०१ समिद्धोऽअञ्जन् कृदरम्
विश्वास-प्रस्तुतिः ...{Loading}...
समि॑द्धोऽअ॒ञ्जन् कृद॑रं मती॒नां घृ॒तम॑ग्ने॒ मधु॑म॒त् पिन्व॑मानः। वा॒जी वह॑न् वा॒जिनं॑ जातवेदो दे॒वानां॑ वक्षि प्रि॒यमा स॒धस्थ॑म् ॥१ ॥
मूलम् ...{Loading}...
समि॑द्धोऽअ॒ञ्जन् कृद॑रं मती॒नां घृ॒तम॑ग्ने॒ मधु॑म॒त् पिन्व॑मानः। वा॒जी वह॑न् वा॒जिनं॑ जातवेदो दे॒वानां॑ वक्षि प्रि॒यमा स॒धस्थ॑म् ॥१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
समि॑द्ध॒ इति॒ सम्ऽइ॑द्धः। अ॒ञ्जन्। कृद॑रम्। म॒ती॒नाम्। घृ॒तम्। अ॒ग्ने॒। मधु॑म॒दिति॒ मधु॑ऽमत्। पिन्व॑मानः। वा॒जी। वह॑न्। वा॒जिन॑म्। जा॒त॒वे॒द॒ इति॑ जातऽवेदः। दे॒वाना॑म्। व॒क्षि॒। प्रि॒यम्। आ। स॒धस्थ॒मिति॑ स॒धऽस्थ॑म्। १।
महीधरः
म० आश्वमेधिकोऽध्यायः । ततोऽस्य प्रजापतिर्ऋषिः । आद्या एकादश त्रिष्टुभः आप्रीसंज्ञाः अश्वस्तुतयो वामदेवपुत्रेण बृहदुक्थेन समुद्रपुत्रेणाश्वेन वा दृष्टाः समित्तनूनपादिडादिदेवताकाः । हे अग्ने, हे जातवेदः जातप्रज्ञान, त्वं देवानां सधस्थं सह तिष्ठन्ति यत्रेति सहस्थानं प्रति प्रियं प्रीतिमानक्षि आवह देवान्प्रीणयेत्यर्थः । वहतेः शपो लुकि मध्यमैकवचने रूपम् । कीदृशस्त्वम् । समिद्धः दीप्तः मतीनां कृदरं बुद्धीनामुदरं गर्भमञ्जन् व्यक्तीकुर्वन् । बुद्धिरहस्यं प्रकाशयन्नित्यर्थः । मधुमत् स्वादु घृतं पिन्वमानः देवेषु सिञ्चन् । वाजी वजतीति वाजी ‘वज गतौ’ चलनवान् । वाजिनं हविः वहन् देवान्प्रापयन्सन् प्रीणय ॥ १॥
द्वितीया ।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- बृहदुक्थो वामदेव्य ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब उनतीसवें अध्याय का आरम्भ है, इसके पहिले मन्त्र में मनुष्यों को अग्नि जलादि से क्या सिद्ध करना चाहिए, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (जातवेदः) प्रसिद्ध बुद्धिमान् (अग्ने) अग्नि के तुल्य तेजस्वी विद्वन् जन ! जैसे (समिद्धः) सम्यक् जलाया (अञ्जन्) प्रकट होता हुआ अग्नि (मतीनाम्) मनुष्यों के (कृदरम्) पेट और (मधुमत्) बहुत उत्तम गुणोंवाले (घृतम्) जल वा घी को (पिन्वमानः) सेवन करता हुआ जैसे (वाजी) वेगवान् मनुष्य (वाजिनम्) शीघ्रगामी घोड़े को (वहन्) चलाता वैसे (देवानाम्) विद्वानों के (सधस्थम्) साथ स्थिति को (आ) प्राप्त करता है, वैसे (प्रियम्) प्रीति के निमित्तस्थान को (वक्षि) प्राप्त कीजिए ॥१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो मनुष्य जाठराग्नि को तेज रक्खें और बाहर के अग्नि को कलाकौशलादि में युक्त किया करें तो यह अग्नि घोड़े के तुल्य सवारियों को देशान्तर में शीघ्र पहुँचावे ॥१ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ मनुष्यैरग्निजलादिना किं साध्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे जातवेदोऽग्ने विद्वन् ! यथा समिद्धाऽञ्जन्नग्निर्मतीनां कृदरं मधुमद् घृतं पिन्वमानो वाजिनं वाजी वहन्निव देवानां सधस्थामावहति, तथा प्रियं वक्षि प्रापय ॥१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यदि मनुष्या जाठराग्निं प्रदीप्तं रक्षेयुर्बाह्यमग्निं सम्प्रयुञ्जीरंस्तर्ह्ययमश्ववद् यानानि देशान्तरं सद्यः प्रापयेत् ॥१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जी माणसे जठराग्नी प्रदीप्त ठेवतात व बाहेरच्या अग्नीला योग्यरीतीने कला कौशल्यात युक्त करतात. तेव्हा तो अग्नी घोड्याप्रमाणे स्वारांना ताबडतोब देशदेशांतरी पोहोचवितो.
०२ घृतेनाञ्जन्त्सं पथो
विश्वास-प्रस्तुतिः ...{Loading}...
घृ॒तेना॒ञ्जन्त्सं प॒थो दे॑व॒याना॑न् प्रजा॒नन् वा॒ज्यप्ये॑तु दे॒वान्। अनु॑ त्वा सप्ते प्र॒दिशः॑ सचन्ताँ स्व॒धाम॒स्मै यज॑मानाय धेहि ॥२ ॥
मूलम् ...{Loading}...
घृ॒तेना॒ञ्जन्त्सं प॒थो दे॑व॒याना॑न् प्रजा॒नन् वा॒ज्यप्ये॑तु दे॒वान्। अनु॑ त्वा सप्ते प्र॒दिशः॑ सचन्ताँ स्व॒धाम॒स्मै यज॑मानाय धेहि ॥२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
घृ॒तेन॑। अ॒ञ्जन्। सम्। प॒थः। दे॒व॒याना॒निति॑ देव॒ऽयाना॑न्। प्र॒जा॒नन्निति॑ प्रऽजा॒नन्। वा॒जी। अपि॑। ए॒तु॒। दे॒वान्। अनु॑। त्वा॒। स॒प्ते॒। प्र॒दिश॒ इति॑ प्र॒ऽदिशः॑। स॒च॒न्ता॒म्। स्व॒धाम्। अ॒स्मै। यज॑मानाय। धे॒हि॒। २।
महीधरः
म० वाजी अश्वो देवानप्येतु । कीदृशः । घृतेन देवयानान् पथः समञ्जन् देवा यायन्ते यैस्ते देवयानाः पन्थानो हवींष्युच्यन्ते । प्रजानन् देवानां हविरहमिति जानन् । एवं परोक्षमुक्त्वा प्रत्यक्षमाह । हे सप्ते अश्व, प्रदिशो दिगाश्रयाणि भूतानि त्वा त्वामनुसचन्ताम् । ‘षष्’ संबन्धे’ सपति कर्मणा संबध्यते स सप्तिः । किंच अस्मै यजमानाय स्वधामन्नं धेहि प्रयच्छ । अत्र घृतशब्दस्तनूनपाद्वाची ॥२॥
तृतीया।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- बृहदुक्थो वामदेव्य ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सप्ते) घोड़े के समान वेग से वर्त्तमान विद्वान् जन ! जैसे (वाजी, अपि) वेगवान् भी अग्नि (घृतेन) घी वा जल से (अञ्जन्) प्रगट हुआ (देवयानान्) विद्वान् लोग जिन में चलते हैं, उन (पथः) मार्गों को (सम्, एतु) सम्यक् प्राप्त होवे, उसको (प्रजानन्) अच्छे प्रकार जानते हुए आप (देवान्) विद्वानों को (एहि) प्राप्त हूजिये, जिससे (त्वा) आपके (अनु) अनुकूल (प्रदिशः) सब दिशा-विदिशाओं को (सचन्ताम्) सम्बन्ध करें। आप (अस्मै) इस (यजमानाय) यज्ञ करनेवाले पुरुष के लिए (स्वधाम्) अन्न को (धेहि) धारण कीजिए ॥२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो पुरुष अग्नि और जलादि से युक्त किये भाप से चलनेवाले यानों से शीघ्र मार्गों में जा आ के सब दिशाओं में भ्रमण करें, वे वहाँ-वहाँ सर्वत्र पुष्कल अन्नादि को प्राप्त कर बुद्धि से कार्यों को सिद्ध कर सकते हैं ॥२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सप्तेऽश्व इव वर्त्तमान विद्वन् ! यथा वाज्यप्यग्निर्घृतेनाञ्जन् देवयानान् पथः समेतु तं प्रजानन् संस्त्वं देवानेहि, येन त्वाऽनुप्रदिशः सचन्तां त्वमस्मै यजमानाय स्वधां धेहि ॥२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। येऽग्निजलादिप्रयुक्तैर्वाष्पयानैः सद्यो मार्गान् गत्वाऽऽगत्य सर्वासु दिक्षु भ्रमेयुस्ते तत्र पुष्कलान्यन्नादीनि संप्राप्य प्रज्ञया कार्याणि साद्धुं शक्नुवन्ति ॥२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जे पुरुष अग्नी व जल यांनी युक्त असलेल्या व वाफेने चालणाऱ्या यानांनी शीघ्र जाणे-येणे करून दशदिशांमध्ये भ्रमण करतात. ते पुष्कळ अन्न प्राप्त करून बुद्धिपूर्वक कार्य सिद्ध करू शकतात.
०३ ईड्यश्चासि वन्द्यश्च
विश्वास-प्रस्तुतिः ...{Loading}...
ईड्य॒श्चासि॒ वन्द्य॑श्च वाजिन्ना॒शुश्चाऽसि॒ मेध्य॑श्च सप्ते। अ॒ग्निष्ट्वा॑ दे॒वैर्वसु॑भिः स॒जोषाः॑ प्री॒तं वह्निं॑ वहतु जा॒तवे॑दाः ॥३ ॥
मूलम् ...{Loading}...
ईड्य॒श्चासि॒ वन्द्य॑श्च वाजिन्ना॒शुश्चाऽसि॒ मेध्य॑श्च सप्ते। अ॒ग्निष्ट्वा॑ दे॒वैर्वसु॑भिः स॒जोषाः॑ प्री॒तं वह्निं॑ वहतु जा॒तवे॑दाः ॥३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ईड्यः॑। च॒। असि॑। वन्द्यः॑। च॒। वा॒जि॒न्। आ॒शुः। च॒। असि॑। मेध्यः॑। च॒। स॒प्ते॒। अ॒ग्निः। त्वा॒। दे॒वैः। वसु॑भि॒रिति॒ वसु॑ऽभिः। स॒जोषा॒ इति॑ स॒ऽजोषाः॑। प्री॒तम्। वह्नि॑म्। व॒ह॒तु॒। जा॒तवे॑दा॒ इति॑ जा॒तऽवे॑दाः। ३।
महीधरः
म० हे वाजिन् , हे सप्ते, ईड्यः स्तुत्योऽसि । वन्द्यः नमनीयोऽसि । आशुः शीघ्रः मेध्यः मेधायाश्वमेधाय योग्यः । चकाराः समुच्चयार्थाः । किंच जातवेदाः अग्निः त्वा त्वां वहतु देवान् प्रापयतु । कीदृशोऽग्निः । वसुभिः देवैः सजोषाः जोषसा प्रीत्या सहितः । कीदृशं त्वाम् । प्रीतं तुष्टम् वह्निं हविषो वोढारम् ॥ ३ ॥
चतुर्थी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- बृहदुक्थो वामदेव्य ऋषिः
- पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (वाजिन्) प्रशंसित वेगवाले (सप्ते) घोड़े के तुल्य पुरुषार्थी उत्साही कारीगर विद्वन् ! जिस कारण (जातवेदाः) प्रसिद्ध भोगोंवाले (सजोषाः) समान प्रीतियुक्त हुए आप (वसुभिः) पृथिवी आदि (देवैः) दिव्य गुणोंवाले पदार्थों के साथ (प्रीतम्) प्रशंसा को प्राप्त (वह्निम्) यज्ञ में होमे हुए पदार्थों को मेघमण्डल में पहुँचानेवाले अग्नि को (वहतु) प्राप्त कीजिये और जिस (त्वा) आप को (अग्निः) अग्नि पहुँचावे। इसलिए आप (ईड्यः) स्तुति के योग्य (च) भी (असि) हैं, (वन्द्यः) नमस्कार करने योग्य (च) भी हैं (च) और (आशुः) शीघ्रगामी (च) तथा (मेध्यः) समागम करने योग्य (असि) हैं ॥३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य पृथिवी आदि विकारों से सवारी आदि को रच के उस में वेगवान् पहुँचानेवाले अग्नि को संप्रयुक्त करें, वे प्रशंसा के योग्य मान्य होवें ॥३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे वाजिन् सप्ते शिल्पिन् विद्वन् ! यतो जातवेदाः सजोषाः सन् भवान् वसुभिर्देवैः सह प्रीतं वह्निं वहतु, यं च त्वा त्वामग्निर्वहतु तस्मात् त्वमीड्यश्चासि आशुश्चासि मेध्यश्चासि ॥३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्याः पृथिव्यादिविकारैर्यानादीनि रचयित्वा तत्र वेगवन्तं वोढारमग्निं संप्रयुञ्जीरंस्ते प्रशंसनीया मान्याः स्युः ॥३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे पृथ्वीवरील पदार्थांपासून वाहने इत्यादी तयार करून वेगवान अग्नीला त्यात प्रयुक्त करतात त्यांची प्रशंसा होऊन त्यांना मान्यता प्राप्त होते.
०४ स्तीर्णं बर्हिः
विश्वास-प्रस्तुतिः ...{Loading}...
स्ती॒र्णं ब॒र्हिः सु॒ष्टरी॑मा जुषा॒णोरु पृ॒थु प्रथ॑मानं पृथि॒व्याम्। दे॒वेभि॑र्यु॒क्तमदि॑तिः स॒जोषाः॑ स्यो॒नं कृ॑ण्वा॒ना सु॑वि॒ते द॑धातु ॥४ ॥
मूलम् ...{Loading}...
स्ती॒र्णं ब॒र्हिः सु॒ष्टरी॑मा जुषा॒णोरु पृ॒थु प्रथ॑मानं पृथि॒व्याम्। दे॒वेभि॑र्यु॒क्तमदि॑तिः स॒जोषाः॑ स्यो॒नं कृ॑ण्वा॒ना सु॑वि॒ते द॑धातु ॥४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स्ती॒र्णम्। ब॒र्हिः। सु॒ष्टरी॑म। सु॒स्तरी॒मेति॑ सु॒ऽस्तरी॑म। जु॒षा॒णा। उ॒रु। पृ॒थु। प्रथ॑मानम्। पृ॒थि॒व्याम्। दे॒वेभिः॑। यु॒क्तम्। अदि॑तिः। स॒जोषा॑ इति॑ स॒ऽजोषाः॑। स्यो॒नम्। कृ॒ण्वा॒ना। सु॒वि॒ते। द॒धा॒तु॒। ४।
महीधरः
म० वयं बर्हिः सुष्टरीम साधु स्तरीम स्तृणाम । अदितिर्देवी स्तीर्णं तत् बर्हिः सुविते सु इते साधु गते स्वर्गलोके दधातु स्थापयतु । कीदृशी अदितिः । सजोषाः जोषसा प्रीत्या युक्ता । स्योनं कृण्वाना सुखं कुर्वती । जुषाणा प्रीयमाणा। कीदृशं बर्हिः । उरु बहु पृथु विस्तीर्णम् पृथिव्यां प्रथमानं विस्तार्यमाणम् । देवेभिर्युक्तं देवैः सहितम् ॥ ४ ॥
पञ्चमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- बृहदुक्थो वामदेव्य ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! हम लोग जैसे (पृथिव्याम्) भूमि में (उरु) बहुत (पृथु) विस्तीर्ण (प्रथमानम्) प्रख्यात (स्तीर्णम्) सब ओर से अङ्ग उपाङ्गों से पूर्ण यान और (बर्हिः) जल वा अन्तरिक्ष को (जुषाणा) सेवन करती हुई (सजोषाः) समान गुणवालों ने सेवन की (देवेभिः) दिव्य पदार्थों से (युक्तम्) युक्त (स्योनम्) सुख को (कृण्वाना) करती हुई (अदितिः) नाशरहित बिजुली सब को (सुविते) प्रेरणा किये यन्त्र में (दधातु) धारण करे, उस को (सुष्टरीम) सुन्दर रीति से विस्तार करे, वैसे आप भी प्रयत्न कीजिए ॥४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे मनुष्यो ! जो पृथिवी आदि में व्याप्त अखण्डित बिजुली विस्तृत बड़े-बड़े कार्य्यों को सिद्ध कर सुख को उत्पन्न करती है, उसको कार्यों में प्रयुक्त कर प्रयोजनों की सिद्धि करो ॥४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! वयं यथा पृथिव्यामुरु पृथु प्रथमानं स्तीर्णं बर्हिर्जुषाणा सजोषा देवेभिर्युक्तं स्योनं कृण्वानाऽदितिर्विद्युत् सर्वं सुविते दधातु तां सुष्टरीम तथा त्वं प्रयतस्व ॥४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः ! या पृथिव्यादिषु व्याप्ताऽखण्डिता विद्युद्विस्तीर्णानि कार्याणि संसाध्य सुखं जनयति, तां कार्येषु प्रयुज्य प्रयोजनसिद्धिं सम्पादयत ॥४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे माणसांनो ! पृथ्वीमध्ये व्याप्त असलेली विद्युत मोठमोठे कार्य सिद्ध करते व सुखी करते. तिला कार्यात प्रयुक्त करून आपले प्रयोजन सिद्ध करा.
०५ एताऽउ वः
विश्वास-प्रस्तुतिः ...{Loading}...
ए॒ताऽउ॑ वः सु॒भगा॑ वि॒श्वरू॑पा॒ वि पक्षो॑भिः॒ श्रय॑माणा॒ऽउदातैः॑। ऋ॒ष्वाः स॒तीः क॒वषाः॒ शुम्भ॑माना॒ द्वारो॑ दे॒वीः सुप्राय॒णा भ॑वन्तु ॥५ ॥
मूलम् ...{Loading}...
ए॒ताऽउ॑ वः सु॒भगा॑ वि॒श्वरू॑पा॒ वि पक्षो॑भिः॒ श्रय॑माणा॒ऽउदातैः॑। ऋ॒ष्वाः स॒तीः क॒वषाः॒ शुम्भ॑माना॒ द्वारो॑ दे॒वीः सुप्राय॒णा भ॑वन्तु ॥५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ए॒ताः। उँ॒ऽइत्यूँ॑। वः॒। सु॒भगा॒ इति॑ सु॒ऽभगाः॑। वि॒श्वरू॑पा॒ इति॑ वि॒श्वऽरू॑पाः। वि। पक्षो॑भि॒रिति॒ पक्षः॑ऽभिः। श्रय॑माणाः। उत्। आतैः॑। ऋ॒ष्वाः। स॒तीः। क॒वषाः॑। शुम्भ॑मानाः। द्वारः॑। दे॒वीः। सु॒प्रा॒य॒णाः। सु॒प्रा॒य॒ना इति॑ सुऽप्राय॒नाः। भ॒व॒न्तु॒। ५।
महीधरः
म० हे ऋत्विग्यजमानाः, वो युष्माकमेता द्वारो देवीः यज्ञगृहद्वारो देव्यः ईदृश्यो भवन्तु । उ पादपूरणः । कीदृश्यः । सुभगाः शोभनं भगं श्रीर्यासां ताः । विश्वरूपाः नानारूपचित्राः । पक्षोभिः पक्षस्शब्दः सान्तः पक्षवाची । पक्षैः पक्षप्रायैः कपाटैः विश्रयमाणाः विस्तार्यमाणाः । कीदृशैः पक्षोभिः । उत् ऊर्ध्वम् आतैः अत्यन्ते विस्तार्यन्ते आताः ‘अत सातत्यगमने’ ऊर्ध्वं प्रसृतैरित्यर्थः । पुनः कीदृश्यो द्वारः । ऋष्वाः ऋषन्ति ऋष्वाः ‘ऋष गतौ’ इतस्ततो गमनशीलाः महत्यः । सतीः सत्यः समीचीनाः । कवषः ‘कु शब्दे’ कुवन्ति शब्दं कुवन्तीति कवषः । कुवतेरसुन्प्रत्ययः षत्वमार्षम् । कपाटपिधानसमये शब्दं कुर्वाणाः ससुषिरा वा । शुम्भमानाः शोभमानाः सुप्रायणाः सुखेन प्रकृष्टमयनं गमनं यासु सुगमनाः ॥५॥
षष्ठी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- बृहदुक्थो वामदेव्य ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
कैसे द्वारोंवाले घर हों, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (वः) तुम्हारी (एताः) ये दीप्ति (सुभगाः) सुन्दर ऐश्वर्यदायक (विश्वरूपाः) विविध प्रकार के रूपोंवाले (ऋष्वाः) बड़े ऊँचे चौड़े (कवषाः) जिन में बोलने से शब्द की प्रतिध्वनि हो (शुम्भमानाः) सुन्दर शोभायुक्त (सती) हुए (देवीः) रङ्गों से चिलचिलाते हुए (उत्, आतैः) उत्तम रीति से निरन्तर जाने के हेतु (पक्षोभिः) बायें दाहिने भागों से (श्रयमाणाः) सेवित पक्षियों की पङ्क्तियों के तुल्य (सुप्रायणाः) सुख से जाने के आधार (द्वारः) द्वार (वि, भवन्तु) सर्वत्र घरों में हों, वैसे (उ) ही आप लोग भी बनावें ॥५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को चाहिए कि ऐसे द्वारोंवाले घर बनावें कि जिनसे वायु न रुके। जैसे आकाश में बिना रुकावट के पक्षी सुखपूर्वक उड़ते हैं, वैसे उन द्वारों में जावें-आवें ॥५ ॥
दयानन्द-सरस्वती (सं) - विषयः
कीदृग्द्वारवन्ति गृहाणि स्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा व एताः सुभगा विश्वरूपा ऋष्वाः कवषाः शुम्भमानाः सतीर्देवीर्द्वार उदातैः पक्षोभिः श्रयमाणाः पक्षिपङ्क्तय इव सुप्रायणा विभवन्तु तादृशीरु भवन्तो रचयन्तु ॥५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैरीदृशानि गृहद्वाराणि निर्मातव्यानि येभ्यो वायुनिरोधो न स्याद् यथाऽन्तरिक्षेऽनिरुद्धाः पक्षिणः सुखेन गच्छन्त्यागच्छन्ति तथा तेषु गन्तव्यमागन्तव्यं च ॥५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जेथे खेळती हवा असेल असे दरवाजे असणारी घरे बांधावीत. आकाशात पक्षी जसे मुक्तपणे संचार करतात तसे त्या दरवाज्यातून जाता येता यावे.
०६ अन्तरा मित्रावरुणा
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒न्त॒रा मि॒त्रावरु॑णा॒ चर॑न्ती॒ मुखं॑ य॒ज्ञाना॑म॒भि सं॑विदा॒ने। उ॒षासा॑ वाँसुहिर॒ण्ये सु॑शि॒ल्पेऽऋ॒तस्य॒ योना॑वि॒ह सा॑दयाभि ॥६ ॥
मूलम् ...{Loading}...
अ॒न्त॒रा मि॒त्रावरु॑णा॒ चर॑न्ती॒ मुखं॑ य॒ज्ञाना॑म॒भि सं॑विदा॒ने। उ॒षासा॑ वाँसुहिर॒ण्ये सु॑शि॒ल्पेऽऋ॒तस्य॒ योना॑वि॒ह सा॑दयाभि ॥६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒न्त॒रा। मि॒त्रावरु॑णा। चर॑न्ती॒ऽइति॒ चर॑न्ती॒। मुख॑म्। य॒ज्ञाना॑म्। अ॒भि। सं॒वि॒दा॒ने इति॑ सम्ऽविदा॒ने उ॒षासा॑। उ॒षसेत्यु॒षसा॑। वा॒म्। सु॒हि॒र॒ण्ये इति॑ सुऽहिर॒ण्ये। सु॒शि॒ल्पे इति॑ सुऽशि॒ल्पे। ऋ॒तस्य॑। योनौ॑। इ॒ह। सा॒द॒या॒मि॒। ६।
महीधरः
म० हे पत्नीयजमानौ, वां युवयोर्ऋतस्य यज्ञस्य योनौ इह उषासा उषसौ नक्तोषसौ सादयामि स्थापयामि । द्विवचनात्सहचारित्वाच्च द्वितीया रात्रिः । कीदृश्यौ उषसा । मित्रावरुणा मित्रावरुणौ अन्तरा द्यावापृथिव्योर्मध्ये संचरन्ती संचरन्त्यौ वर्तमाने ‘अयं वै लोको मित्रोऽसौ वरुणः’ इति श्रुतेर्मित्रवरुणशब्देन द्यावापृथिव्यावुच्यते । यज्ञानां मुखमग्निहोत्रहोमकालमभिसंविदाने कथयन्त्यौ उत्तिष्ठतायमग्निहोत्रहोमकाल इति प्रातर्विप्रा वदन्ति तदुषस्युपचर्यते । सुहिरण्ये साधु हिरण्यं भूतं ययोस्ते । सुशिल्पे अन्योन्यं प्रतिरूपे। शिल्पं प्रतिरूपं भवतीति वचनात् ॥ ६ ॥
सप्तमी।
अधिमन्त्रम् (VC)
- मनुष्या देवताः
- बृहदुक्थो वामदेव्य ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे शिल्पविद्या के प्रचारक दो विद्वानो ! जैसे मैं (अन्तरा) भीतर शरीर में (मित्रावरुणा) प्राण तथा उदान (चरन्ती) प्राप्त होते हुए (यज्ञानाम्) सङ्गति के योग्य पदार्थों के (मुखम्) मुख्य भाग को (अभि, संविदाने) सब ओर से सम्यक् ज्ञान के हेतु (सुहिरण्ये) सुन्दर तेजयुक्त (सुशिल्पे) सुन्दर कारीगरी जिस में हो (उषासा) प्रातः तथा सायंकाल की वेलाओं को (ऋतस्य) सत्य के (यौनौ) निमित्त (इह) इस घर में (सादयामि) स्थापन करता हूँ, वैसे (वाम्) तुम दोनों मेरे लिए स्थापना करो ॥६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे सेवेरे तथा सायंकाल की वेला शुद्ध स्थान में सेवी हुई मनुष्यों को प्राण-उदान के समान सुखकारिणी होती हैं, वैसे शुद्ध देश में बनाया बड़े-बड़े द्वारोंवाला घर सब प्रकार सुखी करता है। ॥६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे शिल्पविद्याप्रचारकौ विद्वांसौ ! यथाहमन्तरा मित्रावरुणा चरन्ती यज्ञानां मुखमभि संविदाने सुहिरण्ये सुशिल्पे उषासा ऋतस्य योनाविह सादयामि, तथा वां मह्यं स्थापयेतम् ॥६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा प्रातःसायंवेले शुद्धस्थानसेविते मनुष्याणां प्राणोदानवत्सुखकारिके भवतस्तथा शुद्धदेशे निर्मितं बहुविस्तीर्णद्वारं गृहं सर्वथा सुखयति ॥६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसे शुद्ध वातावरण असलेल्या स्थानी सकाळ व संध्याकाळची वेळ प्राणउदानाप्रमाणे सुखकारक असते. तसे शुद्ध हवा असलेल्या देशात मोठमोठे दरवाजे असलेली घरे सर्व प्रकारे सुखकारक असतात.
०७ प्रथमा वांसरथिना
विश्वास-प्रस्तुतिः ...{Loading}...
प्र॒थ॒मा वाँ॑सर॒थिना॑ सु॒वर्णा॑ दे॒वौ पश्य॑न्तौ॒ भुव॑नानि॒ विश्वा॑। अपि॑प्रयं॒ चोद॑ना वां॒ मिमा॑ना॒ होता॑रा॒ ज्योतिः॑ प्र॒दिशा॑ दि॒शन्ता॑ ॥७ ॥
मूलम् ...{Loading}...
प्र॒थ॒मा वाँ॑सर॒थिना॑ सु॒वर्णा॑ दे॒वौ पश्य॑न्तौ॒ भुव॑नानि॒ विश्वा॑। अपि॑प्रयं॒ चोद॑ना वां॒ मिमा॑ना॒ होता॑रा॒ ज्योतिः॑ प्र॒दिशा॑ दि॒शन्ता॑ ॥७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्र॒थ॒मा। वा॒म्। स॒र॒थिनेति॑ सऽर॒थिना॑। सु॒वर्णेति॑ सु॒ऽवर्णा॑। दे॒वौ। पश्य॑न्तौ। भुव॑नानि। विश्वा॑। अपि॑ऽप्रयम्। चोद॑ना। वा॒म्। मिमा॑ना। होता॑रा। ज्योतिः॑। प्र॒दि॑शेति॑ प्र॒ऽदिशा॑। दि॒शन्ता॑। ७।
महीधरः
म० हे यजमानौ, वां युवयोः प्रथमा प्रथमौ मुख्यौ होतारा होतारौ अहमपि प्रयं प्रीणितवानस्मि । प्रीणातेर्णिजन्तस्य लुङि उत्तमैकत्वे रूपम् । अयं चाग्निरसौ च मध्यम इति । होतारौ कीदृशौ । सरथिना सरथिनौ समानो रथो ययोस्तौ एकरथारूढौ । सुवर्णा सुवर्णौ शोभनो वर्णो द्युतिर्ययोस्तौ । देवौ दीप्यमानौ दातारौ । विश्वा सर्वाणि भुवनानि पश्यन्तौ । वां युवयोश्चोदना चोदनानि कर्माणि मिमाना मिमानौ निर्मिमाणौ । प्रदिशा प्रदेशेनाभिनयेन ज्योतिः दिशन्तौ आहवनीयाख्यं ज्योतिर्यष्टव्यमिति दर्शयन्तौ ॥ ७ ॥
अष्टमी।
अधिमन्त्रम् (VC)
- अश्विनौ देवते
- बृहदुक्थो वामदेव्य ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब पढ़ना-पढ़ाना कैसे हो, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे दो विद्यार्थियो ! जो (प्रथमा) पहिले (सरथिना) रथ वालों के साथ वर्त्तमान (सुवर्णा) सुन्दर गोरे वर्णवाले दो विद्वान् (विश्वा) सब (भुवनानि) बसने के आधार लोकों को (पश्यन्तौ) देखते हुए (वाम्) तुम दोनों के (चोदना) प्रेरणारूप कर्मों को (मिमाना) जाँचते हुए (ज्योतिः) प्रकाश को (प्रदिशा) अच्छे प्रकार जानते तथा (दिशन्ता) उच्चारण करते हुए तुम को (होतारा) दानशील (देवौ) तेजस्वी विद्वान् करें, जैसे उनको मैं (अपिप्रयम्) तृप्त करता हूँ, वैसे (वाम्) तुम दोनों उन विद्वानों को प्राप्त होओ ॥७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो विद्यार्थी लोग निष्कपटता से विद्वानों का सेवन करते हैं, वे विद्या के प्रकाश को प्राप्त होते हैं। जो विद्वान् लोग कपट और आलस्य को छोड़ें, सब को सत्य का उपदेश करें तो वे सुखी कैसे न होवें ॥७ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथाऽध्ययनाऽध्यापने कथं स्यातामित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्यार्थिनौ ! यौ प्रथमा सरथिना सुवर्णा विश्वा भुवनानि पश्यन्तौ वां चोदना मिमाना ज्योतिः प्रदिशा दिशन्ता होतारा देवौ विद्वांसौ कुर्यातां यथा त्वमहमपि प्रयन्तथा वां युवां तौ प्राप्नुतम् ॥७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये विद्यार्थिनो निष्कापट्येन विदुषः सेवन्ते, ते विद्याप्रकाशं लभन्ते। यदि विद्वांसः कपटालस्ये विहाय सर्वान् सत्यमुपदिशेयुस्तर्हि ते सुखिनः कथं न जायेरन् ॥७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जे विद्यार्थी निष्कपटीपणे विद्वानांचा आश्रय घेतात त्यांना विद्या प्राप्त होते. जे विद्वान कपटीपणा व आळशीपणा सोडून सर्वांना सत्याचा उपदेश करतात ते सुखी का बरे होणार नाहीत?
०८ आदित्यैर्नो भारती
विश्वास-प्रस्तुतिः ...{Loading}...
आ॒दि॒त्यैर्नो॒ भार॑ती वष्टु य॒ज्ञँ सर॑स्वती स॒ह रु॒द्रैर्न॑ऽआवीत्। इडोप॑हूता॒ वसु॑भिः स॒जोषा॑ य॒ज्ञं नो॑ देवीर॒मृते॑षु धत्त ॥८ ॥
मूलम् ...{Loading}...
आ॒दि॒त्यैर्नो॒ भार॑ती वष्टु य॒ज्ञँ सर॑स्वती स॒ह रु॒द्रैर्न॑ऽआवीत्। इडोप॑हूता॒ वसु॑भिः स॒जोषा॑ य॒ज्ञं नो॑ देवीर॒मृते॑षु धत्त ॥८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ॒दि॒त्यैः। नः॒। भार॑ती। व॒ष्टु॒। य॒ज्ञम्। सर॑स्वती। स॒ह। रु॒द्रैः। नः॒। आ॒वी॒त्। इडा॑। उप॑हू॒तेत्युप॑ऽहूता। वसु॑भि॒रिति॒ वसु॑ऽभिः। स॒जोषा॒ इति॑ स॒ऽजोषाः॒। य॒ज्ञम्। नः॒। दे॒वीः॒। अ॒मृते॑षु। ध॒त्त॒। ८।
महीधरः
म० आदित्यैः युता भारती नोऽस्माकं यज्ञं वष्टु कामयताम् । सरस्वती रुद्रैः सह नोऽस्माकं यज्ञमावीत् अवतु । इडा चावतु । कीदृशी । उपहूता कृतोपहवा । वसुभिः देवैः । सजोषाः प्रीतियुता । एवं परोक्षमभिधाय प्रत्यक्षमाह । हे देवीः देव्यो भारतीसरस्वतीडाः । नोऽस्माकं यज्ञममृतेषु देवेषु धत्त यूयं स्थापयत ॥ ८॥
नवमी।
अधिमन्त्रम् (VC)
- सरस्वती देवता
- बृहदुक्थो वामदेव्य ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! आप जो (आदित्यैः) पूर्ण विद्यावाले उत्तम विद्वानों ने उपदेश की (उपहूता) यथावत् स्पर्द्धा से ग्रहण की (भारती) सब विद्याओं को धारण और सब प्रकार की पुष्टि करने हारी वाणी (नः) हमारे लिए (यज्ञम्) सङ्गत हमारे योग्य बोध को सिद्ध करती है, उस के (सह) साथ (नः) हम को (वष्टु) कामनावाले कीजिए जो (रुद्रैः) मध्य कक्षा के विद्वानों ने उपदेश की (सरस्वती) उत्तम प्रशस्त विज्ञानयुक्त वाणी (नः) हम को (आवीत्) प्राप्त होवे, जो (सजोषाः) एक से विद्वानों ने सेवी (इडा) स्तुति की हेतु वाणी (वसुभिः) प्रथम कक्षा के विद्वानों ने उपदेश की हुई (यज्ञम्) प्राप्त होने योग्य आनन्द को सिद्ध करती है। हे मनुष्यो ! ये (देवीः) दिव्यरूप तीन प्रकार की वाणी हम को (अमृतेषु) नाशरहित जीवादि नित्य पदार्थों में धारण करें, उनको तुम लोग भी हमारे अर्थ (धत्त) धारण करो ॥८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को उचित है कि उत्तम, मध्यम, निकृष्ट विद्वानों से सुनी वा पढ़ी विद्या तथा वाणी को स्वीकार करें, किन्तु मूर्खों से नहीं, वह वाणी मनुष्यों को सब काल में सुख सिद्ध करनेवाली होती है ॥८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! भवान् या आदित्यैरुपदिष्टोपहूता भारती नो यज्ञं सम्पादयति तया सह नोऽस्मान् वष्टु या रुद्रैरुपदिष्टा सरस्वती नोऽस्मानावीत् या सजोषा इडा वसुभिरुपदिष्टा सती यज्ञं साध्नोति। हे जना ! ता देवीरस्मानमृतेषु दध्युस्ता यूयमस्मभ्यं धत्त ॥८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैरुत्तममध्यमनिकृष्टानां विदुषां सकाशाच्छ्रुता पठिता वा विद्यावाणी स्वीकार्य्या, न मूर्खाणां सकाशात्, सा वाणी मनुष्याणां सर्वदा सुखसाधिका भवति ॥८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - मूर्खांच्या वाणीचा स्वीकार न करता माणसांनी उत्तम, मध्यम व निकृष्ट विद्वानांकडून प्राप्त केलेली विद्या व वाणी यांचा स्वीकार करावा. अशी वाणी माणसांना सर्वकाळी सुख देणारी असते.
०९ त्वष्टा वीरम्
विश्वास-प्रस्तुतिः ...{Loading}...
त्वष्टा॑ वी॒रं दे॒वका॑मं जजान॒ त्वष्टु॒रर्वा॑ जायतऽआ॒शुरश्वः॑। त्वष्टे॒दं विश्वं॒ भुव॑नं जजान ब॒होः क॒र्त्तार॑मि॒ह य॑क्षि होतः ॥९ ॥
मूलम् ...{Loading}...
त्वष्टा॑ वी॒रं दे॒वका॑मं जजान॒ त्वष्टु॒रर्वा॑ जायतऽआ॒शुरश्वः॑। त्वष्टे॒दं विश्वं॒ भुव॑नं जजान ब॒होः क॒र्त्तार॑मि॒ह य॑क्षि होतः ॥९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
त्वष्टा॑। वी॒रम्। दे॒वका॑म॒मिति॑ दे॒वऽका॑मम्। ज॒जा॒न॒। त्वष्टुः॑। अर्वा॑। जा॒य॒ते॒। आ॒शुः। अश्वः॑। त्वष्टा॑। इ॒दम्। विश्व॑म्। भुव॑नम्। ज॒जा॒न॒। ब॒होः। क॒र्त्तार॑म्। इ॒ह। य॒क्षि॒। हो॒त॒रिति॑ होतः। ९।
महीधरः
म० त्वष्टा वीरं । पुत्रं जजान जनयति । कीदृशं वीरं । देवकामं देवान्कामयते देवकामस्तं यष्टारम् । ऋणत्रयापाकरणसमर्थमित्यर्थः । त्वष्टुः सकाशात् अश्वः जायते उत्पद्यते । कीदृशोऽश्वः। अर्वा इयर्ति गच्छति अर्वा । ‘अन्येभ्योऽपि दृश्यन्ते’ (पा० ३। २ । ७५) इति अर्तेर्वनिप् । आशुः अश्नुते दिशो व्याप्नोति अश्नाति भक्षयति वा आशुः उण्प्रत्ययः । किंच त्वष्टा इदं विश्वं सर्वं भुवनं भूतजातं जजान उदपादयत् । हे होतः, एवं बहोः कार्यस्य कर्तारं त्वष्टारमिह यज्ञे त्वं यक्षि यज । यजतेः शपि लुप्ते रूपम् ॥ ९ ॥
दशमी।
अधिमन्त्रम् (VC)
- त्वष्टा देवता
- बृहदुक्थो वामदेव्य ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (होतः) ग्रहण करनेहारे जन ! तू जैसे (त्वष्टा) विद्या आदि उत्तम गुणों से शोभित विद्वान् (देवकामम्) विद्वानों की कामना करनेहारे (वीरम्) वीर पुरुष को (जजान) उत्पन्न करता है, जैसे (त्वष्टुः) प्रकाशरूप शिक्षा से (आशुः) शीघ्रगामी (अर्वा) वेगवान् (अश्वः) घोड़ा (जायते) होता है। जैसे (त्वष्टा) अपने स्वरूप से प्रकाशित ईश्वर (इदम्) इस (विश्वम्) सब (भुवनम्) लोकमात्र को (जजान) उत्पन्न करता है, उस (बहोः) बहुविध संसार के (कर्त्तारम्) रचनेवाले परमात्मा का (इह) इस जगत् में (यक्षि) पूजन कीजिए, वैसे हम लोग भी करें ॥९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो विद्वान् लोग विद्या चाहनेवाले मनुष्यों को विद्वान् करें, शीघ्र जिसको शिक्षा हुई हो उस घोड़े के समान तीक्ष्णता से विद्या को प्राप्त होता है, जैसे बहुत प्रकार के संसार का स्रष्टा ईश्वर सब की व्यवस्था करता है, वैसे अध्यापक और अध्येता होवें ॥९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे होतस्त्वं यथा त्वष्टा विद्वान् देवकामं वीरं जजान यथा त्वष्टुराशुरर्वाश्वो जायते, यथा त्वष्टेदं विश्वं भुवनं जजान, तं बहोः कर्त्तारमिह यक्षि तथा वयमपि कुर्याम ॥९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये विद्याकामान् मनुष्यान् विदुषः कुर्य्युर्ये सद्योजातशिक्षोऽश्व इव तीव्रवेगेन विद्याः प्राप्नोति, यथा बहुविधस्य संसारस्य स्रष्टेश्वरः सर्वान् व्यवस्थापयति, तथाऽध्यापकाऽध्येतारो भवन्तु ॥९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जे विद्वान लोक विद्या शिकणाऱ्या जिज्ञासूंना विद्वान करतात त्यांना गतिमान अश्वाप्रमाणे विद्या प्राप्त होते. जगाचा निर्माता ईश्वर ज्याप्रमाणे सर्वांची अनेक प्रकारे व्यवस्था करतो, तसेच अध्यापक व अध्येता यांचे संबंध असावेत.
१० अश्वो घृतेन
विश्वास-प्रस्तुतिः ...{Loading}...
अश्वो॑ घृ॒तेन॒ त्मन्या॒ सम॑क्त॒ऽउप॑ दे॒वाँ२ऽऋ॑तु॒शः पाथ॑ऽएतु। वन॒स्पति॑र्देवलोकं प्र॑जा॒नन्न॒ग्निना॑ ह॒व्या स्व॑दि॒तानि॑ वक्षत् ॥१० ॥
मूलम् ...{Loading}...
अश्वो॑ घृ॒तेन॒ त्मन्या॒ सम॑क्त॒ऽउप॑ दे॒वाँ२ऽऋ॑तु॒शः पाथ॑ऽएतु। वन॒स्पति॑र्देवलोकं प्र॑जा॒नन्न॒ग्निना॑ ह॒व्या स्व॑दि॒तानि॑ वक्षत् ॥१० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अश्वः॑। घृ॒तेन॑। त्मन्या॑। सम॑क्त॒ इति॒ सम्ऽअ॑क्तः। उप॑। दे॒वान्। ऋ॒तु॒श इत्यृ॑तु॒ऽशः। पाथः॑। ए॒तु॒। वन॒स्पतिः॑। दे॒व॒लो॒कमिति॑ देवऽलो॒कम्। प्र॒जा॒नन्निति॑ प्रऽजा॒नन्। अ॒ग्निना॑। ह॒व्या। स्व॒दि॒तानि॑। व॒क्ष॒त्। १०।
महीधरः
म० पाथ इत्यन्ननाम । अश्वः पाथः अश्वरूपं हविः ऋतुशः ऋतौऋतौ यज्ञकाले त्मन्या आत्मना स्वयं देवान् उप एतु प्राप्नोतु । विभक्तेर्यादेशे ‘मन्त्रेष्वाङ्ग्यादेरात्मनः’ (पा० ६ । ४ । १४१ ) इति आलोपः । कीदृशोऽश्वः । घृतेन समक्तः पत्नीभिः समुक्षितः । किंच वनस्पतिर्देवः हव्या हव्यानि वक्षत् वहतु देवान्प्रति । कीदृशो वनस्पतिः । देवलोकं प्रजानन्विदन् अतएव वहतु । कीदृशानि हव्यानि । अग्निना स्वदितानि आस्वादितानि आस्वाद्य मिष्टीकृतानि ॥ १० ॥
एकादशी।
अधिमन्त्रम् (VC)
- सूर्य्यो देवता
- बृहदुक्थो वामदेव्य ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् (देवलोकम्) सब को मार्ग दिखानेवाले विद्वानों के मार्ग को (प्रजानन्) अच्छे प्रकार जानते हुए जैसे (घृतेन) जल संयुक्त किया (अश्वः) शीघ्रगामी अग्नि (त्मन्या) आत्मा से (ऋतुशः) ऋतु-ऋतु में (देवान्) उत्तम व्यवहारों को (समक्तः) सम्यक् प्रकट करता हुआ (पाथः) अन्न को (उप, एतु) निकट से प्राप्त हूजिए (अग्निना) अग्नि के साथ (वनस्पतिः) किरणों का रक्षक सूर्य (स्वदितानि) स्वादिष्ठ (हव्या) भोजन के योग्य अन्नों को (वक्षत्) प्राप्त करे, वैसे आत्मा से वर्ताव कीजिए ॥१० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे विद्वान् मनुष्यो ! जैसे सूर्य ऋतुओं का विभाग कर उत्तम सेवने योग्य वस्तुओं को उत्पन्न करता है, वैसे उत्तम, अधम विद्यार्थी और विद्या-अविद्या की अलग-अलग परीक्षा कर अच्छे शिक्षित करें और अविद्या की निवृत्ति करें ॥१० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! देवलोकं प्रजानन्त्सन् यथा घृतेन संयोजितोऽश्वस्त्मन्या ऋतुशो देवान्त्समक्तः सन् पाथ उपैतु अग्निना सह वनस्पतिः स्वदितानि हव्या यक्षत् तथा त्मन्या वर्त्तस्व ॥१० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे विद्वांसो मनुष्याः ! यथा सूर्य ऋतून् विभज्योत्तमानि सेवितव्यानि वस्तूनि जनयति, तथोत्तमानधमान् विद्यार्थिनो विद्याञ्चाऽविद्याञ्च पृथक् परीक्ष्य सुशिक्षितान् सम्पादयन्तु, अविद्याञ्च निवर्त्तयन्तु ॥१० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे विद्वानांनो ! जसा सूर्य ऋतूंचे निरनिराळे विभाग करून उपभोग्य वस्तू निर्माण करतो, तसे उत्तम व निकृष्ट विद्यार्थी आणि विद्या व अविद्या यांची परीक्षा करून चांगले शिक्षण द्यावे व अविद्या नष्ट करावी.
११ प्रजापतेस्तपसा वावृधानः
विश्वास-प्रस्तुतिः ...{Loading}...
प्र॒जाप॑ते॒स्तप॑सा वावृधा॒नः स॒द्यो जा॒तो द॑धिषे य॒ज्ञम॑ग्ने। स्वाहा॑कृतेन ह॒विषा॑ पुरोगा या॒हि सा॒ध्या ह॒विर॑दन्तु दे॒वाः ॥११ ॥
मूलम् ...{Loading}...
प्र॒जाप॑ते॒स्तप॑सा वावृधा॒नः स॒द्यो जा॒तो द॑धिषे य॒ज्ञम॑ग्ने। स्वाहा॑कृतेन ह॒विषा॑ पुरोगा या॒हि सा॒ध्या ह॒विर॑दन्तु दे॒वाः ॥११ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्र॒जाप॑ते॒रिति॑ प्र॒जाऽप॑तेः। तप॑सा। वा॒वृ॒धा॒नः। व॒वृ॒धा॒नऽइति॑ ववृधा॒नः। स॒द्यः। जा॒तः। द॒धि॒षे॒। य॒ज्ञम्। अ॒ग्ने॒। स्वाहा॑कृते॒नेति॒ स्वाहा॑ऽकृतेन। ह॒विषा॑। पु॒रो॒गा॒ इति॑ पुरःऽगाः। या॒हि। सा॒ध्या। ह॒विः। अ॒द॒न्तु॒। दे॒वाः। ११।
महीधरः
म० हे अग्ने, त्वं यज्ञं दधिषे धारयसि । लडर्थे लिट् । कीदृशस्त्वम् । प्रजापतेस्तपसा वावृधानः वर्धमानः। सद्योजातः अरण्या उत्पन्नः । किंच स्वाहाकृतेन स्वाहाकारमुक्त्वा हुतेन हविषा सह । पुरोगाः पुरो गच्छतीति अग्रगामी सन् याहि देवान् गच्छ । त्वयि गते सति देवाः हविरदन्तु भक्षयन्तु । कीदृशं हविः । साध्या साधु । श्रेष्ठम् । विभक्तेर्ड्यादेशे टिलोपे रूपम् ॥ ११॥
द्वादशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- बृहदुक्थो वामदेव्य ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को क्या करना चाहिए, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् (अग्ने) अग्नि के तुल्य तेजस्वी ! आप (सद्यः) शीघ्र (जातः) प्रसिद्ध हुए (प्रजापतेः) प्रजारक्षक ईश्वर के (तपसा) प्रताप से (वावृधानः) बढ़ते हुए (स्वाहाकृतेन) सुन्दर संस्काररूप क्रिया से सिद्ध हुए (हविषा) होम में देने योग्य पदार्थ से (यज्ञम्) यज्ञ को (दधिषे) धारते हो, जो (पुरोगाः) मुखिया वा अगुआ (साध्या) साधनों से सिद्ध करने योग्य (देवाः) विद्वान् लोग (हविः) ग्राह्य अन्न का (अदन्तु) भोजन करें, उन को (याहि) प्राप्त हूजिये ॥११ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य सूर्य के समान प्रजा के रक्षक धर्म से प्राप्त हुए पदार्थ के भोगनेवाले होते हैं, वे सर्वोत्तम गिने जाते हैं ॥११ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैः किं कर्त्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! त्वं सद्यो जातः प्रजापतेस्तपसा वावृधानः स्वाहाकृतेन हविषा यज्ञं दधिषे, ये पुरोगाः साध्या देवा हविरदन्तु तान् याहि प्राप्नुहि ॥११ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्याः सूर्यवत् प्रजापालका धर्मेण प्राप्तस्य पदार्थस्य भोक्तारो भवन्ति, ते सर्वोत्तमा गण्यन्ते ॥११ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे सूर्याप्रमाणे लोकांचे रक्षण करतात व धर्माने प्राप्त होणाऱ्या पदार्थांचा भोग करतात त्यांना सर्वोत्तम समजले जाते.
१२ यदक्रन्दः प्रथमम्
विश्वास-प्रस्तुतिः ...{Loading}...
यदक्र॑न्दः प्रथ॒मं जाय॑मानऽउ॒द्यन्त्स॑मु॒द्रादु॒त वा॒ पुरी॑षात्। श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॒ बा॒हूऽउ॑प॒स्तुत्यं॒ महि॑ जा॒तं ते॑ऽअर्वन् ॥१२ ॥
मूलम् ...{Loading}...
यदक्र॑न्दः प्रथ॒मं जाय॑मानऽउ॒द्यन्त्स॑मु॒द्रादु॒त वा॒ पुरी॑षात्। श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॒ बा॒हूऽउ॑प॒स्तुत्यं॒ महि॑ जा॒तं ते॑ऽअर्वन् ॥१२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यत्। अक्र॑न्दः। प्र॒थ॒मम्। जाय॑मानः। उ॒द्यन्नित्यु॒त्ऽयन्। स॒मु॒द्रात्। उ॒त। वा॒। पुरी॑षात्। श्ये॒नस्य॑। प॒क्षा। ह॒रि॒णस्य॑। बा॒हूऽइति॑ बा॒हू। उ॒प॒स्तुत्य॒मित्यु॑प॒ऽस्तुत्य॑म्। महि॑। जा॒तम्। ते॒ अ॒र्व॒न्। १२।
महीधरः
म० त्रयोदशाश्वस्तुतिरूपास्त्रिष्टुभो जमदग्निदीर्घतमोभ्यां दृष्टा अश्वस्तुतौ विनियुक्ताः । हे अर्वन् अश्व, यत् यदा त्वमक्रन्दः क्रन्दितवान् हेषारवमकार्षीः तदा ते तव महि माहात्म्यम् उपस्तुत्यं स्तोतुं योग्यं जातम् । कथं स्तुत्यं तदाह । श्येनस्य पक्षौ हरिणस्य बाहू । अनेन क्रन्दनेन जिताविति शेषः । श्येनपक्षौ शौर्येण हरिणबाहू वेगेनेत्यर्थः । कीदृशस्त्वम् । समुद्रात् अन्तरिक्षात् उदधेर्वा प्रथमं जायमानः । उतवा अथवा पुरीषात् पशोः सकाशात् उद्यन् उत्पद्यमानः ॥ १२ ॥
त्रयोदशी ।
अधिमन्त्रम् (VC)
- यजमानो देवता
- भार्गवो जमदग्निर्ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अर्वन्) घोड़े के तुल्य वेगवाले विद्वान् पुरुष ! (यत्) जब (समुद्रात्) अन्तरिक्ष (उत, वा) अथवा (पुरीषात्) रक्षक परमात्मा से (प्रथमम्) पहिले (जायमानः) उत्पन्न हुए वायु के समान (उद्यन्) उदय को प्राप्त हुए (अक्रन्दः) शब्द करते हो तब (हरिणस्य) हरणशील वीरजन (ते) आप के (बाहू) भुजा (श्येनस्य) श्येनपक्षी के (पक्षा) पंखों के तुल्य बलकारी हैं, यह (महि) महत् कर्म (जातम्) प्रसिद्ध (उपस्तुत्यम्) समीपस्थ स्तुति का विषय होता है ॥१२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे मनुष्यो ! जैसे अन्तरिक्ष से उत्पन्न हुआ वायु कर्मों को कराता, वैसे मनुष्यों के शुभगुणों को तुम लोग ग्रहण करो। जैसे पशुओं में घोड़ा वेगवान् है, वैसे शत्रुओं को रोकने में वेगवान् श्येन पक्षी के तुल्य वीर पुरुषों की सेनावाले दृढ़ ढीठ होओ, यदि ऐसे करो तो सब कर्म तुम्हारा प्रशंसित होवे ॥१२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अर्वन् विद्वन् ! यत्समुद्रादुत वा पुरीषात् प्रथमं जायमानो वायुरिवोद्यंस्त्वमक्रन्दस्तदा ते हरिणस्य बाहू श्येनस्य पक्षेव एतत् महि जातमुपस्तुत्यं भवति ॥१२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः ! यथाऽन्तरिक्षात् प्रकटो वायुः कर्माणि कारयति, तथा शुभान् नृगुणान् यूयं स्वीकुरुत। यथा पशूनां मध्येऽश्वो वेगवानस्ति तथा शत्रूणां निग्रहे वेगवन्तः श्येन इव वीरसेना प्रगल्भा भवत यद्येवं कुरुत तर्हि सर्वं युष्माकं प्रशंसितं स्यात् ॥१२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे माणसांनो ! अंतरिक्षातील वायू जसे कार्य करतो तसे तुम्ही माणसाच्या शुभ गुणांना स्वीकारा. जसे पशूंमध्ये गतिमान घोडा शत्रूंना रोखतो. तसे वेगवान श्येन पक्ष्याप्रमाणे वीर पुरुषांची दृढ व धीट सेना तयार करा. म्हणजे तुमच्या सर्व कर्माची प्रशंसा होईल.
१३ यमेन दत्तम्
विश्वास-प्रस्तुतिः ...{Loading}...
य॒मेन॑ द॒त्तं त्रि॒तऽए॑नमायुन॒गिन्द्र॑ऽएणं प्रथ॒मोऽअध्य॑तिष्ठत्। ग॒न्ध॒र्वोऽअ॑स्य रश॒नाम॑गृभ्णा॒त् सूरा॒दश्वं॑ वस॒वो निर॑तष्ट ॥१३ ॥
मूलम् ...{Loading}...
य॒मेन॑ द॒त्तं त्रि॒तऽए॑नमायुन॒गिन्द्र॑ऽएणं प्रथ॒मोऽअध्य॑तिष्ठत्। ग॒न्ध॒र्वोऽअ॑स्य रश॒नाम॑गृभ्णा॒त् सूरा॒दश्वं॑ वस॒वो निर॑तष्ट ॥१३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
य॒मेन॑। द॒त्तम्। त्रि॒तः। ए॒न॒म्। आ॒यु॒न॒क्। अ॒यु॒न॒गत्य॑युनक्। इन्द्रः॑। ए॒न॒म्। प्र॒थ॒मः। अधि॑। अ॒ति॒ष्ठ॒त्। ग॒न्ध॒र्वः। अ॒स्य॒। र॒श॒नाम्। अ॒गृ॒भ्णा॒त्। सूरा॑त्। अश्व॑म्। व॒स॒वः। निः। अ॒त॒ष्ट॒। १३।
महीधरः
म०. वसवोऽष्टगणदेवाः सूरादादित्यमण्डलादश्वं निरतष्ट निष्कृष्टवन्तः। तक्षतेर्लुङि मध्यमबहुवचनम् । ततः त्रितः त्रिस्थानो वायुः। यमेन दत्तमेनमश्वम् अयुनक् युक्तवान् । युजेर्लङ् संहितायामटि दीर्घः । इन्द्रश्चैनमश्वं प्रथमः अध्यतिष्ठत् आदावधिष्ठितवान् । गन्धर्वः विश्वावसुरस्याश्वस्य रशनामगृभ्णात् गृहीतवान् । य ईदृशस्तं स्तुमः । एणमिति णत्वं छान्दसम् ॥ १३ ॥
चतुर्दशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- भार्गवो जमदग्निर्ऋषिः
- भुरिक्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (वसवः) विद्वान् ! जो (इन्द्रः) बिजुली (त्रितः) पृथिवी, जल और आकाश से (यमेन) नियमकर्त्ता वायु ने (दत्तम्) दिये अर्थात् उत्पन्न किये (एनम्) इस अग्नि को (आयुनक्) युक्त करती है (एनम्) इस को प्राप्त हो के (प्रथमः) विस्तीर्ण प्रख्यात विद्युत् (अध्यतिष्ठत्) सर्वोपरि स्थित होती है (गन्धर्वः) पृथिवी को धारण करता हुआ (अस्य) इस सूर्य की (रशनाम्) रस्सी के तुल्य किरणों की गति को (अगृभ्णात्) ग्रहण करता है, इस (सूरात्) सूर्यरूप से (अश्वम्) शीघ्रगामी वायु को (निरतष्ट) सूक्ष्म करता है, उस को तुम लोग विस्तृत करो ॥१३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! ईश्वर ने इस संसार में जिस पदार्थ में जैसी रचना की है, उस को तुम लोग विद्या से जानो और इस सृष्टिविद्या को ग्रहण कर अनेक सुखों को सिद्ध करो ॥१३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे वसवो ! य इन्द्रस्त्रितो यमेन दत्तमेनमायुनगेनं प्राप्य प्रथमोऽध्यतिष्ठद्, गन्धर्वः सन्नस्य रशनामगृभ्णादस्मात् सूरादश्वं निरतष्ट, तं यूयं विस्तारयत ॥१३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! ईश्वरेणेह यस्मिन् पदार्थे यादृशी पदार्थरचना कृता, तां यूयं विद्यया संवित्तैतां सृष्टिविद्यां गृहीत्वाऽनेकानि सुखानि साध्नुत च ॥१३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ईश्वराने या संसारात ज्या पदार्थांची जशी निर्मिती केलेली आहे त्यांना तुम्ही विद्येने जाणा व सृष्टिविद्या प्राप्त करून अनेक प्रकारचे सुख भोगा.
१४ असि यमोऽअस्यादित्योऽअर्वन्नसि
विश्वास-प्रस्तुतिः ...{Loading}...
असि॑ य॒मोऽअस्या॑दि॒त्योऽअ॑र्व॒न्नसि॑ त्रि॒तो गुह्ये॑न व्र॒तेन॑। असि॒ सोमे॑न स॒मया॒ विपृ॑क्तऽआ॒हुस्ते॒ त्रीणि॑ दि॒वि बन्ध॑नानि ॥१४ ॥
मूलम् ...{Loading}...
असि॑ य॒मोऽअस्या॑दि॒त्योऽअ॑र्व॒न्नसि॑ त्रि॒तो गुह्ये॑न व्र॒तेन॑। असि॒ सोमे॑न स॒मया॒ विपृ॑क्तऽआ॒हुस्ते॒ त्रीणि॑ दि॒वि बन्ध॑नानि ॥१४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
असि॑। य॒मः। असि॑। आ॒दि॒त्यः। अ॒र्व॒न्। असि॑। त्रि॒तः। गुह्ये॑न। व्र॒तेन॑। असि॑। सोमे॑न। स॒मया॑। विपृ॑क्त॒ इति॒ विऽपृ॑क्तः। आ॒हुः। ते॒। त्रीणि॑। दि॒वि। बन्ध॑नानि। १४।
महीधरः
म०. हे अर्वन् ,त् वं यमोऽसि आदित्यश्चासि । गुह्येन गोप्येन व्रतेन कर्मणा त्रितः त्रिस्थान इन्द्रोऽसि । सोमेन समया सह विपृक्तः संपृक्तः एकीभूतोऽसि । एवं यमादिभिः सायुज्यं प्राप्तस्य तव दिवि नभसि आदित्यरूपेण स्थितस्य त्रीणि बन्धनानि बुधा आहुः । ऋग्यजुःसामरूपाणि मण्डलान्तरपुरुषार्चींषि त्रीणि बन्धनानि स्वरूपाणि । ‘यदेतन्मण्डलं तपति तन्महदुक्थम्’ इत्यादिश्रुतेः ॥ १४ ॥
पञ्चदशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- भार्गवो जमदग्निर्ऋषिः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अर्वन्) वेगवान् अग्नि के समान जन ! जिससे तू (गुह्येन) गुप्त (व्रतेन) स्वभाव तथा (त्रितः) कर्म, उपासना, ज्ञान से युक्त (यमः) नियमकर्त्ता न्यायाधीश के तुल्य (असि) है, (आदित्यः) सूर्य के तुल्य विद्या से प्रकाशित जैसा (असि) है, विद्वान् के सदृश (असि) है, (सोमेन) ऐश्वर्य के (समया) निकट (विपृक्तः) विशेषकर संबद्ध (असि) है। उस (ते) तेरे (दिवि) प्रकाश में (त्रीणि) तीन (बन्धनानि) बन्धनों को अर्थात् ऋषि, देव, पितृ ऋणों के बन्धनों को (आहुः) कहते हैं ॥१४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे मनुष्यो ! तुम को योग्य है कि न्यायाधीश, सूर्य और चन्द्रमा आदि के गुणों से युक्त होवें, जैसे इस संसार के बीच वायु और सूर्य के आकर्षणों से बन्धन हैं, वैसे ही परस्पर शरीर, वाणी, मन के आकर्षणों से प्रेम के बन्धन करें ॥१४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अर्वन् ! यतस्त्वं गुह्येन व्रतेन त्रितो यम इवास्यादित्य इवासि, विद्वन्निवासि, सोमेन समया विपृक्तोऽसि, तस्य ते दिवि त्रीणि बन्धनान्याहुः ॥१४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः ! युष्माभिर्न्यायाधीशादित्यसोमादिगुणैर्भवितव्यम्। यथाऽस्य संसारस्य मध्ये वायुसूर्य्याकर्षणैर्बन्धनानि सन्ति, तथैव परस्परस्य शरीरवाङ्मनआकर्षणैः प्रेमबन्धनानि कर्त्तव्यानि ॥१४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे माणसांनो ! तुम्ही सूर्यचंद्राप्रमाणे न्यायाधीश बना. जसे या जगात वायू व सूर्य यांच्यात आकर्षणाचे बंधन असते, तसेच शरीर, मन, वाणी यांनी एकमेकांच्या आकर्षणाचे (प्रेमाचे) बंधन असावे.
१५ त्रीणि तऽआहुर्दिवि
विश्वास-प्रस्तुतिः ...{Loading}...
त्रीणि॑ तऽआहुर्दि॒वि बन्ध॑नानि॒ त्रीण्य॒प्सु त्रीण्य॒न्तः स॑मु॒द्रे। उ॒तेव॑ मे॒ वरु॑णश्छन्त्स्यर्व॒न् यत्रा॑ तऽआ॒हुः प॑र॒मं ज॒नित्र॑म् ॥१५ ॥
मूलम् ...{Loading}...
त्रीणि॑ तऽआहुर्दि॒वि बन्ध॑नानि॒ त्रीण्य॒प्सु त्रीण्य॒न्तः स॑मु॒द्रे। उ॒तेव॑ मे॒ वरु॑णश्छन्त्स्यर्व॒न् यत्रा॑ तऽआ॒हुः प॑र॒मं ज॒नित्र॑म् ॥१५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
त्रीणि॑। ते॒। आ॒हुः॒। दि॒वि। बन्ध॑नानि। त्रीणि॑। अ॒प्स्वित्य॒प्ऽसु। त्रीणि॑। अ॒न्तरित्य॒न्तः। स॒मु॒द्रे। उ॒तेवेत्यु॒तऽइ॑व। मे॒। वरु॑णः। छ॒न्त्सि॒। अ॒र्व॒न्। यत्र॑। ते॒। आ॒हुः। प॒र॒मम्। ज॒नित्र॑म्। १५।
महीधरः
म० हे अर्वन् , यत्र ते तव परमं जनित्रं बुधा आहुः आदित्यरूपेण तत्र ते तव त्रीणि बन्धनानि पूर्वमन्त्रोक्तान्याहुः। अप्सु उदकेषु त्रीणि बन्धनानि आहुः कृषिर्वृष्टिर्बीजमिति । | अन्तःसमुद्रे अन्तरिक्षमध्ये त्रीणि बन्धनानि आहुः मेघो विद्युत् स्तनयित्नुरिति । उतेव उतापिच वरुणः वरुणरूपः त्वं मे मां छन्त्सि प्रशंससि । कर्मणि षष्टी। छन्दतिरर्चतिकर्मा । अर्चनं प्रशंसनम् ॥ १५ ॥
षोडशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- भार्गवो जमदग्निर्ऋषिः
- भुरिक्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अर्वन्) विज्ञानयुक्त विद्वान् जन ! (यत्र) जिस (दिवि) विद्या के प्रकाश में (ते) आप के (त्रीणि) तीन (बन्धनानि) बन्धनों को विद्वान् लोग (आहुः) कहते हैं, जहाँ (अप्सु) प्राणों में (त्रीणि) तन जहाँ (अन्तः) बीच में और (समुद्रे) अन्तरिक्ष में (त्रीणि) तीन बन्धनों को (आहुः) कहते हैं और (ते) आप के (परमम्) उत्तम (जनित्रम्) जन्म को कहते हैं, जिससे (वरुणः) श्रेष्ठ हुए विद्वानों का (छन्त्सि) सत्कार करते हो (उतेव) उत्प्रेक्षा के तुल्य वे सब (मे) मेरे होवें ॥१५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे मनुष्यो ! आत्मा, मन और शरीर में ब्रह्मचर्य के साथ विद्याओं में नियत होके विद्या और सुशिक्षा का संचय करो। द्वितीय विद्याजन्म को पाकर पूजित होवो, जिस जिस के साथ अपना सम्बन्ध है, उस को जानो ॥१५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अर्वन् विद्वन् ! यत्र दिवि ते त्रीणि बन्धनानि विद्वांस आहुर्यत्राप्सु त्रीणि यत्रान्तर्मध्ये समुद्रे च त्रीणि बन्धनान्याहुस्ते च परमं जनित्रमाहुः। येन वरुणः सन् विदुषः छन्त्स्युतेव तानि मे सन्तु ॥१५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः ! आत्ममनःशरीरैर्ब्रह्मचर्येण विद्यासु नियता भूत्वा विद्यासुशिक्षे सञ्चिनुत। द्वितीयं विद्याजन्म प्राप्यार्चिता भवत, येन येन सह यावान् स्वस्य सम्बन्धोऽस्ति तं विजानीत ॥१५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे माणसांनो ! आत्मा, मन व शरीर यांनी ब्रह्मचर्य पालन करून विद्या व सुशिक्षणाचा संचय करा. विद्येने दुसरा जन्म प्राप्त करून पूजनीय बना. ज्याचा जसा जसा आपल्याबरोबर संंबंध असतो तो तसा तसा नीट जाणा.
१६ इमा ते
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒मा ते॑ वाजिन्नव॒मार्ज॑नानी॒मा श॒फानाँ॑ सनि॒तुर्नि॒धाना॑। अत्रा॑ ते भ॒द्रा र॑श॒नाऽअ॑पश्यमृ॒तस्य॒ याऽअ॑भि॒रक्ष॑न्ति गो॒पाः ॥१६ ॥
मूलम् ...{Loading}...
इ॒मा ते॑ वाजिन्नव॒मार्ज॑नानी॒मा श॒फानाँ॑ सनि॒तुर्नि॒धाना॑। अत्रा॑ ते भ॒द्रा र॑श॒नाऽअ॑पश्यमृ॒तस्य॒ याऽअ॑भि॒रक्ष॑न्ति गो॒पाः ॥१६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इ॒मा। ते॒ वा॒जि॒न्। अ॒व॒मार्ज॑ना॒नीत्य॑व॒ऽमार्ज॑नानि। इ॒मा। श॒फाना॑म्। स॒नि॒तुः। नि॒धानेति॑ नि॒ऽधाना॑। अत्र॑। ते॒। भ॒द्राः। र॒श॒नाः। अ॒प॒श्य॒म्। ऋ॒तस्य॑। याः। अ॒भि॒रक्ष॒न्तीत्य॑भि॒ऽरक्ष॑न्ति। गो॒पाः। १६।
महीधरः
म० हे वाजिन् , ते तव इमा इमानि अवमार्जनानि अहमपश्यं पश्यामि । अवमार्ज्यते यैस्तानि अवमार्जनानि वेतसकटादीनि । शफानां खुराणां सनितुः संभक्तुर्नियन्तुः पादवासस्य इमा इमानि निधाना निधानानि स्थानानि अपश्यम् । अत्र यज्ञे ते तव रशनाः मध्यबन्धनरज्जू: अपश्यम् । कीदृशी रशनाः । भद्राः कल्याणरूपाः स्तुत्याः । गोपाः गोपायन्तीति गोपाः रक्षणकर्त्र्यः । या रशनाः ऋतस्य ऋतं यज्ञमभिरक्षन्ति कर्मणि षष्ठी । ‘निपातस्य च’ (पा० ६।३। १३६ ) इत्यत्र पदस्य दीर्घः ॥ १६ ॥
सप्तदशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- भार्गवो जमदग्निर्ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को घोड़ों के रखने से क्या सिद्ध करना चाहिए, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (वाजिन्) घोड़े के तुल्य वेगादि गुणों से युक्त सेनाधीश ! जैसे मैं (ते) आप के (इमा) इन प्रत्यक्ष घोड़ों की (अवमार्जनानि) शुद्धि क्रियाओं और (इमा) इन (शफानाम्) खुरों के (सनितुः) रखने के नियम के (निधाना) स्थानों की (अपश्यम्) देखता हूँ (अत्र) इस सेना में (ते) आप के घोड़े की (याः) जो (भद्राः) सुन्दर शुभकारिणी (गोपाः) उपद्रव से रक्षा करनेहारी (रशनाः) लगाम की रस्सी (ऋतस्य) सत्य की (अभिरक्षन्ति) सब ओर से रक्षा करती हैं, उनको मैं देखूँ वैसे आप भी देखें ॥१६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो लोग स्नान से घोड़े आदि को शुद्धि तथा उनके शुम्मों की रक्षा के लिए लोहे के बनाये नालों को संयुक्त और लगाम की रस्सी आदि सामग्री को संयुक्त कर अच्छी शिक्षा दे रक्षा करते हैं, वे युद्धादि कार्यों में सिद्धि करनेवाले होते हैं ॥१६ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यैरश्वरक्षणेन किं साध्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे वाजिन् ! यथाऽहं ते तवेमाश्वस्यावमार्जनानीमा शफानां सनितुर्निधानाऽपश्यमत्र तेऽश्वस्य या भद्रा गोपा रशना ऋतस्याभिरक्षन्ति ता अपश्यं तथा त्वं पश्य ॥१६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये स्नानेनाश्वादीनां शुद्धिं तच्छफानां रक्षणायायसो निर्मितस्य योजनमन्यानि रशनादीनि च संयोज्य सुशिक्ष्य रक्षन्ति, ते युद्धादिषु कार्येषु कृतसिद्धयो भवन्ति ॥१६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जे लोक घोड्याची स्वच्छता करून त्यांना लोखंडाचे खूर ठोकतात, तसेच लगाम वगैरे साधने एकत्र करतात व घोड्यांना प्रशिक्षण देतात ते युद्ध करू शकतात.
१७ आत्मानं ते
विश्वास-प्रस्तुतिः ...{Loading}...
आ॒त्मानं॑ ते॒ मन॑सा॒राद॑जानाम॒वो दि॒वा प॒तय॑न्तं पत॒ङ्गम्। शिरो॑ऽअपश्यं॒ प॒थिभिः॑ सु॒गेभि॑ररे॒णुभि॒र्जेह॑मानं पत॒त्त्रि ॥१७ ॥
मूलम् ...{Loading}...
आ॒त्मानं॑ ते॒ मन॑सा॒राद॑जानाम॒वो दि॒वा प॒तय॑न्तं पत॒ङ्गम्। शिरो॑ऽअपश्यं॒ प॒थिभिः॑ सु॒गेभि॑ररे॒णुभि॒र्जेह॑मानं पत॒त्त्रि ॥१७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ॒त्मान॑म्। ते॒। मन॑सा। आ॒रात्। अ॒जा॒ना॒म्। अ॒वः। दि॒वा। प॒तय॑न्तम्। प॒त॒ङ्गम्। शिरः॑। अ॒प॒श्य॒म्। प॒थिभि॒रिति॑ प॒थिऽभिः॑। सु॒गेभि॒रिति॑ सु॒ऽगेभिः॑। अ॒रे॒णुभि॒रित्य॑रे॒णुऽभिः॑। जेह॑मानम्। प॒त॒त्रि। १७।
महीधरः
म० एवमश्वं स्तुत्वा भविष्यत्कर्मणा स्तौति । हे अश्व, ते तवात्मानं मनसा आराद्दूरे अहमजानां जानामि । जानातेर्लड्युत्तमैकवचनम् । कीदृशमात्मानम् । अवः अधस्तात्प्रदेशात् दिवा नभोमार्गेण पतङ्गं सूर्यं प्रति पतयन्तमुत्पतन्तम् । ‘पत ऐश्वर्यगत्योः’ चुरादिरदन्तः । किंच ते शिरः सूर्यरूपं पश्यामि । कीदृशं शिरः । पथिभिः नभोमार्गैः जेहमानं गच्छत् । कीदृशैः पथिभिः । सुगेभिः सुगैः सुखेन गम्यते येषु ते सुगास्तैः ‘सुदुरोरधिकरणे’ (पा० ३ । २।४८) इति गमेर्डः । अरेणुभिः, नास्ति रेणुर्येषु ते अरेणवस्तैः । उपद्रवरहितैरित्यर्थः । पुनः कीदृशं शिरः । पतत्रि पतनशीलं गन्तृ ॥ १७ ॥
अष्टादशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- भार्गवो जमदग्निर्ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
यानरचना से क्या करना चाहिए, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! मैं जैसे (मनसा) विज्ञान से (आरात्) निकट में (अवः) नीचे से (दिवा) आकाश के साथ (पतङ्गम्) सूर्य के प्रति (पतयन्तम्) चलते हुए (ते) आप के (आत्मानम्) आत्मास्वरूप को (अजानाम्) जानता हूँ और (अरेणुभिः) धूलिरहित निर्मल (सुगेभिः) सुखपूर्वक जिन में चलना हो, उन (पथिभिः) मार्गों से (जेहमानम्) प्रयत्न के साथ जाते हुए (पतत्रि) पक्षीवत् उड़नेवाले (शिरः) दूर से शिर के तुल्य गोलाकार लक्षित होते विमानादि यान को (अपश्यम्) देखता हूँ, वैसे आप भी देखिए ॥१७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे मनुष्यो ! तुम लोग सब से अतिवेगवाले शीघ्र चलाने हारे अग्नि के तुल्य अपने आत्मा को देखो, सम्प्रयुक्त किये अग्नि आदि के सहित यानों में बैठ के जल, स्थल और आकाश में प्रयत्न से जाओ आओ, जैसे शिर उत्तम है, वैसे विमान यान को उत्तम मानना चाहिए ॥१७ ॥
दयानन्द-सरस्वती (सं) - विषयः
यानरचनेन किं कार्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन्नहं यथा मनसारादवो दिवा पतङ्गं प्रति पतयन्तं ते पतत्रि शिर आत्मानमजानाम्। अरेणुभिः सुगेभिः पथिभिर्जेहमानं पतत्रि शिरोऽपश्यं तथा त्वं पश्य ॥१७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः ! यूयं सर्वेभ्यो वेगवत्तमं सद्यो गमयितारं वह्निमिव चात्मानं पश्यत, सम्प्रयुक्तैरग्न्यादिभिस्सहितेषु यानेषु स्थित्वा जलस्थलान्तरिक्षेषु प्रयत्नेन गच्छताऽऽगच्छत, यथा शिर उत्तमाङ्गमस्ति, तथैव विमानयानमुत्तमं मन्तव्यम् ॥१७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे माणसांनो ! तुम्ही अतिवेगवान असणाऱ्या अग्नीप्रमाणे आपल्या आत्म्याला पहा (जाणा) . ज्यात अग्नी सम्प्रयुक्त केलेला आहे अशा यानात बसून जल, स्थूल, आकाश यात प्रयत्नपूर्वक जाणे-येणे करा. विमान हे यान मस्तकाप्रमाणे उत्तम मानले पाहिजे.
१८ अत्रा ते
विश्वास-प्रस्तुतिः ...{Loading}...
अत्रा॑ ते रू॒पमु॑त्त॒मम॑पश्यं॒ जिगी॑षमाणमि॒षऽआऽप॒दे गोः। य॒दा ते॒ मर्त्तो॒ऽअनु भोग॒मान॒डादिद् ग्रसि॑ष्ठ॒ऽओष॑धीरजीगः ॥१८ ॥
मूलम् ...{Loading}...
अत्रा॑ ते रू॒पमु॑त्त॒मम॑पश्यं॒ जिगी॑षमाणमि॒षऽआऽप॒दे गोः। य॒दा ते॒ मर्त्तो॒ऽअनु भोग॒मान॒डादिद् ग्रसि॑ष्ठ॒ऽओष॑धीरजीगः ॥१८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अत्र॑। ते॒। रू॒पम्। उ॒त्त॒ममित्यु॑त्ऽत॒मम्। अ॒प॒श्य॒म्। जिगी॑षमाणम्। इ॒षः। आ। प॒दे। गोः। य॒दा। ते॒। मर्त्तः॑। अनु॑। भोग॑म्। आन॑ट्। आत्। इत्। ग्रसि॑ष्ठः। ओष॑धीः। अ॒जी॒ग॒रित्य॑जीगः। १८।
महीधरः
म० हे अश्व, अत्रास्मिन् गोः सूर्यस्य पदे मण्डले ते तवोत्तमं रूपमहम् आ अपश्यम् समन्तात्पश्यामि । ‘गौर्नादित्ये बलीवर्दे’ इत्यभिधानाद् गौरादित्यः । कीदृशं रूपम् । इषः अन्नानि हवींषि जिगीषमाणं जेतुमिच्छत् । जयतेः सन्नन्ताच्छानच् ‘सन्लिटोर्जेः’ (पा. ७ । ३। ५७ ) इति गः। किंच मर्तः मनुष्यो यदा ते तव भोगमनु आनट् अनुव्याप्नोति हवीरूपं भोगं समर्पयति आत् इत् अनन्तरमेव त्वमोषधीः हवीरूपाः अजीगः ‘गॄ निगरणे’ गिरसि भक्षयसि । कीदृशस्त्वम् । ग्रसिष्ठः ग्रसते इति ग्रसिता अतिशयेन प्रसिता ग्रसिष्ठः । अत्यन्तं भक्षयिता । इष्ठनि तृचो लुक् । गृणातेर्णिजन्तस्याजीगः ॥ १८ ॥
एकोनविंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- भार्गवो जमदग्निर्ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब शूरवीर लोग क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे वीर पुरुष ! (ते) आप के (जिगीषमाणम्) शत्रुओं को जीतते हुए (उत्तमम्) उत्तम (रूपम्) रूप और (गोः) पृथिवी के (पदे) प्राप्त होने योग्य (अत्र) इस व्यवहार में (इषः) अन्नों के दानों को (आ, अपश्यम्) अच्छे प्रकार देखूँ (ते) आपका (मर्त्तः) मनुष्य (यदा) जब (भोगम्) भोग्य वस्तु को (आनट्) व्याप्त होता है, तब (आत्) (इत्) इसके अनन्तर ही (ग्रसिष्ठः) अति खानेवाले हुए आप (औषधीः) औषधियों को (अनु, अजीगः) अनुकूलता से भोगते हो ॥१८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जैसे उत्तम घोड़े आदि सेना के अङ्ग विजय करनेवाले हों, वैसे शूरवीर विजय के हेतु होकर भूमि के राज्य में भोगों को प्राप्त हों ॥१८ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ शूरवीराः किं कुर्वन्त्वित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे वीर ! ते जिगीषमाणमुत्तमं रूपं गोः पदेऽत्र इषश्चाऽऽपश्यं ते मर्त्तो यदा भोगमानट् तदाऽऽदिद् ग्रसिष्ठः संस्त्वमोषधीरन्वजीगः ॥१८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यथोत्तमानि पश्वादीनि सेनाङ्गानि विजयकराणि स्युस्तथा शूरवीरा विजयहेतवो भूत्वा भूमिराज्ये भोगान् प्राप्नुवन्तु ॥१८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! जसे सेनेचे उत्तम अंग असलेल्या घोड्यांमुळे विजय प्राप्त होतो तसे शूर वीरांनी विजय प्राप्त करण्यासाठी भूमीवरील भोग प्राप्त करावेत.
१९ अनु त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
अनु॑ त्वा॒ रथो॒ऽअनु॒ मर्यो॑ऽअर्व॒न्ननु॒ गावोऽनु॒ भगः॑ क॒नीना॑म्। अनु॒ व्राता॑स॒स्तव॑ स॒ख्यमी॑यु॒रनु॑ दे॒वा म॑मिरे वी॒र्यं᳖ ते ॥१९ ॥
मूलम् ...{Loading}...
अनु॑ त्वा॒ रथो॒ऽअनु॒ मर्यो॑ऽअर्व॒न्ननु॒ गावोऽनु॒ भगः॑ क॒नीना॑म्। अनु॒ व्राता॑स॒स्तव॑ स॒ख्यमी॑यु॒रनु॑ दे॒वा म॑मिरे वी॒र्यं᳖ ते ॥१९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अनु॑। त्वा॒। रथः॑। अनु॑। मर्यः॑। अ॒र्व॒न्। अनु॑। गावः॑। अनु॑। भगः॑। क॒नीना॑म्। अनु॑। व्राता॑सः। तव॑। स॒ख्यम्। ई॒युः॒। अनु॑। दे॒वाः। म॒मि॒रे॒। वी॒र्य᳖म्। ते॒। १९।
महीधरः
म० हे अर्वन् अश्व, रथः त्वा त्वामनु वर्तत इति शेषः । मर्यः मनुष्यः त्वामनु । गावः त्वामनु । कनीनां कन्यानां भगः सौभाग्यं त्वामनु । यत्र त्वं तत्र रथादयः स्युरित्यर्थः । किंच व्रातासः व्राताः मनुष्यसङ्घाः तव सख्यं मैत्रीम् अन्वीयुः प्रापुः । किं बहुना । देवाः तव वीर्यं सामर्थ्यमनुममिरे अनुमितवन्तः॥ १९॥
विंशी।
अधिमन्त्रम् (VC)
- मनुष्यो देवता
- भार्गवो जमदग्निर्ऋषिः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को कैसे राजप्रजा के कार्य सिद्ध करने चाहिए, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अर्वन्) घोड़े के तुल्य वर्त्तमान विद्वन् ! (ते) आप के (कनीनाम्) शोभायमान मनुष्यों के बीच वर्त्तमान (देवाः) विद्वान् (व्रातासः) मनुष्य (अनु, वीर्यम्) बल-पराक्रम के अनुकूल (अनु, ममिरे) अनुमान करें और (तव) आप की (सख्यम्) मित्रता को (अनु, ईयुः) अनुकूल प्राप्त हों (त्वा) आप के (अनु) अनुकूल (रथः) विमानादि यान (त्वा) आपके (अनु) अनुकूल वा पीछे आश्रित (मर्यः) साधारण मनुष्य (त्वा) आपके (अनु) अनुकूल वा पीछे (गावः) गौ और (त्वा) आप के (अनु) अनुकूल (भगः) ऐश्वर्य होवे ॥१९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यदि मनुष्य अच्छे शिक्षित होकर औरों को सुशिक्षित करें, उन में से उत्तमों को सभासद् और सभासदों में से अत्युत्तम सभापति को स्थापन कर राज प्रजा के प्रधान पुरुषों की एक अनुमति से राजकार्यों को सिद्ध करें, तो सब आपस में अनुकूल हो के सब कार्यों को पूर्ण करें ॥१९ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यैः कथं राजप्रजाकार्याणि साधनीयानीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अर्वन् विद्वन् ! ते कनीनां मध्ये वर्त्तमाना देवा व्रातासोऽनुवीर्यमनुममिरे तव सख्यं चान्वीयुस्त्वानु रथो त्वानु मर्यो त्वाऽनु गावो त्वाऽनु भगश्च भवतु ॥१९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदि मनुष्याः सुशिक्षिता भूत्वाऽन्यान् सुशिक्षितान् कुर्युस्तेषां मध्यादुत्तमान् सभासदः सम्पाद्य सभासदां मध्यादत्युत्तमं सभेशं स्थापयित्वा राजप्रजाप्रधानपुरुषाणमेकानुमत्या राजकार्याणि साधयेयुस्तर्हि सर्वेषामनुकूला भूत्वा सर्वाणि कार्याण्यलं कुर्य्युः ॥१९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जर माणसे चांगली सुशिक्षित बनून इतरांना सुशिक्षित करतील व त्यातून जे उत्तम असतील त्यांना सभासद करून त्यातही जो अत्युत्तम असेल त्याला राजा करतील तर राजा व प्रजा एकमेकांच्या अनुमतीने राज्य करू शकतील व सर्वजण अनुकूल झाल्यास सर्व कामे पूर्ण होतील.
२० हिरण्यशृङ्गोऽयोऽअस्य पादा
विश्वास-प्रस्तुतिः ...{Loading}...
हिर॑ण्यशृ॒ङ्गोऽयो॑ऽअस्य॒ पादा॒ मनो॑जवा॒ऽअव॑र॒ऽइन्द्र॑ऽआसीत्। दे॒वाऽइद॑स्य हवि॒रद्यमाय॒न्योऽअर्व॑न्तं प्रथ॒मोऽअ॒ध्यति॑ष्ठत् ॥२० ॥
मूलम् ...{Loading}...
हिर॑ण्यशृ॒ङ्गोऽयो॑ऽअस्य॒ पादा॒ मनो॑जवा॒ऽअव॑र॒ऽइन्द्र॑ऽआसीत्। दे॒वाऽइद॑स्य हवि॒रद्यमाय॒न्योऽअर्व॑न्तं प्रथ॒मोऽअ॒ध्यति॑ष्ठत् ॥२० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
हिर॑ण्यशृङ्ग॒ इति॒ हिर॑ण्यऽशृङ्गः। अयः॑। अ॒स्य॒। पादाः॑। मनो॑जवा॒ इति॒ मनः॑ऽजवाः। अव॑रः। इन्द्रः॑। आ॒सी॒त्। दे॒वाः। इत्। अ॒स्य॒। ह॒वि॒रद्य॒मिति॑ हविः॒ऽअद्य॑म्। आ॒य॒न्। यः। अर्व॑न्तम्। प्र॒थ॒मः। अ॒ध्यति॑ष्ठदित्यधि॒ऽअति॑ष्ठत्। २०।
महीधरः
म० यः प्रथमः मुख्यः अर्वन्तमश्वमध्यतिष्ठत् अधिष्ठितवान् सोऽपि इन्द्रः अवरः इन्द्रापेक्षया न्यून आसीत् । कीदृश इन्द्रः । हिरण्यशृङ्गः हिरण्यवत् शृङ्गं दीप्तिर्यस्य । शृङ्गमिति ज्वलन्नामसु पठितम् । अस्याश्वस्य पादा अयः लोहं हिरण्यं वा । अयोरूपाः पादा इत्यर्थः । कीदृशाः पादाः । मनोजवाः मनोवत् जवो वेगो येषां ते । किंच देवा अस्याश्वस्य हविरद्यमायन् अत्तुं योग्यमद्यं हविश्च तदद्यं च हविरद्यम् हविर्लक्षणं भक्ष्यं प्रति आयन् आगच्छन् । इत् एवार्थे अप्यर्थे वा ॥२०॥
एकविंशी ।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- भार्गवो जमदग्निर्ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को अग्न्यादि पदार्थों के गुण ज्ञान से क्या सिद्ध करना चाहिए, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (यः) जो (अवरः) नवीन (हिरण्यशृङ्गः) शृङ्ग के तुल्य जिस के तेज हैं, वह (इन्द्रः) उत्तम ऐश्वर्यवाला बिजुली के समान सभापति (आसीत्) होवे जो (प्रथमः) पहिला (अर्वन्तम्) घोड़े के तुल्य मार्ग को प्राप्त होते हुए अग्नि तथा (अयः) सुवर्ण का (अध्यतिष्ठत्) अधिष्ठाता अर्थात् अग्निप्रयुक्त यान पर बैठ के चलानेवाली होवे राजा (अस्य) इसके (पादाः) पग (मनोजवाः) मन के तुल्य वेगवाले हों अर्थात् पग का चलना काम विमानादि से लेवे (देवाः) विद्वान् सभासद् लोग (अस्य) इस राजा के (हविरद्यम्) देने और भोजन करने योग्य अन्न को (इत्, आयन्) ही प्राप्त होवें, उसको तुम लोग जानो ॥२० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य अग्न्यादि पदार्थों के गुण कर्म स्वभावों को यथावत् जानें, वे बहुत अद्भुत कार्य्यों को सिद्ध कर सकें, जो प्रीति से राजकार्य्यों को सिद्ध करें, वे सत्कार को और जो नष्ट करें, वे दण्ड को अवश्य प्राप्त होवें ॥२० ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यैरग्न्यादिपदार्थगुणविज्ञानेन किं साध्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! योऽवरो हिरण्यशृङ्ग इन्द्र आसीद् यः प्रथमोऽर्वन्तमयश्चाभ्यतिष्ठदस्य पादा मनोजवाः स्युर्देवा अस्य हविरद्यमिदायन् तं यूयमाश्रयत ॥२० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्या अग्न्यादिपदार्थानां गुणकर्मस्वभावान् यथावञ्जानीयुस्ते बहून्यद्भुतानि कार्याणि साद्धुं शक्नुयुः। ये प्रीत्या राजकार्याणि प्राप्नुयुस्ते सत्कारं ये नाशयेयुस्ते दण्डं चावश्यं प्राप्नुयुः ॥२० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे अग्नी वगैरे पदार्थांचे गुण, कर्म, स्वभाव जाणतात, ती अद्भुत कार्य करू शकतात. जी माणसे प्रेमाने राज्यकार्य करतात ती सत्कारास पात्र ठरतात व त्यात जी बाधा आणतात ती दंडास पात्र ठरतात.
२१ ईर्मान्तासः सिलिकमध्यमासः
विश्वास-प्रस्तुतिः ...{Loading}...
ई॒र्मान्ता॑सः॒ सिलि॑कमध्यमासः॒ सँशूर॑णासो दि॒व्यासो॒ऽअत्याः॑। हँ॒साऽइ॑व श्रेणि॒शो य॑तन्ते॒ यदाक्षि॑षुर्दि॒व्यम॒ज्ममश्वाः॑ ॥२१ ॥
मूलम् ...{Loading}...
ई॒र्मान्ता॑सः॒ सिलि॑कमध्यमासः॒ सँशूर॑णासो दि॒व्यासो॒ऽअत्याः॑। हँ॒साऽइ॑व श्रेणि॒शो य॑तन्ते॒ यदाक्षि॑षुर्दि॒व्यम॒ज्ममश्वाः॑ ॥२१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ई॒र्मान्ता॑स॒ इती॒र्मऽअ॑न्तासः। सिलि॑कमध्यमास॒ इति॒ सिलि॑कऽमध्यमासः। सम्। शूर॑णासः। दि॒व्यासः॑। अत्याः॑। हँ॒साऽइ॒वेति॑ हँ॒साःऽइ॑व। श्रे॒णि॒श इति॑ श्रेणि॒ऽशः। य॒त॒न्ते॒। यत्। आक्षि॑षुः। दि॒व्यम्। अज्म॑म्। अश्वाः॑। २१।
महीधरः
म० सूर्याश्वरूपेणायमश्वः स्तूयते । यत् यदा अश्वाः सप्त रविरथस्थाः श्रेणिशः श्रेणीभूता हंसा इव संयतन्ते सम्यक् प्रयत्नं कुर्वन्ति तदा दिव्यं दिवि भवमज्मं गमनं संग्रामं वा आक्षिषुः व्याप्नुवन्ति । ‘अक्षू व्याप्तौ’ लुङि रूपम् । हंसा यथा गमनाय यतन्ते तथाश्वा अपि । कीदृशा अश्वाः । ईर्मान्तासः ईर्मान्ताः ईर्यते ईर्मः ‘ईर प्रेरणे’ मप्प्रत्ययः । ईर्मः प्रेरितः अन्तः शरीरप्रान्तो येषां ते । पृथुजघनोरस्का इत्यर्थः। सिलिकमध्यमासः सिलिकः श्लिष्टः संलग्नो मध्यमो मध्यप्रदेशो येषां ते शिलिकमध्यमाः । कृशोदरा इत्यर्थः । ‘षिल संश्लेषे’ इकप्रत्ययः । शूरणासः शू शीघ्रं रणो रवो युद्धं वा येषां ते शूरणाः । यद्वा शूरणो रविस्तदीयाः शूरणाः । दिव्यासः दिवि भवा दिव्याः । अत्याः अतन्ति सततं गच्छन्ति अत्याः सकृद्युक्ता ब्रह्माहःपर्यन्तं रविरथं वहन्ति ॥ २१॥
द्वाविंशी।
अधिमन्त्रम् (VC)
- मनुष्या देवताः
- भार्गवो जमदग्निर्ऋषिः
- भुरिक्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
कैसे राजपुरुष विजय पाते हैं, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (यत्) जो अग्नि आदि पदार्थों के तुल्य (ईर्मान्तासः) जिनका बैठने का स्थान प्रेरणा किया गया (सिलिकमध्यमासः) गदा आदि से लगा हुआ है मध्यप्रदेश जिनका ऐसे (शूरणासः) शीघ्र युद्ध में विजय के हेतु (दिव्यासः) उत्तम शिक्षित (अत्याः) निरन्तर चलनेवाले (अश्वाः) शीघ्रगामी घोड़े (श्रेणिशः) पङ्क्ति बाँधे हुए (हंसा इव) हंस पक्षियों के तुल्य (यतन्ते) प्रयत्न करते हैं और (दिव्यम्) शुद्ध (अज्मम्) मार्ग को (सम्, आक्षिषुः) व्याप्त होवें, उनको तुम लोग प्राप्त होओ ॥२१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जिन राजपुरुषों के सुशिक्षित उत्तम गतिवाले घोड़े अग्न्यादि पदार्थों के समान कार्यसाधक होते हैं, वे सर्वत्र विजय पाते हैं ॥२१ ॥
दयानन्द-सरस्वती (सं) - विषयः
कीदृशा राजपुरुषा विजयमाप्नुवन्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यद्येऽग्न्यादय इवेर्मान्तासः सिलिकमध्यमासः शूरणासो दिव्यासोऽत्या अश्वाः श्रेणिशो हंसा इव यतन्ते दिव्यमज्मं समाक्षिषुस्तान् यूयं प्राप्नुत ॥२१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। येषां राजपुरुषाणां सुशिक्षिता दिव्यगतयो विजयहेतवस्सद्यो गामिनः प्रेरणामनुगन्तारो हंसवद्गतयोऽश्वा अग्न्यादयः पदार्था इव कार्यसाधकाः सन्ति, ते सर्वत्र विजयमाप्नुवन्ति ॥२१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा अलंकार आहे. ज्या राजपुरुषाजवळ अग्नीप्रमाणे कार्य करणारे प्रशिक्षित उत्तम वेगवान घोडे असतात त्यांना सर्वत्र विजय प्राप्त होतो.
२२ तव शरीरम्
विश्वास-प्रस्तुतिः ...{Loading}...
तव॒ शरी॑रं पतयि॒ष्ण्व᳖र्व॒न्तव॑ चि॒त्तं वात॑ऽइव॒ ध्रजी॑मान्। तव॒ शृङ्गा॑णि॒ विष्ठि॑ता पुरु॒त्रार॑ण्येषु॒ जर्भुराणा चरन्ति ॥२२ ॥
मूलम् ...{Loading}...
तव॒ शरी॑रं पतयि॒ष्ण्व᳖र्व॒न्तव॑ चि॒त्तं वात॑ऽइव॒ ध्रजी॑मान्। तव॒ शृङ्गा॑णि॒ विष्ठि॑ता पुरु॒त्रार॑ण्येषु॒ जर्भुराणा चरन्ति ॥२२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
तव॑। शरी॑रम्। प॒त॒यि॒ष्णु। अ॒र्व॒न्। तव॑। चि॒त्तम्। वात॑ इ॒वेति॒ वातः॑ऽइव। ध्रजी॑मान्। तव॑। शृङ्गा॑णि। विष्ठि॑ता। विस्थि॒तेति॒ विऽस्थि॑ता। पु॒रु॒त्रेति॑ पुरु॒ऽत्रा। अर॑ण्येषु। जर्भु॑राणा। च॒र॒न्ति॒। २२।
महीधरः
म० हे अर्वन् , तव शरीरं पतयिष्णु उत्पतनशीलम् । तव चित्तं ध्रजीमान् गतिमत् । वात इव वेगवत्सूक्ष्मार्थान्गच्छतीत्यर्थः । तव शृङ्गाणि दीप्तयः अरण्येषु वनेषु दवाग्निरूपेण चरन्ति प्रसरन्ति । कीदृशानि शृङ्गाणि । पुरुत्रा बहुधा विष्ठिता विविधं स्थितानि विद्युच्चन्द्रार्काग्निषु स्थितानि । जर्भुराणा जर्भुराणानि । ‘जृम्भ विकसने’ विकसितानि ॥ २२ ॥
त्रयोविंशी।
अधिमन्त्रम् (VC)
- वायवो देवताः
- भार्गवो जमदग्निर्ऋषिः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को अनित्य शरीर पाके क्या करना चाहिए, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अर्वन्) घोड़े के तुल्य वर्त्तमान वीर पुरुष ! जिस (तव) तेरा (पतयिष्णु) नाशवान् (शरीरम्) शरीर (तव) तेरे (चित्तम्) अन्तःकरण की वृत्ति (वात इव) वायु के सदृश (ध्रजीमान्) वेगवाली अर्थात् शीघ्र दूरस्थ विषयों के तत्त्व जाननेवाली (तव) तेरे (पुरुत्रा) बहुत (अरण्येषु) जंगलों में (जर्भुराणा) शीघ्र धारण-पोषण करनेवाले (विष्ठिता) विशेषकर स्थित (शृङ्गाणि) शृङ्गों के तुल्य ऊँचे सेना के अवयव (चरन्ति) विचरते हैं सो तू धर्म का आचरण कर ॥२२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जो मनुष्य अनित्य शरीरों में स्थित हो नित्य कार्य्यों को सिद्ध करते हैं, वे अतुल सुख पाते हैं और जो वन के पशुओं के तुल्य भृत्य और सेना हैं, वे घोड़े के तुल्य शीघ्रगामी होके शत्रुओं को जीतने को समर्थ होते हैं ॥२२ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यैरनित्यं शरीरं प्राप्य किं कार्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अर्वन् वीर ! यस्य तव पतयिष्णु शरीरं तव चित्तं वात इव ध्रजीमान् तव पुरुत्रारण्येषु जर्भुराणा विष्ठिता शृङ्गाणि चरन्ति, स त्वं धर्ममाचर ॥२२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। ये मनुष्या अनित्येषु शरीरेषु स्थित्वा नित्यानि कार्याणि साध्नुवन्ति, तेऽतुलसुखमाप्नुवन्ति। ये वनस्थाः प्शव इव भृत्याः सेनाश्च वर्त्तन्ते, तेऽश्ववत् सद्योगामिनो भूत्वा शत्रन् विजेतुं शक्नुवन्ति ॥२२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जी माणसे अनित्य शरीरात राहून नित्य कर्मे करतात ती अत्यंत सुखी होतात. जे सेवक वनपशूप्रमाणे असतात व सेना घोड्याप्रमाणे असते ते शीघ्रगामी बनून शत्रूंना जिंकण्यास समर्थ ठरतात.
२३ उप प्रागाच्छसनम्
विश्वास-प्रस्तुतिः ...{Loading}...
उप॒ प्रागा॒च्छस॑नं वा॒ज्यर्वा॑ देव॒द्रीचा॒ मन॑सा॒ दीध्या॑नः। अ॒जः पु॒रो नी॑यते॒ नाभि॑र॒स्यानु॑ प॒श्चात् क॒वयो॑ यन्ति रे॒भाः ॥२३ ॥
मूलम् ...{Loading}...
उप॒ प्रागा॒च्छस॑नं वा॒ज्यर्वा॑ देव॒द्रीचा॒ मन॑सा॒ दीध्या॑नः। अ॒जः पु॒रो नी॑यते॒ नाभि॑र॒स्यानु॑ प॒श्चात् क॒वयो॑ यन्ति रे॒भाः ॥२३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उप॑। प्र। अ॒गा॒त्। शस॑नम्। वा॒जी। अर्वा॑। दे॒व॒द्रीचा॑। मन॑सा। दीध्या॑नः। अजः॑। पु॒रः। नी॒य॒ते॒। नाभिः॑। अ॒स्य। अनु॑। प॒श्चात्। क॒वयः॑। य॒न्ति॒। रे॒भाः। २३।
महीधरः
म० अर्वा अश्वः शसनं विशसनस्थानमुपप्रागात् आगतः । कीदृशोऽर्वा । वाजी वजतीति वाजी गमनशीलः अन्नवान् वा । देवद्रीचा मनसा दीध्यानः । देवान्प्रत्यञ्चति देवद्र्यक् तेन ‘विष्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये’ (पा० ६ । ३ । ९२) इति देवशब्दस्य टेरञ्चतौ परेऽद्र्यादेशः । दीधीते दीध्यानः ‘दीधीङ् दीप्तिदेवनयोः’ शानच्प्रत्ययः । देवान्प्रति गतेन चित्तेन दीप्यमानः । किंच अस्याश्वस्य पुरोऽग्रे अजो नीयते स्थाप्यते । तदुक्तम् ‘कृष्णग्रीव आग्नेयो रराटे पुरस्तात्’ इति । अस्य नाभिः अजो नीयते नाभौ स्थाप्यते । तदुक्तम् ‘सोमापौष्णः श्यामो नाभ्याम्’ इति । अस्य पश्चात् कवयः ऋत्विजः अनुयन्ति अनुगच्छन्ति । कीदृशाः कवयः । रेभाः रेभन्ते इति रेभाः ‘रेभृ शब्दे’ स्तोतार इत्यर्थः ॥ २३ ॥
चतुर्विंशी ।
अधिमन्त्रम् (VC)
- मनुष्या देवताः
- भार्गवो जमदग्निर्ऋषिः
- भुरिक्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
कैसे विद्वान् हितैषी होते हैं, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (दीध्यानः) सुन्दर प्रकाशमान हुआ (अजः) फेंकनेवाला (वाजी) वेगवान् (अर्वा) चालाक घोड़ा (देवद्रीचा) विद्वानों को प्राप्त होते हुए (मनसा) मन से (शसनम्) जिसमें हिंसा होती है, उस युद्ध को (उप, प्र, अगात्) अच्छे प्रकार समीप प्राप्त होता है। विद्वानों से (अस्य) इसका (नाभिः) मध्यभाग अर्थात् पीठ (पुरः) आगे (नीयते) प्राप्त की जाती अर्थात् उस पर बैठते हैं, उसको (पश्चात्) पीछे (रेभाः) सब विद्याओं की स्तुति करनेवाले (कवयः) बुद्धिमान् जन (अनु, यन्ति) अनुकूलता से प्राप्त होते हैं ॥२३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो विद्वान् लोग उत्तम विचार से घोड़ों को अच्छी शिक्षा दे और अग्नि आदि पदार्थों को सिद्ध कर ऐश्वर्य को प्राप्त होते हैं, वे जगत् के हितैषी होते हैं ॥२३ ॥
दयानन्द-सरस्वती (सं) - विषयः
कीदृशा विद्वांसो हितैषिण इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यो दीध्यानोऽजो वाज्यर्वा देवद्रीचा मनसा शसनमुप प्रागात् विद्वद्भिरस्य नाभिः पुरो नीयते, तं पश्चात् रेभाः कवयः अनुयन्ति ॥२३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये विद्वांसो दिव्येन विचारेण तुरङ्गान् सुशिक्ष्याग्न्यादीन् संसाध्यैश्वर्यं प्राप्नुवन्ति, ते जगद्धितैषिणो भवन्ति ॥२३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे विद्वान लोक उत्तम विचार करून घोड्यांना प्रशिक्षण देऊन अग्नी इत्यादी पदार्थांद्वारे ऐश्वर्य प्राप्त करतात ते जगाचे हितकर्ते असतात.
२४ उप प्रागात्
विश्वास-प्रस्तुतिः ...{Loading}...
उप॒ प्रागा॑त् पर॒मं यत्स॒धस्थ॒मर्वाँ॒२ऽअच्छा॑ पि॒तरं॑ मा॒तरं॑ च। अ॒द्या दे॒वाञ्जुष्ट॑तमो॒ हि ग॒म्या॑ऽअथाशा॑स्ते दा॒शुषे॒ वार्या॑णि ॥२४ ॥
मूलम् ...{Loading}...
उप॒ प्रागा॑त् पर॒मं यत्स॒धस्थ॒मर्वाँ॒२ऽअच्छा॑ पि॒तरं॑ मा॒तरं॑ च। अ॒द्या दे॒वाञ्जुष्ट॑तमो॒ हि ग॒म्या॑ऽअथाशा॑स्ते दा॒शुषे॒ वार्या॑णि ॥२४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उप॑। प्र। अ॒गा॒त्। प॒र॒मम्। यत्। स॒धस्थ॒मिति॑ स॒धऽस्थ॑म्। अर्वा॑न्। अच्छ॑। पि॒त॑रम्। मा॒तर॑म्। च॒। अ॒द्य। दे॒वान्। जुष्ट॑तम॒ इति॒ जुष्ट॑ऽतमः। हि। गम्याः। अथ॑। आ। शा॒स्ते॒। दा॒शुषे॑। वार्या॑णि। २४।
महीधरः
म० एवमश्वं स्तुत्वा यजमानमाह । अर्वान् अर्वाश्वः पितरं मातरं च अच्छ द्यावापृथिव्यौ अभि समीपे परममुत्कृष्टं यत् सधस्थं सहस्थानं तत् उपप्रागात् । अर्वन्शब्दस्य नलोपाभावश्छान्दसः। अश्वे एव देवलोकं गते हे यजमान, जुष्टतमः प्रीततमः सन् अद्य त्वं देवान् गम्याः देवलोकं गच्छेः । गमेराशीर्लिङि मध्यमैकवचने गम्या इति रूपम् । अथैवं देवत्वं गताय दाशुषे हविर्दत्तवते तुभ्यं वार्याणि वरणीयानि भोग्यवस्तूनि हि नूनम् आशास्ते । देवगणोऽश्वो वा ददात्वित्यर्थः ॥ २४ ॥
पञ्चविंशी।
अधिमन्त्रम् (VC)
- मनुष्यो देवता
- भार्गवो जमदग्निर्ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
कौन जन राज्यशासन करने योग्य होते हैं, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! (यत्) जो (अर्वान्) ज्ञानी जन (जुष्टतमः) अतिशय कर सेवन किया हुआ (परमम्) उत्तम (सधस्थम्) साथियों के स्थान (पितरम्) पिता (मातरम्) माता (च) और (देवान्) विद्वानों की (अद्य) इस समय (आ, शास्ते) अधिक इच्छा करता है। (अथ) इसके अनन्तर (दाशुषे) दाता जन के लिए (वार्याणि) स्वीकार करने और भोजन के योग्य वस्तुओं को (उप, प्र, अगात्) प्रकर्ष करके समीप प्राप्त होता है, उसको (हि) ही आप (अच्छ) सम्यक् (गम्याः) प्राप्त हूजिये ॥२४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो लोग न्याय और विनय से परोपकारों को करते हैं, वे उत्तम-उत्तम जन्म, श्रेष्ठ पदार्थों, विद्वान् पिता और विदुषी माता को प्राप्त हो और विद्वानों के सेवक होके महान् सुख को प्राप्त हों, वे राज्यशासन करने को समर्थ होवें ॥२४ ॥
दयानन्द-सरस्वती (सं) - विषयः
के जना राज्यं शासितुमर्हन्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यद्योऽर्वान् जुष्टतमस्सन् परमं सधस्थं पितरं मातरं देवांश्चाद्याशास्तेऽथ दाशुषे वार्याण्युपप्रागात् तं हि त्वमच्छ गम्याः ॥२४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये न्यायविनयाभ्यां परोपकारान् कुर्वन्ति, ते उत्तममुत्तमं जन्म श्रेष्ठान् पदार्थान् विद्वांसं पितरं विदुषीः मातॄश्च प्राप्य विद्वद्भक्ता भूत्वा महत्सुखं प्राप्नुयुस्ते राज्यमनुशासितुं शक्नुयुः ॥२४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जे लोक न्यायाने व विनयाने परोपकार करतात त्यांना उत्तम जन्म, श्रेष्ठ पदार्थ, विद्वान पिता व विदुषी माता प्राप्त होते, तसेच ते विद्वानांचे सेवक बनून सुख भोगतात व राज्यशासनही समर्थपणे चालवू शकतात.
२५ समिद्धोऽअद्य मनुषो
विश्वास-प्रस्तुतिः ...{Loading}...
समि॑द्धोऽअ॒द्य मनु॑षो दुरो॒णे दे॒वो दे॒वान् य॑जसि जातवेदः। आ च॒ वह॑ मित्रमहश्चिकि॒त्वान् त्वं दू॒तः क॒विर॑सि॒ प्रचे॑ताः ॥२५ ॥
मूलम् ...{Loading}...
समि॑द्धोऽअ॒द्य मनु॑षो दुरो॒णे दे॒वो दे॒वान् य॑जसि जातवेदः। आ च॒ वह॑ मित्रमहश्चिकि॒त्वान् त्वं दू॒तः क॒विर॑सि॒ प्रचे॑ताः ॥२५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
समि॑द्ध इति॒ समऽइ॑द्धः। अ॒द्य। मनु॑षः। दु॒रो॒णे। दे॒वः। दे॒वान्। य॒ज॒सि॒। जा॒त॒वे॒द॒ इति॑ जातऽवेदः। आ। च॒। वह॑। मि॒त्र॒म॒ह॒ इति॑ मित्रऽमहः। चि॒कि॒त्वान्। त्वम्। दू॒तः। क॒विः। अ॒सि॒। प्रचे॑ता॒ इति॒ प्रऽचे॑ताः। २५।
महीधरः
म० द्वादशाप्रीसंज्ञास्त्रिष्टुभो जमदग्निदृष्टाः समित्तनूनपादादयो देवताः । हे जातवेदः जातज्ञान, मनुषो मनुष्यस्य यजमानस्य दुरोणे यज्ञगृहे अद्य त्वं देवान् यजसि । कीदृशस्त्वम् । समिद्धः दीप्तः देवः दानादिगुणयुक्तः । हे मित्रमहः मित्रान् यजमानान्महति पूजयति मित्रमहाः तत्संबुद्धौ हे मित्रमहः, आवह च देवानावह यज चेत्यर्थः । यतः त्वमीदृशोऽसि । कीदृशः । चिकित्वान् चेतनावान् । दूतः कविः कान्तदर्शी । प्रचेताः प्रकृष्टं चेतो यस्य सोऽत एव यज ॥ २५ ॥
षड्विंशी।
अधिमन्त्रम् (VC)
- विद्वान् देवता
- भार्गवो जमदग्निर्ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
धर्मात्मा लोग क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (जातवेदः) उत्तम बुद्धि को प्राप्त हुए (मित्रमहः) मित्रों का सत्कार करनेवाले विद्वन् ! जो (त्वम्) आप (अद्य) इस समय (समिद्धः) सम्यक् प्रकाशित अग्नि के तुल्य (मनुषः) मननशील (देवः) विद्वान् हुए (यजसि) सङ्ग करते हो (च) और (चिकित्वान्) विज्ञानवान् (दूतः) दुष्टों को दुःखदाई (प्रचेताः) उत्तम चेतनतावाला (कविः) सब विषयों में अव्याहतबुद्धि (असि) हो सो आप (दुरोणे) घर में (देवान्) विद्वानों वा उत्तम गुणों को (आ, वह) अच्छे प्रकार प्राप्त हूजिये ॥२५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे अग्नि दीपक आदि के रूप में घरों को प्रकाशित करता है, वैसे धार्मिक विद्वान् लोग अपने कुलों को प्रकाशित करते हैं। जो सब के साथ मित्रवत् वर्त्तते हैं, वे ही धर्मात्मा हैं ॥२५ ॥
दयानन्द-सरस्वती (सं) - विषयः
धार्मिकाः किं कुर्वन्त्वित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे जातवेदो मित्रमहो विद्वंस्त्वमद्य समिद्धोऽग्निरिव मनुषो देवः सन् यजसि, चिकित्वान् दूतः प्रचेताः कविर्दुरोणेऽसि, स त्वं देवांश्चावह ॥२५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यथाऽग्निर्दीपादिरूपेण गृहाणि प्रकाशयति, तथा धार्मिका विद्वांसः स्वानि कुलानि प्रदीपयन्ति, ये सर्वैः सह मित्रवद्वर्तन्ते त एव धार्मिकाः सन्ति ॥२५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जसा अग्नी दीपक इत्यादींनी घरांना प्रकाशित करतो तसे धार्मिक विद्वानांचे कूळ प्रसिद्ध होते. जे सर्वांबरोबर मित्रांप्रमाणे वागतात तेच धर्मात्मा असतात.
२६ तनूनपात् पथऽऋतस्य
विश्वास-प्रस्तुतिः ...{Loading}...
तनू॑नपात् प॒थऽऋ॒तस्य॒ याना॒न् मध्वा॑ सम॒ञ्जन्त्स्व॑दया सुजिह्व। मन्मा॑नि धी॒भिरु॒त य॒ज्ञमृ॒न्धन् दे॑व॒त्रा च॑ कृणुह्यध्व॒रं नः॑ ॥२६ ॥
मूलम् ...{Loading}...
तनू॑नपात् प॒थऽऋ॒तस्य॒ याना॒न् मध्वा॑ सम॒ञ्जन्त्स्व॑दया सुजिह्व। मन्मा॑नि धी॒भिरु॒त य॒ज्ञमृ॒न्धन् दे॑व॒त्रा च॑ कृणुह्यध्व॒रं नः॑ ॥२६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
तनू॑नपा॒दिति॒ तनू॑ऽनपात्। प॒थः। ऋ॒तस्य॑। याना॑न्। मध्वा॑। स॒म॒ञ्जन्निति॑ सम्ऽअ॒ञ्जन्। स्व॒द॒य॒। सु॒जि॒ह्वेति॑ सुऽजिह्व। मन्मा॑नि। धी॒भिः। उ॒त। य॒ज्ञम्। ऋ॒न्धन्। दे॒व॒त्रेति॑ देव॒ऽत्रा। च॒। कृ॒णु॒हि॒। अ॒ध्व॒रम्। नः॒। २६।
महीधरः
म० तनूनामपां नपात्पौत्रोऽग्निः अद्भ्यो वृक्षा जायन्ते तेभ्योऽग्निरित्यपां पौत्रत्वमग्नेः । हे तनूनपात् अग्ने, हे सुजिह्व, शोभना जिह्वा यस्य स सुजिह्वः । नानादेवत्यानि हवींषि भक्षयन्नपि नोच्छिष्टानि करोतीति वह्नेः शोभनजिह्वत्वम् । हे सुजिह्व, ऋतस्य यानान् पथः स्वदय रोचय । भक्षयेत्यर्थः । यायन्ते यैर्येषु वा ते यानास्तान् । ‘करणाधिकरणयोः’ (पा० ३ । ३ । | ११७ ) इति ल्युप्रत्ययः । ऋतो यज्ञः तस्य गमनसाधनमार्गा हवींषि तान्भक्षयेत्यर्थः । हविर्भिर्यज्ञः प्रवर्तते इति यज्ञगमनपन्थानो हवींषि । किं कुर्वन् । मध्वा समञ्जन् मधुरेण रसेन संम्रक्षयन् । किंच नोऽस्माकमध्वरं यज्ञं देवत्रा कृणुहि देवान् गमय । करोतिर्गत्यर्थः । किं कुर्वन् । धीभिः बुद्धिभिः सह मन्मानि ज्ञानानि । उत अपिच यज्ञमृन्धन् समर्धयन् अस्माकं ज्ञानं यज्ञं च वर्धयन् यज्ञं देवलोकं नयेत्यर्थः ॥ २६ ॥
सप्तविंशी।
अधिमन्त्रम् (VC)
- विद्वान् देवता
- भार्गवो जमदग्निर्ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सुजिह्व) सुन्दर जीभ वा वाणी से युक्त (तनूनपात्) विस्तृत पदार्थों को न गिरानेवाले विद्वान् जन ! आप (ऋतस्य) सत्य वा जल के (यानान्) जिनमें चलें उन (पथः) मार्गों को अग्नि के तुल्य (मध्वा) मधुरता अर्थात् कोमल भाव से (समञ्जन्) सम्यक् प्रकार करते हुए (स्वदय) स्वाद लीजिए अर्थात् प्रसन्न कीजिए (धीभिः) बुद्धियों वा कर्मों से (मन्मानि) यानों को (उत) और (नः) हमारे (अध्वरम्) नष्ट न करने और (यज्ञम्) सङ्गत करने योग्य व्यवहार को (ऋन्धन्) सम्यक् सिद्ध करता हुआ (च) भी (देवत्रा) विद्वानों में स्थित होकर (कृणुहि) कीजिए ॥२६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। धार्मिक मनुष्यों को चाहिए कि पथ्य, औषध पदार्थों का सेवन करके सुन्दर प्रकार प्रकाशित होवें, आप्त विद्वानों की सेवा में स्थित हो तथा बुद्धियों को प्राप्त हो के अहिंसारूप धर्म को सेवें ॥२६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सुजिह्व तनूनपात् ! त्वमृतस्य यानान् पथोऽग्निरिव मध्वा समञ्जन् स्वदय, धीभिर्मन्मान्युत नोऽध्वरं यज्ञमृन्धन् देवत्रा च कृणुहि ॥२६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। धार्मिकैर्मनुष्यैः पथ्यौषधसेवनेन सुप्रकाशितैर्भवितव्यम्। आप्तेषु विद्वत्सु स्थित्वा प्रज्ञाः प्राप्याहिंसाख्यो धर्मः सेवितव्यः ॥२६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. धार्मिक माणसांनी पथ्यकारक पदार्थांचे सेवन करून चांगल्याप्रकारे जगावे. आप्त विद्वानांची सेवा करावी. बुद्धीच्या साह्याने अहिंसा धर्माचे पालन करावे.
२७ नराशंसस्य महिमानमेषामुप
विश्वास-प्रस्तुतिः ...{Loading}...
नरा॒शँस॑स्य महि॒मान॑मेषा॒मुप॑ स्तोषाम यज॒तस्य॑ य॒ज्ञैः। ये सु॒क्रत॑वः॒ शुच॑यो धिय॒न्धाः स्वद॑न्ति दे॒वाऽउ॒भया॑नि ह॒व्या ॥२७ ॥
मूलम् ...{Loading}...
नरा॒शँस॑स्य महि॒मान॑मेषा॒मुप॑ स्तोषाम यज॒तस्य॑ य॒ज्ञैः। ये सु॒क्रत॑वः॒ शुच॑यो धिय॒न्धाः स्वद॑न्ति दे॒वाऽउ॒भया॑नि ह॒व्या ॥२७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नरा॒शँस॑स्य। म॒हि॒मान॑म्। ए॒षा॒म्। उप॑। स्तो॒षा॒म॒। य॒ज॒तस्य॑। य॒ज्ञैः। ये। सु॒क्रत॑व॒ इति॑ सु॒ऽक्रत॑वः। शुच॑यः। धि॒य॒न्धा इति॑ धिय॒म्ऽधाः। स्वद॑न्ति। दे॒वाः। उ॒भया॑नि। ह॒व्या। २७।
महीधरः
म० नरा अस्मिन्नाशंसन्तीति नराशंसोऽग्निः प्रजापतिर्वा नरैः प्रशस्यो भवतीति वा । नराशंसस्य प्रजापतेरग्नेर्वा महिमानं महाभाग्यमेषां देवानां मध्ये वयमुपस्तोषाम उपस्तुमः । स्तौतेर्लेटि उत्तमैकवचने ‘सिब्बहुलं लेटि’ (पा० ३ । १ । ३४ ) इति सिप्प्रत्यये रूपम् । कीदृशस्य नराशंसस्य । यज्ञैः यजतस्य । यजेरतच्प्रत्ययः । एषां केषाम् । ये देवाः। उभयानि हव्या हवींषि सोमम् इतराणि च स्वदन्ति भक्षयन्ति । कीदृशा देवाः । सुक्रतवः शोभनः क्रतुः कर्म येषां ते शुचयः शुद्धा निष्पापाः । धियंधाः धियं बुद्धिं कर्म वा दधतीति अलुगार्षः ॥ २७ ॥
अष्टाविंशी।
अधिमन्त्रम् (VC)
- विद्वान् देवता
- भार्गवो जमदग्निर्ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे हम लोग (ये) जो (सुक्रतवः) सुन्दर बुद्धियों और कर्मोंवाले (शुचयः) पवित्र (धियन्धाः) श्रेष्ठ धारणावती बुद्धि और कर्म को धारण करनेहारे (देवाः) विद्वान् लोग (उभयानि) दोनों शरीर और आत्मा को सुखकारी (हव्या) भोजन के योग्य पदार्थों को (स्वदन्ति) भोगते हैं। (एषाम्) इन विद्वानों के (यज्ञैः) सत्सङ्गादि रूप यज्ञों से (नराशंसस्य) मनुष्यों से प्रशंसित (यजतस्य) सङ्ग करने योग्य व्यवहार के (महिमानम्) बड़प्पन को (उप, स्तोषाम) समीप प्रशंसा करें, वैसे तुम लोग भी करो ॥२७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो लोग स्वयं पवित्र बुद्धिमान् वेद शास्त्र के वेत्ता नहीं होते, वे दूसरों को भी विद्वान् पवित्र नहीं कर सकते। जिनके जैसे गुण, जैसे कर्म हों, उनकी धर्मात्मा लोगों को यथार्थ प्रशंसा करनी चाहिए ॥२७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा वयं ये सुक्रतवः शुचयो धियन्धा देवा उभयानि हव्या स्वदन्त्येषां यज्ञैर्नराशंसस्य यजतस्य व्यवहारस्य महिमानमुप स्तोषाम, तथा यूयमपि कुरुत ॥२७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये स्वयं शुद्धाः प्राज्ञा वेदशास्त्रविदो न भवन्ति, तेऽन्यानपि विदुषः पवित्रान् कर्त्तुं न शक्नुवन्ति। येषां यादृशानि कर्माणि स्युस्तानि धर्मात्मभिर्यथावत् प्रशंसितव्यानि ॥२७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जे लोक स्वतः पवित्र, बुद्धिमान, वेदशास्रवेत्ता नसतात ते इतरांना विद्वान व पवित्र करू शकत नाहीत. त्यामुळे ज्यांचे उत्तम गुण, कर्म असतात त्यांची धर्मात्मा लोकांनी प्रशंसा केली पाहिजे.
२८ आजुह्वानऽईड्यो वन्द्यश्चायाह्यग्ने
विश्वास-प्रस्तुतिः ...{Loading}...
आ॒जुह्वा॑न॒ ईड्यो॒ वन्द्य॒श् च+
+आया॑ह्य् अग्ने॒ वसु॑भिः स॒जोषाः॑।
त्वं दे॒वाना॑म् असि यह्व॒ होता॒
सऽए॑नान् यक्षीषि॒तो यजी॑यान् ॥२८ ॥
मूलम् ...{Loading}...
आ॒जुह्वा॑न॒ऽईड्यो॒ वन्द्य॒श्चाया॑ह्यग्ने॒ वसु॑भिः स॒जोषाः॑। त्वं दे॒वाना॑मसि यह्व॒ होता॒ सऽए॑नान् यक्षीषि॒तो यजी॑यान् ॥२८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ॒जुह्वा॑न॒ इत्या॒ऽजुह्वा॑नः। ईड्यः॑। वन्द्यः॑। च॒। आ। या॒हि॒। अ॒ग्ने॒। वसु॑भि॒रिति॒ वसु॑ऽभिः। स॒जोषा॒ इति॑ स॒ऽजोषाः॑। त्वम्। दे॒वाना॑म्। अ॒सि॒। य॒ह्व॒। होता॑। सः। ए॒ना॒न्। य॒क्षि॒। इ॒षि॒तः। यजी॑यान्। २८।
महीधरः
म०. हे अग्ने, त्वमायाहि आगच्छ । कीदृशस्त्वम् । आजुह्वानः आह्वयते आह्वयति देवानित्याजुह्वानः । ह्वयतेः शपः श्लुः ‘ह्वः संप्रसारणम्’ (पा० ६ । १ । ३२) इत्यभ्यासस्य संप्रसारणं शानचि । ईड्यः स्तुत्यः। वन्द्यः नमनीयः । वसुभिः देवैः, सजोषाः समानप्रीतिः । किंच हे यह्व महन् , यः त्वं देवानां होता आह्वाता असि च त्वमेनान् यक्षि यज । कीदृशस्त्वम् । इषितः प्रेषितः अभीष्टो वा । यजीयान् यजतीति यष्टा अत्यन्तं यष्टा यजीयान् । ईयसुनि ‘तुरिष्टेमेयःसु’ (पा० ६ । ४ । १५४ ) इति तृचो लोपः ॥ २८॥
एकोनविंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- भार्गवो जमदग्निर्ऋषिः
- स्वराड्बृहती
- मध्यमः
मूलम् - तैत्तिरीयम्
आ॒जुह्वा॑न॒ ईड्यो॒ वन्द्य॑श्च ।
आया॑ह्यग्ने॒ वसु॑भिस्स॒जोषाः॑ ।
त्वन्दे॒वाना॑मसि यह्व॒ होता॑ ।
स ए॑नान् यक्षीषि॒तो यजी॑यान् ।
भट्टभास्कर-टीका
4आजुह्वान इति ॥ आजुह्वानः देवानामाह्वानकुशलः । लिटः कानचि संप्रसारणम् । ईड्यः स्तुत्यः वन्द्यः नमस्कार्यश्च । ‘ईडवन्द’ इति उभयत्राद्युदात्तत्वम् । हे अग्ने! ईदृशस्त्वं आयाहि अस्मद्यज्ञं आगच्छ वसुभिः देवैः सजोषाः समानप्रीतिः त्वं खलु देवानां होता आह्वाता असि, हे यह्व! प्रभूत! स त्वं एनान् देवान् यक्षि यज । यजेर्लेटि शपो लुक् । इषितः अस्माभिरध्येषितः यजीयान् यष्टृतमः मनुष्ययष्टुः । ‘तुश्छन्दसि’ इति ईयसुन्प्रत्ययः ॥
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (यह्व) बड़े उत्तम गुणों से युक्त (अग्ने) अग्नि के तुल्य पवित्र विद्वन् ! जो (त्वम्) आप (देवानाम्) विद्वानों के बीच (होता) दानशील (यजीयान्) अति समागम करने हारे (असि) हैं, (इषितः) प्रेरणा किये हुए (एनान्) इन विद्वानों का (यक्षि) सङ्ग कीजिए (सः) सो आप (वसुभिः) निवास के हेतु विद्वानों के साथ (सजोषाः) समान प्रीति निबाहनेवाले (आजुह्वानः) अच्छे प्रकार स्पर्द्धा ईर्ष्या करते हुए (ईड्यः) प्रशंसा (च) तथा (वन्द्यः) नमस्कार के योग्य इन विद्वानों के निकट (आ) (याहि) आया कीजिए ॥२८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य पवित्रात्मा प्रशंसित विद्वानों के सङ्ग से आप पवित्रात्मा होवें, तो वे धर्मात्मा हुए सर्वत्र सत्कार को प्राप्त होवें ॥२८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे यह्वाग्ने ! यस्त्वं देवानां होता यजीयानसि। इषितः सन्नेनान् यक्षि, स त्वं वसुभिः सह सजोषा आजुह्वान ईड्यो वन्द्यश्चैतानायाहि ॥२८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदि मनुष्याः पवित्रात्मनां प्रशसितानां विदुषां सङ्गेन स्वयं पवित्रात्मानो भवेयुस्ते धर्मात्मानः सन्तः सर्वत्र सत्कृताः स्युः ॥२८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे पवित्र व प्रशंसित विद्वानांच्या संगतीत राहून पवित्र बनतात त्यांचा धर्मात्मा म्हणून सर्वत्र सत्कार होतो.
२९ प्राचीनं बर्हिः
विश्वास-प्रस्तुतिः ...{Loading}...
प्रा॒चीनं॑ ब॒र्हिः प्र॒दिशा॑ पृथि॒व्या वस्तो॑र॒स्या वृ॑ज्यते॒ऽअग्रे॒ऽअह्ना॑म्। व्यु॑ प्रथते वित॒रं वरी॑यो दे॒वेभ्यो॒ऽअदि॑तये स्यो॒नम् ॥२९ ॥
मूलम् ...{Loading}...
प्रा॒चीनं॑ ब॒र्हिः प्र॒दिशा॑ पृथि॒व्या वस्तो॑र॒स्या वृ॑ज्यते॒ऽअग्रे॒ऽअह्ना॑म्। व्यु॑ प्रथते वित॒रं वरी॑यो दे॒वेभ्यो॒ऽअदि॑तये स्यो॒नम् ॥२९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्रा॒चीन॑म्। ब॒र्हिः। प्र॒दिशेति॑ प्र॒ऽदिशा॑। पृ॒थि॒व्याः। वस्तोः॑। अ॒स्याः। वृ॒ज्य॒ते॒। अग्रे॑। अह्ना॑म्। वि। ऊँ॒ इ॑त्यूँ। प्र॒थ॒ते॒। वि॒त॒रमिति॑ विऽत॒रम्। वरी॑यः। दे॒वेभ्यः॑। अदि॑तये। स्यो॒नम्। २९।
महीधरः
म० अह्रां दिनानामग्रे पूर्वाह्णे बर्हिः प्राचीनं प्रागग्रं वृज्यते प्रस्तीर्यते प्रातर्यागकालस्य प्रशस्तत्वादह्नामग्रे इत्युक्तम् । किं स्वबुद्ध्या नेत्याह । ‘प्रदिशा प्रागग्रं बर्हिः स्तृणाति’ इति श्रुतिवाक्येन प्रदिक्शब्देन श्रुतिवाक्यम् । अस्याः पृथिव्या वेदेः वस्तोः वसितुम् । आच्छादयितुमित्यर्थः । तद्बर्हिः वृज्यमानं सत् विप्रथते विविधं विस्तीर्णं भवति । उकारः पादपूरणः । कीदृशं बर्हिः । वितरं वरीयः अत्यन्तं वि वितरमतितराम् वरीयः अत्यन्तमुरु वरीयः ‘प्रस्थस्फव-’ (पा० ६ । ४ । १५७ ) इत्यादिना उरोर्वरादेशः । देवेभ्यः अदितये च स्योनं सुखकरम् ॥ २९॥
त्रिंशी।
अधिमन्त्रम् (VC)
- अन्तरिक्षं देवता
- भार्गवो जमदग्निर्ऋषिः
- भुरिक्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (अस्याः) इस (पृथिव्याः) भूमि के बीच (प्राचीनम्) सनातन (बर्हिः) अन्तरिक्ष के तुल्य व्यापक ब्रह्म (वस्तोः) दिन के प्रकाश से (वृज्यते) अलग होता (अह्नाम्) दिनों के (अग्रे) आरम्भ प्रातःकाल में (देवेभ्यः) विद्वानों (उ) और (अदितये) अविनाशी आत्मा के लिए (वितरम्) विशेषकर दुःखों से पार करनेहारे (वरीयः) अतिश्रेष्ठ (स्योनम्) सुख को (वि, प्रथते) विशेषकर प्रकट करता उसको तुम लोग (प्रदिशा) वेद शास्त्र के निर्देश से जानो और प्राप्त होओ ॥२९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो विद्वानों के लिए सुख देवें, वे सर्वोत्तम सुख को प्राप्त हों, जैसे आकाश सब दिशाओं और पृथिव्यादि में व्याप्त है, वैसे जगदीश्वर सर्वत्र व्याप्त है। जो लोग ऐसे ईश्वर की प्रातःकाल उपासना करते, वे धर्मात्मा हुए विस्तीर्ण सुखोंवाले होते हैं ॥२९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यदस्याः पृथिव्या मध्ये प्राचीनं बर्हिर्वस्तोर्वृज्यते अह्नामग्रे देवेभ्य उ अदितये वितरं वरीयः स्योनं विप्रथते तद्यूयं प्रदिशा विजानीत प्राप्नुत च ॥२९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये विद्वद्भ्यः सुखं दद्युस्ते सर्वोत्तमं सुखं लभेरन्। यथाऽऽकाशं सर्वासु दिक्षु पृथिव्यादिषु च व्याप्तमस्ति, तथा जगदीश्वरः सर्वत्र व्याप्तोऽस्ति। ये तमीदृशं परमात्मानं प्रातरुपासते, ते धर्मात्मानः सन्तो विस्तीर्णसुखा जायन्ते ॥२९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जे लोक विद्वानांना सुख देतात त्यांना सर्वोत्तम सुख प्राप्त होते. तसे आकाश सर्व दिशांमध्ये व पृथ्वीमध्ये व्याप्त आहे तसा ईश्वर सर्वत्र व्याप्त आहे. जे लोक अशा ईश्वराची प्रातःकाळी उपासना करतात ते धर्मात्मा बनून सुखी होतात.
३० व्यचस्वतीरुर्विया वि
विश्वास-प्रस्तुतिः ...{Loading}...
व्यच॑स्वतीरुर्वि॒या वि श्र॑यन्तां॒ पति॑भ्यो॒ न जन॑यः॒ शुम्भ॑मानाः। देवी॑र्द्वारो बृहतीर्विश्वमिन्वा दे॒वेभ्यो॑ भवत सुप्राय॒णाः ॥३० ॥
मूलम् ...{Loading}...
व्यच॑स्वतीरुर्वि॒या वि श्र॑यन्तां॒ पति॑भ्यो॒ न जन॑यः॒ शुम्भ॑मानाः। देवी॑र्द्वारो बृहतीर्विश्वमिन्वा दे॒वेभ्यो॑ भवत सुप्राय॒णाः ॥३० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
व्यच॑स्वतीः। उ॒र्वि॒या। वि। श्र॒य॒न्ता॒म्। पति॑भ्य॒ इति॒ पति॑ऽभ्यः। न। जन॑यः। शुम्भ॑मानाः। देवीः॑। द्वारः॒। बृ॒ह॒तीः॒। वि॒श्व॒मि॒न्वा॒ इति॑ विश्वम्ऽइन्वाः। दे॒वेभ्यः॑। भ॒व॒त॒। सु॒प्रा॒य॒णाः। सु॒प्रा॒य॒ना इति॑ सुऽप्राय॒नाः। ३०।
महीधरः
म०. द्वारो देवीः देव्यो विश्रयन्तां विवृता भवन्तु । कीदृश्यो द्वारः । उर्विया उरुत्वेन व्यचस्वतीः व्यञ्चनवत्यो गमनवत्यः । कथमिव । पतिभ्यो जनयो न जनय इव । यथा जनयः जायाः पत्यर्थं ऊरू विश्रयन्ति । एवं परोक्षमुक्त्वा प्रत्यक्षमाह । हे द्वारो देव्यः, यूयं देवेभ्यो देवार्थं सुप्रायणाः सुप्रगमनाः भवत । कीदृश्यः । बृहती बृहत्यः । विश्वमिन्वाः विश्वमेति गच्छति यासु ताः । एतेर्न्वक्प्रत्ययः अलुक्समासः । शुम्भमानाः शोभमानाः । उर्विया इति द्वार्विशेषणं वा । उरवो विशालाः ‘इयाडियाजियारश्च’ इति विभक्तेरियाजादेशः चित्वादन्तोदात्तः ॥३०॥
एकत्रिंशी।
अधिमन्त्रम् (VC)
- स्त्रियो देवताः
- भार्गवो जमदग्निर्ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर स्त्री-पुरुष क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (उर्विया) अधिकता से शुभ गुणों में (व्यचस्वतीः) व्याप्तिवाली (बृहतीः) महती (विश्वमिन्वाः) सब व्यवहारों में व्याप्त (सुप्रायणाः) जिनके होने में उत्तम घर हों (देवीः) आभूषणादि से प्रकाशमान (द्वारः) दरवाजों के (न) समान अवकाशवाली (पतिभ्यः) पाणिग्रहण विवाह करनेवाले (देवेभ्यः) उत्तम गुणयुक्त पतियों के लिए (शुम्भमानाः) उत्तम शोभायमान हुई (जनयः) सब स्त्रियाँ अपने अपने पतियों को (वि, श्रयन्ताम्) विशेष कर सेवन करें, वैसे तुम लोग सब विद्याओं में व्यापक (भवत) होओ ॥३० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। जैसे व्यापक हुई दिशा अवकाश देने और सब के व्यवहारों की साधक होने से आनन्द देनेवाली होती है, वैसे ही आपस में प्रसन्न हुए स्त्रीपुरुष उत्तम सुखों को प्राप्त हो के अन्यों के हितकारी होवें ॥३० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स्त्रीपुरुषौ किं कुर्यातामित्याह।
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा उर्विया व्यचस्वतीर्बृहतीर्विश्वमिन्वाः सुप्रायणा देवीर्द्वारो नेव पतिभ्यो देवेभ्यः शुम्भमाना जनयः सर्वान् स्वस्वपतीन् विश्रयन्तां तथा यूयं सर्वविद्यासु व्यापका भवत ॥३० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारः। यथा व्यापिका दिशोऽवकाशप्रदानेन सर्वेषां व्यवहारसाधकत्वेनानन्दप्रदाः सन्ति, तथैव परस्परस्मिन् प्रीताः स्त्रीपुरुषा दिव्यानि सुखानि लब्ध्वाऽन्येषां हितकराः स्युः ॥३० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहेत. सर्वत्र व्यापक असणारी वेळ व व्यवहार यांची साधक असणारी दिशा ही जशी आनंददायक असते. तसे स्री-पुरुषांनी आपापसात प्रसन्न राहून उत्तम सुख प्राप्त करावे व इतरांचे हित करावे.
३१ आ सुष्वयन्ती
विश्वास-प्रस्तुतिः ...{Loading}...
आ सु॒ष्वय॑न्ती यज॒तेऽउपा॑केऽउ॒षासा॒नक्ता॑ सदतां॒ नि योनौ॑। दि॒व्ये योष॑णे बृह॒ती सु॑रु॒क्मेऽअधि॒ श्रियँ॑ शुक्र॒पिशं॒ दधा॑ने ॥३१ ॥
मूलम् ...{Loading}...
आ सु॒ष्वय॑न्ती यज॒तेऽउपा॑केऽउ॒षासा॒नक्ता॑ सदतां॒ नि योनौ॑। दि॒व्ये योष॑णे बृह॒ती सु॑रु॒क्मेऽअधि॒ श्रियँ॑ शुक्र॒पिशं॒ दधा॑ने ॥३१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ। सु॒ष्वय॑न्ती। सु॒स्वय॑न्ती॒ इति॑ सु॒ऽस्वय॑न्ती। य॒ज॒तेऽइति॑ यज॒ते। उपा॑के॒ऽइत्युपा॑के। उ॒षासा॒नक्ता॑। उ॒षसा॒नक्तेत्यु॒षसा॒नक्ता॑। स॒द॒ता॒म्। नि। योनौ॑। दि॒व्येऽइति॑ दि॒व्ये। योष॑णे॒ऽइति॒ योष॑णे। बृ॒ह॒तीऽइति॑ बृह॒ती। सु॒रु॒क्मे इति॑ सुऽरु॒क्मे। अधि॑। श्रिय॑म्। शु॒क्र॒पिश॒मिति॑ शुक्र॒ऽपिश॑म्। दधा॑ने॒ऽइति॒ दधा॑ने। ३१।
महीधरः
म० आ नि एतयोः सदतामिति संबन्धः । अधीत्यस्य दधाने इत्यनेन संबन्धः । उषासानक्ता अहोरात्रे देवते योनौ यज्ञगृहे आनि सदताम् सम्यक् उपविशताम् । कीदृश्यौ ते । सुष्वयन्ती स्मयतेः स्वपतेर्वा सुपूर्वस्य रूपम् । पूर्वपक्षे मकारस्य वकारश्छान्दसः । उत्तरपक्षे पकारस्य यकारः । परस्परं हसन्त्यौ साधु स्वपन्त्यौ वा । यजते यजनीये । उपाके उप समीपमकतस्ते उपाके ‘अक गतौ’ परस्परं समीपस्थिते । दिव्ये दिवि भवे । योषणे योषे स्त्रीरूपिण्यौ । बृहती बृहत्यौ महत्यौ सुरुक्मे शोभनं रुक्मं सुवर्णं ययोस्ते । साभरणे इत्यर्थः । शुक्रपिशं शुक्लां कपिशां च श्रियं शोभामधिदधाने अधिकं धारयन्त्यौ । शुक्लमहः कपिशा रात्रिः ॥ ३१ ॥
द्वात्रिंशी।
अधिमन्त्रम् (VC)
- स्त्रियो देवताः
- भार्गवो जमदग्निर्ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब राजप्रजा धर्म अगले मन्त्र में कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यदि (दिव्ये) उत्तम गुण-कर्म-स्वभाववाली (योषणे) दो स्त्रियों के समान (सुरुक्मे) सुन्दर शोभायुक्त (बृहतीः) बड़ी (अधि) अधिक (श्रियम्) शोभा व लक्ष्मी को तथा (शुक्रपिशम्) प्रकाश और अन्धकाररूपों को (दधाने) धारण करती हुई (सुष्वयन्ती) सोती हुइयों के समान (उपाके) निकटवर्त्तिनी (उषासानक्ता) दिन-रात (योनौ) कालरूप कारण में (नि, आ, सदताम्) निरन्तर अच्छे प्रकार चलते हैं, उनको (यजते) सङ्गत करते तो अतुल शोभा को प्राप्त होओ ॥३१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे मनुष्यो ! जैसे काल के साथ वर्त्तमान रात-दिन एक दूसरे से सम्बद्ध विलक्षण स्वरूप से वर्त्तते हैं, वैसे राजा-प्रजा परस्पर प्रीति के साथ वर्त्ता करें ॥३१ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ राजप्रजाधर्ममाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यदि दिव्ये योषणे इव सुरुक्मे बृहती अधिश्रियं शुक्रपिशं च दधाने सुष्वयन्ती उपाके उषासानक्ता योनौ न्या सदतां ते भवान् यजते तर्ह्यतुलां श्रियं प्राप्नुयात् ॥३१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः ! यथा कालेन सह वर्त्तमाने रात्रिदिने परस्परेण सम्बद्धे विलक्षणस्वरूपेण वर्त्तेते, तथा राजप्रजे परस्परं प्रीत्या वर्त्तेयाताम् ॥३१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे माणसांनो ! रात्र व दिवस हे जसे काळाशी संबंधित असून, त्यांचे स्वरूप विलक्षण असते तसे राजा व प्रजा यांनी प्रेमाने वागावे.
३२ दैव्या होतारा
विश्वास-प्रस्तुतिः ...{Loading}...
दैव्या॒ होता॑रा प्रथ॒मा सु॒वाचा॒ मिमा॑ना य॒ज्ञं मनु॑षो॒ यज॑ध्यै। प्र॒चो॒दय॑न्ता वि॒दथे॑षु का॒रू प्रा॒चीनं॒ ज्योतिः॑ प्र॒दिशा॑ दि॒शन्ता॑ ॥३२ ॥
मूलम् ...{Loading}...
दैव्या॒ होता॑रा प्रथ॒मा सु॒वाचा॒ मिमा॑ना य॒ज्ञं मनु॑षो॒ यज॑ध्यै। प्र॒चो॒दय॑न्ता वि॒दथे॑षु का॒रू प्रा॒चीनं॒ ज्योतिः॑ प्र॒दिशा॑ दि॒शन्ता॑ ॥३२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दैव्या॑। होता॑रा। प्र॒थ॒मा। सु॒वाचेति॑ सु॒ऽवाचा॑। मिमा॑ना। य॒ज्ञम्। मनु॑षः। यज॑ध्यै। प्र॒चो॒दय॒न्तेति॑ प्रऽचो॒दय॑न्ता। वि॒दथे॑षु। का॒रूऽइति॑ का॒रू। प्रा॒चीन॑म्। ज्योतिः॑। प्र॒दिशेति॑ प्र॒ऽदिशा॑। दि॒शन्ता॑। ३२।
महीधरः
म० दैव्यौ होतारौ ईदृशौ आसाते इति शेषः । कीदृशौ । प्रथमा आद्यौ । सुवाचा शोभना वाक् ययोस्तौ । मनुषो मनुष्यस्य । यजध्यै यष्टुं यज्ञं । मिमाना निर्मिमाणौ । तुमर्थे शध्यैप्रत्ययः । विदथेषु यज्ञेषु प्रचोदयन्ता प्रचोदयन्तौ ऋत्विजः प्रेरयन्तौ । कारू कुरुतस्तौ कारू ‘उणादयो बहुलम्’ (पा० ३ । | ३ । १) इत्युण् । स्वयं कर्तारौ । प्राचीनं पूर्व दिशि भवं ज्योतिः आहवनीयाख्यं प्रदिशा अभिनयेन श्रुतिवाक्येन दिशन्ता यष्टव्यमिति कथयन्तौ । सर्वत्र विभक्तेराकारः ॥ ३२॥
त्रयस्त्रिंशी।
अधिमन्त्रम् (VC)
- विद्वांसो देवता
- भार्गवो जमदग्निर्ऋषिः
- आर्षी
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब कारीगर लोगों को क्या करना चाहिए, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (दैव्या) विद्वानों में कुशल (होतारा) दानशील (प्रथमा) प्रसिद्ध (सुवाचा) प्रशंसित वाणीवाले (मिमाना) विधान करते हुए (यज्ञम्) सङ्गतिरूप यज्ञ के (यजध्यै) करने को (मनुषः) मनुष्यों को (विदधेषु) विज्ञानों में (प्रचोदयन्ता) प्रेरणा करते हुए (प्रदिशा) वेदशास्त्र के प्रमाण से (प्राचीनम्) सनातन (ज्योतिः) शिल्पविद्या के प्रकाश का (दिशन्ता) उपदेश करते हुए (कारू) दो कारीगर लोग होवें, उनसे शिल्प विज्ञान शास्त्र पढ़ना चाहिए ॥३२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में (कारू) शब्द में द्विवचन अध्यापक और हस्तक्रियाशिक्षक इन दो शिल्पियों के अभिप्राय से है। जो कारीगर होवें, वे जितनी शिल्पविद्या जानें, उतनी सब दूसरों के लिए शिक्षा करें, जिससे उत्तर-उत्तर विद्या की सन्तति बढ़े ॥३२ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ शिल्पिभिः किं कर्त्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यो दैव्या होतारा प्रथमा सुवाचा मिमाना यज्ञं यजध्यै मनुषो विदथेषु प्रचोदयन्ता प्रदिशा प्राचीनं ज्योतिर्दिशन्ता कारू भवेतां ताभ्यां शिल्पविज्ञानशास्त्रमध्येयम् ॥३२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र कारुशब्दे द्विवचनमध्यापकहस्तक्रियाशिक्षकाभिप्रायम्। ये शिल्पिनः स्युस्ते यावद् विजानीयुस्तावत् सर्वमन्येभ्यः शिक्षयेयुः। यत उत्तरोत्तरं विद्यासन्ततिर्वर्धेत ॥३२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात (कारू) शब्द द्विवचनात आहे. तो शब्द अध्यापक व हस्तक्रिया शिक्षकांबद्दल आलेला आहे. जे कारागीर जितकी हस्तविद्या जाणतात ती त्यांनी इतरांना द्यावी. त्यामुळे ती विद्या उत्तरोत्तर वाढत जाईल.
३३ आ नो
विश्वास-प्रस्तुतिः ...{Loading}...
आ नो॑ य॒ज्ञं भार॑ती॒ तूय॑मे॒त्विडा॑ मनु॒ष्वदि॒ह चे॒तय॑न्ती। ति॒स्रो दे॒वीर्ब॒र्हिरेदँ स्यो॒नँ सर॑स्वती॒ स्वप॑सः सदन्तु ॥३३ ॥
मूलम् ...{Loading}...
आ नो॑ य॒ज्ञं भार॑ती॒ तूय॑मे॒त्विडा॑ मनु॒ष्वदि॒ह चे॒तय॑न्ती। ति॒स्रो दे॒वीर्ब॒र्हिरेदँ स्यो॒नँ सर॑स्वती॒ स्वप॑सः सदन्तु ॥३३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ। नः॒। य॒ज्ञम्। भार॑ती॒। तूय॑म्। ए॒तु॒। इडा॑। म॒नु॒ष्वत्। इ॒ह। चे॒तय॑न्ती। ति॒स्रः। दे॒वीः। ब॒र्हिः। आ। इ॒दम्। स्यो॒नम्। सर॑स्वती। स्वप॑स॒ इति॑ सु॒ऽअप॑सः। स॒द॒न्तु॒। ३३।
महीधरः
म० भारती इडा सरस्वती च नोऽस्माकं यज्ञं तूयं क्षिप्रमा एतु आगच्छतु । कीदृशी । मनुष्वत् मनुष्यवदिह कर्मणि चेतयन्ती ज्ञापयन्ती कर्मज्ञानं बोधयन्ती । इदं तिसृणां विशेषणम् । एतास्तिस्रो देवीः देव्यः स्योनं सुखरूपमिदं बर्हिः आसदन्तु आसीदन्तु । कीदृश्यः । स्वपसः शोभनमपः कर्म यासां ताः शुभकर्माणः । अप इति कर्मनाम ॥ ३३ ॥
चतुस्त्रिंशी।
अधिमन्त्रम् (VC)
- वाग्देवता
- भार्गवो जमदग्निर्ऋषिः
- भुरिक्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (भारती) शिल्पविद्या को धारण करनेहारी क्रिया (इडा) सुन्दर शिक्षित मीठी वाणी (सरस्वती) विज्ञानवाली बुद्धि (इह) इस शिल्पविद्या के ग्रहणरूप व्यवहार में (नः) हमको (तूयम्) वर्धक (यज्ञम्) शिल्पविद्या के प्रकाशरूप यज्ञ को (मनुष्वत्) मनुष्य के तुल्य (चेतयन्ती) जनाती हुई हम को (आ, एतु) सब ओर से प्राप्त होवे, ये पूर्वोक्त (तिस्रः) तीन (देवी) प्रकाशमान (इदम्) इस (बर्हिः) बढ़े हुए (स्योनम्) सुखकारी काम को (स्वपसः) सुन्दर कर्मोंवाले हमको (आ, सदन्तु) अच्छे प्रकार प्राप्त करें ॥३३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस शिल्प व्यवहार में सुन्दर उपदेश और क्रियाविधि को जताना और विद्या का धारण इष्ट है। यदि इन रीतियों को मनुष्य ग्रहण करें तो बड़ा सुख भोगें ॥३३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! या भारती इडा सरस्वतीह नस्तूयं यज्ञं मनुष्वच्चेतयन्त्यस्मानैतु इमास्तिस्रो देवीरिदं बर्हिः स्योनं स्वपसोऽस्माना सदन्तु ॥३३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र शिल्पव्यवहारे सुष्ठूपदेशक्रियाविधिज्ञापनं विद्याधारणं चेष्यते यदीमाः तिस्रो रीतीर्मनुष्या गृह्णीयुस्तर्हि महत्सुखमश्नुवीरन् ॥३३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या हस्तक्रिया कौशल्य व्यवहारात (शिल्पविद्या) चांगली सुशिक्षित वाणी, क्रिया निर्मिती व विद्याधारणा या तीन गोष्टी अभिप्रेत आहेत. जर या तिन्ही रीती अंगीकारल्या तर माणसांना सुख भोगता येते.
३४ यऽइमे द्यावापृथिवी
विश्वास-प्रस्तुतिः ...{Loading}...
यऽइ॒मे द्यावा॑पृथि॒वी जनि॑त्री रू॒पैरपिँ॑श॒द् भुव॑नानि॒ विश्वा॑। तम॒द्य हो॑तरिषि॒तो यजी॑यान् दे॒वं त्वष्टा॑रमि॒ह य॑क्षि वि॒द्वान् ॥३४ ॥
मूलम् ...{Loading}...
यऽइ॒मे द्यावा॑पृथि॒वी जनि॑त्री रू॒पैरपिँ॑श॒द् भुव॑नानि॒ विश्वा॑। तम॒द्य हो॑तरिषि॒तो यजी॑यान् दे॒वं त्वष्टा॑रमि॒ह य॑क्षि वि॒द्वान् ॥३४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यः। इ॒मेऽइती॒मे। द्यावा॑पृथि॒वीऽइति॒ द्यावा॑पृथि॒वी। जनि॑त्री॒ऽइति॒ जनि॑त्री। रू॒पैः। अपिँ॑शत्। भुव॑नानि। विश्वा॑। तम्। अ॒द्य। हो॒तः॒। इ॒षि॒तः। यजी॑यान्। दे॒वम्। त्वष्टा॑रम्। इ॒ह। य॒क्षि॒। वि॒द्वान्। ३४।
महीधरः
म० हे होतः, अद्य इषितः प्रेषितः सन् तं त्वष्टारं देवमिह यज्ञे यक्षि यज । कीदृशः त्वम् । यजीयान् अत्यन्तं यष्टा ‘तुरिष्ठेमेयःसु’ ( पा० ६ । ४ । १५४ ) इतीयसुनि तृचो
लोपः । विद्वान् स्वाधिकारज्ञः । तं कम् । यः त्वष्टा इमे द्यावापृथिवी द्यावाभूमी रूपैः अपिंशदवयवैर्विचित्रे अकरोत् ‘पिश अवयवे’ तुदादिः । लङि ‘शे मुचादीनाम्’ (पा० ७ । १।५९) इति नुम् । विश्वा विश्वानि सर्वाणि भुवनानि भूतजातानि रूपैः अपिंशत् विविधरूपाण्यकरोत् । कीदृश्यौ द्यावापृथिव्यौ । जनित्री जनयतस्ते जनित्यौ प्राण्युत्पादिके ॥ ३४ ॥
पञ्चत्रिंशी।
अधिमन्त्रम् (VC)
- विद्वान् देवता
- भार्गवो जमदग्निर्ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (होतः) ग्रहण करनेवाले जन ! (यः) जो (यजीयान्) अतिसमागम करनेवाला (इषितः) प्रेरणा किया हुआ (विद्वान्) सब ओर से विद्या को प्राप्त विद्वान् जैसे ईश्वर (इह) इस व्यवहार में (रूपैः) चित्र-विचित्र आकारों से (इमे) इन (जनित्री) अनेक कार्यों को उत्पन्न करनेवाली (द्यावापृथिवी) बिजुली और पृथिवी आदि (विश्वा) सब (भुवनानि) लोकों को (अपिंशत्) अवयवरूप करता है, वैसे (तम्) उस (त्वष्टारम्) वियोग-संयोग अर्थात् प्रलय उत्पत्ति करनेहारे (देवम्) ईश्वर का (अद्य) आज तू (यक्षि) सङ्ग करता है, इससे सत्कार करने योग्य है ॥३४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को इस सृष्टि में परमात्मा की रचनाओं की विशेषताओं को जान के वैसे ही शिल्पविद्या का प्रयोग करना चाहिए ॥३४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे होतर्यो यज्ञीयानिषितो विद्वान् यथेश्वर इह रूपैरिमे जनित्री द्यावापृथिवी विश्वा भुवनान्यपिंशत् तथा तं त्वष्टारं देवमद्य त्वं यक्षि, तस्मात् सत्कर्त्तव्योऽसि ॥३४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैरस्यां सृष्टौ परमात्मनो रचनाविशेषान् विज्ञाय तथैव शिल्पविद्या संप्रयोज्या ॥३४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. माणसांनी या जगात परमेश्वर निर्मित सृष्टीची विशेषतः जाणून त्याप्रमाणे (हस्तक्रिया) शिल्पविद्येचा वापर केला पाहिजे.
३५ उपावसृज त्मन्या
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒पाव॑सृज॒ त्मन्या॑ सम॒ञ्जन् दे॒वानां॒ पाथ॑ऽऋतु॒था ह॒वीँषि॑। वन॒स्पतिः॑ शमि॒ता दे॒वोऽअ॒ग्निः स्वद॑न्तु ह॒व्यं मधु॑ना घृ॒तेन॑ ॥३५ ॥
मूलम् ...{Loading}...
उ॒पाव॑सृज॒ त्मन्या॑ सम॒ञ्जन् दे॒वानां॒ पाथ॑ऽऋतु॒था ह॒वीँषि॑। वन॒स्पतिः॑ शमि॒ता दे॒वोऽअ॒ग्निः स्वद॑न्तु ह॒व्यं मधु॑ना घृ॒तेन॑ ॥३५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उ॒पाव॑सृ॒जेत्युप॒ऽअव॑सृज। त्मन्या॑। स॒म॒ञ्जन्निति॑ सम्ऽअ॒ञ्जन्। दे॒वाना॑म्। पाथः॑। ऋ॒तु॒थेत्यृ॑तु॒ऽथा। ह॒वींषि॑। वन॒स्पतिः॑। श॒मि॒ता। दे॒वः। अ॒ग्निः। स्वद॑न्तु। ह॒व्यम्। मधु॑ना। घृ॒तेन॑। ३५।
महीधरः
म० यजमानो वदति । हे होतः, त्मन्या आत्मना हवींषि ऋतुथा ऋतौ ऋतौ यज्ञकाले त्वमुपावसृज देहि । किं कुर्वन् । देवानां पाथः हविः मधुना मधुररसेन घृतेन समञ्जन् संम्रक्षयन् । देवानामित्युक्तं तानाह। वनस्पतिर्यूपः शमिता देवः अग्निः एते त्रयो हव्यं होत्रा संमृज्य दत्तं स्वदन्तु भक्षयन्तु । आत्मन्शब्दस्य विभक्तेर्यादेशे ‘मन्त्रेष्वाङ्यादेरात्मनः’ (पा० ६ । ४ ॥ १४१) इत्याकारलोपः ॥ ३५॥
षट्त्रिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- भार्गवो जमदग्निर्ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
ऋतु-ऋतु में होम करना चाहिए, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् पुरुष ! तू (देवानाम्) विद्वानों के (पाथः) भोगने योग्य अन्न आदि को (मधुना) मीठे कोमल आदि रसयुक्त (घृतेन) घी आदि से (समञ्जन्) सम्यक् मिलाते हुए (त्मन्या) अपने आत्मा से (हवींषि) लेने भोजन करने योग्य पदार्थों को (ऋतुथा) ऋतु-ऋतु में (उपावसृज) यथावत् दिया कर अर्थात् होम किया कर। उस तैने दिये (हव्यम्) भोजन के योग्य पदार्थ को (वनस्पतिः) किरणों का स्वामी सूर्य्य (शमिता) शान्तिकर्त्ता (देवः) उत्तम गुणोंवाला मेघ और (अग्निः) अग्नि (स्वदन्तु) प्राप्त होवें अर्थात् हवन किया पदार्थ उनको पहुँचे ॥३५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिए कि शुद्ध पदार्थों का ऋतु-ऋतु में होम किया करें, जिससे वह द्रव्य सूक्ष्म हो और क्रम से अग्नि, सूर्य तथा मेघ को प्राप्त होके वर्षा के द्वारा सब का उपकारी होवे ॥३५ ॥
दयानन्द-सरस्वती (सं) - विषयः
प्रत्यृतुर्होतव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वंस्त्वं देवानां पाथो मधुना घृतेन समञ्जन् त्मन्या हवींषि ऋतुथोपावसृज तेन त्वया दत्तं हव्यं वनस्पतिः शमिता देवोऽग्निश्च स्वदन्तु ॥३५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैः शुद्धानां पदार्थानामृतावृतौ होमः कर्त्तव्यो येन तद्धुतं द्रव्यं सूक्ष्मं भूत्वा क्रमेणाग्निसूर्यमेघान् प्राप्य वृष्टिद्वारा सर्वोपकारि स्यात् ॥३५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - प्रत्येक ऋतूमध्ये शुद्ध पदार्थांची आहुती देऊन माणसांनी होम करावा. ज्यामुळे ते द्रव्य सूक्ष्म बनून क्रमाने अग्नी, सूर्य व मेघ यांना प्राप्त होते. त्यामुळे यज्ञाद्वारे व वृष्टीद्वारे सर्वांवर उपकार करावा.
३६ सद्यो जातो
विश्वास-प्रस्तुतिः ...{Loading}...
स॒द्यो जा॒तो व्य॑मिमीत य॒ज्ञम॒ग्निर्दे॒वाना॑मभवत् पुरो॒गाः। अ॒स्य होतुः॑ प्र॒दिश्यृ॒तस्य॑ वा॒चि स्वाहा॑कृतँ ह॒विर॑दन्तु दे॒वाः ॥३६ ॥
मूलम् ...{Loading}...
स॒द्यो जा॒तो व्य॑मिमीत य॒ज्ञम॒ग्निर्दे॒वाना॑मभवत् पुरो॒गाः। अ॒स्य होतुः॑ प्र॒दिश्यृ॒तस्य॑ वा॒चि स्वाहा॑कृतँ ह॒विर॑दन्तु दे॒वाः ॥३६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स॒द्यः। जा॒तः। वि। अ॒मि॒मी॒त॒। य॒ज्ञम्। अ॒ग्निः। दे॒वाना॑म्। अ॒भ॒व॒त्। पु॒रो॒गा इति॑ पुरः॒ऽगाः। अ॒स्य। होतुः॑। प्र॒दिशीति॑ प्र॒ऽदिशि॑। ऋ॒तस्य॑। वा॒चि। स्वाहा॑कृतमिति॒ स्वाहा॑ऽकृतम्। ह॒विः। अ॒द॒न्तु॒। दे॒वाः। ३६।
महीधरः
म० देवा हविरदन्तु भक्षयन्तु । कीदृशं हविः । अस्याग्नेः वाजि वागिन्द्रियोपलक्षिते मुखे स्वाहाकृतं स्वाहाकारेण हुतम् । कीदृशस्यास्य । होतुः देवानामाह्वातुः । प्रदिशि पूर्वदिशि ऋतस्य ‘ऋ गतौ आहवनीयात्मना स्थितस्य अस्य कस्य । योऽग्निः सद्यो जातः उत्पन्नः सन् यज्ञं व्यमिमीत विशेषेण निरमात् । यश्च देवानां पुरोगाः अग्रगामी मुख्याऽभवत् । पुरो गच्छतीति पुरोगाः । विटि प्रत्यये ‘विड्वनोरनुनासिकस्यात्’ (पा० ६ । ४ । ४१) इति मस्याकारः ॥ ३६॥
सप्तत्रिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- भार्गवो जमदग्निर्ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
कैसा मनुष्य सब को आनन्द कराता है, इस विषय को अगले मन्त्र में कहा है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (सद्यः) शीघ्र (जातः) प्रसिद्ध हुआ (अग्निः) विद्या से प्रकाशित विद्वान् (होतुः) ग्रहण करनेहारे पुरुष के (ऋतस्य) सत्य का (प्रदिशि) जिससे निर्देश किया जाता है, उस (वाचि) वाणी में (यज्ञम्) अनेक प्रकार के व्यवहार को (वि, अमिमीत) विशेष कर निर्माण करता और (देवानाम्) विद्वानों में (पुरोगाः) अग्रगामी (अभवत्) होता है (अस्य) इसके (स्वाहाकृतम्) सत्य व्यवहार से सिद्ध किये वा होम किये से बचे (हविः) भोजन के योग्य अन्नादि को (देवाः) विद्वान् लोग (अदन्तु) खायें, उसको सर्वोपरि विराजमान मानो ॥३६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे सूर्य्य सब प्रकाशक पदार्थों के बीच प्रकाशक है, वैसे जो विद्वानों में विद्वान् सब का उपकारी जन होता है, वही सब को आनन्द का भुगवानेवाला होता है ॥३६ ॥
दयानन्द-सरस्वती (सं) - विषयः
कीदृग्जनः सर्वानन्दयतीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यस्सद्योजातोऽग्निर्होतुर्ऋतस्य प्रदिशि वाचि यज्ञं व्यमिमीत, देवानां पुरोगा अभवदस्य स्वाहाकृतं हविर्देवा अदन्तु, तं सर्वोपरि विराजमानं मन्यध्वम् ॥३६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा सूर्यः सर्वेषां प्रकाशकानां मध्ये प्रकाशकोऽस्ति, तथा यो विद्वत्सु विद्वान् सर्वोपकारी जनो भवति, स एव सर्वेषामानन्दस्य भोजयिता भवति ॥३६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसा सूर्य सर्व पदार्थांचा प्रकाशक असतो तसे जो सर्व विद्वानांमध्ये विद्वान असून, सर्वांवर उपकार करणारा असतो तोच सर्वांना आनंद देतो.
३७ केतुं कृण्वन्नकेतवे
विश्वास-प्रस्तुतिः ...{Loading}...
के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्याऽअपे॒शसे॑। समु॒षद्भि॑रजायथाः ॥३७ ॥
मूलम् ...{Loading}...
के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्याऽअपे॒शसे॑। समु॒षद्भि॑रजायथाः ॥३७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
के॒तुम्। कृ॒ण्वन्। अ॒के॒तवे॑। पेशः॑। म॒र्याः॒। अ॒पे॒शसे॑। सम्। उ॒षद्भि॒रित्यु॒षत्ऽभिः॑। अ॒जा॒य॒थाः॒। ३७।
महीधरः
म०. अग्निदेवत्या गायत्री मधुच्छन्दोदृष्टानिरुक्ता । हे अग्ने, त्वमुषद्भिः कृत्वा अजायथाः उत्पन्नोऽसि । जनेर्लङि रूपम् । | ‘उष दाहे’ उषन्ति हविर्दहन्ति ते उषन्तोऽग्निहोमकर्तारो यजमानाः । कीदृशस्त्वम् । अकेतवे अज्ञानाय मर्याः मर्याय मनुष्याय केतुं ज्ञानं कृण्वन्कुर्वन् । विभक्तिव्यत्ययः। नास्ति पेशः सुवर्णं यस्य स अपेशाः तस्मै अपेशसे मर्याय पेशः सुवर्णं कुर्वन् ॥ ३७॥
अष्टत्रिंशी।
अधिमन्त्रम् (VC)
- विद्वांसो देवता
- मधुच्छन्छा ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
आप्त लोग कैसे होते हैं, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् पुरुष ! जैसे (मर्याः) मनुष्य (अपेशसे) जिसके सुवर्ण नहीं है, उसके लिए (पेशः) सुवर्ण को और (अकेतवे) जिस को बुद्धि नहीं है, उसके लिए (केतुम्) बुद्धि को करते हैं, उन (उषद्भिः) होम करनेवाले यजमान पुरुषों के साथ बुद्धि और धन को (कृण्वन्) करते हुए आप (सम्, अजायथाः) सम्यक् प्रसिद्ध हूजिये ॥३७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। वे ही आप्तजन हैं जो अपने आत्मा के तुल्य अन्यों का भी सुख चाहते हैं, उन्हीं के सङ्ग से विद्या की प्राप्ति अविद्या की हानि, धन का लाभ और दरिद्रता का विनाश होता है ॥३७ ॥
दयानन्द-सरस्वती (सं) - विषयः
आप्ताः कीदृशा इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यथा मर्या अपेशसे पेशोऽकेतवे केतुं कुर्वन्ति, तैरुषद्भिः सह प्रज्ञां श्रियं च कृण्वन् सँस्त्वं समजायथाः ॥३७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। त एव आप्ता ये स्वात्मवदन्येषामपि सुखमिच्छन्ति, तेषामेव सङ्गेन विद्याप्राप्तिरविद्याहानिः, श्रियो लाभो, दरिद्रताया विनाशश्च भवति ॥३७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जे आपल्याप्रमाणे इतरांचे सुखही इच्छितात तेच आप्तजन असतात. त्यांच्यामुळे विद्येची प्राप्ती, अविद्येचा नाश व दारिद्र्य नष्ट होते.
३८ जीमूतस्येव भवति
विश्वास-प्रस्तुतिः ...{Loading}...
जी॒मूत॑स्येव भवति॒ प्रती॑कं॒ यद्व॒र्मी याति॑ स॒मदा॑मु॒पस्थे॑। अना॑विद्धया त॒न्वा᳖ जय॒ त्वँ स त्वा॒ वर्म॑णो महि॒मा पि॑पर्त्तु ॥३८ ॥
मूलम् ...{Loading}...
जी॒मूत॑स्येव भवति॒ प्रती॑कं॒ यद्व॒र्मी याति॑ स॒मदा॑मु॒पस्थे॑। अना॑विद्धया त॒न्वा᳖ जय॒ त्वँ स त्वा॒ वर्म॑णो महि॒मा पि॑पर्त्तु ॥३८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
जी॒मूत॑स्ये॒वेति॑ जी॒मूत॑स्यऽइव। भ॒व॒ति॒। प्रती॑कम्। यत्। व॒र्मी। याति॑। स॒मदा॒मिति॑ स॒ऽमदा॑म्। उ॒पस्थ॒ इत्यु॒पऽस्थे॑। अना॑विद्धया। त॒न्वा᳖। ज॒य॒। त्वम्। सः। त्वा॒। वर्म॑णः। म॒हि॒मा। पि॒प॒र्तु॒। ३८।
महीधरः
म० एवमग्निं स्तुत्वाश्वरक्षणे योधाः युद्धोपकरणानि च स्तूयन्ते । भरद्वाजसुतःपायुः संग्रामाङ्गानि प्रत्यृचं स्तोति । त्रिष्टुब्भिः वर्म स्तूयते । यत् यदा वर्मी कवचवान् समदां संग्रामाणामुपस्थे उत्सङ्गे याति तदा प्रतीकं सेनामुखं जीमूतस्य मेघस्येव भवति । सह माद्यन्ति योधा यासु ताः समदः संग्रामाः। मदेः क्विप् । मेघस्य मुखं विद्युत्स्तनयित्नुधाराभिर्यथासह्यम् एवं हस्त्यश्वरथपादात्यस्त्रजालतूर्यनादशरौघैः सेनामुखमसह्यं भवतीत्यर्थः । अतोऽहं ब्रवीमि । हे वर्मिन् , अनाविद्धया अक्षतया तन्वा शरीरेण त्वं शत्रून् हत्वा जयं प्राप्नुहि । किंच स वर्मणः महिमा त्वा त्वां पिपर्तु पालयतु ॥ ३८ ॥
एकोनचत्वारिंशी।
अधिमन्त्रम् (VC)
- विद्वान् देवता
- भारद्वाज ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
वीर राजपुरुष क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यत्) जो (वर्मी) कवचवाला योद्धा (अनाविद्धया) जिसमें कुछ भी घाव न लगा हो, उस (तन्वा) शरीर से (समदाम्) आनन्द के साथ जहाँ वर्त्ते, उन युद्धों के (उपस्थे) समीप में (प्रतीकम्) जिससे निश्चय करे, उस चिह्न को (याति) प्राप्त होता है, (सः) वह (जीमूतस्येव) मेघ के निकट जैसे बिजुली वैसे (भवति) होता है। हे विद्वन् ! जिस (त्वा) आप को (वर्मणः) रक्षा का (महिमा) महत्त्व (पिपर्त्तु) पाले सो (त्वम्) आप शत्रुओं को (जय) जीतिए ॥३८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे मेघ की सेना सूर्य प्रकाश को रोकती है, वैसे कवच आदि से शरीर का आच्छादन करे, जैसे समीपस्थ सूर्य और मेघ का संग्राम होता है, वैसे ही वीर राजपुरुषों को युद्ध और रक्षा भी करनी चाहिए ॥३८ ॥
दयानन्द-सरस्वती (सं) - विषयः
वीरा राजपुरुषाः किं कुर्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यद्यो वर्म्यनाविद्धया तन्वा समदामुपस्थे प्रतीकं याति स जीमूतस्येव विद्युद्भवति। हे विद्वन् ! यत्त्वा वर्मणो महिमा पिपर्त्तु स त्वं शत्रून् जय ॥३८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा मेघस्य सेना सूर्यप्रकाशमावृणोति, तथा कवचादिना शरीरमावृणुयात्। यथा समीपस्थयोः सूर्यमेघयोः संग्रामो भवति, तथैव वीरै राजपुरुषैर्योद्धव्यम्। सर्वतो रक्षापि विधेया ॥३८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जशी मेघांची सेना सूर्यप्रकाश रोखते, तसेच कवच वगैरे शरीररक्षण करतात. जसे सूर्य व मेघ यांचे युद्ध होते, तसेच वीर राजपुरुषांनी युद्ध करावे व प्रजेचे रक्षण करावे.
३९ धन्वना गा
विश्वास-प्रस्तुतिः ...{Loading}...
धन्व॑ना॒ गा धन्व॑ना॒जिं ज॑येम॒ धन्व॑ना ती॒व्राः स॒मदो॑ जयेम। धनुः॒ शत्रो॑रपका॒मं कृ॑णोति॒ धन्व॑ना॒ सर्वाः॑ प्र॒दिशो॑ जयेम ॥३९ ॥
मूलम् ...{Loading}...
धन्व॑ना॒ गा धन्व॑ना॒जिं ज॑येम॒ धन्व॑ना ती॒व्राः स॒मदो॑ जयेम। धनुः॒ शत्रो॑रपका॒मं कृ॑णोति॒ धन्व॑ना॒ सर्वाः॑ प्र॒दिशो॑ जयेम ॥३९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
धन्व॑ना। गाः। धन्व॑ना। आ॒जिम्। ज॒ये॒म॒। धन्व॑ना। ती॒व्राः। स॒मद॒ इति॑ स॒ऽमदः॑। ज॒ये॒म॒। धनुः। शत्रोः॑। अ॒प॒का॒ममित्य॑पऽका॒मम्। कृ॒णो॒ति॒। धन्व॑ना। सर्वाः॑। प्र॒दिश॒ इति॑ प्र॒ऽदिशः॑। ज॒ये॒म॒। ३९।
महीधरः
म० धनुः स्तूयते । धन्वना धनुषा कृत्वा वयं गाः धेनूः जयेम । धन्वना आजिं मार्गं जयेम । अजन्ति गच्छन्ति यस्मिन्नसावाजिर्मार्गः । तीव्राः उग्राः समदः संग्रामान् धन्वना जयेम । धनुः शत्रोरपकामं मनोरथाभावं कृणोति करोति । कामस्याभावोऽपकामम् । ‘अव्ययं विभक्ति-’ (पा. २ । १। ६) इत्यादिना अर्थाभावेऽव्ययीभावः । किंच धन्वना सर्वाः प्रदिशो जयेम । ईदृशो धनुःप्रभावः ॥ ३९ ॥
चत्वारिंशी।
अधिमन्त्रम् (VC)
- वीरा देवताः
- भारद्वाज ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे वीर पुरुषो ! जैसे हम लोग जो (धनुः) शस्त्र-अस्त्र (शत्रोः) वैरी की (अपकामम्) कामनाओं को नष्ट (कृणोति) करता है, उस (धन्वना) धनुष् आदि शस्त्र-अस्त्र विशेष से (गाः) पृथिवियों को और (धन्वना) उक्त शस्त्र विशेष से (आजिम्) संग्राम को (जयेम) जीते (धन्वना) तोप आदि शस्त्र-अस्त्रों से (तीव्राः) तीव्र वेगवाली (समदः) आनन्द के साथ वर्त्तमान शत्रुओं की सेनाओं को (जयेम) जीतें (धन्वना) धनुष् से (सर्वाः) सब (प्रदिशः) दिशा प्रदिशाओं को (जयेम) जीतें, वैसे तुम लोग भी इस धनुष् आदि से जीतो ॥३९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य धनुर्वेद के विज्ञान की क्रियाओं में कुशल हों तो सब जगह ही उन का विजय प्रकाशित होवे। जो विद्या विजय और शूरता आदि गुणों से भूगोल के एक राज्य को चाहें तो कुछ भी अशक्य न हो ॥३९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे वीराः ! यथा वयं यद्धनुः शत्रोरपकामं कृणोति, तेन धन्वना गा धन्वनाऽऽजिं च जयेम, धन्वना समदो जयेम, धन्वना तीव्राः समदो जयेम, धन्वना सर्वाः प्रदिशो जयेम, तथा यूयमप्येतेन जयत ॥३९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदि मनुष्या धनुर्वेदविज्ञानक्रियाकुशला भवेयुस्तर्हि सर्वत्रैव तेषां विजयः प्रकाशेत, यदि विद्याविनयशौर्यादिगुणैर्भूगोलैकराज्यमिच्छेयुस्तर्हि किमप्यशक्यं न स्यात् ॥३९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे धनुर्विद्येच्या क्रियेत प्रवीण असतात त्यांना सर्वत्र विजय प्राप्त होतो. ज्यांना विद्याविनय व शौर्य इत्यादी गुणांनी पृथ्वीवर साम्राज्य निर्माण करावयाचे असते त्यांना ते मुळीच अशक्य नाही.
४० वक्ष्यन्तीवेदा गनीगन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
व॒क्ष्यन्ती॒वेदा ग॑नीगन्ति॒ कर्णं॑ प्रि॒यँ सखा॑यं परिषस्वजा॒ना। योषे॑व शिङ्क्ते॒ वित॒ताधि॒ धन्व॒ञ्ज्या इ॒यँ सम॑ने पा॒रय॑न्ती ॥४० ॥
मूलम् ...{Loading}...
व॒क्ष्यन्ती॒वेदा ग॑नीगन्ति॒ कर्णं॑ प्रि॒यँ सखा॑यं परिषस्वजा॒ना। योषे॑व शिङ्क्ते॒ वित॒ताधि॒ धन्व॒ञ्ज्या इ॒यँ सम॑ने पा॒रय॑न्ती ॥४० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
व॒क्ष्यन्ती॒वेति॑ व॒क्ष्यन्ती॑ऽइव। इत्। आ॒ग॒नी॒गन्ति॒। कर्ण॑म्। प्रि॒यम्। सखा॑यम्। प॒रि॒ष॒स्व॒जा॒ना। प॒रि॒ष॒स्व॒जा॒नेति॑ परिऽसस्वजा॒ना। योषे॒वेति॒ योषा॑ऽइव। शि॒ङ्क्ते॒। वित॒तेति॒ विऽत॑ता। अधि॑। धन्व॑न्। ज्या। इ॒यम्। सम॑ने। पा॒रय॑न्ती। ४०।
महीधरः
म० ज्या स्तूयते । इयं ज्या धन्वन् धन्वनि धनुषि अधिवितता उपरि विस्तारिता सती शिङ्क्ते अव्यक्तशब्दं कुरुते । ‘शिजि अव्यक्ते शब्दे’ अदादिः ‘इदितो नुम् धातोः’ (पा० ७ । १ । ५८ ) इति नुम् । का इव । योषेव यथा योषा कामिनी कामुकरञ्जनायाव्यक्तं वदति एवमियमपि । कीदृशी ज्या । समने संग्रामे पारयन्ती । ‘पार तीर कर्मसमाप्तौ’ अदन्तः। संग्रामादुत्तारयन्ती विजयं कुर्वन्तीत्यर्थः । इयं का। या ज्या कर्णमागनीगन्ति आकृष्टा सती योद्धुः कर्णं प्रत्यत्यर्थमागच्छति । यङ्लुकि गमेः रूपम् । कीदृशी उत्प्रेक्ष्यते । वक्ष्यन्तीव वक्तुमिच्छन्तीव । अन्योऽपि वक्तुमिच्छन्कर्णं प्रत्यागच्छति । प्रियं सखायमिष्टं मित्रं बाणरूपं परिषस्वजाना आलिङ्गन्ती । स्वजेः शानचि शपः श्लौ सति द्वित्वम् । इत् पादपूरणार्थः ॥ ४० ॥
एकचत्वारिंशी।
अधिमन्त्रम् (VC)
- वीरा देवताः
- भारद्वाज ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे वीर पुरुषो ! जो (इयम्) यह (वितता) विस्तारयुक्त (धन्वन्) धनुष में (अधि) ऊपर लगी (ज्या) प्रत्यञ्चा ताँत (वक्ष्यन्तीव) कहने को उद्यत हुई विदुषी स्त्री के तुल्य (इत्) ही (आगनीगन्ति) शीघ्र बोध को प्राप्त कराती हुई जैसे (कर्णम्) जिस की स्तुति सुनी जाती (प्रियम्) प्यारे (सखायम्) मित्र के तुल्य वर्त्तमान पति को (परिषस्वजाना) सब ओर से सङ्ग करती हुई (योषेव) स्त्री बोलती वैसे (शिङ्क्ते) शब्द करती है, (समने) संग्राम में (पारयन्ती) विजय को प्राप्त कराती हुई वर्त्तमान है, उसके बनाने बाँधने और चलाने को जानो ॥४० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में दो उपमालङ्कार हैं। जो मनुष्य धनुष् की प्रत्यञ्चा आदि शस्त्र-अस्त्रों की रचना, सम्बन्ध और चलाना आदि क्रियाओं को जाने तो उपदेश करने और माता के तुल्य सुख देनेवाली पत्नी और विजय सुख को प्राप्त हों ॥४० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे वीराः ! येयं वितता धन्वन्नधि ज्या वक्ष्यन्तीवेदागनीगन्ति कर्णं प्रियं सखायं पतिं परिषस्वजाना योषेव शिङ्क्ते समने पारयन्ती वर्त्तते तान्निर्मातुं बद्धुं चालयितुं च विजानीत ॥४० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र द्व्युपमालङ्कारौ। यदि मनुष्या धनुर्ज्यादिशस्त्रास्त्ररचनसम्बन्धचालनक्रिया विज्ञायेरन्, तर्हीमामुपदेशिकां मातरमिव सुखप्रदां पत्नीं विजयसुखं च प्राप्नुयुः ॥४० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात दोन उपमालंकार आहेत. जी माणसे धनुष्याची प्रत्यंचा इत्यादी अस्र शस्त्रांची रचना, संबंध व ती चालविणे इत्यादी क्रिया जाणतात त्यांना उपदेश करणारी व मातेप्रमाणे सुख देणारी पत्नी प्राप्त होते व त्याचा सर्वत्र विजय होतो.
४१ तेऽआचरन्ती समनेव
विश्वास-प्रस्तुतिः ...{Loading}...
तेऽआ॒चर॑न्ती॒ सम॑नेव॒ योषा॑ मा॒तेव॑ पु॒त्रं बि॑भृतामु॒पस्थे॑। अप॒ शत्रू॑न् विध्यताँ संविदा॒नेऽआर्त्नी॑ऽइ॒मे वि॑ष्फु॒रन्ती॑ऽअ॒मित्रा॑न् ॥४१ ॥
मूलम् ...{Loading}...
तेऽआ॒चर॑न्ती॒ सम॑नेव॒ योषा॑ मा॒तेव॑ पु॒त्रं बि॑भृतामु॒पस्थे॑। अप॒ शत्रू॑न् विध्यताँ संविदा॒नेऽआर्त्नी॑ऽइ॒मे वि॑ष्फु॒रन्ती॑ऽअ॒मित्रा॑न् ॥४१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
तेऽइति॒ ते। आ॒चर॑न्ती॒ इत्या॒ऽचर॑न्ती। सम॑ने॒वेति॒ सम॑नाऽइव। योषा॑। मा॒तेवेति॑ मा॒ताऽइ॑व। पु॒त्रम्। बि॒भृ॒ता॒म्। उ॒पस्थ॒ इत्यु॒पऽस्थे॑। अप॑। शत्रू॑न्। वि॒ध्य॒ता॒म्। सं॒वि॒दा॒ने इति॑ स्ऽविदा॒ने। आर्त्नी॒ऽइत्या॑र्त्नी॑। इ॒मेऽइती॒मे। वि॒ष्फु॒रन्ती॑। वि॒स्फु॒रन्ती॒ इति॑ विऽस्फु॒रन्ती॑। अ॒मित्रा॑न्। ४१।
महीधरः
म० धनुःकोटी स्तूयेते । ते प्रसिद्धे इमे आर्त्नी आर्त्न्यौ धनुःकोटी उपस्थे उत्सङ्गे मध्यभागे बिभृतां धारयतां शरमिति शेषः । तत्र दृष्टान्तः । माता पुत्रमिव यथा जननी पुत्रमुत्सङ्गे बिभर्ति तथा शत्रून् अपविध्यतां ताडयतां च । कीदृश्यौ आर्त्न्यौ । आचरन्ती आचरन्त्यौ आगच्छन्त्यौ धानुष्कं प्रति । तत्र दृष्टान्तः । समना योषा इव वचनव्यत्ययः । समना समानमेकपतिगतं मनो ययोस्ते समनसौ । विभक्तेर्डादेशः । समचित्ते योषा योषे स्त्रियौ यथा कान्तमागच्छतः । संविदाने संविदाते ते संविदाने ‘समो गमि-’ (पा० १ । ३ । २९) इत्यादिना शानच् । परस्परं संकेतं कुर्वाणे । अमित्रान् शत्रून् प्रति विष्फुरन्ती टङ्कारं कुर्वाणे ॥ ४१ ॥
द्विचत्वारिंशी।
अधिमन्त्रम् (VC)
- वीरा देवताः
- भारद्वाज ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे वीर पुरुषो ! दो धनुष् की प्रत्यञ्चा (योषा) विदुषी (समनेव) प्राण के समान सम्यक् पति को प्यारी स्त्री स्वपति को और (मातेव) जैसे माता (पुत्रम्) अपने सन्तान को (बिभृताम्) धारण करें, वैसे (उपस्थे) समीप में (आचरन्ती) अच्छे प्रकार प्राप्त हुई (शत्रून्) शत्रुओं को (अप) (विध्यताम्) दूर तक ताड़ना करें (इमे) ये (संविदाने) अच्छे प्रकार विज्ञान की निमित्त (आर्त्नी) प्राप्त हुर्इं (अमित्रान्) शत्रुओं को (विष्फुरन्ती) विशेष कर चलायमान करती वर्त्तमान हैं, (ते) उन दोनों का यथावत् सम्यक् प्रयोग करो अर्थात् उन को काम में लाओ ॥४१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में दो उपमालङ्कार हैं। जैसे हृदय को प्यारी स्त्री पति को और विदुषी माता अपने पुत्र को अच्छे प्रकार पुष्ट करती है, वैसे सम्यक् प्रसिद्ध काम देनेवाली धनुष् की दो प्रत्यञ्चा शत्रुओं को पराजित कर वीरों को प्रसन्न करती हैं ॥४१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे वीराः ! ये योषा समनेव पतिं मातेव पुत्रं बिभृतामुपस्थे आचरन्ती शत्रूनप विध्यतामिमे संविदाने आर्त्नी अमित्रान् विष्फुरन्ती वर्त्तेते, ते यथावत् संप्रयुङ्ग्ध्वम् ॥४१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र द्वावुपमालङ्कारौ। यथा हृद्या स्त्री पतिं विदुषी च माता पुत्रं सम्पोषयतस्तथा धनुर्ज्ये संविदितक्रिये शत्रून् पराजित्य वीरान् प्रसादयतः ॥४१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात दोन उपमालंकार आहेत. जशी अंतःकरणाला प्रिय असलेली स्री पतीला पुष्ट करते व विदुषीमाता आपल्या पुत्रांना पुष्ट करते तशा धनुष्यांच्या दोन प्रत्यंचा शत्रूंना पराजित करून वीरांना प्रसन्न करतात.
४२ बह्वीनां पिता
विश्वास-प्रस्तुतिः ...{Loading}...
ब॒ह्वी॒नां पि॒ता ब॒हुर॑स्य पु॒त्रश्चि॒श्चा कृ॑णेति॒ सम॑नाव॒गत्य॑। इ॒षु॒धिः सङ्काः॒ पृत॑नाश्च॒ सर्वाः॑ पृ॒ष्ठे निन॑द्धो जयति॒ प्रसू॑तः ॥४२ ॥
मूलम् ...{Loading}...
ब॒ह्वी॒नां पि॒ता ब॒हुर॑स्य पु॒त्रश्चि॒श्चा कृ॑णेति॒ सम॑नाव॒गत्य॑। इ॒षु॒धिः सङ्काः॒ पृत॑नाश्च॒ सर्वाः॑ पृ॒ष्ठे निन॑द्धो जयति॒ प्रसू॑तः ॥४२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ब॒ह्वी॒नाम्। पि॒ता। ब॒हुः। अ॒स्य॒। पु॒त्रः। चि॒श्चा। कृ॒णो॒ति॒। सम॑ना। अ॒व॒गत्येत्य॑व॒ऽगत्य॑। इ॒षु॒धिरिती॑षु॒ऽधिः। सङ्काः॑। पृत॑नाः। च॒। सर्वाः॑। पृ॒ष्ठे। निन॑द्ध॒ इति॒ निऽन॑द्धः। ज॒य॒ति॒। प्रसू॑त इति॒ प्रऽसू॑तः। ४२।
महीधरः
म० इषुधिः स्तूयते । य इषुधिः तूणो बह्वीनामिषूणां पिता पालकः । यतो बाणान्धरति । अस्येषुधेर्बहुः । बाणसमूहः पुत्रः पुत्रस्थानीयः पाल्यमानत्वात् । पुरून्बहून् त्रायत इति पुत्रः । स इषुधिः समना संग्रामान् अवगत्य ज्ञात्वा । चिश्चाकृणोति चिश्चेति शब्दं करोति । शब्दानुकरणमेतत् । वाणे तूणान्निष्काम्यमाणे चिश्चेति शब्दो भवति । च पुनः स इषुधिर्धानुष्केण पृष्ठे निनद्धः बद्धोऽपि प्रसूतः अनुज्ञातः सन् सर्वाः पृतनाः जयति शत्रुसेनाः पराभवति । कीदृश्यः पृतनाः । संकाः ‘संकाः सचतेः संपूर्वाद्वा किरतेः’ (निरु. ९ । १४ ) इति यास्कोक्तेः सचतेः किरतेर्वा रूपम् । सचन्ते संबध्यन्ते संकीर्यन्ते वा योधा यासु ताः संकाः । विवक्षातः कारकाणि भवन्तीति वचनादिषुधेः कर्तृत्वम् ॥ ४२ ॥
त्रिचत्वारिंशी।
अधिमन्त्रम् (VC)
- वीरा देवताः
- भारद्वाज ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे वीर पुरुषो ! जो (बह्वीनाम्) बहुत प्रत्यञ्चाओं का (पिता) पिता के तुल्य रखनेवाला (अस्य) इस पिता का (बहुः) बहुत गुणवाले (पुत्रः) पुत्र के समान सम्बन्धी (पृष्ठे) पिछले भाग में (निनद्धः) निश्चित बँधा हुआ (इषुधिः) बाण जिस में धारण किये जाते वह धनुष् (प्रसूतः) उत्पन्न हुआ (समना) संग्रामों को (अवगत्य) प्राप्त होके (चिश्चा) चिं चिं, चिं ऐसा शब्द (कृणोति) करता है (च) और जिससे वीर पुरुष (सर्वाः) सब (सङ्काः) इकट्ठी वा फैली हुई (पृतनाः) सेनाओं को (जयति) जीतता है, उसकी यथावत् रक्षा करो ॥४२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे अनेक कन्याओं और बहुत पुत्रों का पिता अपत्य शब्द से संयुक्त होता है, वैसे ही धनुष्, प्रत्यञ्चा और बाण मिलकर अनेक प्रकार के शब्दों को उत्पन्न करते हैं। जिसके वाम हाथ में धनुष्, पीठ पर बाण, दाहिने हाथ से बाण को निकाल के धनुष् की प्रत्यञ्चा से संयुक्त कर छोड़ के अभ्यास से शीघ्रता करने की शक्ति को करता है, वही विजयी होता है ॥४२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे वीराः ! यो बह्वीनां पितेवास्य बहुः पुत्र इव पृष्ठे निनद्ध इषुधिः प्रसूतः सन् समनावगत्य चिश्चा कृणोति, येन वीरः सर्वा सङ्काः पृतनाश्च जयति, तं यथावद् रक्षत ॥४२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथाऽनेकासां कन्यानां बहूनां पुत्राणां च पिताऽपत्यशब्दैः संकीर्णो भवति, तथैव धनुर्ज्येषुधयः संमिलिता अनेकविधशब्दान् जनयन्ति, यस्य वामहस्ते धनुः पृष्ठे इषुधिर्यो दक्षिणेन हस्तेनेषुं निःसार्य्य धनुर्ज्यया संयोज्य विमुच्याऽभ्यासेन शीघ्रकारित्वं करोति, स एव विजयी भवति ॥४२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसे अनेक पुत्र व कन्या यांना (पित्याचे) अपत्य म्हटले जाते तसे धनुष्य, प्रत्यञ्चा व बाण मिळून अनेक प्रकारचे शब्द उत्पन्न करतात. जो डाव्या हातात धनुष्य, पाठीवर बाण व उजव्या हातात धनुष्य घेऊन प्रत्यंचेला जोडून बाण मारण्याचा अभ्यास करतो त्यालाच विजय प्राप्त होतो.
४३ रथे तिष्ठन्नयति
विश्वास-प्रस्तुतिः ...{Loading}...
रथे॒ तिष्ठ॑न्नयति वा॒जिनः॑ पु॒रो यत्र॑यत्र का॒मय॑ते सुषार॒थिः। अ॒भीशू॑नां महि॒मानं॑ पनायत॒ मनः॑ प॒श्चादनु॑ यच्छन्ति र॒श्मयः॑ ॥४३ ॥
मूलम् ...{Loading}...
रथे॒ तिष्ठ॑न्नयति वा॒जिनः॑ पु॒रो यत्र॑यत्र का॒मय॑ते सुषार॒थिः। अ॒भीशू॑नां महि॒मानं॑ पनायत॒ मनः॑ प॒श्चादनु॑ यच्छन्ति र॒श्मयः॑ ॥४३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
रथे॑। तिष्ठ॑न्। न॒य॒ति॒। वा॒जिनः॑। पु॒रः। यत्र॑य॒त्रेति॒ यत्र॑ऽयत्र। का॒मय॑ते। सु॒षा॒र॒थिः। सु॒सा॒र॒थिरिति॑ सुऽसार॒थिः। अ॒भीशू॑नाम्। म॒हि॒मान॑म्। प॒ना॒य॒त॒। मनः॑। प॑श्चात्। अनु॑। य॒च्छ॒न्ति॒। र॒श्मयः॑। ४३।
महीधरः
म० अर्धेन सारथिरर्धेन रश्मयः स्तूयन्ते । जगती इयम् । सुषारथिः सुसारथिः शोभनः सारथिः यत्र यत्र प्रदेशे कामयते इच्छति मयात्र गन्तव्यमिति तत्र तत्र पुरो वर्तमानान् वाजिनः नयति प्रापयति । कीदृशः। रथे तिष्ठन् । तं स्तुम इति शेषः । इदानीं रश्मयः स्तूयन्ते । हे जनाः, अभीशूनां रश्मीनां महिमानं महाभाग्यं यूयं पनायत स्तुत । ये रश्मयः पश्चाद्वर्तमानाः सन्तः मनोऽश्वचित्तमनुयच्छन्ति अनुगम्य गृह्णन्ति वशवर्तिनं कुर्वन्तीत्यर्थः । ‘पन स्तुतौ’ ‘गुपूधूप-’ (पा० ३ । १ । २८) इत्यादिना आयप्रत्ययान्तात्पनेर्लोट् ॥ ४३ ॥
चतुश्चत्वारिंशी।
अधिमन्त्रम् (VC)
- वीरा देवताः
- भारद्वाज ऋषिः
- जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वानो ! (सुषारथिः) सुन्दर सारथि घोड़ों वा अग्न्यादि को नियम में रखनेवाला (रथे) रमण करने योग्य पृथिवी जल वा आकाश में चलानेवाले यान में (तिष्ठन्) बैठा हुआ (यत्रयत्र) जिस-जिस संग्राम वा देश में (कामयते) चाहता है, वहाँ-वहाँ (वाजिनः) घोड़ों वा वेगवाले अग्न्यादि पदार्थों को (पुरः) आगे (नयति) चलाता है, जिन का (मनः) मन अच्छा शिक्षित (रश्मयः) लगाम की रस्सी वा किरण हस्तगत हैं (पश्चात्) पीछे से घोड़ों वा अग्न्यादि का (अनु, यच्छन्ति) अनुकूल निग्रह करते हैं, उन (अभीशूनाम्) सब ओर से शीघ्र चलनेहारों के (महिमानम्) महत्त्व की तुम लोग (पनायत) प्रशंसा करो ॥४३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो राजा और राजपुरुष चक्रवर्ती राज्य और निश्चल विजय चाहें तो अच्छे शिक्षित मन्त्री, अश्व आदि तथा अन्य चलानेवाली सामग्री अध्यक्षों शस्त्र-अस्त्रों और शरीर आत्मा के बल को अवश्य सिद्ध करें ॥४३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वांसः ! सुषारथी रथे तिष्ठन् यत्रयत्र कामयते, तत्र तत्र वाजिनः पुरो नयति। येषां मनः सुशिक्षितं हस्तगता रश्मयः पश्चादश्वाननुयच्छन्ति तेषामभीशूनां महिमानं यूयं पनायत ॥४३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदि राजराजपुरुषाः साम्राज्यं ध्रुवं विजयं चेच्छेयुस्तर्हि सुशिक्षितानमात्यानश्वाद्यन्या चालयित्री अलंसामग्र्यध्यक्षाञ्छस्त्राऽस्त्राणि शरीरात्मबलं चावश्यं सम्पादयेयुः ॥४३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे राजे, राजपुरुष चक्रवर्ती राज्य स्थिर करून विजय प्राप्त करण्याची इच्छा बाळगतात त्यांनी चांगले मंत्री, प्रशिक्षित घोडे, इतर साहित्य, शस्र-अस्र, शरीर व आत्मा यांचे बल अवश्य संपादन करावे.
४४ तीव्रान् घोषान्
विश्वास-प्रस्तुतिः ...{Loading}...
ती॒व्रान् घोषा॑न् कृण्वते॒ वृष॑पाण॒योऽश्वा॒ रथे॑भिः स॒ह वा॒जय॑न्तः। अ॒व॒क्राम॑न्तः॒ प्रप॑दैर॒मित्रा॑न् क्षि॒णन्ति॒ शत्रूँ॒१ ॥ऽरन॑पव्ययन्तः ॥४४ ॥
मूलम् ...{Loading}...
ती॒व्रान् घोषा॑न् कृण्वते॒ वृष॑पाण॒योऽश्वा॒ रथे॑भिः स॒ह वा॒जय॑न्तः। अ॒व॒क्राम॑न्तः॒ प्रप॑दैर॒मित्रा॑न् क्षि॒णन्ति॒ शत्रूँ॒१ ॥ऽरन॑पव्ययन्तः ॥४४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ती॒व्रान्। घोषा॑न्। कृ॒ण्व॒ते॒। वृष॑पाणय॒ इति॒ वृष॑ऽपाणयः। अश्वाः॑। रथे॑भिः। स॒ह। वा॒जय॑न्तः। अ॒व॒क्राम॑न्त॒ इत्य॑व॒ऽक्राम॑न्तः। प्रप॑दै॒रिति॒ प्रऽप॑दैः। अ॒मित्रा॑न्। क्षि॒णन्ति॑। शत्रू॑न्। अन॑पव्ययन्त॒ इत्य॑नपऽव्ययन्तः। ४४।
महीधरः
म० अश्वाः स्तूयन्ते । वृषाः अश्वाः पाणौ हस्ते येषां ते वृषपाणयोऽश्ववाराः तीव्रान्घोषान् जयजयेति शब्दान् कृण्वते कुर्वन्ति । अश्वा अपि रथेभिः रथैः सह वाजयन्तः गच्छन्तः सन्तस्तीव्रान्घोषान्शब्दान्कुर्वन्ति शत्रून् क्षिणन्ति नाशयन्ति च । कीदृशा अश्वाः । प्रपदैः पादाग्रैः खुरैः अमित्रान् रिपून् अवक्रामन्तः आक्रामन्तः । अनपव्ययन्तः ‘व्यय क्षये’ अदन्तश्चुरादिः अपव्ययन्ति ते अपव्ययन्तः न अपव्ययन्तोऽनपव्ययन्तः अनश्यन्तः समर्थाः । वाजिनः ‘वज गतौ’ स्वार्थे णिच् ॥४४॥
पञ्चचत्वारिंशी।
अधिमन्त्रम् (VC)
- वीरा देवताः
- भारद्वाज ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे वीर पुरुष ! जो (वृषपाणयः) जिनके बलवान् बैल आदि उत्तम प्राणी हाथों के समान रक्षा करनेवाले हैं (रथेभिः) रमण के योग्य यानों के (सह) साथ (वाजयन्तः) वीर आदि को शीघ्र चलाने हारे (प्रपदैः) उत्तम पगों की चालों से (अमित्रान्) मित्रतारहित दुष्टों को (अवक्रामन्तः) धमकाते हुए (अश्वाः) शीघ्र चलाने हारे घोड़े (तीव्रान्) तीखे (घोषान्) शब्दों को (कृण्वते) करते हैं और जो (अनपव्ययन्तः) व्यर्थ खर्च न कराते हुए योद्धा (शत्रून्) वैरियों को (क्षिणन्ति) क्षीण करते हैं, उन को तुम लोग प्राण के तुल्य पालो ॥४४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो राजपुरुष हाथी, घोड़ा, बैल आदि भृत्यों और अध्यक्षों को अच्छी शिक्षा दे तथा अनेक प्रकार के यानों को बना के शत्रुओं के जीतने की अभिलाषा करते हैं तो उनका निश्चल दृढ़ विजय होता है ॥४४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे वीराः ! ये वृषपाणयो रथेभिः सह वाजयन्तः प्रपदैरमित्रानवक्रामन्तोऽश्वास्तीव्रान् घोषान् कृण्वतेऽनपव्ययन्तः सन्तः शत्रून् क्षिणन्ति, तान् यूयं प्राणवत् पालयत ॥४४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदि राजपुरुषा हस्त्यश्ववृषभादीन् भृत्यानध्यक्षांश्च सुशिक्ष्यानेकविधानि यानानि निर्माय शत्रून् विजेतुमभिलषन्ति, तर्हि तेषां ध्रुवो विजयो भवति ॥४४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे राजे व राजपुरुष हत्ती, घोडे, बैल, नौकर व प्रमुख पुरुष यांना चांगले शिक्षण देतात, तसेच अनेक प्रकारची याने बनवितात व शत्रूंना जिंकण्याची अभिलाषा बाळगतात त्याचा निश्चितपणे विजय होतो.
४५ रथवाहनं हविरस्य
विश्वास-प्रस्तुतिः ...{Loading}...
र॒थ॒वाह॑नँ ह॒विर॑स्य॒ नाम॒ यत्रायु॑धं॒ निहि॑तमस्य॒ वर्म॑। तत्रा॒ रथ॒मुप॑ श॒ग्मँ स॑देम वि॒श्वाहा॑ व॒यँ सु॑मन॒स्यमा॑नाः ॥४५ ॥
मूलम् ...{Loading}...
र॒थ॒वाह॑नँ ह॒विर॑स्य॒ नाम॒ यत्रायु॑धं॒ निहि॑तमस्य॒ वर्म॑। तत्रा॒ रथ॒मुप॑ श॒ग्मँ स॑देम वि॒श्वाहा॑ व॒यँ सु॑मन॒स्यमा॑नाः ॥४५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
र॒थ॒वाह॑नम्। र॒थ॒वाह॑न॒मिति॑ रथ॒ऽवाह॑नम्। ह॒विः। अ॒स्य॒। नाम॑। यत्र॑। आयु॑धम्। निहि॑त॒मिति॒ निऽहि॑तम्। अ॒स्य॒। वर्म॑। तत्र॑। रथ॑म्। उप॑। श॒ग्मम्। स॒दे॒म॒। वि॒श्वाहा॑। व॒यम्। सु॒म॒न॒स्यमा॑ना॒ इति॑ सुऽमन॒स्यमा॑नाः। ४५।
महीधरः
म० शकटद्वारा रथः स्तूयते । अस्यानसो रथवाहणं नाम रथं वहतीति रथवाहनम् । वाजपेयेऽनसि रथस्यारोप्यमाणत्वात् । तथास्य हविः हविर्धानं नाम । पृषोदरादित्वादुत्तरार्थलोपः । यत्रानसि अस्य योद्धुर्वर्म आयुधं च निहितं स्थापितम् तत्रानसि वयं रथमुपसदेम उपसादयामः । कीदृशं रथं । शग्मं सुखकरम् । कीदृशा वयम् । विश्वाहा सर्वदा सुमनस्यमानाः शोभनं मनो येषां ते सुमनसः असुमनसः सुमनसो भवन्ति सुमनस्यन्ते ‘भृशादिभ्यो भुव्यच्वेः-’ (पा० ३ । १ । १२) इति क्यङ् ततः शानच् । अनुकूलचित्ता इत्यर्थः । तत्रेत्यस्य संहितायां ‘निपातस्य च’ (पा० ६ । ३ । १३६ ) इति दीर्घः ॥ ४५ ॥
षट्चत्वारिंशी।
अधिमन्त्रम् (VC)
- वीरा देवताः
- भारद्वाज ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे वीर पुरुषो ! (अस्य) इस योद्धा जन के (यत्र) जिस यान में (रथवाहनम्) जिस से विमानादि यान चलते वह (हविः) ग्रहण करने योग्य अग्नि, इन्धन, जल, काठ और धातु आदि सामग्री तथा (आयुधम्) बन्दूक, तोप, खड्ग, धनुष्, बाण, शक्ति और पद्म फाँसी आदि शस्त्र और (अस्य) इस योद्धा के (वर्म) कवच और (नाम) नाम (निहितम्) स्थित हैं (तत्र) उस यान में (सुमनस्यमानाः) सुन्दर विचार करते हुए (वयम्) हम लोग (शग्मम्) सुख तथा उस (रथम्) रमण योग्य यान को (विश्वाहा) सब दिन (उप, सदेम) निकट प्राप्त होवें ॥४५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जिस यान में अग्नि आदि तथा घोड़े आदि संयुक्त किये जाते, उसमें युद्ध की सामग्री धर नित्य उस की देखभाल कर उस में बैठ और सुन्दर विचार से शत्रुओं के साथ सम्यक् युद्ध करके नित्य सुख को प्राप्त होओ ॥४५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे वीराः ! अस्य यत्र रथवाहनं हविरायुधमस्य वर्म च नाम च निहितं तत्र सुमनस्यमाना वयं शग्मं रथं विश्वाहोप सदेम ॥४५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यस्मिन् यानेऽग्न्यादिरश्वादिश्च युज्यते, तत्र युद्धसामग्री संस्थाप्य नित्यमन्वीक्ष्य स्थित्वा सुविचारेण शत्रुभिः सह संयुद्ध्य नित्यं सुखं प्राप्नुत ॥४५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! ज्या यानात अग्नी व घोडे इत्यादींची योजना करून युद्ध साहित्य ठेवतात त्याची सतत देखरेख करा. या यानाद्वारे शत्रूंशी युद्ध करून नित्य सुखी व्हा.
४६ स्वादुषं सदः
विश्वास-प्रस्तुतिः ...{Loading}...
स्वा॒दु॒-षँ॒सदः॑ पि॒तरो॑ वयो॒-धाः
कृ॑च्छ्रे॒-श्रितः॒ शक्ती॑वन्तो गभी॒राः।
चि॒त्रसे॑ना॒ ऽइषु॑-बला॒ ऽअमृ॑ध्राः+++(=अयोध्याः)+++
स॒तो+++(ऽधिक)+++-वी॑रा ऽउ॒रवो॑ व्रात-सा॒हाः ॥४६ ॥
मूलम् ...{Loading}...
स्वा॒दु॒षँ॒ सदः॑ पि॒तरो॑ वयो॒धाः कृ॑च्छ्रे॒श्रितः॒ शक्तीं॑वन्तो गभी॒राः। चि॒त्रसे॑ना॒ऽइषु॑बला॒ऽअमृ॑ध्राः स॒तोवी॑राऽउ॒रवो॑ व्रातसा॒हाः ॥४६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स्वा॒दु॒षँ॒सदः॑। स्वा॒दु॒सँ॒सद इति॑ स्वादुऽसँ॒सदः॑। पि॒तरः॑। व॒यो॒धा इति॑ वयः॒ऽधाः। कृ॒च्छ्रे॒श्रित॒ इति॑ कृच्छ्रे॒ऽश्रितः॑। शक्ती॑वन्तः॒। शक्ति॑वन्त॒ इति॒ शक्ति॑ऽवन्तः। ग॒भी॒राः। चि॒त्रसे॑ना॒ इति॑ चि॒त्रऽसे॑नाः। इषु॑बला॒ इतीषु॑ऽबलाः। अमृ॑ध्राः। स॒तोवी॑रा॒ इति॑ स॒तःऽवी॑राः। उ॒रवः॑। व्रा॒त॒सा॒हाः। व्रा॒त॒स॒हा इति॑ व्रातऽस॒हाः। ४६।
महीधरः
म० रथगोपान् स्तौति । ईदृशा नरा अस्माकं रथगोप्तारो भवन्त्विति शेषः । कीदृशाः । स्वादुसंसदः स्वादु सुखं यथा तथा संसीदन्ति ते स्वादुसंसदः । पितरः पान्ति ते पितरः रक्षितारः । वयोधाः वयोऽन्नमायुर्वा दधति धारयन्ति वयोधाः । कृच्छ्रेश्रितः इत्येकं पदम् । कृच्छ्रे कष्टे श्रीयन्ते सेव्यन्ते कृच्छ्रेश्रितः । कर्मणि क्विप् अलुक् सप्तम्याः । दुःखे सति आश्रयणयोग्याः दुःखनाशकत्वात् । यद्वा सप्तमी द्वितीयार्थे । कृच्छ्रं श्रयन्ति कृच्छ्रेश्रिताः दुःखं प्राप्यापि स्वामिसेवनपराः । शक्तीवन्तः शक्तिः सामर्थ्यमायुधं वा अस्ति येषां ते । अश्वरश्मिमतीत्येत्यादिप्रातिशाख्यसूत्रेण शक्तिशब्दस्य दीर्घः । गभीराः गम्भीरबला गम्भीरप्रज्ञाश्च । चित्रसेनाः चित्रा नानाविधा सेना येषां ते । इषुबलाः इषुभिर्बाणैर्बलं येषां ते अमृध्राः मृध्रा मृदवो न भवन्त्यमृध्राः कठिनाङ्गा उग्रशासना वा । सतोवीराः इत्येकं पदम् । सतोऽश्वमेधयाजिनो वीराः शूराः । यद्वा सतो विद्यमानस्य बलस्य वीराः प्रेरकाः विविधमीरयन्तीति वीराः षष्ठ्या अलुक् । उरवः विशालाः । पृथुजघनोरस्का इत्यर्थः । व्रातसाहाः व्रातान् शूरसमूहान् सहन्तेऽभिभवन्ति ते | व्रातसहाः पचाद्यच् ‘अभिमातिपृतना’ ( प्राति. ३ । ६। २७ ) इत्यादिना सूत्रेण सहतेरुपधादीर्घः ॥ ४६ ॥
सप्तचत्वारिंशी।
अधिमन्त्रम् (VC)
- वीरा देवताः
- भारद्वाज ऋषिः
- त्रिष्टुप्
- धैवतः
मूलम्
स्वा॒दु॒षँ॒सद॑ᳶ पि॒तरो॑ वयो॒धाᳵ कृ॑च्छ्रे॒श्रित॒श्शक्ती॑वन्तो गभी॒राः ।
चि॒त्रसे॑ना॒ इषु॑बला॒ अमृ॑ध्रास्स॒तोवी॑रा उ॒रवो॑ व्रातसा॒हाः ।
सायणटीका
ये पितरो ऽस्मदीयाः सन्ति त एतैर् विशेषणैर् विशिष्टाः।
कानि विशेषणानीति तान्य् उच्यन्ते
स्वादुषसंदो ऽस्माभिः समर्पिते स्वादुन्य् अन्ने सम्यक् सीदन्ति तेन तृप्ता इत्यर्थः।
वयोध अस्मदीयस्य वयस आयुषः स्थापयितारः।
कृच्छ्रे व्यसने प्राप्ते सति रक्षार्थं श्रीयन्ते प्राणिभिः सेव्यन्त इति कृच्छ्रेश्रितः।
शक्तीवन्तः शक्तियुक्ताः।
गभीरा अगाधबुद्धयः।
चित्रा विविधा हस्त्यश्वादिरूपा सेना येषां त चित्रसेनाः
इषुभिर् योद्धुमतिप्रबला इषुबलाः।
अमृध्राः परैर् योद्धुमशक्याः ।
सन्विद्यमानो लोके प्रसिद्धो यः शूरस् तस्माद् अप्य् अतिशूराः - सतो-वीराः।
उरवो विस्तीर्णा धनसेनादिसमृद्धाः।
व्रातं परकीयभटानां संघातं सहन्तेऽभिभवन्तीति व्रातसाहाः।
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे युद्ध करने हारे वीर पुरुषो ! तुम लोग जो (स्वादुषंसदः) भोजन के योग्य अन्नादि पदार्थों को सम्यक् सेवनेवाले (वयोधाः) अधिक अवस्था युक्त (कृच्छ्रेश्रितः) उत्तम कार्यों की सिद्धि के लिए कष्ट सेवते हुए (शक्तीवन्तः) सामर्थ्यवाले (गभीराः) महाशय (चित्रसेनाः) आश्चर्य गुण युक्त सेनावाले (इषुबलाः) शस्त्र-अस्त्रों के सहित जिनकी सेना (अमृध्राः) दृढ़ शरीरवाले (उरवः) बड़े-बड़े जिन के जङ्घा और छाती (व्रातसाहाः) वीरों के समूहों को सहनेवाले (सतोवीराः) विद्यमान सेना के बीच युद्धविद्या की शिक्षा को प्राप्त और (पितरः) पालन करनेहारे राजपुरुष हों, उन का आश्रय ले युद्ध करो ॥४६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - उन्हीं का सदा विजय, राज्य, श्री, प्रतिष्ठा, बड़ी अवस्था, बल और विद्या होती है, जो अपने अधिष्ठाता, आप्त, सत्यवादी सज्जनों की शिक्षा में स्थित होते हैं ॥४६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे योद्धारो वीरा ! यूयं ये स्वादुषंसदो वयोधाः कृच्छ्रेश्रितः शक्तीवन्तो गभीराश्चित्रसेना इषुबला अमृध्रा उरवो व्रातसाहाः सतोवीराः पितरः स्युस्तानाश्रित्य युद्धं कुरुत ॥४६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - तेषामेव सदा विजयो राज्यश्रीः प्रतिष्ठा दीर्घमायुर्बलं विद्याश्च भवन्ति, ये स्वाधिष्ठातॄणामाप्तानां शासने तिष्ठन्ति ॥४६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे वीरपुरुष, अधिष्ठाते, आप्त, सत्यवादी सज्जनाकडून शिक्षण घेतात त्यांचा नेहमी विजय होतो व त्यांना राज्य, श्री, प्रतिष्ठा, मानसन्मान, बल आणि विद्या प्राप्त होते.
४७ ब्राह्मणासः पितरः
विश्वास-प्रस्तुतिः ...{Loading}...
ब्राह्म॑णासः॒ पित॑रः॒ सोम्या॑सः
शि॒वे नो॒ द्यावा॑-पृथि॒वी ऽअ॑ने॒हसा॑।
पू॒षा नः॑ पातु दुरि॒ताद् ऋ॑ता-वृधो॒
रक्षा॒ माकि॑र् नो ऽअ॒घशँ॑स ऽईशत ॥४७ ॥
मूलम् ...{Loading}...
ब्राह्म॑णासः॒ पित॑रः॒ सोम्या॑सः शि॒वे नो॒ द्यावा॑पृथि॒वीऽअ॑ने॒हसा॑। पू॒षा नः॑ पातु दुरि॒तादृ॑तावृधो॒ रक्षा॒ माकि॑र्नोऽअ॒घशँ॑सऽईशत ॥४७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ब्रा॒ह्म॑णासः। पित॑रः। सोम्यासः॑। शि॒वेऽइति॑ शि॒वे। नः॒। द्यावा॑पृथि॒वीऽइति॒ द्यावा॑पृथि॒वी। अ॒ने॒हसा॑। पू॒षा। नः॒। पा॒तु॒। दु॒रि॒तादिति॑ दुःऽइ॒तात् ऋ॒ता॒वृ॒धः॒। ऋ॒त॒वृध॒ इत्यृ॑तऽवृधः। रक्ष॑। माकिः॑। न॒। अ॒घशँ॑स॒ इत्य॒घऽशँ॑सः। ई॒श॒त॒। ४७।
महीधरः
म० जगती लिङ्गोक्तदेवता । ब्राह्मणासः ब्राह्मणाः नोऽस्मान् पान्तु रक्षन्तु । पात्वित्यस्यार्थवशाद्वचनव्यत्ययः कार्यः । पितरः च पान्तु । कीदृशाः । सोम्यासः सोम्याः सोमसंपादिनः सोमपानयोग्या वेत्युभयोर्विशेषणम् । द्यावापृथिवी द्यावाभूमी नः पाताम् । कीदृश्यौ । शिवे कल्याणकारिण्यौ । अनेहसा अनेहसौ | नास्ति एहोऽपराधो ययोस्ते अपराधनिवर्तिके । किंच पूषा सूर्यो नोऽस्मान्दुरितात्पातु । एवं परोक्षेणोक्त्वा प्रत्यक्षमाह । हे ऋतावृधः, ऋतं सत्यं यज्ञं वा वर्धयन्ति ऋतवृधः देवाः । | संहितायामृतस्य दीर्घः । रक्ष रक्षतास्मान् वचनव्यत्ययः । माकिः मा कश्चन अघशंसः पापी नोऽस्माकमीशत ऐश्वर्यं मा करोतु । वयं दुष्टवशा मा भूमेत्यर्थः । अघं पापं शंसति वक्ति प्रकाशयति वाघशंसः दुष्टः । ईशतेति वचनव्यत्ययः॥४७॥
अष्टचत्वारिंशी।
अधिमन्त्रम् (VC)
- धनुर्वेदाऽध्यापका देवताः
- भारद्वाज ऋषिः
- विराड्जगती
- निषादः
मूलम्
ब्राह्म॑णासः [29] पित॑र॒स्सोम्या॑सश्शि॒वे नो॒ द्यावा॑पृथि॒वी अ॑ने॒हसा॑ ।
पू॒षा न॑ᳶ पातु दुरि॒तादृ॑तावृधो॒ रक्षा॒ माकि॑र्नो अ॒घशँ॑स ईशत ।
सायणटीका
येऽस्मादीयाः पितरस्ते ब्राह्मणासो व्रह्य वेदस्तदर्थपरा ब्राह्मणाः।
अत एवास्मासु सोम्यास सोम्या अनुग्रहपरा इत्यर्थः ।
यथैते पितरस्तथा द्यावापृथिवी उभे अप्यनेहसाऽनेहसि सर्वस्मिन्नपि काले नोऽस्मान्प्रति शिवे शान्ते अनुग्रहपरे भवतामिति शेषः।
तथार्तावृधो यज्ञस्य वर्धयिता पूषा पोषको देवो नोऽस्मान्दुरितात्पातु ।
हे पितृसमूह रक्षास्मान्पालय ।
नोऽस्माक मघशंसः पापशंसनपरा निन्दका माकिरीशत निन्दितुं समर्था मा भूवन् ।
दयानन्द-सरस्वती (हि) - विषयः
किनका सत्कार करना चाहिए, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (सोम्यासः) उत्तम आनन्दकारक गुणों के योग्य (ऋतावृधः) सत्य को बढ़ानेवाले (पितरः) रक्षक (ब्राह्मणासः) वेद और ईश्वर के जानने हारे विद्वान् जन (नः) हमारे लिए कल्याण करने हारे और (अनेहसा) कारणरूप से अविनाशी (द्यावापृथिवी) प्रकाश-पृथिवी (शिवे) कल्याणकारी हों, (पूषा) पुष्टि करने हारा परमात्मा (नः) हम को (दुरितात्) दुष्ट अन्याय के आचरण से (पातु) बचावे, जिससे (नः) हम को मारने को (अघशंसः) पाप की प्रशंसा करने हारा चोर (माकिः) न (ईशत) समर्थ हो, उन विद्वानों की तू (रक्ष) रक्षा कर और चोरों को मार ॥४७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जो विद्वान् जन तुम को धर्मयुक्त कर्त्तव्य में प्रवृत्त कर, दुष्ट आचरण से पृथक् रखते, दुष्टाचारियों के बल को नष्ट और हमारी पुष्टि करते, वे सदैव सत्कार करने योग्य हैं ॥४७ ॥
दयानन्द-सरस्वती (सं) - विषयः
के सत्कर्त्तव्या इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! ये सोम्यास ऋतावृधः पितरो ब्राह्मणासो विद्वांसो नः कल्याणकरा अनेहसा द्यावापृथिवी च शिवे भवतः। पूषा परमात्मा नो दुरितात् पातु यतो नो हिंसितुमघशंसो माकिरीशत तान् रक्ष स्तेनाञ्जहि ॥४७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! ये विद्वांसो युष्मान् धर्म्ये कृत्ये प्रवर्त्य दुष्टाचारात् पृथक् रक्षन्ति, दुष्टाचारिणां बलं निरुन्धन्त्यस्माकं पुष्टिञ्च जनयन्ति, ते सदा सत्कर्त्तव्याः ॥४७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! जे विद्वान लोक तुम्हाला धर्मयुक्त कर्तव्यामध्ये प्रवृत्त करून दुष्ट वर्तनापासून दूर ठेवतात व दुष्ट माणसांचे बळ नष्टा करून सर्व माणसांना बलवान करतात त्यांचा सदैव सत्कार केला पाहिजे.
४८ सुपर्णं वस्ते
विश्वास-प्रस्तुतिः ...{Loading}...
+++(इषोः पुच्छे)+++ सु॒प॒र्णं व॑स्ते+++(=आच्छादयति)+++, मृ॒गो ऽअ॑स्या॒ दन्तो॒
+++(शल्ययोजने)+++ गोभिः॒ सन्न॑द्धा, पतति॒ प्रसू॑ता।
यत्रा॒ नरः॒ सं च॒ वि च॒ द्रव॑न्ति॒
तत्रा॒स्माभ्य॒म् इष॑वः॒ शर्म॑ यँसन् ॥४८ ॥+++(5)+++
मूलम् ...{Loading}...
सु॒प॒र्णं व॑स्ते मृ॒गोऽअ॑स्या॒ दन्तो॒ गोभिः॒ सन्न॑द्धा पतति॒ प्रसू॑ता। यत्रा॒ नरः॒ सं च॒ वि च॒ द्रव॑न्ति॒ तत्रा॒स्माभ्य॒मिष॑वः॒ शर्म॑ यँसन् ॥४८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सु॒प॒र्णमिति॑ सुऽप॒र्णम्। व॒स्ते॒। मृ॒गः। अ॒स्याः॒। दन्तः॑। गोभिः॑। सन्न॒द्धेति सम्ऽन॑द्धा। प॒त॒ति॒। प्रसू॒तेति॒ प्रऽसू॑ता। यत्र॒। नरः॑। सम्। च॒। वि। च॒। द्रव॑न्ति। तत्र॑। अ॒स्मभ्य॑म्। इष॑वः। शर्म॑। यँ॒स॒न्। ४८।
महीधरः
म० द्वाभ्यामिषुं स्तौति । आद्या त्रिष्टुप् अन्त्यानुष्टुप् । या इषुः सुपर्ण पक्षिपिच्छं वस्ते परिधत्ते । ‘वस परिधाने’ शोभनं पर्णं पिच्छं यस्य स सुपर्णः पक्षी तस्य विकारः सौपर्णम् तत्र ‘कृत्स्नवन्निगमा भवन्ति’ (निरु० २ । ५) इति यास्कोक्तेः सुपर्णशब्देन तत्पिच्छं गृह्यते । बाणपुच्छे पिच्छस्यारोप्यमाणत्वात् । किंच अस्या इषोः दन्तः फलं । मृगः मृगयतेऽन्विष्यति रिपून् हन्तुमिति मृगः ‘मृग मार्गणे’ चुरादिरदन्तः पचाद्यच् ‘मृगो मृगयतेः’ (निरु. ९। १९ ) इति यास्कः । शल्यं हि वेध्यं मृगयते । किंच या इषुः गोभिः गोविकारैः स्नायुभिः संनद्धा बद्धा प्रसूता धनुष्मता प्रेरिता सती पतति शत्रुबलं प्रति गच्छति । किंच यत्र नरो योद्धारः संद्रवन्ति च सम्यक् गच्छन्ति विद्रवन्ति च विविधं प्रसरन्ति । चौ समुच्चये । तत्र रणे इषवः बाणाः अस्मभ्यं शर्म सुखं यंसन् यच्छन्तु । ‘यमु उपरमे लेटि तिप इलोपेऽडागमे ‘सिब्बहुलं लेटि’ (पा. ३। १ । ३४ ) इति सिबागमे यंसन्निति रूपम् । सुखं ददतु ॥४८॥
एकोनपञ्चाशी।
अधिमन्त्रम् (VC)
- वीरा देवताः
- भारद्वाज ऋषिः
- त्रिष्टुप्
- धैवतः
मूलम्
सु॒प॒र्णव्ँव॑स्ते मृ॒गो अ॑स्या॒ दन्तो॒ गोभि॒स्सन्न॑द्धा पतति॒ प्रसू॑ता ।
यत्रा॒ नर॒स्सञ्च॒ वि च॒ द्रव॑न्ति॒ तत्रा॒स्मभ्य॒मिष॑व॒श्शर्म॑ यँसन्न् ।
सायणटीका
पितृसंबन्धिनी येयम् इषुः प्रशस्यतेऽस्या इषोः
सुपर्णं पृष्ठे ऽवस्थितं शोभनं पतन्तं भागं
वस्त आच्छादयति।
अथास्या इषोर् दन्तः शल्यं मृग-दन्तवत् तीक्ष्णं,
सेयम् इषुर् गो-संबन्धिभिः संनद्धा दृढं बद्धा।
तादृशेयमिषुः प्रसूता पितृभिः प्रेरिता सती पतति सहसा गच्छति।
कुत्रेति तदुच्यते नरः पुरुषा योद्धारो यत्र यस्मिन्परसैन्ये सं च वि च द्रवन्ति प्रथममुत्सुकाः सन्तः प्राष्नुवन्ति पश्चाद्भीताः सन्तः पलायन्ते च, तत्रेयमिषुः पततीति पूर्वत्रान्वयः।
तादृश्यः पितॄणामिषवोऽस्यभ्यं शर्म यंसन्सुखं यच्छन्तु।
।
दयानन्द-सरस्वती (हि) - विषयः
फिर राजधर्म अगले मन्त्र में कहते हैं।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे वीर पुरुषो ! (यत्र) जिस सेना में (नरः) नायक लोग हों जो (सुपर्णम्) सुन्दर पूर्ण रक्षा के साधन उस रथादि को (वस्ते) धारण करती और जहाँ (गोभिः) गौओं के सहित (दन्तः) जिस का दमन किया जाता, उस (मृगः) कस्तूरी से शुद्ध करनेवाले मृग के तुल्य (इषवः) बाण आदि शस्त्र विशेष चलते हैं, जो (सन्नद्धा) सम्यक् गोष्ठी बँधी (प्रसूता) प्रेरणा की हुई शत्रुओं में (पतति) गिरती (च) और इधर-उधर (अस्याः) इस सेना के वीर पुरुष (सम्, द्रवन्ति) सम्यक् चलते (च) और (वि) विशेषकर दौड़ते हैं (तत्र) उस सेवा में (अस्मभ्यम्) हमारे लिए आप लोग (शर्म) सुख (यंसन्) देओ ॥४८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे राजपुरुषो ! तुम लोगों को चाहिए कि शत्रुओं से न धमकनेवाली हृष्ट-पुष्ट सेना सिद्ध करो, उसमें सुन्दर परीक्षित योद्धा और अध्यक्ष रक्खो, उन शस्त्र-अस्त्रों के चलाने में कुशल जनों से विजय को प्राप्त होओ ॥४८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुना राजधर्ममाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे वीरा ! यत्र सेनायां नरो नायकाः स्युर्या सुपर्णं वस्ते यत्र गोभिस्सह दन्तो मृग इव इषवो धावन्ति, या सन्नद्धा प्रसूता पतति इतस्ततश्चास्य वीराः संद्रवन्ति वि द्रवन्ति च तत्रास्मभ्यं भवन्तः शर्म यंसन् ॥४८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे राजपुरुषाः ! युष्माभिः शत्रुभिरप्रधर्षिणी हृष्टा पुष्टा सेना संपादनीया तस्यां सुपरीक्षिता योद्धारोऽध्यक्षाश्च रक्षणीयास्तैः शस्त्रास्त्रप्रक्षेपणेषु कुशलैर्जनैर्विजयः प्राप्तव्यः ॥४८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे राजपुरुषांनो तुम्ही शत्रूला न घाबरणारी बलवान सेना तयार करा त्या सेनेत प्रशिक्षित योद्धे व अध्यक्ष असावेत. अशा अस्र शस्रात निष्णात असणाऱ्या लोकांकडून विजय प्राप्त करा.
४९ ऋजीते परि
विश्वास-प्रस्तुतिः ...{Loading}...
ऋजी॑ते॒ परि॑ वृङ्धि॒ नोऽश्मा॑ भवतु नस्त॒नूः। सोमो॒ऽअधि॑ ब्रवीतु॒ नोऽदि॑तिः॒ शर्म॑ यच्छतु ॥४९ ॥
मूलम् ...{Loading}...
ऋजी॑ते॒ परि॑ वृङ्धि॒ नोऽश्मा॑ भवतु नस्त॒नूः। सोमो॒ऽअधि॑ ब्रवीतु॒ नोऽदि॑तिः॒ शर्म॑ यच्छतु ॥४९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ऋजी॑ते। परि॑। वृ॒ङ्धि॒। नः॒। अश्मा॑। भ॒व॒तु॒। नः॒। त॒नू। सोमः॑। अधि॑। ब्र॒वी॒तु॒। नः॒। अदि॑तिः। शर्म॑। य॒च्छ॒तु॒। ४९।
महीधरः
म० ऋजुः सरला ईतिर्यस्याः सा ऋजीतिः टिलोप आर्षः ॥ हे ऋजीते ऋजुगामिनि । हे इषो, नोऽस्मान् परिवृङ्ग्धि परिवर्जय । अस्मासु मा पतेत्यर्थः । किंच नोऽस्माकं तनूः शरीरम् अश्मा पाषाणतुल्यदृढा भवतु । सोमः नोऽस्मानधिब्रवीतु अधिकान् वदतु । अदितिः देवमाता शर्म सुखं यच्छतु ददातु ॥ ४९ ॥
पञ्चाशी।
अधिमन्त्रम् (VC)
- वीरा देवताः
- भारद्वाज ऋषिः
- विराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को क्या करना चाहिए, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् पुरुष ! आप (ऋजीते) सरल व्यवहार में (नः) हमारे शरीर से रोगों को (परि, वृङ्धि) सब ओर से पृथक् कीजिए, जिससे (नः) हमारा (तनूः) शरीर (अश्मा) पत्थर के तुल्य दृढ़ (भवतु) हो, जो (सोमः) उत्तम औषधि है, उस और जो (अदितिः) पृथिवी है, उन दोनों का आप (अधि, ब्रवीतु) अधिकार उपदेश कीजिए और (नः) हमारे लिए (शर्म) सुख वा घर (यच्छतु) दीजिए ॥४९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य ब्रह्मचर्य, औषध, पथ्य और सुन्दर नियमों के सेवन से शरीरों की रक्षा करें तो उन के शरीर दृढ़ होवें, जैसे शरीरों का पृथिवी आदि का बना घर है, वैसे जीव का यह शरीर घर है ॥४९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैः किं कर्त्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वंस्त्वमृजीते नोऽस्माकं शरीराद् रोगान् परिवृङ्ग्धि यतो नस्तनूरश्मा भवतु, यः सोमोऽस्ति तं या चादितिरस्ति ते भवान्नोऽधि ब्रवीतु नः शर्म च यच्छतु ॥४९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदि मनुष्या ब्रह्मचर्यौषधपथ्यसुनियमसेवनेन शरीराणि रक्षेयुस्तर्हि तेषां शरीराणि दृढानि भवेयुर्यथा शरीराणां पार्थिवादि गृहमस्ति तथा जीवस्येदं गृहम् ॥४९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे ब्रह्मचर्य, औषध, पथ्य व सुंदर नियम पाळून शरीराचे रक्षण करतात तेव्हा त्यांची शरीरे मजबूत होतात. जसे पृथ्वी हे माणसाचे घर आहे तसे शरीर हे जीवांचे घर आहे.
५० आ जङ्घन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
आ ज॑ङ्घन्ति॒ सान्वे॑षां ज॒घनाँ॒२ऽउप॑ जिघ्नते। अश्वा॑जनि॒ प्रचे॑त॒सोऽश्वा॑न्त्स॒मत्सु॑ चोदय ॥५० ॥
मूलम् ...{Loading}...
आ ज॑ङ्घन्ति॒ सान्वे॑षां ज॒घनाँ॒२ऽउप॑ जिघ्नते। अश्वा॑जनि॒ प्रचे॑त॒सोऽश्वा॑न्त्स॒मत्सु॑ चोदय ॥५० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ। ज॒ङ्घ॒न्ति॒। सानु॑। ए॒षा॒म्। ज॒घना॑न्। उप॑। जि॒घ्न॒ते॒। अश्वा॑ज॒नीत्यश्व॑ऽजनि। प्रचे॑तस॒ इति॒ प्रऽचे॑तसः। अश्वा॑न्। स॒मत्स्विति॑ स॒मत्ऽसु॑। चो॒द॒य॒। ५०।
महीधरः
म० अनुष्टुप् । कशा स्तूयते । ‘अज गतौ क्षेपणे च’। अश्वाः अज्यन्ते क्षिप्यन्ते यया सा अश्वाजनी । हे अश्वाजनि कशे, समत्सु संग्रामेषु त्वमश्वान् चोदय प्रेरय जयाय । कीदृशानश्वान् । प्रचेतसः प्रकृष्टं शूरं चेतो मनो येषां ते । हे कशे, यया त्वयाश्ववारा एषामश्वानां सानु सानूनि सानुतुल्यानि मांसोपचिताङ्गानि आजङ्घन्ति वचनव्यत्ययः आघ्नन्ति ताडयन्ति । जघनान् कटिभागान् उपजिघ्नते निघ्नन्ति । तुरङ्गारोहा ययाश्वान् वशयन्ति सा त्वमश्वान्प्रेरयेत्यर्थः ॥ ५० ॥
एकपञ्चाशी।
अधिमन्त्रम् (VC)
- वीरा देवताः
- भारद्वाज ऋषिः
- विराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर राजधर्म को कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अश्वाजनि) घोड़ों को शिक्षा देनेवाली विदुषि राणी ! जैसे वीर पुरुष (एषाम्) इन घोड़े आदि के (सानु) अवयव को (आ, जङ्घन्ति) अच्छे प्रकार शीघ्र ताड़ना करते हैं (जघनान्) ज्वानों को (उप जिघ्नते) समीप से चलाते हैं, वैसे तू (समत्सु) संग्रामों में (प्रचेतसः) शिक्षा से विशेष कर चेतन किये (अश्वान्) घोड़ों को (चोदय) प्रेरणा कर ॥५० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे राजा और राजपुरुष विमानादि रथ और घोड़ों के चलाने तथा युद्ध के व्यवहारों को जानें, वैसे उनकी स्त्रियाँ भी जानें ॥५० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुना राजधर्ममाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - अश्वाजनि विदुषि राज्ञि ! यथा वीरा एषां सानु आजङ्घन्ति जघनानुप जिघ्नते तथा त्वं समत्सु प्रचेतसोऽश्वाञ्चोदय ॥५० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा राजा राजपुरुषाश्च यानाश्वचालनयुद्धव्यवहारान् जानीयुस्तथा तत्स्त्रियोऽपि विजानन्तु ॥५० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसे राजे व राजपुरुष विमान, रथ, घोडेस्वारी आणि युद्धाचे व्यवहार जाणतात, तसे त्यांच्या स्रियांनीही हे सर्व व्यवहार जाणावे.
५१ अहिरिव भोगैः
विश्वास-प्रस्तुतिः ...{Loading}...
अहि॑रिव भो॒गैः पर्ये॑ति बा॒हुँ ज्याया॑ हे॒तिं प॑रि॒बाध॑मानः। ह॒स्त॒घ्नो विश्वा॑ व॒युना॑नि वि॒द्वान् पुमा॒न् पुमाँ॑सं॒ परि॑ पातु वि॒श्वतः॑ ॥५१ ॥
मूलम् ...{Loading}...
अहि॑रिव भो॒गैः पर्ये॑ति बा॒हुँ ज्याया॑ हे॒तिं प॑रि॒बाध॑मानः। ह॒स्त॒घ्नो विश्वा॑ व॒युना॑नि वि॒द्वान् पुमा॒न् पुमाँ॑सं॒ परि॑ पातु वि॒श्वतः॑ ॥५१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अहि॑रि॒वेत्यहिः॑ऽइव। भो॒गैः। परि॑। ए॒ति॒। बा॒हुम्। ज्यायाः॑। हे॒तिम्। प॒रि॒बाध॑मान॒ इति॑ परि॒ऽबाध॑मानः। ह॒स्त॒घ्न इति॑ हस्त॒ऽघ्नः। विश्वा॑। व॒युना॑नि। वि॒द्वान्। पुमा॑न्। पुमां॑सम्। परि॑। पा॒तु॒। वि॒श्वतः॑। ५१।
महीधरः
म० हस्तघ्नः स्तूयते । सप्त त्रिष्टुभः । हस्ते स्थितो हन्ति हस्तघ्नः खेटकः । यद्वा हस्तं हन्ति प्राप्नोति हस्तघ्नः प्रकोष्ठत्राणम् । पुमांसं मां विश्वतः सर्वतः परिपातु रक्षतु । किंभूतो हस्तघ्नः । विश्वा विश्वानि सर्वाणि वयुनानि ज्ञानानि विद्वान् जानन् । तथा पुमान् पुंस्त्वयुक्तः । शूर इत्यर्थः । यो हस्तघ्नः भागैः स्वशरीरावयवैः कृत्वा बाहुं पर्येति हस्तं वेष्टयति । क इव । अहिरिव । यथाहिः सर्पो भोगैः स्वदेहैः हस्तादिकं वेष्टयति । कीदृशः । ज्यायाः हेतिं बाणं शत्रुप्रेरितं परिबाधमानः निवर्तयन् । खेटकपक्षे, प्रकोष्ठत्राणपक्षे तु ज्याया हेतिं प्रहारे निवारयन् ज्याघातस्य निवारकत्वात् ॥ ५१ ॥
द्विपञ्चाशी।
अधिमन्त्रम् (VC)
- महावीरः सेनापतिर्देवता
- भारद्वाज ऋषिः
- त्रिष्टुप्
- धैवतः
५२ वनस्पते वीड्वङ्गो
विश्वास-प्रस्तुतिः ...{Loading}...
वन॑स्पते वी॒ड्व᳖ङ्गो॒ हि भू॒याऽअ॒स्मत्स॑खा प्र॒तर॑णः सु॒वीरः॑। गोभिः॒ सन्न॑द्धोऽअसि वी॒डय॑स्वास्था॒ता ते॑ जयतु॒ जेत्वा॑नि ॥५२ ॥
मूलम् ...{Loading}...
वन॑स्पते वी॒ड्व᳖ङ्गो॒ हि भू॒याऽअ॒स्मत्स॑खा प्र॒तर॑णः सु॒वीरः॑। गोभिः॒ सन्न॑द्धोऽअसि वी॒डय॑स्वास्था॒ता ते॑ जयतु॒ जेत्वा॑नि ॥५२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वन॑स्पते। वी॒ड्व᳖ङ्ग॒ इति॑ वी॒डुऽअ॑ङ्गः। हि। भू॒याः। अ॒स्मत्स॒खेत्य॒स्मत्ऽस॑खा। प्र॒तर॑ण॒ इति॑ प्र॒ऽतर॑णः। सु॒वीर॒ इति॑ सु॒ऽवीरः॑। गोभिः॑। सन्न॑द्ध॒ इति॒ सम्ऽन॑द्धः अ॒सि॒। वी॒डय॑स्व। आ॒स्था॒तेत्या॑ऽस्था॒ता। ते॒। ज॒य॒तु॒। जेत्वा॑नि। ५२।
महीधरः
म० तिस्र ऋचो रथदेवताः । हे वनस्पते वनस्पतिविकार काष्ठमय रथ, ‘कृत्स्नवन्निगमः’ ( निरु० २ । ५) । त्वं वीड्वङ्गः दृढाङ्गो भूयाः भव । वीडूनि अङ्गानि यस्य । कीदृशः । अस्मत्सखा अस्माकं मित्रभूतः । प्रतरणः प्रतरति संग्रामपारं गच्छति - ’ प्रतरणः । सुवीरः शोभनो वीरो रथी यत्र । किंच हे रथ, यतः त्वं गोभिः गोविकारैश्चर्मभिः सन्नद्धः बद्धोऽसि अतो वीडयस्व आत्मानं स्तम्भय । किंच ते तवास्थाता आरोढा रथी जेत्वानि जेतव्यानि रिपुधनानि जयतु । हि पादपूरणः ॥ ५२ ॥
त्रिपञ्चाशी।
अधिमन्त्रम् (VC)
- शरदृतुर्देवता
- भारद्वाज ऋषिः
- भुरिक्पङ्क्तिः
- पञ्चमः
५३ दिवः पृथिव्याः
विश्वास-प्रस्तुतिः ...{Loading}...
दि॒वः पृ॑थि॒व्याः पर्योज॒ऽउद्भृ॑तं॒ वन॒स्पति॑भ्यः॒ पर्य्याभृ॑तँ॒ सहः॑। अ॒पामो॒ज्मानं॒ परि॒ गोभि॒रावृ॑त॒मिन्द्र॑स्य॒ वज्रँ॑ ह॒विषा॒ रथं॑ यज ॥५३ ॥
मूलम् ...{Loading}...
दि॒वः पृ॑थि॒व्याः पर्योज॒ऽउद्भृ॑तं॒ वन॒स्पति॑भ्यः॒ पर्य्याभृ॑तँ॒ सहः॑। अ॒पामो॒ज्मानं॒ परि॒ गोभि॒रावृ॑त॒मिन्द्र॑स्य॒ वज्रँ॑ ह॒विषा॒ रथं॑ यज ॥५३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दि॒वः। पृ॒थि॒व्याः। परि॑। ओजः॑। उद्भृ॑त॒मित्युत्ऽभृ॑तम्। वन॒स्पति॑भ्य॒ इति॒ वन॒स्पति॑ऽभ्यः। परि॑। आभृ॑त॒मित्याऽभृ॑तम्। सहः॑। अ॒पाम्। ओ॒ज्मान॑म्। परि॑। गोभिः॑। आवृ॑त॒मित्याऽवृ॑तम्। इन्द्र॑स्यः। वज्र॑म्। ह॒विषा॑। रथ॑म्। य॒ज॒। ५३।
महीधरः
म० हे अध्वर्यो, त्वं हविषा कृत्वा रथं यज । कीदृशं रथम् । दिवः द्युलोकात् पृथिव्याः भूमेः सकाशात् पर्युद्भृतं समन्तादुद्धृतम् ओजः तेजः तथा वनस्पतिभ्यो वृक्षेभ्यः पर्याभृतं समन्तादाहृतमानीतं सहः बलम् । तथा अपां जलानामोज्मानं तेजःसारभूतम् । ‘ओज बलतेजसोः’ इति धातोः ‘अन्येभ्योऽपि दृश्यन्ते’ (पा० ३ । २ । ७५ ) इति मनिन् । ओजयति बलिनं करोतीति ओज्मा तम् । द्यावाभूमीवृक्षजलानां तेजश्चतुष्टयेन निर्मितमित्यर्थः । तथा गोभिः किरणैः पर्यावृतं वेष्टितम् तेजोनिर्मितत्वात् । यद्वा गोभिः चर्मभिर्वेष्टितम् । तथा इन्द्रस्य वज्रमिन्द्रवज्राज्जातमित्यर्थः । इन्द्रो यदा वृत्राय वज्रं प्रजहार तदा वृत्रशरीरकाठिन्येन प्रतिहतं चतुर्धा जातम् । यूपः स्फ्यः रथः शरश्चेति चतुःखण्डाः तत्र यूपस्फ्यौ विप्रैर्गृहीतौ रथशरौ नृपैरिति श्रुतिकथानुसंधेया। ‘इन्द्रो ह यत्र वृत्राय वज्रं प्रजहारे’ त्युपक्रम्य रथस्तृतीयमित्यभिधाय ‘रथेन च शरेण चेति राजन्यबन्धवः’ (१।२ । ४ । १-२) इति श्रुतेः । ईदृशं यजेत्यर्थः ॥ ५३ ॥
चतुःपञ्चाशी।
अधिमन्त्रम् (VC)
- वीरो देवता
- भारद्वाज ऋषिः
- विराड्जगती
- निषादः
५४ इन्द्रस्य वज्रो
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र॑स्य॒ वज्रो॑ म॒रुता॒मनी॑कं मि॒त्रस्य॒ गर्भो॒ वरु॑णस्य॒ नाभिः॑। सेमां नो॑ ह॒व्यदा॑तिं जुषा॒णो देव॑ रथ॒ प्रति॑ ह॒व्या गृ॑भाय ॥५४ ॥
मूलम् ...{Loading}...
इन्द्र॑स्य॒ वज्रो॑ म॒रुता॒मनी॑कं मि॒त्रस्य॒ गर्भो॒ वरु॑णस्य॒ नाभिः॑। सेमां नो॑ ह॒व्यदा॑तिं जुषा॒णो देव॑ रथ॒ प्रति॑ ह॒व्या गृ॑भाय ॥५४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इन्द्रस्य। वज्रः॑। म॒रुता॑म्। अनी॑कम्। मि॒त्रस्य॑। गर्भः॑। वरु॑णस्य। नाभिः॑। सः। इ॒माम्। नः॒। ह॒व्यदा॑ति॒मिति॑ ह॒व्यऽदा॑तिम्। जु॒षा॒णः। देव॑। र॒थ॒। प्रति॑। ह॒व्या। गृ॒भा॒य॒। ५४।
महीधरः
म० हे रथ हे देव, स त्वं हव्या हवींषि प्रतिगृभाय प्रतिगृहाण । कीदृशः त्वम् । इन्द्रस्य वज्रः वज्रोत्पन्नत्वात् । मरुतामनीकं मुखं मुख्यः देवानां जयप्रापकत्वात् । मित्रस्य देवस्य गर्भः गीर्यते स्तूयते गर्भः । गृणातेर्भप्रत्ययः। सूर्येण स्तूयमानः । वरुणस्य नाभिः नभ्यतेऽरिर्हन्यतेऽनेनेति नाभिः ‘नभ हिंसायाम्’ इण्प्रत्ययः । वरुणस्य हननसाधनम् । नोऽस्माकमिमां हव्यदातिं हविषो दानं जुषाणः सेवमानः । सेमामित्यत्र ‘सोऽचि लोपे चेत्पादपूरणम्’ (पा० ६। १ । १३४) इति सन्धिः । गृभाय गृह्णातेः ‘हलः श्नः शानज्झौ’ (पा० ३। १ । ८३ ) इत्यनुवृत्तौ ‘छन्दसि शायजपि’ (पा० ३ । १ । ८४ ) इति हौ परे श्नाप्रत्ययस्य शायजादेशः हस्य भश्च ॥ ५४ ॥
पञ्चपञ्चाशी।
अधिमन्त्रम् (VC)
- वीरो देवता
- भारद्वाज ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (देव) उत्तम विद्यावाले (रथ) रमणीयस्वरूप विद्वन् ! (इमाम्) इस (हव्यदातिम्) देने योग्य पदार्थों के दान को (जुषाणः) सेवते हुए (सः) पूर्वोक्त आप जो (इन्द्रस्य) बिजुली का (वज्रः) गिरना (मरुताम्) मनुष्यों की (अनीकम्) सेना (मित्रस्य) मित्र के (गर्भः) अन्तःकरण का आशय और (वरुणस्य) श्रेष्ठ जन के (नाभिः) आत्मा का मध्यवर्त्ती विचार है, उसको (नः) और हमको (हव्या) ग्रहण करने योग्य वस्तुओं को (प्रति गृभाय) प्रतिग्रह अर्थात् स्वीकार कीजिए ॥५४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जिन मनुष्यों की सेना अतिश्रेष्ठ, बिजुली की विद्या, मित्र का आशय, आप्त सत्यवक्ताओं का विचार और विद्यादि का दान स्वीकार किये तथा दूसरों को दिये हैं, वे सब ओर से मङ्गलयुक्त होवें ॥५४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे देव ! यथेमां हव्यदातिं जुषाणस्स त्वं य इन्द्रस्य वज्रो मरुतामनीकं मित्रस्य गर्भो वरुणस्य नाभिरस्य तं नोऽस्मान् हव्या च प्रति गृभाय ॥५४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - येषां मनुष्याणां सेनाऽतिश्रेष्ठा विद्युद्विद्या मित्राशय आप्तविचारो विद्यादिदानञ्च स्वीकृतानि सन्त्यन्येभ्यो देयानि च ते सर्वतो मङ्गलावृताः स्युः ॥५४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे अतिश्रेष्ठ सेना, विद्युत विद्या, मित्रांचा अभिप्राय, श्रेष्ठ लोकांचे विचार व विद्या यांचा अंगीकार करतात व इतरांनाही स्वीकार करावयास लावतात त्यांचे सर्व प्रकारे कल्याण होते.
५५ उप श्वासय
विश्वास-प्रस्तुतिः ...{Loading}...
उप॑ श्वासय पृथि॒वीमु॒त द्यां पु॑रु॒त्रा ते॑ मनुतां॒ विष्ठि॑तं॒ जग॑त्। स दु॑न्दुभे स॒जूरिन्द्रे॑ण दे॒वैर्दू॒राद् दवी॑यो॒ऽअप॑ सेध॒ शत्रू॑न् ॥५५ ॥
मूलम् ...{Loading}...
उप॑ श्वासय पृथि॒वीमु॒त द्यां पु॑रु॒त्रा ते॑ मनुतां॒ विष्ठि॑तं॒ जग॑त्। स दु॑न्दुभे स॒जूरिन्द्रे॑ण दे॒वैर्दू॒राद् दवी॑यो॒ऽअप॑ सेध॒ शत्रू॑न् ॥५५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उप॑। श्वा॒स॒य॒। पृ॒थि॒वीम्। उ॒त। द्याम्। पुरु॒त्रेति॑ पुरु॒ऽत्रा। ते॒। म॒नु॒ता॒म्। विष्ठि॑तम्। विस्थि॑त॒मिति॒ विऽस्थि॑तम्। जग॑त्। सः। दु॒न्दु॒भे॒। स॒जूरिति॑ स॒जूः। इन्द्रे॑ण। दे॒वैः। दू॒रात्। दवीयः॑। अप॑। से॒ध॒। शत्रू॑न्। ५५।
महीधरः
म० तिस्र ऋचो दुन्दुभिदेवत्याः । हे दुन्दुभे, स त्वं पृथिवीमुत द्यामन्तरिक्षमपि उपश्वासय उपशब्दय । श्वसिः शब्दार्थः। विष्ठितं विविधं स्थितं जगत् स्थावरजङ्गमात्मकं विश्वम् । पुरुत्रा बहुधा ते त्वां मनुतां जानातु दुन्दुभिर्नदतीति । स त्वं दूराद्दवीयः अतिदूरं शत्रूनपसेध अपगमय । अत्यन्तं दूरं दवीयः ‘स्थूलदूर-’ (पा० ६ । ४ । १५६ ) इति रेफलोपपूर्वगुणौ। कीदृशः त्वम् । इन्द्रेण देवैश्च सजूः प्रीतियुक्तः ॥ ५५ ॥
षट्पञ्चाशी।
अधिमन्त्रम् (VC)
- वीरा देवताः
- भारद्वाज ऋषिः
- भुरिक्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (दुन्दुभे) नगाड़े के तुल्य गरजने हारे ! (सः) सो आप (इन्द्रेण) ऐश्वर्य से युक्त (देवैः) उत्तम विद्वान् वा गुणों के साथ (सजूः) संयुक्त (दूरात्) दूर से भी (दवीयः) अतिदूर (शत्रून्) शत्रुओं को (अपसेध) पृथक् कीजिए (पुरुत्रा) बहुत विध (पृथिवीम्) आकाश (उत) और (द्याम्) बिजुली के प्रकाश को (उप, श्वासय) निकट जीवन धारण कराइये, आप उन अन्तरिक्ष और बिजुली से (विष्ठितम्) व्याप्त (जगत्) संसार को (मनुताम्) मानो उस (ते) आपका राज्य आनन्दित होवे ॥५५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य विद्युत् विद्या से हुए अस्त्रों से शत्रुओं को दूर फेंक, ऐश्वर्य से विद्वानों को दूर से बुला के सत्कार करें, अन्तरिक्ष और बिजुली से व्याप्त सब जगत् को जान विविध प्रकार की विद्या और क्रियाओं को सिद्ध करें, वे जगत् को आनन्द करानेवाले होते हैं ॥५५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे दुन्दुभे ! स त्वमिन्द्रेण देवैः सजूर्दूराच्छत्रून् दवीयोपसेध पुरुत्रा पृथिवीमुत द्यामुपश्वासय भवान् ताभ्यां विष्ठितं जगन्मनुतां तस्य ते राज्यमानन्दितं स्यात् ॥५५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्या विद्युद्विद्याजैरस्त्रैः शत्रून् दूरे प्रक्षिप्यैश्वर्येण विदुषो दूरादाहूय सत्कुर्युरन्तरिक्षविद्युद्भ्यां व्याप्तं सर्वं जगद्विज्ञाय विविधा विद्याः क्रियाः साधयेयुस्ते जगदानन्दयितारः स्युः ॥५५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे विद्युत विद्येनेयुक्त अस्रांनी शत्रूंचा नाश करतात व ऐश्वर्ययुक्त बनून दूर असलेल्या विद्वानांशी संपर्क साधून त्यांचा सन्मान करतात, तसेच अंतरिक्ष व विद्युत यांनी व्याप्त असलेल्या जगाचे ज्ञान प्राप्त करतात व निरनिराळ्या प्रकारच्या विद्या व क्रिया सिद्ध करतात. ती सर्व जगाला आनंदित करतात.
५६ आ क्रन्दय
विश्वास-प्रस्तुतिः ...{Loading}...
आ क्र॑न्दय॒ बल॒मोजो॑ न॒ऽआधा॒ निष्ट॑निहि दुरि॒ता बाध॑मानः। अप॑ प्रोथ दुन्दुभे दु॒च्छुना॑ऽइ॒तऽइन्द्र॑स्य मु॒ष्टिर॑सि वी॒डय॑स्व ॥५६ ॥
मूलम् ...{Loading}...
आ क्र॑न्दय॒ बल॒मोजो॑ न॒ऽआधा॒ निष्ट॑निहि दुरि॒ता बाध॑मानः। अप॑ प्रोथ दुन्दुभे दु॒च्छुना॑ऽइ॒तऽइन्द्र॑स्य मु॒ष्टिर॑सि वी॒डय॑स्व ॥५६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ। क्र॒न्द॒य। बल॑म्। ओजः॑। नः॒। आ। धाः॒। निः। स्त॒नि॒हि॒। दु॒रि॒तेति॑ दुःऽइ॒ता। बाध॑मानः। अप॑। प्रो॒थ॒। दु॒न्दु॒भे॒। दु॒च्छुना॑। इ॒तः। इन्द्र॑स्य। मु॒ष्टिः। अ॒सि॒। वी॒डय॑स्व। ५६।
महीधरः
म० हे दुन्दुभे, त्वं बलं शत्रुसैन्यमाक्रन्दय रोदय । पलायध्वं मदीयाः सर्वे हता इत्यादिदीनरवं कारयेत्यर्थः । नोऽस्माकमोजः तेजः आधाः आधेहि देहि । दुरिता दुरितानि पापानि बाधमानो निराकुर्वन् सन् । निष्टनिहि शब्दं कुरु । ‘स्तन शब्दे’ चुरादिरदन्तः। किंच इतोऽस्मत्सेनायाः सकाशात् दुच्छनाः दुष्टाश्च ते श्वानश्च दुच्छ्वानः तान्दुष्टान् शुनः श्वसदृशान् शत्रूनपप्रोथ नाशय । प्रोतथिर्नाशनार्थः । यतः त्वमिन्द्रस्य मुष्टिः असि मुष्टिवदङ्गभूतोऽसि । अतो वीडयस्व आत्मानमस्मान्दृढय ॥ ५६ ॥
सप्तपञ्चाशी।
अधिमन्त्रम् (VC)
- वादयितारो वीरा देवताः
- भारद्वाज ऋषिः
- भुरिक्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
राजपुरुषों को क्या करना चाहिए, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (दुन्दुभे) नगाड़ों के तुल्य जिनकी सेना गर्जती ऐसे सेनापते ! (दुरिता) दुष्ट व्यसनों को (बाधमानः) निवृत्त करते हुए आप (नः) हमारे लिए (बलम्) बल को (आ, क्रन्दय) पहुँचाइये (ओजः) पराक्रम को (आ, धाः) अच्छे प्रकार धारण कीजिए, सेना को (निष्टनिहि) विस्तृत कीजिए, जो (दुच्छुनाः) दुष्ट कुत्तों के तुल्य वर्त्तमान हैं, उनको (अप) बुरे प्रकार रुलाइये जिस कारण आप (मुष्टिः) मूठों के तुल्य प्रबन्धकर्त्ता (असि) हैं, इससे (इतः) इस सेना से (इन्द्रस्य) बिजुली के अवयवों को (वीडयस्व) दृढ़ कीजिए और सुखों को (प्रोथ) पूरण कीजिए ॥५६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजपुरुषों को चाहिए कि श्रेष्ठों का सत्कार करें, दुष्टों को रुलावें, सब मनुष्यों के दुर्व्यसनों को दूर करके सुखों को प्राप्त करें ॥५६ ॥
दयानन्द-सरस्वती (सं) - विषयः
राजपुरुषैः किं कर्त्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे दुन्दुभे ! दुरिता बाधमानस्त्वं नो बलमाक्रन्दयौज आधाः सैन्यं निष्टनिहि ये दुच्छुनास्तानपाक्रन्दय यतस्त्वं मुष्टिरसि तस्मादित इन्द्रस्य वीडयस्व सुखानि प्रोथ ॥५६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - राजपुरुषैः श्रेष्ठाः सत्कर्त्तव्या दुष्टा रोदनीयाः सर्वेषां दुर्व्यसनानि दूरीकारयित्वा सुखानि प्राप्तव्यानि ॥५६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजपुरुषांनी श्रेष्ठांचा सन्मान करावा. दुष्टांना रडवावे व सर्व माणसांना दुर्व्यसनांपासून दूर करून सुख प्राप्त करावे.
५७ आमूरज प्रत्यावर्त्तयेमाः
विश्वास-प्रस्तुतिः ...{Loading}...
आमूर॑ज प्र॒त्याव॑र्त्तये॒माः के॑तु॒मद् दु॑न्दु॒भिर्वा॑वदीति। समश्व॑पर्णा॒श्चर॑न्ति नो॒ नरो॒ऽस्माक॑मिन्द्र र॒थिनो॑ जयन्तु ॥५७ ॥
मूलम् ...{Loading}...
आमूर॑ज प्र॒त्याव॑र्त्तये॒माः के॑तु॒मद् दु॑न्दु॒भिर्वा॑वदीति। समश्व॑पर्णा॒श्चर॑न्ति नो॒ नरो॒ऽस्माक॑मिन्द्र र॒थिनो॑ जयन्तु ॥५७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ। अ॒मूः। अ॒ज॒। प्र॒त्याव॑र्त्त॒येति॑ प्रति॒ऽआव॑र्त्तय। इ॒माः। के॒तु॒मदिति॑ केतु॒मत्। दु॒न्दु॒भिः। वा॒व॒दी॒ति॒। सम्। अ॑श्वपर्णा॒ इत्यश्व॑ऽपर्णाः। चर॑न्ति। नः॒। नरः॑। अ॒स्माक॑म्। इ॒न्द्र॒। र॒थिनः॑। ज॒य॒न्तु॒। ५७।
महीधरः
म० हे इन्द्र, अमूः शत्रुसेनाः त्वमा अज समन्तात्परिक्षिप ‘अज गतिक्षेपणयोः’ । यतो दुन्दुभिः केतुमत् प्रज्ञावत् यथा वावदीति अत्यन्तं वदति अतः इमाः अस्मत्सेनाः प्रत्यावर्तय जयं प्रापय्य प्रत्यानय । किंच नोऽस्माकं नरः योधाः संचरन्ति । कीदृशा नरः । अश्वपर्णाः अश्वस्येव पर्णं पतनं येषां ते । किंच अस्माकं रथिनः रथस्थाः जयन्तु युद्धे जयं प्राप्नुवन्तु ॥ ५७ ॥
अष्टपञ्चाशी।
अधिमन्त्रम् (VC)
- वादयितारो वीरा देवताः
- भारद्वाज ऋषिः
- भुरिक्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) परम ऐश्वर्ययुक्त राजपुरुष ! आप (अमूः) उन शत्रुसेनाओं को (आ अज) अच्छे प्रकार दूर फेंकिये (केतुमत्) ध्वजावाली (इमाः) इन अपनी सेनाओं को (प्रति, आवर्त्तय) लौटा लावो, जैसे (दुन्दुभिः) नगाड़ा (वावदीति) अत्यन्त बजता है, वैसे (नः) हमको (अश्वपर्णाः) घोड़ों का जिनमें पालन हो, वे सेना (सम्, चरन्ति) सम्यक् विचरती हैं, जो (अस्माकम्) हमारे (रथिनः) प्रशंसित रथों पर चढ़े हुए वीर (नरः) नायक जन शत्रुओं को (जयन्तु) जीतें, वे सत्कार को प्राप्त हों ॥५७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो राजपुरुष शत्रुओं की सेनाओं को निवृत्त करने और अपनी सेनाओं को युद्ध कराने को समर्थ हों, वे सर्वत्र शत्रुओं को जीत सकें ॥५७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे इन्द्र ! त्वममूरज इमाः केतुमत् प्रत्यावर्त्तय यथा दुन्दुभिर्वावदीति तथा नोऽश्वपर्णाः सञ्चरन्ति, येऽस्माकं रथिनो नरः शत्रूञ्जयन्तु, ते सत्कृताः स्युः ॥५७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये राजपुरुषाः शत्रुसेना निवर्त्तयितुं स्वसेना योधयितुं समर्थाः स्युस्ते सर्वत्र शत्रूञ्जेतुं शक्नुयुः ॥५७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचक लुप्तोपमालंकार आहे. जे राजपुरुष शत्रू सेनेला नष्ट करून आपल्या सेनेला युद्ध करण्यास समर्थ बनवितात ते सर्व ठिकाणी शत्रूंना जिंकू शकतात.
५८ आग्नेयः कृष्णग्रीवः
विश्वास-प्रस्तुतिः ...{Loading}...
आ॒ग्ने॒यः कृ॒ष्णग्री॑वः सारस्व॒ती मे॒षी ब॒भ्रुः सौ॒म्यः पौ॒ष्णः श्या॒मः शि॑तिपृ॒ष्ठो बा॑र्हस्प॒त्यः शि॒ल्पो वै॑श्वदे॒वऽऐ॒न्द्रो᳖ऽरु॒णो मा॑रु॒तः क॒ल्माष॑ऽऐन्द्रा॒ग्नः सँ॑हि॒तो᳙ऽधोरा॑मः सावि॒त्रो वा॑रु॒णः कृ॒ष्णऽएक॑शितिपा॒त्पेत्वः॑ ॥५८ ॥
मूलम् ...{Loading}...
आ॒ग्ने॒यः कृ॒ष्णग्री॑वः सारस्व॒ती मे॒षी ब॒भ्रुः सौ॒म्यः पौ॒ष्णः श्या॒मः शि॑तिपृ॒ष्ठो बा॑र्हस्प॒त्यः शि॒ल्पो वै॑श्वदे॒वऽऐ॒न्द्रो᳖ऽरु॒णो मा॑रु॒तः क॒ल्माष॑ऽऐन्द्रा॒ग्नः सँ॑हि॒तो᳙ऽधोरा॑मः सावि॒त्रो वा॑रु॒णः कृ॒ष्णऽएक॑शितिपा॒त्पेत्वः॑ ॥५८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ॒ग्ने॒यः। कृ॒ष्णग्री॑व॒ इति॑ कृ॒ष्णऽग्री॑वः। सा॒र॒स्व॒ती। मे॒षी। ब॒भ्रुः। सौ॒म्यः। पौ॒ष्णः। श्या॒मः। शि॒ति॒पृ॒ष्ठ इति॑ शितिऽपृ॒ष्ठः। बा॒र्ह॒स्प॒त्यः। शि॒ल्पः। वै॒श्व॒दे॒व इति॑ वैश्वऽदे॒वः। ऐ॒न्द्रः। अ॒रु॒णः। मा॒रु॒तः। क॒ल्माषः॑। ऐ॒न्द्रा॒ग्नः। सँ॒हि॒त इति॑ सम्ऽहि॒तः। अ॒धोरा॑म॒ इत्य॒धःऽरा॑मः। सा॒वि॒त्रः। वा॒रु॒णः। कृ॒ष्णः। एक॑शितिपा॒दित्येक॑ऽशितिपात्। पेत्वः॑। ५८।
महीधरः
म० अश्वमेधे श्रुतिरस्ति ‘द्वे त्वेवैते एकादशिन्यावालभेतेति’ ( पा० १३ । ५। १ । ३ ) तयोरेकादशिन्योः पशवस्तद्देवताश्च कण्डिकाद्वयेनोच्यन्ते। तेनेमानि ब्राह्मणवाक्यानि द्रव्यदेवताप्रतिपादकानि नतु मन्त्राः । कृष्णा ग्रीवा यस्य स कृष्णग्रीवः पशुराग्नेयः अग्निदेवत्यः १, मेषी सारस्वती सरस्वतीदेवताका २, बभ्रुः पिङ्गलवर्णः पशुः सौम्यः सोमदेवत्यः ३, श्यामः कृष्णवर्णः पौष्णः पूषदेवत्यः ४, शिति श्यामं पृष्ठं यस्य स शितिपृष्ठः बार्हस्पत्यः बृहस्पतिदेवत्यः ५, शिल्पो विचित्रवर्णो वैश्वदेवः विश्वदेवदेवत्यः ६, अरुणः रक्तः ऐन्द्रः इन्द्रदेवत्यः ७, कल्माषः कर्बुरो मारुतः मरुद्देवत्यः ८, संहितः दृढाङ्गः ऐन्द्राग्नः इन्द्राग्निदेवत्यः ९, अधोरामः अधोदेशे श्वेतः सावित्रः सवितृदेवत्यः १०, एकः शिति श्वेतः पादो यस्य स एकशितिपात् एकपदे श्वेतोऽन्यत्र कृष्णः पेत्वः पतनशीलो वेगवान् पशुः वारुणः वरुणदेवत्यः ११, एवमेकादश जाताः ॥ ५८ ॥
एकोनषष्टी।
अधिमन्त्रम् (VC)
- विद्वांसो देवता
- भारद्वाज ऋषिः
- भुरिगत्यष्टिः
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब कैसे पशु कैसे गुणोंवाले होते हैं, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोग जो (आग्नेयः) अग्नि देवतावाला अर्थात् अग्नि के उत्तम गुणों से युक्त है, वह (कृष्णग्रीवः) काले गलेवाला पशु, जो (सारस्वती) सरस्वती वाणी के गुणोंवाली, वह (मेषी) भेड़, जो (सौम्यः) चन्द्रमा के गुणोंवाला, वह (बभ्रुः) धुमेला पशु, जो (पौष्णः) पुष्टि आदि गुणोंवाला वह (श्यामः) श्याम रङ्ग से युक्त पशु, जो (बार्हस्पत्यः) बड़े आकाशादि के पालन आदि गुणयुक्त, वह (शितिपृष्ठः) काली पीठवाला पशु, जो (वैश्वदेवः) सब विद्वानों के गुणोंवाला, वह (शिल्पः) अनेक वर्णयुक्त, जो (ऐन्द्रः) सूर्य्य के गुणोंवाला, वह (अरुणः) लाल रङ्गयुक्त, जो (मारुतः) वायु के गुणोंवाला, वह (कल्माषः) खाखी रङ्ग युक्त, जो (ऐन्द्राग्नः) सूर्य्य-अग्नि के गुणोंवाला, वह (संहितः) मोटे दृढ़ अङ्गयुक्त, जो (सावित्रः) सूर्य के गुणों से युक्त, वह (अधोरामः) नीचे विचरनेवाला पक्षी, जो (एकशितिपात्) जिसका एक पग काला (पेत्वः) उड़नेवाला और (कृष्णः) काले रङ्ग से युक्त, वह (वारुणः) जल के शान्त्यादि गुणोंवाला है, इस प्रकार इन सब को जानो ॥५८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! तुम लोगों को चाहिए कि जिस-जिस देवतावाले जो-जो पशु विख्यात हैं, वे-वे उन-उन गुणोंवाले उपदेश किये हैं, ऐसा जानो ॥५८ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ कीदृशाः पशवः किंगुणा इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यूयं य आग्नेयः स कृष्णग्रीवो, या सारस्वती सा मेषी, यः सौम्यः स बभ्रुः, य पौष्णः स श्यामो, यो बार्हस्पत्यः स शितिपृष्ठो, यो वैश्वदेवः स शिल्पो, य ऐन्द्रः सोऽरुणो, यो मारुतः स कल्माषः, य ऐन्द्राग्नः स संहितो, यः सावित्रः सोऽधोरामो, य एकशितिपात्पेत्वः कृष्णः स वारुणश्चेत्येतान् विजानीत ॥५८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! युष्माभिर्यद्यद्दैवत्या ये ये पशवो विख्यातास्ते तत्तद्गुणा उपदिष्टाः सन्तीति वेद्यम् ॥५८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! ज्या ज्या देवता ज्या ज्या गुणांच्या आहेत त्याप्रमाणे ज्या ज्या पशूंचे गुण त्यांच्या देवतांमुळे प्रसिद्ध आहेत. त्या त्या गुणांचा उपदेश येथे केलेला आहे, असे जाणा.
५९ अग्नयेऽनीकवते रोहिताञ्जिरनड्वानधोरामौ
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्नयेऽनी॑कवते॒ रोहि॑ताञ्जिरन॒ड्वान॒धोरा॑मौ सावि॒त्रौ पौ॒ष्णौ र॑ज॒तना॑भी वैश्वदे॒वौ पि॒शङ्गौ॑ तूप॒रौ मा॑रु॒तः क॒ल्माष॑ऽआग्ने॒यः कृ॒ष्णो᳙ऽजः सार॑स्व॒ती मे॒षी वा॑रु॒णः पेत्वः॑ ॥५९ ॥
मूलम् ...{Loading}...
अ॒ग्नयेऽनी॑कवते॒ रोहि॑ताञ्जिरन॒ड्वान॒धोरा॑मौ सावि॒त्रौ पौ॒ष्णौ र॑ज॒तना॑भी वैश्वदे॒वौ पि॒शङ्गौ॑ तूप॒रौ मा॑रु॒तः क॒ल्माष॑ऽआग्ने॒यः कृ॒ष्णो᳙ऽजः सार॑स्व॒ती मे॒षी वा॑रु॒णः पेत्वः॑ ॥५९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒ग्नये॑। अनी॑कवत॒ इन्यनी॑कऽवते। रोहि॑ताञ्जि॒रिति॒ रोहि॑तऽअञ्जिः। अ॒न॒ड्वान्। अ॒धोरा॑मा॒वित्य॒धःरा॑मौ। सा॒वि॒त्रौ। पौ॒ष्णौ। र॒ज॒तना॑भी॒ इति॑ रज॒तऽना॑भी। वै॒श्व॒दे॒वाविति॑ वैश्वऽदे॒वौ। पि॒शङ्गौ॑। तू॒प॒रौ। मा॒रु॒तः। क॒ल्माषः॑। आ॒ग्ने॒यः। कृ॒ष्णः। अ॒जः। सा॒र॒स्व॒ती। मे॒षी। वा॒रु॒णः। पेत्वः॑। ५९।
महीधरः
म० द्वितीयैकादशिनीपशुदेवानाह । रोहितो रक्तोऽञ्जिस्तिलको यस्य सोऽनड्वान् वृषभोऽनीकवतेऽग्नये आलभ्यः । अनीकं मुखं सैन्यं वा यस्य सोऽनीकवान् तस्मै १, अधोरामौ अधोभागे श्वेतौ द्वौ पशू सावित्रौ सवितृदेवत्यौ २, ३, रजतवर्णा नाभिर्ययोस्तौ रजतनाभी द्वौ पोष्णौ पूषदेवत्यौ ४, ५, पिशङ्गौ पीतौ तूपरौ निःशृङ्गौ वैश्वदेवौ विश्वदेवदेवत्यौ ६, ७, कल्माषः कर्बुरो मारुतः ८, कृष्णः । श्यामोऽजो मेषः आग्नेयः अग्निदेवत्यः ९, मेषी सारस्वती १०, पेत्वः वेगवान् वरुणदेवत्यः ११, एवमेकादश ॥ ५९ ॥
षष्टी।
इति माध्यन्दिनीयायां वाजसनेयसंहितायामूनत्रिंशोऽध्यायः ॥ २९ ॥
अधिमन्त्रम् (VC)
- अग्न्यादयो देवताः
- भारद्वाज ऋषिः
- भुरिगतिशक्वरी
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोग (अनीकवते) प्रशंसित सेनावाले (अग्नये) विज्ञान आदि गुणों के प्रकाशक सेनापति के लिए (रोहिताञ्जिः) लाल चिह्नोंवाला (अनड्वान्) बैल (सावित्रौ) सूर्य के गुणवाले (अधोरामौ) नीचे भाग में श्वेतवर्णवाले (पौष्णौ) पुष्टि आदि गुणयुक्त (रजतनाभी) चाँदी के वर्ण के तुल्य जिनकी नाभि (वैश्वदेवौ) सब विद्वानों के सम्बन्धी (तूपरौ) मुण्डे (पिशङ्गौ) पीले दो पशु (मारुतः) वायु देवतावाला (कल्माषः) खाखी रङ्गयुक्त (आग्नेयः) अग्नि देवतावाला (कृष्णः, अजः) काला बकरा (सारस्वती) वाणी के गुणोंवाली (मेषी) भेड़ और (वारुणः) जल के गुणोंवाला (पेत्वः) शीघ्रगामी पशु है, उन सब को गुणों के अनुकूल काम में लाओ ॥५९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में पशुओं के जितने गुण कहे हैं, वे सब एक अग्नि में इकट्ठे हैं, यह जानना चाहिए ॥५९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यूयं येऽनीकवतेऽग्नये रोहिताञ्जिरनड्वान् सावित्रावधोरामौ पौष्णौ रजतनाभी वैश्वदेवौ तूपरौ पिशङ्गौ मारुतः कल्माष आग्नेयः कृष्णोऽजः सारस्वती मेषी वारुणः पेत्वश्चास्ति तान् यथागुणं संप्रयोजय ॥५९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र पशूनां यावन्तो गुणा उक्तास्ते सर्वे गुणा एकस्मिन्नग्नौ संहिताः सन्तीति वेद्यम् ॥५९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात पशूंचे जेवढे गुण सांगितलेले अहेत ते सर्व अग्नीमध्ये आहेत हे जाणले पाहिजे.
६० अग्नये गायत्राय
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्नये॑ गाय॒त्राय॑ त्रि॒वृते॒ राथ॑न्तराया॒ष्टाक॑पाल॒ऽइन्द्रा॑य॒ त्रैष्टु॑भाय पञ्चद॒शाय॒ बार्ह॑ता॒यैका॑दशकपालो॒ विश्वे॑भ्यो दे॒वेभ्यो॒ जाग॑तेभ्यः सप्तद॒शेभ्यो॑ वैरू॒पेभ्यो॒ द्वाद॑शकपालो मि॒त्रावरु॑णाभ्या॒मानु॑ष्टुभाभ्यामेकविँ॒शाभ्यां॑ वैरा॒जाभ्यां॑ पय॒स्या᳙ बृह॒स्पत॑ये॒ पाङ्क्ता॑य त्रिण॒वाय॑ शाक्व॒राय॑ च॒रुः स॑वि॒त्रऽऔष्णि॑हाय त्रयस्त्रिँ॒शाय॑ रैव॒ताय॒ द्वाद॑शकपालः प्राजाप॒त्यश्च॒रुरदि॑त्यै॒ विष्णु॑पत्न्यै च॒रुर॒ग्नये॑ वैश्वान॒राय॒ द्वाद॑शकपा॒लोऽनु॑मत्याऽअ॒ष्टाक॑पालः ॥६० ॥
मूलम् ...{Loading}...
अ॒ग्नये॑ गाय॒त्राय॑ त्रि॒वृते॒ राथ॑न्तराया॒ष्टाक॑पाल॒ऽइन्द्रा॑य॒ त्रैष्टु॑भाय पञ्चद॒शाय॒ बार्ह॑ता॒यैका॑दशकपालो॒ विश्वे॑भ्यो दे॒वेभ्यो॒ जाग॑तेभ्यः सप्तद॒शेभ्यो॑ वैरू॒पेभ्यो॒ द्वाद॑शकपालो मि॒त्रावरु॑णाभ्या॒मानु॑ष्टुभाभ्यामेकविँ॒शाभ्यां॑ वैरा॒जाभ्यां॑ पय॒स्या᳙ बृह॒स्पत॑ये॒ पाङ्क्ता॑य त्रिण॒वाय॑ शाक्व॒राय॑ च॒रुः स॑वि॒त्रऽऔष्णि॑हाय त्रयस्त्रिँ॒शाय॑ रैव॒ताय॒ द्वाद॑शकपालः प्राजाप॒त्यश्च॒रुरदि॑त्यै॒ विष्णु॑पत्न्यै च॒रुर॒ग्नये॑ वैश्वान॒राय॒ द्वाद॑शकपा॒लोऽनु॑मत्याऽअ॒ष्टाक॑पालः ॥६० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒ग्नये॑। गा॒य॒त्राय॑। त्रि॒वृत॒ इति॑ त्रि॒ऽवृते॑। राथ॑न्तरा॒येति॒ राथ॑म्ऽतराय। अ॒ष्टाक॑पाल॒ इत्य॒ष्टाऽक॑पालः। इन्द्रा॑य। त्रैष्टु॑भाय। त्रैऽस्तु॑भा॒येति॒ त्रैऽस्तु॑भाय। प॒ञ्च॒द॒शायेति॑ पञ्चऽद॒शाय॑। बार्ह॑ताय। एका॑दशकपाल॒ इत्येका॑दशऽकपालः। विश्वे॑भ्यः। दे॒वेभ्यः॑। जाग॑तेभ्यः। स॒प्त॒द॒शेभ्य॒ इति॑ सप्तऽद॒शेभ्यः॑। वै॒रू॒पैभ्यः॑। द्वाद॑शकपाल॒ इति॒ द्वाद॑शऽकपालः। मि॒त्रावरु॑णाभ्याम्। आनु॑ष्टुभाभ्याम्। आनु॑स्तुभाभ्या॒मित्यानु॑ऽस्तुभाभ्याम्। ए॒क॒विँ॒शाभ्या॒मित्ये॑कविँ॒शाभ्या॑म्। वै॒रा॒जाभ्या॑म्। प॒य॒स्या᳙। बृह॒स्पत॑ये। पाङ्क्ता॑य। त्रि॒ण॒वाय॑। त्रि॒न॒वायेति॑ त्रिऽन॒वाय॑। शा॒क्व॒राय॑। च॒रुः। स॒वि॒त्रे। औष्णि॑हाय। त्र॒य॒स्त्रिं॒शाये॑ति त्रयःऽत्रिँ॒शाय॑। रै॒व॒ताय॑। द्वाद॑शकपाल इति॒ द्वाद॑शऽकपालः। प्रा॒जा॒प॒त्य इति॑ प्राजाऽप॒त्यः। च॒रुः। अदि॑त्यै। विष्णु॑पत्न्या॒ इति॒ विष्णु॑ऽपत्न्यै। च॒रुः। अ॒ग्नये॑। वै॒श्वा॒न॒राय॑। द्वाद॑शकपाल॒ इति॒ द्वाद॑शऽकपालः। अनु॑मत्या॒ इत्यनु॑ऽमत्यै। अ॒ष्टाक॑पाल इत्य॒ष्टाऽक॑पालः। ६०।
महीधरः
म०. ‘अथाग्नीषोमीयस्य पशुपुरोडाशमनुदिशामोऽवेष्टीर्निर्वपती’त्युपक्रम्य ‘तदाहुर्दशहविषमन्त्यामिष्टिं निर्वपेत्’ इति श्रुत्या दशहविष्कावेष्टिसंज्ञेष्टिः कथिता तस्या देवता हवींषि चाह । इमान्यपि ब्राह्मणवाक्यानि न मन्त्राः । अग्नयेऽष्टाकपालः पुरोडाशः कार्यः । अष्टसु कपालेषु संस्कृतोऽष्टाकपालः ‘तद्धितार्थोत्तरपदसमाहारे च’ (पा० २। १ । ५१) इति समासः । ‘अष्टनः कपाले हविषि’ ( पा० ६।३। ४६ ) इत्यष्टन्शब्दस्य दीर्घः । कीदृशायाग्नये । गायत्राय गायत्र्या स्तुताय । त्रिवृते त्रिवृत्स्तोमेन स्तुताय । राथन्तराय रथन्तरसाम्ना स्तुताय १, इन्द्राय एकादशकपालः पुरोडाशः । समासः पूर्ववत् । कीदृशाय इन्द्राय । त्रैष्टुभाय त्रिष्टुभा स्तुताय पञ्चदशाय पञ्चदशस्तोमस्तुताय बार्हताय बृहत्सामस्तुताय २, विश्वेभ्यो देवेभ्यः द्वादशकपालः पुरोडाशः । कीदृशेभ्यः । जागतेभ्यः जगत्या छन्दसा स्तुतेभ्यः सप्तदशेभ्यः सप्तदशस्तोमस्तुतेभ्यः वैरूपसामस्तुतेभ्यः ३, मित्रावरुणाभ्यां पयस्या पयसि श्रितः चरुः । कीदृशाभ्यामानुष्टुब्भ्याम् । अनुष्टुभा स्तुताभ्याम् एकविंशाभ्यामेकविंशस्तोमस्तुताभ्याम् । वैराजाभ्यां वैराजसामस्तुताभ्याम् ४, बृहस्पतये चरुः । कीदृशाय पाङ्क्ताय पङ्क्तिच्छन्दसा स्तुताय त्रिणवाय त्रिणवस्तोमस्तुताय शाक्वराय शाक्वरसामस्तुताय ५, सवित्रे द्वादशकपालः पुरोडाशः । कीदृशाय सवित्रे । औष्णिहाय उष्णिक्छन्दसा स्तुताय त्रयस्त्रिंशाय त्रयस्त्रिंशस्तोमस्तुताय रैवताय रैवतसामस्तुताय ६, एवं छन्दःस्तोमसामसहितान् षट् देवानभिधाय चतुरः केवलानाह । प्राजापत्यश्चरुः प्रजापतिदेवत्यश्चरुः कार्यः ७, विष्णुपत्न्यै अदित्यै चरुरेव ८, वैश्वानराय वैश्वानरगुणविशिष्टायाग्नये द्वादशकपालः पुरोडाशः ९, अनुमत्यै देवतायै अष्टाकपालः पुरोडाशः कार्यः १०, दशहविषाऽवेष्टेर्देवताहवींष्यपि अश्वमेधोपयोगित्वादुक्तानि समिद्धो अञ्जन्नाश्वमेधिकोऽध्याय इति कात्यायनोक्तेः अनुक्रमण्याम् ॥ ६० ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे।
शिष्टाश्वमेधमन्त्रोक्तिर्गतोऽध्यायोऽङ्कदृग्मितः ॥ २९ ॥
अधिमन्त्रम् (VC)
- अग्न्यादयो देवताः
- भारद्वाज ऋषिः
- विराट् प्रकृतिः, प्रकृतिः
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
कैसे मनुष्य कार्यसिद्धि कर सकते हैं, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोगों को चाहिए कि (त्रिवृते) सत्त्व, रज और तमोगुण इन तीन गुणों से युक्त (राथन्तराय) रथों अर्थात् जलयानों से समुद्रादि को तरनेवाले (गायत्राय) गायत्री छन्द से जताये हुए (अग्नये) अग्नि के अर्थ (अष्टाकपालः) आठ खपरों में संस्कार किया (पञ्चदशाय) पन्द्रहवें प्रकार के (त्रैष्टुभाय) त्रिष्टुप् छन्द से प्रख्यात (बार्हताय) बड़ों के साथ सम्बन्ध रखनेवाले (इन्द्राय) ऐश्वर्य के लिए (एकादशकपालः) ग्यारह खपरों में संस्कार किया पाक (विश्वेभ्यः) सब (जागतेभ्यः) जगती छन्द से जताये हुए (सप्तदशेभ्यः) सत्रहवें (वैरूपेभ्यः) विविध रूपोंवाले (देवेभ्यः) दिव्य गुणयुक्त मनुष्यों के लिए (द्वादशकपालः) बारह खपरों में संस्कार किया पाक (आनुष्टुभाभ्याम्) अनुष्टुप् छन्द से प्रकाशित हुए (एकविंशाभ्याम्) इक्कीसवें (वैराजाभ्याम्) विराट् छन्द से जताये हुए (मित्रावरुणाभ्याम्) प्राण और उदान के अर्थ (पयस्या) जलक्रिया में कुशल विद्वान् (बृहस्पतये) बड़ों के रक्षक (पाङ्क्ताय) पान्तों में श्रेष्ठ (त्रिणवाय) कर्म, उपासना और ज्ञानों से स्तुति किये (शाक्वराय) शक्ति से प्रगट हुए के लिए (चरुः) पाकविशेष (औष्णिहाय) उष्णिक् छन्द से जताये हुए (त्रयस्त्रिंशाय) तेंतीसवें (रैवताय) धन के सम्बन्धी (सवित्रे) ऐश्वर्य उत्पन्न करने हारे के लिए (द्वादशकपालः) बारह खपरों में संस्कार किया (प्राजापत्यः) प्रजापति देवतावाला (चरुः) बटलोई में पका अन्न (अदित्यै) अखिण्डत (विष्णुपत्न्यै) विष्णु व्यापक ईश्वर से रक्षित अन्तरिक्ष रूप के लिए (चरुः) पाक (वैश्वानराय) सब मनुष्यों में प्रकाशमान (अग्नये) बिजुलीरूप अग्नि के लिए (द्वादशकपालः) बारह खपरों में पका हुआ और (अनुमत्यै) पीछे माननेवाले के लिए (अष्टाकपालः) आठ खपरों में सिद्ध किया पाक बनाना चाहिए ॥६० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य अग्नि आदि के प्रयुक्त करने के लिए आठ प्रकार आदि के यन्त्रों को बनावें, वे रचे हुए प्रसिद्ध पदार्थों से अनेक कार्यों को सिद्ध कर सकें ॥६० ॥ इस अध्याय में अग्नि, विद्वान्, घर, प्राण, अपान, अध्यापक, उपदेशक, वाणी, घोड़ा, अग्नि, विद्वान्, प्रशस्त पदार्थ, घर, द्वार, रात्रि, दिन, शिल्पी, शोभा, शस्त्र, सेना, ज्ञानियों की रक्षा, सृष्टि से उपकार ग्रहण, विघ्ननिवारण, शत्रुसेना का पराजय, अपनी सेना का सङ्ग और रक्षा, पशुओं के गुण और यज्ञों का निरूपण होने से इस अध्याय के अर्थ की पूर्व अध्याय के अर्थ के साथ संगति जाननी चाहिये ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्याणां परमविदुषां श्रीविरजानन्दसरस्वतीस्वामिनां शिष्येण परमहंसपरिव्राजकाचार्येण श्रीमद्दयानन्दसरस्वतीस्वामिना विरचिते संस्कृतार्य्यभाषाभ्यां विभूषिते सुप्रमाणयुक्ते यजुर्वेदभाष्ये एकोनत्रिंशोऽध्यायः सम्पूर्णः ॥२९॥
दयानन्द-सरस्वती (सं) - विषयः
कीदृशा जनाः कार्याणि साद्धुं शक्नुवन्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! युष्माभिस्त्रिवृते राथन्तराय गायत्रायाग्नयेऽष्टाकपालः पञ्चदशाय त्रैष्टुभाय बार्हतायेन्द्रायैकादशकपालो विश्वेभ्यो जागतेभ्यो सप्तदशेभ्यो वैरूपेभ्यो देवेभ्यो द्वादशकपाल आनुष्टुभाभ्यामेकविंशाभ्यां वैराजाभ्यां मित्रावरुणाभ्यां पयस्या बृहस्पतये पाङ्क्ताय त्रिणवाय शाक्वराय चरुरौष्णिहाय त्रयस्त्रिंशाय रैवताय सवित्रे द्वादशकपालः प्राजापत्यश्चरुरदित्यै विष्णुपत्न्यै चरुर्वैश्वानरायाग्नये द्वादशकपालोनुमत्या अष्टाकपालश्च निर्मातव्यः ॥६० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - येऽग्न्यादिप्रयोगायाष्टविधादीनि यन्त्राणि निर्मिमीरंस्ते सृष्टैर्व्यक्तैः पदार्थैरनेकानि कार्याणि साद्धुं शक्नुयुरिति ॥६० ॥ अस्मिन्नध्याये अग्निविद्वद्गृहप्राणापानाऽध्यापकोपदेशकवाग्श्वाग्निविद्वत्प्रशंसनीयपदार्थगृहद्वाररात्रिदिनशिल्पिश्री-शस्त्रास्त्रसेनाज्ञानिरक्षासृसष्ट्युपकारग्रहणविघ्ननिवारणशत्रुसेनापराजयस्वसेनासङ्गरक्षणपशुगुणयज्ञानां निरूपणादेत-दर्थस्य पूर्वाऽध्यायोक्तार्थेन सह सङ्गतिरस्तीति बोध्यम् ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे अग्नी इत्यादींना प्रयुक्त करण्यासाठी आठ प्रकारची यंत्रे तयार करतात. त्याद्वारे ती अनेक प्रकारची कार्ये सिद्ध करू शकतात.