०१ समास्त्वाऽग्न ऋतवो
विश्वास-प्रस्तुतिः ...{Loading}...
समा॑स्त्वाऽग्न ऋ॒तवो॑ वर्द्धयन्तु संवत्स॒राऽऋष॑यो॒ यानि॑ स॒त्या। सं दि॒व्येन॑ दीदिहि रोच॒नेन॒ विश्वा॒ऽ आ भा॑हि प्र॒दिश॒श्चत॑स्रः ॥१ ॥
मूलम् ...{Loading}...
समा॑स्त्वाऽग्न ऋ॒तवो॑ वर्द्धयन्तु संवत्स॒राऽऋष॑यो॒ यानि॑ स॒त्या। सं दि॒व्येन॑ दीदिहि रोच॒नेन॒ विश्वा॒ऽ आ भा॑हि प्र॒दिश॒श्चत॑स्रः ॥१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
समाः॑। त्वा॒। अ॒ग्ने॒। ऋ॒तवः॑। व॒र्द्घ॒य॒न्तु। सं॒व॒त्स॒राः। ऋष॑यः। यानि॑। स॒त्या। सम्। दि॒व्येन॑। दी॒दि॒हि॒। रो॒च॒नेन॑। विश्वाः॑। आ। भा॒हि॒। प्र॒दिश॒ इति॑ प्र॒ऽदिशः॑। चत॑स्रः। १।
महीधरः
म० अयमध्यायः पञ्चचितिकस्याग्नेः संबन्धी प्रजापतिदृष्टः । नव ऋचोऽग्निदेवत्यास्त्रिष्टुभोऽग्निना दृष्टाः इष्टकापशौ समिध्यमानसमिद्वत्योरन्तराले आसां विनियोगः । अग्निर्ऋषिः कर्माङ्गभूतमग्निं स्तौति । हे अग्ने, एते त्वा त्वां वर्धयन्तु । के समा मासाः । संवत्सरस्य पृथगुक्तः समाशब्दो मासवाचकः । ऋतवो वसन्ताद्याः संवत्सराः तदधिष्ठातारः ऋषयो मन्त्रद्रष्टारः । यानि सत्या सत्यानि । सत्यरूपा मन्त्रा इत्यर्थः । त्वमप्येतैर्वर्धमानो दिव्येन दिवि भवेन रोचनेन दीप्त्या संदीदिहि संदीप्यस्व । दिवैः श्लौ लुकि रूपम् । ‘तुजादीनां दीर्घाऽभ्यासस्य’ (पा० ६ । १ । ७) इत्यभ्यासदीर्घः । किंच विश्वाः सर्वाः प्रदिशो विदिशः चतस्रो दिशश्च आभाहि दीपय । अन्तर्भूतो ण्यर्थः ‘भा दीप्तौ’ ॥ १॥
द्वितीया।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- अग्निर्ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब सत्ताईसवें अध्याय का आरम्भ है, इसके प्रथम मन्त्र में आप्तों को कैसा आचरण करना चाहिये, इस विषय को कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्वन् ! (समाः) वर्ष (ऋतवः) शरद् आदि ऋतु (संवत्सराः) प्रभवादि संवत्सर (ऋषयः) मन्त्रों के अर्थ जाननेवाले विद्वान् और (यानि) जो (सत्या) कर्म हैं, वे (त्वा) आप को (वर्द्धयन्तु) बढ़ावें, जैसे अग्नि (दिव्येन) शुद्ध (रोचनेन) प्रकाश से (विश्वाः) सब (प्रदिशः) उत्तम गुणयुक्त (चतस्रः) चार दिशाओं को प्रकाशित करता है, वैसे विद्या की (सं, दीदिहि) सुन्दर प्रकार कामना कीजिये और न्याययुक्त धर्म का (आ, भाहि) अच्छे प्रकार प्रकाश कीजिये ॥१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। आप्तपुरुषों को चाहिये कि सब काल में सत्य विद्या और उत्तम कामों का उपेदश करके सब शरीरधारियों के आरोग्य, पुष्टि, विद्या और सुशीलता को बढ़ावें, जैसे सूर्य अपने सन्मुख के पदार्थों को प्रकाशित करता है, वैसे सब मनुष्यों को शिक्षा से सदैव आनन्दित किया करें ॥१ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथाप्तैः कथमाचरणीयमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! समा ऋतवः संवत्सरा ऋषयो यानि सत्या सन्ति, ते त्वा वर्द्धयन्तु। यथाऽग्निर्दिव्येन रोचनेन विश्वाश्चतस्रः प्रदिशः प्रकाशयति तथा विद्यां संदीदिहि। न्याय्यं धर्ममा भाहि ॥१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। आप्तैः सर्वदा सत्या विद्याः कर्माणि चोपदिश्य सर्वेषां शरीरिणामारोग्यपुष्टी विद्यासुशीले च वर्द्धनीये। यथा सूर्यः स्वसंनिहितान् प्रकाशयति तथा सर्वे मनुष्याः सुशिक्षया सदैवानन्दयितव्याः ॥१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. आप्त पुरुषांनी सर्व काळी सत्य विद्या व उत्तम कर्म यांचा उपदेश करून सर्व लोकांचे आरोग्य, बल, विद्या व सुशीलता वाढवावी. जसा सूर्य सर्व पदार्थांना प्रकाशित करतो. तसे सर्व माणसंना शिक्षणाने सदैव आनंदित करावे.
०२ सं चेध्यस्वाग्ने
विश्वास-प्रस्तुतिः ...{Loading}...
सं चे॒ध्यस्वा॑ग्ने॒ प्र च॑ बोधयैन॒मुच्च॑ तिष्ठ मह॒ते सौभ॑गाय। मा च॑ रिषदुपस॒त्ता ते॑ऽ अग्ने ब्र॒ह्माण॑स्ते य॒शसः॑ सन्तु॒ माऽन्ये ॥२ ॥
मूलम् ...{Loading}...
सं चे॒ध्यस्वा॑ग्ने॒ प्र च॑ बोधयैन॒मुच्च॑ तिष्ठ मह॒ते सौभ॑गाय। मा च॑ रिषदुपस॒त्ता ते॑ऽ अग्ने ब्र॒ह्माण॑स्ते य॒शसः॑ सन्तु॒ माऽन्ये ॥२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सम्। च॒। इ॒ध्यस्व॑। अ॒ग्ने॒। प्र। च॒। बो॒ध॒य॒। ए॒न॒म्। उत्। च॒। ति॒ष्ठ॒। म॒ह॒ते। सौभ॑गाय। मा। च॒। रि॒ष॒त्। उ॒प॒स॒त्तेत्यु॑पऽस॒त्ता। ते॒। अ॒ग्ने॒। ब्र॒ह्माणः॑। ते॒। य॒शसः॑। स॒न्तु॒। मा। अ॒न्ये। २।
महीधरः
म० ‘व्यवहिताश्च’ (१ । ४ । ८२ ) इति पाणिन्युक्तेः । उपसर्गक्रिययोव्यवधानम् । हे अग्ने, समिध्यख दीप्यख च । व्यत्ययेन इयन् । एनं यजमानं प्रबोधय च ज्ञातार्थ कुरु अग्निश्वेतव्य इति । महते सौभगाय ऐश्वर्याय उत्तिष्ट च । ऐश्वर्य दातुमुद्यम कुर्वित्यर्थः । किंच हे अग्ने, ते तव उपसीदनीत्युपसता तृच सेवकः । मा रिपत् च मा नश्यतु च । यजमानो ह्यग्निमुपसीदति । ते तव ब्रह्माणः वामणा ऋलिग्यजमानाः । यशराः यशस्विनः सन्तु । मत्वर्थीय प्रत्ययलोपः । मा अन्य अयज्वानो मा यशसः सन्तु ॥ २ ॥
तृतीया।
अधिमन्त्रम् (VC)
- समिधन्यो देवताः
- अग्निर्ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
विद्वानों को ही उत्तम अधिकार पर नियुक्त करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) अग्नि के तुल्य तेजस्वी विद्वन् ! आप (सम्, इध्यस्व) अच्छे प्रकार प्रकाशित हूजिये (च) और (एनम्) इस जिज्ञासु जन को (प्रबोधय) अच्छा बोध कराइये (च) और (महते) बड़े (सौभगाय) सौभाग्य होने के लिए (उत्, तिष्ठ) उद्यत हूजिये तथा (उपसत्ता) समीप बैठनेवाले आप सौभाग्य को (मा, रिषत्) मत बिगाडि़ये। हे (अग्ने) तेजस्विजन् ! (ते) आप के (ब्रह्माणः) चारों वेद के जाननेवाले (अन्ये) भिन्न बुद्धिवाले (च) भी (मा, सन्तु) न हो जावें (च) और (ते) आप अपने (यशसः) यश कीर्ति की उन्नति को न बिगाड़िये ॥२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो विद्वानों से भिन्न इतर जनों को उत्तम अधिकार में नहीं युक्त करते, सदा उन्नति के लिए प्रयत्न करते और अन्याय से किसी को नहीं मारते हैं, वे कीर्त्ति और ऐश्वर्य से युक्त हो जाते हैं ॥२ ॥
दयानन्द-सरस्वती (सं) - विषयः
विद्वांस एवोत्तमाधिकारे योजनीया इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने त्वं समिध्यस्वैनं प्रबोधय च महते सौभगाय चोत्तिष्ठ। उपसत्ता भवान् सौभगं मा रिषत्। हे अग्ने ! ते ब्रह्माणोऽन्ये च मा सन्तु ते यशस उन्नतिं च मा रिषत् ॥२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये विद्वद्भ्यो भिन्नाञ्जनानुत्तमाऽधिकारे न योजयन्ति सदोन्नतये प्रयतन्ते, अन्यायेन कञ्चिन्न हिंसन्ति च, ते कीर्त्यैश्वर्ययुक्ता भवन्ति ॥२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जे लोक विद्वानांना अधिकारी नेमतात, इतरांना नेमत नाहीत, नेहमी उन्नतीसाठी प्रयत्न करतात. अन्यायाने कुणाला मारत नाहीत ते कीर्तिमान व ऐश्वर्यमान होतात.
०३ त्वामग्ने वृणते
विश्वास-प्रस्तुतिः ...{Loading}...
त्वाम॑ग्ने वृणते ब्राह्म॒णाऽ इ॒मे शि॒वोऽ अ॑ग्ने सं॒वर॑णे भवा नः। स॒प॒त्न॒हा नो॑ अभिमाति॒जिच्च॒ स्वे गये॑ जागृ॒ह्यप्र॑युच्छन् ॥३ ॥
मूलम् ...{Loading}...
त्वाम॑ग्ने वृणते ब्राह्म॒णाऽ इ॒मे शि॒वोऽ अ॑ग्ने सं॒वर॑णे भवा नः। स॒प॒त्न॒हा नो॑ अभिमाति॒जिच्च॒ स्वे गये॑ जागृ॒ह्यप्र॑युच्छन् ॥३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
त्वाम्। अ॒ग्ने॒। वृ॒ण॒ते॒। ब्रा॒ह्म॒णाः। इ॒मे। शि॒वः। अ॒ग्ने॒। सं॒वर॑ण॒ इति॑ सं॒ऽवर॑णे। भ॒व॒। नः॒। स॒प॒त्न॒हेति॑ सपत्न॒ऽहा। नः॒। अ॒भि॒मा॒ति॒जिदित्य॑भिमाति॒ऽजित्। च॒। स्वे। गये॑। जा॒गृहि॒। अप्र॑युच्छ॒न्नित्यप्र॑ऽयुच्छन्। ३।
महीधरः
म० हे अग्ने, इमे ब्राह्मणाः ऋत्विजः त्वा त्वां वृणते ‘वृङ् संभक्तौ’ यागाय भजन्ति । अतो हे अग्ने, संवरणे ब्राह्मणैः सहैकस्मिन्वरणे सति नोऽस्माकं शिवः शान्तो भव । अस्माकं सपत्नहा अभिमातिजिच्च भव । अभिमातिरपि शत्रुः तत एवं व्याख्या । सपत्नानां हन्ता भव हतावशिष्टानां जेता च भव । किंच स्वे गये निजे गृहे जागृहि सावधानो भव । किं कुर्वन् । अप्रयुच्छन् अप्रमाद्यन् ॥ ३ ॥
चतुर्थी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- अग्निर्ऋषिः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
जिज्ञासु लोगों को क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) तेजस्वी विद्वन् ! अग्नि के समान वर्तमान जो (इमे) ये (ब्राह्मणाः) ब्रह्मवेत्ता जन (त्वाम्) आप को (वृणते) स्वीकार करते हैं, उन के प्रति आप (संवरणे) सम्यक् स्वीकार करने में (शिवः) मङ्गलकारी (भव) हूजिये (नः) हमारे (सपत्नहा) शत्रुओं के दोषों के हननकर्त्ता हूजिये। हे (अग्ने) अग्निवत् प्रकाशमान ! (अप्रयुच्छन्) प्रमाद नहीं करते हुए (च) और (अभिमातिजित्) अभिमान को जीतनेवाले आप (स्वे) अपने (गये) घर में (जागृहि) जागो अर्थात् गृहकार्य करने में निद्रा आलस्यादि को छोड़ो (नः) हम को शीघ्र चेतन करो ॥३।
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे विद्वान् लोग ब्रह्म को स्वीकार करके आनन्द मङ्गल को प्राप्त होते और दोषों को निर्मूल नष्ट कर देते हैं, वैसे जिज्ञासु लोग ब्रह्मवेत्ता विद्वानों को प्राप्त हो के आनन्द मङ्गल का आचरण करते हुए बुरे स्वभावों के मूल को नष्ट करें और आलस्य को छोड़ के विद्या की उन्नति किया करें ॥३ ॥
दयानन्द-सरस्वती (सं) - विषयः
जिज्ञासुभिः किं कर्त्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - अग्ने पावकवद्वर्त्तमान य इमे ब्राह्मणास्त्वां वृणते तान् प्रति त्वं संवरणे शिवो भव नोऽस्माकं सपत्नहा भव। हे अग्ने ! अप्रयुच्छन्नभिमातिजिच्च त्वं स्वे गये जागृहि, नोऽस्मांश्च जागृतान् कुरु ॥३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यथा विद्वांसो ब्रह्म स्वीकृत्य मङ्गलमाप्नुवन्ति दोषान् घ्नन्ति तथा जिज्ञासवो ब्रह्मविदः प्राप्य मङ्गलाचरणाः सन्तः कुशीलतां घ्नन्त्वालस्यं विहाय विद्यामुन्नयन्तु च ॥३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जसे विद्वान लोक मुळापासून दोष नष्ट करतात व ब्रह्माची उपासना करून आनंदी होतात आणि कल्याण करून घेतात. तसे जिज्ञासू लोकांनी ब्रह्मवेत्ते असलेल्या विद्वानांच्या संगतीने आनंदी व्हावे व कल्याणकारी आचरण करावे. वाईट स्वभाव मुळापासून दूर करावा आणि आळस सोडून विद्येचा प्रसार करावा.
०४ इहैवाग्नेऽ अधि
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒हैवाग्ने॒ऽ अधि॑ धारया र॒यिं मा त्वा॒ निक्र॑न् पूर्व॒चितो॑ निका॒रिणः॑। क्ष॒त्रम॑ग्ने सुयम॑मस्तु॒ तुभ्य॑मुपस॒त्ता व॑र्द्धतां ते॒ऽअनि॑ष्टृतः ॥४ ॥
मूलम् ...{Loading}...
इ॒हैवाग्ने॒ऽ अधि॑ धारया र॒यिं मा त्वा॒ निक्र॑न् पूर्व॒चितो॑ निका॒रिणः॑। क्ष॒त्रम॑ग्ने सुयम॑मस्तु॒ तुभ्य॑मुपस॒त्ता व॑र्द्धतां ते॒ऽअनि॑ष्टृतः ॥४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इ॒ह। ए॒व। अ॒ग्ने॒। अधि॑। धा॒र॒य॒। र॒यिम्। मा। त्वा॒। नि। क्र॒न्। पू॒र्व॒चित॒ इति॑ पूर्व॒ऽचितः॑। नि॒का॒रिण॒ इति॑ निऽका॒रिणः॑। क्ष॒त्रम्। अ॒ग्ने॒। सु॒यम॒मिति॑ सु॒ऽयम॑म्। अ॒स्तु॒। तुभ्य॑म्। उ॒प॒स॒त्तेत्यु॑पऽस॒त्ता। व॒र्द्ध॒ता॒म्। ते॒। अनि॑ष्टृतः। अनि॑स्तृत॒ इत्यनि॑ऽस्तृतः। ४।
महीधरः
म० हे अग्ने, इहैवास्मास्वेव यजमानेषु रयिं धनं त्वमधिधारय अधिकं देहि । किंच पूर्वं चिन्वन्ति पूर्वचितः पूर्वमग्निं चितवन्तोऽतएव निकारिणः नितरां यज्ञकरणशीलाः त्वा त्वां मा निक्रन् मा नीचैः कुर्वन्तु । मावजानन्त्वित्यर्थः । करोतेः शपि लुप्ते लङि प्रथमबहुवचने रूपम् । किंच हे अग्ने, क्षत्रं क्षत्रजातिः तुभ्यं तव सुयममस्तु । सुखेन यन्तुं शक्यं सुयमं सुखेन वशीकर्तुं शक्यमस्तु । ‘ईषद्दुःसुषु-’ (पा० ३ । ३ । १२६) इति सुपूर्वाद्यमेः खल् । किंच ते तव उपसत्ता उपसदनकर्ता यष्टा अनिष्टृतः अनुपहिंसितः सन् वर्धताम् धनपुत्रादिभिरेधताम् । ‘स्तृञ् हिंसायां’ निष्टान्तः ॥ ४ ॥
पञ्चमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- अग्निर्ऋषिः
- स्वराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब राजधर्म विषय अगले मन्त्र में कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) बिजुली के समान वर्त्तमान विद्वन् ! आप (इह) इस संसार में (रयिम्) लक्ष्मी को (धारय) धारण कीजिये (पूर्वचितः) प्रथम प्राप्त किये विज्ञानादि से श्रेष्ठ (निकारिणः) निरन्तर कर्म करने के स्वभाववाले जन (त्वा) आप को (मा, नि, क्रन्) नीच गति को प्राप्त न करें। हे (अग्ने) विनय से शोभायमान सभापते ! (ते) आप का (सुयमम्) सुन्दर नियम जिस से चले, वह (क्षत्रम्) धन वा राज्य (अस्तु) होवे, जिससे (उपसत्ता) समीप बैठते हुए (अनिष्टृतः) हिंसा वा विघ्न को नहीं प्राप्त हो के (एव) ही आप (अधि, वर्द्धताम्) अधिकता से वृद्धि को प्राप्त हूजिये (तुभ्यम्) आप के लिए राज्य वा धन सुखदायी होवे ॥४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे राजन् ! आप ऐसे उत्तम विनय को धारण कीजिये जिस से प्राचीन वृद्ध जन आप को बड़ा माना करें। राज्य में अच्छे नियमों को प्रवृत्त कीजिये, जिससे आप और आपका राज्य विघ्न से रहित होकर सब ओर से बढ़े और प्रजाजन आप को सर्वोपरि माना करें ॥४ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ राजधर्मविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने त्वमिह रयिं धारय पूर्वचितो निकारिणस्त्वा मा नि क्रन्। हे अग्ने ! ते सुयमं क्षत्रमस्तु येनोपसत्ता सन्ननिष्टृतो भूत्वैव भवान्नधिवर्धताम्। तुभ्यं क्षत्रं सुखदातृ भवतु ॥४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे राजन्नेवं विनयं धरेर्येन पूर्ववृद्धा जनास्त्वां बहु मन्येरन्। राज्ये सुनियमान् प्रवर्त्तय येन स्वयं स्वराज्यं च विघ्नविरहं भूत्वा सर्वतो वर्द्धेत भवन्तं सर्वोपरि प्रजा मन्येत च ॥४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे राजा ! तू नम्र बन, ज्यामुळे वृद्ध लोक तुला थोर समजतील. राज्यात उत्तम नियमांचे पालन झाल्यास राज्य निष्कंटक होऊन राज्याची भरभराट होईल व प्रजाही तुला सर्व श्रेष्ठ मानील.
०५ क्षत्रेणाग्ने स्वायुः
विश्वास-प्रस्तुतिः ...{Loading}...
क्ष॒त्रेणा॑ग्ने॒ स्वायुः सँर॑भस्व मि॒त्रेणा॑ग्ने मित्र॒धेये॑ यतस्व। स॒जा॒तानां॑ मध्यम॒स्थाऽ ए॑धि॒ राज्ञा॑मग्ने विह॒व्यो᳖ दीदिही॒ह ॥५ ॥
मूलम् ...{Loading}...
क्ष॒त्रेणा॑ग्ने॒ स्वायुः सँर॑भस्व मि॒त्रेणा॑ग्ने मित्र॒धेये॑ यतस्व। स॒जा॒तानां॑ मध्यम॒स्थाऽ ए॑धि॒ राज्ञा॑मग्ने विह॒व्यो᳖ दीदिही॒ह ॥५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
क्ष॒त्रेण॑। अ॒ग्ने॒। स्वायु॒रिति॑ सु॒ऽआयुः॑। सम्। र॒भ॒स्व॒। मि॒त्रेण॑। अ॒ग्ने॒। मि॒त्र॒धेय॒ इति॑ मित्र॒ऽधेये॑। य॒त॒स्व॒। स॒जा॒ताना॒मिति॑ सऽजा॒ताना॑म्। म॒ध्य॒म॒स्था इति॑ मध्यम॒ऽस्थाः। ए॒धि॒। राज्ञा॑म्। अ॒ग्ने॒। वि॒ह॒व्य᳖ इति॑ विऽह॒व्यः᳖। दी॒दि॒हि॒। इ॒ह। ५।
महीधरः
म० हे अग्ने, त्वं क्षत्रेण संरभस्व समारभस्व । ण्यन्तो बोध्यः । क्षत्रेण समारम्भय यज्ञमिति शेषः । क्षत्रियान्यज्ञं कारयेत्यर्थः । कीदृशस्त्वम् । स्वायुः शोभनमायुः जीवनं यस्य सः । यद्वा आयुः उकारान्तो मनुष्यवाची । शोभन आयुर्मनुष्यो यजमानो यस्य स स्वायुः । किंच हे अग्ने, मित्रेण सूर्येण सह वर्तमानः सन् मित्रधेये यतस्व । धातुं धारयितुं योग्यं धेयम् मित्रस्य यजमानस्य धेयं कार्यं यागलक्षणं तत्र यत्नं कुरु यजमानेन यज्ञं कारय । किंच सजातानां समानजन्मनां मध्यमस्थाः मध्यमे तिष्ठतीति क्विप् । मध्यमस्थ एधि भव । सजाता अपि यज्वानो भवन्त्वित्यर्थः । किंच हे अग्ने, इह यज्ञगृहे दीदिहि दीप्यस्व । दीव्यतेर्व्यत्ययेन शपः श्लुः ‘श्लौ’ । ( पा० ६ । १ । १०) इति द्वित्वम् ‘तुजादीनां दीर्घः’ (पा० ६।१।७) इत्यभ्यासदीर्घः । कीदृशस्त्वम् । राज्ञां विहव्यः । कर्तरि षष्ठी राजभिर्विविधं हूयते आहूयते विहव्यः । राजभिर्यज्ञे आह्वातव्यः ॥ ५ ॥
षष्ठी। ।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- अग्निर्ऋषिः
- स्वराट्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) अग्नि के तुल्य तेजस्वि विद्वन् ! आप (इह) इस जगत् में वा राज्याधिकार में (क्षत्रेण) राज्य व धन के साथ (स्वायुः) सुन्दर युवाऽवस्था का (सम्, रभस्व) अच्छे प्रकार आरम्भ कीजिये। हे (अग्ने) विद्या और विनय से शोभायमान राजन् ! (मित्रेण) धर्मात्मा विद्वान् मित्रों के साथ (मित्रधेये) मित्रों से धारण करने योग्य व्यवहार में (यतस्व) प्रयत्न कीजिये। हे (अग्ने) न्याय का प्रकाश करने हारे सभापति ! (सजातानाम्) एक साथ उत्पन्न हुए बराबर की अवस्थावाले (राज्ञाम्) धर्मात्मा राजाधिराजों के बीच (मध्यमस्थाः) मध्यस्थ-वादिप्रतिवादि के साक्षि (एधि) हूजिये और (विहव्यः) विशेष कर स्तुति के योग्य हुए (दीदिहि) प्रकाशित हूजिये ॥५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सभापति राजा सदा ब्रह्मचर्य से दीर्घायु, सत्य धर्म में प्रीति रखनेवाले मन्त्रियों के साथ विचारकर्त्ता, अन्य राजाओं के साथ अच्छी सन्धि रखनेवाला, पक्षपात को छोड़ न्यायाधीश सब शुभ लक्षणों से युक्त हुआ दुष्ट व्यसनों से पृथक् हो के धर्म, अर्थ, काम और मोक्ष को धीरज, शान्ति, अप्रमाद से धीरे-धीरे सिद्ध करे ॥५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! त्वमिह क्षत्रेण सह स्वायुः संरभस्व। हे अग्ने ! मित्रेण सह मित्रधेये यतस्व। हे अग्ने ! सजातानां राज्ञां मध्ये मध्यमस्था एधि। विहव्यः सन् दीदिहि च ॥५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - राजा सदा ब्रह्मचर्येण दीर्घायुः सत्यधर्मप्रियैरमात्यैः सह मन्त्रयिताऽन्यैः राजभिः सह सुसन्धिः पक्षपातं विहाय न्यायाधीशः सर्वैः सुलक्षणैर्युक्तः सन् दुष्टव्यसनविरहो भूत्वा धर्मार्थकाममोक्षान् धैर्येण शान्त्याऽप्रमादेन च शनैश्शनैः साधयेत् ॥५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजाने नेहमी ब्रह्मचर्य पालन करून दीर्घायू बनावे. सत्य धर्म प्रेमी मंत्र्याबरोबर विचारविनिमय करावा, इतर राजांबरोबर मैत्री करावी. भेदभाव न करता न्याय करावा. शुभ लक्षणांनीयुक्त व्हावे. दुष्ट व्यसनांपासून दूर राहावे. धैर्यवान, शांतीयुक्त व प्रमादरहित बनून हळुहळू धर्म, अर्थ, काम, मोक्ष प्राप्त करावे.
०६ अति निहोऽ
विश्वास-प्रस्तुतिः ...{Loading}...
अति॒ निहो॒ऽ अति॒ स्रिधोऽत्यचि॑त्ति॒मत्यरा॑तिमग्ने। विश्वा॒ ह्य᳖ग्ने दुरि॒ता सह॒स्वाथा॒ऽस्मभ्यँ॑ स॒हवीराँ र॒यिं दाः॑ ॥६ ॥
मूलम् ...{Loading}...
अति॒ निहो॒ऽ अति॒ स्रिधोऽत्यचि॑त्ति॒मत्यरा॑तिमग्ने। विश्वा॒ ह्य᳖ग्ने दुरि॒ता सह॒स्वाथा॒ऽस्मभ्यँ॑ स॒हवीराँ र॒यिं दाः॑ ॥६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अति॑। निहः॑। अति॑। स्रिधः॑। अति॑। अचि॑त्तिम्। अति॑। अरा॑तिम्। अ॒ग्ने॒। विश्वा॑। हि। अ॒ग्ने॒। दु॒रि॒तेति॑ दुःऽइ॒ता। सह॑स्व। अथ॑। अ॒स्मभ्य॑म्। स॒हवी॑रा॒मिति॑ स॒हऽवी॑राम्। र॒यिम्। दाः॒। ६।
महीधरः
म० हे अग्ने, हि निश्चितं विश्वा विश्वानि सर्वाणि दुरिता दुरितानि पापानि त्वं सहस्व अभिभव । निवर्तयेत्यर्थः । किं कृत्वा । निहः निहन्ति निहः । निपूर्वाद्धन्तेर्डप्रत्ययः । सुपां सुलुगिति शसः सु आदेशः । निहान् हन्तॄन् अतिक्रम्य । स्रेधतिः कुत्सितकर्मा । स्रेधन्ति स्रिधः क्विप् । कुत्सिताचारान् अतिक्रम्य । अचित्तिमन्यमनस्कतामतिक्रम्य । न रातिर्दानं यस्य सोऽरातिस्तमदातारमतिक्रम्य । दुष्टान्सर्वानतिक्रम्य पापं नाशयेत्यर्थः । किंच अथानन्तरं हे अग्ने, अस्मभ्यं सहवीरां वीरैः पुत्रैः सहितां रयिं दाः देहि लुङ् ॥ ६ ॥
सप्तमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- अग्निर्ऋषिः
- भुरिग्बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) तेजस्वि सभापते ! आप (अति, निहः) निश्चय करके असत्य को छोड़नेवाले होते हुए (स्रिधः) दुष्टाचारियों को (अति, सहस्व) अधिक सहन कीजिये (अचित्तिम्) अज्ञान का (अति) अतिक्रमण कर (अरातिम्) दान के निषेध को सहन कीजिये। हे (अग्ने) दृढ़ विद्यावाले तेजस्वि विद्वन् ! आप (हि) ही (विश्वा) सब (दुरिता) दुष्ट आचरणों को (अति) अधिक सहन कीजिये (अथ) इस के पश्चात् (अस्मभ्यम्) हमारे लिये (सहवीराम्) वीरपुरुषों से युक्त सेना और (रयिम्) धन को (दाः) दीजिये ॥६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो दुष्ट आचारों के त्यागी कुत्सित जनों के रोकनेवाले अज्ञान तथा अदान को पृथक् करते और दुर्व्यसनों से पृथक् हुए, सुख-दुःख के सहने और वीरपुरुषों की सेना से प्रीति करनेवाले गुणों के अनुकूल जनों का ठीक सत्कार करते हुए न्याय से राज्य पालें, वे सदा सुखी होवें ॥६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! त्वमति निहः सन् स्रिधोऽति सहस्व, अचित्तिमत्यरातिं सहस्व। हे अग्ने ! त्वं हि विश्वा दुरिताऽतिसहस्व, अथाऽस्मभ्यं सहवीरां रयिं च दाः ॥६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये दुष्टाचारत्यागिनः कुत्सितानां निरोधका अज्ञानमदानं च पृथक् कुर्वाणा दुर्व्यसनेभ्यः पृथग्भूताः सुखदुःखयोः सोढारो वीरसेनाप्रिया यथागुणानां जनानां योग्यं सत्कारं कुर्वन्तः सन्तो न्यायेन राज्यं पालयेयुस्ते सदा सुखिनो भवेयुरिति ॥६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे (राजे) दुष्ट आचरणाचा त्याग करतात, नीच लोकांना रोखतात, अज्ञान व कृपणता दूर करतात, दुर्व्यसनांना तिलांजली देतात, सुख-दुःख सहन करतात, वीर पुरुषांच्या सेनेबाबत प्रेम बाळगणाऱ्या लोकांचा सत्कार करतात व न्यायाने राज्यपालन करतात, ते नेहमी सुखी राहतात.
०७ अनाधृष्यो जातवेदाऽ
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ना॒धृ॒ष्यो जा॒तवे॑दा॒ऽ अनि॑ष्टृतो वि॒राड॑ग्ने क्षत्र॒भृद् दी॑दिही॒ह। विश्वा॒ऽ आशाः॑ प्रमु॒ञ्चन् मानु॑षीर्भि॒यः शि॒वेभि॑र॒द्य परि॑ पाहि नो वृ॒धे ॥७ ॥
मूलम् ...{Loading}...
अ॒ना॒धृ॒ष्यो जा॒तवे॑दा॒ऽ अनि॑ष्टृतो वि॒राड॑ग्ने क्षत्र॒भृद् दी॑दिही॒ह। विश्वा॒ऽ आशाः॑ प्रमु॒ञ्चन् मानु॑षीर्भि॒यः शि॒वेभि॑र॒द्य परि॑ पाहि नो वृ॒धे ॥७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒ना॒धृ॒ष्यः। जा॒तवे॑दा॒ इति॑ जा॒तऽवे॑दाः। अनि॑ष्टृतः। अनि॑स्तृत॒ इत्यनि॑ऽस्तृतः। वि॒राडिति॑ वि॒ऽराट्। अग्ने॑। क्ष॒त्र॒भृदिति॑ क्षत्र॒ऽभृत्। दी॒दिहि॒। इ॒ह। विश्वाः॑। आशाः॑। प्र॒मु॒ञ्चन्निति॑ प्रऽमु॒ञ्चन्। मानु॑षीः। भि॒यः। शि॒वेभिः॑। अ॒द्य। परि॑। पा॒हि॒। नः॒। वृ॒धे। ७।
महीधरः
म० हे अग्ने, इह कर्मणि वर्तमानस्त्वं विश्वा आशाः दीदिहि सर्वाः दिशः प्रकाशय । कीदृशस्त्वम् । अनाधृष्यः पराभवितुमशक्यः । जातवेदाः जातं वेदो धनं ज्ञानं वा यस्मात् । अनिष्टृतः न हिंसितः केनापि ‘स्तृ हिंसायां’ क्तान्तः । विराट् विविधं राजमानः क्षत्रभृत् क्षत्रं बिभर्ति पुष्णाति । किंच मानुषीः मनुष्यसंबन्धिनीर्भियः जन्मजरामृतिदैन्यशोकादिकाः प्रमुञ्चन्निवर्तयन्सन् शिवेभिः शिवैः शान्तैस्तेभिरद्य वृधे वृद्ध्यै नोऽस्मान्परिपाहि । वर्धनं वृत् तस्मै वृधे संपदादित्वाद्भावे क्विप् ॥ ७ ॥
अष्टमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- अग्निर्ऋषिः
- निचृज्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) अच्छे प्रकार राजनीति का संग्रह करनेवाले राजन् ! जो आप (अद्य) इस समय (इह) इस राजा के व्यवहार में (मानुषीः) मनुष्यसम्बन्धी (भियः) रोगशोकादि भयों को नष्ट कीजिये (शिवेभिः) कल्याणकारी सभ्य सज्जनों के साथ (अनिष्टृतः) दुःख से पृथक् हुए (अनाधृष्यः) अन्यों से नहीं धमकाने योग्य (जातवेदाः) विद्या को प्राप्त (विराट्) विशेषकर प्रकाशमान (क्षत्रभृत्) राज्य के पोषक हैं, सो आप (नः) हमारी (दीदिहि) कामना कीजिये (विश्वाः) सब (आशाः) दिशाओं को (प्रमुञ्चन्) अच्छे प्रकार मुक्त करते हुए हमारी (वृधे) वृद्धि के लिए (परि, पाहि) सब ओर से रक्षा कीजिये ॥७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो राजा वा राजपुरुष प्रजाओं को सन्तुष्ट कर मङ्गलरूप आचरण करने और विद्याओं से युक्त न्याय में प्रसन्न रहते हुए प्रजाओं की रक्षा करें, वे सब दिशाओं में प्रवृत्त कीर्त्तिवाले होवें ॥७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! योऽद्येह मानुषीर्भियो नाशय, शिवेभिश्च सहानिष्टृतोऽनाधृष्यो जातवेदा विराट् क्षत्रभृदस्ति, स त्वं नो दीदिहि, विश्वा आशाः प्रमुञ्चँस्त्वं नो वृधे परि पाहि ॥७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये राजराजपुरुषाः प्रजाः सन्तोष्य मङ्गलाचरणाः सर्वविद्यान्यायप्रियाः सन्तः प्रजाः पालयेयुस्ते सर्वदिक्प्रवृत्तकीर्त्तयः स्युः ॥७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे राजे किंवा राजपुरुष प्रजेला संतुष्ट करून चांगले आचरण करतात व विद्येने युक्त होऊन न्यायाने आणि प्रसन्नतेने प्रजेचे रक्षण करतात त्यांची कीर्ती दिगदिगंतरी पसरते.
०८ बृहस्पते सवितर्बोधयैनंसंशितम्
विश्वास-प्रस्तुतिः ...{Loading}...
बृह॑स्पते सवितर्बो॒धयै॑नँ॒सँशि॑तं चित्सन्त॒राँ सँशि॑शाधि। व॒र्धयै॑नं मह॒ते सौभ॑गाय॒ विश्व॑ऽएन॒मनु॑ मदन्तु दे॒वाः ॥८ ॥
मूलम् ...{Loading}...
बृह॑स्पते सवितर्बो॒धयै॑नँ॒सँशि॑तं चित्सन्त॒राँ सँशि॑शाधि। व॒र्धयै॑नं मह॒ते सौभ॑गाय॒ विश्व॑ऽएन॒मनु॑ मदन्तु दे॒वाः ॥८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
बृह॑स्पते। स॒वि॒तः॒। बो॒धय॑। ए॒न॒म्। सँशि॑त॒मिति॒ सम्ऽशि॑तम्। चि॒त्। स॒न्त॒रामिति॑ समऽत॒राम्। सम्। शि॒शा॒धि॒। व॒र्धय॑। ए॒न॒म्। म॒ह॒ते। सौभ॑गाय। विश्वे॑। ए॒न॒म्। अनु॑। म॒द॒न्तु॒। दे॒वाः। ८।
महीधरः
म० हे बृहस्पते हे सवितः, एनं यजमानं बोधय कर्माभिज्ञं कुरु । किंच चिदप्यर्थे । संशितं चित् संशितं शिक्षितमपि संतरामतितरां संशिशाधि शिक्षय । शासेः शपः श्लौ द्वित्वम् छान्दसमभ्यासस्येत्वम् । किंच महते सौभगाय ऐश्वर्याय एनं वर्धय । विश्वे देवाः एनं यजमानमनुमदन्तु तृप्ता हृष्टा वा भवन्तु । बृहस्पतिसवितृशब्दाभ्यां सामिधेन्यङ्गभूतोऽग्निरेवोच्यते वाक्यद्वयं वा । एकेन बृहस्पतिरुक्तोऽन्येन सविता ॥ ८॥
नवमी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- प्रजापतिर्ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (बृहस्पते) बड़े सज्जनों के रक्षक (सवितः) विद्या और ऐश्वर्य से युक्त संपूर्ण विद्या के उपदेशक आप (एनम्) इस राजा को (संशितम्) तीक्ष्ण बुद्धि के स्वभाववाला करते हुए (बोधय) चेतनतायुक्त कीजिये और (सम्, शिशाधि) सम्यक् शिक्षा कीजिये (चित्) और (सन्तराम्) अतिशय करके प्रजा को शिक्षा कीजिये (एनम्) इस राजा को (महते) बड़े (सौभगाय) उत्तम ऐश्वर्य होने के लिए (वर्धय) बढ़ाइये और (विश्वे) सब (देवाः) सुन्दर सभ्य विद्वान् (एनम्) इस राजा के (अनु, मदन्तु) अनुकूल प्रसन्न हों ॥८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो राजसभा का उपदेशक है, वह इन राजादि को दुर्व्यसनों से पृथक् कर और सुशीलता को प्राप्त कराके बड़े ऐश्वर्य की वृद्धि के लिए प्रवृत्त करे ॥८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे बृहस्पते ! सवितः पूर्णविद्योपदेशक त्वमेनं संशितं कुर्वन् बोधय संशिशाधि चिदपि प्रजाः सन्तरां शिशाध्येनं महते सौभगाय वर्धय विश्वे देवा एनमनु मदन्तु ॥८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यो राजसभोपदेशकः स एतान् दुर्व्यसनेभ्यो निवर्त्य सुशीलान् संपाद्य महैश्वर्यवृद्धये प्रवर्त्तयेत् ॥८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जो राजसभेचा उपदेशक असतो त्याने राजाला दुर्व्यसनांपासून दूर करून सुशील बनवावे व ऐश्वर्याची वाढ करण्यासाठी त्याला प्रवृत्त करावे.
०९ अमुत्रभूयादध यद्यमस्य
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒मु॒त्र॒भूया॒दध॒ यद्य॒मस्य॒ बृह॑स्पतेऽ अ॒भिश॑स्ते॒रमु॑ञ्चः। प्रत्यौ॑हताम॒श्विना॑ मृ॒त्युम॑स्माद् दे॒वाना॑मग्ने भि॒षजा॒ शची॑भिः ॥९ ॥
मूलम् ...{Loading}...
अ॒मु॒त्र॒भूया॒दध॒ यद्य॒मस्य॒ बृह॑स्पतेऽ अ॒भिश॑स्ते॒रमु॑ञ्चः। प्रत्यौ॑हताम॒श्विना॑ मृ॒त्युम॑स्माद् दे॒वाना॑मग्ने भि॒षजा॒ शची॑भिः ॥९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒मु॒त्र॒भूया॒दित्य॑मुत्र॒ऽभूया॑त्। अध॑। यत्। य॒मस्य॑। बृह॑स्पते। अ॒भिश॑स्ते॒रित्य॒भिऽश॑स्तेः। अमु॑ञ्चः। प्रति॑। औ॒ह॒ता॒म्। अ॒श्विना॑। मृ॒त्युम्। अ॒स्मा॒त्। दे॒वाना॑म्। अ॒ग्ने॒। भि॒षजा॑। शची॑भिः। ९।
महीधरः
म० हे बृहस्पते, त्वममुत्रभूयादध अमुत्र परलोके भवनममुत्रभूयम् । ‘भुवो भावे’ (पा० ३। १ । १०७) इति क्यप् । परलोकगमनान्मरणान्मुञ्च । मरणाद्रक्षेत्यर्थः । लकारव्यत्ययः । अध अथ यत् यमस्य भयं परलोकभयं नरकपातादि तस्मादपि मुञ्च । किंच अभिशस्तेः अभिशापादपि । लोकापवादादपि मुञ्च । देवानां भिषजौ अश्विना अश्विनौ अस्माद्यजमानात् मृत्युं प्रत्यौहतां निवर्तयतां । कैः । शचीभिः कर्मभिः कृत्वा । अत्र बृहस्पतिरग्निरेव सामिधेनीप्रकरणस्याग्नेयत्वात् ॥ ९॥
दशमी।
अधिमन्त्रम् (VC)
- अश्व्यादयो देवताः
- प्रजापतिर्ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब अध्यापक और उपदेशकों को क्या करना चाहिये, इस विषय को कहा है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (बृहस्पते) बड़ों के रक्षक विद्वन् ! आप (अमुत्रभूयात्) परजन्म में होनेवाले (अभिशस्तेः) सब प्रकार के अपराध से (अमुञ्चः) छूटिये। (अध) इस के अनन्तर (यत्) जो (यमस्य) धर्मात्मा नियमकर्त्ता जन की शिक्षा में रहे, उस के (मृत्युम्) मृत्यु को छुड़ाइये। हे (अग्ने) उत्तम वैद्य ! आप जैसे (अश्विना) अध्यापक और उपदेशक (शचीभिः) कर्म वा बुद्धियों से (भिषजा) रोगनिवारक पदार्थों को (प्रति, औहताम्) विशेष तर्क से सिद्ध करें, वैसे (अस्मात्) इससे (देवानाम्) विद्वानों के आरोग्य को सिद्ध कीजिये ॥९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। वे ही श्रेष्ठ अध्यापक और उपदेशक हैं, जो इस लोक और परलोक में सुख होने के लिये सब को अच्छी शिक्षा करें, जिससे ब्रह्मचर्यादि कर्मों का सेवन कर मनुष्य अल्पावस्था में मृत्यु और आनन्द की हानि को न प्राप्त होवें ॥९ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथाध्यापकोपदेशकैः किं कार्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे बृहस्पते ! त्वममुत्रभूयादभिशस्तेरेनममुञ्चः। अध यद्यो यमस्य शासने तिष्ठेत् तस्य मृत्युममुञ्चः। हे अग्ने ! त्वं यथाऽश्विना शचीभिर्भिषजा प्रत्यौहतां तथाऽस्माद् देवानामारोग्यं सम्पादय ॥९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। त एव श्रेष्ठा अध्यापकोपदेशका येऽत्र परत्र च सुखाय सर्वान् सुशिक्षयेयुः, येन ब्रह्मचर्यादीनि कर्माणि सेवयित्वा मनुष्या अल्पमृत्युमानन्दहानिं च नाप्नुयुः ॥९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. श्रेष्ठ अध्यापक व उपदेशक यांनी इहलोक व परलोक यांचे सुख प्राप्त व्हावे यासाठी सर्वांना चांगले शिक्षण द्यावे. ज्यामुळे ब्रह्मचर्याचे पालन होऊन अल्पावस्थेत मृत्यू येणार नाही व आनंदाचा नाश होणार नाही.
१० उद्वयन्तमसस्परि स्वः
विश्वास-प्रस्तुतिः ...{Loading}...
उद्व॒यन्तम॑स॒स्परि॒ स्वः᳖ पश्य॑न्त॒ऽ उत्त॑रम्। दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥१० ॥
मूलम् ...{Loading}...
उद्व॒यन्तम॑स॒स्परि॒ स्वः᳖ पश्य॑न्त॒ऽ उत्त॑रम्। दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥१० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उत्। व॒यम्। तम॑सः। परि॑। स्व᳖रिति॒ स्वः᳖। पश्य॑न्तः। उत्त॑र॒मित्यु॑त्ऽत॑रम्। दे॒वम्। दे॒व॒त्रेति॑ देव॒ऽत्रा। सूर्य॑म्। अग॑न्म। ज्योतिः॑। उ॒त्त॒ममित्यु॑त्ऽत॒मम्। १०।
महीधरः
म० व्याख्याता ( अ० २० । क० २१) ॥ १० ॥
एकादशी ।
अधिमन्त्रम् (VC)
- सूर्यो देवता
- अग्निर्ऋषिः
- विराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब ईश्वर की उपासना के विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (वयम्) हम लोग (तमसः) अन्धकार से पृथक् वर्तमान (ज्योतिः) प्रकाशमान सूर्यमण्डल को (पश्यन्तः) देखते हुए (स्वः) सुख के साधक (उत्तरम्) सब लोगों को दुःख से पार उतारनेवाले (देवत्रा) दिव्य पदार्थों वा विद्वानों में वर्त्तमान (उत्तमम्) अतिश्रेष्ठ (सूर्यम्) चराचर के आत्मा (देवम्) प्रकाशमान जगदीश्वर को (परि, उत्, अगन्म) सब ओर से उत्कर्षपूर्वक प्राप्त हों, वैसे उस ईश्वर को तुम लोग भी प्राप्त होओ ॥१० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो मनुष्य सूर्य के समान अविद्यारूप अन्धकार से पृथक् हुए स्वयं प्रकाशित, बड़े देवता, सबसे उत्तम, सब के अन्तर्यामी परमात्मा की ही उपासना करते हैं, वे मुक्ति के सुख को भी अवश्य निर्विघ्न प्रीतिपूर्वक प्राप्त होते हैं। १० ॥
दयानन्द-सरस्वती (सं) - विषयः
अथेश्वरोपासनाविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा वयं तमसः पृथग्भूतं ज्योतिः सवितृमण्डलं पश्यन्तः स्वरुत्तरं देवत्रोत्तमं सूर्यं जगदीश्वरं देवं पर्युदगन्म तथा यूयमपि प्राप्नुत ॥१० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये मनुष्याः सूर्यमिवाऽविद्यान्धकारात् पृथग्भूतं स्वप्रकाशं महादेवं सर्वोत्कृष्टं सर्वान्तर्यामिणं परमात्मानमेवोपासते ते मुक्तिसुखमपि लभन्ते ॥१० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जी माणसे सूर्याप्रमाणे अविद्यारूपी अंधःकारापासून दूर होऊन स्वयंप्रकाशित, महादेव, सर्वोत्तम, सर्वांतर्यामी परमेश्वराची उपासना करता ती निर्विघ्नपणे मुक्तीचे सुख भोगू शकतात.
११ ऊर्ध्वाऽ अस्य
विश्वास-प्रस्तुतिः ...{Loading}...
ऊ॒र्ध्वाऽ अ॑स्य स॒मिधो॑ भवन्त्यू॒र्ध्वा शु॒क्रा शो॒चीँष्य॒ग्नेः। द्यु॒मत्त॑मा सु॒प्रती॑कस्य सू॒नोः ॥११ ॥
मूलम् ...{Loading}...
ऊ॒र्ध्वाऽ अ॑स्य स॒मिधो॑ भवन्त्यू॒र्ध्वा शु॒क्रा शो॒चीँष्य॒ग्नेः। द्यु॒मत्त॑मा सु॒प्रती॑कस्य सू॒नोः ॥११ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ऊ॒र्ध्वाः। अ॒स्य॒। स॒मिध॒ इति॑ स॒म्ऽइधः॑। भ॒व॒न्ति॒। ऊ॒र्ध्वा। शु॒क्रा। शो॒चीँषि॑। अ॒ग्नेः। द्यु॒मत्त॒मेति॑ द्यु॒मत्ऽत॑मा। सु॒प्रती॑क॒स्येति॑ सु॒ऽप्रती॑कस्य। सू॒नोः। ११।
महीधरः
म० द्वादशाप्रीदेवत्या उष्णिहो विषमपादा आग्नेय्योऽग्निना दृष्टाः । अग्निः प्रजापतित्वेन स्तूयते तेन प्राजापत्या अपि । ता आग्नेय्यः प्राजापत्याः ‘यदग्निरपश्यत्तेनाग्नेय्यो यत्प्रजापतिमाप्रीणात्तेन प्राजापत्याः’ इति श्रुतेः । अस्याग्नेः समिधः ऊर्ध्वाः देवगामिन्यो भवन्ति । शोचींषि तेजांस्यपि ऊर्ध्वा ऊर्ध्वानि भवन्ति । कीदृशानि शोचींषि । शुक्रा शुक्राणि शुद्धानि । द्युमत्तमा द्यौः दीप्तिः प्रकाशो येषां तानि द्युमन्ति अत्यन्तं द्युमन्ति द्युमत्तमानि विश्वप्रकाशकानि । कीदृशस्याग्नेः । सुप्रतीकस्य सुष्ठु प्रतीकं मुखं यस्य । तथा सूनोः यजमानपुत्रस्य ‘स यदेनं जनयति तेनास्यैष सूनुः’ इति श्रुतेः । य ईदृशस्तं स्तुम इति शेषः ॥ ११ ॥
द्वादशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- अग्निर्ऋषिः
- उष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
अब अग्नि कैसा है, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जिस (अस्य) इस (सुप्रतीकस्य) सुन्दर प्रतीतिकारक कर्मों से युक्त (सूनोः) प्राणियों के गर्भों को छुड़ाने हारे (अग्नेः) अग्नि की (ऊर्ध्वा) उत्तम (समिधः) सम्यक् प्रकाश करनेवाली समिधा तथा (ऊर्ध्वा) ऊपर को जानेवाले (द्युमत्तमा) अति उत्तम प्रकाशयुक्त (शुक्रा) शुद्ध (शोचींषि) तेज (भवन्ति) होते हैं, उस को तुम जानो ॥११ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जो यह ऊपर को उठनेवाला, सब के देखने का हेतु, सब की रक्षा का निमित्त अग्नि है, उस को जान के कार्यों को निरन्तर सिद्ध किया करो ॥११ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथाऽग्निः कीदृश इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यस्याऽस्य सुप्रतीकस्य सूनोरग्नेरूर्ध्वाः समिध ऊर्ध्वा द्युमत्तमा शुक्रा शोचींषि भवन्ति तं विजानीत ॥११ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! योऽयमूर्ध्वगन्ता सर्वदर्शनहेतुः सर्वेषां पालननिमित्तोऽग्निरस्ति, तं विज्ञाय कार्याणि सततं साध्नुत ॥११ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! जो ऊर्ध्वगामी, सर्वप्रकाशक, सर्वरक्षक आहे त्या अग्नीला जाणा व त्याप्रमाणे कार्य करा.
१२ तनूनपादसुरो विश्ववेदा
विश्वास-प्रस्तुतिः ...{Loading}...
तनू॒नपा॒दसु॑रो वि॒श्ववे॑दा दे॒वो दे॒वेषु॑ दे॒वः। प॒थो अ॑नक्तु॒ मध्वा॑ घृ॒तेन॑ ॥१२ ॥
मूलम् ...{Loading}...
तनू॒नपा॒दसु॑रो वि॒श्ववे॑दा दे॒वो दे॒वेषु॑ दे॒वः। प॒थो अ॑नक्तु॒ मध्वा॑ घृ॒तेन॑ ॥१२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
तनू॒नपा॒दिति॒ तनू॒ऽनपा॑त्। असु॑रः। वि॒श्ववे॑दा॒ इति॑ वि॒श्वऽवे॑दाः। दे॒वः। दे॒वेषु॑। दे॒वः। प॒थः। अ॒न॒क्तु॒। मध्वा॑। घृ॒तेन॑। १२।
महीधरः
म० देवोऽग्निः मध्वा मधुना मधुरेण घृतेन पथो यज्ञमार्गाननक्तु । मध्वेति नुमभावः अनित्यमागमशासनमित्युक्तेः । पथो अनक्तु इत्यत्र ‘प्रकृत्यान्तःपादमव्यपरे’ (पा० ६।१। ११५) इति सन्ध्यभावः । यज्ञे बहु घृतमस्तु । येन मार्गा घृताभ्यक्ताः स्युरिति भावः । कीदृशो देवः । तनूनपात् तनूनामपां नपात् पौत्रः । अद्भ्यो वृक्षा जायन्ते तेभ्योऽग्निरित्यपां पौत्रः । असुरः असवोऽस्य सन्ति प्राणवान् । रो मत्वर्थः । विश्ववेदाः सर्वधनः । देवेषु अपि देवः दीप्तिमान् श्रेष्ठः ॥ १२॥
त्रयोदशी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- अग्निर्ऋषिः
- उष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
अब वायु किस के समान कार्यसाधक है, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (देवेषु) उत्तम गुणवाले पदार्थों में (देवः) उत्तम गुणवाला (असुरः) प्रकाशरहित वायु (विश्ववेदाः) सब को प्राप्त होनेवाला (तनूनपात्) जो शरीर में नहीं गिरता (देवः) कामना करने योग्य (मध्वा) मधुर (घृतेन) जल के साथ (पथः) श्रोत्रादि के मार्गों को (अनक्तु) प्रकट करे, उस को तुम जानो ॥१२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे परमेश्वर बड़ा देव सब में व्यापक और सब को सुख करने हारा है, वैसा वायु भी है, क्योंकि इस वायु के बिना कोई कहीं भी नहीं जा सकता ॥१२ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ वायुः किंवत् कार्यसाधकोऽस्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यो देवेषु देवोऽसुरो विश्ववेदास्तनूनपाद्देवो मध्वा घृतेन सह पथोऽनक्तु, तं यूयं विजानीत ॥१२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यथा परमेश्वरो महादेवो विश्वव्यापी सर्वेषां सुखकरोऽस्ति तथा वायुरप्यस्ति, नह्यनेन विना कश्चिदपि कुत्रचिद् गन्तुं शक्नोति ॥१२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - परमेश्वर जसा मोठा देव आहे व सर्वत्र व्यापक आहे आणि सर्वांना सुख देणारा आहे तसा वायूही असून त्याच्याखेरीज कोणी कुठेही जाऊ शकत नाही.
१३ मध्वा यज्ञम्
विश्वास-प्रस्तुतिः ...{Loading}...
मध्वा॑ य॒ज्ञं न॑क्षसे प्रीणा॒नो नरा॒शँसो॑ऽ अग्ने। सु॒कृद्दे॒वः स॑वि॒ता वि॒श्ववा॑रः ॥१३ ॥
मूलम् ...{Loading}...
मध्वा॑ य॒ज्ञं न॑क्षसे प्रीणा॒नो नरा॒शँसो॑ऽ अग्ने। सु॒कृद्दे॒वः स॑वि॒ता वि॒श्ववा॑रः ॥१३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मध्वा॑। य॒ज्ञम्। न॒क्ष॒से॒। प्री॒णा॒नः। नरा॒शँसः॑। अ॒ग्ने॒। सु॒कृदिति॑ सु॒ऽकृत्। दे॒वः। स॒वि॒ता। वि॒श्ववा॑र॒ इति॑ वि॒श्वऽवा॑रः। १३।
महीधरः
म० हे अग्ने, त्वं मध्वा स्वादुना घृतेन यज्ञं नक्षसे व्याप्नोषि । नक्षतिर्व्याप्तिकर्मा । कीदृशस्त्वम् । प्रीणानः प्रीणीतेसौ प्रीणानः देवान् तर्पयन् । नराशंसः नरैर्ऋत्विग्भिराशंस्यते स्तूयते नराशंसः । सुकृत् शोभनकारी । देवः दीप्तिमान् । सविता विश्वस्योत्पादकः । विश्वेन व्रियते सेव्यते विश्ववारः विश्वं वृणोति अङ्गीकरोतीति वा कर्मण्यण् । सर्वस्य वरणीयः सर्वाङ्गीकर्ता वा ॥ १३॥
चतुर्दशी ।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- अग्निर्ऋषिः
- निचृदुष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर कैसे मनुष्य सुखी होवें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्वन् ! जो (नराशंसः) मनुष्यों की प्रशंसा करने (सुकृत्) उत्तम काम करने और (विश्ववारः) प्रशंसा को स्वीकार करनेवाले (प्रीणानः) चाहना करते हुए (सविता) ऐश्वर्य को चाहनेवाले (देवः) व्यवहार में चतुर आप (मध्वा) मधुर वचन से (यज्ञम्) सङ्गत व्यवहार को (नक्षसे) प्राप्त होते हो, उन आप को हम लोग प्रसन्न करें ॥१३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य यज्ञ में सुगन्धादि पदार्थों के होम से वायु जल को शुद्ध कर सब को सुखी करते हैं, वे सब सुखों को प्राप्त होते हैं ॥१३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः कीदृशा जनाः सुखिनः स्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! यो नराशंसः सुकृद्विश्ववारः प्रीणानः सविता देवस्त्वं मध्वा यज्ञं नक्षसे, तं वयं प्रसादयेम ॥१३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्या यज्ञे सुगन्धादिहोमेन वायुजले शोधयित्वा सर्वान् सुखयन्ति, ते सर्वाणि सुखानि प्राप्नुवन्ति ॥१३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे यज्ञात सुगंधी पदार्थांचा होम करून जल शुद्ध करतात व सर्वांना सुखी करतात. त्यांना सर्व सुख प्राप्त होते.
१४ अच्छायमेति शवसा
विश्वास-प्रस्तुतिः ...{Loading}...
अच्छा॒यमे॑ति॒ शव॑सा घृ॒तेने॑डा॒नो वह्नि॒र्नम॑सा। अ॒ग्निँ स्रुचो॑ऽ अध्व॒रेषु॑ प्र॒यत्सु॑ ॥१४ ॥
मूलम् ...{Loading}...
अच्छा॒यमे॑ति॒ शव॑सा घृ॒तेने॑डा॒नो वह्नि॒र्नम॑सा। अ॒ग्निँ स्रुचो॑ऽ अध्व॒रेषु॑ प्र॒यत्सु॑ ॥१४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अच्छ॑। अ॒यम्। ए॒ति॒। शव॑सा। घृ॒तेन॑। ई॒डा॒नः। वह्निः। नम॑सा। अ॒ग्निम्। स्रुचः॑। अ॒ध्व॒रेषु॑। प्र॒यत्स्विति॑ प्र॒यत्ऽसु॑। १४।
महीधरः
म० अयमध्वर्युः अध्वरेषु प्रयत्सु वर्तमानेषु सत्सु अग्निमच्छ एति अभ्येति । ‘अच्छाभेराप्तुमिति शाकपूणिः’ (निरु. ५। २८) । कीदृशः । शवसा ज्ञानबलेन ईडानः ‘ईड स्तुतौ’ शानच् । तथा वह्निः वहति यज्ञभारमिति वह्निः यज्ञनिर्वाहकः । किं कृत्वा । घृतेन नमसा अन्नेन हविर्लक्षणेनोपलक्षिताः स्रुचो जुह्वाद्या गृहीत्वेति शेषः ॥ १४ ॥
पञ्चदशी ।
अधिमन्त्रम् (VC)
- वह्निर्देवता
- अग्निर्ऋषिः
- भुरिगुष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
अब अग्नि से उपकार लेना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (अयम्) यह (ईडानः) स्तुति करता हुआ वह्निः) विद्या का पहुँचानेवाला विद्वान् जन (प्रयत्सु) प्रयत्न से सिद्ध करने योग्य (अध्वरेषु) विघ्नों से पृथक् वर्तमान यज्ञों में (शवसा) बल (घृतेन) जल और (नमसा) पृथिवी आदि अन्न के साथ वर्तमान (अग्निम्) अग्नि तथा (स्रुचः) होम के साधन स्रुवा आदि को (अच्छ, एति) अच्छे प्रकार प्राप्त होता है, उस का तुम लोग सत्कार करो ॥१४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे मनुष्यो ! जो अग्नि इन्धनों और जल से युक्त यानों में प्रयुक्त किया हुआ बल से शीघ्र चलता है, उस को जानके उपकार में लाओ ॥१४ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथाऽग्निनोपकारो ग्राह्य इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! योऽयमीडानो वह्निः प्रयत्स्वध्वरेषु शवसा घृतेन नमसा सह वर्त्तमानमग्निं स्रुचश्चाच्छैति तं यूयं सत्कुरुत ॥१४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः ! योऽग्निरिन्धनैर्जलेन युक्तो यानेषु प्रयुक्तः सन् बलेन सद्यो गमयति तं विज्ञायोपकुरुत ॥१४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे माणसांनो ! इंधन व जल यांनी युक्त केलेला अग्नी यांनामध्ये वापरला जातो व त्या शक्तीने ती याने ताबडतोब चालू शकतात अशा अग्नीला जाणून घेऊन त्याचा उपयोग करा.
१५ स यक्षदस्य
विश्वास-प्रस्तुतिः ...{Loading}...
स य॑क्षदस्य महि॒मान॑म॒ग्नेः सऽर्इं॑ म॒न्द्रा सु॑प्र॒यसः॑। वसु॒श्चेति॑ष्ठो वसु॒धात॑मश्च ॥१५ ॥
मूलम् ...{Loading}...
स य॑क्षदस्य महि॒मान॑म॒ग्नेः सऽर्इं॑ म॒न्द्रा सु॑प्र॒यसः॑। वसु॒श्चेति॑ष्ठो वसु॒धात॑मश्च ॥१५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सः। य॒क्ष॒त्। अ॒स्य॒। म॒हि॒मान॑म्। अ॒ग्नेः। सः। ई॒म्। म॒न्द्रा। सु॒प्र॒यस॒ इति॑ सुऽप्र॒यसः॑। वसुः॑। चेति॑ष्ठः। व॒सु॒धात॑म॒ इति॑ वसु॒ऽधात॑मः। च॒। १५।
महीधरः
म० सोऽध्वर्युरस्याग्नेः महिमानं यक्षत् यजतु ‘सिब्बहुलं लेटि’ (पा० ३।१।३४) ‘लेटोऽडाटौ’ ‘इतश्च लोपः परस्मैपदेषु’ (पा० ३ । ९४-९७) इति सूत्रैर्यक्षदिति रूपम् । सः ईम् स च मन्द्रा मन्द्राणि मदजनकानि हवींषि च यजतु ददातु । कीदृशस्याग्नेः । सुप्रयसः प्रयस् इत्यन्ननाम । शोभनानि प्रयांसि यस्य सुप्रयास्तस्य । कीदृशस्याग्नेर्महिमानं यजतु । यो वसुः वासयिता । चेतिष्ठः अतिचेतयिता । वसुधातमः वसूनां धनानां दातृतमः । क्विबन्तात्तमप् ॥ १५ ॥
षोडशी।
अधिमन्त्रम् (VC)
- वायुर्देवता
- अग्निर्ऋषिः
- स्वराडुष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (सः) वह पूर्वोक्त विद्वान् मनुष्य (सुप्रयसः) प्रीतिकारक सुन्दर अन्नादि के हेतु (अस्य) इस (अग्नेः) अग्नि के (महिमानम्) बड़प्पन को (यक्षत्) सम्यक् प्राप्त हो तथा (सः) वह (वसुः) निवास का हेतु (चेतिष्ठः) अतिशय कर जाननेवाला (च) और (वसुधातमः) अत्यन्त धनों को धारण करनेवाला हुआ (ईम्) जल तथा (मन्द्रा) आनन्ददायक होमने योग्य पदार्थों को प्राप्त होवे ॥१५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो पुरुष इस प्रकार अग्नि के बड़प्पन को जाने, सो अतिधनी होवे ॥१५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - स मनुष्यः सुप्रयसोऽस्याग्नेर्महिमानं यक्षत्, स वसुश्चेतिष्ठो वसुधातमश्च सन्नीं मन्द्रा यक्षत् ॥१५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - य इत्थमग्नेर्महत्त्वं विजानीयात्, सोऽतिधनी स्यात् ॥१५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे पुरुष अग्नीचे महत्त्व जाणतात ते धनवान होतात.
१६ द्वारो देवीरन्वस्य
विश्वास-प्रस्तुतिः ...{Loading}...
द्वारो॑ दे॒वीरन्व॑स्य॒ विश्वे॑ व्र॒ता द॑दन्तेऽ अ॒ग्नेः। उ॒रु॒व्यच॑सो॒ धाम्ना॒ पत्य॑मानाः ॥१६ ॥
मूलम् ...{Loading}...
द्वारो॑ दे॒वीरन्व॑स्य॒ विश्वे॑ व्र॒ता द॑दन्तेऽ अ॒ग्नेः। उ॒रु॒व्यच॑सो॒ धाम्ना॒ पत्य॑मानाः ॥१६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
द्वारः॑। दे॒वीः। अनु॑। अ॒स्य॒। विश्वे॑। व्र॒ता। द॒द॒न्ते॒। अ॒ग्नेः। उ॒रु॒व्यच॑स॒ इत्यु॑रु॒ऽव्यच॑सः। धाम्ना॑। पत्य॑मानाः। १६।
महीधरः
म० द्वारो देव्योऽस्याग्नेर्व्रता व्रतानि कर्माणि ददन्ते धारयन्ति ‘दद दाने धृतौ च’ । अनु पश्चात् विश्वे सर्वे देवाः अग्निव्रतानि ददन्ते । कीदृश्यो द्वारः । उरुव्यचसः उरु विशालं व्यचोऽवकाशो यासां ताः विशालान्तराः । तथा धाम्ना स्थानेन पत्यमानाः ‘पत ऐश्वर्ये’ दिवादिरात्मनेपदी । पत्यन्ते ईशते ताः पत्यमानाः स्थानैरैश्वर्यं कुर्वाणाः । ऋत्विजां स्थानानि ददाना इत्यर्थः । ताः स्तुमः ॥ १६ ॥
सप्तदशी।
अधिमन्त्रम् (VC)
- देव्यो देवताः
- अग्निर्ऋषिः
- निचृदुष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (विश्वे) सब (पत्यमानाः) मालिकपन करते हुए विद्वान् (उरुव्यचसः) बहुतों में व्यापक (अस्य) इस (अग्नेः) अग्नि के (धाम्ना) स्थान से (देवी) प्रकाशित (द्वारः) द्वारों तथा (व्रता) सत्यभाषणादि व्रतों का (अनु, ददन्ते) अनुकूल उपदेश देते हैं, वे सुन्दर ऐश्वर्यवाले होते हैं ॥१६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो लोग अग्नि की विद्या के द्वारों को जानते हैं, वे सत्य आचरण करते हुए अति आनन्दित होते हैं ॥१६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये विश्वे पत्यमाना उरुव्यचसोऽस्याग्नेर्धाम्ना देवीर्द्वारो व्रताऽनु ददन्ते, ते स्वैश्वर्या जायन्ते ॥१६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - येऽग्निविद्याया द्वाराणि जानन्ति ते सत्याचाराः सन्तोऽनुमोदन्ते ॥१६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे लोक अग्निविद्येचे प्रवेशद्वार जाणतात ते सत्याचरण करून आनंदात राहतात.
१७ तेऽअस्य योषणे
विश्वास-प्रस्तुतिः ...{Loading}...
तेऽअ॑स्य॒ योष॑णे दि॒व्ये न योना॑ऽ उ॒षासा॒नक्ता॑। इ॒मं य॒ज्ञम॑वतामध्व॒रं नः॑ ॥१७ ॥
मूलम् ...{Loading}...
तेऽअ॑स्य॒ योष॑णे दि॒व्ये न योना॑ऽ उ॒षासा॒नक्ता॑। इ॒मं य॒ज्ञम॑वतामध्व॒रं नः॑ ॥१७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ते इति॒ ते। अ॒स्य॒। योष॑णे॒ इति॒ योष॑णे। दि॒व्ये इति॑ दि॒व्ये। न। योनौ॑। उ॒षासा॒नक्ता॑। उ॒षसा॒नक्तेत्यु॒षसा॒नक्ता॑। इ॒मम्। य॒ज्ञम्। अ॒व॒ता॒म्। अ॒ध्व॒रम्। नः॒। १७।
महीधरः
म० उषाश्च नक्ता रात्रिश्च उषासानक्ता । उषस उषासादेशो द्वन्द्वे । ते प्रसिद्धे उषासानक्ता अहोरात्रिदेव्यौ नोऽस्माकमिमं यज्ञमवतां रक्षताम् । कीदृश्यौ ते । अस्याग्नेः योषणे भार्ये । तथा दिव्ये दिवि भवे स्वर्गस्थे । कीदृशस्य । अग्नेः योनौ गार्हपत्यस्थाने स्थितस्येति शेषः । नकारः पादपूरणः । कीदृशं यज्ञम् । अध्वरम् ‘ध्वृ कोटिल्ये’ न ध्वरतीत्यध्वरस्तम् । अकुटिलं शास्त्रोक्तमित्यर्थः ॥ १७ ॥
अष्टादशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- अग्निर्ऋषिः
- विराडुष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (ते) वे (उषासानक्ता) रात्रि और दिन (अस्य) इस पुरुष के (योनौ) घर में (दिव्ये) उत्तम रूपवाली (योषणे) दो स्त्रियों के (न) समान वर्त्तमान (नः) हमारे जिस (इमम्) इस (अध्वरम्) विनाश न करने योग्य (यज्ञम्) यज्ञ की (अवताम्) रक्षा करें, उस को तुम लोग जानो ॥१७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे विदुषी स्त्री घर के कार्यों को सिद्ध करती है, वैसे अग्नि से उत्पन्न हुए रात्रि दिन सब व्यवहार को सिद्ध करते हैं ॥१७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यास्ते उषासानक्ताऽस्य योनौ दिव्ये योषणे न नो यमिममध्वरं यज्ञमवतां तं यूयं विजानीत ॥१७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा विदुषी पत्नी गृहकृत्यानि साध्नोति, तथा वह्निना जाते रात्र्यह्नी सर्वं व्यवहारं साध्नुतः ॥१७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जसे विदुषी स्री गृहकृत्यदक्ष असते तसे अग्नीद्वारा उत्पन्न झालेल्या दिवस व रात्रीमुळे सर्व व्यवहार सिद्ध होतात.
१८ दैव्या होताराऽ
विश्वास-प्रस्तुतिः ...{Loading}...
दैव्या॑ होताराऽ उ॒र्ध्वम॑ध्व॒रं नो॒ऽग्नेर्जिह्वाम॒भि गृ॑णीतम्। कृ॒णु॒तं नः॒ स्वि᳖ष्टिम् ॥१८ ॥
मूलम् ...{Loading}...
दैव्या॑ होताराऽ उ॒र्ध्वम॑ध्व॒रं नो॒ऽग्नेर्जिह्वाम॒भि गृ॑णीतम्। कृ॒णु॒तं नः॒ स्वि᳖ष्टिम् ॥१८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दैव्या॑। हो॒ता॒रा॒। ऊ॒र्ध्वम्। अ॒ध्व॒रम्। नः॒। अ॒ग्नेः। जि॒ह्वाम्। अ॒भि। गृ॒णी॒त॒म् कृ॒णु॒तम्। नः॒ स्वि᳖ष्टि॒मिति॒ सुऽइ॑ष्टिम्। १८।
महीधरः
म० अयं चाग्निरसौ च मध्यमो वायुः हे दैव्याहोतारौ
अग्निवायू, युवां नोऽस्माकं स्विष्टिं शोभनं यजनं कृणुतं कुरुतम् । किंच नोऽस्माकमध्वरं यज्ञमूर्ध्वं कृणुतं देवमार्गगामिनं कुरुतम् । अग्नेर्जिह्वां ज्वालामभिगृणीतं वर्णयतम् समीची वह्निज्वालेति स्तुतमित्यर्थः ॥ १८ ॥
एकोनविंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- अग्निर्ऋषिः
- भुरिग्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (दैव्या) विद्वानो में प्रसिद्ध हुए दो विद्वान् (होतारा) सुख के देनेवाले (नः) हमारे (ऊर्ध्वम्) उन्नति को प्राप्त (अध्वरम्) नहीं बिगाड़ने योग्य व्यवहार की (अभि, गृणीतम्) सब ओर से प्रशंसा करें वे दोनों (नः) हमारी (स्विष्टिम्) सुन्दर यज्ञ के निमित्त (अग्नेः) अग्नि की (जिह्वाम्) ज्वाला को (कृणुतम्) सिद्ध करें ॥१८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो जिज्ञासु और अध्यापक लोग अग्नि की विद्या को जानें, तो विश्व की उन्नति करें ॥१८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यो दैव्या होतारा न ऊर्ध्वमध्वरमभिगृणीतं तौ नः स्विष्टिमग्नेर्जिह्वां कृणुतम् ॥१८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदि जिज्ञास्वध्यापकावग्निविद्यां जानीयातां तर्हि विश्वस्योन्नतिं कुर्याताम् ॥१८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे जिज्ञासू लोक व अध्यापक अग्निविद्या जाणतात ते विश्वाची उन्नती करतात.
१९ तिस्रो देवीर्बर्हिरेदम्
विश्वास-प्रस्तुतिः ...{Loading}...
ति॒स्रो दे॒वीर्ब॒र्हिरेदँ स॑द॒न्त्विडा॒ सर॑स्वती॒ भार॑ती। म॒ही गृ॑णा॒ना ॥१९ ॥
मूलम् ...{Loading}...
ति॒स्रो दे॒वीर्ब॒र्हिरेदँ स॑द॒न्त्विडा॒ सर॑स्वती॒ भार॑ती। म॒ही गृ॑णा॒ना ॥१९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ति॒स्रः। दे॒वीः। ब॒र्हिः। आ। इ॒दम्। स॒द॒न्तु॒। इडा॑। सर॑स्वती। भार॑ती। म॒ही। गृ॒णा॒ना। १९।
महीधरः
म० तिस्रो देव्यः इदं बर्हिरासदन्तु आसीदन्तु । छान्दसः । सीदादेशाभावः ‘व्यवहिताश्च’ (पा० १।४ । ८२) इत्याङा सह क्रियापदव्यवधानम् । कास्ता अत आह । इडा पृथिवीस्थाना सरस्वती मध्यस्थाना भारती द्युस्थाना । मही महती गृणाना स्तुवन्तीति विशेषणद्वयं तिसृणाम् ॥ १९ ॥
विंशी।
अधिमन्त्रम् (VC)
- इडादयो लिङ्गोक्ता देवताः
- अग्निर्ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को कैसी वाणी का सेवन करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोग जो (मही) बड़ी (गृणाना) स्तुति करती हुई (इडा) स्तुति करने योग्य (सरस्वती) प्रशस्त विज्ञानवाली और (भारती) सब शास्त्रों को धारण करने हारी जो (तिस्रः) तीन (देवीः) चाहने योग्य वाणी (इदम्) इस (बर्हिः) अन्तरिक्ष को (आ, सदन्तु) अच्छे प्रकार प्राप्त हों, उन तीनों प्रकार की वाणियों को सम्यक् जानो ॥१९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य व्यवहार में चतुर सब शास्त्र की विद्याओं से युक्त सत्यादि व्यवहारों को धारण करने हारी वाणी को प्राप्त हों, वे स्तुति के योग्य हुए महान् होवें ॥१९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैः कीदृशी वाणी सेवनीया इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यूयं या मही गृणानेडा सरस्वती भारती च तिस्रो देवीरिदं बर्हिरासदन्तु ताः सम्यग्विजानीत ॥१९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्या व्यवहारकुशलां सर्वशास्त्रविद्यान्वितां सत्यादिव्यवहारधर्त्रीं वाणीं प्राप्नुयुस्ते स्तुत्याः सन्तो महान्तो भवेयुः ॥१९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे व्यवहार चतुर, सर्व शास्रविद्येत कुशल असून त्यांची वाणी सत्य व्यवहार समजणारी असते ती माणसे प्रशंसनीय व श्रेष्ठ असतात.
२० तन्नस्तुरीपमद्भुतं पुरुक्षु
विश्वास-प्रस्तुतिः ...{Loading}...
तन्न॑स्तु॒रीप॒मद्भु॑तं पुरु॒क्षु त्वष्टा॑ सु॒वीर्य॑म्। रा॒यस्पोषं॒ विष्य॑तु॒ नाभि॑म॒स्मे ॥२० ॥
मूलम् ...{Loading}...
तन्न॑स्तु॒रीप॒मद्भु॑तं पुरु॒क्षु त्वष्टा॑ सु॒वीर्य॑म्। रा॒यस्पोषं॒ विष्य॑तु॒ नाभि॑म॒स्मे ॥२० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
तम्। नः॒। तु॒रीप॑म्। अद्भु॑तम्। पु॒रु॒क्षु। त्वष्टा॑। सु॒वीर्य॒मिति॑ सु॒ऽवीर्य॑म्। रा॒यः। पोष॑म्। वि। स्य॒तु॒। नाभि॑म्। अ॒स्मे इत्य॒स्मे। २०।
महीधरः
म० त्वष्टा देवः तं प्रसिद्धं रायो धनस्य पोषं पुष्टिमस्मे अस्माकं नाभिं प्रति विष्यतु विमुञ्चतु । नाभौ मुक्तमुत्सङ्गे पततीति भावः । ‘षोऽन्तकर्मणि’ ‘ओतः श्यनि’ (पा. ७ । ३ । ७१) इत्योकारलोपः । ‘स्यतिरुपसृष्टो विमोचने’ इति यास्कः । कीदृशं रायस्पोषम् । नोऽस्माकं तुरीपम् तुरा वेगेन आप्नोति तुरीपं शीघ्रप्रापकम् । अद्भुतं महान्तम् । पुरुक्षु पुरुषु बहुषु क्षियति निवसति पुरुक्षु ‘सुपां सुलुक्’ (पा० ७ । १।३९) इत्यमो लुक् । क्षियतेरौणादिको डुप्रत्ययः । सुवीर्यं साधु वीर्यं सामर्थ्यं येन तम् । ईदृशं धनं देहीत्यर्थः ॥ २० ॥
एकविंशी।
अधिमन्त्रम् (VC)
- त्वष्टा देवता
- अग्निर्ऋषिः
- निचृदुष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
ईश्वर से क्या प्रार्थना करनी चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (त्वष्टा) विद्या से प्रकाशित ईश्वर (अस्मे) हमारे (नाभिम्) मध्यप्रदेश के प्रति (तुरीपम्) शीघ्रता को प्राप्त होनेवाले (अद्भुतम्) आश्चर्यरूप गुण, कर्म और स्वभावों से युक्त (पुरुक्षु) बहुत पदार्थों में बसनेवाले (सुवीर्यम्) सुन्दर बलयुक्त (तम्) उस प्रसिद्ध (रायः) धन की (पोषम्) पुष्टि को देवे और (नः) हम लोगों को दुःख से (वि, स्यतु) छुड़ावे ॥२० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जो शीघ्रकारी आश्चर्यरूप बहुतों में व्यापक धन वा बल है, उस को तुम लोग ईश्वर की प्रार्थना से प्राप्त होके आनन्दित होओ ॥२० ॥
दयानन्द-सरस्वती (सं) - विषयः
ईश्वरात् किं प्रार्थनीयमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - त्वष्टाऽस्मे नाभिं प्रति तुरीपमद्भुतं पुरुक्षु सुवीर्यं तं रायस्पोषं ददातु नो दुःखाद् विष्यतु च ॥२० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यच्छीघ्रकार्याश्चर्यभूतं बहुव्यापकं धनं बलं वास्ति तद्यूयमीश्वरप्रार्थनया प्राप्यानन्दिता भवत ॥२० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! सर्वांमध्ये जे आश्चर्यकारक व्यापक धन किंवा बल आहे ते ईश्वराची प्रार्थना करून प्राप्त करा व आनंदी बना.
२१ वनस्पतेऽव सृजा
विश्वास-प्रस्तुतिः ...{Loading}...
वन॑स्प॒तेऽव॑ सृजा॒ ररा॑ण॒स्त्मना॑ दे॒वेषु॑। अ॒ग्निर्ह॒व्यँ श॑मि॒ता सू॑दयाति ॥२१ ॥
मूलम् ...{Loading}...
वन॑स्प॒तेऽव॑ सृजा॒ ररा॑ण॒स्त्मना॑ दे॒वेषु॑। अ॒ग्निर्ह॒व्यँ श॑मि॒ता सू॑दयाति ॥२१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वन॑स्पते। अव॑। सृ॒ज॒। ररा॑णः। त्मना॑। दे॒वेषु॑। अ॒ग्निः। ह॒व्यम्। श॒मि॒ता। सू॒द॒या॒ति॒। २१।
महीधरः
म० अग्निः शमिता हव्यं सूदयाति सूदयति संस्करोति यतः अतो हे वनस्पते, तत्संस्कृतं हव्यमवसृज स्रुङ्मुखतोऽवाचीनां क्षिप । कीदृशस्त्वम् । त्मना आत्मना देवेषु रराणः हविर्ददानः ‘रा दाने’ कानच् । मन्त्रेष्वाङ्यादेरात्मनः’ (पा० ६ । ४ । १४१) इत्यालोपः ॥ २१ ॥
द्वाविंशी।
अधिमन्त्रम् (VC)
- विद्वांसो देवता
- प्रजापतिर्ऋषिः
- विराडुष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
जिज्ञासु कैसा हो, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (वनस्पते) सेवन योग्य शास्त्र के रक्षक जिज्ञासु पुरुष ! जैसे (शमिता) यज्ञसम्बन्धी (अग्निः) अग्नि (हव्यम्) ग्रहण करने योग्य होम के द्रव्यों को (सूदयाति) सूक्ष्म कर वायु में पसारता है, वैसे (त्मना) अपने आत्मा से (देवेषु) दिव्य गुणों के समान विद्वानों में (रराणः) रमण करते हुए ग्रहण करने योग्य पदार्थों को (अव, सृजा) उत्तम प्रकार से बनाओ ॥२१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे शुद्ध आकाशादि में अग्नि शोभायमान होता है, वैसे विद्वानों में स्थित जिज्ञासु पुरुष सुन्दर प्रकाशित स्वरूपवाला होता है ॥२१ ॥
दयानन्द-सरस्वती (सं) - विषयः
जिज्ञासुः कीदृशो भवेदित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे वनस्पते ! यथा शमिताऽग्निर्हव्यं सूदयाति, तथा त्मना देवेषु रराणः सन् हव्यमवसृज ॥२१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा दिव्येष्वन्तरिक्षादिषु वह्नी राजते, तथा विद्वत्सु स्थितो जिज्ञासुः सुप्रकाशितात्मा भवति ॥२१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. शुभ्र आकाशात जसा अग्नी शोभून दिसतो तसे विद्वानांमध्ये जिज्ञासू पुरुष शोभून दिसतो.
२२ अग्ने स्वाहा
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने॒ स्वाहा॑ कृणुहि जातवेद॒ऽ इन्द्रा॑य ह॒व्यम्। विश्वे॑ दे॒वा ह॒विरि॒दं जु॑षन्ताम् ॥२२ ॥
मूलम् ...{Loading}...
अग्ने॒ स्वाहा॑ कृणुहि जातवेद॒ऽ इन्द्रा॑य ह॒व्यम्। विश्वे॑ दे॒वा ह॒विरि॒दं जु॑षन्ताम् ॥२२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अग्ने॑। स्वाहा॑। कृ॒णु॒हि॒। जा॒त॒वे॒द॒ इति॑ जातऽवेदः। इन्द्रा॑य। ह॒व्यम्। विश्वे॑। दे॒वाः। ह॒विः। इ॒दम्। जु॒ष॒न्ता॒म्। २२।
महीधरः
म० हे अग्ने, हे जातवेदः जातप्रज्ञान, हव्यमिन्द्राय स्वाहा कृणुहि स्वाहाकारेण प्रयच्छ । किंच विश्वेदेवा इदं हविर्जुषन्तां सेवन्ताम् ॥ २२ ॥
त्रयोविंशी ।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- प्रजापतिर्ऋषिः
- निचृदुष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (जातवेदः) विद्या में प्रसिद्ध (अग्ने) विद्वन् पुरुष ! आप (इन्द्राय) उक्त ऐश्वर्य के लिये (स्वाहा) सत्य वाणी और (हव्यम्) ग्रहण करने योग्य पदार्थ को (कृणुहि) प्रसिद्ध कीजिये (विश्वे) सब (देवाः) विद्वान् लोग (इदम्) इस (हविः) ग्रहण करने योग्य उत्तम वस्तु को (जुषन्ताम्) सेवन करें ॥२२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य ऐश्वर्य बढ़ाने के लिये प्रयत्न करें तो सत्य परमात्मा और विद्वानों का सेवन किया करें ॥२२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैः किं कार्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे जातवेदोऽग्ने ! त्वमिन्द्राय स्वाहा हव्यं कृणुहि, विश्वे देवा इदं हविर्जुषन्ताम् ॥२२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदि मनुष्या ऐश्वर्यवर्द्धनाय प्रयतेरंस्तर्हि सत्यं परमात्मानं विदुषश्च सेवेरन् ॥२२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे ऐश्वर्य वाढविण्यासाठी प्रयत्न करू इच्छितात त्यांनी सत्य, परमेश्वर व विद्वानांची कास धरावी.
२३ पीवोऽअन्ना रयिवृधः
विश्वास-प्रस्तुतिः ...{Loading}...
पीवो॑ऽअन्ना रयि॒वृधः॑ सुमे॒धाः श्वे॒तः सि॑षक्ति नि॒युता॑मभि॒श्रीः। ते वा॒यवे॒ सम॑नसो॒ वित॑स्थु॒र्विश्वेन्नरः॑ स्वप॒त्यानि॑ चक्रुः ॥२३ ॥
मूलम् ...{Loading}...
पीवो॑ऽअन्ना रयि॒वृधः॑ सुमे॒धाः श्वे॒तः सि॑षक्ति नि॒युता॑मभि॒श्रीः। ते वा॒यवे॒ सम॑नसो॒ वित॑स्थु॒र्विश्वेन्नरः॑ स्वप॒त्यानि॑ चक्रुः ॥२३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पीवो॑अ॒न्नेति॒ पीवः॑ऽअन्ना। र॒यि॒वृध॒ इति॑ रयिऽवृधः॑। सु॒मे॒धा इति॑ सुऽमे॒धाः। श्वे॒तः। सि॒ष॒क्ति॒। सि॒स॒क्तीति॑ सिसक्ति। नि॒युता॒मिति॑ नि॒ऽयुता॑म्। अ॒भि॒श्रीरित्य॑भि॒ऽश्रीः। ते। वा॒यवे॑। सम॑नस॒ इति सऽम॑नसः। वि। त॒स्थुः। विश्वा॑। इत्। नरः॑। स्व॒प॒त्यानीति॑ सुऽअप॒त्यानि॑। च॒क्रुः॒। २३।
महीधरः
म० अथैतं वायवे नियुत्वते शुक्लं तूपरमालभते इति हुतस्य पशोः पीवोअन्ना रयिवृध इत्याद्याः षट् याज्यानुवाक्याः । द्वे वायुदेवत्ये त्रिष्टुभौ वसिष्ठदृष्टे । ‘शुक्लो हि वायुः’ इति श्रुतेः । श्वेतो वायुः यान्नियुतोश्वान् सिषक्ति सेवते ते नियुतः समनसः सममनस्काः सन्तो वायवेऽर्थाय वितस्थुर्विशेषेण तिष्ठन्ति । कीदृशान्नियुतः । पीवोअन्ना पीवः पुष्टमन्नं येषां तान् । नकारलोपः ‘प्रकृत्यान्तःपादम्’ (पा० ६ । १ ।११५) इति पीवोअन्नानित्यत्र सन्ध्यभावः । तथा रयिवृधः रयिं धनं वर्धयन्ति तान् । कीदृशः श्वेतः । सुमेधा शोभना मेधा बुद्धिर्यस्य । नियुतामभिश्रीः अश्वानामाश्रयणीयः । एवमश्वयोगे वायुना कृते नरो मनुष्या ऋत्विजः विश्वा इत् विश्वानि सर्वाण्येव स्वपत्यानि शोभनापत्यप्रापकाणि चक्रुः कर्माणीति शेषः ॥ २३ ॥
चतुर्विंशी।
अधिमन्त्रम् (VC)
- वायुर्देवता
- वसिष्ठ ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
कैसा सन्तान सुखी करता है, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (समनसः) तुल्य ज्ञानवाले (रयिवृधः) धन को बढ़ानेवाले (सुमेधाः) सुन्दर बुद्धिमान् (नरः) नायक पुरुष (पीवोअन्ना) पुष्टिकारक अन्नवाले (विश्वा) सब (स्वपत्यानि) सुन्दर सन्तानों को (चक्रुः) करें, (ते) वे (इत्) ही (वायवे) वायु की विद्या के लिए (वि, तस्थुः) विशेष कर स्थित हों, जब (नियुताम्) निश्चित चलने हारे जनों का (अभिश्रीः) सब ओर से शोभायुक्त (श्वेतः) गमनशील वा उन्नति करनेहारा वायु सब को (सिषक्ति) सींचता है, तब वह शोभायुक्त होता है ॥२३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे वायु सब के जीवन का मूल है, वैसे उत्तम सन्तान सब के सुख के निमित्त होते हैं ॥२३ ॥
दयानन्द-सरस्वती (सं) - विषयः
कीदृशं सन्तानं सुखयतीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये समनसो रयिवृधः सुमेधा नरः पीवोअन्ना विश्वा स्वपत्यानि चक्रुः। त इद्वायवे वितस्थुर्यदा नियुतामभिश्रीः श्वेतो वायुः सर्वान् सिषक्ति तदा स श्रीमान् जायते ॥२३।
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा वायुः सर्वेषां जीवनमूलमस्ति तथोत्तमान्यपत्यानि सर्वेषां सुखनिमित्तानि जायन्ते ॥२३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसा वायू सर्वांच्या जीवनाचे मूळ आहे. तसे उत्तम संतान सर्वांच्या सुखाचे निमित्त असते.
२४ राये नु
विश्वास-प्रस्तुतिः ...{Loading}...
रा॒ये नु यं ज॒ज्ञतू॒ रोद॑सी॒मे रा॒ये दे॒वी धि॒षणा॑ धाति दे॒वम्। अध॑ वा॒युं नि॒युतः॑ सश्चत॒ स्वाऽ उ॒त श्वे॒तं वसु॑धितिं निरे॒के ॥२४ ॥
मूलम् ...{Loading}...
रा॒ये नु यं ज॒ज्ञतू॒ रोद॑सी॒मे रा॒ये दे॒वी धि॒षणा॑ धाति दे॒वम्। अध॑ वा॒युं नि॒युतः॑ सश्चत॒ स्वाऽ उ॒त श्वे॒तं वसु॑धितिं निरे॒के ॥२४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
रा॒ये। नु। यम्। ज॒ज्ञतुः॑। रोद॑सी॒ इति॒ रोद॑सी। इ॒मे इती॒मे। रा॒ये। दे॒वी। धि॒षणा॑। धा॒ति॒। दे॒वम्। अध॑। वा॒युम्। नि॒युत॒ इति॑ नि॒ऽयुतः॑। स॒श्च॒त॒। स्वाः। उ॒त। श्वे॒तम्। वसु॑धिति॒मिति॒ वसु॑ऽधितिम्। नि॒रे॒के। २४।
महीधरः
म० इमे रोदसी द्यावापृथिव्यौ यं वायुं जज्ञतुः उत्पादयामासतुः नु क्षिप्रम् । किमर्थम् । राये धनायोदकरूपाय । धियं सनोति ददाति धिषणा वाक् देवी देवं वायुं धाति धारयति । शपो लुक् । राये धनाय । रोदस्योः सद्भावेऽपि वायुं विना जगद्धारणाशक्तेर्वायुरुत्पादितः । धिषणेति ह्रस्वमार्षम् । अध अथ उत्पत्त्यनन्तरमेव उत निश्चितं स्वा नियुतो निजाश्वा । वायुं सश्चतः सचन्ते सेवन्ते ‘षच् सेवने पुरुषव्यत्ययः । क्व । निरेके निर्गतः रेकः रेचनं रेकः शून्यता यस्मात् तादृशे बहुजनाकीर्णे स्थाने । कीदृशं वायुम् । श्वेतं श्वेतवर्णम् । तथा वसुधितिं वसुनो धनस्य धितिर्धारणं यत्र तं धनस्य धारयितारम् ॥ २४ ॥
पञ्चविंशी।
अधिमन्त्रम् (VC)
- वायुर्देवता
- वसिष्ठ ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (इमे) ये (रोदसी) आकाश, भूमि (राये) धन के अर्थ (यम्) जिसको (जज्ञतुः) उत्पन्न करें (देवी) उत्तम गुणवाली (धिषणा) बुद्धि के समान वर्त्तमान स्त्री जिस (देवम्) उत्तम पति को (राये) धन के लिये (नु) शीघ्र (धाति) धारण करती है। (अध) इस के अनन्तर (निरेके) निश्शङ्क स्थान में (स्वाः) अपने सम्बन्धी (नियुतः) निश्चय कर मिलाने वा पृथक् करनेवाले जन (श्वेतम्) वृद्ध (उत) और (वसुधितिम्) पृथिव्यादि वसुओं के धारण के हेतु (वायुम्) वायु को (सश्चत) प्राप्त होते हैं, उस को तुम लोग जानो ॥२४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे मनुष्यो ! आप लोग बल आदि गुणों से युक्त सब के धारण करनेवाले वायु को जान के धन और बुद्धि को बढ़ावें। जो एकान्त में स्थित हो के इस प्राण के द्वारा अपने स्वरूप और परमात्मा को जानना चाहें तो इन दोनों आत्माओं का साक्षात्कार होता है ॥२४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैः किं कार्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्या ! इमे रोदसी राये यं जज्ञतुर्देवी धिषणा यं देवं राये नु धाति। अध निरेके स्वा नियुतः श्वेतमुत वसुधितिं वायुं सश्चत, तं यूयं विजानीत ॥२४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्या ! भवन्तो बलादिगुणयुक्तं सर्वस्य धर्त्तारं वायुं विज्ञाय धनप्रज्ञे वर्धयन्तु, यद्येकान्ते स्थित्वाऽस्य प्राणस्य द्वारा स्वात्मानं परमात्मानं च ज्ञातुमिच्छेयुस्तर्ह्यनयोः साक्षात्कारो भवति ॥२४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे माणसांनो ! बलांनीयुक्त व सर्वांनी धारण करणाऱ्या वायूला जाणून धन व बुद्धी वाढवा. जे एकांतात बसून निश्चय करतात व प्राणाद्वारे आपले स्वरूप व परमेश्वराचे स्वरूप यांना जाणू इच्छितात त्यांना आत्मा व परमात्मा या दोघांचाही साक्षात्कार होतो.
२५ आपो ह
विश्वास-प्रस्तुतिः ...{Loading}...
आपो॑ ह॒ यद् बृ॑ह॒तीर्विश्व॒माय॒न् गर्भं॒ दधा॑ना ज॒नय॑न्तीर॒ग्निम्। ततो॑ दे॒वानाँ॒ सम॑वर्त्त॒तासु॒रेकः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥२५ ॥
मूलम् ...{Loading}...
आपो॑ ह॒ यद् बृ॑ह॒तीर्विश्व॒माय॒न् गर्भं॒ दधा॑ना ज॒नय॑न्तीर॒ग्निम्। ततो॑ दे॒वानाँ॒ सम॑वर्त्त॒तासु॒रेकः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥२५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आपः॑। ह॒। यत्। बृ॒ह॒तीः। विश्व॑म्। आय॑न्। गर्भ॑म्। दधा॑नाः। ज॒नय॑न्तीः। अ॒ग्निम्। ततः॑। दे॒वाना॑म्। सम्। अ॒व॒र्त्त॒त॒। असुः॑। एकः॑। कस्मै॑। दे॒वाय॑। ह॒विषा॑। वि॒धे॒म॒। २५।
महीधरः
म० द्वे प्रजापतिदेवत्ये त्रिष्टुभौ हिरण्यगर्भदृष्टे प्रथमा द्व्यधिका । ‘आपो ह वा इदमग्रे सलिलमेवास’ (११।१। ६।१) इति ब्राह्मणमेतयोः कण्डिकयोर्निदानभूतं बोध्यम् । ह प्रसिद्धौ । यत् यदा पुरा आपो जलानि विश्वमायन् प्रापुः । कीदृश्य आपः । बृहतीः बृहत्यो महत्यः बहुलाः । तथा गर्भं हिरण्यगर्भलक्षणं दधानाः धारयन्त्यः । अतएवाग्निं जनयन्तीः अग्निरूपं हिरण्यगर्भं जनयन्त्यः उत्पादयिष्यन्त्यः । ततो गर्भात्संवत्सरोषितात् देवानामसुः प्राणरूप आत्मा लिङ्गशरीररूपो हिरण्यगर्भः समवर्तत उदपद्यत । कस्मै प्रजापतिरूपाय देवाय हिरण्यगर्भाय हविषा विधेम हविर्दद्मः । विभक्तिव्यत्ययः विधतिर्दानार्थः ॥ २५ ॥
षड्विंशी।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता स्वराट्
- हिरण्यगर्भ ऋषिः
- स्वराट् त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (बृहतीः) महत् परिमाणवाली (जनयन्तीः) पृथिव्यादि को प्रकट करने हारी (यत्) जिस (विश्वम्) सब में प्रवेश किये हुए (गर्भम्) सब के मूल प्रधान को (दधानाः) धारण करती हुई (आपः) व्यापक जलों की सूक्ष्ममात्रा (आयन्) प्राप्त हों, (ततः) उससे (अग्निम्) सूर्यादि रूप अग्नि को (देवानाम्) उत्तम पृथिव्यादि पदार्थों का सम्बन्धी (एकः) एक असहाय (असुः) प्राण (सम्, अवर्त्तत) सम्यक् प्रवृत्त करे, उस (ह) ही (कस्मै) सुख के निमित्त (देवाय) उत्तम गुण युक्त ईश्वर के लिये हम लोग (हविषा) धारण करने से (विधेम) सेवा करनेवाले हों ॥२५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जो स्थूल पञ्चतत्त्व दीख पड़ते हैं, उनको सूक्ष्म प्रकृति के कार्य पञ्चतन्मात्र नामक से उत्पन्न हुए जानो, जिनके बीच जो एक सूत्रात्मा वायु है, वह सब धारण करता है यह जानो, जो उस वायु के द्वारा योगाभ्यास से परमात्मा को जानना चाहो तो उसको साक्षात् जान सको ॥२५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - बृहतीर्जनयन्तीर्यद्विश्वं गर्भं दधानाः सत्य आप आयंस्ततोऽग्निं देवानामेकोऽसुः समवर्त्तत, तस्मै ह कस्मै देवाय वयं हविषा विधेम ॥२५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यानि स्थूलानि पञ्चतत्त्वानि दृश्यन्ते, तानि सूक्ष्मात् प्रकृतिकार्यात् पञ्चतन्मात्राख्यादुत्पन्नानि विजानीत। येषां मध्ये य एकः सूत्रात्मा वायुरस्ति स सर्वेषां धर्त्तेति बुध्यध्वम्। यदि तद्द्वारा योगाभ्यासेन परमात्मानं ज्ञातुमिच्छेत तर्हि तं साक्षाद् विजानीत ॥२५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! जे स्थूल पंचतत्व दिसते ते सूक्ष्म प्रकृतीचे कार्य असून पंचतन्मात्रांपासून उत्पन्न झालेले आहे हे जाणा. ज्यामध्ये सूत्रात्मा वायू असून तो सर्वांना धारण करतो हे जाणा. जे या वासूद्वारे योगाभ्यासाने परमेश्वराला जाणू इच्छितात त्याला ते प्रत्यक्ष जाणू शकतात.
२६ यश्चिदापो महिना
विश्वास-प्रस्तुतिः ...{Loading}...
यश्चि॒दापो॑ महि॒ना प॒र्यप॑श्य॒द् दक्षं॒ दधा॑ना ज॒नय॑न्तीर्य॒ज्ञम्। यो दे॒वेष्वधि॑ दे॒वऽ एक॒ऽ आसी॒त् कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥२६ ॥
मूलम् ...{Loading}...
यश्चि॒दापो॑ महि॒ना प॒र्यप॑श्य॒द् दक्षं॒ दधा॑ना ज॒नय॑न्तीर्य॒ज्ञम्। यो दे॒वेष्वधि॑ दे॒वऽ एक॒ऽ आसी॒त् कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥२६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यः। चि॒त्। आपः॑। म॒हि॒ना। प॒र्यप॑श्य॒दिति॑ परि॒ऽअप॑श्यत्। दक्ष॑म्। दधा॑नाः। ज॒नय॑न्तीः। य॒ज्ञम्। यः। दे॒वेषु॑। अधि॑। दे॒वः। एकः॑। आसी॑त्। कस्मै॑। दे॒वाय॑। ह॒विषा॑। वि॒धे॒म॒। २६।
महीधरः
म०चिदप्यर्थः । यो देवोऽन्तर्यामी महिना महिम्ना आपः। विभक्तिव्यत्ययः । अपः पूर्वोक्ताः पर्यपश्यत् सर्वतो ददर्श । कीदृशीः । दक्षं कुशलं प्रजापतिं दधानाः । यज्ञं जनयन्तीः। यज्ञशब्देन यज्ञकर्त्री प्रजा उच्यते । सृष्टिकर्त्रीरित्यर्थः । यश्च “देवेष्वधि अधिकः एको मुख्यो देव आसीत् । तस्मै देवाय हविर्दद्मः ॥ २६ ॥
सप्तविंशी।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- हिरण्यगर्भ ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
कौन मनुष्य आनन्दित होते हैं, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यः) जो परमेश्वर (महिना) अपने व्यापकपन के महिमा से (दक्षम्) बल को (दधानाः) धारण करती (यज्ञम्) सङ्गत संसार को (जनयन्तीः) उत्पन्न करती हुई (आपः) व्याप्तिशील सूक्ष्म जल की मात्रा हैं, उनको (पर्यपश्यत्) सब ओर से देखता है, (यः) जो ईश्वर (देवेषु) उत्तम गुणवाले प्रकृति आदि और जीवों में (एकः) एक (अधि, देवः) उत्तम गुण, कर्म, स्वभाववाला (आसीत्) है, उस (चित्) ही (कस्मै) सुखस्वरूप (देवाय) सब सुखों के दाता ईश्वर की हम लोग (हविषा) आज्ञापालन और योगाभ्यास के धारण से (विधेम) सेवा करें ॥२६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जो आप लोग सब के द्रष्टा, धर्त्ता, कर्त्ता, अद्वितीय अधिष्ठाता परमात्मा के जानने को नित्य योगाभ्यास करते हैं, वे आनन्दित होते हैं ॥२६ ॥
दयानन्द-सरस्वती (सं) - विषयः
के जना मोदन्त इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यो महिना दक्षं दधाना यज्ञं जनयन्तीरापः सन्ति ताः पर्यपश्यद् यो देवेष्वेकोऽधि देव आसीत् तस्मै चित् कस्मै देवाय वयं हविषा विधेम ॥२६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! ये भवन्तः सर्वस्य द्रष्टारं धर्त्तारमद्वितीयमधिष्ठातारं परमात्मानं ज्ञातुं योगं नित्यमभ्यस्यन्ति त आनन्दिता भवन्ति ॥२६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! तुमच्यामधील जे लोक, सर्वांचा द्रष्टा, धर्मा, कर्ता, अद्वितीय अधिष्ठाता असलेल्या परमेश्वराला जाणण्यासाठी नित्य योगाभ्यास करतात ते आनंदी असतात.
२७ प्र याभिर्यासि
विश्वास-प्रस्तुतिः ...{Loading}...
प्र याभि॒र्यासि॑ दा॒श्वाँस॒मच्छा॑ नि॒युद्भि॑र्वायवि॒ष्टये॑ दुरो॒णे। नि नो॑ र॒यिँ सु॒भोज॑सं युवस्व॒ नि वी॒रं गव्य॒मश्व्यं॑ च॒ राधः॑ ॥२७ ॥
मूलम् ...{Loading}...
प्र याभि॒र्यासि॑ दा॒श्वाँस॒मच्छा॑ नि॒युद्भि॑र्वायवि॒ष्टये॑ दुरो॒णे। नि नो॑ र॒यिँ सु॒भोज॑सं युवस्व॒ नि वी॒रं गव्य॒मश्व्यं॑ च॒ राधः॑ ॥२७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्र। याभिः॑। यासि॑। दा॒श्वाँस॑म्। अच्छ॑। नि॒युद्भि॒रिति॑ नि॒युत्ऽभिः॑। वा॒यो॒ इति॑ वायो। इ॒ष्टये॑। दु॒रो॒णे। नि। नः॒। र॒यिम्। सु॒भोज॑स॒मिति॑ सु॒ऽभोज॑सम्। यु॒व॒स्व॒। नि। वी॒रम्। गव्य॑म्। अश्व्य॑म्। च॒। राधः॑। २७।
महीधरः
म०. द्वे वायुदेवत्ये त्रिष्टुभौ वसिष्ठदृष्टे। हे वायो, त्वं याभिर्नियुद्भिरश्वाभिः कृत्वा इष्टये यागाय दुरोणे यज्ञगृहे वर्तमानं दाश्वांसं हविर्दत्तवन्तं यजमानमच्छ अभिमुखं प्रयासि गच्छसि । ‘निपातस्य च’ (पा० ६ । ३ । १३६) इति संहितायामच्छा इति दीर्घः । ‘व्यवहिताश्च’ (पा० १।४ । ८२) इति प्रणयासीत्यस्य व्यवधानम् । ताभिर्नियुद्भिरागत्य नोऽस्मभ्यं रयिं धनं नियुवस्व देहि । नियौतिर्दानार्थः व्यत्ययेन शप्रत्ययः । कीदृशं रयिम् । सुभोजसं सुष्ठु भुज्यत इति सुभोजास्तम् । भुजेरसुन्प्रत्ययः । किंच वीरं पुत्रं गव्यं गोसंबन्धि अश्वमश्वसंबन्धि गोऽश्वरूपं राधः धनं च नियुवस्व ॥ २७ ॥
अष्टाविंशी।
अधिमन्त्रम् (VC)
- वायुर्देवता
- वसिष्ठ ऋषिः
- स्वराट्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
विद्वान् को कैसा होना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (वायो) विद्वन् ! वायु के समान वर्त्तमान आप (प्र, याभिः) अच्छे प्रकार चाहने योग्य (नियुद्भिः) नियत गुणों से (इष्टये) अभीष्ट सुख के अर्थ (अच्छ, यासि) अच्छे प्रकार प्राप्त होते हो। (दुरोणे) घर में (नः) हमारे (सुभोजसम्) सुन्दर भोगने के हेतु (दाश्वांसम्) सुख के दाता (रयिम्) धन को (नि, युवस्व) निरन्तर मिश्रित कीजिये। (वीरम्) विज्ञानादि गुणों को प्राप्त (गव्यम्) गौ के हितकारी (च) तथा (अश्व्यम्) घोड़े के लिये हितैषी (राधः) धन को (नि) निरन्तर प्राप्त कीजिये ॥२७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे वायु सब जीवन आदि इष्ट कर्मों को सिद्ध करता है, वैसे विद्वान् पुरुष इस संसार में वर्त्ते ॥२७ ॥
दयानन्द-सरस्वती (सं) - विषयः
विदुषा कथं भवितव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! वायो वायुरिव त्वं प्रयाभिर्नियुद्भिरिष्टयेऽच्छ यासि, दुरोणे नः सुभोजसं दाश्वांसं रयिं नियुवस्व, वीरं गव्यमश्व्यं च राधो नि युवस्व। २७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा वायुः सर्वाणि जीवनादीनीष्टानि कर्माणि साध्नोति तथा विद्वानस्मिन् संसारे वर्त्तेत ॥२७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसा वायू सर्व जीवन इत्यादी इष्ट कर्त सिद्ध करतो तसे विद्वानांनी या जगात जगावे.
२८ आ नो
विश्वास-प्रस्तुतिः ...{Loading}...
आ नो॑ नि॒युद्भिः॑ श॒तिनी॑भिरध्व॒रँ स॑ह॒स्रिणी॑भि॒रुप॑ याहि य॒ज्ञम्। वायो॑ऽ अ॒स्मिन्त्सव॑ने मादयस्व यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥२८ ॥
मूलम् ...{Loading}...
आ नो॑ नि॒युद्भिः॑ श॒तिनी॑भिरध्व॒रँ स॑ह॒स्रिणी॑भि॒रुप॑ याहि य॒ज्ञम्। वायो॑ऽ अ॒स्मिन्त्सव॑ने मादयस्व यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥२८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ। नः॒। नि॒युद्भि॒रिति॑ नि॒युत्ऽभिः॑। श॒तिनी॑भिः। अ॒ध्व॒रम्। स॒ह॒स्रिणी॑भिः। उप॑। या॒हि॒। य॒ज्ञम्। वायो॒ इति॒ वायो॑। अ॒स्मिन्। सव॑ने। मा॒द॒य॒स्व॒। यू॒यम्। पा॒त॒। स्व॒स्तिभि॒रिति॑ स्व॒स्तिऽभिः॑। सदा॑। नः॒। २८।
महीधरः
म० हे वायो, नियुद्भिरश्वाभिः नोऽस्माकमध्वरं यज्ञमुपयाहि । कीदृशीभिः । शतिनीभिः सहस्रिणीभिः शतं सहस्रं च संख्या यासां ताभिः वयं बहुवाहनतर्पणे शक्ता इति भावः । एत्य चास्मिन् सवने तृतीये मादयस्व तृप्यस्व । अथ पादेन ऋत्विज आह । हे ऋत्विजः, स्वस्तिभिः कल्याणैर्यूयं नोऽस्मान् पात रक्षत ॥ २८ ॥
एकोनत्रिंशी।
अधिमन्त्रम् (VC)
- वायुर्देवता
- वसिष्ठ ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (वायो) वायु के तुल्य बलवान् विद्वन् ! जैसे वायु (नियुद्भिः) निश्चित मिली वा पृथक् जाने-आने रूप (शतिनीभिः) बहुत कर्मोंवाली (सहस्रिणीभिः) बहुत वेगोंवाली गतियों से (अस्मिन्) इस (सवने) उत्पत्ति के आधार जगत् में (नः) हमारे (अध्वरम्) न बिगाड़ने योग्य (यज्ञम्) सङ्गति के योग्य व्यवहार को (उप) निकट प्राप्त होता है, वैसे आप (आयाहि) अच्छे प्रकार प्राप्त हूजिये (मादयस्व) और आनन्दित कीजिये। हे विद्वानो ! (यूयम्) आप लोग इस विद्या से (स्वस्तिभिः) सुखों के साथ (नः) हम लोगों की (सदा) सब काल में (पात) रक्षा कीजिये ॥२८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। विद्वान् लोग, जैसे वायु विविध प्रकार की चालों से सब पदार्थों को पुष्ट करते हैं, वैसे ही अच्छी शिक्षा से सब को पुष्ट करें ॥२८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे वायो ! यथा वायुर्नियुद्भिश्शतिनीभिः सहस्रिणीभिर्गतिभिरस्मिन् सवने नोऽध्वरं यज्ञमुपगच्छति तथा त्वमेतमायाहि मादयस्व। हे विद्वांसो ! यूयमेतद्विद्यया स्वस्तिभिर्नः सदा पात ॥२८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। विद्वांसो यथा वायवो विविधाभिर्गतिभिः सर्वान् पुष्णन्ति तथैव सुशिक्षया सर्वान् पोषयन्तु ॥२८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसा वायू विविध प्रकारे सर्व पदार्थांना बलवान करतो, तसेच विद्वान लोकांनी चांगल्या शिक्षणाने सर्वांना बलवान करावे.
२९ नियुत्वान् वायवा
विश्वास-प्रस्तुतिः ...{Loading}...
नि॒युत्वा॑न् वाय॒वा ग॑ह्य॒यँ शु॒क्रोऽ अ॑यामि ते। गन्ता॑सि सुन्व॒तो गृ॒हम् ॥२९ ॥
मूलम् ...{Loading}...
नि॒युत्वा॑न् वाय॒वा ग॑ह्य॒यँ शु॒क्रोऽ अ॑यामि ते। गन्ता॑सि सुन्व॒तो गृ॒हम् ॥२९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नि॒युत्वा॑न्। वा॒यो॒ इति॑ वायो। आ। ग॒हि॒। अ॒यम्। शु॒क्रः। अ॒या॒मि॒। ते॒। गन्ता॑। अ॒सि॒। सु॒न्व॒तः। गृ॒हम्। २९।
महीधरः
म० षडृचो वायुदेवत्याः वायव्येष्टकापशुपक्षे वपादीनां याज्यानुवाक्यत्वेन नियुक्ताः । आद्या गायत्री गृत्समददृष्टा । हे वायो, यतः सुन्वतो यजमानस्य गृहं प्रति त्वं गन्ता गमनशीलोऽसि । तृन्नन्त आद्युदात्तत्वात् । अतो नियुत्वानश्वावान्सन् आगहि आगच्छ । शपो लुक् । अयं शुक्रो ग्रहः ते त्वां प्रति अयामि आगच्छतु प्राप्नोतु । लकारपुरुषव्यत्ययः । शुक्रादिग्रहाणां पात्रं त्वमेवेति भावः ॥ २९ ॥
त्रिंशी।
अधिमन्त्रम् (VC)
- वायुर्देवता
- गृत्समद ऋषिः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब ईश्वर कैसा है, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (वायो) वायु के तुल्य शीघ्रगन्ता (नियुत्वान्) नियमकर्त्ता ईश्वर आप, जैसे (अयम्) यह (शुक्रः) पवित्रकर्ता (गन्ता) गमनशील वायु (सुन्वतः) रस खींचनेवाले के (गृहम्) घर को प्राप्त होता है, वैसे मुझ को (आ, गहि) अच्छे प्रकार प्राप्त हूजिये, जिससे आप ईश्वर (असि) हैं, इससे (ते) आप के स्वरूप को मैं (अयामि) प्राप्त होता हूँ ॥२९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे वायु सब को शोधने और सर्वत्र पहुँचनेवाला तथा सब को प्राण से भी प्यारा है, वैसे ईश्वर भी है ॥२९ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथेश्वरः कीदृश इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे वायो ! नियुत्वानीश्वरस्त्वं यथाऽयं शुक्रो गन्ता वायुः सुन्वतो गृहं गच्छति, तथा मामागहि। यतस्त्वमीश्वरोऽसि तस्मात् ते स्वरूपमहमयामि ॥२९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा वायुः सर्वशोधकः सर्वत्र गन्ता सर्वप्रियोऽस्ति, तथेश्वरोऽपि वर्त्तते ॥२९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसा वायू सर्वांची शुद्धी करणारा, सर्वत्र पसरणारा, सर्वांना प्राणापेक्षा प्रिय असतो तसाच ईश्वरही असतो.
३० वायो शुक्रोऽ
विश्वास-प्रस्तुतिः ...{Loading}...
वायो॑ शु॒क्रोऽ अ॑यामि ते॒ मध्वो॒ऽअग्रं॒ दिवि॑ष्टिषु। आ या॑हि॒ सोम॑पीतये स्पा॒र्हो दे॑व नि॒युत्व॑ता ॥३० ॥
मूलम् ...{Loading}...
वायो॑ शु॒क्रोऽ अ॑यामि ते॒ मध्वो॒ऽअग्रं॒ दिवि॑ष्टिषु। आ या॑हि॒ सोम॑पीतये स्पा॒र्हो दे॑व नि॒युत्व॑ता ॥३० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वायो॒ऽइति॒ वायो॑। शु॒क्रः। अ॒या॒मि॒। ते॒। मध्वः॑। अग्र॑म्। दिवि॑ष्टिषु। आ। या॒हि॒। सोम॑ऽपीतय॒ इति॒ सोम॑पीतये। स्पा॒र्हः। दे॒व॒। नि॒युत्व॑ता। ३०।
महीधरः
म० अनुष्टुप् पुरुमीढाजमीढदृष्टा । हे वायो, शुक्रो ग्रहः त्वामयामि आगच्छतु । कीदृशः शुक्रः । दिविष्टिषु मध्वः अग्रं द्यौरिष्यते प्रार्थ्यते याभिस्ता दिविष्टयो यज्ञाः ज्योतिष्टोमेन स्वर्गकामो यजेतेत्युक्तेः मध्वः मधुनो रसस्याग्रं सारभूतः । यज्ञरसेषु शुक्रो ग्रहः सारभूत इत्यर्थः । किंच हे देव वायो, नियुत्वता अश्वावता रथेन आयाहि आगच्छ । किमर्थम् ॥ सोमपीतये सोमपानाय । कीदृशस्त्वम् । स्पार्हः स्पृहायोग्यः जयमानादिभिः स्पृहणीयः ॥ ३० ॥
एकत्रिंशी।
अधिमन्त्रम् (VC)
- वायुर्देवता
- पुरुमीढ ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्य को क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (वायो) जो वायु के समान वर्त्तमान विद्वन् ! (शुक्रः) शुद्धिकारक आप हैं, (ते) आप के (मध्वः) मधुर वचन के (अग्रम्) उत्तम भाग को (दिविष्टिषु) उत्तम सङ्गतियों में मैं (अयामि) प्राप्त होता हूँ। हे (देव) उत्तम गुणयुक्त विद्वान् पुरुष ! (स्पार्हः) उत्तम गुणों की अभिलाषा से युक्त के पुत्र आप (नियुत्वता) वायु के साथ (सोमपीतये) उत्तम ओषधियों का रस पीने के लिये (आ, याहि) अच्छे प्रकार प्राप्त हूजिये ॥३० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे मनुष्यो ! जैसे वायु सब रस और गन्ध आदि को पीके सब को पुष्ट करता है, वैसे तू भी सब को पुष्ट किया कर ॥३० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्येण किं कार्य्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे वायो ! यो वायुरिव शुक्रस्त्वमसि ते मध्वोग्रं दिविष्टिष्वहमयामि। हे देव ! स्पार्हस्त्वं नियुत्वता सह सोमपीतय आयाहि ॥३० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः ! यथा वायुः सर्वान् रसगन्धादीन् पीत्वा सर्वान् पोषयति तथा त्वं सर्वान् पुषाण ॥३० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे माणसांनो ! जसा वायू सर्व रस व गंध पिऊन सर्वांना पुष्ट करतो तसे तुम्हीही सर्वांना पुष्ट करा.
३१ वायुरग्रेगा यज्ञप्रीः
विश्वास-प्रस्तुतिः ...{Loading}...
वा॒युर॑ग्रे॒गा य॑ज्ञ॒प्रीः सा॒कं ग॒न्मन॑सा य॒ज्ञम्। शि॒वो नि॒युद्भिः॑ शि॒वाभिः॑ ॥३१ ॥
मूलम् ...{Loading}...
वा॒युर॑ग्रे॒गा य॑ज्ञ॒प्रीः सा॒कं ग॒न्मन॑सा य॒ज्ञम्। शि॒वो नि॒युद्भिः॑ शि॒वाभिः॑ ॥३१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वा॒युः। अ॒ग्रे॒गाऽइत्य॑ग्रे॒ऽगाः। य॒ज्ञ॒प्रीरिति॑ यज्ञ॒ऽप्रीः। सा॒कम्। ग॒न्। मन॑सा। य॒ज्ञम्। शि॒वः। नि॒युद्भि॒रिति॑ नि॒युत्ऽभिः॑। शि॒वाभिः॑। ३१।
महीधरः
म० द्वे गायत्र्यौ । वायुः शिवाभिः कल्याणरूपाभिः नियुद्भिरश्वाभिः कृत्वा मनसा साकं चित्तेन सह सादरं यज्ञं गन् गच्छतु । कीदृशः । अग्रेगाः अग्रे गच्छतीत्यग्रेगाः ‘विड्वनोरनुनासिकस्यात्’ (पा० ६ । ४ । ४१) इत्याकारः । यज्ञप्रीः यज्ञेन प्रीयते तुष्यतीति यज्ञप्रीः । शिवः कल्याणकरः ॥ ३१॥
द्वात्रिंशी।
अधिमन्त्रम् (VC)
- वायुर्देवता
- अजमीढ ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब विद्वानों को क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! जैसे (वायुः) पवन (नियुद्भिः) निश्चित (शिवाभिः) मङ्गलकारक क्रियाओं से (यज्ञम्) यज्ञ को (गन्) प्राप्त होता है, वैसे (शिवः) मङ्गलस्वरूप (अग्रेगाः) अग्रगामी (यज्ञप्रीः) यज्ञ को पूर्ण करने हारे हुए आप (मनसा) मन की वृत्ति के (साकम्) साथ यज्ञ को प्राप्त हूजिये ॥३१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। इस मन्त्र में (आ, याहि) इस पद की अनुवृत्ति पूर्व मन्त्र से आती है। जैसे वायु अनेक पदार्थों के साथ जाता-आता है, वैसे विद्वान् लोग धर्मयुक्त कर्मों को विज्ञान से प्राप्त होवें ॥३१ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ विद्वद्भिः किं कार्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यथा वायुर्नियुद्भिः शिवाभिर्यज्ञं गन् तथा शिवोऽग्रेगा यज्ञप्रीः संस्त्वं मनसा साकं यज्ञमायाहि ॥३१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। अत्रायाहीति पदं पूर्वमन्त्रादनुवर्त्तते। यथा वायुरनेकैः पदार्थैस्सह गच्छत्यागच्छति तथा विद्वांसो धर्म्याणि कर्माणि विज्ञानेन प्राप्नुवन्तु ॥३१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. या मंत्रात (आ याहि) या पदाची अनुवृत्ती पूर्वीच्या मंत्रातून झालेली आहे. जसा वायूचा अनेक पदार्थांबरोबर संयोग व वियोग होतो तसे विद्वान लोकांनी विज्ञानाच्या साह्याने धर्मयुक्त कर्म करावे.
३२ वायो ये
विश्वास-प्रस्तुतिः ...{Loading}...
वायो॒ ये ते॑ सह॒स्रिणो॒ रथा॑स॒स्तेभि॒रा ग॑हि। नि॒युत्वा॒न्त्सोम॑पीतये ॥३२ ॥
मूलम् ...{Loading}...
वायो॒ ये ते॑ सह॒स्रिणो॒ रथा॑स॒स्तेभि॒रा ग॑हि। नि॒युत्वा॒न्त्सोम॑पीतये ॥३२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वायो॒ इति॒ वायो॑। ये। ते॒। स॒ह॒स्रिणः॑। रथा॑सः। तेभिः॑। आ। ग॒हि॒। नि॒युत्वा॑न्। सोम॑पीतय॒ इति॒ सोम॑ऽपीतये। ३२।
महीधरः
म० हे वायो, ये ते तव सहस्रिणः सहस्रसंख्याका रथासः रथाः तेभिस्तैः रथैः आगहि आगच्छ । किमर्थं । सोमपानाय । कीदृशस्त्वम् । नियुत्वान् अश्वायुक्तः । नियुतो वायोरिति निघण्टूक्तेः ॥ ३२॥
त्रयस्त्रिंशी।
अधिमन्त्रम् (VC)
- वायुर्देवता
- गृत्समद ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (वायो) पवन के तुल्य वर्त्तमान विद्वन् ! (ये) जो (ते) आप के (सहस्रिणः) प्रशस्त सहस्रों मनुष्यों से युक्त (रथासः) सुन्दर आराम देनेवाले यान हैं, (तेभिः) उन के सहित (नियुत्वान्) समर्थ हुए आप (सोमपीतये) सोम ओषधि का रस पीने के लिये (आ, गहि) आइये ॥३२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे मनुष्यो ! जैसे वायु की असंख्य रमण करने योग्य गति हैं, वैसे अनेक प्रकार की गतियों से समर्थ होके ऐश्वर्य को भोगो ॥३२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे वायो वायुरिव वर्त्तमान विद्वन् ! ये ते सहस्रिणो रथासः सन्ति, तेभिः सह नियुत्वान्त्संस्त्वं सोमपीतय आ गहि ॥३२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः ! यथा वायोरसंख्या रमणीया गतयः सन्ति, तथा विविधाभिर्गतिभिः समर्था भूत्वैश्वर्यं भुङ्ग्ध्वम् ॥३२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे माणसांनो ! वायूच्या रमण करण्यायोग्य असंख्य गती आहेत तशा अनेक प्रकारच्या गतीने तुम्हीही समर्थ बनून ऐश्वर्य भोगा.
३३ एकया च
विश्वास-प्रस्तुतिः ...{Loading}...
एक॑या च द॒शभि॑श्च स्वभूते॒ द्वाभ्या॑मि॒ष्टये॑ विँश॒ती च॑। ति॒सृभि॑श्च॒ वह॑से त्रिँ॒शता॑ च नि॒युद्भि॑र्वायवि॒ह ता वि मु॑ञ्च ॥३३ ॥
मूलम् ...{Loading}...
एक॑या च द॒शभि॑श्च स्वभूते॒ द्वाभ्या॑मि॒ष्टये॑ विँश॒ती च॑। ति॒सृभि॑श्च॒ वह॑से त्रिँ॒शता॑ च नि॒युद्भि॑र्वायवि॒ह ता वि मु॑ञ्च ॥३३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
एक॑या। च॒। द॒शभि॒रिति॑ द॒शऽभिः॑। च॒। स्व॒भू॒त॒ऽइति॑ स्वऽभूते। द्वाभ्या॑म्। इ॒ष्टये॑। विँ॒श॒ती। च॒। ति॒सृभि॒रिति॑ ति॒सृऽभिः॑। च॒। वह॑से। त्रिँ॒शता॑। च॒। नि॒युद्भि॒रिति॑ नि॒युत्ऽभिः॑। वा॒यो॒ इति॑ वायो। इ॒ह। ता। वि। मु॒ञ्च॒। ३३।
महीधरः
म० त्रिष्टुप् अनयर्चा पात्राणि मुच्यन्ते । स्वा निजा भूतिः समृद्धिर्जगद्रूपा यस्य स स्वभूतिः हे स्वभूते, हे वायो, एकया दशभिः द्वाभ्यां विंशती विंशत्या पूर्वसवर्णः । तिसृभिः त्रिंशता च नियुद्भिः अश्वाभिः कृत्वा । इष्टये यज्ञाय त्वं यानि पात्राणि वहसे ता तानि पात्राणि इह यज्ञे विमुञ्च । पञ्च चकाराः समुच्चयार्थाः ॥ ३३ ॥
चतुस्त्रिंशी।
अधिमन्त्रम् (VC)
- वायुर्देवता
- गृत्समद ऋषिः
- विराट् त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (स्वभूते) अपने ऐश्वर्य से शोभायमान (वायो) वायु के तुल्य अर्थात् जैसे पवन (इह) इस जगत् में सङ्गति के लिए (एकया) एक प्रकार की गति (च) और (दशभिः) दशविध गतियों (च) और (द्वाभ्याम्) विद्या और पुरुषार्थ से (इष्टये) विद्या की सङ्गति के लिए (विंशती) दो बीसी (च) और (तिसृभिः) तीन प्रकार की गतियों से (च) और (त्रिंशता) तीस (च) और (नियुद्भिः) निश्चित नियमों के साथ यज्ञ को प्राप्त होता, वैसे (वहसे) प्राप्त होते सो आप (ता) उन सब को (वि, मुञ्च) विशेष कर छोड़िये अर्थात् उन का उपदेश कीजिये ॥३३।
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे वायु इन्द्रिय प्राण और अनेक गतियों और पृथिव्यादि लोकों के साथ सब के इष्ट को सिद्ध करता है, वैसे विद्वान् भी सिद्ध करें ॥३३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्वभूते वायो ! यथा पवन इहेष्टये एकया च दशभिश्च द्वाभ्यामिष्टये विंशती च तिसृभिश्च त्रिंशता च नियुद्भिः सह यज्ञं वहति, तथा वहसे स त्वं ता वि मुञ्च ॥३३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा वायुरिन्द्रियैः प्राणैरनेकाभिर्गतिभिः पृथिव्यादिलोकैश्च सह सर्वस्येष्टं साध्नोति तथा विद्वांसोऽपि साध्नुयुः ॥३३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसा वायू, इंद्रिये, प्राण व अनेक गतींना सिद्ध करतो, पृथ्वीवर सर्वांचे इष्ट करतो तसे विद्वानांनीही करावे.
३४ तव वायवृतस्पते
विश्वास-प्रस्तुतिः ...{Loading}...
तव॑ वायवृतस्पते॒ त्वष्टु॑र्जामातरद्भुत। अवाँ॒स्या वृ॑णीमहे ॥३४ ॥
मूलम् ...{Loading}...
तव॑ वायवृतस्पते॒ त्वष्टु॑र्जामातरद्भुत। अवाँ॒स्या वृ॑णीमहे ॥३४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
त॑व। वा॒यो॒ऽइति॑ वायो। ऋ॒त॒स्प॒ते॒। ऋ॒त॒प॒त॒ऽइत्यृ॑तऽपते। त्वष्टुः॑। जा॒मा॒तः॒। अ॒द्भु॒त॒। अवाँ॑सि। आ। वृ॒णी॒म॒हे॒। ३४।
महीधरः
म० गायत्री व्यश्वदृष्टा । हे वायो, हे ऋतस्पते सत्यस्य पालक, ऋतस्य पतौपरे सुडागमः । हे त्वष्टुर्जामातः, आदित्यादप आदाय वायुर्गर्भयति ततो वृष्टिर्भवतीति वायुरादित्यस्य जामाता । हे अद्भुत आश्चर्यरूप, तवावांसि अन्नानि वयमावृणीमहे प्रार्थयामः ॥ ३४ ॥
पञ्चत्रिंशी।
अधिमन्त्रम् (VC)
- वायुर्देवता
- आङ्गिरस ऋषिः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब किसके तुल्य वायु को स्वीकार करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (ऋतस्पते) सत्य के रक्षक (जामातः) जमाई के तुल्य वर्त्तमान (अद्भुत) आश्चर्यरूप कर्म करनेवाले (वायो) बहुत बलयुक्त विद्वन् ! हम लोग जो (त्वष्टुः) विद्या से प्रकाशित (तव) आप के (अवांसि) रक्षा आदि कर्मों का (आ, वृणीमहे) स्वीकार करते हैं, उन का आप भी स्वीकार करो ॥३४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे जमाई उत्तम आश्चर्य गुणोंवाला, सत्य ईश्वर का सेवक हुआ स्वीकार के योग्य होता है, वैसे वायु भी स्वीकार करने योग्य है ॥३४ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ किंवद्वायुः स्वीकर्तव्य इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे ऋतस्पते ! जामातरद्भुत वायो वयं यानि त्वष्टुस्तवाऽवांस्या वृणीमहे, तानि त्वमपि स्वीकुरु ॥३४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यथा जामाताऽऽश्चर्यगुणाः सत्यसेवकः स्वीकर्त्तव्योऽस्ति, तथा वायुरपि वरणीयोऽस्ति ॥३४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जामात जर उत्तम आश्चर्यकारक सत्य गुणांनी युक्त असून ईश्वरसेवक असेल तर स्वीकार करण्यायोग्य असतो तसा वायूही स्वीकार करण्यायोग्य असतो.
३५ अभि त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒भि त्वा॑ शूर नोनु॒मोऽदु॑ग्धाऽ इव धेनवः॑। ईशा॑नम॒स्य जग॑तः स्व॒र्दृश॒मीशा॑नमिन्द्र त॒स्थुषः॑ ॥३५ ॥
मूलम् ...{Loading}...
अ॒भि त्वा॑ शूर नोनु॒मोऽदु॑ग्धाऽ इव धेनवः॑। ईशा॑नम॒स्य जग॑तः स्व॒र्दृश॒मीशा॑नमिन्द्र त॒स्थुषः॑ ॥३५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒भि। त्वा॒। शू॒र॒। नो॒नु॒मः॒। अदु॑ग्धा इ॒वेत्यदु॑ग्धाःऽइव। धे॒नवः॑। ईशा॑नम्। अ॒स्य। जग॑तः। स्व॒र्दृश॒मिति॑ स्वः॒दृऽश॑म्। ईशा॑नम्। इ॒न्द्र॒। त॒स्थुषः॑। ३५।
महीधरः
म० बृहतीसतोबृहतीद्वयं प्रगाथं वसिष्ठदृष्टमिन्द्रदेवत्यम् । ‘रथन्तरं दक्षिणे पक्षे’ इति श्रुतेः । ‘नान्योऽध्वर्योर्गायेत्’ इत्यध्वयोर्गानं विहितम् । अतः साम्नां योनय ऋचः पठ्यन्ते । तत्रैन्द्रः प्रगाथो रथन्तरस्य योनिः । हे शूर इन्द्र, वयं त्वा त्वामभिनोनुमः आभिमुख्येनात्यन्तं स्तुमः ‘नु स्तुतौ’ यङ्लुगन्तम् । तत्र दृष्टान्तः । अदुग्धाः धेनवः इव यथा अदुग्धा गावो वत्सान्स्तुवन्ति । कीदृशं त्वाम् । जगतो जङ्गमस्येशानं प्रभुम् । स्वर्दृशं स्वः पश्यतीति स्वर्दृक् तम् । यद्वा स्वः आदित्य इव दृश्यते स्वर्दृक् तस्थुषः स्थावरस्य ईशानम् । विश्वनियन्तारमित्यर्थः ॥ ३५॥
षट्त्रिंशी।
अधिमन्त्रम् (VC)
- वायुर्देवता
- वसिष्ठ ऋषिः
- स्वराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब राजधर्म विषय अगले मन्त्र में कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (शूर) निर्भय (इन्द्र) सभापते (अदुग्धा इव) बिना दूध की (धेनवः) गौओं के समान हम लोग (अस्य) इस (जगतः) चर तथा (तस्थुषः) अचर संसार के (ईशानम्) नियन्ता (स्वर्दृशम्) सुखपूर्वक देखने योग्य ईश्वर के तुल्य (ईशानम्) समर्थ (त्वा) आप को (अभि, नोनुमः) सन्मुख से सत्कार वा प्रशंसा करें ॥३५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। हे राजन् ! जो आप पक्षपात छोड़ के ईश्वर के तुल्य न्यायाधीश होवें, जो कदाचित् हम लोग कर भी न देवें तो भी हमारी रक्षा करें तो आप के अनुकूल हम सदा रहें ॥३५ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ राजधर्ममाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे शूरेन्द्र ! धेनवोऽदुग्धा इव वयमस्य जगतस्तस्थुष ईशानं स्वर्दृशमिवेशानं त्वाऽभिनोनुमः ॥३५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। हे राजन् ! यदि भवान् पक्षपातं विहायेश्वरवन्न्यायाधीशो भवेद् यदि कदाचिद्वयं करमपि न दद्याम तथाऽप्यस्मान् रक्षेत् तर्हि त्वदनुकूला वयं सदा भवेम ॥५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. हे राजा जर भेदभाव न करता तू ईश्वराप्रमाणे न्यायाधीश होशील व एखाद्यावेही आम्ही प्रजेने कर न दिला तरीही आमचे रक्षण करशील तर आम्ही सदैव तुझ्या अनुकूल वर्तन करू.
३६ न त्वावाँ
विश्वास-प्रस्तुतिः ...{Loading}...
न त्वावाँ॑ २ ॥ऽ अ॒न्यो दि॒व्यो न पार्थि॑वो॒ न जा॒तो न ज॑निष्यते। अ॒श्वा॒यन्तो॑ मघवन्निन्द्र वा॒जिनो॑ ग॒व्यन्त॑स्त्वा हवामहे ॥३६ ॥
मूलम् ...{Loading}...
न त्वावाँ॑ २ ॥ऽ अ॒न्यो दि॒व्यो न पार्थि॑वो॒ न जा॒तो न ज॑निष्यते। अ॒श्वा॒यन्तो॑ मघवन्निन्द्र वा॒जिनो॑ ग॒व्यन्त॑स्त्वा हवामहे ॥३६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
न। त्वावा॒निति॒ त्वाऽवा॑न्। अ॒न्यः। दि॒व्यः। न। पार्थि॑वः। न। जा॒तः। न। ज॒नि॒ष्य॒ते॒। अ॒श्वा॒यन्तः॑। अ॒श्व॒यन्त॒ इत्य॑श्व॒ऽयन्तः॑। म॒घ॒व॒न्निति॑ मघऽवन्। इ॒न्द्र॒। वा॒जिनः॑। ग॒व्यन्तः॑। त्वा॒। ह॒वा॒म॒हे॒। ३६।
महीधरः
म० हे मघवन् धनवन् , हे इन्द्र, दिवि भवो दिव्यः पार्थिवः पृथिवीभवश्च त्वावान् त्वत्सदृशोऽन्यो नास्तीति शेषः । न च जातः न जनिष्यते उत्पत्स्यते । त्वत्सदृशोऽस्तीति त्वावान् । सादृश्यार्थे वतुप्रत्ययः । अतो वयं त्वा त्वां हवामहे । । कीदृशा वयम् । अश्वायन्तः अश्वान् कामयमानाः ‘अश्वाघस्यात्’ । (पा० ७ । ४ । ३७) इति क्यचि आत्वम् । ततः शतृप्रत्ययः । वाजिनोऽन्नवन्तः हविर्युताः । गव्यन्तः गा इच्छन्तीति गव्यन्तः गोकामाः । गवाश्वान्देहीत्यर्थः ॥ ३६ ॥
सप्तत्रिंशी।
अधिमन्त्रम् (VC)
- परमेश्वरो देवता
- शंयुर्बार्हस्पत्य ऋषिः
- निचृत्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
ईश्वर ही उपासना करने योग्य है, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (मघवन्) पूजित उत्तम ऐश्वर्य से युक्त (इन्द्र) सब दुःखों के विनाशक परमेश्वर ! (वाजिनः) वेगवाले (गव्यन्तः) उत्तम वाणी बोलते हुए (अश्वायन्तः) अपने को शीघ्रता चाहते हुए हम लोग (त्वा) आप की (हवामहे) स्तुति करते हैं, क्योंकि जिस कारण कोई (अन्यः) अन्य पदार्थ (न) न कोई (त्वावान्) आप के (दिव्यः) शुद्ध (न) न कोई (पार्थिवः) पृथिवी पर प्रसिद्ध (न) न कोई (जातः) उत्पन्न हुआ और (न) न (जनिष्यते) होगा, इससे आप ही हमारे उपास्यदेव हैं ॥३६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - न कोई परमेश्वर के तुल्य शुद्ध हुआ, न होगा और न है। इसी से सब मनुष्यों को चाहिये कि इस को छोड़ अन्य किसी की उपासना इस के स्थान में कदापि न करें, यही कर्म इस लोक, परलोक में आनन्ददायक जानें ॥३६ ॥
दयानन्द-सरस्वती (सं) - विषयः
ईश्वर एवोपासनीय इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मघवन्निन्द्रेश्वर ! वाजिनो गव्यन्तोऽश्वायन्तो वयं त्वा हवामहे, यतः कश्चिदन्यः पदार्थो न त्वावान् दिव्यो न पार्थिवो न जातो न जनिष्यते तस्माद् भवानेवाऽस्माकमुपास्यो देवोऽस्ति ॥३६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - न कोऽपि परमेश्वरेण सदृशः शुद्धो जातो वा जनिष्यमाणो वर्त्तमानो वाऽस्ति। अत एव सर्वैर्मनुष्यैरेतं विहायान्यस्य कस्याप्युपासनाऽस्य स्थाने नैव कार्या। इदमेव कर्मेहामुत्र चानन्दप्रदं विज्ञेयम् ॥३६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - परमेश्वराप्रमाणे कोणी पवित्र नाही व नसणार आणि नव्हते त्यामुळे सर्व माणसांनी त्याला सोडून इतर कुणाची उपासना कधीही करू नये. हेच कर्म इहलोक व परलोकात आनंददायक आहे हे जाणावे.
३७ त्वामिद्धि हवामहे
विश्वास-प्रस्तुतिः ...{Loading}...
त्वामिद्धि हवा॑महे सा॒तौ वाज॑स्य का॒रवः॑। त्वां वृ॒त्रेष्वि॑न्द्र॒ सत्प॑तिं॒ नर॒स्त्वां काष्ठा॒स्वर्व॑तः ॥३७ ॥
मूलम् ...{Loading}...
त्वामिद्धि हवा॑महे सा॒तौ वाज॑स्य का॒रवः॑। त्वां वृ॒त्रेष्वि॑न्द्र॒ सत्प॑तिं॒ नर॒स्त्वां काष्ठा॒स्वर्व॑तः ॥३७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
त्वाम्। इत्। हि। हवा॑महे। सा॒तौ। वाज॑स्य। का॒रवः॑। त्वाम्। वृ॒त्रेषु॑। इ॒न्द्र॒। सत्प॑ति॒मिति॒ सत्ऽप॑तिम्। नरः॑। त्वाम्। काष्ठा॑सु। अर्व॑तः। ३७।
महीधरः
म० ऋग्द्वयमैन्द्रः प्रगाथः शम्युदृष्टः बृहत्साम्नो योनिः अध्वर्योर्गानस्योक्तः । आद्या बृहती द्वितीया सतोबृहती ‘बृहदुत्तरे पक्षे’ इति श्रुतेः । हे इन्द्र, कारवः कर्तारः यज्ञानाम् नरः ऋत्विजो वयं त्वामेव हवामहे आह्वयामः । इत् एवार्थे हि निश्चये । किंनिमित्तम् । वाजस्यान्नस्य सातौ लाभनिमित्तम् । वृत्रेषु शत्रुषु शत्रुघातनिमित्तम् । काष्ठासु दिक्षु दिग्विजयनिमित्तम् । कीदृशं त्वाम् । सत्पतिं सतां पालयितारम् । श्रुतिस्मृत्युक्ताचाररता निषिद्धत्यागिनः सन्तः कथ्यन्ते । तथा अर्वतः अश्वप्राप्तिनिमित्तं च । विभक्तिव्यत्ययः । त्वांशब्दावृत्तिरादरार्था ॥ ३७॥
अष्टत्रिंशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- शंयुर्बार्हस्पत्य ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर राजधर्म विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) सूर्य के तुल्य जगत् के रक्षक राजन् ! (वाजस्य) विद्या वा विज्ञान से हुए कार्य के (हि) ही (कारवः) करनेवाले (नरः) नायक हम लोग (सातौ) रण में (त्वाम्) आप को, जैसे (वृत्रेषु) मेघों में सूर्य को, वैसे (सत्पतिम्) सत्य के प्रचार से रक्षक (त्वाम्) आप को (अर्वतः) शीघ्रगामी घोड़े के तुल्य सेना में देखें, (काष्ठासु) दिशाओं में (त्वाम्) आप को (इत्) ही (हवामहे) ग्रहण करें ॥३७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे सेना और सभा के पति ! तुम दोनों सूर्य के तुल्य न्याय और अभय के प्रकाशक, शिल्पियों का संग्रह करने और सत्य के प्रचार करनेवाले होओ ॥३७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुना राजधर्मविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे इन्द्र ! वाजस्य हि कारवो नरो वयं सातौ त्वां वृत्रेषु सूर्यमिव सत्पतिं त्वामर्वत इव सेनायां पश्येम काष्ठासु त्वामिद्धवामहे ॥३७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे सेनासभेशौ ! युवां सूर्यवन्न्यायाभयप्रकाशकौ शिल्पिनां सङ्ग्रहीतारौ सत्यस्य प्रचारकौ भवेतम् ॥३७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे सेनापती व राजा ! तुम्ही दोघे सूर्याप्रमाणे न्याय व निर्भयता ठेवा. कारागिरांना एकत्र करा व सत्याचा प्रसार करा.
३८ स त्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
स त्वं न॑श्चित्र वज्रहस्त धृष्णु॒या म॒ह स्त॑वा॒नोऽअ॑द्रिवः। गामश्वँ॑ र॒थ्य᳖मिन्द्र॒ संकि॑र स॒त्रा वाजं॒ न जि॒ग्युषे॑ ॥३८ ॥
मूलम् ...{Loading}...
स त्वं न॑श्चित्र वज्रहस्त धृष्णु॒या म॒ह स्त॑वा॒नोऽअ॑द्रिवः। गामश्वँ॑ र॒थ्य᳖मिन्द्र॒ संकि॑र स॒त्रा वाजं॒ न जि॒ग्युषे॑ ॥३८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सः। त्वम्। नः॒। चि॒त्र॒। व॒ज्र॒ह॒स्तेति॑ वज्रऽहस्त। धृ॒ष्णु॒येति॑ धृष्णु॒ऽया। म॒हः। स्त॒वा॒नः। अ॒द्रि॒व॒ इत्य॑द्रिऽवः। गाम्। अश्व॑म्। र॒थ्य᳖म्। इ॒न्द्र॒। सम्। कि॒र॒। स॒त्रा। वाज॑म्। न। जि॒ग्युषे॑। ३८।
महीधरः
म० हे चित्र आश्चर्यकारिन् , हे वज्रहस्त, वज्रं हस्ते यस्य, हे अद्रिवः अद्रयोऽजेयत्वेन सन्तीत्यद्रिवान् तत्संबुद्धिः ‘मतुवसोः ’ (पा० ८ । ३ । १) इति रुत्वम् । हे इन्द्र, स त्वं नोऽस्मभ्यं गामश्वं च संकिर देहि । संपूर्वः किरतिर्दानार्थः । कीदृशमश्वम् । रथ्यं रथे साधुं रथवहनसमर्थम् । कीदृशस्त्वम् । धृष्णुया प्रागल्भ्येन महः महसा तेजसा च स्तवानः स्तूयमानः । धृषेः क्नुः ततो विभक्तेर्यादेशः । धृष्णुना धृष्णुत्वेन भावप्रधानो निर्देशः । महः विभक्तिलोपः । स्तवान इत्यत्र विकरणव्यत्ययः । कथमिव । वाजंन वाजमिव । न इवार्थे । यथा जिग्युषे जितवतेऽश्वाय हस्तिने वा यथा सत्रा त्राणं त्रा रक्षणम् तत्सहितं वाजमन्नं यवं यथा ददति तथास्मभ्यं देहि ॥३८॥
एकोनचत्वारिंशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- शंयुर्बार्हस्पत्य ऋषिः
- स्वराड्बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
विद्वान् क्या करता है, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (चित्र) आश्चर्यस्वरूप (वज्रहस्त) वज्र हाथ में लिये (अद्रिवः) प्रशस्त पत्थर के बने हुए वस्तुओंवाले (इन्द्र) शत्रुनाशक विद्वन् ! (धृष्णुया) ढीठता से (महः) बहुत (स्तवानः) स्तुति करते हुए (सः) सो पूर्वोक्त (त्वम्) आप (जिग्युषे) जय करनेवाले पुरुष के लिए तथा (नः) हमारे लिये (सत्रा) सत्य (वाजम्) विज्ञान के (न) तुल्य (गाम्) बैल तथा (रथ्यम्) रथ के योग्य (अश्वम्) घोड़े को (सं किर) सम्यक् प्राप्त कीजिये ॥३८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे मेघसम्बन्धी सूर्य वर्षा से सब को सम्बद्ध करता है, वैसे विद्वान् सत्य के विज्ञान से सब के ऐश्वर्य को प्रकाशित करता है ॥३८ ॥
दयानन्द-सरस्वती (सं) - विषयः
विद्वान् किं करोतीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे चित्र वज्रहस्ताद्रिव इन्द्र ! धृष्णुया महः स्तवानः स त्वं जिग्युषे नः सत्रा वाजं न गां रथ्यमश्वं संकिर ॥३८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा मेघसम्बन्धी सूर्यो वृष्ट्या सर्वान् सम्बध्नाति तथा विद्वान् सत्यविज्ञानेन सर्वैश्वर्यं प्रकाशयति ॥३८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. सूर्य जसा मेघांद्वारे वृष्टी करून सर्वांना जोडतो तसे विद्वान सत्यज्ञानाने सर्वांचे ऐश्वर्य प्रकट करतात.
३९ कया नश्चित्रऽ
विश्वास-प्रस्तुतिः ...{Loading}...
कया॑ नश्चि॒त्रऽ आ भु॑वदू॒ती स॒दावृ॑धः॒ सखा॑। कया॒ शचि॑ष्ठया वृ॒ता ॥३९ ॥
मूलम् ...{Loading}...
कया॑ नश्चि॒त्रऽ आ भु॑वदू॒ती स॒दावृ॑धः॒ सखा॑। कया॒ शचि॑ष्ठया वृ॒ता ॥३९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
कया॑। नः॒। चि॒त्रः। आ। भु॒व॒त्। ऊ॒ती। स॒दावृ॑ध॒ इति॑ स॒दाऽवृधः॑। सखा॑। कया॑। शचि॑ष्ठया। वृ॒ता। ३९।
महीधरः
म० तिस्रो गायत्र्यः इन्द्रदेवत्या वामदेवदृष्टाः वामदेव्यसाम्नो योनिः ‘वामदेव्यमात्मन्’ इति श्रुतेः अन्त्या पादनिचृत् सप्ताक्षरत्रिपादा । पूर्वर्चः इन्द्रपदमनुषञ्जनीयम् । इन्द्रः कया ऊती ऊत्या अवनेन तर्पणेन प्रीणनेन वा नोऽस्माकं सखा सहायः आभुवत् आभिमुख्येन भवति । तथा वृता वर्तत इति वृत् तया वृता वर्णमानया शचिष्ठया अतिशयेन शची शचिष्ठा तया अतिशयवत्या यागक्रिययास्माकं सखा भवति । शचीति कर्मनाम तत इष्ठन्प्रत्ययः । कीदृश इन्द्रः । चित्रः विचित्रः पूज्यो वा । सदावृधः सदा वर्धत इति सदावृधः ‘इगुपध-’ (पा० ३ । १ । १३५) इति कप्रत्ययः । सदा वर्धमानः । ऊती तृतीयैकवचनस्य ‘सुपां सुलुक्’ (पा० ७ । १ । ३९) इति पूर्वसवर्णः । अभुवत् ‘इतश्च लोपः परस्मैपदेषु’ (पा० ३ । ४ । ९७ ) इति तिप इलोपः शपश्छान्दसे ङित्त्वे धातोरुवङ्ङादेशः ॥ ३९ ॥
चत्वारिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वामदेव ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् पुरुष ! (चित्रः) आश्चर्य कर्म करने हारे (सदावृधः) जो सदा बढ़ता है, उस के (सखा) मित्र (आ, भुवत्) हूजिये (कया) किसी (ऊती) रक्षणादिक्रिया से (नः) हमारी रक्षा कीजिये, (कया) किसी (शचिष्ठया) अत्यन्त निकट सम्बन्धिनी (वृता) वर्त्तमान क्रिया से हम को युक्त कीजिये ॥३९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो आश्चर्य गुण, कर्म, स्वभाववाला विद्वान् सब का मित्र हो और कुकर्मों की निवृत्ति करके उत्तम कर्मों से हम को युक्त करे, उस का हमको सत्कार करना चाहिये ॥३९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! चित्रः सदावृधः सखाऽऽभुवत् कयोती नो रक्षेः, कया शचिष्ठया वृताऽऽस्मान्नियोजयेः ॥३९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - योऽद्भुतगुणकर्मस्वभावो विद्वान् सर्वस्य मित्रं भूत्वा कुकर्माणि निवर्त्य सुकर्मभिरस्मान् योजयेत् सोऽस्माभिः सत्कर्त्तव्यः ॥३९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जो विद्वान आश्चर्य करण्यायोग्य गुण, कर्म, स्वभावाचा असून सर्वांचा मित्र असतो. कुकर्माचा नाश करून उत्तमकर्मात सर्वांना युक्त करतो अशा माणसाचा सन्मान केला पाहिजे.
४० कस्त्वा सत्यो
विश्वास-प्रस्तुतिः ...{Loading}...
कस्त्वा॑ स॒त्यो मदा॑नां॒ मँहि॑ष्ठो मत्स॒दन्ध॑सः। दृ॒ढा चि॑दा॒रुजे॒ वसु॑ ॥४० ॥
मूलम् ...{Loading}...
कस्त्वा॑ स॒त्यो मदा॑नां॒ मँहि॑ष्ठो मत्स॒दन्ध॑सः। दृ॒ढा चि॑दा॒रुजे॒ वसु॑ ॥४० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
कः। त्वा॒। स॒त्यः। मदा॑नाम्। मँहि॑ष्ठः। म॒त्स॒त्। अन्ध॑सः। दृ॒ढा। चि॒त्। आ॒रुज॒ऽइत्या॒ऽरुजे॑। वसु॑। ४०।
महीधरः
म० हे इन्द्र, अन्धसोऽन्नस्य सोमरूपस्य कः अंशः त्वा त्वां मत्सत् माद्यति मत्तं करोति ‘मदी हर्षे’ ‘लेटोऽडाटौ’ (पा० ३ । ४ । ९४ ) इत्यडागमः ‘सिब्बहुलं लेटि’ (पा. ३।१। ३४ ) सिप्प्रत्ययः तिप इलोपः । कीदृशः । मदानां मंहिष्ठः मदयन्ति तानि मदानि पचाद्यच् मदजनकानि हवींषि तेषां मध्ये मंहिष्ठः श्रेष्ठः अत्यन्तमदजनकः ‘मंहि कान्तौ’ चुरादिः मंहयति द्योतते मंही अत्यन्तं मंही मंहिष्ठः । यद्वा ‘महि वृद्धौ’ भ्वादिः । मंहते वर्धते मंही अत्यन्तं मंही मंहिष्ठः । येनांशेन मत्तः सन् दृढचित् दृढान्यपि वसु वसूनि धनानि कनकादीनि त्वमारुजे ‘रुजो भङ्गे’ पुरुषपदव्यत्ययः । आरुजसि चूर्णयसि दातुं भनक्षि । भङ्क्त्वा भङ्क्त्वा ददासीत्यर्थः ॥४०॥
एकचत्वारिंशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- वामदेव ऋषिः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! जो (कः) सुखदाता (सत्यः) श्रेष्ठों में उत्तम (मंहिष्ठः) अति महत्त्व युक्त विद्वान् (त्वा) आप को (अन्धसः) अन्न से हुए (मदानाम्) आनन्दों में (मत्सत्) प्रसन्न करे (आरुजे) अतिरोग के अर्थ ओषधियों को जैसे इकट्ठा करे (चित्) वैसे (दृढ़ा) दृढ़ (वसु) द्रव्यों का सञ्चय करे, सो हम को सत्कार के योग्य होवे ॥४० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जो सत्य में प्रीति रखने और आनन्द देनेवाला विद्वान् परोपकार के लिये रोगनिवारणार्थ ओषधियों के तुल्य वस्तुओं का सञ्चय करे, वही सत्कार के योग्य होवे ॥४० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यः कः सत्यो मंहिष्ठो विद्वांस्त्वान्धसो मदानां मध्ये मत्सदारुजे। औषधानि चिदिव दृढा वसु संचिनुयात् सोऽस्माभिः पूजनीयः ॥४० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यः सत्यप्रिय आनन्दप्रदो विद्वान् परोपकाराय रोगनिवारणायौषधमिव वस्तूनि संचिनुयात् स एव सत्कारमर्हेत् ॥४० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जो विद्वान सत्यावर प्रेम करणारा, आनंद देणारा व परोपकार करून रोग निवारणासाठी औषधांचा संचय करणारा असतो तोच सत्कार करण्यायोग्य असतो.
४१ अभी षु
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒भी षु णः॒ सखी॑नामवि॒ता ज॑रितॄ॒णाम्। श॒तं भ॑वास्यू॒तये॑ ॥४१ ॥
मूलम् ...{Loading}...
अ॒भी षु णः॒ सखी॑नामवि॒ता ज॑रितॄ॒णाम्। श॒तं भ॑वास्यू॒तये॑ ॥४१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒भि। सु। नः॒। सखी॑नाम्। अ॒वि॒ता। ज॒रि॒तॄणाम्। श॒तम्। भ॒वा॒सि॒। ऊ॒तये॑। ४१।
महीधरः
म० हे इन्द्र, त्वमूतयेऽवनाय पालनाय सु सुष्ठु सम्यक् अभि आभिमुख्येन शतं भवासि भवसि । आडागमः । शतशब्दो बहुवाची। बहुरूपो भवसि । पालनाय नानारूपाणि दधासीत्यर्थः । कीदृशस्त्वम् । सखीनां मित्राणां जरितॄणां स्तोतॄणां नोऽस्माकमृत्विजामविता पालयिता । संहितायामभीत्यस्य दीर्घः । ‘सुनः’ । (पा० ८।३ । १०७) सुशब्दस्य षत्वम् । ‘नश्च धातुस्थोरुषुभ्यः’ (पा० ८ । ४ । २७ ) इति षुशब्दात् परस्य नः इत्यस्य णत्वम् ॥ ४१ ॥
द्विचत्वारिंशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- वामदेव ऋषिः
- पादनिचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
कैसे जन धन को प्राप्त होते हैं, इस विषय को अगले मन्त्र में कहा है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! जो आप (नः) हमारे (सखीनाम्) मित्रों तथा (जरितॄणाम्) स्तुति करनेवाले जनों के (अविता) रक्षक (ऊतये) प्रीति आदि के अर्थ (शतम्) सैकड़ों प्रकार से (सु, भवासि) सुन्दर रीति कर के हूजिये सो आप (अभि) सब ओर से सत्कार के योग्य हों ॥४१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य अपने मित्रों के रक्षक, असंख्य प्रकार का सुख देने हारे, अनाथों की रक्षा में प्रयत्न करते हैं, वे असंख्य धन को प्राप्त होते हैं ॥४१ ॥
दयानन्द-सरस्वती (सं) - विषयः
कीदृशा जना धनं लभन्त इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यस्त्वं नः सखीनां जरितॄणां चावितोतये शतं सु भवासि सोऽभिपूज्यः स्याः ॥४१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्याः सुहृदां रक्षका असंख्यसुखप्रदा अनाथानां रक्षणे प्रवर्त्तन्ते, तेऽसंख्यं धनं लभन्ते ॥४१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे आपल्या मित्रांचे रक्षक, अत्यंत सुखदायक, अनाथांचे पालक असतात त्यांना खूप धन प्राप्त होते.
४२ यज्ञायज्ञा वोऽअग्नये
विश्वास-प्रस्तुतिः ...{Loading}...
य॒ज्ञाय॑ज्ञा वोऽअ॒ग्नये॑ गि॒रागि॑रा च॒ दक्ष॑से। प्रप्र॑ व॒यम॒मृतं॑ जा॒तवे॑दसं प्रि॒यं मि॒त्रं न शँ॑सिषम् ॥४२ ॥
मूलम् ...{Loading}...
य॒ज्ञाय॑ज्ञा वोऽअ॒ग्नये॑ गि॒रागि॑रा च॒ दक्ष॑से। प्रप्र॑ व॒यम॒मृतं॑ जा॒तवे॑दसं प्रि॒यं मि॒त्रं न शँ॑सिषम् ॥४२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
य॒ज्ञाय॒ज्ञेति॑ य॒ज्ञाऽय॑ज्ञा॒। वः॒। अ॒ग्नये॑। गि॒रागि॒रेति॑ गि॒राऽगि॑रा। च॒। दक्ष॑से। प्रप्रेति॒ प्रऽप्र॑। व॒यम्। अ॒मृत॑म्। जा॒तवे॑दस॒मिति॑ जा॒तऽवे॑दसम्। प्रि॒यम्। मि॒त्रम्। न। शँ॒सि॒ष॒म्। ४२।
महीधरः
म० तृचः प्रगाथः आग्नेयः शंयुदृष्टः यज्ञायज्ञियस्य साम्नो योनिः । ‘यज्ञायज्ञियं पुच्छम्’ इति श्रुतेः । द्वे बृहत्यौ । तृतीया सतोबृहती । यज्ञायज्ञ वीप्सायां द्वित्वम् । सप्तम्येकवचनस्याकारः । व इति द्वितीयाबहुवचनमेकवचनार्थे यजमानविषयं वा । अग्नये चतुर्थ्येकवचनं द्वितीयैकवचनार्थे । गिरागिरा वीप्सायां द्वित्वम् । चः पादपूरणः । दक्षसे । चतुर्थी द्वितीयार्थे । ‘प्रसमुपोदः पादपूरणे’ (पा० ८।१।६) इति द्वित्वम् । तस्य च शंसिषमिति क्रियया संबन्धः । वयमिति प्रथमाबहुवचनमेकवचनार्थे । तथा चैवं योजना । यज्ञेयज्ञेऽनेकयज्ञेषु गिरागिराऽन्ययान्यया स्तुत्या वः त्वाम् । यद्वा वो युष्माकमर्थे अग्निं प्रशंसिषं स्तौमि । ‘शंस स्तुतौ’ लुड् अडभाव आर्षः । कीदृशमग्निं । दक्षसम् दक्षतेरुत्साहार्थस्य धातोरसुन्प्रत्ययः । दक्षते उत्सहते दक्षाः तम् उत्साहिनम् । यद्वा दक्ष इति बलनाम अन्तर्नीतमत्वर्थं द्रष्टव्यम् । दक्षसं बलवन्तम् । अमृतममरणधर्माणम् । जातवेदसम् जातं वेदो ज्ञानं धनं वा यस्मात्तम् । प्रियं प्रीतिजनकम् । नशब्द उपरिष्टादुपचारादुपमार्थीयः । मित्रं न मित्रमिव यथा कश्चित्प्रियं मित्रं स्तौति तद्वदग्निं स्तुमह इत्याशास्महे ॥ ४२ ॥
त्रिचत्वारिंशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- शंयुर्ऋषिः
- बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे मैं (अग्नये) अग्नि के लिए (च) और (गिरागिरा) वाणी-वाणी से (दक्षसे) बल के अर्थ (यज्ञायज्ञा) यज्ञ-यज्ञ में (वः) तुम लोगों की (प्रप्र, शंसिषम्) प्रशंसा करूँ, (वयम्) हम लोग (जातवेदसम्) ज्ञानी (अमृतम्) आत्मरूप से अविनाशी (प्रियम्) प्रीति के विषय (मित्रम्) मित्र के (न) तुल्य तुम्हारी प्रशंसा करें, वैसे तुम भी आचरण किया करो ॥४२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार है। जो मनुष्य उत्तम शिक्षित वाणी से यज्ञों का अनुष्ठान कर बल बढ़ा और मित्रों के समान विद्वानों का सत्कार करके समागम करते हैं, वे बहुत ज्ञानवाले धनी होते हैं ॥४२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथाऽहमग्नये गिरागिरा दक्षसे च यज्ञायज्ञा वो युष्मान् प्रप्र शंसिषम्। वयं जातवेदसममृतं प्रियं मित्रं न वो युष्मान् प्रशंसेम तथा यूयमप्याचरत ॥४२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। ये मनुष्याः सुशिक्षितया वाण्या यज्ञाननुष्ठाय बलं वर्द्धयित्वा मित्रवद्विदुषः सत्कृत्य सङ्गच्छन्ते ते बहुज्ञा धन्याश्च जायन्ते ॥४२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहे. जी माणसे उत्तम वाणीने यज्ञाचे अनुष्ठान करतात व बल वाढवितात आणि मित्रांप्रमाणे विद्वानांचा सत्कार करून त्यांच्या संगतीत राहतात ती ज्ञानी बनतात.
४३ पाहि नोऽ
विश्वास-प्रस्तुतिः ...{Loading}...
पा॒हि नो॑ऽ अग्न॒ऽ एक॑या पा॒ह्यु᳙त द्वि॒तीय॑या। पा॒हि गी॒र्भि॑स्ति॒सृभि॑रूर्जां पते पा॒हि च॑त॒सृभि॑र्वसो ॥४३ ॥
मूलम् ...{Loading}...
पा॒हि नो॑ऽ अग्न॒ऽ एक॑या पा॒ह्यु᳙त द्वि॒तीय॑या। पा॒हि गी॒र्भि॑स्ति॒सृभि॑रूर्जां पते पा॒हि च॑त॒सृभि॑र्वसो ॥४३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पा॒हि। नः॒। अ॒ग्ने॒। एक॑या। पा॒हि। उ॒त। द्वि॒तीय॑या। पा॒हि। गी॒र्भिरिति॑ गीः॒ऽभिः। ति॒सृभि॒रिति॑ ति॒सृऽभिः॑। ऊ॒र्जा॒म्। प॒ते॒। पा॒हि। च॒त॒सृभि॒रिति॑ चत॒सृऽभिः॑। व॒सो॒ इति॑ वसो। ४३।
महीधरः
म० गर्गदृष्टा । हे अग्ने, हे ऊर्जां पते अन्नानां पालक, हे वसो वासयितः, यद्वा लुप्तमत्वर्थं द्रष्टव्यम् । हे वसो वसुमन् धनवन् , एकया गिरा इति पदस्यानुषङ्गः एकया गिरा ऋग्लक्षणया तृतीयानिर्देशात् स्तुतः सन्नितिवाक्यशेषः । नोऽस्मान् पाहि रक्ष । उत अपिच द्वितीयया यजुर्लक्षणया स्तुतः सन् पाहि । तिसृभिर्गीर्भिः ऋग्यजुःसामलक्षणाभिः स्तुतो नः पाहि । चतसृभिः ऋग्यजुःसामनिगदलक्षणाभिः स्तुतो नः पाहि । गद्यपद्यकाव्यादिरूपा चतुर्थी गीः ॥ ४३ ॥
चतुश्चत्वारिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- भार्गव ऋषिः
- स्वराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
आप्त धर्मात्मा जन क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (वसो) सुन्दर वास देने हारे (अग्ने) अग्नि के तुल्य तेजस्वी विद्वन् ! आप (एकया) उत्तम शिक्षा से (नः) हमारी (पाहि) रक्षा कीजिये, (द्वितीयया) दूसरी अध्यापन क्रिया से (पाहि) रक्षा कीजिये, (तिसृभिः) कर्म, उपासना, ज्ञान की जतानेवाली तीन (गीर्भिः) वाणियों से (पाहि) रक्षा कीजिये। हे (ऊर्जाम्) बलों के (पते) रक्षक ! आप हमारी (चतसृभिः) धर्म, अर्थ, काम और मोक्ष इनका विज्ञान करानेवाली चार प्रकार की वाणी से (उत) भी (पाहि) रक्षा कीजिये ॥४३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सत्यवादी, धर्मात्मा, आप्तजन उपदेश करने और पढ़ाने से भिन्न किसी साधन को मनुष्य का कल्याणकारक नहीं जानते। इससे नित्यप्रति अज्ञानियों पर कृपा कर सदा उपदेश करते और पढ़ाते हैं ॥४३ ॥
दयानन्द-सरस्वती (सं) - विषयः
आप्ताः किं कुर्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे वसो अग्ने ! त्वमेकया नोऽस्मान् पाहि, द्वितीयया पाहि, तिसृभिर्गीर्भिः पाहि। हे ऊर्जां पते ! त्वं नोऽस्मान् चतसृभिरुत पाहि ॥४३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - आप्ता नान्यदुपदेशादध्यापनाद्वा मनुष्यकल्याणकरं विजानन्ति। अतोऽहर्निशमज्ञानिनामनुकम्प्य सदोपदिशन्त्यध्यापयन्ति च ॥४३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सत्यवादी, धर्मात्मा, आप्त लोक हे उपदेश व अध्यापक या व्यतिरिक्त माणसांचे कल्याण करणारे कोणतेही साधन मानत नाहीत. त्यामुळे विद्वान लोक नेहमी अज्ञानी माणसांवर कृपा करतात व त्यांना उपदेश करतात आणि शिकवितात.
४४ ऊर्जो नपातंस
विश्वास-प्रस्तुतिः ...{Loading}...
ऊ॒र्जो नपा॑तँ॒स हि॒नायम॑स्म॒युर्दाशे॑म ह॒व्यदा॑तये। भुव॒द्वाजे॑ष्ववि॒ता भुव॑द् वृ॒धऽउ॒त त्रा॒ता त॒नूना॑म् ॥४४ ॥
मूलम् ...{Loading}...
ऊ॒र्जो नपा॑तँ॒स हि॒नायम॑स्म॒युर्दाशे॑म ह॒व्यदा॑तये। भुव॒द्वाजे॑ष्ववि॒ता भुव॑द् वृ॒धऽउ॒त त्रा॒ता त॒नूना॑म् ॥४४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ऊ॒र्जः। नपा॑तम्। सः। हि॒न। अ॒यम्। अ॒स्म॒युरित्य॑स्म॒ऽयुः। दाशे॑म। ह॒व्यदा॑तय॒ इति॑ ह॒व्यऽदा॑तये। भुव॑त्। वाजे॑षु। अ॒वि॒ता। भुव॑त्। वृ॒धे। उ॒त। त्रा॒ता। त॒नूना॑म्। ४४।
महीधरः
म० यजमानोऽध्वर्युं प्रार्थयते । हे अध्वर्यो, ऊर्जो नपातमपां पौत्रमग्निं स त्वं हिन हिनु तर्पय ‘हि गतौ वृद्धौ च’ स्वादिः लोट् उलोपश्छान्दसः । उर्क् शब्देनाप उच्यन्ते । अद्भ्यो वृक्षा जायन्ते तेभ्योऽग्निरित्यपां पौत्रोऽग्निः । यतोऽयमग्निरस्मयुः अस्मानिच्छति अस्मयुः ‘क्याच्छन्दसि’ (पा० ३।२।१७०) इत्युप्रत्ययः । अतो हव्यदातये हविषो दानाय दाशेम संकल्पयामः । ‘दाशृ दाने’ अत्र संकल्पार्थः । यतोऽयं वाजेष्वन्नेषु अविता रक्षिता भुवत् भवति । वृधे वृद्धौ च भुवत् भवति । उतापिच तनूनां शरीराणां त्राता रक्षिता भवति । बहुवचनं भार्यादिशरीररक्षार्थमुपात्तम् । अग्निरन्नतनुरक्षिता वर्धयितास्मान् कामयतेऽतो हविर्दानाय तं संकल्पयामः ॥ ४४ ॥
पञ्चचत्वारिंशी।
इति माध्यन्दिनीयायां वाजसनेयसंहितायां सप्तविंशोऽध्यायः ॥ २७॥
अधिमन्त्रम् (VC)
- वायुर्देवता
- शंयुर्ऋषिः
- स्वराड्बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्यार्थिन् ! (सः) सो आप (ऊर्जः) पराक्रम को (नपातम्) न नष्ट करने हारे विद्याबोध को (हिन) बढ़ाइये, जिससे (अयम्) यह प्रत्यक्ष आप (अस्मयुः) हम को चाहने और (वाजेषु) संग्रामों में (अविता) रक्षा करनेवाले (भुवत्) होवें (उत) और (तनूनाम्) शरीरों के (वृधे) बढ़ने के अर्थ (त्राता) पालन करनेवाले (भुवत्) होवें, इससे आपको (हव्यदातये) देने योग्य पदार्थों के देने के लिये हम लोग (दाशेम) स्वीकार करें ॥४४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो पराक्रम और बल को न नष्ट करे, शरीर और आत्मा की उन्नति करता हुआ रक्षक हो, उसके लिये आप्त जन विद्या देवें। जो इस से विपरीत लम्पट, दुष्टाचारी, निन्दक हो, वह विद्याग्रहण में अधिकारी नहीं होता, यह जानो ॥४४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्यार्थिन् ! स त्वमूर्जो नपातं हिन यतोऽयं भवानस्मयुर्वाजेष्वविता भुवदुतापि तनूनां वृधे त्राता भुवत्। ततस्त्वां हव्यदातये वयं दाशेम ॥४४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यः पराक्रमं वीर्यं च न हन्याच्छरीरात्मनोर्वर्धकः सन् रक्षकः स्यादाप्तास्तस्मै विद्यां दद्युः। योऽस्माद् विपरीतोऽजितेन्द्रियो दुष्टाचारी निन्दको भवेत्, स विद्याग्रहणेऽधिकारी न भवतीति वेद्यम् ॥४४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जो पराक्रम व बल नष्ट करत नाहीत आणि शरीर व आम्ता यांचा रक्षक बनून उन्नती करतो त्याला आप्त (श्रेष्ठ) लोकांनी विद्या द्यावी. जो याविरुद्ध लंपट, दुराचारी, निंदक असेल त्याला विद्या ग्रहण करण्याचा अधिकार नाही हे जाणावे.
४५ संवत्सरोऽसि परिवत्सरोऽसीदावत्सरोऽसीद्वत्सरोऽसि
विश्वास-प्रस्तुतिः ...{Loading}...
सं॒व॒त्स॒रो᳖ऽसि परिवत्स॒रो᳖ऽसीदावत्स॒रो᳖ऽसीद्वत्स॒रो᳖ऽसि वत्स॒रो᳖ऽसि। उ॒षस॑स्ते कल्पन्तामहोरा॒त्रास्ते॑ कल्पन्तामर्द्धमा॒सास्ते॑ कल्पन्तां॒ मासा॑स्ते कल्पन्तामृ॒तव॑स्ते कल्पन्ताँ संवत्स॑रस्ते॑ कल्पताम्। प्रेत्या॒ऽएत्यै॒ सं चाञ्च॒ प्र च॑ सारय। सु॒प॒र्ण॒चिद॑सि॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वः सी॑द ॥४५ ॥
मूलम् ...{Loading}...
सं॒व॒त्स॒रो᳖ऽसि परिवत्स॒रो᳖ऽसीदावत्स॒रो᳖ऽसीद्वत्स॒रो᳖ऽसि वत्स॒रो᳖ऽसि। उ॒षस॑स्ते कल्पन्तामहोरा॒त्रास्ते॑ कल्पन्तामर्द्धमा॒सास्ते॑ कल्पन्तां॒ मासा॑स्ते कल्पन्तामृ॒तव॑स्ते कल्पन्ताँ संवत्स॑रस्ते॑ कल्पताम्। प्रेत्या॒ऽएत्यै॒ सं चाञ्च॒ प्र च॑ सारय। सु॒प॒र्ण॒चिद॑सि॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वः सी॑द ॥४५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सं॒व॒त्स॒रः। अ॒सि॒। प॒रि॒व॒त्स॒र इति॑ परिऽवत्स॒रः। अ॒सि॒। इ॒दा॒व॒त्स॒र। इती॑दाऽवत्स॒रः। अ॒सि॒। इ॒द्व॒त्स॒र इती॑त्ऽवत्स॒रः। अ॒सि॒। व॒त्स॒रः। अ॒सि॒। उ॒षसः॑। ते॒। क॒ल्प॒न्ता॒म्। अ॒हो॒रा॒त्राः। ते॒ क॒ल्प॒न्ता॒म्। अ॒र्द्ध॒मा॒साऽइत्य॑र्द्धऽमा॒साः। ते॒। क॒ल्प॒न्ता॒म्। मासाः॑। ते॒। क॒ल्प॒न्ता॒म्। ऋ॒तवः॑। ते॒। क॒ल्प॒न्ता॒म्। सं॒व॒त्स॒रः। ते॒। क॒ल्प॒ता॒म्। प्रेत्या॒ इति॒ प्रऽइ॑त्यै। एत्या॒ऽ इत्याऽइ॑त्यै। सम्। च॒। अञ्च॑। प्र। च॒। सा॒र॒य॒। सु॒प॒र्ण॒चिदिति॑ सुपर्ण॒ऽचित्। अ॒सि॒। तया॑। दे॒वत॑याः। अ॒ङ्गि॒र॒स्वदित्य॑ङ्गिरः॒ऽवत्। ध्रु॒वः। सी॒द॒। ४५।
महीधरः
म० अग्निदेवत्यं यजुः । अत्र यजुषि नवनवत्यक्षराणि एको व्यूहः । ततः शताक्षराभिकृतिश्छन्दः । चित्याग्नेरभिमर्शने विनियोगः । ‘पञ्चसंवत्सरमयं युगाध्यक्षं प्रजापतिम्’ इति ज्योतिःशास्त्रोक्तमिहोच्यते । हे अग्ने, त्वं संवत्सरोऽसि परिवत्सरोऽसि इदावत्सरोऽसि इद्वत्सरोऽसि वत्सरोऽसि निर्विशेषणः पञ्चसंवत्सरात्मकयुगरूपोऽसीत्यर्थः । ‘युगं भवेद्वत्सरपञ्चकेन’ इति ज्योतिःशास्त्रोक्तेः । तस्य ते तव उषसः प्रातःकालादयः कालविशेषाः सङ्गवमध्याह्नादयः अहोरात्राः दिवसनिशाः अर्धमासाः पक्षाः मासाश्चैत्रादयः ऋतवो वसन्तादयः कल्पन्तामवयवत्वेन क्लृप्ता भवन्तु । संवत्सरश्च उपलक्षणम् । संवत्सरादयः पञ्चापि कल्पन्ताम् । क्रियावृत्तिरादरार्था । किंच प्रेत्यै प्रगमनाय एत्यै आगमनाय च समञ्च संकुच प्रसारय च । स्वेच्छया संकोचविकासौ कुर्विति भावः । किंच सुपर्णाकारेण चितत्वात्सुपर्णचिदिति । तया देवतया वाचा सहितः सन् अङ्गिरस्वत् अङ्गिरस इव प्राणा इव ध्रुवः स्थिरः सीद तिष्ठ ॥ ४५ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
सप्तविंशोऽयमध्याय आग्निको विरतोऽधुना ॥ २७ ॥
अधिमन्त्रम् (VC)
- अग्निर्देवता
- शंयुर्ऋषिः
- निचृदभिकृतिः
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् वा जिज्ञासु पुरुष ! जिससे तू (संवत्सरः) संवत्सर के तुल्य नियम से वर्त्तमान (असि) है, (परिवत्सरः) त्याज्य वर्ष के समान दुराचरण का त्यागी (असि) है, (इदावत्सरः) निश्चय से अच्छे प्रकार वर्त्तमान वर्ष के तुल्य (असि) है, (इद्वत्सरः) निश्चित संवत्सर के सदृश (असि) है, (वत्सरः) वर्ष के समान (असि) है। इससे (ते) तेरे लिये (उषसः) कल्याणकारिणी उषा प्रभातवेला (कल्पन्ताम्) समर्थ हों, (ते) तेरे लिये (अहोरात्राः) दिन-रातें मङ्गलदायक (कल्पन्ताम्) समर्थ हों, (ते) तेरे अर्थ (अर्द्धमासाः) शुक्ल-कृष्णपक्ष (कल्पन्ताम्) समर्थ हों, (ते) तेरे लिये (मासाः) चैत्र आदि महीने (कल्पन्ताम्) समर्थ हों, (ते) तेरे लिये (ऋतवः) वसन्तादि ऋतु (कल्पन्ताम्) समर्थ हों, (ते) तेरे अर्थ (संवत्सरः) वर्ष (कल्पताम्) समर्थ हो। (च) और तू (प्रेत्यै) उत्तम प्राप्ति के लिये (सम्, अञ्च) सम्यक् प्राप्त हो (च) और तू (एत्यै) अच्छे प्रकार जाने के लिये (प्र, सारय) अपने प्रभाव का विस्तार कर, जिस कारण तू (सुपर्णचित्) सुन्दर रक्षा के साधनों का संचयकर्त्ता (असि) है, इससे (तया) उस (देवतया) उत्तम गुणयुक्त समय रूप देवता के साथ (अङ्गिरस्वत्) सूत्रात्मा प्राणवायु के समान (ध्रुवः) दृढ़ निश्चल (सीद) स्थिर हो ॥४५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो आप्त मनुष्य व्यर्थ काल नहीं खोते, सुन्दर नियमों से वर्त्तते हुए कर्त्तव्य कर्मों को करते, छोड़ने योग्यों को छोड़ते हैं, उनके प्रभात काल, दिन-रात, पक्ष, महीने, ऋतु सब सुन्दर प्रकार व्यतीत होते हैं, इसलिये उत्तम गति के अर्थ प्रयत्न कर अच्छे मार्ग से चल शुभ गुणों और सुखों का विस्तार करें। सुन्दर लक्षणोंवाली वाणी वा स्त्री के सहित धर्म ग्रहण और अधर्म के त्याग में दृढ़ उत्साही सदा होवें ॥४५ ॥ इस अध्याय में सत्य की प्रशंसा का जानना, उत्तम गुणों का स्वीकार, राज्य का बढ़ाना, अनिष्ट की निवृत्ति, जीवन को बढ़ाना, मित्र का विश्वास, सर्वत्र कीर्ति करना, ऐश्वर्य को बढ़ाना, अल्पमृत्यु का निवारण, शुद्धि करना, सुकर्म का अनुष्ठान, यज्ञ करना, बहुत धन का धारण, मालिकपन का प्रतिपादन, सुन्दर वाणी का ग्रहण, सद्गुणों की इच्छा, अग्नि की प्रशंसा, विद्या और धन का बढ़ाना, कारण का वर्णन, धन का उपयोग, परस्पर की रक्षा, वायु के गुणों का वर्णन, आधार आधेय का कथन, ईश्वर के गुणों का वर्णन, शूरवीर के कृत्यों का कहना, प्रसन्नता करना, मित्र की रक्षा, विद्वानों का आश्रय, अपने आत्मा की रक्षा, वीर्य की रक्षा और युक्त आहार विहार कहे हैं, इससे इस अध्याय में कहे अर्थ की पूर्व अध्याय में कहे अर्थ के साथ सङ्गति जाननी चाहिये ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्याणां परमविदुषां श्रीयुतविरजानन्दसरस्वतीस्वामिनां शिष्येण श्रीपरमहंसपरिव्राजकाचार्येण श्रीमद्दयानन्दसरस्वतीस्वामिना विरचिते संस्कृतार्य्यभाषाभ्यां समन्विते सुप्रमाणयुक्ते यजुर्वेदभाष्ये सप्तविंशतितमोऽध्यायः पूर्तिमगमत् ॥४॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् जिज्ञासो ! वा यतस्त्वं संवत्सरोऽसि परिवत्सरोऽसीदावत्सरोऽसीद्वत्सरोऽसि वत्सरोऽसि तत्मात् ते कल्याणकर्य्य उषसः कल्पन्तां ते मङ्गलप्रदा अहोरात्राः कल्पन्तां तेऽर्द्धमासाः कल्पन्तां ते मासाः कल्पन्तां त ऋतवः कल्पन्तां ते संवत्सरः कल्पतां त्वं च प्रेत्यै समञ्च त्वमेत्यै स्वप्रभावं प्रसारय च यतस्त्वं सुपर्णचिदसि तस्मात् तया देवतया सहाङ्गिरस्वद् ध्रुवः सीद ॥४५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - य आप्ता मनुष्या व्यर्थं कालं न नयन्ति सुनियमैर्वर्त्तमानाः कर्त्तव्यानि कुर्वन्ति, त्यक्तव्यानि त्यजन्ति, तेषां सुप्रभातः शोभना अहोरात्रा अर्द्धमासा मासा ऋतवश्च गच्छन्ति। तस्मात् प्रकर्षगतये प्रयत्य सुमार्गेण गत्वा शुभान् गुणान् सुखानि च प्रसारयेयुः। सुलक्षणया वाचा पत्न्या च सहिता धर्मग्रहणेऽधर्मत्यागे च दृढोत्साहाः सदा भवेयुरिति ॥४५ ॥ अस्मिन्नध्याये सत्यप्रशंसाविज्ञापनं, सद्गुणस्वीकारो, राज्यवर्धनमनिष्टनिवारणं, जीवनवृद्धिर्मित्रविश्वासः, सर्वत्रकीर्तिकरणमैश्वर्यवर्धनमल्पमृत्युनिवारणं, शुद्धिकरणं, सुकृतानुष्ठानं, यज्ञकरणं, बहुधनधारणं, स्वामित्वप्रतिपादनं, सुवाग्ग्रहणं, सद्गुणेच्छाऽग्निप्रशंसा, विद्याधनवर्धनं, कारणवर्णनं, धनोपयोगः, परस्परेषां रक्षणं, वायुगुणवर्णनमाधाराऽधेयकथनमीश्वरगुणवर्णनं, शूरवीरकृत्यकथनं, प्रसन्नतासम्पादनं, मित्ररक्षणं, विद्वदाश्रयः, स्वात्मपालनं, वीर्यरक्षणं, युक्ताहारविहारश्चोक्तमत एतदध्यायोक्तार्थस्य पूर्वाध्यायोक्तार्थेन सह सङ्गतिरस्तीति वेद्यम् ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी आप्त माणसे व्यर्थ वेळ घालवीत नाहीत, श्रेष्ठ नियमानुसार वर्तन करतात, कर्तव्य कर्म करतात, वाईट गोष्टींचा त्याग करतात, त्यांचा प्रभातकाल, दिवस व रात्र, पक्ष, महिने, ऋतू हे उत्तम रीतीने व्यतीत होतात त्यामुळे उत्तम गती प्राप्त होण्यासाठी प्रयत्नपूर्वक चांगला मार्ग स्वीकारावा व शुभ गुण आणि सुख वाढवित जावे. सुंदर लक्षणांनी युक्त वाणी किंवा स्रीसह धर्माचा अंगीकार व अधर्माचा त्याग करून दृढ निश्चयाने उत्साही बनावे.