०१ अपेतो यन्तु
विश्वास-प्रस्तुतिः ...{Loading}...
अपे॒तो य॑न्तु प॒णयोऽसु॑म्ना देवपी॒यवः॑। अ॒स्य लो॒कः सु॒ताव॑तः। द्युभि॒रहो॑भिर॒क्तुभि॒र्व्य᳖क्तं य॒मो द॑दात्वव॒सान॑मस्मै ॥१ ॥
मूलम् ...{Loading}...
अपे॒तो य॑न्तु प॒णयोऽसु॑म्ना देवपी॒यवः॑। अ॒स्य लो॒कः सु॒ताव॑तः। द्युभि॒रहो॑भिर॒क्तुभि॒र्व्य᳖क्तं य॒मो द॑दात्वव॒सान॑मस्मै ॥१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अप॑। इ॒तः। य॒न्तु॒। प॒णयः॑। असु॑म्ना। दे॒व॒पी॒यव॒ इति॑ दे॑वऽपी॒यवः॑। अ॒स्य। लो॒कः। सु॒ताव॑तः। सु॒तव॑त॒ इति॑ सु॒तऽव॑तः। द्युभि॒रिति॒ द्युभिः॑। अहो॑भि॒रित्यहः॑ऽभिः। अ॒क्तुभि॒रित्य॒क्तुऽभिः॑। व्य᳖क्त॒मिति॒ विऽअ॑क्तम्। य॒मः। द॒दा॒तु॒। अ॒व॒सान॒मित्य॑व॒ऽसान॑म्। अ॒स्मै॒। १।
महीधरः
म० त्रयस्त्रिंशेऽध्याये सर्वमेधसंबन्धिनः कियतो मन्त्रानुक्त्वा प्रवायुमच्छेत्यारभ्य ( ३३ । ५५) अनारभ्याधीतान्मन्त्रानुक्त्वा चतुस्त्रिंशेऽध्याये तानेव समाप्येदानीं पञ्चत्रिंशेऽध्याये पितृमेधसंबन्धिनो मन्त्रा उच्यन्ते । स च पितृमेधो मृतस्य वर्षास्मरणे भवति । वर्षस्मृतौ तु विषमवर्षेषु भवति एकतारकनक्षत्रे चित्रादौ दर्शे वा ग्रीष्मे शरदि माघे भवति । पितृमेधं करिष्यता द्विजेन कुम्भेऽस्थिसंचयः कार्यः। मृतस्य च यावन्तोऽमात्यपुत्रपौत्रास्तावन्तः कुम्भाः कर्मदिने आनेयाः कुम्भेभ्योऽधिकानि छत्राणि च । ततोऽरण्ये कुम्भे कृतमस्थिसंचयनं ग्रामसमीपे समानीय शय्यायां कुम्भं संस्थाप्याहतवस्त्रैकदेशेन संवेष्ट्य मोहमयवादित्रेषु वाद्यमानेषु वीणायां च वाद्यमानायां मृतस्य पुत्रपौत्रा उत्तरीयैर्व्यजनैश्चास्थिकुम्भं वीजयन्तस्त्रिस्त्रिः प्रदक्षिणं परियन्ति । स्त्रियोऽपीति केचित् । रात्रेः पूर्वमध्यापरभागेषु तद्दिने बह्वन्नदानं कुर्वन्ति नृत्यगीतवादित्राणि च कारयन्ति अस्थिकुम्भायान्नमुपहरन्ति च । तत उपप्रातरस्थिकुम्भसहिताः पूर्वोक्तान्कुम्भाञ्छत्राणि चादाय ग्रामाद्दक्षिणस्यां बहिर्गच्छन्त्यध्वर्युयजमानामात्याः । श्मशानान्तं कर्म कुर्वतो यथा रविरुदयेत्तथा रात्रावारब्धव्यम् । तत्र वने गत्वा ग्रामान्मार्गादश्वत्थतिल्वकहरिद्रुस्फूर्जकविभीतकश्लेष्मातककोविदारादिभ्यश्च दूरे अन्यवृक्षगुल्मादिवृते ऊषरे वोदकप्रवणे दक्षिणप्रवणे समे वा सुखकारिणि रम्ये वनादुदकाद्वा पूर्वभागे उत्तरभागे वा वर्तमाने गर्तवति वीरणतृणवति प्रदेशे श्मशानार्थं दिक्कोणं पुरुषप्रमाणं क्षेत्रं मिमीते । पैतृक्यां द्विपुरुषं समचतुरस्रं कृत्वा करणीमध्येषु शङ्कवः स समाधिरिति ( यजुःपरिशिष्ट० ७॥२) शुल्बोक्तविधिना तच्चतुरस्रमुत्तरतः पश्चाच्च पृथु भवति । तत्र साधनप्रकारः पूर्वदक्षिणपार्श्वयोर्नवाङ्गुलानि स्वत्रयोदशांशेनाङ्गुलचतुर्थभागसहितानि पुरुषप्रमाणमध्ये न्यूनानि कार्याणि पश्चिमोत्तरपार्श्वयोस्तावन्ति पुरुषप्रमाणादधिकानि । तथाहि पुरुषमात्रक्षेत्रस्याक्ष्णया प्राचीं कृत्वा तत्प्रान्तयोः शङ्कुं निखाय सार्धाष्टादशाङ्गुलहीनां पुरुषद्वयप्रमाणामुभयतःपाशां रज्जुं मध्यमदेशे सलक्षणां कृत्वा पूर्वापरयोः शङ्कोस्तस्याः पाशौ प्रतिमुच्य मध्यलक्षणेन दक्षिणत आयम्य दक्षिणः कोणः साधनीयः । ततः सार्धाष्टादशाङ्गुलाधिकां पुरुषद्वयप्रमाणां रज्जुमुभयतःपाशां मध्यलक्षणयुतां कृत्वा शङ्कोः पाशौ प्रतिमुच्य मध्यलक्षणेनोत्तरत आयम्योत्तरकोणः साध्य इति । ततः पूर्वादिकोणेषु पालाशशमीवारणाश्ममयाश्चत्वारः शङ्कवो निखेयाः । एतत्कुर्वतां निकटे कश्चिद्यजमानपुरुषस्तृणपूलकमुच्छ्रित्य धारयेत् । कर्मसमाप्तौ गृहमागत्य तं गृहेषुच्छ्रयेत प्रजावृद्ध्यै इत्यादि बोध्यम् । कात्यायनः ‘अपसलवि सृष्ट्या रज्वा परितत्याऽपेतो यन्त्विति पलाशशाखया व्युदूहति’ (२१।३ । ३२ ) इति । अपसलवि अप्रादक्षिण्येन निष्पादितया रज्ज्वा तत्क्षेत्रं समन्तादप्रदक्षिणं संवेष्ठ्यापेतो यन्त्विति मन्त्रेण क्षेत्रमध्यपतितं तृणपर्णादिकं पलाशशाखया कृत्वा क्षेत्राद्बहिर्निष्कासयतीति सूत्रार्थः ॥ अस्याघ्यायस्य पितरो देवताः आदित्या ऋषयो देवा वा । आद्या गायत्री । पणन्ति परद्रव्यैर्व्यवहरन्तीति पणयोऽसुराः इतोऽपयन्तु अपगच्छन्तु ‘व्यवहिताश्च’ (पा. १।४। ८२) इत्युपसर्गस्य यन्त्विति क्रियापदेन व्यवधानम् । किंभूताः पणयः । असुम्नाः सुम्नमिति सुखनाम । नास्ति सुम्नं येभ्यस्ते असुखकराः। तथा देवपीयवः । पीयतिर्हिंसाकर्मा । देवान्पीयन्ति हिंसन्ति ते देवपीयवः देवद्विषः । किमित्यसुराणामपगमोऽर्थ्यते तत्राह । अस्य लोकः अस्य यजमानस्यास्थिभूतस्यायं लोकः स्थानम् । किंभूतस्यास्य । सुतवतः सोमाभिषवं कृतवतः सुषावेति सुतवान् तस्य ‘षुञ् अभिषवे’ क्तवतुप्रत्ययान्तः ‘अश्वरश्मिमतिसु. मती’ (३।६ । २) इत्यादिना प्रातिशाख्यसूत्रेण संहितायां सुतशब्दस्याकारे दीर्घः । द्युभिरहोभिरिति यजुः । यमोऽस्मै । यजमानायावसानं ददातु । अवस्यन्त्यस्मिन्नित्यवसानं स्थानम् । किंभूतं । द्युभिर्ऋतुभिः अहोभिः दिवसैः अक्तुभिः रात्रिभिश्च व्यक्तं स्पष्टीकृतम् । द्युशब्देन श्रुतौ ऋतव उक्ताः ‘तदेनमृतुभिश्चाहोरात्रैश्च सलोकं करोति’ ( १३ । ८ । २ । ३) इति श्रुतेः । क्रत्वाद्यधिष्ठातृदेवताभिः प्रकटितमस्मै यमो ददात्वित्यर्थः ॥ १॥
द्वितीया। ।
अधिमन्त्रम् (VC)
- पितरो देवताः
- आदित्या देवा ऋषयः
- पिपीलिकामध्या निचृद्गायत्री, प्राजापत्या बृहती
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब व्यवहार और जीव की गति विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (देवपीयवः) विद्वानों के द्वेषी (पणयः) व्यवहारी लोग दूसरों के लिये (असुम्नाः) दुःखों को देते हैं, वे (इतः) यहाँ से (अप, यन्तु) दूर जावें (लोकः) देखने योग्य (यमः) सबका नियन्ता परमात्मा (द्युभिः) प्रकाशमान (अहोभिः) दिन (अक्तुभिः) और रात्रियों के साथ (अस्य) इस (सुतावतः) वेद वा विद्वानों से प्रेरित प्रशस्त कर्मोंवाले जनों के सम्बन्धी (अस्मै) इस मनुष्य के लिये (व्यक्तम्) प्रसिद्ध (अवसानम्) अवकाश को (ददातु) देवे ॥१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो लोग आप्त सत्यवादी धर्मात्मा विद्वानों से द्वेष करते, वे शीघ्र ही दुःख को प्राप्त होते हैं। जो जीव शरीर छोड़ के जाते हैं, उनके लिये यथायोग्य अवकाश देकर उनके कर्मानुसार परमेश्वर सुख-दुःख फल देता है ॥१ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ व्यवहारजीवयोर्गतिमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये देवपीयवः पणयोऽसुम्नाऽन्येभ्यो ददति, त इतोऽपयन्तु लोको यमो द्युभिरहोभिरक्तुभिरस्य सुतावतो जनस्य सम्बन्धिनेऽस्मै व्यक्तमवसानं ददातु ॥१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - य आप्तान् विदुषो द्विषन्ति, ते सद्यो दुःखमाप्नुवन्ति। ये जीवाः शरीरं त्यक्त्वा गच्छन्ति तेभ्यो यथायोग्यमवकाशं दत्त्वा परमेश्वरस्तेषां कर्मानुसारेण सुखदुःखानि ददति ॥१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे लोक आप्त, सत्यवादी, धर्मात्मा, विद्वानांचा द्वेष करतात. ते लवकरच दुःखी होतात. जे जीव शरीर सोडून जातात. त्यांना परमेश्वर त्यााच्या कमानुसार सुख दुःखाचे यथायोग्य फळ देतो.
०२ सविता ते
विश्वास-प्रस्तुतिः ...{Loading}...
स॒वि॒ता ते॒ शरी॑रेभ्यः पृथि॒व्यां लो॒कमि॑च्छतु। तस्मै॑ युज्यन्तामु॒स्रियाः॑ ॥२ ॥
मूलम् ...{Loading}...
स॒वि॒ता ते॒ शरी॑रेभ्यः पृथि॒व्यां लो॒कमि॑च्छतु। तस्मै॑ युज्यन्तामु॒स्रियाः॑ ॥२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स॒वि॒ता। ते॒ शरी॑रेभ्यः। पृ॒थि॒व्याम्। लो॒कम्। इ॒च्छ॒तु॒। तस्मै॑। यु॒ज्य॒न्ता॒म्। उ॒स्रियाः॑। २।
महीधरः
म० ‘औदुम्बरसीर उत्तरतो वा षङ्गवे युज्यमाने युङ्क्तेति संप्रेष्य सविता त इति जपति’ ( का० २१।३ । ३४ ) इति । | ततोऽध्वर्युस्तां पलाशशाखां दक्षिणस्यां निरस्य परिश्रिद्भिर्वेष्टयित्वा तत्क्षेत्रस्य दक्षिणत उत्तरतो वा षड्भिरनडुद्भिः सीरं युनक्ति । तस्मिन् युज्यमाने युङ्क्तेति संप्रेष्य सवितेति मन्त्रं जपति । गायत्री । हे यजमान, सविता सूर्यः ते तव शरीरेभ्यः शरीराणां विभक्तिव्यत्ययः । पृथिव्यां लोकं स्थानमिच्छतु सवित्रनुज्ञां विना न केनापि स्थातुं शक्यते । द्वितीयं वाक्यमाह तस्मै इति । तस्मै सवित्रा दत्ताय क्षेत्राय संस्कारार्थम् उस्रियाः , अनड्वाहो युज्यन्तां युक्ता भवन्तु ॥ २ ॥
तृतीया।
अधिमन्त्रम् (VC)
- सविता देवता
- आदित्या देवा ऋषयः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर ईश्वर के कर्त्तव्य विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे जीव ! (सविता) परमात्मा जिस (ते) तेरे (शरीरेभ्यः) जन्म-जन्मान्तरों के शरीरों के लिये (पृथिव्याम्) अन्तरिक्ष वा भूमि में (लोकम्) कर्मों के अनुकूल सुख-दुःख के साधन प्रापक स्थान को (इच्छतु) चाहे (तस्मै) उस तेरे लिये (उस्रियाः) प्रकाशरूप किरण (युज्यन्ताम्) अर्थात् उपयोगी हों ॥२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे जीवो ! जो जगदीश्वर तुम्हारे लिये सुख चाहता है और किरणों के द्वारा लोक-लोकान्तर को पहुँचाता है, वही तुम लोगों को न्यायकारी मानना चाहिये ॥२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनरीश्वरकर्त्तव्यविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे जीव ! सविता यस्य ते शरीरेभ्यः पृथिव्यां लोकमिच्छतु, तस्मै तुभ्यमुस्रिया युज्यन्ताम् ॥२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे जीवा ! यो जगदीश्वरो युष्मभ्यं सुखमिच्छति, किरणद्वारा लोकलोकान्तरं प्रापयति, स एव युष्माभिर्न्यायकारी मन्तव्यः ॥२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे जीवांनो ! जो जगदीश्वर तुम्हाला सुख देऊ इच्छितो व किरणांद्वारे लोकलोकांतरी पोहोचवून कर्माप्रमाणे सुख-दुःखकारक साधन देतो. त्यालाच तुम्ही न्यायकारी मानले पाहिजे.
०३ वायुः पुनातु
विश्वास-प्रस्तुतिः ...{Loading}...
वा॒युः पु॑नातु सवि॒ता पु॑नात्व॒ग्नेर्भ्राज॑सा॒ सूर्य॑स्य॒ वर्च॑सा। वि मु॑च्यन्तामु॒स्रियाः॑ ॥३ ॥
मूलम् ...{Loading}...
वा॒युः पु॑नातु सवि॒ता पु॑नात्व॒ग्नेर्भ्राज॑सा॒ सूर्य॑स्य॒ वर्च॑सा। वि मु॑च्यन्तामु॒स्रियाः॑ ॥३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वा॒युः। पु॒ना॒तु॒। स॒वि॒ता। पु॒ना॒तु॒। अ॒ग्नेः। भ्राज॑सा। सूर्य्य॑स्य॒ वर्च॑सा। वि। मु॒च्य॒न्ता॒म्। उ॒स्रियाः॑। ३।
महीधरः
म० ‘अनुरज्जु चतस्रः सीताः कृषति वायुः पुनात्विति प्रतिमन्त्रमुत्तरतः प्रतीचीं प्रथमामिति’ (का० २११४।१-२)। अध्वर्युः परितो वेष्टितां रजुमनुलक्षीकृत्य वायुः पुनात्विति प्रतिमन्त्रं पादेन पादेन चतस्रः सीताः अप्रदक्षिणं कृषति । तत्र प्रथमां सीतामुत्तरपार्श्वे प्रतीचीं कृषति । दक्षिणतः सीरयोजनपक्षेऽपि तत्सीरमप्रदक्षिणमुत्तरत आनीय प्रथममुत्तरत एव कृषति । तदपसलवि पर्याहृत्योत्तरतः प्रतीचीं प्रथमाᳪं᳭ सीतां कृषति वायुः पुनात्विति सविता पुनात्विति जघनार्धन दक्षिणामग्नेर्भ्राजसेति दक्षिणार्धेन प्राचीᳪं᳭, सूर्यस्य वर्चसेत्यग्रेणोदीचीं’ (१३ । ८ । २ । ६) इति श्रुतेः । चत्वारि यजूंषि लिङ्गोक्तदेवतानि । हे पृथिवि, वायुः त्वां पुनातु विदारयतु । सूर्यः त्वां पुनातु अग्नेर्भ्राजसा दीप्त्या सूर्यस्य वर्चसा तेजसा च त्वां विदारयतु। ‘अनडुहो विमुच्य विमुच्यन्तामिति’ (का० २१।४।४) एवं पूर्वोक्तचतुर्मन्त्रैः पार्श्वचतुष्के कर्षणं कृत्वा मध्येऽपि सर्वं क्षेत्रं यथा कृष्टं भवति तथा परिमिताः सीताः कृत्वा वृषभान्सीराद्विमुञ्चति । यजुः वृषदैवतम् । उस्रा धेनुः तदपत्यानि उस्रियाः अनड्वाहो विमुच्यन्तां सीराद्वियुज्यन्ताम् ॥ ३ ॥
चतुर्थी ।
अधिमन्त्रम् (VC)
- वायुः सविता च देवते
- आदित्या देवा ऋषयः
- उष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
जीवों की कर्मगति का विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम (वायुः) पवन (अग्नेः) बिजुली की (भ्राजसा) दीप्ति से (सूर्यस्य) सूर्य के (वर्चसा) तेज से जिन हम लोगों को (पुनातु) पवित्र करे (सविता) सूर्य (पुनातु) पवित्र करे (उस्रियाः) किरण (विमुच्यन्ताम्) छोड़ें ॥३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जब जीव शरीरों को छोड़ के विद्युत्, सूर्य के प्रकाश और वायु आदि को प्राप्त होकर जाते हैं और गर्भ में प्रवेश करते हैं, तब किरण उनको छोड़ देती हैं ॥३ ॥
दयानन्द-सरस्वती (सं) - विषयः
जीवानां कर्मगतिविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! वायुरग्नेर्भ्राजसा सूर्यस्य वर्चसा यानस्मान् पुनातु सविता पुनातु उस्रिया विमुच्यन्ताम् ॥३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदा जीवाः शरीराणि त्यक्त्वा विद्युतं सूर्यप्रकाशं वाय्वादीनि च प्राप्य गच्छन्ति, गर्भं प्रविशन्ति, तदा किरणास्तान् त्यजन्ति ॥३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जेव्हा जीव शरीरांना सोडून विद्युत, सूर्याचा प्रकाश व वायू इत्यादीमध्ये राहतात व गर्भात प्रवेश करतात तेव्हा (प्रकाश) किरणे त्यांना सोडून जातात.
०४ अश्वत्थे वो
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒श्व॒त्थे वो॑ नि॒षद॑नं प॒र्णे वो॑ वस॒तिष्कृ॒ता। गो॒भाज॒ऽइत्किला॑सथ॒ यत्स॒नव॑थ॒ पू॑रुषम् ॥४ ॥
मूलम् ...{Loading}...
अ॒श्व॒त्थे वो॑ नि॒षद॑नं प॒र्णे वो॑ वस॒तिष्कृ॒ता। गो॒भाज॒ऽइत्किला॑सथ॒ यत्स॒नव॑थ॒ पू॑रुषम् ॥४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒श्व॒त्थे। वः॒। नि॒षद॑नम्। नि॒सद॑न॒मिति॑ नि॒ऽसद॑नम्। प॒र्णे। वः॒। व॒स॒तिः। कृ॒ता। गो॒भाज॒ इति॑ गो॒ऽभाजः॑। इ॒त्। किल॑। अ॒स॒थ॒। यत्। स॒नव॑थ। पूरु॑षम्। पुरु॑ष॒मिति॒ पुरु॑षम्। ४।
महीधरः
म० ‘दक्षिणा सीरं निरस्याश्वत्थे व इति सर्वौषधं वपतीति’ (का. २१ । ४ । ४) हलं दक्षिणदिशि तूष्णीं प्रक्षिप्य कृष्टक्षेत्रमध्ये सर्वोषधं वपति । अनुष्टुप् व्याख्याता (अ० १२ । क० ७९) ॥ ४ ॥
पञ्चमी।
अधिमन्त्रम् (VC)
- वायुसवितारौ देवते
- आदित्या देवा वा ऋषयः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे जीवो ! जिस जगदीश्वर ने (अश्वत्थे) कल ठहरेगा वा नहीं ऐसे अनित्य संसार में (वः) तुम लोगों की (निषदनम्) स्थिति की (पर्णे) पत्ते के तुल्य चञ्चल जीवन में (वः) तुम्हारा (वसतिः) निवास (कृता) किया। (यत्) जिस (पूरुषम्) सर्वत्र परिपूर्ण परमात्मा को (किल) ही (सनवथ) सेवन करो, उसके साथ (गोभाजः) पृथिवी, वाणी, इन्द्रिय वा किरणों का सेवन करनेवाले (इत्) ही तुम लोग प्रयत्न के साथ धर्म में स्थिर (असथ) होओ ॥४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि अनित्य संसार में अनित्य शरीरों और पदार्थों को प्राप्त हो के क्षणभङ्गुर जीवन में धर्माचरण के साथ नित्य परमात्मा की उपासना कर आत्मा और परमात्मा के संयोग से उत्पन्न हुए नित्य सुख को प्राप्त हों ॥४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैः किं कर्त्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे जीवा ! येन जगदीश्वरेणाश्वत्थे वो निषदनं कृतं पर्णे वो वसतिः कृता। यत्पूरुषं किल सनवथ तेन सह गोभाज इद्यूयं प्रयत्नेन धर्मेऽसथ ॥४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैरनित्ये संसारेऽनित्यानि शरीराणि पदार्थांश्च प्राप्य क्षणभङ्गुरे जीवने धर्माचरणेन नित्यं परमात्मानमुपास्याऽऽत्मपरमात्मसंयोगजं नित्यं सुखं प्रापणीयम् ॥४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी अनित्य संसारात शरीर व पदार्थ प्राप्त झाल्यानंतर धर्माचरणाने या क्षणभंगूर जीवनात नित्य परमेश्वराची उपासना करावी व आत्मा आणि परमात्मा यांच्या संयोगाने उत्पन्न झालेले नित्य सुख भोगावे.
०५ सविता ते
विश्वास-प्रस्तुतिः ...{Loading}...
स॒वि॒ता ते॒ शरी॑राणि मा॒तुरु॒पस्थ॒ऽआ व॑पतु। तस्मै॑ पृथिवि॒ शं भ॑व ॥५ ॥
मूलम् ...{Loading}...
स॒वि॒ता ते॒ शरी॑राणि मा॒तुरु॒पस्थ॒ऽआ व॑पतु। तस्मै॑ पृथिवि॒ शं भ॑व ॥५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स॒वि॒ता। ते॒। शरी॑राणि। मा॒तुः। उ॒पस्थ॒ इत्यु॒प॑ऽस्थे॑। आ। व॒प॒तु॒। तस्मै॑। पृ॒थि॒वि॒। शम्। भ॒व॒। ५।
महीधरः
म० ‘सविता त इति शरीराणि निवपति मध्ये इति’ (का० २१ । ४ । ५) । तस्य पुरुषमात्रस्य क्षेत्रस्य मध्ये शरीराणि मृतस्यास्थीनि राशीकरोति । एतच्च सूर्योदयकालं कर्तव्यम् ‘यथा कुर्वतोऽभ्युदियात्’ (१३ । ८।३।२) इति श्रुतेः । गायत्री सवितृदेवत्या । हे यजमान, सविता सूर्यः ते तव शरीराणि अस्थीनि मातुः पृथिव्याः उपस्थे उत्सङ्गे आवपतु स्थापयतु । हे पृथिवि भूमे, तस्मै सवित्रोप्तायास्थिरूपाय यजमानाय शं भव सुखरूपा भव ॥ ५॥
षष्ठी।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- आदित्या देवा ऋषयः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
कन्या क्या करे, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (पृथिवि) भूमि के तुल्य सहनशील कन्या ! तू जिस (ते) तेरे (शरीराणि) आश्रयों को (मातुः) माता के तुल्य मान्य देनेवाली पृथिवी के (उपस्थे) समीप में (सविता) उत्पत्ति करनेवाला पिता (आ, वपतु) स्थापित करे, सो तू (तस्मै) उस पिता के लिये (शम्) सुखकारिणी (भव) हो ॥५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे कन्याओ ! तुमको उचित है कि विवाह के पश्चात् भी माता और पिता में प्रीति न छोड़ो, क्योंकि उन्हीं दोनों से तुम्हारे शरीर उत्पन्न हुए और पाले गये हैं इससे ॥५ ॥
दयानन्द-सरस्वती (सं) - विषयः
कन्या किं कुर्यादित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे पृथिवि ! त्वं यस्यास्ते शरीराणि मातुरुपस्थे सविता आ वपतु, सा त्वं तस्मै पित्रे शम्भव ॥५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे कन्ये ! युष्माभिर्विवाहानन्तरमपि जनकस्य जनन्याश्च मध्ये प्रीतिर्नैव त्याज्या, कुतस्ताभ्यामेव युष्माकं शरीराणि निर्मितानि पालितानि च सन्त्यतः ॥५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे मुलांनो ! विवाहानंतरही माता व पिता यांच्यावरील प्रेम कमी करू नका. कारण त्या दोघांकडून तुमची शरीरे उत्पन्न झालेली आहेत व पोषणही झालेले आहे.
०६ प्रजापतौ त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
प्र॒जाप॑तौ त्वा दे॒वता॑या॒मुपो॑दके लो॒के नि द॑धाम्यसौ। अप॑ नः॒ शोशु॑चद॒घम् ॥६ ॥
मूलम् ...{Loading}...
प्र॒जाप॑तौ त्वा दे॒वता॑या॒मुपो॑दके लो॒के नि द॑धाम्यसौ। अप॑ नः॒ शोशु॑चद॒घम् ॥६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्र॒जाप॑ता॒विति॑ प्र॒जाऽप॑तौ। त्वा॒। दे॒वता॑याम्। उपो॑दक॒ इत्युप॑ऽउदके। लो॒के। नि। द॒धा॒मि॒। अ॒सौ॒। अप॑। नः॒। शोशु॑चत्। अ॒घम्। ६।
महीधरः
म० उष्णिक् प्रजापतिदेवत्या अस्थिनिवापे एव निवियुक्ता । असाविति नामग्रहणमनुदात्तत्वादामन्त्रितम् । हे देवदत्त, उपोदके उदकसमीपवर्तिनि लोके स्थाने प्रजापतौ देवतायां त्वां निदधामि स्थापयामि । स प्रजापतिर्नोऽस्माकमघं पापं शोशुचत् अत्यर्थं दहतु । ‘शुच शोके’ यड्लुगन्तं रूपम् ॥ ६॥
सप्तमी।
अधिमन्त्रम् (VC)
- यमो देवता
- सड्कसुक ऋषिः
- उष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
ईश्वर की उपासना का विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे जीव ! जो (असौ) यह लोक (नः) हमारे (अघम्) पाप को (अप, शोशुचत्) शीघ्र सुखा देवे, उस (प्रजापतौ) प्रजा के रक्षक (देवतायाम्) पूजनीय परमेश्वर में तथा (उपोदके) उपगत समीपस्थ उदक जिसमें हों (लोके) दर्शनीय स्थान में (त्वा) आप को (नि दधामि) निरन्तर धारण करता हूँ ॥६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जो जगदीश्वर उपासना किया हुआ पापाचरण से पृथक् कराता है, उसी में भक्ति करने के लिये तुमको मैं स्थिर करता हूँ, जिससे सदैव तुम लोग श्रेष्ठ सुख के देखने को प्राप्त होओ ॥६ ॥
दयानन्द-सरस्वती (सं) - विषयः
ईश्वरोपासनाविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे जीव ! योऽसौ नोऽघमपशोशुचत् तस्यां प्रजापतौ देवतायामुपोदके लोके च त्वा नि दधामि ॥६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यो जगदीश्वर उपासितः सन् पापाचरणात् पृथक् कारयति, तस्मिन्नेव भक्तिकरणाय युष्मानहं स्थिरीकरोमि, येन सदैव यूयं श्रेष्ठं सुखदर्शनं प्राप्नुयात ॥६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! उपासनीय परमेश्वर पापाचरणापासून पृथक करतो, त्याची भक्ती करण्यासाठी मी तुम्हाला स्थिर करतो. ज्यामुळे तुम्ही लोक सदैव श्रेष्ठ सुख भोगू शकाल.
०७ परं मृत्योऽ
विश्वास-प्रस्तुतिः ...{Loading}...
परं॑ मृत्यो॒ऽ अनु॒ परे॑हि॒ पन्थां॒ यस्ते॑ऽ अ॒न्यऽ इत॑रो देव॒याना॑त्। चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमि॒ मा नः॑ प्र॒जाँ री॑रिषो॒ मोत वी॒रान् ॥७ ॥
मूलम् ...{Loading}...
परं॑ मृत्यो॒ऽ अनु॒ परे॑हि॒ पन्थां॒ यस्ते॑ऽ अ॒न्यऽ इत॑रो देव॒याना॑त्। चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमि॒ मा नः॑ प्र॒जाँ री॑रिषो॒ मोत वी॒रान् ॥७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पर॑म्। मृत्यो॒ऽइति॒ मृत्यो॑। अनु॑। परा॑। इ॒हि॒। पन्था॑म्। यः। ते॒। अ॒न्यः। इत॑रः। दे॒व॒याना॒दिति॑ देव॒ऽयाना॑त्। चक्षु॑ष्मते। शृ॒ण्व॒ते। ते॒। ब्र॒वी॒मि॒। मा। नः॒। प्र॒जामिति॑ प्र॒ऽजाम्। री॒रि॒षः॒। री॒रि॒ष॒ऽइति॑ रिरिषः। मा। उ॒त। वी॒रान्। ७।
महीधरः
म०. ‘प्रत्यागते परं मृत्यविति जपतीति’ (का० २१ । ४।७)। दक्षिणां गत्वानुच्छ्वसन् कुम्भं प्रक्षिप्यैहीति कश्चिद्विप्रः प्रेषितोऽस्ति तस्मिन् कुम्भं क्षिप्ता प्रत्यागते सति यजमानोऽध्वयुर्वा जपति । मृत्युदेवत्या त्रिष्टुप् संकसुकदृष्टा । मृत्यो, परा पराङ्मुखो भूत्वा परमन्यं पन्थां पन्थानं मार्गमन्विहि अनुगच्छ । तमेव दर्शयति । यस्ते तव त्वदीयः पन्था देवयानात् पथः इतरः तुच्छः अन्यः पितृयानाख्यः देवा यान्ति यस्मिन् स देवयानः । किंच चक्षुष्मते ज्ञानिने शृण्वते च ते तुभ्यं मृत्यो, किंचिद् ब्रवीमि वदामि । आदरार्थं वचनम् । नहि तस्यादृष्टमश्रुतं वास्ति । षष्ठ्यर्थे चतुर्थ्यौ । चक्षुष्मतः शृण्वतस्तव वदामि । किम् । हे मृत्यो, नोऽस्माकं प्रजां सन्ततिं वंशपरम्परां मा रीरिषः मा हिंसीः । ‘रिष वधे’ स्वार्थे णिजन्तस्य लुङि रूपम् । उत अपिच वीरान्पुत्रान् मा हिंसीः ॥ ७ ॥
अष्टमी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- आदित्या देवा वा ऋषयः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य ! (या) जो (ते) तेरा (देवयानात्) जिस मार्ग से विद्वान् लोग चलते उससे (इतरः) भिन्न (अन्यः) और मार्ग है, उस (पन्थाम्) मार्ग को (मृत्यो) मृत्यु (परा, इहि) दूर जावे, जिस कारण तू (परम्) उत्तम देवमार्ग को (अनु) अनुकूलता से प्राप्त हो, उसी से (चक्षुष्मते) उत्तम नेत्रवाले (शृण्वते) सुनते हुए (ते) तेरे लिये (ब्रवीमि) उपदेश करता हूँ, जैसे मृत्यु (नः) हमारी प्रजा को न मारे और वीर पुरुषों को भी न मारे, वैसे तू (प्रजाम्) सन्तानादि को (मा, रीरिषः) मत मार वा विषयादि से नष्ट मत कर (उत) और (वीरान्) विद्या और शरीर के बल से युक्त वीर पुरुषों को (मा) मत नष्ट कर ॥७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि जीवनपर्यन्त विद्वानों के मार्ग से चल के उत्तम अवस्था को प्राप्त हों और ब्रह्मचर्य के विना स्वयंवर विवाह करके कभी न्यून अवस्था की प्रजा सन्तानों को न उत्पन्न करें और न इन सन्तानों को ब्रह्मचर्य के अनुष्ठान से अलग रक्खें ॥७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैः किं कर्त्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य ! यस्ते देवयानादितरोऽन्यो मार्गोऽस्ति, तं पन्थां मृत्यो परेहि मृत्युः परैतु, यतस्त्वं परं देवयानमन्विहि। अत एव चक्षुष्मते शृण्वतेऽहं ते ब्रव्रीमि, यथा मृत्युर्नः प्रजां न हिंस्यादुतापि वीरान्न हन्यात्, तथा त्वं प्रजां मा रीरिष उतापि वीरान् मा रीरिषः ॥७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्यावज्जीवनं तावद्विद्वन्मार्गेण गत्वा परमायुर्लब्धव्यम्। कदाचिद् विना ब्रह्मचर्येण स्वयंवरं कृत्वाऽल्पायुषीः प्रजा नोत्पादनीया, न चैतासां ब्रह्मचर्यानुष्ठानेन वियोगः कर्त्तव्यः ॥७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी आजीवन विद्वानाच्या मार्गाने जावे व उत्तम अवस्था प्राप्त करून घ्यावी. ब्रह्मचर्याखेरीज व स्वयंवर विवाहाखेरीज विवाह करू नये. दुर्बल प्रजा उत्पन्न करू नये व संतानांनाही ब्रह्मचर्य पालन करावयास लावावे.
०८ शं वातः
विश्वास-प्रस्तुतिः ...{Loading}...
शं वातः॒ शँ हि ते॒ घृणिः॒ शं ते॑ भव॒न्त्विष्ट॑काः। शं ते॑ भवन्त्व॒ग्नयः॒ पार्थि॑वासो॒ मा त्वा॒भि शू॑शुचन् ॥८ ॥
मूलम् ...{Loading}...
शं वातः॒ शँ हि ते॒ घृणिः॒ शं ते॑ भव॒न्त्विष्ट॑काः। शं ते॑ भवन्त्व॒ग्नयः॒ पार्थि॑वासो॒ मा त्वा॒भि शू॑शुचन् ॥८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
शम्। वातः॑। शम्। हि। ते॒। घृणिः॑। शम्। ते॒। भ॒व॒न्तु॒। इष्ट॑काः। शम्। ते॒। भ॒व॒न्तु॒। अ॒ग्नयः॑। पार्थि॑वासः। मा। त्वा॒। अ॒भि। शू॒शु॒च॒न्। ८।
महीधरः
म० ‘शं वात इति यथाङ्गं कल्पयित्वेष्टकां निदधाति मध्ये तूष्णीमिति’ (का० २१।४।८)। शं वात इति मन्त्रद्वयेन तानि मध्ये न्युप्तान्यस्थीनि यथाङ्गं कल्पयित्वा यदस्थि यस्याङ्गस्य तेनास्थ्ना तदङ्गकल्पनया प्राशिरसं पुरुषाकृतिं कृत्वा तन्मध्ये पादमात्रामिष्टकां तूष्णीं निदधाति । द्वे ऋचावनुष्टुब्बृहत्यौ विश्वदेवदेवते । हे यजमान, वातो वायुस्ते तव शं सुखरूपो भवतु । हि पुनः घृणिः सूर्यकिरणः ते तव शं सुखरूपो भवतु । इष्टका मध्ये प्रतिदिशं च तिस्रस्तिस्रः प्रक्षिप्तास्ते तव शं सुखरूपा भवन्तु । अग्नयश्च ते शं भवन्तु । पार्थिवासः पृथिव्यां भवाश्चाग्नयः त्वा त्वां माभिशूशुचन् मा शोचयन्तु अभितापयन्तु ॥ ८॥
नवमी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- आदित्या देवा ऋषयः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
सृष्टि के पदार्थ मनुष्यों को कैसे सुखकारी हों, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे जीव ! (ते) तेरे लिये (वातः) वायु (शम्) सुखकारी हो, (घृणिः) किरणयुक्त सूर्य्य (शम्, हि) सुखकारी हो, (इष्टकाः) वेदी में चयन की हुई र्इंटें (ते) तेरे लिये (शम्) सुखदायिनी (भवन्तु) हों, (पार्थिवासः) पृथिवी पर प्रसिद्ध (अग्नयः) विद्युत् आदि अग्नि (ते) तेरे लिये (शम्) कल्याणकारी (भवन्तु) होवें, ये सब (त्वा) तुझको (मा, अभि, शूशुचन्) सब ओर से शीघ्र शोककारी न हों ॥८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे जीवो ! वैसे ही तुमको धर्मयुक्त व्यवहार में वर्त्तना चाहिये, जैसे जीने वा मरने के बाद भी तुमको सृष्टि के वायु आदि पदार्थ सुखकारी हों ॥८ ॥
दयानन्द-सरस्वती (सं) - विषयः
सृष्टिस्थाः पदार्थाः कथं मनुष्याणां सुखकारिणः स्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे जीव ! ते वातः शं भवतु, घृणिः शं हि भवतु, इष्टकास्ते शं भवन्तु, पार्थिवासोऽग्नयस्ते शं भवन्त्वेते त्वा माभि शूशुचन् ॥८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे जीवास्तथैव युष्माभिर्धर्म्ये व्यवहारे वर्त्तितव्यं यथा जीवतां मृतानां च युष्माकं सृष्टिस्था वाय्वादयः पदार्थाः सुखकराः स्युः ॥८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे जीवांनो ! जिवंत असेपर्यंत किंवा मृत्यूनंतरही सृष्टीतील वायू इत्यादी पदार्थ तुम्हाला सुखकारक व्हावेत यासाठी धर्मयुक्त व्यवहारात राहा.
०९ कल्पन्तां ते
विश्वास-प्रस्तुतिः ...{Loading}...
कल्प॑न्तां ते॒ दिश॒स्तुभ्य॒मापः॑ शि॒वत॑मा॒स्तुभ्यं॑ भवन्तु॒ सिन्ध॑वः। अ॒न्तरि॑क्षँ शि॒वं तुभ्यं॒ कल्प॑न्तां ते॒ दिशः॒ सर्वाः॑ ॥९ ॥
मूलम् ...{Loading}...
कल्प॑न्तां ते॒ दिश॒स्तुभ्य॒मापः॑ शि॒वत॑मा॒स्तुभ्यं॑ भवन्तु॒ सिन्ध॑वः। अ॒न्तरि॑क्षँ शि॒वं तुभ्यं॒ कल्प॑न्तां ते॒ दिशः॒ सर्वाः॑ ॥९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
कल्प॑न्ताम्। ते॒। दिशः॑। तुभ्य॑म्। आपः॑। शि॒वत॑मा॒ इति॑ शि॒वऽत॑माः। तुभ्य॑म्। भ॒व॒न्तु॒। सिन्ध॑वः। अ॒न्तरि॑क्षम्। शि॒वम्। तुभ्य॑म्। कल्प॑न्ताम्। ते॒। दिशः॑ सर्वाः॑। ९।
महीधरः
म० दिशः ते तुभ्यं त्वदर्थं कल्पन्तां क्लृप्ता भवन्तु । आपो जलानि तुभ्यं शिवतमाः कल्याणकारिण्यो भवन्तु । सिन्धवः समुद्राश्च शिवतमास्तुभ्यं भवन्तु । अन्तरिक्षमाकाशं तुभ्यं शिवं कल्याणकारि भवतु । सर्वा दिशः ते तुभ्यं कल्पन्ताम् । आदरार्थं कार्त्स्न्यार्थं वा पुनर्वचनम् ॥ ९ ॥
दशमी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- सुचीक ऋषिः
- विराड्बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे जीव (ते) तेरे लिये (दिशः) पूर्व आदि दिशा (शिवतमाः) अत्यन्त सुखकारिणी (कल्पन्ताम्) समर्थ हों, (तुभ्यम्) तेरे लिये (आपः) प्राण वा जल अति सुखकारी हों, (तुभ्यम्) तेरे लिये (सिन्धवः) नदियाँ वा समुद्र अति सुखकारी (भवन्तु) होवें, (तुभ्यम्) तेरे लिये (अन्तरिक्षम्) आकाश (शिवम्) कल्याणकारी हो, और (ते) तेरे लिये (सर्वाः) सब (दिशः) ईशानादि विदिशा अत्यन्त कल्याणकारी (कल्पन्ताम्) समर्थ होवें ॥९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो लोग अधर्म को छोड़कर सब प्रकार से धर्म का आचरण करते हैं, उनके लिये पृथिवी आदि सृष्टि के सब पदार्थ अत्यन्त मङ्गलकारी होते हैं ॥९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे जीव ! ते दिशश्शिवतमाः कल्पन्ताम्, तुभ्यमापः शिवतमा भवन्तु, तुभ्यं सिन्धवः शिवतमा भवन्तु, तुभ्यं शिवमन्तरिक्षं भवतु, ते सर्वा दिशः शिवतमाः कल्पन्ताम् ॥९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - येऽधर्मं विहाय सर्वथा धर्माचरन्ति, तेभ्यः पृथिव्यादयः सर्वे सृष्टिस्थाः पदार्था मङ्गलकारिणो भवन्ति ॥९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे लोक अधर्म सोडून सर्व प्रकारे धर्माचरण करतात त्यांचे पृथ्वी इत्यादी सृष्टीतील सर्व पदार्थांद्वारे कल्याण होते.
१० अश्मन्वती रीयते
विश्वास-प्रस्तुतिः ...{Loading}...
अश्म॑न्वती रीयते॒ सँर॑भध्व॒मुत्ति॑ष्ठत॒ प्र त॑रता सखायः। अत्रा॑ जही॒मोऽशि॑वा॒ येऽ अस॑ञ्छि॒वान्व॒यमुत्त॑रेमा॒भि वाजा॑न् ॥१० ॥
मूलम् ...{Loading}...
अश्म॑न्वती रीयते॒ सँर॑भध्व॒मुत्ति॑ष्ठत॒ प्र त॑रता सखायः। अत्रा॑ जही॒मोऽशि॑वा॒ येऽ अस॑ञ्छि॒वान्व॒यमुत्त॑रेमा॒भि वाजा॑न् ॥१० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अश्म॑न्व॒तीत्यश्म॑न्ऽवती। री॒य॒ते॒। सम्। र॒भ॒ध्व॒म्। उत्। ति॒ष्ठ॒त॒। प्र। त॒र॒त॒। स॒खा॒यः॒। अत्र॑। ज॒ही॒मः॒। अशि॑वाः। ये। अस॑न्। शि॒वान्। व॒यम्। उत्। त॒रे॒म॒। अ॒भि। वाजा॑न्। १०।
महीधरः
म०. ‘अध्यधिगच्छन्त्यश्मन्वतीरिति’ (का० २१।४।२१)। गर्तान्मृदमानीय पूर्ववर्जदिग्भ्यः कृष्ट्वा वा मृदमानीय तत् श्मशानं विप्रस्य मुखमितं क्षत्रस्योरोमितं वैश्यस्योरुमितं स्त्रिया भगमितं शूद्रस्य जानुमितं सर्वेषां वा जानुमितं मृदा कृत्वा शैवलैः कुशैश्च प्रच्छाद्य तद्दक्षिणतो गर्तौ खात्वा क्षीरोदकाभ्यां संपूर्य श्मशानोत्तरे सप्त गर्तान्खात्वा दक्षिणोत्तरान् जलेन संपूर्योत्तरगर्तेषु अध्वर्युयजमानामात्यांस्त्रीन्पाषाणान्प्रक्षिप्याश्मन्वतीरिति मन्त्रेण तद्गर्तोपरि गच्छन्ति । विश्वदेवदेवत्या त्रिष्टुप् सुचीकदृष्टा । हे सखायः मित्राणि, एषा अश्मन्वती पाषाणवती नदी रीयते गच्छति । ‘री गतौ’ दिवादिः आत्मनेपदी । अतो यूयं संरभध्वमुत्तरणाय प्रयतध्वम् । उत्तिष्ठत अभिमुखा भवत । प्रतरत प्रकर्षेण तां नदी तरत । किमिति । यतोऽत्र प्रदेशे ये अशिवाः अशान्ता दुष्टा राक्षसादयः असन् स्युः तान् वयं जहीमः परित्यजामः । तेषु त्यक्तेषु शिवान्सुखकरान् वाजानन्नविशेषान् वयमुत्तरेम प्राप्नुयाम ॥ १० ॥
एकादशी।
अधिमन्त्रम् (VC)
- आपो देवताः
- शुनःशेप ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
कौन लोग दुःख के पार होते हैं, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सखायः) मित्रो ! जो (अश्मन्वती) बहुत मेघों वा पत्थरोंवाली सृष्टि वा नदी प्रवाह से (रीयते) चलती है उसके साथ जैसे (वयम्) हम लोग (ये) जो (अत्र) इस जगत् में वा समय में (अशिवाः) अकल्याणकारी (असन्) हैं उनको (जहीमः) छोड़ते हैं तथा (शिवान्) सुखकारी (वाजान्) अत्युत्तम अन्नादि के भागों को (अभि, उत्, तरेम) सब ओर से पार करें अर्थात् भोग चुकें वैसे तुम लोग (संरभध्वम्) सम्यक् आरम्भ करो (उत्तिष्ठत) उद्यत होओ और (प्रतरत) दुःखों का उल्लङ्घन करो ॥१० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य बड़ी नौका से समुद्र के जैसे पार हों, वैसे अशुभ आचरणों और दुष्ट जनों के पार हो प्रयत्न के साथ उद्यमी होके मङ्गलकारी आचरण करें, वे सहज से दुःखसागर के पार होवें ॥१० ॥
दयानन्द-सरस्वती (सं) - विषयः
के दुःखात् तरन्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सखायो ! याऽश्मन्वती रीयते तया वयं येऽत्राशिवा असँस्तान् जहीमः, शिवान् वाजानभ्युत्तरेम तथा यूयं सरंभध्वमुत्तिष्ठत प्रतरत च ॥१० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्या बृहत्या नौकया समुद्रमिवाऽशुभाचरणानि दुष्टांश्च तीर्त्वा प्रयत्नेनोद्यमिनो भूत्वा मङ्गलान्याचरेयुस्ते दुःखसागरं सहजतः सन्तरेयुः ॥१० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - मोठ्या नौकेतून समुद्र पार करावा त्याप्रमाण्े जी माणसे अशुभ आचरण व दुष्ट लोकांपासून दूर होतात व प्रयत्नपूर्वक उद्योगी बनतात आणि कल्याणकारी वर्तन करतात ती दुःखसागरातून सहज पार पाडू शकतात.
११ अपाघमप किल्विषमप
विश्वास-प्रस्तुतिः ...{Loading}...
अपा॒घमप॒ किल्वि॑ष॒मप॑ कृ॒त्यामपो॒ रपः॑। अपा॑मार्ग॒ त्वम॒स्मदप॑ दुः॒ष्वप्न्यँ॑ सुव ॥११ ॥
मूलम् ...{Loading}...
अपा॒घमप॒ किल्वि॑ष॒मप॑ कृ॒त्यामपो॒ रपः॑। अपा॑मार्ग॒ त्वम॒स्मदप॑ दुः॒ष्वप्न्यँ॑ सुव ॥११ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अप॑। अ॒घम्। अप॑। किल्वि॑षम्। अप॑। कृ॒त्याम्। अपो॒ऽइत्यपोः॑। रपः॑। अपा॑मार्ग। अप॑मा॒र्गेत्यप॑ऽमार्ग। त्वम्। अ॒स्मत्। अप॑। दुः॒ष्वप्न्य॑म्। दुः॒ष्वप्न्य॒मिति॑ दुः॒ऽस्वप्न्य॑म्। सु॒व॒। ११।
महीधरः
म० ‘अपाघमित्यपामार्गैरपमृजत इति’ (का० २१ । ४ २२) । ते अमात्या यज्ञोपवीतिनो भूत्वाप उपस्पृश्य हस्तगृहीतैरपामार्गैः स्वशरीरं शोधयन्ते अपामार्गबीजैरुद्वर्तयन्तीति केचित् । लिङ्गोक्तदेवतानुष्टुप् शुनःशेपदृष्टा दुःस्वप्ननाशनी । हे अपामार्ग, त्वमस्मत् अस्मत्तः सकाशादघं मानसं पापमपसुव | ‘षू प्रेरणे’ अपगमयेत्यर्थः । किल्बिषं कीर्तिभेदकं कायिकं च पापमपसुव । कृत्यां परकृतमभिचारमपसुव । अप उ रपः ‘रपो रिप्रमिति पापनामनी भवतः’ (निरु. ४ । २१) इति यास्कः । रपः पापं वाचिकं च अपसुव उ चार्थे । दुःस्वप्न्यम् | दुष्टः स्वप्नो दुःस्वप्नः तत्र भवं दुःस्वप्नोत्थमसुखरूपं फलं चास्मत्तोऽपसुव ॥ ११॥
द्वादशी।
अधिमन्त्रम् (VC)
- आपो देवताः
- आदित्या देवा ऋषयः
- विराडनुष्टुप्
- गान्धारः
१२ सुमित्रिया नऽआपऽओषधयः
विश्वास-प्रस्तुतिः ...{Loading}...
सु॒मि॒त्रि॒या न॒ऽआप॒ऽओष॑धयः सन्तु दुर्मित्रि॒यास्तस्मै॑ सन्तु॒। यो᳙ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः ॥१२ ॥
मूलम् ...{Loading}...
सु॒मि॒त्रि॒या न॒ऽआप॒ऽओष॑धयः सन्तु दुर्मित्रि॒यास्तस्मै॑ सन्तु॒। यो᳙ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः ॥१२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सु॒मि॒त्रिया इति॑ सुऽमित्रि॒याः। नः॒। आपः॑। ओष॑धयः। स॒न्तु॒। दु॒र्मि॒त्रि॒या इति॑ दुःऽमित्रि॒याः। तस्मै॑। स॒न्तु॒। यः। अ॒स्मान्। द्वेष्टि॑। यम्। च॒। व॒यम्। द्वि॒ष्मः। १२।
महीधरः
म० ‘सुमित्रिया न इति स्नात्वाहतवाससोऽनडुत् पुच्छमन्वारभ्यानड्वाहमित्युद्वयमित्यागच्छन्तीति’ (का० २१ । ४ । २३) सुमित्रिया इति मन्त्रेण स्नात्वा नूतनवस्त्राणि परिहितवन्तोऽनड्वाहमिति मन्त्रेण वृषपुच्छमन्वारभ्य उद्वयं तमिति मन्त्रेण यजमानामात्या ग्राममागच्छन्ति । यद्यप्यत्र सुमित्रिया इति मन्त्रेण स्नानमुक्तं तथापि सुमित्रिया इत्यपोऽञ्जलिनादाय दुर्मित्रिया इति द्वेष्यं परिषिञ्चतीति’ (का० १८ । ५। १५) द्वयं विधेयम् । ‘दुर्मित्रिया द्विष्म इति यामस्य दिशं द्वेष्या स्यात्तां दिशं परासिञ्चेत् तेनैव तं पराभावयति’ (१३ । ८।४।५) इति श्रुतेः । व्याख्याता (अ० ६ । क० २२ । अ० २० । क. १९)॥ १२॥
त्रयोदशी।
अधिमन्त्रम् (VC)
- कृषीबला देवताः
- आदित्या देवा ऋषयः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्य क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (आपः) प्राण वा जल तथा (ओषधयः) सोमादि ओषधियाँ (नः) हमारे लिये (सुमित्रियाः) सुन्दर मित्रों के तुल्य हितकारिणी (सन्तु) होवें, तुम्हारे लिये भी वैसी हों। (यः) जो (अस्मान्) हम धर्मात्माओं से (द्वेष्टि) द्वेष करता (च) और (यम्) जिस दुष्टाचारी से (वयम्) हम लोग (द्विष्मः) अप्रीति करें, (तस्मै) उसके लिये वे पदार्थ (दुर्मित्रियाः) शत्रुओं के तुल्य दुःखदायी (सन्तु) होवें ॥१२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो राग-द्वेष आदि दोषों को छोड़ कर सबमें अपने आत्मा के तुल्य वर्त्ताव करते हैं, उन धर्मात्माओं के लिये सब जल, ओषधि आदि पदार्थ सुखकारी होते और जो स्वार्थ में प्रीति तथा दूसरों से द्वेष करनेवाले हैं, उन अधर्मियों के लिये ये सब उक्त पदार्थ दुःखदायी होते हैं। मनुष्यों को चाहिये कि धर्मात्माओं के साथ प्रीति और दुष्टों का भी चित्त से सदा कल्याण ही चाहें ॥१२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्याः किं कुर्य्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! या आप ओषधयो नोस्मभ्यं सुमित्रियाः सन्तु, ता युष्मभ्यमपि तादृशो भवन्तु, योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तस्मा एता दुर्मित्रियाः सन्तु ॥१२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये रागद्वेषादिदोषान् विहाय सर्वेषु स्वात्मवद्वर्त्तन्ते तेभ्यो धर्मात्मभ्यः सर्वे जलौषध्यादयः पदार्थाः सुखकरा भवन्ति। ये च स्वात्मपोषकाः परद्वेषिणस्तेभ्योऽधर्मात्मभ्यः सर्व एते दुःखकरा भवन्ति, मनुष्यैर्धर्मात्मभिः सह प्रीतिर्दुष्टात्मभिः सहाऽप्रीतिश्च सततं कार्या, परन्तु तेषामप्यन्तःकरणेन कल्याणमेषणीयम् ॥१२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे रोग द्वेष इत्यादी दोष सोडून सर्वांशी आपल्या आत्म्याप्रमाणे वागतात त्या धर्मात्मा व्यक्तीसाठी सर्व जल, औषधे इत्यादी पदार्थ सुखकारी असतात व जे स्वार्थी आणि दुसऱ्यांचा द्वेष करतात त्या अधार्मिक लोकांसाठी वरील सर्व पदार्थ दुःखदायी असतात. माणसांनी धर्मात्मा लोकांबरोबर प्रेम व दुष्टांबरोबर सतत अप्रीती करावी; परंतु त्या दुष्टांचेही मनाने नेहमी कल्याणच इच्छावे.
१३ अनड्वाहमन्वारभामहे सौरभेयम्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒न॒ड्वाह॑म॒न्वार॑भामहे॒ सौर॑भेयँ स्व॒स्तये॑। स न॒ऽइन्द्र॑ऽइव दे॒वेभ्यो॒ वह्निः॑ स॒न्तर॑णो भव ॥१३ ॥
मूलम् ...{Loading}...
अ॒न॒ड्वाह॑म॒न्वार॑भामहे॒ सौर॑भेयँ स्व॒स्तये॑। स न॒ऽइन्द्र॑ऽइव दे॒वेभ्यो॒ वह्निः॑ स॒न्तर॑णो भव ॥१३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒न॒ड्वाह॑म्। अ॒न्वार॑भामह॒ऽइत्य॑नु॒ऽआर॑भामहे। सौर॑भेयम्। स्व॒स्तये॑। सः। नः॒। इन्द्र॑ऽइ॒वेतीन्द्र॑ इव। दे॒वेभ्यः॑। वह्निः॑। स॒न्तर॑ण॒ इति॑ स॒म्ऽतर॑णः। भ॒व॒। १३।
महीधरः
म० अनुष्टुप् अनडुद्देवत्या । उत्तरोऽर्धर्चः प्रत्यक्षकृतः ततः सर्वनाम्नोऽध्याहारेण सामर्थ्यम् । वयं यमनड्वाहमन्वारभामहे आलभामहे स्पृशामः । किंभूतम् । सौरभेयं सुरभ्याः अपत्यम् ‘स्त्रीभ्यो ढक्’ (पा० ४।१।१२०) इति ढक् । किमर्थम् । स्वस्तये अविनाशाय । हे अनड्वन् , स त्वं नोऽस्माकं संतरणः तारको दुःखनाशको भव । किंच त्वं वह्निः देवानां वोढा । तत्र दृष्टान्तः । देवेभ्यः इन्द्र इव । इन्द्रो यथा देवार्थं तारको भवति ॥ १३॥
चतुर्दशी।
अधिमन्त्रम् (VC)
- सूर्य्यो देवता
- आदित्या देवा ऋषयः
- स्वराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
कौन मनुष्य कार्यों को सिद्ध कर सकते हैं, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! जो (वह्निः) शीघ्र पहुँचानेवाला अग्नि (नः, देवेभ्यः) हम विद्वानों के लिये (सन्तरणः) सम्यक् मार्गों से पार करनेवाला होता है, उस (सौरभेयम्) सुरभि गौ के सन्तान (अनड्वाहम्) गाड़ी आदि को खींचनेवाले बैल के तुल्य वर्त्तमान अग्नि के हम लोग (स्वस्तये) सुख के लिये (अन्वारभामहे) यान बना के उनमें प्राणियों को स्थिर करें, (सः) वह आपके लिये (इन्द्र इव) बिजुली के तुल्य (भव) होवे ॥१३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य बिजुली आदि अग्नि की विद्या से यान बनाने आदि कार्य्यों के करने का अभ्यास करते हैं, वे अतिबली बैलों से खेती करनेवालों के समान कार्य्यों को सिद्ध कर सकते और विद्युत् अग्नि के तुल्य इधर-उधर जा सकते हैं ॥१३ ॥
दयानन्द-सरस्वती (सं) - विषयः
के मनुष्याः कार्यं साद्धुं शक्नुवन्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यो वह्निर्नो देवेभ्यः सन्तरणो भवति, तं सौरभेयमनड्वाहमिव वर्त्तमानमग्निं वयं स्वस्तयेऽन्वारभामहे। स तुभ्यमिन्द्र इव भव भवत ॥१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्या विद्युदाद्यग्निविद्यया यानादीनि कार्याणि कर्त्तुमारभन्ते, ते बलिष्ठैर्वृषभैः कृषीबला इव स्वकार्य्याणि साद्धुं शक्नुवन्ति, विद्युदिवेतस्ततो गन्तुञ्च ॥१३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे विद्युत इत्यादी अग्निविद्येने याने तयार करण्याचा अभ्यास करतात. ती बलवान बैलांद्वारे शेती करणाऱ्या शेतकऱ्यांसारखे कार्य सिद्ध करू शकतात व विद्युत (अग्नी) प्रमाणे ताबडतोब इकडे तिकडे जाऊ शकतात.
१४ उद्वयन्तमसस्परि स्वः
विश्वास-प्रस्तुतिः ...{Loading}...
उद्व॒यन्तम॑स॒स्परि॒ स्वः᳙ पश्य॑न्त॒ऽउत्त॑रम्। दे॒वं दे॑व॒त्रा सूर्य्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥१४ ॥
मूलम् ...{Loading}...
उद्व॒यन्तम॑स॒स्परि॒ स्वः᳙ पश्य॑न्त॒ऽउत्त॑रम्। दे॒वं दे॑व॒त्रा सूर्य्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥१४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उत्। व॒यम्। तम॑सः। परि॑। स्व᳙रिति॒ स्वः᳙। पश्य॑न्तः। उत्त॑र॒मित्यु॒त्ऽत॑रम्। दे॒वम्। दे॒वत्रेति॑ देव॒ऽत्रा। सूर्य्य॑म्। अग॑न्म। ज्योतिः॑। उ॒त्त॒ममित्यु॑त्ऽत॒मम्। १४।
महीधरः
म० उद्वयं तमिति ग्राममागच्छन्ति । व्याख्याता (अ. २० । क० २१)॥ १४ ॥
पञ्चदशी।
अधिमन्त्रम् (VC)
- ईश्वरो देवता
- सड्कसुक ऋषिः
- विराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
कौन मोक्ष को पाते हैं, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (वयम्) हम लोग जिस (तमसः) अन्धकार से परे (स्वः) स्वयं प्रकाशरूप सूर्य्य के तुल्य वर्त्तमान (देवत्रा) विद्वानों वा प्रकाशमय सूर्य्यादि पदार्थों में (देवम्) विजयादि लाभ के देनेवाले (ज्योतिः) स्वयं प्रकाशमयस्वरूप (उत्तमम्) सबसे बड़े (उत्तरम्) दुःखों से पार करनेवाले (सूर्य्यम्) अन्तर्यामी रूप से अपनी व्याप्ति कर सब चराचर के स्वामी परमात्मा को (पश्यन्तः) ज्ञान दृष्टि से देखते हुए (परि, उत्, अगन्म) सब ओर से उत्कृष्टता के साथ जानें, उसी को तुम लोग भी जानो ॥१४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे मनुष्यो ! जैसे सूर्य्य को देखते हुए दीर्घावस्थावाले धर्मात्मा जन सुख को प्राप्त होते, वैसे ही धर्मात्मा योगीजन महादेव, सबका प्रकाशक, जन्म-मृत्यु के क्लेश आदि से पृथक् वर्त्तमान, सच्चिदानन्दस्वरूप परमात्मा को साक्षात् जान मोक्ष को पाकर निरन्तर आनन्दित होते हैं ॥१४ ॥
दयानन्द-सरस्वती (सं) - विषयः
के मोक्षमधिगच्छन्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! वयं यं तमसस्परि स्वरिव वर्त्तमानं देवत्रा देवं ज्योतिरुत्तममुत्तरं सूर्य्यं पश्यन्तः सन्तः पर्य्युदगन्म, तमेव यूयमपि सर्वतो विजानीत ॥१४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः ! यथा सूर्य्यं पश्यन्तो दीर्घायुषो धर्मात्मानो जनाः सुखं लभन्ते, तथैव धार्मिका योगिनो महादेवं सर्वप्रकाशकं जन्ममृत्युक्लेशादिभ्यः पृथग् वर्त्तमानं सच्चिदानन्दस्वरूपं परमात्मानं साक्षाद् विज्ञाय मोक्षमवाप्य सततमानन्दन्ति ॥१४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे माणसांनो ! जसे सूर्यापासून तेजस्वी दीर्घायू धर्मात्मा लोक सुख प्राप्त करतात, तसेच धर्मात्मा, योगी लोक सर्वांचा प्रकाशक असणाऱ्या, जन्ममृत्यूच्या क्लेशापासून पृथक असणाऱ्या महादेव, सच्चिदानंद परमेश्वराला साक्षात जाणून मोक्ष प्राप्त करून सतत आनंदात राहतात.
१५ इमं जीवेभ्यः
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒मं जी॒वेभ्यः॑ परि॒धिं द॑धामि॒ मैषां॒ नु गा॒दप॑रो॒ऽअर्थ॑मे॒तम्। श॒तं जी॑वन्तु श॒रदः॑ पुरू॒चीर॒न्तर्मृ॒त्युं द॑धतां॒ पर्व॑तेन ॥१५ ॥
मूलम् ...{Loading}...
इ॒मं जी॒वेभ्यः॑ परि॒धिं द॑धामि॒ मैषां॒ नु गा॒दप॑रो॒ऽअर्थ॑मे॒तम्। श॒तं जी॑वन्तु श॒रदः॑ पुरू॒चीर॒न्तर्मृ॒त्युं द॑धतां॒ पर्व॑तेन ॥१५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इ॒मम्। जी॒वेभ्यः॑। प॒रि॒धिमिति॑ परि॒ऽधिम्। द॒धा॒मि॒। मा। ए॒षा॒म्। नु। गा॒त्। अप॑रः। अर्थ॑म्। ए॒तम्। श॒तम्। जी॒व॒न्तु॒। श॒रदः॑। पु॒रू॒चीः। अ॒न्तः। मृ॒त्युम्। द॒ध॒ता॒म्। पर्व॑तेन। १५।
महीधरः
म० ‘ग्रामश्मशानान्तरे मर्यादालोष्टं निदधातीमं जीवेभ्य इति’ (का० २१।४।२४)। स्वनिवासग्रामस्य श्मशानस्य च मध्ये मर्यादालोष्टं महत्तरं मृत्खण्डमध्वर्युरेव निदधाति । मनुष्यदेवत्या त्रिष्टुप् संकसुकदृष्टा । जीवेभ्यः विद्यमानजन्त्वर्थमिमं परिधिं मर्यादां दधामि स्थापयामि । कथमिति चेत् । । एषां जीवानां मध्ये अपरः कश्चित् नु क्षिप्रं वेदोक्तादायायुषोऽर्वाक् एतमर्थं पितृलोकगमनलक्षणं कार्यमुद्दिश्य मा गात् मा गच्छतु । एते जीवाः शतं शरदः जीवन्तु शतवर्षायुषो भवन्तु । किंभूताः शरदः । पुरूचीः पुरु बहु अञ्चन्तीति पुरूच्यः दानाध्ययनयागानुकूलाः । किंच पर्वतेन लोष्टेनैव मृत्युमन्तर्दधतां मृत्युमन्तर्हितं कुर्वन्तु एते जीवाः ॥ १५ ॥
षोडशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- आदित्या देवा ऋषयः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - मैं परमेश्वर (एषाम्) इन जीवों के (एतम्) परिश्रम से प्राप्त किये (अर्थम्) द्रव्य को (अपरः) अन्य कोई (मा) नहीं (नु) शीघ्र (गात्) प्राप्त कर लेवे, इस प्रकार (इमम्) इस (जीवेभ्यः) जीवों के लिये (परिधिम्) मर्यादा को (दधामि) व्यवस्थित करता हूँ, इस प्रकार आचरण करते हुए आप लोग (पुरूचीः) बहुत वर्षों के सम्बन्धी (शतम्) सौ (शरदः) शरद् ऋतुओं भर (जीवन्तु) जीवो (पर्वतेन) ज्ञान वा ब्रह्मचर्यादि से (मृत्युम्) मृत्यु को (अन्तः) मध्य में (दधताम्) दबाओ अर्थात् दूर करो ॥१५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जो लोग, परमेश्वर ने नियत किया कि धर्म का आचरण करना और अधर्म का आचरण छोड़ना चाहिये, इस मर्यादा को उल्लङ्घन नहीं करते, अन्याय से दूसरे के पदार्थों को नहीं लेते, वे नीरोग होकर सौ वर्ष तक जी सकते हैं और ईश्वराज्ञाविरोधी नहीं। जो पूर्ण ब्रह्मचर्य से विद्या पढ़ कर धर्म का आचरण करते हैं, उनको मृत्यु मध्य में नहीं दबाता ॥१५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - अहं परमेश्वर एषां जीवानामेतमर्थमपरो मा नु गादितीमं जीवेभ्यः परिधिं दधाम्येवमाचरन्तो भवन्तः पुरूचीः शतं शरदो जीवन्तु पर्वतेन मृत्युमन्तर्दधताम् ॥१५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! ये परमेश्वरेण व्यवस्थापितां धर्माचरणं कार्य्यमधर्माचरणं त्याज्यमिति मर्यादां नोल्लङ्घन्तेऽन्यायेन परपदार्थान्न स्वीकुर्वन्ति, तेऽरोगाः सन्तश्शतं वर्षाणि जीवितुं शक्नुवन्ति, नेतर ईश्वराज्ञाभङ्क्तारः। ये पूर्णेन ब्रह्मचर्येण विद्या अधीत्य धर्ममाचरन्ति तान् मृत्युर्मध्ये नाप्नोतीति ॥१५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! जे लोक परमेश्वराचे नियम पाळून धर्माचे आचरण व अधर्माचा त्याग, या मर्यादांचे उल्लंघन करत नाहीत. अन्यायाने दुसऱ्यांचे पदार्थ घेत नाहीत ते निरोगी बनून शंभर वर्षांपर्यंत जगू शकतात. ते ईश्वराज्ञेविरुद्ध नसतात. जे पूर्ण ब्रह्मचर्याचे पालन करून विद्या शिकतात व धर्माचरण करतात त्यांना मृत्यू अकाली येत नाही.
१६ अग्नऽआयूषि पवसऽ
विश्वास-प्रस्तुतिः ...{Loading}...
अग्न॒ऽआयूँ॑षि पवस॒ऽ आ सु॒वोर्ज॒मिषं॑ च नः। आ॒रे बा॑धस्व दु॒च्छुना॑म् ॥१६ ॥
मूलम् ...{Loading}...
अग्न॒ऽआयूँ॑षि पवस॒ऽ आ सु॒वोर्ज॒मिषं॑ च नः। आ॒रे बा॑धस्व दु॒च्छुना॑म् ॥१६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अग्ने॑। आयूँ॑षि। प॒व॒से॒। आ। सु॒व। ऊर्ज॑म्। इष॑म्। च॒। नः॒। आ॒रे। बा॒ध॒स्व॒। दु॒च्छुना॑म्। १६।
महीधरः
म० ‘अञ्जनाभ्यञ्जने कृत्वौपासनं परिस्तीर्य वारणान् परिधीन्परिधाय वारणेन स्रुवेणैकामाहुतिं जुहोत्यग्न आयूᳪं᳭ष्यायुष्मानग्न इति’ (का० २१ । ४ । २५)। कज्जलादिना नेत्राञ्जनमञ्जनम् तैलेन पादाञ्जनमभ्यञ्जनम् तद्वयं कृत्वा औपासनं कर्तुरावसथ्याग्निं दर्भैः परिस्तीर्य वारणवृक्षावयवांश्चतुरः परिधींश्चतुर्दिक्षु तूष्णीमेव परिधाय वारणेन स्रुवेणैकामाहुतिं जुहोति ऋग्द्वयेन । औपासनः प्रेतस्यैव । तस्यैवाद्वारेण निरसनीयत्वादिति हरिस्वामिनः । कर्तुरेवौपासने होमस्तस्यैकदेशनिरसनमिति कर्कादयः। व्याख्याता (अ० १९ । क० ३८)॥१६॥
सप्तदशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वैखानस ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
कौन मनुष्य दीर्घ अवस्थावाले होते हैं, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) परमेश्वर वा विद्वन् ! आप (आयूंषि) अन्नादि पदार्थों वा अवस्थाओं को (पवसे) पवित्र करते (नः) हमारे लिये (ऊर्जम्) बल (च) और (इषम्) विज्ञान को (आ, सुव) अच्छे प्रकार उत्पन्न कीजिये तथा (दुच्छुनाम्) कुत्तों के तुल्य दुष्ट हिंसक प्राणियों को (आरे) दूर वा समीप में (बाधस्व) ताड़ना विशेष दीजिये ॥१६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य दुष्टों का आचरण और सङ्ग छोड़ के परमेश्वर और आप्त सत्यवादी विद्वान् की सेवा करते हैं, वे धन-धान्य से युक्त हुए दीर्घ अवस्थावाले होते हैं ॥१६ ॥
दयानन्द-सरस्वती (सं) - विषयः
के जना दीर्घायुषो भवन्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! त्वमायूंषि पवसे न ऊर्जमिषं चासुव दुच्छुनामारे बाधस्व ॥१६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्या दुष्टाचरणदुष्टसङ्गौ विहाय परमेश्वराप्तयोः सेवां कुर्वन्ति, ते धनधान्ययुक्ता सन्तो दीर्घायुषो भवन्ति ॥१६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे दुष्ट आचरण व दुष्टांची संगत सोडतात व परमेश्वर, आप्त, सत्यवादी विद्वानांची सेवा करतात ती धनधान्यांनी युक्त होऊन दीर्घायुषी बनतात.
१७ आयुष्मानग्ने हविषा
विश्वास-प्रस्तुतिः ...{Loading}...
आयु॑ष्मानग्ने ह॒विषा॑ वृधा॒नो घृ॒तप्र॑तीको घृ॒तयो॑निरेधि। घृ॒तं पी॒त्वा मधु॒ चारु॒ गव्यं॑ पि॒तेव॑ पु॒त्रम॒भि र॑क्षतादि॒मान्त्स्वाहा॑ ॥१७ ॥
मूलम् ...{Loading}...
आयु॑ष्मानग्ने ह॒विषा॑ वृधा॒नो घृ॒तप्र॑तीको घृ॒तयो॑निरेधि। घृ॒तं पी॒त्वा मधु॒ चारु॒ गव्यं॑ पि॒तेव॑ पु॒त्रम॒भि र॑क्षतादि॒मान्त्स्वाहा॑ ॥१७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आयु॑ष्मान्। अ॒ग्ने॒। ह॒विषा॑। वृ॒धा॒नः। घृ॒तप्र॑तीक॒ इति॑ घृ॒तऽप्र॑तीकः। घृ॒तयो॑नि॒रिति॑ घृ॒तऽयो॑निः। ए॒धि॒। घृ॒तम्। पी॒त्वा। मधु॑। चारु॑। गव्य॑म्। पि॒तेवेति॑ पि॒ताऽइ॑व। पु॒त्रम्। अ॒भि। र॒क्ष॒ता॒त्। इ॒मान्। स्वाहा॑। १७।
महीधरः
म० अग्निदेवत्या त्रिष्टब् वैखानसदृष्टा । हे अग्ने, त्वमेवंभूत एधि भव । किंभूतः । आयुष्यमान् चिरंजीवी । तथा हविषा वृधानः वर्धतेऽसौ वृधानः ‘बहुलं छन्दसि’ (पा० २।४ ७३) इति शानचि शपो लुक् । तथा घृतप्रतीकः घृतं प्रतीकं मुखं यस्य । घृतयोनिः घृतं योनिरुत्पत्तिस्थानं यस्य उत्तरवेद्या धारणाभिप्रायमेतत् । स त्वं गव्यं गोसंबन्धि घृतं पीत्वा इमान् जीवान् अभिरक्षतादभिरक्ष ‘तुह्योस्तातङाशिष्यन्यतरस्यां’ (पा. ७ । १ । ३५) इति हेस्तातङादेशः । तत्र दृष्टान्तः । पिता पुत्रमिव यथा पिता पुत्रं रक्षति । किंभूतं घृतम् । मधु मधुरं । चारु सुगन्धि । स्वाहा सुहुतमस्तु ॥१७॥
अष्टादशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- भरद्वाजः शिरम्बिठ ऋषिः
- स्वराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब राजधर्म विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) अग्नि के तुल्य वर्त्तमान तेजस्वी राजन् ! जैसे (हविषा) घृतादि से (वृधानः) बढ़ा हुआ (घृतप्रतीकः) जल को प्रसिद्ध करनेवाला (घृतयोनिः) प्रदीप्त तेज जिसका कारण वा घर है, वह अग्नि बढ़ता है, वैसे (आयुष्मान्) बहुत अवस्थावाले आप (एधि) हूजिये (मधु) मधुर (चारु) सुन्दर (गव्यम्) गौ के (घृतम्) घी को (पीत्वा) पी के (पुत्रम्) पुत्र की (पितेव) पिता जैसे वैसे (स्वाहा) सत्य क्रिया से (इमान्) इन प्रजास्थ मनुष्यों की (अभि) प्रत्यक्ष (रक्षतात्) रक्षा कीजिये ॥१७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे सूर्य्यादि रूप से अग्नि बाहर भीतर रह कर सबकी रक्षा करता है, वैसे ही राजा पिता के तुल्य वर्त्ताव करता हुआ पुत्र के समान इन प्रजाओं की निरन्तर रक्षा करे ॥१७ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ राजधर्मविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! यथा हविषा वृधानो घृतप्रतीको घृतयोनिरग्निर्वर्द्धते तथाऽऽयुष्माँस्त्वमेधि। मधु चारु गव्यं घृतं पीत्वा पितेव स्वाहेमानभि रक्षतात् ॥१७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोमालङ्कारः। यथा सूर्यादिरूपेणाग्निर्बाह्याभ्यन्तरः सन् सर्वान् रक्षति, तथैव राजा पितृवद्वर्त्तमानः सन् पुत्रमिवेमाः प्रजाः सततं रक्षेत ॥१७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. सूर्यरूाने अग्नी जसा सर्व ठिकाणी सर्वांचे रक्षण करतो तसे राजाने प्रजेबरोबर पित्याप्रमाणे वागावे व पुत्राप्रमाणे त्यांचे रक्षण करावे.
१८ परीमे गामनेषत
विश्वास-प्रस्तुतिः ...{Loading}...
परी॒मे गाम॑नेषत॒ पर्य॒ग्निम॑हृषत। दे॒वेष्व॑क्रत॒ श्रवः॒ कऽ इ॒माँ२ऽ आ द॑धर्षति ॥१८ ॥
मूलम् ...{Loading}...
परी॒मे गाम॑नेषत॒ पर्य॒ग्निम॑हृषत। दे॒वेष्व॑क्रत॒ श्रवः॒ कऽ इ॒माँ२ऽ आ द॑धर्षति ॥१८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
परि॑। इ॒मे। गाम्। अ॒ने॒ष॒त॒। परि॑। अ॒ग्निम्। अ॒हृ॒ष॒त॒। दे॒वेषु॑। अ॒क्र॒त॒। श्रवः॑। कः। इ॒मान्। आ। द॒ध॒र्ष॒ति॒। १८।
महीधरः
म०. ‘अथैषां परिदां वदन्ति । परीमे गामनेषतेति ।’ (का० । २१ । ४ । २६) अध्वर्युयजमानामात्यानां परिदाम् परिदा रक्षणम् सत्संज्ञं मन्त्रं वदति ‘दाङ् पालने’ परिदीयते समन्ताद्रक्ष्यतेऽनेनेति परिदाः रक्षणः तम् । इन्द्रदेवत्यानुष्टुप् भरद्वाजात्मजशिरिम्बिठदृष्टा । इमे जीवाः गामनड्ड्वाहं पर्यनेषत परिणीतवन्तः अनडुत्पुच्छालभनाभिप्रायम् । नयतेर्लुङि तङि सिचि प्रथमबहुवचने रूपम् ‘व्यवहिताश्च’ (पा. १ । ४ । ८२) इति परेर्व्यवधानं क्रियापदेन । इमे जीवाः अग्निं च पर्यहृषत परिहृतवन्तः । यस्मिन्नग्नावेतत्कर्म कृतं तं परिजह्रुः । अद्वारेणौपासनं निरस्यतीत्येतदभिप्रायम् । इमे देवाः दीव्यन्ति कर्मसु दीप्यन्ते ते देवाः ऋत्विजः तेषु श्रवः धनं दक्षिणालक्षणमक्रत कृतवन्तः। अकृषतेति प्राप्ते सिचो लोपे अक्रतेति रूपम् । अत एतैः कर्मभिः कृतकृत्यानिमाञ्जीवान् कोनाम आदधर्षति आकर्षयितुं पराभवितुं शक्नुयात् । अशक्यप्रतिक्रिया एते जाता इति भावः ॥ १८ ॥
एकोनविंशी ।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- दमन ऋषिः
- विराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजपुरुषो ! जो (इमे) ये तुम लोग (गाम्) वाणी वा पृथिवी को (परि, अनेषत) स्वीकार करो (अग्निम्) अग्नि को (परि, अहृषत) सब ओर से हरो अर्थात् कार्य में लाओ। इन (देवेषु) विद्वानों में (श्रवः) अन्न को (अक्रत) करो, इस प्रकार के (इमान्) आप लोगों को (कः) कौन (आ, दधर्षति) धमका सकता है ॥१८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो राजपुरुष पृथिवी के समान धीर, अग्नि के तुल्य तेजस्वी, अन्न के समान अवस्थावर्द्धक होते हुए धर्म से प्रजा की रक्षा करते हैं, वे अतुल राजलक्ष्मी को पाते हैं ॥१८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे राजजना ! य इमे यूयं गां पर्य्यनेषताऽग्निं पर्य्यहृषत। एषु देवेषु श्रवोऽक्रतैवंभूतानिमान् भवतः क आ दधर्षति ॥१८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये राजजनाः पृथिवीवद्धीरा अग्निवत् तेजस्विनोऽन्नवदायुष्कराः सन्तो धर्मेण प्रजां रक्षन्ति, तेऽतुलां राजश्रियमाप्नुवन्ति ॥१८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जे राजपुरुष पृथ्वीप्रमाणे धैर्यवान, अग्नीप्रमाणे तेजस्वी, अन्नाप्रमाणे आयुवर्धक व धर्मयुक्त बनून प्रजेचे रक्षण करतात त्यांना अतुल राज्यलक्ष्मी प्राप्त होते.
१९ क्रव्यादमग्निं प्र
विश्वास-प्रस्तुतिः ...{Loading}...
क्र॒व्याद॑म॒ग्निं प्र हि॑णोमि दू॒रं य॑म॒राज्यं॑ गच्छतु रिप्रवा॒हः। इ॒हैवायमित॑रो जा॒तवे॑दा दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन् ॥१९ ॥
मूलम् ...{Loading}...
क्र॒व्याद॑म॒ग्निं प्र हि॑णोमि दू॒रं य॑म॒राज्यं॑ गच्छतु रिप्रवा॒हः। इ॒हैवायमित॑रो जा॒तवे॑दा दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन् ॥१९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
क्र॒व्याद॒मिति॑ क्रव्या॒ऽअद॑म्। अ॒ग्निम्। प्र। हि॒नो॒मि॒। दू॒रम्। यम॒राज्य॒मिति॑ यम॒ऽराज्य॑म्। ग॒च्छ॒तु। रि॒प्र॒वा॒ह इति॑ रिप्रऽवा॒हः। इ॒ह। ए॒व। अ॒यम्। इत॑रः। जा॒तवे॑दा॒ इति॑ जा॒तऽवे॑दाः। दे॒वेभ्यः॑। ह॒व्यम्। व॒ह॒तु॒। प्र॒जा॒नन्निति॑ प्रऽजा॒नन्। १९।
महीधरः
म० ‘अद्वारेणौपासनं निरस्यति क्रव्यादमिति’ (का० २१ ४ । २७) । आहुतिहोमानन्तरं यत्र हुतं तस्यौपासनस्यैकशेषं निरस्यति । प्रेतस्यैवोपासन इति पक्षे सर्वमपि निरस्यति । अग्निदेवत्या त्रिष्टुप् दमनदृष्टा । येन पुरुषो दह्यते स क्रव्यात् तं क्रव्यादमग्निमहं दूरम् अपुनरागमनाय प्रहिणोमि प्रेषयामि । स प्रहितः क्रव्यादग्निः यमराज्यं गच्छतु यमस्य राज्यं प्रति व्रजतु । किंभूतः । रिप्रवाहः ‘रिप्रमिति पापनाम’ (नि० ४ । २१) | रिप्रं पापं वहति नाशयति रिप्रवाहः । ‘इहैवायमिति जपति’ (का० २१ । ४ । २८)। यजमानो जपति । अयमितरः क्रव्यादादन्यो जातवेदाः जातप्रज्ञानोऽग्निः इहैवास्मिन्नेव गृहे सदने देवेभ्योऽर्थाय हव्यं हविः वहतु प्रापयतु । किं कुर्वन् । प्रजानन् स्वाधिकारं जानानः । इति पितृमेधः समाप्तः । उपधानासन्दीवृषभयवानजीर्णान् तद्दक्षिणात्वेन दद्यात् । इच्छन् . हेमाद्यपि दद्यात् ॥ १९ ॥
विशी।
अधिमन्त्रम् (VC)
- जातवेदाः देवताः
- आदित्या देवा ऋषयः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (प्रजानन्) अच्छे प्रकार जानता हुआ मैं (क्रव्यादम्) कच्चे मांस को खाने और (अग्निम्) अग्नि के तुल्य दूसरों को दुःख से तपानेवाले जिस दुष्ट को (दूरम्) दूर (प्रहिणोमि) पहुँचाता और जिन (रिप्रवाहः) पाप उठानेवाले दुष्टों को दूर पहुँचाता हूँ, वह और वे सब पापी (यमराज्यम्) न्यायाधीश राजा के न्यायालय में (गच्छतु) जावें और (इह) इस जगत् में (इतरः) दूसरा (अयम्) यह (जातवेदाः) धर्म्मात्मा विद्वान् जन (देवेभ्यः) धार्मिक विद्वानों से (हव्यम्) ग्रहण करने योग्य विज्ञान को (एव) ही (वहतु) प्राप्त होवे ॥१९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। न्यायाधीश राजपुरुषो ! तुम लोग दुष्टाचारी जनों को सम्यक् ताड़ना देकर प्राणों से भी छुड़ा के और श्रेष्ठ का सत्कार करके इस सृष्टि में साम्राज्य अर्थात् चक्रवर्ती राज्य करो ॥१९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - प्रजानन्नहं क्रव्यादमग्निमिव वर्त्तमानं यं दूरं प्रहिणोमि, याश्च रिप्रवाहश्च दूरं प्रहिणोमि, स यमराज्यं गच्छतु। ते च इहेतरोऽयं जातवेदा देवेभ्यो हव्यमेव वहतु ॥१९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे न्यायाधीशाः ! यूयं दुष्टाचारिणः संताड्य प्राणादपि वियोज्य श्रेष्ठान् सत्कृत्येह सृष्टौ साम्राज्यं कुरुत ॥१९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे न्यायाधीश राजपुरुषांनो ! तुम्ही दुष्ट माणसांना ताडना देऊन प्राणसुद्धा हरण करा व श्रेष्ठांचा सत्कार करून या जगात साम्राज्य अर्थात चक्रवर्ती राज्य करा.
२० वह वपाम्
विश्वास-प्रस्तुतिः ...{Loading}...
वह॑ व॒पां जा॑तवेदः पि॒तृभ्यो॒ यत्रै॑ना॒न् वेत्थ॒ निहि॑तान् परा॒के। मेद॑सः कु॒ल्याऽ उप॒ तान्त्स्र॑वन्तु स॒त्याऽ ए॑षामा॒शिषः॒ सं न॑मन्ताँ॒ स्वाहा॑ ॥२० ॥
मूलम् ...{Loading}...
वह॑ व॒पां जा॑तवेदः पि॒तृभ्यो॒ यत्रै॑ना॒न् वेत्थ॒ निहि॑तान् परा॒के। मेद॑सः कु॒ल्याऽ उप॒ तान्त्स्र॑वन्तु स॒त्याऽ ए॑षामा॒शिषः॒ सं न॑मन्ताँ॒ स्वाहा॑ ॥२० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वह॑। व॒पाम्। जा॒त॒वे॒द॒ इति॑ जातऽवेदः। पि॒तृभ्य॒ इति॑ पि॒तृऽभ्यः॑। यत्र॑। ए॒ना॒न्। वेत्थ॑। निहि॑ता॒निति॒ निऽहि॑तान्। प॒रा॒के। मेद॑सः। कु॒ल्याः। उप॑। तान्। स्र॒व॒न्तु॒। स॒त्याः। ए॒षा॒म्। आ॒शिष॒ इत्या॒ऽऽशिषः॑। सम्। न॒म॒न्ता॒म्। स्वाहा॑। २०।
महीधरः
म० जातवेदोदेवत्या त्रिष्टुप् । अस्या विनियोगः श्रौतसूत्रे नास्ति । किंतु गृह्यसूत्रेऽस्ति । तथाहि ‘मध्यमा गवा तस्यै वपां जुहोति वह वपां जातवेदः पितृभ्यः’ (पार० ३।३) इति । अस्यार्थः । मध्यमाष्टका गोपशुना कार्या तस्या धेनोर्वपां जुहोति वह वपामिति मन्त्रेणेत्यर्थः । हे जातवेदः, जातं वेदो धनं यस्मात् स जातवेदाः तत्संबोधने हे जातवेदः, पितृभ्योर्थाय त्वं वपां धेनुसंबन्धि चर्मविशेषं त्वं वह प्रापय । पराके पराक्रान्ते दूरेऽपि यत्र यस्मिन्देशे निहितान्स्थापितानेनान्पितॄन् त्वं वेत्थ जानासि तत्र वहेत्यर्थः । तस्याः वपायाः निःसृत्य मेदसः धातुविशेषस्य कुल्याः नद्यः तान्पितॄन् प्रति उपस्रवन्तु प्रसरन्तु । किंच एषां दातॄणामाशिषः मनोरथाः सत्याः अवितथाः सन्नमन्तां प्रह्वीभवन्तु । स्वाहा सुहुतमस्तु । स्वाहेति ऋग्भिन्नं यजुः ॥ २०॥
एकविंशी । ।
अधिमन्त्रम् (VC)
- पृथिवी देवता
- मेधातिथिर्ऋषिः
- स्वराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब पितृ लोगों का सेवन विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (जातवेदः) उत्तम ज्ञान को प्राप्त हुए जन आप (यत्र) जहाँ (एनान्) इन (पराके) दूर (निहितान्) स्थित पितृजनों को (वेत्थ) जानते हो, वहाँ (पितृभ्यः) जनक वा विद्या शिक्षा देनेवाले सज्जन पितरों से (वपाम्) खेती होने के योग्य भूमि को (वह) प्राप्त हूजिये, जैसे (मेदसः) उत्तम (कुल्याः) जल के प्रवाह से युक्त नदी वा नहरें (तान्) उन सज्जनों को (उप, स्रवन्तु) निकट प्राप्त हों, वैसे (स्वाहा) सत्यक्रिया से (एषाम्) इन लोगों की (आशिषः) इच्छा (सत्याः) यथार्थ (सम्, नमन्ताम्) सम्यक् प्राप्त होवें ॥२० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो दूर रहनेवाले पितृ और विद्वानों को बुलाकर सत्कार करते हैं, जैसे बाग-बगीचों के वृक्षादि को जल, वायु बढ़ाते, वैसे उनकी इच्छा सत्य हुर्इं सब ओर से बढ़ती हैं ॥२० ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ पितृसेवनविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे जातवेदस्त्वं यत्रैतान् पराके निहितान् वेत्थ, तत्र पितृभ्यो वपां वह, यथा मेदसः कुल्यास्तानुपस्रवन्तु, तथा स्वाहैषामाशिषः सत्याः सन्नमन्ताम् ॥२० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये दूरे स्थितान् पितॄन् विदुषश्चाहूय सत्कुर्वन्ति, यथाऽऽरामवृक्षादीन् जलवायू वर्द्धयतस्तथैतेषामिच्छाः सत्याः सत्यः सर्वतो वर्द्धन्ते ॥२० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जे (विद्वान) लोक दूर राहणाऱ्या पितरांना व विद्वानांना आमंत्रित करून त्यांचा सत्कार करतात व ज्याप्रमाणे बागबगीचातील वृक्ष, जल व वायूमुळे वाढतात तशा त्यांच्या (विद्वानांच्या) इच्छा फलद्रूप होतात.
२१ स्योना पृथिवि
विश्वास-प्रस्तुतिः ...{Loading}...
स्यो॒ना पृ॑थिवि नो भवानृक्ष॒रा नि॒वेश॑नी। यच्छा॑ नः॒ शर्म॑ स॒प्रथाः॑। अप॑ नः॒ शोशु॑चद॒घम् ॥२१ ॥
मूलम् ...{Loading}...
स्यो॒ना पृ॑थिवि नो भवानृक्ष॒रा नि॒वेश॑नी। यच्छा॑ नः॒ शर्म॑ स॒प्रथाः॑। अप॑ नः॒ शोशु॑चद॒घम् ॥२१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स्यो॒ना। पृ॒थि॒वि॒। नः॒। भ॒व॒। अ॒नृ॒क्ष॒रा। नि॒वेश॒नीति॑ नि॒ऽवेश॑नी। यच्छ॑। नः॒। शर्म्म॑। स॒प्रथा॒ इति॑ स॒प्रथाः॑। अपः॑। नः॒। शो॒शु॒च॒त्। अ॒घम्। २१।
महीधरः
म०. पृथिवीदेवत्या गायत्री मेधातिथिदृष्टा यजुरन्ता । अस्या अपि श्रौते विनियोगो नास्ति स्मार्ते स्रस्तरारोहणे शयने विनियोगः । तथाहि ‘स्योना पृथिवि नो भवेति दक्षिणपार्श्वे प्राक्शिरसः संविशन्तीति’ (पार० ३ । २) । हे पृथिवि, त्वं नोऽस्माकं स्योना सुखरूपा भव । किंभूता त्वम् । अनृक्षरा ऋक्षरः कण्टकः। ‘ऋच्छतेः कण्टकः कन्तपो वा कण्टतेर्वा कृन्ततेर्वा स्याद्गतिकर्मणः’ (निरु० ९ । ३२ ) इति यास्कः । तद्र्(हणं चौरदायादादिदुःखनिवृत्त्यर्थम् । न सन्ति ऋक्षराः कण्टकाः दुःखदायिनो यस्यां सा अनृक्षरा । तथा निवेशनी निविशन्ति जनाः यस्यां सा निवेशनी साधुप्रतिष्ठाना ‘करणाधिकरणयोश्च’ (पा० ३ । ३ । ११७) इति ल्युट् । तथा सप्रथाः प्रथनं प्रथः विस्तारः प्रथसा सह वर्तमाना सप्रथाः सर्वतः पृथुः । किंच नोऽस्मभ्यं शर्म शरणं यच्छ देहि । अतः परं यजुः तद्विनियोगो गृह्यसूत्रे संबन्धिमरणनिमित्ते स्नाने जलापनोदने । तथाहि ‘सव्यस्यानामिकया अपनोद्याप नः शोशुचदघमिति’ (पार० ३ । १०) । इदं जलं नोऽस्माकमघं पापमपशोशुचत् अपशोचयतु दहतु ॥ २१॥
द्वाविंशी।
इति माध्यन्दिनीयायां वाजसनेयसंहितायां पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥
अधिमन्त्रम् (VC)
- अग्निर्देवता
- आदित्या देवा ऋषयः
- निचृद्गायत्री, प्राजापत्या गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
कुलीन स्त्री कैसी होवे, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (पृथिवि) भूमि के तुल्य वर्त्तमान क्षमाशील स्त्री ! तू जैसे (अनृक्षरा) कण्टक आदि से रहित (निवेशनी) बैठने का आधार भूमि (स्योना) सुख करनेवाली होती, वैसे (नः) हमारे लिये (भव) हो तू (सप्रथाः) अत्यन्त प्रशंसा के साथ वर्त्तमान हुई (नः) हमारे लिये (शर्म) सुख को (यच्छ) दे, जैसे न्यायाधीश (नः) हमारे (अघम्) पाप को (अप, शोशुचत्) शीघ्र दूर करे वा शुद्ध करे, वैसे तू अपराध को दूर कर ॥२१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो स्त्री पृथिवी के तुल्य क्षमा करनेवाली क्रूरता आदि दोषों से अलग बहुत प्रशंसित दूसरों के दोषों का निवारण करनेहारी है, वही घर के कार्यों में योग्य होती है ॥२१ ॥
दयानन्द-सरस्वती (सं) - विषयः
गृहिणी कीदृशी स्यादित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे पृथिवि भूमिरिव वर्त्तमाने स्त्रि ! त्वं यथाऽनृक्षरा निवेशनी भूमिः स्योना भवति, तथा नो भव। सप्रथाः सती नश्शर्म्म यच्छ, यथा न्यायेशो नोऽघमपशोशुचत् तथाऽपराधं दूरं गमय ॥२१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। या स्त्री पृथिवीवत् क्षमाशीला क्रूरतादोषरहिता बहुप्रशंसिता अन्येषामपि दोषनिवारिका भवति, सैव गृहकृत्ये योग्या भवति ॥२१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जी स्री पृथ्वीप्रमाणे क्षमाशील, क्रूरता इत्यादी दोषांपासून दूर प्रशंसा करण्यायोग्य, दुसऱ्यांचे दोष नाहीसे करणारी असते तीच गृहकार्य योग्यरित्या पार पाडू शकते.
२२ अस्मात्त्वमधि जातोऽसि
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒स्मात्त्वमधि॑ जा॒तो᳖ऽसि॒ त्वद॒यं जा॑यतां॒ पुनः॑। अ॒सौ स्व॒र्गाय॑ लो॒काय॒ स्वाहा॑ ॥२२ ॥
मूलम् ...{Loading}...
अ॒स्मात्त्वमधि॑ जा॒तो᳖ऽसि॒ त्वद॒यं जा॑यतां॒ पुनः॑। अ॒सौ स्व॒र्गाय॑ लो॒काय॒ स्वाहा॑ ॥२२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒स्मात्। त्वम्। अधि॑। जा॒तः। अ॒सि॒। त्वत्। अ॒यम्। जा॒य॒ता॒म्। पुन॒रिति॒ पुनः॑। अ॒सौ। स्वर्गायेति॑ स्वः॒ऽगाय॑। लो॒काय॑। स्वाहा॑। २२।
महीधरः
म० ‘आहुतिं जुहोति पुत्रो भ्रातान्यो वा ब्राह्मणोऽस्मात्त्वमधिजातोऽसीति’ (का० २५ । ७ । ३७) । साग्निकस्य पात्रप्रतिपत्त्यन्ते दाहात्पूर्वमाज्याहुतिं पुत्रादिर्जुहोति । अग्निदेवत्या गायत्री अनिरुक्ता । हे अग्ने, त्वमस्मात् यजमानात् आधानकाले अधिजातोऽसि उत्पन्नोऽसि । अतोऽयं यजमानः पुनः त्वत् त्वत्तः जायतामुत्पद्यताम् । असाविति विशेषनामवचनः । तथाहि देवदत्तः स्वर्गाय लोकाय स्वर्गलोकप्राप्त्यर्थं त्वत्तो जायताम् । त्वद्वंश्य एव भवत्विति भावः । स्वाहा सुहुतमस्तु ॥ २२ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे । पञ्चत्रिंशोऽयमध्यायः पितृमेधाभिधोऽगमत् ॥ ३५ ॥
अधिमन्त्रम् (VC)
- सविता देवता
- आदित्या देवा वा ऋषयः
- स्वराड्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् पुरुष (त्वम्) आप (अस्मात्) इस लोक से अर्थात् वर्त्तमान मनुष्यों से (अधि) सर्वोपरि (जातः) प्रसिद्ध विराजमान (असि) हैं, इससे (अयम्) यह पुत्र (त्वत्) आपसे (पुनः) पीछे (असौ) विशेष नामवाला (स्वाहा) सत्य क्रिया से (लोकाय) देखने योग्य (स्वर्गाय) विशेष सुख भोगने के लिये (जायताम्) प्रकट समर्थ होवे ॥२२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! तुम लोगों को चाहिये कि इस जगत् में मनुष्यों का शरीर धारण कर विद्या, उत्तम शिक्षा, अच्छा स्वभाव, धर्म, योगाभ्यास और विज्ञान का सम्यक् ग्रहण करके मुक्ति सुख के लिये प्रयत्न करो और यही मनुष्यजन्म की सफलता है, ऐसा जानो ॥२२ ॥ इस अध्याय में व्यवहार, जीव की गति, जन्म, मरण, सत्य, आशीर्वाद, अग्नि और सत्य इच्छा आदि का व्याख्यान होने से इस अध्याय में कहे अर्थ की पूर्व अध्याय में कहे अर्थ के साथ संगति जाननी चाहिये ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्याणां श्रीमन्महाविदुषां विरजानन्दसरस्वतीस्वामिनां शिष्येण श्रीमत्परमहंसपरिव्राजकाचार्येण श्रीमद्दयानन्दसरस्वतीस्वामिना विरचिते संस्कृतार्य्यभाषाभ्यां समन्विते सुप्रमाणयुक्ते यजुर्वेदभाष्ये पञ्चत्रिंशोऽध्यायोऽलमगमत् ॥३५॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैः किं कर्त्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यतस्त्वमस्माल्लोकादधिजातोऽसि, तस्मादयं त्वत्पुनरसौ स्वाहा स्वर्गाय लोकाय जायताम् ॥२२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! युष्माभिरिह मनुष्यशरीरं धृत्वा विद्यासुशिक्षासुशीलधर्मयोगविज्ञानानि सङ्गृह्य मुक्तिसुखाय प्रयतितव्यमिदमेव मनुष्यजन्मसाफल्यं वेद्यमिति ॥२२ ॥ अस्मिन्नध्याये व्यवहारजीवगतिजन्ममृत्युसत्याऽऽशीरग्निसत्येच्छानां व्याख्यानादेतदध्यायोक्तार्थस्य पूर्वाध्यायोक्तार्थेन सह सङ्गतिरस्तीति वेद्यम् ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! या जगात मानव शरीर धारण करून विद्या, उत्तम शिक्षण, चांगला स्वभाव, धर्म, योगाभ्यास, विज्ञानाचे ग्रहण करून मुक्ती सुखासाठी प्रयत्न करा. तीच मनुष्य जन्माची सार्थकता आहे, हे जाणा.