमि॒मं य॒ज्ञं दि॒वि धाः॑। स्वाहा॒ऽग्नये॑ य॒ज्ञिया॑य॒ शं यजु॑र्भ्यः ॥११ ॥
मूलम् ...{Loading}...
दि॒वि धा॑ऽइ॒मं य॒ज्ञमि॒मं य॒ज्ञं दि॒वि धाः॑। स्वाहा॒ऽग्नये॑ य॒ज्ञिया॑य॒ शं यजु॑र्भ्यः ॥११ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दि॒वि। धाः॒। इ॒मम्। य॒ज्ञम्। इ॒मम्। य॒ज्ञम्। दि॒वि। धाः॒। स्वाहा॑। अ॒ग्नये॑। य॒ज्ञिया॑य। शम्। यजु॑र्भ्य॒ इति॒ यजुः॑ऽभ्यः। ११।
महीधरः
म० ‘दिवि धा इति त्रिरुत्कम्पयति’ ( का० २६ । ६ । ५)। महावीरं त्रिरूर्ध्वं कम्पयति सकृन्मन्त्रेण द्विस्तूष्णीमिति सूत्रार्थः। यजुर्घर्मदेवत्यं सामोष्णिक् । हे महावीर, इमं मदीयं यज्ञं त्वं दिवि द्युलोके धाः धेहि स्थापय । इमं यज्ञं दिवि धा इति पुनरुक्तिरादरार्था । ‘अभ्यासे भूयांसमर्थं मन्यन्ते’ (निरु. १० । ४२ ) इति वचनात् । ‘स्वाहाग्नय इत्यनुवषट्कृते’ ( का० २६ । ६ । ६)। अनुवषट् स्वाहेति मन्त्रेण घर्म जुहोतीत्यर्थः । यज्ञियाय यज्ञहितायाग्नये स्वाहा सुहुतमस्तु । यजुर्भ्यः सकाशात् अस्माकं शं सुखमस्तु ॥ ११ ॥
द्वादशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- दीर्घतमा ऋषिः
- विराडुष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर स्त्री-पुरुष क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्री वा पुरुष ! तू (यजुर्भ्यः) यज्ञ करानेहारे वा यजुर्वेद के विभागों से (स्वाहा) सत्यक्रिया के साथ (अग्नये) (यज्ञियाय) यज्ञकर्म के योग्य अग्नि के लिये (दिवि) सूर्य्यादि के प्रकाश में (इमम्) इस (यज्ञम्) सङ्ग करने योग्य गृहाश्रम व्यवहार के उपयोगी यज्ञ को (शम्) सुखपूर्वक (धाः) धारण कर (दिवि) विज्ञान के प्रकाश में (इमम्) इस परमार्थ के साधक संन्यास आश्रम के उपयोगी (यज्ञम्) विद्वानों के सङ्गरूप यज्ञ को सुखपूर्वक (धाः) धारण कर ॥११ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो स्त्री-पुरुष ब्रह्मचर्य के साथ विद्यायुक्त उत्तम शिक्षा को प्राप्त होकर वेदरीति से कर्मों का अनुष्ठान करें, वे अतुल सुख को प्राप्त होवें ॥११ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स्त्रीपुरुषाः किं कुर्य्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि पुरुष वा ! त्वं यजुर्भ्यः स्वाहाऽग्नये यज्ञियाय दिवीमं यज्ञं शं धाः। दिवीमं यज्ञं शं धाः ॥११ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये स्त्रीपुरुषा ब्रह्मचर्येणाऽखिलां विद्यासुशिक्षां प्राप्य वेदरीत्या कर्माण्यनुतिष्ठेयुस्तेऽतुलं सुखं लभेरन् ॥११ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे स्री-पुरुष ब्रह्मचर्याने संपूर्ण विद्यायुक्त उत्तम शिक्षण प्राप्त करून वैदिक रितीने अनुष्ठान करतात ते अत्यंत सुख प्राप्त करतात.
१२ अश्विना घर्मम्
विश्वास-प्रस्तुतिः ...{Loading}...
अश्वि॑ना घ॒र्मं पा॑तँ॒ हार्द्वा॑न॒मह॑र्दि॒वाभि॑रू॒तिभिः॑। त॒न्त्रा॒यिणे॒ नमो॒ द्यावा॑पृथि॒वीभ्या॑म् ॥१२ ॥
मूलम् ...{Loading}...
अश्वि॑ना घ॒र्मं पा॑तँ॒ हार्द्वा॑न॒मह॑र्दि॒वाभि॑रू॒तिभिः॑। त॒न्त्रा॒यिणे॒ नमो॒ द्यावा॑पृथि॒वीभ्या॑म् ॥१२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अश्वि॑ना। घ॒र्मम्। पा॒त॒म्। हार्द्वा॑नम्। अहः॑। दि॒वाभिः॑। ऊ॒तिभि॒रित्यू॒तिऽभिः॑। त॒न्त्रा॒यिणे॑। नमः॑। द्यावा॑पृथि॒वीभ्या॑म्। १२।
महीधरः
म० ‘अश्विना घर्ममिति ब्रह्मानुमन्त्रयते’ (का० २६ । ६ । ७)। ब्रह्मा घर्ममभिमन्त्रयत इत्यर्थः । स्वराडुष्णिक् । अश्विनावादित्यो द्यावापृथिव्यौ च देवताः । हे अश्विना अश्विनौ, युवां घर्मं पातं पिबतम् । काभिः। ऊतिभिरवनैर्निमित्तैः । अवनं कृत्वा पिबतमित्यर्थः । कीदृशीभिरूतिभिः । अहर्दिवाभिः । अहःशब्देन प्रातःकालः दिवाशब्देन सायंकालः । प्रातःसायंकालोपलक्षिताभिः । प्रवर्ग्यकालः स एव यतः । कीदृशं घर्मम् । | हार्द्वानम् ‘वा गतिगन्धनयोः’ ल्युट । हृदि वानं गमनं यस्य स हृद्वानः हृद्वान एव हार्द्वानस्तम् । स्वार्थेऽण् । हृदयप्रियमित्यर्थः। एवं घर्मपानायाश्विनौ संप्रार्थ्य तत्साहाय्याय सूर्यादीन्नमति । तन्त्रायिणे नमः तन्यते तन्त्रम् पटरचनाय तुरीशलाकाप्रोतास्तन्तवस्तन्त्रमुच्यते तद्वन्नभसि कालचक्रमपि तन्त्रमुच्यते । तथा चाभिधानम् ‘तन्त्रे राष्ट्रे परच्छन्दाप्रधानयोः । अगदे कुटुम्बकृत्ये तन्तुवाने परिच्छदे । श्रुतिशाखान्तरे शास्त्रे करणे द्व्यर्थसाधके । इतिकर्तव्यतातन्त्वोः’ इति । तन्त्रे कालचक्रे एति निरन्तरं गच्छति तन्त्रायी तस्मै आदित्याय नमोऽस्तु ‘एष वै तन्त्रायी य एष तपत्येष हीमाल्ँ लोकांस्तन्त्रमिवानुसंचरति’ (१४॥ २। २ । २२) इति श्रुतेः । द्यावापृथिवीभ्यामुभाभ्यां लोकाभ्यां तदधिष्ठात्रीभ्यां नमः ॥ १२॥
त्रयोदशी।
अधिमन्त्रम् (VC)
- अश्विनौ देवते
- दीर्घतमा ऋषिः
- आर्ची पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अश्विना) सुशिक्षित स्त्री-पुरुष ! तुम (अहः) प्रतिदिन (दिवाभिः) दिन-रात वर्त्तमान (ऊतिभिः) रक्षादि क्रियाओं से (तन्त्रायिणे) शिल्पविद्या के शास्त्रों को जानने वा प्राप्त होने के लिये (हार्द्वानम्) हृदय को प्राप्त हुए ज्ञानसम्बन्धी (घर्मम्) यज्ञ की (पातम्) रक्षा करो और (द्यावापृथिवीभ्याम्) सूर्य और आकाश के सम्बन्ध से शिल्पशास्त्रज्ञ पुरुष के लिये (नमः) अन्न को देओ ॥१२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे भूमि और सूर्य परस्पर उपकारी हुए साथ वर्त्तमान हैं, वैसे मित्रभाव से युक्त स्त्री-पुरुष निरन्तर वर्त्ता करें ॥१२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अश्विना स्त्रीपुरुषौ ! युवामहर्दिवाभिरूतिभिस्तन्त्रायिणे हार्द्वानं घर्मं पातं द्यावापृथिवीभ्यां तन्त्रायिणे नमो दत्तम् ॥१२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यथा भूमिसूर्य्यौ सदा परस्परोपकारिणौ सह वर्त्तेते, तथा सौहार्देन सहितौ सततं स्त्रीपुरुषौ वर्त्तेयाताम् ॥१२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - पृथ्वी व सूर्य जसे परस्पर उपकार करून बरोबर राहतात. तसे स्री-पुरुषांनी परस्पर वर्तन करावे.
१३ अपातामश्विना घर्ममनु
विश्वास-प्रस्तुतिः ...{Loading}...
अपा॑ताम॒श्विना॑ घ॒र्ममनु॒ द्यावा॑पृथि॒वी अ॑मँसाताम्। इ॒हैव रा॒तयः॑ सन्तु ॥१३ ॥
मूलम् ...{Loading}...
अपा॑ताम॒श्विना॑ घ॒र्ममनु॒ द्यावा॑पृथि॒वी अ॑मँसाताम्। इ॒हैव रा॒तयः॑ सन्तु ॥१३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अपा॑ताम्। अ॒श्विना॑। घ॒र्मम्। अनु॑। द्यावा॑पृथि॒वी इति॑ द्यावा॑पृथि॒वी। अ॒मँ॒सा॒ता॒म्। इ॒ह। ए॒व। रा॒तयः॑। स॑न्तु॒। १३।
महीधरः
म० ‘अपातामिति यजमानः’ ( का० २६ । ६ । ८)। यजमानः घर्ममभिमन्त्रयत इत्यर्थः । ककुबुष्णिक् अश्विदेवत्या मध्यमः पादो द्वादशार्णः आद्यन्तावष्टार्णौ सा ककुप् । मध्यमश्चेत्ककुबित्युक्तेः । अश्विना घर्ममपातामपिबतां लुङ् । द्यावापृथिवी अन्वमंसातामनुमतवत्यौ । साधु कृतमिति अनुमेनाते इत्यर्थः । अत एवाश्व्यादिप्रसादात् इहैवास्मद्गृहे स्थितानामस्माकं रातयो धनानि सन्तु ‘इहैव रातयः सन्त्वितीहैव नो । धनानि सन्त्वित्येवैतदाह’ ( १४ । २ । २ । २६) इति श्रुतेः ॥ १३ ॥
चतुर्दशी।
अधिमन्त्रम् (VC)
- अश्विनौ देवते
- दीर्घतमा ऋषिः
- विराडुष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अश्विना) सुन्दर रीति से वर्त्तमान स्त्री-पुरुष ! तुम वायु और बिजुली के तुल्य (घर्मम्) गृहाश्रम व्यवहार के अनुष्ठान की (अपाताम्) रक्षा करो (द्यावापृथिवी) सूर्य्य-भूमि के समान गृहाश्रम व्यवहार के अनुष्ठान का (अनु, अमंसाताम्) अनुमान किया करो, जिससे कि (इह) गृहाश्रम में (रातयः) विद्यादिजन्य सुखों के दान (एव) ही (सन्तु) होवें ॥१३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे वायु और बिजुली तथा सूर्य और भूमि साथ वर्त्तकर सुख देते हैं, वैसे स्त्री-पुरुष प्रीति के साथ वर्त्तमान हुए सबके लिये अतुल सुख देवें ॥१३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अश्विना ! युवां वायुविद्युताविव घर्ममपातां द्यावापृथिवी इव घर्ममन्वमंसातां यत इह रातय एव सन्तु ॥१३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा वायुविद्युतौ भूमिसूर्यौ सह वर्त्तित्वा सुखानि दत्तस्तथैव स्त्रीपुरुषौ प्रीत्या सह वर्त्तमानौ सर्वेभ्योऽतुलं सुखं दद्याताम् ॥१३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचक लुप्तोपमालंकार आहे. जसे वायू व विद्युत आणि सूर्य व भूमी बरोबर राहून सुख देतात. तसे स्री-पुरुषांनी प्रेमाने राहावे व सर्वांना खूप सुख द्यावे.
१४ इषे पिन्वस्वोर्जे
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒षे पि॑न्वस्वो॒र्जे पि॑न्वस्व॒ ब्रह्म॑णे पिन्वस्व क्ष॒त्राय॑ पिन्वस्व॒ द्यावा॑पृथिवी॒भ्यां॑ पिन्वस्व। धर्मा॑सि सु॒धर्मामे॑न्य॒स्मे नृ॒म्णानि॑ धारय॒ ब्र॒ह्म॑ धारय क्ष॒त्रं धा॑रय॒ विशं॑ धारय ॥१४ ॥
मूलम् ...{Loading}...
इ॒षे पि॑न्वस्वो॒र्जे पि॑न्वस्व॒ ब्रह्म॑णे पिन्वस्व क्ष॒त्राय॑ पिन्वस्व॒ द्यावा॑पृथिवी॒भ्यां॑ पिन्वस्व। धर्मा॑सि सु॒धर्मामे॑न्य॒स्मे नृ॒म्णानि॑ धारय॒ ब्र॒ह्म॑ धारय क्ष॒त्रं धा॑रय॒ विशं॑ धारय ॥१४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इ॒षे। पि॒न्व॒स्व॒। ऊ॒र्जे। पि॒न्व॒स्व॒। ब्रह्म॑णे। पि॒न्व॒स्व॒। क्ष॒त्राय॑। पि॒न्व॒स्व॒। द्यावा॑पृथि॒वीभ्या॑म्। पि॒न्व॒स्व॒। धर्म॑। अ॒सि॒। सु॒धर्मेति॑ सु॒ऽधर्म॑। अमे॑नि। अ॒स्मेऽइत्य॒स्मे। नृ॒म्णानि॑। धा॒र॒य॒। ब्रह्म॑। धा॒र॒य॒। क्ष॒त्रम्। धा॒र॒य॒। विश॑म्। धा॒र॒य॒। १४।
महीधरः
म० ‘इषे पिन्वस्वेति पिन्वमानमनुमन्त्रयते’ (का. २६ । ६ । ९)। पिन्वमानमतितप्तं घर्ममभिमन्त्रयत इत्यर्थः । ऋचां पङ्क्तिः घर्मदेवत्या । हे पिन्वमान घर्म, इषे वृष्ट्यै पिन्वस्व पुष्टो भव वृष्ट्यर्थम् । ऊर्जेऽन्नाय पिन्वस्व अन्नं वर्धय । ब्रह्मणे ब्राह्मणेभ्यः पिन्वस्व क्षत्राय क्षत्रियेभ्यः पिन्वस्व द्यावापृथिवीभ्यां पिन्वस्व । ब्राह्मणक्षत्रियद्यावापृथिवीस्तर्पयेत्यर्थः । ‘घर्मासीत्युत्क्रामत्युत्तरपूर्वार्धम्’ ( का० २६ । ६ । १०) । ऐशानीं दिशं प्रत्युत्क्रामतीत्यर्थः । यजुर्गायत्री घर्मदेवत्या । हे धर्म, हे सुधर्म, सुष्ठु धारयतीति सुधर्मः हे साधुधरणशील, त्वं धर्मः असि सर्वजगतो धारणमसि आहुतिपरिणामद्वारेण सर्वं धरसीत्यर्थः । ‘अमेन्यस्मे इति खरे करोति’ ( का० २६ । ६ । ११)। महावीरं खरे आसादयतीत्यर्थः । ऋग्बृहती घर्मदेवत्या । हे घर्म, अमेनि ‘मिञ् हिंसायां’ मिनोति हिनस्तीति मेनिः न मेनिरमेनिः ‘सुपां सुलुक्’ (पा० ७ । १ । ३९) सुलोपः । अमेनिः अहिंसन् अक्रुध्यन् सन् अस्मे अस्मासु नृम्णानि धनानि धारय स्थापय । नॄन्नमयतीति नॄम्णम् ‘अक्रुध्यन्नो धनानि धारय’ ( १४ । २ । २ । ३०) इति श्रुतिः । ब्रह्म क्षत्रं विशं च धारय । विप्रादीनस्मद्वशान्कुर्वित्यर्थः ॥१४॥
पञ्चदशी।
अधिमन्त्रम् (VC)
- द्यावापृथिवी देवते
- दीर्घतमा ऋषिः
- अतिशक्वरी
- पञ्चमः
१५ स्वाहा पूष्णे
विश्वास-प्रस्तुतिः ...{Loading}...
स्वाहा॑ पू॒ष्णे शर॑से॒ स्वाहा॒ ग्राव॑भ्यः॒ स्वाहा॑ प्रतिर॒वेभ्यः॑। स्वाहा॑ पि॒तृभ्य॑ऽ ऊ॒र्ध्वब॑र्हिर्भ्यो घर्म॒पावभ्यः॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्याँ॒ स्वाहा॒ विश्वे॑भ्यो दे॒वेभ्यः॑ ॥१५ ॥
मूलम् ...{Loading}...
स्वाहा॑ पू॒ष्णे शर॑से॒ स्वाहा॒ ग्राव॑भ्यः॒ स्वाहा॑ प्रतिर॒वेभ्यः॑। स्वाहा॑ पि॒तृभ्य॑ऽ ऊ॒र्ध्वब॑र्हिर्भ्यो घर्म॒पावभ्यः॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्याँ॒ स्वाहा॒ विश्वे॑भ्यो दे॒वेभ्यः॑ ॥१५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स्वाहा॑। पू॒ष्णे। शर॑से। स्वाहा॑। ग्राव॑भ्य॒ इति॒ ग्राव॑ऽभ्यः। स्वाहा॑। प्र॒ति॒र॒वेभ्य॒ इति॑ प्रतिऽर॒वेभ्यः॑। स्वाहा॑। पि॒तृभ्य॒ इति॒ पि॒तृऽभ्यः॑। ऊ॒र्ध्वब॑र्हिभ्य॒ इत्यू॒र्ध्वऽब॑र्हिःऽभ्यः। घ॒र्म॒पाव॑भ्य॒ इति॑ घर्म॒ऽपाव॑भ्यः। स्वाहा॑। द्यावा॑पृथि॒वीभ्या॑म्। स्वाहा॑। विश्वे॑भ्यः। दे॒वेभ्यः॑। १५।
महीधरः
म० ‘विकङ्कतशकलैर्जुहोति घर्मे न्यज्य न्यज्य स्वाहा पूष्णे शरस इति प्रतिमन्त्रम्’ ( का० २६ । ६ । १२ )। घर्मे नितरामक्त्वा विकङ्कतशकलैर्घर्माज्यं जुहोति स्वाहा पूष्ण इति प्रतिमन्त्रमित्यर्थः । सप्त लिङ्गोक्तदेवतानि यजूंषि । शरःशब्दो दध्युपरिस्थस्नेहवाचकः अत्र तु स्नेहमात्रवाची । शरसे स्नेहकर्त्रे पूष्णे वाताय प्राणरूपाय स्वाहा सुहुतमस्तु । ‘अवरᳪं᳭ स्वाहाकारं करोति परां देवताम्’ (१४ । २ । २ । ३२) इति श्रुतेरादौ स्वाहाकारस्ततो देवतापदानि । ‘अयं वै पूषा योऽयं पवत एष हीदᳪं᳭ सर्वं पुष्यत्येष उ प्राणः प्राणमेवास्मिन्नेतद्दधाति’ ( १४ । २ । २ । ३२) इति श्रुतिः । गृह्णन्ति ते ग्रावाणः प्राणा विषयग्रहणशीलाः तेभ्यः स्वाहा ‘प्राणा वै ग्रावाणः प्राणानेवास्मिन्नेतद्दधाति’ (१४ । २ । २ । ३३) इति श्रुतिः। प्रतिरुवन्ति शब्दं कुर्वन्ति प्रतिरमन्ते वा यान् प्राप्येति प्रतिरवाः तेभ्यः स्वाहा ‘प्राणा वै प्रतिरवाः प्राणान्हीदᳪं᳭ सर्वं प्रतिरतम्’ (१४ । २ । २ । ३४) इति श्रुतिः । ‘चतुर्थमहुतमुदङ्ङीक्षमाणो दक्षिणतो बर्हिष्युपगूहति’ ( का० २६ । ६। १४ )। चतुर्थं शकलमहुतमेवोदीचीं पश्यन् वेदेः दक्षिणभागे आतिथ्याबर्हिषि प्रवेशयतीत्यर्थः । पितृभ्यः स्वाहा । कीदृशेभ्यः । ऊर्ध्वबर्हिभ्यः ऊर्ध्वं प्रागग्रं बर्हिर्येषां ते ऊर्ध्वबर्हिषः तेभ्यः । सोमपाभ्य इत्यर्थः । तथा घर्मपावभ्यः घर्म पिबन्ति घर्मपावानः तेभ्यः स्वाहा । द्यावापृथिवीशब्देन प्राणोदानावुच्येते ताभ्यां सुहुतमस्तु । ‘प्राणोदानौ वै द्यावापृथिवी प्राणोदानावेवास्मिन्नेतद्दधाति’ (१४ । २ । २ । ३६) इति श्रुतिः । विश्वेभ्यो देवेभ्यः स्वाहा । ‘प्राणा वै विश्वेदेवाः प्राणानेवास्मिन्नेतद्दधाति’ (१४ । २ । २ । ३७) इति श्रुतिः ॥१५॥
षोडशी।
अधिमन्त्रम् (VC)
- पूषादयो लिङ्गोक्ता देवताः
- दीर्घतमा ऋषिः
- स्वराड्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - स्त्री-पुरुष को योग्य है कि (पूष्णे) पुष्टिकारक (शरसे) हिंसक के लिये (स्वाहा) सत्यक्रिया अर्थात् अधर्म से बचाने का उपाय (प्रतिरवेभ्यः) शब्द के प्रति शब्द करनेहारों के लिये (स्वाहा) सत्यवाणी (ग्रावभ्यः) गर्जनेवाले मेघों के लिये (स्वाहा) सत्यक्रिया (ऊर्द्ध्वबर्हिर्भ्यः) उत्तम कक्षा तक बढ़े हुए (घर्मपावभ्यः) यज्ञ से संसार को पवित्र करनेहारे (पितृभ्यः) रक्षक ऋतुओं के तुल्य वर्त्तमान सज्जनों के लिये (स्वाहा) सत्यवाणी (द्यावापृथिवीभ्याम्) सूर्य्य और आकाश के लिये (स्वाहा) सत्यक्रिया और (विश्वेभ्यः) समग्र (देवेभ्यः) पृथिव्यादि वा विद्वानों के लिये (स्वाहा) सत्यक्रिया वा सत्यवाणी का सदा प्रयोग किया करें ॥१५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - स्त्री-पुरुषों को चाहिये कि सत्यविज्ञान और सत्यक्रिया से ऐसा पुरुषार्थ करें, जिससे सबको पुष्टि और आनन्द होवे ॥१५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - स्त्रीपुरुषैः पूष्णे शरसे स्वाहा प्रतिरवेभ्यः स्वाहा ग्रावभ्यः स्वाहोर्द्ध्वबर्हिर्भ्यो घर्मपावभ्यः पितृभ्यः स्वाहा द्यावापृथिवीभ्यां स्वाहा विश्वेभ्यो देवेभ्यश्च स्वाहा सदा प्रयोज्या ॥१५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - स्त्रीपुरुषैः सत्येन विज्ञानेन सत्यया क्रिययेदृशः पुरुषार्थः कर्त्तव्यो येन विश्वं पुष्टमानन्दितं स्यात् ॥१५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - स्री-पुरुषांनी सत्य विज्ञान व सत्य क्रिया याद्वारे असा पुरुषार्थ करावा की, ज्यामुळे सर्वजण बलवान होऊन आनंदी बनावेत.
१६ स्वाहा रुद्राय
विश्वास-प्रस्तुतिः ...{Loading}...
स्वाहा॑ रु॒द्राय॑ रु॒द्रहू॑तये॒ स्वाहा॒ सं ज्योति॑षा॒ ज्योतिः॑। अहः॑ के॒तुना॑ जुषताँ सु॒ज्योति॒र्ज्योति॑षा॒ स्वाहा॑। रात्रिः॑ के॒तुना जुषताँ सु॒ज्योति॒र्ज्योति॑षा॒ स्वाहा॑। मधु॑ हु॒तमिन्द्र॑तमेऽअ॒ग्नाव॒श्याम॑ ते देव घर्म॒ नम॑स्तेऽअस्तु॒ मा मा॑ हिँसीः ॥१६ ॥
मूलम् ...{Loading}...
स्वाहा॑ रु॒द्राय॑ रु॒द्रहू॑तये॒ स्वाहा॒ सं ज्योति॑षा॒ ज्योतिः॑। अहः॑ के॒तुना॑ जुषताँ सु॒ज्योति॒र्ज्योति॑षा॒ स्वाहा॑। रात्रिः॑ के॒तुना जुषताँ सु॒ज्योति॒र्ज्योति॑षा॒ स्वाहा॑। मधु॑ हु॒तमिन्द्र॑तमेऽअ॒ग्नाव॒श्याम॑ ते देव घर्म॒ नम॑स्तेऽअस्तु॒ मा मा॑ हिँसीः ॥१६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स्वाहा॑। रु॒द्राय॑। रु॒दाय॑। रु॒द्रहू॑तये॒ इति॑ रुद्र॒ऽहू॑तये। स्वाहा॑। सम्। ज्योति॑षा। ज्योतिः॑। अह॒रित्यहः॑। के॒तुना॑। जु॒ष॒ता॒म्। सु॒ज्योति॒रिति॑ सु॒ऽज्योतिः॑। ज्योति॑षा। स्वाहा॑। रात्रिः॑। के॒तुना॑। जु॒ष॒ता॒म्। सु॒ज्योति॒रिति॑ सु॒ऽज्योतिः॑। ज्योति॑षा। स्वाहा॑। रात्रिः॑। के॒तुना॑। जु॒ष॒ता॒म्। सु॒ज्योति॒रिति॑। सु॒ऽज्योतिः॑। ज्योति॑षा। स्वाहा॑। मधु॑। हु॒तम्। इन्द्र॑तम॒ इतीन्द्र॑ऽतमे। अ॒ग्नौ। अ॒श्याम॑। ते॒। दे॒व॒। घ॒र्म॒। नमः॑। ते॒। अ॒स्तु॒। मा। मा॒। हिँ॒सीः॒। १६।
महीधरः
म० ‘सप्तमं च सर्वलेपाक्तं दक्षिणेक्षमाणः प्रतिप्रस्थात्रे प्रयच्छति’ ( का० २६ । ६ । १५)। मूलाग्रावधि घर्मघृताभ्यक्तं सप्तमं शकलं दक्षिणं पश्यन्प्रतिप्रस्थात्रे ददातीत्यर्थः । रुद्र इति स्तोतृनामसु पठितम् । रुद्रैः स्तोतृभिर्हूयते आहूयत इति रुद्रहूतिः तस्मै स्तोतृस्तुताय रुद्राय सुहुतमस्तु । एवं सप्तयजुषां मध्ये चतुर्थसप्तमयोर्विनियोग उक्तः शेषैः पञ्चशकलैराज्यहोमः (का० २६ । ६ । १७)। स्वाहा संज्योतिषेत्युपयमन्यामासिञ्चति घर्म्यं घर्मसंबन्धि घृतमुपयमन्यामासिञ्चति । पूर्वं स्रुक्स्थं घर्मे नीतमधुना घर्मस्थं स्रुचि नयतीत्यर्थः । पयोदेवत्यं यजुरनुष्टुप् । ज्योतिः घर्मस्थं घृतं ज्योतिषोपयमनीस्थेन घृतेन सङ्गच्छतां स्वाहा सुहुतमस्तु । ज्योतिर्वा इतरस्मिन् पयो भवति ज्योतिरितरस्यां ते ह्येतदुभे ज्योतिषी सङ्गच्छेते, (१४ । २ । २ । ४० ) इति श्रुतेः पयो देवता । ‘मन्त्रक्रमेणोत्तरᳪं᳭ रौहिणं जुहोति’ ( का० २६ । ६ । १८) । उत्तरं रौहिणं मन्त्रक्रमेण संज्योतिषा ज्योतिरेतन्मन्त्रकर्मणोऽनन्तरं जुहोतीत्यर्थः । अहः केतुना । व्याख्याते यजुषी ( अ०३७।क० २१)। ‘अग्निहोत्रावृता हुत्वा वाजिनवद्भक्षयन्ति मधु हुतमिति’ ( का० २६ । ६ । २०)। उपयमन्यामानीतं घर्माज्यमग्निहोत्रहोमप्रकारेण समन्त्रकं हुत्वा वाजिनवदुपहवप्रार्थनपूर्वकं भक्षयन्ति होत्रध्वर्युब्रह्मप्रस्तोतृप्रतिप्रस्थात्रग्नीद्यजमानाः । घर्मदेवत्यम् ऋग्बृहती । अग्नौ मधु मधुरं घर्माज्यं हुतमस्माभिः । कीदृशेऽग्नौ । इन्द्रतमे इन्द्रं वीर्यमस्यास्ति इन्द्रवान् अत्यन्तमिन्द्रवानिन्द्रतमः । वत्प्रत्यये लोपः वीर्यवत्तमे इत्यर्थः । ‘मधु हुतमिन्द्रियवत्तमेऽग्नावित्येवैतदाह’ (१४ । २ । २ । ४२) इति श्रुतेः । हे घर्म हे देव, ते तव हुतशेषमंशं वयमश्याम भक्षयाम । अश्नोतेर्विकरणव्यत्ययेन ‘बहुलं छन्दसि’ (पा०२। ४ । ७३ ) इति शपो लुक् । लिङि उत्तमबहुवचने । ते तुभ्यं नमोऽस्तु मा मां हिंसीः आत्मनः परित्राणमर्थ्यते ॥ १६ ॥
सप्तदशी।
अधिमन्त्रम् (VC)
- रुद्रादयो देवताः
- दीर्घतमा ऋषिः
- भुरिगतिधृतिः
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि वा पुरुष ! आप (केतुना) बुद्धि से (रुद्रहूतये) प्राण वा जीवों की स्तुति करनेवाले (रुद्राय) जीव के लिये (स्वाहा) सत्यवाणी से (ज्योतिषा) प्रकाश के साथ (ज्योतिः) प्रकाश को (स्वाहा) सत्यक्रिया से युक्त (ज्योतिषा) सत्य विद्या के उपदेशरूप प्रकाश के साथ (सुज्योतिः) सुन्दर विद्यादि सद्गुणों के प्रकाश तथा (अहः) दिन को (स्वाहा) सत्यक्रिया से (सम्, जुषताम्) सम्यक् सेवन करो (केतुना) संकेतरूप चिह्न और (ज्योतिषा) मननादि रूप प्रकाश के साथ (ज्योतिः) धर्मादिरूप सद्गुणों के प्रकाश और (रात्रिः) रात्रि को (स्वाहा) सत्यक्रिया) से (जुषताम्) सेवन करो। हे (घर्म) प्रकाशमान (देव) विद्वान् जन जिससे (ते) आपके लिये (इन्द्रतमे) अतिशय ऐश्वर्य्य के हेतु विद्युद्रूप (अग्नौ) अग्नि में (हुतम्) होम किये (मधु) मधुरादि गुणयुक्त घृतादि पदार्थ को घ्राण द्वारा (अश्याम) प्राप्त होवें (ते) आपके लिये (नमः) नमस्कार (अस्तु) प्राप्त हो आप (मा) मुझको (मा) मत (हिंसीः) मारिये ॥१६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को योग्य है कि प्राण, जीवन और समाज की रक्षा के लिये विज्ञान के साथ कर्म और दिन-रात्रि का युक्ति से सेवन करें और प्रतिदिन प्रातः-सायंकाल में कस्तूरी आदि सुगन्धित द्रव्ययुक्त घृत को अग्नि में होम कर वायु आदि की शुद्धि द्वारा नित्य आनन्दित होवें ॥१६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैः किं कर्त्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि पुरुष वा ! भवति भवन्वा केतुना रुद्राय रुद्रहूतये स्वाहा ज्योतिषा ज्योतिः स्वाहा ज्योतिषा सु्ज्योतिरहः स्वाहा संजुषताम्। केतुना ज्योतिषा सुज्योतिः रात्री रात्रिं स्वाहा जुषताम्। हे देव घर्म ! येन त इन्द्रतमेऽग्नौ मधु हुतमश्याम ते नमोऽस्तु, त्वं मा मा हिंसीः ॥१६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैः प्राणानां जीवनस्य समाजस्य च रक्षणाय विज्ञानेन कर्माण्यहोरात्रश्च युक्त्या सेवनीयः, प्रतिदिनं प्रातः सायं कस्तूर्यादिसुगन्धियुक्तं घृतं वह्नौ हुत्वा वाय्वादिशुद्धिद्वारा नित्यं मोदनीयम् ॥१६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी प्राण, जीवन व समाजाच्या रक्षणासाठी विज्ञानयुक्त कर्म करावे आणि दिवस व रात्र यांचा युक्तीपूर्वक वापर करावा. दररोज सकाळी व संध्याकाळी कस्तुरी वगैरे सुगंधित द्रव्ययुक्त तुपाची अग्नीमध्ये आहुती देऊन वायू इत्यादींना शुद्ध करून नित्य आनंद भोगावा.
१७ अभीमं महिमा
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒भी᳙मं म॑हि॒मा दिवं॒ विप्रो॑ बभूव स॒प्रथाः॑। उ॒त श्रव॑सा पृथि॒वीँ सँ सी॑दस्व म॒हाँ२ऽ अ॑सि॒ रोच॑स्व देव॒वीत॑मः। वि धू॒मम॑ग्नेऽअरु॒षं मि॑येद्ध्य सृ॒ज प्र॑शस्त दर्श॒तम् ॥१७ ॥
मूलम् ...{Loading}...
अ॒भी᳙मं म॑हि॒मा दिवं॒ विप्रो॑ बभूव स॒प्रथाः॑। उ॒त श्रव॑सा पृथि॒वीँ सँ सी॑दस्व म॒हाँ२ऽ अ॑सि॒ रोच॑स्व देव॒वीत॑मः। वि धू॒मम॑ग्नेऽअरु॒षं मि॑येद्ध्य सृ॒ज प्र॑शस्त दर्श॒तम् ॥१७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒भि। इ॒मम्। म॒हि॒मा। दिव॑म्। विप्रः॑। ब॒भू॒व॒। स॒प्रथा॒ इति॑ स॒ऽप्रथाः॑। उ॒त। श्रव॑सा। पृ॒थि॒वीम्। सम्। सी॒द॒स्व॒। म॒हान्। अ॒सि॒। रोच॑स्व। दे॒व॒वीत॑म॒ इति॑ देव॒ऽवीत॑मः। वि। धू॒मम्। अ॒ग्ने॒। अ॒रु॒षम्। मि॒ये॒ध्य॒। सृ॒ज। प्र॒श॒स्त॒। द॒र्श॒तम्। १७।
महीधरः
म० ‘अभीममिति महावीरम्’ ( का० २६ । ६ । २५)। प्रचरणीयं घर्ममासन्द्यां करोति मन्त्रेणेतराणि तूष्णीम् ततः शान्तिपाठ इत्यर्थः । गायत्रीबृहत्यौ मध्येऽवसानहीने अभीमं गायत्री संसीदस्व बृहती यद्वावसानत्रयोपेतातिशक्वरी षष्ठ्यक्षराग्निदेवत्या एकैव ऋक् ऋग्द्वयं वेत्यर्थः । हे अग्ने, तव महिमा इमं दिवमभिबभूव अभिभवति ‘छन्दसि लुङ्लिङ्लिटः’ (पा० ३। ४। ६) दिवशब्दः पुंलिङ्गः अर्धर्चादित्वात् । कीदृशो महिमा । विप्रः विशेषेण प्राति पूरयति सर्वमिति विप्रो मेधावी । सप्रथाः प्रथनं प्रथो विस्तारस्तेन सहितः सप्रथाः । उतापि च श्रवसा धनेन यशसा वा पृथिवीमभिभवतीत्यनुषङ्गः । संसीदस्वेति व्याख्यातैकादशेऽध्याये सप्तत्रिंशी कण्डिका । तत्र शोचस्वेति पाठेऽत्र रोचस्वेति अर्थ एक एव ॥ १७ ॥
अष्टादशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- दीर्घतमा ऋषिः
- निचृदतिशक्वरी
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (प्रशस्त) प्रशंसा को प्राप्त (मियेध्य) दुष्टों को दूर करनेहारे (अग्ने) अग्नि के तुल्य प्रकाशमान तेजस्वी विद्वन् ! (महिमा) महागुणविशिष्ट (सप्रथाः) प्रसिद्ध उत्तम कीर्तिवाले (विप्रः) बुद्धिमान् आप (इमम्) इस (दिवम्) अविद्यादि गुणों के प्रकाश को (अभि, बभूव) तिरस्कृत करते हैं (उत) और (श्रवसा) सुनने वा अन्न के साथ (पृथिवीम्) भूमि पर (सम्, सीदस्व) सम्यक् बैठिये, जिस कारण (देववीतमः) दिव्य गुणों वा विद्वानों के अतिशय कर प्राप्त होनेवाले (महान्) महात्मा (असि) हैं, जिससे (रोचस्व) सब ओर से प्रसन्न हूजिये और (अरुषम्) थोड़े लाल रङ्ग से युक्त इसी से (दर्शतम्) देखने योग्य (धूमम्) धुएँ को होम द्वारा (वि, सृज) विशेष कर उत्पन्न कीजिये ॥१७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यही मनुष्यों की महिमा है जो ब्रह्मचर्य के साथ विद्या को प्राप्त हो सर्वत्र फैलाकर शुभ गुणों का प्रचार करके सृष्टिविद्या की उन्नति करते हैं ॥१७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे प्रशस्त मियेध्याग्ने ! महिमा सप्रथा विप्रस्त्वमिमं दिवमभि बभूव। उतापि श्रवसा पृथिवीं सं सीदस्व यतो देववीतमो महानसि तस्माद्रोचस्वारुषं दर्शतं धूमं विसृज ॥१७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अयमेव मनुष्याणां महिमा यद् ब्रह्मचर्य्येण विद्यां प्राप्य सर्वत्र विस्तार्य्य शुभानां गुणानां प्रचारं कृत्वा सृष्टिविद्यामुन्नयन्ति ॥१७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे ब्रह्मचर्याने विद्या प्राप्त करतात. त्या विद्येचा व शुभगुणांचा सर्वत्र प्रसार करतात आणि सृष्टिविद्येची वाढ करतात तीच माणसे श्रेष्ठ असतात.
१८ या ते
विश्वास-प्रस्तुतिः ...{Loading}...
या ते॑ घर्म दि॒व्या शुग्या गा॑य॒त्र्याँ ह॑वि॒र्धाने॑। सा त॒ऽ आ प्या॑यता॒न्निष्ट्या॑यतां॒ तस्यै॑ ते॒ स्वाहा॑। या ते॑ घर्मा॒न्तरि॑क्षे॒ शुग्या त्रि॒ष्टुभ्याग्नी॑ध्रे। सा त॒ऽ आ प्या॑यता॒न्निष्ट्या॑यतां॒ तस्यै॑ ते॒ स्वाहा॑। या ते॑ घर्म पृथि॒व्याँ शुग्या जग॑त्याँ सद॒स्या᳖। सा त॒ऽ आ प्या॑यता॒न्निष्ट्या॑यतां॒ तस्यै॑ ते॒ स्वाहा॑ ॥१८ ॥
मूलम् ...{Loading}...
या ते॑ घर्म दि॒व्या शुग्या गा॑य॒त्र्याँ ह॑वि॒र्धाने॑। सा त॒ऽ आ प्या॑यता॒न्निष्ट्या॑यतां॒ तस्यै॑ ते॒ स्वाहा॑। या ते॑ घर्मा॒न्तरि॑क्षे॒ शुग्या त्रि॒ष्टुभ्याग्नी॑ध्रे। सा त॒ऽ आ प्या॑यता॒न्निष्ट्या॑यतां॒ तस्यै॑ ते॒ स्वाहा॑। या ते॑ घर्म पृथि॒व्याँ शुग्या जग॑त्याँ सद॒स्या᳖। सा त॒ऽ आ प्या॑यता॒न्निष्ट्या॑यतां॒ तस्यै॑ ते॒ स्वाहा॑ ॥१८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
या। ते॒। घ॒र्म॒। दि॒व्या। शुक्। या। गा॒य॒त्र्याम्। ह॒वि॒र्धान॒ इति॑ हविः॒ऽधाने॑। सा। ते॒। आ। प्या॒य॒ता॒म्। निः। स्त्या॒य॒ता॒म्। तस्यै॑। ते॒। स्वाहा॑। या। ते॒। घ॒र्म॒। अ॒न्तरि॑क्षे। शुक्। या। त्रि॒ष्टुभि॑। त्रि॒स्तुभीति॑ त्रि॒ऽस्तुभि॑। आग्नी॑ध्रे। सा। ते॒। आ। प्या॒य॒ता॒म्। निः। स्त्या॒य॒ता॒म्। तस्यै॑। ते॒। स्वाहा॑। या। ते॒। घ॒र्म॒। पृ॒थि॒व्याम्। शुक्। या। जग॑त्याम्। स॒द॒स्या᳖। सा। ते॒। आ। प्या॒य॒ता॒म्। निः। स्त्या॒य॒ता॒म्। तस्यै॑। ते॒। स्वाहा॑। १८।
महीधरः
म० ‘चतुर्ग्रहीतेनाभिजुहोति या ते घर्म दिव्या शुगिति प्रतिमन्त्रम्’ ( का० २६ । ७ । ४) । अध्वर्युराज्यं संस्कृत्य चतुर्गृहीतं कृत्वा तेन जुहोति अग्नीधा ध्रियमाणेषु त्रिषु शलाकात्रिकेषु त्रिभिर्मन्त्रैस्तृतीयेनोपविश्येत्यर्थः । त्रीणि यजूंषि घर्मदेवत्यानि ऋक्पङ्क्तयः । हे घर्म, या ते तव दिव्या दिवि भवा शुक् दीप्तिः या गायत्र्यां छन्दसि प्रविष्टा या हविर्धाने यज्ञगृहे प्रविष्टा सा ते तव शुक् आप्यायतां वर्धताम् । निष्याय यतां संहता दृढा भवतु । ‘ष्ठ्यै स्त्यै शब्दसङ्घातयोः’ लोट् । तस्यै शुचे ते तुभ्यं च स्वाहा । हे घर्म, याते तवान्तरिक्षे शुक् त्रिष्टुभिः छन्दसि अग्नीध्रसदने च प्रविष्टा सा त इति पूर्ववत् । या ते हे घर्म, पृथिव्यां शुक् जगत्यां छन्दसि प्रविष्टा । कीदृशी। सदस्या सदसि प्रविष्टा यज्ञगृहे स्थिता सा त इत्युक्तम् ॥१८॥
एकोनविंशी ।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- दीर्घतमा ऋषिः
- भुरिगाकृतिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर स्त्री-पुरुष क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (घर्म) प्रकाशस्वरूप विद्वन् ! वा विदुषी स्त्रि ! (या) जो (ते) तेरी (गायत्र्याम्) पढ़नेवालों की रक्षक विद्या और (हविर्धाने) होमने योग्य पदार्थों के धारण में (शुक्) विचार की साधनरूप क्रिया और (या) जो (दिव्या) दिव्य गुणों में हुई क्रिया है (सा) वह (ते) तेरी (आ, प्यायताम्) सब ओर से बढ़े और (निः, स्त्यायताम्) निरन्तर संयुक्त होवे (तस्यै) उस क्रिया और (ते) तेरे लिये (स्वाहा) प्रशस्त वाणी होवे। हे (घर्म) दिन के तुल्य प्रकाशित विद्यावाले जन वा स्त्रि ! (या) जो (ते) तेरी (अन्तरिक्षे) आकाश विषय में (शुक्) सूर्य्य की दीप्ति के समान विमानादि की गमन क्रिया और (या) जो (आग्नीध्रे) अग्नि के आश्रय में तथा (त्रिष्टुभि) त्रिष्टुप् छन्द से निकले अर्थ में विचाररूप क्रिया है (सा) वह (ते) तेरी (आ, प्यायताम्) बढ़े और (निः, स्त्यायताम्) निरन्तर संयुक्त होवे (तस्यै) उस क्रिया और (ते) तेरे लिये (स्वाहा) सत्यवाणी होवे। हे (घर्म) बिजुली के प्रकाश के तुल्य वर्त्तमान स्त्रि वा पुरुष ! (या) जो (ते) तेरी (पृथिव्याम्) भूमि पर और (या) जो (सदस्या) सभा में हुई (जगत्याम्) चेतन प्रजायुक्त सृष्टि में (शुक्) प्रकाशयुक्त क्रिया है, (सा) वह (ते) तेरी (आ, प्यायताम्) बढ़े और (निः, स्त्यायताम्) निरन्तर सम्बद्ध होवे (तस्यै) उस क्रिया तथा (ते) तेरे लिये (स्वाहा) सत्यवाणी होवे ॥१८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो स्त्री-पुरुष दिव्य क्रिया, शुद्ध उपासना और पवित्र विज्ञान को पाकर प्रकाशित हाते हैं, वे ही मनुष्यजन्म के फल से युक्त होते हैं, औरों को भी वैसा ही करें ॥१८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स्त्रीपुरुषाः किं कुर्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे घर्म विद्वन् ! विदुषि वा ! या ते गायत्र्यां हविर्धाने शुग्या च दिव्या वर्त्तते, सा त आप्यायतां निष्ट्यायतां तस्यै ते स्वाहा स्यात्। हे घर्म ! या तेऽन्तरिक्षे शुग्या आग्नीध्रे त्रिष्टुभि शुगस्ति, सा त आप्यायतां निष्ट्यायतां तस्यै ते स्वाहा। हे घर्म ! या ते पृथिव्यां या सदस्या जगत्यां शुगस्ति, सा त आप्यायतां निष्ट्यायतां तस्यै ते स्वाहा भवतु ॥१८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये स्त्रीपुरुषा दिव्यां क्रियां शुद्धामुपासनां पवित्रं विज्ञानं च प्राप्य प्रकाशन्ते, त एव मनुष्यजन्मफलापन्ना भवन्ति, अन्यानपि तथैव कुर्युः ॥१८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे स्री-पुरुष दिव्य कर्म, शुद्ध उपासना व पवित्र विज्ञान प्राप्त करून तेजस्वी बनतात. त्यांचाच मनुष्य जन्म सफल होतो. त्यामुळे इतरांनीही त्याप्रमाणे वागावे.
१९ क्षत्रस्य त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
क्ष॒त्रस्य॑ त्वा प॒रस्पा॑य॒ ब्रह्म॑णस्त॒न्वं᳖ पाहि। विश॑स्त्वा॒ धर्म॑णा व॒यमनु॑ क्रामाम सुवि॒ताय॒ नव्य॑से ॥१९ ॥
मूलम् ...{Loading}...
क्ष॒त्रस्य॑ त्वा प॒रस्पा॑य॒ ब्रह्म॑णस्त॒न्वं᳖ पाहि। विश॑स्त्वा॒ धर्म॑णा व॒यमनु॑ क्रामाम सुवि॒ताय॒ नव्य॑से ॥१९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
क्ष॒त्रस्य॑ त्वा॒। प॒रस्पा॑य। प॒रःपा॒येति॑ प॒रःऽपा॑य। ब्रह्म॑णः। त॒न्व᳖म्। पा॒हि। विशः॑। त्वा॒। धर्म॑णा। व॒यम्। अनु॑। क्रा॒मा॒म। सु॒वि॒ताय॑। नव्य॑से। १९।
महीधरः
म० ‘क्षत्राय त्वेति निष्क्रमणं पुरस्तात्पत्नीमन्तर्धाय’ ( का० २६ । ७ । ६ )। होमानन्तरमध्वर्युः पत्नीमग्रे कृत्वा शालाया निष्क्रामतीत्यर्थः । उपरिष्टाद्बृहती धर्मदेवत्या । हे घर्म, वयं त्वा त्वामनुक्रामाम अनुगच्छाम । त्वं ब्रह्मणः तन्वं शरीरं पाहि पालय । किमर्थमनुगमनम् । क्षत्रस्य क्षत्रियस्य दैवस्य सूर्यस्य परस्पाय परमपालनाय । परःशब्दोऽव्ययम् । पर उत्कृष्टं पायते रक्ष्यत इति परस्पं तस्मै । ‘एतद् वै दैवं क्षत्रं य एष तपति’ ( १४ । ३।१।९) इति श्रुतेः। किंच विशः यज्ञस्य धर्मणा धारणेन निमित्तेन वयं त्वामनुक्रामाम ‘यज्ञो वै विट्यज्ञस्य त्वारिष्ट्यै’ ( १४ । ३ । १ । ९) इति श्रुतेः । किमर्थम् । नव्यसे सुविताय नवीयसे नूतनाय सुगताय सुप्रसूताय कर्मणे कर्मसिद्ध्यर्थं त्वामनुगच्छामेत्यर्थः । सुष्ठु इतं सुवितम् ‘इण् गतौ’ क्तः उपसर्गस्योवङादेशः । यद्वा ‘षू प्रेरणे’ सूयते प्रेर्यते सुवितम् इडागमे धातोरुवङ् ॥ १९ ॥
विंशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- दीर्घतमा ऋषिः
- निचृदुपरिष्टाद्बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
अब राजा और प्रजा क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! वा राणी ! आप (परस्पाय) जिस कर्म से दूसरों की रक्षा हो, उस के लिये (क्षत्रस्य) क्षत्रिय कुल वा राज्य के तथा (ब्रह्मणः) वेदवित् ब्राह्मणकुल के सम्बन्धी (त्वा) आपके (तन्वम्) शरीर की (पाहि) रक्षा कीजिये, जैसे (वयम्) हम लोग (नव्यसे) नवीन (सुविताय) ऐश्वर्य्य की प्राप्ति के लिये (धर्मणा) धर्म के साथ (अनुक्रामाम) अनुकूल चलें, वैसे ही धर्म के साथ वर्त्तमान (त्वा) आपके अनुकूल (विशः) प्रजाजन चलें ॥१९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजा और राजपुरुषों को योग्य है कि धर्म के साथ विद्वानों और प्रजाजनों की रक्षा करें। वैसे ही प्रजा और राजपुरुषों को चाहिये कि राजा की सदैव रक्षा करें। इस प्रकार न्याय तथा विनय के साथ वर्त्तकर राजा और प्रजा नवीन ऐश्वर्य की उन्नति किया करें ॥१९ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ राजप्रजे किं कुर्य्यातामित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! राज्ञि वा ! त्वं परस्पाय क्षत्रस्य ब्रह्मणस्त्वा तन्वं पाहि। यथा वयं नव्यसे सुविताय धर्मणाऽनुक्रमाम, तथैव धर्मेण वर्त्तमानं त्वा विशोऽनुगच्छन्तु ॥१९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - राजा राजपुरुषैश्च धर्मेण विदुषः प्रजाश्च संरक्षणीयाः। एवं प्रजाभी राजपुरुषैश्च राजा सदा संरक्षणीय एवं न्यायविनयाभ्यां वर्त्तित्वा राजप्रजे नूतनमैश्वर्य्यमुन्नयेताम् ॥१९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजा व राजपुरुष यांनी विद्वान व प्रजा यांचे धर्माने रक्षण करावे, तसेच प्रजा व राजपुरुष यांनी राजाचे रक्षण करावे. याप्रमाणे न्यायाने आणि नम्रतेने वागून राजा व प्रजा यांनी ऐश्वर्य वाढवावे.
२० चतुःस्रक्तिर्नाभिर्ऋतस्य सप्रथाः
विश्वास-प्रस्तुतिः ...{Loading}...
चतुः॑स्रक्ति॒र्नाभि॑र्ऋ॒तस्य॑ स॒प्रथाः॒ स नो॑ वि॒श्वायुः॑ स॒प्रथाः॒ स नः॑ स॒र्वायुः॑ स॒प्रथाः॑। अप॒ द्वे॒षो॒ऽअप॒ ह्वरो॒ऽन्यव्र॑तस्य सश्चिम ॥२० ॥
मूलम् ...{Loading}...
चतुः॑स्रक्ति॒र्नाभि॑र्ऋ॒तस्य॑ स॒प्रथाः॒ स नो॑ वि॒श्वायुः॑ स॒प्रथाः॒ स नः॑ स॒र्वायुः॑ स॒प्रथाः॑। अप॒ द्वे॒षो॒ऽअप॒ ह्वरो॒ऽन्यव्र॑तस्य सश्चिम ॥२० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
चतुः॑स्रक्ति॒रिति॒ चतुः॑ऽस्रक्तिः। नाभिः॑। ऋ॒तस्य॑। स॒प्रथा॒ इति॑ स॒ऽप्रथाः॑। सः। नः॒। वि॒श्वायु॒रिति॑ वि॒श्वऽआ॑युः। स॒प्रथा॒ इति॑ स॒ऽप्रथाः॑। सः। नः॒। स॒र्वायु॒रिति॑ स॒र्वऽआ॑युः। स॒प्रथा॒ इति॑ स॒ऽप्रथाः॑। अप॑। द्वेषः॑। अप॑। ह्वरः॑। अ॒न्यव्र॑त॒स्येत्य॒न्यऽव्र॑तस्य। स॒श्चि॒म॒। २०।
महीधरः
म० ‘नाभिस्पृशं प्रवृञ्जनीयं निदधाति चतुःस्रक्तिरिति’ । ( का० २६ । ४ । १४ ) प्रवृञ्जनीयं महावीरमुत्तरवेदौ नाभिलग्नं स्थापयतीत्यर्थः । महाबृहती घर्मदेवत्या । स घर्मो नोऽस्माकं सर्वायुरस्तु सर्वं पूर्णमायुर्यस्मात्स सर्वायुः । पूर्णायुःप्रदोऽस्त्वित्यर्थः । पुनरुक्तिरादरार्था । कीदृशः सः । चतुःस्रक्तिः चतस्रः स्रक्तयः कोणा दिग्रूपा यस्य सः । ‘एष वै चतुःस्रक्तिर्य एष तपति दिशो ह्येतस्य स्रक्तयः’ (१४ । ३ । १ । १७) इति श्रुतेः । तथा ऋतस्य सत्यस्य यज्ञस्य वा नाभिः नहनं बन्धनस्थानम् । सप्रथाः सविस्तारः । विश्वायुः विश्वस्य जगतः आयुर्यस्मात् जगत आयुर्दाता । सप्रथाः सर्वतः प्रथयिता च । हे घर्म, त्वत्प्रसादात् द्वेषः अपगच्छत्विति शेषः । अस्मत्तो द्वेषः गच्छतु वीतरागाः स्यामेति भावः । ‘ह्वर चलने’ ह्वरः चलनं जन्ममरणलक्षणं चास्मत्तोऽपगच्छतु । वयमन्यव्रतस्य सश्चिम अन्यत् मनुष्यकर्मणः सकाशाद्भिन्नं व्रतं कर्म जगदनुग्रहरूपं यस्य सोऽन्यव्रतः परमात्मा तस्य । कर्मणि षष्ठी । ‘सश्च सेवने’ धातुः । अन्यव्रतं परमात्मानं सेवामहे सायुज्यं प्राप्नुम इति भावः । ‘अन्यद्वा एतस्य व्रतमन्यन्मनुष्याणाम्’ (१४ । ३।१।१९) इति श्रुतेः ॥ २० ॥
एकर्विशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- दीर्घतमा ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्य क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (चतुःस्रक्तिः) चार कोनेवाली (नाभिः) नाभि मध्य मार्ग के तुल्य निष्पक्ष (सप्रथाः) विस्तार के साथ वर्त्तमान सत्यपुरुष (अन्यव्रतस्य) दूसरे सब जगत् की रक्षा करने के स्वभाववाले (ऋतस्य) सत्यस्वरूप परमात्मा की सेवा करता (सः) वह (सप्रथाः) विस्तृत कार्य्योंवाला (विश्वायुः) सम्पूर्ण आयु से युक्त पुरुष (नः) हम लोगों को बोधित करे। (सः) वह (सप्रथाः) अधिक सुखी (सर्वायुः) समग्र अवस्थावाला पुरुष (नः) हमको ईश्वरसम्बन्धी विद्या का ग्रहण करावे, जिससे हम लोग (द्वेषः) द्वेषी शत्रुओं को (अप, सश्चिम) दूर पहुँचावें और (ह्वरः) कुटिल जनों को (अप) पृथक करें। वैसे तुम लोग भी करो ॥२० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे मनुष्यो ! जैसे रस को प्राप्त हुई नाभि रस को उत्पन्न कर शरीर के अवयवों को पुष्ट करती, वैसे सेवन किये विद्वान् वा उपासना किया परमेश्वर द्वेष और कुटिलतादि दोषों को निवृत्त करा कर सब जीवों की रक्षा करते वा करता है, उन विद्वानों और उस परमेश्वर की निरन्तर सेवा करनी चाहिये ॥२० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्याः किं कुर्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा चतुःस्रक्तिर्नाभिरिव सप्रथा अन्यव्रतस्यर्त्तस्य परमात्मनः सेवां करोति, स सप्रथा विश्वायुर्नोऽस्मान् बोधयतु, स सप्रथाः सर्वायुर्नः परमेश्वरविद्यां ग्राहयतु, येन वयं द्वेषोऽपसश्चिम, ह्वरोऽप सश्चिम, तथा यूयमपि कुरुत ॥२० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः ! यथा प्राप्तरसा नाभी रसमुत्पाद्य सर्वान् शरीरावयवान् पुष्णाति, तथा सेविता विद्वांस उपासितः परमेश्वरश्च द्वेषं कुटिलतादिदोषांश्च निवार्य्य सर्वान् जीवान् संरक्षतीति मत्वा तेषां तस्य च सततं सेवा कार्य्या ॥२० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे माणसांनो ! रस मिळाल्यामुळे नाभी जशी रस उत्पन्न करून त्या रसाने शरीराचे अवयव बलवान करते, तसे विद्वानांच्या संगतीने किंवा उपासना केल्याने परमेश्वर द्वेष, कुटिलता इत्यादी दोष नष्ट करून सर्व जीवांचे रक्षण करतो. त्या विद्वानांची व परमेश्वराची सतत सेवा करावी.
२१ घर्मैतत्ते पुरीषम्
विश्वास-प्रस्तुतिः ...{Loading}...
घर्मै॒तत्ते॒ पुरी॑षं॒ तेन॒ वर्द्ध॑स्व॒ चा च॑ प्यायस्व। व॒र्द्धि॒षी॒महि॑ च॒ व॒यमा च॑ प्यासिषीमहि ॥२१ ॥
मूलम् ...{Loading}...
घर्मै॒तत्ते॒ पुरी॑षं॒ तेन॒ वर्द्ध॑स्व॒ चा च॑ प्यायस्व। व॒र्द्धि॒षी॒महि॑ च॒ व॒यमा च॑ प्यासिषीमहि ॥२१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
घर्म॑। ए॒तत्। ते॒। पुरी॑षम्। तेन॑। वर्द्ध॑स्व। च॒। आ। च॒। प्या॒य॒स्व॒। व॒र्द्धि॒षी॒महि॑। च॒। व॒यम्। आ। च॒। प्या॒सि॒षी॒म॒हि॒। २१।
महीधरः
म० ‘आसेचनवन्ति पयसः पूरयति घर्मैतत्त इति’ ( का० २६ । ७ । ३२ )। आसेचनं गर्तः तद्युतानि पात्राणि दुग्धेन पूरयति तानि सप्त महावीरत्रयं द्वे पिन्वने उपयमनो स्रुवश्चेत्यर्थः । अनुष्टुप् घर्मदेवत्या । हे घर्म, एतत्पयः ते तव पुरीषम् पृणाति पूरयति पुरीषं पूरयितृ अन्नम् ‘अन्नं वै पुरीषमन्नमेवास्मिन्नेतद्दधाति’ ( १४ । ३ । १ । २३ ) इति श्रुतेः । तेन पयसा वर्धस्व आप्यायस्व च । भवत्प्रसादाद्वयं वर्धिषीमहि आप्यासिषीमहि चेति व्याख्यातम् ( अ० २ । क० १४ ) ॥२१॥
द्वाविंशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- दीर्घतमा ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (घर्म) अत्यन्त पूजनीय सब ओर से प्रकाशमय जगदीश्वर वा विद्वन् ! जो (एतत्) यह (ते) आपका (पुरीषम्) व्याप्ति वा पालन है (तेन) उससे आप (वर्द्धस्व) बुद्धि को प्राप्त हूजिये (च) और दूसरों को बढ़ाइये। आप स्वयं (आ, प्यायस्व) पुष्ट हूजिये (च) और दूसरों को पुष्ट कीजिये, आपकी कृपा वा शिक्षा से जैसे (वयम्) हम लोग (वर्द्धिषीमहि) पूर्ण वृद्धि को पावें (च) और वैसे ही दूसरों को बढ़ावें (च) और जैसे हम लोग (आ, प्यासिषीमहि) सब ओर से बढ़ें, वैसे दूसरों को निरन्तर पुष्ट करें, वैसे तुम लोग भी करो ॥२१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेष और वाचकलुप्तोपमालङ्कार हैं। हे मनुष्यो ! जैसे सर्वत्र अभिव्याप्त ईश्वर ने सबकी रक्षा वा पुष्टि की है, वैसे ही बढ़े हुए पुष्ट हम लोगों को चाहिये कि सब जीवों को बढ़ावें और पुष्ट करें ॥२१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे घर्म ! सर्वतः प्रकाशमय जगदीश्वर विद्वन् ! वा यदेतत्ते पुरीषमस्ति, तेन त्वं वर्द्धस्व चाऽन्यान् वर्द्धय, स्वयमाप्यायस्वाऽन्यांश्च पोषय। तव कृपया शिक्षया वा यथा वयं वर्द्धिषीमहि, तथा चाऽन्यान् वयं वर्द्धयेम। यथा च वयमाप्यासिषीमहि तथाऽन्यान् समन्ततः पोषयेम तथा यूयमपि कुरुत ॥२१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र श्लेषवाचकलुप्तोपमालङ्कारौ। हे मनुष्याः ! यथेश्वरेण सर्वत्राभिव्याप्तेन सर्वं रक्ष्यते पोष्यते च, तथैव वर्द्धमानैः पुष्टैरस्माभिः सर्वे जीवा वर्द्धनीयाः पोषणीयाश्च ॥२१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेष व वाचकलुप्तोपमालंकार आहे. हे माणसांनो ! सर्वत्र व्याप्त असलेल्या ईश्वराने सर्वांचे रक्षण किंवा पोषण केलेले आहे, तसेच आम्हीही सर्व जीवांना वाढवावे व बलवान करावे.
२२ अचिक्रदद् वृषा
विश्वास-प्रस्तुतिः ...{Loading}...
अचि॑क्रद॒द् वृषा॒ हरि॑र्म॒हान् मि॒त्रो न द॑र्श॒तः। सँ सूर्य्ये॑ण दिद्युतदुद॒धिर्नि॒धिः ॥२२ ॥
मूलम् ...{Loading}...
अचि॑क्रद॒द् वृषा॒ हरि॑र्म॒हान् मि॒त्रो न द॑र्श॒तः। सँ सूर्य्ये॑ण दिद्युतदुद॒धिर्नि॒धिः ॥२२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अचि॑क्रदत्। वृषा॑। हरिः॑। म॒हान्। मि॒त्रः। न। द॒र्श॒तः। सम्। सूर्य्ये॑ण। दि॒द्यु॒त॒त्। उ॒द॒धिरित्यु॑द॒ऽधिः। नि॒धिरिति॑ नि॒ऽधिः। २२।
महीधरः
म० ‘त्रिः परिषिच्याचिक्रददिति’ (का० २६ । ७ । १२)। सामगानान्तरमुत्सादनदेशे परिषिच्य वक्ष्यमाणं करोतीत्यर्थः । परोष्णिक् घर्मदेवत्या । घर्मः सूर्यात्मना स्तूयते । वृषा आहुतिद्वारेण वृष्टिकर्ता घर्मः प्रवृज्यमानः सन् अचिक्रदत् ‘क्रदि शब्दे’ पुनः पुनः शब्दमकरोत् । कीदृशः । हरिः हरितवर्णः रसानां हर्ता वा ‘एष वै वृषा हरिर्य एष तपत्येष उ प्रवर्ग्यः’ (१४ । ३ । १।२६) इति श्रुतिः । महान् प्रभावान् । मित्रो न दर्शतः । न उपमार्थः । मित्र इव दर्शनीयः । अतएव सूर्येण सह स दिद्युतत् सूर्यतुल्यो द्योतते । द्युतेर्लुङि णिजन्तस्य रूपमडभावः । सूर्यवत् सर्वं द्योतयतीत्यर्थः । उदधिः उदकं धीयते यस्मिन् । जलस्य धर्ता निधिः सुखानामिति शेषः । सुखनिधिः ॥ २२ ॥
त्रयोविंशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- दीर्घतमा ऋषिः
- परोष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (वृषा) वर्षा का निमित्त (हरिः) शीघ्र चलनेवाला (महान्) सबसे बड़ा (अचिक्रदत्) शब्द करता हुआ (मित्रः, न) मित्र के तुल्य (दर्शतः) देखने योग्य (सूर्येण) सूर्य के साथ (उदधिः, निधिः) जिसमें पदार्थ रक्खे जाते तथा जिसमें जल इकट्ठे होते उस समुद्र वा आकाश में (सम्, दिद्युतत्) सम्यक् प्रकाशित होता है, वही बिजुली रूप अग्नि सबको कार्य में लाने योग्य है ॥२२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। हे मनुष्यो ! जैसे बैल वा घोड़े शब्द करते और जैसे मित्र मित्रों को तृप्त करता है, वैसे ही सब लोकों के साथ वर्त्तमान विद्युद्रूप अग्नि सबको प्रकाशित करता है, उसको जानो ॥२२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यो वृषा हरिर्महानचिक्रदन्मित्रो न दर्शतः सूर्येण सह उदधिर्निधिरिव संदिद्युतत् स एव विद्युद्रूपोऽग्निः सर्वैः संप्रयोज्यः ॥२२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। हे मनुष्याः ! यथा वृषभास्तुरङ्गाश्च शब्दायन्ते यथा सखा सखीन् प्रीतयति, तथैव सर्वैर्लोकैः सह वर्त्तमाना विद्युत् सर्वान् प्रकाशयति तां विजानीत ॥२२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहेत. हे माणसांनो ! पर्जन्याचे निमित्त असलेला, घोडे व बैलाप्रमाणे आवाज करणारा, मित्राप्रमाणे तृप्त करणारा, आकाशात किंवा समुद्रात असलेला विद्युतरूपी अग्नी सर्वांना प्रकाशित करतो हे जाणा.
२३ सुमित्रिया नऽ
विश्वास-प्रस्तुतिः ...{Loading}...
सु॒मि॒त्रि॒या न॒ऽ आप॒ऽ ओष॑धयः सन्तु दुर्मित्रि॒यास्तस्मै॑ सन्तु॒। यो᳙ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः ॥२३ ॥
मूलम् ...{Loading}...
सु॒मि॒त्रि॒या न॒ऽ आप॒ऽ ओष॑धयः सन्तु दुर्मित्रि॒यास्तस्मै॑ सन्तु॒। यो᳙ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः ॥२३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सु॒मि॒त्रि॒या इति॑ सुऽमि॒त्रि॒याः। नः॒। आपः॑। ओष॑धयः। स॒न्तु॒। दु॒र्मि॒त्रि॒या इति॑ दुःमित्रि॒याः। तस्मै॑। स॒न्तु॒। यः। अ॒स्मान्। द्वेष्टि॑। यम्। च॒। व॒यम्। द्वि॒ष्मः। २३।
महीधरः
म० ‘चात्वाले मार्जयन्ते सपत्नीकाः सुमित्रिया न इति’ ( का० २६ । ७।३७)। सपत्नीका ऋत्विग्यजमानाः चात्वाले मार्जनं कुर्वते । पत्न्या अपि मन्त्रपाठः व्याख्याता (अ० ६ । क. २२ ) ॥ २३ ॥
चतुर्विंशी।
अधिमन्त्रम् (VC)
- आपो देवताः
- दीर्घतमा ऋषिः
- निचृदनुष्टुप्
- गान्धारः
२४ उद्वयन्तमसस्परि स्वः
विश्वास-प्रस्तुतिः ...{Loading}...
उद्व॒यन्तम॑स॒स्परि॒ स्वः पश्य॑न्त॒ऽ उत्त॑रम्। दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥२४ ॥
मूलम् ...{Loading}...
उद्व॒यन्तम॑स॒स्परि॒ स्वः पश्य॑न्त॒ऽ उत्त॑रम्। दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥२४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उत्। व॒यम्। तम॑सः। परि॑। स्व᳖रिति॒ स्वः᳖। पश्य॑न्तः। उत्त॑र॒मित्यु॑त्ऽत॑रम्। दे॒वम्। दे॒व॒त्रेति॑ देव॒ऽत्रा। सूर्य्य॑म्। अग॑न्म। ज्योतिः॑। उ॒त्त॒ममित्यु॑त्ऽत॒मम्। २४।
महीधरः
म० ‘उद्वयमित्युत्क्रामत्युत्तरपूर्वार्धम्’ ( का० २६ । ७। ३८ ) । ऐशानीं दिशं प्रति यजमानो गच्छतीत्यर्थः । व्याख्याता ( अ० २० । क० २१) ॥ २४ ॥
पञ्चविंशी।
अधिमन्त्रम् (VC)
- सविता देवता
- दीर्घतमा ऋषिः
- विराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
कैसा पुरुष सुख को प्राप्त होवे, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (वयम्) हम लोग (तमसः) अन्धकार से पृथक् वर्त्तमान (उत्तरम्) सब पदार्थों से उत्तर भाग में वर्त्तमान (देवत्रा) दिव्य उत्तम पदार्थों में (देवम्) उत्तम गुण-कर्म-स्वभाववाले (उत्तमम्) सबसे श्रेष्ठ (ज्योतिः) सबके प्रकाशक (सूर्य्यम्) सूर्य के तुल्य प्रकाशस्वरूप ईश्वर को (पश्यन्तः) ज्ञानदृष्टि से देखते हुए (स्वः) सुख को (परि, उत् अगन्म) सब ओर से उत्कृष्टता के साथ होवें, वैसे ही तुम लोग भी प्राप्त होओ ॥२४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो मनुष्य विद्युत् आदि विद्या को प्राप्त हो परमात्मा को साक्षात् देखें, वे प्रकाशित हुए निरन्तर सुख को प्राप्त होवें ॥२४ ॥
दयानन्द-सरस्वती (सं) - विषयः
कीदृशो जनः सुखमाप्नुयादित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा वयं यं तमसः पृथग् वर्त्तमानमुत्तरं देवत्रा देवमुत्तमं ज्योतिः सूर्यं पश्यन्तः सन्तः स्वः सुखं पर्युदगन्म, तथैव यूयमपि प्राप्नुत ॥२४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये मनुष्या विद्युदादिविद्यां प्राप्य परमात्मानं साक्षात् पश्येयुस्ते प्रकाशिताः सन्तः सुखमवाप्नुयुः ॥२४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जी माणसे विद्युत इत्यादींची विद्या प्राप्त करतात व परमेश्वराचे साक्षात दर्शन करतात. ती तेजस्वी बनून सतत सुख भोगतात.
२५ एधोऽस्येधिषीमहि समिदसि
विश्वास-प्रस्तुतिः ...{Loading}...
एधो॑ऽस्येधिषी॒महि॑ स॒मिद॑सि॒ तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि ॥२५ ॥
मूलम् ...{Loading}...
एधो॑ऽस्येधिषी॒महि॑ स॒मिद॑सि॒ तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि ॥२५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
एधः॑। अ॒सि॒। ए॒धि॒षी॒महि॑। स॒मिदिति॑ स॒म्ऽइत्। अ॒सि॒। तेजः॑। अ॒सि॒। तेजः॑। मयि॑। धे॒हि॒। २५।
महीधरः
म० ‘अनपेक्षमेत्यैधोऽसीति समिधमादायाहवनीयेऽभ्यादधाति समिदसीति’ (का० २६ । ७ । ३५)। यजमानः पश्चादनवलोकयन्नीशानदेशादेत्यैधोऽसीति मन्त्रेणैकां समिधं गृहीत्वा समिदसीति मन्त्रेणाहवनीये दधातीत्यर्थः । मन्त्रद्वयं व्याख्यातम् ( अ० २० । क० २३ ) ॥ २५ ॥
षड्विंशी।
अधिमन्त्रम् (VC)
- ईश्वरो देवता
- दीर्घतमा ऋषिः
- साम्नी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब अग्नि के मिष से योगियों के कर्त्तव्य विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे परमेश्वर ! जो आप हमारे आत्माओं में (एधः) प्रकाश करनेवाले इन्धन के तुल्य प्रकाशक (असि) हैं, (समित्) सम्यक् प्रदीप्त समिधा के समान (असि) हैं, (तेजः) प्रकाशमय बिजुली के तुल्य सब विद्या के दिखानेवाले (असि) हैं, सो आप (मयि) मुझ में (तेजः) तेज को (धेहि) धारण कीजिये, आपको प्राप्त होकर हम लोग (एधिषीमहि) सब ओर से वृद्धि को प्राप्त होवें ॥२५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जैसे र्इंधन से और घी से अग्नि की ज्वाला बढ़ती है, वैसे उपासना किये जगदीश्वर से योगियों के आत्मा प्रकाशित होते हैं ॥२५ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथाऽग्निमिषेण योगिकृत्यमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे परमेश्वर ! यस्त्वमस्मदात्मस्वेध इव प्रकाशकोऽसि, समिदिवाऽसि तेजोवत् सर्वविद्यादर्शकोऽसि, स त्वं मयि तेजो धेहि, भवन्तं प्राप्य वयमेधिषीमहि ॥२५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यथेन्धनेन घृतेन चाग्नेर्ज्वाला वर्द्धते, तथैवोपासितेन जगदीश्वरेण योगिनामात्मानः प्रकाशिता भवन्ति ॥२५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! इंधनाने व तुपाने जशी अग्नीची ज्वाला वाढते तसे उपासना केल्याने योग्याच्या आत्म्यात परमेश्वर प्रकाश पाडतो.
२६ यावती द्यावापृथिवी
विश्वास-प्रस्तुतिः ...{Loading}...
याव॑ती॒ द्यावा॑पृथि॒वी याव॑च्च स॒प्त सिन्ध॑वो वितस्थि॒रे। ताव॑न्तमिन्द्र ते॒ ग्रह॑मू॒र्जा गृ॑ह्णा॒म्यक्षि॑तं॒ मयि॑ गृह्णा॒म्यक्षि॑तम् ॥२६ ॥
मूलम् ...{Loading}...
याव॑ती॒ द्यावा॑पृथि॒वी याव॑च्च स॒प्त सिन्ध॑वो वितस्थि॒रे। ताव॑न्तमिन्द्र ते॒ ग्रह॑मू॒र्जा गृ॑ह्णा॒म्यक्षि॑तं॒ मयि॑ गृह्णा॒म्यक्षि॑तम् ॥२६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
याव॑ती॒ऽइति॒ याव॑ती। द्यावा॑पृथि॒वीऽइति॒ द्यावा॑पृथि॒वी। याव॑त्। च॒। स॒प्त। सिन्ध॑वः। वि॒त॒स्थि॒रे इति॑ विऽतस्थि॒रे। ताव॑न्तम्। इ॒न्द्र॒। ते॒। ग्र॑हम्। ऊ॒र्जा। गृ॒ह्णा॒मि॒। अक्षि॑तम्। मयि॑। गृ॒ह्णा॒मि॒। अक्षि॑तम्। २६।
महीधरः
म०. ‘यावती द्यावापृथिवी इति दधिघर्मग्रहणम्’ (का० | २। ६ । ७ । ५४ ) । सपवित्रायामग्निहोत्रहवण्यां दधिघर्मं गृह्णातीत्यर्थः । ब्राह्मी उष्णिक दधिघर्मदेवत्या इन्द्रदेवत्या च । हे इन्द्र, ऊर्जा अन्नेन सह अक्षितमनुपक्षीणं ते तव ग्रहं तावन्तं तत्परिमाणमहं गृह्णामि । मयि च अक्षितं यथा स्यात्तथा गृह्णामि। तव ग्रहग्रहणेन मयि यज्ञक्षयो मास्त्वित्यर्थः । तावन्तं कियन्तम् । द्यावापृथिवी यावती द्यावाभूमी यत्परिमाणे। च पुनः सप्त सिन्धवः सप्त समुद्राः क्षीरोदाद्याः यावत् यत्परिमाणे देशे | वितस्थिरे विशेषेण स्थिताः तावन्तमतिमहत्तरं दधिघर्मं गृह्णामीत्यर्थः ॥ २६॥
सप्तविंशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- दीर्घतमा ऋषिः
- स्वराट्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर विद्वान् लोग क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) विद्युत् के समान वर्त्तमान परमेश्वर ! (ते) आपकी (यावती) जितनी (द्यावापृथिवी) सूर्य-भूमि (च) और (यावत्) जितने बड़े (सप्त) (सिन्धवः) सात समुद्र (वितस्थिरे) विशेषकर स्थित हैं, (तावन्तम्) उतने (अक्षितम्) नाशरहित (ग्रहम्) ग्रहण के साधनरूप सामर्थ्य को (ऊर्जा) बल के साथ मैं (गृह्णामि) स्वीकार करता तथा उतने (अक्षितम्) नाशरहित सामर्थ्य को मैं (मयि) अपने में (गृह्णामि) ग्रहण करता हूँ ॥२६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्वानों को योग्य है कि जहाँ तक हो सके, वहाँ तक पृथिवी और बिजुली आदि के गुणों को ग्रहण कर अक्षय सुख को प्राप्त होवें ॥२६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्विद्वांसः किं कुर्य्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे इन्द्र ! ते यावती द्यावापृथिवी यावच्च सप्त सिन्धवो वितस्थिरे, तावन्तमक्षितं ग्रहमूर्जाऽहं गृह्णामि तावन्तमक्षितमहं मयि गृह्णामि ॥२६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - विद्वद्भिर्यावच्छक्यं तावत्पृथिवीविद्युदादिगुणान् गृहीत्वाऽक्षयं सुखमाप्तव्यम् ॥२६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - विद्वानांनी जोपर्यंत होईल तोपर्यंत पृथ्वी व विद्युत इत्यादींचे गुणग्रहण करून सतत सुख प्राप्त करावे.
२७ मयि त्यदिन्द्रियम्
विश्वास-प्रस्तुतिः ...{Loading}...
मयि॒ त्यदि॑न्द्रि॒यं बृ॒हन्मयि॒ दक्षो॒ मयि॒ क्रतुः॑। घ॒र्मस्त्रि॒शुग्वि रा॑जति वि॒राजा॒ ज्योति॑षा स॒ह ब्रह्म॑णा॒ तेज॑सा स॒ह ॥२७ ॥
मूलम् ...{Loading}...
मयि॒ त्यदि॑न्द्रि॒यं बृ॒हन्मयि॒ दक्षो॒ मयि॒ क्रतुः॑। घ॒र्मस्त्रि॒शुग्वि रा॑जति वि॒राजा॒ ज्योति॑षा स॒ह ब्रह्म॑णा॒ तेज॑सा स॒ह ॥२७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मयि॑। त्यत्। इ॒न्द्रि॒यम्। बृ॒हत्। मयि॑। दक्षः॑। मयि॑। क्रतुः॑। घ॒र्मः। त्रि॒शुगिति॑ त्रि॒ऽशुक्। वि। रा॒ज॒ति॒। वि॒राजेति॑ वि॒ऽराजा॑। ज्योति॑षा। स॒ह। ब्रह्म॑णा। तेज॑सा। स॒ह। २७।
महीधरः
म० ‘मयि त्यदिति भक्षणम्’ ( का० २६ । ७ । ५५)। हुतशेषं दधिघर्मं यजमानर्त्विजः सोपहवं भक्षयन्तीत्यर्थः। पङ्क्तिः अष्टाक्षरपञ्चपादा दधिघर्मदेवत्या यजमानाशीर्देवतेति केचित् । बृहत् महत् त्यत् तत् इन्द्रियं प्रसिद्धं वीर्यं मयि विराजति | विराजतु लकारव्यत्ययः । दक्षः संकल्पसिद्धिः मयि विराजतु । क्रतुः सत्संकल्पो मयि विराजतु । विशेषेण राजते विराट् तेन जगत्प्रसिद्धेन ज्योतिषा तेजसा आदित्याख्येन सह ब्रह्मणा त्रयीलक्षणेन ज्योतिषा च सह घर्मो मयि विराजतु । कीदृशो घर्मः । त्रिशुक् तिस्रः शुचः दीप्तयो यस्य सः तास्तिस्रः शुचो या ते घर्म दिव्या शुगित्यष्टादश्यां कण्डिकायां शालाकमन्त्रे व्याख्याताः ॥ २७ ॥
अष्टविंशी।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां अष्टत्रिंशोऽध्यायः ॥ ३८ ॥
अधिमन्त्रम् (VC)
- यज्ञो देवता
- दीर्घतमा ऋषिः
- पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब मनुष्यों को क्या वस्तु सुख देता है, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (विराजा) विशेषकर प्रकाशक (ज्योतिषा) प्रदीप्त ज्योति के (सह) साथ और (ब्रह्मणा, तेजसा) तीक्ष्ण कार्यसाधक धन के (सह) साथ (त्रिशुक्) कोमल, मध्यम और तीव्र दीप्तियोंवाला (घर्मः) प्रताप (विराजति) विशेष प्रकाशित होता है, वैसे (मयि) मुझ जीवात्मा में (बृहत्) बड़े (त्यत्) उस (इन्द्रियम्) मन आदि इन्द्रिय (मयि) मुझ में (दक्षः) बल और (मयि) मुझ में (क्रतुः) बुद्धि वा कर्म विशेषकर प्रकाशित होता है, वैसे तुम लोगों के बीच भी यह विशेषकर प्रकाशित होवे ॥२७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे मनुष्यो ! जैसे अग्नि, विद्युत् और सूर्यरूप से तीन प्रकार का प्रकाश जगत् को प्रकाशित करता है, वैसे उत्तम बल, कर्म, बुद्धि, धर्म से संचित धन, जीता गया इन्द्रिय महान् सुख को देता है ॥२७ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ मनुष्यान् किं सुखयतीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा विराजा ज्योतिषा सह ब्रह्मणा तेजसा सह च त्रिशुग् घर्मो विराजति, तथा मयि बृहत् त्यदिन्दियं मयि दक्षो मयि क्रतुर्विराजति तथा युष्मासु स्वयं विराजताम् ॥२७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः ! यथाऽग्निविद्युत्सूर्य्यरूपेण त्रिविधः प्रकाशो जगत् प्रकाशयति, तथोत्तमं बलं कर्म प्रज्ञा धर्मसञ्चितं धनं जितमिन्द्रयं बृहत्सुखं प्रयच्छति ॥२७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे माणसांनो ! जसे अग्नी, विद्युत व सूर्य या तीन रूपांनी जग प्रकाशित होते. तसे उत्तम बल, कर्म, बुद्धी धर्माने प्राप्त केलेले धन व जितेंद्रियता यामुळे माणसांना महान सुख प्राप्त होते.
२८ पयसो रेतऽआभृतम्
विश्वास-प्रस्तुतिः ...{Loading}...
पय॑सो॒ रेत॒ऽआभृ॑तं॒ तस्य॒ दोह॑मशीम॒ह्युत्त॑रामुत्तराँ॒ समा॑म्। त्विषः॑ सं॒वृक् क्रत्वे॒ दक्ष॑स्य ते सुषु॒म्णस्य॑ ते सुषुम्णाग्निहु॒तः। इन्द्र॑पीतस्य प्र॒जाप॑तिभक्षितस्य॒ मधु॑मत॒ऽ उप॑हूत॒ऽ उप॑हूतस्य भक्षयामि ॥२८ ॥
मूलम् ...{Loading}...
पय॑सो॒ रेत॒ऽआभृ॑तं॒ तस्य॒ दोह॑मशीम॒ह्युत्त॑रामुत्तराँ॒ समा॑म्। त्विषः॑ सं॒वृक् क्रत्वे॒ दक्ष॑स्य ते सुषु॒म्णस्य॑ ते सुषुम्णाग्निहु॒तः। इन्द्र॑पीतस्य प्र॒जाप॑तिभक्षितस्य॒ मधु॑मत॒ऽ उप॑हूत॒ऽ उप॑हूतस्य भक्षयामि ॥२८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पय॑सः। रेतः॑। आभृ॑त॒मित्याऽभृ॑तम्। तस्य॑। दोह॑म्। अ॒शी॒म॒हि॒। उत्त॑रामुत्तरा॒मित्युत्त॑राम्ऽउत्त॑राम्। समा॑म्। त्विषः॑। सं॒वृगिति॑ स॒म्ऽवृक्। क्रत्वे॑। दक्ष॑स्य। ते॒। सु॒षु॒म्णस्य॑। सु॒सु॒म्नस्येति॑ सुऽसु॒म्नस्य॑। ते॒। सु॒षु॒म्ण॒। सु॒सु॒म्नेति॑ सुऽसुम्न। अ॒ग्नि॒हु॒त इत्य॑ग्निऽहु॒तः। इन्द्र॑पीत॒स्येतीन्द्रऽपीतस्य। प्र॒जाप॑तिभक्षित॒स्येति॑ प्र॒जाप॑तिऽभक्षितस्य। मधु॑मत॒ इति॒ मधु॑ऽमतः। उप॑हूत॒ इत्युप॑ऽहूतः। उप॑हूत॒स्येत्युप॑ऽहूतस्य। भ॒क्ष॒या॒मि॒। २८।
महीधरः
म०. गायत्र्यवसानहीना दधिघर्मभक्षणे एवं विनियुक्ता । पयसो रेतो वीर्यं सारं जगदुत्पत्तिबीजं यत् आभृतमाहृतम् दधिघर्मरूपं यत् तस्य दोहं प्रपूरणं वयमुत्तरामुत्तरां समामुत्तरोत्तरस्मिन् वर्षे अशीमहि व्याप्नुयाम ‘कालाध्वनोः-(पा० २।३।५) इति द्वितीया । वयं सर्वदा यायजूकाः स्यामेत्यर्थः। ‘त्विषः संवृगिति महाव्रतीये’ ( का० २६ । ७।५६) महाव्रतीयेऽहनि त्विष इति मन्त्रेण हुतशेषदधिघर्मभक्षणं कार्यमित्यर्थः । अतिजगती दधिघर्मदेवत्या । संवृणक्ति स्वीकरोतीति संवृक् स्वीकर्ता । संपूर्वो वृजिः स्वीकरणार्थः । हे त्विषः संवृक् कान्तेः स्वीकर्तः, हे सुषुम्ण, शोभनं सुम्नं सुखं यस्मात् सुषुम्णः तत्संबोधनम् हे सुखदातः, हे दधिघर्म, अहमुपहूतः कृतोपहवः सन् ते तवांशं भक्षयामि । कर्मणि षष्ठी वा । त्वां भक्षयामि । एकस्तेशब्दः पादपूरणः । कीदृशस्य ते । क्रत्वे दक्षस्य । चतुर्थी षष्ठ्यर्थे । क्रतोः संकल्पस्य दक्षः सिद्धिदाता तस्य संकल्पसिद्धिदातुः । क्रतुशब्दस्य चतुर्थ्येकवचने गुणाभाव आर्षः । तथा सुषुम्णस्य शोभनसुखभूतस्य । अग्निहुतः अग्नौ हूयत इत्यग्निहुत् तस्य अग्नौ हुतस्य । इन्द्रपीतस्य इन्द्रेण पीतो भक्षितस्तस्य । प्रजापतिभक्षितस्य प्रजापतिना भक्षितस्तस्य । मधुमतः मधुरस्वादोपेतस्य । उपहूतस्य कृतोपहवस्य । एवंविधस्य तवांशं हे दधिघर्म, अहं भक्षयामीत्यर्थः । समाप्ता घर्मेतिकर्तव्यता ॥ २८ ॥
श्रीमन्महीधरकृते वेददीपे निरूपितः।
अष्टत्रिंशोऽयमध्यायो महावीरनिरूपणः ॥ ३८ ॥
अधिमन्त्रम् (VC)
- यज्ञो देवता
- दीर्घतमा ऋषिः
- स्वराड्धृतिः
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्य क्या-क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सुषुम्ण) शोभन सुखयुक्त जन ! जैसे आपने जिस (पयसः) जल वा दूध के (रेतः) पराक्रम को (आभृतम्) पुष्ट वा धारण किया (तस्य) उसकी (दोहम्) पूर्णता तथा (उत्तरामुत्तराम्) उत्तर-उत्तर (समाम्) समय को (अशीमहि) प्राप्त होवें। उस (ते) आपकी (क्रत्वे) बुद्धि के लिये (त्विषः) प्रकाशित (दक्षस्य) बल के और (ते) आपकी पुष्टि वा धारण को प्राप्त होवें (सुषुम्णस्य) सुन्दर सुख देनेवाले (इन्द्रपीतस्य) सूर्य्य वा जीव ने ग्रहण किये (प्रजापतिभक्षितस्य) प्रजारक्षक ईश्वर ने सेवन वा जीव ने भोजन किये (उपहूतस्य) समीप लाये हुए (मधुमतः) दूध वा जल के दोषों को (संवृक्) सम्यक् अलग करनेवाला (उपहूतः) समीप बुलाया गया और (अग्निहुतः) अग्नि में होम करनेवाला मैं (भक्षयामि) भोजन वा सेवन करूँ ॥२८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को योग्य है कि सदा वीर्य बढ़ावें, विद्यादि शुभगुणों का धारण करें, प्रतिदिन सुख बढ़ावें। जैसे अपना सुख चाहें, वैसे औरों के लिये भी सुख की आकाङ्क्षा किया करें ॥२८ ॥ इस अध्याय में इस सृष्टि में शुभगुणों का ग्रहण, अपना और दूसरों का पोषण, यज्ञ से जगत् के पदार्थों का शोधन, सर्वत्र सुखप्राप्ति का साधन, धर्म का अनुष्ठान, पुष्टि का बढ़ाना, ईश्वर के गुणों की व्याख्या, सब ओर से बल बढ़ाना और सुखभोग कहा है, इससे इस अध्याय में कहे अर्थ की पूर्व अध्याय के अर्थ के साथ संगति जाननी चाहिये ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्याणां श्रीमत्परमविदुषां श्रीविरजानन्दसरस्वतीस्वामिनां शिष्येण श्रीमद्दयानन्दसरस्वतीस्वामिना निर्मिते संस्कृतार्य्यभाषाभ्यां समन्विते सुप्रमाणयुक्ते यजुर्वेदभाष्येऽष्टात्रिंशोऽध्यायः समापनमगमत् ॥३८॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्याः किं किं कुर्य्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सुषुम्ण ! यथा त्वया यस्य पयसो रेत आभृतं तस्य दोहमुत्तरामुत्तरां समां वयमशीमहि, तस्य ते क्रत्वे त्विषो दक्षस्य त आभृतमशीमहि, सुषुम्णस्येन्द्रपीतस्य प्रजापतिभक्षितस्योपहूतस्य मधुमतः पयसो दोषान् संवृक् सन्नुपहूतोऽग्निहुतोऽहं भक्षयामि ॥२८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैः सदा वीर्य्यं वर्द्धनीयं विद्यादिगुणा धर्त्तव्याः प्रतिदिनः सुखं वर्द्धनीयं यथा स्वस्य सुख-मिच्छेयुस्तथाऽन्येषामप्याकाङ्क्षेरन्निति ॥२८ ॥ अस्मिन्नध्यायेऽस्यां सृष्टौ शुभगुणग्रहणं स्वस्य परस्य च पोषणं यज्ञेन जगत्पदार्थशोधनं सर्वत्र सुखप्राप्तिसाधनं धर्मानुष्ठानं पुष्टिवर्द्धनमीश्वरगुणव्याख्या सर्वतो बलवर्द्धनं सुखभोगश्चोक्ताऽत एतदध्यायोक्तार्थस्य पूर्वाध्यायेन सह सङ्गतिरस्तीति वेद्यम् ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी नेहमी शक्ती वाढवावी. विद्या वगैरे शुभगुण धारण करावेत. दररोज सुख वाढवावे. जशी आपल्याला सुखाची इच्छा असते तशीच इतरांनाही असते हे लक्षात ठेवावे.