०१ यज्जाग्रतो दूरमुदैति
विश्वास-प्रस्तुतिः ...{Loading}...
यज्जाग्र॑तो दू॒रमु॒दैति॒ दैवं॒ तदु॑ सु॒प्तस्य॒ तथै॒वैति॑। दू॒र॒ङ्ग॒मं ज्योति॑षां॒ ज्योति॒रेकं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु ॥१ ॥
मूलम् ...{Loading}...
यज्जाग्र॑तो दू॒रमु॒दैति॒ दैवं॒ तदु॑ सु॒प्तस्य॒ तथै॒वैति॑। दू॒र॒ङ्ग॒मं ज्योति॑षां॒ ज्योति॒रेकं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु ॥१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यत्। जाग्र॑तः। दू॒रम्। उ॒दैतीत्यु॒त्ऽऐति॑। दैव॑म्। तत्। ऊँ॒ इत्यूँ। सु॒प्तस्य॑। तथा॑। ए॒व। एति॑। दू॒र॒ङ्गममिति॑ दू॒रम्ऽग॒मम्। ज्योति॑षाम्। ज्योतिः॑। एक॑म्। तत्। मे॒। मनः॑। शि॒वस॑ङ्कल्प॒मिति॑ शि॒वऽस॑ङ्कल्पम्। अ॒स्तु॒। १।
महीधरः
म० अनारभ्याधीतोऽध्यायः आ पितृमेधात् आदित्ययाज्ञवल्क्यदृष्टा मन्त्राः पाठे विनियुक्ताः । षडृचस्त्रिष्टुभो मनोदेवत्याः शिवसंकल्पदृष्टाः । ऋषिर्वदति । तन्मे मनः शिवसंकल्पमस्तु शिवः कल्याणकारी धर्मविषयः संकल्पो यस्य तत् तादृशं भवतु । मन्मनसि सदा धर्म एव भवतु न कदाचित्पापमित्यर्थः । तत्किम् । यत् मनो जाग्रतः पुरुषस्य दूरमुदैति उद्गच्छति । चक्षुराद्यपेक्षया मनो दूरगामीत्यर्थः । यच्च दैवं दीव्यति प्रकाशते देवो विज्ञानात्मा तत्र भवं दैवमात्मग्राहकमित्यर्थः । ‘मनसैवानुद्रष्टव्यमेतदप्रमयं ध्रुवम्’ इति श्रुतेः । तत् उ । यदः स्थाने तच्छब्दः उकारश्चार्थः । यच मनः सुप्तस्य पुंसः तथैव एति यथा गतं तथैव पुनरागच्छति स्वापकाले सुषुप्तावस्थायां पुनरागच्छति । यच्च दूरंगमं दूरात् गच्छतीति दूरंगमम् खश्प्रत्ययः । अतीतानागतवर्तमानविप्रकृष्टव्यवहितपदार्थानां ग्राहकमित्यर्थः । यच्च मनो ज्योतिषां प्रकाशकानां श्रोत्रादीन्द्रियाणामेकमेव ज्योतिः प्रकाशकं प्रवर्तकमित्यर्थः । प्रवर्तितान्येव श्रोत्रादीन्द्रियाणि स्वविषये प्रवर्तन्ते । आत्मा मनसा संयुज्यते मन इन्द्रियेणेन्द्रियमर्थेनेति न्यायोक्तेर्मनः संबन्धमन्तरा तेषामप्रवृत्तेः । तादृशं मे मनः शान्तसंकल्पमस्तु ॥ १॥
द्वितीया।
अधिमन्त्रम् (VC)
- मनो देवता
- शिवसङ्कल्प ऋषिः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब मन को वश करने का विषय कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे जगदीश्वर वा राजन् ! आपकी कृपा से (यत्) जो (दैवम्) आत्मा में रहने वा जीवात्मा का साधन (दूरङ्गमम्) दूर जाने, मनुष्य को दूर तक ले जाने वा अनेक पदार्थों का ग्रहण करनेवाला (ज्योतिषाम्) शब्द आदि विषयों के प्रकाशन श्रोत्र आदि इन्द्रियों को (ज्योतिः) प्रवृत्त करनेहारा (एकम्) एक (जाग्रतः) जागृत अवस्था में (दूरम्) दूर-दूर (उत्, ऐति) भागता है (उ) और (तत्) जो (सुप्तस्य) सोते हुए का (तथा, एव) उसी प्रकार (एति) भीतर अन्तःकरण में जाता है (तत्) वह (मे) मेरा (मनः) सङ्कल्प-विकल्पात्मक मन (शिवसङ्कल्पम्) कल्याणकारी धर्म विषयक इच्छावाला (अस्तु) हो ॥१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य परमेश्वर की आज्ञा का सेवन और विद्वानों का सङ्ग करके अनेकविध सामर्थ्ययुक्त मन को शुद्ध करते हैं, जो जागृतावस्था में विस्मृत व्यवहारवाला, वही मन सुषुप्ति अवस्था में शान्त होता है। जो वेगवाले पदार्थों में अतिवेगवान् ज्ञान के साधन होने से इन्द्रियों के प्रवर्त्तक मन को वश में करते हैं, वे अशुभ व्यवहार को छोड़ शुभ व्यवहार में मन को प्रवृत्त कर सकते हैं ॥१ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ मनसो वशीकरणविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे जगदीश्वर विद्वन् वा ! भवदनुग्रहेण यद्दैवं दूरङ्गमं ज्योतिषां ज्योतिरेकं जाग्रतो दूरमुदैति। तदु सुप्तस्य तथैवान्तरेति तन्मे मनः शिवसङ्कल्पमस्तु ॥१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्याः परमेश्वराज्ञासेवनं विद्वत्सङ्गं कृत्वा अनेकविधसामर्थ्ययुक्तं मनः शुद्धं सम्पादयन्ति, यज्जागृतावस्थायां विस्तृतव्यवहारं तत्सुषुप्तौ शान्तं भवति यद्वेगवतां वेगवत्तरं साधकत्वादिन्द्रियाणामपि प्रवर्त्तकं निगृह्णन्ति, तेऽशुभव्यवहारं विहाय शुभाचरेण प्रेरयितुं शक्नुवन्ति ॥१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे परमेश्वराच्या आज्ञेचे पालन करतात व विद्वानांची संगत धरतात, समर्थ्यवान मनाला पवित्र करतात. तेव्हा जागृत अवस्थेत व्यवहार करणारे मन सुषुप्तावस्थेत शांत होते. जे लोक ज्ञानेंद्रियांना प्रवृत्त करणाऱ्या अत्यंत वेगवान मनावर नियंत्रण ठेवतात, ते लोक अशुभ व्यवहाराचा त्याग करून मनाला शुभ व्यवहारात प्रवृत्त करू शकतात.
०२ येन कर्माण्यपसो
विश्वास-प्रस्तुतिः ...{Loading}...
येन॒ कर्मा॑ण्य॒पसो॑ मनी॒षिणो॑ य॒ज्ञे कृ॒ण्वन्ति॑ वि॒दथे॑षु॒ धीराः॑। यद॑पू॒र्वं य॒क्षम॒न्तः प्र॒जानां॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु ॥२ ॥
मूलम् ...{Loading}...
येन॒ कर्मा॑ण्य॒पसो॑ मनी॒षिणो॑ य॒ज्ञे कृ॒ण्वन्ति॑ वि॒दथे॑षु॒ धीराः॑। यद॑पू॒र्वं य॒क्षम॒न्तः प्र॒जानां॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु ॥२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
येन॑। कर्मा॑णि। अ॒पसः॑। म॒नी॒षिणः॑। य॒ज्ञे। कृ॒ण्वन्ति॑। वि॒दथे॑षु। धीराः॑। यत्। अ॒पू॒र्वम्। य॒क्षम्। अ॒न्तरित्य॒न्तः। प्र॒जाना॒मिति॑ प्र॒ऽजाना॑म्। तत्। मे॒। मनः॑। शि॒वस॑ङ्कल्प॒मिति॑ शि॒वऽस॑ङ्कल्पम्। अ॒स्तु। २।
महीधरः
म० मनीषिणः मेधाविनः यज्ञे येन मनसा सता कर्माणि कृण्वन्ति कुर्वन्ति ‘कृ करणे’ स्वादिः । मनःस्वास्थ्यविना कर्माप्रवृत्तेः । केषु सत्सु । विदथेषु ज्ञानेषु सत्सु विद्यन्ते ज्ञायन्ते तानि विदथानि तेषु । वेत्तेरौणादिकोऽथप्रत्ययः प्रत्ययोदात्तत्वेन मध्योदात्तं पदम् ‘प्रत्ययः परश्च आद्युदात्तश्च’ (पा० ३ । १। १-३) इति पाणिन्युक्तेः यज्ञसंबन्धिनां हविरादिपदार्थानां ज्ञानेषु सत्स्वित्यर्थः । कीदृशा मनीषिणः । अपसः अप इति कर्मनाम ( निघ० २ । १।१) अपो विद्यते येषां ते अपस्विनः कर्मवन्तः ‘अस्मायामेधास्रजो विनिः’ (पा० ५।२। १२१) इति विन्प्रत्ययः ‘विन्मतोर्लुक्’ इतीष्ठाभावेऽपि छान्दसो विनो लुक् (पा० ५ । ३ । ६५) सदा कर्मनिष्ठा इत्यर्थः । तथा धीराः धीमन्तः धीर्विद्यते येषां ते धीराः कर्मण्यण् ( पा० ३।२।१) यच्च मनः अपूर्वम् न विद्यते पूर्वमिन्द्रियं यस्मात्तदपूर्वम् इन्द्रियेभ्यः पूर्वं मनसः सृष्टेः। यद्वा अपूर्वमनपरमवाह्यमित्युक्तेरपूर्वमात्मरूपमित्यर्थः । यच्च यक्षं यष्टुं शक्तं यज्ञम् । यजतेरौणादिकः सन्प्रत्ययः ‘ञित्यादिर्नित्यम्’ (पा० ६ । १ । १९७ ) इत्याद्युदात्तं पदम् । यच्च प्रजायन्ते इति प्रजास्तासां प्राणिमात्राणामन्तः शरीरामध्ये आस्ते इतरेन्द्रियाणि बहिःष्ठानि मनस्त्वन्तरिन्द्रियमित्यर्थः । तत् तादृशं मे मनः शिवसंकल्पमस्त्विति व्याख्यातम् ॥ २॥
तृतीया ।
अधिमन्त्रम् (VC)
- मनो देवता
- शिवसङ्कल्प ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे परमेश्वर वा विद्वन् ! जब आपके सङ्ग से (येन) जिस (अपसः) सदा कर्म धर्मनिष्ठ (मनीषिणः) मन का दमन करनेवाले (धीराः) ध्यान करनेवाले बुद्धिमान् लोग (यज्ञे) अग्निहोत्रादि वा धर्मसंयुक्त व्यवहार वा योगयज्ञ में और (विदथेषु) विज्ञानसम्बन्धी और युद्धादि व्यवहारों में (कर्माणि) अत्यन्त इष्ट कर्मों को (कृण्वन्ति) करते हैं, (यत्) जो (अपूर्वम्) सर्वोत्तम गुण, कर्म, स्वभाववाला (प्रजानाम्) प्राणिमात्र के (अन्तः) हृदय में (यक्षम्) पूजनीय वा सङ्गत हो के एकीभूत हो रहा है, (तत्) वह (मे) मेरा (मनः) मनन-विचार करना रूप मन (शिवसङ्कल्पम्) धर्मेष्ट (अस्तु) होवे ॥२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि परमेश्वर की उपासना, सुन्दर विचार, विद्या और सत्सङ्ग से अपने अन्तःकरण को अधर्माचरण से निवृत्त कर धर्म के आचरण में प्रवृत्त करें ॥२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे परमेश्वर वा विद्वन् ! भवत्सङ्गेन येनापसो मनीषिणो धीरा यज्ञे विदथेषु च कर्माणि कृण्वन्ति यदपूर्वं प्रजानामन्तर्यक्षं वर्त्तते, तन्मे मनः शिवसङ्कल्पमस्तु ॥२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैः परमेश्वरस्योपासनेन सुविचारविद्यासत्सङ्गैरन्तःकरणधर्माचारान्निवर्त्य धर्माचारे प्रवर्त्तनीयम् ॥२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी परमेश्वराची उपासना करावी. उत्तम विचार, विद्या, सत्संग यांनी आपल्या अंतःकरणाला अधर्माचरणापासून निवृत्त करून धर्माचरणात प्रवृत्त करावे.
०३ यत्प्रज्ञानमुत चेतो
विश्वास-प्रस्तुतिः ...{Loading}...
यत्प्र॒ज्ञान॑मु॒त चेतो॒ धृति॑श्च॒ यज्ज्योति॑र॒न्तर॒मृतं॑ प्र॒जासु॑। यस्मा॒न्नऽऋ॒ते किं च॒न कर्म॑ क्रि॒यते॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु ॥३ ॥
मूलम् ...{Loading}...
यत्प्र॒ज्ञान॑मु॒त चेतो॒ धृति॑श्च॒ यज्ज्योति॑र॒न्तर॒मृतं॑ प्र॒जासु॑। यस्मा॒न्नऽऋ॒ते किं च॒न कर्म॑ क्रि॒यते॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु ॥३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यत्। प्र॒ज्ञान॒मिति॑ प्र॒ऽज्ञान॑म्। उ॒त। चेतः॑। धृतिः॑। च॒। यत्। ज्योतिः॑। अ॒न्तः। अ॒मृत॑म्। प्र॒जास्विति॑ प्र॒ऽजासु॑। यस्मा॑त्। न। ऋ॒ते। किम्। च॒न। कर्म॑। क्रि॒यते॑। तत्। मे॒। मनः॑। शि॒वस॑ङ्कल्प॒मिति॑ शि॒वऽस॑ङ्कल्पम्। अ॒स्तु। ३।
महीधरः
म० यत् मनः प्रज्ञानं विशेषेण ज्ञानजनकम् प्रकर्षेण ज्ञायते येन तत् प्रज्ञानम् । ‘करणाधिकरणयोश्च’ (पा० ३ । ३ । ११७) इति करणे ल्युट्प्रत्ययः । उत अपि यत् मनः चेतः चेतयति सम्यक् ज्ञापयति तच्चेतः । ‘चिती संज्ञाने’ अस्मात् ण्यन्तादसुन्प्रत्ययः । सामान्यविशेषज्ञानजनकमित्यर्थः। यच्च मनो धृतिर्धैर्यरूपम् । मनस्येव धैर्योत्पत्तेर्मनसि धैर्यमुपचर्यते कार्यकारणयोरभेदात् । यच्च मनः प्रजासु जनेषु अन्तर्वर्तमानं सत् ज्योतिः प्रकाशकं सर्वेन्द्रियाणाम् । उक्तमपि पुनरुच्यते आदरार्थम् । ‘अभ्यासे भूयांसमर्थं मन्यन्ते’ (निरु० १। ४२) इति यास्कोक्तेः । यच्चामृतममरणधर्मि आत्मरूपत्वात् । यस्मान्मनसः ऋते यन्मनोविना किंचन किमपि कर्म न क्रियते जनैः । सर्वकर्मसु प्राणिनां मनःपूर्वं प्रवृत्तेर्मनःस्वास्थ्यंविना कर्माभावादित्यर्थः । ‘अन्यारादितरर्ते-’ (पा. २। ३ । २९) इत्यादिना यस्मादिति ऋतेयोगे पञ्चमी । तन्मे मन इति व्याख्यातम् ॥ ३ ॥
चतुर्थी।
अधिमन्त्रम् (VC)
- मनो देवता
- शिवसङ्कल्प ऋषिः
- स्वराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे जगदीश्वर वा परमयोगिन् विद्वन् ! आपके जताने से (यत्) जो (प्रज्ञानम्) विशेष कर ज्ञान का उत्पादक बुद्धिरूप (उत) और भी (चेतः) स्मृति का साधन (धृतिः) धैर्यस्वरूप (यत् च) और जो लज्जादि कर्मों का हेतु (प्रजासु) मनुष्यों के (अन्तः) अन्तःकरण में आत्मा का साथी होने से (अमृतम्) नाशरहित (ज्योतिः) प्रकाशकरूप (यस्मात्) जिससे (ऋते) विना (किम्, चन) कोई भी (कर्म) काम (न) नहीं (क्रियते) किया जाता, (तत्) वह (मे) मुझ जीवात्मा का (मनः) सब कर्मों का साधनरूप मन (शिवसङ्कल्पम्) कल्याणकारी परमात्मा में इच्छा रखनेवाला (अस्तु) हो ॥३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जो अन्तःकरण, बुद्धि, चित्त और अहंकाररूप वृत्तिवाला होने से चार प्रकार से भीतर प्रकाश करनेवाला, प्राणियों के सब कर्मों का साधक, अविनाशी मन है, उसको न्याय और सत्य आचरण में प्रवृत्त कर पक्षपात, अन्याय और अधर्माचरण से तुम लोग निवृत्त करो ॥३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे जगदीश्वर परमयोगिन् विद्वन् वा ! भवज्ज्ञापनेन यत्प्रज्ञानं च ते उत चेतो धृतिर्यच्च प्रजास्वन्तरमृतं ज्योतिर्यस्मादृते किञ्चन कर्म न क्रियते, तन्मे मनः शिवसङ्कल्पमस्तु ॥३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यदन्तःकरणबुद्धिचित्तमनोऽहङ्कारवृत्तित्वाच्चतुर्विधमन्तःप्रकाशं प्रजानां सर्वकर्मसाधकं नाशरहितं मनोऽस्ति, तन्न्याये सत्याचरणे च प्रवर्त्य पक्षपाताऽन्यायाऽधर्माचरणाद् यूयं निवर्त्तयत ॥३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! अंतःकरण, बुद्धी, चित्त, अहंकार या चार वृत्तीने अंतःकरणात प्रकाश करणाऱ्या प्राण्यांच्या सर्व कर्मांचे साधक अशा अविनाशी मनाला न्याय व सत्य आचरणात प्रवृत्त करा व भेदभाव अन्याय, अधर्माचरण यापासून निवृत्त करा.
०४ येनेदं भूतम्
विश्वास-प्रस्तुतिः ...{Loading}...
येने॒दं भू॒तं भुव॑नं भवि॒ष्यत् परि॑गृहीतम॒मृते॑न॒ सर्व॑म्। येन॑ य॒ज्ञस्ता॒यते॑ स॒प्तहो॑ता॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु ॥४ ॥
मूलम् ...{Loading}...
येने॒दं भू॒तं भुव॑नं भवि॒ष्यत् परि॑गृहीतम॒मृते॑न॒ सर्व॑म्। येन॑ य॒ज्ञस्ता॒यते॑ स॒प्तहो॑ता॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु ॥४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
येन॑। इ॒दम्। भू॒तम्। भुव॑नम्। भ॒वि॒ष्यत्। परि॑गृहीत॒मिति॑ परि॑ऽगृहीतम्। अ॒मृते॑न। सर्व॑म्। येन॑। य॒ज्ञः। ता॒यते॑। स॒प्तहो॒तेति॑ स॒प्तऽहो॒ता। तत्। मे॒। मनः॑। शि॒वस॑ङ्कल्प॒मिति॑ शि॒वऽस॑ङ्कल्पम्। अ॒स्तु॒। ४।
महीधरः
म० येन मनसा इदं सर्वं परिगृहीतम् परितः सर्वतो ज्ञातम् । इदं किंभूतम् । भूतकालसंबन्धि वस्तु । भुवनं भवतीति भुवनम् । भवतेः क्युप्रत्ययः वर्तमानकालसंबन्धि । भविष्यत् ‘लृटः सद्वा’ (पा० ३।३। १४ ) इति शतृप्रत्ययः ‘तौ सत्’ (पा० ३।२। १२७) इत्युक्तेः त्रिकालसंबद्धवस्तषु मनः प्रवर्तत इत्यर्थः । श्रोत्रादीनि तु प्रत्यक्षमेव गृह्णन्ति । कीदृशेन येन । अमृतेन शाश्वतेन । मुक्तिपर्यन्तं श्रोत्रादीनि नश्यन्ति मनस्वनश्वरमित्यर्थः । येन च मनसा यज्ञोऽग्निष्टोमादिः तायते विस्तार्यते । ‘तनोतेर्यकि’ (पा० ६ । ४ । ४४ ) इत्याकारः । कीदृशो यज्ञः । सप्तहोता सप्त होतारो देवानामाह्वातारो होतृमैत्रावरुणादयो यत्र स सप्तहोता । अग्निष्टोमे सप्त होतारो भवन्ति । तन्मे मन इति व्याख्यातम् ॥ ४ ॥
पञ्चमी।
अधिमन्त्रम् (VC)
- मनो देवता
- शिवसङ्कल्प ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (येन) जिस (अमृतेन) नाशरहित परमात्मा के साथ युक्त होनेवाले मन से (भूतम्) व्यतीत हुआ (भुवनम्) वर्त्तमान काल सम्बन्धी और (भविष्यत्) होनेवाला (सर्वम्, इदम्) यह सब त्रिकालस्थ वस्तुमात्र (परिगृहीतम्) सब ओर से गृहीत होता अर्थात् जाना जाता है, (येन) जिससे (सप्तहोता) सात मनुष्य होता वा पाँच प्राण, छठा जीवात्मा और अव्यक्त सातवाँ ये सात लेने-देनेवाले जिसमें हों, वह (यज्ञः) अग्निष्टोमादि वा विज्ञानरूप व्यवहार (तायते) विस्तृत किया जाता है, (तत्) वह (मे) मेरा (मनः) योगयुक्त चित (शिवसङ्कल्पम्) मोक्षरूप सङ्कल्पवाला (अस्तु) होवे ॥४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जो चित्त योगाभ्यास के साधन और उपसाधनों से सिद्ध हुआ भूत, भविष्यत्, वर्त्तमान तीनों काल का ज्ञाता, सब सृष्टि का जाननेवाला, कर्म, उपासना और ज्ञान का साधक है, उसको सदा ही कल्याण में प्रिय करो ॥४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! येनामृतेन भूतं भुवनं भविष्यत् सर्वमिदं परिगृहीतं भवति, येन सप्तहोता यज्ञस्तायते, तन्मे मनः शिवसङ्कल्पमस्तु ॥४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यच्चित्तं योगाभ्याससाधनोपसाधनसिद्धं भूतभविष्यद्वर्त्तमानज्ञं सर्वसृष्टिविज्ञातृ-कर्मोपासनाज्ञानसाधकं वर्त्तते, तत्सदैव कल्याणप्रियं कुरुत ॥४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! जे चित्त योगाभ्यासाची साधने व उपसाधने यांनी सिद्ध झालेले असते. भूत, भविष्य व वर्तमान या तीन काळांचे ज्ञाता असणारे व सर्व सृष्टीला जाणणारे, ज्ञान, तसेच कर्म व उपासना यांचे साधक असते ते चित्त सदैव कल्याणकारी बनावे.
०५ यस्मिन्नृचः साम
विश्वास-प्रस्तुतिः ...{Loading}...
यस्मि॒न्नृचः॒ साम॒ यजूँ॑षि॒ यस्मि॒न् प्रति॑ष्ठिता रथना॒भावि॑वा॒राः। यस्मिँ॑श्चि॒त्तँ सर्व॒मोतं॑ प्र॒जानां॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु ॥५ ॥
मूलम् ...{Loading}...
यस्मि॒न्नृचः॒ साम॒ यजूँ॑षि॒ यस्मि॒न् प्रति॑ष्ठिता रथना॒भावि॑वा॒राः। यस्मिँ॑श्चि॒त्तँ सर्व॒मोतं॑ प्र॒जानां॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु ॥५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यस्मि॑न्। ऋचः॑। साम॑। यजूँ॑षि। यस्मि॑न्। प्रति॑ष्ठि॑ता। प्रति॑स्थ॒तेति॒ प्रति॑ऽस्थिता। र॒थ॒ना॒भावि॒वेति॑ रथना॒भौऽइ॑व। अ॒राः। यस्मि॑न्। चि॒त्तम्। सर्व॑म्। ओत॒मित्याऽउ॑तम्। प्र॒जाना॒मिति॑ प्र॒ऽजाना॑म्। तत्। मे॒। मनः॑। शि॒वस॑ङ्कल्प॒मिति॑ शि॒वऽस॑ङ्कल्पम्। अ॒स्तु। ५।
महीधरः
म० यस्मिन् मनसि ऋचः प्रतिष्ठिताः । यस्मिन् साम सामानि प्रतिष्ठितानि । यस्मिन् यजूंषि प्रतिष्ठितानि । मनसः स्वास्थ्ये एव वेदत्रयीस्फूर्तेर्मनसि शब्दमात्रस्य प्रतिष्ठितत्वम् | ‘अन्नमयं हि सोम्य मनः’ इति छान्दोग्ये मनस एव स्वास्थ्ये वेदोच्चारणशक्तिः प्रतिपादिता । तत्र दृष्टान्तः । रथनाभौ आराः इव । यथा आराः रथचक्रनाभौ मध्ये प्रतिष्ठितास्तद्वच्छब्दजालं मनसि । किंच प्रजानां सर्वं चित्तं ज्ञानम् सर्वपदार्थविषयि ज्ञानं यस्मिन् मनसि ओतं प्रोतं निक्षिप्तं तन्तुसन्ततिः पटे इव सर्वं ज्ञानं मनसि निहितम् । मनःस्वास्थ्ये एव ज्ञानोत्पत्तिर्मनोवैयग्र्ये च ज्ञानाभावः । तन्मे मम मनः शिवसंकल्पं शान्तव्यापारमस्तु ॥ ५॥
षष्ठी।
अधिमन्त्रम् (VC)
- मनो देवता
- शिवसङ्कल्प ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यस्मिन्) जिस मन में (रथनाभाविव, अराः) जैसे रथ के पहिये के बीच के काष्ठ में अरा लगे होते हैं, वैसे (ऋचः) ऋग्वेद (साम) सामवेद (यजूंषि) यजुर्वेद (प्रतिष्ठिता) सब ओर से स्थित और (यस्मिन्) जिसमें अथर्ववेद स्थित है, (यस्मिन्) जिसमें (प्रजानाम्) प्राणियों का (सर्वम्) समग्र (चित्तम्) सर्व पदार्थसम्बन्धी ज्ञान (ओतम्) सूत में मणियों के समान संयुक्त है, (तत्) वह (मे) मेरा (मनः) मन (शिवसङ्कल्पम्) कल्याणकारी वेदादि सत्यशास्त्रों का प्रचाररूप सङ्कल्पवाला (अस्तु) हो ॥५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। हे मनुष्यो ! तुम लोगों को चाहिये कि जिस मन के स्वस्थ रहने में ही वेदादि विद्याओं का आधार और जिसमें सब व्यवहारों का ज्ञान एकत्र होता है, उस अन्तःकरण को विद्या और धर्म के आचरण से पवित्र करो ॥५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - रथनाभाविवारा यस्मिन् मनसि ऋचः साम यजूंषि प्रतिष्ठिता, यस्मिन्नथर्वाणः प्रतिष्ठिता भवन्ति, यस्मिन् प्रजानां सर्व चित्तमोतमस्ति, तन्मे मनः शिवसङ्कल्पमस्तु ॥५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। हे मनुष्याः ! युष्माभिर्यस्य स्वास्थ्य एव वेदादिपठनपाठनव्यवहारो घटते तत् मन एव वेदादिविद्याधारं यत्र सर्वेषां व्यवहाराणां ज्ञानं सञ्चितं भवति, तदन्तःकरणं विद्याधर्माचरणेन पवित्रं संपादनीयम् ॥५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! रथामध्ये आरे असल्याप्रमाणे स्वस्थ मनात ऋग्वेद, यजुर्वेद, सामवेद व अथर्ववेद स्थित आहेत. ज्या मनात पदार्थांचे व प्राण्यांचे व्यावहारिक ज्ञान धाग्यात मणी गुंफल्याप्रमाणे स्थित आहे ते मन विद्या व धर्म यांद्वारे पवित्र करा.
०६ सुषारथिरश्वानिव
विश्वास-प्रस्तुतिः ...{Loading}...
सु॒षा॒र॒थिरश्वा॑निव॒ यन्म॑नु॒ष्या᳖न्ने॑नी॒यते॒ऽभीशु॑भिर्वा॒जिन॑ऽइव। हृ॒त्प्रति॑ष्ठं॒ यद॑जि॒रं जवि॑ष्ठं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु ॥६ ॥
मूलम् ...{Loading}...
सु॒षा॒र॒थिरश्वा॑निव॒ यन्म॑नु॒ष्या᳖न्ने॑नी॒यते॒ऽभीशु॑भिर्वा॒जिन॑ऽइव। हृ॒त्प्रति॑ष्ठं॒ यद॑जि॒रं जवि॑ष्ठं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु ॥६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सु॒षा॒र॒थिः। सु॒सा॒र॒थिरिति॑ सुऽसार॒थिः। अश्वा॑नि॒वेत्यश्वा॑न्ऽइव। यत्। म॒नु॒ष्या᳖न्। ने॒नी॒यते॑। अ॒भीशु॑भि॒रित्य॒भीशु॑ऽभिः। वा॒जिन॑ऽइ॒वेति॑ वा॒जिनः॑ऽइव। हृ॒त्प्रति॑ष्ठम्। हृ॒त्प्रतिस्थ॒मिति॑ हृ॒त्ऽप्रति॑स्थम्। यत्। अ॒जि॒रम्। जवि॑ष्ठम्। तत्। मे॒। मनः॑। शि॒वस॑ङ्कल्प॒मिति॑ शि॒वऽस॑ङ्कल्पम्। अ॒स्तु॒। ६।
महीधरः
म० यत् मनो मनुष्यान्नरान्नेनीयते अत्यर्थमितस्ततो नयति । नयतेः क्रियासमभिहारे यङ् । मनःप्रेरिता एव प्राणिनः प्रवर्तन्ते । मनुष्यग्रहणं प्राणिमात्रोपलक्षकम् । तत्र दृष्टान्तः । सुसारथिः अश्वानिव शोभनः सारथिर्यन्ता यथा कशया अश्वान् नेनीयते । द्वितीयो दृष्टान्तः । अभीशुभिर्वाजिन इव यथा सुसारथिरभीशुभिः प्रग्रहैः वाजिनोऽश्वान्नेनीयत इत्यनुषङ्गः । रश्मिभिर्नियच्छतीत्यर्थः । उपमाद्वयम् । प्रथमायां नयनं द्वितीयायां नियमनम् । तथा मनः प्रवर्तयति नियच्छति च नरानित्यर्थः । यच्च मनः हृत्प्रतिष्ठं हृदि प्रतिष्ठा स्थितिर्यस्य तत् हृद्येव मन उपलभ्यते । यच्च मनः अजिरं जरारहितम् बाल्ययौवनस्थाविरेषु मनसस्तदवस्थत्वात् । यच्च जविष्ठम् अतिजववद्वेगवत् जविष्ठम् ‘न वै वातात्किंचनाशीयोऽस्ति न मनसः किंचनाशीयोऽस्ति’ इति श्रुतेः । तन्म इत्युक्तम् ॥ ६॥
सप्तमी।
अधिमन्त्रम् (VC)
- मनो देवता
- शिवसङ्कल्प ऋषिः
- स्वराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यत्) जो मन (सुषारथिः) जैसे सुन्दर चतुर सारथि गाड़ीवान् (अश्वानिव) लगाम से घोड़ों को सब ओर से चलाता है, वैसे (मनुष्यान्) मनुष्यादि प्राणियों को (नेनीयते) शीघ्र-शीघ्र इधर-उधर घुमाता है और (अभीशुभिः) जैसे रस्सियों से (वाजिन इव) वेगवाले घोड़ों को सारथि वश में करता, वैसे नियम में रखता (यत्) जो (हृत्प्रतिष्ठम्) हृदय में स्थित (अजिरम्) विषयादि में प्रेरक वा वृद्धादि अवस्थारहित और (जविष्ठम्) अत्यन्त वेगवान् है, (तत्) वह (मे) मेरा (मनः) मन (शिवसङ्कल्पम्) मङ्गलमय नियम में इष्ट (अस्तु) होवे ॥६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में दो उपमालङ्कार हैं। जो मनुष्य जिस पदार्थ में आसक्त है, वहीं बल से सारथि घोड़ों को जैसे वैसे प्राणियों को ले जाता और लगाम से सारथि घोड़ों को जैसे वैसे वश में रखता, सब मूर्खजन जिसके अनुकूल वर्त्तते और विद्वान् अपने वश में करते हैं, जो शुद्ध हुआ सुखकारी और अशुद्ध हुआ दुःखदायी, जो जीता हुआ सिद्धि को और न जीता हुआ असिद्धि को देता है, वह मन मनुष्यों को अपने वश में रखना चाहिये ॥६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यत् सुषारथिरश्वानिव मनुष्यान्नेनीयतेऽभीशुभिर्वाजिन इव नियच्छति च बलात् सारथिरश्वानिव प्राणिनो नयति, यद्धृत्प्रतिष्ठमजिरं जविष्ठमस्ति, तन्मे मनः शिवसङ्कल्पमस्तु ॥६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारौ। यत्रासक्तं तत्रैव प्रग्रहैः सारथिः तुरङ्गानिव वशे स्थापयति, सर्वेऽविद्वांसो यदनुवर्त्तन्ते विद्वांसश्च यत्स्ववशं कुर्वन्ति, यच्छुद्धं सत्सुखकार्य्यशुद्धं सद् दुःखकारि यज्जितं सिद्धिं यदजितमसिद्धिं प्रयच्छति, तन्मनो मनुष्यैः स्ववशं सदा रक्षणीयम् ॥६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात दोन उपमालंकार आहेत. जसा चतुर सारथी घोड्यांचा लगाम खेचून त्यांना योग्य तऱ्हेने चालवून वेगवान घोड्यांना आपल्या ताब्यत ठेवतो.
सविता जोशी ← दयानन्दः (म) - पादटिप्पनी
टिप्पणी: तसे मूर्ख लोक ज्या मनाच्या तंत्राने वागतात व विद्वान लोक त्या मनाला ताब्यत ठेवतात. असे मन पवित्र असेल तर सुखदायक व अपवित्र असेल तर दुःखदायक ठरते. त्यामुळे जिंकल्यास अजिंक्य नसता हार अशा या चिरतरुण मनाला (विषयाकडे न वळविता) माणसांनी आपल्या ताब्यात ठेवले पाहिजे.
०७ पितुं नु
विश्वास-प्रस्तुतिः ...{Loading}...
पि॒तुं नु स्तो॑षं म॒हो ध॒र्माणं॒ तवि॑षीम्। यस्य॑ त्रि॒तो व्योज॑सा वृ॒त्रं विप॑र्वम॒र्द्दय॑त् ॥७ ॥
मूलम् ...{Loading}...
पि॒तुं नु स्तो॑षं म॒हो ध॒र्माणं॒ तवि॑षीम्। यस्य॑ त्रि॒तो व्योज॑सा वृ॒त्रं विप॑र्वम॒र्द्दय॑त् ॥७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पितुम्। नु। स्तो॒ष॒म्। म॒हः। धर्मा॑ण॑म्। तवि॑षीम्। यस्य॑। त्रि॒तः। वि। ओज॑सा। वृ॒त्रम्। विप॑र्व॒मिति॒ विऽप॑र्वम्। अ॒र्दय॑त्। ७।
महीधरः
म० उष्णिक् अन्नस्तुतिः । तं पितुमन्नं स्तोषं स्तौमि । किंभूतम् । महो महसः तविषीं तविष्याः बलस्य धर्माणं धारयितारम् । तविषीति बलनाम । विभक्तिव्यत्ययः । अन्नेनैव बलोत्पत्तेः । तं कम् । यस्य पितोरोजसा बलेन त्रितः त्रिस्थान इन्द्रः वृत्रं दैत्यं विपर्वं गतसंधिबन्धनं कृत्वा वि अर्दयत् विविधमर्दितवान् । इन्द्रेण वृत्रोऽत्र बलेनैव हत इत्यर्थः । स्तोषं स्तोतेर्मिपि ‘इतश्च लोपः परस्मैपदेषु’ ( पा० ३ । ४ । ९७ ) इति इकारलोपे ‘लेटोऽडाटौ’ (पा० ३।४ । ९४ ) इत्याडागमे ‘सिब्बहुलं लेटि’ (पा० ३ । १ । ३४ ) इति सिप्प्रत्यये गुणे च रूपम् । महः । महच्छब्दस्य ङसि छान्दसष्टिलोपः। धर्माणम् धरतेर्मन् । विपर्वम् विगतानि पर्वाणि यस्य तम् । डप्रत्यये टिलोपः । अर्दयत् ‘बहुलं छन्दस्यमाङ्योगेऽपि’ (पा० ६ । ४ । ७५) इत्यडभावः । ‘व्यवहिताश्च’ ( पा० १। ४ । ८२ ) इति वेरुपसर्गस्य व्यवधानम् ॥ ७ ॥
अष्टमी।
अधिमन्त्रम् (VC)
- अन्नं देवता
- शिवसङ्कल्प ऋषिः
- उष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
अब कौन मनुष्य शत्रुओं को जीत सकता है, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - मैं (यस्य) जिसके (पितुम्) अन्न (महः) महान् (धर्माणम्) पक्षपातरहित न्यायाचरणरूप धर्म और (तविषीम्) बलयुक्त सेना की (नु) शीघ्र (स्तोषम्) स्तुति करता हूँ, वह राजपुरुष (त्रितः) तीनों काल में जैसे सूर्य्य (ओजसा) जल के साथ वर्त्तमान (विपर्वम्) जिसकी बादल रूप गाँठ भिन्न-भिन्न हों, उस (वृत्रम्) मेघ को (वि, अर्दयत्) विशेष कर नष्ट करता है, वैसे शत्रुओं के जीतने को समर्थ होता है ॥७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जिसने सत्य-धर्म, बलवती सेना और पुष्कल अन्नादि सामग्री धारण की है, वह जैसे सूर्य्य मेघ को, वैसे शत्रुओं को जीत सकता है ॥७ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ कः शत्रून् विजेतुं शक्नोतीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - अहं यस्य पितुं महो धर्माणं तविषीं नु स्तोषं स राजपुरुषः त्रितः सूर्य ओजसा सह वर्त्तमानं विपर्वं वृत्रं व्यर्दयदिव शत्रूञ्जेतुं शक्नोति ॥७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। येन सत्यो धर्मो बलवती सेना पुष्कलान्नादिसामग्री च ध्रियते स सूर्य्यो मेघमिव शत्रून् विजेतुं शक्नुयात् ॥७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. ज्याने सत्य धर्म, बलवान सेना व पुष्कळ अन्न इत्यादी साधने प्राप्त केलेली आहेत. तो सूर्य जसा मेघरूपी शत्रूंना जिंकतो तसे शत्रूला जिंकू शकतो.
०८ अन्विदनुमते त्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
अन्विद॑नुमते॒ त्वं मन्या॑सै॒ शं च॑ नस्कृधि। क्रत्वे॒ दक्षा॑य नो हिनु॒ प्र ण॒ऽआयूँ॑षि तारिषः ॥८ ॥
मूलम् ...{Loading}...
अन्विद॑नुमते॒ त्वं मन्या॑सै॒ शं च॑ नस्कृधि। क्रत्वे॒ दक्षा॑य नो हिनु॒ प्र ण॒ऽआयूँ॑षि तारिषः ॥८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अनु॑। इत्। अ॒नु॒म॒त॒ इत्यनु॑ऽमते। त्वम्। मन्या॑सै। शम्। च॒। नः॒। कृ॒धि॒। क्रत्वे॒॑। दक्षा॑य। नः॒। हि॒नु॒। प्र। नः॒। आयूँ॑षि। ता॒रि॒षः॒। ८।
महीधरः
म० चतस्रोनुष्टुभः द्वयोऽरनुमतिर्देवता । इत् निपातोऽनर्थकः । हे अनुमते, त्वमनुमन्यासै अनुमन्यस्वास्मदुक्तं बुध्यस्व । नोऽस्माकं शं च शमेव सुखमेव कृधि कुरु । च पुनः नोऽस्माकं क्रत्वे क्रतवे संकल्पाय दक्षाय तत्समृद्धये संकल्पसिद्धये च नोऽस्मान् हिनु गमय । नोऽस्माकमायूंषि प्रतारिषः प्रतारय वर्धय । ‘लेटोऽडाटौ’ (पा० ३ । ४ । ९४ ) इत्याट् ‘वैतोऽन्यत्र’ (पा० ३ । ४ । ९६ ) इत्यैकारः। कृधि ‘श्रुशृणुपॄकृवृभ्यश्छन्दसि’ (पा० ६ । ४ । १०२) इति हेर्धिः ‘बहुलं छन्दसि’ (पा० २ । ४ । ७३) इति शपो लुक् । क्रत्वे गुणाभावे यणादेशः । तारिषः ‘सिब्बहुलं छन्दसि णिद्वक्तव्यः’ ( पा० ३ । २ । ३४ ) इति वृद्धिः । अन्यत्पूर्ववत् । प्रपूर्वस्तरतिर्वृद्ध्यर्थः ॥ ८॥
नवमी।
अधिमन्त्रम् (VC)
- अनुमतिर्देवता
- अगस्त्य ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अनुमते) अनुकूल बुद्धिवाले सभापति विद्वन् ! (त्वम्) आप जिसको (शम्) सुखकारी (अनु, मन्यासै) अनुकूल मानो, उससे युक्त (नः) हमको (कृधि) करो (क्रत्वे) बुद्धि (दक्षाय) बल वा चतुराई के लिये (नः) हमको (हिनु) बढ़ाओ (च) और (नः) हमारी (आयूंषि) अवस्थाओं को (इत्) निश्चय कर (प्र, तारिषः) अच्छे प्रकार पूर्ण कीजिये ॥८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि जैसे स्वार्थसिद्धि के अर्थ प्रयत्न किया जाता, वैसे अन्यार्थ में भी प्रयत्न करें, जैसे आप अपने कल्याण और वृद्धि चाहते हैं, वैसे औरों की भी चाहें। इस प्रकार सबकी पूर्ण अवस्था सिद्ध करें ॥८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैः किं कर्त्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अनुमते सभापते विद्वंस्त्वं ! यच्छमनुमन्यासै तेन युक्तान्नस्कृधि, क्रत्वे दक्षाय नो हिनु च न आयूंषि चेत्प्रतारिषः ॥८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्यथा स्वार्थसिद्धये प्रयत्यते, तथैवान्यार्थेऽपि प्रयत्नो विधेयो यथा स्वस्य कल्याणवृद्धी अन्वेष्टव्ये, तथाऽन्येषामपि। एवं सर्वेषां पूर्णमायुः सम्पादनीयम् ॥८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणूस स्वतःच्या स्वार्थसिद्धीसाठी जसा प्रयत्न करतो तसा इतरांसाठीही करावा. आपल्या कल्याणाची जशी इच्छा बाळगतो तशी इतरांसाठीही बाळगावी. याप्रमाणे सर्वांची आयुष्ये परिपूर्ण करावीत.
०९ अनु नोऽद्यानुमतिर्यज्ञम्
विश्वास-प्रस्तुतिः ...{Loading}...
अनु॑ नो॒ऽद्यानु॑मतिर्य॒ज्ञं दे॒वेषु॑ मन्यताम्। अ॒ग्निश्च॑ हव्य॒वाह॑नो॒ भव॑तं दा॒शुषे॒ मयः॑ ॥९ ॥
मूलम् ...{Loading}...
अनु॑ नो॒ऽद्यानु॑मतिर्य॒ज्ञं दे॒वेषु॑ मन्यताम्। अ॒ग्निश्च॑ हव्य॒वाह॑नो॒ भव॑तं दा॒शुषे॒ मयः॑ ॥९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अनु॑। नः॒। अ॒द्य। अनु॑मति॒रित्यनु॑ऽमतिः। य॒ज्ञम्। दे॒वेषु॑। म॒न्य॒ता॒म्। अ॒ग्निः। च॒। ह॒व्य॒वाह॑न॒ इति॑ हव्य॒ऽवाह॑नः। भव॑तम्। दा॒शुषे॑ मयः॑। ९।
महीधरः
म० अनुमतिः अद्य नोऽस्माकं यज्ञं देवेषु यज्ञियेषु अनुमन्यताम् । अग्निश्च यज्ञं देवेषु अनुमन्यताम् । किंभूतोऽग्निः । हव्यवाहनः हविषां वोढा । किंच दाशुषे हवींषि दत्तवते यजमानाय मयः सुखरूपौ अनुमत्यग्नी भवतम् । भवतामिति पुरुषव्यत्ययः । हव्यं वहतीति हव्यवाहनः ‘हव्येऽनन्तःपादम्’ (पा० ३ । २ । ६६ ) इति वहेर्ण्युट् । दाशुषे ‘दाश्वान्साह्वान्-’ (पा० ६।१ । १२) इति साधुः ॥ ९॥
दशमी।
अधिमन्त्रम् (VC)
- अनुमतिर्देवता
- अगस्त्य ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (अनुमतिः) अनूकूल विज्ञानवाला जन (अद्य) आज (देवेषु) विद्वानों में (नः) हमारे (यज्ञम्) सुख देने के साधनरूप व्यवहार को (अनु, मन्यताम्) अनुकूल माने, वह (च) और (हव्यवाहनः) ग्रहण करने योग्य पदार्थों को प्राप्त करानेवाले (अग्निः) अग्नि के तुल्य तेजस्वी वा अग्निविद्या का विद्वान् तुम दोनों (दाशुषे) दानशील मनुष्य के लिये (मयः) सुखकारी (भवतम्) होओ ॥९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य सत्कर्मों के अनुष्ठान में अनुमति देने और दुष्टकर्मों के अनुष्ठान को निषेध करनेवाले हैं, वे अग्नि आदि की विद्या से सबके लिये सुख देवें ॥९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - योऽनुमतिरद्य देवेषु नो यज्ञमनुमन्यतां स हव्यवाहनोऽग्निश्च युवां दाशुषे मयः सुखकारिणौ भवतम् ॥९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्याः सत्कर्मानुष्ठानेऽनुमतिदातारो दुष्टकर्मानुष्ठानस्य निषेधकास्तेऽग्न्यादिविद्यया सुखं सर्वेभ्यः प्रयच्छन्ति ॥९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे सत्कर्माच्या अनुष्ठानाला मान्यता देतात व वाईट कर्माच्या अनुष्ठानाचा निषेध करतात त्यांनी अग्नी वगैरे विद्येद्वारे सर्वांना सुख द्यावे.
१० सिनीवालि पृथुष्टुके
विश्वास-प्रस्तुतिः ...{Loading}...
सिनी॑वालि॒ पृथु॑ष्टुके॒ या दे॒वाना॒मसि॒ स्वसा॑। जु॒षस्व॑ ह॑व्यमाहु॑तं प्र॒जां दे॑वि दिदिड्ढि नः ॥१० ॥
मूलम् ...{Loading}...
सिनी॑वालि॒ पृथु॑ष्टुके॒ या दे॒वाना॒मसि॒ स्वसा॑। जु॒षस्व॑ ह॑व्यमाहु॑तं प्र॒जां दे॑वि दिदिड्ढि नः ॥१० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सिनी॑वालि। पृथु॑ष्टुके। पृथु॑स्तुक॒ इति॒ पृथु॑ऽस्तुके। या। दे॒वाना॑म्। असि॑। स्वसा॑। जु॒षस्व॑। ह॒व्यम्। आहु॑त॒मित्याऽहु॑तम्। प्र॒जामिति॑ प्र॒ऽजाम्। दे॒वि॒। दि॒दि॒ड्ढि॒। नः॒। १०।
महीधरः
म० सिनीवाली देवता । हे सिनीवालि, हे पृथुष्टुके, स्तुकं केशभारः स्तुतिः कामो वा । हे पृथुकेशभारे, महास्तुते वा पृथुकामे वा । या त्वं देवानां स्वसा असि भगिनी भवसि । सा त्वमाहुतं हव्यं जुषस्व प्रीत्या गृह्णीष्व । हे देवि, नोऽस्मभ्यं प्रजां च दिदिढ्ढि दिश देहि । ‘बहुलं छन्दसि’ ( पा० २ । ४ । ७६ ) इति दिशतेः शपः श्लुः ततो द्वित्वादि ॥ १० ॥
एकादशी ।
अधिमन्त्रम् (VC)
- सिनीवाली देवता
- गृत्समद ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब विदुषी कुमारी क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सिनीवालि) प्रेमयुक्त बल करनेहारी (पृथुष्टुके) जिसकी विस्तृत स्तुति शिर के बाल वा कामना हो, ऐसी (देवि) विदुषि कुमारी (या) जो तू (देवानाम्) विद्वानों की (स्वसा) बहिन (असि) है, सो (हव्यम्) ग्रहण करने योग्य (आहुतम्) अच्छे प्रकार वर दीक्षादि कर्म्मों से स्वीकार किये पति का (जुषस्व) सेवन कर और (नः) हमारे लिये (प्रजाम्) सुन्दर सन्तानरूप प्रजा को (दिदिड्ढि) दे ॥१० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे कुमारियो ! तुम ब्रह्मचर्य्य आश्रम के साथ समस्त विद्याओं को प्राप्त हो, युवति हो के अपने को अभीष्ट स्वयं परीक्षा किये वरने योग्य पतियों को आप वरो, उन पतियों के साथ आनन्द कर प्रजा, पुत्रादि को उत्पन्न किया करो ॥१० ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ विदुष्यः कुमार्यः किं कुर्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सिनीवालि पृथुष्टुके देवि विदुषि कुमारि ! या त्वं देवानां स्वसाऽसि, सा हव्यमाहुतं पतिं जुषस्व नः प्रजां दिदिड्ढि ॥१० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे कुमार्यो ! यूयं ब्रह्मचर्य्येण समग्रा विद्याः प्राप्य युवतयो भूत्वा स्वेष्टान् स्वपरीक्षितान् वर्त्तुमर्हान् पतीन् स्वयं वृणुत, तैः सहानन्द्य प्रजा उत्पादयत ॥१० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे कुमारिकांनो ! तुम्ही ब्रह्मचर्याश्रमात संपूर्ण विद्या प्राप्त करून यौवनावस्थेत स्वतः परीक्षा करून योग्य पतींचे वर्णन करा आणि त्या पतींबरोबर आनंदाने संताने उत्पन्न करा.
११ पञ्च नद्यः
विश्वास-प्रस्तुतिः ...{Loading}...
पञ्च॑ न॒द्यः᳙ सर॑स्वती॒मपि॑ यन्ति॒ सस्रो॑तसः। सर॑स्वती॒ तु प॑ञ्च॒धा सो दे॒शेऽभ॑वत् स॒रित् ॥११ ॥
मूलम् ...{Loading}...
पञ्च॑ न॒द्यः᳙ सर॑स्वती॒मपि॑ यन्ति॒ सस्रो॑तसः। सर॑स्वती॒ तु प॑ञ्च॒धा सो दे॒शेऽभ॑वत् स॒रित् ॥११ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पञ्च॑। न॒द्यः᳙। सर॑स्वतीम्। अपि॑। य॒न्ति॒। सस्रो॑तस॒ इति॒ सऽस्रो॑तसः। सर॑स्वती। तु। प॒ञ्च॒धा। सा। उँ॒ इत्यूँ॑। दे॒शे। अ॒भ॒व॒त्। स॒रित्। ११।
महीधरः
म० सरस्वतीनदीदेवत्या । याः दृषद्वत्याद्याः पञ्च नद्यः सरस्वतीमपियन्ति गच्छन्ति । किंभूताः सस्रोतसः समानं स्रोतः प्रवाहो यासां ताः । तुरवधारणे । सा उ सैव सरस्वत्येव पञ्चधा देशे सरिन्नदी अभवत् पञ्चापि स्वनामानि त्यक्त्वा सरस्वत्येवाभवत् ॥ ११॥
द्वादशी।
अधिमन्त्रम् (VC)
- सरस्वती देवता
- गृत्समद ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - मनुष्यों को चाहिये कि (सस्रोतसः) एक मन रूप प्रवाहोंवाली (पञ्च) पाँच (नद्यः) नदी के तुल्य प्रवाहरूप ज्ञानेन्द्रियों की वृत्ति, जिस (सरस्वतीम्) प्रशस्त विज्ञानयुक्त वाणी को (अपि, यन्ति) प्राप्त होती हैं (सा, उ) वह भी (सरित्) चलनेवाली (सरस्वती) वाणी (देशे) अपने निवासस्थान में (पञ्चधा) पाँच ज्ञानेन्द्रियों के शब्दादि पाँच विषयों का प्रतिपादन करने से पाँच प्रकार की (तु) ही (अभवत्) होती है, ऐसा जानें ॥११ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को चाहिये कि जो वाणी पाँच शब्दादि विषयों के आश्रित हुई नदी के तुल्य प्रवाहयुक्त वर्त्तमान है, उसको जानके यथावत् प्रचार कर मधुर और श्लक्ष्ण प्रयुक्त करें ॥११ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - मनुष्यैः सस्रोतसः पञ्च नद्यः यां सरस्वतीमपि यन्ति, सा उ सरित् सरस्वती देशे पञ्चधा त्वभवदिति विज्ञेया ॥११ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैर्या वाणी पञ्चशब्दादिविषयाश्रिता सरिद्वर्त्तते, तां विज्ञाय यथावत् प्रसार्य मधुरा श्लक्ष्णा प्रयोक्तव्या ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जी वाणी पाच शब्द इत्यादी विषयांच्या आश्रित राहून नदीप्रमाणे प्रवाहयुक्त असते. पंचज्ञानेंद्रियांचे शब्दादी पाच विषयांचे प्रतिपादनही तिच्यामुळे होते हे जाणून माणसांनी तिचा यथायोग्य व मधुरतेने उपयोग करावा.
१२ त्वमग्ने प्रथमोऽअङ्गिराऽऋषिर्देवो
विश्वास-प्रस्तुतिः ...{Loading}...
त्वम॑ग्ने प्रथ॒मोऽअङ्गि॑रा॒ऽऋषि॑र्दे॒वो दे॒वाना॑मभवः शि॒वः सखा॑। तव॑ व्र॒ते क॒वयो॑ विद्म॒नाप॒सोऽजा॑यन्त म॒रुतो॒ भ्राज॑दृष्टयः ॥१२ ॥
मूलम् ...{Loading}...
त्वम॑ग्ने प्रथ॒मोऽअङ्गि॑रा॒ऽऋषि॑र्दे॒वो दे॒वाना॑मभवः शि॒वः सखा॑। तव॑ व्र॒ते क॒वयो॑ विद्म॒नाप॒सोऽजा॑यन्त म॒रुतो॒ भ्राज॑दृष्टयः ॥१२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
त्वम्। अ॒ग्ने॒। प्र॒थ॒मः। अङ्गि॑राः। ऋषिः॑। दे॒वः। दे॒वाना॑म्। अ॒भ॒वः॒। शि॒वः। सखा॑। तव॑। व्र॒ते। क॒वयः॑। वि॒द्म॒नाप॑स॒ इति॑ विद्म॒नाऽअ॑पसः। अजा॑यन्त। म॒रुतः॑। भ्राज॑दृष्टय॒ इति॒ भ्राज॑त्ऽऋष्टयः। १२।
महीधरः
म० चतस्र आग्नेय्यः द्वे जगत्यौ अन्ये त्रिष्टुबनुष्टुभौ । हे अग्ने, त्वं देवानां प्रथमः सखा अभवः भूतोऽसि । आद्यो मित्रभूतो देवानां त्वमेवेत्यर्थः । किंभूतस्त्वम् । अङ्गिराः अङ्गानां रसः । यद्वा अङ्गिभ्य आत्मभ्यो यजमानेभ्यो राति सुखमित्यङ्गिराः । ऋषिर्द्रष्टा । देवो द्योतमानः । शिवः कल्याणः । किंच तव व्रते कर्मणि वर्तमाने मरुतः ईदृशा अजायन्त । कीदृशाः । कवयः क्रान्तदर्शिनः । विद्मनापसः अप इति कर्मनाम । विद्मना विदितानि अपांसि कर्माणि यैस्ते विदितकर्माणः । भ्राजदृष्टयः भ्राजन्त्यः शोभमानाः ऋष्टयः आयुधानि येषां ते तथा । शत्रुघातकत्वात् । विद्मनेति वेत्तेः कर्मणि मनिन्प्रत्ययः बहुलग्रहणात् ततो विभक्तेराकारः तस्य चालुक् । विद्मनापसः अजायन्त । जनेरङ् जादेशश्च श्यन् ॥ १२ ॥
त्रयोदशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- हिरण्यस्तूप आङ्गिरस ऋषिः
- विराड्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
अब मनुष्यों को ईश्वराज्ञा पालनी चाहिए, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) परमेश्वर वा विद्वान् ! जिस कारण (त्वम्) आप (प्रथमः) प्रख्यात (अङ्गिराः) अवयवों के सारभूत रस के तुल्य वा जीवात्माओं को सुख देनेवाले (देवानाम्) विद्वानों के बीच (देवः) उत्तम गुण, कर्म, स्वभावयुक्त (शिवः) कल्याणकारी (सखा) मित्र (ऋषिः) ज्ञानी (अभवः) होवें, इससे (तव) आपके (व्रते) स्वभाव वा नियम में (विद्मनापसः) प्रसिद्ध कर्मोंवाले (भ्राजदृष्टयः) सुन्दर हथियारों से युक्त (कवयः) बुद्धिमान् (मरुतः) मनुष्य (अजायन्त) प्रकट होते हैं ॥१२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यदि मनुष्य सबके मित्र विद्वान् जन और सबके हितैषी परमात्मा को मित्र मान, विज्ञान के निमित्त कर्मों को कर प्रकाशित आत्मावाले हों तो वे विद्वान् होकर परमेश्वर की आज्ञा में वर्त्त सकें ॥१२ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ जनैरीश्वराज्ञा पाल्येत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! यतस्त्वं प्रथमोऽङ्गिरा देवानां देवः शिवः सखा ऋषिरभवस्तस्मात् तव व्रते विद्मनापसो भ्राजदृष्टयः कवयो मरुतोऽजायन्त ॥१२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदि मनुष्याः सर्वसुहृदं विद्वांसं सर्वमित्रं परमात्मानञ्च सखायं मत्वा विज्ञाननिमित्तानि कर्माणि कृत्वा प्रकाशितात्मनो भवेयुस्तर्हि ते विद्वांसो भूत्वा परमेश्वरस्याज्ञायां वर्त्तितुं शक्नुयुः ॥१२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जर माणसे सर्वांचा मित्र, विद्वानांचा व सर्वांचा हितकर्ता असलेल्या परमेश्वराला मित्र मानून विज्ञानयुक्त कर्माने आत्मा प्रकाशयुक्त करतील तर ते विद्वान बनून परमेश्वराच्या आज्ञेत वागू शकतील.
१३ त्वं नोऽअग्ने
विश्वास-प्रस्तुतिः ...{Loading}...
त्वं नो॑ऽअग्ने॒ तव॑ देव पा॒युभि॑र्म॒घोनो॑ रक्ष त॒न्व᳖श्च वन्द्य। त्रा॒ता तो॒कस्य॒ तन॑ये॒ गवा॑म॒स्यनि॑मेषँ॒ रक्ष॑माण॒स्तव॑ व्र॒ते ॥१३ ॥
मूलम् ...{Loading}...
त्वं नो॑ऽअग्ने॒ तव॑ देव पा॒युभि॑र्म॒घोनो॑ रक्ष त॒न्व᳖श्च वन्द्य। त्रा॒ता तो॒कस्य॒ तन॑ये॒ गवा॑म॒स्यनि॑मेषँ॒ रक्ष॑माण॒स्तव॑ व्र॒ते ॥१३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
त्वम्। नः॒। अ॒ग्ने॒। तव॑। दे॒व॒। पा॒युभि॒रिति॑ पा॒युऽभिः॑। म॒घोनः॑। र॒क्ष॒। त॒न्वः᳖। च॒। व॒न्द्य॒। त्रा॒ता। तो॒कस्य॑। तन॑ये॒ गवा॑म्। अ॒सि॒। अनि॑मेष॒मित्यनि॑मेषम्। रक्ष॑माणः॒। तव॑। व्र॒ते। १३।
महीधरः
म० रक्षणार्थो मन्त्रः । हे अग्ने, हे देव द्योतमान, हे वन्द्य स्तुत्य, तव व्रते कर्मणि वर्तमानान्मघोनो धनवतो यजमानान्रक्ष पालय । नोऽस्माकं तन्वः शरीराणि च रक्ष । कैः । तव पायुभिः त्वदीयैः पालनैः । यतस्त्वमनिमेषं सावधानं रक्षमाणः पालयन्सन् तोकस्य पुत्रस्य तनये । विभक्तिव्यत्ययः। तनयस्य पौत्रस्य गवां च त्राता रक्षकोऽसि ॥ १३ ॥
चतुर्दशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- हिरण्यस्तूप आङ्गिरस ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
राजा और ईश्वर की कैसी सेवा करनी चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (देव) उत्तम गुणकर्मस्वभावयुक्त (अग्ने) राजन् वा ईश्वर (तव) आप के (व्रते) उत्तम नियम में वर्त्तमान (मघोनः) बहुत धनयुक्त हम लोगों की (तव) आपके (पायुभिः) रक्षादि के हेतु कर्म्मों से (त्वम्) आप (रक्ष) रक्षा कीजिये (च) और (नः) हमारे (तन्वः) शरीरों की रक्षा कीजिये। हे (वन्द्य) स्तुति के योग्य भगवन् ! जिस कारण आप (अनिमेषम्) निरन्तर (रक्षमाणः) रक्षा करते हुए (तोकस्य) सन्तान पुत्र (तनये) पौत्र और (गवाम्) गौ आदि के (त्राता) रक्षक (असि) हैं, इसलिये हम लोगों के सर्वदा सत्कार और उपासना के योग्य हैं ॥१३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। जो मनुष्य ईश्वर के गुण, कर्म, स्वभावों और आज्ञा की अनुकूलता से वर्तमान हैं, जिनकी ईश्वर और विद्वान् लोग निरन्तर रक्षा करनेवाले हैं, वे लक्ष्मी, दीर्घावस्था और सन्तानों से रहित कभी नहीं होते ॥१३ ॥
दयानन्द-सरस्वती (सं) - विषयः
राजेश्वरौ कथं सेवनीयावित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! देव तव व्रते वर्त्तमानान् मघोनोऽस्मान् तव पायुभिस्त्वं रक्ष, नस्तन्वश्च रक्ष। हे वन्द्य ! यतस्त्वमनिमेषं रक्षमाणस्तोकस्य तनये गवाञ्च त्रातासि, तस्मादस्माभिर्नित्यं सत्कर्त्तव्य उपासनीयश्चासि ॥१३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। य ईश्वरगुणकर्मस्वभावाज्ञानुकूलत्वे वर्त्तन्ते, येषामीश्वरो विद्वांसश्च सततं रक्षकाः सन्ति, ते श्रिया दीर्घायुषा प्रजाभिश्च रहिता कदाचिन्न भवन्ति ॥१३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. जी माणसे ईश्वराच्या गुण, कर्म स्वभावानुसार त्याच्या आज्ञेत राहतात व ईश्वर आणि विद्वान लोक ज्यांचे सतत रक्षण करतात ते दीर्घायू होतात. त्यांना लक्ष्मी व संतानांची प्राप्ती होते.
१४ उत्तानायामव भरा
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒त्ता॒नाया॒मव॑ भरा चिकि॒त्वान्त्स॒द्यः प्रवी॑ता॒ वृष॑णं जजान। अ॒रु॒षस्तू॑पो॒ रुश॑दस्य॒ पाज॒ऽइडा॑यास्पु॒त्रो व॒युने॑ऽजनिष्ट ॥१४ ॥
मूलम् ...{Loading}...
उ॒त्ता॒नाया॒मव॑ भरा चिकि॒त्वान्त्स॒द्यः प्रवी॑ता॒ वृष॑णं जजान। अ॒रु॒षस्तू॑पो॒ रुश॑दस्य॒ पाज॒ऽइडा॑यास्पु॒त्रो व॒युने॑ऽजनिष्ट ॥१४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उ॒त्ता॒नाया॑म्। अव॑। भ॒र॒। चि॒कि॒त्वान्। स॒द्यः। प्रवी॑तेति॒ प्रऽवी॑ता। वृष॑णम्। ज॒जा॒न॒। अ॒रु॒षस्तू॑प॒ इत्य॑रु॒षऽस्तू॑पः। रुश॑त्। अ॒स्य॒। पाजः॑। इडा॑याः। पु॒त्रः। व॒युने॑। अ॒ज॒नि॒ष्ट॒। १४।
महीधरः
म०. यः इडायाः पृथिव्याः पुत्रोऽग्निर्वयुने प्रज्ञाने कर्तव्ये अजनिष्ट जातः । किंभूतः । अरुषस्तूपः ‘रुष बधे’ रोषति रुषः अरुषोऽहिंसकः स्तूपो ज्वालोच्छ्रायो यस्य स तथा । ‘ष्टु उच्छ्राये’ । अस्याग्नेः रुशत् दीप्तं पाजः बलमुत्तानायामरण्यामवभर अवाचीनं हर । ‘द्व्यचोऽतस्तिङः’ (पा० ६।३ । १३५) इति दीर्घः । चिकित्वान् अरणिबलं जानन् । किं बलमिति चेत् । याऽरणिः प्रवीता कामिता सती वृषणं सेक्तारमग्निं सद्यः तत्कालं जजान जनयति ‘छन्दसि लुङ्लङ्लिटः’ (पा० ३ । ४ । ६) इति लिट् । सोऽग्निर्जात इत्यर्थः ॥ १४ ॥
पञ्चदशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- देवश्रवदेववातौ भारतावृषी
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर विद्वान् लोग क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् पुरुष ! आप जैसे (चिकित्वान्) ज्ञानवान् (प्रवीता) कामना करनेहारा विद्वान् जन (उत्तानायाम्) उत्कर्षता के साथ विस्तीर्ण भूमि वा अन्तरिक्ष में (वृषणम्) वर्षा के हेतु यज्ञ को (जजान) प्रकट करता और (अरुषस्तूपः) रक्षक लोगों की उन्नति करनेवाला (इडायाः) प्रशंसित स्त्री का (पुत्रः) पुत्र (वयुने) विज्ञान में (अजनिष्ट) प्रसिद्ध होता (अस्य) इसका (रुशत्) सुन्दर रूपयुक्त (पाजः) बल प्रसिद्ध होता है, वैसे (सद्यः) शीघ्र (अव, भर) अपनी ओर पुष्ट कर ॥१४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। यदि मनुष्य इस सृष्टि में ब्रह्मचर्य आदि के सेवन से कन्या-पुत्रों को द्विज करें, तो ये सब शीघ्र विद्वान् हो जावें ॥१४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्विद्वान् किं कुर्य्यादित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वँस्त्वं यथा चिकित्वान् प्रवीता विद्वानुत्तानायां वृषणं जजानाऽरुषस्तूप इडायाः पुत्रो वयुनेऽजनिष्टाऽस्य रुशत्पाजश्चाऽजनिष्ट तथा सद्योऽवभर ॥१४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यदि मनुष्या अस्यां सृष्टौ ब्रह्मचर्यादिना कुमारान् कुमारींश्च द्विजान् सम्पादयेयुस्तर्ह्येते सद्यो विद्वांसः स्युः ॥१४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जर माणसे या जगात ब्रह्मचर्य इत्यादींनी कन्या व पुत्रांना द्विज करू शकले तर ते सर्व विद्वान बनू शकतात.
१५ इडायास्त्वा पदे
विश्वास-प्रस्तुतिः ...{Loading}...
इडा॑यास्त्वा प॒दे व॒यं नाभा॑ पृथि॒व्याऽअधि॑। जात॑वेदो॒ नि धी॑म॒ह्यग्ने॑ ह॒व्याय॒ वोढ॑वे ॥१५ ॥
मूलम् ...{Loading}...
इडा॑यास्त्वा प॒दे व॒यं नाभा॑ पृथि॒व्याऽअधि॑। जात॑वेदो॒ नि धी॑म॒ह्यग्ने॑ ह॒व्याय॒ वोढ॑वे ॥१५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इडा॑याः। त्वा॒। प॒दे। व॒यम्। नाभा॑। पृ॒थि॒व्याः। अधि॑। जात॑वेद॒ इति॑ जात॑ऽवेदः। नि। धी॒म॒हि॒। अग्ने॑। ह॒व्याय॑। वोढ॑वे। १५।
महीधरः
म० हे जातवेदः जातप्रज्ञान हे अग्ने, इडायाः पृथिव्याः स्थाने देवयजनाख्ये पृथिव्या नाभा अधि उत्तरवेद्या मध्ये वयं त्वा त्वां निधीमहि स्थापयामः । किमर्थम् । हव्याय वोढवे हव्यं वोढुम् । विभक्तिव्यत्ययः । वहतेः ‘तुमर्थे सेसेन्-’ (पा० ३ । ४ । ९) इति तवेप्रत्ययः ‘सहिवहोः-’ (पा. ६ । ३ । ११२) इत्योकारः ॥ १५ ॥
षोडशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- देवश्रवदेववातौ भारतावृषी
- विराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
कैसा मनुष्य राज्य के अधिकार पर स्थापित करने योग्य है, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (जातवेदः) उत्पन्न बुद्धिवाले (अग्ने) अग्नि के तुल्य तेजस्वी विद्वन् राजन् ! (वयम्) अध्यापक तथा उपदेशक हम लोग (इडायाः) प्रशंसित वाणी की (पदे) व्यवस्था तथा (पृथिव्याः) विस्तृत भूमि के (अधि) ऊपर (नाभा) मध्यभाग में (त्वा) आपको (हव्याय) देने योग्य पदार्थों को (वोढवे) प्राप्त करने वा कराने के लिये (नि, धीमहि) निरन्तर स्थापित करते हैं ॥१५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे विद्वान् राजन् ! जिस अधिकार में आपको हम लोग स्थापित करें, उस अधिकार को धर्म और पुरुषार्थ से यथावत् सिद्ध कीजिये ॥१५ ॥
दयानन्द-सरस्वती (सं) - विषयः
किंभूतो जनो राज्याधिकारे स्थापनीय इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे जातवेदोऽग्ने ! वयमिडायाः पदे पृथिव्या अधि नाभा त्वा हव्याय वोढवे नि धीमहि ॥१५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे विद्वन् राजन् ! यस्मिन्नधिकारे त्वां वयं स्थापयेम, तमधिकारं धर्मपुरुषार्थाभ्यां यथावत् साध्नुहि ॥१५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे विद्वान राजा ! जो अधिकार आम्ही तुम्हाला दिलेला आहे त्या अधिकाराला धर्म व पुरुषार्थाने सिद्ध करा.
१६ प्र मन्महे
विश्वास-प्रस्तुतिः ...{Loading}...
प्र म॑न्महे शवसा॒नाय॑ शू॒षमा॑ङ्गू॒षं गिर्व॑णसेऽअङ्गिर॒स्वत्। सु॒वृ॒क्तिभिः॑ स्तुव॒तऽऋ॑ग्मि॒यायार्चा॑मा॒र्कं नरे॒ विश्रु॑ताय ॥१६ ॥
मूलम् ...{Loading}...
प्र म॑न्महे शवसा॒नाय॑ शू॒षमा॑ङ्गू॒षं गिर्व॑णसेऽअङ्गिर॒स्वत्। सु॒वृ॒क्तिभिः॑ स्तुव॒तऽऋ॑ग्मि॒यायार्चा॑मा॒र्कं नरे॒ विश्रु॑ताय ॥१६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्र। म॒न्म॒हे॒। श॒व॒सा॒नाय॑। शू॒षम्। आ॒ङ्गू॒षम्। गिर्व॑णसे। अ॒ङ्गि॒र॒स्वत्। सु॒वृ॒क्तिभि॒रिति॑ सुवृ॒क्तिऽभिः॑ स्तु॒व॒ते। ऋ॑ग्मियाय॑। अर्चा॑म। अ॒र्कम्। नरे॑। विश्रु॑ता॒येति॒ विऽश्रु॑ताय। १६।
महीधरः
म० चतस्र ऐन्द्र्यस्त्रिष्टुभः । वयमिन्द्राय इन्द्रार्थमाङ्गूषं स्तोमं त्रिवृदादिकं प्रमन्महे जानीमः । किंभूतं स्तोमम् । शूषं बलहेतुम् । अर्क मन्त्रं च अर्चाम उच्चारयाम । धातूनामनेकार्थत्वादर्चतिरुच्चारणार्थः । अङ्गिरस्वत् अङ्गिरस इव । तैर्यथा स्तोमो ज्ञातो मन्त्रश्च पठितस्तस्मै तद्वत् । किंभूतायेन्द्राय । शवसानाय शवो बलमात्मन इच्छति शवस्यति शवस्यतीति शवसान तस्मै बलमभिलषमाणाय । ‘सुप आत्मनः क्यच्’ (पा० ३।१। ८) इति क्यच् तदन्ताच्छानच् शप् ‘बहुलं छन्दसि’ (पा० २ । ४ । २७) इति तस्य लुक् ‘छन्दस्युभयथा’ (पा० ३ । ४ । ११७) इति तस्य शानचोऽप्यार्धधातुकत्वात् ‘क्यस्य विभाषा’ (पा० ६ । ४ । ५० ) इति क्यचो लोपः शवसान इति सिद्ध्यति । पुनः कीदृशाय । गिर्वणसे गिरा स्तुत्या वनयति संभाजयति आत्मानमभिलषितदानात्स्तोतृभ्य इति गिर्वणाः । गीःशब्दोपपदाद्वनोतेर्ण्यन्तादसुनि वनेर्घटादित्वेन मित्संज्ञत्वात् ह्रस्वत्वम् णिचो लोपः। गीर्वणा इति प्राप्ते दीर्घाभावश्छान्दसः । यद्वा स्वार्थे णिच् गीर्भिरेनं देवा भजन्ति इति गिर्वणाः तस्मै । गीर्वाणशब्देन समानार्थो गिर्वणःशब्दः । पुनः किंभूताय । सुवृक्तिभिः शोभनाभिः स्तुतिभिः स्तुवते स्तौतीति स्तुवन् तस्मै । यजमानानिति शेषः। तदुक्तम् ‘त्वमङ्ग प्रशंसिषो देवः शविष्ठ मर्त्यम्’ ( ६ । ३७ ) इति । पुनः कीदृशाय । ऋग्मियाय ऋग्मयाय वेदमयाय । मयडर्थे छान्दसो मियट् । यद्वा ‘ऋच स्तुतौ’ इत्यस्माद्भावे औणादिको भक् कुत्वं जश्त्वं । ऋग्मः स्तुतिः तमर्हति ऋग्मियः अर्हार्थे घच् स्तुतियोग्याय । पुनः कीदृशाय । नरे नररूपाय । नृशब्दस्य ङे परे छान्दसो गुणः । पुनः कीदृशाय । विश्रुताय शौर्यदानबलादिभिर्लब्धख्यातये ॥ १६ ॥
सप्तदशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- नोधा ऋषिः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को विद्या और धर्म बढ़ाने चाहियें, इस विषय को कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे हम लोग (सुवृक्तिभिः) निर्दोष क्रियाओं से (शवसानाय) विज्ञान के अर्थ (गिर्वणसे) सुशिक्षित वाणियों से युक्त (ऋग्मियाय) ऋचाओं को पढ़नेवाले (विश्रुताय) विशेष कर जिसमें गुण सुने जावें (स्तुवते) शास्त्र के अभिप्रायों को कहने (नरे) नायक मनुष्य के लिये (अङ्गिरस्वत्) प्राण के तुल्य (आङ्गूषम्) विद्याशास्त्र के बोधरूप (शूषम्) बल को (प्र, मन्महे) चाहते हैं और इस (अर्कम्) पूजनीय पुरुष का (अर्चाम) सत्कार करें, वैसे इस विद्वान् के प्रति तुम लोग भी वर्त्तो ॥१६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। मनुष्यों को चाहिये कि सत्कार के योग्य का सत्कार और निरादर के योग्य का निरादर करके विद्या और धर्म को निरन्तर बढ़ाया करें ॥१६ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यैर्विद्याधर्मौ वर्द्धनीयावित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा वयं सुवृक्तिभिः शवसानाय गिर्वणस ऋग्मियाय विश्रुताय स्तुवते नरेऽङ्गिरस्वदाङ्गूषं शूषं प्रमन्मह एवमर्कमर्चाम। तथैतं प्रति यूयमपि वर्त्तध्वम् ॥१६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। मनुष्यैः सत्करणीयस्य सत्कारं निरादरणीस्य निरादरं कृत्वा विद्याधर्मौ सततं वर्द्धनीयौ ॥१६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचक व वाचकलुप्तोपमालंकार आहेत. जे लोक सत्कार करण्यायोग्य असतील त्यांचा आदर सत्कार करा व जे लोक निरादर करण्यायोग्य असतील त्यांचा निरादर करून माणसांनी विद्या व धर्म सतत वाढवावा.
१७ प्र वो
विश्वास-प्रस्तुतिः ...{Loading}...
प्र वो॑ म॒हे महि॒ नमो॑ भरध्वमाङ्गू॒ष्यँ᳖ शवसा॒नाय॒ साम॑। येना॑ नः॒ पूर्वे॑ पि॒तरः॑ पद॒ज्ञाऽअर्च॑न्तो॒ऽअङ्गिरसो॒ गाऽअवि॑न्दन् ॥१७ ॥
मूलम् ...{Loading}...
प्र वो॑ म॒हे महि॒ नमो॑ भरध्वमाङ्गू॒ष्यँ᳖ शवसा॒नाय॒ साम॑। येना॑ नः॒ पूर्वे॑ पि॒तरः॑ पद॒ज्ञाऽअर्च॑न्तो॒ऽअङ्गिरसो॒ गाऽअवि॑न्दन् ॥१७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्र। वः॒। म॒हे। महि॑। नमः॑। भ॒र॒ध्व॒म्। आ॒ङ्गू॒ष्य᳖म्। श॒व॒सा॒नाय॑। साम॑। येन॑। नः॒। पूर्वे॑। पि॒तरः॑। प॒द॒ज्ञा इति॑ पद॒ऽज्ञाः। अर्च॑न्तः। अङ्गि॑रसः। गाः। अवि॑न्दन्। १७।
महीधरः
म०. महे महते शवसानाय बलमभिलषमाणायेन्द्राय महि महत् नमोऽन्नं वः यूयं प्रभरध्वं प्रहरतम् समर्पयत । यूयमित्यर्थे व इत्यव्ययम् । मुनीनां पुत्रादीन्प्रति वचः। आङ्गूष्यमाङ्गूषाय हितं साम प्रभरध्वमुच्चारयत । नोऽस्माकं पूर्वे पितरः अङ्गिरसः येनान्नेन साम्ना चार्चन्तः स्तुवन्तः सन्तः गाः सूर्यकिरणानविन्दन् लेभिरे । स हि साम्नां लोकः तत्साम प्रभरध्वम् । कीदृशा अङ्गिरसः । पदज्ञाः पदमात्मस्वरूपं जानन्तीति पदज्ञाः ॥ १७ ॥
अष्टादशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- नोधा ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब कौन पितर लोग हैं, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (पदज्ञाः) जानने वा प्राप्त होने योग्य आत्मस्वरूप को जाननेवाला (नः) हमारा (अर्चन्तः) सत्कार करते हुए (अङ्गिरसः) सब सृष्टि की विद्या के अवयवों को जाननेवाले (पूर्वे) पूर्वज (पितरः) रक्षक ज्ञानी लोग (येन) जिससे (महे) बड़े (शवसानाय) ब्रह्मचर्य और उत्तम शिक्षा से शरीर और आत्मा के बल युक्त जन और (वः) तुम लोगों के अर्थ (आङ्गूष्यम्) सत्कार वा बल के लिये उपयोगी (साम) सामवेद और (गाः) सुशिक्षित वाणियों को (अविन्दन्) प्राप्त करावें, उसी से उनके लिये तुम लोग (महि) महत्सत्कार के लिये (नमः) उत्तम कर्म वा अन्न को (प्र, भरध्वम्) धारण करो ॥१७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे मनुष्यो ! जो विद्वान् लोग तुमको विद्या और उत्तम शिक्षा से पण्डित धर्मात्मा करें, उन्हीं प्रथम पठित लोगों को तुम पितर जानो ॥१७ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ के पितरः सन्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा पदज्ञा नोऽस्मानर्चन्तोऽङ्गिरसः पूर्वे नः पितरो येन महे शवसानाय वश्चाऽऽङ्गूष्यं साम गाश्चाविन्दन् तेन तेभ्यो यूयं महि नमः प्रभरध्वम् ॥१७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः ! ये विद्वांसो युष्मान् विद्यासुशिक्षाभ्यां विपश्चितो धार्मिकान् कुर्युस्तानेव पूर्वाऽधीतविद्यान् पितॄन् विजानीत ॥१७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे माणसांनो ! जे विद्वान लोक तुम्हाला विद्या व उत्तम शिक्षणाने पंडित व धर्मात्मा करतात त्याच लोकांना तुम्ही पितर समजा.
१८ इच्छन्ति त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒च्छन्ति॑ त्वा सो॒म्यासः॒ सखा॑यः सु॒न्वन्ति॒ सोमं॒ दध॑ति॒ प्रयाँ॑सि। तिति॑क्षन्तेऽअ॒भिश॑स्तिं॒ जना॑ना॒मिन्द्र॒ त्वदा कश्च॒न हि प्र॑के॒तः ॥१८ ॥
मूलम् ...{Loading}...
इ॒च्छन्ति॑ त्वा सो॒म्यासः॒ सखा॑यः सु॒न्वन्ति॒ सोमं॒ दध॑ति॒ प्रयाँ॑सि। तिति॑क्षन्तेऽअ॒भिश॑स्तिं॒ जना॑ना॒मिन्द्र॒ त्वदा कश्च॒न हि प्र॑के॒तः ॥१८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इ॒च्छन्ति॑। त्वा॒। सो॒म्यासः॑। सखा॑यः। सु॒न्वन्ति॑। सोम॑म्। दध॑ति। प्रयाँ॑सि। तिति॑क्षन्ते॑। अ॒भिश॑स्ति॒मित्य॒भिऽश॑स्तिम्। जना॑नाम्। इन्द्र॑। त्वत्। आ। कः। च॒न। हि। प्र॒के॒त इति॑ प्रऽके॒तः। १८।
महीधरः
म० हे इन्द्र, त्वत् त्वत्तः सकाशात् कश्चन । चनशब्दोऽप्यर्थे । कोऽपि लोकोत्तरः प्रकेतः प्रकृष्टो ज्ञानविशेषः आ समन्तात् हि यतो भवति अतः सखायो विप्राः त्वामिच्छन्ति ॥ ‘अथ ये ब्राह्मणाः शुश्रुवाᳪं᳭सोऽनूचानास्ते मनुष्यदेवाः’ इत्युक्तेर्देवानां विप्राणां च सखित्वम् । किंभूताः सखायः । सोम्यासः सोमसंपादिनः । इच्छन्तीति कथं ज्ञातं तत्राह । यतस्ते सोमं सुन्वन्ति अभिषुण्वन्ति प्रयांसि अन्नानि दधति च । प्रय इत्यन्ननाम । हवींषि धारयन्ति । किं । जनानामभिशस्तिं दुर्वचनं तितिक्षन्ते सहन्ते मनोवाक्कायसंयताः क्षान्तिपरा इत्यर्थः ॥१८॥
एकोनविंशी ।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- देवश्रवा देववातश्च भारतावृषी
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब आप्त का लक्षण कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) सभाध्यक्ष राजन् ! जो (सोम्यासः) ऐश्वर्य होने में उत्तम स्वभाववाले (सखायः) मित्र हुए (सोमम्) ऐश्वर्यादि को (सुन्वन्ति) सिद्ध करते (प्रयांसि) चाहने योग्य विज्ञानादि गुणों को (दधति) धारण करते और (जनानाम्) मनुष्यों के (अभिशस्तिम्) दुर्वचन, वाद-विवाद को (आ, तितिक्षन्ते) अच्छे प्रकार सहते हैं, उनका आप निरन्तर सत्कार कीजिये। (हि) जिस कारण (त्वत्) आपसे (प्रकेतः) उत्तम बुद्धिमान् (कः, चन) कोई भी नहीं, इससे (त्वा) आपको सब लोग (इच्छन्ति) चाहते हैं ॥१८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य इस संसार में निन्दा-स्तुति और हानि-लाभादि को सहनेवाले पुरुषार्थी सबके साथ मित्रता का आचरण करते हुए आप्त हों, वे सबको सेवने और सत्कार करने योग्य हैं तथा वे ही सबके अध्यापक और उपदेशक होवें ॥१८ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथाप्तलक्षणमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे इन्द्र ! ये सोम्यासः सखायः सोमं सुन्वन्ति प्रयांसि दधति जनानामभिशस्तिमा तितिक्षन्ते च। तांस्त्वं सततं सत्कुरु, हि यतस्त्वत् प्रकेतः कश्चन नास्ति, तस्मात् सर्वे त्वा त्वामिच्छन्ति ॥१८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्या इह निन्दास्तुतिहानिलाभादीन् तितिक्षवः पुरुषार्थिनः सर्वैः सह मैत्रीमाचरन्त आप्ताः स्युस्ते सर्वैः सेवनीयाः सत्कर्त्तव्याश्च, त एव सर्वेषामध्यापका उपदेष्टारश्च स्युः ॥१८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे या जगात निंदा, स्तुती, हानी, लाभ सहन करतात. पुरुषार्थी बनून सर्वांबरोबर मैत्रीपूर्ण व्यवहार करतात ते खरे आप्त असतात व ते सत्कार करण्यायोग्य असतात. अशा लोकांनीच अध्यापक व उपदेशक व्हावे.
१९ न ते
विश्वास-प्रस्तुतिः ...{Loading}...
न ते॑ दू॒रे प॑र॒मा चि॒द् रजाँ॒स्या तु प्र या॑हि हरिवो॒ हरि॑भ्याम्। स्थि॒राय॒ वृष्णे॒ सव॑ना कृ॒तेमा यु॒क्ता ग्रावा॑णः समिधा॒नेऽअ॒ग्नौ ॥१९ ॥
मूलम् ...{Loading}...
न ते॑ दू॒रे प॑र॒मा चि॒द् रजाँ॒स्या तु प्र या॑हि हरिवो॒ हरि॑भ्याम्। स्थि॒राय॒ वृष्णे॒ सव॑ना कृ॒तेमा यु॒क्ता ग्रावा॑णः समिधा॒नेऽअ॒ग्नौ ॥१९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
न। ते॒। दू॒रे। प॒र॒मा। चि॒त्। रजाँ॑सि। आ। तु। प्र। या॒हि॒। ह॒रि॒व॒ इति॑ हरि॒ऽवः। हरि॑भ्या॒मिति॒ हरि॑ऽभ्याम्। स्थि॒राय॑। वृष्णे॑। सव॑ना। कृ॒ता। इ॒मा। यु॒क्ता। ग्रावा॑णः स॒मि॒धा॒न इति॑ सम्ऽइधा॒ने। अ॒ग्नौ। १९।
महीधरः
म० हे हरिवः, हरी अश्वौ विद्येते यस्य स हरिवान् तस्य संबोधनम् ‘मतुवसो:-’ (पा० ८ । ३ । १) इति रुत्वम् । हे हरिवः, स्थिराय दृढसौहृदाय वृष्णे सेक्त्रे तुभ्यम् इमा सवनाकृता इमानि सवनानि प्रातःसवनादीनि कृतानि । क्व सति । अग्नौ समिधाने समिध्यमाने सति । छान्दसो यको लुक् । ग्रावाणः च युक्ताः योजिताः अभिषवकर्मणि । तुशब्दो हेत्वर्थे । अतो हेतोः हरिभ्यामश्वाभ्यामा प्रयाहि आगच्छ । ननु स्वर्गात्कथमतिदूरे मया गन्तव्यमित्यत आह । परमा परमाणि दूरदेशस्थानि रजांसि स्थानानि ते तव दूरे न चित् दूरे न सन्ति । चिच्छन्दोऽप्यर्थे । अतिदूरमपि ते निकटम् अत आयाहीत्यर्थः ॥ १९॥
विंशी ।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- देवश्रवा देववातश्च भारतावृषी
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर सभाध्यक्ष राजा क्या करे, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (हरिवः) प्रशस्त घोड़ोंवाले राजन् ! जैसे (समिधाने) प्रदीप्त किये हुए (अग्नौ) अग्नि में (इमा) ये (सवना) प्रातःसवनादि यज्ञकर्म (कृता) किये जाते हैं, (तु) इसी हेतु से (ग्रावाणः) गर्जना करनेवाले मेघ (युक्ताः) इकट्ठे होके आते हैं, वैसे (स्थिराय) दृढ़ (वृष्णे) सुखदायी विद्यादि पदार्थ के लिये (हरिभ्याम्) धारण और आकर्षण के वेगरूप गुणों से युक्त घोड़ों वा जल और अग्नि से (आ, प्र, याहि) अच्छे प्रकार आइये। इस प्रकार करने से (परमा) दूरस्थ (चित्) भी (रजांसि) स्थान (ते) आपके (दूरे) दूर (न) नहीं होते हैं ॥१९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे विद्वान् लोगो ! जैसे अग्नि से उत्पन्न किये वर्षा के मेघ पृथिवी के समीप होते आकर्षण से दूर भी जाते हैं, वैसे अग्नि के यानों से गमन करने में कोई देश दूर नहीं होता। इस प्रकार पुरुषार्थ करके सम्पूर्ण ऐश्वर्यों को उत्पन्न करो ॥१९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः सभाध्यक्षः किं कुर्य्यादित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे हरिवो राजन् ! यथा समिधानेऽग्नौ इमा सवना कृता तु ग्रावाणो युक्ता भूत्वाऽऽगच्छन्ति तथा स्थिराय वृष्णे हरिभ्यामाप्रयाहि। एवं कृते परमा चिद् रजांसि ते दूरे न भवन्ति ॥१९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे विद्वांसो ! यथा पावकेनोत्पादिता वर्षिता मेघाः पृथिव्याः समीपे भवन्त्याकर्षणेन दूरमपि गच्छन्ति तथाऽग्न्यादियानैर्गमने कृते कोऽपि देशो दूरे न भवति। एवं पुरुषार्थं कृत्वाऽलमैश्वर्याणि जनयत ॥१९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे विद्वान लोकांनो ! अग्नीद्वारे उत्पन्न झालेले मेघ आकर्षणाने पृथ्वीवर पर्जन्य बनून येतात व काही वेळ दूरही जातात, तसेच अग्नीच्या यानाने गमन केल्यास कोणताही देश दूर नसते. याप्रकारे पुरुषार्थ करून संपूर्ण ऐश्वर्य उत्पन्न करा.
२० अषाढं युत्सु
विश्वास-प्रस्तुतिः ...{Loading}...
अषा॑ढं यु॒त्सु, पृत॑नासु॒ पप्रिँ॑,
स्व॒र्षाम् अ॒प्सां वृ॒जन॑स्य गो॒पाम्।
भ॒रे॒षु॒जाँ सु॑क्षि॒तिँ सु॒श्रव॑सं॒
जय॑न्तं॒ त्वाम् अनु॑ मदेम सोम ॥२० ॥
मूलम् ...{Loading}...
अषा॑ढं यु॒त्सु पृत॑नासु॒ पप्रिँ॑ स्व॒र्षाम॒प्सां वृ॒जन॑स्य गो॒पाम्। भ॒रे॒षु॒जाँ सु॑क्षि॒तिँ सु॒श्रव॑सं॒ जय॑न्तं॒ त्वामनु॑ मदेम सोम ॥२० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अषा॑ढम्। यु॒त्स्विति॑ यु॒त्ऽसु। पृत॑नासु। पप्रि॑म्। स्व॒र्षाम्। स्वःसामिति॑ स्वः॒ऽसाम्। अ॒प्साम्। वृ॒जन॑स्य। गो॒पाम्। भ॒रे॒षु॒जामिति॑ भरेषु॒ऽजाम्। सु॒क्षि॒तिमिति॑ सुऽक्षि॒तिम्। सु॒श्रव॑स॒मिति॑ सु॒ऽश्रव॑सम्। जय॒न्तम्। त्वाम्। अनु॑ म॒दे॒म॒। सो॒म॒। २०।
महीधरः
म० चतस्रः सोमदेवत्यास्त्रिष्टुभः । हे सोम, त्वां जयन्तमुत्कर्षेण वर्तमानमनु वयं मदेम हृष्टाः स्याम । किंभूतं त्वाम् । युत्सु युद्धेषु अषाढमसहनमनभिभूतम् । पुनः कीदृशम् । पृतनासु सेनासु पप्रिं पालयितारम् । स्वर्षाम् स्वर्दिवं सनोति संभजते स स्वर्षाः तम् । अप्साम् अपो जलानि सनोतीत्यप्साः तम् । वृजनस्य बलस्य गोपां रक्षकम् । भरेषुजां संग्रामेषु जेतारम् । सुक्षितिं सुनिवासम् । सुश्रवसं शोभनं श्रवः कीर्तिर्यस्य स सुश्रवाः तम् । अषाढम् सह्यतेऽसौ साढः न साढः असाढस्तम् । सहेः क्तः ढत्वं (पा० ८।२।३१।) धत्वं (पा० ९ । २। ४०) ष्टुत्वम् (पा० ८।४।४१।) ‘ढो ढे लोपः’ (पा० ८।३ । १२) ‘ढ्रलोपे पूर्वस्य दीर्घोऽणः’ (पा० ६ । ३ । १११) बाहुलकात् ‘सहिवहोरोदवर्णस्य’ (पा० ६ । ३ । ११२) इत्यस्याप्रवृत्तिः षत्वं छान्दसम् । पप्रिम् ‘पॄ पालनपूरणयोः’ ‘आगमहन-’ (पा० ३।२ । १७१) इति किः द्वित्वादि । स्वर्षाम् स्वःपूर्वात्सनोतेर्विट् ‘विड्वनोरनुनासिकस्यात्’ | (पा० ६ । ३ । ४१)। एवमप्साम् । गोपायतीति गोपाः क्विप् अतो लोपः यलोपः। भरेषुजाम् भरेषु संग्रामेषु जयति शत्रूनिति भरेषुजाः। ‘हलदन्तात्सप्तम्याः’ ( पा० ६ । ३।९) इति अलुक् । जयतेरौणादिको डाप्रत्ययः । मदेम ‘मदी हर्षे’ लिङ् व्यत्ययेन शप् ॥ २०॥
एकविंशी ।
अधिमन्त्रम् (VC)
- सोमो देवता
- गोतम ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब राजधर्म विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सोम) समस्त ऐश्वर्य से युक्त राजन् वा सेनापते ! हम लोग जिन (युत्सु) युद्धों में (अषाढम्) असह्य (पृतनासु) मनुष्य की सेनाओं में (पप्रिम्) पूर्ण बल विद्यायुक्त वा रक्षक (स्वर्षाम्) सुख का सेवन करने वाला (अप्साम्) जलों वा प्राणों को देनेवाले (वृजनस्य) बल के (गोपाम्) रक्षक (भरेषुजाम्) धारण करने योग्य संग्रामों में जीतनेवाले (सुक्षितिम्) पृथिवी के सुन्दर राज्यवाले (सुश्रवसम्) सुन्दर अन्न वा कीर्त्तियों से युक्त (जयन्तम्) शत्रुओं को जीतनेवाले (त्वाम्) आपको (अनु, मदेम) अनुमोदित करें ॥२० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जिस राजा वा सेनापति के उत्तम स्वभाव से राजपुरुष सेनाजन और प्रजापुरुष प्रसन्न रहें और जिनकी प्रसन्नता में राजा प्रसन्न हो, वहाँ दृढ़ विजय, उत्तम निश्चल ऐश्वर्य और अच्छी प्रतिष्ठा होती है ॥२० ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ राजधर्मविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सोम राजन् सेनापते वा ! वयं यं युत्स्वषाढं पृतनासु पप्रिं स्वर्षामप्सां वृजनस्य गोपां भरेषुजां सुक्षितिं सुश्रवसं जयन्तं त्वामनु मदेम ॥२० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यस्य राज्ञः सेनापतेर्वोत्तमस्वभावेन राजसेनाः प्रजाजनाः प्रीताः स्युर्येषु प्रीतेषु राजा प्रीतः स्यात्, तत्र ध्रुवो विजयो निश्चलं परमैश्वर्य्यं पुष्कला प्रतिष्ठा च भवति ॥२० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे राजे व सेनापती उत्तम स्वभावाचे असतात, त्यांच्या स्वभावामुळे राजपुरुष, सेना व प्रजा प्रसन्न असतात आणि त्यांच्या प्रसन्नतेमुळे राजा प्रसन्न राहतो तेथे निश्चित विजय, ऐश्वर्य व प्रतिष्ठा प्राप्त होते.
२१ सोमो धेनुम्
विश्वास-प्रस्तुतिः ...{Loading}...
सोमो॑ धे॒नुँ सोमो॒ऽअर्व॑न्तमा॒शुँ सोमो॑ वी॒रं क॑र्म॒ण्यं᳖ ददाति। सा॒द॒न्यं᳖ विद॒थ्यँ᳖ स॒भेयं॑ पितृ॒श्रव॑णं॒ यो ददा॑शदस्मै ॥२१ ॥
मूलम् ...{Loading}...
सोमो॑ धे॒नुँ सोमो॒ऽअर्व॑न्तमा॒शुँ सोमो॑ वी॒रं क॑र्म॒ण्यं᳖ ददाति। सा॒द॒न्यं᳖ विद॒थ्यँ᳖ स॒भेयं॑ पितृ॒श्रव॑णं॒ यो ददा॑शदस्मै ॥२१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सोमः॑। धे॒नुम्। सोमः॑। अर्व॑न्तम्। आ॒शुम्। सोमः॑। वी॒रम्। क॒र्म॒ण्य᳖म्। ददा॑ति। सा॒द॒न्य᳖म्। स॒द॒न्य᳖मिति॑ सद॒न्य᳖म्। वि॒द॒थ्य᳖म्। स॒भेय॑म्। पि॒तृ॒श्रव॑ण॒मिति॑ पितृ॒ऽश्रव॑णम्। यः। ददा॑शत्। अ॒स्मै॒। २१।
महीधरः
म० यो यजमानोऽस्मै सोमाय ददाशत् ददाति हविः । तस्मै सोमो धेनुं ददाति । आशु शीघ्रमर्वन्तमश्वं च सोमो ददाति । सोमश्च तस्मै वीरं पुत्रं ददाति । कीदृशं वीरम् । कर्मण्यं कर्मणि साधुम् । सादन्यं सदने गृहे साधुम् । विदथ्यं विदथो यज्ञस्तत्र साधुम् । सभेयं सभामर्हति सभेयस्तम् । पितृश्रवणं पितरं शृणोति पितृश्रवणः पित्राज्ञाकारिणं विनीतमित्यर्थः। कर्मण्यमित्यादौ ‘तत्र साधुः’ ( पा० ४ । ४ । ९८ ) इति यत् । सभेयं ‘ढश्छन्दसि’ (पा० ४ । ४ । १०६ ) इति सभायाः साध्वर्थे ढप्रत्ययः । तस्येयादेशः (पा. ७।१।२)। ददाशत् ‘दाशृ दाने ‘बहुलं छन्दसि’ (पा० २ । ४ । ७६ ) इति शपः श्लुः द्वित्वम् ‘इतश्च लोपः परस्मैपदेषु’ (पा०।३। ४ । ९७ ) इति तिप इलोपः । ‘लेटोऽडाटौ’ (पा० ३ । ४ । ९४) इत्यडागमः ॥ २१ ॥
द्वाविंशी।
अधिमन्त्रम् (VC)
- सोमो देवता
- गोतम ऋषिः
- भुरिक्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यः) जो प्रजास्थ मनुष्य (अस्मै) इस धर्मिष्ठ राजा वा अध्यापक वा उपदेशक के लिये उचित पदार्थ (ददाशत्) देता है, उसके लिये (सोमः) ऐश्वर्य्ययुक्त उक्त पुरुष (धेनुम्) विद्या की आधाररूप वाणी को (ददाति) देता (सोमः) सत्याचरण में प्रेरणा करनेहारा राजादि जन (अर्वन्तम्) वेग से चलनेवाले तथा (आशुम्) मार्ग को शीघ्र व्याप्त होनेवाले घोड़े को देता और (सोमः) शरीर तथा आत्मा के बल से युक्त राजादि (कर्मण्यम्) कर्मों से युक्त पुरुषार्थी (सादन्यम्) बैठाने आदि में प्रवीण (विदथ्यम्) यज्ञ करने में कुशल (पितृश्रवणम्) आचार्य पिता से विद्या पढ़नेवाले (सभेयम्) सभा में बैठने योग्य (वीरम्) शत्रुओं के बलों को व्याप्त होनेवाले शूरवीर पुरुष को देता है ॥२१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो अध्यापक, उपदेशक वा राजपुरुष सुशिक्षित वाणी, अग्नि आदि की तत्त्वविद्या, पुरुष का ज्ञान और सभ्यता सबके लिये देवें, वे सबको सत्कार करने योग्य हों ॥२१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यो मनुष्योऽस्मै सोमायोचितं ददाशत् तस्मै सोमो धेनुं ददाति, सोमोऽर्वन्तमाशुं ददाति, सोमः कर्मण्यं सादन्यं विदथ्यं पितृश्रवणं सभेयं वीरं च ददाति ॥२१
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - येऽध्यापकोपदेशका राजपुरुषा वा सुशिक्षिता वाचमग्न्यादितत्त्वविद्यां पुरुषज्ञानं सभ्यताञ्च सर्वेभ्यः प्रदद्युस्ते सर्वैः सत्कर्त्तव्याः स्युः ॥२१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे अध्यापक व उपदेशक किंवा राजपुरुष उत्तम वाणी, अग्निविद्या, ज्ञान व सभ्यता सर्वांना शिकवितात ते सन्माननीय ठरतात.
२२ त्वमिमाऽओषधीः सोम
विश्वास-प्रस्तुतिः ...{Loading}...
त्वमि॒माऽओष॑धीः सोम॒ विश्वा॒स्त्वम॒पोऽअ॑जनय॒स्त्वं गाः। त्वमा त॑तन्थो॒र्व᳙न्तरि॑क्षं॒ त्वं ज्योति॑षा॒ वि तमो॑ ववर्थ ॥२२ ॥
मूलम् ...{Loading}...
त्वमि॒माऽओष॑धीः सोम॒ विश्वा॒स्त्वम॒पोऽअ॑जनय॒स्त्वं गाः। त्वमा त॑तन्थो॒र्व᳙न्तरि॑क्षं॒ त्वं ज्योति॑षा॒ वि तमो॑ ववर्थ ॥२२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
त्वम्। इ॒माः। ओष॑धीः। सो॒म॒। विश्वाः॑। त्वम्। अ॒पः। अ॒ज॒न॒यः॒। त्वम्। गाः। त्वम्। आ। त॒त॒न्थ॒। उ॒रु। अ॒न्तरि॑क्षम्। त्वम्। ज्योति॑षा। वि। तमः॑। ववर्थ॒। २२।
महीधरः
म० हे सोम, त्वमिमाः विश्वाः सर्वाः ओषधीः अपो जलानि गाः धेनूः अजनयः जनितवानसि । त्वमुरु विस्तीर्णमन्तरिक्षमाततन्थ विस्तारितवानसि । त्वं च ज्योतिषा तेजसा तमोऽन्धकारं विववर्थ विवृणोषि । आदित्यात्मना सर्वं तमोऽपनयसीति सर्वात्मा त्वमित्यर्थः । ‘बभूथाततन्थजगृम्भववर्थेतिनिगमे’ (पा० । ७ । २ । ६४ ) इति निपातः ॥ २२ ॥
त्रयोविंशी।
अधिमन्त्रम् (VC)
- सोमो देवता
- गोतम ऋषिः
- विराट्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सोम) उत्तम सोमवल्ली ओषधियों के तुल्य रोगनाशक राजन् ! (त्वम्) आप (इमाः) इन (विश्वाः) सब (ओषधीः) सोम आदि ओषधियों को (त्वम्) आप सूर्य्य के तुल्य (अपः) जलों वा कर्म को और (त्वम्) आप (गाः) पृथिवी वा गौओं को (अजनयः) उत्पन्न वा प्रकट कीजिये। (त्वम्) आप सूर्य्य के समान (उरु) बहुत (अन्तरिक्षम्) अवकाश को (आ, ततन्थ) विस्तृत करते तथा (त्वम्) आप सूर्य्य जैसे (ज्योतिषा) प्रकाश से (तमः) अन्धकार को दबाता। वैसे न्याय से अन्याय को (वि, ववर्थ) आच्छादित वा निवृत्त कीजिये, सो आप हमको माननीय हैं ॥२२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य जैसे ओषधि रोगों को वैसे दुःखों को हर लेते हैं, प्राणों के तुल्य बलों को प्रकट करते तथा जो राजपुरुष सूर्य्य रात्रि को जैसे वैसे अधर्म और अविद्या के अन्धकार को निवृत्त करते हैं, वे जगत् को पूज्य क्यों नहीं हों? ॥२२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सोम राजन् ! यस्त्वं विश्वा इमा ओषधीस्त्वं सूर्य इवाऽपस्त्वं गाश्चाऽजनयस्त्वं सूर्य्य उर्वन्तरिक्षमा ततन्थ, सविता ज्योतिषा तम इव न्यायेनाऽन्यायं विववर्थ, स त्वस्माभिर्माननीयोऽसि ॥२२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये जना ओषध्यो रोगानिव दुःखानि हरन्ति, प्राणा इव बलं जनयन्ति, ये राजजनाः सूर्य्यो रात्रिमिवाऽधर्माऽविद्याऽन्धकारं निवर्त्तयन्ति, ते जगत्पूज्याः कुतो न स्युः ॥२२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्याप्रमाणे औषध रोग नाहीसे करते त्याप्रमाणे जी माणसे दुःख दूर करतात व प्राणाप्रमाणे बलवान बनून सूर्य जसा अंधःकार नष्ट करतो तसे जे अविद्यारूपी अंधःकार नष्ट करतात तेच राजपुरुष व ती माणसे जगात पूज्य ठरतात.
२३ देवेन नो
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वेन॑ नो॒ मन॑सा देव सोम रा॒यो भा॒गँ स॑हसावन्न॒भि यु॑ध्य। मा त्वा त॑न॒दीशि॑षे वी॒र्य्य᳖स्यो॒भये॑भ्यः॒ प्र चि॑कित्सा॒ गवि॑ष्टौ ॥२३ ॥
मूलम् ...{Loading}...
दे॒वेन॑ नो॒ मन॑सा देव सोम रा॒यो भा॒गँ स॑हसावन्न॒भि यु॑ध्य। मा त्वा त॑न॒दीशि॑षे वी॒र्य्य᳖स्यो॒भये॑भ्यः॒ प्र चि॑कित्सा॒ गवि॑ष्टौ ॥२३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दे॒वेन॑। नः॒। मन॑सा। दे॒व॒। सो॒म॒। रा॒यः। भा॒गम्। स॒ह॒सा॒व॒न्निति॑ सहसाऽवन्। अ॒भि। यु॒ध्य॒। मा। त्वा॒। आ। त॒न॒त्। ईशि॑षे। वी॒र्य्य᳖स्य। उ॒भये॑भ्यः। प्र। चि॒कि॒त्स॒। गवि॑ष्टा॒विति॒ गोऽइ॑ष्टौ। २३।
महीधरः
म० हे देव, सोम, हे सहसावन् बलवन् , देवेन मनसा देवसंबन्धिना मनसा सह रायो धनस्य भागं नोऽस्मभ्यमभियुध्य । युध्यतिर्गतिकर्मा अन्तर्भावितण्यर्थः । अभिगमय देहीत्यर्थः । एवं दानप्रवृत्तं त्वां कश्चित् मा आतनत् त्वा मां आतनोतु मा प्रतिबध्नातु । तनोतिः प्रतिबन्धार्थः । कुतस्त्वमेवमुच्यस इति चेत् यतस्त्वं वीर्यस्य ईशिषे वीरकर्मण ईश्वरो भवसि ‘अधीगर्थदयेशाम्’ (पा० । २ । ३ । ५२) इति कर्मणि षष्ठी । किंच गविष्टौ गोः स्वर्गस्य इष्टौ इच्छायां स्वर्गैषणायां विषयभूतायां समामुभयेभ्यः प्रचिकित्स उभयलोकप्राप्त्यर्थं चिकित्सां कुरु व्याध्यपगमं कुरु । उभयलोकप्रतिबन्धकं विघ्नं निवर्तयेत्यर्थः । दैवं मनः प्राप्य लब्धधना अरोगाश्च सत्कर्म कुर्वाणा यथा स्वर्गं यास्यामस्तथा कुर्विति वाक्यार्थः । देवेन देवानामिदं देवम् तद्धितप्रत्ययलोपः । सहसावन् प्रथमार्थे तृतीया । सहसा सहो बलमस्यास्तीति सहसावान् अलुक् । तनत् तनोतेः परस्य लेटोऽडागम इलोपश्च । चिकित्स ‘गुप्तिज्किद्भ्यः सन्’ (पा० ३ । १ । ५) ‘अन्येषामपि दृश्यते’ (पा० ६ । ३ ।१३७) इति दीर्घः ॥ २३ ॥
चतुर्विंशी।
अधिमन्त्रम् (VC)
- सोमो देवता
- गोतम ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सहसावन्) अधिकतर सेनादि बलवाले (सोम) संपूर्ण ऐश्वर्य के प्रापक (देव) दिव्य गुणों से युक्त राजन् ! जो आप (देवेन) उत्तम गुण, कर्म, स्वभावयुक्त (मनसा) मन से (रायः) धन के (भागम्) अंश को (नः) हमारे लिये (अभि, युध्य) सब ओर से प्राप्त कीजिये, जिससे आप (वीर्य्यस्य) वीरकर्म करने को (ईशिषे) समर्थ होते हो, इससे (त्वा) आपको कोई (मा) न (आ, तनत्) दबावे सो आप (गविष्टौ) सुख विशेष की इच्छा के होते (उभयेभ्यः) दोनों इस लोक, परलोक के सुखों के लिये (प्र, चिकित्स) रोग निवारण के तुल्य विघ्ननिवृत्ति के उपाय को किया कीजिये ॥२३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजादि विद्वानों को चाहिये कि कपटादि दोषों को छोड़ शुद्धभाव से सबके लिये सुख की चाहना करके पराक्रम बढ़ावें और जिस कर्म से दुःख की निवृत्ति तथा सुख की वृद्धि इस लोक, परलोक में हो, उसके करने में निरन्तर प्रयत्न करें ॥२३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सहसावन्त्सोम देव राजन् ! यस्त्वं देवेन मनसा रायो भागं नोऽभियुध्य, यतस्त्वं वीर्य्यस्येशिषे त्वा कश्चिन्मा आतनत्, स त्वं गविष्टावुभयेभ्यः प्रचिकित्स ॥२३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - राजादिविद्वद्भिः कपटादिदोषान् विहाय शुद्धेन भावेन सर्वेभ्यः सुखमभिलष्य वीर्य्यं वर्द्धनीयम्, येन दुःखनिवृत्तिः सुखवृद्धिरिहामुत्र च स्यात्, तत्र सततं प्रयतितव्यम् ॥२३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजा वगैरे विद्वानांनी कपट इत्यादी दोष दूर करून पवित्र भावनेने सर्वांसाठी सुखाची कामना करावी, पराक्रम वाढवावा. ज्या कर्माने इहलोकात व परलोकात दुःखाची निवृत्ती व सुखाची वृद्धी होते असा प्रयत्न करावा.
२४ अष्टौ व्यख्यत्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ष्टौ व्य॑ख्यत् क॒कुभः॑ पृथि॒व्यास्त्री धन्व॒ योज॑ना स॒प्त सिन्धू॑न्। हि॒र॒ण्या॒क्षः स॑वि॒ता दे॒वऽआगा॒द् दध॒द् रत्ना॑ दा॒शुषे॒ वार्य्या॑णि ॥२४ ॥
मूलम् ...{Loading}...
अ॒ष्टौ व्य॑ख्यत् क॒कुभः॑ पृथि॒व्यास्त्री धन्व॒ योज॑ना स॒प्त सिन्धू॑न्। हि॒र॒ण्या॒क्षः स॑वि॒ता दे॒वऽआगा॒द् दध॒द् रत्ना॑ दा॒शुषे॒ वार्य्या॑णि ॥२४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒ष्टौ। वि। अ॒ख्य॒त्। क॒कुभः॑। पृ॒थि॒व्याः। त्री। धन्व॑। योज॑ना। स॒प्त। सिन्धू॑न्। हि॒र॒ण्या॒क्ष इति॑ हिरण्यऽअ॒क्षः। स॒वि॒ता। दे॒वः। आ। अ॒गा॒त्। दध॑त्। रत्ना॑। दा॒शुषे॑। वार्य्या॑णि। २४।
महीधरः
म० चतस्रः सावित्र्यः द्वितीया जगती त्रिष्टुभोऽन्याः हिरण्यस्तूपदृष्टाः। स सविता देव आगात् आगच्छतु ‘इणो गा लुङि’ (पा० २। ४ । ४५ ) इतीणो गादेशः । किं कुर्वन् । दाशुषे हवींषि दत्तवते यजमानाय वार्याणि वरणीयानि रत्ना रत्नानि दधद्ददत् स्थापयन्वा । कीदृशः। हिरण्याक्षः हिरण्यमिव कान्तियुक्ते अक्षिणी यस्य स हिरण्याक्षः अमृतदृष्टिर्वा । स कः । यः सविता पृथिव्याः संबन्धिनीः अष्टौ ककुभो दिशः व्यख्यत् । प्रकाशितवान् । यश्च त्री त्रीणि धन्व धन्वानि लोकान् व्यख्यत्। धन्वेत्यन्तरिक्षनाम । तेन तदुपलक्षितावितरावपि लोकौ लक्ष्येते छत्रिणो गच्छन्तीतिवत् । यश्च योजना योजनानि योजनगव्यूतिक्रोशादीनध्वपरिमाणविशेषान्व्यख्यत् । यश्च सप्त सिन्धू- न्समुद्रान्क्षीरोदाद्यान्व्यख्यत् । उपलक्षणमेतत् । सर्वजगत्प्रकाशकः सविता रत्नानि ददान आयात्वित्यर्थः । अख्यत् ‘ख्या प्रकथने’ ‘अस्यतिवक्तिख्यातिभ्योऽङ्’ (पा० ३ । १। ५२ ) इति च्लेरङ् आलोपश्च धातूनामनेकार्थत्वादत्र प्रकाशनार्थो ग्राह्यः । त्री योजना ‘सुपां सुलुक्’ (पा० ७।१।३९) इत्यादिना पूर्वसवर्णदीर्घो विभक्तेः । धन्व सुपो लुक् । रत्ना सुप आकारः । दाशुषो ‘दाश्वान्साह्वान्’ (पा० । ६ । १। १२) इति निपातः । वार्याणि ‘ऋहलोर्ण्यत्’ (पा० । ३ । १। १२४ ) इति वृणोतेर्ण्यत् ॥ २४ ॥
पञ्चविंशी।
अधिमन्त्रम् (VC)
- सविता देवता
- आङ्गिरसो हिरण्यस्तूप ऋषिः
- भुरिक्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब सूर्य क्या करता है, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (हिरण्याक्षः) नेत्र के समान रूप दर्शानेवाली ज्योतियोंवाला (देवः) प्रेरक (सविता) सूर्य (दाशुषे) दानशील प्राणियों के लिये (वार्याणि) स्वीकार करने योग्य (रत्ना) पृथिवी के उत्तम पदार्थों को (दधत्) धारण करता हुआ (त्री) तीन (धन्व) अवकाशरूप (योजना) अर्थात् बारह कोस और (सप्त) सात (सिन्धून्) पृथिवी के समुद्र से ले के मेघ के ऊपरले अवयवों पर्यन्त समुद्रों की तथा (पृथिव्याः) पृथिवी सम्बन्धिनी (अष्टौ) आठ (ककुभः) दिशाओं की (वि, अख्यत्) प्रसिद्ध प्रकाशित करता है, वैसे ही तुम लोग होओ ॥२४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जैसे सूर्य्य से पृथिवी तक १२ कोस पर्यन्त हलके भारीपन से युक्त सात प्रकार के जल के अवयव और दिशा विभक्त होती तथा वर्षादि से सबको सुख दिया जाता, वैसे शुभ गुण, कर्म और स्वभावों से दिशाओं में कीर्ति फैला के अनेक प्रकार के ऐश्वर्य को देने से मनुष्यादि प्राणियों को निरन्तर सुखी करो ॥२४ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ सूर्यः किं करोतीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा हिरण्याक्षो देवः सविता दाशुषे वार्य्याणि रत्ना दधत्, त्री धन्व योजना सप्त सिन्धून् पृथिव्या अष्टौ ककुभो व्यख्यदागाच्च, तथैव यूयं भवत ॥२४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यथा सूर्येण पृथिवीमारभ्य द्वादशक्रोशपर्यन्तगुरुत्वलघुत्वयुतानां सप्तविधानामपामवयवाः सर्वा दिशश्च विभज्यन्ते, वर्षादिना सर्वेभ्यः सुखं दीयते, तथा शुभगुणकर्मस्वभावैर्दिगन्तां कीर्त्तिं सम्पाद्य विविधैश्वर्यदानेन मनुष्यादीन् प्राणिनः सततं सुखयत ॥२४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! सूर्यामुळे जसे पृथ्वीपासून १२ कोसांपर्यंत सात प्रकारचे जल व दिशा विभक्त होते व पर्जन्याने सर्वांना सुख मिळते तसे शुभ गुण, कर्म स्वभावांनी सर्व दिशांना कीर्ती पसरवून अनेक प्रकारचे ऐश्वर्य प्राप्त करून देऊन सर्व माणसांना सुखी करा.
२५ हिरण्यपाणिः सविता
विश्वास-प्रस्तुतिः ...{Loading}...
हिर॑ण्यपाणिः सवि॒ता विच॑र्षणिरु॒भे द्यावा॑पृथि॒वीऽअ॒न्तरी॑यते। अपामी॑वां॒ बाध॑ते॒ वेति॒ सूर्य्य॑म॒भि कृ॒ष्णेन॒ रज॑सा॒ द्यामृ॑णोति ॥२५ ॥
मूलम् ...{Loading}...
हिर॑ण्यपाणिः सवि॒ता विच॑र्षणिरु॒भे द्यावा॑पृथि॒वीऽअ॒न्तरी॑यते। अपामी॑वां॒ बाध॑ते॒ वेति॒ सूर्य्य॑म॒भि कृ॒ष्णेन॒ रज॑सा॒ द्यामृ॑णोति ॥२५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
हिर॑ण्यपाणि॒रिति॒ हिर॑ण्यऽपाणिः। स॒वि॒ता। विच॑र्षणि॒रिति॒ विऽच॑र्षणिः। उ॒भेऽइ॒त्यु॒भे। द्यावा॑पृथि॒वी इति॒ द्यावा॑पृथि॒वी। अ॒न्तः। ई॒य॒ते॒। अप॑। अमी॑वाम्। बाध॑ते। वेति। सूर्य्य॑म्। अ॒भि। कृ॒ष्णेन॑। रज॑सा। द्याम्। ऋ॒णो॒ति॒। २५।
महीधरः
म०. सविता प्रसविता सूर्यं सूर्यः विभक्तिव्यत्ययः । उभे उभयोः द्यावापृथिवी द्यावापृथिव्योः अन्तर्मध्ये ईयते आगच्छति यदा तदा अमीवां व्याधिमपबाधते अन्धकारलक्षणरोगं निवर्तयति । अथ यदा वेति अस्तमयसमये गच्छति तदा कृष्णेन रजसा अन्धकारलक्षणेन द्यां द्युलोकमभि ऋणोति अभिव्याप्नोति । कीदृशः सूर्यः । हिरण्यपाणिः सुवर्णपाणिः । विचर्षणिः विविधं द्रष्टा कृताकृतप्रत्यवेक्षकः । उभे द्यावापृथिवी । षष्ठ्यर्थे द्वितीया । अन्तर्योगे वा । ईयते ‘ईङ् गतौ’ दिवादिः ॥ २५॥
षड्विंशी।
अधिमन्त्रम् (VC)
- सविता देवता
- आङ्गिरसो हिरण्यस्तूप ऋषिः
- निचृज्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (हिरण्यपाणिः) हाथों के तुल्य जलादि के ग्राहक प्रकाशरूप किरणों से युक्त (विचर्षणिः) विशेष कर सबको दिखानेवाली (सविता) सब पदार्थों की उत्पत्ति का हेतु (सूर्य्यम्) सूर्य्यलोक जब (उभे) दोनों (द्यावापृथिवी) आकाश भूमि के (अन्तः) बीच (ईयते) उदय होकर घूमता है, तब (अमीवाम्) व्याधिरूप अन्धकार को (अप, बाधते) दूर करता और जब (वेति) अस्त समय को प्राप्त होता तब (कृष्णेन) (रजसा) काले अन्धकाररूप से (द्याम्) आकाश को (अभि, ऋणोति) सब ओर से व्याप्त होता है, उस सूर्य्य को तुम लोग जानो ॥२५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जैसे सूर्य्य अपने समीपवर्त्ती लोकों का आकर्षण कर धारण करता है, वैसे ही अनेक लोकों से शोभायमान सूर्यादि सब जगत् को सब ओर से व्याप्त हो और आकर्षण करके ईश्वर धारण करता है, ऐसा जानो। क्योंकि ईश्वर के बिना सबका स्रष्टा तथा धर्त्ता अन्य कोई भी नहीं हो सकता ॥२५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यो हिरण्यपाणिर्विचर्षणिः सविता सूर्य्यं यदोभे द्यावापृथिवी अन्तरीयते, तदाऽमीवामपबाधते, यदा च वेति तदा कृष्णेन रजसा द्यामभि ऋणोति तं यूयं विजानीत ॥२५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यथा सूर्य्यः सन्निहिताल्ँ लोकानाकृष्य धरति, तथैवाऽनेकलोकाऽलंकृतं सूर्य्यादिकं सर्वं जगदभिव्याप्याऽऽकृष्येश्वरो दधातीति यूयं विजानीत। नहीश्वरमन्तरेण सर्वस्य विधाता धर्ता अन्यः कश्चित् सम्भवितुमर्हति ॥२५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! जसा सूर्य सर्व गोलांचे आकर्षण करून त्यांना धारण करतो, तसेच सूर्य वगैरेना ईश्वर आपल्या आकर्षणाने धारण करतो हे जाणा. कारण ईश्वराशिवाय सर्वांचा स्रष्टा व धर्ता दुसरा कोणी असू शकत नाही.
२६ हिरण्यहस्तोऽअसुरः सुनीथः
विश्वास-प्रस्तुतिः ...{Loading}...
हिर॑ण्यहस्तो॒ऽअसु॑रः सुनी॒थः सु॑मृडी॒कः स्ववाँ॑ यात्व॒र्वाङ्। अ॒प॒सेध॑न् र॒क्षसो॑ यातु॒धाना॒नस्था॑द् दे॒वः प्र॑तिदो॒षं गृ॑णा॒नः ॥२६ ॥
मूलम् ...{Loading}...
हिर॑ण्यहस्तो॒ऽअसु॑रः सुनी॒थः सु॑मृडी॒कः स्ववाँ॑ यात्व॒र्वाङ्। अ॒प॒सेध॑न् र॒क्षसो॑ यातु॒धाना॒नस्था॑द् दे॒वः प्र॑तिदो॒षं गृ॑णा॒नः ॥२६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
हिर॑ण्यहस्त॒ इति॒ हिर॑ण्यऽहस्तः। असु॑रः। सु॒नी॒थ इति॑ सुऽनी॒थः। सु॒मृ॒डी॒क इति॑ सुमृडी॒कः। स्ववा॒निति॒ स्वऽवा॑न्। या॒तु॒। अ॒र्वाङ्। अ॒प॒सेध॒न्नित्य॑प॒ऽसेध॑न्। र॒क्षसः॑। या॒तु॒धाना॒निति॑ यातु॒ऽधाना॑न्। अस्था॑त्। दे॒वः। प्र॒ति॒दो॒षमिति॑ प्रतिऽदो॒षम्। गृ॒णा॒नः। २६।
महीधरः
म० यो देवो रविः रक्षसो राक्षसान् यातुधानान् असुखकरांश्च अपसेधन् अपगमयन्सन् अस्थादुदस्थात् तदेति स देवः अर्वाङ् अर्वागञ्चनः अस्मदभिमुखः यातु आयात्वित्यर्थः । कीदृशो देवः । हिरण्यहस्तः हिरण्यं दानार्थं हस्ते यस्य स तथोक्तः। रूपेण वा स्तुतिः । असुरः असून् प्राणान् राति ददातीत्यसुरः । सुनीथः नीथा स्तुतिः कल्याणस्तुतिः । सुमृडीकः साधु सुखयिता स्वबान्धवान् । प्रतिदोषम् प्रतिजनं यो दोषः प्रतिदोषः तम् । श्रुतिस्मृतिविहितधर्मपराङ्मुखानां यावन्तो दोषास्तावतः गृणानः उच्चारयन् उपभोगार्थमित्यभिप्रायः । स्ववान् यातु इत्यत्र ‘दीर्घादटि समानपादे’ (पा० ८।३ । ९) इति नस्य रुत्वे ‘भोभगोअघोअपूर्वस्य योऽशि’ (पा. ८ । ३ । १७) तस्य रोर्यादेशे ‘हलि सर्वेषां’ (पा० ८ । ३ । २२) तस्य लोपः । सक्षस्शब्दस्य व्यत्ययेनाक्लीबत्वम् ॥ २६ ॥
सप्तविंशी।
अधिमन्त्रम् (VC)
- सविता देवता
- आङ्गिरसो हिरण्यस्तूप ऋषिः
- विराट्त्रिष्टुप्
- धैवतः
२७ ये ते
विश्वास-प्रस्तुतिः ...{Loading}...
ये ते॒ पन्थाः॑ सवितः पू॒र्व्यासो॑ऽरे॒णवः॒ सुकृ॑ताऽअ॒न्तरि॑क्षे। तेभि॑र्नोऽअ॒द्य प॒थिभिः॑ सु॒गेभी॒ रक्षा॑ च नो॒ऽअधि॑ च ब्रूहि देव ॥२७ ॥
मूलम् ...{Loading}...
ये ते॒ पन्थाः॑ सवितः पू॒र्व्यासो॑ऽरे॒णवः॒ सुकृ॑ताऽअ॒न्तरि॑क्षे। तेभि॑र्नोऽअ॒द्य प॒थिभिः॑ सु॒गेभी॒ रक्षा॑ च नो॒ऽअधि॑ च ब्रूहि देव ॥२७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ये। ते॒। पन्थाः॑। स॒वि॒त॒रिति॑ सवितः। पू॒र्व्यासः॑। अ॒रे॒णवः॑। सुकृ॑ता॒ इति॒॑ सुऽकृ॑ताः। अ॒न्तरि॑क्षे। तेभिः। नः॒। अ॒द्य। प॒थिभि॒रति॑ प॒थिऽभिः॑। सु॒गेभि॒रिति॑ सु॒ऽगेभिः। रक्षा॑। च॒। नः॒। अधि॑। च॒। ब्रू॒हि॒। दे॒व॒। २७।
महीधरः
म० हे सवितः हे देव, पन्थाः पन्थानो मार्गाः अन्तरिक्षे सुकृताः साधुकृताः धात्रा वर्तन्ते । कीदृशास्ते । पूर्व्यासः पूर्वेषु कालेषु भवाः पूर्व्याः । अरेणवः नास्ति रेणुर्यत्र अपांसुलाः । तेभिः तैः पथिभिः मार्गैः नोऽस्मान् अद्य नयेति शेषः । च पुनः गच्छतो नोऽस्मान् रक्ष पालय । अधिब्रूहि च अधि अङ्गीकृत्य ब्रूहि एते मदीया इति । यद्वा अधिब्रूहि उपदिशास्माकं यद्धितं पथ्यं तत् । यद्वा अधि अधिकान् वद एते महायाज्ञिका दातार इत्यादि । किंभूतैः पथिभिः। सुगेभिः सुगैः सुखेन गम्यते येषु सुगाः तैः अन्नपानप्रभूतैरित्यर्थः । अधिकरणे गच्छतेर्डप्रत्ययः । पूर्वैः पूर्व्यासः कृताः ‘पूर्वैः कृतमिनियौ च’ (पा. । ४ । ४ । १३३) इति यप्रत्ययः ॥ २७ ॥
अष्टाविंशी।
अधिमन्त्रम् (VC)
- सविता देवता
- आङ्गिरसो हिरण्यस्तूप ऋषिः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब अध्यापक और उपदेशक विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सवितः) सूर्य के तुल्य ऐश्वर्य देनेवाले (देव) विद्या और सुख के दाता आप्त विद्वान् पुरुष ! जिस (ते) आपके जैसे सूर्य के (अन्तरिक्षे) आकाश में गमन के शुद्ध मार्ग हैं, वैसे (ये) जो (पूर्व्यासः) पूर्वज आप्तजनों ने सेवन किये (अरेणवः) धूलि आदि रहित (सुकृताः) सुन्दर सिद्ध किये (पन्था) मार्ग हैं, (तेभिः) उन (सुगेभिः) सुखपूर्वक जिनमें चलें ऐसे (पथिभिः) मार्गों से (अद्य) आज (नः) हम लोगों को चलाइये, इन मार्गों से चलते हुए हमारी (रक्ष) रक्षा (च) भी कीजिये (च) तथा (नः) हमको (अधि, ब्रूहि) अधिकतर उपदेश कीजिये, इसी प्रकार सबको चेतन कीजिये ॥२७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे विद्वानो ! तुमको चाहिये कि जैसे सूर्य के आकाश में निर्मल मार्ग हैं, वैसे ही उपदेश और अध्यापन से विद्या, धर्म और सुशीलता के दाता मार्गों का प्रचार करें ॥२७ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथाध्यापकोपदेशकविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सवितर्देवाऽऽप्तविद्वन् ! यस्य ते सूर्यस्यान्तरिक्षे इव ये पूर्व्यासोऽरेणवः सुकृताः पन्थाः सन्ति, तेभिस्सुगेभिः पथिभिरद्य नो नय, तत्र गच्छतो नो रक्ष च नोऽस्मांश्चाधि ब्रूहि। एवं सर्वान् प्रति बोधय ॥२७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे विद्वांसो ! युष्माभिर्यथा सूर्यास्याऽन्तरिक्षे निर्मलाः मार्गाः सन्ति, तथैवोपदेशाध्यापनाभ्यां विद्याधर्मसुशीलप्रदाः पन्थानः प्रचारणीयाः ॥२७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे विद्वानांनो ! सूर्याचा अंतरिक्षातील गमनमार्ग जसा व्यवस्थित व शुद्ध असतो, तसे उपदेशक व अध्यापक यांनी विद्या व सुशीलता या मार्गाचा प्रसार करावा.
२८ उभा पिबतमश्विनोभा
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒भा पि॑बतमश्विनो॒भा नः॒ शर्म॑ यच्छतम्। अ॒वि॒द्रि॒याभि॑रू॒तिभिः॑ ॥२८ ॥
मूलम् ...{Loading}...
उ॒भा पि॑बतमश्विनो॒भा नः॒ शर्म॑ यच्छतम्। अ॒वि॒द्रि॒याभि॑रू॒तिभिः॑ ॥२८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उ॒भा। पि॒ब॒त॒म्। अ॒श्वि॒ना॒। उ॒भा। नः॒। शर्म॑। य॒च्छ॒त॒म्। अ॒वि॒द्रि॒याभिः॑। ऊ॒तिभि॒रित्यू॒तिऽभिः॑। २८।
महीधरः
म० आश्विन्यस्तिस्रः एका गायत्री द्वे अनुष्टुभौ । हे अश्विना अश्विनौ, उभा उभौ द्वावपि युवां पिबतम् । सोममिति शेषः । उभा द्वौ युवां नोऽस्मभ्यं शर्म शरणं सुखं वा यच्छतम् । काभिः सह । अविद्रियाभिः अविदीर्णाभिः अखण्डिताभिः ऊतिभिः अवनैः पालनैः सह । सुखं दत्तं पालयतं चेत्यर्थः । उभा अश्विना विभक्तेराकारः । विदीर्यन्तीति विद्रियाः ‘दॄ विदारे’ औणादिक इयक्प्रत्ययः ॥ २८ ॥
एकोनविंशी।
अधिमन्त्रम् (VC)
- अश्विनौ देवते
- प्रस्कण्व ऋषिः
- निचृद्गायत्री
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अश्विना) सूर्य चन्द्रमा के तुल्य अध्यापक उपदेशको ! (उभा) दोनों तुम लोग जिस जगह पर उत्तम रस को (पिबतम्) पिओ उस (शर्म) उत्तम आश्रय स्थान वा सुख को (उभा) दोनों तुम (अविद्रियाभिः) छिद्ररहित (ऊतिभिः) रक्षादि क्रियाओं से रक्षित घर को (नः) हमारे लिये (यच्छतम्) देओ ॥२८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अध्यापक और उपदेशक लोगों को चाहिये कि सदा उत्तम घर बनाने के और निवास के उपदेशों को कर जहाँ पूर्ण रक्षा हो, उस विषय में सबको प्रेरणा करें ॥२८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अश्विना ! उभा युवां यत्रोत्तमं रसं पिबतं तच्छर्मोभा युवामविद्रियाभिरूतिभी रक्षितं गृहं नो यच्छतम् ॥२८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अध्यापकोपदेशकैः सदोत्तमगृहरचननिवासोपदेशान् कृत्वा यत्र पूर्णा रक्षा स्यात्, तत्र सर्वे प्रेरणीयाः ॥२८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - अध्यापक व उपदेशक यांनी लोकांना असा उपदेश करावा व प्रेरणा द्यावी की नेहमी पूर्ण रक्षण होईल असे उत्तम घर बांधून त्यात निवास करावा.
२९ अप्नस्वतीमश्विना वाचमस्मे
विश्वास-प्रस्तुतिः ...{Loading}...
अप्न॑स्वतीमश्विना॒ वाच॑म॒स्मे कृ॒तं नो॑ दस्रा वृषणा मनी॒षाम्। अ॒द्यूत्येऽव॑से॒ नि ह्व॑ये वां वृ॒धे च॑ नो भवतं॒ वाज॑सातौ ॥२९ ॥
मूलम् ...{Loading}...
अप्न॑स्वतीमश्विना॒ वाच॑म॒स्मे कृ॒तं नो॑ दस्रा वृषणा मनी॒षाम्। अ॒द्यूत्येऽव॑से॒ नि ह्व॑ये वां वृ॒धे च॑ नो भवतं॒ वाज॑सातौ ॥२९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अप्न॑स्वतीम्। अ॒श्वि॒ना॒। वाच॑म्। अ॒स्मेऽइत्य॒स्मे। कृ॒तम्। नः॒। द॒स्रा॒। वृ॒ष॒णा॒। म॒नी॒षाम्। अ॒द्यू॒त्ये। अव॑से। नि। ह्व॒ये॒। वा॒म्। वृ॒धे। च॒। नः॒। भ॒व॒त॒म्। वाज॑साता॒विति॒ वाज॑ऽसातौ। २९।
महीधरः
म० हे अश्विना अश्विनौ, हे दस्रा दर्शनीयौ हे वृषणा वर्षितारौ सेक्तारौ युवानौ, अस्मे अस्माकं वाचम् अप्नस्वतीं कर्मवतीं युवां कृतं कुरुतम् । तथा नोऽस्माकं मनीषां मनस इच्छामप्नस्वतीमेव कुरुतम् । मनसा वचसा च यज्ञं कुर्मस्तथा कुरुतमित्यर्थः । यतो ह वां युवां निह्वये आह्वयामि । किंनिमित्तम् । अद्यूत्ये सन्मार्गागते अवसे अन्ने अन्ननिमित्तम् तद्दानार्थमित्यर्थः । द्यूतादागतं द्यूते भवं वा द्यूत्यम् न द्यूत्यमद्यूत्यम् तस्मिन् द्यूतादागतं कर्मण्यं न भवतीत्येवमुच्यते द्यूतमन्येषामप्यन्याय्यधनागमानामुपलक्षकम् । किंच वाजसातौ वाजानामन्नानां सातिः संभजनं यस्मिन् स वाजसातिः तस्मिन् यज्ञे नोऽस्माकं वृधे वृद्धौ भवतम् । अस्मे विभक्तेः शेआदेशः । कृतम् करोतेः ‘बहुलं छन्दसि’ (पा. २ । ४ ।७३ ) इति शपि लुप्ते लोण्मध्यमद्विवचने रूपम् । वृषणा वृषणौ ‘वा षपूर्वस्य निगमे’ (पा० ६ । ४ । ९ ) इत्युपधादीर्घाभावः । वृधे वर्धनं वृत् संपदादित्वाद्भावे क्विप् ॥ २९ ॥
त्रिंशी।
अधिमन्त्रम् (VC)
- अश्विनौ देवते
- कुत्स ऋषिः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (दस्रा) दुःख के नाशक (वृषणा) सुख के वर्षानेवाले (अश्विना) सब विद्याओं में व्याप्त अध्यापक और उपदेशक लोगो ! तुम दोनों (अस्मे) हमारी (वाचम्) वाणी (च) और (मनीषाम्) बुद्धि को (अप्नस्वतीम्) प्रशस्त कर्मोंवाली (कृतम्) करो (नः) हमारे (अद्यूत्ये) द्यूतरहित स्थान में हुए कर्म में (अवसे) रक्षा के लिये स्थित करो (वाजसातौ) धन का विभाग करनेहारे सङ्ग्राम में (न) हमारी (वृधे) वृद्धि के लिये (भवतम्) उद्यत होओ, जिन (वाम्) तुम्हारी (नि, ह्वये) निरन्तर स्तुति करता हूँ, वे दोनों आप मेरी उन्नति करो ॥२९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य निष्कपट आप्त विद्वानों का निरन्तर सेवन करते हैं, वे प्रगल्भ धार्मिक विद्वान् होके सब ओर बढ़ते और विजयी होते हुए सबके लिये सुखदायी होते हैं ॥२९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे दस्रा वृषणाऽश्विना ! युवामस्मे वाचं मनीषां चाप्नस्वतीं कृतं नोऽद्यूत्येऽवसे स्थापयतम्। वाजसातौ नो वृधे च भवतं यौ वामहन्निह्वये तौ मामुन्नयतम् ॥२९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्या निष्कपटानाप्तान् दयालून् विदुषः सततं सेवन्ते, ते प्रगल्भा धार्मिका विद्वांसो भूत्वा सर्वतो वर्द्धमाना विजयिनः सन्तः सर्वेभ्यः सुखदा भवन्ति ॥२९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे निष्कपटी, आप्त, दयाळू विद्वानांचे अनुयायी बनून प्रगल्भ धार्मिक विद्वान होतात. ती सर्व प्रकारे उन्नत होतात व सर्वांना सुखी करतात.
३० द्युभिरक्तुभिः परि
विश्वास-प्रस्तुतिः ...{Loading}...
द्युभि॑र॒क्तुभिः॒ परि॑ पातम॒स्मानरि॑ष्टेभिरश्विना॒ सौभ॑गेभिः। तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वीऽउ॒त द्यौः ॥३० ॥
मूलम् ...{Loading}...
द्युभि॑र॒क्तुभिः॒ परि॑ पातम॒स्मानरि॑ष्टेभिरश्विना॒ सौभ॑गेभिः। तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वीऽउ॒त द्यौः ॥३० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
द्युभि॒रिति॒ द्युऽभिः॑। अ॒क्तुभि॒रित्य॒क्तुऽभिः॑। परि॑। पा॒त॒म्। अ॒स्मान्। अरि॑ष्टेभिः। अ॒श्वि॒ना॒। सौभ॑गेभिः। तत्। नः॒। मि॒त्रः। वरु॑णः। मा॒म॒ह॒न्ता॒म्। अदि॑तिः। सिन्धुः॑। पृ॒थि॒वी। उ॒त। द्यौः। ३०।
महीधरः
म० हे अश्विना अश्विनौ, द्युभिः दिवसैः अक्तुभिः रात्रिभिः सप्तम्यर्थे तृतीया । दिवसेषु रात्रिषु च अहोरात्रम् अस्मान् परिपातं सर्वतो रक्षतम् । कैः । सौभगेभिः सौभगैः। | भग इति धननाम । शोभनैः धनैः । किंभूतैः । अरिष्टेभिः अनुपहिंसितैः अखण्डितैर्धनैरस्मान्रक्षतमित्यर्थः । किंच मित्रः वरुणः अदितिः सिन्धुः समुद्रः उतापि च द्यौः एते नोऽस्माकं तत् भवत्कृतं रक्षणं मामहन्तां पूजयन्ताम् । अनुमन्यन्तामित्यर्थः । द्युरित्यह्नो नाम अक्तुरिति रात्रेः । मामहन्ताम् | ‘मह पूजायाम्’ ‘बहुलं छन्दसि’ ( पा० २। ४ । ७६ ) इति शपः श्लुः । श्लौ’ (पा० ६।१।१०) द्वित्वम् ‘तुजादीनां दीर्घोऽभ्यासस्य’ ( पा० ६।१।७ ) इत्यभ्यासदीर्घः ॥ ३०॥
एकत्रिंशी।
अधिमन्त्रम् (VC)
- अश्विनौ देवते
- कुत्स ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब सभासेनाधीश क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अश्विना) सभासेनाधीशो ! जैसे (अदितिः) पृथिवी (सिन्धुः) सात प्रकार का समुद्र (पृथिवी) आकाश (उत) और (द्यौः) प्रकाश (तत्) वे (नः) हमारा (मामहन्ताम्) सत्कार करें, वैसे (मित्रः) मित्र तथा (वरुणः) दुष्टों को बाँधने वा रोकनेवाले तुम दोनों (द्युभिः) दिन (अक्तुभिः) रात्रि (अरिष्टेभिः) अहिंसित (सौभगेभिः) श्रेष्ठ धनों के होने से (अस्मान्) हमारी (परि, पातम्) सब ओर से रक्षा करो ॥३० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। सभाधीश आदि विद्वान् लोग जैसे पृथिवी आदि तत्त्व सब प्राणियों की रक्षा करते हैं, वैसे ही बढ़े हुए ऐश्वर्यों से दिन-रात सब मनुष्यों को बढ़ावें ॥३० ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ सभासेनाधिपौ किं कुर्यातामित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अश्विना ! यथाऽदितिः सिन्धुः पृथिवी उत द्यौस्तन्नो मामहन्ताम्, तथा मित्रो वरुणश्च युवां द्युभिरक्तुभिररिष्टेभिः सौभगेभिरस्मान् परिपातम् ॥३० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे सभाधीशादिविद्वांसो ! यथा पृथिव्यादीनि तत्त्वानि प्राणिनो रक्षन्ति, तथैव वर्द्धमानैरैश्वर्यैरहर्निशं सर्वान् मनुष्यान् वर्द्धयन्तु ॥३० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. पृथ्वी जशी सर्व प्राण्यांचे रक्षण करते, तसेच सभासद इत्यादी विद्वान लोकांनी आपल्या धनसंपत्तीद्वारे सतत सर्वांना उन्नत करावे.
३१ आ कृष्णेन
विश्वास-प्रस्तुतिः ...{Loading}...
आ कृ॒ष्णेन॒ रज॑सा॒ वर्त्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च। हि॒र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न् ॥३१ ॥
मूलम् ...{Loading}...
आ कृ॒ष्णेन॒ रज॑सा॒ वर्त्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च। हि॒र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न् ॥३१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ। कृ॒ष्णेन॑। रज॑सा। वर्त्त॑मानः। नि॒वे॒शय॒न्निति॑ निऽवे॒शय॑न्। अ॒मृत॑म्। मर्त्य॑म्। च॒। हि॒र॒ण्यये॑न। स॒वि॒ता। रथे॑न। आ। दे॒वः। या॒ति॒। भुव॑नानि। पश्य॑न्। ३१।
महीधरः
म०. व्याख्याता ( अ० ३३ क० ४३ ) ॥ ३१ ॥
द्वात्रिंशी।
अधिमन्त्रम् (VC)
- सूर्य्यो देवता
- हिरण्यस्तूप ऋषिः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब विद्युत् से क्या सिद्ध करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! आप जो (आ, कृष्णेन) आकर्षित हुए (रजसा) लोकसमूह के साथ (वर्त्तमानः) निरन्तर (अमृतम्) नाशरहित कारण (च) और (मर्त्यम्) नाशसहित कार्य्य को (निवेशयन्) अपनी-अपनी कक्षा में स्थित करता हु्आ (हिरण्ययेन) तेजःस्वरूप (रथेन) रमणीयस्वरूप के सहित (सविता) ऐश्वर्य का दाता (देवः) देदीप्यमान विद्युद्रूप अग्नि (भुवनानि) संसारस्थ वस्तुओं को (याति) प्राप्त होता है, उसको (पश्यन्) देखते हुए सम्यक् प्रयुक्त कीजिये ॥३१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जो बिजली कार्य और कारण को सम्यक् प्रकाशित कर सर्वत्र अभिव्याप्त तेजःस्वरूप शीघ्रगामिनी सबका आकर्षण करनेवाली है, उसको देखते हुए सम्प्रयोग में अभीष्ट स्थानों को शीघ्र जाया करो ॥३१ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ विद्युता किं साध्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वँस्त्वं य आकृष्णेन रजसा सह वर्त्तमानः सततममृतं मर्त्यञ्च निवेशयन् हिरण्ययेन रथेन सविता देवो विद्युद् भुवनानि याति, तं पश्यन् सन् संप्रयुङ्ग्धि ॥३१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! या विद्युत्कार्य्यं कारणं सम्प्रकाश्य सर्वत्राऽभिव्याप्ता तेजोमयी सद्योगामिनी सर्वाकर्षिका वर्त्तते, तां प्रेक्षमाणाः सन्तः संप्रयुज्याऽभीष्टानि सद्यो यात ॥३१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! जी विद्युत कार्य कारणाने सम्यक् रीतीने प्रकाशित होऊन सर्वत्र व्याप्त असते ती तेजस्वी, शीघ्रगामिनी आणि सर्वांना आकर्षित करणारी असते. तिला योग्य तऱ्हेने प्रयुक्त करून इष्ट स्थानी येणे-जाणे करा.
३२ आ रात्रि
विश्वास-प्रस्तुतिः ...{Loading}...
आ रा॑त्रि॒ पार्थि॑वँ॒ रजः॑ पि॒तुर॑प्रायि॒ धाम॑भिः। दि॒वः सदाँ॑सि बृह॒ती वि ति॑ष्ठस॒ऽआ त्वे॒षं व॑र्त्तते॒ तमः॑ ॥३२ ॥
मूलम् ...{Loading}...
आ रा॑त्रि॒ पार्थि॑वँ॒ रजः॑ पि॒तुर॑प्रायि॒ धाम॑भिः। दि॒वः सदाँ॑सि बृह॒ती वि ति॑ष्ठस॒ऽआ त्वे॒षं व॑र्त्तते॒ तमः॑ ॥३२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ। रा॒त्रि॒। पार्थि॑वम्। रजः॑। पि॒तुः। अ॒प्रा॒यि॒। धाम॑भि॒रिति॒ धाम॑ऽभिः। दि॒वः। सदाँ॑सि। बृ॒ह॒ती। वि। ति॒ष्ठ॒से॒। आ। त्वे॒षम्। व॒र्त्त॒ते॒। तमः॑। ३२।
महीधरः
म० रात्रिदेवत्या पथ्याबृहती । हे रात्रि, यया त्वया पार्थिवं रजः पृथिवीसंबन्धिलोकः पितुः मध्यलोकस्य धामभिः स्थानैः सह आ अप्रायि समन्तात्पूर्यते । या च त्वं दिवो द्युलोकस्य सदांसि स्थानानि बृहती महती सती वितिष्ठसे आक्रमसे व्याप्नोषि । तस्यास्तव तमः आवर्तते तथापि प्रवतते। किंभूतं तमः। त्वेषं दीप्तं महाप्राग्भारमित्यर्थः । रजःशब्दो लोकवचनः । अप्रायि ‘प्रा पूरणे’ कर्मणि लुङि चिणि रूपम् ॥ ३२॥
त्रयस्त्रिंशी।
अधिमन्त्रम् (VC)
- रात्रिर्देवता
- कुत्स ऋषिः
- पथ्या बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
अब रात्रि का वर्णन अगले मन्त्र में करते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (बृहती) बड़ी (रात्रि) रात (दिवः) प्रकाश के (सदांसि) स्थानों को (वि, तिष्ठसे) व्याप्त होती है, जिस रात्रि ने (पितुः) अपने तथा सूर्य के मध्यस्थ लोक के (धामभिः) सब स्थानों के साथ (पार्थिवम्) पृथिवी सम्बन्धी (रजः) लोक को (आ, अप्रायि) अच्छे प्रकार पूर्ण किया है, जिसका (त्वेषम्) अपनी कान्ति से बढ़ा हुआ (तमः) अन्धकार (आ) (वर्त्तते) आता-जाता है, उसका युक्ति के साथ सेवन करो ॥३२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जो पृथिव्यादि की छाया रात्रि में प्रकाश को रोकती अर्थात् सबका आवरण करती है, उसका आप लोग यथावत् सेवन करें ॥३२ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ रात्रिवर्णनमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! या बृहती रात्रि दिवः सदांसि वितिष्ठसे, यया पितुर्धामभिः पार्थिवं रज आ अप्रायि, यस्याश्च त्वेषं तम आ वर्त्तते, तां युक्त्या सेवध्वम् ॥३२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! या पृथिव्यादेश्छाया रात्रौ प्रकाशं निरोधयति, सर्वमावृणोति तां यथावत् सेवन्ताम् ॥३२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! जी रात्र पृथ्वीवरील प्रकाश नाहीसा करते. अर्थात् रात्रीचे आच्छादन सर्वत्र असते तिचा योग्य रीतीने स्वीकार करा.
३३ उषस्तच्चित्रमा भरास्मभ्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
उष॒स्तच्चि॒त्रमा भ॑रा॒स्मभ्यं॑ वाजिनीवति। येन॑ तो॒कं च॒ तन॑यं च॒ धाम॑हे ॥३३ ॥
मूलम् ...{Loading}...
उष॒स्तच्चि॒त्रमा भ॑रा॒स्मभ्यं॑ वाजिनीवति। येन॑ तो॒कं च॒ तन॑यं च॒ धाम॑हे ॥३३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उषः॑। तत्। चि॒त्रम्। आ। भ॒र॒। अ॒स्मभ्य॑म्। वा॒जि॒नी॒व॒तीति॑ वाजिनीऽवति। येन॑। तो॒कम्। च॒। तन॑यम्। च॒। धाम॑हे। ३३।
महीधरः
म० उषोदेवत्या परोष्णिक् । हे उषः, हे वाजिनीवति हे अन्नवति, अस्मभ्यं तत् प्रसिद्धं चित्रं चायनीयमाश्चर्यकारि महनीयं धनमाभर आहर देहि । येन धनेन वयं तोकं पुत्रं तनयं पौत्रं च सर्वं सन्तानवर्गं धामहे दध्महे पुष्णीमः । धामहे दधातेः शपो लुकि रूपम् ॥ ३३ ॥
चतुस्त्रिंशी।
अधिमन्त्रम् (VC)
- उषर्देवता
- गोतम ऋषिः
- निचृत्परोष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर उषःकाल का वर्णन अगले मन्त्र में करते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (वाजिनीवति) बहुत अन्नादि ऐश्वर्यों से युक्त (उषः) प्रातःसमय की वेला के तुल्य कान्तिसहित वर्त्तमान स्त्रि ! जैसे अधिकार अन्नादि ऐश्वर्य की हेतु प्रातःकाल की वेला जिस प्रकार के (चित्रम्) आश्चर्यस्वरूप को धारण करती (तत्) वैसे रूप को तू (अस्मभ्यम्) हमारे लिये (आ, भर) अच्छे प्रकार पुष्ट कर (येन) जिससे हम लोग (तोकम्) शीघ्र उत्पन्न हुए बालक (च) और (तनयम्) कुमारावस्था के लड़के को (च) भी (धामहे) धारण करें ॥३३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे सब शोभा से युक्त मङ्गल देनेवाली प्रभात समय की वेला सब व्यवहारों को धारण करनेवाली है, यदि वैसी स्त्रियाँ हों तो सदा अपने अपने पति को प्रसन्न कर पुत्र-पौत्रादि के साथ आनन्द को प्राप्त होवें ॥३३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनरुषो वर्णनमुपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे वाजिनीवत्युषर्वद्वर्त्तमाने स्त्रि ! यथा वाजिनीवत्युषा यादृशं चित्रं स्वरूपं धरति, तत् तादृशमस्मभ्यं त्वामाभर, येन वयं तोकं च तनयं च धामहे ॥३३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा सर्वशोभायुक्ता मङ्गलप्रदा प्रभातवेला सर्वव्यवहारधारिका वर्त्तते, तथाभूताः स्त्रियो यदि स्युस्तर्हि ताः सदा स्वं पतिं प्रसाद्य पुत्रपौत्रादिना आनन्दं लभेरन् ॥३३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. मंगल प्रभातसमयी सर्व व्यवहार चालू होतात. जर स्रिया तशा प्रकारे व्यवहार करत असतील, तर त्या आपल्या पतींना प्रसन्न करून पुत्रपौत्रासह आनंदान राहू शकतात.
३४ प्रातरग्निं प्रातरिन्द्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
प्रा॒तर॒ग्निं प्रा॒तरिन्द्रँ॑ हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना॑। प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॑ प्रा॒तः सोम॑मु॒त रु॒द्रँ हु॑वेम ॥३४ ॥
मूलम् ...{Loading}...
प्रा॒तर॒ग्निं प्रा॒तरिन्द्रँ॑ हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना॑। प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॑ प्रा॒तः सोम॑मु॒त रु॒द्रँ हु॑वेम ॥३४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्रा॒तः। अ॒ग्निम्। प्रा॒तः। इन्द्र॑म्। ह॒वा॒म॒हे॒। प्रा॒तः। मि॒त्रावरु॑णा। प्रा॒तः। अ॒श्विना॑। प्रा॒तः। भग॑म्। पू॒षण॑म्। ब्रह्म॑णः। पति॑म्। प्रा॒तरिति॑ प्रा॒तः। सोम॑म्। उ॒त। रु॒द्रम्। हु॒वे॒म॒। ३४।
महीधरः
म० जगती बहुदेवत्या । प्रातःशब्दो वीप्सावचनः । वयं प्रातःप्रातः पुनःपुनः एतान्देवान् हवामहे आह्वयाम इति प्रत्येकं संबध्यते । कान् । अग्निम् इन्द्रं मित्रावरुणौ अश्विनौ भगम् पूषणम् ब्रह्मणस्पतिम् । सोमम् उत अपिच रुद्रं हुवेम आह्वयाम । हवामहे हुवेम । ह्वयतेः संप्रसारणे रूपद्वयम् ॥३४॥
पञ्चत्रिंशी।
अधिमन्त्रम् (VC)
- अग्न्यादयो लिङ्गोक्ता देवताः
- वसिष्ठ ऋषिः
- निचृज्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्य क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे हम लोग (प्रातः) प्रातःकाल (अग्निम्) पवित्र वा स्वयं प्रकाशस्वरूप परमात्मा वा अग्नि को (प्रातः) प्रातःसमय (इन्द्रम्) उत्तम ऐश्वर्य को (प्रातः) प्रभात समय (मित्रावरुणा) प्राण उदान को और (प्रातः) प्रभात समय (अश्विना) अध्यापक तथा उपदेशक को (हवामहे) ग्रहण करें वा बुलावें (प्रातः) प्रातःसमय (भगम्) सेवन करने योग्य भाग (पूषणम्) पुष्टिकारक भोग (ब्रह्मणस्पतिम्) धन को वा वेद के रक्षक को (प्रातः) प्रभात समय (सोमम्) सोमादि ओषधिगण (उत) और (रुद्रम्) जीव को (हुवेम) ग्रहण वा स्वीकृत करें, वैसे तुम लोग भी आचरण करो ॥३४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य प्रातःकाल परमेश्वर की उपासना, अग्निहोत्र, ऐश्वर्य की उन्नति का उपाय, प्राण और अपान की पुष्टि करना, अध्यापक, उपदेशक, विद्वानों तथा ओषधि का सेवन और जीवात्मा को प्राप्त होने वा जानने को प्रयत्न करते हैं, वे सब सुखों से सुशोभित होते हैं ॥३४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्याः किं कुर्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा वयं प्रातरग्निं प्रातरिन्द्रं प्रातर्मित्रावरुणा प्रातरश्विना हवामहे, प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रातः सोममुत रुद्रञ्च हुवेम, तथा यूयमप्याचरत ॥३४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्याः प्रातः परमेश्वरोपासनमग्निहोत्रमैश्वर्योन्नत्युपायं प्राणापानपुष्टिकरणमध्यापकोपदेशकान् विदुष ओषधिसेवनं जीवं च प्राप्तुं ज्ञातुं च प्रयतन्ते, ते सर्वैः सुखैरलङ्कृताः स्युः ॥३४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे प्रातःकाली परमेश्वराची उपासना, अग्निहोत्र, ऐश्वर्याच्या प्राप्तीचे उपाय, प्राण, अपान यांची पुष्टी, औषधसेवन, अध्यापक, उपदेशक, विद्वानांचा संग, जीवात्म्याचे ज्ञान प्राप्त करण्याचा प्रयत्न करतात. त्यांना सर्व सुख मिळून ते सुशोभित होतात.
३५ प्रातर्जितं भगमुग्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
प्रा॒त॒र्जितं॒ भग॑मु॒ग्रँ हु॑वेम व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्त्ता। आ॒ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द् राजा॑ चि॒द्यं भगं॑ भ॒क्षीत्याह॑ ॥३५ ॥
मूलम् ...{Loading}...
प्रा॒त॒र्जितं॒ भग॑मु॒ग्रँ हु॑वेम व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्त्ता। आ॒ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द् राजा॑ चि॒द्यं भगं॑ भ॒क्षीत्याह॑ ॥३५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्रा॒त॒र्जित॒मिति॑ प्रातः॒ऽजित॑म्। भग॑म्। उ॒ग्रम्। हु॒वे॒म॒। व॒यम्। पु॒त्रम्। अदि॑तेः। यः। वि॒ध॒र्त्तेति॑ विऽध॒र्त्ता। आ॒ध्रः। चि॒त्। यम्। मन्य॑मानः। तु॒रः। चि॒त्। राजा॑। चि॒त्। यम्। भग॑म्। भ॒क्षि॒। इति॑। आह॑। ३५।
महीधरः
म० पञ्च भगदेवत्यास्त्रिष्टुभः । वयं तं भगमादित्यं हुवेम आह्वयाम । किंभूतम् । प्रातर्जितं प्रातर्जयतीति प्रातर्जित् तम् प्रातर्जयनशीलम् । उग्रमुत्कृष्टमुद्गूर्णदानं वा । अदितेः पुत्रं तनयम् । तं कम् । यो विधर्ता जगतो धारयिता । यश्च आध्रश्चित् चिच्छब्दोऽप्यर्थे । न ध्रायति ‘ध्रै तृप्तौ’ न तृप्यति स अध्रः नञो दीर्घश्छान्दसः । यद्वा आ समन्तात् ध्रः आध्रः । यद्वा अध्र एवाध्रः स्वार्थे तद्धितः । आध्रः अतृप्तः बुभुक्षितो दरिद्रो वापि यं भगं भक्षि भजस्व अर्थादुदयम् इत्याह । किं कुर्वन् । मन्यमानः पूजयन् स्वार्थसिद्धये । मन्यतिरर्चतिकर्मा । स हिं सूर्योदये भिक्षादिना किंचिल्लभते तत उदयं वाञ्छति तुरश्चित् आतुरोऽपि यं भगं मन्यमानो भक्षि उदयं भजस्वेत्याह । दिवसे तस्य सुखोदयात् रोगिणो रात्रिः कष्टेन याति । यद्वा तुरो यमः स हि मारणाय दिनानि गणयति । राजा चित् राजापि यं भगं भक्षि इत्याह । तदुदये हि राज्ञां व्यवहारदर्शनादिना सर्वेष्टसिद्धिः । भक्षि भजतेः शपि लुप्ते लटि मध्यमे रूपम् ॥३५॥
षट्त्रिंशी।
अधिमन्त्रम् (VC)
- भगो देवता
- वसिष्ठ ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्य लोग ऐश्वर्य्य का सम्पादन करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (वयम्) हम लोग (प्रातः) प्रभात समय (यः) जो (विधर्त्ता) विविध पदार्थों को धारण करनेहारा (आध्रः) न्यायादि में तृप्ति न करनेवाले का पुत्र (चित्) भी (यम्) जिस ऐश्वर्य को (मन्यमानः) विशेष कर जानता हुआ (तुरः) शीघ्रकारी (चित्) भी (राजा) शोभायुक्त राजा है (यम्) जिस (भगम्) ऐश्वर्य को (चित्) भी (भक्षि, इति, आह) तू सेवन कर, इस प्रकार ईश्वर उपदेश करता है, उस (अदितेः) अविनाशी कारण के समान माता के (पुत्रम्) पुत्र रक्षक (जितम्) अपने पुरुषार्थ से प्राप्त (उग्रम्) उत्कृष्ट (भगम्) ऐश्वर्य को (हुवेम) ग्रहण करें, वैसे तुम लोग स्वीकार करो ॥३५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे मनुष्यो ! तुम लोगों को सदा प्रातःकाल से लेकर सोते समय तक यथाशक्ति सामर्थ्य से विद्या और पुरुषार्थ से ऐश्वर्य की उन्नति कर आनन्द भोगना और दरिद्रों के लिये सुख देना चाहिये, यह ईश्वर ने कहा है ॥३५ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्या ऐश्वर्य्यं सम्पादयेयुरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा वयं प्रातर्यो विधर्त्ता आध्रश्चिद्यं मन्यमानस्तुरश्चिद् राजाऽस्ति, यं भगं चिद्भक्षीत्याह, तमदितेः पुत्रं जितमुग्रं भगं हुवेम, तथा यूयमपि स्वीकुरुत ॥३५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः ! युष्माभिः सदा प्रातरारभ्य शयनपर्यन्तं यथाशक्ति सामर्थ्येन विद्यया पुरुषार्थेनैश्वर्योन्नतिं विधायाऽऽनन्दो भोक्तव्यो दरिद्रेभ्यः सुखं देयमित्याहेश्वरः ॥३५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे माणसांनो ! प्रातःकालापासून झोपेपर्यंत आपल्या सामर्थ्यानुसार विद्या व पुरुषार्थ वाढवा व ऐश्वर्य प्राप्त करा, आनंद भोगा. दरिद्री लोकांना सुख द्या, अशी ईश्वराची आज्ञा आहे.
३६ भग प्रणेतर्भग
विश्वास-प्रस्तुतिः ...{Loading}...
भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधो॒ भगे॒मां धिय॒मुद॑वा॒ दद॑न्नः। भग॒ प्र नो॑ जनय॒ गोभि॒रश्वै॒र्भग॒ प्र नृभि॑र्नृ॒वन्तः॑ स्याम ॥३६ ॥
मूलम् ...{Loading}...
भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधो॒ भगे॒मां धिय॒मुद॑वा॒ दद॑न्नः। भग॒ प्र नो॑ जनय॒ गोभि॒रश्वै॒र्भग॒ प्र नृभि॑र्नृ॒वन्तः॑ स्याम ॥३६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
भग॑। प्रणे॑तः। प्रने॑तरिति॑ प्रऽने॑तः। भग॑। सत्य॑राध॒ इति॒ सत्य॑ऽराधः। भग॑। इ॒माम्। धिय॑म्। उत्। अ॒व॒। दद॑त्। नः॒। भग॑। प्र। नः॒। ज॒न॒य॒। गोभिः॑। अश्वैः॑। भग॑। प्र। नृभि॒रिति॒ नृऽभिः॑। नृ॒वन्त॒ इति॑ नृ॒ऽवन्तः॑। स्या॒म॒। ३६।
महीधरः
म० हे भग, हे प्रणेतः प्रकर्षेण नयति प्रापयति धनमिति प्रणेता तस्य संबोधने हे प्रणेतः, आदरार्थं पुनः संबोधनम् । हे भग, हे सत्यराधः, सत्यमनश्वरं राधो धनं यस्य स सत्यराधाः तत्संबुद्धौ हे सत्यराधः हे भग, त्वं ददत् धनं प्रयच्छन्सन् नोऽस्माकमिमां धियं प्रज्ञां कर्म वा उदव उद्गमय । यथा सूक्ष्मार्थान्पश्यामस्तथा कुर्विति भावः । किंच हे भग, नोऽस्मान् गोभिः अश्वैः प्रजनय प्रवर्धय । गाः अश्वांश्च बहून् देहीत्यर्थः । हे भग, वयं नृभिः पुत्रादिभिः नृवन्तः मनुष्यवन्तः प्रकर्षेण स्याम भवेम ॥ ३६॥
सप्तत्रिंशी।
अधिमन्त्रम् (VC)
- भगवान् देवता
- वसिष्ठ ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब ईश्वर की प्रार्थना आदि विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (भग) ऐश्वर्ययुक्त ! (प्रणेतः) पुरुषार्थ के प्रति प्रेरक ईश्वर वा हे (भग) ऐश्वर्य के दाता ! (सत्यराधः) विद्यमान पदार्थों में उत्तम धनोंवाले (भग) सेवने योग्य विद्वान् आप (नः) हमारी (इमाम्) इस वर्त्तमान (धियम्) बुद्धि को (ददत्) देते हुए (उत्, अव) उत्कृष्टता से रक्षा कीजिये। हे (भग) विद्यारूप ऐश्वर्य के दाता ईश्वर वा विद्वान् ! आप (गोभिः) गौ आदि पशुओं (अश्वैः) घोड़े आदि सवारियों और (नृभिः) नायक कुलनिर्वाहक मनुष्यों के साथ (नः) हमको (प्र, जनय) प्रकट कीजिये। हे (भग) सेवा करते हुए विद्वन् ! जिससे हम लोग (नृवन्तः) प्रशस्त मनुष्योंवाले (प्रस्याम) अच्छे प्रकार हों, वैसे कीजिये ॥३६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि जब-जब ईश्वर की प्रार्थना तथा विद्वानों का सङ्ग करें, तब-तब बुद्धि की ही प्रार्थना वा श्रेष्ठ पुरुषों की चाहना किया करें ॥३६ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथेश्वरप्रार्थनादिकविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे भग प्रणेतर्भग सत्यराधो भग ! त्वं नोऽस्माकमिमां धियं ददत् सदुदव। हे भग ! त्वं गोभिरश्वैर्नृभिस्सह नोऽस्मान् प्रजनय। हे भग ! येन वयं नृवन्तः प्रस्याम तथा विधेहि ॥३६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्यदा यदेश्वरस्य प्रार्थना विदुषां सङ्गः क्रियेत, तदा प्रज्ञैव याचनीयोतापि सन्तः पुरुषाः ॥३६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसे जेव्हा जेव्हा ईश्वराची प्रार्थना व विद्वानांची संगती करतात तेव्हा तेव्हा त्यांनी बुद्धीची प्रार्थना किंवा श्रेष्ठ पुरुषांच्या संगतीची कामना करावी.
३७ उतेदानीं भगवन्तः
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒तेदानीं॒ भग॑वन्तः स्यामो॒त प्र॑पि॒त्वऽउ॒त मध्ये॒ऽअह्ना॑म्। उ॒तोदि॑ता मघव॒न्त्सूर्य्य॑स्य व॒यं दे॒वानाँ॑ सुम॒तौ स्या॑म ॥३७ ॥
मूलम् ...{Loading}...
उ॒तेदानीं॒ भग॑वन्तः स्यामो॒त प्र॑पि॒त्वऽउ॒त मध्ये॒ऽअह्ना॑म्। उ॒तोदि॑ता मघव॒न्त्सूर्य्य॑स्य व॒यं दे॒वानाँ॑ सुम॒तौ स्या॑म ॥३७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उ॒त। इ॒दानी॑म्। भग॑वन्त॒ इति॒ भग॑ऽवन्तः। स्या॒म॒। उ॒त। प्र॒पि॒त्व इति॑ प्रऽपि॒त्वे। उ॒त। मध्ये॑। अह्ना॑म्। उ॒त। उदि॒तेत्युत्ऽइ॑ता। म॒घ॒व॒न्निति॑ मघऽवन्। सूर्य्य॑स्य। व॒यम्। दे॒वाना॑म्। सु॒म॒ताविति॑ सुऽम॒तौ। स्या॒म॒। ३७।
महीधरः
म० हे मघवन् धनवन् रवे, उत अपिच वयमिदानीं भगवन्तो ज्ञानवन्तो वा स्याम भवेम । उतापिच सूर्यस्य प्रपित्वे प्रपतने अस्तमये भगवन्तः स्याम । उत अह्नां मध्ये मध्यंदिने भगवन्तः स्याम । उत सूर्यस्य उदिता उदितौ उदयसमये भगवन्तः स्याम । किं बहुना सर्वदास्माकं धनवत्तास्त्वित्यर्थः । किंच देवानां सुमतौ कल्याण्यां बुद्धौ वयं स्याम । देवा अस्मासु शोभनामनुग्रहविषयां बुद्धिं दधत्वित्यर्थः ॥ ३७॥
अष्टत्रिंशी ।
अधिमन्त्रम् (VC)
- भगो देवता
- वसिष्ठ ऋषिः
- पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब ऐश्वर्य की उन्नति का विषय कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (मघवन्) उत्तम धनयुक्त ईश्वर वा विद्वन् ! (वयम्) हम लोग (इदानीम्) वर्त्तमान समय में (उत) और (प्रपित्वे) पदार्थों की प्राप्ति में (उत) और भविष्यकाल में (उत) और (अह्नाम्) दिनों में (मध्ये) बीच (भगवन्तः) (स्याम) समस्त ऐश्वर्य से युक्त हों। (उत) और (सूर्यस्य) सूर्य के (उदिता) उदय समय तथा (देवानाम्) विद्वानों की (सुमतौ) उत्तम बुद्धि में समस्त ऐश्वर्ययुक्त (स्याम) हों ॥३७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि वर्त्तमान और भविष्यत् काल में योग के ऐश्वर्यों की उन्नति से लौकिक व्यवहार के बढ़ाने और प्रशंसा में निरन्तर प्रयत्न करें ॥३७ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथैश्वर्योन्नतिविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मघवन् ! वयमिदानीमुत प्रपित्वे उत भविष्यति उताह्नां मध्ये भगवन्तः स्याम। उत सूर्यस्योदिता देवानां सुमतौ भगवन्तः स्याम ॥३७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्वर्त्तमाने भविष्यति च योगैश्वर्यस्योन्नतेर्लौकिकस्य व्यवहारस्य वर्द्धने प्रशंसायाञ्च सततं प्रयतितव्यम् ॥३७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी वर्तमानकाळात व भविष्यात योगानुष्ठान वाढवावे व लौकिक व्यवहार प्रशंसायुक्त होईल असा सतत प्रयत्न करावा.
३८ भगऽएव भगवाँ२ऽअस्तु
विश्वास-प्रस्तुतिः ...{Loading}...
भग॑ऽए॒व भग॑वाँ२ऽअस्तु देवा॒स्तेन॑ व॒यं भग॑वन्तः स्याम। तं त्वा॑ भग॒ सर्व॒ऽइज्जो॑हवीति॒ स नो॑ भग पुरऽए॒ता भ॑वे॒ह ॥३८ ॥
मूलम् ...{Loading}...
भग॑ऽए॒व भग॑वाँ२ऽअस्तु देवा॒स्तेन॑ व॒यं भग॑वन्तः स्याम। तं त्वा॑ भग॒ सर्व॒ऽइज्जो॑हवीति॒ स नो॑ भग पुरऽए॒ता भ॑वे॒ह ॥३८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
भगः॑। ए॒व। भग॑वा॒निति॒ भग॑ऽवान्। अ॒स्तु॒। दे॒वाः॒। तेन॑। व॒यम्। भग॑वन्त॒ इति॒ भग॑ऽवन्तः। स्या॒म॒। तम्। त्वा॒। भ॒ग॒। सर्वः॑। इत्। जो॒ह॒वी॒ति॒। सः। नः॒। भ॒ग॒। पु॒र॒ऽए॒तेति॑ पुरःऽए॒ता। भ॒व॒। इ॒ह। ३८।
महीधरः
म० हे देवाः, भग एव भगवान् । धनवानस्तु किमन्यैरदातृभिर्धनिभिर्देवैरिति भावः । तेन भगदत्तेन धनेन वयं भगवन्तः स्याम । एवं देवानुक्त्वाथ भगमाह । हे भग, सर्वइत् सर्व एव जनः तं प्रसिद्धं त्वा जोहवीति अत्यन्तमाह्वयति इष्टसिद्धये । हे भग, स त्वमिह नोऽस्माकं कर्मणि पुरएता पुरोऽग्रे एतीति पुरएता अग्रयायी भव । अग्रेसरो भूत्वा सर्वकार्याणि साधयेत्यर्थः ॥ ३८ ॥
एकोनचत्वारिंशी।
अधिमन्त्रम् (VC)
- भगवान् देवता
- वसिष्ठ ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (देवाः) विद्वान् लोगो ! जो (भगः, एव) सेवनीय ही (भगवान्) प्रशस्त ऐश्वर्ययुक्त (अस्तु) होवे (तेन) उस ऐश्वर्ययुक्त ऐश्वर्यवाले परमेश्वर के साथ (वयम्) हम लोग (भगवन्तः) समग्र शोभायुक्त (स्याम) होवें। हे (भग) सम्पूर्ण शोभायुक्त ईश्वर ! (तम्, त्वा) उन आपको (सर्वः, इत्) समस्त ही जन (जोहवीति) शीघ्र पुकारता है। हे (भग) सकल ऐश्वर्य के दाता ! (सः) सो आप (इह) इस जगत् में (नः) हमारे (पुरएता) अग्रगामी (भव) हूजिये ॥३८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! तुम लोग जो समस्त ऐश्वर्य से युक्त परमेश्वर है, उनके और जो उसके उपासक विद्वान् हैं, उनके साथ सिद्ध तथा श्रीमान् होओ। जो जगदीश्वर माता-पिता के समान हम पर कृपा करता है, उसकी भक्तिपूर्वक इस संसार में मनुष्यों को ऐश्वर्यवाले निरन्तर किया करो ॥३८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे देवाः ! यो भग एव भगवानस्तु तेन वयं भगवन्तः स्याम। हे भग ! तं त्वा सर्व इज्जोहवीति। भग ! स त्वमिह नः पुरएता भव ॥३८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यूयं यः सकलैश्वर्यसम्पन्नः परमेश्वरस्तेन ये चास्योपासका विद्वांसस्तैस्सह सिद्धाः श्रीमन्तश्च भवत। यो जगदीश्वरो मातापितृवदस्मासु कृपयति तद्भक्तिपुरःसरेणेह मनुष्यानैश्वर्यवतः सततं कुरुत ॥३८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! ऐश्वर्ययुक्त परमेश्वर व त्याचे विद्वान उपासक यांच्यासमवेत ऐश्वर्यवान बना. जो जगदीश्वर माता व पिता यांच्याप्रमाणे आपल्यावर कृपा करतो त्याची भक्ती करून माणसांचे ऐश्वर्य वाढवा.
३९ समध्वरायोषसो नमन्त
विश्वास-प्रस्तुतिः ...{Loading}...
सम॑ध्व॒रायो॒षसो॑ नमन्त दधि॒क्रावे॑व॒ शुच॑ये प॒दाय॑। अ॒र्वा॒ची॒नं व॑सु॒विदं॒ भगं॑ नो॒ रथ॑मि॒वाश्वा॑ वा॒जिन॒ऽआ व॑हन्तु ॥३९ ॥
मूलम् ...{Loading}...
सम॑ध्व॒रायो॒षसो॑ नमन्त दधि॒क्रावे॑व॒ शुच॑ये प॒दाय॑। अ॒र्वा॒ची॒नं व॑सु॒विदं॒ भगं॑ नो॒ रथ॑मि॒वाश्वा॑ वा॒जिन॒ऽआ व॑हन्तु ॥३९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सम्। अ॒ध्व॒राय॑। उ॒षसः॑। न॒म॒न्त॒। द॒धि॒क्रावे॒वेति॑ दधि॒ऽक्रावा॑ऽइव। शुच॑ये। प॒दाय॑। अ॒र्वा॒ची॒नम्। व॒सु॒विद॒मिति॑ वसु॒ऽविद॑म्। भग॑म्। नः॒। रथ॑मि॒वेति॒ रथ॑म्ऽइव। अश्वाः॑। वाजिनः॑। आ। व॒ह॒न्तु॒। ३९।
महीधरः
म० उषसः प्रातःकालाधिष्ठातारो देवाः अध्वराय संनमन्त संनमन्ते प्रह्वीभवन्ति । कथमिव । दधिक्रावा अश्वः इव । तथा अश्वः शुचये पदाय । अग्न्याधानार्थं शुचि पदम् । ता उषसः भगमादित्यं नोऽस्माकमर्वा चीनमभिमुखमावहन्तु आगमयन्तु । किंभूतं भगम् । वसुविदम् वसु धनं विन्दतीति वसुविदः | ‘इगुपध’ (पा० ३ । १ । १३५) इति कः । यथा वाजिनोऽन्नवन्तो वेगवन्तो वा अश्वा रथमावहन्ति तद्वत् ॥ ३९ ॥
चत्वारिंशी।
अधिमन्त्रम् (VC)
- भगो देवता
- वसिष्ठ ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (उषसः) प्रभात समय (दधिक्रावेव) अच्छे चलाये धारण करनेवाले घोड़े के तुल्य (शुचये) पवित्र (पदाय) प्राप्त होने योग्य (अध्वराय) हिंसारूप अधर्मरहित व्यवहार के लिये (सम्, नमन्त) सम्यक् नमते अर्थात् प्रातःसमय सत्त्व गुण की अधिकता से सब प्राणियों के चित्त शुद्ध नम्र होते हैं (अश्वाः) शीघ्रगामी (वाजिनः) घोड़े जैसे (रथमिव) रमणीय यान को वैसे (नः) हमको (अर्वाचीनम्) इस समय के (वसुविदम्) अनेक प्रकार के धनप्राप्ति के हेतु (भगम्) ऐश्वर्ययुक्त जन को प्राप्त करे, वैसे इनको आप लोग (आ, वहन्तु) अच्छे प्रकार चलावें ॥३९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में दो उपमालङ्कार हैं। जो मनुष्य प्रभात वेला के तुल्य विद्या और धर्म का प्रकाश करते और जैसे घोड़े यानों को वैसे शीघ्र समस्त ऐश्वर्य को पहुँचाते हैं, वे पवित्र विद्वान् जानने योग्य हैं ॥३९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! उषसो दधिक्रावेव शुचये पदायाऽध्वराय सन्नमन्त वाजिनोऽश्वा रथमिव नोऽर्वाचीनं वसुविदं भगं प्रापयन्ति तथैतो भवन्त आ वहन्तु ॥३९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र द्वावुपमालङ्कारौ। ये मनुष्या उषर्वद् विद्याधर्मौ प्रकाशयन्ति, अश्वयानानीव सद्यः समग्रमैश्वर्य्यं सर्वान् प्रापयन्ति, ते शुचयो विद्वांसो विज्ञेयाः ॥३९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात दोन उपमालंकार आहेत. जी माणसे प्रातःकालीन प्रकाशाप्रमाणे विद्या व धर्माचा प्रकाश करतात व घोडे, याने वेगाने चालवितात तसे संपूर्ण ऐश्वर्य प्राप्त करून देण्यात जे साह्य करतात ते पवित्र विद्वान समजावेत.
४० अश्वावतीर्गोमतीर्नऽउषासो वीरवतीः
विश्वास-प्रस्तुतिः ...{Loading}...
अश्वा॑वती॒र्गोम॑तीर्नऽउ॒षासो॑ वी॒रव॑तीः॒ सद॑मुच्छन्तु भ॒द्राः। घृ॒तं दुहा॑ना वि॒श्वतः॒ प्रपी॑ता यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥४० ॥
मूलम् ...{Loading}...
अश्वा॑वती॒र्गोम॑तीर्नऽउ॒षासो॑ वी॒रव॑तीः॒ सद॑मुच्छन्तु भ॒द्राः। घृ॒तं दुहा॑ना वि॒श्वतः॒ प्रपी॑ता यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥४० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अश्वा॑वतीः। अश्व॑वती॒रित्यश्व॑ऽवतीः। गोम॑ती॒रिति॒ गोऽम॑तीः। नः॒। उ॒षासः॑। उ॒षस॒ऽइत्यु॒षसः॑। वी॒रवती॒रिति॑ वी॒रऽव॑तीः। सद॑म्। उ॒च्छ॒न्तु॒। भ॒द्राः। घृ॒तम्। दुहा॑नाः। वि॒श्वतः॑। प्रपी॑ता॒ इति॒ प्रऽपी॑ताः। यू॒यम्। पा॒त॒। स्व॒स्तिभिः॑। सदा॑। नः॒। ४०।
महीधरः
म० उषोदेवत्या त्रिष्टुप् । उषसः सदं सदाकालं नोऽस्मानुच्छन्तु विवासयन्तु अज्ञानलक्षणं पाशं मोचयन्तु । ‘उच्छी विवासे’ । किंभूता उषसः। अश्वावतीः अश्ववत्यः गोमतीः गोमत्यः वीरवतीः वीरवत्यः भद्राः भन्दनीयाः कल्याणरूपाः घृतमवश्यायजलं दुहानाः क्षरन्त्यः विश्वतः सर्वतः प्रपीताः धर्मार्थकामैराप्यायिताः । प्यायः पी आदेशः । एवं परोक्षं प्रार्थ्य प्रत्यक्षमाह । हे उषसः, यूयं स्वस्तिभिः अविनाशैः सदा नोऽस्मान् पात पालयत ॥ ४० ॥
एकचत्वारिंशी
अधिमन्त्रम् (VC)
- उषा देवता
- वसिष्ठ ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब विदुषी स्त्रियाँ क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विदुषी स्त्रियो ! जैसे (अश्वावतीः) प्रशस्त व्याप्तिशील जलोंवाली (गोमतीः) बहुत किरणों से युक्त (वीरवतीः) बहुत वीर पुरुषों से संयुक्त (भद्राः) कल्याणकारिणी (घृतम्) शुद्ध जल को (दुहानाः) पूर्ण करती हुई (विश्वतः) सब ओर से (प्रपीताः) प्रकर्षता से बढ़ी हुई (उषासः) प्रभातवेला (नः) हमारी (सदम्) सभा को प्राप्त होती अर्थात् प्रकाशित वा प्रवृत्त करती हैं, वैसे हमारी सभा को आप लोग (उच्छन्तु) समाप्त करो और (नः) हमारी (यूयम्) तुम लोग (स्वस्तिभिः) स्वस्थता देनेवाले सुखों से (सदा) सदा (पात) रक्षा करो ॥४० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे प्रभातवेला जागते हुए मनुष्यों को सुख देनेवाली होती है, वैसे विदुषी स्त्रियाँ कुमारी विद्यार्थिनी कन्याओं के विद्या, सुशिक्षा और सौभाग्य को बढ़ा के सदैव इन कन्याओं को आनन्दित किया करें ॥४० ॥
दयानन्द-सरस्वती (सं) - विषयः
विदुष्यः किं कुर्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विदुष्यः स्त्रियो ! यथाऽश्वावतीर्गोमतीर्वीरवतीर्भद्रा घृतं दुहाना विश्वतः प्रपीता उषासो नोऽस्माकं सदं प्राप्नुवन्ति, तथाऽस्माकं सदं भवन्त्य उच्छन्तु नोऽस्मान् यूयं स्वस्तिभिः सदा पात ॥४० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा प्रभातवेला जाग्रतां मनुष्याणां सौख्यप्रदा भवन्ति, तथा विदुष्यः स्त्रियः कुमारीणां विद्यार्थिनीनां कन्यानां विद्यासुशिक्षासौभाग्यं वर्द्धयित्वा सदैता आनन्दयन्तु ॥४० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसा प्रातःकाल हा जागृत माणसांना आनंददायक असतो तसे विदुषी स्रियांनी विद्यार्थिंनींना विद्या, सुसंस्कार आणि सौभाग्यवृद्धी करून त्यांना आनंदित करावे.
४१ पूषन्तव व्रते
विश्वास-प्रस्तुतिः ...{Loading}...
पूष॒न्तव॑ व्र॒ते व॒यं न रि॑ष्येम॒ कदा॑ च॒न। स्तो॒तार॑स्तऽइ॒ह स्म॑सि ॥४१ ॥
मूलम् ...{Loading}...
पूष॒न्तव॑ व्र॒ते व॒यं न रि॑ष्येम॒ कदा॑ च॒न। स्तो॒तार॑स्तऽइ॒ह स्म॑सि ॥४१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पूष॑न्। तव॑। व्र॒ते व॒यम्। न। रि॒ष्ये॒म॒। कदा॑। च॒न। स्तो॒तारः॑। ते॒। इ॒ह। स्म॒सि॒। ४१।
महीधरः
म० द्वे पोष्ण्यौ गायत्रीत्रिष्टुभौ । हे पूषन् , तव व्रते कर्मणि वर्तमाना वयं कदाचन कदापि न रिष्येम न विनश्येम । किंच इह कर्मणि ते तव स्तोतारः स्तुतिकर्तारः स्मसि भवामः । इदन्तो मसि ॥४१॥
द्विचत्वारिंशी
अधिमन्त्रम् (VC)
- पूजा देवता
- सुहोत्र ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब ईश्वर और आप्तजन के सेवक कैसे होते हैं, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (पूषन्) पुष्टिकारक परमेश्वर वा आप्तविद्वन् ! (वयम्) हम लोग (तव) आपके (व्रते) स्वभाव वा नियम में इससे वर्तें कि जिससे (कदा, चन) कभी भी (न) न (रिष्येम) चित्त बिगाड़ें (इह) इस जगत् में (ते) आपके (स्तोतारः) स्तुति करनेवाले हुए हम सुखी (स्मसि) होते हैं ॥४१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य परमेश्वर के वा आप्त विद्वान् के गुणकर्मस्वभाव के अनुकूल वर्त्तते हैं, वे कभी नष्ट सुखवाले नहीं होते ॥४१ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथेश्वराप्तसेविनः कीदृशा भवन्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे पूषन् परमेश्वर आप्तविद्वन् वा ! वयं तव व्रते तस्माद् वर्त्तेमहि, यतो न कदा चन रिष्येम। इह ते स्तोतारः सन्तो वयं सुखिनः स्मसि ॥४१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्याः परमेश्वरस्याप्तस्य वा गुणकर्मस्वभावानूकूला वर्त्तन्ते, कदाचिन्नष्टसुखा न जायन्ते ॥४१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे परमेश्वर किंवा आप्त विद्वानांच्या गुणकर्म स्वाभावानुसार वागतात त्यांचे सुख कधी नष्ट होत नाही.
४२ पथस्पथः परिपतिम्
विश्वास-प्रस्तुतिः ...{Loading}...
प॒थस्प॑थः॒ परि॑पतिं वच॒स्या कामे॑न कृ॒तोऽअ॒भ्या᳖नड॒र्कम्। स नो॑ रासच्छु॒रुध॑श्च॒न्द्राग्रा॒ धियं॑ धियँ सीषधाति॒ प्र पू॒षा ॥४२ ॥
मूलम् ...{Loading}...
प॒थस्प॑थः॒ परि॑पतिं वच॒स्या कामे॑न कृ॒तोऽअ॒भ्या᳖नड॒र्कम्। स नो॑ रासच्छु॒रुध॑श्च॒न्द्राग्रा॒ धियं॑ धियँ सीषधाति॒ प्र पू॒षा ॥४२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प॒थस्प॑थः। प॒थःऽप॑थः॒ इति॑ प॒थःऽप॑थः। परि॑पति॒मिति॒ परि॑ऽपति॒म्। व॒च॒स्या। कामे॑न। कृ॒तः। अ॒भि। आ॒न॒ट्। अ॒र्कम्। सः। नः॒। रा॒स॒त्। शु॒रुधः॑। च॒न्द्राग्रा॒ इति॑ च॒न्द्रऽअ॑ग्राः। धियां॑धिय॒मिति॒ धिय॑म्ऽधियम्। सी॒ष॒धा॒ति॒। सी॒स॒धा॒तीति॑ सीसधाति। प्र॒। पू॒षा। ४२।
महीधरः
म० यः पूषा अर्कं देवमभ्यानट् अभिव्याप्नोति । किंभूतः कामेन काम्यत इति कामं तेन वाञ्छितेन वचस्या वचसा वेदोक्तेन कृतः अभिमुखीकृतः । किंभूतमर्कम् । पथस्पथः मार्गस्य मार्गस्य सर्वेषां मार्गाणां परिपतिमधिपतिं स्वामिनम् ॥ सः पूषा नोऽस्मभ्यं शुरुधः शुचं रुन्धन्ति वर्णनाशात् पृषोदरादित्वात् शोकनाशकराणि साधनानि रासत् ददातु । लिङ्गव्यत्ययः । किंभूताः शुरुधः । चन्द्राग्राः चन्द्रमाह्लादकमग्रं यासां ताः । साधने कृते आह्लादो भवति । पुनः पूषा धियं धियं कर्माणि सर्वाणि प्रसीषधाति प्रकर्षेण साधयतु । पथस्पथः धियं धियमिति ‘नित्यवीप्सयोः’ (पा० ८ । १। ४) इति द्वित्वम् । वचस्या विभक्तेर्यादेशः । आनट् व्याप्तिकर्मसु दशस्वयं पठितः । सीपधाति ‘साध संसिद्धौ’ शपः श्लुश्छान्दसः द्वित्वम् । ‘लेटोऽडाटौ’ ‘तुजादीनां दीर्घोऽभ्यासस्य’ उपधाह्रस्वश्छान्दसः ॥ ४२ ॥
त्रिचत्वारिंशी।
अधिमन्त्रम् (VC)
- पूषा देवता
- ऋजिष्व ऋषिः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (वचस्या) वचन और (कामेन) कामना करके (कृतः) सिद्ध (पूषा) पुष्टिकर्त्ता जगदीश्वर वा आप्तजन (शुरुधः) शीघ्र दुःखों को रोकनेवाले (चन्द्राग्राः) प्रथम से ही आनन्दकारी साधनों को (नः) हमारे लिये (रासत्) देवे। (धियं धियम्) प्रत्येक बुद्धि वा कर्म को (प्रसीषधाति) प्रकर्षता से सिद्ध करे, (सः) वह शुभ गुण, कर्म, स्वभावों को (अभि, आनट्) सब ओर से व्याप्त होता, उस (अर्कम्) पूजनीय (पथस्पथः) प्रत्येक मार्ग के (परिपतिम्) स्वामी की हम लोग स्तुति करें ॥४२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जो जगदीश्वर सबके सुख के लिये वेद के प्रकाश की और आप्त पुरुष पढ़ाने की इच्छा करता, जो सबके लिये श्रेष्ठ बुद्धि, उत्तम कर्म और शिक्षा को देते हैं, उन सब श्रेष्ठ मार्गों के स्वामियों का सदा सत्कार करना चाहिये ॥४२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यो वचस्या कामेन कृतः पूषाः जगदीश्वर आप्तो वा शुरुधः चन्द्राग्राः साधनानि नो रासद्धियं धियं प्रसीषधाति स शुभगुणकर्मस्वभावानभ्यानट् तमर्कं पथस्पथः परिपतिं वयं स्तुयाम ॥४२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यो जगदीश्वरः सर्वेषां सुखाय वेदप्रकाशं कामयत आप्तोऽध्यापयितुमिच्छति, यौ सर्वेभ्यः श्रेष्ठां सत्कर्मशिक्षां च प्रदत्तस्तौ सर्वसन्मार्गस्वामिनौ सदा सत्कर्त्तव्यौ ॥४२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! जो जगदीश्वर सर्वांच्या सुखासाठी वेद प्रकट करतो व आप्त पुरुष इतरांना त्यांचा उपदेश करतात आणि सर्वांना श्रेष्ठ बुद्धी, उत्तम कर्म व सुसंस्कार (शिक्षण) देतात त्या श्रेष्ठ मार्गाकडे वाटचाल करणाऱ्या लोकांचा नेहमी सत्कार केला पाहिजे.
४३ त्रीणि पदा
विश्वास-प्रस्तुतिः ...{Loading}...
त्रीणि॑ प॒दा विच॑क्रमे॒ विष्णु॑र्गो॒पाऽअदा॑भ्यः। अतो॒ धर्मा॑णि धा॒रय॑न् ॥४३ ॥
मूलम् ...{Loading}...
त्रीणि॑ प॒दा विच॑क्रमे॒ विष्णु॑र्गो॒पाऽअदा॑भ्यः। अतो॒ धर्मा॑णि धा॒रय॑न् ॥४३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
त्रीणि॑। प॒दा। वि। च॒क्र॒मे॒। विष्णुः॑। गो॒पाः। अदा॑भ्यः। अतः॑। धर्मा॑णि। धा॒रय॑न्। ४३।
महीधरः
म० वैष्णव्यौ गायत्र्यौ द्वयोर्ऋचोरेकवाक्यम् । यो विष्णुः यज्ञः त्रीणि पदा पदानि विचक्रमे विक्रान्तवान् अग्निवाय्वादित्याख्यानि पदानि व्याप्तवान् । किंभूतो विष्णुः । गोपाः जगतो रक्षकः । अदाभ्यः अहिंस्यः । किं कुर्वन् । अतः अस्मादेव पदत्रयात् धर्माणि पुण्यानि कर्माणि धारयन् । धर्ममस्त्रियाम् ॥ ४३ ॥
चतुश्चत्वारिंशी।
अधिमन्त्रम् (VC)
- विष्णुर्देवता
- मेधातिथिर्ऋषिः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब ईश्वर के विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (अदाभ्यः) अहिंसा धर्मवाला होने से दयालु (गोपाः) रक्षक (विष्णुः) चराचर जगत् में व्याप्त परमेश्वर (धर्माणि) पुण्यरूप कर्मों का धारक पृथिव्यादि को (धारयन्) धारण करता हुआ (अतः) इस कारण से (त्रीणि) तीन (पदा) जानने वा प्राप्त होने योग्य कारण, सूक्ष्म और स्थूलरूप जगत् का (वि, चक्रमे) आक्रमण करता है, वही हम लोगों का पूजनीय है ॥४३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जिस परमेश्वर ने भूमि, अन्तरिक्ष और सूर्य्यरूप करके तीन प्रकार के जगत् को बनाया, सबको धारण किया और रक्षित किया है, वही उपासना के योग्य इष्टदेव है ॥४३ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथेश्वरविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! योऽदाभ्यो गोपा विष्णुर्धर्माणि धारयन्नतस्त्रीणि पदा विचक्रमे, स एवाऽस्माकं पूजनीयोऽस्ति ॥४३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! येन परमेश्वरेण भूम्यन्तरिक्षसूर्य्यरूपेण त्रिविधं जगन्निर्मितम्, सर्वं ध्रियते रक्ष्यते च, स एवोपासनीय इष्टदेवोऽस्ति ॥४३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! ज्या परमेश्वराने भूमी, अंतरिक्ष व सूर्य अशा तीन प्रकारचे जग निर्माण केलेले आहे. सर्वांना धारण केलेले आहे व सर्वांचे रक्षण करत आहे तोच उपासना करण्यायोग्य आहे.
४४ तद्विप्रासो विपन्यवो
विश्वास-प्रस्तुतिः ...{Loading}...
तद्विप्रा॑सो विप॒न्यवो॑ जागृ॒वाँसः॒ समि॑न्धते। विष्णो॒र्यत्प॑र॒मं प॒दम् ॥४४ ॥
मूलम् ...{Loading}...
तद्विप्रा॑सो विप॒न्यवो॑ जागृ॒वाँसः॒ समि॑न्धते। विष्णो॒र्यत्प॑र॒मं प॒दम् ॥४४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
तत्। विप्रा॑सः। वि॒प॒न्यवः॑। जा॒गृ॒वाँस॒ इति॑ जागृ॒वाँसः॑। सम्। इ॒न्ध॒ते॒। विष्णोः॑। यत्। प॒र॒मम्। प॒दम्। ४४।
महीधरः
म० तस्य विष्णोः यज्ञस्य यत्परमं पदं ब्रह्मलक्षणम् तद्विप्रासः विप्राः ब्राह्मणाः समिन्धते । णिचो लोपः। समिन्धयन्ति दीपयन्ति । उपासते इत्यर्थः । किंभूताः विप्राः । विपन्यवः । विगतः पन्युः संसारव्यवहारो येभ्यः निष्कामाः । जागृवांसः जागरणशीलाः अप्रमत्ताः । ज्ञानकर्मसु समुच्चयकारिण इत्यर्थः ॥ ४४ ॥
पञ्चचत्वारिंशी।
अधिमन्त्रम् (VC)
- विष्णुर्देवता
- मेधातिथिर्ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (जागृवांसः) अविद्यारूप निद्रा से उठ के चेतन हुए (विपन्यवः) विशेषकर स्तुति करने योग्य वा ईश्वर की स्तुति करनेहारे (विप्रासः) बुद्धिमान् योगी लोग (विष्णोः) सर्वत्र अभिव्यापक परमात्मा का (यत्) जो (परमम्) उत्तम (पदम्) प्राप्त होने योग्य मोक्षदायी स्वरूप है, (तत्) उसको (सम्, इन्धते) सम्यक् प्रकाशित करते हैं, उनके सत्सङ्ग से तुम लोग भी वैसे होओ ॥४४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो योगाभ्यासादि सत्कर्मों को करके शुद्ध मन और आत्मावाले धार्मिक पुरुषार्थी जन हैं, वे ही व्यापक परमेश्वर के स्वरूप को जानने और उसको प्राप्त होने योग्य होते हैं, अन्य नहीं ॥४४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्या ये जागृवांसो विपन्यवो विप्रासो विष्णोर्यत्परमं पदमस्ति, तत्समिन्धते तत्सङ्गेन यूयमपि तादृशा भवत ॥४४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये योगाभ्यासादिना शुद्धान्तःकरणात्मानो धार्मिकाः पुरुषार्थिनो जनाः सन्ति, त एव व्यापकस्य परमेश्वरस्य स्वरूपं ज्ञातुं लब्धुं चार्हन्ति नेतरे ॥४४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे योगाभ्यास इत्यादी सत्कर्म करून आत्मा व मन शुद्ध करून धार्मिक व पुरुषार्थी बनतात तेच परमेश्वराच्या व्यापक स्वरूपाला जाणू शकतात व प्राप्तही करू शकतात, इतरांना ते शक्य होत नाही.
४५ घृतवती भुवनानामभिश्रियोर्वी
विश्वास-प्रस्तुतिः ...{Loading}...
घृ॒तव॑ती॒ भुव॑नानामभि॒श्रियो॒र्वी पृ॒थ्वी म॑धु॒दुघे॑ सु॒पेश॑सा। द्यावा॑पृथि॒वी वरु॑णस्य॒ धर्म॑णा॒ विष्क॑भितेऽअ॒जरे॒ भूरि॑रतेसा ॥४५ ॥
मूलम् ...{Loading}...
घृ॒तव॑ती॒ भुव॑नानामभि॒श्रियो॒र्वी पृ॒थ्वी म॑धु॒दुघे॑ सु॒पेश॑सा। द्यावा॑पृथि॒वी वरु॑णस्य॒ धर्म॑णा॒ विष्क॑भितेऽअ॒जरे॒ भूरि॑रतेसा ॥४५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
घृ॒तवती॒ इति॑ घृ॒तऽव॑ती। भुव॑नानाम्। अ॒भि॒श्रियेत्य॑भि॒ऽश्रिया॑। उ॒र्वीऽइत्यु॒र्वी। पृ॒थ्वीऽइति॑ पृ॒थ्वी। म॒धु॒दुघे॒ इति॑ मधु॒ऽदुघे॑। सु॒पेश॒सेति॑ सु॒ऽपेश॑सा। द्यावा॑पृथिवीऽइति॒ द्यावा॑पृथि॒वी। वरु॑णस्य। धर्म॑णा। विस्क॑भिते॒ इति॒ विऽस्क॑भिते। अ॒जरे॒ऽइत्य॒जरे॑। भूरि॑रेत॒सेति॒ भूरि॑ऽरेतसा। ४५।
महीधरः
म० जगती द्यावापृथिवीदेवत्या । द्यावापृथिवी द्यावापृथिव्यौ वरुणस्यादित्यस्य धर्मणा धारणेन धारणशक्त्या विष्कभिते स्तम्भिते । स्कभ्नोतिर्दृढीकरणार्थः । वरुणेन स्वशक्त्या दृढीकृते इत्यर्थः । किंभूते ते । घृतवती उदकवत्यौ । घृतमित्युदकनाम। भुवनानां भूतजातानामभिश्रिया अभिश्रियौ आश्रयणीये । कर्मणि क्विप् विभक्तराकारः । उर्वी उर्व्यौ विस्तीर्णे । पृथ्वी पृथ्व्यौ पृथुले । आयामविस्ताराभ्यां महत्त्वं विशेषणद्वयेनोक्तम् । मधुदुघे मधु उदकं तस्य दोग्ध्र्यौ । सुपेशसा सुरूपे । अजरे जरारहिते । भूरि रेतसा भूरि रेतो ययोस्ते भूरिरेतसी बहुरेतस्के । सर्वभूतानां हि रेतांसि ताभ्यामेवोत्पद्यन्ते ॥ ४५ ॥
षट्चत्वारिंशी।
अधिमन्त्रम् (VC)
- द्यावापृथिव्यौ देवते
- भरद्वाज ऋषिः
- निचृज्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जिस (वरुणस्य) सबसे श्रेष्ठ जगदीश्वर के (धर्मणा) धारण करने रूप सामर्थ्य से (मधुदुघे) जल की पूर्ण करनेवाली (सुपेशसा) सुन्दर रूपयुक्त (पृथ्वी) विस्तारयुक्त (उर्वी) बहुत पदार्थोंवाली (घृतवती) बहुत जल के परिवर्त्तन से युक्त (अजरे) अपने स्वरूप से नाशरहित (भूरिरेतसा) बहुत जलों से युक्त वा अनेक वीर्य वा पराक्रमों की हेतु (भुवनानाम्) लोक-लोकान्तरों की (अभिश्रिया) सब ओर से शोभा करनेवाली (द्यावापृथिवी) सूर्य और भूमि (विष्कभिते) विशेष कर धारण वा दृढ़ किये हैं, उसी को उपासना के योग्य तुम लोग जानो ॥४५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को जिस परमेश्वर ने प्रकाशरूप और अप्रकाशरूप दो प्रकार के जगत् को बना और धारण करके पालित किया है, वही सर्वदा उपासना के योग्य है ॥४५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यस्य वरुणस्य परमेश्वरस्य धर्मणा मधुदुघे सुपेशसा पृथ्वी उर्वी घृतवती अजरे भूरिरेतसा भुवनानामभिश्रिया द्यावापृथिवी विष्कभिते, तमेवोपास्यं यूयं विजानीत ॥४५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्येन परमेश्वरेण प्रकाशाऽप्रकाशात्मकं द्विविधं जगन्निर्माय धृत्वा पाल्यते, स एव सर्वदोपासनीयोऽस्ति ॥४५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्या परमेश्वराने प्रकाशरूपी व अप्रकाशरूपी असे दोन प्रकारचे जग बनवून व धारण करून त्याचे तो पालन करत आहे. नेहमी माणसांनी त्याचीच उपासना करावी.
४६ ये नः
विश्वास-प्रस्तुतिः ...{Loading}...
ये नः॑ स॒पत्ना॒ऽअप॒ ते भ॑वन्त्विन्द्रा॒ग्निभ्या॒मव॑ बाधामहे॒ तान्। वस॑वो रु॒द्राऽआ॑दि॒त्याऽउ॑परि॒स्पृशं॑ मो॒ग्रं चेत्ता॑रमधिरा॒जम॑क्रन् ॥४६ ॥
मूलम् ...{Loading}...
ये नः॑ स॒पत्ना॒ऽअप॒ ते भ॑वन्त्विन्द्रा॒ग्निभ्या॒मव॑ बाधामहे॒ तान्। वस॑वो रु॒द्राऽआ॑दि॒त्याऽउ॑परि॒स्पृशं॑ मो॒ग्रं चेत्ता॑रमधिरा॒जम॑क्रन् ॥४६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ये। नः॒। स॒पत्ना॒ इति॑ स॒ऽपत्नाः॑। अप॑। ते। भ॒व॒न्तु॒। इ॒न्द्रा॒ग्निभ्या॒मिती॑न्द्रा॒ग्निऽभ्या॑म्। अव॑। बा॒धा॒म॒हे॒। तान्। वस॑वः। रु॒द्राः। आ॒दि॒त्याः। उ॒प॒रिस्पृश॒मित्युपरि॒ऽस्पृश॑म्। मा॒। उ॒ग्रम्। चेत्तार॑म्। अ॒धि॒रा॒जमित्य॑धिऽरा॒जम्। अ॒क्र॒न्। ४६।
महीधरः
म० जगती लिङ्गोक्तदेवता । ये नोऽस्माकं सपत्नाः शत्रवः ते अपभवन्तु अपगतवीर्या निरुद्यमा भवन्तु । पराभवं यान्वियेत्यर्थः । यतो वयं तान् सपत्नान् इन्द्राग्निभ्यां कृत्वा अवबाधामहे इन्द्राग्निबलेन नाशयामः । किंच वसवोऽष्टौ रुद्रा एकादश आदित्या द्वादश एते मा मामेतादृशमक्रन् कुर्वन्तु । कीदृशम् । उपरिस्पृशम् उपरि स्पृशतीति उपरिस्पृक् तमुच्चस्थानस्थितम् । उग्रमुत्कृष्टम् । चेत्तारं ज्ञातारं ज्ञेयस्य । अधिराजम् अधिकश्चासौ राजा च अधिराजस्तम् अधिपतिमीश्वरं । कुर्वन्त्वित्यर्थः ॥ ४६॥
सप्तचत्वारिंशी।
अधिमन्त्रम् (VC)
- लिङ्गोक्ता देवताः
- विहव्य ऋषिः
- भुरिक्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब राजधर्म विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (ये) जो (नः) हमारे (सपत्नाः) शत्रु लोग हों (ते) वे (अप, भवन्तु) दूर हों अर्थात् पराजय को प्राप्त हों, जैसे (तान्) उन शत्रुओं को हम (इन्द्राग्निभ्याम्) वायु और विद्युत् के शस्त्रों से (अव, बाधामहे) पीड़ित करें और जैसे (वसवः) पृथिवी आदि वसु (रुद्राः) दश प्राण, ग्यारहवाँ आत्मा और (आदित्याः) बारह महीने (उपरिस्पृशम्) उच्च स्थान पर बैठने (उग्रम्) तेजस्वभाव और (चेत्तारम्) सत्यासत्य को यथावत् जाननेवाले (मा) मुझको (अधिराजम्) अधिपति स्वामी समर्थ (अक्रन्) करें, वैसे उन शत्रुओं का तुम लोग निवारण और मेरा सत्कार करो ॥४६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जिसके अधिकार में पृथिवी आदि पदार्थ हों, वही सबके ऊपर राजा होवे। राजा होवे वह शस्त्र-अस्त्रों से शत्रुओं का निवारण कर निष्कण्टक राज्य करे ॥४६ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ राजधर्मविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! ये नः सपत्नाः स्युस्तेऽपभवन्तु यथा तान् वयमिन्द्राग्निभ्यामव बाधामहे, यथा च वसवो रुद्रा आदित्या उपरिस्पृशमुग्रं चेत्तारं मा मामधिराजमक्रन्, तथा तान् यूयं निवारयत मां च सत्कुरुत ॥४६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यस्याऽधिकारे पृथिव्यादयः पदार्थाः स्युस्स एव सर्वेषामुपरि राजा स्यात्। यो राजा भवेत् स शस्त्रास्त्रैः शत्रून् निवार्य निष्कण्टकं राज्यं कुर्य्यात् ॥४६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. पृथ्वी व त्यावरील पदार्थांवर ज्याचा अधिकार असेल तोच सर्वांचा राजा होऊ शकतो. जो राजा बनू शकतो त्याने अस्र शस्रांनी शत्रूंचे निवारण करून राज्य निष्कंटक बनवावे.
४७ आ नासत्या
विश्वास-प्रस्तुतिः ...{Loading}...
आ ना॑सत्या त्रि॒भिरे॑काद॒शैरि॒ह दे॒वेभि॑र्यातं मधु॒पेय॑मश्विना। प्रायु॒स्तारि॑ष्टं॒ नी रपाँ॑सि मृक्षतँ॒ सेध॑तं॒ द्वेषो॒ भव॑तँ सचा॒भुवा॑ ॥४७ ॥
मूलम् ...{Loading}...
आ ना॑सत्या त्रि॒भिरे॑काद॒शैरि॒ह दे॒वेभि॑र्यातं मधु॒पेय॑मश्विना। प्रायु॒स्तारि॑ष्टं॒ नी रपाँ॑सि मृक्षतँ॒ सेध॑तं॒ द्वेषो॒ भव॑तँ सचा॒भुवा॑ ॥४७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ। ना॒स॒त्या॒। त्रि॒भिरिति॑ त्रि॒ऽभिः। ए॒का॒द॒शैः। इ॒ह। दे॒वेभिः॑। या॒त॒म्। म॒धु॒पेय॒मिति॑ मधु॒पेऽय॑म्। अ॒श्वि॒ना॒। प्र। आयुः॑। तारि॑ष्टम्। निः। रपाँ॑सि। मृ॒क्ष॒त॒म्। सेध॑तम्। द्वेषः॑। भव॑तम्। स॒चा॒भुवेति॑ सचा॒ऽभुवा॑। ४७।
महीधरः
म० जगती अश्विदेवत्या । हे नासत्या नासत्यौ, हे अश्विनौ त्रिभिः एकादशैः त्रिगुणैरेकादशभिः त्रयस्त्रिंशत्संख्याकैः देवेभिः देवैः इह स्थाने मधुपेयं सोमपानं प्रति आयातमागच्छतम् । मधुः सोमस्तस्य पेयं पानम् । किंच आयुः प्रतारिष्टम् । तरतिर्वृद्ध्यर्थः प्रवर्धयतम् । रपांसि पापानि निर्मृक्षतं निःशेषं शोधयतम् । नाशयतमित्यर्थः । द्वेषः दौर्भाग्यं सेधतं । ‘षिधु गत्याम्’ गमयतं नाशयतम् । सचाभुवा भवतम् । सचा इत्यव्ययं सहार्थे । सचा सह भवतस्तौ सचाभुवौ । क्विप् । कार्येषु संयुक्तौ भवतम् । अष्टौ वसव इत्यादिना त्रयत्रिंशद्देवा गणिताः । तारिष्टम् तरतेर्लुङि मध्यमद्विवचनम् ‘बहुलं छन्दस्यमाङयोगेऽपि’ (पा० ६ । ४ । ७५) इत्यडभावः । मृक्षतम् ‘मृजूष् शुद्धौ’ ‘लेटोऽडाटौ’ ‘सिब्बहुलं लेटि’ | (पा० ३ । १ । ३४ ) इति सिप् ‘तस्थस्थमिपाम्-’(पा० | ३ । ४ । १०१) इति व्यत्ययेन थसः तमादेशः ॥ ४७ ॥
अष्टचत्वारिंशी।
अधिमन्त्रम् (VC)
- अश्विनौ देवते
- हिरण्यस्तूप ऋषिः
- जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
अब कौन जगत् के हितैषी हों, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (नासत्या) असत्य आचरण से रहित (अश्विना) राज्य और प्रजा के विद्वानो ! जैसे तुम (इह) इस जगत् में (त्रिभिः) एकादशैः) तेंतीस (देवेभिः) उत्तम पृथिवी आदि (आठ वसु, प्राणादि ग्यारह रुद्र, बारह महीनों तथा बिजुली और यज्ञ) तेंतीस देवताओं के साथ (मधुपेयम्) मधुर गुणों से युक्त पीने योग्य ओषधियों के रस को (आ, यातम्) अच्छे प्रकार प्राप्त होओ वा उसके लिये आया करो। (रपांसि) पापों को (मृक्षतम्) शुद्ध किया करो। (द्वेषः) द्वेषादि दोषयुक्त प्राणियों का (निः, सेधतम्) खण्डन वा निवारण किया करो। (सचाभुवा) सत्य पुरुषार्थ के साथ कार्यों में संयुक्त (भवतम्) होओ और (आयुः) जीवन को (प्र, तारिष्टम्) अच्छे प्रकार बढ़ाओ, वैसे हम लोग होवें ॥४७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - वे ही लोग जगत् के हितैषी हैं, जो पृथिवी आदि सृष्टि की विद्या को जान के दूसरों को ग्रहण करावें, दोषों को दूर करें और अधिक काल जीवन के विधान का प्रचार किया करें ॥४७ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ के जगद्धितैषिण इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे नासत्याऽश्विना ! यथा युवामिह त्रिभिरेकादशैर्देवेभिः सह मधुपेयमायातम्, रपांसि मृक्षतं द्वेषो निःषेधतं सचाभुवा भवतमायुः प्रतारिष्टम्, तथा वयमपि भवेम ॥४७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - त एव जगद्धितैषिणो ये पृथिव्यादिसृष्टिविद्यां विज्ञायाऽन्यान् ग्राहयेयुर्दोषान् दूरीकुर्युश्चिरंजीवनस्य विधानं च प्रचारयेयुः ॥४७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे पृथ्वी इत्यादी सृष्टीची विद्या जाणून दुसऱ्यांना शिकवितात ते जगाचे हितकर्ते असतात व सर्वांचे दोष दूर करून दीर्घकाळ जीवन जगण्याचा प्रसार करतात.
४८ एष व
विश्वास-प्रस्तुतिः ...{Loading}...
ए॒ष व॒ स्तोमो॑ मरुतऽइ॒यं गीर्मा॑न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः। एषा या॑सीष्ट त॒न्वे᳖ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥४८ ॥
मूलम् ...{Loading}...
ए॒ष व॒ स्तोमो॑ मरुतऽइ॒यं गीर्मा॑न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः। एषा या॑सीष्ट त॒न्वे᳖ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥४८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ए॒षः। वः॒। स्तोमः॑। म॒रु॒तः॒। इ॒यम्। गीः। मा॒न्दा॒र्यस्य॑। मा॒न्यस्य॑। का॒रोः। आ। इ॒षा। या॒सी॒ष्ट॒। त॒न्वे᳖। व॒याम्। वि॒द्याम॑। इ॒षम्। वृ॒जन॑म्। जी॒रदा॑नु॒मिति॑ जी॒रऽदा॑नुम्। ४८।
महीधरः
म० मारुती त्रिष्टुप् । हे मरुतः, कारोः कर्तुर्यजमानस्य एषः स्तोमः इयं च गीः सत्या च प्रिया च वो युष्मभ्यं । युष्मदर्थं वर्तत इति शेषः । किंभूतस्य कारोः । मान्दार्यस्य मां ममेति स्वस्वामिसंबन्धं दारयतीति मान्दार्यः तस्य । वीतरागस्येत्यर्थः । यद्वा मां दारयतीत्येवं यः शत्रूणां प्रत्ययमादधाति स मान्दार्यः । यद्वा मन्दारः कल्पवृक्षः तत्तुल्यो मान्दार्यः तस्य अथ कामपूरस्येत्यर्थः । मान्यस्य मानार्हस्य । किंच हे मरुतः, यूयमिषा अन्नेन निमित्तेन अयासीष्ट आगच्छत । किमर्थम् । वयां वयसाम् । आमि टिलोप आर्षः । बाल्ययौवनस्थाविराणां वयसां संबन्धिन्यै तन्वे शरीराय । सर्वदा शरीरस्थित्यर्थमित्यर्थः । अस्मच्छरीरं दृढीकर्तुमिति भावः । किंच इषमन्नं वृजनं बलं च वयं विद्याम लभेमहि । किंभूतमिषं वृजनं च । जीरदानुं जीवयतीति जीरदानुस्तम् । जीवेरौणादिको रदानुप्रत्ययः ‘लोपो व्योर्वलि’ ( पा० ६ । १ । ६६) इति वलोपः। जीवितदातृ बलमन्नं च वयं प्राप्नुयामेति प्रार्थना ॥ ४८ ॥
एकोनपञ्चाशी।
अधिमन्त्रम् (VC)
- मरुतो देवताः
- अगस्त्य ऋषिः
- पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्य लोग क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (मरुतः) मरण धर्मवाले मनुष्यो ! (मान्दार्यस्य) प्रशस्तकर्मों के सेवक उदार चित्तवाले (मान्यस्य) सत्कार के योग्य (कारोः) पुरुषार्थी कारीगर का (एषः) यह (स्तोमः) प्रशंसा और (इयम्) यह (गीः) वाणी (वः) तुम्हारे लिये उपयोगी होवे, तुम लोग (इषा) इच्छा वा अन्न के निमित्त से (वयाम्) अवस्थावाले प्राणियों के (तन्वे) शरीरादि की रक्षा के लिये (आ, यासीष्ट) अच्छे प्रकार प्राप्त हुआ करो और हम लोग (जीरदानुम्) जीवन के हेतु (इषम्) विज्ञान वा अन्न तथा (वृजनम्) दुःखों के वर्जनवाले बल को (विद्याम) प्राप्त हों ॥४८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि सदैव प्रशंसनीय कर्मों का सेवन और शिल्पविद्या के विद्वानों का सत्कार करके जीवन, बल और ऐश्वर्य को प्राप्त होवें ॥४८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्याः किं कुर्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मरुतो मनुष्याः ! मान्दार्यस्य मान्यस्य कारोरेष स्तोम इयं च गीर्वोऽस्तु, यूयमिषा वयां तन्वे आ यासीष्ट, जीरदानुमिषं वृजनं च विद्याम ॥४८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैस्सदैव प्रशंसनीयानि कर्माणि सेवित्वा शिल्पविद्याविदः सत्कृत्य जीवनं बलमैश्वर्यं च प्राप्तव्यम् ॥४८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी सदैव प्रशंसनीय कर्म करावे व हस्त कौशल्य (शिल्पविद्या) जाणणाऱ्या विद्वानांचा सत्कार करून जीवन, बल व ऐश्वर्य प्राप्त करावे.
४९ सहस्तोमाः सहच्छन्दसऽआवृतः
विश्वास-प्रस्तुतिः ...{Loading}...
स॒हस्तो॑माः स॒हच्छ॑न्दसऽआ॒वृतः॑ स॒हप्र॑मा॒ऽऋष॑यः स॒प्त दैव्याः॑। पूर्वे॑षां॒ पन्था॑मनु॒दृश्य॒ धीरा॑ऽअ॒न्वाले॑भिरे र॒थ्यो̫ न र॒श्मीन् ॥४९ ॥
मूलम् ...{Loading}...
स॒हस्तो॑माः स॒हच्छ॑न्दसऽआ॒वृतः॑ स॒हप्र॑मा॒ऽऋष॑यः स॒प्त दैव्याः॑। पूर्वे॑षां॒ पन्था॑मनु॒दृश्य॒ धीरा॑ऽअ॒न्वाले॑भिरे र॒थ्यो̫ न र॒श्मीन् ॥४९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स॒हस्तो॑मा॒ इति॑ स॒हऽस्तो॑माः। स॒हछ॑न्दस॒ इति॑ स॒हऽछ॑न्दसः। आ॒वृत॒ इत्या॒ऽवृतः॑। स॒हप्र॑मा॒ इति॑ स॒हऽप्र॑माः। ऋष॑यः। स॒प्त। दैव्याः॑। पूर्वे॑षाम्। पन्था॑म्। अ॒नु॒दृश्येत्य॑नु॒ऽदृश्य॑। धीराः॑। अ॒न्वाले॑भिर॒ इत्य॑नु॒ऽआले॑भिरे॒। र॒थ्यः᳙। न। र॒श्मीन्। ४९।
महीधरः
म० ऋषिसृष्टिप्रतिपादिका त्रिष्टुप् । दैव्याः सप्त ऋषयः देवस्य प्रजापतेः इमे दैव्याः प्रजापतिप्राणाभिमानिनः सप्त ऋषयः भरद्वाजकश्यपगोतमात्रिवसिष्ठविश्वामित्रजमदग्निसंज्ञाः । अन्वालेभिरे सृष्टवन्तः । सृष्टियज्ञमिति शेषः । किं कृत्वा । पूर्वेषां पन्थां पन्थानमनुदृश्य अधस्तनकल्पोत्पन्नानामवसिताधिकाराणां मार्गं विलोक्य पूर्वकल्पोत्पन्नैर्ऋषिभिर्यथा सृष्टं तथा सृष्टवन्त इत्यर्थः । ‘सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्’ इत्युक्तेः । कथमिव । रथ्यो न रश्मीन् । नकार उपमार्थः। रथे साधुः रथ्यः रथी यथा इष्टदेशप्राप्त्यर्थं प्रथमं रश्मीन् प्रग्रहानालभते स्पृशति सृजति वा तथा तेऽपि सृष्टियज्ञं सृष्टवन्तः । किंभूता ऋषयः । सहस्तोमाः स्तोमसहिताः । सहच्छन्दसः छन्दोभिर्गायत्र्यादिभिः सहिताः । आवृतः अत्रापि सहशब्दाध्याहारः । आवृच्छब्देन कर्मोच्यते । सहावृतः कर्मसहिताः श्रद्धासत्यप्रधानानां कर्मणामनुष्ठातारः । सहप्रमाः प्रमाणं प्रमा तत्सहिताः शब्दप्रमाणपरीक्षणतत्पराः । धीराः धीमन्तः ॥ ४९ ॥
पञ्चाशी।
अधिमन्त्रम् (VC)
- ऋषयो देवताः
- प्राजापत्यो यज्ञ ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब ऋषि कौन होते हैं, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (सहस्तोमाः) प्रशंसाओं के साथ वर्त्तमान वा जिनकी शास्त्रस्तुति एक साथ हो (सहछन्दसः) वेदादि का अध्ययन वा स्वतन्त्र सुख भोग जिनका साथ हो (आवृतः) ब्रह्मचर्य्य के साथ समस्त विद्या पढ़ और गुरुकुल से निवृत्त होके घर आये (सहप्रमाः) साथ ही जिनका प्रमाणादि यथार्थ ज्ञान हो (सप्त) पाँच ज्ञानेन्द्रिय, अन्तःकरण और आत्मा ये सात (दैव्याः) उत्तम गुणकर्मस्वभावों में प्रवीण (धीराः) ध्यानवाले योगी (ऋषयः) वेदादि शास्त्रों के ज्ञाता लोग (रथ्यः) सारथि (न) जैसे (रश्मीन्) लगाम की रस्सी को ग्रहण करता, वैसे (पूर्वेषाम्) पूर्वज विद्वानों के (पन्थाम्) मार्ग को (अनुदृश्य) अनुकूलता से देख के (अन्वालेभिरे) पश्चात् प्राप्त होते हैं, वैसे होकर तुम लोग भी आप्तों के मार्ग को प्राप्त होओ ॥४९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो रागद्वेषादि दोषों को दूर से छोड़ आपस में प्रीति रखनेवाले हों, ब्रह्मचर्य्य से धर्म के अनुष्ठानपूर्वक समस्त वेदों को जान के सत्य-असत्य का निश्चय कर सत्य को प्राप्त हो और असत्य को छोड़ के आप्तों के भाव से वर्त्तते हैं, वे सुशिक्षित सारथियों के समान अभीष्ट धर्मयुक्त मार्ग में जाने को समर्थ होते और वे ही ऋषिसज्ञंक होते हैं ॥४९ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ के ऋषयो भवन्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा सहस्तोमाः सहछन्दस आवृतः सहप्रमाः सप्त दैव्या धीरा ऋषयो रथ्यो रश्मीन्नेव पूर्वेषां पन्थामनुदृश्यान्वालेभिरे, तथा भूत्वा यूयमप्याप्तमार्गमन्वालभध्वम् ॥४९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। ये रागद्वेषादिदोषान् दूरतस्त्यक्त्वा परस्परस्मिन् प्रीतिमन्तो भूत्वा ब्रह्मचर्येण धर्माऽनुष्ठानपुरःसरमखिलान् वेदान् विज्ञाय सत्याऽसत्ये विविच्य सत्यं लब्ध्वाऽसत्यं विहायाप्तभावेन वर्त्तन्ते, ते सुशिक्षिताः सारथय इवाऽभीष्टं धर्म्यं मार्गं गन्तुमर्हन्ति, त एवर्षिसंज्ञां लभन्ते ॥४९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहेत. जे लोक राग द्वेष दूर सारून आपापसात प्रेमाने वागतात. ब्रह्मचर्याचे पालन करून, धर्माचे अनुष्ठान करून संपूर्ण वेद जाणतात. सत्य व असत्याचा निश्चय करून सत्याचा स्वीकार व असत्याचा त्याग करतात आणि आप्तभावाने वागतात ते प्रशिक्षित सारथ्याप्रमाणे धर्मयुक्त मार्गाने जाण्यास समर्थ असतात त्यांनाच ऋषी म्हटले जाते.
५० आयुष्यं वर्च्चस्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
आ॒युष्यं᳖ वर्च्च॒स्यँ᳖ रा॒यस्पोष॒मौद्भि॑दम्। इ॒दँ हिर॑ण्यं॒ वर्च्च॑स्व॒ज्जैत्रा॒यावि॑शतादु॒ माम् ॥५० ॥
मूलम् ...{Loading}...
आ॒युष्यं᳖ वर्च्च॒स्यँ᳖ रा॒यस्पोष॒मौद्भि॑दम्। इ॒दँ हिर॑ण्यं॒ वर्च्च॑स्व॒ज्जैत्रा॒यावि॑शतादु॒ माम् ॥५० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ॒यु॒ष्य᳖म्। व॒र्च॒स्य᳖म्। रा॒यः। पोष॑म्। औद्भि॑दम्। इ॒दम्। हिर॑ण्यम्। वर्च॑स्वत्। जैत्रा॑य। आ। वि॒श॒ता॒त्। ऊँ॒ऽइत्यूँ॑। माम्। ५०।
महीधरः
म० तिस्रः उष्णिक्शक्वरीत्रिष्टुभः दक्षदृष्टाः । हिरण्यस्तुतिः । इदं हिरण्यं कनकं जैत्राय जयाय मामु मामेवाविशतात् आविशतु मयि तिष्ठतु । कीदृशम् । आयुष्यमायुषे हितम् । वर्चस्यं वर्चसे तेजसे हितम् । रायो धनस्य पोषं पोषयितृ वर्धकम् । औद्भिदम् उद्भिनत्तीति उद्भिद् उद्भिदेवौद्भिदमुद्भेत्तृ धनस्य स्वर्गस्य वा प्रकाशकम् । वर्चस्वत् अन्नसंयुक्तम् ॥ ५० ॥
एकपञ्चाशी।
अधिमन्त्रम् (VC)
- हिरण्यन्तेजो देवता
- दक्ष ऋषिः
- भुरिगुष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
अब ऐश्वर्य और जय आदि सम्पादन विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (औद्भिदम्) दुःखों के नाशक (आयुष्यम्) जीवन के लिये हितकारी (वर्चस्यम्) अध्ययन के लिये उपयोगी (रायः, पोषम्) धन की पुष्टि करने हारे (वर्चस्वत्) प्रशस्त अन्नों के हेतु (हिरण्यम्) तेजःस्वरूप सुवर्णादि ऐश्वर्य (जैत्राय) जय होने के लिये (माम्) मुझको (आ, विशतात्) आवेश करे अर्थात् मेरे निकट स्थिर रहे, वह (उ) तुम लोगों के निकट भी स्थिर होवे ॥५० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य अपने तुल्य सबको जानते और विद्वानों के साथ विचार कर सत्यासत्य का निर्णय करते हैं, वे दीर्घ अवस्था, पूर्ण विद्याओं, समग्र ऐश्वर्य और विजय को प्राप्त होते हैं ॥५० ॥
दयानन्द-सरस्वती (सं) - विषयः
अथैश्वर्यजयादिसंपादनविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यदौद्भिदमायुष्यं वर्चस्यं रायस्पोषं वर्चस्वद्धिरण्यं जैत्राय मामाविशतात् तदु युष्मानप्याविशत् ॥५० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्याः स्वात्मवत् सर्वान् जानन्ति, विद्वद्भिः सह परामृश्य सत्याऽसत्ये निर्णयन्ति, ते दीर्घमायुः पूर्णविद्याः समग्रमैश्वर्यविजयं च प्राप्नुवन्ति ॥५० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे सर्वांना आपल्या प्रमाणेच समजतात व विद्वानांबरोबर विचार करून सत्यासत्याचा निर्णय करतात, ती दीर्घायू होतात व पूर्ण विद्या प्राप्त करतात, तसेच त्यांना संपूर्ण ऐश्वर्य मिळून ते विजयी होतात.
५१ न तद्रक्षासि
विश्वास-प्रस्तुतिः ...{Loading}...
न तद्रक्षाँ॑सि॒ न पि॑शा॒चास्त॑रन्ति दे॒वाना॒मोजः॑ प्रथम॒जँ ह्ये॒तत्। यो बि॒भर्ति॑ दाक्षाय॒णँ हिर॑ण्यँ॒स दे॒वेषु॑ कृणुते दी॒र्घमायुः॒ स म॑नु॒ष्ये᳖षु कृणुते दी॒र्घमायुः॑ ॥५१ ॥
मूलम् ...{Loading}...
न तद्रक्षाँ॑सि॒ न पि॑शा॒चास्त॑रन्ति दे॒वाना॒मोजः॑ प्रथम॒जँ ह्ये॒तत्। यो बि॒भर्ति॑ दाक्षाय॒णँ हिर॑ण्यँ॒स दे॒वेषु॑ कृणुते दी॒र्घमायुः॒ स म॑नु॒ष्ये᳖षु कृणुते दी॒र्घमायुः॑ ॥५१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
न। तत्। रक्षाँ॑सि। न। पि॒शा॒चाः। त॒र॒न्तिः। दे॒वाना॑म्। ओजः॑। प्र॒थ॒म॒जमिति॑ प्रथम॒ऽजम्। हि। ए॒तत्। यः। बि॒भर्त्ति॑। दा॒क्षा॒य॒णम्। हिर॑ण्यम्। सः। दे॒वेषु॑। कृ॒णु॒ते॒। दी॒र्घम्। आयुः॑। सः। म॒नु॒ष्ये᳖षु। कृ॒णु॒ते॒। दी॒र्घम्। आयुः॑। ५१।
महीधरः
म०. रक्षांसि पिशाचाश्च तत् हिरण्यं न तरन्ति न हिंसन्ति । हि यस्मात् एतत् हिरण्यं देवानां प्रथमजमोजः । प्रथमोत्पन्नं देवानां तेज एवेदम् । अतएव यो हिरण्यं दाक्षायणं बिभर्ति अलंकारत्वेन धारयति । दाक्षायणशब्दोऽलंकारार्थः । स वेदेषु देवलोकेषु दीर्घमायुः कृणुते कुरुते । देवलोके चिरं वसतीत्यर्थः । स च मनुष्येषु मनुष्यलोकेषु स्वमायुर्दीर्घं कृणुते मनुष्यायुरतिक्रम्य जीवति ॥ ५१ ॥
द्विपञ्चाशी।
अधिमन्त्रम् (VC)
- हिरण्यन्तेजो देवता
- दक्ष ऋषिः
- भुरिक्छक्वरी
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब ब्रह्मचर्य की प्रशंसा का विषय अगले मन्त्र में कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (देवानाम्) विद्वानों का (प्रथमजम्) प्रथम अवस्था वा ब्रह्मचर्य्य आश्रम में उत्पन्न हुआ (ओजः) बल पराक्रम है, (तत्) उसको (न, रक्षांसि) न अन्यों को पीड़ा विशेष देकर अपनी ही रक्षा करनेहारे और (न, पिशाचाः) न प्राणियों के रुधिरादि को खानेवाले हिंसक म्लेच्छाचारी दुष्टजन (तरन्ति) उल्लङ्घन करते। (यः) जो मनुष्य (हि, एतत्) इस (दाक्षायणम्) चतुर को प्राप्त होने योग्य (हिरण्यम्) तेजःस्वरूप ब्रह्मचर्य्य को (बिभर्त्ति) धारण वा पोषण करता है, (सः) वह (देवेषु) विद्वानों में (दीर्घम्, आयुः) अधिक अवस्था को (कृणुते) प्राप्त होता और (सः) वह (मनुष्येषु) मननशील जनों में (दीर्घम्, आयुः) बड़ी अवस्था को (कृणुते) प्राप्त करता है ॥५१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो प्रथम अवस्था में बड़े धर्मयुक्त ब्रह्मचर्य्य से पूर्ण विद्या पढ़ते हैं, उनको न कोई चोर न दायभागी और न उनको भार होता है। जो विद्वान् इस प्रकार धर्मयुक्त कर्म के साथ वर्त्तते हैं, वे विद्वानों और मनुष्यों में बड़ी अवस्था को प्राप्त होके निरन्तर आनन्दित होते और दूसरों को आनन्दित करते हैं ॥५१ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ ब्रह्मचर्यप्रशंसाविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यद्देवानां प्रथमजमोजोऽस्ति, न तद्रक्षांसि न पिशाचास्तरन्ति, यो ह्येतद् दाक्षायणं हिरण्यं बिभर्त्ति, स देवेषु दीर्घमायुः कृणुते, स मनुष्येषु दीर्घमायुः कृणुते ॥५१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये प्रथमे वयसि दीर्घेण धर्म्येण ब्रह्मचर्येण पूर्णां विद्यामधीयते, न तेषां केचिच्चोरा न दायभागिनो न तेषां भारो भवति। य एवं विद्वांसो धर्म्येण वर्त्तन्ते ते विद्वत्सु मनुष्येषु च दीर्घमायुर्लब्ध्वा सततमानन्दन्त्यन्यानानन्दयन्ति च ॥५१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे प्रथमावस्थेत धर्माने वागून ब्रह्मचर्य पालन करून पूर्ण विद्या प्राप्त करतात त्यांची विद्या व बल कुणी चोरून घेऊ शकत नाही. त्यांचा भागीदार बनू शकत नाही किंवा ते भारवहक बनू शकत नाहीत. जे विद्वान अशा प्रकारचे धर्मयुक्त कर्म करतात ते इतरांपेक्षा अधिक वर्षे जगतात. सतत आनंदी राहून इतरांनाही आनंदी करतात.
५२ यदाबध्नन् दाक्षायणा
विश्वास-प्रस्तुतिः ...{Loading}...
यदाब॑ध्नन् दाक्षाय॒णा हिर॑ण्यँ श॒तानी॑काय सुमन॒स्यमा॑नाः। तन्म॒ऽआ ब॑ध्नामि श॒तशा॑रदा॒यायु॑ष्माञ्ज॒रद॑ष्टि॒र्यथास॑म् ॥५२ ॥
मूलम् ...{Loading}...
यदाब॑ध्नन् दाक्षाय॒णा हिर॑ण्यँ श॒तानी॑काय सुमन॒स्यमा॑नाः। तन्म॒ऽआ ब॑ध्नामि श॒तशा॑रदा॒यायु॑ष्माञ्ज॒रद॑ष्टि॒र्यथास॑म् ॥५२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यत्। आ। अब॑ध्नन्। दा॒क्षा॒य॒णाः। हिर॑ण्यम्। श॒तानी॑का॒येति॑ श॒तऽअ॑नीकाय। सु॒म॒न॒स्यमा॑ना॒ इति॑ सुऽमन॒स्यमा॑नाः। तत्। मे॒। आ। ब॒ध्ना॒मि॒। श॒तशा॑रदा॒येति॑ श॒तऽशा॑रदाय। आयु॑ष्मान्। ज॒रद॑ष्टि॒रिति॑ ज॒रत्ऽअ॑ष्टिः। यथा॑। अस॑म्। ५२।
महीधरः
म० दाक्षायणाः दक्षस्यापत्यानि । नडादित्वात् फक् । दक्षवंशोत्पन्ना ब्राह्मणा यत् हिरण्यं शतानीकाय राज्ञे अबध्नन् बबन्धुः । शतं बहूनि अनीकानि सैन्यानि यस्य सः शतानीकस्तस्मै । किंभूताः दाक्षायणाः । सुमनस्यमानाः मनसि शोभनं ध्यायन्तः शोभनं मनः कुर्वते सुमनस्यन्ते सुमनस्यन्ते सुमनस्यमानाः । तत् हिरण्यं मे मयि आबध्नामि । किमर्थं शतशारदाय शतं शरदो जीवनाय । यथा येन प्रकारेण हिरण्यबन्धनाख्येन अहमायुष्मान् दीर्घजीवी जरदष्टिश्च आसं भूयासम् तथा आबध्नामि । जरदष्टिः जरामश्नुते व्याप्नोति जरदष्टिः । यद्वा जरन्ती जरां प्राप्ता अष्टिः शरीरं यस्य स जरदष्टिः ॥ ५२॥
त्रिपञ्चाशी।
अधिमन्त्रम् (VC)
- हिरण्यन्तेजो देवता
- दक्ष ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (दाक्षायणाः) चतुराई और विज्ञान से युक्त (सुमनस्यमानाः) सुन्दर विचार करते हुए सज्जन लोग (शतानीकाय) सैकड़ों सेनावाले (मे) मेरे लिये (यत्) जिस (हिरण्यम्) सत्याऽसत्यप्रकाशक विज्ञान का (आ, अबध्नन्) निबन्धन करें (तत्) उसको मैं (शतशारदाय) सौ वर्ष तक जीवन के लिये (आ, बध्नामि) नियत करता हूँ। हे विद्वान् लोगो ! (यथा) जैसे मैं (युष्मान्) तुम लोगों को प्राप्त होके (जरदष्टिः) पूर्ण अवस्था को व्याप्त होनेवाला (असम्) होऊँ, वैसे तुम लोग मेरे प्रति उपदेश करो ॥५२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - एक ओर सैकड़ों सेना और दूसरी ओर एक विद्या ही विजय देनेवाली होती है। जो लोग बहुत काल तक ब्रह्मचर्य्य धारण करके विद्वानों से विद्या और सुशिक्षा ग्रहण कर उसके अनुकूल वर्त्तते हैं, वे थोड़ी अवस्थावाले कभी नहीं होते ॥५२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये दाक्षायणाः सुमनस्यमानाः शतानीकाय मे यद्धिरण्यमाऽऽबध्नन्, तदहं शतशारदायाऽऽबध्नामि। हे विद्वांसो ! यथाऽहं युष्मान् प्राप्य जरदष्टिरसं तथा यूयं मां प्रत्युपदिशत ॥५२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - एकत्र शतशः सेना एकत्रैका विद्या विजयप्रदा भवति, ये दीर्घेण ब्रह्मचर्येण विद्वद्भ्यो विद्यां सुशिक्षां च गृहीत्वा तदनुकूला वर्त्तन्ते, तेऽल्पाऽऽयुषः कदाचिन्न जायन्ते ॥४२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - एकीकडे शेकडोनी सेना असेल व दुसरीकडे विद्या असेल तर ती विद्या विजयी ठरते. त्यामुळे जे लोक पुष्कळ वर्षे ब्रह्मचर्यपालन करून विद्वानांकडून विद्या व उत्तम शिक्षण घेतात व त्याप्रमाणे वागतात ते कधीच अल्पायू होत नाहीत.
५३ उत नोऽहिर्बुध्न्यः
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒त नोऽहि॑र्बु॒ध्न्यः᳖ शृणोत्व॒जऽएक॑पात् पृथि॒वी स॑मु॒द्रः। विश्वे॑ दे॒वाऽऋ॑ता॒वृधो॑ हुवा॒नाः स्तु॒ता मन्त्राः॑ कविश॒स्ताऽअ॑वन्तु ॥५३ ॥
मूलम् ...{Loading}...
उ॒त नोऽहि॑र्बु॒ध्न्यः᳖ शृणोत्व॒जऽएक॑पात् पृथि॒वी स॑मु॒द्रः। विश्वे॑ दे॒वाऽऋ॑ता॒वृधो॑ हुवा॒नाः स्तु॒ता मन्त्राः॑ कविश॒स्ताऽअ॑वन्तु ॥५३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उ॒त। नः॒। अहिः॑। बु॒ध्न्यः᳖। शृ॒णो॒तु॒। अ॒जः। एक॑पा॒दित्येक॑ऽपात्। पृ॒थि॒वी। स॒मु॒द्रः। विश्वे॑। दे॒वाः। ऋ॒ता॒वृधः॑। ऋ॒त॒वृध॒ इत्यृ॑त॒ऽवृधः॑। हु॒वा॒नाः। स्तु॒ताः। मन्त्राः॑। क॒वि॒श॒स्ता इति॑ कविऽश॒स्ताः। अ॒व॒न्तु॒। ५३।
महीधरः
म० बहुदेवत्या त्रिष्टुप् । उत अपिच अहिर्बुध्न्यः रुद्रविशेषः शृणोतु । नः अस्माकं वचांसीति शेषः । अजएकपात् रुद्रः प्राणो वा शृणोतु पृथिवी च शृणोतु समुद्रश्च शृणोतु विश्वे देवाश्च शृण्वन्तु । श्रुत्वा च ते अहिर्बुध्न्यादयः अवन्तु पालयन्तु अस्मान् । किंभूतास्ते । ऋतावृधः सत्यवृधो वा। हुवाना आहूयमानाः । मन्त्राः मन्त्रैरिति विभक्तिव्यत्ययः। स्तुताः कविशस्ताः मेधाविभिः पूजिताः ॥ ५३ ॥
चतुःपञ्चाशी।
अधिमन्त्रम् (VC)
- लिङ्गोक्ता देवताः
- ऋजिष्व ऋषिः
- भुरिक्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब कौन सबके रक्षक होते हैं, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (बुध्न्यः) अन्तरिक्ष में होनेवाला (अहिः) मेघ के तुल्य और (पृथिवी) पृथिवी तथा (समुद्रः) अन्तरिक्ष के तुल्य (एकपात्) एक प्रकार के निश्चल अव्यभिचारी बोधवाला (अजः) जो कभी उत्पन्न नहीं होता, वह परमेश्वर (नः) हमारे वचनों को (शृणोतु) सुने तथा (ऋतावृधः) सत्य के बढ़ानेवाले (हुवानाः) स्पर्द्धा करते हुए (विश्वे) सब (देवाः) विद्वान् लोग (उत) और (कविशस्ताः) बुद्धिमानों से प्रशंसा किये हुए (स्तुताः) स्तुति के प्रकाशक (मन्त्राः) विचार के साधक मन्त्र हमारी (अवन्तु) रक्षा करें ॥५३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे मनुष्यो ! जैसे पृथिवी आदि पदार्थ, मेघ और परमेश्वर सबकी रक्षा करते हैं, वैसे ही विद्या और विद्वान् लोग सबको पालते हैं ॥५३ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ के सर्वरक्षकाः सन्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! बुध्न्योऽहिरिव पृथिवी समुद्रश्चेवैकपादजो नः शृणोतु। ऋतावृधो हुवाना विश्वे देवा उतापि कविशस्ताः स्तुता मन्त्रा नोऽस्मानवन्तु ॥५३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः ! यथा पृथिव्यादयः पदार्था मेघः परमेश्वरश्च सर्वान् रक्षन्ति, तथैव विद्या विद्वांसश्च सर्वान् पालयन्ति ॥५३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे माणसांनो ! जसे पृथ्वी वगैरे पदार्थ, मेघ आणि परमेश्वर सर्वांचे रक्षण करतात तसे विद्या व विद्वान सर्वांचे (रक्षण) पालन करतात.
५४ इमा गिरऽआदित्येभ्यो
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒मा गिर॑ऽआदि॒त्येभ्यो॑ घृ॒तस्नूः॑ स॒नाद्राज॑भ्यो जु॒ह्वा᳖ जुहोमि। शृ॒णोतु॑ मि॒त्रोऽअ॑र्य॒मा भगो॑ नस्तुविजा॒तो वरु॑णो॒ दक्षो॒ऽअँशः॑ ॥५४ ॥
मूलम् ...{Loading}...
इ॒मा गिर॑ऽआदि॒त्येभ्यो॑ घृ॒तस्नूः॑ स॒नाद्राज॑भ्यो जु॒ह्वा᳖ जुहोमि। शृ॒णोतु॑ मि॒त्रोऽअ॑र्य॒मा भगो॑ नस्तुविजा॒तो वरु॑णो॒ दक्षो॒ऽअँशः॑ ॥५४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इ॒माः। गिरः॑। आ॒दि॒त्येभ्यः॑। घृ॒तस्नू॒रिति॑ घृ॒त्ऽस्नूः॑। स॒नात्। राज॑भ्य॒ इति॒ राज॑ऽभ्यः। जु॒ह्वा᳖। जु॒हो॒मि॒। शृ॒णो॒तु॑। मि॒त्रः। अ॒र्य्य॒मा। भगः॑। नः॒। तु॒वि॒जा॒त इति॑ तुविऽजा॒तः। वरु॑णः। दक्षः॑। अँशः॑। ५४।
महीधरः
म० आदित्यदेवत्या त्रिष्टुप् । इमा गिरो वाचः जुह्वा स्रुचा कृत्वा आदित्येभ्यो जुहोमि । स्तुतिलक्षणा वाणीर्बुद्धिरूपया स्रुचादित्येभ्यः समर्पयामीत्यर्थः । किंभूता गिरः । घृतस्नूः घृतं स्नुवन्ति स्रवन्ति ताः घृतस्नुवः ता घृतस्नूः । तुगभाव आर्षः । घृतप्रसारिणीर्घृतहोमसहचरिता वा । किंभूतेभ्य आदित्येभ्यः । सनात् चिरकालं राजभ्यः दीप्यमानेभ्यः । ताः स्रुचा हूयमानाः नोऽस्माकं गिरः शृणोतु । कः । मित्रः अर्यमा भगश्च । तुविजातो बहुजातः त्वष्टा वातो वा । स हि बहुशः प्रजायते । वरुणः दक्षः अंशश्च । एते सूर्य विशेषाः ॥ ५४ ॥
पञ्चपञ्चाशी ।
अधिमन्त्रम् (VC)
- आदित्या देवताः
- कूर्मगार्त्समद ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब वाणी का विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - मैं (आदित्येभ्यः) तेजस्वी (राजभ्यः) राजाओं से जिन (इमाः) इन सत्य (गिरः) वाणियों को (जुह्वा) ग्रहण के साधन से (सनात्) नित्य (जुहोमि) ग्रहण स्वीकार करता हूँ, उन (घृतस्नूः) जल के तुल्य अच्छे व्यवहार को शोधनेवाली (नः) हम लोगों की वाणियों को (मित्रः) मित्र (अर्य्यमा) न्यायकारी (भगः) ऐश्वर्यवान् (तुविजातः) बहुतों में प्रसिद्ध (दक्षः) चतुर (अंशः) विभागकर्त्ता और (वरुणः) श्रेष्ठ पुरुष (शृणोतु) सुने ॥५४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्यार्थी लोगों ने आचार्य्यों से जिन सुशिक्षित वाणियों को ग्रहण किया, उनको अन्य आप्त लोग सुन और अच्छे प्रकार परीक्षा करके शिक्षा करें ॥५४ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ वाग्विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - अहमादित्येभ्यो राजभ्यो या इमा गिरो जुह्वा सनाज्जुहोमि, ता घृतस्नूर्नो गिरो मित्रोऽर्य्यमा भगस्तुविजातो दक्षोंऽशो वरुणश्च शृणोतु ॥५४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - विद्यार्थिभिर्या आचार्येभ्यः सुशिक्षिता वाचो गृहीतास्ता अन्य आप्ताः श्रुत्वा सुपरीक्ष्य शिक्षयन्तु ॥५४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - विद्यार्थ्यांनी आचार्याकडून जी (सुशिक्षित) वाणी ग्रहण केलेली असते ती आप्त (श्रेष्ठ) लोकांनी ऐकावी व चांगल्या प्रकारे परीक्षा करून शिक्षण द्यावे.
५५ सप्तऽऋषयः प्रतिहिताः
विश्वास-प्रस्तुतिः ...{Loading}...
स॒प्तऽऋष॑यः॒ प्रति॑हिताः॒ शरी॑रे स॒प्त र॑क्षन्ति॒ सद॒मप्र॑मादम्। स॒प्तापः॒ स्वप॑तो लो॒कमी॑यु॒स्तत्र॑ जागृतो॒ऽअस्व॑प्नजौ सत्र॒सदौ॑ च दे॒वौ ॥५५ ॥
मूलम् ...{Loading}...
स॒प्तऽऋष॑यः॒ प्रति॑हिताः॒ शरी॑रे स॒प्त र॑क्षन्ति॒ सद॒मप्र॑मादम्। स॒प्तापः॒ स्वप॑तो लो॒कमी॑यु॒स्तत्र॑ जागृतो॒ऽअस्व॑प्नजौ सत्र॒सदौ॑ च दे॒वौ ॥५५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स॒प्त। ऋष॑यः। प्रति॑हिता॒ इति॒ प्रति॑ऽहिताः। शरी॑रे। स॒प्त। र॒क्ष॒न्ति॒। सद॑म्। अप्र॑माद॒मित्य॑प्रऽमादम्। स॒प्त। आपः॑। स्वप॑तः। लो॒कम्। ई॒युः॒। तत्र॑। जा॒गृ॒तः॒। अस्व॑प्नजा॒वित्यस्व॑प्नऽजौ। स॒त्र॒सदा॒विति॑ स॒त्र॒ऽसदौ॑। च॒। दे॒वौ। ५५।
महीधरः
म० अध्यात्मवादिनी जगती । सप्त ऋषयः प्राणाः त्वक्चक्षुःश्रवणरसनाघ्राणमनोवुद्धिलक्षणाः शरीरे प्रतिहिताः व्यवस्थिताः ते एव सप्त सदं सदाकालमप्रमादं सावधानं यथा तथा शरीरं रक्षन्ति । ते सप्त स्वपतो नरस्य लोकमात्मानमीयुः प्राप्नुवन्ति । लोकशब्देन विज्ञानात्मा हृदयाकाशप्रतिष्ठ उच्यते। किंभूताः सप्त । आपः आप्नुवन्ति व्याप्नुवन्ति देहमित्यापः व्यापनाः । तत्र तस्यामृषीणां लोकगमनावस्थायां देवौ दीप्यमानौ प्राणापानौ जागृतः जागरणं कुर्वाते । कीदृशौ । अस्वप्नजौ न स्वप्नो निद्रा जायते ययोस्तौ अस्वप्नजौ । तथा सत्रसदौ सतां जीवानां त्राणं रक्षणं सत्रं तत्र सीदतः तौ सत्रसदौ । जीवितदातारावित्यर्थः ॥ ५५ ॥
पटूपञ्चाशी ॥
अधिमन्त्रम् (VC)
- अध्यात्मं प्राणा देवताः
- कण्व ऋषिः
- भुरिग्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
अब शरीर और इन्द्रियों का विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (सप्त, ऋषयः) विषयों अर्थात् शब्दादि को प्राप्त करानेवाले पाँच ज्ञानेन्द्रिय मन और बुद्धि ये सात ऋषि इस (शरीरे) शरीर में (प्रतिहिताः) प्रतीति के साथ स्थिर हुए हैं, वे ही (सप्त) सात (अप्रमादम्) जैसे प्रमाद अर्थात् भूल न हो, वैसे (सदम्) ठहरने के आधार शरीर की (रक्षन्ति) रक्षा करते। वे (स्वपतः) सोते हुए जन के (आपः) शरीर को व्याप्त होनेवाला उक्त (सप्त) सात (लोकम्) जीवात्मा को (ईयुः) प्राप्त होते हैं, (तत्र) उस लोक प्राप्ति समय में (अस्वप्नजौ) जिनको स्वप्न कभी नहीं होता (सत्रसदौ) जीवात्माओं की रक्षा करनेवाले (च) और (देवौ) स्थिर उत्तम गुणोंवाले प्राण और अपान (जागृतः) जागते हैं ॥५५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस शरीर में स्थिर व्यापक विषयों के जाननेवाले अन्तःकरण के सहित पाँच ज्ञानेन्द्रिय ही निरन्तर शरीर की रक्षा करते और जब जीव सोता है, तब उसी को आश्रय कर तमोगुण के बल से भीतर को स्थिर होते, किन्तु बाह्य विषय का बोध नहीं कराते और स्वप्नावस्था में जीवात्मा की रक्षा में तत्पर तमोगुण से न दबे हुए प्राण और अपान जागते हैं, अन्यथा यदि प्राण अपान भी सो जावें तो मरण का ही सम्भव करना चाहिये ॥५५ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ शरीरेन्द्रियविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये सप्तर्षयः शरीरे प्रतिहितास्त एव सप्ताप्रमादं यथा स्यात्, तथा सदं रक्षन्ति। ते स्वपतः सप्ताऽपः लोकमीयुस्तत्राऽस्वप्नजौ सत्रसदौ च देवौ जागृतः ॥५५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अस्मिञ्छरीरे स्थिराणि व्यापकानि विषयबोधकानि सान्तःकरणानि ज्ञानेन्द्रियाण्येव सातत्येन शरीरं रक्षन्ति। यदा च जीवः स्वपिति तदा तमेवाश्रित्य तमोबलेनान्तर्मुखानि तिष्ठन्ति, बाह्यविषयं न बोधयन्ति, स्वप्नावस्थायां च जीवात्मरक्षणतत्परौ तमोगुणानभिभूतौ प्राणापानौ जागरणं कुर्वाते, अन्यथा यद्यनयोरपि स्वप्नः स्यात् तदा तु मरणमेव सम्भाव्यमिति ॥५५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - विषय जाणणारी पाच ज्ञानेंद्रिये अंतःकरणासह शरीरात स्थिर व व्यापक असून, शरीराचे रक्षण करतात. जेव्हा जीव निद्राधीन होतो तेव्हा त्याच्या आश्रयाने तमोगुणाच्या बलाने ती शरीरात स्थिर होतात व त्यांना बाह्य विषयांचा बोध होत नाही. स्वप्नावस्थेमध्ये जीवाच्या रक्षणासाठी तत्पर असलेले व तमोगुणांनी न दबलेले प्राण व अपान जाग्रत असतात. अन्यथा ते जर निद्राधीनं झाले तर मृत्यूच होईल.
५६ उत्तिष्ठ ब्रह्मणस्पते
विश्वास-प्रस्तुतिः ...{Loading}...
उत्ति॑ष्ठ ब्रह्मणस्पते देव॒यन्त॑स्त्वेमहे। उप॒ प्र य॑न्तु म॒रुतः॑ सु॒दान॑व॒ऽइन्द्र॑ प्रा॒शूर्भ॑वा॒ सचा॑ ॥५६ ॥
मूलम् ...{Loading}...
उत्ति॑ष्ठ ब्रह्मणस्पते देव॒यन्त॑स्त्वेमहे। उप॒ प्र य॑न्तु म॒रुतः॑ सु॒दान॑व॒ऽइन्द्र॑ प्रा॒शूर्भ॑वा॒ सचा॑ ॥५६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उत्। ति॒ष्ठ॒। ब्र॒ह्म॒णः॒। प॒ते॒। दे॒व॒यन्त॒ इति॑ देव॒ऽयन्तः॑। त्वा॒। ई॒म॒हे॒। उप॑। प्र। य॒न्तु॒। म॒रुतः॑। सु॒दा॑नव॒ इति॑ सु॒ऽदान॑वः। इन्द्र॑। प्रा॒शूः। भ॒व॒। सचा॑। ५६।
महीधरः
म० तृचो ब्रह्मणस्पतिदैवतः । द्वे बृहत्यौ तृतीया त्रिष्टुप् । हे ब्रह्मणो देवस्य पते पालक, उत्तिष्ठ ऊर्ध्वः आरब्धकार्यो भव । यतो वयं देवयन्तो देवान्कामयमानाः त्वा त्वामीमहे याचामहे आगच्छेति । मरुतः भवन्तमागच्छन्तमुप समीपे प्रयन्तु आगच्छन्तु । किंभूताः मरुतः । सुदानवः शोभनं ददति ते सुदानवः । हे इन्द्र, त्वमपि सचा सह गमनाय प्राशूः प्रकर्षेण शीघ्रो भव । देवान्कामयन्ते देवयन्ति ततः शतृप्रत्ययः ‘सुप आत्मनः क्यच्’ (पा० ३ । १।८) ‘न छन्दस्यपुत्रस्य’ (पा. ७ । ४ । ३५ ) इति निषेधात् ‘क्यचि च’ इतीत्वाभावः (पा० ७ । ४ । ३३ ) ‘अश्वाघस्यात्’ (पा० ७ । ४ । ३७ ) इत्यश्वाघयोरेवाकारविधानात् ‘अकृत्सार्वधातुकयोः’ (पा. ७ । ४ । २५) इति दीर्घोऽपि न स्यात् । ईमहे याचतिकर्मसु पठितः ‘ई गतौ’ दिवादित्वादागतस्य श्यनश्छान्दसो लोपः । सुदानवः ‘दाभाभ्यां नुः’ ( उणा० ३ । ३२ ) प्राशूः आशुशब्दे दीर्घश्छान्दसः । भवा संहितायां ‘द्व्यचोऽतस्तिङः’ (पा० ६ । ३ । १३५) इति दीर्घः ॥५६॥
सप्तपञ्चाशी।
अधिमन्त्रम् (VC)
- ब्रह्मणस्पतिर्देवता
- कण्व ऋषिः
- निचृद्बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
विद्वान् पुरुष क्या करे, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (ब्रह्मणः) धन के (पते) रक्षक (इन्द्र) ऐश्वर्यकारक विद्वन् ! (देवयन्तः) दिव्य विद्वानों की कामना करते हुए हम लोग जिस (त्वा) आपकी (ईमहे) याचना करते हैं, जिस आपको (सुदानवः) सुन्दर दान देनेवाले (मरुतः) मनुष्य (उप, प्र, यन्तु) समीप से प्रयत्न के साथ प्राप्त हों सो आप (उत्, तिष्ठ) उठिये और (सचा) सत्य के सम्बन्ध से (प्राशूः) उत्तम भोग करनेहारे (भव) हूजिये ॥५६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे विद्वन् ! जो लोग विद्या की कामना करते हुए आपका आश्रय लेवें, उनके अर्थ विद्या देने के लिये आप उद्यत हूजिये ॥५६ ॥
दयानन्द-सरस्वती (सं) - विषयः
विद्वान् किं कुर्यादित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे ब्रह्मणस्पते इन्द्र ! देवयन्तो वयं यन्त्वेमहे यन्त्वा सुदानवो मरुत उप प्रयन्तु। स त्वमुत्तिष्ठ सचा प्राशूर्भव ॥५६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे विद्वन् ! ये विद्यां कामयमानास्त्वामुपतिष्ठेयुस्तेभ्यो विद्यादानाय भवानुत्तिष्ठतूद्युक्तो भवतु ॥५६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे विद्वानांनो ! जे लोक विद्येची कामना करून तुमचा आमचा आश्रय घेतात त्यांना विद्या देण्यात तुम्ही तत्पर व्हा.
५७ प्र नूनम्
विश्वास-प्रस्तुतिः ...{Loading}...
प्र नू॒नं ब्रह्म॑ण॒स्पति॒र्मन्त्रं॑ वदत्युक्थ्य᳖म्। यस्मि॒न्निन्द्रो॒ वरु॑णो मि॒त्रोऽअ॑र्य॒मा दे॒वाऽओकाँ॑सि चक्रि॒रे ॥५७ ॥
मूलम् ...{Loading}...
प्र नू॒नं ब्रह्म॑ण॒स्पति॒र्मन्त्रं॑ वदत्युक्थ्य᳖म्। यस्मि॒न्निन्द्रो॒ वरु॑णो मि॒त्रोऽअ॑र्य॒मा दे॒वाऽओकाँ॑सि चक्रि॒रे ॥५७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्र। नू॒नम्। ब्रह्म॑णः। पतिः॑। मन्त्र॑म्। व॒द॒ति॒। उ॒क्थ्य᳖म्। यस्मि॑न्। इन्द्रः॑। वरु॑णः। मित्रः॒। अ॒र्य्य॒मा। दे॒वाः। ओकाँ॑सि। च॒क्रि॒रे॒। ५७।
महीधरः
म० ब्रह्मणस्पतिः नूनं निश्चितमुक्थ्यं ‘शस्त्रयोग्यं मन्त्रं प्रवदति प्रकर्षेणोच्चारयति । यस्मिन् मन्त्रे इन्द्रः वरुणः मित्रः अर्यमा अन्ये च देवाः ओकांसि निवासान् चक्रिरे कृतवन्तः । सर्वदेवाधारभूतं शस्त्रं पठनीयं मन्त्रवदित्यर्थः ॥ ५७ ॥
अष्टपञ्चाशी ।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥
अधिमन्त्रम् (VC)
- ब्रह्मणस्पतिर्देवता
- कण्व ऋषिः
- विराड्बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
अब ईश्वर के विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (यस्मिन्) जिस परमात्मा में (इन्द्रः) बिजुली वा सूर्य्य (वरुणः) जल वा चन्द्रमा (मित्रः) प्राण वा अन्य अपानादि वायु (अर्य्यमा) सूत्रात्मा वायु (देवाः) ये सब उत्तम गुणवाले (ओकांसि) निवासों को (चक्रिरे) किये हुए हैं, वह (ब्रह्मणः) वेदविद्या का (पतिः) रक्षक जगदीश्वर (उक्थ्यम्) प्रशंसनीय पदार्थों में श्रेष्ठ (मन्त्रम्) वेदरूप मन्त्रभाग को (नूनम्) निश्चय कर (प्र, वदति) अच्छे प्रकार कहता है, ऐसा तुम जानो ॥५७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जिस परमात्मा में कार्यकारणरूप सब जगत् और जीव वसते हैं तथा जिसने सब जीवों के हितसाधक वेद का उपदेश किया है, उसी की तुम लोग भक्ति, सेवा, उपासना करो ॥५७ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथेश्वरविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यस्मिन्निन्द्रो वरुणो मित्रोऽर्यमा देवा ओकांसि चक्रिरे, स ब्रह्मणस्पतिः परमात्मोक्थ्यं मन्त्रं वेदाख्यं नूनं प्रवदतीति विजानीत ॥५७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यस्मिन् परमात्मनि सर्वं जगत्कारणं कार्यं जीवाश्च वसन्ति, यश्च सर्वेषां जीवानां हितसाधकं वेदोपदेशं कृतवानस्ति, तमेव यूयं भजत ॥५७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! सर्व जीव व कार्यकारणरूपी जग परमेश्वरामध्येच राहतात. असा परमेश्वर हा सर्व जीवांचा हितसाधक असून, त्याने मानवाला वेदज्ञान दिलेले आहे. त्याची उपासना व भक्ती करा.
५८ ब्रह्मणस्पते त्वमस्य
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व। विश्वं॒ तद्भ॒द्रं यदव॑न्ति दे॒वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑। य इ॒मा विश्वा॑। वि॒श्वक॑र्म्मा। यो नः॑ पि॒ता। अन्न॑प॒तेऽन्न॑स्य नो देहि ॥५८ ॥
मूलम् ...{Loading}...
ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व। विश्वं॒ तद्भ॒द्रं यदव॑न्ति दे॒वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑। य इ॒मा विश्वा॑। वि॒श्वक॑र्म्मा। यो नः॑ पि॒ता। अन्न॑प॒तेऽन्न॑स्य नो देहि ॥५८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ब्रह्म॑णः। प॒ते॒। त्वम्। अ॒स्य। य॒न्ता। सू॒क्तस्येति॑ सुऽउ॒क्तस्य॑। बो॒धि॒। तन॑यम्। च॒। जि॒न्व। विश्व॑म्। तत्। भ॒द्रम्। यत्। अव॑न्ति। दे॒वाः। बृ॒हत्। व॒दे॒म॒। वि॒दथे॑। सु॒वीरा॒ इति॑ सु॒ऽवीराः॑। ५८।
महीधरः
म०. हे ब्रह्मणस्पते, त्वं यतोऽस्य जगतो यन्ता नियन्ता अतः प्रार्थ्यते । सूक्तस्यास्मदुक्तस्य साधुवचनस्य । कर्मणि षष्ठी। सूक्तम् बोधि बुध्यस्व । अस्मदुक्ता स्तुतिर्भवता ज्ञायतामित्यर्थः । तनयं च अस्मदपत्यानि जिन्व प्रीणीहि । जिन्वतिः प्रीतिकर्मा । देवा यत् भद्रं कल्याणमवन्ति पालयन्ति तत् विश्वं सर्वं भद्रमस्माकमस्त्विति शेषः । किंच सुवीराः कल्याणपुत्राः सन्तो वयं विदथे यज्ञे बृहत् महत् वदेम दीयतां भुज्यतामित्यादि उच्चारयेम । अथ चतस्रः कण्डिकाः प्रतीकोक्ताः य इमा विश्वा भुवनानि जुह्वत् ( १७ । १७ ) विश्वकर्मा विमनाः ( १७ । २६ ) यो नः पिता ( १७ । २७)
अन्नपतेऽनस्य नो देहि ( ११ । ८३ ) इति । ता ब्रह्मयज्ञेऽध्येयाः॥५८ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे।
चतुस्त्रिंशोऽयमध्यायो ब्रह्मयज्ञार्थकोऽगमत् ॥ ३४ ॥
अधिमन्त्रम् (VC)
- ब्रह्मणस्पतिर्देवता
- गृत्समद ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (ब्रह्मणः) ब्रह्माण्ड के (पते) रक्षक ईश्वर ! (देवाः) विद्वान् लोग (विदथे) प्रकट करने योग्य व्यवहार में (यत्) जिसकी (अवन्ति) रक्षा वा उपदेश करते हैं और जिसको (सुवीराः) सुन्दर उत्तम वीर पुरुष हम लोग (बृहत्) बड़ा श्रेष्ठ (वदेम) कहें, उस (अस्य) इस (सूक्तस्य) अच्छे प्रकार कहने योग्य वचन के (त्वम्) आप (यन्ता) नियमकर्त्ता हूजिये (च) और (तनयम्) विद्या का शुद्ध विचार करनेहारे पुत्रवत् प्रियपुरुष को (बोधि) बोध कराइये तथा (तत्) उस (भद्रम्) कल्याणकारी (विश्वम्) सब जीवमात्र को (जिन्व) तृप्त कीजिए ॥५८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे जगदीश्वर ! आप हमारी विद्या और सत्य व्यवहार के नियम करनेवाले हूजिये, हमारे सन्तानों को विद्यायुक्त कीजिये, सब जगत् की यथावत् रक्षा, न्याययुक्त धर्म, उत्तम शिक्षा और परस्पर प्रीति उत्पन्न कीजिये ॥५८ ॥ इस अध्याय में मन का लक्षण, शिक्षा, विद्या की इच्छा, विद्वानों का सङ्ग, कन्याओं का प्रबोध, चेतनता, विद्वानों का लक्षण, रक्षा की प्रार्थना, बल ऐश्वर्य की इच्छा, सोम ओषधि का लक्षण, शुभ कर्म की इच्छा, परमेश्वर और सूर्य्य का वर्णन, अपनी रक्षा, प्रातःकाल का उठना, पुरुषार्थ से ऋद्धि और सिद्धि पाना, ईश्वर के जगत् का रचना, महाराजाओं का वर्णन, अश्वि के गुणों का कथन, अवस्था का बढ़ाना, विद्वान् और प्राणों का लक्षण और ईश्वर का कर्त्तव्य कहा है, इससे इस अध्याय के अर्थ की पूर्व अध्याय में कहे अर्थ के साथ संगति जाननी चाहिये ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्याणां श्रीयुतपरमविदुषां विरजानन्दसरस्वतीस्वामिनां शिष्येण श्रीपरमहंसपरिव्राजकाचार्येण श्रीमद्दयानन्दसरस्वतीस्वामिना विरचिते संस्कृतार्य्यभाषाभ्यां विभूषिते सुप्रमाणयुक्ते यजुर्वेदभाष्ये चतुस्त्रिंशोऽध्यायः समाप्तिमगमत् ॥३४॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे ब्रह्मणस्पते ! देवा विदथे यदवन्ति, यत् सुवीरा वयं बृहद्वदेम, तस्यास्य सूक्तस्य त्वं यन्ता भव, तनयं च बोधि, तद्भद्रं विश्वं जिन्व ॥५८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे जगदीश्वर ! भवानस्माकं विद्यायाः सत्यस्य व्यवहारस्य च नियन्ता भवत्वस्माकमपत्यानि विद्यावन्ति करोतु। सर्वं जगद् यथावद् रक्षतु सर्वत्र न्याय्यं धर्मं सुशिक्षां परस्परप्रीतिं च जनयत्विति ॥५८ ॥ अस्मिन्नध्याये मनसो लक्षणं, शिक्षा, विद्येच्छा, विद्वत्सङ्गः, कन्याप्रबोधो, विद्वल्लक्षणं, रक्षायाचनं, बलैश्वर्येच्छा, सोमौषधिलक्षणं, शुभेच्छा, परमेश्वरसूर्य्यवर्णनं, स्वरक्षा, प्रातरुत्थानं, पुरुषार्थेनर्द्धिसिद्धिप्रापणमीश्वरस्य जगन्निर्माणं, महाराजवर्णनमश्विगुणकथनमायुर्वर्द्धनं विद्वत्प्राणलक्षणमीश्वरकृत्यं चोक्तमतोऽस्याऽध्यायार्थस्य पूर्वाऽध्यायोक्तार्थेन सह सङ्गतिर्वेद्या ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे जगदीश्वरा ! आम्हाला विद्या व सत्य व्यवहाराचे नियम कळू दे. आमच्या संतानांना विद्यायुक्त कर. सर्व जगाचे यथायोग्य रक्षण करून न्याययुक्त धर्म, उत्तम शिक्षण दे व परस्पर प्रेम उत्पन्न कर.