०१ अस्याजरासो दमामरित्राऽअर्चद्धूमासोऽअग्नयः
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒स्याजरा॑सो द॒माम॒रित्रा॑ऽअ॒र्चद्धू॑मासोऽअ॒ग्नयः॑ पाव॒काः। श्वि॒ती॒चयः॑ श्वा॒त्रा॒सो॑ भुर॒ण्यवो॑ वन॒र्षदो॑ वा॒यवो॒ न सोमाः॑ ॥१ ॥
मूलम् ...{Loading}...
अ॒स्याजरा॑सो द॒माम॒रित्रा॑ऽअ॒र्चद्धू॑मासोऽअ॒ग्नयः॑ पाव॒काः। श्वि॒ती॒चयः॑ श्वा॒त्रा॒सो॑ भुर॒ण्यवो॑ वन॒र्षदो॑ वा॒यवो॒ न सोमाः॑ ॥१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒स्य। अ॒जरा॑सः। द॒माम्। अ॒रित्राः॑। अ॒र्चद्धू॑मास॒ इत्य॒र्चत्ऽधू॑मासः। अ॒ग्नयः॑। पा॒व॒काः। श्वि॒ती॒चयः॑। श्वात्रासः॑। भु॒र॒ण्यवः॑। व॒न॒र्षदः॑। व॒न॒सद॒ इति॑ वन॒ऽसदः॑। वा॒यवः॑। न। सोमाः॑। १।
महीधरः
म० सर्वमेधेऽग्निष्टोमसंस्थेऽग्निष्टुत्संज्ञे प्रथमेऽहनि अस्याजरास इत्याद्या महो अग्ने इत्यन्ताः सप्तदश ऋचोऽग्निदेवत्याः पुरोरुचो भवन्ति । पुरोरुक्शब्देन ऋग्रूपा ग्रहणमन्त्रा उच्यन्ते न यजूरूपाः ‘ऋग्घि पुरोरुक्’ इति श्रुतेः । उक्थ्यमहावैश्वदेवपात्नीवतहारियोजनेषु यजूरूपे ग्रहणमन्त्रे सत्यपि ‘तं वा अपुरोरुक्कं गृह्णातीति श्रुतेस्तत्र न दोषः । अतएवाग्नेयीभिर्ऋच एव निवर्त्यन्ते नोपयामादीनि । आद्ये द्वे ऐन्द्रवायवग्रहस्य पुरोरुचौ । वत्सप्रीदृष्टाग्नेयी त्रिष्टुप् आ वायवित्यस्याः (७ । | ७) स्थाने । अस्य यजमानस्य अग्नयः ईदृशाः सन्तु । कीदृशाः । अजरासः नास्ति जरा येषां ते अजराः वार्धक्यहीनाः । दमां गृहाणामरित्राः रक्षकाः नावामिव केनिपाताः। अरिभ्यः त्रायन्तेऽरित्राः । यद्वा दमानां दमनीयानां रक्षसामरित्राः तारकाः। विभक्तेर्नुडभावात्सवर्णदीर्घः । अर्चद्भूमासः अर्चन् अर्चनीयः पूजनीयो धूमो धूमोपलक्षिता ज्वाला येषां तेऽर्चद्धूमाः । पावकाः शोधकाः । श्वितीचयः श्वितिं श्वेतवर्णं चिन्वन्ति श्वितिचयः । चिनोतेः क्विप् अनित्यमागमशासनमिति तुगभावः श्वितिशब्दस्य छान्दसो दीर्घः । श्वेतत्वमुज्ज्वलत्वं यजमानस्य वर्धयन्तः । श्वात्रासः श्वात्रशब्दः क्षिप्रवाचकः । श्वात्राः क्षिप्रफलप्रदाः भुरण्यवः भरणकर्तारः । वनर्षदः वनसदः वने काष्ठे सीदन्तीति वनसदः ‘वनसदोऽवेटो रेफेण’ (३ । ३ । ११) इति प्रातिशाख्यसूत्रेण रेफागमः । वायवो न वायव इत्र दीपयितारः । सोमा इव यजमानेष्टदाः॥१॥
द्वितीया।
अधिमन्त्रम् (VC)
- अग्नयो देवताः
- वत्सप्रीर्ऋषिः
- स्वराट्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब तेंतीसवें अध्याय का आरम्भ है। इसके प्रथम मन्त्र में अग्न्यादि पदार्थों को जान कार्य साधना चाहिये, इस विषय को कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (अस्य) इस पूर्वाध्यायोक्त ईश्वर की सृष्टि में (अजरासः) एक-सी अवस्थावाले (अरित्राः) शत्रुओं से बचानेहारे (अर्चद्धूमासः) सुगन्धित धूमों से युक्त (पावकाः) पवित्रकारक (श्वितीचयः) श्वेतवर्ण को सञ्चित करनेहारे (श्वात्रासः) धन को बढ़ाने के हेतु (भुरण्यवः) धारण करनेहारे वा गमनशील (सोमाः) ऐश्वर्य को प्राप्त करनेहारे (अग्नयः) विद्युत् आदि अग्नि (वनर्षदः) वनों वा किरणों में रहनेहारे (वायवः) पवनों के (न) समान (दमाम्) घरों के धारण करनेहारे उनको तुम लोग जानो ॥१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जो मनुष्य अग्नि, वायु आदि सृष्टिस्थ पदार्थों को जानें तो इनसे बहुत उपकारों को ग्रहण कर सकते हैं ॥१ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथाग्न्यादिपदार्थान् विज्ञाय कार्यं साध्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! येऽस्य जगदीश्वरस्य सृष्टावजरासोऽरित्रा अर्चद्धूमासः पावकाः श्वितीचयः श्वात्रासो भुरण्यवः सोमा अग्नयो वनर्षदो वायवो न दमां धारकाः सन्ति, तान् यूयं विजानीत ॥१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यदि मनुष्या अग्निवाय्वादीन् सृष्टिस्थान् पदार्थान् विजानीयुस्तर्ह्येतेभ्यो बहूनुपकारान् ग्रहीतुं शक्नुयुः ॥१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जी माणसे अग्नी, वायू इत्यादी सृष्टीतील पदार्थांना जाणतात त्यापासून त्यांना खूप लाभ होऊ शकतो.
०२ हरयो धूमकेतवो
विश्वास-प्रस्तुतिः ...{Loading}...
हर॑यो धू॒मके॑तवो॒ वात॑जूता॒ऽउप॒ द्यवि॑। यत॑न्ते॒ वृथ॑ग॒ग्नयः॑ ॥२ ॥
मूलम् ...{Loading}...
हर॑यो धू॒मके॑तवो॒ वात॑जूता॒ऽउप॒ द्यवि॑। यत॑न्ते॒ वृथ॑ग॒ग्नयः॑ ॥२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
हर॑यः। धू॒मके॑तव॒ इति॑ धू॒मऽके॑तवः। वात॑जूता॒ इति वात॑ऽजूताः। उप॑। द्यवि॑। यत॑न्ते। वृथ॑क्। अ॒ग्नयः॑। २।
महीधरः
म०. गायत्री विश्वरूपदृष्टा इन्द्रवायू इत्यस्याः (७।८) स्थाने । अग्नयः पृथक् पृथक् नानाप्रकारेण द्यवि स्वर्गे उपयतन्ते स्वर्गं गन्तुं यत्नं कुर्वन्ति । कीदृशाः । हरयः हरितवर्णाः । धूमकेतवः धूम एव केतुर्ज्ञापको येषां ते । यत्र धूमस्तत्राग्निरिति व्याप्तेः । वातजूताः वातेन जूतं गमनं प्रसारो येषां ते। ‘आ वायो इन्द्रवायू इमे’ (७ । ७-८) अनयोः स्थाने एते द्वे उक्ते ॥ २ ॥
तृतीया।
अधिमन्त्रम् (VC)
- अग्नयो देवताः
- विश्वरूप ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (धूमकेतवः) जिनका जतानेवाला धूम ही पताका के तुल्य है (वातजूताः) वायु से तेज को प्राप्त हुए ((हरयः) हरणशील (अग्नयः) पावक (वृथक्) नाना प्रकार से (द्यवि) प्रकाश के निमित्त (उप, यतन्ते) यत्न करते हैं, उनको कार्य्यसिद्धि के अर्थ उपयोग में लाओ ॥२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जिनका धूम ज्ञान कराने और वायु जलानेवाला है और जिनमें हरणशीलता वर्त्तमान है, वे अग्नि हैं, ऐसा जानो ॥२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! ये धूमकेतवो वातजूता हरयोऽग्नयो वृथग् द्यवि उप यतन्ते, तान् कार्य्यसिद्धये संप्रयुङ्ग्ध्वम् ॥२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! येषां धूमो विज्ञापको वायुः प्रदीपको हरणशीलता च येषु वर्त्तते, तेऽग्नयः सन्तीति विजानीत ॥२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! धूर म्हणजे ज्याच्या पताकाच आहेत व वायूमुळे जो गतिमान असून, ज्वलनशील आहे, तसेच नाशही करणरा आहे असा तो अग्नीच असतो हे जाणा.
०३ यजा नो
विश्वास-प्रस्तुतिः ...{Loading}...
यजा॑ नो मि॒त्रावरु॑णा॒ यजा॑ दे॒वाँ२ऽऋ॒तं बृ॒हत्। अग्ने॒ यक्षि॒ स्वं दम॑म् ॥३ ॥
मूलम् ...{Loading}...
यजा॑ नो मि॒त्रावरु॑णा॒ यजा॑ दे॒वाँ२ऽऋ॒तं बृ॒हत्। अग्ने॒ यक्षि॒ स्वं दम॑म् ॥३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यज॑। नः॒। मि॒त्रावरु॑णा। यज॑। दे॒वान्। ऋ॒तम्। बृ॒हत्। अग्ने॑। यक्षि॑। स्वम्। दम॑म्। ३।
महीधरः
म० गायत्री गोतमदृष्टा मैत्रावरुणस्य पुरोरुक् अयं वाम् (७ । ९) इत्यस्याः स्थाने । हे अग्ने, नोऽस्माकं मित्रावरुणा यज । यज देवान् । यज बृहत् महत् ऋतं यज्ञम् स्वं दमं गृहं यक्षि यज ॥३॥
चतुर्थी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- गोतम ऋषिः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
विद्वान् मनुष्यों को क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्वन् ! आप (नः) हमारे (मित्रावरुणा) मित्र और श्रेष्ठ जनों तथा (देवान्) विद्वानों का (यज) सत्कार कीजिये, (बृहत्) बड़े (ऋतम्) सत्य का (यज) उपदेश कीजिये, जिससे (स्वम्) अपने (दमम्) घर को (यक्षि) संगत कीजिये ॥३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे विद्वान् मनुष्यो ! हमारे मित्र, श्रेष्ठ और विद्वानों का सत्कार करनेहारे सत्य के उपदेशक और अपने घर के कार्यों को सिद्ध करनेहारे तुम लोग होओ ॥३ ॥
दयानन्द-सरस्वती (सं) - विषयः
विद्वद्भिर्मनुष्यैः किं कार्य्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! त्वं नो मित्रावरुणा देवांश्च यज, बृहदृतं यज, येन स्वं दमं यक्षि ॥३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे विद्वांसो जनाः ! अस्माकं मित्रश्रेष्ठविदुषां सत्कर्त्तारः सत्योपदेशकाः स्वगृहकार्य्यसाधका यूयं भवत ॥३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे विद्वान माणसांनो ! तुम्ही आमचे मित्र, श्रेष्ठ माणसे व विद्वान यांचा सत्कार करून सत्याचा उपदेश करा व त्यामुळे तुम्हाला तुमच्या कार्यात सफलता प्राप्त होईल.
०४ युक्ष्वा हि
विश्वास-प्रस्तुतिः ...{Loading}...
यु॒क्ष्वा हि दे॑व॒हूत॑माँ॒२ऽअश्वाँ॑२ऽअग्ने र॒थीरि॑व। नि होता॑ पू॒र्व्यः स॑दः ॥४ ॥
मूलम् ...{Loading}...
यु॒क्ष्वा हि दे॑व॒हूत॑माँ॒२ऽअश्वाँ॑२ऽअग्ने र॒थीरि॑व। नि होता॑ पू॒र्व्यः स॑दः ॥४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यु॒क्ष्व। हि। दे॒व॒हूत॑मा॒निति॑ देव॒ऽहूत॑मान्। अश्वा॑न्। अ॒ग्ने॒। र॒थीरि॒वेति॑ र॒थीःऽइ॑व। नि। होता॑। पू॒र्व्यः। स॒दः॒। ४।
महीधरः
म० आश्विनग्रहस्य पुरोरुक् या वां कशेत्यस्याः स्थाने (७।११) व्याख्यातेयम् ( १३ । ३७) ॥ ४ ॥
पञ्चमी ।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- विश्वरूप ऋषिः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्वन् ! आप (रथीरिव) सारथि के समान (देवहूतमान्) विद्वानों से अत्यन्त स्तुति किये हुए (अश्वान्) शीघ्रगामी अग्नि आदि वा घोड़ों को (युक्ष्व) युक्त कीजिये (पूर्व्यः) पूर्वज विद्वानों से विद्या को प्राप्त (होता) ग्रहण करते हुए (हि) निश्चय कर (नि, सदः) स्थिर हूजिये ॥४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे उत्तम शिक्षित सारथि घोड़ों से अनेक कार्य्यों को सिद्ध करता है, वैसे विद्वान् जन अग्नि आदि से अनेक कार्यों को सिद्ध करें ॥४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! त्वं रथीरिव देवहूतमानश्वान् युक्ष्व, होता पूर्व्यः सन् हि नि सदः ॥४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा सुशिक्षितः सारथिरश्वैरनेकानि कार्य्याणि साध्नोति, तथा कृतविद्यो जनोऽग्न्यादिभिरनेकानि कार्याणि साध्नुयात् ॥४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जसा उत्तम सारथी घोड्यांकडून अनेक कामे करवून घेतो तसे विद्वान लोकांनी अग्नीपासून उपयुक्त कामे करून घ्यावीत.
०५ द्वे विरूपे
विश्वास-प्रस्तुतिः ...{Loading}...
द्वे विरू॑पे चरतः॒ स्वर्थे॑ऽअ॒न्यान्या॑ व॒त्समुप॑ धापयेते। हरि॑र॒न्यस्यां॒ भव॑ति स्व॒धावा॑ञ्छु॒क्रोऽअ॒न्यस्यां॑ दद्य्शे सु॒वर्चाः॑ ॥५ ॥
मूलम् ...{Loading}...
द्वे विरू॑पे चरतः॒ स्वर्थे॑ऽअ॒न्यान्या॑ व॒त्समुप॑ धापयेते। हरि॑र॒न्यस्यां॒ भव॑ति स्व॒धावा॑ञ्छु॒क्रोऽअ॒न्यस्यां॑ दद्य्शे सु॒वर्चाः॑ ॥५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
द्वेऽइति॑ द्वे। विरू॑पे॒ इति॒ विऽरू॑पे। च॒र॒तः॒। स्वर्थे॒ इति॑ सु॒ऽअर्थे॑। अ॒न्यान्येत्यन्याऽअ॑न्या। व॒त्सम्। उप॑। धा॒प॒ये॒ते॒ऽइति॑ धापयेते। हरिः॑। अ॒न्यस्या॑म्। भव॑ति। स्व॒धावा॒निति॑ स्व॒धाऽवा॑न्। शु॒क्रः। अ॒न्यस्या॑म्। द॒दृ॒शे॒। सु॒वर्चा॒ इति॑ सु॒ऽवर्चाः॑। ५।
महीधरः
म० शुक्रग्रहपुरोरुक् कुत्सदृष्टा त्रिष्टुप् तं प्रत्नथेत्यस्याः (७ । १२) स्थाने । द्वे रात्र्यहनी चरतः निरन्तरं प्रवर्तेते । कीदृशे । विरूपे विविधं रूपं ययोस्ते । कृष्णा रात्रिः शुक्लमहः । स्वर्थ शोभनोऽर्थो ययोस्ते कल्याणप्रयोजने। अन्यान्या अन्या च अन्या च वत्समुपधापयेते क्षीरं पाययतः । अन्या एका रात्रिः वत्समग्निमुपधापयते रात्रावग्निदेवत्यमग्निहोत्रम् । अन्या दिवसरूपा वत्समादित्यमुपधापयते अह्नि सूर्यदेवत्यमग्निहोत्रम् । किंच तदेवाह । अन्यस्यां रात्रौ हरिः हरितवर्णोऽग्निः स्वधावान् अन्नवान् भवति अन्यस्यामहनि शुक्रः शुक्लः आदित्यः सुवर्चाः शोभनतेजाः ददृशे दृश्यते । यद्वा द्वे द्यावापृथिव्यौ अग्निर्भूमौ स्वधावान् रविर्दिवि सुवर्चाः दृश्यते ॥५॥
षष्ठी। ।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- कुत्स ऋषिः
- स्वराट्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
रात्रि दिन जगत् की रक्षा करनेवाले हैं, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (स्वर्थे) सुन्दर प्रयोजनवाली (द्वे) दो (विरूपे) भिन्न-भिन्न रूप की स्त्रियाँ (चरतः) भोजनादि आचरण करती हैं और (अन्यान्या) एक-एक अलग-अलग समय में (वत्सम्) निरन्तर बोलनेवाले एक बालक को (उप, धापयेते) निकट कर दूध पिलाती हैं, उन दोनों में से (अन्यस्याम्) एक में (स्वधावान्) प्रशस्त शान्ति आदि अमृत तुल्य गुणयुक्त (हरिः) मन को हरनेवाला पुत्र (भवति) होता और (शुक्रः) शीघ्रकारी (सुवर्चाः) सुन्दर तेजस्वी (अन्यस्याम्) दूसरी में हुआ (ददृशे) दीख पड़ता है, वैसे ही सुन्दर प्रयोजनवाले दो काले-श्वेत भिन्न रूपवाले रात्रि-दिन वर्त्तमान हैं और एक-एक भिन्न-भिन्न समय में एक संसाररूप बालक को दुग्धादि पिलाते हैं, उन दोनों में से एक रात्रि में अमृतरूप गुणोंवाला मन का प्रसादक चन्द्रमा उत्पन्न होता और द्वितीय दिनरूप वेला में पवित्रकर्त्ता सुन्दर तेजवाला सूर्यरूप पुत्र दीख पड़ता है, ऐसा तुम लोग जानो ॥५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में अनुभयाभेदरूपकालङ्कार है। जैसे दो स्त्रियाँ वा गायें सन्तान प्रयोजनवाली पृथक्-पृथक् वर्त्तमान भिन्न-भिन्न समय में एक बालक की रक्षा करें, उन दोनों में से एक में हृदय को प्यारा, महागुणी, शान्तिशील बालक हो और दूसरी में शीघ्रकारी, तेजस्वी, शुत्रुओं को दुःखदायी बालक होवे; वैसे भिन्न स्वरूपवाले दो रात्रि-दिन अलग-अलग समय में एक संसारस्वरूप बालक की पालना करते हैं। किस प्रकारः—रात्रि अमृतवर्षक, चित्त को करनेहारे चन्द्रमारूप बालक को उत्पन्न करके और दिनरूप-स्त्री तेजोमय सुन्दर प्रकाशवाले सूर्य्यरूप पुत्र को उत्पन्न करके ॥५ ॥
दयानन्द-सरस्वती (सं) - विषयः
रात्रिदिवसौ जगत्पालकावित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा स्वर्थे द्वे विरूपे स्त्रियौ चरतोऽन्यान्या च वत्समुपधापयेते तयोरन्यस्यां स्वधावान् हरिर्भवति शुक्रः सुवर्चा अन्यस्यां ददृशे तथा द्वे रात्र्यहनी वर्त्तत इति जानीत ॥५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रानुभयाभेदरूपकोलङ्कारः। यथा द्वे स्त्रियौ वा गावावपत्यप्रयोजने पृथक् पृथग् वर्त्तमाने कालभेदेनैकं बालं पालयेतां तयोरेकस्या हृद्यो महागुणी शान्तिशीलो बालो जायेत। एकस्याञ्च शीघ्रकारी तेजस्वी शत्रुतापको बालो जायेत तथा द्वे रात्र्यहनी भिन्नस्वरूपे कालभेदेनैकं संसारं पालयतः। कथं रात्रिरमृतवर्षकं चित्तप्रसादकं चन्द्रमसमुत्पाद्य दिवसरूपा च पावकरूपं शोभनप्रकाशं सूर्यमुत्पाद्येति पूर्वान्वयः ॥५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात अनुभयाभेदरूपकालंकार आहे. जशा दोन भिन्न भिन्न स्रिया (किंवा गाई) भिन्न भिन्न बालकाला वाढवितात. एकीमुळे एक शांतताप्रिय अमृतगुणयुक्त बालक बनते व दुसरीमुळे तेजस्वी व शत्रूंना दुःखदायी बालक असते. त्याप्रमाणे दिवस व रात्र या दोन स्रिया होत. त्या संसाररूपी बालकाचे पालन करतात. त्यापैकी रात्ररूपी स्री ही अमृतगुणी प्रसन्नचित्त चंद्ररुपी बालकाला उत्पन्न करते व दिवसरूपी स्री ही सूर्यरूपाने तेजस्वी बालकाला उत्पन्न करते.
०६ अयमिह प्रथमो
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्होता॒ यजि॑ष्ठोऽअध्व॒रेष्वीड्यः॑। यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रं वि॒भ्वं᳖ वि॒शेवि॑शे ॥६ ॥
मूलम् ...{Loading}...
अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्होता॒ यजि॑ष्ठोऽअध्व॒रेष्वीड्यः॑। यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रं वि॒भ्वं᳖ वि॒शेवि॑शे ॥६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒यम्। इ॒ह। प्र॒थ॒मः। धा॒यि॒। धा॒तृभि॒रिति॑ धा॒तृऽभिः॑। होता॑। यजि॑ष्ठः। अ॒ध्व॒रेषु॑। ईड्यः॑। यम्। अप्न॑वानः। भृग॑वः। वि॒रु॒रु॒चुरिति॑ विऽरुरु॒चुः। वने॑षु। चि॒त्रम्। वि॒भ्व᳖मिति॑ वि॒भ्व᳖म्। वि॒शवि॑शे॒ इति॑ वि॒शेऽवि॑शे। ६।
महीधरः
म० मन्थिग्रहपुरोरुक् अयं वेन (७ । १६ ) इत्यस्याः स्थाने । व्याख्याता ( ३ । १५) ॥ ६ ॥
सप्तमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- कुत्स ऋषिः
- भुरिक्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
विद्वानों को क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (धातृभिः) धारण करनेवालों से (इह) इस संसार में (विशे विशे) प्रजा-प्रजा के लिये (अयम्) यह (प्रथमः) विस्तारवाला (होता) सुखदाता (यजिष्ठः) अतिशय कर संगत करनेवाला (अध्वरेषु) रक्षणीय व्यवहारों में (ईड्यः) खोजने योग्य विद्युत् आदि स्वरूप अग्नि (धायि) धारण किया जाता और जैसे (भृगवः) दृढ़ ज्ञानवाले (अप्नवानः) सुसन्तानों के सहित उत्तम शिष्य लोग (यम्) जिस (वनेषु) वनों वा किरणों में (चित्रम्) आश्चर्यरूप गुण, कर्म, स्वभाव (विभ्वम्) व्यापक विद्युत् रूप अग्नि को (विरुरुचुः) विशेष कर प्रदीप्त करें, वैसे उसको तुम लोग भी धारण और प्रकाशित करो ॥६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो विद्वान् लोग इस संसार में बिजुली की विद्या को जानते हैं, वे सब प्रजाओं को सब सुखों से युक्त करने को समर्थ होते हैं ॥६ ॥
दयानन्द-सरस्वती (सं) - विषयः
विद्वद्भिः किं कर्त्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा धातृभिरिह विशे विशेऽयं प्रथमो होता यजिष्ठोऽध्वरेष्वीड्यो धायि यथा भृगवश्चाप्नवानो यं वनेषु चित्रं विभ्वं विरुरुचुस्तं यूयं धरत प्रकाशयत च ॥६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये विद्वांस इह विद्युद्विद्यां जानन्ति, ते सर्वाः प्रजाः सर्वसुखयुक्ताः कर्त्तुं शक्नुवन्ति ॥६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहेत. जे विद्वान लोक या जगात विद्युत विद्या जाणतात ते सर्व प्रकारे लोकांना सुखी करू शकतात.
०७ त्रीणि शता
विश्वास-प्रस्तुतिः ...{Loading}...
त्रीणि॑ श॒ता त्री स॒हस्रा॑ण्य॒ग्निं त्रिँ॒शच्च॑ दे॒वा नव॑ चासपर्यन्। औक्ष॑न् घृ॒तैरस्तृ॑णन् ब॒र्हिर॑स्मा॒ऽआदिद्धोता॑रं॒ न्य᳖सादयन्त ॥७ ॥
मूलम् ...{Loading}...
त्रीणि॑ श॒ता त्री स॒हस्रा॑ण्य॒ग्निं त्रिँ॒शच्च॑ दे॒वा नव॑ चासपर्यन्। औक्ष॑न् घृ॒तैरस्तृ॑णन् ब॒र्हिर॑स्मा॒ऽआदिद्धोता॑रं॒ न्य᳖सादयन्त ॥७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
त्रीणि॑। श॒ता। त्री। स॒हस्रा॑णि। अ॒ग्निम्। त्रिँ॒शत्। च॒। दे॒वाः। नव॑। च॒। अ॒स॒प॒र्य॒न्। औक्ष॑न। घृ॒तैः। अस्तृ॑णन्। ब॒र्हिः। अ॒स्मै॒। आत्। इत्। होता॑रम्। नि। अ॒सा॒द॒य॒न्त॒। ७।
महीधरः
म० विश्वामित्रदृष्टा त्रिष्टुप् विश्वदेवदेवतस्याग्रयणग्रहस्य पुरोरुक् । ये देवास ( ७ । १९) इति स्थाने । त्रीणि शता । त्रीणि शतानि त्री त्रीणि सहस्राणि त्रिंशत् नव च देवाः यथा ३३३९ । एते वस्वादिगणा देवा अग्निमसपर्यन् परिचरन्ति । सपर्यतिः परिचरणकर्मा । यद्वागमोक्ता देवाः ‘नवैवाङ्गास्त्रिवृद्धाः स्युर्देवानां दशकैर्गणैः । ते ब्रह्मविष्णुरुद्राणां शक्तीनां वर्णभेदतः’ इति । ते च ३३३ ३३३ ३३३ एतावन्तो भवन्ति । कथं परिचरन्ति तदाह । ते घृतैरग्निमौक्षन् असिञ्चयन् । ‘उक्ष सेचने’ लुङ् । अस्मै अग्नये बर्हिरस्तृणन् आच्छादयन् । आत् इत् अनन्तरमेव होतारं वृत्वा हौत्रे कर्मणि न्यसादयन्त नियुक्तवन्तः । घृतसेचनबर्हिःस्तरणहोतृवरणमेवाग्निपरिचर्येति भावः ७
अष्टमी।
अधिमन्त्रम् (VC)
- विद्वांसो देवता
- विश्वामित्र ऋषिः
- स्वराट्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
कारीगर विद्वान् क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (त्रिंशत्) पृथिवी आदि तीस (च) और (नव) नव प्रकार के (च) ये सब और (देवाः) विद्वान् लोग (त्रीणि) तीन (शता) सौ (त्री) तीन (सहस्राणि) हजार कोश मार्ग में (अग्निम्) अग्नि को (असपर्य्यन्) सेवन करें, (घृतैः) घी वा जलों से (औक्षन्) सीचें, (बर्हिः) अन्तरिक्ष को (अस्तृणन्) आच्छादित करें, (अस्मै) इस अग्नि के अर्थ (होतारम्) हवन करनेवाले को (आत्, इत्) सब ओर से ही (नि, असादयन्त) निरन्तर स्थापित करें, वैसे तुम लोग भी करो ॥७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो शिल्पी विद्वान् लोग अग्नि, जलादि पदार्थों को यानों में संयुक्त कर उत्तम, मध्यम, निकृष्ट वेगों से अनेक सैकड़ों, हजारों कोस मार्ग को जा सकें, वे आकाश में भी जा-आ सकते हैं ॥७ ॥
दयानन्द-सरस्वती (सं) - विषयः
शिल्पिनो विद्वांसः किं कुर्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा त्रिंशच्च नव च देवास्त्रीणि शता त्री सहस्राण्यग्निमसपर्यन्, घृतैरौक्षन् बर्हिरस्तृणन्नस्मै होतारमादिन्न्यसादयन्त तथा यूयमपि कुरुत ॥७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये शिल्पिनो विद्वांसोऽग्निजलादिपदार्थान् यानेषु संप्रयोज्योत्तममध्यमनिकृष्टवेगैरनेकानि शतानि सहस्राणि क्रोशान्मार्गं गन्तुं शक्नुयुस्तेऽन्तरिक्षेऽपि यातुं समर्था जायन्ते ॥७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जे कारागीर अग्नी, जल इत्यादी पदार्थांना यानांमध्ये संयुक्त करून कमी, मध्यम व अधिक वेगपूर्ण रीतीने शेकडो, हजारो कोसांचा (मैलांचा) मार्ग आक्रमू शकतात ते आकाशात ही जा ये करू शकतात.
०८ मूर्द्धानं दिवोऽअरतिम्
विश्वास-प्रस्तुतिः ...{Loading}...
मू॒र्द्धानं॑ दि॒वोऽअ॑र॒तिं पृ॑थि॒व्या वैश्वान॒रमृ॒तऽआ जा॒तम॒ग्निम्। क॒विँ स॒म्राज॒मति॑थिं॒॑ जना॑नामा॒सन्ना पात्रं॑ जनयन्त दे॒वाः ॥८ ॥
मूलम् ...{Loading}...
मू॒र्द्धानं॑ दि॒वोऽअ॑र॒तिं पृ॑थि॒व्या वैश्वान॒रमृ॒तऽआ जा॒तम॒ग्निम्। क॒विँ स॒म्राज॒मति॑थिं॒॑ जना॑नामा॒सन्ना पात्रं॑ जनयन्त दे॒वाः ॥८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मू॒र्द्धान॑म्। दि॒वः। अ॒र॒तिम्। पृ॒थि॒व्याः। वै॒श्वा॒न॒रम्। ऋ॒ते। आ। जा॒तम्। अ॒ग्निम्। क॒विम्। स॒म्राज॒मिति॑ स॒म्ऽराज॑म्। अति॑थिम्। जना॑नाम्। आ॒सन्। आ। पात्र॑म्। ज॒न॒य॒न्त॒। दे॒वाः। ८।
महीधरः
म०. प्रकृतिवदेव ध्रुवग्रहपुरोरुक् व्याख्याता (७। २४ ) ॥ ८॥
नवमी।
अधिमन्त्रम् (VC)
- विद्वांसो देवता
- विश्वामित्र ऋषिः
- भुरिक्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (देवाः) विद्वान् लोग (दिवः) आकाश के (मूर्द्धानम्) उपरिभाग में सूर्यरूप से वर्त्तमान (पृथिव्याः) पृथिवी को (अरतिम्) प्राप्त होनेवाले (वैश्वानरम्) सब मनुष्यों के हितकारी (ऋते) यज्ञ के निमित्त (आ, जातम्) अच्छे प्रकार प्रकट हुए (कविम्) सर्वत्र दिखानेवाले (सम्राजम्) सम्यक् प्रकाशमान (जनानाम्) मनुष्यों के (अतिथिम्) अतिथि के तुल्य प्रथम भोजन का भाग लेनेवाले (पात्रम्) रक्षा के हेतु (आसन्) ईश्वर के मुखरूप सामर्थ्य में उत्पन्न हुए जो (अग्निम्) अग्नि को (आ, जनयन्त) अच्छे प्रकार प्रकट करें, वैसे तुम लोग भी इसको प्रकट करो ॥८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो लोग पृथिवी, जल, वायु और आकाश में व्याप्त विद्युद्रूप अग्नि को प्रकट कर यन्त्र कलादि द्वारा युक्ति से चलावें, वे किस किस कार्य को न सिद्ध करें ॥८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा देवा दिवो मूर्द्धानं पृथिव्या अरतिं वैश्वानरमृत आजातं कविं सम्राजं जनानामतिथिं पात्रमासन्नग्निमाजनयन्त तथा यूयमप्येनं प्रादुर्भावयत ॥८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये पृथिव्यप्वाय्वाकाशेषु व्याप्तं विद्युदाख्यमग्निं प्रादुर्भाव्य यन्त्रादिभिर्युक्त्या चालयेयुस्ते किं किं कार्यं न साधयेयुः ॥८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जे लोक पृथ्वी, जल, वायू व आकाश यात व्याप्त असलेली विद्युत (अग्नी) प्रकट करून यंत्रे इत्यादी युक्तीने चालवितात ते कोणतेही कार्य सिद्ध करू शकतात.
०९ अग्निर्वृत्राणि जङ्घनद्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्निर्वृ॒त्राणि॑ जङ्घनद् द्रविण॒स्युर्वि॑प॒न्यया॑। समि॑द्धः शु॒क्रऽआहु॑तः ॥९ ॥
मूलम् ...{Loading}...
अ॒ग्निर्वृ॒त्राणि॑ जङ्घनद् द्रविण॒स्युर्वि॑प॒न्यया॑। समि॑द्धः शु॒क्रऽआहु॑तः ॥९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒ग्निः। वृ॒त्राणि॑। ज॒ङ्घ॒न॒त्। द्र॒वि॒ण॒स्युः। विप॒न्यया॑। समि॑द्ध॒ इति॒ सम्ऽइ॑द्धः। शु॒क्रः। आहु॑त॒ इत्याऽहु॑तः। ९।
महीधरः
म० गायत्री भरद्वाजदृष्टा ऐन्द्राग्नग्रहपुरोरुक् इन्द्राग्नी आगतमित्यस्याः (७ । ३१) स्थाने । अग्निर्वृत्राणि पापानि जङ्घनत् अत्यर्थं हन्ति । यड्लुगन्तम् । कया । विपन्यया पनतिरर्चतिकर्मा । विविधया पूजया पापं हन्ति । कीदृशोऽग्निः । द्रविणस्युः द्रविणो धनमिच्छति द्रविणस्यति ‘सुप आत्मनः क्यच्’ ‘क्याच्छन्दसि’ (पा० ३ । २ । १७०) इति क्यजन्तादुप्रत्ययः । हविर्लक्षणं धनमिच्छन् । समिद्धः दीप्तः । शुक्रः शुद्धः । आहुतः निमन्त्रितः ॥ ९ ॥
दशमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- भरद्वाज ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्य सूर्य के तुल्य दोषों को विनाशे, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! जैसे (समिद्धः) सम्यक् प्रदीप्त (शुक्रः) शीघ्रकारी (अग्निः) सूर्य्यादिरूप अग्नि (वृत्राणि) मेघ के अवयवों को (जङ्घनत्) शीघ्र काटता है, वैसे (द्रविणस्युः) अपने धन को चाहनेवाले (आहुतः) बुलाये हुए आप (विपन्यया) विशेष व्यवहार की युक्ति से दुष्टों को शीघ्र मारिये ॥९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे व्यवहार का जाननेवाला पुरुष धन को पाके सत्कार को प्राप्त होकर दोषों को नष्ट करता है, वैसे सूर्य मेघ को ताड़ना देता है ॥९ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यः सूर्यवद्दोषान् हन्यादित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यथा समिद्धः शुक्रोऽग्निर्वृत्राणि जङ्घनत्, तथा द्रविणस्युराहुतो भवान् विपन्यया दुष्टान् भृशं हन्यात् ॥९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा व्यवहारवित् पुरुषो धनं प्राप्य सत्कृतो भूत्वा दोषान् हन्ति, तथा सूर्यो मेघं ताडयति ॥९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसा व्यवहारज्ञ पुरुष धन प्राप्त करून मान्यता मिळवितो व दोष नाहीसे करतो तसे सूर्य मेघांना हटवितो.
१० विश्वेभिः सोम्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
विश्वे॑भिः सो॒म्यं मध्वग्न॒ऽइन्द्रे॑ण वा॒युना॑। पिबा॑ मि॒त्रस्य॒ धाम॑भिः ॥१० ॥
मूलम् ...{Loading}...
विश्वे॑भिः सो॒म्यं मध्वग्न॒ऽइन्द्रे॑ण वा॒युना॑। पिबा॑ मि॒त्रस्य॒ धाम॑भिः ॥१० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
विश्वे॑भिः। सो॒म्यम्। मधु॑। अग्ने॑। इन्द्रे॑ण। वा॒युना॑। पिब॑। मि॒त्रस्य॑। धाम॑भि॒रिति॒ धाम॑ऽभिः। १०।
महीधरः
म० गायत्री मेधातिथिदृष्टा वैश्वदेवग्रहपुरोरुक् ओमासश्चर्षणी ( ७ । ३३) इत्यस्याः स्थाने । हे अग्ने, विश्वेभिः विश्वैर्देवैः इन्द्रेण वायुना च सह सोम्यं सोममयं मधु पिब । कीदृशस्त्वम् । मित्रस्य धामभिः नामभिः स्तुत इति शेषः । ‘त्वमग्ने वरुणो जायसे यस्त्वं मित्रो भवति दस्म ईड्यः’ इति श्रुतेः ॥ १० ॥
एकादशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- मेधातिथिर्ऋषिः
- विराड्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) अग्नि के तुल्य वर्त्तमान तेजस्वी विद्वन् ! आप जैसे सूर्य (विश्वेभिः) सब (धामभिः) धामों से (इन्द्रेण) धन के धारक (वायुना) बलवान् पवन के साथ (सोम्यम्) उत्तम ओषधियों में हुए (मधु) मीठे आदि गुणवाले रस को पीता है, वैसे (मित्रस्य) मित्र के सब स्थानों से सुन्दर ओषधियों के रस को (पिब) पीजिये ॥१० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे मनुष्यो ! तुम लोग जैसे सूर्य सब पदार्थों से रस को खींच के वर्षा करके सब पदार्थों को पुष्ट करता है, वैसे विद्या और विनय से सब को पुष्ट करो ॥१० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! त्वं यथा सूर्य्यो विश्वेभिर्धामभिरिन्द्रेण वायुना सह सोम्यं मधु पिबति, तथा मित्रस्य विश्वेभिर्धामभिः सोम्यं मधु रसं त्वं पिब ॥१० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः ! यूयं यथा सूर्य्यः सर्वस्माद्रसमाकृष्य वर्षित्वा सर्वान् पदार्थान् पुष्णाति तथा विद्याविनयाभ्यां सर्वान् पुष्णीत ॥१० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे माणसांनो ! सूर्य जसा सर्व पदार्थांचा रस ओढून घेतो व पर्जन्याच्या रूपाने सर्व पदार्थांना बलवान करतो तसे विद्या व विनय यांनी तुम्ही सर्वांना बलवान करा.
११ आ यदिषे
विश्वास-प्रस्तुतिः ...{Loading}...
आ यदि॒षे नृ॒पतिं॒ तेज॒ऽआन॒ट् शुचि॒ रेतो॒ निषि॑क्तं॒ द्यौर॒भीके॑। अ॒ग्निः शर्द्ध॑मनव॒द्यं युवा॑नँस्वा॒ध्यं᳖ जनयत्सू॒दय॑च्च ॥११ ॥
मूलम् ...{Loading}...
आ यदि॒षे नृ॒पतिं॒ तेज॒ऽआन॒ट् शुचि॒ रेतो॒ निषि॑क्तं॒ द्यौर॒भीके॑। अ॒ग्निः शर्द्ध॑मनव॒द्यं युवा॑नँस्वा॒ध्यं᳖ जनयत्सू॒दय॑च्च ॥११ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ। यत्। इ॒षे। नृ॒पति॒मिति॑ नृ॒ऽपति॑म्। तेजः॑। आन॑ट्। शुचि॑। रेतः॑। निषि॑क्तम्। निषि॑क्त॒मिति॒ निऽसि॑क्तम्। द्यौः। अ॒भीके॑। अ॒ग्निः। शर्द्ध॑म्। अ॒न॒व॒द्यम्। युवा॑नम्। स्वा॒ध्य᳖मिति॑। सुऽआ॒ध्य᳖म्। ज॒न॒य॒त्। सू॒दय॑त्। च॒। ११।
महीधरः
म०. त्रिष्टुप् पराशरदृष्टा मरुत्वतीयग्रहपुरोरुक् इन्द्र मरुत्व (७ । ३५) इत्यस्याः स्थाने । आ उपसर्गः आनडित्यनेन संबध्यते यत् यदा तेजः तेजसो हेतुभूतं हविर्नृपतिं नुर्यजमानस्य पालकमग्निमानट् अश्नुते व्याप्नोति । यदाग्नौ हविर्हूयत इत्यर्थः । तदा अग्निः रेतो जगद्वीजभूतं जलम् द्यौरभीके । प्रथमा षष्ठ्यर्थे । दिवः समीपेऽन्तरिक्षे जनयत् जनयति । मेघरूपेण च पुरः सूदयत् सूदयति क्षरति वृष्टिद्वारेण ‘षूद क्षरणे’ । कीदृशं तेजः । इषे वृष्ट्यै निषिक्तं देवतोद्देशेनाग्नौ सिक्तं हुतम् । शुचि मन्त्रसंस्कृतम् । कीदृशं रेतः । शर्धं बलहेतुभूतम् । अनवद्यं निर्दोषम् ‘अवद्यपण्यवर्या गर्ह्यपणितव्या निरोधेषु’ (पा० ३ । १। १०१) इति गर्ह्यार्थेऽवद्यमिति निपातः । न अवद्यमनवद्यमगर्ह्यं प्रशस्यम् । युवानं युवतुल्यं परिपक्वरसं दृढमित्यर्थः । स्वाध्यं सुष्ठु आ समन्तात् ध्यायते चिन्त्यत इति स्वाध्यं चिन्तनीयम् । सर्वो वृष्टिमिच्छति । | हविषा तर्पितोऽग्निरष्टमासैर्जलं निष्पाद्य वर्षासु वर्षतीत्यर्थः । व्यवहितपदो मन्त्रः ॥ ११॥
द्वादशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- पराशर ऋषिः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (यत्) जब (इषे) वर्षा के लिये (निषिक्तम्) अग्नि में घृतादि के पड़ने से निरन्तर बढ़ा हुआ (शुचि) पवित्र (तेजः) यज्ञ से उठा तेज (नृपतिम्) जैसे राजा का तेज व्याप्त हो वैसे सूर्य को (आ, आनट्) अच्छे प्रकार व्याप्त होता है, तब (अग्निः) सूर्यरूप अग्नि (शर्द्धम्) बलहेतु (अनवद्यम्) निर्दोष (युवानम्) ज्वानी को करनेहारे (स्वाध्यम्) जिनका सब चिन्तन करते (रेतः) ऐसे पराक्रमकारी वृष्टि जल को (द्यौः) आकाश के (अभीके) निकट (जनयत्) उत्पन्न करता (च) और (सूदयत्) वर्षा करता है ॥११ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे अग्नि में होम किया द्रव्य तेज के साथ ही सूर्य को प्राप्त होता और सूर्य जलादि को आकर्षण कर वर्षा करके सबकी रक्षा करता है, वैसे राजा प्रजाओं से करों को ले, दुर्भिक्षकाल में फिर दे, श्रेष्ठों को सम्यक् पालन और दुष्टों को सम्यक् ताड़ना देके प्रगल्भता और बल को प्राप्त होता है ॥११ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यदिषे निषिक्तं शुचि तेजो नृपतिमाऽऽनट् तदाग्निः शर्द्धमनवद्यं युवानं स्वाध्यं रेतो द्यौरभीके जनयत् सूदयच्च ॥११ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यथाऽग्नौ हुतं द्रव्यं तेजसा सहैव सूर्य्यं प्राप्नोति, सूर्य्यो जलाद्याकृष्य वर्षित्वा सर्वान् पालयति, तथा राजा प्रजाभ्यः करानाकृष्य दुर्भिक्षे पुनर्दत्वा श्रेष्ठान् सम्पाल्य दुष्टान् सन्ताड्य प्रागल्भ्यं बलञ्च प्राप्नोति ॥११ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसे अग्नीत टाकलेले द्रव्य वेगाने सूर्याकडे जाते आणि सूर्य मेघाद्वारे जलाच्या रूपाने बरसून सर्वांचे रक्षण करतो तसे राजाने प्रजेकडून कर घेऊन दुर्भिक्ष आल्यास पुन्हा प्रजेला तो परत करावा. श्रेष्ठांचे पालन व दुष्टांचे निर्दालन करावे. म्हणजे प्रगल्भता व सामर्थ्य प्राप्त होते.
१२ अग्ने शर्द्ध
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्ने॒ शर्द्ध॑ मह॒ते सौभ॑गाय॒ तव॑ द्यु॒म्नान्यु॑त्त॒मानि॑ सन्तु। सं जा॑स्प॒त्यँ सु॒यम॒मा कृ॑णुष्व शत्रूय॒ताम॒भि ति॑ष्ठा॒ महाँ॑सि ॥१२ ॥
मूलम् ...{Loading}...
अ॒ग्ने॒ शर्द्ध॑ मह॒ते सौभ॑गाय॒ तव॑ द्यु॒म्नान्यु॑त्त॒मानि॑ सन्तु। सं जा॑स्प॒त्यँ सु॒यम॒मा कृ॑णुष्व शत्रूय॒ताम॒भि ति॑ष्ठा॒ महाँ॑सि ॥१२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अग्ने॑। शर्द्ध॑। म॒ह॒ते। सौभ॑गाय। तव॑। द्यु॒म्नानि॑। उ॒त्त॒मानीत्यु॑त्ऽत॒मानि॑। स॒न्तु॒। सम्। जा॒स्प॒त्यम्। जा॒स्प॒त्यमिति॑ जाःऽप॒त्य॑म्। सु॒यम॒मिति॑ सु॒ऽयम॑म्। आ। कृ॒णु॒ष्व॒। श॒त्रू॒य॒तामिति॑ शत्रूऽयताम्। अ॒भि। ति॒ष्ठ॒। महाँ॑सि। १२।
महीधरः
म० त्रिष्टुप् विश्ववारादृष्टा द्वितीयमरुत्वतीयपुरोरुक् मरुत्वन्तं वृषभं ( ७ । ३६ ) इत्यस्याः स्थाने । हे अग्ने, त्वं शर्ध उत्सहस्व बलमाविष्कुरु । किमर्थम् । महते सौभगाय महत्सौभाग्यं लोकस्थितिः । उद्यच्छतस्तव द्युम्नानि उत्तमानि उत्कृष्टानि सन्तु ‘द्युम्नं द्योततेर्यशो वान्नं वा’ (निरु० ५। ५) इति यास्कः । हविर्लक्षणान्यन्नानि यशांसि वा सन्तु । किंच जास्पत्यं जायापत्यमित्यर्थे जास्पत्यमिति निपातः । जायापत्यं पत्नीयजमानरूपं सुयमं सुनियमं जितेन्द्रियमन्योन्याबद्धरागं समाकृणुष्व कुरु । सुष्ठु यम्यते सुयमम् ‘ईषद्दुःसुषु’ (पा० ३ । ३ । १२७) इति खल्प्रत्ययः । किंच शत्रूयतां शत्रुत्वमिच्छतां महांसि तेजांसि अभितिष्ठ आक्रमस्व अभि (???)
त्रयोदशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- विश्ववारा ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर विद्वानों को क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्वान् वा राजन् ! आप (महते) बड़े (सौभगाय) सौभाग्य के अर्थ (शर्द्ध) दुष्ट गुणों और शत्रुओं के नाशक बल को (आकृणुष्व) अच्छे प्रकार उन्नत कीजिये, जिससे (तव) आपके (द्युम्नानि) धन वा यश (उत्तमानि) श्रेष्ठ (सन्तु) हों, आप (जास्पत्यम्) स्त्री-पुरुष के भाव को (सुयमम्) सुन्दर नियमयुक्त शास्त्रानुकूल ब्रह्मचर्ययुक्त (सम्, आ) सम्यक् अच्छे प्रकार कीजिये और आप (शत्रूयताम्) शत्रु बनने की इच्छा करते हुए मनुष्यों के (महांसि) तेजों को (अभि, तिष्ठ) तिरस्कृत कीजिये ॥१२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो अच्छे संयम में रहनेवाले मनुष्य हैं, उनके बड़ा ऐश्वर्य, बल, कीर्ति, उत्तम स्वभाववाली स्त्री और शत्रुओं का पराजय होता है ॥१२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्विद्वद्भिः किं कार्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! त्वं महते सौभगाय शर्द्धाकृणुष्व यतस्तव द्युम्नान्युत्तमानि सन्तु, त्वं जास्पत्यं सुयमं समाकृणुष्व शत्रूयतां महांस्यभितिष्ठ ॥१२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये सुसंयमिनो मनुष्याः सन्ति तेषां महदैश्वर्यं बलं कीर्तिः सुशीला भार्या शत्रुपराजयश्च भवति ॥१२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे लोक संयमी असतात त्यांना ऐश्वर्य, बल, कीर्ती, उत्तम स्वभावाची स्री प्राप्त होते व ते शत्रूंचा पराभव करू शकतात.
१३ त्वा हि
विश्वास-प्रस्तुतिः ...{Loading}...
त्वाँ हि म॒न्द्रत॑ममर्कशो॒कैर्व॑वृ॒महे॒ महि॑ नः॒ श्रोष्य॑ग्ने। इन्द्रं॒ न त्वा॒ शव॑सा दे॒वता॑ वा॒युं पृ॑णन्ति॒ राध॑सा॒ नृत॑माः ॥१३ ॥
मूलम् ...{Loading}...
त्वाँ हि म॒न्द्रत॑ममर्कशो॒कैर्व॑वृ॒महे॒ महि॑ नः॒ श्रोष्य॑ग्ने। इन्द्रं॒ न त्वा॒ शव॑सा दे॒वता॑ वा॒युं पृ॑णन्ति॒ राध॑सा॒ नृत॑माः ॥१३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
त्वाम्। हि। म॒न्द्रत॑म॒मिति॑ म॒न्द्रऽत॑मम्। अ॒र्क॒शो॒कैरित्य॑र्कऽशो॒कैः। व॒वृ॒महे॑। महि॑। नः॒। श्रोषि॑। अ॒ग्ने॒। इन्द्र॑म्। न। त्वा॒। शव॑सा। दे॒वता॑। वा॒युम्। पृ॒ण॒न्ति॒। राध॑सा। नृत॑मा॒ इति॒ नृऽत॑माः। १३।
महीधरः
म० त्रिष्टुब् भरद्वाजदृष्टा माहेन्द्रग्रहपुरोरुक् इन्द्रो नृवदित्यस्याः (७ । ३९) स्थाने । हे अग्ने, वयं त्वां ववृमहे वृतवन्तः । कीदृशं त्वाम् । मन्द्रतममतिगम्भीरम् । कैः अर्कशोकैः अर्कवत् शोचन्तेऽर्कशोका मन्त्रास्तैः अविप्लुतब्रह्मचर्यैः । यथोक्तमधीता मन्त्रा अर्कवद्दीप्ताः स्युरिति भावः । हि यस्मात् नोऽस्माकं महि महत् स्तोत्रं त्वं श्रोषि शृणोषि । विकरणव्यत्ययः । किंच नृतमाः मनुष्यश्रेष्ठाः देवता देवतां त्वा त्वां राधसा हवीरूपेणान्नेन पृणन्ति पूरयन्ति । देवताशब्दात्सुपो लुक् । कीदृशं त्वाम् । शवसा बलेन इन्द्रं न इन्द्रमिव वायुमिव च स्थितम् । न इवार्थे उभयोः संबध्यते ॥ १३ ॥
चतुर्दशी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- भरद्वाज ऋषिः
- भुरिक्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) अग्नि के तुल्य वर्त्तमान राजन् ! वा विद्वज्जन ! (हि) जिससे आप (नः) हम ब्रह्मचर्यादि सत्कर्मों में प्रवृत्त जनों के (महि) महत् गम्भीर वचन को (श्रोषि) सुनते हो, इससे (मन्द्रतमम्) अतिशय कर प्रशंसादि से सत्कार को प्राप्त (त्वाम्) आपको (अर्कशौकैः) सूर्य के समान प्रकाश से युक्त जनों के साथ हम लोग (ववृमहे) स्वीकार करते हैं और (नृतमाः) अतिशय कर नायक श्रेष्ठजन (शवसा) बल से युक्त (इन्द्रम्) सूर्य के (न) समान तेजस्वी और (वायुम्) वायु के तुल्य वर्त्तमान बलवान् (देवता) दिव्यगुणयुक्त (त्वा) आपको (राधसा) धन से (पृणन्ति) पालन वा पूर्ण करते हैं ॥१३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार है। जो दुःखों को सहन कर सूर्य के समान तेजस्वी और वायु के तुल्य बलवान् विद्वान् मनुष्य विद्या सुशिक्षा का ग्रहण करते हैं, वे मेघ सूर्य जैसे वैसे सबको आनन्द देनेवाले उत्तम पुरुष होते हैं ॥१३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! हि यतो नो महि श्रोषि तस्मान्मन्द्रतमं त्वामर्कशोकैर्वयं ववृमहे, नृतमाः शवसा इन्द्रं न वायुमिव च देवता त्वा राधसा पृणन्ति ॥१३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। ये दुःखानि सोढ्वा सूर्यवत्तेजस्विनो वायुवद् बलिष्ठा विद्यासुशिक्षे गृह्णन्ति, ते मेघेन सूर्य इव सर्वेषामानन्दकराः पुरुषोत्तमा जायन्ते ॥१३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार व वाचकलुप्तोपमालंकार आहेत. जे विद्वान लोक दुःख सहन करतात व सूर्याप्रमाणे तेजस्वी आणि वायूप्रमाणे बलवान बनतात व चांगले शिक्षण घेतात ते सूर्य जसा मेघरूपाने सुख देतो तसे सर्वांना आनंद देतात.
१४ त्वेऽअग्ने स्वाहुत
विश्वास-प्रस्तुतिः ...{Loading}...
त्वेऽअ॑ग्ने स्वाहुत प्रि॒यासः॑ सन्तु सू॒रयः॑। य॒न्तारो॒ ये म॒घवा॑नो॒ जना॑नामू॒र्वान् दय॑न्त॒ गोना॒म् ॥१४ ॥
मूलम् ...{Loading}...
त्वेऽअ॑ग्ने स्वाहुत प्रि॒यासः॑ सन्तु सू॒रयः॑। य॒न्तारो॒ ये म॒घवा॑नो॒ जना॑नामू॒र्वान् दय॑न्त॒ गोना॒म् ॥१४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
त्वेऽइति॒ त्वे। अ॒ग्ने॒। स्वा॒हु॒तेति॑ सुऽआहुत। प्रि॒यासः॑। स॒न्तुः॒। सू॒रयः॑। य॒न्तारः॑ ये। म॒घवा॑न॒ इति॑ म॒घऽवा॑नः। जना॑नाम्। ऊ॒र्वान्। दय॑न्त। गोना॑म्। १४।
महीधरः
म०. द्वे बृहत्यौ आदित्यग्रहपुरोरुचौ । आद्या वसिष्ठदृष्टा अन्त्या प्रस्कण्वदृष्टा कदाचन स्तरीरसि कदाचन प्रयुच्छसीत्यनयोः ( ८ । २ । ३ ) स्थाने । सुष्ठु हूयते स्वाहुतः हे स्वाहुत हे अग्ने, जनानां मध्ये जनाः गोनां गवां संबन्धिभिर्दुग्धदधिकृतैः सह ऊर्वान् अन्नविशेषान् पुरोडाशादीन् दयन्त ददति ‘दय दानगतिहिंसादानेषु’ लङ् अडभाव आर्षः । ते सूरयः पण्डिताः त्वे तव प्रियासः सन्तु । कीदृशास्ते । यन्तारः निगृहीतेन्द्रियाः। मघवानः धनवन्तः । गोनामित्यत्र ‘गोः पादान्ते’ | (पा. ७ । १।५७ ) इति नुडागमः ॥ १४ ॥
पञ्चदशी ।
अधिमन्त्रम् (VC)
- विद्वांसो देवता
- वसिष्ठ ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
विद्वानों के तुल्य अन्य जनों को वर्त्तना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (स्वाहुत) सुन्दर प्रकार से विद्या को ग्रहण किये हुए (अग्ने) विद्वन् ! (ये) जो (जनानाम्) मनुष्यों के बीच वीर पुरुष (यन्तारः) जितेन्द्रिय (मघवानः) बहुत धन से युक्त जन (गोनाम्) पृथिवी वा गौ आदि के (ऊर्वान्) हिसकों को (दयन्त) मारते हैं, वे (सूरयः) विद्वान् लोग (त्वे) आपके (प्रियासः) पियारे (सन्तु) हों ॥१४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जैसे विद्वान् लोग अग्नि आदि पदार्थों की विद्या को ग्रहण कर विद्वानों के पियारे हो, दुष्टों को मार और गौ आदि की रक्षा कर मनुष्यों के पियारे होते हैं, वैसे तुम भी करो ॥१४ ॥
दयानन्द-सरस्वती (सं) - विषयः
विद्वद्वदितरजनैर्वर्त्तितव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्वाहुताऽग्ने ! ये जनानां मध्ये वीरा यन्तारो मघवानो गोनामूर्वान् दयन्त ते सूरयस्त्वे प्रियासः सन्तु ॥१४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यथा विद्वांसोऽग्न्यादिपदार्थविद्यां गृहीत्वा विद्वत्प्रिया भूत्वा दुष्टान् हत्वा गवादीन् रक्षित्वा मनुष्यप्रिया भवन्ति, तथा यूयमपि भवत ॥१४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! जसे विद्वान लोक अग्निविद्या ग्रहण करून इतर विद्वानांना प्रिय होतात व दुष्टांना मारून गाई वगैरेंचे रक्षण करतात आणि माणसांना प्रिय वाटतात तसे तुम्हीही व्हा.
१५ श्रुधि श्रुत्कर्ण
विश्वास-प्रस्तुतिः ...{Loading}...
श्रु॒धि श्रु॑त्कर्ण॒ वह्नि॑भिर्दे॒वैर॑ग्ने स॒याव॑भिः। आ सी॑दन्तु ब॒र्हिषि॑ मि॒त्रोऽअ॑र्य्य॒मा प्रा॑त॒र्यावा॑णोऽअध्व॒रम् ॥१५ ॥
मूलम् ...{Loading}...
श्रु॒धि श्रु॑त्कर्ण॒ वह्नि॑भिर्दे॒वैर॑ग्ने स॒याव॑भिः। आ सी॑दन्तु ब॒र्हिषि॑ मि॒त्रोऽअ॑र्य्य॒मा प्रा॑त॒र्यावा॑णोऽअध्व॒रम् ॥१५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
श्रु॒धि। श्रु॒त्क॒र्णेति॑ श्रुत्ऽकर्ण। वह्नि॑भि॒रिति॒ वह्नि॑ऽभिः। दे॒वैः। अ॒ग्ने॒। स॒याव॑भि॒रिति॑ स॒याव॑ऽभिः। आ। सी॒द॒न्तु॒। ब॒र्हिषि॑। मि॒त्रः। अ॒र्य्य॒मा। प्रा॒त॒र्यावा॑णः। प्रा॒त॒र्यावा॑न॒ इति॑ प्रातः॒ऽयावा॑नः। अ॒ध्व॒रम्। १५।
महीधरः
म० शृणुतः इति श्रुतौ अर्थिवचःश्रोतारौ कर्णौ यस्य स श्रुत्कर्णः हे श्रुत्कर्ण, देवैः सह त्वमध्वरं यज्ञं श्रुधि शृणु । कीदृशैर्देवैः । वह्निभिः हवींषि वहन्ति ते वह्नयः तैः । सयावभिः सह यान्ति ते सयावानः तैः । किंच मित्रः अर्यमा प्रातर्यावाणश्च देवाः बर्हिषि आसीदन्तु उपविशन्तु प्रातर्यान्ति हविः प्राप्नुवन्ति प्रातःसवने येषां हविःप्राप्तिस्ते ॥ १५॥
षोडशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- प्रस्कण्व ऋषिः
- बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
अब राजधर्म विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (श्रुत्कर्ण) अर्थियों के वचनों को सुननेहारे (अग्ने) अग्नि के तुल्य वर्त्तमान तेजस्वी विद्वन् ! वा राजन् ! आप (सयावभिः) जो साथ चलते उन (वह्निभिः) कार्यों का निर्वाह करनेहारे (देवैः) विद्वानों के साथ (अध्वरम्) रक्षा के योग्य राज्य के व्यवहार को (श्रुधि) सुनिये तथा (प्रातर्यावाणः) प्रातःकाल राजकार्यों को प्राप्त करनेहारे (मित्रः) पक्षपातरहित सबका मित्र और (अर्यमा) वैश्य या अपने अधिष्ठाताओं को यथार्थ माननेवाला ये सब (बर्हिषि) अन्तरिक्ष के तुल्य सभा में (आ, सीदन्तु) अच्छे प्रकार बैठें ॥१५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सभापति राजा को चाहिये कि अच्छे परीक्षित मन्त्रियों को स्वीकार कर उनके साथ सभा में बैठ विवाद करनेवालों के वचन सुन के उन पर विचार कर यथार्थ न्याय करे ॥१५ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ राजधर्मविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे श्रुत्कर्णाग्ने ! सयावभिर्वह्निभिर्देवैः सहाध्वरं श्रुधि। प्रातर्यावाणो मित्रोऽर्यमा च बर्हिष्यासीदन्तु ॥१५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सभापतिना राज्ञा सुपरीक्षितानमात्यान् स्वीकृत्य तैः सह सदसि स्थित्वा विवदमानवचांसि श्रुत्वा समीक्ष्य यथार्थो न्यायः कर्त्तव्यः ॥१५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजाने परीक्षा करून मंत्री नेमावे. त्यांच्या समवेत सभा घ्याव्यात. विवाद करणाऱ्यांचे बोलणे ऐकून त्याच्यावर विचार करावा व यथार्थ न्याय द्यावा.
१६ विश्वेषामदितिर्यज्ञियानाम्
विश्वास-प्रस्तुतिः ...{Loading}...
विश्वे॑षा॒मदि॑तिर्य॒ज्ञिया॑नां॒ विश्वे॑षा॒मति॑थि॒र्मानु॑षाणाम्। अ॒ग्निर्दे॒वाना॒मव॑ऽआवृणा॒नः सु॑मृडी॒को भ॑वतु जा॒तवे॑दाः ॥१६ ॥
मूलम् ...{Loading}...
विश्वे॑षा॒मदि॑तिर्य॒ज्ञिया॑नां॒ विश्वे॑षा॒मति॑थि॒र्मानु॑षाणाम्। अ॒ग्निर्दे॒वाना॒मव॑ऽआवृणा॒नः सु॑मृडी॒को भ॑वतु जा॒तवे॑दाः ॥१६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
विश्वे॑षाम्। अदि॑तिः। य॒ज्ञिया॑नाम्। विश्वे॑षाम्। अति॑थिः। मानु॑षाणाम्। अ॒ग्निः। दे॒वाना॑म्। अवः॑। आ॒वृ॒णा॒न इत्या॑ऽवृ॒णा॒नः। सु॒मृडी॒क इति॑ सुऽमृडी॒कः। भ॒व॒तु॒। जा॒तवे॑दा॒ इति॑ जा॒तऽवे॑दाः। १६।
महीधरः
म० त्रिष्टुब्गोतमदृष्टादित्यग्रहदधिश्रयणे विनियुक्ता यज्ञो देवानामित्यस्याः ( ८।४) स्थाने । अग्निः ईदृशो भवतु । कीदृशः । विश्वेषां सर्वेषां देवानां मध्ये अदितिः नास्ति दितिः खण्डनं यस्य अदीनः । कीदृशानां देवानाम् । यज्ञियानां यज्ञार्हाणाम् । तथा विश्वेषां सर्वेषां मानुषाणां नराणामतिथिः पूज्यः देवानामवो हविर्लक्षणमन्नमावृणानः समर्पयन् । सुमृडीकः शोभनं मृडीकं सुखं यस्मात् सुखकारी । जातवेदाः जातप्रज्ञानः ॥ १६ ॥
सप्तदशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- गोतम ऋषिः
- स्वराट्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सभापते ! आप (विश्वेषाम्) सब (यज्ञियानाम्) पूजा सत्कार के योग्य (देवानाम्) विद्वानों के बीच (अदितिः) अखण्डित बुद्धिवाले (विश्वेषाम्) सब (मानुषाणाम्) मनुष्यों में (अतिथिः) पूजनीय (अवः) रक्षा आदि को (आवृणानः) अच्छे प्रकार स्वीकार करते हुए (सुमृडीकः) सुन्दर सुख देनेवाले (जातवेदाः) विद्या और योग के अभ्यास से प्रसिद्ध बुद्धिवाले (अग्निः) तेजस्वी राजा (भवतु) हूजिये ॥१६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि जो सब विद्वानों में गम्भीर बुद्धिवाला, सब मनुष्यों में माननीय प्रजा की रक्षा आदि राजकार्य को स्वीकार करता, सब सुखों का दाता और वेदादि शास्त्रों का जाननेवाला शूरवीर हो, उसी को राजा करें ॥१६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सभापते ! भवान् विश्वेषां यज्ञियानां देवानां मध्येऽदितिर्विश्वेषां मानुषाणामतिथिरव आवृणानः सुमृडीको जातवेदा अग्निर्भवतु ॥१६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्यः सर्वेषु विद्वत्सु गम्भीरबुद्धिः, सर्वमनुष्येषु मान्यः, प्रजारक्षादिराजकार्यं स्वीकुर्वाणः, सर्वसुखदाता, वेदादिशास्त्रवेत्ता शूरो भवेत्, स राजा कर्तव्यः ॥१६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - विद्वानांमध्ये गंभीर, बुद्धिमान, सर्व माणसांमध्ये माननीय, प्रजेचे रक्षण करणारा, राज्यकारभार करणारा, सर्व सुख देणारा, वेदादी शास्रे जाणणारा, शूर वीर असेल त्यालाच माणसांनी राजा करावे.
१७ महोऽअग्नेः समिधानस्य
विश्वास-प्रस्तुतिः ...{Loading}...
म॒होऽअ॒ग्नेः स॑मिधा॒नस्य॒ शर्म॒ण्यना॑गा मि॒त्रे वरु॑णे स्व॒स्तये॑। श्रेष्ठे॑ स्याम सवि॒तुः सवी॑मनि॒ तद्दे॒वाना॒मवो॑ऽअ॒द्या वृ॑णीमहे ॥१७ ॥
मूलम् ...{Loading}...
म॒होऽअ॒ग्नेः स॑मिधा॒नस्य॒ शर्म॒ण्यना॑गा मि॒त्रे वरु॑णे स्व॒स्तये॑। श्रेष्ठे॑ स्याम सवि॒तुः सवी॑मनि॒ तद्दे॒वाना॒मवो॑ऽअ॒द्या वृ॑णीमहे ॥१७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
म॒हः। अ॒ग्नेः। स॒मि॒धा॒नस्येति॑ सम्ऽइधा॒नस्य॑। शर्म॑णि। अना॑गाः। मि॒त्रे। वरु॑णे। स्व॒स्तये॑। श्रेष्ठे॑। स्या॒म॒। स॒वि॒तुः। सवी॑मनि। तत्। दे॒वाना॑म्। अवः॑। अ॒द्य। वृ॒णी॒म॒हे॒। १७।
महीधरः
म० लुशोधानाकदृष्टा त्रिष्टुप् सावित्रग्रहपुरोरुक् वाममद्येत्यस्याः ( ८ । ६ ) स्थाने । देवानां तत् अवः अन्नं हविर्लक्षणमद्य वयं वृणीमहे संस्कुर्मः । क्व सति । सवितुः सूर्यस्य सवीमनि सति आज्ञायां सत्याम् । ‘देवस्य त्वा सवितुः प्रसवे’ इत्युक्तेः । ‘सवीमा प्रसवोऽनुज्ञा’ इति कोशः । कीदृशे सवीमनि । श्रेष्ठे अन्यदेवाज्ञातः सूर्याज्ञोत्कृष्टा । तत्किम् । येनान्नेन वयं स्वस्तये स्वस्तिमन्तो भवेम । कीदृशा वयम् । अग्नेः शर्मणि शरणे आश्रये मित्रे वरुणे च अनागाः अनागसः ‘सुपां सुप’ (पा० ७ । १।३९) इति जसः सुः । अग्निमित्रवरुणेष्वपराधरहिताः । कीदृशस्याग्नेः । महः पूज्यस्य । मह्यते पूज्यते मद तस्य ‘मह पूजायां’ क्विप् । समिधानस्य । दीप्यमानस्य ॥ १७ ॥
अष्टादशी।
अधिमन्त्रम् (VC)
- सविता देवता
- लुशो धानाक ऋषिः
- भुरिक्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हम राजपुरुष (महः) बड़े (समिधानस्य) प्रकाशमान (अग्नेः) विज्ञानवान् सभापति के (शर्मणि) आश्रय में (श्रेष्ठे) श्रेष्ठ (मित्रे) मित्र और (वरुणे) स्वीकार के योग्य मनुष्यों के निमित्त (अनागाः) अपराधरहित (स्याम) हों, (अद्य) आज (सवितुः) सब जगत् के उत्पादक परमेश्वर की (सवीमनि) आज्ञा में वर्त्तमान (स्वस्तये) सुख के लिये (देवानाम्) विद्वानों के (तत्) उस वेदोक्त (अवः) रक्षा आदि कर्म को (वृणीमहे) स्वीकार करते हैं ॥१७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - धार्मिक विद्वान् राजपुरुषों को चाहिये कि अधर्म को छोड़ धर्म में प्रवृत्त हों, परमेश्वर की सृष्टि में विविध प्रकार की रचना देख अपनी और दूसरों की रक्षा कर ईश्वर का धन्यवाद किया करें ॥१७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - वयं राजपुरुषा महः समिधानस्याग्नेः शर्मणि श्रेष्ठे मित्रे वरुणे चानागाः स्याम। अद्य सवितुः सवीमनि वर्त्तमानाः स्वस्तये देवानां तदवो वृणीमहे ॥१७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - धार्मिकविद्वद्भी राजपुरुषैरधर्मं विहाय धर्मे प्रवर्त्तित्वा परमेश्वरस्य सृष्टौ विविधा रचना दृष्ट्वा स्वेषामन्येषां च रक्षणं विधायेश्वरस्य धन्यवादा वाच्याः ॥१७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - धार्मिक विद्वान राजपुरुषांनी अधर्म सोडून धर्माचे पालन करावे. परमेश्वराने निर्माण केलेल्या सृष्टीला पाहून आपले व इतरांचे रक्षण करावे आणि ईश्वराला धन्यवाद द्यावेत.
१८ आपश्चित्पिप्यु स्तर्यो̫
विश्वास-प्रस्तुतिः ...{Loading}...
आप॑श्चित्पिप्यु स्त॒र्यो̫ न गावो॒ नक्ष॑न्नृ॒तं ज॑रि॒तार॑स्तऽइन्द्र। या॒हि वा॒युर्न नि॒युतो॑ नो॒ऽअच्छा॒ त्वँहि धी॒भिर्दय॑से॒ वि वाजा॑न् ॥१८ ॥
मूलम् ...{Loading}...
आप॑श्चित्पिप्यु स्त॒र्यो̫ न गावो॒ नक्ष॑न्नृ॒तं ज॑रि॒तार॑स्तऽइन्द्र। या॒हि वा॒युर्न नि॒युतो॑ नो॒ऽअच्छा॒ त्वँहि धी॒भिर्दय॑से॒ वि वाजा॑न् ॥१८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आपः॑। चि॒त्। पि॒य्युः॒। स्त॒र्य्य᳙। न। गावः॑। नक्ष॑न्। ऋ॒तम्। ज॒रि॒तारः॑। ते॒। इ॒न्द्र॒। या॒हि। वा॒युः। न। नि॒युत॒ इति॑ नि॒ऽयुतः॑। नः॒। अच्छ॑। त्वम्। हि। धी॒भिः। दय॑से। वि। वाजा॑न्। १८।
महीधरः
म० ‘इन्द्रस्तदुतथ्यो द्वितीयमहर्भवति तस्येन्द्रा ग्रहा भवन्त्यैन्द्र्यः पुरोरुचः सर्वमैन्द्रमसत्’ (पा० १३ । ७ । १ । ४) इति सर्वमेधे श्रुतिः । ततः इन्द्रस्तुत्संज्ञे उक्थ्यसंस्थे सर्वमेधस्य द्वितीयेऽहनि आपश्चिदित्यादि इमां त इत्यन्ता द्वादश ऋचः। तं प्रत्नथा अयं वेनः महाँ इन्द्रः कदाचन स्तरीः कदाचन प्रयुच्छसीति पञ्च प्रतीकोक्ताः एवं सप्तदशेन्द्रदेवत्याः ऐन्द्रवायवादिसावित्रान्तानां ग्रहाणां ग्रहणमन्त्राः वसिष्ठदृष्टाः त्रिष्टुप् ऐन्द्रवायवस्य पुरोरुक् आ वायो इत्यस्याः ( ७ । ७) स्थाने । हे इन्द्र, जरितारः स्तोतारः ऋत्विजः ते तव ऋतं यज्ञं नक्षन् नक्षन्ति व्याप्नुवन्ति । नक्षतिर्व्याप्तिकर्मा । लङि अडभाव आर्षः। : आपः चित् आपोऽपि निग्राभ्यारूपाः पिप्युः आप्याययन्ति सोमं वर्धयन्ति ‘ओप्यायी वृद्धौ’ लिटि प्यायः पी-आदेशः । तत्र दृष्टान्तः । स्तर्यो गावः इव स्तृण्वन्ति सुन्वन्ति याभिस्ताः स्तर्यः याभिः सोमः सूयते ता गावो वाचो वेदरूपा इव ता यथा सोममाप्याययन्ति तथापोऽपि । अतएव त्वं नोऽस्मानच्छ अभिमुखं याहि आगच्छ । वायुर्न वायुरिव वायुर्यथा नियुतः स्वानश्वानभियाति । हि यतः त्वं धीभिः बुद्धिभिः कर्मभिर्वा वाजानन्नानि विदयसे विविधं ददासि ‘दय दानादौ’ अत एवागच्छ ॥ १८॥
एकोनविंशी ।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- वसिष्ठ ऋषिः
- स्वराट्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अध्यापक और उपदेशक क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) परमैश्वर्ययुक्त विद्वन् ! (ते) आपके (जरितारः) स्तुति करनेहारे (आपः) जलों के तुल्य (पिप्युः) बढ़ते हैं और (स्तर्यः) विस्तार के हेतु (गावः) किरणें (न) जैसे (ऋतम्) सत्य को (नक्षन्) व्याप्त होते हैं, वैसे (वायुः) पवन के (न) तुल्य (वाजान्) विज्ञानवाले (नः) हम लोगों को और (नियुतः) वायु के वेग आदि गुणों को (त्वम्) आप (अच्छ) अच्छे प्रकार (याहि) प्राप्त हूजिये (हि) जिस कारण (धीभिः) बुद्धि वा कर्मों से (वि, दयसे) विशेष कर कृपा करते हो, इससे (चित्) भी सत्कार के योग्य हो ॥१८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो पदार्थों के गुण, कर्म, स्वभावों की स्तुति करनेवाले उपदेशक और अध्यापक हों तो सब मनुष्य विद्या में व्याप्त हुए दयावाले हों ॥१८ ॥
दयानन्द-सरस्वती (सं) - विषयः
अध्यापकोपदेशकौ किं कुर्यातामित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे इन्द्र ! ते तव जरितार आप इव पिप्यु स्तर्य्यो गावो न ऋतं नक्षन् तथा वाजान्नो नियुतश्च वायुर्न त्वमच्छ याहि हि यतो धीभिर्विदयसे तस्माच्चिदपि सत्कर्त्तव्योऽसि ॥१८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यदि पदार्थानां गुणकर्मस्वभावस्तावका उपदेशकाऽध्यापकाः स्युस्तर्हि सर्वे मनुष्या विद्याव्यापिनः सन्तो दयावन्तो भवेयुः ॥१८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. पदार्थांचे गुण, कर्म, स्वभाव जाणणारे अध्यापक व उपदेशक असतील तर सर्व माणसे विद्यावान व दयाळू बनतील.
१९ गावऽउपावतावतं मही
विश्वास-प्रस्तुतिः ...{Loading}...
गाव॒ऽउपा॑वताव॒तं म॒ही य॒ज्ञस्य॑ र॒प्सुदा॑। उ॒भा कर्णा॑ हिर॒ण्यया॑ ॥१९ ॥
मूलम् ...{Loading}...
गाव॒ऽउपा॑वताव॒तं म॒ही य॒ज्ञस्य॑ र॒प्सुदा॑। उ॒भा कर्णा॑ हिर॒ण्यया॑ ॥१९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
गावः॑। उप॑। अ॒व॒त॒। अ॒व॒तम्। म॒हीऽइति॑ म॒ही। य॒ज्ञस्य॑। र॒प्सुदा॑। उ॒भा। कर्णा॑। हि॒र॒ण्यया॑। १९।
महीधरः
म० तिस्रो गायत्र्यः आद्या पुरुमीढाजमीढदृष्टा ऐन्द्रवायवस्य, द्वितीया पुरोरुक् इन्द्रवायू इत्यस्याः (७।८) स्थाने । गाव उच्यन्ते । हे गावः, अवतं कूपं चात्वालरूपं प्रति उपावत उपगच्छत दानार्थम् । चावालान्तरेण गवां संचारोऽस्ति । अवत इति कूपनाम । को हेतुरागमने तत्राह । मही महत्यौ द्यावापृथिव्यौ यज्ञस्य रप्सुदा रप्सुदे रप्स्विति रूपनाम तद्दत्तस्ते रप्सुदे वर्तेते । द्यावाभूमी यज्ञस्य शोभां कुरुत इति यूयमुपागच्छत । किंच उभा कर्णा भवतीनामुभौ कर्णौ हिरण्ययौ हिरण्मयौ अतएव दानार्थमागच्छतेत्यर्थः ॥ १९ ॥
विंशी।
अधिमन्त्रम् (VC)
- इन्द्रवायू देवते
- पुरुमीढाजमीढावृषी
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को आभूषण आदि की रक्षा करनी चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (गावः) गौवें वा किरणें (उभा) दोनों (रप्सुदा) रूप देनेवाली (मही) बड़ी आकाश-पृथिवी की रक्षा करती हैं, वैसे तुम लोग (हिरण्यया) सुवर्ण के आभूषण से युक्त (कर्णा) दोनों कानों और (यज्ञस्य) संगत यज्ञ के (अवतम्) वेदी आदि अवयवों की (उप, अवत) निकट रक्षा करो ॥१९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे सूर्यकिरण और गौ आदि पशु सब वस्तुमात्र की रक्षा करते हैं, वैसे ही मनुष्यों को चाहिये कि सुवर्ण आदि के बने कुण्डल आदि आभूषणों की सदा रक्षा करें ॥१९ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यैराभूषणादि रक्षणीयमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा गाव उभा रप्सुदा मही रक्षन्ति, तथा यूयं हिरण्यया कर्णा यज्ञस्यावतमुपावत ॥१९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा सूर्य्यकिरणा गवादिपशवश्च सर्वं वस्तुजातं रक्षन्ति, तथैव मनुष्यै रुक्मादिनिर्मितं कुण्डलाद्याभूषणं सदा रक्षणीयम् ॥१९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसे सूर्यकिरण सर्व वस्तूंचे रक्षण करतात व गाई इत्यादी पशूही सर्वांचे रक्षण करतात, तसेच माणसांनीही सुवर्णयुक्त आभूषणांचे व यज्ञाचे रक्षण करावे.
२० यदद्य सूरऽउदितेऽनागा
विश्वास-प्रस्तुतिः ...{Loading}...
यद॒द्य सूर॒ऽउदि॒तेऽना॑गा मि॒त्रोऽअ॑र्य्य॒मा। सु॒वाति॑ सवि॒ता भगः॑ ॥२० ॥
मूलम् ...{Loading}...
यद॒द्य सूर॒ऽउदि॒तेऽना॑गा मि॒त्रोऽअ॑र्य्य॒मा। सु॒वाति॑ सवि॒ता भगः॑ ॥२० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यत्। अ॒द्य। सूरे॑। उदि॑त॒ऽइत्युत्ऽइ॑ते। अना॑गाः। मि॒त्रः। अ॒र्य्य॒मा। सु॒वाति॑। स॒वि॒ता। भगः॑। २०।
महीधरः
म० वसिष्ठदृष्टा मैत्रावरुणपुरोरुक् अयं वामित्यस्याः (७।९) स्थाने । अद्य सूरे सूर्ये उदिते सति मित्रः अर्यमा सविता भगश्च यत् सुवाति प्रेरयति तत् कर्म कुर्यादिति शेषः । नास्ति आगोऽपराधो यस्य सोऽनागा इति चतुर्णां विशेषणम् ॥ २० ॥
एकविंशी ।
अधिमन्त्रम् (VC)
- सविता देवता
- वसिष्ठ ऋषिः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
राजा कैसा हो, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (यत्) जो (अद्य) आज (सूरे) सूर्य के (उदिते) उदय होते अर्थात् प्रातःकाल (अनागाः) अधर्म के आचरण से रहित (मित्रः) सुहृद् (सविता) राज्य के नियमों से प्रेरणा करनेहारा (भगः) ऐश्वर्यवान् (अर्य्यमा) न्यायकारी राजा स्वस्थता को (सुवाति) उत्पन्न करे, वह राज्य करने के योग्य होवे ॥२० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जैसे सूर्य के उदय होते अन्धकार निवृत्त होके प्रकाश के होने में सब लोग आनन्दित होते हैं, वैसे ही धर्मात्मा राजा के होते प्रजाओं में सब प्रकार से स्वस्थता होती है ॥२० ॥
दयानन्द-सरस्वती (सं) - विषयः
राजा कीदृशो भवेदित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यद्योऽद्य उदिते सूरऽनागा मित्रः सविता भगोऽर्यमा स्वास्थ्यं सुवाति, स राज्यं कर्त्तुमर्हेत् ॥२० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यथोदितेऽर्के तमो निवृत्य प्रकाशे सति सर्व आनन्दिता भवन्ति, तथैव धार्मिके राजनि सति प्रजासु सर्वथा स्वास्थ्यं भवति ॥२० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! सूर्य उगवल्यानंतर अंधःकार नाहीसा होतो व प्रकाशामुळे सर्व लोक आनंदित होतात, तसेच राजा धर्मात्मा असेल तर प्रजा सर्व प्रकारे सुखी होते.
२१ आ सुते
विश्वास-प्रस्तुतिः ...{Loading}...
आ सु॒ते सि॑ञ्चत॒ श्रियँ॒ रोद॑स्योरभि॒श्रिय॑म्। र॒सा द॑धीत वृष॒भम्। तं प्र॒त्नथा॑। अ॒यं वे॒नः ॥२१ ॥
मूलम् ...{Loading}...
आ सु॒ते सि॑ञ्चत॒ श्रियँ॒ रोद॑स्योरभि॒श्रिय॑म्। र॒सा द॑धीत वृष॒भम्। तं प्र॒त्नथा॑। अ॒यं वे॒नः ॥२१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ। सु॒ते। सि॒ञ्च॒त॒। श्रिय॑म्। रोद॑स्योः। अ॒भि॒श्रिय॒मित्य॑भि॒ऽश्रिय॑म्। र॒सा। द॒धी॒त॒। वृ॒ष॒भम्। २१।
महीधरः
म०. सुनीतिदृष्टाश्विनपुरोरुक् या वामित्यस्याः ( ७ । ११) स्थाने । रसा नदी ‘रसतेः शब्दकर्मणः’ ( निरु० ११ । २५) इति यास्कः । रसा नदी वृषभं वर्षितारं सोमं दधीत पुष्णाति । दधातेर्लिङ् । नदीसमीपे हि सोमोत्पत्तेः । तस्मिन्सोमे सुते अभिषुते सति आसिञ्चत । चमसेष्विति शेषः । ऋत्विजः प्रति वचनमेतत् । कीदृशं वृषभम् । रोदस्योः द्यावापृथिव्योः श्रियं श्रीयते श्रीः तम् आश्रयम् । सोमस्य जगदाधारत्वात् । अभिश्रियम् अभि सर्वतः श्रीः शोभा यस्य सोऽभिश्रीः तम् । तं प्रत्नथा अयं वेनः द्वे प्रतीकोक्ते शुक्रमन्थिनोः प्राकृते ( ७ । १२ । १६ ) पुरोरुचौ ॥ २१ ॥
द्वाविंशी।
अधिमन्त्रम् (VC)
- वेनो देवता
- सुनीतिर्ऋषिः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (रसा) आनन्द देनेवाले तुम लोग (सुते) उत्पन्न हुए जगत् में (वृषभम्) अति बली (रोदस्योः) आकाश-पृथिवी को (अभिश्रियम्) सब ओर से शोभित करनेहारे (श्रियम्) शोभायुक्त सभापति राजा का (आ, सिञ्चत) अच्छे प्रकार अभिषेक करो और वह सभापति तुम लोगों को (दधीत) धारण करे ॥२१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि राज्य की उन्नति से जगत् का प्रकाशक, सुन्दरता आदि गुणों से युक्त, अति बलवान्, विद्वान्, शूर, पूर्ण अवयवोंवाले मनुष्य को राज्य में अभिषेक करें और वह राजा प्रजाओं में सुख धारण करे ॥२१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! रसा यूयं सुते वृषभं रोदस्योरभिश्रियं श्रियं सभापतिमासिञ्चत, स च युष्मान् दधीत ॥२१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यै राज्योन्नत्या जगतः प्रकाशः सौन्दर्यादिगुणवान् बलिष्ठो विद्वान् शूरः पूर्णाङ्गो जनो राज्येऽभिषेक्तव्यः, स च प्रजासु सुखं दध्यात् ॥२१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राज्याच्या उन्नतीसाठी सुंदर, कीर्तिमान, बलवान, विद्वान, शूर, पूर्ण स्वस्थ शरीर असलेल्या अशा व्यक्तीला माणसांनी राजा म्हणून निवडावे व राजाने प्रजेला सुखी ठेवावे.
२२ आतिष्ठन्तं परि
विश्वास-प्रस्तुतिः ...{Loading}...
आ॒तिष्ठ॑न्तं॒ परि॒ विश्वे॑ऽअभूष॒ञ्छ्रियो॒ वसा॑नश्चरति॒ स्वरो॑चिः। म॒हत्तद् वृष्णो॒ऽअसु॑रस्य॒ नामा वि॒श्वरू॑पोऽअ॒मृता॑नि तस्थौ ॥२२ ॥
मूलम् ...{Loading}...
आ॒तिष्ठ॑न्तं॒ परि॒ विश्वे॑ऽअभूष॒ञ्छ्रियो॒ वसा॑नश्चरति॒ स्वरो॑चिः। म॒हत्तद् वृष्णो॒ऽअसु॑रस्य॒ नामा वि॒श्वरू॑पोऽअ॒मृता॑नि तस्थौ ॥२२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ॒तिष्ठ॑न्त॒मित्या॒ऽतिष्ठ॑न्तम्। परि॑। विश्वे॑। अ॒भू॒ष॒न्। श्रियः॑। वसा॑नः। च॒र॒ति॒। स्वरो॑चि॒रिति॒ स्वऽरो॑चिः। म॒हत्। तत्। वृष्णः॑। असु॑रस्य। नाम॑। आ। वि॒श्वऽरू॑प॒ इति॒ वि॒श्वऽरू॑पः। अ॒मृता॑नि। त॒स्थौ॒। २२।
महीधरः
म० विश्वामित्रदृष्टाग्रयणपुरोरुक ये देवास इत्यस्याः (७। १९ ) स्थाने । इन्द्रस्य वृष्टिकर्मोच्यते । विश्वे देवाः आतिष्ठन्तं समन्तात् स्थितमिन्द्रं पर्यभूषन् परिरक्षितवन्तः । स इन्द्रः चरति सर्वत्र गच्छति । कीदृशः । श्रियो वसानः देवानां दीप्तीः आच्छादयन् स्वरोचिः स्वं रोचिर्यस्य सः अनन्याधीनदीप्तिः । किंच विश्वं रूपयति निरूपयतीति विश्वरूपः इन्द्रो यतः अमृतानि जलानि आतस्थौ वृष्टये आस्थितवान् वृष्णः इन्द्रस्य तत् महत् प्रसिद्धं नाम वासवो वृत्रहा इत्यादि । कीदृशस्य वृष्णः । असुरस्य असवो विद्यन्ते यस्य सोऽसुरस्तस्य प्राणवतः सावधानस्य प्रज्ञावत इत्यर्थः ॥ २२ ॥
त्रयोविंशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- विश्वामित्र ऋषिः
- भुरिक्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब विद्युत् अग्नि कैसा है, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् लोगो ! (विश्वे) सब आप जैसे (श्रियः) धनों वा शोभाओं को (वसानः) धारण करता हुआ (स्वरोचिः) स्वयमेव दीप्तिवाला (विश्वरूपः) सब पदार्थों में उन-उन के रूप से व्याप्त अग्नि (चरति) विचरता और (अमृतानि) नाशरहित वस्तुओं में (आ, तस्थौ) स्थित है, वैसे इस (आतिष्ठन्तम्) अच्छे प्रकार स्थिर अग्नि को (परि, अभूषन्) सब ओर से शोभित कीजिये। जो (वृष्णः) वर्षा करनेहारे (असुरस्य) हिंसक इस बिजुलीरूप अग्नि का (महत्) बड़ा (तत्) परोक्ष (नाम) नाम है, उससे सब कार्य्यों को शोभित करो ॥२२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जिस कारण यह विद्युद्रूप अग्नि सब पदार्थों में स्थित हुआ भी किसी को प्रकाशित नहीं करता, इससे इसकी असुर संज्ञा है। जो इस विद्युत् विद्या को जानते हैं, वे सब ओर से सुभूषित होते हैं ॥२२ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ विद्युदग्निः कीदृश इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वांसो ! विश्वे भवन्तो यथा श्रियो वसानः स्वरोचिर्विश्वरूपोऽग्निश्चरत्यमृतान्यातस्थौ तथैतमातिष्ठन्तं पर्यभूषन्। यद्वृष्णोऽसुरस्यास्य महत्तन्नामास्ति तेन सर्वाणि कार्य्याण्यलङ् कुरुत ॥२२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यतोऽयं विद्युदाख्योऽग्निः सर्वपदार्थस्थोऽपि न किञ्चित् प्रकाशयति, तस्मादस्यासुरेति नाम। य एतद्विद्यां जानन्ति ते सर्वतः सुभूषिता भवन्ति ॥२२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. विद्युतरूपी अग्नी सर्व पदार्थांमध्ये स्थित असतो; परंतु तो प्रकट होत नाही. म्हणून त्याला असुर म्हटले जाते. जे लोक ही विद्युत विद्या जाणतात ते प्रसिद्ध होतात.
२३ प्र वो
विश्वास-प्रस्तुतिः ...{Loading}...
प्र वो॑ म॒हे मन्द॑माना॒यान्ध॒सोऽर्चा॑ वि॒श्वान॑राय विश्वा॒भुवे॑। इन्द्र॑स्य॒ यस्य॒ सुम॑खँ॒ सहो॒ महि॒ श्रवो॑ नृ॒म्णं च॒ रोद॑सी सप॒र्य्यतः॑ ॥२३ ॥
मूलम् ...{Loading}...
प्र वो॑ म॒हे मन्द॑माना॒यान्ध॒सोऽर्चा॑ वि॒श्वान॑राय विश्वा॒भुवे॑। इन्द्र॑स्य॒ यस्य॒ सुम॑खँ॒ सहो॒ महि॒ श्रवो॑ नृ॒म्णं च॒ रोद॑सी सप॒र्य्यतः॑ ॥२३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्र। वः॒। म॒हे। मन्द॑मानाय। अन्ध॑सः। अर्चा॑। वि॒श्वान॑राय। वि॒श्वा॒भुवे॑। वि॒श्वा॒भुव इति॑ विश्व॒ऽभुवे॑। इन्द्र॑स्य। यस्य॑। सुम॑ख॒मिति॒ सुऽम॑खम्। सहः॑। महि॑। श्रवः॑। नृ॒म्णम्। च॒। रोद॑सी॒ऽइति॒ रोद॑सी। स॒प॒र्य्यतः॑। २३।
महीधरः
म० सुचीकदृष्टा त्रिष्टुप् ध्रुवग्रहपुरोरुक् मूर्धानमित्यस्याः (७ । २४ ) स्थाने । हे ऋत्विजः, यूयं विश्वानराय विश्वे सर्वे नरा यजमाना यस्य तस्मै प्रार्च प्रार्चत । वचनव्यत्ययः । इन्द्रं पूजयतेत्यर्थः । कीदृशाय । महे महते । वो युष्माकमन्धसः अन्धसा अन्नेन हवीरूपेण मन्दमानाय मोदमानाय । विश्वाभुवे विश्वं भवति प्राप्नोति विश्वभूः तस्मै सर्वव्यापिने, विश्वा भूर्यस्येति वा, विश्वं भवति यस्मादिति वा । संहितायां दीर्घः । किंच रोदसी द्यावापृथिव्यौ यस्येन्द्रस्य एतान् पदार्थान्सपर्यतः पूजयतः । कान् सुमखं शोभनं यज्ञम् सहः बलम् महि महत् श्रवो यशः नृम्णं धनं च । द्यावाभूमी यस्य मखादीनि मानयतस्तं पूजयतेत्यर्थः ॥ २३ ॥
चतुर्विंशी ।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- सुचीक ऋषिः
- भुरिक्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्य को ईश्वर ही की पूजा करनी चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य ! तुम (रोदसी) आकाश-भूमि (यस्य) जिस (इन्द्रस्य) परमेश्वर के (सुमखम्) सुन्दर यज्ञ जिसमें हो, ऐसे (नृम्णम्) धन (सहः) बल (च) और (महि) बड़े (श्रवः) यश को (सपर्यतः) सेवते हैं, उस (विश्वानराय) सब मनुष्य जिसमें हों (महे) महान् (मन्दमानाय) आनन्दस्वरूप (विश्वाभुवे) सबको प्राप्त वा सब पृथिवी के स्वामी वा संसार जिससे हो, ऐसे ईश्वर के अर्थ (प्र, अर्च) पूजन करो अर्थात् उसको मानो वह (वः) तुम्हारे लिये (अन्धसः) अन्नादि के सुख को देवे ॥२३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जिसके उत्पन्न किये धन और बलादि को सब सेवते, उसी महाकीर्तिवाले, सबके स्वामी, आनन्दस्वरूप, सर्वव्याप्त ईश्वर की तुमको पूजा और प्रार्थना करनी चाहिये, वह तुम्हारे लिये धनादि से होनेवाले सुख को देगा ॥२३ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यैरीश्वर एव पूज्य इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य ! त्वं रोदसी यस्येन्द्रस्य सुमखं नृम्णं सहो महि श्रवश्च सपर्य्यतस्तस्मै विश्वानराय महे मन्दमानाय विश्वाभुवे प्रार्च स वोऽन्धसः सुखं ददातु ॥२३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! येनोत्पादितं धनं बलं च सर्वैः सेव्यते, स एव सर्वाध्यक्ष आनन्दमयः सर्वव्याप्त ईश्वरो युष्माभिः पूज्यः प्रार्थनीयश्च, स युष्मभ्यं धनादिजन्यं सुखं दास्यति ॥२३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! ज्या परमेश्वराकडून तुम्हाला धन व बल वगैरे प्राप्त होते. त्या आनंदस्वरूप, महाकीर्तिमान, सर्वांचा स्वामी व सर्वत्र व्याप्त असलेल्या परमेश्वराची उपासना केली पाहिजे. त्यामुळे धन, अन्न वगैरेंपासून मिळणारे सुख तो तुम्हाला देईल.
२४ बृहन्निदिध्मऽएषां भूरि
विश्वास-प्रस्तुतिः ...{Loading}...
बृ॒हन्निदि॒ध्मऽए॑षां॒ भूरि॑ श॒स्तं पृ॒थुः स्वरुः॑। येषा॒मिन्द्रो॒ युवा॒ सखा॑ ॥२४ ॥
मूलम् ...{Loading}...
बृ॒हन्निदि॒ध्मऽए॑षां॒ भूरि॑ श॒स्तं पृ॒थुः स्वरुः॑। येषा॒मिन्द्रो॒ युवा॒ सखा॑ ॥२४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
बृ॒हन्। इत्। इ॒ध्मः। ए॒षा॒म्। भूरि॑। श॒स्तम्। पृ॒थुः। स्वरुः॑। येषा॑म्। इन्द्रः॑। युवा॑। सखा॑। २४।
महीधरः
म० त्रिशोकदृष्टा गायत्री ऐन्द्राग्नपुरोरुक् इन्द्राग्नी इत्यस्याः ( ३ । ७१) स्थाने । युवा समर्थः इन्द्रः येषां यजमानानां सखा सहायः एषामिन्द्रः बृहन् इत् महानेव भवति । शस्तं शस्त्रं भूरि बहु । स्वरुः खड्गः पृथुः विशालः । यज्ञबाहुल्यमाशास्यत इत्यर्थः ॥ २४ ॥
पञ्चविंशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- त्रिशोक ऋषिः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्य परमेश्वर को ही मित्र करे, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (येषाम्) जिनका (इध्मः) तेजस्वी (पृथुः) विस्तारयुक्त (स्वरुः) प्रतापी (युवा) ज्वान (बृहन्) महान् (इन्द्रः) उत्तम ऐश्वर्यवाला परमात्मा (सखा) मित्र है, (एषाम्) उन (इत्) ही का (भूरि) बहुत (शस्तम्) स्तुति के योग्य कर्म होता है ॥२४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जिसका उत्तम परमेश्वर मित्र होवे, वह जैसे इस ब्रह्माण्ड में सूर्य्य प्रतापवाला है, वैसे प्रतापयुक्त हो ॥२४ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यः परमेश्वरमेव मित्रं कुर्यादित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - येषामिध्मः पृथुः स्वरुर्युवा बृहन्निन्द्रः सखाऽस्त्येषामिद् भूरि शस्तं भवति ॥२४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यस्योत्तमः परमेश्वरः सखा भवेत्, स यथाऽस्मिन् ब्रह्माण्डे सूर्य्यः प्रतापयुक्तोऽस्ति, तथा प्रतापयुक्तः स्यात् ॥२४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. परमेश्वर ज्याचा उत्तम मित्र असेल तो जणू या ब्रह्मांडातील तेजस्वी सूर्याप्रमाणे असतो. म्हणून सर्वांनी तसे बनावे.
२५ इन्द्रेहि मत्स्यन्धसो
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रेहि॒ मत्स्यन्ध॑सो॒ विश्वे॑भिः सोम॒पर्व॑भिः। म॒हाँ२ऽअ॑भि॒ष्टिरोज॑सा ॥२५ ॥
मूलम् ...{Loading}...
इन्द्रेहि॒ मत्स्यन्ध॑सो॒ विश्वे॑भिः सोम॒पर्व॑भिः। म॒हाँ२ऽअ॑भि॒ष्टिरोज॑सा ॥२५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इन्द्र॑। आ। इ॒हि॒। म॑त्सि। अन्ध॑सः। विश्वे॑भिः। सो॒म॒पर्व॑भि॒रिति॑ सोम॒पर्व॑ऽभिः। म॒हान्। अ॒भि॒ष्टिः। ओज॑सा। २५।
महीधरः
म० मधुच्छन्दोदृष्टा गायत्री वैश्वदेवपुरोरुक् ओमास इत्यस्याः (७ । ३३ ) स्थाने । इन्द्र आ इहि ‘ओमाङोश्च’ (पा० ६ । १ । ९५) इति पररूपम् । हे इन्द्र, आ इहि आगच्छ । आगत्य अन्धसः अन्धसान्नेन हविर्लक्षणेन विश्वेभिः विश्वैः सर्वैः सोमपर्वभिः सोमांशुभिश्च त्वं मत्सि तृप्यस्व । ‘मद तृप्तौ’ शपो लुक् । कीदृशः त्वम् । ओजसा तेजसा महान् श्रेष्ठः । अभिष्टिः अमीज्यत इत्यभिष्टिः अभियष्टव्यः पृषोदरादिः ॥२५॥
षड्विंशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- मधुच्छन्दा ऋषिः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्य क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) ऐश्वर्य देनेवाले विद्वन् ! जिस कारण आप (ओजसा) पराक्रम के साथ (महान्) बड़े (अभिष्टिः) सब ओर से सत्कार के योग्य (विश्वेभिः) सब (सोमपर्वभिः) सोमादि ओषधियों के अवयवों और (अन्धसः) अन्न से (मत्सि) तृप्त होते हो, इससे हमको (आ, इहि) प्राप्त हूजिये ॥२५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जिस कारण अन्न आदि से मनुष्यादि प्राणियों के शरीरादि का निर्वाह होता है, इससे इनके वृद्धि, सेवन, आहार और विहार यथावत् जानो ॥२५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्याः किं कुर्य्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे इन्द्र ! यतस्त्वमोजसा सह महानभिष्टिर्विश्वेभिः सोमपर्वभिरन्धसो मत्सि तस्मादस्मानेहि ॥२५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यस्मादन्नादेर्मनुष्यादीनां शरीरादेर्निर्वाहो भवति, तस्मादेषां वृद्धिसेवनाहारविहारा यथावद्विजानीयुः ॥२५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! ज्या अन्नामुळे मनुष्य प्राण्याच्या शरीराचा निर्वाह होतो त्या अन्नाची वृद्धी, सेवन आणि आहारविहाराबाबत ज्ञान प्राप्त करावे.
२६ इन्द्रो वृत्रमवृणोच्छर्द्धनीतिः
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रो॑ वृ॒त्रम॑वृणो॒च्छर्द्ध॑नीतिः॒ प्र मा॒यिना॑ममिना॒द्वर्प॑णीतिः। अह॒न् व्यँ᳖समु॒शध॒ग्वने॑ष्वा॒विर्धेना॑ऽअकृणोद्रा॒म्याणा॑म् ॥२६ ॥
मूलम् ...{Loading}...
इन्द्रो॑ वृ॒त्रम॑वृणो॒च्छर्द्ध॑नीतिः॒ प्र मा॒यिना॑ममिना॒द्वर्प॑णीतिः। अह॒न् व्यँ᳖समु॒शध॒ग्वने॑ष्वा॒विर्धेना॑ऽअकृणोद्रा॒म्याणा॑म् ॥२६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इन्द्रः॑। वृ॒त्रम्। अ॒वृ॒णो॒त्। शर्द्ध॑नीति॒रिति॒ शर्द्ध॑ऽनीतिः। प्र। मा॒यिना॑म्। अ॒मि॒ना॒त्। वर्प॑णीतिः। वर्प॑नीति॒रिति॒ वर्प॑ऽनीतिः। अह॑न्। व्यँ॑स॒मिति॒ विऽअँ॑सम्। उ॒शध॑क्। वने॑षु। आ॒विः। धेनाः॑ अ॒कृ॒णो॒त्। रा॒म्याणा॑म्। २६।
महीधरः
म० विश्वामित्रदृष्टा त्रिष्टुप् प्रथममरुवतीयपुरोरुक् इन्द्र मरुत्व इत्यस्याः ( ७ । ३५ ) स्थाने । इन्द्रः वृत्रं दैत्यमवृणोत् युद्धाय वृणोति स्म । मायिनां मायिनो दैत्यान् प्रामिणात् हिनस्ति ‘मीञ् हिंसायाम्’ क्र्यादिः प्वादित्वाद्ध्रस्वः कर्मणि षष्ठी । व्यंसमहन् हन्ति । ‘अंस विभागे’ चुरादिरदन्तः अंसयति विभजति स्वान्परानिति व्यंसो दुष्टः तम् । क्व । वनेषु वनस्थान् हन्तीत्यर्थः । रमयन्ति देवान् ऋते राम्याः यायजूकाः तेषां धेनाः स्तुतिरूपा वाचः आविः अकृणोत् आविः करोति । यजमानाः स्तुवन्तीति देवेषु प्रकटयतीत्यर्थः । कीदृश इन्द्रः । शर्धनीतिः । शर्ध इति बलनाम । शर्धे चतुरङ्गे बले नीतिर्यस्य सः । वर्पणीतिः । वर्प इति रूपनाम । वर्पं नानारूपं नयति प्राप्नोतीति वर्पणीतिः नानारूपधारी । उशधक् उशन्ति कामयन्ते परस्वं ते उशाश्चौरास्तान् दहति उशधक् ॥ २६ ॥
सप्तविंशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- विश्वामित्र ऋषिः
- भुरिक्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
राजपुरुष कैसे हों, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (शर्द्धनीतिः) बल को प्राप्त (वर्पणीतिः) नाना प्रकार के रूपोंवाला (उशधक्) पर पदार्थों को चाहनेवाला चोरादि को नष्ट करनेहारा (इन्द्रः) सूर्य्य के तुल्य प्रतापी सभापति (वृत्रम्) प्रकाश को रोकनेहारे मेघ के तुल्य धर्म के निरोधक दुष्ट शत्रु को (अवृणोत्) युद्ध के लिये स्वीकार करे, (मायिनाम्) दुष्ट बुद्धिवाले छली-कपटी आदि को (प्र, अमिनात्) मारे, जो (वनेषु) वनों में रहनेवाले (व्यंसम्) कपटी हैं भुजा जिसकी, ऐसे चोर को (अहन्) मारे और (राम्याणाम्) आनन्द देनेवाले उपदेशकों की (धेनाः) वाणियों को (आविः, अकृणोत्) प्रकट करे, वही राजा होने को योग्य है ॥२६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो सूर्य के तुल्य सुशिक्षित वाणियों को प्रकट करते, जैसे अग्नि वनों को वैसे दुष्ट शत्रुओं को मारते, दिन जैसे रात्रि को निवृत्त करे वैसे छल, कपटता और अविद्यारूप अन्धकारादि को निवृत्त करते और बल को प्रकट करते हैं, वे अच्छे प्रतिष्ठित राजपुरुष होते हैं ॥२६ ॥
दयानन्द-सरस्वती (सं) - विषयः
राजपुरुषाः कीदृशाः स्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - शर्द्धनीतिर्वर्पनीतिरुशधगिन्द्रो वृत्रमवृणोत् मायिनां प्रामिणाद् वनेषु व्यंसमहन् राम्याणां धेना आविरकृणोत्, स एव राजा भवितुं योग्यः ॥२६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये सूर्य्यवत्सुशिक्षिता वाचः प्रकटयन्ति, अग्निर्वनानीव दुष्टान् शत्रून् दहन्ति, दिनं रात्रिमिव छलकापट्याविद्यान्धकारादीन् निवर्त्तयन्ति, बलमाविष्कुर्वन्ति, ते सुप्रतिष्ठिता राजजना भवन्ति ॥२६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जे सूर्याप्रमाणे तेजस्वी असतात व सुसंस्कृत वाणीचा प्रयोग करतात. अग्नी जसा वनाला जाळतो तसे जे दुष्ट शत्रूंचा नाश करतात, दिवस जसे रात्रींचा नाश करतात तसे जे छल कपट अविद्येचा अंधःकार नष्ट करून आपले सामर्थ्य प्रकट करतात तेच योग्य (प्रतिष्ठा प्राप्त) राजपुरुष असतात.
२७ कुतस्त्वमिन्द्र माहिनः
विश्वास-प्रस्तुतिः ...{Loading}...
कुत॒स्त्वमि॑न्द्र॒ माहि॑नः॒ सन्नेको॑ यासि सत्पते॒ किं त॑ऽइ॒त्था। सं पृ॑च्छसे समरा॒णः शु॑भा॒नैर्वो॒चेस्तन्नो॑ हरिवो॒ यत्ते॑ऽअ॒स्मे। म॒हाँ२ऽ इन्द्रो॒ यऽओज॑सा। क॒दा च॒न स्त॒रीर॑सि॒। क॒दा च॒न प्रयु॑च्छसि ॥२७ ॥
मूलम् ...{Loading}...
कुत॒स्त्वमि॑न्द्र॒ माहि॑नः॒ सन्नेको॑ यासि सत्पते॒ किं त॑ऽइ॒त्था। सं पृ॑च्छसे समरा॒णः शु॑भा॒नैर्वो॒चेस्तन्नो॑ हरिवो॒ यत्ते॑ऽअ॒स्मे। म॒हाँ२ऽ इन्द्रो॒ यऽओज॑सा। क॒दा च॒न स्त॒रीर॑सि॒। क॒दा च॒न प्रयु॑च्छसि ॥२७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
कुतः॑। त्वम्। इ॒न्द्र॒। माहि॑नः। सन्। एकः॑। या॒सि॒। स॒त्प॒त॒ इति॑ सत्ऽपते। किम्। ते॒। इ॒त्था। सम्। पृ॒च्छ॒से॒। स॒म॒रा॒ण इति॑ सम्ऽअरा॒णः। शु॒भा॒नैः। वोचेः। तत्। नः॒। ह॒रि॒व॒ इति॑ हरिऽवः। यत्। ते॒। अ॒स्मेऽइत्य॒स्मे। २७।
महीधरः
म० अगस्त्यदृष्टा त्रिष्टुप् सशस्त्रमरुत्वतीयपुरोरुक् मरुत्वन्तमित्यस्याः ( ७ । ३६ ) स्थाने । इन्द्रं प्रति मरुद्वाक्यम् । हे इन्द्र, हे सत्पते, श्रुतिस्मृत्युक्ताजाररताः सन्तः तेषां पते पालक, त्वमेकः सन् कुतो यासि असहायः क्व गच्छसि । ते तव किमित्था गमने को हेतुः किं प्रयोजनम् । ‘था हेतौ च छन्दसि’ (पा० ५। ३ । २६ ) इतीदमः थाप्रत्ययः। ‘एतेतौ रथोः’ (पा० ५।३।४) इतीदम इदादेशः। कीदृशस्त्वम् । ( माहिनः महितः पूज्यः । निष्ठातस्य नत्वम् धातोर्वृद्धिश्च छान्दसी । यद्वा मह उत्सवोऽस्यास्तीति मही एव माहिनः स्वार्थेऽण् ‘इनण्यनपत्ये’ ( पा० ६ । ४ । १६४ ) इति टिलोपाभावः । किंच समराणः सम्यक् गच्छन् सन् शुभानैः शोभनैः वचनैः त्वं संपृच्छसे कतमः पन्था इति लोकान् पृच्छसि एकाकित्वात् । शोभन्ते तानि शुभानानि । शानचि शपि लुप्ते रूपम् । संपूर्वस्यर्तेः शानचि शपि लुप्ते समराण इति । हरयोऽश्वा अस्य सन्तीति हरिवान् ‘मतुवसो रुः संबुद्धौ छन्दसि’ (पा० ८ । ३ । १) इति रुः । हे हरिवः इन्द्र, नोऽस्माकं तत् एकाकिगमनकारणं वोचेः ब्रूहि । यत् यतो हेतोः अस्मे वयं ते तव त्वदीया वयमिति हेतोर्वक्तव्यमित्यर्थः । तिस्रः प्रतीकोक्ताः तत्र महाँइन्द्र इत्यस्याः (७ । ४० ) महेन्द्रग्रहणे विनियोगः नृवदित्यस्याः (७॥३९ ) स्थाने कदाचनेति ( ८।२-३) द्वयोरादित्यग्रहणे विनियोगः ॥ २७ ॥
अष्टाविंशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- अगस्त्य ऋषिः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सत्पते) श्रेष्ठ सत्य व्यवहार वा श्रेष्ठ पुरुषों के रक्षक (इन्द्र) सभापते ! (माहिनः) महत्त्वयुक्त सत्कार को प्राप्त (त्वम्) आप (एकः) असहायी (सन्) होते हुए (कुतः) किस कारण (यासि) प्राप्त होते वा विचरते हो? (किम् ते) (इत्था) इस प्रकार करने में आपका क्या प्रयोजन है? हे (हरिवः) प्रशंसित मनोहारी घोड़ोंवाले राजन् ! (यत्) जिस कारण (अस्मे) हम लोग (ते) आपके हैं, इनसे (समराणः) सम्यक् चलते हुए आप (नः) हमको (सम्, पृच्छसे) पूछिये और (शुभानैः) मङ्गलमय वचनों के साथ (तत्) उस एकाकी रहने के कारण को (वोचेः) कहिये ॥२७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राज-प्रजा पुरुषों को चाहिये कि सभाध्यक्ष राजा से ऐसा कहें कि हे सभापते ! आपको विना सहाय के कुछ राजकार्य न करना चाहिये, किन्तु आप को उचित है कि सज्जनों की रक्षा और दुष्टों के ताड़न में अस्मदादि के सहाययुक्त सदैव रहैं, शुभाचरण से युक्त, अस्मदादि शिष्टों की सम्मतिपूर्वक कोमल वचनों से सब प्रजाओं को शिक्षा करें ॥२७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सत्पते इन्द्र ! माहिनस्त्वमेकः सन् कुतो यासि? किन्त इत्था? हे हरिवो ! यदस्मे ते तस्मात् समराणस्त्वन्नः सम्पृच्छसे शुभानैस्तद्वोचेश्च ॥२७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - राजप्रजापुरुषैः सभाध्यक्ष एवं वक्तव्यः—हे सभापते ! भवताऽसहायेन किमपि राजकार्य्यं न कर्त्तव्यम्। किन्तु सज्जनरक्षणे, दुष्टताडने, चास्मदादिसहाययुक्तेन सदैव स्थातव्यम्। शुभाचरणयुक्तेनास्मदादिशिष्टसम्मत्या मृदुवचनैश्च सर्वाः प्रजाः शासनीयाः ॥२७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - प्रजेने राजाला असे म्हटले पाहिजे की, ‘‘हे राजा ! तू इतरांच्या मदतीखेरीज राज्यकारभार करू नकोस. सज्जनांचे रक्षण व दुष्टांचे ताडन करण्यासाठी तू आमचे साह्य घे. चांगल्या वर्तनाने सर्व सभ्य लोकांची मान्यता प्राप्त कर व कोमल वाणीने सर्व प्रजेमध्ये शिक्षणाचा प्रसार कर. ’’
२८ आ तत्तऽइन्द्रायवः
विश्वास-प्रस्तुतिः ...{Loading}...
आ तत्त॑ऽइन्द्रा॒यवः॑ पनन्ता॒भि यऽऊ॒र्वं गोम॑न्तं॒ तितृ॑त्सान्। स॒कृ॒त्स्वं᳙ ये पु॑रुपु॒त्रां म॒हीँ स॒हस्र॑धारां बृह॒तीं दुदु॑क्षन् ॥२८ ॥
मूलम् ...{Loading}...
आ तत्त॑ऽइन्द्रा॒यवः॑ पनन्ता॒भि यऽऊ॒र्वं गोम॑न्तं॒ तितृ॑त्सान्। स॒कृ॒त्स्वं᳙ ये पु॑रुपु॒त्रां म॒हीँ स॒हस्र॑धारां बृह॒तीं दुदु॑क्षन् ॥२८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ। तत्। ते॒। इ॒न्द्र॒। आ॒यवः॑। प॒न॒न्त॒। अ॒भि। ये। ऊ॒र्वम्। गोम॑न्त॒मिति॒ गोऽम॑न्तम्। तितृ॑त्सान्। स॒कृ॒त्स्व᳙मिति॑ सकृ॒त्ऽस्व᳙म्। ये। पु॒रु॒पु॒त्रामिति॑ पुरुपु॒त्राम्। म॒हीम्। स॒हस्र॑धारा॒मिति॑ स॒हस्र॑ऽधाराम्। बृ॒ह॒तीम्। दुदु॑क्षन्। दुधु॑क्ष॒न्निति॒ दुधु॑क्षन्। २८।
महीधरः
म० गौरीवितिदृष्टा त्रिष्टुप् आदित्यग्रहस्य दधिश्रयणे विनियोगः । यज्ञो देवानामित्यस्याः ( ८ । ४) स्थाने । हे इन्द्र, आयवो मनुष्याः ते तव तत् कर्म आपनन्त पूजयन्ति । पनतिः पूजाकर्मा । लङ् अडभाव आर्षः । ये आयवः ऊर्वमन्नं सोमरूपमभितितृत्सान् अभितितृत्सन्ति तर्दितुं हिंसितुमिच्छन्ति तितृत्सन्ति ‘उतृदिर् हिंसानादरयोः’ सन्नन्तः ‘इतश्च लोपः परस्मैपदेषु’ (पा० ३ । ४ । ९७) इत्यतेरिकारलोपः । सोमं सोतुमिच्छन्तीत्यर्थः । कीदृशमूर्वम् । गोमन्तं गौरुदकमस्ति यस्मिन् स गोमान् तम् निग्राभ्यालक्षणोदकयुतम् । ताभिरेव सोमः सूयते । किंच ये मनुष्याः महीं भूमिं दुदुक्षन् दुधुक्षन्ति दोग्धुमिच्छन्ति । दुहेः सनन्ताल्लट् पूर्ववदिकारलोपः । तेऽपि तव कर्म पनन्ति स्तुवन्ति । कीदृशीं महीम् । सकृत्स्वं सकृदेकवारमेव सूते हिरण्यधान्यादि ददाति सकृत्सूः ताम् । पुरुपुत्रां बहुपुत्राम् । सर्वे पदार्थाः पृथिवीत उत्पद्यन्ते । सहस्रधारां सहस्रं धारा हिरण्यादयो यस्याः सा ताम् बहुभोगदाम् । यद्वा सहस्रमसंख्यं प्राणिजातं धरति सहस्रधारा ताम् । बृहती महतीम् । ये विप्राः सोमाभिषवं कुर्वन्ति ये च क्षत्रिया भूमिं दुहन्ति पालयन्ति ददते ते इन्द्रस्य वृत्रवधादिकर्म स्तुवन्ति नान्ये दुर्मेधस इत्यर्थः ॥ २८ ॥
एकोनत्रिंशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- गौरिवीतिर्ऋषिः
- भुरिक्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) राजन् ! (ये) जो (आयवः) सत्य को प्राप्त होनेवाले प्रजा जन (सकृत्स्वम्) एक बार उत्पन्न करनेवाली (पुरुपुत्राम्) बहुत अन्नादि व्यक्तिवाले पुत्रों से युक्त (सहस्रधाराम्) असंख्य सुवर्णादि धातु जिसमें धारारूप हों वा असंख्य प्राणिमात्र को धारण करनेहारी (बृहतीम्) विस्तारयुक्त (महीम्) बड़ी भूमि को (दुदुक्षन्) दोहना चाहें अर्थात् उससे इच्छापूर्ति किया चाहें (ये) जो मनुष्य (गोमन्तम्) खोटे इन्द्रियोंवाले लम्पट (ऊर्वम्) हिंसक जन को (अभि, तितृत्सान्) सम्मुख होकर मारने की इच्छा करें और जो (ते) आपके (तत्) उस राजकर्म की (आ, पनन्त) प्रशंसा करें, उनकी आप उन्नति किया कीजिये ॥२८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो लोग राजभक्त दुष्टहिंसक एक बार में बहुत फल-फूल देने और सबको धारणकरनेवाली भूमि के दुहने को समर्थ हों, वे राजकार्य करने के योग्य होवें ॥२८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे इन्द्र ! य आयवः सकृत्स्वं पुरुपुत्रां सहस्रधारां बृहतीं महीं दुदुक्षन्, ये गोमन्तमूर्वमभितितृत्सान् ये च ते तदापनन्त तान् त्वं सततमुन्नय ॥२८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये राजभक्ता दुष्टहिंसका एकवारे बहुफलपुष्पप्रदां सर्वधारिकां भूमिं दोग्धुं समर्थास्स्युस्ते राजकार्य्याणि कर्त्तुमर्हेयुः ॥२८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे लोक दुष्ट व हिंसक लोकांना मारतात व सर्वांना धारण करणाऱ्या भूमीपासून फळे, फुले, अन्न, सुवर्ण इत्यादी प्राप्त करतात तेच लोक योग्य राज्यकारभार करू शकतात.
२९ इमां ते
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒मां ते॒ धियं॒ प्र भ॑रे म॒हो म॒हीम॒स्य स्तो॒त्रे धि॒षणा॒ यत्त॑ऽआन॒जे। तमु॑त्स॒वे च॑ प्रस॒वे च॑ सास॒हिमिन्द्रं॑ दे॒वासः॒ शव॑सामद॒न्ननु॑ ॥२९ ॥
मूलम् ...{Loading}...
इ॒मां ते॒ धियं॒ प्र भ॑रे म॒हो म॒हीम॒स्य स्तो॒त्रे धि॒षणा॒ यत्त॑ऽआन॒जे। तमु॑त्स॒वे च॑ प्रस॒वे च॑ सास॒हिमिन्द्रं॑ दे॒वासः॒ शव॑सामद॒न्ननु॑ ॥२९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इ॒माम्। ते॒। धिय॑म्। प्र। भ॒रे॒। म॒हः। म॒हीम्। अ॒स्य। स्तो॒त्रे। धि॒षणा॑। यत्। ते॒। आ॒न॒जे। तम्। उ॒त्स॒व इत्यु॑त्ऽस॒वे। च॒। प्र॒स॒व इति॑ प्रऽस॒वे। च॒। सा॒स॒हिम्। स॒स॒हिमिति॑ सस॒हिम्। इन्द्र॑म्। दे॒वासः॑। शव॑सा। अ॒म॒द॒न्। अनु॑। २९।
महीधरः
म० कुत्सदृष्टा जगती सावित्रपुरोरुक् वाममद्येत्यस्याः ( ८ । ६ ) स्थाने । हे इन्द्र, इमां मामकीं धियं बुद्धिं स्तुतिं वा कर्म वा ते तुभ्यं प्रभरे प्रहरे समर्पयामि । कीदृशस्य ते। महः महतः पूज्यस्य । कीदृशीं धियम् । महीं महतीम् । यत् यस्मात् अस्य यजमानस्य धिषणा बुद्धिर्वाग्वा स्तोत्रे क्रियमाणे ते तव आनजे त्वां व्यनक्ति । कर्मणि षष्ठी । अञ्जेर्लिट् नलोपश्छान्दसः । किंच देवासः देवाः तमिन्द्रमन्वमदन अनुमदन्ति स्तुवन्ति ‘छन्दसि परेऽपि’ ( पा० १।४। ८१ ) इत्यनोः परः प्रयोगः । क्व स्तुवन्ति । उत्सवे अभ्युदये । प्रसवे गुर्वाद्यनुज्ञायां सत्याम् । यद्वा प्रसवे पुत्राद्युत्पत्तिरूपे उत्सवे इन्द्रं स्तुवन्ति । कीदृशमिन्द्रम् । शवसा बलेन सासहिम् सहते सासहिः शत्रूणामभिभवितारम् । चौ समुच्चये ॥ २९ ॥ इन्द्रस्तुत्संज्ञं द्वितीयमहः समाप्तम् ॥
त्रिंशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- कुत्स ऋषिः
- जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सभाध्यक्ष ! मैं (महीम्) सुन्दर पूज्य (इमाम्) इस (ते) आपकी (धियम्) बुद्धि वा कर्म को (प्र, भरे) धारण करता हूँ (स्तोत्रे) स्तुति होने में (अस्य) इस मेरी (धिषणा) बुद्धि (यत्) जिस (ते) आपको (आनजे) प्रकट करती है (तम्) उस (शवसा) बल के साथ (सासहिम्) शीघ्र सहनेवाले (इन्द्रम्) उत्तम बल के योग से शत्रुओं को विदीर्ण करनेहारे सभापति को (महः) महान् कार्य के (उत्सवे) करने योग्य आनन्द समय (च) और (प्रसवे) उत्पत्ति में (च) भी (देवासः) विद्वान् लोग (अनु, अमदन्) अनुकूलता से आनन्दित करें ॥२९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो राजादि मनुष्य विद्वानों से उत्तम बुद्धि वा वाणी को ग्रहण करते हैं, वे सत्य के अनुकूल हुए आप आनन्दित होके औरों को प्रसन्न करते हैं ॥२९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे इन्द्राहं महीमिमान्ते धियं प्रभरे स्तोत्रेऽस्य धिषणा यत्त आनजे तं शवसा सासहिमिन्द्रं मह उत्सवे च प्रसवे च देवासोऽन्वमदन् ॥२९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये राजादयो मनुष्या विद्वद्भ्य उत्तमां प्रज्ञां वाचं गृह्णन्ति ते सत्यानुकूलाः सन्तः स्वयमानन्दिता भूत्वाऽन्यानानन्दयन्ति ॥२९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे राजे विद्वानांकडून उत्तम बुद्धी व वाणीचा स्वीकार करतात ते सत्यवादी बनतात व स्वतः आनंदित होऊन इतरांनाही प्रसन्न करतात.
३० विभ्राड् बृहत्
विश्वास-प्रस्तुतिः ...{Loading}...
वि॒भ्राड् बृ॒हत् पि॑बतु सो॒म्यं मध्वायु॒र्दध॑द् य॒ज्ञप॑ता॒ववि॑ह्रुतम्। वात॑जूतो॒ योऽअ॑भि॒रक्ष॑ति॒ त्मना॑ प्र॒जाः पु॑पोष पुरु॒धा वि रा॑जति ॥३० ॥
मूलम् ...{Loading}...
वि॒भ्राड् बृ॒हत् पि॑बतु सो॒म्यं मध्वायु॒र्दध॑द् य॒ज्ञप॑ता॒ववि॑ह्रुतम्। वात॑जूतो॒ योऽअ॑भि॒रक्ष॑ति॒ त्मना॑ प्र॒जाः पु॑पोष पुरु॒धा वि रा॑जति ॥३० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वि॒भ्राडिति॑ वि॒ऽभ्राट्। बृ॒हत्। पि॒ब॒तु॒। सो॒म्यम्। मधु॑। आयुः॑। दध॑त्। य॒ज्ञप॑ता॒विति॑ य॒ज्ञऽप॑तौ। अवि॑ह्रुत॒मित्यवि॑ऽह्रुतम्। वात॑जूत॒ इति॒ वात॑ऽजूतः। यः। अ॒भि॒रक्ष॒तीत्य॑भि॒ऽरक्ष॑ति। त्मना॑। प्र॒जा इति॑ प्र॒ऽजाः। पु॒पो॒ष॒। पु॒रु॒धा। वि। रा॒ज॒ति॒। ३०।
महीधरः
म० अथ तृतीयमहः सूर्यस्तुत् । तथाच श्रुतिः ‘सूर्यस्तदुक्थ्यस्तृतीयमहर्भवति तस्य सौर्या ग्रहा भवन्ति सौर्यः पुरोरुचः सर्व सौर्यमसदिति’ ( १३ । ७।१।५) । चतुर्दश पुरोरुचस्तिस्रः प्रतीकोक्ताः । एवं सप्तदश ऋचः सूर्यस्तुत्संज्ञे उक्थ्यसंस्थे सर्वमेधस्य तृतीयेऽहनि । ऐन्द्रवायवादिसावित्रान्तानां ग्रहाणां पूर्वोक्तक्रमेण ग्रहणमन्त्रा बोध्याः । विभ्रादृष्टा जगती ऐन्द्रवायवपुरोरुक् । विविधं भ्राजते विभ्राट् सूर्यः सोम्यं सोमरूपं हविः पिबतु । कीदृशं सोम्यम् । बृहत् महत् मधु मधुरखादम् । यः सूर्यः त्मना आत्मना प्रजाः अभिरक्षति पालयति पुपोष पुष्णाति च । पुरुधा बहुधा विराजति च शोभते । कीदृशः । यज्ञपतौ यजमाने अविहृतमखण्डितमायुः दधत् स्थापयन् । वातजूतः वातेन प्रेरितः । वातेन प्रेरितं रविमण्डलं भ्रमतीति प्रसिद्धिः । त्मना ‘मन्त्रेष्वाड्यादेरात्मनः’ (पा० ६ । ४ । १४१) इत्याकारलोपः । ‘ढ कौटिल्ये’ ‘हुहरेश्छन्दसि’ ( पा० ७ । २।३१ ) इति हु आदेशः॥ ३० ॥
एकत्रिंशी।
अधिमन्त्रम् (VC)
- सूर्यो देवता
- विभ्राड् ऋषिः
- विराड्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यः) जो (वातजूतः) वायु से वेग को प्राप्त सूर्य के तुल्य (विभ्राड्) विशेष कर प्रकाशवाला राजपुरुष (अविह्रुतम्) अखण्ड संपूर्ण (आयुः) जीवन (यज्ञपतौ) युक्तव्यवहारपालक अधिष्ठाता मैं (दधत्) धारण करता हुआ (त्मना) आत्मा से (प्रजाः) प्रजाओं को (अभिरक्षति) सब ओर से रक्षा करता हुआ (पुपोष) पुष्ट करता और (पुरुधा) बहुत प्रकारों से (वि, राजति) विशेषकर प्रकाशमान होता है, सो आप (बृहत्) बड़े (सोम्यम्) सोमादि ओषधियों के (मधु) मिष्टादि गुणयुक्त रस को (पिबतु) पीजिये ॥३० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे राजादि मनुष्यो ! जैसे सूर्य्य वृष्टि द्वारा सब जीवों के जीवन-पालन को करता है, उसके तुल्य उत्तम गुणों से महान् हो के न्याय और विनय से प्रजाओं की निरन्तर रक्षा करो ॥३० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यो वातजूतः सूर्य इव विभ्राडविह्रुतमायुर्यज्ञपतौ दधत् त्मना प्रजा अभिरक्षति पुपोष पुरुधा विराजति च स भवान् बृहत् सोम्यं मधु पिबतु ॥३० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे राजादयो मनुष्याः ! यथा सूर्य्यो वृष्टिद्वारा सर्वेषां जीवनं पालनं करोति तद्वत् सद्गुणैर्महान्तो भूत्वा न्यायविनयाभ्यां प्रजाः सततं रक्षन्तु ॥३० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे राजांनो ! सूर्य जसा वृष्टीद्वारे सर्व जीवांचे पालन करतो तसे उत्तम गुणयुक्त श्रेष्ठ बनून न्यायाने व विनयाने प्रजेचे सदैव रक्षण करा.
३१ उदु त्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑। दृ॒शे विश्वा॑य॒ सूर्य्य॑म् ॥३१ ॥
मूलम् ...{Loading}...
उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑। दृ॒शे विश्वा॑य॒ सूर्य्य॑म् ॥३१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उँ॒ऽइत्युँ॑त्। उ। त्यम्। जा॒तवे॑दस॒मिति॑ जा॒तऽवे॑दसम्। दे॒वम्। व॒ह॒न्ति॒। के॒तवः॑। दृ॒शे। विश्वा॑य। सूर्य्य॑म्। ३१।
महीधरः
म० ऐन्द्रवायवस्य द्वितीया पुरोरुक् । व्याख्याता (७ ।४१) ॥ ३१ ॥
द्वात्रिंशी।
अधिमन्त्रम् (VC)
- सूर्यो देवता
- प्रस्कण्व ऋषिः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब सूर्यमण्डल कैसा है, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जिस (जातवेदसम्) उत्पन्न हुए पदार्थों में विद्यमान (देवम्) चिलचिलाते हुए (सूर्य्यम्) सूर्य्यमण्डल को (विश्वाय) संसार को (दृशे) देखने के लिये (केतवः) किरणें (उत्, वहन्ति) ऊपर को आश्चर्यरूप प्राप्त करती हैं (त्यम्) उस (उ) ही को तुम लोग जानो ॥३१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे सूर्य्य किरणों से संसार को दिखाता और आप सुशोभित होता, वैसे विद्वान् लोग सब विद्या और शिक्षाओं को दिखाकर सुन्दर शोभायमान हों ॥३१ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ सूर्य्यमण्डलं कीदृशमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यं जातवेदसं देवं सूर्य्यं विश्वाय दृशे केतव उद्वहन्ति त्यमु यूयं विजानीत ॥३१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा किरणैः सूर्य्यः संसारं दर्शयति, स्वयं सुशोभते तथा विद्वांसोऽखिला विद्याः शिक्षा दर्शयित्वा सुशोभेरन् ॥३१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसा सूर्य आपल्या किरणांद्वारे जगाला प्रकाश देतो तसे विद्वान लोक सर्व विद्या व शिक्षणाचा प्रसार करून शोभिवंत होतात.
३२ येना पावक
विश्वास-प्रस्तुतिः ...{Loading}...
येना॑ पावक॒ चक्ष॑सा भुर॒ण्यन्तं॒ जनाँ॒२ऽअनु॑। त्वं व॑रुण॒ पश्य॑सि ॥३२ ॥
मूलम् ...{Loading}...
येना॑ पावक॒ चक्ष॑सा भुर॒ण्यन्तं॒ जनाँ॒२ऽअनु॑। त्वं व॑रुण॒ पश्य॑सि ॥३२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
येन॑। पा॒व॒क॒। चक्ष॑सा। भु॒र॒ण्यन्त॑म्। जना॑न्। अनु॑। त्वम्। व॒रु॒ण॒। पश्य॑सि। ३२।
महीधरः
म० प्रस्कण्वदृष्टा गायत्री मैत्रावरुणपुरोरुक् । सर्वमेधे पक्षाकारेणाग्निश्चीयते तद्रूपमात्मानं संपाद्य मुक्तिमाप्नोति तदत्र प्रार्थ्यते । हे पावक शोधक, येन चक्षसा दर्शनेन त्वं भुरण्यन्तमनुपश्यसि । क्षिप्रपाती पक्षी भुरण्युः । भुरण्युमात्मानं करोति भुरण्यति भुरण्यतीति भुरण्यन् तम् । क्विबन्तात् शतृप्रत्ययः । सर्वमेधयाजिनं भुरण्युपक्षिरूपमात्मानं कृत्वा स्वर्गच्छन्तं येन चक्षसानुपश्यसीत्यर्थः । तेन चक्षसा जनानस्मानपि भुरण्यतः हे वरुण, त्वं पश्य । वरुणः सूर्यः ॥ ३२ ॥
त्रयस्त्रिंशी।
अधिमन्त्रम् (VC)
- सूर्यो देवता
- प्रस्कण्व ऋषिः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर राजधर्मविषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (पावक) पवित्रकर्त्ता (वरुण) श्रेष्ठ विद्वन् वा राजन् ! (त्वम्) आप (येन) जिस (चक्षसा) प्रकट दृष्टि वा उपदेश से (भुरण्यन्तम्) रक्षा करते हुए (अनु, पश्यसि) अनुकूल देखते हो, उससे (जनान्) हम आदि मनुष्यों को देखिये और आपके अनुकूल हम वर्त्तें ॥३२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। राजा और राजपुरुष जिस प्रकार के व्यवहार से प्रजाओं में वर्त्तें, वैसे ही भाव से इनमें प्रजा लोग भी वर्त्तें ॥३२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुना राजधर्मविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे पावक वरुण ! विद्वंस्त्वं येन चक्षसा भुरण्यन्तमनुपश्यसि, तेन जनान् पश्य, तवानुकूलाश्च वयं वर्तेमहि ॥३२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा राजराजपुरुषा यादृशेन व्यवहारेण प्रजासु वर्त्तेरन्, तथैव भावेनैतेषु प्रजा अपि वर्त्तेरन् ॥३२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. राजा व राजपुरुष प्रजेबरोबर ज्याप्रमाणे वागतात त्याप्रमाणेच प्रजेनेही त्यांच्याबरोबर वागावे.
३३ दैव्यावध्वर्यूऽआ गतम्
विश्वास-प्रस्तुतिः ...{Loading}...
दैव्या॑वध्वर्यू॒ऽआ ग॑तँ॒ रथे॑न॒ सूर्य॑त्वचा। मध्वा॑ य॒ज्ञँ सम॑ञ्जाथे। तं प्रत्नथा॑। अ॒यं वेनः। चित्रं दे॒वाना॑म् ॥३३ ॥
मूलम् ...{Loading}...
दैव्या॑वध्वर्यू॒ऽआ ग॑तँ॒ रथे॑न॒ सूर्य॑त्वचा। मध्वा॑ य॒ज्ञँ सम॑ञ्जाथे। तं प्रत्नथा॑। अ॒यं वेनः। चित्रं दे॒वाना॑म् ॥३३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दैव्यौ॑। अ॒ध्व॒र्यू॒ऽइत्य॑ध्वर्यू। आ। ग॒त॒म्। रथे॑न। सूर्य॑त्व॒चेति॒ सूर्य॑त्वचा। मध्वा॑। य॒ज्ञम्। सम्। अ॒ञ्जा॒थे॒ऽ इत्य॑ञ्जाथे। ३३।
महीधरः
म० आश्विनपुरोरुक् गायत्रो । देवानामिमौ दैव्यौ हे दैव्यावध्वर्यू अश्विनौ, युवां रथेन आगतमागच्छतम् । शपो लुक् । कीदृशेन रथेन । सूर्यत्वचा सूर्यस्येव त्वक् कान्तिर्यस्य तेन । एत्य मध्वा मधुरेण हविषा सोमपुरोडाशदध्यादिना यज्ञं समञ्जाथे युवां संम्रक्षयतम् । बहूनि हवींषि कुरुतमित्यर्थः । तं प्रत्नथा ( ७ । १२ ) अयं वेनः ( ७ । १६) चित्रं देवानाम् (७ । ४२ ) तिस्रः प्रतीकोक्ताः । आद्ये द्वे शुक्रमन्थिपुरोरुचौ तृतीयाग्रयणस्य ॥ ३३ ॥
चतुस्त्रिंशी। |
अधिमन्त्रम् (VC)
- विद्वान् देवता
- प्रस्कण्व ऋषिः
- निचृद्गायत्री
- षड्जः
३४ आ नऽइडाभिर्विदथे
विश्वास-प्रस्तुतिः ...{Loading}...
आ न॒ऽइडा॑भिर्वि॒दथे॑ सुश॒स्ति वि॒श्वान॑रः सवि॒ता दे॒वऽए॑तु। अपि॒ यथा॑ युवानो॒ मत्स॑था नो॒ विश्वं॒ जग॑दभिपि॒त्वे म॑नी॒षा ॥३४ ॥
मूलम् ...{Loading}...
आ न॒ऽइडा॑भिर्वि॒दथे॑ सुश॒स्ति वि॒श्वान॑रः सवि॒ता दे॒वऽए॑तु। अपि॒ यथा॑ युवानो॒ मत्स॑था नो॒ विश्वं॒ जग॑दभिपि॒त्वे म॑नी॒षा ॥३४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ। नः॒। इडा॑भिः। वि॒दथे॑। सु॒श॒स्तीति॑ सुऽश॒स्ति। वि॒श्वान॑रः। स॒वि॒ता। दे॒वः। ए॒तु॒। अपि॑। यथा॑। यु॒वा॒नः॒। मत्स॑थ। नः॒। विश्व॑म्। जग॑त्। अ॒भि॒पि॒त्व इत्य॑भिऽपि॒त्वे। म॒नी॒षा। ३४।
महीधरः
म० अगस्त्यदृष्टा त्रिष्टुप् ध्रुवपुरोरुक् । विश्वानरो विश्वनर हितकारी सविता देवः नोऽस्माकं विदथे यज्ञगृहे आ एतु आगच्छतु । कथम् । इडाभिः सुशस्ति यथा स्यात् तथा इडाभक्षणेन शोभना शस्तिः शंसनं प्रशंसा यस्यां क्रियायां तथा । यथा सर्वे इडां भक्षयन्ति तथा एत्वित्यर्थः । यद्वा सुशस्ति विभक्तिलोपः । कीदृशे यज्ञगृहे । सुशस्ति सुशस्तौ इडाभिः शोभनप्रशंसायुक्ते । एवं सूर्यमुक्त्वा देवानाह । हे युवानः, जरारहिता देवाः अपि निश्चितम् अभिपित्वे अभिपतने आगमनकाले यथा येन प्रकारेण यूयं मत्सथ ‘मद तृप्तौ’ तृप्यथ तथा नोऽस्माकं विश्वं सर्वं जगत् गन्तृ जङ्गमं पुत्रगवादिकं मनीषा मनीषया बुद्ध्या मत्सथ । अन्तर्भूतण्यर्थः । तर्पयत । यथा भवद्भिस्तृप्तिः क्रियते तथास्मत्प्रजास्तर्पणीया इत्यर्थः ॥ ३४ ॥
पश्चत्रिंशी।
अधिमन्त्रम् (VC)
- सविता देवता
- अगस्त्य ऋषिः
- त्रिष्टुप्
- धैवतः
३५ यदद्य कच्च
विश्वास-प्रस्तुतिः ...{Loading}...
यद॒द्य कच्च॑ वृत्रहन्नु॒दगा॑ऽअ॒भि सू॑र्य्य। सर्वं॒ तदि॑न्द्र ते॒ वशे॑ ॥३५ ॥
मूलम् ...{Loading}...
यद॒द्य कच्च॑ वृत्रहन्नु॒दगा॑ऽअ॒भि सू॑र्य्य। सर्वं॒ तदि॑न्द्र ते॒ वशे॑ ॥३५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यत्। अ॒द्य। कत्। च॒। वृ॒त्र॒ह॒न्निति॑ वृत्रऽहन्। उ॒दगा॒ इत्यु॒त्ऽअगाः॑। अ॒भि। सू॒र्य्य॒। सर्व॑म्। तत्। इ॒न्द्र॒। ते॒ वशे॑। ३५।
महीधरः
म० श्रुतकक्षसुकक्षदृष्टा गायत्री ऐन्द्राग्नपुरोरुक् । ‘वृत्रो मेधे रिपौ ध्वान्ते दानवे वासवे गिरौ’ इति कोशाद्वृत्रमन्धकारं शार्वरं हन्तीति वृत्रहा रविः । हे वृत्रहन्, हे सूर्य, हे इन्द्र ऐश्वर्ययुक्त, अद्य यत् कच्च यत्र कुत्रचित् त्वमभि उदगाः अभ्युदेषि तत्सर्वं ते तव वशेऽस्तीति शेषः । यद्वा उदगाः अत्र पुरुषव्यत्ययः । यत्किंचित्प्राणिजातमुदेति तत्सर्वं तव वशे सर्वस्येशिता त्वमेवेत्यर्थः ॥ ३५॥
षट्त्रिंशी।
अधिमन्त्रम् (VC)
- सूर्यो देवता
- श्रुतकक्षसुकक्षावृषी
- पिपीलिकामध्या निचृद्गायत्री
- षड्जः
३६ तरणिर्विश्वदर्शतो ज्योतिष्कृदसि
विश्वास-प्रस्तुतिः ...{Loading}...
त॒रणि॑र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य्य। विश्व॒मा भा॑सि रोच॒नम् ॥३६ ॥
मूलम् ...{Loading}...
त॒रणि॑र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य्य। विश्व॒मा भा॑सि रोच॒नम् ॥३६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
त॒रणिः॑। वि॒श्वद॑र्शत॒ इति॑ वि॒श्वऽद॑र्शतः। ज्यो॒ति॒ष्कृत्। ज्यो॒तिः॒कृदिति॑ ज्योतिः॒ऽकृत्। अ॒सि॒। सू॒र्य्य॒। विश्व॑म्। आ। भा॒सि॒। रो॒च॒नम्। ३६।
महीधरः
म० प्रस्कण्वदृष्टा गायत्री वैश्वदेवपुरोरुक् । हे सूर्य, त्वं ज्योतिष्कृत् तेजसः कर्तासि । विश्वमाभासि प्रकाशयसि च । अग्निविद्युन्नक्षत्रचन्द्रग्रहतारकादिषु त्वदीयं तेज इत्यर्थः । कीदृशं विश्वम् । रोचनं दीप्यमानं त्वत्प्रकाशेनेति भावः । कीदृशस्त्वम् । तरणिः तरत्यतिक्रामति नभोवर्त्मेति तरणिः ‘अश्यवितृभ्योऽनिः’ ( उणा० २ । ९८ ) इति तरतेरनिप्रत्ययः। विश्वदर्शतः विश्वस्य दर्शतो दर्शनीयः । दृशेरतच् ॥३६॥
सप्तत्रिंशी।
अधिमन्त्रम् (VC)
- सूर्यो देवता
- प्रस्कण्व ऋषिः
- निचृद्गायत्री
- षड्जः
३७ तत्सूर्य्यस्य देवत्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
तत्सूर्य्य॑स्य देव॒त्वं तन्म॑हि॒त्वं म॒ध्या कर्त्तो॒र्वित॑तँ॒ सं ज॑भार। य॒देदयु॑क्त ह॒रितः॑ स॒धस्था॒दाद्रात्री॒ वास॑स्तनुते सि॒मस्मै॑ ॥३७ ॥
मूलम् ...{Loading}...
तत्सूर्य्य॑स्य देव॒त्वं तन्म॑हि॒त्वं म॒ध्या कर्त्तो॒र्वित॑तँ॒ सं ज॑भार। य॒देदयु॑क्त ह॒रितः॑ स॒धस्था॒दाद्रात्री॒ वास॑स्तनुते सि॒मस्मै॑ ॥३७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
तत्। सूर्य्य॑स्य। दे॒व॒त्वमिति॑ देव॒ऽत्वम्। तत्। म॒हि॒त्वमिति॑ महि॒ऽत्वम्। म॒ध्या। कर्त्तोः॑। वित॑तमिति॑ विऽत॑तम्। सम्। ज॒भा॒र॒। य॒दा। इत्। अयु॑क्त। ह॒रितः॑। स॒धस्था॒दिति॑ स॒धऽस्था॑त। आत्। रात्री॑। वासः॑। त॒नु॒ते॒। सि॒मस्मै॑। ३७।
महीधरः
म० कुत्सदृष्टे द्वे त्रिष्टुभौ मरुत्वतीययोः पुरोरुचौ । सूर्यस्य तत् देवत्वं देवतानुभावः । तच्च महित्वं महाभाग्यमैश्वर्यम् । तत् किम् । कर्तोः ‘ईश्वरे तोसुन्कसुनौ’ (पा० ३ । ४ । १३) करोतेस्तोसुन्प्रत्ययः । कार्यश्रेष्ठस्य जगद्रूपस्य मध्या मध्ये विततं विस्तारितमंशुजालं संजभार संजहार संहरते । न ह्यन्य एतादृशमंशुजालं प्रसारयितुं संहर्तुं वा शक्नोतीत्यर्थः । किंच यदा इत् यदैव हरितः हरितवर्णान्रश्मीनयुक्त युङ्क्ते आत्मनि आरोपयति सधस्थात् सह तिष्ठन्त्यंशवो यत्र तत्सधस्थं व्योममण्डलम् । ‘सध मादस्थयोश्छन्दसि’ (पा० ६।३ । १६) | इति सहस्य सधादेशः । सन्ध्याकाले पीतवर्णानंशून् यदा व्योममण्डलात्स्वस्मिन्योजयति । आत् अनन्तरमेव रात्री निशा सिमस्मै वासः तनुते । सर्वं वस्तु तमसाच्छादयतीत्यर्थः । सूर्यास्तादनन्तरं रात्रिसद्भावात् । सिमशब्दः सर्वपर्यायः ॥ ३७॥
अष्टत्रिंशी ।
अधिमन्त्रम् (VC)
- सूर्यो देवता
- कुत्स ऋषिः
- त्रिष्टुप्
- धैवतः
३८ तन्मित्रस्य वरुणस्याभिचक्षे
विश्वास-प्रस्तुतिः ...{Loading}...
तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॒ सूर्य्यो॑ रू॒पं कृ॑णुते॒ द्योरु॒पस्थे॑। अ॒न॒न्तम॒न्यद्रुश॑दस्य॒ पाजः॑ कृ॒ष्णम॒न्यद्ध॒रितः॒ सं भ॑रन्ति ॥३८ ॥
मूलम् ...{Loading}...
तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॒ सूर्य्यो॑ रू॒पं कृ॑णुते॒ द्योरु॒पस्थे॑। अ॒न॒न्तम॒न्यद्रुश॑दस्य॒ पाजः॑ कृ॒ष्णम॒न्यद्ध॒रितः॒ सं भ॑रन्ति ॥३८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
तत्। मि॒त्रस्य॑। वरु॑णस्य। अ॒भि॒चक्ष॒ऽइत्य॑भि॒चक्षे॑। सूर्य्यः॑। रू॒पम्। कृ॒णु॒ते॒। द्योः। उ॒पस्थ॒ऽइत्यु॒पस्थे॑। अ॒न॒न्तम्। अ॒न्यत्। रुश॑त्। अ॒स्य॒। पाजः॑। कृ॒ष्णम्। अ॒न्यत्। ह॒रितः॑। सम्। भ॒र॒न्ति॒। ३८।
महीधरः
म०. सूर्यो द्योः द्युलोकस्योपस्थे उत्सङ्गे मित्रस्य वरुणस्य च तद्रूपं कृणुते कुरुते । येन रूपेण जनानभिचक्षे अभिचष्टे पश्यति । मित्ररूपेण सुकृतिनोऽनुगृह्णाति वरुणरूपेण दुष्कृतिनो निगृह्णातीत्यर्थः । अस्य सूर्यस्य अन्यत् एकं पाजो रूपमनन्तम् कालतो देशतश्चापरिच्छेद्यम् । रुशत् शुक्लं दीप्यमानं विज्ञानघनानन्दं ब्रह्मैव । अन्यत् कृष्णं द्वैतलक्षणं रूपं हरितः ‘दिशः इन्द्रियवृत्तयो वा संभरन्ति धारयन्ति । इन्द्रियग्राह्यं द्वैतरूपमेकम् । एकं शुद्धं चैतन्यमद्वैतमिति द्वे रूपे सूर्यस्य सगुणनिर्गुणं ब्रह्म सूर्य एवेत्यर्थः । पाज इति बलनाम इह रूपमुच्यते । रोचत इति रुशत् । ओणादिकेऽतिप्रत्यये चकारो रस्य शकारो गुणाभावश्च निपात्यते । यद्वा ‘रुश हिंसायाम्’ रुच्यर्थे वर्तमानादस्माल्लटः शतरि रुशदिति रूपम् ॥ ३८ ॥
एकोनचत्वारिंशी।
अधिमन्त्रम् (VC)
- सूर्यो देवता
- कुत्स ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (द्योः) प्रकाश के (उपस्थे) निकट वर्त्तमान अर्थात् अन्धकार से पृथक् (सूर्यः) चराचर का आत्मा (मित्रस्य) प्राण और (वरुणस्य) उदान के (तत्) उस (रूपम्) रूप को (कृणुते) रचता है जिससे मनुष्य (अभिचक्षे) देखता जानता है (अस्य) इस परमात्मा का (रुशत्) शुद्धस्वरूप और (पाजः) बल (अनन्तम्) अपरिमित (अन्यत्) भिन्न है और (अन्यत्) (कृष्णम्) अविद्यादि मलीन गुणवाले भिन्न जगत् को (हरितः) दिशा (सम्, भरन्ति) धारण करती हैं ॥३८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जो अनन्त ब्रह्म वह प्रकृति और जीवों से भिन्न है। ऐसे ही प्रकृतिरूप कारण विभु है, उससे जो-जो उत्पन्न होता, वह वह समय पाकर ईश्वर के नियम से नष्ट हो जाता है, जैसे जीव प्राण, उदान से सब व्यवहारों को सिद्ध करते, वैसे ईश्वर अपने अनन्त सामर्थ्य से इस जगत् के उत्पत्ति, स्थिति, प्रलयों को करता है ॥३८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! द्योरुपस्थे वर्त्तमानः सूर्य्यो मित्रस्य वरुणस्य च तद्रूपं कृणुते येन जनोऽभिचक्षे। अस्य रुशत्पाजोऽनन्तमन्यदस्ति अन्यत्कृष्णं हरितः संभरन्तीति विजानीत ॥३८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यदनन्तं ब्रह्म तत्प्रकृतेर्जीवेभ्यश्चान्यदस्ति। एवं प्रकृत्याख्यं कारणं विभु वर्त्तते तस्माद्यज्जायते तत्तत्समयं प्राप्येश्वरनियमेन विनश्यति, यथा जीवाः प्राणोदानाभ्यां सर्वान् व्यवहारान् साध्नुवन्ति तथैवेश्वरः स्वेनानन्तसामर्थ्येनास्योत्पत्तिस्थितिप्रलयान् करोति ॥३८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! ब्रह्म हे प्रकृती व जीव यांच्यापेक्षा वेगळे आहे. विभू प्रकृतीरूपी कारणापासून जे जे उत्पन्न होते ते कालांतरानंतर ईश्वरी नियमानुसार नष्ट होते. जीव जसे प्राण व उदान यांच्याद्वारे सर्व व्यवहार सिद्ध करतो तसे ईश्वर आपल्या सामर्थ्याने या जगाची उत्पत्ती, स्थिती व प्रलय करतो.
३९ बण्महाँ२ऽअसि सूर्य्य
विश्वास-प्रस्तुतिः ...{Loading}...
बण्म॒हाँ२ऽअ॑सि सूर्य्य॒ बडा॑दित्य म॒हाँ२अ॑सि। म॒हस्ते॑ स॒तो म॑हि॒मा प॑नस्यते॒ऽद्धा दे॑व म॒हाँ२ऽअ॑सि ॥३९ ॥
मूलम् ...{Loading}...
बण्म॒हाँ२ऽअ॑सि सूर्य्य॒ बडा॑दित्य म॒हाँ२अ॑सि। म॒हस्ते॑ स॒तो म॑हि॒मा प॑नस्यते॒ऽद्धा दे॑व म॒हाँ२ऽअ॑सि ॥३९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
बट्। म॒हान्। अ॒सि॒। सू॒र्य्य। बट्। आ॒दि॒त्य॒। म॒हान्। अ॒सि॒। म॒हः। ते। स॒तः। म॒हि॒मा। प॒न॒स्य॒ते॒। अ॒द्धा। दे॒व॒। म॒हान्। अ॒सि॒। ३९।
महीधरः
म० जमदग्निदृष्टे द्वे बृहतीसतोबृहत्यौ । आद्या माहेन्द्रपुरोरुक् । बडित्यव्ययं सत्यार्थम् । हे सूर्य, सुवति प्रेरयति कार्येषु जगदिति सूर्यः ‘राजसूयसूर्य-’ (पा० ३ । १ । ११४) इत्यादिना क्यबन्तो निपातः । बट् सत्यं त्वं महान् असि श्रेष्ठोऽसि । आदत्तेंऽशूनित्यादित्यः हे आदित्य, बट् त्वं महानसि । किंच महः महतः सतः नित्यस्य ते तव महिमा पनस्यते लोकैः स्तूयते । हे देव, दीप्यमान, अद्धा सत्यं त्वं महानसि । अभ्यासे भूयांसमर्थं मन्यन्त इति पुनरुक्तिरादरार्था ॥ ३९ ॥
चत्वारिंशी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- जमदग्निर्ऋषिः
- विराड्बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सूर्य) चराचर के अन्तर्यामिन् ईश्वर ! जिस कारण आप (बट्) सत्य (महान्) महत्त्वादि गुणयुक्त (असि) हैं। हे (आदित्य) अविनाशीस्वरूप ! जिससे आप (बट्) अनन्त ज्ञानवान् (महान्) बड़े (असि) हो (सतः) सत्यस्वरूप (महः) महान् (ते) आपका (महिमा) महत्त्व (पनस्यते) लोगों से स्तुति किया जाता। हे (देव) दिव्य गुणकर्मस्वभावयुक्त ईश्वर ! जिससे आप (श्रद्धा) प्रसिद्ध (महान्) महान् (असि) हैं, इसलिये हमको उपासना करने के योग्य हैं ॥३९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जिस ईश्वर के महिमा को पृथिवी, सूर्यादि पदार्थ जानते हैं, जो सबसे बड़ा है, उसको छोड़ के किसी अन्य की उपासना नहीं करनी चाहिये ॥३९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सूर्य्य ! बण्महानसि, हे आदित्य ! यतस्त्वं बण्महानसि सतो महस्ते महिमा पनस्यते। हे देव ! यतस्त्वमद्धा महानसि, तस्मादस्माभिरुपास्योऽसि ॥३९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यस्येश्वरस्य महिमानं पृथिवीसूर्यादिपदार्था ज्ञापयन्ति, यः सर्वेभ्यो महानस्ति तं विहाय कस्याप्यन्यस्योपासना नैव कार्य्या ॥३९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! पृथ्वी, सूर्य इत्यादी पदार्थांवरून ज्या ईश्वराची महिमा कळून येते व जो सर्वांत महान आहे त्याला सोडून इतर कोणाची उपासना करू नये.
४० बट् सूर्य्य
विश्वास-प्रस्तुतिः ...{Loading}...
बट् सू॑र्य्य॒ श्रव॑सा म॒हाँ२ऽअ॑सि स॒त्रा दे॑व म॒हाँ२ऽअ॑सि। म॒ह्ना दे॒वाना॑मसु॒र्य्यः᳖ पु॒रोहि॑तो वि॒भु ज्योति॒रदा॑भ्यम् ॥४० ॥
मूलम् ...{Loading}...
बट् सू॑र्य्य॒ श्रव॑सा म॒हाँ२ऽअ॑सि स॒त्रा दे॑व म॒हाँ२ऽअ॑सि। म॒ह्ना दे॒वाना॑मसु॒र्य्यः᳖ पु॒रोहि॑तो वि॒भु ज्योति॒रदा॑भ्यम् ॥४० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
बट्। सू॒र्य्य॒। श्रव॑सा। म॒हान्। अ॒सि॒। स॒त्रा। दे॒व। म॒हान्। अ॒सि॒। म॒ह्ना। दे॒वाना॑म्। अ॒सु॒र्य्यः᳖। पु॒रोहि॑त॒ इति॑ पु॒रःऽहि॑तः। विभ्विति॑ विऽभु। ज्योतिः॑। अदा॑भ्यम्। ४०।
महीधरः
म०. आदित्यग्रहप्रथमग्रहणम् । हे सूर्य, बट् सत्यश्रवसा धनेन यशसा वा त्वं महानसि । हे देवा, सत्यं त्वं महानसि देवानां मध्ये श्रेष्ठोऽसि । केन । मह्ना महत्त्वेन । कीदृशः त्वम् । असुर्यः असवः प्राणा येषां सन्ति तेऽसुराः तेभ्यो हितोऽसुर्यः प्राणिहितः पुरोऽग्रे हितः स्थापितः सर्वकार्येषु पुरः पूज्यः । सर्वदेवानां सूर्यार्घदानानन्तरमेव पूजाधिकारात् । विभु व्यापकमदाभ्यमनुपहिंस्यं ज्योतिः तेजः । त्वमेव तेजोरूप इत्यर्थः ॥ ४० ॥
एकचत्वारिंशी। |
अधिमन्त्रम् (VC)
- सूर्यो देवता
- जमदग्निर्ऋषिः
- भुरिग्बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (बट्) सत्य (सूर्य) सूर्य के तुल्य सब के प्रकाशक ! जिससे आप (श्रवसा) यश वा धन से (महान्) बड़े (असि) हो। हे (देव) उत्तम सुख के दाता ! (सत्रा) सत्य के साथ (महान्) बड़े (असि) हो। जिससे आप (देवानाम्) पृथिवी आदि वा विद्वानों के (पुरोहितः) प्रथम से हितकारी (मह्ना) महत्त्व से (असुर्य्यः) प्राणों के लिये हितैषी हुए (अदाभ्यम्) आस्तिकता से रक्षा करने योग्य (विभु) व्यापक (ज्योतिः) प्रकाशस्वरूप हैं, इससे सत्कार के योग्य हैं ॥४० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जिस ईश्वर ने सबकी पालना के लिये अन्नादि को उत्पन्न करनेवाली भूमि, मेघ और प्रकाश करनेवाला सूर्य रचा है, वही परमेश्वर उपासना करने योग्य है ॥४० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे बट् सूर्य्य ! यतस्त्वं श्रवसा महानसि। हे देव सत्रा महानसि यतस्त्वं देवानां पुरोहितो मह्नाऽसुर्य्यः सन्नदाभ्यं विभु ज्योतिः स्वरूपोऽसि तस्मात् सत्कर्त्तव्योऽसि ॥४० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! येनेश्वरेण सर्वेषां पालनायान्नाद्युत्पादिका भूमिर्मेघप्रकाशकारी सूर्य्यो निर्मितः, स एव परमेश्वर उपासितुं योग्योऽस्ति ॥४० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! ज्या ईश्वराने सर्वांचे पालन करण्यासाठी अन्न वगैरे उत्पन्न करून भूमी व मेघ उत्पन्न करणारा सूर्य निर्माण केलेला आहे तोच परमेश्वर उपासना करण्यायोग्य आहे.
४१ श्रायन्तऽइव सूर्य्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
श्राय॑न्तऽइव॒ सूर्य्यं॒ विश्वेदिन्द्र॑स्य भक्षत। वसू॑नि जा॒ते जन॑मान॒ऽओज॑सा॒ प्रति॑ भा॒गं न दी॑धिम ॥४१ ॥
मूलम् ...{Loading}...
श्राय॑न्तऽइव॒ सूर्य्यं॒ विश्वेदिन्द्र॑स्य भक्षत। वसू॑नि जा॒ते जन॑मान॒ऽओज॑सा॒ प्रति॑ भा॒गं न दी॑धिम ॥४१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
श्राय॑न्तऽइ॒वेति॒ श्राय॑न्तःऽइव। सूर्य॑म्। विश्वा॑। इत्। इन्द्र॑स्य। भ॒क्ष॒त॒। वसू॒नि। जा॒ते। जन॑माने। ओज॑सा। प्रति॑। भा॒गम्। न। दी॒धि॒म॒। ४१।
महीधरः
म० नृमेधदृष्टा बृहती । आदित्यस्य पुनर्ग्रहणम् । श्रयन्त इति श्रायन्तः ‘श्रिञ् सेवायाम्’ अतः शतरि शपि गुणे प्राप्ते व्यत्ययेन वृद्धिः । इव एवार्थे । सूर्यॆ श्रायन्तः आश्रयन्तः एव अर्थाद्रश्मयः इन्द्रस्य विश्वा इत् विश्वानि सर्वाण्येव वसूनि धनानि वृष्टिधान्यनिष्पत्त्यादीनि भक्षत अभक्षत भजन्ते, विभजन्ते । प्राणिभ्यो विभज्य ददतीत्यर्थः। ‘भज भागसेवयोः’ अस्य लुङि तङि प्रथमबहुवचने रूपम् । अडभाव आर्षः ‘आत्मनेपदेष्वनतः’ (पा० ७ । १।५) इति झस्यादादेशः। सूर्यकिरणा इन्द्रदत्तां वृष्टिं भूमौ विभजन्तीत्यर्थः । किंच वयं तान्येव वसूनि जाते पुत्रे जनमाने उत्पद्यमाने च ओजसा तेजसा सह प्रतिदीधिम धारयाम । स्थापयामेत्यर्थः । किमिव भागं न भागमिव । यथा स्वभागं पुत्रादिषु धारयामस्तथेत्यर्थः । ‘धि धृतौ’ लङ् व्यत्ययेन शपः श्लुः द्वित्वम् । तुजादित्वादभ्यासदीर्घः ॥४१॥
द्विचत्वारिंशी।
अधिमन्त्रम् (VC)
- सूर्यो देवता
- नृमेध ऋषिः
- निचृद्बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे हम लोग (ओजसा) सामर्थ्य से (जाते) उत्पन्न हुए और (जनमाने) उत्पन्न होनेवाले जगत् में (सूर्यम्) स्वयं प्रकाशस्वरूप सबके अन्तर्यामी परमेश्वर का (श्रायन्तइव) आश्रय करते हुए के समान (विश्वा) सब (वसूनि) वस्तुओं को (प्रति, दीधिम) प्रकाशित करें और (भागम्, न) सेवने योग्य अपने अंश के तुल्य सेवन करें, वैसे (इत्) ही (इन्द्रस्य) उत्तम ऐश्वर्य के भाग को तुम लोग (भक्षत) सेवन करो ॥४१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो हम लोग परमेश्वर को सेवन करते हुए विद्वानों के तुल्य हों तो यहाँ सब ऐश्वर्य को प्राप्त होवें ॥४१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा वयमोजसा जाते जनमाने च जगति सूर्यं श्रायन्तइव विश्वा वसूनि प्रति दीधिम भागं न सेवेमहि तथेदिन्द्रस्येमं यूयं भक्षत ॥४१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यदि वयं परमेश्वरं सेवमाना विद्वांस इव भवेम तर्हीह सर्वमैश्वर्यं लभेमहि ॥४१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. सर्वांनी परमेश्वरावर विश्वास ठेवून विद्वानांप्रमाणे वागल्यास ऐश्वर्य प्राप्त होऊ शकते.
४२ अद्या देवाऽउदिता
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒द्या दे॑वा॒ऽउदि॑ता॒ सूर्य्य॑स्य॒ निरँह॑सः पिपृ॒ता निर॑व॒द्यात्। तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वीऽउ॒त द्यौः ॥४२ ॥
मूलम् ...{Loading}...
अ॒द्या दे॑वा॒ऽउदि॑ता॒ सूर्य्य॑स्य॒ निरँह॑सः पिपृ॒ता निर॑व॒द्यात्। तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वीऽउ॒त द्यौः ॥४२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒द्य। दे॒वाः॒। उदि॒तेत्युत्ऽइ॑ता। सूर्य्य॑स्य। निः। अँह॑सः। पि॒पृ॒त। निः। अ॒व॒द्यात्। तत्। नः॒। मि॒त्रः। वरु॑णः। मा॒म॒ह॒न्ता॒म्। म॒म॒ह॒न्ता॒मिति॑ ममहन्ताम्। अदि॑तिः। सिन्धुः॑। पृ॒थि॒वी। उ॒त। द्यौः। ४२।
महीधरः
म० कुत्सदृष्टा त्रिष्टुप् दध्नादित्यग्रहश्रयणे विनियोगः । दीव्यन्ति दीप्यन्ते इति देवाः रश्मयः हे देवाः, नोऽस्मानंहसः पापात् निःपिपृत निर्मुञ्चत । अवद्यात् दुर्यशसोऽपि निःपिपृत पृथक् कुरुत । अस्माकं पापानि दुर्यशांसि च नाशयतेत्यर्थः । क्व । अद्यास्मिन्दिने सूर्यस्य उदिता उदिते उदये अद्य सूर्योदयेऽस्माञ्शुद्धान्कुरुतेत्यर्थः । अद्येत्यत्र ‘द्व्यचोऽतस्तिङः’ । ‘निपातस्य च’ (पा० ६। ३ । १३५,३६ ) इति दीर्घः । ‘अन्येषामपि दृश्यते’ (पा० ६ । ३ । १३७) इति दीर्घः पिपृतेत्यत्र । किंच मित्रादयः तत् नः अस्मद्वचनं मामहन्तां पूजयन्तु । अङ्गीकुर्वन्त्वित्यर्थः । के मित्रः वरुणः अदितिः देवमाता सिन्धुः समुद्रो नदी वा पृथिवी उतापि च द्यौः स्वर्गः ॥ ४२ ॥
त्रिचत्वारिंशी।
अधिमन्त्रम् (VC)
- सूर्यो देवता
- कुत्स ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
विद्वान् लोग कैसे हों, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (देवा) विद्वान् लोगो ! जिस कारण (सूर्य्यस्य) सूर्य्य के (उदिता) उदय होते (अद्य) आज (अंहसः) अपराध से (नः) हमको (निः) निरन्तर बचाओ और (अवद्यात्) निन्दित दुःख से (निः, पिपृत) निरन्तर रक्षा करो (तत्) इससे (मित्रः) मित्र (वरुणः) श्रेष्ठ (अदितिः) अन्तरिक्ष (सिन्धुः) समुद्र (पृथिवी) भूमि (उत) और (द्यौः) प्रकाश ये सब हमारा (मामहन्ताम्) सत्कार करें ॥४२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो विद्वान् मनुष्य प्राणादि के तुल्य सबको सुखी करते और अपराध से दूर रखते हैं, वे जगत् को शोभित करनेवाले हैं ॥४२ ॥
दयानन्द-सरस्वती (सं) - विषयः
विद्वांसः कीदृशाः स्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे देवा विद्वांसो ! यूयं यतः सूर्यस्योदिताऽद्यांहसो नो निष्पिपृतावद्याच्च निष्पिपृत तन्मित्रो वरुणोऽदितिः सिन्धुः पृथिवी उत द्यौरस्मान् मामहन्ताम् ॥४२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये विद्वांसो मनुष्याः प्राणादिवत् सर्वान् सुखयन्ति, अपराधाद् दूरे रक्षन्ति, ते जगद्भूषकाः सन्ति ॥४२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - प्राण जसा सर्वांना सुखी करतो तसे विद्वान लोक सर्वांना सुखी करतात व अपराधापासून दूर करतात असे लोक जगात शोभायमान ठरतात.
४३ आ कृष्णेन
विश्वास-प्रस्तुतिः ...{Loading}...
आ कृ॒ष्णेन॒ रज॑सा॒ वर्त्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च। हि॒र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न् ॥४३ ॥
मूलम् ...{Loading}...
आ कृ॒ष्णेन॒ रज॑सा॒ वर्त्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च। हि॒र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न् ॥४३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ। कृ॒ष्णेन॑। रज॑सा। वर्त्त॑मानः। नि॒वे॒शय॒न्निति॑ निऽवे॒शय॑न्। अ॒मृत॑म्। मर्त्य॑म्। च॒। हि॒र॒ण्यये॑न। स॒वि॒ता। रथे॑न। आ। दे॒वः। या॒ति॒। भुव॑नानि। पश्य॑न्। ४३।
महीधरः
म० हिरण्यस्तूपदृष्टा त्रिष्टुप् सावित्रपुरोरुक् । सविता देवः हिरण्ययेन हिरण्मयेन रथेन आयाति आगच्छति । किं कुर्वन् । कृष्णेन रजसा रात्रिलक्षणेन सह आवर्तमानः पुनर्भ्रमणं कुर्वन् अमृतं देवादिकं मर्त्यं मनुष्यादिकं च निवेशयन् स्वस्वप्रदेशेषु स्थापयन् भुवनानि पश्यन् कानि साधु कुर्वन्ति कान्यसाध्विति विचारयन् ॥ ४३ ॥
तृतीयं सूर्यस्तुदुक्थ्यमहः समाप्तम् ।
चतुश्चत्वारिंशी।
अधिमन्त्रम् (VC)
- सूर्यो देवता
- हिरण्यस्तूप ऋषिः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब सूर्य्य मण्डल कैसा है, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (हिरण्ययेन रथेन) ज्योतिःस्वरूप रमणीय स्वरूप से (कृष्णेन) आकर्षण से परस्पर सम्बद्ध (रजसा) लोकमात्र के साथ (आ, वर्त्तमानः) अपने भ्रमण की आवृत्ति करता हुआ (भुवनानि) सब लोकों को (पश्यन्) दिखाता हुआ (देवः) प्रकाशमान (सविता) सूर्य्यदेव (अमृतम्) जल वा अविनाशी आकाशादि (च) और (मर्त्यम्) मरणधर्मा प्राणिमात्र को (निवेशयन्) अपने-अपने प्रदेश में स्थापित करता हुआ (आ, याति) उदयास्त समय में आता-जाता है, सो ईश्वर का बनाया सूर्य्यलोक है ॥४३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जैसे इन भूगोलादि लोकों के साथ सूर्य्य का आकर्षण है, जो वृष्टिद्वारा अमृतरूप जल को बरसाता और जो मूर्त्त द्रव्यों को दिखानेवाला है, वैसे ही सूर्य्य आदि लोक भी ईश्वर के आकर्षण से धारण किये हुए हैं, ऐसा जानना चाहिये ॥४३ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ सूर्य्यमण्डलं कीदृशमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यो हिरण्यमयेन रथेन कृष्णेन रजसा सहाऽऽवर्त्तमानो भुवनानि पश्यन् देवः सविताऽमृतं मर्त्यं च निवेशयन्नायाति स ईश्वरनिर्मितः सूर्य्यो लोकोऽस्ति ॥४३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यथा एतद्भूगोलाद्यैर्लोकैः सह तस्य सूर्य्यस्याकर्षणं यो वृष्टिद्वारा अमृतात्मकमुदकं वर्षयति यश्च सर्वेषां मूर्तद्रव्याणां दर्शयितास्ति तथा सूर्य्यादयोऽपीश्वराकर्षणेन ध्रियन्त इति वेद्यम् ॥४३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! जसे भूगोल वगैरे गोलांना सूर्य आकर्षित करतो व वृष्टीद्वारे अमृतरूपी जलवर्षाव करतो आणि प्रत्यक्ष मूर्त पदार्थांचे दर्शन घडवितो त्या सूर्याला ईश्वराच्या आकर्षणाने धारण केलेले आहे हे जाणा.
४४ प्र वावृजे
विश्वास-प्रस्तुतिः ...{Loading}...
प्र वा॑वृजे सुप्र॒या ब॒र्हिरे॑षा॒मा वि॒श्पती॑व॒ बीरि॑टऽइयाते। वि॒शाम॒क्तोरु॒षसः॑ पू॒र्वहू॑तौ वा॒युः पू॒षा स्व॒स्तये॑ नि॒युत्वा॑न् ॥४४ ॥
मूलम् ...{Loading}...
प्र वा॑वृजे सुप्र॒या ब॒र्हिरे॑षा॒मा वि॒श्पती॑व॒ बीरि॑टऽइयाते। वि॒शाम॒क्तोरु॒षसः॑ पू॒र्वहू॑तौ वा॒युः पू॒षा स्व॒स्तये॑ नि॒युत्वा॑न् ॥४४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्र। वा॒वृ॒जे। व॒वृ॒जे॒ऽइति॑ ववृजे। सु॒ऽप्र॒या इति॑ सुप्र॒याः। ब॒र्हिः। ए॒षा॒म्। आ। वि॒श्पती॑व। वि॒श्पती॒वेति॑ वि॒श्पती॑ऽइव। बीरि॑टे। इ॒या॒ते॒। वि॒शाम्। अ॒क्तोः। उ॒षसः॑। पू॒र्वहू॑ता॒विति॑ पू॒र्वऽहू॑तौ। वा॒युः। पू॒षा। स्व॒स्तये॑। नि॒युत्वा॑न्। ४४।
महीधरः
म०. अथ चतुर्थमहः वैश्वदेवस्तुत् । तथाच श्रुतिः ‘वैश्वदेववच्चतुर्थमहर्भवति वैश्वदेवा ग्रहा भवन्ति वैश्वदेव्यः पुरोरुचः’ (१३ । ७।१।६) इति । वैश्वदेवस्तु चतुर्थेऽह्नि एकादश पुरोरुचः षट् प्रतीकोक्ताः इति सप्तदश ऐन्द्रवायवादिसावित्रान्तग्रहाणां पुरोरुचो ग्रहणमन्त्राः । वसिष्ठदृष्टा त्रिष्टुप् ऐन्द्रवायवपुरोरुक् । एषां यजमानानां स्वस्तये कल्याणाय बीरिठेऽन्तरिक्षे वर्तमानौ वायुः पूषा च आ इयाते आगच्छतः । ‘ई कान्त्यसनगतिव्याप्त्यादौ’ व्यत्ययेन तङ् । कीडशो वायुः । | नियुत्वान् नियुतो नियुत्संज्ञा अश्वाः सन्त्यस्य सः । ‘नियुतो वायोः’ इत्युक्तेः । कस्मिन् काले । अक्तोः रात्रेः उषसः दिनस्य । पूर्वहूतौ पूर्वा चासौ हूतिश्च पूर्वहूतिस्तस्याम् । प्रथमाह्वानकाले । अग्निहोत्रहोमकाले इत्यर्थः । उषसः पूर्वाह्वाने पूषा रविरायाति रात्रौ वायुः । वायुना वायुसखत्वादग्निर्लक्ष्यते रात्रिहोमस्याग्निदेवत्यत्वात् । तत्र दृष्टान्तः । काविव । विश्पतीव यथा विशां पती द्वौ राजानौ विशां बीरिटे मनुष्याणां गणे आगच्छतस्तद्वत् तावपि तेषां स्वस्तये इयाते। एषां केषाम् । येषां बर्हिः प्रवावृजे प्रवृज्यते प्रस्तीर्यते ‘वृजी वृतित्यागयोः’ लिट् अभ्यासदीर्घः संहितायाम् । कीदृशं बर्हिः । सुप्रयाः शोभनं प्रयः प्रगमनं प्रस्तरणं यस्य तत् सुप्रयः दीर्घश्छान्दसः । सम्यक् विधिना प्रस्तीर्णमित्यर्थः । बीरिटशब्दो गणवाचकः । | तथाच यास्कः ‘प्रवृज्यते सुप्रायणं बर्हिरेषामियाते सर्वस्य पातारौ वा पालयितारौ वा बीरिटमन्तरिक्षं भियो वा भासो वा ततिरिति गणाभिधानं वा स्यात् सोऽपि भीतनयो भासस्तनयश्च अन्तरिक्षे निरालम्बने भयं भासो नक्षत्राणां तननम् गणमपि दृष्ट्वा योद्धारो बिभ्यति भियो बी-आदेशे तनोतेः रिटः’ (निरु० ५ । २८) इति ॥४॥
पञ्चचत्वारिंशी।
अधिमन्त्रम् (VC)
- वायुर्देवता
- वसिष्ठ ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब वायु सूर्य्य कैसे हैं, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (पूर्वहूतौ) पूर्वजों ने प्रशंसा किये हुए (सुप्रयाः) सुन्दर प्रकार चलनेवाला (नियुत्वान्) शीघ्रकारी वेगादि गुणोंवाला (वायुः) पवन और (पूषा) सूर्य (एषाम्) इन मनुष्यों के (स्वस्तये) सुख के लिये (प्र, वावृजे) प्रकर्षता से चलता है (विशाम्) प्रजाओं के बीच (विश्पतीव) प्रजारक्षक दो राजाओं के तुल्य (बीरिटे) अन्तरिक्ष में (आ, इयाते) आते-जाते हैं, वैसे (अक्तोः) रात्रि और (उषसः) दिन के (बर्हिः) जल को प्राप्त होते हैं ॥४४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। हे मनुष्यो ! जो वायु (और सूर्य) न्यायकारी राजा के समान पालक हैं, वे ईश्वर के बनाये हैं, यह जानना चाहिये ॥४४ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ वायुसूर्य्यौ कीदृशावित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा पूर्वहूतौ सुप्रया नियुत्वान् वायुः पूषा चैषां स्वस्तये प्रवावृजे विशां विश्पतीव बीरिटे बर्हिरा इयाते तथाक्तोरुषसश्च बर्हिः प्राप्नुतः ॥४४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। हे मनुष्याः ! यौ वायुसूर्यौ न्यायकारी राजेव पालकौ स्तस्तावीश्वरनिर्मितौ वर्त्तेते इति बोध्यम् ॥४४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहेत. हे माणसांनो ! वायू व सूर्य न्यायी राजाप्रमाणे असून, सर्वांचे पालन करतात. ते ईश्वराने निर्माण केलेले असतात हे जाणा.
४५ इन्द्रवायू बृहस्पतिम्
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒न्द्र॒वा॒यू बृह॒स्पतिं॑ मि॒त्राग्निं पू॒षणं॒ भग॑म्। आ॒दि॒त्यान् मारु॑तं ग॒णम् ॥४५ ॥
मूलम् ...{Loading}...
इ॒न्द्र॒वा॒यू बृह॒स्पतिं॑ मि॒त्राग्निं पू॒षणं॒ भग॑म्। आ॒दि॒त्यान् मारु॑तं ग॒णम् ॥४५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इ॒न्द्र॒वा॒यूऽइती॑न्द्रवा॒यू। बृह॒स्पति॑म्। मि॒त्रा। अ॒ग्निम्। पू॒षण॑म्। भग॑म्। आ॒दि॒त्यान्। मारु॑तम्। ग॒णम्। ४५।
महीधरः
म० मेधातिथिदृष्टे द्वै गायत्र्यौ । आद्या ऐन्द्रवायवस्य पुनर्ग्रहणे द्वितीया मैत्रावरुणग्रहणे । इन्द्रवायू बृहस्पतिं मित्रा। विभक्तेराकारः । अग्निं पूषणं भगम् आदित्यान् मारुतं मरुत्संबन्धिनं गणं एतानाह्वयामि ॥ ४५ ॥
षट्चत्वारिंशी।
अधिमन्त्रम् (VC)
- इन्द्रवायू देवते
- मेधातिथिर्ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्य विद्युत् आदि पदार्थों को जान के क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे हम लोग (इन्द्रवायू) बिजुली पवन (बृहस्पतिम्) बड़े लोकों के रक्षक सूर्य्य (मित्रा) प्राण (अग्निम्) अग्नि (पूषणम्) पुष्टिकारक (भगम्) ऐश्वर्य (आदित्यान्) बारह महीनों और (मारुतम्) वायुसम्बन्धि (गणम्) समूह को जान के उपयोग में लावें, वैसे तुम लोग भी उसका प्रयोग करो ॥४५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को चाहिये कि सृष्टिस्थ विद्युत् आदि पदार्थों को जान और सम्यक् प्रयोग कर कार्य्यों को सिद्ध करें ॥४५ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्या विद्युदादिपदार्थान् विज्ञाय किं कुर्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा वयमिन्द्रवायू बृहस्पतिं मित्राग्निं पूषणं भगमादित्यान् मारुतं गणं विज्ञायोपयुञ्जीमहि तथा यूयमपि प्रयुङ्ग्ध्वम् ॥४५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैः सृष्टिस्थान् विद्युदादीन् पदार्थान् विज्ञाय संयुज्य कार्याणि साधनीयानि ॥४५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. माणसांनी सृष्टीतील विद्युत इत्यादी पदार्थांचे ज्ञान प्राप्त करावे व त्याचा उपयोग करून घ्यावा.
४६ वरुणः प्राविता
विश्वास-प्रस्तुतिः ...{Loading}...
वरु॑णः प्रावि॒ता भु॑वन्मि॒त्रो विश्वा॑भिरू॒तिभिः॑। कर॑तां नः सु॒राध॑सः ॥४६ ॥
मूलम् ...{Loading}...
वरु॑णः प्रावि॒ता भु॑वन्मि॒त्रो विश्वा॑भिरू॒तिभिः॑। कर॑तां नः सु॒राध॑सः ॥४६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वरु॑णः। प्रा॒वि॒तेति॑ प्रऽअ॒वि॒ता। भु॒व॒त्। मि॒त्रः। विश्वा॑भिः। ऊ॒तिभि॒रित्यू॒तिऽभिः॑। कर॑ताम्। नः॒। सु॒राध॑स॒ इति॑ सु॒ऽराध॑सः। ४६।
महीधरः
म० वरुणः मित्रश्च विश्वाभिः सर्वाभिः ऊतिभिः अवनैः रक्षणप्रकारैः प्राविता प्रकर्षेण रक्षको भुवत् भवतु । भवतेर्व्यत्ययेन तुदादित्वात् शप्रत्ययः ‘इतश्च लोपः’ (पा० ३ । ४ । ९७) इति तिप इलोपः धातोरुवङ् । किंच मित्रावरुणौ नोऽस्मान् सुराधसः शोभनधनान् करतां कुरुताम् । शोभनं राधो येषाम् ॥ ४६ ॥
सप्तचत्वारिंशी ।
अधिमन्त्रम् (VC)
- वरुणो देवता
- मेधातिथिर्ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर अध्यापक और उपदेशक कैसे हों, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे अध्यापक और उपदेशक विद्वान् लोगो ! जैसे (वरुणः) उदान वायु के तुल्य उत्तम विद्वान् और (मित्रः) प्राण के तुल्य प्रिय मित्र (विश्वाभिः) समग्र (ऊतिभिः) रक्षा आदि क्रियाओं से (प्राविता) रक्षक (भुवत्) होवे, वैसे आप दोनों (नः) हमको (सुराधसः) सुन्दर धन से युक्त (करताम्) कीजिये ॥४६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो अध्यापक और उपदेशक लोग प्राणों के तुल्य सबमें प्रीति रखनेवाले और उदान के समान शरीर और आत्मा के बल को देनेवाले हों, वे ही सबके रक्षक, सबको धनाढ्य करने को समर्थ होवें ॥४६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनरध्यापकोपदेशकौ कीदृशावित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अध्यापकोपदेशकौ विद्वांसौ ! यथा वरुणो मित्रश्च विश्वाभिरूतिभिः प्राविता भुवत् तथा भवन्तौ नः सुराधसः करताम् ॥४६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। येऽध्यापकोपदेशकाः प्राणवत्सर्वेषु प्रीता उदानवच्छरीरात्मबलप्रदाः स्युस्त एव सर्वेषां रक्षकाः सर्वानाढ्यान् कर्त्तुं शक्नुयुः ॥४६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जे अध्यापक उपदेशक प्राणवायूप्रमाणे सर्वांचे प्रिय मित्र असतात व उदानवायूप्रमाणे शरीर व आत्मा बलवान करतात तेच सर्वांचे रक्षक असतात व सर्वांना धनवान बनवू शकतात.
४७ अधि नऽ
विश्वास-प्रस्तुतिः ...{Loading}...
अधि॑ नऽ इन्द्रैषां॒ विष्णो॑ सजा॒त्या᳖नाम्। इ॒ता मरु॑तो॒ऽ अश्वि॑ना। तं प्र॒त्नथा॑। अ॒यं वे॒नः। ये दे॒वासः॑। आ न॒ऽइडा॑भिः। विश्वे॑भिः सो॒म्यं मधु॑। ओमा॑सश्चर्षणीधृतः ॥४७ ॥
मूलम् ...{Loading}...
अधि॑ नऽ इन्द्रैषां॒ विष्णो॑ सजा॒त्या᳖नाम्। इ॒ता मरु॑तो॒ऽ अश्वि॑ना। तं प्र॒त्नथा॑। अ॒यं वे॒नः। ये दे॒वासः॑। आ न॒ऽइडा॑भिः। विश्वे॑भिः सो॒म्यं मधु॑। ओमा॑सश्चर्षणीधृतः ॥४७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अधि। नः॒। इ॒न्द्र॒। ए॒षा॒म्। विष्णो॒ऽइति॒ विष्णो॑। स॒जा॒त्या᳖ना॒मिति॑ सऽजा॒त्या᳖नाम्। इ॒त। मरु॑तः। अश्वि॑ना। ४७।
महीधरः
म० कुसीदिदृष्टा गायत्र्याश्विनपुरोरुक् । हे इन्द्र, हे विष्णो, हे मरुतः, हे अश्विना अश्विनौ, नोऽस्माकमेषां सजात्यानां समानजातीयानामधि सजात्यमध्ये यूयमित आगच्छत । अत्र प्रतीकोक्ताः तं प्रत्नथा ( ७ । १२ ) शुक्रग्रहे अयं वेनः (७।१६) मन्थिग्रहे ये देवासः ( ७ । १९) आग्रयणस्य आ न इडाभिः ( ३३ । ३४ ) ध्रुवस्य विश्वेभिः सोम्यं मधु ( ३३ । १० ) ऐन्द्राग्नस्य ओमासश्चर्षणीधृतः (७ । ३३) वैश्वदेवस्य ग्रहणे ॥४७॥
अष्टचत्वारिंशी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- कुत्सीदिर्ऋषिः
- स्वराडार्षी गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) परमैश्वर्यदातः विद्वन् ! हे (विष्णो) व्यापक ईश्वर ! हे (मरुतः) मनुष्यो ! तथा हे (अश्विना) अध्यापक, उपदेशक लोगो ! तुम सब (सजात्यानाम्) हमारे सहयोगी (एषाम्) इन (नः) हमारे बीच (अधि) स्वामीपन को (इत) प्राप्त होओ ॥४७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो विद्वान् ईश्वर के समान पक्षपात छोड़ समदृष्टि से हमारे विषय में वर्त्तें, उनके विषय में हम भी वैसे ही वर्त्ता करें ॥४७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैः किं कर्त्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे इन्द्र ! हे विष्णो ! हे मरुतः ! हे अश्विना ! यूयं सजात्यानामेषां नो मध्येऽधिस्वामित्वमित ॥४७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये विद्वांस ईश्वरवदस्मासु वर्तेरंस्तेषु वयं तथैव वर्तेमहि ॥४७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जे विद्वान भेदभाव न करता ईश्वराप्रमाणे सर्वांशी समदृष्टीने वागतात, तसेच आपण सर्वांनीही त्याच्याशी तसे वागावे.
४८ अग्नऽइन्द्र वरुण
विश्वास-प्रस्तुतिः ...{Loading}...
अग्न॒ऽइन्द्र॒ वरु॑ण॒ मित्र॒ देवाः॒ शर्द्धः॒ प्र य॑न्त॒ मारु॑तो॒त वि॑ष्णो। उ॒भा नास॑त्या रु॒द्रोऽअ॑ध॒ ग्नाः पू॒षा भगः॒ सर॑स्वती जुषन्त ॥४८ ॥
मूलम् ...{Loading}...
अग्न॒ऽइन्द्र॒ वरु॑ण॒ मित्र॒ देवाः॒ शर्द्धः॒ प्र य॑न्त॒ मारु॑तो॒त वि॑ष्णो। उ॒भा नास॑त्या रु॒द्रोऽअ॑ध॒ ग्नाः पू॒षा भगः॒ सर॑स्वती जुषन्त ॥४८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अग्ने॑। इन्द्र॑। वरु॑ण। मित्र॑। देवाः॑। शर्द्धः॑। प्र। य॒न्त॒। मारु॑त। उ॒त। वि॒ष्णो॒ऽइति॑ विष्णो। उ॒भा। नास॑त्या। रु॒द्रः। अध॑। ग्नाः। पू॒षा। भगः॑। सर॑स्वती। जु॒ष॒न्त॒। ४८।
महीधरः
म० प्रतिक्षत्रदृष्टा त्रिष्टुप् मरुत्वतीयपुरोरुक् । हे अग्ने, हे इन्द्र, हे वरुण, हे मित्र, हे देवाः, हे मारुत मरुद्गण, उतापि हे विष्णो, यूयं शर्धः बलं प्रयन्त प्रयच्छत दत्त । यमेः शपो लुक् । एवं प्रत्यक्षमुक्त्वा परोक्षमाह । उभा नासत्या उभौ नासत्यावश्विनौ रुद्रः अध अथ ग्नाः देवपत्न्यः पूषा भगः सरस्वती च जुषन्त जुषन्तां सेवन्तां हवींषि ॥४८॥
एकोनपञ्चाशी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- प्रतिक्षत्र ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्याप्रकाशक (इन्द्र) महान् ऐश्वर्यवाले (वरुण) अति श्रेष्ठ (मित्र) मित्र (मारुत) मनुष्यों में वर्त्तमान जन (उत) और (विष्णो) व्यापनशील (देवाः) विद्वान् तुम लोगो ! हमारे लिये (शर्द्धः) शरीर और आत्मा के बल को (प्र, यन्त) देओ (उभा) दोनों (नासत्या) सत्यस्वरूप अध्यापक और उपदेशक (रुद्रः) दुष्टों को रुलानेहारा (ग्नाः) अच्छी शिक्षित वाणी (पूषा) पोषक (भगः) ऐश्वर्यवान् (अध) और इसके अनन्तर (सरस्वती) प्रशस्त ज्ञानवाली स्त्री, ये सब हमारा (जुषन्त) सेवन करें ॥४८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि विद्वानों के सेवन से विद्या और उत्तम शिक्षा को ग्रहण कर दूसरों को भी विद्वान् करें ॥४८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने इन्द्र वरुण मित्र मारुतोत विष्णो ! देवा यूयमस्मभ्यं शर्द्धः प्रयन्त। उभा नासत्या रुद्रो ग्नाः पूषा भगोऽध सरस्वती चाऽस्माञ्जुषन्त ॥४८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्विदुषां सेवनेन विद्यासुशिक्षे गृहीत्वाऽन्येऽपि विद्वांसः कार्य्याः ॥४८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी विद्वानांच्या संगतीने विद्या व उत्तम शिक्षण घ्यावे आणि इतरांनाही विद्वान करावे.
४९ इन्द्राग्नी मित्रावरुणादितिम्
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒न्द्रा॒ग्नी मि॒त्रावरु॒णादि॑तिँ॒ स्वः᳖ पृथि॒वीं द्यां म॒रुतः॒ पर्व॑ताँ२ऽअ॒पः। हु॒वे विष्णुं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॒ भगं॒ नु शँसँ॑ सवि॒तार॑मू॒तये॑ ॥४९ ॥
मूलम् ...{Loading}...
इ॒न्द्रा॒ग्नी मि॒त्रावरु॒णादि॑तिँ॒ स्वः᳖ पृथि॒वीं द्यां म॒रुतः॒ पर्व॑ताँ२ऽअ॒पः। हु॒वे विष्णुं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॒ भगं॒ नु शँसँ॑ सवि॒तार॑मू॒तये॑ ॥४९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इ॒न्द्रा॒ग्रीऽइती॑न्द्रा॒ग्नी। मि॒त्रावरु॑णा। अदि॑तिम्। स्व᳖रिति॒ स्वः᳖। पृ॒थि॒वीम्। द्याम्। म॒रुतः॑। पर्व॑तान्। अ॒पः। हु॒वे। विष्णु॑म्। पू॒षण॑म्। ब्रह्म॑णः। पति॑म्। भग॑म्। नु। शँस॑म्। स॒वि॒तार॑म्। ऊ॒तये॑। ४९।
महीधरः
म० वत्सारदृष्टा जगती सशस्त्रमरुत्वतीयपुरोरुक् । इन्द्राग्नी मित्रावरुणौ अदितिम् स्वः आदित्यम् पृथिवीम् द्यां द्युलोकम् मरुतः पर्वतान् अपः विष्णुम् पूषणं ब्रह्मणस्पतिम् भगम् शंसं स्तुत्यं सवितारम् एतान् नु क्षिप्रमूतयेऽवनायाहं हुवे आह्वयामि ॥ ४९॥
पञ्चाशी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- वत्सार ऋषिः
- निचृज्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
अध्यापक और अध्येता लोग क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे मैं (ऊतये) रक्षा आदि के लिये (इन्द्राग्नी) संयुक्त बिजुली और अग्नि (मित्रावरुणा) मिले हुए प्राण उदान (अदितिम्) अन्तरिक्ष (पृथिवीम्) भूमि (द्याम्) सूर्य (मरुतः) विचारशील मनुष्यों (पर्वतान्) मेघों वा पहाड़ों (अपः) जलों (विष्णुम्) व्यापक ईश्वर (पूषणम्) पुष्टिकर्त्ता (ब्रह्मणस्पतिम्) ब्रह्माण्ड वा वेद के पालक ईश्वर (भगम्) ऐश्वर्य (शंसम्) प्रशंसा के योग्य (सवितारम्) ऐश्वर्यकारक राजा और (स्वः) सुख की (नु) शीघ्र (हुवे) स्तुति करूँ, वैसे उनकी तुम भी प्रशंसा करो ॥४९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। अध्यापक और अध्येता को चाहिये कि प्रकृति से लेकर पृथिवी पर्य्यन्त पदार्थों को रक्षा आदि के लिये जानें ॥४९ ॥
दयानन्द-सरस्वती (सं) - विषयः
अध्यापकाऽध्येतारः किं कुर्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथाहमूतय इन्द्राग्नी मित्रावरुणादितिं पृथिवीं द्यां मरुतः पर्वतानपो विष्णुं पूषणं ब्रह्मणस्पतिं भगं शंसं सवितारं स्वर्नु हुवे तथैतान् यूयमपि प्रशंसत ॥४९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। अध्यापकाऽध्येतृभिः प्रकृतिमारभ्य भूमिपर्यन्ताः पदार्था रक्षणाद्याय विज्ञेयाः ॥४९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. अध्यापक व शिष्य यांनी प्रकृतीपासून ते पृथ्वीपर्यंतच्या (सृष्टीतील पदार्थ) पदार्थांचे रक्षण करण्याबद्दलचे ज्ञान प्राप्त करावे.
५० अस्मे रुद्रा
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषाः॑। यः शँस॑ते स्तुव॒ते धायि॑ प॒ज्रऽइन्द्र॑ज्येष्ठाऽअ॒स्माँ२ऽअ॑वन्तु दे॒वाः ॥५० ॥
मूलम् ...{Loading}...
अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषाः॑। यः शँस॑ते स्तुव॒ते धायि॑ प॒ज्रऽइन्द्र॑ज्येष्ठाऽअ॒स्माँ२ऽअ॑वन्तु दे॒वाः ॥५० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒स्मेऽइत्य॒स्मे। रु॒द्राः। मे॒हना॑। पर्व॑तासः। वृ॒त्र॒हत्य॒ इति॑ वृत्र॒ऽहत्ये॑। भर॑हूता॒विति॒ भर॑ऽहूतौ। स॒जोषा॒ इति॑ स॒ऽजोषाः॑। यः। शँस॑ते। स्तु॒व॒ते। धायि॑। प॒ज्रः। इन्द्र॑ज्येष्ठा॒ इतीन्द्र॑ऽज्येष्ठाः। अ॒स्मान्। अ॒व॒न्तु॒। दे॒वाः। ५०।
महीधरः
म० पञ्च त्रिष्टुभः आद्या प्रगाथदृष्टा माहेन्द्रपुरोरुक् । यो नरः शंसते शस्त्राणि शंसति स्तुवते स्तौति स्तोत्राणि प्रकर्षेण जपति पज्रः प्रार्जितधनः सन् धायि दधाति हवींषि । तान् अस्मांश्च यजमानान् देवा अवन्तु पान्तु । पज्रः पृषोदरादिः । कीदृशा देवाः । अस्मे अस्मासु मेहना। शस आकारः। मेहन्ति सिञ्चन्ति मेहनाः धनादिसेक्तारः । रोदयन्ति शत्रूनिति रुद्राः । पर्वतासः पर्वाणि उत्सवा विद्यन्ते येषां ते पर्वताः उत्सववन्तः ‘तप्पर्वमरुद्भ्यां’ (पा० ५।२।१२२) इति तत्प्रत्ययः । वृत्रहत्ये वृत्रासुरवधाय । भरहूतौ भरे संग्रामे हूतिराह्वानं तत्र सजोषाः समानो जोषः प्रीतिर्येषां ते । एकमतय इत्यर्थः । इन्द्रज्येष्ठाः इन्द्रो ज्येष्ठो येषां ते । ईदृशा देवा नोऽवन्तु ॥ ५० ॥
एकपञ्चाशी।
अधिमन्त्रम् (VC)
- महेन्द्रो देवता
- प्रगाथ ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब राजपुरुष कैसे हों, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (यः) जो (पज्रः) संचित धनवाला जन जिनकी (शंसते) प्रशंसा और (स्तुवते) स्तुति करता और जिसने धन को (धायि) धारण किया है, उस और (अस्मान्) हमारी जो (अस्मे) हमारे बीच में (मेहना) धनादि को छोड़ने (रुद्राः) शत्रुओं को रुलाने और (पर्वतासः) उत्सवोंवाले (वृत्रहत्ये) दुष्ट को मारने के लिये (भरहूतौ) संग्राम में बुलाने के विषय में (सजोषा) एकसी प्रीतिवाले (इन्द्रज्येष्ठाः) सभापति राजा जिनमें बड़ा है, ऐसे (देवाः) विद्वान् लोग (अवन्तु) रक्षा करें, वे तुम्हारी भी रक्षा करें ॥५० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो राजपुरुष पदार्थों की स्तुति करनेवाले, श्रेष्ठों के रक्षक, दुष्टों के ताड़क, युद्ध में प्रीति रखनेवाले, मेघ के तुल्य पालक, प्रशंसा के योग्य हैं, वे सबको सेवन योग्य होते हैं ॥५० ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ राजपुरुषाः कीदृशाः स्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यः पज्रः याञ्छंसते स्तुवते येन च धनं धायि तमस्माँश्च येऽस्मे मेहना रुद्राः पर्वतासो वृत्रहत्ये भरहूतौ सजोषा इन्द्रज्येष्ठा देवा अवन्तु। ते युष्मानप्यवन्तु ॥५० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये राजजनाः पदार्थस्तावकाः श्रेष्ठरक्षका दुष्टताडकाः सङ्ग्रामीया मेघवत्पालकाः प्रशंसनीयाः सन्ति ते सर्वैः सेवनीयाः ॥५० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे राजपुरुष विद्वानांचे श्रेष्ठ रक्षक - दुष्टांचे निर्दालक, युद्धाची आवड असणारे, मेघासारखे पालन करणारे व प्रशंसा करण्यायोग्य आहेत त्यांचा सर्वांनी अंगीकार करावा.
५१ अर्वाञ्चोऽअद्या भवता
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒र्वाञ्चो॑ऽअ॒द्या भ॑वता यजत्रा॒ऽआ वो॒ हार्दि॒ भय॑मानो व्ययेयम्। त्राध्वं॑ नो देवा नि॒जुरो॒ वृक॑स्य॒ त्राध्वं॑ क॒र्त्ताद॑व॒पदो॑ यजत्राः ॥५१ ॥
मूलम् ...{Loading}...
अ॒र्वाञ्चो॑ऽअ॒द्या भ॑वता यजत्रा॒ऽआ वो॒ हार्दि॒ भय॑मानो व्ययेयम्। त्राध्वं॑ नो देवा नि॒जुरो॒ वृक॑स्य॒ त्राध्वं॑ क॒र्त्ताद॑व॒पदो॑ यजत्राः ॥५१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒र्वाञ्चः॑। अ॒द्य। भ॒व॒त॒। य॒ज॒त्राः॒। आ। वः॒। हार्दि। भय॑मानः। व्य॒ये॒य॒म्। त्राध्व॑म्। नः॒। दे॒वाः॒। नि॒जुर॒ऽइति॑ नि॒जुरः॑। वृक॑स्य। त्राध्व॑म्। क॒र्त्तात्। अ॒व॒पद॒ इत्य॑व॒ऽपदः॑। य॒ज॒त्राः॒। ५१।
महीधरः
म०. कूर्मदृष्टादित्यस्य प्रथमा पुरोरुक् । यजन्तं त्रायन्ते यजत्राः यष्टव्या वा हे यजत्राः देवाः, अद्य यूयमर्वाञ्चः अस्मदभिमुखाः भवत । दीर्घौ संहितायाम् । यतो भयमानः बिभ्यत् अहं वो युष्माकं हार्दि हृदि भवं मनः आव्ययेयं आगमयेयम् । अभिमुखं संपादयेयमित्यर्थः । ‘व्यय गतौ’ णिजन्तः । भिञो व्यत्ययेन शपि भयमानः । किंच हे यजत्राः देवाः, नोऽस्मान् वृकस्य वृकात् त्राध्वम् पालयत । कर्तात् कूपाच्च त्राध्वम् । कीदृशाद् वृकात् । निजुरः ‘जूरी वधे’ नितरां जूर्यते हिनस्ति निजूः । क्विप् तस्मान्निजुरः हिंसकात् । कीदृशात् कर्तात् । अवपदः अवाचीनाः पादन्यासा यत्र सः अवपात् तस्मादवपदः सोपानैर्यत्रोत्तरीतुं न शक्यत इत्यर्थः ॥५१॥
द्विपञ्चाशी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- कूर्म ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (यजत्राः) सङ्गति करनेहारे (देवाः) विद्वानो ! तुम लोग (अद्य) आज (अर्वाञ्चः) हमारे सम्मुख (भवत) हूजिये अर्थात् हमसे विरुद्ध विमुख मत रहिये (भयमानः) डरता हुआ मैं (वः) तुम्हारे (हार्दि) मनोगत को (आ, व्ययेयम्) अच्छे प्रकार होऊँ (नः) हमको (निजुरः) हिंसक (वृकस्य) चोर वा व्याघ्र के सम्बन्ध से (त्राध्वम्) बचाओ। हे (यजत्राः) विद्वानों का सत्कार करनेवाले लोगो ! तुम (अवपदः) जिसमें गिर पड़ते उस (कर्त्तात्) कूप वा गढ़े से हमारी (त्राध्वम्) रक्षा करो ॥५१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - प्रजापुरुषों को राजपुरुषों से ऐसे प्रार्थना करनी चाहिये कि हे पूज्य राजपुरुष विद्वानो ! तुम सदैव हमारे अविरोधी कपटादिरहित और भय के निवारक होओ। चोर, व्याघ्रादि और मार्ग शोधने से गढ़े आदि से हमारी रक्षा करो ॥५१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे यजत्रा देवा ! यूयमद्यार्वाञ्चो भवत भयमानोऽहं वो हार्दि आव्ययेयं नो निजुरो वृकस्य सकाशात् त्राध्वम्। हे यजत्राः ! यूयमवपदः कर्त्तादस्मान् त्राध्वम् ॥५१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - प्रजापुरुषै राजजना एवं प्रार्थनीयाः। हे पूज्या राजपुरुषा विद्वांसो ! यूयं सदैवास्मदविरोधिनः कपटादिरहिता भयनिवारका भवत। चोरव्याघ्रादिभ्यो मार्गादिशोधनेन गर्त्तादिभ्यश्चास्मान् रक्षत ॥५१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - प्रजेने राजाला अशी प्रार्थना केली पाहिजे की, हे पूज्य विद्वान राजपुरुषांनो ! तुम्ही आम्हाला विरोध करू नका, कपटीपणा करू नका व भय नाहीसे करा. चोर, वाघ मार्ग आक्रमित असता खड्डे इत्यादींपासून आमचे रक्षण करा.
५२ विश्वेऽअद्य मरुतो
विश्वास-प्रस्तुतिः ...{Loading}...
विश्वे॑ऽअ॒द्य म॒रुतो॒ विश्व॑ऽऊ॒ती विश्वे॑ भवन्त्व॒ग्नयः॒ समि॑द्धाः। विश्वे॑ नो दे॒वाऽअव॒सा ग॑मन्तु॒ विश्व॑मस्तु॒ द्रवि॑णं॒ वाजो॑ऽअ॒स्मै ॥५२ ॥
मूलम् ...{Loading}...
विश्वे॑ऽअ॒द्य म॒रुतो॒ विश्व॑ऽऊ॒ती विश्वे॑ भवन्त्व॒ग्नयः॒ समि॑द्धाः। विश्वे॑ नो दे॒वाऽअव॒सा ग॑मन्तु॒ विश्व॑मस्तु॒ द्रवि॑णं॒ वाजो॑ऽअ॒स्मै ॥५२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
विश्वे॑। अ॒द्य। म॒रुतः॑। विश्वे॑। ऊ॒ती। विश्वे॑। भ॒व॒न्तु॒। अ॒ग्नयः॑। समि॑द्धा॒ इति॒ सम्ऽइ॑द्धाः। विश्वे॑। नः॒॑। दे॒वाः। अव॑सा। आ। ग॒म॒न्तु॒। विश्व॑म्। अ॒स्तु॒। द्रवि॑णम्। वाजः॑। अ॒स्माऽइत्य॒स्मै। ५२।
महीधरः
म० विश्वे अद्य लुशदृष्टादित्यपुनर्ग्रहणे । व्याख्याता ( १८। ३१) ॥ ५२ ॥
त्रिपञ्चाशी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- लुश ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजा आदि मनुष्यो ! (अद्य) आज जैसे (विश्वे) सब आप लोग (विश्वे) सब (मरुतः) मरणधर्मा मनुष्य और (विश्वे) सब (समिद्धाः) प्रदीप्त (अग्नयः) अग्नि (ऊती) रक्षण क्रिया से (नः) हमारे रक्षक (भवन्तु) होवें (विश्वे) सब (देवाः) विद्वान् लोग (अवसा) रक्षा आदि के साथ (नः) हमको (आ, गमन्तु) प्राप्त हों, वैसे (विश्वम्) सब (द्रविणम्) धन और (वाजः) अन्न (अस्मै) इस मनुष्य के लिये (अस्तु) प्राप्त होवे ॥५२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को चाहिये कि जैसा सुख अपने लिये चाहें, वैसा ही औरों के लिये भी। इस जगत् में जो विद्वान् हों, वे आप अधर्माचरण से पृथक हो के औरों को भी वैसे करें ॥५२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे राजादयो मनुष्या ! अद्य यथा विश्वे भवन्तो विश्वे मरुतो विश्वे समिद्धा अग्नय ऊती रक्षका नो भवन्तु, विश्वे देवा अवसा सह नोऽस्मानागमन्तु, तथा विश्वं द्रविणं वाजश्चास्मा अस्तु ॥५२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैर्यादृशं सुखं स्वार्थमेष्टव्यं तादृशमन्यार्थं चात्र ये विद्वांसो भवेयुस्ते स्वयमधर्माचरणात् पृथग् भूत्वाऽन्यानपि तादृशान् कुर्युः ॥५२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. माणसे आपल्यासाठी जशी सुखाची इच्छा करतात तशीच इतरांसाठीही करावी. जे लोक विद्वान आहेत त्यांनी स्वतः अधर्माचरणापासून दूर राहावे व इतरांनाही तसे वागण्यास प्रवृत्त करावे.
५३ विश्वे देवाः
विश्वास-प्रस्तुतिः ...{Loading}...
विश्वे॑ देवाः शृणु॒तेमँ॒ हवं॑ मे॒ येऽअ॒न्तरि॑क्षे॒ यऽउप॒ द्यवि॒ ष्ठ। येऽअ॑ग्निजि॒ह्वाऽउ॒त वा॒ यज॑त्राऽआ॒सद्या॒स्मिन् ब॒र्हिषि॑ मादयध्वम् ॥५३ ॥
मूलम् ...{Loading}...
विश्वे॑ देवाः शृणु॒तेमँ॒ हवं॑ मे॒ येऽअ॒न्तरि॑क्षे॒ यऽउप॒ द्यवि॒ ष्ठ। येऽअ॑ग्निजि॒ह्वाऽउ॒त वा॒ यज॑त्राऽआ॒सद्या॒स्मिन् ब॒र्हिषि॑ मादयध्वम् ॥५३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
विश्वे॑। दे॒वाः॒। शृ॒णु॒त॒। इम॑म्। हव॑म्। मे॒। ये। अ॒न्तरि॑क्षे। ये। उप॑। द्यवि॑। स्थ। ये। अ॒ग्नि॒जि॒ह्वा इत्य॑ग्निऽजि॒ह्वाः। उ॒त। वा। यज॑त्राः। आ॒स॒द्येत्या॑ऽस॒द्य। अ॒स्मिन्। ब॒र्हिषि॑। मा॒द॒य॒ध्व॒म्। ५३।
महीधरः
म०. सुहोत्रदृष्टादित्यग्रहस्य दध्ना श्रयणे विनियुक्ता । हे विश्वेदेवाः, ये यूयमन्तरिक्षे स्थ भवथ । ये च द्यवि उप स्वर्गसमीपे स्थ । ये चाग्निजिह्वाः वह्निमुखाः । उत वा अपिच यजत्राः यजनीयाः ते सर्वे यूयमिमं मे मत्कृतं हवमाह्वानं शृणुत । श्रुत्वा चास्मिन्बर्हिषि आसद्योपविश्य मादयध्वं तृप्यध्वम् ॥५३॥
चतुःपञ्चाशी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- सुहोत्र ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (विश्वे) सब (देवाः) विद्वान् लोगो ! तुम (ये) जो (अन्तरिक्षे) आकाश में (ये) जो (द्यवि) प्रकाश में (ये) जो (अग्निजिह्वाः) जिह्वा के तुल्य जिनके अग्नि हैं, वे (उत) और (वा) अथवा (यजत्राः) सङ्गति करनेवाले पूजनीय पदार्थ हैं, उनके जाननेवाले (स्थ) हूजिये (मे) मेरे (इमम्) इस (हवम्) पढ़ने-पढ़ाने रूप व्यवहार को (उप, शृणुत) निकट से सुनो (अस्मिन्) इस (बर्हिषि) सभा वा आसन पर (आसद्य) बैठ कर (मादयध्वम्) आनन्दित होओ ॥५३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! तुम जितने भूमि, अन्तरिक्ष और प्रकाश में पदार्थ हैं, उनको जान विद्वानों की सभा कर विद्यार्थियों की परीक्षा कर विद्या सुशिक्षा को बढ़ा और आप आनन्दित होके दूसरों को निरन्तर आनन्दित करो ॥५३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैः किं कर्त्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विश्वे देवा ! यूयं येऽन्तरिक्षे ये द्यविष्ठ येऽग्निजिह्वा उत वा यजत्राः पदार्थाः सन्ति, तेषां वेदितारः स्थ, म इमं हवमुपशृणुत। अस्मिन् बर्हिष्यासद्य मादयध्वम् ॥५३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यूयं यावन्तो भूमावन्तरिक्षे प्रकाशे च पदार्थाः सन्ति, तान् बुद्ध्वा विदुषां सभां विधाय विद्यार्थिनां परीक्षा कृत्वा विद्यासुशिक्षे वर्द्धयित्वा स्वयमानन्दिता भूत्वाऽन्यान् सततमानन्दयत ॥५३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! भूमी, अंतरिक्ष व प्रकाशामध्ये जेवढे पदार्थ आहेत त्यांना जाणा व विद्वानांच्या सभेत विद्यार्थ्यांची परीक्षा करा. विद्या व चांगले शिक्षण वाढवा. स्वतः आनंदी राहा व इतरांना आनंदी करा.
५४ देवेभ्यो हि
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वेभ्यो॒ हि प्र॑थ॒मं य॒ज्ञिये॑भ्योऽमृत॒त्वँ सु॒वसि॑ भा॒गमु॑त्त॒मम्। आदिद् दा॒मानँ॑ सवित॒र्व्यूर्णुषेऽनूची॒ना जी॑वि॒ता मानु॑षेभ्यः ॥५४ ॥
मूलम् ...{Loading}...
दे॒वेभ्यो॒ हि प्र॑थ॒मं य॒ज्ञिये॑भ्योऽमृत॒त्वँ सु॒वसि॑ भा॒गमु॑त्त॒मम्। आदिद् दा॒मानँ॑ सवित॒र्व्यूर्णुषेऽनूची॒ना जी॑वि॒ता मानु॑षेभ्यः ॥५४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दे॒वेभ्यः॑। हि। प्र॒थ॒मम्। य॒ज्ञिये॑भ्यः। अ॒मृ॒त॒त्वमित्य॑मृत॒ऽत्वम्। सु॒वसि॑। भा॒गम्। उ॒त्त॒ममित्यु॑त्ऽत॒मम्। आत्। इत्। दा॒मान॑म्। स॒वि॒तः॒। वि। ऊ॒र्णु॒षे॒। अ॒नू॒ची॒ना। जी॒वि॒ता। मानु॑षेभ्यः। ५४।
महीधरः
म० वामदेवदृष्टा जगती सावित्रग्रहस्य पुरोरुक् । हे सवितः, हि निश्चितं प्रथममुदयसमये यज्ञियेभ्यः यज्ञार्हेभ्यो देवेभ्यः त्वमुत्तमं भागमग्निहोमरूपं सुवसि प्रेरयसि ‘षू प्रेरणे’ | तुदादिः अभ्यनुजानासीत्यर्थः । कीदृशं भागम् । अमृतत्वममृतप्रदमित्यर्थः । कार्यकारणयोरभेदेन निर्देशः । आत् इत् अनन्तरमेव उदयानन्तरम् दामानम् ददाति प्रकाशमिति दामा रश्मिसमूहः तं । व्यूर्णुषे विवृणोषि विस्तारयसि । ततो मानुषेभ्यः जीविता जीवितानि जीवनहेतूनि कर्माणि व्यूर्णुषे । सूर्योदयानन्तरमेव प्राणिनां कर्मसु प्रवृत्तेः । कीदृशानि जीवितानि । अनूचीना अनूचीनानि अन्वञ्चन्ति तान्यनूचीनानि रश्मिसमूहानुगतानि तमसि तदभावात् । लौकिकवैदिकव्यवहारप्रवर्तयिता त्वमेवेत्यर्थः ॥ ५४ ॥
इति वैश्वदेवस्तुच्चतुर्थमहः समाप्तोऽयं सर्वमेधः ॥
पञ्चपञ्चाशी ।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- वामदेव ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सवितः) समस्त जगत् के उत्पादक जगदीश्वर ! (हि) जिससे आप (यज्ञियेभ्यः) यज्ञसिद्धि करनेहारे (देवेभ्यः) विद्वानों के लिये (उत्तमम्) श्रेष्ठ (प्रथमम्) मुख्य (अमृतत्वम्) मोक्षभाव (भागम्) सेवने योग्य सुख को (सुवसि) प्रेरित करते हो (आत्, इत्) इसके अनन्तर ही (दामानम्) सुख देनेवाले प्रकाश और (अनूचीना) जानने के साधन (जीविता) जीवन के हेतु कर्मों को (मानुषेभ्यः) मनुष्यों के लिये (वि, ऊर्णुषे) विस्तृत करते हो, इसलिये उपासना के योग्य हो ॥५४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! परमेश्वर ही के योग और विद्वानों के सङ्ग से सर्वोत्तम सुखवाले मोक्ष को प्राप्त होओ ॥५४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सवितर्जगदीश्वर ! हि यज्ञियेभ्यो देवेभ्य उत्तमं प्रथमममृतत्वं भागं सुवसि मानुषेभ्यो आदिद्दामानमनूचीना जीविता च व्यूर्णुषे तस्मादस्माभिरुपासनीयोऽसि ॥५४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! परमेश्वरस्यैव योगेन विद्वत्सङ्गेन च सर्वोत्तमसुखं मोक्षं प्राप्नुत ॥५४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! परमेश्वराच्या साह्याने व विद्वानांच्या संगतीने सर्वोत्तम सुख देणारा मोक्ष प्राप्त करा.
५५ प्र वायुमच्छा
विश्वास-प्रस्तुतिः ...{Loading}...
प्र वा॒युमच्छा॑ बृह॒ती म॑नी॒षा बृ॒हद्र॑यिं॒ वि॒श्ववा॑रँ रथ॒प्राम्। द्यु॒तद्या॑मा नि॒युतः॒ पत्य॑मानः क॒विः क॒विमि॑यक्षसि प्रयज्यो ॥५५ ॥
मूलम् ...{Loading}...
प्र वा॒युमच्छा॑ बृह॒ती म॑नी॒षा बृ॒हद्र॑यिं॒ वि॒श्ववा॑रँ रथ॒प्राम्। द्यु॒तद्या॑मा नि॒युतः॒ पत्य॑मानः क॒विः क॒विमि॑यक्षसि प्रयज्यो ॥५५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्र। वा॒युम्। अच्छ॑। बृ॒ह॒ती। म॒नी॒षा। बृ॒हद्र॑यि॒मिति॑ बृ॒हत्ऽर॑यिम्। वि॒श्ववा॑र॒मिति॑ वि॒श्वऽवा॑रम्। र॒थ॒प्रामिति॑ रथ॒ऽप्राम्। द्यु॒तद्या॒मेति॑ द्यु॒तत्ऽया॑मा। नि॒युत॒ इति॑ नि॒ऽयुतः॑। पत्य॑मानः। क॒विः। क॒विम्। इ॒य॒क्ष॒सि॒। प्र॒य॒ज्यो॒ इति॑ प्रऽयज्यो। ५५।
महीधरः
म० अथ पञ्चदशपञ्चदशत्रयोदशर्चास्त्रयोऽनुवाकाः पुरोरुचोऽनारभ्याधीताः श्रौतकर्मण्यविनियुक्ताः ब्रह्मयज्ञार्हा आदित्ययाज्ञवल्क्यदृष्टाः पितृमेधपर्यन्तम् । ऋजिश्वदृष्टा त्रिष्टुप् वायुदेवत्या । प्रकर्षेण यजति प्रयज्युः हे प्रयज्यो अध्वर्यो, बृहती मनीषा महत्या बुद्ध्या कृत्वा अच्छ आभिमुख्येन त्वं वायुं प्र इयक्षसि प्रकर्षेण यष्टुमिच्छसि । कीदृशः त्वम् । कविः ज्ञानी । कीदृशं वायुम् । बृहद्रयिम् बृहन् रयिर्यस्य तं महाधनम् । विश्ववारम् विश्वेन व्रियते तम् सर्वस्य वरणीयम् विश्वं वृणोतीति वा सर्वव्यापकम् । रथप्राम् रथं प्राति पूरयति रथप्राः तम् । यजमानाय दातुं धनैः रथं पूरयति । द्युतद्यामा व्यत्ययः द्युतद्यामानम् द्युतत् दीप्यमानं याम यमनं नियमनं यस्य तम् । नियुतः पत्यमानः । उभयत्र विभकिव्यत्ययः । नियुद्भिरश्वैः पत्यमानं गच्छन्तम् । कविं क्रान्तदर्शनम् । ईदृशं वायुं यजेत्यर्थः ॥ ५५ ॥
द्विदेवत्यग्रह१ -ऐन्द्रवायवग्रह। टिप्पणी
ऐन्द्रवायव - मैत्रावरुणग्रहौ। टिप्पणी
ऐन्द्रवायव-मैत्रावरुण-आश्विन् ग्रहाः
षट्पञ्चाशी।
अधिमन्त्रम् (VC)
- वायुर्देवता
- याज्ञवल्क्य ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (प्रयज्यो) अच्छे प्रकार यज्ञ करनेहारे विद्वन् ! (नियुतः) निश्चयात्मक पुरुषों को (पत्यमानः) प्राप्त होते हुए (कविः) बुद्धिमान् विद्वान् आप जो तुम्हारी (बृहती) बड़ी तेज (मनीषा) बुद्धि है, उससे (बृहद्रयिम्) बहुत धनों के निमित्त (विश्ववारम्) सबको ग्रहण करनेहारे (रथप्राम्) विमानादि यानों को व्याप्त होनेवाले (द्युतद्यामा) अग्नि को प्रदीप्त करनेवाले (वायुम्) प्राणादिस्वरूप वायु और (कविम्) बुद्धिमान् जन का (अच्छ, प्र, इयक्षसि) अच्छे प्रकार सङ्ग करना चाहते हो, इससे सबके सत्कार के योग्य हो ॥५५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो विद्वान् को प्राप्त हो पूर्ण विद्या, बुद्धि और समग्र धन को प्राप्त होवें, वे सत्कार के योग्य हों ॥५५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे प्रयज्यो विद्वन् ! नियुतः पत्यमानः कविः संस्त्वं या ते बृहती मनीषा तया बृहद्रयिं विश्ववारं रथप्रां द्युतद्यामा वायुं कविं चाच्छ प्रेयक्षसि तस्मात् सर्वैः सत्कर्त्तव्योऽसि ॥५५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये विद्वांसं प्राप्य पूर्णां विद्याप्रज्ञामखिलं धनं प्राप्नुयुस्ते सत्कर्त्तव्याः स्युः ॥५५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे विद्वानांच्या संगतीने पूर्ण विद्या, बुद्धी व संपूर्ण धन प्राप्त करतात ती सन्मान करण्यायोग्य असतात.
५६ इन्द्रवायूऽइमे सुताऽउप
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र॑वायूऽइ॒मे सु॒ताऽउप॒ प्रयो॑भि॒रा ग॑तम्। इन्द॑वो वामु॒शन्ति॒ हि ॥५६ ॥
मूलम् ...{Loading}...
इन्द्र॑वायूऽइ॒मे सु॒ताऽउप॒ प्रयो॑भि॒रा ग॑तम्। इन्द॑वो वामु॒शन्ति॒ हि ॥५६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इन्द्र॑वायूऽइ॒तीन्द्र॑वायू। इ॒मे। सु॒ताः। उप॑। प्रयो॑भि॒रिति॒ प्रयः॑ऽभिः। आ। ग॒त॒म्। इन्द॑वः। वा॒म्। उ॒शन्ति॑। हि। ५६।
महीधरः
म० इन्द्रवायू व्याख्याता (७।८)॥५६॥
सप्तपञ्चाशी।
अधिमन्त्रम् (VC)
- इन्द्रवायू देवते
- मधुच्छन्दा ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब विद्वान् लोग क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्रवायू) बिजुली और पवन की विद्या को जाननेवाले विद्वानो ! तुम्हारे लिये (इमे) ये (सुताः) सिद्ध किये हुए पदार्थ हैं (हि) जिस कारण (इन्दवः) सोमादि ओषधियों के रस (वाम्) तुमको (उशन्ति) चाहते अर्थात् वे तुम्हारे योग्य हैं, इससे (प्रयोभिः) उत्तम गुण, कर्म, स्वभावों के सहित उनको (उप, आ, गतम्) निकट से अच्छे प्रकार प्राप्त होओ ॥५६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे विद्वानो ! जिस कारण तुम लोग हमारे ऊपर कृपा करते हो, इसलिये सब लोग तुमको मिलना चाहते हैं ॥५६ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ विद्वांसः किं कुर्युरित्याह।
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - इन्द्रवायू युष्मदर्थमिमे सुता पदार्थाः सन्ति हीन्दवो वामुशन्ति, तस्मात् प्रयोभिस्तानुपाऽऽगतम् ॥५६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे विद्वांसो ! यतो यूयमस्माकमुपरि कृपां विधत्थ, तस्माद् युष्मान् सर्वे प्राप्तुमिच्छन्ति ॥५६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे विद्वानांनो ! ज्यामुळे तुम्ही लोक आमच्यावर कृपा करता त्यामुळेच सर्व लोक तुमच्याजवळ येऊ इच्छितात.
५७ मित्रं हुवे
विश्वास-प्रस्तुतिः ...{Loading}...
मि॒त्रँ हु॑वे पू॒तद॑क्षं॒ वरु॑णं च रि॒शाद॑सम्। धियं॑ घृ॒ताचीँ॒ साध॑न्ता ॥५७ ॥
मूलम् ...{Loading}...
मि॒त्रँ हु॑वे पू॒तद॑क्षं॒ वरु॑णं च रि॒शाद॑सम्। धियं॑ घृ॒ताचीँ॒ साध॑न्ता ॥५७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मि॒त्रम्। हु॒वे॒। पू॒तद॑क्ष॒मिति॑ पू॒तऽद॑क्षम्। वरु॑णम्। च॒। रि॒शाद॑सम्। धिय॑म्। घृ॒ताची॑म्। साध॑न्ता। ५७।
महीधरः
म०. द्वे मधुच्छन्दोदृष्टे गायत्र्यौ आद्या लिङ्गोक्तदेवत्या । मित्रं वरुणं चाहं हुवे आह्वयामि। कीदृशम् । पूतदक्षं पूतं पवित्रं सदाचारं दक्षयति धनपुत्रादिभिर्वर्धयति पूतदक्षस्तम् ‘दक्ष कम्यृद्ध्योः’ इत्यस्माण्णिजन्तात्कर्मण्यण् । रिशादसम् रिशन्ति हिंसन्ति रिशा दुष्टाः तान् समन्ताद्दसति नाशयति रिशादसः तम् । ‘रिश हिंसायाम्’ ‘दस उपक्षये’ । द्वयोर्विशेषणे । कीदृशावुभौ । धियं कर्म साधन्ता साधयन्तौ । कीदृशीं धियम् । घृताचीम् घृतमच्यते हूयते यत्र ताम् ॥ ५७ ॥
अष्टपञ्चाशी।
अधिमन्त्रम् (VC)
- मित्रावरुणौ देवते
- मधुच्छन्दा ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र मे कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे मैं (धियम्) बुद्धि तथा (घृताचीम्) शीतलतारूप जल को प्राप्त होनेवाली रात्रि को (साधन्ता) सिद्ध करते हुए (पूतदक्षम्) शुद्ध बलयुक्त (मित्रम्) मित्र (च) और (रिशादसम्) दुष्ट हिंसक को मारनेहारे (वरुणम्) धर्मात्मा जन को (हुवे) स्वीकार करता हूँ, वैसे इनको तुम लोग भी स्वीकार करो ॥५७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे प्राण और उदान बुद्धि और रात्रि को सिद्ध करते वैसे विद्वान् लोग सब उत्तम साधनों का ग्रहण कर कार्य्यों को सिद्ध करें ॥५७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथाऽहं धियं घृताचीञ्च साधन्ता पूतदक्षं मित्रं रिशादसं वरुणञ्च हुवे तथैतौ यूयमपि स्वीकुरुत ॥५७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा प्राणोदानौ प्रज्ञां रात्रिञ्च साध्नुतस्तथा विद्वांसः सर्वाण्युत्तमानि साधनानि गृहीत्वा कार्यसिद्धिं कुर्वन्तु ॥५७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसे प्राण व उदान यांच्यामुळे बुद्धी व रात्र यांचे अस्तित्व सिद्ध होते तसे विद्वान लोकांनी उत्तम साधनांनीयुक्त होऊन कार्य सिद्ध करावे.
५८ दस्रा युवाकवः
विश्वास-प्रस्तुतिः ...{Loading}...
दस्रा॑ यु॒वाक॑वः सु॒ता नास॑त्या वृ॒क्तब॑र्हिषः। आ या॑तँ रुद्रवर्त्तनी ॥ तं प्र॒त्नथा॑। अ॒यं वे॒नः ॥५८ ॥
मूलम् ...{Loading}...
दस्रा॑ यु॒वाक॑वः सु॒ता नास॑त्या वृ॒क्तब॑र्हिषः। आ या॑तँ रुद्रवर्त्तनी ॥ तं प्र॒त्नथा॑। अ॒यं वे॒नः ॥५८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दस्रा॑। यु॒वाक॑वः। सु॒ताः। नास॑त्या। वृ॒क्तब॑र्हिष॒ इति॑ वृ॒क्तऽब॑र्हिषः। आ। या॒त॒म्। रु॒द्र॒व॒र्त्त॒नी॒ऽइति॑ रुद्रवर्त्तनी। ५८।
महीधरः
म० आश्विनी द्वयोरश्विनोरेकस्य दस्र इति नामापरस्य नासत्य इति । हे दस्रौ दर्शनीयौ, हे नासत्या नासत्यौ न असत्यौ । सत्यवादिनावित्यर्थः । युवामायातमागच्छतम् । यतः सुता अभिषुताः सोमा इति शेषः । कीदृशाः सोमाः । युवाकवः युवां कामयन्ते ते युवाकवः मां पिबतमितीच्छन्तः। यद्वा युवन्ति अग्नौ मिश्रीभवन्ति युवाकवः ‘कटिकुषिभ्यां काकुः’ ( उणा० ३ । ७६ ) इति बहुलग्रहणात्काकुप्रत्ययः। वृक्तबर्हिषः वृक्तं बर्हिर्यत्र ते । कीदृशौ युवाम् । रुद्रवर्तनी रुद्रस्येव वर्तनिः पन्था ययोस्तौ रुद्रवद्गमनशीलौ । तं प्रत्नथा (७ । १२) अयं वेनः (७ । १६) एते द्वे प्रतीकोक्ते ॥ ५८ ॥
आग्रयण स्थाली
एकोनषष्टी।
अधिमन्त्रम् (VC)
- अश्विनौ देवते
- मधुच्छन्दा ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (नासत्या) असत्य आचरण से पृथक् (रुद्रवर्त्तनी) दुष्टरोदक न्यायाधीश के तुल्य आचरणवाले (दस्रा) दुष्टों के निवारक विद्वानो ! जो (वृक्तबर्हिषः) यज्ञ से पृथक् अर्थात् भोजनार्थ (युवाकवः) तुमको चाहनेवाले (सुताः) सिद्ध किये पदार्थ हैं, उनको तुम लोग (आ, यातम्) अच्छे प्रकार प्राप्त होओ ॥५८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्वानों को योग्य है कि जो विद्याओं की कामना करते हैं, उनको विद्या देवें ॥५८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे नासत्या ! रुद्रवर्त्तनी दस्रा ये वृक्तबर्हिषो युवाकवः सुताः सन्ति तान् युवामायातम् ॥५८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - विदुषां योग्यतास्ति ये विद्याः कामयन्ते तेभ्यो विद्या दद्युः ॥५८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे विद्येची कामना करतात त्यांना विद्वानांनी विद्या द्यावी.
५९ विदद्यदी सरमा
विश्वास-प्रस्तुतिः ...{Loading}...
वि॒दद्यदी॑ स॒रमा॑ रु॒ग्णमद्रे॒र्महि॒ पाथः॑ पू॒र्व्यँ स॒ध्र्य᳖क्कः᳖। अग्रं॑ नयत्सु॒पद्यक्ष॑राणा॒मच्छा॒ रवं॑ प्रथ॒मा जा॑न॒ती गा॑त् ॥५९ ॥
मूलम् ...{Loading}...
वि॒दद्यदी॑ स॒रमा॑ रु॒ग्णमद्रे॒र्महि॒ पाथः॑ पू॒र्व्यँ स॒ध्र्य᳖क्कः᳖। अग्रं॑ नयत्सु॒पद्यक्ष॑राणा॒मच्छा॒ रवं॑ प्रथ॒मा जा॑न॒ती गा॑त् ॥५९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वि॒दत्। यदि॑। स॒रमा॑। रु॒ग्णम्। अद्रेः॑। महि॑। पाथः॑। पूर्व्यम्। स॒ध्र्य॒क्। क॒रिति॑ कः। अग्र॑म्। न॒य॒त्। सु॒पदीति॑ सु॒ऽपदी॑। अक्ष॑राणाम्। अच्छ॑। रव॑म्। प्र॒थ॒मा। जा॒न॒ती। गा॒त्। ५९।
महीधरः
म० कुशिकदृष्टा त्रिष्टुप् इन्द्रदेवत्या । सह रमन्ते देवा विप्रा वा यस्यां सा सरमा वाक् । प्रथमा आद्या सरमा त्रयीलक्षणा वाक् अच्छ यज्ञाभिमुखं गात् आगच्छति । यज्ञं प्रतिपादयतीत्यर्थः । कीदृशी सरमा । सुपदी शोभनानि पदानि सुप्तिङन्तानि यस्यां सा । अक्षराणामकारादीनां रवं शब्दं जानती ज्ञापयन्ती । अन्तर्भूतणिजर्थः । तां सरमां यदि चेत् विदज्जानीयात् अध्वर्युः तर्हि पाथः सोमलक्षणमन्नं कः कुर्यात् वेदानभिज्ञस्य सोमकण्डनानधिकारात् । कीदृशं पाथः । अद्रेः रुग्णम् विभक्तिव्यत्ययः । अद्रिणा सोमाभिषवग्राव्णा रुग्णमभिषुतम् । महि महत् । पूर्व्यं पूर्वगृहीतमुपांश्वन्तर्यामैन्द्रवायवादिपात्रेषु । सध्र्यक् सहाञ्चति सहस्य सध्रिः । सहैव हवनाय गच्छत् । अग्रं नयत् अग्रं मुख्यत्वं यजमानं प्रापयत् यज्ञेन यजमानो मुख्यो भवति । एवमधियज्ञं मन्त्रो व्याख्यातः । बह्वृचानां तु संवादसूक्तमिदम् । तत्र पणिभिरसुरैर्देवगोधनेऽपहृते इन्द्रेण देवशुनी तद्भीत्यै प्रेरिता तदभिप्रायेण व्याख्यायते । सरमा देवशुनी इन्द्रेण वान्वेषणाय प्रहिता सती यदि यदा अद्रेः गिरेः रुग्णं भग्नम् द्वारम् विदत् अविदत् अलभत् तदा इन्द्रः पाथः हविरन्नं कः अकार्षीत् तस्यै दत्तवान् । ततः सुपदी शोभनपादयुक्ता सा सरमा अक्षराणां क्षरणेन नाशेन रहितानामनुपद्रुतानां गवाम् अग्रं प्रान्तं नयत् अनयत् प्राप्नोत् । प्रथमा प्रथमम् रवं गवां हम्भारवं जानती सती अच्छ गवामभिमुखं गात् अगात् जगाम । कीदृशं पाथः । महि महत् । पूर्व्यं पूर्वं प्रेषणकाले अन्नादिनीं ते प्रजां करिष्यामीति प्रतिज्ञातम् । सध्र्यक् सध्रीचीनमितरैरपि सह भोज्यम् । विदत् ‘विद्लृ लामे’ ‘पुषादि’ (पा० ३ । १ । ५५) इत्यादिना च्लेरङादेशः अडभाव आर्षः । सरमा ‘सृ गतौ’ औणादिकोऽमप्रत्ययः । ‘सरमा सरणिः’ इति यास्कः । रुग्णम् ‘रुजो भङ्गे’ निष्ठायां ‘ओदितश्च’ (पा० ८।२। ४५ ) इति नत्वम् । पाथः पातीति ‘पा रक्षणे’ अन्नम् असुन्प्रत्ययस्य थुडागमः। कः करोतेर्लुङि ‘मन्त्रे घसह्वर-’ (पा० २।४ । ८० ) इत्यादिना च्लेर्लोपे रूपम् । सुपदी ‘पादोऽन्यतरस्याम् (पा० ४ । १ । ८) इति ङीप् । गात् ‘इणो गा लुङि’ ॥ ५९॥
षष्टी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- कुशिक ऋषिः
- भुरिक्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब स्त्री क्या करे, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यदि) जो (सरमा) पति के अनुकूल रमण करनेहारी (प्रथमा) प्रख्यात (सुपदी) सुन्दर पगोंवाली (अक्षराणाम्) अकारादि वर्णों में (रवम्) बोलने को (जानती) जानती हुई (रुग्णम्) रोगी प्राणी को (विदत्) जाने (अग्रम्) आगे (नयत्) पहुँचानेवाला (सध्र्यक्) साथ प्राप्त होता (पूर्व्यम्) प्रथम के लोगों ने प्राप्त किये (महि) महागुणयुक्त (अद्रेः) मेघ से उत्पन्न हुए (पाथः) अन्न को (कः) करे अर्थात् भोजनार्थ सिद्ध करे और पति को (अच्छ) अच्छे प्रकार (गात्) प्राप्त होवे तो वह सुख को पावे ॥५९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो स्त्री वैद्य के तुल्य सबकी हितकारिणी, ओषधि के तुल्य अन्न बनाने को समर्थ हो और यथायोग्य बोलना भी जाने, वह उत्तम सुख को निरन्तर पावे ॥५९ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ स्त्री किं कुर्यादित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यदि सरमा प्रथमा सुपद्यक्षराणां रवं जानती रुग्णं विददग्रन्नयत् सध्र्यक् पूर्व्यं मह्यद्रेरुत्पन्नं पाथः कः कुर्यात् पतिमच्छ गात्तर्हि सा सर्वं सुखमाप्नुयात् ॥५९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - या स्त्री वैद्यवत् सर्वेषां हितकारिण्यौषधवदन्नं साद्धुं शक्नुयाद् यथायोग्यं भाषणं विजानीयात् सोत्तमं सुखं सततमाप्नुयात् ॥५९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्या स्रिया वैद्याप्रमाणे सर्वांना हितकारक औषधांप्रमाणे अन्न बनवितात व वाणीचा यथायोग्य उपयोग जाणतात त्यांना सदैव सुख प्राप्त होते.
६० नहि स्पशमविदन्नन्यमस्माद्
विश्वास-प्रस्तुतिः ...{Loading}...
न॒हि स्पश॒मवि॑दन्न॒न्यम॒स्माद् वै॑श्वान॒रात् पु॑रऽए॒तार॑म॒ग्नेः। एमे॑नमवृधन्न॒मृता॒ऽअम॑र्त्यं वैश्वान॒रं क्षैत्र॑जित्याय दे॒वाः६० ॥
मूलम् ...{Loading}...
न॒हि स्पश॒मवि॑दन्न॒न्यम॒स्माद् वै॑श्वान॒रात् पु॑रऽए॒तार॑म॒ग्नेः। एमे॑नमवृधन्न॒मृता॒ऽअम॑र्त्यं वैश्वान॒रं क्षैत्र॑जित्याय दे॒वाः६० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
न॒हि। स्पश॑म्। अवि॑दन्। अ॒न्यम्। अ॒स्मात्। वै॒श्वा॒न॒रात्। पु॒र॒ऽए॒तार॒मिति॑ पुरःऽए॒तार॑म्। अ॒ग्नेः। आ। ई॒म्। ए॒न॒म्। अ॒वृ॒ध॒न्। अ॒मृताः॑। अम॑र्त्यम्। वैश्वा॒न॒रम्। क्षैत्र॑जित्याय। दे॒वाः। ६०।
महीधरः
म० विश्वामित्रदृष्टा त्रिष्टुब्वैश्वानरी । देवाः वैश्वानरात् विश्वेभ्यो हितात् अग्नेः अन्यं स्पशं दूतं पुरएतारं सर्वकार्येषु पुरःसरं च नहि अविदन् नालभन्त । नहिशब्दो निषेधवाची। स्पशः प्रणिधिरुच्यते । पुर एति गच्छति पुरएता तम् । आ ईम् निपातौ अथार्थौ । अथामृता देवाः एनं वैश्वानरमवृधन् अवर्धयन् । कीदृशमग्निम् । अमर्त्यममरणधर्माणम् । किमर्थमवृधन् । क्षैत्रजित्याय क्षेत्रमेव क्षैत्रं तस्य जित्यं जयस्तस्मै यजमानस्य क्षेत्राप्त्यै ॥ ६०॥
एकषष्टी।
अधिमन्त्रम् (VC)
- वैश्वानरो देवता
- विश्वामित्र ऋषिः
- भुरिक्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब मनुष्य कैसे मोक्ष को प्राप्त होते हैं, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (अमृताः) आत्मस्वरूप से मरणधर्मरहित (देवाः) विद्वान् लोग (अमर्त्यम्) नित्य व्यापकरूप (वैश्वानरम्) सबके चलानेवाले (एनम्) इस अग्नि को (क्षैत्रजित्याय) जिस क्रिया से खेतों को जोतते उस भूमि राज्य के होने के लिये (आ, अवृधन्) अच्छे प्रकार बढ़ाते हैं, वे (ईम्) सब ओर से (अस्मात्) इस (वैश्वानरात्) सब मनुष्यों के हितकारी (अग्नेः) अग्नि से (पुर एतारम्) पहिले पहुँचानेवाले (अन्यम्) भिन्न किसी को (स्पशम्) दूत (नहि) नहीं (अविदन्) जानते हैं ॥६० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो उत्पत्ति-नाशरहित मनुष्य देहधारी जीव विजय के लिये उत्पत्ति-नाशरहित जगत् के स्वामी परमात्मा की उपासना कर उससे भिन्न की उसके तुल्य उपासना नहीं करते, वे बन्ध को छोड़ मोक्ष को प्राप्त होवें ॥६० ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ मनुष्याः कथं मोक्षमाप्नुवन्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - येऽमृता देवा अमर्त्यं वैश्वानरं क्षैत्रजित्यायैनमावृधन् त ईमस्माद् वैश्वानरादग्नेः पुर एतारमन्यं स्पशं नह्यविदन् ॥६० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये नाशोत्पत्तिरहिता मनुष्यदेहधरा जीवा विजयायोत्पत्तिनाशरहितं जगत्स्वामिनं परमात्मानमुपास्यातो भिन्नं तद्वन्नोपासन्ते ते बन्धं विहाय मोक्षमभिगच्छेयुः ॥६० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - आत्मस्वरूपाने उत्पत्ती व नाशरहित परंतु मनुष्यरूपाने देहधारी असे जे जीव उत्पत्ती व नाशरहित व जगाचा स्वामी असलेल्या परमेश्वराची उपासना करतात त्यापेक्षा भिन्न असलेल्याची उपासना करत नाहीत, असे लोकच बंधनातून मुक्त होऊन मोक्षाची प्राप्ती करतात.
६१ उग्रा विघनिना
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒ग्रा वि॑घ॒निना॒ मृध॑ऽइन्द्रा॒ग्नी ह॑वामहे। ता नो॑ मृडातऽई॒दृशे॑ ॥६१ ॥
मूलम् ...{Loading}...
उ॒ग्रा वि॑घ॒निना॒ मृध॑ऽइन्द्रा॒ग्नी ह॑वामहे। ता नो॑ मृडातऽई॒दृशे॑ ॥६१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उ॒ग्रा। विघ॒निनेति॑ विऽघ॒निना॑। मृधः॑। इ॒न्द्रा॒ग्नीऽइती॑न्द्रा॒ग्नी। ह॒वा॒म॒हे॒। ता। नः॒। मृ॒डा॒तः॒। ई॒दृशे॑। ६१।
महीधरः
म० भरद्वाजदृष्टा ऐन्द्राग्नी गायत्री । वयमिन्द्राग्नी हवामहे आह्वयामः । कीदृशाविन्द्राग्नी उग्रौ उद्गूर्णबलौ । मृधो हिंसकान् विघनिनौ विशेषेण हतो नाशयतस्तौ विघनिनौ हन्तेर्घः । ता तौ आहूतौ इन्द्राग्नी नोऽस्मान् । ईदृशे भयानके संग्रामे कर्मणि वा । मृडातः मृडयतः सुखयतः ॥ ६१॥
द्विषष्टी।
अधिमन्त्रम् (VC)
- इन्द्राग्नी देवते
- भरद्वाज ऋषिः
- निचृद्गायत्री
- षड्जः
६२ उपास्मै गायता
विश्वास-प्रस्तुतिः ...{Loading}...
उपा॑स्मै गायता नरः॒ पव॑माना॒येन्द॑वे। अ॒भि दे॒वाँ२ऽइय॑क्षते ॥६२ ॥
मूलम् ...{Loading}...
उपा॑स्मै गायता नरः॒ पव॑माना॒येन्द॑वे। अ॒भि दे॒वाँ२ऽइय॑क्षते ॥६२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उप॑। अ॒स्मै॒। गा॒य॒त॒। न॒रः॒। पव॑मानाय। इन्द॑वे। अ॒भि। दे॒वान्। इय॑क्षते। ६२।
महीधरः
म० देवलदृष्टा सोमदेवत्या गायत्री । हे नरो यज्ञनेतारः ऋत्विजः, अस्मै इन्दवे सोमाय उपगायत उद्गातृशास्त्रमनुसृत्योपशब्दयत । स्तोत्राणि कुरुतेत्यर्थः । कीदृशायेन्दवे । पवमानाय ‘पव गतौ’ पवते दशापवित्राद्द्रोणकलशं गच्छति पवमानस्तस्मै देवान् यष्टव्यानभि संमुखमियक्षते यष्टुमिच्छते। यजेः सनि छान्दसोऽभ्यासयकारलोपः ॥ ६२ ॥
त्रिषष्टी। ।
अधिमन्त्रम् (VC)
- सोमो देवता
- देवल ऋषिः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब पढ़ने-पढ़ानेवाले कैसे वर्त्तें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (नरः) नायक अध्यापकादि लोगो ! तुम लोग (देवान्) विद्वानों को (अभि) सब ओर से (इयक्षते) सत्कार करना चाहते हुए (अस्मै) इस (पवमानाय) पवित्र करनेहारे (इन्दवे) कोमल विद्यार्थी के लिये (उपगायत) निकटस्थ हो के शास्त्रों को पढ़ाया करो ॥६२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे जिज्ञासु लोग अध्यापकों को सन्तुष्ट करना चाहते हैं, वैसे अध्यापक लोग भी उनको पढ़ाने की इच्छा रक्खा करें ॥६२ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथाध्यापकाध्येतारः कथं वर्त्तेरन्नित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे नरो ! यूयं देवानभीयक्षतेऽस्मै पवमानायेन्दव उपगायत ॥६२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा जिज्ञासवोऽध्यापकान् सन्तुष्टान् कर्त्तुमिच्छन्ति, तथाऽध्यापका अपि तानध्यापयितुमिच्छेयुः ॥६२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसे जिज्ञासू लोक अध्यापकांना सर्व प्रकारे संतुष्ट करू इच्छितात तसे अध्यापकांनीही विद्यार्थ्यांना शिकविण्याची इच्छा बाळगावी.
६३ ये त्वाहिहत्ये
विश्वास-प्रस्तुतिः ...{Loading}...
ये त्वा॑हि॒हत्ये॑ मघव॒न्नव॑र्द्ध॒न्ये शा॑म्ब॒रे ह॑रिवो॒ ये गवि॑ष्ठौ। ये त्वा॑ नू॒नम॑नु॒मद॑न्ति॒ विप्राः॒ पिबे॑न्द्र॒ सोमँ॒ सग॑णो म॒रुद्भिः॑ ॥६३ ॥
मूलम् ...{Loading}...
ये त्वा॑हि॒हत्ये॑ मघव॒न्नव॑र्द्ध॒न्ये शा॑म्ब॒रे ह॑रिवो॒ ये गवि॑ष्ठौ। ये त्वा॑ नू॒नम॑नु॒मद॑न्ति॒ विप्राः॒ पिबे॑न्द्र॒ सोमँ॒ सग॑णो म॒रुद्भिः॑ ॥६३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ये। त्वा। अ॒हि॒हत्य॒ इत्य॑हि॒ऽहत्ये॑। म॒घ॒वन्निति॑ मघऽवन्। अव॑र्द्धन्। ये। शा॒म्ब॒रे। ह॒रि॒व इति॑ हरिऽवः। ये। गवि॑ष्ठा॒विति॒ गोऽइ॑ष्ठौ। ये। त्वा। नू॒नम्। अ॒नुमद॒न्तीत्य॑नु॒मद॑न्ति। विप्राः॑। पिब॑। इ॒न्द्र॒। सोम॑म्। सग॑ण॒ इति॒ सऽग॑णः। म॒रुद्भि॒रिति॑ म॒रुत्ऽभिः॑। ६३।
महीधरः
म० विश्वामित्रदृष्टाद्या द्वे त्रिष्टुभौ इन्द्रदेवत्यास्तिस्रः । हे मघवन् धनवन् , ये मरुतो गणदेवाः अहिहत्ये वृत्रहननरूपे कर्मणि त्वा त्वामवर्धन् जहि वीरयस्वेत्यादिवचोभिस्ते वृद्धिमकुर्वन् । हे हरिवः, हरिनामकाश्वयुक्त, शाम्बरे शम्बरसंबन्धिनि युद्धे ये त्वामवर्धन् । ये च मरुतो गविष्टौ गवां पण्यसुरहृतानामिष्टौ प्रत्याहरणेच्छायां ये त्वामवर्धयन् । ये च विप्राः मेधाविनो मरुतो नूनं निश्चितं त्वामनु मदन्ति उत्कर्षयन्ति तर्पयन्ति वा । हे इन्द्र, तैर्मरुद्भिः सगणः गणसहितः सन् सोमं पिब मरुत्वतीयादिग्रहं पिबातृप्तेः । अहिहत्ये हन्तेर्भावे ‘हनस्त च’ (पा० ३ । १ । १०८) इति क्यप् कृदुत्तरपदसमासः । अवर्धन् । झेः सार्वधातुकत्वेऽपि ‘छन्दस्युभयथा’ (पा० ३ । ४ । ११७ ) इत्यार्धधातुकले णिलोपः। यद्वृत्तयोगान्निघाताभावः (पा० ८ । १। ६६ )। गवामिष्टिर्यस्मिन् रणे इति ‘बहुव्रीहौ प्रकृत्या पूर्वपदम्’ (पा० ६ । २ । १) इति पूर्वपदस्वरः । अनुमदन्ति । झेर्लसार्वधातुकानुदात्तत्वे धातुस्वरः ‘तिङि चोदात्तवति-’ (पा० ८ । १।७१) | इति गतेर्निघातः ॥ ६३ ॥
चतुःषष्टी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- विश्वामित्र ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब राजधर्म विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (मघवन्) उत्तम पूजित धनवाले सेनापति ! (ये) जो (विप्राः) बुद्धिमान् लोग (अहिहत्ये) जहाँ मेघ का काटना और (गविष्ठौ) किरणों की संगति हो, उस संग्राम में जैसे किरणें सूर्य के तेज को वैसे (त्वा) आपको (अवर्द्धन्) उत्साहित करें। हे (हरिवः) प्रशंसित किरणों के तुल्य चिलकते घोड़ोंवाले शूरवीर जन ! (ये) जो लोग (शाम्बरे) मेघ-सूर्य के संग्राम में बिजुली के तुल्य (त्वा) आपको बढ़ावें (ये) जो (नूनम्) निश्चय कर आपकी (अनुमदन्ति) अनूकूलता से आनन्दित होते हैं और (ये) जो आपकी रक्षा करते हैं। हे (इन्द्र) उत्तम ऐश्वर्यवाले जन ! (मरुद्भिः) जैसे वायु के (सगणः) गण के साथ सूर्य रस को ग्रहण करे, वैसे रस को ग्रहण करे, वैसे मनुष्यों के साथ (सोमम्) श्रेष्ठ ओषधि रस को (पिब) पीजिये ॥६३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे मेघ और सूर्य के संग्राम में सूर्य का ही विजय होता है, वैसे मूर्ख और विद्वानों के संग्राम में विद्वानों का ही विजय होता है ॥६३ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ राजधर्मविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मघवन् ! ये विप्रा अहिहत्ये गविष्ठौ सूर्यमिव त्वावर्द्धन्। हे हरिवो ये शाम्बरे विद्युतमिव त्वावर्धन्, ये नूनं त्वामनुमदन्ति, ये त्वां रक्षन्ति। हे इन्द्र ! तैर्मरुद्भिः सह सगणः सूर्यो रसमिव मनुष्यैः सह सोमं पिब ॥६३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा मेघसूर्यसङ्ग्रामे सूर्यस्यैव विजयो जायते तथा मूर्खाणां विदुषाञ्च संग्रामे विदुषामेव विजयो भवति ॥६३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. मेघ व सूर्य यांच्या संग्रामात जसा सूर्याचा जय होतो, तसे मूर्ख व विद्वान यांच्या संघर्षात विद्वानांचा विजय होतो.
६४ जनिष्ठाऽउग्रः सहसे
विश्वास-प्रस्तुतिः ...{Loading}...
जनि॑ष्ठाऽउ॒ग्रः सह॑से तु॒राय॑ म॒न्द्रऽओजि॑ष्ठो बहु॒लाभि॑मानः। अव॑र्द्ध॒न्निन्द्रं॑ म॒रुत॑श्चि॒दत्र॑ मा॒ता यद्वी॒रं द॒धन॒द्धनि॑ष्ठा ॥६४ ॥
मूलम् ...{Loading}...
जनि॑ष्ठाऽउ॒ग्रः सह॑से तु॒राय॑ म॒न्द्रऽओजि॑ष्ठो बहु॒लाभि॑मानः। अव॑र्द्ध॒न्निन्द्रं॑ म॒रुत॑श्चि॒दत्र॑ मा॒ता यद्वी॒रं द॒धन॒द्धनि॑ष्ठा ॥६४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
जनि॑ष्ठाः। उ॒ग्रः। सह॑से। तु॒राय॑। म॒न्द्रः। ओजि॑ष्ठः। ब॒हु॒लाभि॑मान॒ इति॑ ब॒हु॒लऽअ॑भिमानः। अव॑र्द्धन्। इन्द्र॑म्। म॒रुतः॑। चि॒त्। अत्र॑। मा॒ता। यत्। वी॒रम्। द॒धन॑त्। धनि॑ष्ठा। ६४।
महीधरः
म० गौरिवीतिदृष्टा । हे इन्द्र, त्वं सहसे बलाय जनिष्ठा अजनिष्ठाः जातोऽसि लुङ् अडभावः । कीदृशाय । सहसे तुराय त्वरमाणाय वेगवते । कीदृशः त्वम् । उग्रः उत्कृष्टः । मन्द्रः स्तुत्यः ओजिष्ठः अत्यन्तमोजस्वी ओजिष्ठः ‘विन्मतोर्लुक्’ (पा० ५। ३ । ६५) इति विनो लुक् । बहुलाभिमानः सर्वं जगन्मद्विभूतिरिति भूयिष्ठाभिमानः । अत्र वृत्रवधे ईदृशमिन्द्रमरुतश्चित् मरुतोऽपि अवर्धन् । स्तुतिसहायाभ्यामिति शेषः। इदं चेन्द्रसौभाग्यं गर्भकालीनमित्याह । यत् यस्मात् मातादितिः धनिष्ठान्या वीरमिन्द्रं दधनत् गर्भे धारितवती । नकार उपजनः ॥ ६४ ॥
पञ्चषष्टी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- गौरीवितिर्ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! (धनिष्ठा) अत्यन्त धनवती (माता) (यत्) जिस (वीरम्) शूरतादि गुणयुक्त आप पुत्र को (दधनत्) पुष्ट करती रही और (चित्) जैसे (इन्द्रम्) सूर्य्य को (मरुतः) वायु बढ़ावे, वैसे सभासद् लोग जिस आपको (अवर्द्धन्) योग्यतादि से बढ़ावें सो आप (अत्र) इस राज्यपालनरूप व्यवहार में (सहसे) बल और (तुराय) शीघ्रता के लिये (उग्रः) तेजस्वि स्वभाववाले (मन्द्रः) स्तुति प्रशंसा को प्राप्त आनन्ददाता (ओजिष्ठः) अतिशय पराक्रमी और (बहुलाभिमानः) अनेक प्रकार के पदार्थों के अभिमानवाले हुए सुख को (जनिष्ठाः) उत्पन्न कीजिये ॥६४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जो स्वयं ब्रह्मचर्य से शरीरात्मबलयुक्त विद्वान् हुआ दुष्टों के प्रति कठिन स्वभाववाला, श्रेष्ठ के विषय (में) भिन्न स्वभाववाला होता हुआ बहुत उत्तम सभ्यों से युक्त धर्मात्मा हुआ न्याय और विनय से राज्य की रक्षा करे, वह सब ओर से बढ़े ॥६४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! धनिष्ठा माता यद्वीरं दधनदिन्द्रं मरुतश्चिदिव सभ्या यं त्वामवर्धयन्त्स त्वमत्र सहसे तुराय उग्रो मन्द्र ओजिष्ठो बहुलाभिमानः सन् सुखं जनिष्ठाः ॥६४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यः स्वयं ब्रह्मचर्य्येण शरीरात्मबलयुक्तो विद्वान् स दुष्टान् प्रत्युग्रः कठिनस्वभावः श्रेष्ठे सोऽन्यस्वभावः सन् बहुसुसभ्यावृतो धर्मात्मा भूत्वा न्यायविनयाभ्यां राज्यं पालयेत्, स सर्वतोऽभिवर्द्धेत ॥६४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जो स्वः ब्रह्मचर्य पालन करून शरीर व आत्मा बलवान करून विद्वान बनतो आणि दुष्टांबरोबर उग्र व श्रेष्ठ लोकांबरोबर कोमलपणाने वागतो व सभ्य, धर्मात्मा, न्यायी बनून नम्रपणे राज्याचे रक्षण करतो त्याची सर्व प्रकारे उन्नती होते.
६५ आ तू
विश्वास-प्रस्तुतिः ...{Loading}...
आ तू न॑ऽइन्द्र वृत्रहन्न॒स्माक॑म॒र्द्धमा ग॑हि। म॒हान् म॒हीभि॑रू॒तिभिः॑ ॥६५ ॥
मूलम् ...{Loading}...
आ तू न॑ऽइन्द्र वृत्रहन्न॒स्माक॑म॒र्द्धमा ग॑हि। म॒हान् म॒हीभि॑रू॒तिभिः॑ ॥६५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ। तु। नः॒। इ॒न्द्र॒। वृ॒त्र॒ह॒न्निति॑ वृत्रऽहन्। अ॒स्माक॑म्। अ॒र्द्धम्। आ। ग॒हि॒। म॒हान्। म॒हीभिः॑। ऊ॒तिभि॒रित्यू॒तिऽभिः॑। ६५।
महीधरः
म० वामदेवदृष्टा गायत्री । तु इति निपातः क्षिप्रवचनः । ‘ऋचि तुनुघ-’ (पा० ६ । ३ । १३३ ) इत्यादिना तस्य संहितायां दीर्घः । वृत्राणामावरकाणां पाप्मनां हन्ता वृत्रहा । हे वृत्रहन् हे इन्द्र, त्वं नोऽस्मान् प्रति तु क्षिप्रम् आ आगच्छेत्यर्थः । आगत्य चास्माकमर्धमस्मन्निवासदेशमागहि । देवयजनदेशं प्राप्नुहीत्यर्थः । कीदृशस्त्वम् । महीभिः महतीभिः ऊतिभिः अवनैः रक्षाभिः महान् । योऽन्यं रक्षति स महानुच्यते ॥६५॥
षट्षष्टी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- वामदेव ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (वृत्रहन्) शत्रुओं के विनाशक (इन्द्र) उत्तम ऐश्वर्यवाले राजन् ! आप (अस्माकम्) हम लोगों की (अर्द्धम्) वृद्धि उन्नति को (आ, गहि) अच्छे प्रकार प्राप्त हूजिये और (महान्) अत्यन्त पूजनीय हुए (महीभिः) बड़ी (ऊतिभिः) रक्षादि क्रियाओं से (नः) हमको (तु, आ, दधनत्) शीघ्र अच्छे प्रकार पुष्ट कीजिये ॥६५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में पूर्व मन्त्र से (दधनत्) इस पद की अनुवृति आती है। हे राजन् ! जैसे आप हमारे रक्षक और वर्द्धक हैं, वैसे हम लोग भी आपको बढ़ावें, सब हम लोग प्रीति से मिल के दुष्टों को निवृत्त करके श्रेष्ठों को धनाढ्य करें ॥६५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे वृत्रहन्निन्द्र ! त्वमस्माकमर्द्धमागहि महान् सन्महीभिरूतिभिर्नोऽस्मान् त्वाऽऽदधनत् ॥६५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र पूर्वस्मान्मन्त्राद् दधनदिति पदमनुवर्तते। हे राजन् ! यथा भवानस्माकं रक्षकोऽस्ति, तथा वयमपि भवन्तं वर्द्धयेम्। सर्वे वयं प्रीत्या मिलित्वा दुष्टान् निवार्य्य श्रेष्ठान् धनाढ्यान् कुर्य्याम ॥६५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्राच्या पूर्वीच्या मंत्रातून (दधनत्) या पदाची अनुवृत्ती झालेली आहे. हे राजा ! तू जसा आमचा रक्षक व वर्धक आहेस तसे आम्ही लोकांनीही तुला उन्नत करावे. आम्ही सर्वांनी मिळून मिसळून वागावे. दुष्टांचे निर्दालन करावे व श्रेष्ठांना उन्नत करावे.
६६ त्वमिन्द्र प्रतूर्त्तिष्वभि
विश्वास-प्रस्तुतिः ...{Loading}...
त्वमि॑न्द्र॒ प्रतू॑र्त्तिष्व॒भि विश्वा॑ऽअसि॒ स्पृधः॑। अ॒श॒स्ति॒हा ज॑नि॒ता वि॑श्व॒तूर॑सि॒ त्वं तू॑र्य्य तरुष्य॒तः ॥६६ ॥
मूलम् ...{Loading}...
त्वमि॑न्द्र॒ प्रतू॑र्त्तिष्व॒भि विश्वा॑ऽअसि॒ स्पृधः॑। अ॒श॒स्ति॒हा ज॑नि॒ता वि॑श्व॒तूर॑सि॒ त्वं तू॑र्य्य तरुष्य॒तः ॥६६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
त्वम्। इ॒न्द्र॒। प्रतू॑र्त्ति॒ष्विति॑ प्रऽतू॑र्त्तिषु। अ॒भि। विश्वाः॑। अ॒सि॒। स्पृधः॑। अ॒श॒स्ति॒हेत्य॑ऽशस्ति॒हा। ज॒नि॒ता। विश्व॒तूरिति॑ विश्व॒ऽतूः। अ॒सि॒। त्वम्। तू॒र्य॒। त॒रु॒ष्य॒तः। ६६।
महीधरः
म० नृमेधदृष्टे द्वे ऐन्द्र्यौ पथ्याबृहतीसतोबृहत्यौ । प्रकृष्टा तूर्तिर्हिंसा येषां यत्र वा ते प्रतूर्तयः शत्रवः संग्रामा वा तेषु प्रतूर्तिषु हे इन्द्र, त्वं विश्वाः सर्वाः स्पृधः स्पर्धमानाः शत्रुसेनाः अभि असि अभिभवसि । किंच यतः त्वं विश्वतूरसि विश्वान् सर्वान् रिपून् तूयेते हिनस्ति विश्वतूः । ततः तरुष्यतः हनिध्यतः शत्रून् तूर्य जहि मारय । कीदृशस्त्वम् । अशस्तिहा नास्ति शंसा प्रशस्तिर्येषां ते अशस्तयः दुष्टास्तान्हन्तीत्यशस्तिहा। जनिता जनयिता स्वपक्षप्रशंसोत्पादकः ॥ ६६ ॥
सप्तषष्टी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- नृमेध ऋषिः
- भुरिगनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) उत्तम ऐश्वर्य देनेवाले राजन् ! जिस कारण (त्वम्) आप (प्रतूर्तिषु) जिसमें मारना होता उन संग्रामों में (विश्वाः) शत्रुओं की सब (स्पृधः) ईर्ष्यायुक्त सेनाओं को (अभि, असि) तिरस्कार करते हो तथा (अशस्तिहा) जिनकी कोई प्रशंसा न करे, उन दुष्टों के हन्ता (जनिता) सुखों के उत्पन्न करनेहारे (विश्वतूः) सब शत्रुओं को मारनेवाले हुए (त्वम्) आप विजयवाले (असि) हो, इससे (तरुष्यतः) हनन करनेवाले शत्रुओं को (तूर्य्य) मारिये ॥६६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो राजपुरुष अधर्म्मयुक्त कर्मों के निवर्त्तक, सुखों के उत्पादक और युद्धविद्या में कुशल हों, वे शत्रुओं को जीतने को समर्थ हों ॥६६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे इन्द्र ! यतस्त्वं प्रतूर्त्तिषु विश्वा स्पृधोऽभ्यसि। अशस्तिहा जनिता विश्वतूस्सँस्त्वं विजयवानसि। तस्मात् तरुष्यतस्तूर्य्य ॥६६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये पुरुषा अधर्म्यकर्मनिवर्त्तकाः सुखानां जनका युद्धविद्यासु कुशलाः स्युस्ते शत्रून् विजेतुं शक्नुयुः ॥६६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे राजपुरुष अधर्मयुक्त कर्माचा त्याग करून सुख उत्पन्न करतात व युद्धविद्येत कुशल असतात ते शत्रूंना जिंकू शकतात.
६७ अनु ते
विश्वास-प्रस्तुतिः ...{Loading}...
अनु॑ ते॒ शुष्मं॑ तु॒रय॑न्तमीयतुः क्षो॒णी शिशुं॒ न मा॒तरा॑। विश्वा॑स्ते॒ स्पृधः॑ श्नथयन्त म॒न्यवे॑ वृ॒त्रं यदि॑न्द्र॒ तूर्व॑सि ॥६७ ॥
मूलम् ...{Loading}...
अनु॑ ते॒ शुष्मं॑ तु॒रय॑न्तमीयतुः क्षो॒णी शिशुं॒ न मा॒तरा॑। विश्वा॑स्ते॒ स्पृधः॑ श्नथयन्त म॒न्यवे॑ वृ॒त्रं यदि॑न्द्र॒ तूर्व॑सि ॥६७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अनु॑। ते॒। शुष्म॑म्। तु॒रय॑न्तम्। ई॒य॒तुः॒। क्षो॒णीऽइति॑ क्षो॒णी। शिशु॑म्। न। मा॒तरा॑। विश्वाः॑। ते॒। स्पृधः॑। श्न॒थ॒य॒न्त॒। म॒न्यवे॑। वृ॒त्रम्। यत्। इ॒न्द्र॒। तूर्व॑सि। ६७।
महीधरः
म० हे इन्द्र, क्षोणी द्यावापृथिव्यौ ते तव शुष्मं बलमन्वीयतुः अनुगच्छतः । द्यावापृथिवीस्था लोकास्त्वद्बलं बहु मन्यन्त इति भावः । कीदृशं शुष्मम्। तुरयन्तं शत्रुषु त्वरामाविष्कुर्वन्तम् । अनुगमने दृष्टान्तः । मातरौ मातापितरौ शिशुं न शिशुमिव । यथा पितरौ बालमनुगच्छतः ‘यस्य बलाद् द्यावापृथि
व्यावप्यबिभीताम्’ ( निरु० १० । १० ) इति यास्कः । तदेव प्रपञ्चयति विश्वा इति । विश्वाः सर्वाः स्पृधः स्पर्धमानाः शत्रुसेनाः ते तव मन्यवे । पञ्चम्यर्थे चतुर्थी । तव क्रोधात् श्रथयन्त अश्रथयन्त श्रथिताः खिन्ना भवन्ति । तव क्रोधदर्शनादुद्विजन्त इत्यर्थः । युक्तमेतत् । यत् यस्मात् युद्धे हे इन्द्र, त्वं वृत्रं देवासुरावध्यं तूर्वसि हंसि । तूर्वतिर्हिंसार्थः ॥ ६७॥
अष्टषष्टी ।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- नृमेध ऋषिः
- पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) शत्रुओं के नाशक राजन् ! जिस (ते) आपके (तुरयन्तम्) शत्रुओं को मारते हुए (शुष्मम्) शत्रुओं को सुखानेहारे बल को (शिशुम्) बालक को (मातरा) माता-पिता (न) के समान (क्षोणी) अपनी पराई भूमि (अनु, ईयतुः) अनुकूल प्राप्त होती उस (ते) आपके (मन्यवे) क्रोध से (विश्वाः, स्पृधः) सब शत्रुओं की ईर्ष्या करनेहारी सेना (श्नथयन्त) नष्ट-भ्रष्ट मारी जाती हैं (यत्) जिस (वृत्रम्) न्याय के निरोधक शत्रु को आप (तूर्वसि) मारते हो, वह पराजित हो जाता है ॥६७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जिन राजपुरुषों की हृष्ट-पुष्ट युद्ध की प्रतिज्ञा करती हुई सेना हो, वे सर्वत्र विजय को प्राप्त होवें ॥६७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे इन्द्र ! यस्य ते तुरयन्तं शुष्मं शिशुं मातरा न क्षोणी अन्वीयतुस्तस्य ते मन्यवे विश्वाः स्पृधः श्नथयन्त यद्यं वृत्रं शत्रुं त्वं तूर्वसि स पराजितो भवति ॥६७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। येषां राजपुरुषाणां हृष्टाः पुष्टा युद्धं प्रतिजानानाः सेनाः स्युस्ते सर्वत्र विजयमाप्नुयुः ॥६७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. ज्या राजपुरुषाजवळ धष्टपुष्ट व युद्धतत्पर सेना असेल तिचा सर्वत्र विजय होतो.
६८ यज्ञो देवानाम्
विश्वास-प्रस्तुतिः ...{Loading}...
य॒ज्ञो दे॒वानां॒ प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृड॒यन्तः॑। आ वो॒ऽर्वाची॑ सुम॒तिर्व॑वृत्यादँ॒होश्चि॒द्या व॑रिवो॒वित्त॒रास॑त् ॥६८ ॥
मूलम् ...{Loading}...
य॒ज्ञो दे॒वानां॒ प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृड॒यन्तः॑। आ वो॒ऽर्वाची॑ सुम॒तिर्व॑वृत्यादँ॒होश्चि॒द्या व॑रिवो॒वित्त॒रास॑त् ॥६८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
य॒ज्ञः। दे॒वाना॑म्। प्रति॑। ए॒ति॒। सु॒म्नम्। आदि॑त्यासः। भव॑त। मृ॒ड॒यन्तः॑। आ। वः॒। अ॒र्वाची॑। सु॒म॒तिरिति॑ सुऽम॒तिः। व॒वृ॒त्या॒त्। अँ॒होः। चि॒त्। या। व॒रि॒वो॒वित्त॒रेति॑ वरिवो॒वित्ऽतरा॑। अस॑त्। ६८।
महीधरः
म० कुत्सदृष्टा त्रिष्टुप् व्याख्याता ( ८ । ४ ) ॥ ६८ ॥
एकोनसप्ततितमी॥
अधिमन्त्रम् (VC)
- आदित्या देवताः
- कुत्स ऋषिः
- स्वराट्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (आदित्यासः) सूर्यवत् तेजस्वी पूर्णविद्यावाले लोगो ! जैसे (देवानाम्) विद्वानों का (यज्ञः) संगति के योग्य संग्रामादि व्यवहार (सुम्नम्) सुख करने को (प्रत्येति) उलटा प्राप्त होता है, वैसे (मृडयन्तः) सुखी करनेवाले (भवत) होवो। जैसे (वः) तुम्हारी (वरिवोवित्तरा) अत्यन्त सेवा को प्राप्त (अर्वाची) हमारे अनुकूल (सुमतिः) उत्तम बुद्धि (आ, ववृत्यात्) अच्छे प्रकार वर्त्ते (अंहोः) अपराधी की (चित्) भी वैसे सुख करनेवाली हमारे अनुकूल बुद्धि (असत्) होवे ॥६८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जिस देश में पूर्ण विद्यावाले राजकर्मचारी हों, वहाँ सबकी एकमति होकर अत्यन्त सुख बढ़े ॥६८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे आदित्यासः पूर्णविद्या यूयं यथा देवानां यज्ञो सुम्नं प्रत्येति तथा मृडयन्तो भवत। यथा वो वरिवोवित्तराऽर्वाची सुमतिराववृत्यादंहोश्चित् तथा सुखकारी असत् ॥६८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यस्य देशस्य मध्ये पूर्णविद्या राजकर्मकराः स्युस्तत्र सर्वेषामेका मतिर्भूत्वा सुखमत्यन्तं वर्धेत ॥६८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. ज्या देशात पूर्ण विद्या प्राप्त केलेले राज्य कर्मचारी असतील तेथे सर्वांचे एकमत होऊन अत्यंत सुख वाढते.
६९ अदब्धेभिः सवितः
विश्वास-प्रस्तुतिः ...{Loading}...
अद॑ब्धेभिः सवितः पा॒युभि॒ष्ट्वँ शि॒वेभि॑र॒द्य परि॑ पाहि नो॒ गय॑म्। हिर॑ण्यजिह्वः सुवि॒ताय॒ नव्य॑से॒ रक्षा॒ माकि॑र्नोऽअ॒घशँ॑सऽ ईशत ॥६९ ॥
मूलम् ...{Loading}...
अद॑ब्धेभिः सवितः पा॒युभि॒ष्ट्वँ शि॒वेभि॑र॒द्य परि॑ पाहि नो॒ गय॑म्। हिर॑ण्यजिह्वः सुवि॒ताय॒ नव्य॑से॒ रक्षा॒ माकि॑र्नोऽअ॒घशँ॑सऽ ईशत ॥६९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अद॑ब्धेभिः। स॒वित॒रिति॑ सवितः। पा॒युभि॒रिति॑ पा॒युभिः॑। त्वम्। शि॒वेभिः॑। अ॒द्य। परि॑। पा॒हि॒। नः॒। गयम्। हिर॑ण्यजिह्व इति॒ हिर॑ण्यऽजिह्वः। सु॒विताय॑। नव्य॑से। र॒क्ष॒। माकिः॑ नः॒। अ॒घशं॑सः। ई॒श॒त॒। ६९।
महीधरः
म० भरद्वाजदृष्टा जगती सवितृदेवत्या । हे सवितः सर्वस्य प्रसवितः, पायुभिः पालनैः नोऽस्माकं गयं गृहं धनं वा त्वमद्य परिपाहि रक्ष । ‘गयः कृदरः’ इति गृहनामसु, ‘मीड्हुं गयः’ इति धननामस्वपि पाठात् गृहधनयोर्गयशब्दः। कीदृशैः पायुभिः । अदब्धेभिः अदब्धैरनुपहिंसितैः । शिवेभिः शान्तैः सुखरूपैः । कीदृशस्त्वम् । हिरण्यजिह्वः हिरण्यवदविचला जिह्वा यस्य सत्यवाक् । यद्वा ‘हिरण्या हितरमणीया जिह्वा ज्वाला यस्येति वा ‘हिरण्यं कस्मादित्यादि हितरमणीयं भवतीति वा’ ( निरु० २ । १३ । १२) इति यास्कोक्तेः । किंच नव्यसे नवीयसे नवतराय सुविताय सु इताय सुखाय अस्मान् रक्ष पालय । किंच माकिः मा कश्चनाघशंसः पापमाशंसमानः शत्रुः नोऽस्माकमीशत ऐश्वर्यं कुर्यात् । त्वत्प्रसादात्पाप्मास्माकमीशिता मा भूदित्यर्थः । ईशत लङ् ‘बहुलं छन्दसि’ (पा० २। ४ । ७३ ) इति शपो लुगभावः अडभावश्च ॥ ६९ ॥
सप्ततितमी।
अधिमन्त्रम् (VC)
- सविता देवता
- भरद्वाज ऋषिः
- निचृज्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सवितः) अनेक पदार्थों के उत्पादक तेजस्वि विद्वन् राजन् ! (त्वम्) आप (अदब्धेभिः) अहिंसित (शिवेभिः) कल्याणकारी (पायुभिः) रक्षाओं से (अद्य) आज (नः) हमारे (गयम्) प्रशंसा के योग्य सन्तान, धन और घर की (परि, पाहि) सब ओर से रक्षा कीजिये (हिरण्यजिह्वः) सबके हित में रमण करने योग्य वाणीवाले हुए आप (नव्यसे) अत्यन्त नवीन (सुविताय) ऐश्वर्य के लिये (नः) हमारी (रक्ष) रक्षा कीजिये, जिससे (अघशंसः) पाप की प्रशंसा करनेवाला दुष्ट चोर हम पर (माकिः) न (ईशत्) समर्थ होवे ॥६९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - प्रजाजनों को राजपुरुषों से ऐसा सम्बोधन करना चाहिये कि तुम लोग हमारे सन्तान, धन, घर और पदार्थों की रक्षा से नवीन ऐश्वर्य को प्राप्त करा के हमको पीड़ा देने हारे दुष्टों से दूर रक्खो ॥६९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सवितस्वमदब्धेभिः शिवेभिः पायुभिरद्य नो गयं परिपाहि, हिरण्यजिह्वः सन् नव्यसे सुविताय नो रक्ष, यतोऽघशंसो नो माकिरीशत ॥६९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - प्रजाजनै राजपुरुषा एवं सम्बोधनीया यूयमस्माकमपत्यधनगृहादीनां पदार्थानां रक्षणेन नवीनं नवीनमैश्वर्यं प्रापय्यास्मभ्यं पीडाप्रदान् दूरे रक्षत ॥६९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - प्रजेने राजपुरुषांकडून अशी अपेक्षा करावी की, राजपुरुषांनी संतान, धन, घर वगैरे पदार्थांचे रक्षण करून नवनवीन प्रकारचे ऐश्वर्य प्राप्त करावे व प्रजेला त्रास देणाऱ्या दुष्टांना दूर करावे.
७० प्र वीरया
विश्वास-प्रस्तुतिः ...{Loading}...
प्र वी॑र॒या शुच॑यो दद्रिरे वामध्व॒र्युभि॒र्मधु॑मन्तः सु॒तासः॑। वह॑ वायो नि॒युतो॑ या॒ह्यच्छा॒ पिबा॑ सु॒तस्यान्ध॑सो॒ मदा॑य ॥७० ॥
मूलम् ...{Loading}...
प्र वी॑र॒या शुच॑यो दद्रिरे वामध्व॒र्युभि॒र्मधु॑मन्तः सु॒तासः॑। वह॑ वायो नि॒युतो॑ या॒ह्यच्छा॒ पिबा॑ सु॒तस्यान्ध॑सो॒ मदा॑य ॥७० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्र। वी॒र॒येति॑ वीर॒ऽया। शुच॑यः। द॒द्रिरे॒। वा॒म्। अ॒ध्व॒र्युभि॒रित्य॑ध्वर्युऽभिः॑। मधु॑मन्त॒ इति॒ मधु॑मन्तः। सु॒तासः॑। वह॑। वा॒योऽइति॑ वायो। नि॒युत॒ इति॑ नि॒ऽयुतः॑। या॒हि॒। अच्छ॑। पिब॑। सु॒तस्य॑। अन्ध॑सः। मदा॑य। ७०।
महीधरः
म० वसिष्ठदृष्टा त्रिष्टुप् । वायुदेवत्याः पञ्चदश ऋचः द्वे प्रतीकोक्ते एवं सप्तदशकः पुरोरुचां समूहः । वामिति द्विवचनं पत्नीयजमानविषयम् । हे पत्नीयजमानौ, वां युवयोः स्वभूताः सोमाः दद्रिरे विदीर्णाः चूर्णीभूताः ‘द्रु विदारणे’ कर्मकर्तरि लिट् । कीदृशाः । प्रवीरया प्रकृष्टा वीरा ज्ञानोद्भवा ऋत्विजो येषां सोमानां ते प्रवीराः ‘सुपां सुलुक्’ (पा० ७ । १।३९) इति जसो याजादेशः। शुचयः निर्मलाः । अध्वर्युभिः सुतासः सुताः अभिषवधर्मेण ‘ग्रावभिः द्रवीभावमापादिताः अभिषुण्वन्ति चत्वारः पर्युपवेशनसामर्थ्यात्’ ( का. ९।५।१) इति कात्यायनस्मरणादध्वर्युभिरिति बहुवचनम् । अध्वरनेतृभिर्ऋत्विग्विशेषैः सुता इत्यर्थः । मधुमन्तः मधुनिग्राभ्यारूपमुदकं तद्वन्तः । एवं पूर्वार्धे पत्नीयजमानौ संबोध्य वायुमाह । वाति सर्वत्र गच्छति वायुः हे वायो, नियुतोऽश्वान् त्वं वह देवयजनदेशं प्रापय अच्छ याहि । अच्छाभेरर्थे आप्तुमिति वा । सोमाभिमुखं सोममाप्तुं वा याहीत्यर्थः । यात्वा च मदाय तृप्तये मत्ततायै वा सुतस्याभिषुतस्यान्धसः सोमस्य स्वमंशं पिब ॥ ७० ॥
एकसप्ततितमी।
अधिमन्त्रम् (VC)
- वायुर्देवता
- वसिष्ठ ऋषिः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजा प्रजा जनो ! जो (वाम्) तुम दोनों के (मधुमन्तः) प्रशंसित ज्ञानयुक्त (सुतासः) विद्या और उत्तम शिक्षा से सिद्ध किये गये (शुचयः) पवित्र मनुष्य (अध्वर्युभिः) हिंसा और अन्याय से पृथक् रहनेवाले के साथ (वीरया) वीर पुरुषों से युक्त सेना में शत्रुओं को (प्र, दद्रिरे) अच्छे प्रकार विदीर्ण करते हैं, उनके साथ हे (वायो) वायु के सदृश वर्त्तमान बलिष्ठ राजन् ! आप (नियुतः) निरन्तर संयुक्त-वियुक्त होनेवाले वायु आदि गुणों को (वह) प्राप्त कीजिये। और (अच्छा, याहि) अच्छे प्रकार प्राप्त हूजिये तथा (मदाय) आनन्द के लिये (सुतस्य) सिद्ध किये हुए (अन्धसः) अन्न के रस को (पिब) पीजिये ॥७० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो पवित्र आचरण करनेवाले राजप्रजा के हितैषी विज्ञानयुक्त पुरुष वीरों की सेना से शत्रुओं को विदीर्ण करते हैं, उनको प्राप्त होके राजा आनन्दित होवे। राजा जैसा अपने लिये आनन्द चाहे, वैसे राजप्रजाजनों के लिये भी चाहे ॥७० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे राजप्रजाजनौ ! ये वां मधुमन्तः सुतासः शुचयो जना अध्वर्युभिः वीरया सेनया शत्रून् प्र दद्रिरे तैः सह हे वायो ! त्वं नियुतः वह अच्छ याहि मदाय सुतस्यान्धसो रसं च पिब ॥७० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये पवित्राचरणा राजप्रजाभक्ता विज्ञानवन्तो वीरसेनया शत्रून् विदृणन्ति तान् प्राप्य राजाऽऽनन्दितो भवेत्। यथा स्वस्मा आनन्दमिच्छेत् तथा राजप्रजाजनेभ्योऽपि काङ्क्षेत ॥७० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - पवित्र आचरण असणारे, राजा व प्रजेचे हित करणारे, विज्ञान जाणणारे, असे पुरुष वीरांच्या सेनेचे साह्य घेऊन शत्रूंना नष्ट करतात. अशा लोकांसह राजाने आनंदात राहावे. राजा जसा आपल्यासाठी आनंदाची इच्छा बाळगतो तशी इच्छा राजाने प्रजाजनाबाबतही ठेवावी.
७१ गावऽउपावतावतं मही
विश्वास-प्रस्तुतिः ...{Loading}...
गाव॒ऽउपा॑वताव॒तं म॒ही य॒ज्ञस्य॑ र॒प्सुदा॑। उ॒भा कर्णा॑ हिर॒ण्यया॑ ॥७१ ॥
मूलम् ...{Loading}...
गाव॒ऽउपा॑वताव॒तं म॒ही य॒ज्ञस्य॑ र॒प्सुदा॑। उ॒भा कर्णा॑ हिर॒ण्यया॑ ॥७१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
गावः। उप॑। अ॒वत॒। अ॒वतम्। म॒हीऽइति॑ म॒ही। य॒ज्ञस्य॑। र॒प्सुदा॑। उभा। कर्णा॑। हि॒र॒ण्यया॑। ७१।
महीधरः
म०. गाव उपेति व्याख्याता ( ३३ । १९) ॥ ७१॥
द्विसप्ततितमी।
अधिमन्त्रम् (VC)
- मित्रावरुणौ देवते
- वसिष्ठ ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब पृथिवी सूर्य कैसे हैं, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनु्ष्यो ! जैसे (रप्सुदा) सुन्दर रूप देनेवाले (उभा) दोनों (कर्णा) कार्यसाधक (हिरण्यया) ज्योतिःस्वरूप (मही) महत्परिमाणवाले सूर्य-पृथिवी (यज्ञस्य) संगत संसार के (अवतम्) कूप के तुल्य रक्षा करनेवाले होते और (गावः) किरण भी रक्षक होवें, वैसे इनकी तुम लोग (उप, अवत) रक्षा करो ॥७१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे किसान लोग कूप के जल से खेतों और वाटिकाओं की सम्यक् रक्षा कर धनवान् होते, वैसे पृथिवी-सूर्य सबके धनकारक होते हैं ॥७१ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ पृथिवीसूर्यौ कीदृशावित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा रप्सुदा उभा कर्णा हिरण्यया मही यज्ञस्यावतमिव रक्षिके भवतो गावश्च रक्षकाः स्युस्तथैतान् यूयमुपावत ॥७१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा कृषीवलाः कूपोदकेन क्षेत्राण्यारामांश्च संरक्ष्य श्रीमन्तो भवन्ति तथा पृथिवीसूर्यौ सर्वेषां श्रीकारके भवतः ॥७१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसे शेतकरी विहिरीच्या पाण्याने शेती व मळे यांचे रक्षण करतात व श्रीमंत होतात तसे पृथ्वी व सूर्य सर्वांना धन प्राप्त करून देतात.
७२ काव्ययोराजानेषु क्रत्वा
विश्वास-प्रस्तुतिः ...{Loading}...
काव्य॑योरा॒जाने॑षु॒ क्रत्वा॒ दक्ष॑स्य दुरो॒णे। रि॒शाद॑सा स॒धस्थ॒ऽआ ॥७२ ॥
मूलम् ...{Loading}...
काव्य॑योरा॒जाने॑षु॒ क्रत्वा॒ दक्ष॑स्य दुरो॒णे। रि॒शाद॑सा स॒धस्थ॒ऽआ ॥७२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
काव्य॑योः। आ॒जाने॒ष्वित्या॒ऽजाने॑षु। क्रत्वा॑। दक्ष॑स्य। दु॒रो॒णे। रि॒शाद॑सा। स॒धस्थ॒ इति॑ स॒धऽस्थे॑। आ। ७२।
महीधरः
म० दक्षदृष्टा गायत्री मैत्रावरुणी । कवीनां क्रान्तदर्शिनां ज्ञानसमुच्चयकारिणां हितौ काव्यौ तयोः । रिशन्ति हिंसन्ति रिशाः तानासमन्ताद्दस्यतो नाशयतः तौ रिशादसौ । द्विवचनं मित्रावरुणविषयम् । हे रिशादसौ शत्रूपक्षयितारौ मित्रावरुणौ, यजमानस्य सधस्थे देवमनुष्याणां सहसोमपानस्थाने युवाम् आ आगच्छतम् । कीदृशस्य यजमानस्य । काव्ययोः कविहितयोर्युवयोः आजानेषु आ समन्ताज्जन्मसु सोमपानार्थमाविर्भूतभूमिषु देवयजनादिषु दुरोणे यज्ञगृहे च क्रत्वा क्रतुना यज्ञकर्मणा कृत्वा दक्षस्य उत्साहवतः यज्ञं समर्धयत इत्यर्थः । दक्षस्येति विशेषणाद्यजमानपदमध्याहर्तव्यम् । आ इत्युपसर्गेण गच्छतमिति क्रियाध्याहारः ॥ ७२ ॥
त्रिसप्ततितमी।
अधिमन्त्रम् (VC)
- विद्वान् देवता
- दक्ष ऋषिः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब अध्यापक और उपदेशक के विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (रिशादसा) अविद्यादि दोषों के नाशक अध्यापक उपदेशक लोगो ! (काव्ययोः) कवि विद्वानों ने बनाये व्यवहार परमार्थ के प्रतिपादक ग्रन्थों के (आजानेषु) जिनसे विद्वान् होते उन पठन-पाठनादि व्यवहारों में (क्रत्वा) बुद्धि से वा कर्म करके (दक्षस्य) कुशल पुरुष के (सधस्थे) जिसमें साथ मिल कर बैठें, उस (दुरोणे) घर में तुम लोग (आ) आया करो ॥७२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जो अध्यापक तथा उपदेशक लोग राजा-प्रजा जनों को बुद्धिमान्, बलयुक्त, नीरोग, आपस में प्रीतिवाले, धर्मात्मा और पुरुषार्थी करें, वे पिता के तुल्य सत्कार करने योग्य हैं ॥७२ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथाऽध्यापकोपदेशकविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे रिशादसा ! काव्ययो राजानेषु क्रत्वा दक्षस्य सधस्थे दुरोणे युवामागच्छतम् ॥७२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यावध्यापकोपदेशकौ राजप्रजाजनान् प्राज्ञान् बलयुक्तानरोगान् परस्परस्मिन् प्रीतिमतो धर्मात्मनः पुरुषार्थिनः संपादयेतां तौ पितृवत् सत्कर्तव्यौ स्तः ॥७२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! जे अध्यापक व उपदेशक राजा व प्रजा यांना बुद्धिमान, बलवान, निरोगी, प्रेमळ, धर्मात्मा व पुरुषार्थी करतात त्यांचा पित्याप्रमाणे सत्कार करावा.
७३ दैव्यावध्वर्यू आ
विश्वास-प्रस्तुतिः ...{Loading}...
दैव्या॑वध्वर्यू॒ आ ग॑तँ॒ रथे॑न॒ सूर्य॑त्वचा। मध्वा॑ य॒ज्ञँ सम॑ञ्जाथे। तं प्र॒त्नथा॑। अ॒यं वे॒नः ॥७३ ॥
मूलम् ...{Loading}...
दैव्या॑वध्वर्यू॒ आ ग॑तँ॒ रथे॑न॒ सूर्य॑त्वचा। मध्वा॑ य॒ज्ञँ सम॑ञ्जाथे। तं प्र॒त्नथा॑। अ॒यं वे॒नः ॥७३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दैव्यौ॑। अ॒ध्व॒र्यू॒ऽइत्य॑ध्वर्यू। आ। ग॒त॒म्। रथे॑न। सूर्य॑त्व॒चेति॒ सूर्य॑ऽत्वचा। मध्वा॑। य॒ज्ञम्। सम्। अ॒ञ्जा॒थ॒ऽ इत्य॑ञ्जाथे। ७३।
महीधरः
म० दैवेति व्याख्याता ( ३३ । ३३ ) तं प्रत्नथा (७ । १२) अयं वेनः ( ७ । १६) इति द्वे प्रतीकोक्ते ॥ ७३ ॥
चतुःसप्ततितमी।
अधिमन्त्रम् (VC)
- अध्वर्यू देवते
- दक्ष ऋषिः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब यान बनाने का विषय अगले मन्त्र में कहा है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (दैव्यौ) विद्वानों में कुशल प्रवीण (अध्वर्यू) अपने आत्मा को अहिंसा धर्म चाहते हुए विद्वानो ! तुम दोनों (सूर्यत्वचा) सूर्य के तुल्य कान्तिवाले (रथेन) आनन्द के हेतु यान से (आ, गतम्) आया करो और आकर (मध्वा) मधुर भाषण से (यज्ञम्) चलने रूप व्यवहार को (सम्, अञ्जाथे) सम्यक् प्रकट करो ॥७३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि पृथिवी, जल और अन्तरिक्ष में चलनेवाले उत्तम शोभायमान सूर्य के तुल्य प्रकाशित यानों को बनावें और उनसे अभीष्ट कामनाओं को सिद्ध करें ॥७३ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ याननिर्माणविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे दैव्यावध्वर्यू ! युवां सूर्यत्वचा रथेनागतमागत्य मध्वा यज्ञं समञ्जाथे ॥७३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्यानि भूजलान्तरिक्षगमकानि सुशोभितानि सूर्यवत् प्रकाशितानि यानानि निर्मातव्यानि तैरभीष्टाः कामाः साधनीयाः ॥७३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी पृथ्वी, जल व अंतरिक्षात चालणारी, तसेच सूर्यासारखी प्रकाशमय याने तयार करावीत व त्यांच्याकडून इष्ट कामनांची पूर्तता करवून घ्यावी.
७४ तिरश्चीनो विततो
विश्वास-प्रस्तुतिः ...{Loading}...
ति॒र॒श्चीनो॒ वित॑तो र॒श्मिरे॑षाम॒धः स्वि॑दा॒सी३दु॒परि॑ स्विदासी३त्। रे॒तो॒धाऽआ॑सन् महि॒मान॑ऽआसन्त्स्व॒धाऽअ॒वस्ता॒त् प्रय॑तिः प॒रस्ता॑त् ॥७४ ॥
मूलम् ...{Loading}...
ति॒र॒श्चीनो॒ वित॑तो र॒श्मिरे॑षाम॒धः स्वि॑दा॒सी३दु॒परि॑ स्विदासी३त्। रे॒तो॒धाऽआ॑सन् महि॒मान॑ऽआसन्त्स्व॒धाऽअ॒वस्ता॒त् प्रय॑तिः प॒रस्ता॑त् ॥७४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ति॒र॒श्चीनः॑। वित॑त॒ऽइति॒ विऽत॑तः। र॒श्मिः। ए॒षा॒म्। अ॒धः। स्वि॒त्। आ॒सीत्। उ॒परि॑। स्वि॒त्। आ॒सी॒त्। रे॒तो॒धा इति॑ रेतः॒ऽधाः। आ॒स॒न्। म॒हि॒मानः॑। आ॒स॒न्। स्व॒धा। अ॒वस्ता॑त्। प्रय॑ति॒रिति॒ प्रऽय॑तिः। प॒रस्ता॑त्। ७४।
महीधरः
म० प्रजापतिदृष्टा त्रिष्टुप् भाववृत्तदेवत्या । भावेषु पदार्थेषु वृत्तः स्थितो भाववृत्तः परमात्मा सोऽस्या देवता । आग्रयणग्रहे विनियोगः क्रमपाठाल्लभ्यते ततोऽधियज्ञं तावद्ख्या>तयते । ‘आधवनीयादुन्नेता निग्राभ्यास्वासिञ्चति ताः पवित्रे यजमानस्ततो ग्रहग्रहणमा ध्रुवादिति’ ( का० ९ । ५। १७ ) कात्यायनेनोक्तं तदभिप्रायेणोच्यते । एषां पूयमानसोमानां रश्मिः यमनात् ऋजीषादिकल्कनियामको दशापवित्रलक्षणः तिरश्चीनः तिर्यङ् एव विततो विस्तारितः उद्गातृभिरिति शेषः । तस्मिन् दशापवित्रे सोमः प्रक्षिप्तः सन् दशापवित्रादधश्च आसीत् उपरि च आसीत् । स्विच्छब्दौ चार्थो । उपरि स्विदासीदितीकारः प्लुतः । किंच तत्रैके पदार्था ग्रहचमसाधवनीयद्रोणकलशादयो रेतोधा आसन् रेतो जगदुत्पत्तिबीजं सोमं दधति धारयन्ति ते रेतोधाः सोमाधारभूताः आसन् । ‘यज्ञाद्वै प्रजाः प्रजायन्ते’ इति श्रुतेर्जगद्बीजत्वं सोमस्य । तथाऽपरे पदार्थाः सोमरसरूपास्तत्राधेयाः सन्तो महिमानः महान्तः उत्कृष्टा आसन् । आधाराधेयभावेन सर्वोऽयं यज्ञात्मैव स्थित इति भावः । ‘ब्रह्मार्पणं ब्रह्म हविः’ इति स्मृतेः । किंच स्वधान्नं तद्रूपः अवस्तात् अवरो होमात् प्राक् नीच आसीत् । प्रयतिः प्रयतते प्रयतिः प्रयत्नवान् होमानन्तरं लब्धफलकः सन् परस्तात् परः उत्कृष्टः आसीत् । अथाधिदैवतं व्याख्या । एषां प्रसिद्धानां सूर्यरश्मीनां मध्ये एकः सुषुम्णाख्यो रश्मिः तिरश्चीनः विततः विस्तृतः सन् किम् द्युलोकादधःस्वित् आसीत् उतोपरिस्विदासीत् । स्विदिति वितर्के । ‘विचार्यमाणानाम्’ (पा. ८ । २ । ९७ ) इति प्लुतः । किंच स रश्मिः रेतोधाः रेतसो विश्वबीजस्योदकस्य धारयिता आसीत् । व्यत्ययेनैकवचनम् । तथाच श्रुतिः ‘सूर्यस्य ह वा एको रश्मिर्वृष्टिवनिर्नाम येनेमाः सर्वाः प्रजा बिभर्ति’ इति । अन्ये रश्मयो महिमानः माहात्म्याधायका आसन् विश्वप्रकाशत्वेन । किंच स्वधान्ननिष्पादकः स एव रश्मिः अवस्तात् अवरो भूम्यभिमुखः प्रयतिः प्रयत्नात्सोर्ध्वमुखः सन् परस्तात् परः उत्कृष्टः दर्शनमात्रेण देवानां तृप्तिदः । तथोक्तं छान्दोग्यश्रुतौ ‘असौ वा आदित्यो देवमध्वि’त्युपक्रम्य ‘न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति’ ( छां० ५।१।६ ) इति । अथाध्यात्मपक्षे व्याख्या । नासदासीदिति सप्तर्चेऽध्यात्मप्रतिपादके सूक्ते (ऋ. ८। ७ । १७) बह्वृच इमामृचं पठन्ति तत्र । नासदासीदिति निरस्तसमस्तप्रपञ्चां प्रलयावस्थामनूद्य विश्वबीजमविद्योक्ता । कामस्तदग्रे समवर्ततेति पादेन च काम उक्तः । मनसो रेतः प्रथमं यदासीदिति पादेन पुण्यापुण्यात्मकं कर्मोक्तम् । एवमविद्याकामकर्माणि सृष्टिहेतून्युक्त्वा तेषां स्वकार्यजनने शैघ्र्यमाह तिरश्चीन इति । एषामविद्याकामकर्मणां रश्मिरिव रश्मिः कार्यवर्गो वियदादि विततः विस्तृतः सन् तिरश्चीनः तिर्यगवस्थितो मध्ये स्थितः अधश्चासीदुपरि चासीत् । सूर्यरश्मिवद्युगपत्सर्वं व्यापेत्यर्थः । तदेव विभजते रेतोधा इति । सृष्टे कार्यवर्गे केचन रेतोधाः रेतसो बीजभूतस्य कर्मणो विधातारः कर्तारो भोक्तारश्च जीवाः आसन् । अन्ये महिमानः महान्तो विपुला वियदादयो भोग्या आसन् । महिमान इति स्वार्थे इमनिच् । एवं मायायामीश्वरः सर्वं जगत्सृष्ट्वा स्वयं चानुप्रविश्य भोक्तृभोग्यरूपेण विभागं कृतवानित्यर्थः । तयोर्भोक्तृभोग्ययोर्मध्ये स्वधान्नं भोग्यप्रपञ्चोऽवस्तादवरो निकृष्ट आसीत्। प्रयतिः प्रयतिता भोक्ता परस्तात् परः उत्कृष्टः भोक्तृप्रपञ्चाधीनं भोग्यप्रपञ्चं कृतवानित्यर्थः । ‘विभाषा परावराभ्याम्’ (पा० ५। ३ । २९) इति प्रथमार्थेऽस्तातिप्रत्ययः । ‘अस्ताति च’ (पा० ५। ३ । ४० ) इत्यवरशब्दस्यावादेशः । ‘एतद्वा इदᳪं᳭ं᳭ सर्वमन्नं चैवान्नादश्च’ इति श्रुतेः ॥ ७४ ॥
पञ्चसप्ततितमी ।
अधिमन्त्रम् (VC)
- सूर्यो देवता
- प्रजापतिर्ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब बिजुली के विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (एषाम्) इन विद्युत् और सूर्य आदि की (तिरश्चीनः) तिरछे गमनवाली (विततः) विस्तारयुक्त (रश्मिः) किरण वा दीप्ति (अधः) नीचे (स्वित्) भी (आसीत्) है (उपरि) ऊपर (स्वित्) भी (आसीत्) है तथा (अवस्तात्) इधर से और (परस्तात्) उधर से (प्रयतिः) प्रयतनवाली है, उसके विज्ञान से (रेतोधाः) पराक्रम को धारण करनेवाले (आसन्) हों तथा (महिमानः) पूज्य और (स्वधा) अपने धनादि पदार्थ के धारक होते हुए आप लोग उपकारी (आसन्) हूजिये ॥७४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जिस बिजुली की दीप्ति सबके भीतर रहती हुई सब दिशाओं में व्याप्त है, वही सबको धारण करती है, ऐसा तुम लोग जानो ॥७४ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ विद्युद्विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! एषां तिरश्चीनो विततो रश्मिरधः स्विदासीदुपरि स्विदासीदवस्तात् परस्ताच्च प्रयतिरस्ति तद्विज्ञानेन रेतोधा आसन् महिमानः स्वधा सन्तो भवन्त उपकारका आसन् ॥७४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यस्या विद्युतो दीप्तिरन्तस्था सती सर्वासु दिक्षु व्याप्ताऽस्ति, सैव दधातीति यूयं विजानीत ॥७४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! ज्या विद्युतचा सर्वत्र वास असतो व सर्व दिशांमध्ये ती व्याप्त असते तीच सर्वांना धारण करते हे तुम्ही जाणा.
७५ आ रोदसीऽअपृणदा
विश्वास-प्रस्तुतिः ...{Loading}...
आ रोद॑सीऽअपृण॒दा स्व॑र्म॒हज्जा॒तं यदे॑नम॒पसो॒ऽअधा॑रयन्। सोऽअ॑ध्व॒राय॒ परि॑ णीयते क॒विरत्यो॒ न वाज॑सातये॒ चनो॑हितः ॥७५ ॥
मूलम् ...{Loading}...
आ रोद॑सीऽअपृण॒दा स्व॑र्म॒हज्जा॒तं यदे॑नम॒पसो॒ऽअधा॑रयन्। सोऽअ॑ध्व॒राय॒ परि॑ णीयते क॒विरत्यो॒ न वाज॑सातये॒ चनो॑हितः ॥७५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ। रोद॑सी॒ऽइति॒ रोद॑सी। अ॒पृ॒ण॒त्। आ। स्वः॑। म॒हत्। जा॒तम्। यत्। ए॒न॒म्। अ॒पसः॑। अधा॑रयन्। सः। अ॒ध्व॒राय॑। परि॑। नी॒य॒ते॒। क॒विः। अत्यः॑। न। वाज॑सातये॒ऽइति॒ वाज॑ऽसातये। चनो॑हित॒ऽइति॒ चनः॑ऽहितः। ७५।
महीधरः
म० तमेव वैश्वानराख्यं भोक्तारं परमात्मानं स्तौति । विश्वामित्रदृष्टा जगती वैश्वानरदेवत्या । यत् यदा जातमरणीत उत्पन्नमात्रमेनं वैश्वानरमपसोऽपस्विनः कर्मवन्तो यजमाना अधारयन् कर्मणि स्थापितवन्तः । तदा स रोदसी द्यावाभूमी आ सर्वतः अपृणत् पूरयति स्म । स्थावराणां प्रस्तरादौ तदुपलब्धेः । न केवलं रोदसी किंतु महत्प्रभूतं स्वः अन्तरिक्षमापृणत्सूर्यात्मना । त्रैलोक्यं जाठरात्मना पूरितमित्यर्थः । गार्हपत्यादीनां लोकत्वं श्रुत्योक्तम् ‘अयं वै लोको गार्हपत्यो द्यौराहवनीय’ इति । उक्तार्थमेव विवृणोति स इति । सोऽग्निरध्वराय यागाय परिणीयते सर्वतोऽतिप्रणीताग्नीध्रीयादिधिष्ण्यादिषु प्रकर्षेण प्रापय्यते । नयने दृष्टान्तः । अत्यो न यथाश्वो वाजसातयेऽन्नलाभाय सर्वतो नीयते । राजाश्ववान्भोगजातं लभते यथा तद्वद्विप्रोऽग्निं सेवमानो ब्रह्मलोकान्तभोगानिति भावः । कीदृशोऽग्निः । कविः सर्वज्ञः चनोहितः चन इत्यन्ननामेति यास्कः । चनसेऽन्नाय भोग्याय हितः सर्वभोगसंपादक इत्यर्थः ॥ ७५ ॥
षट्सप्ततितमी।
अधिमन्त्रम् (VC)
- विद्वान् देवता
- विश्वामित्र ऋषिः
- निचृज्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (यत्) जो विद्युत् रूप अग्नि (रोदसी) सूर्य-पृथिवी और (महत्) महान् (जातम्) प्रसिद्ध (स्वः) अन्तरिक्ष को (आ, अपृणत्) अच्छे प्रकार व्याप्त होता (एनम्) इस अग्नि को (अपसः) कर्म (आ, अधारयन्) अच्छे प्रकार धारण करते तथा जो (कविः) शब्द होने का हेतु अग्नि (अध्वराय) अहिंसा नामक शिल्पविद्या रूप यज्ञ के तथा (वाजसातये) वेग के सम्यक् सेवन के लिये (अत्यः) मार्ग को व्याप्त होनेवाले घोड़े के (नः) समान विद्वानों ने (परि, नीयते) प्राप्त किया है, (सः) वह (चनोहितः) पृथिवी आदि अन्न के लिये हितकारी है, ऐसा तुम लोग जानो ॥७५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि अनेक प्रकार के विज्ञान और कर्मों से बिजुली रूप अग्नि की विद्या को प्राप्त हो, भूमि आदि में व्याप्त विभागकर्ता साधन किया हुआ यान आदि को शीघ्र पहुँचानेवाले अग्नि को कार्यों में उपयुक्त करें ॥७५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यद्यो विद्युद्रूपोऽग्नी रोदसी महज्जातं स्वश्चाऽऽपृणदेनमपस आधारयन् यश्च कविरध्वराय वाजसातये चात्यो न विद्वद्भिः परिणीयते स चनोहितोऽस्तीति यूयं विजानीत ॥७५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैरनेकविधैर्विज्ञानकर्मभिर्विद्युद्विद्यां लब्ध्वा भूम्यादिषु व्याप्तो विभाजकश्च साधितः सन् यानादीनां सद्यो गमयिताऽग्निः कार्येषूपयोक्तव्यः ॥७५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी अनेक प्रकारचे ज्ञान व कर्म करून विद्युतरूपी अग्निविद्या प्राप्त करावी व भूमीत व्याप्त असलेला, विलग करणारा, यानाना वेगाने पोहोचविणारा अशा अग्नीचा उपयोग करून घ्यावा.
७६ उक्थेभिर्वृत्रहन्तमा या
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒क्थेभि॑र्वृत्र॒हन्त॑मा॒ या म॑न्दा॒ना चि॒दा गि॒रा। आ॒ङ्गू॒षैरा॒विवा॑सतः ॥७६ ॥
मूलम् ...{Loading}...
उ॒क्थेभि॑र्वृत्र॒हन्त॑मा॒ या म॑न्दा॒ना चि॒दा गि॒रा। आ॒ङ्गू॒षैरा॒विवा॑सतः ॥७६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उ॒क्थेभिः॑। वृ॒त्र॒हन्त॒मेति॑ वृत्र॒हन्ऽत॑मा। या। मन्दा॒ना। चि॒त्। आ। गि॒रा। आ॒ङ्गूषैः। आ॒विवा॑सत॒ इत्या॒विवा॑सतः। ७६।
महीधरः
म० वसिष्ठदृष्टेन्द्राग्निदेवत्या गायत्री । या यौ इन्द्रामी आङ्गूषैः आघोषैः चित् लौकिकवाक्स्तोमैरपि स्तुतौ आ आगच्छतः ‘आङ्गूषः स्तोम आघोषः’ (निरु० ५। ११) इति यास्कः । तौ उक्थेभिः उक्थैः गिरा स्तोत्रात्मिकया स्तुत्या आविवासतः आविवस्येते परिचर्येते यजमानैरिति शेषः । व्यत्ययेन कर्तरि लट् । ‘विवासतिः परिचर्यायाम्’ ( निरु० ११ । २३ ) इति यास्कः । कीदृशौ तौ । वृत्रहन्तमा वृत्राणामावरकाणां पाप्मनां हन्तृतमौ ‘नाद्धस्य’ ( पा० ८ । २ । १७) इति नुम् । मन्दाना मन्दानौ मोदमानौ स्वभावतः । सर्वत्र विभक्तेर्डादेशः ॥ ७६ ॥
सप्तसप्ततितमी।
अधिमन्त्रम् (VC)
- इन्द्राग्नी देवते
- वसिष्ठ ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
कैसे मनुष्य सत्कार के योग्य हों, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (या) जो (मन्दाना) आनन्द देनेवाले (वृत्रहन्तमा) धर्म का निरोध करनेहारे पापियों के नाशक सभा सेनापति के (चित्) समान (गिरा) वाणी (आङ्गूषैः) अच्छे घोष और (उक्थेभिः) प्रशंसा योग्य स्तुतियों के साधक वेद के भागरूप मन्त्रों से शिल्प विज्ञान का (आविवासतः) अच्छे प्रकार सेवन करते हैं, उन अध्यापक उपदेशकों की मनुष्यों को (आ) अच्छे प्रकार सेवा करनी चाहिये ॥७६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य सभा सेनाध्यक्ष के तुल्य विद्यादि कार्य्यों के साधक सुन्दर उपदेशों से सबको विद्वान् करते हुए प्रवृत्त हों, वे ही सबको सत्कार करने योग्य हों ॥७६ ॥
दयानन्द-सरस्वती (सं) - विषयः
कीदृशा जनाः सत्कारार्हाः स्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - या मन्दाना वृत्रहन्तमा सभासेनाध्यक्षौ चिदिव गिरा आङ्गूषैरुक्थेभिश्च शिल्पविज्ञानमाविवासत-स्तावध्यापकोपदेशकौ मनुष्यैरासेवनीयौ ॥७६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्याः सभासेनाध्यक्षवद्विद्यादिकार्यसाधकाः सूपदेशैः सर्वान् विदुषः संपादयन्तः प्रवृत्ताः स्युस्त एव सर्वैः सत्कर्त्तव्या भवेयुः ॥७६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे सभा व सेनाध्यक्षाप्रमाणे विद्या इत्यादी कार्यात रत असतात व चांगल्या उपदेशांनी सर्वांना विद्वान बनवितात त्यांचा सर्वांनी सत्कार करावा.
७७ उप नः
विश्वास-प्रस्तुतिः ...{Loading}...
उप॑ नः सू॒नवो॒ गिरः॑ शृ॒ण्वन्त्व॒मृत॑स्य॒ ये। सु॒मृ॒डी॒का भ॑वन्तु नः ॥७७ ॥
मूलम् ...{Loading}...
उप॑ नः सू॒नवो॒ गिरः॑ शृ॒ण्वन्त्व॒मृत॑स्य॒ ये। सु॒मृ॒डी॒का भ॑वन्तु नः ॥७७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उप॑। नः॒। सू॒नवः॑। गिरः॑। शृ॒ण्वन्तु॑। अ॒मृत॑स्य। ये। सु॒मृ॒डी॒का इति॑ सुऽमृडी॒का भ॒व॒न्तु॒। नः॒। ७७।
महीधरः
म० सुहोत्रदृष्टा वैश्वदेवी गायत्री । ये अमृतस्य मरणहीनस्य प्रजापतेः सूनवः पुत्राः विश्वेदेवाः ते नोऽस्माकं गिरः उपशृण्वन्तु समीपमागत्यावधारयन्तु । श्रुत्वा च नोऽस्माकं सुमृडीकाः सुखकराः भवन्तु । शोभनं मृडीकं सुखं येभ्यस्ते ॥ ७७ ॥
अष्टसप्ततितमी ।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- सुहोत्र ऋषिः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब माता-पिता अपने सन्तानों के प्रति क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ये) जो (नः) हमारे (सूनवः) सन्तान (अमृतस्य) नाशरहित परमेश्वर के सम्बन्ध की वा नित्य वेद की (गिरः) वाणियों को (उप, शृण्वन्तु) अध्यापकादि के निकट सुनें वे (नः) हमारे लिये (सुमृडीकाः) उत्तम सुख करनेहारे (भवन्तु) होवें ॥७७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो माता-पिता अपने पुत्रों और कन्याओं को ब्रह्मचर्य के साथ वेदविद्या और उत्तम शिक्षा से युक्त कर शरीर और आत्मा के बलवाले करें तो उन सन्तानों के लिये अत्यन्त हितकारी हों ॥७७ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ पितरौ स्वसन्तानान् प्रति किं कुर्यातामित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये नः सूनवोऽमृतस्य गिर उपशृण्वन्तु ते नस्सुमृडीका भवन्तु ॥७७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदि मातापितरौ स्वपुत्रान् कन्याश्च ब्रह्मचर्येण वेदविद्यया सुशिक्षया च युक्तान् कृत्वा शरीरात्मबलवतः कुर्यातां तर्हि तेभ्योऽत्यन्तसुखकरौ स्याताम् ॥७७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे माता-पिता आपल्या मुला-मुलींना ब्रह्मचर्यपालन व वेदविद्या शिकवून शरीर व आत्मा बलवान करतात त्यांच्या संतानांचे कल्याण होते.
७८ ब्रह्माणि मे
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्मा॑णि मे म॒तयः॒ शँसु॒तासः॒ शुष्म॑ऽइयर्त्ति॒ प्रभृ॑तो मे॒ऽअद्रिः॑। आ शा॑सते॒ प्रति॑ हर्य्यन्त्यु॒क्थेमा हरी॑ वहत॒स्ता नो॒ऽअच्छ॑ ॥७८ ॥
मूलम् ...{Loading}...
ब्रह्मा॑णि मे म॒तयः॒ शँसु॒तासः॒ शुष्म॑ऽइयर्त्ति॒ प्रभृ॑तो मे॒ऽअद्रिः॑। आ शा॑सते॒ प्रति॑ हर्य्यन्त्यु॒क्थेमा हरी॑ वहत॒स्ता नो॒ऽअच्छ॑ ॥७८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ब्रह्मा॑णि। मे॒। म॒तयः॑। शम्। सु॒तासः॑। शुष्मः॑। इ॒य॒र्त्ति॒। प्रभृ॑त॒ इति॒ प्रभृ॑तः। मे॒। अद्रिः॑। आ। शा॒स॒ते॒। प्रति॑। ह॒र्य्य॒न्ति॒। उ॒क्था। इ॒मा। हरी॒ऽइति॒ हरी॑। व॒ह॒तः॒। ता। नः॒। अच्छ॑। ७८।
महीधरः
म० तिस्रस्त्रिष्टुभः द्वे इन्द्रमरुत्संवादे इन्द्रमरुद्देवत्ये । आद्येऽगस्त्यदृष्टे । इन्द्रो मरुतः सहचरानाह । हे मरुतः, ब्रह्माणि मन्त्रवाक्यात्मकानि स्तुतिवचांसि हवींषि वा सोमाज्यादीनि मे मम स्वभूतानि । चोदनावाक्येऽग्न्यादिदेवतान्तरसंबन्धेन प्रतीयमानान्यपि सर्वदेवताप्राणात्मनो ममेन्द्रस्यैव तानीति भावः । मतयः मननयुक्ताः स्तुतयोऽपि शं मम सुखोत्पादिकाः अतो यज्ञे गन्तव्यमिति भावः । किंच मे मया प्रभृतः प्रकर्षेण धृतः अद्रिः वज्रः इयर्ति गच्छत्येव लक्ष्यंप्रति । न प्रतिहन्यत इत्यर्थः। कीदृशः । शुष्मः शोषयति शत्रूनिति शुष्मः। अतएव गमने राक्षसाद्युपद्रवो नास्तीत्यर्थः । न केवलं हविरादीनां मदीयत्वेन गन्तव्यम् अपितु आशासति प्रार्थयन्ते यजमाना यानि उक्था उक्थानि ता तानि स्तोत्रशस्त्राणि मां प्रतिहर्यन्ति कामयन्ते । हर्यतिः प्रेप्साकर्मेति यास्कः । किंच नोऽस्माकमिमा इमौ हरी अश्वौ अच्छ यज्ञाभिमुखं वहतः मां प्रापयतः । अत एवास्माभिर्गन्तव्यमिति भावः । यद्वार्थान्तरम् । ब्रह्माणि मतयः सुताः सोमाः प्रहृतः अद्रिः सोमाभिषवग्रावा शुष्मः सुखरूपः एतत् सर्वं मम शं सुखमियर्ति अर्पयति उद्गमयति । णिजन्तर्भूतः समानमन्यत् । शुष्मः ‘अविसिविशुषिभ्यः कित्’ ( उणा० १ । १४२ ) इति मन्प्रत्ययः कित्त्वाद्गुणाभावः नित्त्वादाद्युदात्तः । अत्ति भक्षयति रिपूनित्यद्रिः ‘अदिशदिभूशुभिभ्यः क्रिन्’ ( उणा० ४ । ६६) इति क्रिन्प्रत्ययः आद्युदात्तः ॥ ७८ ॥
एकोनाशीतितमी।
अधिमन्त्रम् (VC)
- इन्द्रामरुतौ देवते
- अगस्त्य ऋषिः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर विद्वान् लोग क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (सुतासः) विद्या और सुन्दर शिक्षा से युक्त ऐश्वर्यवाले (मतयः) बुद्धिमान् लोग (मे) मेरे लिये जिन (ब्रह्माणि) धनों की (प्रति, हर्यन्ति) प्रतीति से कामना करते और (इमा) इन (उक्था) प्रशंसा के योग्य वेदवचनों की (आ, शासते) अभिलाषा करते हैं और (शुष्मः) बलकारी (प्रभृतः) अच्छे प्रकार हवनादि से पुष्ट किया (अद्रिः) मेघ (मे) मेरे लिये जिस (शम्) सुख को (इयर्त्ति) पहुँचाता (ता) उनको (नः) हमारे लिये (हरी) हरणशील अध्यापक और अध्येता (अच्छा, वहतः) अच्छे प्रकार प्राप्त होते हैं ॥७८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे विद्वानों ! जिस कर्म से विद्या और मेघ की उन्नति हो उसकी क्रिया करो। जो लोग तुमसे विद्या और सुशिक्षा चाहते हैं, उनको प्रीति से देओ और जो आपसे अधिक विद्यावाले हों, उनसे तुम विद्या ग्रहण करो ॥७८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्विद्वांसः किं कुर्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - सुतासो मतयो मे यानि ब्रह्माणि प्रति हर्य्यन्ति इमोक्थाऽऽशासते शुष्मः प्रभृतोऽद्रिर्मे यत् शमियर्त्ति ता तानि नोऽस्मभ्यं हर्य्यच्छ वहतः ॥७८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे विद्वांसो ! येन कर्मणा विद्यामेधोन्नतिः स्यात् तत्कुरुत ये युष्मद्विद्यासुशिक्षे कामयन्ते तान् प्रीत्या प्रयच्छत ये भवद्भ्योऽधिकास्तेभ्यो यूयं विद्यां गृह्णीत ॥७८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे विद्वानांनो ! ज्या कार्याने विद्या व मेधा यांची उन्नती होते ती क्रिया करा. जे लोक तुमच्याकडून विद्या व चांगले शिक्षण शिकू इच्छितात त्यांना प्रेमाने विद्या शिकवा व जे तुमच्यापेक्षा जास्त विद्यावान असतील त्यांच्याकडून विद्या ग्रहण करा.
७९ अनुत्तमा ते
विश्वास-प्रस्तुतिः ...{Loading}...
अनु॑त्त॒मा ते॑ मघव॒न्नकि॒र्नु न त्वावाँ॑२ऽअस्ति दे॒वता॒ विदा॑नः। न जाय॑मानो॒ नश॑ते॒ न जा॒तो यानि॑ करि॒ष्या कृ॑णु॒हि प्र॑वृद्ध ॥७९ ॥
मूलम् ...{Loading}...
अनु॑त्त॒मा ते॑ मघव॒न्नकि॒र्नु न त्वावाँ॑२ऽअस्ति दे॒वता॒ विदा॑नः। न जाय॑मानो॒ नश॑ते॒ न जा॒तो यानि॑ करि॒ष्या कृ॑णु॒हि प्र॑वृद्ध ॥७९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अनु॑त्त॒म्। आ। ते॒। म॒घ॒व॒न्निति॑ मघऽवन्। नकिः॑। नु। न। त्वावा॒न्निति त्वाऽवा॑न्। अ॒स्ति॒। दे॒वता॑ विदा॑नः। न। जाय॑मानः। नश॑ते। न। जा॒तः। यानि॑। क॒रि॒ष्या। कृ॒णु॒हि। प्र॒वृ॒द्घेति॑ प्रऽवृद्ध। ७९।
महीधरः
म० एवमिन्द्रेणोक्ता मरुतः प्रत्याहुः । ‘नुद प्रेरणे’ अस्य निष्ठायां ‘नसत्तनिषत्त-’ (पा. ८।२।६१ ) इत्यादिना अनुत्तमिति निपातः । आ इति स्मरणे । स्मृतवन्तो वयम् । हे मघवन् धनवन् इन्द्र, ते तव अनुत्तं न केनापि नुत्तं नाशितं महाभाग्यमिति शेषः । नु निश्चये । नकिः न कोऽपि त्वन्महाभाग्यनाश इति शेषः । न केवलं तवैश्वर्यमात्रं किंतु सर्वज्ञत्वमपीत्याह न त्वेति । वतुरत्र सादृश्ये । त्वावान् त्वत्सदृशो विदानः विद्वान् देवता देवो नास्ति । स्वार्थे तल् विदेः शानन् नित्त्वादाद्युदात्तः । किंच हे प्रवृद्ध प्रकर्षेण वृद्ध पुराणपुरुष, यानि कर्माणि वृत्रवधादीनि त्वं कृणुहि करोषि । व्यत्ययेन लोट् । तानि कर्माणि जायमानः वर्तमानः जातो भूतपूर्वश्च देवमनुष्येषु कश्चित् न नशते न व्याप्नोति । न करोतीत्यर्थः । नशतिर्व्याप्तिकर्मा । न करिष्या न च करिष्यति । उत्पत्स्यमान इति शेषः । तिलोपो दीर्घश्च छान्दसः । कालत्रये त्वादृशो नास्तीत्यर्थः । अतो यज्ञेशस्त्वम् ॥ ७९ ॥
अशीतितमी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- अगस्त्य ऋषिः
- त्रिष्टुप्
- धैवतः
८० तदिदास भुवनेषु
विश्वास-प्रस्तुतिः ...{Loading}...
तदिदा॑स॒ भुव॑नेषु॒ ज्येष्ठं॒ यतो॑ ज॒ज्ञऽ उ॒ग्रस्त्वे॒षनृ॑म्णः। स॒द्यो ज॑ज्ञा॒नो निरि॑णाति॒ शत्रू॒ननु॒ यं विश्वे॒ मद॒न्त्यूमाः॑ ॥८० ॥
मूलम् ...{Loading}...
तदिदा॑स॒ भुव॑नेषु॒ ज्येष्ठं॒ यतो॑ ज॒ज्ञऽ उ॒ग्रस्त्वे॒षनृ॑म्णः। स॒द्यो ज॑ज्ञा॒नो निरि॑णाति॒ शत्रू॒ननु॒ यं विश्वे॒ मद॒न्त्यूमाः॑ ॥८० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
तत्। इत्। आ॒स॒। भुव॑नेषु। ज्येष्ठ॑म्। यतः॑। ज॒ज्ञे। उ॒ग्रः। त्वे॒षनृ॑म्ण॒ इति॑ त्वे॒षऽनृ॑म्णः। स॒द्यः। ज॒ज्ञा॒नः। निरि॑णाति। शत्रू॑न्। अनु॑। यम्। विश्वे॑। मद॑न्ति। ऊमाः॑। ८०।
महीधरः
म० बृहद्दिवदृष्टा माहेन्द्री त्रिष्टुप् । भुवनेषु भूतजातेषु तत् इत् तदेव ज्येष्ठं श्रेष्ठमास बभूव । ‘छन्दस्युभयथा’ (पा० ३। ४ । ११७) इति लिटः सर्वधातुत्वादस्तेर्भूभावः । न सर्वोत्कृष्टं ब्रह्मैवासीत् यतो ज्येष्ठात् उग्रः उत्कृष्टः इन्द्रो जज्ञे जातः। कीदृशः। त्वेषनृम्णः त्वेषः कान्तिः नृम्णं धनं यस्य तेजोधनः कार्यं दृष्ट्वा कारणमहत्त्वं कल्प्यते। किंच य इन्द्रो जज्ञानः जायमान एव सद्यः तत्क्षणं शत्रून्निरिणाति नितरां हन्ति । ‘री वधे’ क्र्यादिः प्वादित्वाद्ध्रस्वः । किंच विश्वे सर्वे देवाः यमिन्द्रमनुमदन्ति अनुतृप्यन्ति । ‘अनुर्लक्षणे’ (पा० १।४। ८४) इति द्वितीया ‘यद्वृत्तान्नित्यम्’ (पा. ८।१।६६) इति मदन्तीत्यत्र निघातो न । कीदृशा । विश्वे ऊमाः अवन्ति रक्षन्ति ऊमाः रक्षकाः । अवतेर्मन्प्रत्ययः ‘छ्वोः शूड्-’ (पा० ६ । ४ । १९) इति ऊठ् ॥ ८० ॥
एकाशीतितमी।
अधिमन्त्रम् (VC)
- महेन्द्रो देवता
- बृहद्दिव ऋषिः
- पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (यतः) जिससे (उग्रः) तेज स्वभाववाला (त्वेषनृम्णः) सुन्दर प्रकाशित धन से युक्त वीर पुरुष (जज्ञे) उत्पन्न हुआ, जो (जज्ञानः) उत्पन्न हुआ (शत्रून्) शत्रुओं को (सद्यः) शीघ्र (निरिणाति) निरन्तर मारता है, (विश्वे) सब (ऊमाः) रक्षादि कर्म करनेवाले लोग (यम्) जिसके (अनु) पीछे (मदन्ति) आनन्द करते हैं, (तत्, इत्) वही ब्रह्म परमात्मा (भुवनेषु) लोक-लोकान्तरों में (ज्येष्ठम्) सबसे बड़ा, मान्य और श्रेष्ठ (आस) है, ऐसा तुम जानो ॥८० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जिसकी उपासना से शूरवीरता को प्राप्त हो शत्रुओं को मार सकते हैं, जिसकी उपासना कर विद्वान् लोग आनन्दित होके सबको आनन्दित करते हैं, उसी सबसे उत्कृष्ट सबके उपास्य परमेश्वर का सब लोग निश्चय करें ॥८० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यत उग्रस्त्वेषनृम्णो वीरो जज्ञे यो जज्ञानः शत्रून् सद्यो निरिणाति विश्वा ऊमा यमनुमदन्ति तदिदेव ब्रह्म भुवनेषु ज्येष्ठमासेति विजानीत ॥८० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यस्योपासनाच्छूरा वीरत्वमुपलभ्य शत्रून् हन्तुं शक्नुवन्ति, यमुपास्य विद्वांस आनन्दिता भूत्वा सर्वानानन्दयन्ति, तमेव सर्वोत्कृष्टं सर्वोपास्यं परमेश्वरं सर्वे निश्चिन्वन्तु ॥८० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! ज्याची उपासना केल्याने शूरपणा प्राप्त होऊन शत्रूंचा नायनाट करता येतो. ज्याची उपासना केल्याने विद्वान लोक आनंदित होऊन सर्वांना आनंदित करतात. अशा सर्वात उत्कृष्ट व उपास्य असणाऱ्या परमेश्वराला सर्वांनी निश्चितपणे जाणावे.
८१ इमाऽउ त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒माऽउ॑ त्वा पुरूवसो॒ गिरो॑ वर्द्धन्तु॒ या मम॑। पा॒व॒कव॑र्णाः॒ शुच॑यो विप॒श्चितो॒ऽभि स्तोमै॑रनूषत ॥८१ ॥
मूलम् ...{Loading}...
इ॒माऽउ॑ त्वा पुरूवसो॒ गिरो॑ वर्द्धन्तु॒ या मम॑। पा॒व॒कव॑र्णाः॒ शुच॑यो विप॒श्चितो॒ऽभि स्तोमै॑रनूषत ॥८१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इ॒माः। ऊँ॒ऽइत्यूँ॑। त्वा॒। पु॒रू॒व॒सो॒। पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो। गिरः॑। व॒र्द्ध॒न्तु॒। याः। मम॑। पा॒व॒कव॒॑र्णा॒ इति॑ पाव॒कऽव॑र्णाः। शुच॑यः। वि॒प॒श्चित॒ इति॑ विपः॒ऽचितः। अ॒भि। स्तोमैः॑। अ॒नू॒ष॒त॒। ८१।
महीधरः
म० मेधातिथिदृष्टे आदित्यदेवत्ये द्वे बृहत्यौ । पुरु बहु वसु धनं यस्य स पुरुवसुः । संहितायां छान्दसो दीर्घः पुरुशब्दस्य । हे पुरुवसो बहुधनादित्य, या मम गिरः शस्त्ररूपा वाचः इमाः त्वा त्वां वर्धन्तु वर्धयन्तु । किंच विपश्चितो विद्वांसः तव स्वरूपाभिज्ञा उद्गातारश्च स्तोमैः स्तोत्रैः बहिष्पवमानादिभिः त्वामभ्यनूषत अस्तुवत । ‘नू स्तुतौ’ लुङ् कुटादित्वाद्गुणाभावः । कीदृशा विपश्चितः । पावकवर्णाः अग्नितुल्यतेजसः ब्रह्मवर्चसवन्तोऽत एव शुचयः शुद्धागमाः स्तोत्रशस्त्ररूपा गिरस्त्वां स्तुवन्तीत्यर्थः ॥ ८१ ॥
द्व्यशीतितमी ।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- मेधातिथिर्ऋषिः
- निचृद्बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (पुरूवसो) बहुत पदार्थों में वास करनेहारे परमात्मन् ! (याः) जो (इमाः) ये (मम) मेरी (गिरः) वाणी (त्वा) आपको (उ) निश्चय कर (वर्द्धन्तु) बढ़ावें, उनको प्राप्त होके (पावकवर्णाः) अग्नि के तुल्य वर्णवाले तेजस्वी (शुचयः) पवित्र हुए (विपश्चितः) विद्वान् लोग (स्तोमैः) पदार्थविद्याओं की प्रशंसाओं से (अभि, अनूषत) सब ओर से प्रशंसा करें ॥८१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि सदैव ईश्वर की स्तुति, प्रार्थना, उपासना, उस ईश्वर की सत्ता के प्रतिपादन तथा अभ्यास और सत्यभाषण से अपनी वाणियों को शुद्ध कर विद्वान् होके सब पदार्थविद्याओं को प्राप्त होवें ॥८१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे पुरूवसो परमात्मन् ! या इमा मम गिरस्त्वा उ वर्द्धन्तु ताः प्राप्य पावकवर्णाः शुचयो विपश्चित स्तोमैरभ्यनूषत ॥८१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैः सदैवेश्वरस्तुतिप्रार्थनोपासनाभिस्तदस्तित्वप्रतिपादनेनाऽभ्याससत्यभाषणाभ्याञ्च स्ववाचः शुद्धाः संपाद्य विद्वांसो भूत्वा सर्वाः पदार्थविद्याः प्राप्तव्याः ॥८१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी नेहमी ईश्वराची स्तुती, प्रार्थना व उपासना, ईश्वराच्या सत्तेचे प्रतिपादन, अभ्यास आणि सत्य भाषण यांनी आपली वाणी शुद्ध करून विद्वान व्हावे, तसेच सर्व पदार्थविद्या प्राप्त करावी.
८२ यस्यायं विश्वऽआर्यो
विश्वास-प्रस्तुतिः ...{Loading}...
यस्या॒यं विश्व॒ऽआर्यो॒ दासः॑ शेवधि॒पाऽअ॒रिः। ति॒रश्चि॑द॒र्य्ये रु॒शमे॒ पवी॑रवि॒ तुभ्येत्सोऽअ॑ज्यते र॒यिः ॥८२ ॥ति॒रश्चि॑द॒र्य्ये रु॒शमे॒ पवी॑रवि॒ तुभ्येत्सोऽअ॑ज्यते र॒यिः ॥८२ ॥
मूलम् ...{Loading}...
यस्या॒यं विश्व॒ऽआर्यो॒ दासः॑ शेवधि॒पाऽअ॒रिः। ति॒रश्चि॑द॒र्य्ये रु॒शमे॒ पवी॑रवि॒ तुभ्येत्सोऽअ॑ज्यते र॒यिः ॥८२ ॥ति॒रश्चि॑द॒र्य्ये रु॒शमे॒ पवी॑रवि॒ तुभ्येत्सोऽअ॑ज्यते र॒यिः ॥८२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यस्यः॑ अ॒यम्। विश्वः॑। आर्य्यः॑। दासः॑। शे॒व॒धि॒पा इति॑ शेवधि॒ऽपाः। अ॒रिः। ति॒रः। चि॒त्। अ॒र्य्ये। रु॒शमे॑। पवी॑रवि। तुभ्य॑। इत्। सः। अ॒ज्य॒ते॒। र॒यिः। ८२।
महीधरः
म० हे आदित्य, यस्य तवायं विश्वः सर्वोऽपि आर्यः वर्णाश्रमविहितकर्मानुष्ठाता सन् दासः दासवत् सर्वदा रक्षणीयः शेवधिपाः निधिरक्षकः कृपणो यस्य तवारिः शत्रुः । निधिः शेवधिरिति यास्कः । किंच एवंविधे कृपणे अर्ये धनखामिनि वैश्ये वा तिरश्चित् । तिरोऽन्तर्धौ चिदप्यर्थे । अन्तर्भूतो भूमिगर्तादौ निक्षिप्तोऽपि तस्य रयिर्धननिचयः तुभ्यं इत् मलोपश्छान्दसः । तुभ्यमेव त्वदर्थमेवाज्यते व्यक्तो भवति । कर्मकर्तरि यक् । कृपणस्य धनं त्वदर्थमेवोपयुज्यते पक्षहरणादिना नतु कृपणभोगाय भवतीत्यर्थः । कीदृशेऽर्थे । रुशमे रुशतिर्हिंसाकर्मा औणादिकोऽमप्रत्ययः । रुशति हिनस्तीति रुशमः तस्मिन् धनापहर्तॄणां हिंसके । आतिथ्यादितिरस्कारेणात्मनोऽपि हिंसके । पवीरवि पविः शल्यमस्यास्तीति पवीरमायुधम् रो मत्वर्थीयः । पवीरं वाति गच्छति पवीरवाः तस्मिन् धनरक्षार्थमायुधधारके । तथाच यास्कः ‘पविः शल्यो भवति यद्धि पुनाति कायं तद्वत्पवीरमायुधं तद्वानिन्द्रः पवीरवान्’ (नि. १२ । ३१) इति । धनिनातियत्नेन गुप्तमपि धनं तत आच्छिद्य धर्मिष्ठाय ददातीति भावः ॥ ८२॥
त्र्यशीतितमी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- मेधातिथिर्ऋषिः
- निचृद्बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
अब राजधर्म विषय को कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! (यस्य) जिस आपको (अयम्) यह (विश्वः) सब (आर्य्यः) धर्मयुक्त गुण, कर्म स्वभाववाला पुरुष (दासः) सेवकवत् आज्ञाकारी (शेवधिपाः) धरोहर धन का रक्षक अर्थात् धर्मादि कार्य वा राजकर देने में व्यय करनेहारा जन (अरिः) और शत्रु (पवीरवि) धनादि की रक्षा के लिये शस्त्र को प्राप्त होनेवाला (रुशमे) हिंसक व्यवहार वा (अर्य्ये) धनस्वामी वैश्य आदि के निमित्त (तिरः) छिपनेवाला (चित्) भी (तुभ्य) आपके लिये (इत्) निश्चय से है (सः) वह आप (रयिः) धन के समान (अज्यते) प्राप्त होते हैं ॥८२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जिस राजा के सब आर्य राज्यरक्षक और आज्ञापालक हैं, जो धनादि कर का अदाता शत्रु उससे भी जिन आपने धनादि कर ग्रहण किया, वे आप सबसे उत्तम शोभावाले हों ॥८२ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ राजधर्म्मविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! यस्य तवायं विश्व आर्य्यो दासः शेवधिपा अरिः पवीरवि रुशमेऽर्य्ये तिरश्चित् तुभ्येत्स त्वं रयिरज्यते ॥८२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यस्य राज्ञः सर्व आर्य्या राज्यरक्षकाः सेवकाः सन्ति, धनादिकरस्यादाता च शत्रुस्तस्मादपि येन भवता धनादिकरो गृह्यते स सर्वोत्तमश्रीः स्यात् ॥८२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्या राजाचे राज्यरक्षक श्रेष्ठ व आज्ञापालन करणारे असतात, तसेच कर न देणाऱ्या शत्रूंकडूनही कर प्राप्त करतात ते सर्वत्र प्रसिद्ध होतात.
८३ अयम्ं सहस्रमृषिभिः
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒यंँ स॒हस्र॒मृषि॑भिः॒ सह॑स्कृतः समु॒द्रऽइ॑व पप्रथे। स॒त्यः सोऽअ॑स्य महि॒मा गृ॑णे॒ शवो॑ य॒ज्ञेषु॑ विप्र॒राज्ये॑ ॥८३ ॥
मूलम् ...{Loading}...
अ॒यंँ स॒हस्र॒मृषि॑भिः॒ सह॑स्कृतः समु॒द्रऽइ॑व पप्रथे। स॒त्यः सोऽअ॑स्य महि॒मा गृ॑णे॒ शवो॑ य॒ज्ञेषु॑ विप्र॒राज्ये॑ ॥८३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒यम्। स॒हस्र॑म्। ऋषि॑भि॒रित्यृषि॑ऽभिः। सह॑स्कृतः। सहः॑कृत॒ इति॒ सहः॑ऽकृतः। स॒मु॒द्रःऽइ॒वेति॑ समु॒द्रःऽइ॑व। प॒प्र॒थे॒। स॒त्यः। सः। अ॒स्य॒। म॒हि॒मा। गृ॒णे॒। शवः॑। य॒ज्ञेषु॑। वि॒प्र॒राज्य॒ इति॑ विप्र॒ऽराज्ये॑। ८३।
महीधरः
म० मेधातिथिदृष्टादित्यदेवत्या सतोबृहती । अयमादित्यरूप इन्द्रः समुद्र इव उदधिवत् पप्रथे प्रथितो विस्तीर्णो व्यापकोऽभूत् । कीदृशोऽयम् । ऋषिभिरतीन्द्रियार्थदर्शिभिः सहस्कृतः सहसा बलेन युक्तः कृतः । स्तुत्या हि देवताबलं वर्धते । किंच अस्यादित्यस्य स महिमा सत्योऽवितथः । शवो बलं च सत्यम् । यज्ञेषु विप्रराज्ये विप्राणां राज्ये स्तोत्रशस्त्रसंदेहे गृणे स्तौमि तं महिमानमिति शेषः । यज्ञेषु विप्राः स्वतन्त्राः राजान इव भवन्ति । राज्ञां कर्म राज्यम् । स्तोत्रशस्त्राणां संसदि पठनेन सोऽयं स्तूयत इत्यर्थः ॥ ८३ ॥
चतुरशीतितमी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- मेधातिथिर्ऋषिः
- निचृत्सतः पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (अयम्) यह सभापति राजा (ऋषिभिः) वेदार्थवेत्ता राजर्षियों के साथ (सहस्रम्) असंख्य प्रकार के ज्ञान को प्राप्त (सहस्कृतः) बल से संयुक्त (सत्यः) और श्रेष्ठ व्यवहारों वा विद्वानों में उत्तम चतुर है (अस्य) इसका (महिमा) महत्त्व (समुद्रइव) समुद्र वा अन्तरिक्ष के तुल्य (पप्रथे) प्रसिद्ध होता है तो (सः) वह पूर्वोक्त मैं प्रजाजन इस राजा के (यज्ञेषु) संगत राजकार्यों और (विप्रराज्ये) बुद्धिमानों के राज्य में (शवः) बल की (गृणे) स्तुति करता हूँ ॥८३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो राजादि राजपुरुष विद्वानों के सङ्ग में प्रीति करनेवाले, साहसी, सत्यगुण-कर्म-स्वभावों से युक्त बुद्धिमान् के राज्य में अधिकार को पाये हुए संगत, न्याय और विनय से युक्त कामों को करें, उनकी आकाश के सदृश कीर्ति विस्तार को प्राप्त होती है ॥८३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यद्ययं सभेशो राजा राजर्षिभिः सह सहस्रमसङ्ख्यं ज्ञानं प्राप्तः सहस्कृतः सत्योऽस्त्यस्य महिमा समुद्र इव पप्रथे, तर्हि स प्रजाजनोऽहमस्य यज्ञेषु विप्रराज्ये च शवो गृणे ॥८३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये राजादयो राजजना विद्वत्सङ्गप्रियाः साहसिनः सत्यगुणकर्मस्वभावा मेधाविराज्येऽधिकृताः सङ्गतानि न्यायविनययुक्तानि कर्माणि कुर्युस्तेषामाकाशमिव कीर्तिर्विस्तीर्णा भवति ॥८३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे राजे व राजपुरुष वगैरे विद्वानांच्या संगतीने प्रेमळ, साहसी बनतात. सत्य गुण कर्म, स्वभावानेयुक्त, न्यायाने व विनयाने बुद्धिमानाच्या राज्यात प्रशंसा पदे प्राप्त करून कार्य करतात त्यांची कीर्ती आकाशाप्रमाणे पसरते.
८४ अदब्धेभिः सवितः
विश्वास-प्रस्तुतिः ...{Loading}...
अद॑ब्धेभिः सवितः पा॒युभि॒ष्ट्वँ शि॒वेभि॑र॒द्य परि॑ पाहि नो॒ गय॑म्। हिर॑ण्यजिह्वः सुवि॒ताय॒ नव्य॑से॒ रक्षा॒ माकि॑र्नोऽअ॒घशँ॑सऽईशत ॥८४ ॥
मूलम् ...{Loading}...
अद॑ब्धेभिः सवितः पा॒युभि॒ष्ट्वँ शि॒वेभि॑र॒द्य परि॑ पाहि नो॒ गय॑म्। हिर॑ण्यजिह्वः सुवि॒ताय॒ नव्य॑से॒ रक्षा॒ माकि॑र्नोऽअ॒घशँ॑सऽईशत ॥८४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अद॑ब्धेभिः। स॒वि॒त॒रिति॑ सवितः। पा॒युभि॒रिति॑ पा॒युऽभिः॑। त्वम्। शि॒वेभिः॑। अ॒द्य। परि॑। पा॒हि। नः॒। गय॑म्। हिर॑ण्यजिह्व॒ इति॒ हिर॑ण्यजिह्वः। सु॒वि॒ताय॑। नव्य॑से। र॒क्ष॒। माकिः॑। नः॒। अ॒घशं॑सः। ई॒श॒त॒। ८४।
महीधरः
म०. व्याख्याता ( ३३ । ६९) । षष्ठः पुरोरुग्गणः ।
समाप्तः॥ ८४॥
पञ्चाशीतितमी।
अधिमन्त्रम् (VC)
- सविता देवता
- भरद्वाज ऋषिः
- निचृज्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सवितः) समग्र ऐश्वर्य से युक्त राजन् ! (त्वम्) आप (अद्य) आज (अदब्धेभिः) न बिगाड़ने योग्य (शिवेभिः) मङ्गलकारी (पायुभिः) अनेक प्रकार के रक्षा के उपायों से (नः) हमारी (गयम्) प्रजा की (परि, पाहि) सब ओर से रक्षा कीजिये (हिरण्यजिह्वः) सबके हित में रमण करने योग्य वाणी से युक्त हुए (नव्यसे) अतिशय कर नवीन (सुविताय) ऐश्वर्य के अर्थ (नः) हमारी (रक्ष) रक्षा कीजिये, जिससे (अघशंसः) दुष्ट चोर हम पर (माकिः) न (ईशत) समर्थ वा शासक हो ॥८४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजाओं की योग्यता यह है कि सब प्रजा के सन्तानों की ब्रह्मचर्य, विद्यादान और स्वयंवर विवाह करा के और डाकुओं से रक्षा कर के उन्नति करें ॥८४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सविता राजंस्त्वमद्याऽदब्धेभिः शिवेभिः पायुभिर्नो गयं परिपाहि हिरण्यजिह्वः स नव्यसे सुविताय नोऽस्मान् रक्ष यतोऽघशंसोऽस्मदुपरि माकिरीशत ॥८४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - राज्ञां योग्यताऽस्ति सर्वस्याः प्रजायाः सन्तानान् ब्रह्मचर्य्यविद्यादानस्वयंवरविवाहैर्दस्युभ्यो रक्षणेन चोन्नयेयुरिति ॥८४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजाने सर्व प्रजेला विद्या द्यावी. ब्रह्मचर्य पालन करून स्वयंवर विवाहास प्रवृत्त करावे. प्रजेचेाोर व डाकूपासून रक्षण करावे.
८५ आ नो
विश्वास-प्रस्तुतिः ...{Loading}...
आ नो॑ य॒ज्ञं दि॑वि॒स्पृशं॒ वायो॑ या॒हि सु॒मन्म॑भिः। अ॒न्तः प॒वित्र॑ऽउ॒परि॑ श्रीणा॒नो᳙ऽयँ शु॒क्रोऽअ॑यामि ते ॥८५ ॥
मूलम् ...{Loading}...
आ नो॑ य॒ज्ञं दि॑वि॒स्पृशं॒ वायो॑ या॒हि सु॒मन्म॑भिः। अ॒न्तः प॒वित्र॑ऽउ॒परि॑ श्रीणा॒नो᳙ऽयँ शु॒क्रोऽअ॑यामि ते ॥८५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ। नः॒। य॒ज्ञम्। दि॒वि॒स्पृश॒मिति॑ दिवि॒ऽस्पृश॑म्। वायो॒ऽइति॒ वायो॑। या॒हि। सु॒मन्म॑भि॒रिति॑ सु॒मन्म॑ऽभिः। अ॒न्तरित्य॒न्तः। प॒वित्रे॑। उ॒परि॑। श्री॒णा॒नः। अ॒यम्। शु॒क्रः। अ॒या॒मि॒। ते॒। ८५।
महीधरः
म० इतोऽध्यायसमाप्त्यन्तं त्रयोदश ऋचः प्रतीकोक्ताश्चतस्रश्चेति ऐन्द्रवायवादिसावित्रान्तानां ग्रहाणां ग्रहणमन्त्राः पूर्ववत् । जमदग्निदृष्टा वायुदेवत्या बृहत्य आद्या नव द्वादशी च। दशम्येकादशीत्रयोदश्यः सतोबृहत्यः । हे वायो, नोऽस्माकं यज्ञमायाहि आगच्छ । कीदृशं यज्ञम् । दिविस्पृशं द्युलोकव्यापिनम् ऋत्विग्यजमानवैदुष्याद्दक्षिणासंपन्नत्वाच्च स्वर्गेऽपि श्रूयमाणमित्यर्थः । आगम्य किं फलमत आह अन्तरिति । अन्तः पात्रमध्यस्थः पवित्रे दशापवित्रस्योपरि श्रीणानः श्रयमाणः होतृचमसेन विषिच्यमानोऽयं शुक्रः शुद्धः ऋजीषकल्करहितः सोमो रसात्मा ते तुभ्यं त्वदर्थमयामि नियतः त्वदीयभागत्वेन मया संस्कृतः । ‘यमु उपरमे’ कर्मणि चिण् ॥ ८५ ॥
षडशीतितमी।
अधिमन्त्रम् (VC)
- वायुर्देवता
- जमदग्निर्ऋषिः
- विराड्बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (वायो) वायु के तुल्य वर्त्तमान राजन् ! जैसे मैं (अन्तः) अन्तःकरण में (पवित्रः) शुद्धात्मा (उपरि) उन्नति में (श्रीणानः) आश्रय करता हुआ (अयम्) यह (शुक्रः) शीघ्रकारी पराक्रमी हुआ (सुमन्मभिः) सुन्दर विज्ञानों से (ते) आपके (दिविस्पृशम्) विद्याप्रकाशयुक्त (यज्ञम्) संगत व्यवहार को (अयामि) प्राप्त होता हूँ, वैसे आप (नः) हमारे विद्याप्रकाशयुक्त उत्तम व्यवहार को (आ, याहि) अच्छे प्रकार प्राप्त हूजिये ॥८५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे वर्त्तमान वर्त्ताव से राजा प्रजाओं में चेष्टा करता है, वैसे ही भाव से प्रजा राजा के विषय में वर्त्ते। ऐसे दोनों मिल के सब न्याय के व्यवहार को पूर्ण करें ॥८५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे वायो राजन् ! यथाऽहमन्तः पवित्र उपरि श्रीणानोऽयं शुक्रः सन् सुमन्मभिस्ते दिविस्पृश यज्ञमयामि तथा त्वं नो दिविस्पृशं यज्ञमायाहि ॥८५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यादृशेन वर्त्तमानेन वृत्तेन राजा प्रजासु चेष्टेत तादृशेनैव भावेन प्रजा राजनि वर्त्तेत। एवमुभौ मिलित्वा सर्वं न्यायव्यवहारमलं कुर्याताम् ॥८५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. राजा जसा प्रजेशी वागतो तसे प्रजेनेही राजाशी वागावे. अशा प्रकारे दोघंनी मिळून न्यायी बनावे.
८६ इन्द्रवायू सुसन्दृशा
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒न्द्र॒वा॒यू सु॑स॒न्दृशा॑ सु॒हवे॒ह ह॑वामहे। यथा॑ नः॒ सर्व॒ऽइज्जनो॑ऽनमी॒वः स॒ङ्गमे॑ सु॒मना॒ऽअस॑त् ॥८६ ॥
मूलम् ...{Loading}...
इ॒न्द्र॒वा॒यू सु॑स॒न्दृशा॑ सु॒हवे॒ह ह॑वामहे। यथा॑ नः॒ सर्व॒ऽइज्जनो॑ऽनमी॒वः स॒ङ्गमे॑ सु॒मना॒ऽअस॑त् ॥८६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इ॒न्द्र॒वा॒यू इती॑न्द्रऽवा॒यू। सु॒स॒न्दृशेति॑ सुऽस॒न्दृशा॑। सु॒हवेति॑ सु॒ऽहवा॑। इ॒ह। ह॒वा॒म॒हे॒। यथा॑। नः॒। सर्वः॑। इत्। जनः॑। अ॒न॒मी॒वः। स॒ङ्गम॒ इति॑ स॒म्ऽगमे॑। सु॒मना॒ इति॑ सु॒ऽमनाः॑। अस॑त्। ८६।
महीधरः
म० तापसदृष्टैन्द्रवायवी । इह यज्ञे वयमिन्द्रवायू हवामहे आह्वयामः । उभयत्र वायोः प्रतिषेध इति आनङ्ङभावः। कीदृशी सुसंदृशा सुसदृशी सुतरां सम्यक् पश्यतस्तौ । सुहवा सुहवौ शोभनाह्वानौ । तथा हवामहे यथा नोऽस्माकं सर्वं इत् सर्व एव जनः पुत्रपौत्रादिरीदृशः असत् भवेत् । अस्तेर्लेट्यडागमः । कीदृशः। अनमीवः व्याधिरहितः। सङ्गमे धनप्राप्तौ बहूनां समागमे वा सुमनाः शोभनचित्तः । उदारो वक्ता चेत्यर्थः ॥ ८६ ॥
सप्ताशीतितमी।
अधिमन्त्रम् (VC)
- इन्द्रवायू देवते
- तापस ऋषिः
- निचृद्बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हम लोग जिन (सुसन्दृशा) सुन्दर प्रकार से सम्यक् देखनेवाले (सुहवा) सुन्दर बुलाने योग्य (इन्द्रवायू) राजप्रजाजनों को (इह) इस जगत् में (हवामहे) स्वीकार करते हैं (यथा) जैसे (सङ्गमे) संग्राम वा समागम में (नः) हमारे (सर्वः, इत्) सभी (जनः) मनुष्य (अनमीवः) नीरोग (सुमनाः) प्रसन्न चित्तवाले (असत्) होवें, वैसे किया करें ॥८६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। वैसे ही राजप्रजा-पुरुष प्रयत्न करें, जैसे सब मनुष्य आदि प्राणी नीरोग प्रसन्न मनवाले होकर पुरुषार्थी हों ॥८६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - वयं यौ सुसन्दृशा सुहवा इन्द्रवायू इह हवामहे यथा सङ्गमे नोऽनमीवः सुमनाः सर्व इज्जनो असत् तथा तौ कुर्याताम् ॥८६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। तथैव राजप्रजाजनाः प्रयतेरन् यथा सर्वे मनुष्यादयः प्राणिनोऽरोगाः प्रसन्नमनसो भूत्वा पुरुषार्थिनः स्युः ॥८६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. राजा व प्रजा यांनी असा प्रयत्न करावा की, ज्यामुळे सर्व माणसे निरोगी व प्रसन्न राहावीत, तसेच पुरुषार्थी बनावीत.
८७ ऋधगित्था स
विश्वास-प्रस्तुतिः ...{Loading}...
ऋध॑गि॒त्था स मर्त्यः॑ शश॒मे दे॒वता॑तये। यो नू॒नं मि॒त्रावरु॑णाव॒भिष्ट॑यऽआच॒क्रे ह॒व्यदा॑तये ॥८७ ॥
मूलम् ...{Loading}...
ऋध॑गि॒त्था स मर्त्यः॑ शश॒मे दे॒वता॑तये। यो नू॒नं मि॒त्रावरु॑णाव॒भिष्ट॑यऽआच॒क्रे ह॒व्यदा॑तये ॥८७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ऋध॑क्। इ॒त्था। सः। मर्त्यः॑। श॒श॒मे। दे॒वता॑तये॒ इति॑ दे॒वऽता॑तये। यः। नू॒नम्। मि॒त्रावरु॑णौ। अ॒भिष्ट॑ये। आ॒च॒क्रे इत्या॑ऽच॒क्रे। ह॒व्यदा॑तय॒ इति॑ ह॒व्यऽदा॑तये। ८७।
महीधरः
म० जमदग्निदृष्टा मैत्रावरुणी । नूनं निश्चितं यो मर्त्यो मनुष्यो मित्रावरुणौ आचक्रे आकुरुते सेवते ‘गन्धनावक्षेपण-’ (पा० १ । ३ । ३२ ) इत्यादिना करोतेः सेवनार्थे आत्मनेपदम् । किमर्थम् । अभिष्टये अभिमतलाभाय । पृषोदरादि. लोपः । हव्यदातये हविषो दानाय च । स नरः इत्था अनेन हेतुना सेवनरूपेण शशमे शाम्यति । यमनियमशमदमादियुक्तो भवतीत्यर्थः । कीदृक् सः । देवतातये देवस्य कर्म देवतातिः तस्मै यज्ञाय । ऋधक् ऋध्नोतीति ऋधक् समृद्धिमान् यज्ञसंपत्तिक्षमधनाढ्यः सन् शान्तो भवतीत्यर्थः । बट् श्रत् सत्रा अद्धा इत्थेति निपातः । सत्यवचनो वा । सत्यं शाम्यति । एत्वाभ्यासलोपाभाव आर्षः शशमेत्यत्र ॥ ८७ ॥
अष्टाशीतितमी।
अधिमन्त्रम् (VC)
- मित्रावरुणौ देवते
- जमदग्निर्ऋषिः
- निचृद्बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यः) जो (देवतातये) विद्वानों वा दिव्यगुणों के लिये (ऋधक्) समृद्धिमान् (मर्त्यः) मनुष्य (अभिष्टये) अभीष्ट सुख की प्राप्ति के अर्थ तथा (हव्यदातये) ग्रहण करने योग्य पदाथों की प्राप्ति के लिये (मित्रावरुणौ) प्राण और उदान के तुल्य राजा प्रजाजनों का (नूनम्) निश्चय (आचक्रे) सेवन करता (सः) वह जन (इत्था) इस उक्त हेतु से (शशमे) शान्त उपद्रवरहित होता है ॥८७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो शम-दम आदि गुणों से युक्त राजपुरुष और प्रजाजन इष्ट सुख को सिद्धि हेतु के लिये प्रयत्न करें, वे अवश्य समृद्धिमान् होवें ॥८७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यो देवतातय ऋधग्मर्त्योऽभिष्टये हव्यदातये च मित्रावरुणौ नूनमाचक्रे स नर इत्था शशमे ॥८७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये शमदमादिगुणान्विता राजप्रजाजना इष्टसुखसिद्धये प्रयतेरँस्तेऽवश्यं समृद्धिमन्तो भवेयुः ॥८७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे शम, दम इत्यादी गुणांनी युक्त राजपुरुष व प्रजाजन इष्ट सुखाच्या सिद्धीसाठी प्रयत्न करतात त्यांची समृद्धी होते.
८८ आ यातमुप
विश्वास-प्रस्तुतिः ...{Loading}...
आ या॑त॒मुप॑ भूषतं॒ मध्वः॑ पिबतमश्विना। दु॒ग्धं पयो॑ वृषणा जेन्यावसू॒ मा नो॑ मर्धिष्ट॒मा ग॑तम् ॥८८ ॥
मूलम् ...{Loading}...
आ या॑त॒मुप॑ भूषतं॒ मध्वः॑ पिबतमश्विना। दु॒ग्धं पयो॑ वृषणा जेन्यावसू॒ मा नो॑ मर्धिष्ट॒मा ग॑तम् ॥८८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ। या॒त॒म्। उप॑। भू॒ष॒त॒म्। मध्वः॑। पि॒ब॒त॒म्। अ॒श्वि॒ना॒। दु॒ग्धम्। पयः॑। वृ॒ष॒णा॒। जे॒न्या॒व॒सू॒ इति॑ जेन्याऽवसू। मा। नः॒। म॒र्धि॒ष्ट॒म्। आ। ग॒त॒म्। । ८८।
महीधरः
म० वसिष्ठदृष्टाश्विदेवत्या । हे अश्विना अश्विनौ, युवामायातं यज्ञं प्रत्यागच्छतम् । आगत्य च उपभूषतमलंकुरुतं यज्ञम् । मध्वः मधुरं सोमं पिबतम् । कर्मणि षष्ठी नुमभावश्छान्दसः । किंच हे वृषणा वृषणौ वर्षकौ यज्ञफलस्य सेक्तारौ, हे जेन्यावसू, जेन्यं जेतव्यं जितं वा आ समन्तात् वसु धनं याभ्यां तौ जेन्यावसू वशीकृतधनौ तादृशौ । युवां पयः वृष्ट्युदकं दुग्धमन्तरिक्षात्प्रक्षारयतम् । दुहेर्लोण्मध्यमद्विवचनं दुग्धमिति । किंच नोऽस्मान्मा मर्धिष्टं मा हिंस्तम् । मृधिर्हिंसार्थः लुङ् । किं बहुना युवामागच्छतम् । आदरार्थं पुनर्वचनम् ॥ ८८ ॥
एकोननवतितमी।
अधिमन्त्रम् (VC)
- अश्विनौ देवते
- वसिष्ठ ऋषिः
- निचृद्बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (वृषणा) पराक्रमवाले (जेन्यावसू) जयशीलजनों को बसानेवाले वा जीतने योग्य अथवा जीता है धन जिन्होंने ऐसे (अश्विना) विद्यादि शुभ गुणों में व्याप्त राजप्रजाजन तुम दोनों सुख को (आ, यातम्) अच्छे प्रकार प्राप्त होओ, प्रजाओं को (उप, भूषतम्) सुशोभित करो, (मध्वः) वैद्यकशास्र की रीति से सिद्ध किये मधुर रस को (पिबतम्) पीओ, (पयः) जल को (दुग्धम्) पूर्ण करो अर्थात् कोई जल विना दुःखी न रहे। (नः) हमको (मा) मत (मर्धिष्टम्) मारो और धर्म से विजय को (आ, गतम्) अच्छे प्रकार प्राप्त होओ ॥८८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो राजप्रजाजन सबको विद्या और उत्तम शिक्षा से सुशोभित करें, सर्वत्र नहर आदि के द्वारा जल पहुँचावें, श्रेष्ठों को न मार के दुष्टों को मारें, वे जीतनेवाले हुए अतोल लक्ष्मी को पाकर निरन्तर सुख को प्राप्त होवें ॥८८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे वृषणा जेन्यावसू अश्विना ! युवां सुखमायातं प्रजा उपभूषतं मध्वः पिबतं पयो दुग्धं नोऽस्मान् मा मर्धिष्टं धर्मेण विजयमागतम् ॥८८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये राजप्रजाजनाः सर्वान् विद्यासुशिक्षाभ्यामलं कुर्य्युः, सर्वत्र कुल्यादिद्वारा जलं गमयेयुः, श्रेष्ठान्न हिंसित्वा दुष्टान् हिंस्युस्ते विजेतारः सन्तोऽतुलां श्रियं प्राप्य सततं सुखं लभेरन् ॥८८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे राजे व प्रजानन सर्वांना विद्या व उत्तम शिक्षणानेयुक्त करतात व सर्वत्र कालवे तयार करून पाणीपुरवठा करतात. श्रेष्ठांना न मारता दुष्टांना मारतात ते अजिंक्य बनतात व लक्ष्मी प्राप्त करून निरंतर सुख भोगतात.
८९ प्रैतु ब्रह्मणस्पतिः
विश्वास-प्रस्तुतिः ...{Loading}...
प्रैतु॒ ब्रह्म॑ण॒स्पतिः॒ प्र दे॒व्ये᳖तु सू॒नृता॑। अच्छा॑ वी॒रं नर्य्यं॑ प॒ङ्क्तिरा॑धसं दे॒वा यज्ञं॒ न॑यन्तु नः ॥८९ ॥
मूलम् ...{Loading}...
प्रैतु॒ ब्रह्म॑ण॒स्पतिः॒ प्र दे॒व्ये᳖तु सू॒नृता॑। अच्छा॑ वी॒रं नर्य्यं॑ प॒ङ्क्तिरा॑धसं दे॒वा यज्ञं॒ न॑यन्तु नः ॥८९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्र। ए॒तु॒। ब्रह्म॑णः। पतिः॑। प्र। दे॒वी। ए॒तु॒। सू॒नृता॑। अच्छ॑। वी॒रम्। नर्य्य॑म्। प॒ङ्क्तिरा॑धस॒मिति॑ प॒ङ्क्तिऽरा॑धसम्। दे॒वाः। य॒ज्ञम्। न॒य॒न्तु॒। नः॒। ८९।
महीधरः
म० कण्वदृष्टा वैश्वदेवी । ब्रह्मणो वेदस्य पतिः हिरण्यगर्भः नोऽस्माकं यज्ञमच्छ यज्ञाभिमुखं प्रैतु प्रकर्षेणागच्छतु । ब्रह्मणस्पतिः । ‘ब्रह्मणः पाता पालयिता वा’ (निरु० १० । १२) इति यास्कः । तथा देवी देवतात्मा सूनृता प्रियसत्यस्वरूपा तस्यैव वाक् त्रयीरूपा यज्ञं प्रैतु । किंच देवा यष्टव्या नोऽस्मान् यज्ञं नयन्तु प्रापयन्तु । यज्ञं कारयन्त्वित्यर्थः । कीदृशं यज्ञम् । वीरं विशेषेणेरयति वीरस्तं शत्रूणां विशेषोन्मूलयितारम् । ‘वीरो - वीरयत्यमित्रान्’ ( निरु० १। ७) इति यास्कः । नर्यं नृभ्यो मनुष्येभ्यो हितम् ‘उगवादिभ्यः’ (पा० ५। १ ।२) इति यत् । पङ्क्तिराधसम् इन्द्रस्य पुरोडाशः हर्योर्धानाः पूष्णः करम्भः सरस्वत्यै दधि मित्रावरुणयोः पयस्या एषा हविःपङ्क्तिः, द्विनाराशंसं प्रातःसवनं द्विनाराशंसं माध्यन्दिनं सवनं सकृन्नाराशंसं तृतीयं सवनम् एषा नाराशंसपङ्क्तिः, त्रीणि सवनानि पशुरुपवसथ्यः पशुरनुबन्ध्यः एषा सवनपङ्क्तिः, एताभिः पङ्क्तिभिः राधः समृद्धिर्यस्य पङ्क्तयो राध्यन्ते साध्यन्ते यत्रेति वा पङ्क्तिराधाः तम् । ब्रह्मणस्पत्यादयः ईदृशं यज्ञमस्माभिः कारयन्त्विति सर्वार्थः ॥ ८९ ॥
नवतितमी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- कण्व ऋषिः
- भुरिगनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्य क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोग जैसे (नः) हमको (ब्रह्मणस्पतिः) धन वा वेद का रक्षक अधिष्ठाता विद्वान् (प्र, एतु) प्राप्त होवे (सूनृता) सत्य लक्षणों से उज्ज्वल (देवी) शुभ गुणों से प्रकाशमान वाणी (प्र, एतु) प्राप्त हो (नर्य्यम्) मनुष्यों में उत्तम (पङ्क्तिराधसम्) समूह की सिद्धि करनेहारे (यज्ञम्) सङ्गत धर्मयुक्त व्यवहारकर्त्ता (वीरम्) शूरवीर पुरुष को (देवाः) विद्वान् लोग (अच्छ, नयन्तु) अच्छे प्रकार प्राप्त करें, वैसे हमको प्राप्त होओ ॥८९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो लोग विद्वानों, सत्यवाणी और सर्वोपकारी वीर पुरुषों को प्राप्त हों, वे सम्यक् सुख की उन्नति करें ॥८९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्याः किं कुर्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यूयं यथा नोऽस्मान् ब्रह्मणस्पतिः प्रैतु, सूनृता देवो प्रैतु, नर्य्यं पङ्क्तिराधसं यज्ञं वीरं देवा अच्छ नयन्तु तथा अस्मान् प्राप्नुत ॥८९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये विदुषः सत्यां वाचं सर्वोपकारान् वीरांश्च प्राप्नुयुस्ते सम्यक् सुखोन्नतिं कुर्य्युः ॥८९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जे लोक विद्वानांच्या सहवासात राहतात, सत्य बोलतात, सर्वांवर उपकार करणाऱ्या वीर पुरुषांना जवळ करतात त्यांना सुख प्राप्त होते.
९० चन्द्रमाऽअप्स्वन्तरा सुपर्णो
विश्वास-प्रस्तुतिः ...{Loading}...
च॒न्द्रमा॑ऽअ॒प्स्व᳙न्तरा सु॑प॒र्णो धा॑वते दि॒वि। र॒यिं पि॒शङ्गं॑ बहु॒लं पु॑रुस्पृहँ॒ हरि॑रेति॒ कनि॑क्रदत् ॥९० ॥
मूलम् ...{Loading}...
च॒न्द्रमा॑ऽअ॒प्स्व᳙न्तरा सु॑प॒र्णो धा॑वते दि॒वि। र॒यिं पि॒शङ्गं॑ बहु॒लं पु॑रुस्पृहँ॒ हरि॑रेति॒ कनि॑क्रदत् ॥९० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
च॒न्द्रमाः॑। अ॒प्स्वित्य॒प्ऽसु। अ॒न्तः। आ। सु॒प॒र्णःऽइति॑ सुऽप॒र्णः। धा॒व॒ते॒। दि॒वि। र॒यिम्। पि॒शङ्ग॑म्। ब॒हु॒लम्। पु॒रु॒स्पृह॒मिति॑ पु॒रु॒ऽस्पृह॑म्। हरिः॑। ए॒ति॒। कनि॑क्रदत्। ९०।
महीधरः
म० त्रितदृष्टाहुतिपरिणामवादिन्यैन्द्री । ‘आहुतेर्होमद्रव्यस्य परिणामो द्युपर्जन्यपृथिवीपुरुषयोषात्मकपञ्चाग्निक्रमेण परिपाकः’ ‘इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ इति श्रुत्योक्तः तं वदत्येषा ऋक् । अधियज्ञॆ तावदर्थः । चन्द्रं देवानामाह्लादं मिमीते करोति चन्द्रमाः लतारूपः सोमोऽभिषुतः सन् अप्सु वसतीवरीनिग्राभ्यादिजलेषु अन्तर्मध्ये रसरूपेण स्थिताग्नौ हुतः सन् सुपर्णः गरुडाकृतिः साधुपतनो भूत्वा दिवि आधावते शीघ्रं गच्छति । स गतौ’ इत्यस्य शीघ्रगतौ धावादेशः ‘तृतीयस्यामितो दिवि सोम आसीत्’ इति श्रुतेः । ‘हरिः सोमो हरितवर्णः’ ( निरु० ४ । १९) इति यास्कोक्तेर्हरिः पूर्वोक्तः सोम एव दिवि गतः पर्जन्यरूपमास्थायोदकदानद्वारेण रयिमेति रयिरिति धननाम’ ( निरु० ४ । १७) इति यास्कः । धान्यभावं प्राप्नोति व्रीहियवाद्यन्नरूपो भवतीत्यर्थः । कीदृशं रयिम् । पिशङ्गम् परिपाकेन व्रीहियवादिकं धान्यं पीतवर्णं भवति । बहुलमसंख्यातम् । चतुर्विधभूतग्रामजीवनपर्याप्तमित्यर्थः । पुरूस्पृहं पुरूणां बहूनामपि स्पृहा लिप्सा यत्र तम् । बहवोऽपि यद्धान्यमिच्छन्ति तद्रूपो भवतीत्यर्थः । कीदृशो हरिः । कनिक्रदत् पर्जन्यरूपात्यर्थस्तनितं कुर्वन् । ‘दाधर्ति-’ (पा० ७ । ४ । ६३ ) इत्यादि निपातः ॥ ९०॥
एकनवतितमी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- त्रित ऋषिः
- निचृद्बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोग जैसे (सुपर्णः) सुन्दर चालों से युक्त (चन्द्रमाः) शीतकारी चन्द्रमा (कनिक्रदत्) शीघ्र शब्द करते हींसते हुए (हरिः) घोड़ों के तुल्य (दिवि) सूर्य के प्रकाश में (अप्सु) अन्तरिक्ष के (अन्तः) बीच (आ, धावते) अच्छे प्रकार शीघ्र चलता है और (पुरुस्पृहम्) बहुतों से चाहने योग्य (बहुलम्) बहुत (पिशङ्गम्) सुवर्णादि के तुल्य वर्णयुक्त (रयिम्) शोभा कान्ति को (एति) प्राप्त होता है, वैसे पुरुषार्थी हुए वेग से लक्ष्मी को प्राप्त होओ ॥९० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे मनुष्यो ! जैसे सूर्य से प्रकाशित चन्द्र आदि लोक अन्तरिक्ष में जाते-आते हैं, जैसे उत्तम घोड़ा ऊँचा शब्द करता हुआ शीघ्र भागता है, वैसे हुए तुम लोग अत्युत्तम अपूर्व शोभा को प्राप्त होके सबको सुखी करो ॥९० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यूयं यथा सुपर्णश्चन्द्रमा कनिक्रदद्धरिरिव दिव्यप्स्वन्तराधावते पुरुस्पृहं बहुलं पिशङ्गं रयिं चैति तथा पुरुषार्थिनः सन्तो वेगेन श्रियं प्राप्नुत ॥९० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः ! यथा सूर्य्येण प्रकाशिताश्चन्द्रलोका अन्तरिक्षे गच्छन्त्यागच्छन्ति यथोत्तमोऽश्व उच्चैः शब्दयन् सद्यो धावति तथाभूताः सन्तो यूयमतीवोत्तमामतुलां श्रियं प्राप्य सर्वान् सुखयत ॥९० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे माणसांनो ! जसे सूर्यापासून प्रकाश घेऊन चंद्र वगैरे अंतरिक्षात फिरत असतात व उत्तम घोडा वेगाने सुसाट पळतो तसे तुम्ही लोक अत्यंत शोभयमान होऊन सर्वांना सुखी करा.
९१ देवन्देवं वोऽवसे
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वन्दे॑वं॒ वोऽव॑से दे॒वन्दे॑वम॒भिष्ट॑ये। दे॒वन्दे॑वँ हुवेम॒ वाज॑सातये गृ॒णन्तो॑ दे॒व्या धि॒या ॥९१ ॥
मूलम् ...{Loading}...
दे॒वन्दे॑वं॒ वोऽव॑से दे॒वन्दे॑वम॒भिष्ट॑ये। दे॒वन्दे॑वँ हुवेम॒ वाज॑सातये गृ॒णन्तो॑ दे॒व्या धि॒या ॥९१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दे॒वन्दे॑वमिति॑ दे॒व॒म्ऽदे॑वम्। वः॒। अव॑से। दे॒वन्दे॑व॒मिति॑ दे॒वम्ऽदे॑वम्। अ॒भिष्ट॑ये। दे॒वन्दे॑वमिति॑ दे॒वम्ऽदे॑वम्। हु॒वे॒म॒। वाज॑सातय॒ इति॒ वाज॑ऽसातये। गृ॒णन्तः॑। दे॒व्या। धि॒या। ९१।
महीधरः
म० मनुदृष्टा वैश्वदेवी । वीप्सार्थोऽभ्यासः । यावन्तो देवास्तान् वो युष्मानवसेऽवनाय पालनाय वयं हुवेम आह्वयामः । अभिष्टयेऽभिलषितफलाप्तये देवं देवं हुवेम । वाजसातयेऽन्नलाभाय देवं देवं हुवेम । ‘अभ्यासे भूयांसमर्थं मन्यन्ते’ ( निरु० १० । ४२ ) इति यास्कः । कीदृशा वयम् । देवया देवतायाथात्म्यानुसन्धानपरया धिया बुद्ध्या गृणन्तः स्तुवन्तः । यद्वा देव्या स्वरादिसौष्ठवेन दीप्यमानया धिया स्तुत्या गृणन्तः ॥ ९१ ॥
द्विनवतितमी ।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- मनुर्ऋषिः
- विराड्बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर राजधर्म विषय को कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (देव्या) प्रकाशमान (धिया) बुद्धि वा कर्म से (गृणन्तः) स्तुति करते हुए हम लोग जैसे (वः) तुम्हारे (अवसे) रक्षादि के लिये (देवन्देवम्) विद्वान्-विद्वान् वा उत्तम पदार्थ को (हुवेम) बुलावें वा ग्रहण करें तुम्हारे (अभिष्टये) अभीष्ट सुख के लिये (देवन्देवम्) विद्वान्-विद्वान् वा उत्तम प्रत्येक पदार्थ को तथा तुम्हारे (वाजसातये) वेगादि के सम्यक् सेवन के लिये (देवन्देवम्) विद्वान्-विद्वान् वा उत्तम प्रत्येक पदार्थ को बुलावें वा स्वीकार करें, वैसे तुम लोग भी ऐसा हमारे लिये करो ॥९१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो राजपुरुष सब प्राणियों के हित के लिये विद्वानों का सत्कार कर इनसे सत्योपदेश का प्रचार करा सृष्टि के पदार्थों को जान और सब अभीष्ट सिद्ध कर संग्रामों को जीतते हैं, वे उत्तम कीर्ति और बुद्धि को प्राप्त होते हैं ॥९१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुना राजर्धमविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! देव्या धिया गृणन्तो वयं यथा वोऽवसे देवन्देवं हुवेम वोऽभिष्टये देवन्देवं हुवेम वो वाजसातये च देवन्देवं हुवेम तथा यूयमप्येवमस्मभ्यं कुरुत ॥९१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये राजपुरुषाः सर्वेषां प्राणिनां हिताय विदुषः सत्कृत्यैतैः सत्योपदेशान् प्रचार्य सृष्टिपदार्थान् विज्ञाय सर्वाभीष्टं संसाध्य सङ्ग्रामान् जयन्ति, ते दिव्यां कीर्तिं प्रज्ञाञ्च लभन्ते ॥९१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे राजपुरुष सर्व प्राण्यांच्या हितासाठी विद्वानांचा सत्कार करतात व त्यांच्याकडून सत्याचा प्रसार करवितात व सृष्टीतील पदार्थांना जाणून सर्व प्रकारचे अभीष्ट सिद्ध करतात व संग्राम जिंकतात ते उत्तम कीर्ती व बुद्धी प्राप्त करतात.
९२ दिवि पृष्टोऽअरोचताग्निर्वैश्वानरो
विश्वास-प्रस्तुतिः ...{Loading}...
दि॒वि पृ॒ष्टोऽअ॑रोचता॒ग्निर्वै॑श्वान॒रो बृ॒हन्। क्ष्मया॑ वृधा॒नऽओज॑सा॒ चनो॑हितो॒ ज्योति॑षा बाधते॒ तमः॑ ॥९२ ॥
मूलम् ...{Loading}...
दि॒वि पृ॒ष्टोऽअ॑रोचता॒ग्निर्वै॑श्वान॒रो बृ॒हन्। क्ष्मया॑ वृधा॒नऽओज॑सा॒ चनो॑हितो॒ ज्योति॑षा बाधते॒ तमः॑ ॥९२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दि॒वि। पृ॒ष्टः। अ॒रो॒च॒त॒। अ॒ग्निः। वै॒श्वा॒न॒रः। बृ॒हन्। क्ष्मया॑। वृ॒धा॒नः। ओज॑सा। चनो॑हित॒ इति॒ चनः॑ऽहितः। ज्योति॑षा। बा॒ध॒ते॒। तमः॑। ९२।
महीधरः
म० मेधदृष्टा वैश्वानरी । योऽग्निः दिवि द्युलोके पृष्टः सिक्तः आदित्यात्मना स्थितः सन् अरोचत दीप्यते ‘पृषु सेके’ निष्ठान्तः सेकः स्थितिरेव । कीदृशोऽग्निः । वैश्वानरः विश्वेषां नराणां हितः । बृहन् महान् । किंच सोऽग्निः ज्योतिषा स्वप्रकाशेन तमः नैशं बाधते लोकानुग्रहायान्धकारं निवर्तयति। कीदृशः । क्ष्मया वृधानः क्ष्मा पृथिवी तया तत्स्था मनुष्या उपलक्ष्यन्ते मञ्चाः क्रोशन्तीति वत् । भूस्थैर्वर्णाश्रमिभिः नरैर्दत्तेन हविषा वर्धमानः । अतएव ओजसा च चनोहितः ओषधिपाकक्षमेण तेजसा चनसेऽन्नाय हितः ‘चन इत्यन्ननाम’ (निरु० ६ । १८ ) अन्ननिष्पादक इत्यर्थः ॥ ९२ ॥
त्रिनवतितमी ।
अधिमन्त्रम् (VC)
- वैश्वानरो देवता
- मेध ऋषिः
- निचृद्बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर विद्वान् लोग क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् मनुष्यो ! जैसे (दिवि) आकाश में (पृष्टः) स्थित (वैश्वानरः) सब मनुष्यों का हितकारी (क्ष्मया) पृथिवी के साथ (वृधानः) बढ़ा हुआ (ओजसा) बल से (बृहन्) महान् (चनोहितः) ओषधियों को पकाने रूप सामर्थ्य से अन्नादि का धारण (अग्निः) सूर्यरूप अग्नि (ज्योतिषा) अपने प्रकाश से (तमः) रात्रिरूप अन्धकार को (बाधते) निवृत्त करता और (अरोचत) प्रकाशित होता है, वैसे उत्तम गुणों से अविद्यारूप अन्धकार को निवृत्त करके तुम लोग भी प्रकाशित कीर्तिवाले होओ ॥९२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो विद्वान् लोग सूर्य अन्धकार को जैसे, वैसे दुष्टाचार और अविद्यान्धकार को निवृत्त कर विद्या प्रकाशित करें, वे सूर्य के तुल्य सर्वत्र प्रकाशित प्रशंसावाले हों ॥९२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्विद्वांसः किं कुर्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वांसो मनुष्याः ! यथा दिवि पृष्टो वैश्वानरो क्ष्मया वृधान ओजसा बृहन् चनोहितोऽग्निर्ज्योतिषा तमो बाधतेऽरोचत च यथा श्रेष्ठैर्गुणैरविद्यान्धकारं निवर्त्य यूयमपि प्रकाशितकीर्त्तयो भवत ॥९२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये विद्वांसः सूर्यः तम इव दुष्टाचारमविद्यान्धकारं च निवर्त्य विद्यां प्रकाशयेयुस्ते सूर्य इव सर्वत्र प्रकाशितप्रशंसा भवेयुः ॥९२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. सूर्य जसा अंधःकार नष्ट करतो तसे विद्वान लोक दुष्टाचार व अविद्येच अंधःकार नाहीसा करून विद्येचा प्रसार करतात. ते सूर्याप्रमाणे तेजस्वी बनतात व प्रशंसेस पात्र ठरतात.
९३ इन्द्राग्नीऽअपादियं पूर्वागात्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रा॑ग्नीऽअ॒पादि॒यं पूर्वागा॑त् प॒द्वती॑भ्यः। हि॒त्वी शिरो॑ जि॒ह्वया॒ वाव॑द॒च्चर॑त् त्रिँ॒शत् प॒दा न्य॑क्रमीत् ॥९३ ॥
मूलम् ...{Loading}...
इन्द्रा॑ग्नीऽअ॒पादि॒यं पूर्वागा॑त् प॒द्वती॑भ्यः। हि॒त्वी शिरो॑ जि॒ह्वया॒ वाव॑द॒च्चर॑त् त्रिँ॒शत् प॒दा न्य॑क्रमीत् ॥९३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इन्द्रा॑ग्नी॒ऽइतीन्द्रा॑ग्नी। अ॒पात्। इ॒यम्। पूर्वा॑। आ। अ॒गा॒त्। प॒द्वती॑भ्यः॒ऽइति॑ प॒त्ऽवती॑भ्यः। हि॒त्वी। शिरः। जि॒ह्वया॑। वाव॑दत्। चर॑त्। त्रिँ॒शत्। प॒दा। नि। अ॒क्र॒मी॒त्। ९३।
महीधरः
म० सुहोत्रदृष्टा इन्द्राग्निदेवत्या प्रवह्लिका । हे इन्द्राग्नी, अपात्स्वयं पादरहितापि इयमुषाः पद्वतीभ्यः पादयुक्ताभ्यः सुप्ताभ्यः प्रजाभ्यः पूर्वा प्रथमभाविनी सती आ अगात् आगच्छति सा च तासां प्रजानां शिरो हित्वी निद्रात्याजनेन प्रेरयित्री । यद्वा शिरो हित्वी हित्वा त्यक्वाी स्वयमशिरस्का सती जिह्वया प्राणिनां वागिन्द्रियेण वावदत् । यङ्लुगन्तं । भृशं शब्दं कुर्वती सती चरत् चरति प्रसरति । अडभावः । एवं चरन्ती उषा एकदिनेन त्रिंशत्संख्यानि पदा पदानि गमनसाधनभूतान् मुहूर्तान् नि अक्रमीत् नितरां क्रमते । अहोरात्रेण त्रिंशन्मुहूर्तान्क्रामतीत्यर्थः । यद्वा वाक्पक्षेऽर्थः । इन्द्रः प्राणः अग्निः पुरुषः। हे इन्द्राग्नी, युवयोरेवैतत् कर्म यत् अपात् पादरहिता गद्यात्मिका त्रयीलक्षणेयं वाक् पूर्वा प्रथमभाविनी सती आ अगात् । पद्वतीभ्यः पादयुक्ताभ्यो रामायणभारतादिश्लोकात्मकवाल्मीकिव्यासादिवाणीभ्यः सकाशात् वेदवाचः प्राथम्यं श्रुत्योक्तम् ततो ब्रह्मैव प्रथममसृज्यतेति । एवं प्रथमजाया वाचोऽविकृतत्वं निर्णीय मानुष्या वाचो विकृतत्वमाह हित्वी शिर इति । शिर इति प्राधान्यादाख्यातपदमुच्यते। अभ्याज गां दण्डेन शुक्लां गां दण्डेनाभ्याजेत्येवं लौकिक्या वाचः पदप्रयोगनियमाभावात् शिरः शिरस्थानीयमाख्यातपदं हित्वा त्यक्त्वा जिह्वया विदुषो वागिन्द्रियेण वावदत् अतिवदन्ती सती चरति प्रकाशीभवति । एवं चरन्ती सा त्रिंशत्पदानि न्यक्रमीत् क्रमति। अत्र पदशब्दोऽङ्गुलवचनः । मूलाधारादारभ्य मुखपर्यन्तं त्रिंशदङ्गुलानि क्रामति । एवं वाग्विषयोऽर्थः ॥ ९३ ॥
चतुर्नवतितमी।
अधिमन्त्रम् (VC)
- इन्द्राग्नी देवते
- सुहोत्र ऋषिः
- भुरिगनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब उषा के विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्राग्नी) अध्यापक उपदेशक लोगो ! जो (इयम्) यह (अपात्) विना पग की (पद्वतीभ्यः) बहुत पगोंवाली प्रजाओं से (पूर्वा) प्रथम उत्पन्न होनेवाली (आ, अगात्) आती है (शिरः) शिर को (हित्वी) छोड़ के अर्थात् विना शिर की हुई प्राणियों की (जिह्वया) वाणी से (वावदत्) शीघ्र बोलती अर्थात् कुक्कुट आदि के बोल से उषःकाल की प्रतीति होती है, इससे बोलना धर्म उषा में आरोपण किया जाता है (चरत्) विचरती है और (त्रिंशत्) तीस (पदा) प्राप्ति के साधन मुहूर्तों को (नि, अक्रमीत्) निरन्तर आक्रमण करती है, वह उषा प्रातः की वेला तुम लोगों को जाननी चाहिये ॥९३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जो वेगवाली, पाद, शिर आदि अवयवों से रहित, प्राणियों के जगने से पहिले होनेवाली, जागने का हेतु, प्राणियो के सुखों से शीघ्र बोलती हुई सी तीस मुहूर्त्त (साठ घड़ी) के अन्तर प्रत्येक स्थान को आक्रमण करती है, वह उषा निद्रा, आलस्य को छोड़ तुमको सुख के लिये सेवन करना चाहिये ॥९३ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथोषर्विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे इन्द्राग्नी ! येयमपात् पद्वतीभ्यः पूर्वा आऽगाच्छिरो हित्वी प्राणिनां जिह्वया वावदच्चरत् त्रिंशत् पदान्यक्रमीत् सोषा युवाभ्यां विज्ञेया ॥९३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! या वेगवती पादशिर आद्यवयवरहिता प्राणिप्रबोधात् पूर्वभावनी जागरणहेतुः प्राणिमुखैर्भृशं वदतीव त्रिंशन्मुहूर्त्तानन्तरं प्रतिप्रदेशमाक्रमीत् सोषा युष्माभिर्निद्रालस्ये विहाय सुखाय सेवनीया ॥९३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! जी गतिमान आहे व मस्तक, पाय इत्यादी अवयवरहित असून, सर्व प्राणी जागृत होण्यापूर्वी कुक्कुट इत्यादींच्याद्वारे तिचे आगमन होते व तीस मुहूर्तानंतर (साठ घडी) प्रत्येक स्थान ती ताब्यात घेते अशा उषेचे सर्वांनी निद्रा व आळस सोडून स्वागत केले पाहिजे.
९४ देवासो हि
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वासो॒ हि ष्मा॒ मन॑वे॒ सम॑न्यवो॒ विश्वे॑ सा॒कँसरा॑तयः। ते नो॑ऽअ॒द्य ते अ॑प॒रं तु॒चे तु नो॒ भव॑न्तु वरिवो॒विदः॑ ॥९४ ॥
मूलम् ...{Loading}...
दे॒वासो॒ हि ष्मा॒ मन॑वे॒ सम॑न्यवो॒ विश्वे॑ सा॒कँसरा॑तयः। ते नो॑ऽअ॒द्य ते अ॑प॒रं तु॒चे तु नो॒ भव॑न्तु वरिवो॒विदः॑ ॥९४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दे॒वासः॑। हि॑। स्म॒। मन॑वे। सम॑न्यव॒ इति॒ सऽम॑न्यवः। विश्वे॑। सा॒कम्। सरा॑तय॒ इति॒ सऽरा॑तयः। ते। नः॒। अ॒द्य। ते। अ॒प॒रम्। तु॒चे। तु। नः॒। भव॑न्तु। व॒रि॒वो॒विद॒ इति॑ वरिवः॒ऽविदः॑। ९४।
महीधरः
म० मनुदृष्टा वैश्वदेवी । हि स्म एतौ निपातौ प्रसिद्ध्यतिशयार्थौ । छान्दसौ षत्वदीर्घौ। ते प्रसिद्धा विश्वे देवासः अद्य वर्तमानकाले नोऽस्माकं साकं सहैव वरिवोविदः भवन्तु वरिवो धनं वेदयन्ति लम्भयन्ति वरिवोविदः एकीभूय धनप्रापका भवन्तु । तु पुनः अपरं भविष्यति काले नोऽस्माकं तुचे अपत्याय पुत्रपौत्रादिकाय ते वरिवोविदः भवन्तु । तुगित्यपत्यनाम । कीदृशास्ते । मनवे समन्यवः मनुनामकाय मुनये मन्त्रदर्शिने मह्यं समानो मन्युर्दीप्तिर्येषां ते । ‘मन्युर्मनतेर्दीप्तिकर्मणः’ ( निरु. १० । २९ ) इति यास्कः । मदर्थकमैकमत्यं प्राप्ताः । यद्वा मन्युना क्रोधेन सह वर्तमानाः । अस्मच्छत्रुहननाय क्रोधयुक्ता इत्यर्थः । तथा सरातयः रातिर्दानं तत्सहिताः दातार इत्यर्थः ॥ ९४ ॥
पञ्चनवतितमी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- मनुर्ऋषिः
- पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
कौन मनुष्य विद्वान् हो सकते हैं, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (सरातयः) बराबर दाता (समन्यवः) तुल्य क्रोधवाले (विश्वे) सब (देवासः) विद्वान् लोग (साकम्) साथ मिल के (अद्य) आज (नः) हमारे (मनवे) मनुष्य के लिये (स्म) प्रसिद्ध (वरिवोविदः) सत्कार के जानने वा धन के प्राप्त करानेवाले (भवन्तु) हों (तु) और (ते) वे (अपरम्) भविष्यत् काल में (नः) हमारे (तुचे) पुत्र-पौत्रादि सन्तान के अर्थ हमारे लिये सत्कार के जानने वा धन के प्राप्त करानेवाले हों (ते, हि) वे ही तुम लोगों के लिये भी सत्कार के जानने वा धन के प्राप्त करानेवाले हों ॥९४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य एक दूसरे के लिये सुख देवें, जो मिल कर दुष्टों पर क्रोध करें, वे पुत्र-पौत्रवाले हो के मनुष्यों के सुख की उन्नति के लिये समर्थ विद्वान् होने योग्य होते हैं ॥९४ ॥
दयानन्द-सरस्वती (सं) - विषयः
के मनुष्या विद्वांसो भवितुमर्हन्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! ये सरातयः समन्यवो विश्वे देवासः साकमद्य नो मनवे स्म वरिवोविदो भवन्तु, ते त्वपरं नस्तुचेऽस्मभ्यञ्च वरिवोविदो भवन्तु, ते हि युष्मभ्यं वरिवोविदः स्युः ॥९४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्याः परस्परेभ्यः सुखानि दद्युर्ये साकं दुष्टानामुपरि क्रोधं कुर्युस्ते पुत्रपौत्रवन्तो भूत्वा मनुष्यसुखोन्नतये समर्था विद्वांसो भवितुमर्हन्ति ॥९४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे एकमेकांना सुख देतात, सर्व मिळून दुष्टांवर क्रोध करतात ते पुत्रपौत्रयुक्त होतात व विद्वान बनून माणसांना सुख देऊ शकतात.
९५ अपाधमदभिशस्तीरशस्तिहाथेन्द्रो द्युम्न्याभवत्
विश्वास-प्रस्तुतिः ...{Loading}...
अपा॑धमद॒भिश॑स्तीरशस्ति॒हाथेन्द्रो॑ द्यु॒म्न्याभ॑वत्। दे॒वास्त॑ऽइन्द्र स॒ख्याय॑ येमिरे॒ बृह॑द्भानो॒ मरु॑द्गण ॥९५ ॥
मूलम् ...{Loading}...
अपा॑धमद॒भिश॑स्तीरशस्ति॒हाथेन्द्रो॑ द्यु॒म्न्याभ॑वत्। दे॒वास्त॑ऽइन्द्र स॒ख्याय॑ येमिरे॒ बृह॑द्भानो॒ मरु॑द्गण ॥९५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अप॑। अ॒ध॒म॒त्। अ॒भिश॑स्ती॒रित्य॒भिऽश॑स्तीः। अ॒श॒स्ति॒हेत्य॑शस्ति॒ऽहा। अथ। इन्द्रः॑। द्यु॒म्नी। आ। अ॒भ॒व॒त्। दे॒वाः। ते॒। इ॒न्द्र॒। स॒ख्याय॑। ये॒मि॒रे॒। बृह॑द्भानो॒ इति॒ बृह॑त्ऽभानो। मरु॑द्ग॒णेति॒ मरु॑त्ऽगण। ९५।
महीधरः
म० नृमेधदृष्टे द्वे मरुत्वद्गुणविशिष्टेन्द्रदेवत्ये । बृहन्तो महान्तो भानवो दीप्तयो यस्य स बृहद्भानुः मरुतां गणो यस्य स मरुद्गणः हे बृहद्भानो, हे मरुद्गण हे इन्द्र, देवाः वसुरुद्रादित्याः ते तव सख्याय मैत्रे येमिरे कथं नु नामेन्द्रोऽस्मान्सखिभावाय वृणीत इत्यभिप्राया आत्मानं संयतं कृतवन्त इत्यर्थः । स भवान् अभिशस्तीः अभिशापान् शत्रुप्रयुक्तानपवादान् अपाधमत् अपगमयति निवर्तयति । धमतिर्गतिकर्मा (निरु. ६ । २) इति यास्कः । अथ पश्चात् द्युम्नी अन्नवान् यशस्वी वा आ अभवत् सर्वतो धनवान् भवति । कीदृशो भवान् । अशस्तिहा शंसनं शस्तिः प्रशंसा सा नास्ति येषां ते अशस्तयः निन्द्या असुरास्तान् हन्तीत्यशस्तिहा । इन्द्रः ऐश्वर्यवान् इन्दतीतीन्द्रः । यो दुष्टहन्ताभिशापनाशको यशस्वी तेजस्वी बहुभृत्यसेव्यस्तस्य सख्यायान्ये यतन्त इति युक्तमिति भावः ॥९५॥
षण्णवतितमी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- नृमेध ऋषिः
- भुरिग्बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
अब कौन मनुष्य दुःखनिवारण में समर्थ हैं, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (बृहद्भानो) महान् किरणों के तुल्य प्रकाशित कीर्तिवाले (मरुद्गण) मनुष्यों वा पवनों के समूह से कार्य्यसाधक (इन्द्र) परमैश्वर्य्य के देनेवाले सभापति राजा (देवाः) विद्वान् लोग (ते) आपकी (सख्याय) मित्रता के अर्थ (येमिरे) संयम करते हैं। (अथ) और (द्युम्नी) बहुत प्रशंसारूप धन से युक्त (इन्द्रः) परमैश्वर्यवाले आप (अभिशस्तीः) सबसे हिंसाओ को (अप, आ, अधमत्) दूर धमकाते हो (अशस्तिहा) दुष्टों के नाशक (अभवत्) हूजिये ॥९५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य धार्मिक न्यायधीशों वा धनाढ्यों से मित्रता करते हैं, वे यशस्वी होकर सब दुःखनिवारण के लिये सूर्य के तुल्य होते हैं ॥९५ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ के जना दुःखनिवारणसमर्थाः सन्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये बृहद्भानो मरुद्गगण इन्द्र ! देवास्ते सख्याय येमिरेऽथ द्युम्नीन्द्रो भवानभिशस्तीरपाऽऽधमदशस्तिहाऽभवद् भवतु ॥९५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्या धार्मिकाणां न्यायधीशानां धनाढ्यानां वा मित्रतां कुर्वन्ति, ते यशस्विनो भूत्वा सर्वेषां दुःखनिवारणाय सूर्यवद्भवन्ति ॥९५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे धार्मिक, न्यायाधीश व धनाढ्य लोकांशी मैत्री करतात ती यशस्वी होऊन दुःखरूपी अंधःकार नष्ट होण्यासाठी सूर्याप्रमाणे तळपतात.
९६ प्र वऽइन्द्राय
विश्वास-प्रस्तुतिः ...{Loading}...
प्र व॒ऽइन्द्रा॑य बृह॒ते मरु॑तो॒ ब्रह्मा॑र्चत। वृ॒त्रँ ह॑नति वृत्र॒हा श॒तक्र॑तु॒र्वज्रे॑ण श॒तप॑र्वणा ॥९६ ॥
मूलम् ...{Loading}...
प्र व॒ऽइन्द्रा॑य बृह॒ते मरु॑तो॒ ब्रह्मा॑र्चत। वृ॒त्रँ ह॑नति वृत्र॒हा श॒तक्र॑तु॒र्वज्रे॑ण श॒तप॑र्वणा ॥९६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्र। वः॒। इन्द्रा॑य। बृ॒ह॒ते। मरु॑तः। ब्रह्म॑। अ॒र्च॒त॒। वृ॒त्रम्। ह॒न॒ति॒। वृ॒त्र॒हेति॑ वृत्र॒ऽहा। श॒तक्र॑तु॒रिति॑ श॒तऽक्र॑तुः। वज्रे॑ण। श॒तप॑र्व॒णेति॑ श॒तऽप॑र्वणा। ९६।
महीधरः
म०. हे मरुतः, वो युष्माकं स्वामिने इन्द्राय यूयं ब्रह्म वेदं सामरूपस्तोत्रं प्रार्चत प्रोच्चारयत । कीदृशायेन्द्राय । बृहते महते । ततो वृत्रहा वृत्रस्यासुरस्य पाप्मनो वा हन्तेन्द्रो वृत्रं हनति हन्तु । ‘बहुलं छन्दसि’ (पा० २। ४ । ७३) इति शपो लुगभावः । केन । वज्रेण स्वायुधेन । कीदृशेन वज्रेण । शतपर्वणा शतसंख्यानि पर्वाणि धारा ग्रन्थयो वा यस्य स शतपर्वा तेन । कीदृशो वृत्रहा । शतक्रतुः शतं क्रतवो यस्य बहुकर्मा बहुप्रज्ञो वा ॥ ९६ ॥
सप्तनवतितमी।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥ |
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- नृमेध ऋषिः
- निचृद्बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (मरुतः) मनुष्यो ! जो (शतक्रतुः) असंख्य प्रकार की बुद्धि वा कर्मोंवाला सेनापति (शतपर्वणा) जिससे असंख्य जीवों का पालन हो ऐसे (वज्रेण) शस्त्र-अस्त्र से (वृत्रहा) जैसे मेघहन्ता सूर्य (वृत्रम्) मेघ को वैसे (बृहते) बड़े (इन्द्राय) परमैश्वर्य के लिये शत्रुओं को (हनति) मारता और (वः) तुम्हारे लिये (ब्रह्म) धन वा अन्न को प्राप्त करता है, उसका तुम लोग (प्र, अर्चत) सत्कार करो ॥९६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे मनुष्यो ! जो लोग मेघ को सूर्य के तुल्य शत्रुओं को मार के तुम्हारे लिये ऐश्वर्य की उन्नति करते हैं, उनका सत्कार तुम करो। सदा कृतज्ञ हो के कृतघ्नता को छोड़ के प्राज्ञ हुए महान् ऐश्वर्य को प्राप्त होओ ॥९६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैः किं कर्त्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मरुतो मनुष्याः ! यः शतक्रतुः सेनापतिः शतपर्वणा वज्रेण वृत्रहा सूर्यो वृत्रमिव बृहत इन्द्राय शत्रून् हनति वो ब्रह्म प्रापयति तं यूय प्रार्चत ॥९६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः ! ये सूर्य्यो मेघमिव शत्रून् हत्वा युष्मदर्थमैश्वर्यमुन्नयन्ति तेषां सत्कारं यूयं कुरुत, सदा कृतज्ञा भूत्वा कृतघ्नतां त्यक्त्वा प्राज्ञाः सन्तो महदैश्वर्यं प्राप्नुत ॥९६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे माणसांनो ! सूर्य जसा मेघाचा पाडाव करतो तसे शत्रूंना मारून जे लोक तुमचे ऐश्वर्य वाढवितात त्यांचा सत्कार करा. नेहमी कृतज्ञ राहा. कृतघ्नता सोडा व ज्ञानी बना आणि महान ऐश्वर्य प्राप्त करा.
९७ अस्येदिन्द्रो वावृधे
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒स्येदिन्द्रो॑ वावृधे॒ वृष्ण्यँ॒ शवो॒ मदे॑ सु॒तस्य॒ विष्ण॑वि। अ॒द्या तम॑स्य महि॒मान॑मा॒यवोऽनु॑ ष्टुवन्ति पू॒र्वथा॑। इ॒मा उ त्वा। यस्या॒यम्। अ॒यँ स॒हस्र॑म्। ऊ॒र्ध्वऽऊ॒ षु णः॑ ॥९७ ॥
मूलम् ...{Loading}...
अ॒स्येदिन्द्रो॑ वावृधे॒ वृष्ण्यँ॒ शवो॒ मदे॑ सु॒तस्य॒ विष्ण॑वि। अ॒द्या तम॑स्य महि॒मान॑मा॒यवोऽनु॑ ष्टुवन्ति पू॒र्वथा॑। इ॒मा उ त्वा। यस्या॒यम्। अ॒यँ स॒हस्र॑म्। ऊ॒र्ध्वऽऊ॒ षु णः॑ ॥९७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒स्य। इत्। इन्द्रः॑। वा॒वृ॒धे॒। व॒वृ॒ध॒ऽइति॑ ववृधे। वृष्ण्य॑म्। शवः॑। मदे॑। सु॒तस्य॑। विष्ण॑वि। अ॒द्य। तम्। अ॒स्य॒ म॒हि॒मान॑म्। आ॒यवः॑। अनु॑। स्तु॒व॒न्ति॒। पू॒र्वथेति॑ पू॒र्वऽथा॑। ९७।
महीधरः
म० मेधातिथिदृष्टा माहेन्द्री सतोबृहती । इन्द्रः अस्य इत् अस्यैव यजमानस्य वृष्ण्यं शवः च वावृधे वर्धयति । णिजन्तत्वं | बोध्यम् । वर्षति सिञ्चतीति वृषा तस्येदं वृष्ण्यं वीर्यम् । यप्रत्यये उपधालोपः । शवः बलम् । क्व सति । सुतस्याभिषुतस्य सोमस्य मदे सति । कीदृशे मदे । विष्णवि वेवेष्टि व्याप्नोति विष्णुस्तस्मिन् सर्वशरीरव्यापके । सप्तम्येकवचने ‘घेर्ङिति’ – ( पा. ७।३।१११) इति गुणेऽवादेशः । यद्वा विष्णवि विष्णौ योऽभिषुतस्येति संबन्धः । ‘यज्ञो वै विष्णुः’ इति श्रुतेः। सोमपानेन मत्त इन्द्रो यजमानस्य माहात्म्यं बलं च वर्धयतीत्यर्थः । किंच अस्येन्द्रस्य तमुक्तं यज्वनो वीर्यादिवर्धनरूपं महिमानमद्यास्मिन्कालेऽपि आयवः मनुष्याः अनुष्टुवन्ति आनुपूर्व्येण स्तुवन्ति । तत्र दृष्टान्तः । पूर्वथा पूर्वमिव यथा पूर्वमृषयोऽस्तुवन्नेवमिदानीमपि नराः स्तुवन्तीत्यर्थः । ‘प्रत्नपूर्वविश्वमात्थालच्छन्दसि’ (पा० ५। ३ । १११) इति पूर्वशब्दादिवार्थे थाल्प्रत्ययः । इमा उ त्वा यस्यायम् अयं सहस्रम् (३३ । ८१-८३) ऊर्ध्व ऊ षुणः (११ । ४२) एताः प्रतीकोक्ताः ॥ ९७॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
त्रयस्त्रिंशत्तमोऽध्यायो गतोऽयं सार्वमेधिकः ॥ ३३ ॥
अधिमन्त्रम् (VC)
- महेन्द्रो देवता
- मेधातिथिर्ऋषिः
- स्वराट् सतो बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
अब मनुष्यों को परमात्मा की स्तुति करना योग्य है, इस विषय को अगले मन्त्र में कहा है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (इन्द्रः) परम ऐश्वर्य्ययुक्त राजा (विष्णवि) व्यापक परमात्मा में (सुतस्य) उत्पन्न हुए (अस्य) इस संसार के (मदे) आनन्द के लिये (वृष्ण्यम्) पराक्रम (शवः) बल तथा जल को (अद्य) इस वर्त्तमान समय में (वावृधे) बढ़ाता है (अस्य) इस परमात्मा के (इत्) ही (महिमानम्) महिमा को (पूर्वथा) पूर्वज लोगों के तुल्य (आयवः) अपने कर्मफलों को प्राप्त होनेवाले मनुष्य लोग (अनु, स्तुवन्ति) अनुकूल स्तुति करते हैं, (तम्) उसकी तुम लोग भी स्तुति करो ॥९७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जो तुम लोग सर्वत्र व्यापक, सब जगत् के उत्पादक, सबके आधार और उत्तम ऐश्वर्य के प्रापक ईश्वर की आज्ञा और महिमा को जान के सब संसार का उपकार करो तो तुमको निरन्तर आनन्द प्राप्त होवे ॥९७ ॥ इस अध्याय में अग्नि, प्राण, उदान, दिन, रात, सूर्य, अग्नि, राजा, ऐश्वर्य, उत्तम यान, विद्वान्, लक्ष्मी, वैश्वानर, ईश्वर, इन्द्र, बुद्धि, वरुण, अश्वि, अन्न, सूर्य, राजप्रजा, परीक्षक, इन्द्र और वायु आदि पदार्थों के गुणों का वर्णन है, इससे इस अध्याय में कहे अर्थ की पूर्व अध्याय में कहे अर्थ के साथ संगति जाननी चाहिये ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्याणां श्रीयुतपरमविदुषां विरजानन्दसरस्वतीस्वामिनां शिष्येण श्रीपरमहंसपरिव्राजकाचार्येण श्रीमद्दयानन्दसरस्वतीस्वामिना विरचिते संस्कृतार्य्यभाषाभ्यां समन्विते सुप्रमाणयुक्ते यजुर्वेदभाष्ये त्रयस्त्रिंशोऽध्यायः समाप्तिमगमत् ॥३३॥
दयानन्द-सरस्वती (सं) - विषयः
अथ मनुष्यैः परमात्मा स्तोतव्य इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! य इन्द्रो जीवो विष्णवि सुतस्याऽस्य मदे वृष्ण्यं शवोऽद्य वावृधेऽस्य परमात्मन इन्महिमानं पूर्वथायवोनुष्टुवन्ति तं यूयमपि स्तुवत ॥९७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यदि यूयं सर्वत्र व्यापकस्य सर्वजगदुत्पाकस्याखिलाधारकस्य परमैश्वर्यप्रापकस्याज्ञां महिमानं च विज्ञाय सर्वस्य संसारस्योपकारं कुरुत, तर्हि यूयं सततमानन्दं प्राप्नुतेति ॥९७ ॥ अत्राग्निप्राणोदानाऽहर्निशसूर्याग्निराजैश्वर्योत्तमयानविद्वच्छ्रीवैश्वानरेश्वरेन्द्रप्रज्ञावरुणाऽश्व्यन्नसूर्यराजप्रजापरीक्षकेन्द्र-वाय्वादिगुणवर्णनादेतदध्यायोक्तार्थस्य पूर्वाध्यायेन सह सङ्गतिर्वेद्या ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! सर्वत्र व्यापक, सर्व जगाचा उत्पादक, सर्वांचा आधार व ऐश्वर्य देणारा, अशा ईश्वराची आज्ञा पाळून व महिमा जाणून संपूर्ण जगावर उपकार करा म्हणजे सतत तुमचा आनंद वाढत जाईल.