०१ अग्निश्च पृथिवी
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्निश्च॑ पृथि॒वी च॒ सन्न॑ते॒ ते मे॒ सं न॑मताम॒दो वा॒युश्चा॒न्तरि॑क्षं च॒ सन्न॑ते॒ ते मे॒ सं न॑मताम॒दऽ आ॑दि॒त्यश्च॒ द्यौश्च॒ सन्न॑ते॒ ते मे॒ सं न॑मताम॒दऽआपश्च॒ वरु॑णश्च॒ सन्न॑ते॒ ते मे॒ सं न॑मताम॒दः। स॒प्त सँ॒स॒दो॑ऽ अष्ट॒मी भू॑त॒साध॑नी। सका॑माँ॒२ ॥ऽअध्व॑नस्कुरु सं॒ज्ञान॑मस्तु मे॒ऽमुना॑ ॥१ ॥
मूलम् ...{Loading}...
अ॒ग्निश्च॑ पृथि॒वी च॒ सन्न॑ते॒ ते मे॒ सं न॑मताम॒दो वा॒युश्चा॒न्तरि॑क्षं च॒ सन्न॑ते॒ ते मे॒ सं न॑मताम॒दऽ आ॑दि॒त्यश्च॒ द्यौश्च॒ सन्न॑ते॒ ते मे॒ सं न॑मताम॒दऽआपश्च॒ वरु॑णश्च॒ सन्न॑ते॒ ते मे॒ सं न॑मताम॒दः। स॒प्त सँ॒स॒दो॑ऽ अष्ट॒मी भू॑त॒साध॑नी। सका॑माँ॒२ ॥ऽअध्व॑नस्कुरु सं॒ज्ञान॑मस्तु मे॒ऽमुना॑ ॥१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒ग्निः। च॒। पृ॒थि॒वी। च॒। सन्न॑ते॒ऽइति॒ सम्ऽनते। ते इति॒ ते। मे॒। सम्। न॒म॒ता॒म्। अ॒दः। वा॒युः। च॒। अ॒न्तरि॑क्षम्। च॒। सन्न॑ते॒ इति॒ सम्ऽन॑ते। ते इति॒ ते। मे॒। सम्। न॒म॒ता॒म्। अ॒दः। आ॒दि॒त्यः। च॒। द्यौः। च॒। सन्नते॒ इति॒ सम्ऽन॑ते। ते इति॒ ते। मे॒। सम्। न॒म॒ता॒म्। अ॒दः। आपः॑। च॒। वरु॑णः। च॒। सन्न॑ते॒ इति॒ सम्ऽन॑ते। ते इति॒ ते। मे॒। सम्। न॒म॒ता॒म्। अ॒दः। स॒प्त। सँ॒सद॒ इति स॒म्ऽसदः। अ॒ष्ट॒मी। भू॒त॒साध॒नीति॑ भू॒त॒ऽसाध॑नी। सका॑मा॒निति॒ सऽका॑मान्। अध्व॑नः। कु॒रु॒। सं॒ज्ञान॒मिति॑ स॒म्ऽज्ञान॑म्। अ॒स्तु॒। मे॒। अ॒मुना॑। १।
महीधरः
म० इषे त्वेत्यारभ्य दर्शपौर्णमासपितृयज्ञाग्निहोत्रोपस्थानपशुचातुर्मास्याग्निष्टोमवाजपेयराजसूयाग्निसौत्रामण्यश्वमेधसंबद्धा मन्त्रा व्याख्याताः । इदानीं खिलान्युच्यन्ते क्वचिद्विनियोगानुक्तेः । तेषां विवस्वानृषिरन्यस्यानुक्तेः ‘आदित्यानीमानि यजूंषि व्याख्यायन्ते’ (बृह० ५। ५। ३३) इति श्रुतेः याज्ञवल्क्यो वा ‘याज्ञवल्क्येन व्याख्यायन्ते’ इति श्रुतेः । अग्निश्च । सप्त लिङ्गोक्तानि यजूंषि । चतस्र ऋग्गायत्र्यः । सप्त संसदः आसुर्यनुष्टुप् । सकामान् प्राजापत्यानुष्टुप् । यथेमाम् ब्राह्मी गायत्री । अग्निश्च पृथिवी च संते संनमनं संतम् आनुकूल्येन प्रवृत्तिः अग्निपृथिव्यौ भोगाय सङ्गते । अतो ब्रवीमि त अग्निपृथिव्यौ मे ममादः अमुकं संनमतां संनमयताम् वशवर्तिनं कुरुतामित्यर्थः । अद इति पुरुषादेर्नाम द्वितीयान्तं प्रयोज्यम् । ‘छन्दस्युभयथा’ (पा० ३ । ४ । ११७ ) इति शपोऽप्यार्धधातुकत्वात् ‘णेरनिटि’ (पा० ६ । ४ । ५१) इति णिचो लोपः संनमतामित्यत्र । एवमुत्तरेष्वपि मन्त्रेषु योज्यम् । वायुरन्तरिक्षं च संते ते ममामुकं संनमयताम् । आदित्यः द्यौश्च संते ते म० । आपश्च वरुणश्च संते ते म० । परमात्मानं प्रत्युच्यते । हे स्वामिन् , यस्य तव सप्त संसदः संसदनानि अधिष्ठानानि अग्निवाय्वन्तरिक्षादित्यद्युलोकाम्बुवरुणाख्यानि तत्राष्टमी भूतसाधनी पृथ्वी । भूतानि साधयति उत्पादयति भूतसाधनी । भूमिं विना भूतोत्पत्तेरभावात् । अतः सर्वाधिष्ठानभूतस्त्वमध्वनो मार्गान् सकामान् कुरु । येषु मार्गेषु मया गम्यते तत्रास्माकं कामप्राप्तिरस्त्वित्यर्थः । किंच मे ममामुना देवदत्तादिना संज्ञानं सङ्गतं ज्ञानमस्तु इष्टेन मम प्रीतिरस्तु । विज्ञानात्मा वोच्यते । यस्य तव सप्त संसदः पञ्च बुद्धीन्द्रियाणि मनो बुद्धिश्चेति सप्तायतनानि अष्टमी भूतसाधनी भूतानि साधयति वशीकरोतीति भूतसाधनी वाक् स त्वं नोऽस्माकमध्वनः सकामान् कुरु । अमुना सह मे संज्ञानं सङ्गतमस्तु ॥१॥
द्वितीया ।
अधिमन्त्रम् (VC)
- अग्न्यादयो देवताः
- याज्ञवल्क्य ऋषिः
- अभिकृतिः
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
अब छब्बीसवें अध्याय का आरम्भ है। उस के प्रथम मन्त्र में मनुष्यों को तत्त्वों से यथावत् उपकार लेने चाहियें, इस विषय का वर्णन किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो जैसे (मे) मेरे लिए (अग्निः) अग्नि (च) और (पृथिवी) भूमि (च) भी (सन्नते) अनुकूल हैं (ते) वे (अदः) इस को (सन्नमताम्) अनुकूल करें, जो (मे) मेरे लिये (वायुः) पवन (च) और (अन्तरिक्षम्) आकाश (च) भी (सन्नते) अनूकूल हैं (ते) वे (अदः) इस को (सन्नमताम्) अनुकूल करें, जो (मे) मेरे लिये (आदित्यः) सूर्य (च) और (द्यौः) उसका प्रकाश (च) भी (सन्नते) अनुकूल हैं (ते) वे (अदः) इस को (सन्नमताम्) अनुकूल करें, जो (मे) मेरे अर्थ (आपः) जल (च) और (वरुणः) जल जिस का अवयव है, वह (च) भी (सन्नते) अनुकूल हैं (ते) वे दोनों (अदः) इस को (सन्नमताम्) अनुकूल करें, जो (अष्टमी) आठमी (भूतसाधनी) प्राणियों के कार्यों को सिद्ध करने हारी वा (सप्त) सात (संसदः) वे सभी जिन में अच्छे प्रकार स्थिर होते (सकामान्) समान कामना वाले (अध्वनः) मार्गों को करें, वैसे तुम (कुरु) करो (अमुना) इस प्रकार से (मे) मेरे लिये (संज्ञानम्) उत्तम ज्ञान (अस्तु) प्राप्त होवे, वैसे ही यह सब तुम लोगों के लिये भी प्राप्त होवे ॥१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। यदि अग्नि आदि पञ्चतत्त्वों को यथावत् जान के कोई उन का प्रयोग करे तो वे वर्त्तमान उस अत्युत्तम सुख की प्राप्ति कराते हैं ॥१ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ मनुष्यैस्तत्त्वेभ्य उपकारा यथावत् संग्राह्या इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्या यथा ये मेऽग्निश्च पृथिवी च सन्नते ते अदः सन्नमतां ये मे वायुश्चान्तरिक्षं च सन्नते स्तस्ते अदः सन्नमताम्। ये मे आदित्यश्च द्यौश्च सन्नते ते अदः सन्नमतां ये म आपश्च वरुणश्च सन्नते स्तस्ते अदः सन्नमताम्। या अष्टमी भूतसाधनी सप्त संसदः सकामानध्वनः कुर्य्यात् तथा कुरु। अमुना मे संज्ञानमस्तु तथैतत्सर्वं युष्माकमप्यस्तु ॥१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यद्यग्न्यादिपञ्चभूतानि यथावद्विज्ञाय कश्चित्प्रयुञ्जीत तर्हि तानि वर्त्तमानमदः सुखं प्रापयन्ति ॥१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जर अग्नी पंचतत्त्व यथावत जाणून कुणी त्याचा प्रयोग केल्यास ते उत्तम सुख भोगू शकतात.
०२ यथेमां वाचम्
विश्वास-प्रस्तुतिः ...{Loading}...
यथे॒मां वाचं॑ कल्या॒णीमा॒वदा॑नि॒ जने॑भ्यः। ब्र॒ह्म॒रा॒ज॒न्या᳖भ्याँ शूद्राय॒ चार्या॑य च॒ स्वाय॒ चार॑णाय च। प्रि॒यो दे॒वानां॒ दक्षि॑णायै दा॒तुरि॒ह भू॑यासम॒यं मे॒ कामः॒ समृ॑ध्यता॒मुप॑ मा॒दो न॑मतु ॥२ ॥
मूलम् ...{Loading}...
यथे॒मां वाचं॑ कल्या॒णीमा॒वदा॑नि॒ जने॑भ्यः। ब्र॒ह्म॒रा॒ज॒न्या᳖भ्याँ शूद्राय॒ चार्या॑य च॒ स्वाय॒ चार॑णाय च। प्रि॒यो दे॒वानां॒ दक्षि॑णायै दा॒तुरि॒ह भू॑यासम॒यं मे॒ कामः॒ समृ॑ध्यता॒मुप॑ मा॒दो न॑मतु ॥२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यथा॑। इ॒माम्। वाच॑म्। क॒ल्या॒णीम्। आ॒वदा॒नीत्या॒ऽवदा॑नि। जने॑भ्यः। ब्र॒ह्म॒रा॒ज॒न्या᳖भ्याम्। शूद्राय॑। च॒। अर्या॑य। च॒। स्वाय॑। च॒। अर॑णाय। प्रि॒यः। दे॒वाना॑म्। दक्षि॑णायै। दा॒तुः। इ॒ह। भू॒या॒स॒म्। अ॒यम्। मे॒। कामः॑। सम्। ऋ॒ध्य॒ता॒म्। उप॑। मा॒। अ॒दः। न॒म॒तु। २।
महीधरः
म० इमां कल्याणीमनुद्वेगकरीं वाचमहं यथा यतः आवदानि सर्वतो ब्रवीमि दीयतां भुज्यतामिति सर्वेभ्यो वच्मि । केभ्यस्तदाह । ब्रह्मराजन्याभ्यां ब्राह्मणाय राजन्याय क्षत्रियाय च शूद्राय अर्याय वैश्याय स्वायात्मीयाय अरणाय पराय । अरणोऽपगतोदकः शत्रुः नास्ति रणः शब्दो येन सह, वाक्संबन्धरहितः शत्रुरिति वा । प्रियो देवानां मध्येऽवसानरहितानुष्टुप् लौगाक्षिदृष्टा । यथेति पूर्वोत्तरत्र तथाशब्दोऽध्याहार्यः । यतोऽहं ब्राह्मणादिभ्यः कल्याणी वाचं वदामि तथा ततोऽहं देवानां प्रियः भूयासम् । इह संसारे दक्षिणायै दक्षिणायाः दातुश्च प्रियः भूयासम् । देवा दक्षिणादातारश्च मयि प्रीतिं कुर्वन्त्वित्यर्थः । किंच मे ममायं कामः समृद्ध्यतां सफलो भवतु । अयमिति नामनिर्देशः । धनपुत्रादिलाभकामो मे संपद्यतामित्यर्थः । किंच अदो मा मामुपनमतु । अद इति इष्टनामग्रहणम् । देवदत्तादिर्मा प्रीणयतु ॥ २ ॥
तृतीया।
अधिमन्त्रम् (VC)
- ईश्वरो देवता
- लौगाक्षिर्ऋषिः
- स्वराडत्यष्टिः
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब ईश्वर सब मनुष्यों के लिये वेद के पढ़ने और सुनने का अधिकार देता है, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! मैं ईश्वर (यथा) जैसे (ब्रह्मराजन्याभ्याम्) ब्राह्मण, क्षत्रिय (अर्याय) वैश्य (शूद्राय) शूद्र (च) और (स्वाय) अपने स्त्री, सेवक आदि (च) और (अरणाय) उत्तम लक्षणयुक्त प्राप्त हुए अन्त्यज के लिए (च) भी (जनेभ्यः) इन उक्त सब मनुष्यों के लिए (इह) इस संसार में (इमाम्) इस प्रगट की हुई (कल्याणीम्) सुख देनेवाली (वाचम्) चारों वेदरूप वाणी का (आवदानि) उपदेश करता हूँ, वैसे आप लोग भी अच्छे प्रकार उपदेश करें। जैसे मैं (दातुः) दान देने वाले के संसर्गी (देवानाम्) विद्वानों की (दक्षिणायै) दक्षिणा अर्थात् दान आदि के लिये (प्रियः) मनोहर पियारा (भूयासम्) होऊँ और (मे) मेरी (अयम्) यह (कामः) कामना (समृध्यताम्) उत्तमता से बढ़े तथा (मा) मुझे (अदः) वह परोक्षसुख (उप, नमतु) प्राप्त हो, वैसे आप लोग भी होवें और वह कामना तथा सुख आप को भी प्राप्त होवे ॥२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। परमात्मा सब मनुष्यों के प्रति इस उपदेश को करता है कि यह चारों वेदरूप कल्याणकारिणी वाणी सब मनुष्यों के हित के लिए मैंने उपदेश की है, इस में किसी को अनधिकार नहीं है, जैसे मैं पक्षपात को छोड़ के सब मनुष्यों में वर्तमान हुआ पियारा हूँ, वैसे आप भी होओ। ऐसे करने से तुम्हारे सब काम सिद्ध होंगे ॥२ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथेश्वरः सर्वेभ्यो मनुष्येभ्यो वेदपठनश्रवणाधिकारं ददातीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्या यथाऽहमीश्वरो ब्रह्मराजन्याभ्यामर्याय शूद्राय च स्वाय चारणाय च जनेभ्य इहेमां कल्याणीं वाचमावदानि तथा भवन्तोऽप्यावदन्तु। यथाऽहं दातुर्देवानां दक्षिणायै प्रियो भूयासं मेऽयं कामः समृध्यतां माऽद उपनमतु तथा भवन्तोऽपि भवन्तु तद्भवतामप्यस्तु ॥२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। परमात्मा सर्वान् मनुष्यान् प्रतीदमुपदिशतीयं वेदचतुष्टयी वाक् सर्वमनुष्याणां हिताय मयोपदिष्टा नाऽत्र कस्याप्यनधिकारोऽस्तीति। यथाऽहं पक्षपातं विहाय सर्वेषु मनुष्येषु वर्त्तमानः सन् प्रियोऽस्मि तथा भवन्तोऽपि भवन्तु। एवङ्कृते युष्माकं सर्वे कामाः सिद्धा भविष्यन्तीति ॥२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. परमेश्वर सर्व मााणसांना उपदेश करतो की, ही चारही वेदरूपी कल्याणकारी वाणी मी सर्व माणसांच्या हितासाठी सांगितलेली आहे. ती ऐकण्याचा सर्वांना अधिकार आहे. मी जसा भेदभाव न करता सर्व माणसांमध्ये व्याप्त आहे व सर्वांना प्रिय आहे तसे तुम्हीही व्हा. असे वागल्यामुळे तुमची सर्व कामे सिद्ध होतील.
०३ बृहस्पतेऽअति यदर्योऽअर्हाद्
विश्वास-प्रस्तुतिः ...{Loading}...
बृह॑स्पते॒ऽअति॒ यद॒र्योऽअर्हा॑द् द्यु॒मद्वि॒भाति॒ क्रतु॑म॒ज्जने॑षु। यद्दी॒दय॒च्छव॑सऽ ऋतप्रजात॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रम्। उ॒प॒या॒मगृ॑हीतोऽसि॒ बृह॒स्पत॑ये त्वै॒ष ते॒ योनि॒र्बृह॒स्पत॑ये त्वा ॥३ ॥
मूलम् ...{Loading}...
बृह॑स्पते॒ऽअति॒ यद॒र्योऽअर्हा॑द् द्यु॒मद्वि॒भाति॒ क्रतु॑म॒ज्जने॑षु। यद्दी॒दय॒च्छव॑सऽ ऋतप्रजात॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रम्। उ॒प॒या॒मगृ॑हीतोऽसि॒ बृह॒स्पत॑ये त्वै॒ष ते॒ योनि॒र्बृह॒स्पत॑ये त्वा ॥३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
बृह॑स्पते। अति॑। यत्। अ॒र्यः। अर्हा॑त्। द्यु॒मदिति॑ द्यु॒ऽमत्। वि॒भातीति॑ वि॒ऽभाति॑। क्रतु॑म॒दिति॒ क्रतु॑ऽमत्। जने॑षु। यत्। दी॒दय॑त्। शव॑सा। ऋ॒त॒प्र॒जा॒तेत्यृ॑तऽप्रजात। तत्। अ॒स्मासु॑। द्रवि॑णम्। धे॒हि॒। चि॒त्रम्। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। बृह॒स्पत॑ये। त्वा॒। ए॒षः। ते॒। योनिः॑। बृह॒स्पत॑ये। त्वा॒। ३।
महीधरः
म० ब्रह्मदेवत्या त्रिष्टुप् गृत्समददृष्टा । बृहस्पतिसवे बार्हस्पत्यग्रहणेऽस्याः सोपयामाया विनियोगः । ऋतात् सत्यात् हे ऋतप्रजात, ब्रह्मणः सकाशात् प्रजातं प्रकृष्टं जातं जन्म यस्य ऋतप्रजातः । हे बृहस्पते बृहतां वेदानां पते पालक, चित्रं नानाविधं तत् द्रविणमस्मासु यजमानेषु धेहि धारय स्थापय देहीत्यर्थः । तत्किम् । अर्यः स्वामी यद्धनमर्हति पूजयति । ‘लेटोडाटौ’ (पा० ३ । ४ । ९४ ) इत्याडागमः। ‘अर्यः स्वामिवैश्ययोः’ (पा० ३ । १ । १०३ ) इत्यर्यशब्दः स्वामिन्यन्तोदात्तः वैश्ये आद्युदात्तः । ईश्वरयोग्यं धनं देहीत्यर्थः । यद्धनं जनेषु लोकेषु विभाति विविधं शोभते । कीदृशं धनम् । द्युमत् द्यौः कान्तिरस्यास्तीति द्युमत् ‘दिव उच्च’ (पा० ६ । १ । १३१) इत्युकारः । क्रतुमत् क्रतवो यज्ञा विद्यन्ते येन तत् । येन यज्ञाः क्रियन्ते तादृशं धनं देहीत्यर्थः । यत् धनं शवसा बलेन दीदयत् दापयति प्रापयति वा धनान्तरम् तद्धनं देहीत्यर्थः । ‘दय दानगतिहिंसादानेषु’ अस्माण्णिजन्ताल्लुङि रूपम् । अडभाव आर्षः । उपयामेन पात्रेण गृहीतोऽसि बृहस्पतयेऽर्थाय त्वा गृह्णामि । स्थापयति एष ते योनिः स्थानम् । बृहस्पतये त्वां सादयामि ॥ ३ ॥
चतुर्थी।
अधिमन्त्रम् (VC)
- ईश्वरो देवता
- गृत्समद ऋषिः
- भुरिगत्यष्टिः
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह ईश्वर क्या करता है, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (बृहस्पते) बड़े बड़े प्रकृति आदि पदार्थों और जीवों के पालने हारे ईश्वर ! जो आप (उपयामगृहीतः) प्राप्त हुए यम-नियमादि योगसाधनों से जाने गये (असि) हैं, उन (त्वा) आप को (बृहस्पतये) बड़ी वेदवाणी की पालना के लिये तथा जिन (ते) आप का (एषः) यह (योनिः) प्रमाण है, उन (बृहस्पतये) बड़े-बड़े आप्त विद्वानों की पालना करनेवाले के लिए (त्वा) आप को हम लोग स्वीकार करते हैं। हे भगवन् ! (ऋतप्रजात) जिन से सत्य उत्तमता से उत्पन्न हुआ वे (अर्यः) परमात्मा आप (जनेषु) मनुष्यों में (अर्हात्) योग्य काम से (यत्) जो (द्युमत्) प्रशंसित प्रकाशयुक्त मन (क्रतुमत्) वा प्रशंसित बुद्धि और कर्मयुक्त मन (अति विभाति) विशेष कर प्रकाशमान है वा (यत्) जो (शवसा) बल से (दीदयत्) प्रकाशित होता हुआ वर्त्तमान है (तत्) उस (चित्रम्) आश्चर्यरूप ज्ञान (द्रविणम्) धन और यश को (अस्मासु) हम लोगों में (धेहि) धारण-स्थापन कीजिए ॥३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जिससे बड़ा दयावान् न्यायकारी और अत्यन्त सूक्ष्म कोई भी पदार्थ नहीं वा जिसने वेद प्रकट करने द्वारा सब मनुष्य सुशोभित किये वा जिसने अद्भुत ज्ञान और धन जगत् में विस्तृत किया और जो योगाभ्यास से प्राप्त होने योग्य है, वही ईश्वर हम सब लोगों को अति उपासना करने योग्य है, यह तुम जानो ॥३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स ईश्वरः किं करोतीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे बृहस्पते ! यस्त्वमुपयामगृहीतोऽसि तं त्वा बृहस्पतये यस्यैष ते योनिरस्ति तस्मै बृहस्पतये त्वा वयं स्वीकुर्मः। हे ऋतप्रजातार्यस्त्वं जनेष्वर्हाद्यद् द्युमत् क्रतुमदतिविभाति यच्छवसा दीदयदस्ति तच्चित्रं विज्ञानं द्रविणं चास्मासु धेहि ॥३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यस्मान्महान् दयालुर्न्यायकार्यणीयान् कश्चिदपि पदार्थो नास्ति येन वेदाविर्भावद्वारा सर्वे मनुष्या भूषिता येनाद्भुतं विज्ञानं धनं च विस्तारितं यो योगाभ्यासगम्योऽस्ति स एवेश्वरोऽस्माभिः सर्वैरुपासनीयतमोऽस्तीति विजानीत ॥३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! ज्याच्यासारखा मोठा दयाळू, न्यायी व अत्यंत सूक्ष्म पदार्थ कोणताही नाही किंवा ज्याने वेद प्रकट करून सर्व माणसांना सुशोभित केलेले आहे व अद्भूत ज्ञान आणि धन जगात पसरविलेले आहे. जो योगाभ्यासाने प्राप्त होण्यायोग्य आहे. तोच परमेश्वर सर्वांचा उपास्यदेव आहे हे सर्वांनी जाणावे.
०४ इन्द्र गोमन्निहा
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र॒ गोम॑न्नि॒हा या॑हि॒ पिबा॒ सोमँ॑ शतक्रतो। वि॒द्यद्भि॒र्ग्राव॑भिः सु॒तम्। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ गोम॑तऽए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ गोम॑ते ॥४ ॥
मूलम् ...{Loading}...
इन्द्र॒ गोम॑न्नि॒हा या॑हि॒ पिबा॒ सोमँ॑ शतक्रतो। वि॒द्यद्भि॒र्ग्राव॑भिः सु॒तम्। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ गोम॑तऽए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ गोम॑ते ॥४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इन्द्र॑। गोम॒न्निति॒ गोऽम॑न्। इ॒ह। आ। या॒हि॒। पिब॑। सोम॑म्। श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो। वि॒द्यद्भि॒रिति॒ वि॒द्यत्ऽभिः॑। ग्राव॑भि॒रिति॒ ग्राव॑ऽभिः। सु॒तम्। उ॒प॒या॒मगृ॑हीत इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। इन्द्रा॑य। त्वा॒। गोम॑त॒ इति॒ गोऽम॑ते। ए॒षः। ते॒। योनिः॑। इन्द्रा॑य। त्वा॒। गोम॑त इति॒ गोऽम॑ते। ४।
महीधरः
म०. द्वे इन्द्रदेवत्ये गायत्र्यौ, रम्याक्षिदृष्टे गोसवे यज्ञे ग्रहग्रहणे नियुक्ते सोपयामे । शतं क्रतवः कर्माणि यस्य स शतक्रतुः हे शतक्रतो हे इन्द्र, हे गोमन् गावो धेनवः स्तुतयः किरणा वा विद्यन्ते यस्य स गोमान् । त्वमिह यज्ञे आयाहि आगच्छ । सोमं च पिब । ‘द्व्यचोऽतस्तिङः’ (पा० ६।३।१३५ ) इति दीर्घः । कीदृशं सोमम् । ग्रावभिः सुतमश्मभिरभिषुतम् । कीदृशैर्ग्रावभिः । विद्यद्भिः विशेषेण द्यन्ति खण्डयन्ति ते विद्यन्तः तैः । ‘दो अवखण्डने’ दिवादित्वाच्छ्यन् शतरि ‘ओतः श्यनि’ (पा० ७ । ३ । ७१) इत्योकार-लोपः । उपयाम० गोमते इन्द्राय त्वां गृह्णामि । सादयति एष ते० ॥ ४ ॥
पञ्चमी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- रम्याक्षी ऋषिः
- स्वराड्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्य क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (शतक्रतो) जिस की सैकड़ों प्रकार की बुद्धि और (गोमन्) प्रशंसित वाणी है सो ऐसे हे (इन्द्र) विद्वन् पुरुष ! आप (आ, याहि) आइये (इह) इस संसार में (विद्यद्भिः) विद्यमान (ग्रावभिः) मेघों से (सुतम्) उत्पन्न हुए (सोमम्) सोमवल्ली आदि ओषधियों के रस को (पिब) पियो, जिससे आप (उपयामगृहीतः) यम-नियमों से इन्द्रियों को ग्रहण किये अर्थात् इन्द्रियों को जीते हुए (असि) हो, इसलिए (गोमते) प्रशस्त पृथिवी के राज्य से युक्त पुरुष के लिये और (इन्द्राय) उत्तम ऐश्वर्य के लिये (त्वा) आप को और जिन (ते) आप का (एषः) यह (योनिः) निमित्त है उस (गोमते) प्रशंसित वाणी और (इन्द्राय) प्रशंसित ऐश्वर्य से युक्त पुरुष के लिये (त्वा) आप का हम लोग सत्कार करते हैं ॥४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो वैद्यकशास्त्र विद्या से सिद्ध और मेघों से उत्पन्न हुई औषधियों का सेवन और योगाभ्यास करते हैं, वे सुख तथा ऐश्वर्य्ययुक्त होते हैं ॥४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्याः किं कुर्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे शतक्रतो गोमन्निन्द्र त्वमिहा याहि विद्यद्भिर्ग्रावभिः सुतं सोमं पिब यतस्त्वमुपयामगृहीतोऽसि तस्माद् गोमत इन्द्राय त्वा यस्यैष ते योनिरस्ति तस्मै गोमत इन्द्राय त्वां च वयं सत्कुर्मः ॥४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये वैद्यकशास्त्रविद्यासिद्धानि मेघेनोत्पन्नान्यौषधानि सेवन्ते योगं चाभ्यस्यन्ति ते सुखैश्वर्ययुक्ता जायन्ते ॥४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे वैद्यकशास्त्रानुसार व पावसाच्या पाण्यापासून उत्पन्न झालेल्या वृक्षौषधींचे सेवन करून योगाभ्यास करतात ते सुखी व ऐश्वर्ययुक्त बनतात.
०५ इन्द्रा याहि
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रा या॑हि वृत्रह॒न् पिबा॒ सोमँ॑ शतक्रतो। गोम॑द्भिर्ग्राव॑भिः सु॒तम्। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा गोम॑तऽए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा गोम॑ते ॥५ ॥
मूलम् ...{Loading}...
इन्द्रा या॑हि वृत्रह॒न् पिबा॒ सोमँ॑ शतक्रतो। गोम॑द्भिर्ग्राव॑भिः सु॒तम्। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा गोम॑तऽए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा गोम॑ते ॥५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इन्द्र॑। आ। या॒हि॒। वृ॒त्र॒ह॒न्निति॑ वृत्रऽहन्। पिब॑। सोम॑म्। श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो। गोम॑द्भि॒रिति॒ गोम॑त्ऽभिः। ग्राव॑भि॒रिति॒ ग्राव॑ऽभिः। सु॒तम्। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। इन्द्रा॑य। त्वा॒। गोम॑त॒ इति॒ गोऽम॑ते। ए॒षः। ते॒। योनिः॑। इन्द्रा॑य। त्वा॒। गोम॑त॒ इति॒ गोऽम॑ते। ५।
महीधरः
म० वृत्रं दैत्यं हन्ति वृत्रहा । शतं क्रतवो मखा यस्य स शतक्रतुः । हे वृत्रहन् हे शतक्रतो, हे इन्द्र, त्वमायाहि आगच्छ सोमं च पिब । कीदृशं सोमम् । ग्रावभिः सुतम् । कीदृशैर्ग्रावभिः । गोमद्भिः गौः स्तुतिर्विद्यते येषां ते गोमन्तस्तैः । उप० एष ते व्याख्याते ॥ ५ ॥
षष्ठी।
अधिमन्त्रम् (VC)
- सूर्यो देवता
- रम्याक्षी ऋषिः
- भुरिग्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्य क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (शतक्रतो) बहुत बुद्धि और कर्मयुक्त (वृत्रहन्) मेघहन्ता सूर्य के समान शत्रुओं के हननेवाले (इन्द्र) परमैश्वर्ययुक्त विद्वान् आप (गोमद्भिः) जिन में बहुत चकमती हुई किरणें विद्यमान उन पदार्थों और (ग्रावभिः) गर्जनाओं से गर्जते हुए मेघों के साथ (आ, याहि) आइये और (सुतम्) उत्पन्न हुए (सोमम्) ऐश्वर्य करने हारे रस को (पिब) पीओ जिस कारण आप (गोमते) बहुत दूध देती हुई गौओं से युक्त (इन्द्राय) ऐश्वर्य के लिए (उपयामगृहीतः) अच्छे नियमों से आत्मा को ग्रहण किये हुए (असि) हैं, उन (त्वा) आप को तथा जिन (ते) आप का (एषः) यह (गोमते) प्रशंसित भूमि के राज्य से युक्त (इन्द्राय) ऐश्वर्य चाहनेवाले के लिए (योनिः) घर है, उन (त्वा) आप का हम लोग सत्कार करें ॥५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे मनुष्य ! जैसे मेघहन्ता सूर्य सब जगत् से रस पी के और वर्षा के सब जगत् को प्रसन्न करता है वैसे ही तू बड़ी-बड़ी ओषधियों के रस को पी तथा ऐश्वर्य की उन्नति के लिये अच्छे प्रकार यत्न किया कर ॥५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैः किं क्रियेत इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे शतकतो वृत्रहन्निन्द्र त्वं गोमद्भिर्ग्रावभिः सहायाहि सुतं सोमं पिब। यतस्त्वं गोमत इन्द्रायोपयामगृहीतोऽसि तं त्वा यस्यैष ते गोमत इन्द्राय योनिरस्ति तं त्वा च वयं सत्कुर्याम ॥५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः ! यथा मेघहन्ता सूर्यः सर्वस्य जगतो रसं पीत्वा वर्षयित्वा सर्वं जगत् प्रीणाति तथैव त्वं महौषधिरसान् पिब ऐश्वर्योन्नतये प्रयतस्व च ॥५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे माणसा, जसे मेघांचे हनन करणारा सूर्य जगाचा रस शोषून वृष्टी करतो व सर्व जगाला प्रसन्न करतो, तसेच तू ही उत्तम औषधांचा रस सेवन करून ऐश्वर्य वाढविण्याचा प्रयत्न कर.
०६ ऋतावानं वैश्वानरमृतस्य
विश्वास-प्रस्तुतिः ...{Loading}...
ऋ॒तावा॑नं वैश्वान॒रमृ॒तस्य॒ ज्योति॑ष॒स्पति॑म्। अज॑स्रं घ॒र्ममी॑महे। उ॒प॒या॒मगृ॑हीतोऽसि वैश्वान॒राय॑ त्वै॒ष ते॒ योनि॑र्वैश्वान॒राय॑ त्वा ॥६ ॥
मूलम् ...{Loading}...
ऋ॒तावा॑नं वैश्वान॒रमृ॒तस्य॒ ज्योति॑ष॒स्पति॑म्। अज॑स्रं घ॒र्ममी॑महे। उ॒प॒या॒मगृ॑हीतोऽसि वैश्वान॒राय॑ त्वै॒ष ते॒ योनि॑र्वैश्वान॒राय॑ त्वा ॥६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ऋ॒तावा॑नम्। ऋ॒तवा॑ना॒मित्यृ॒तऽवा॑नम्। वै॒श्वा॒न॒रम्। ऋ॒तस्य॑। ज्योति॑षः। पति॑म्। अज॑स्रम्। घ॒र्मम्। ई॒म॒हे॒। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। वै॒श्वा॒न॒राय॑। त्वा॒। ए॒षः। ते॒। योनिः॑। वै॒श्वा॒न॒राय॑। त्वा॒। ६।
महीधरः
म० तिस्रो वैश्वानरीयाः पुरोनुवाक्याः । आद्या गायत्री प्रदुराक्षिदृष्टा । वयं वैश्वानरमीमहे याचामः । यज्ञसमाप्तिमिति शेषः । ईमहे याञ्चाकर्मसु पठितः। कीदृशं वैश्वानरम् । ऋतवानम् ऋतं सत्यं यज्ञो जलं वास्यास्ति ऋतवा तम् ‘छन्दसीवनिपौ वाच्यौ’ (पा० ५। २ । १०९ । वा० २) इत्यस्त्यर्थे वन्प्रत्ययः संहितायामृतस्य दीर्घः । ऋतस्य सत्यस्याविनाशिनो ज्योतिषः तेजसः पतिं पालकम् । तेजोऽधिष्ठानमित्यर्थः । अजस्रं न जस्यति नश्यतीति अजस्रस्तमनुपक्षीणम् ‘जसु हिंसायाम्’ ‘नमिकम्पि-’ (पा० ३ । २ । १६७) इति रप्रत्ययः । घर्मं ‘घृ क्षरणदीप्त्योः’ जिघर्ति क्षरति जलं घर्मस्तम् दीप्तं वा । उपया० वैश्वानराय त्वां गृह्णामि । एष ते० सादयामि ॥ ६॥
सप्तमी।
अधिमन्त्रम् (VC)
- वैश्वानरो देवता
- प्रादुराक्षिर्ऋषिः
- जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे हम लोग (ऋतावानम्) जो जल का सेवन करता उस (वैश्वानरम्) समस्त मनुष्यों में प्रकाशमान (ऋतस्य) जल और (ज्योतिषः) प्रकाश की (पतिम्) पालना करने हारे (घर्मम्) प्रताप को (अजस्रम्) निरन्तर (ईमहे) माँगते हैं, वैसे तुम इस को माँगो जो आप (वैश्वानराय) संसार के नायक के लिये (उपयामगृहीतः) अच्छे नियमों से मन को जीते हुए (असि) हैं, उन (त्वा) आपको तथा जिन (ते) आपका (एषः) यह (योनिः) घर है, उन (त्वा) आप को (वैश्वानराय) समस्त संसार के हित के लिये सत्कारयुक्त करते हैं, वैसे तुम भी करो ॥६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो अग्नि जल आदि मूर्तिमान् पदार्थों को अपने तेज से छिन्न-भिन्न करता और निरन्तर जल सींचता है, उस को जान के मनुष्य सब ऋतुओं में सुख करने हारे घर को पूर्ण करें बनावें ॥६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैः किं कर्त्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्या यथा वयमृतावानं वैश्वानरमृतस्य ज्योतिषस्पतिर्घर्ममजस्रमीमहे तथा यूयमप्येनं याचत। यस्त्वं वैश्वानरायोपयामगृहीतोऽसि तं त्वा यस्यैष ते योनिरस्ति तं त्वा च वैश्वानराय सत्कुर्मस्तथा यूयमपि कुरुत ॥६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कार। योऽग्निर्जलादीनि मूर्त्तानि द्रव्याणि स्वतेजसा भिनत्ति निरन्तरं जलमाकर्षति च तं विदित्वा मनुष्याः सर्वर्त्तुसुखकारकं गृहमलंकुर्युः ॥६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जो अग्नी, जल इत्यादी पदार्थांना आपल्या तेजाने छिन्नभिन्न करतो व सतत जल वर ओढतो ते जाणून घेऊन माणसांनी सर्व ऋतूंमध्ये सुखकारक होतील अशी घरे बांधावीत.
०७ वैश्वानरस्य सुमतौ
विश्वास-प्रस्तुतिः ...{Loading}...
वै॒श्वा॒न॒रस्य॑ सुम॒तौ स्या॑म॒ राजा॒ हि कं॒ भुव॑नानामभि॒श्रीः। इ॒तो जा॒तो विश्व॑मि॒दं वि च॑ष्टे वैश्वान॒रो य॑तते॒ सूर्ये॑ण। उ॒प॒या॒मगृ॑हीतोऽसि वैश्वान॒राय॑ त्वै॒ष ते॒ योनि॑र्वैश्वान॒राय॑ त्वा ॥७ ॥
मूलम् ...{Loading}...
वै॒श्वा॒न॒रस्य॑ सुम॒तौ स्या॑म॒ राजा॒ हि कं॒ भुव॑नानामभि॒श्रीः। इ॒तो जा॒तो विश्व॑मि॒दं वि च॑ष्टे वैश्वान॒रो य॑तते॒ सूर्ये॑ण। उ॒प॒या॒मगृ॑हीतोऽसि वैश्वान॒राय॑ त्वै॒ष ते॒ योनि॑र्वैश्वान॒राय॑ त्वा ॥७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वै॒श्वा॒न॒रस्य॑। सु॒म॒ताविति॑ सुऽम॒तौ। स्या॒म॒। राजा॑। हि। क॒म्। भुव॑नानाम्। अ॒भि॒श्रीरित्य॑भि॒ऽश्रीः। इ॒तः। जा॒तः। विश्व॑म्। इ॒दम्। वि। च॒ष्टे॒। वै॒श्वा॒न॒रः। य॒त॒ते॒। सूर्ये॑ण। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। वै॒श्वा॒न॒राय॑। त्वा॒। एषः। ते॒। योनिः॑। वै॒श्वा॒न॒राय॑। त्वा॒। ७।
महीधरः
म० त्रिष्टुप् कुत्सदृष्टा । वैश्वानरस्य सुमतौ शोभनबुद्धौ वयं स्याम भवेम । कं निपातः पादपूरणः । हि यस्माद्धेतोर्वैश्वानरः इतोऽरणितो जातः उत्पन्नः सन् इदं विश्वं सर्वं विचष्टे कर्मानुरूपं पश्यति । सूर्येण सह यतते स्पर्धते च । सूर्यसमतेजा इत्यर्थः । कीदृशोऽग्निः । राजा राजते दीप्यते राजा । भुवनानां भूतजातानामभिश्रीः आश्रयणीयः । अभि समन्तात् श्रीयते सेव्यतेऽभिश्रीः । कर्मणि क्विप् । उप० एष ते उक्ते ॥ ७॥
अष्टमी।
अधिमन्त्रम् (VC)
- वैश्वानरोऽग्निर्देवता
- कुत्स ऋषिः
- विराडत्यष्टिः
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्य क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हम लोग जैसे (राजा) प्रकाशमान (भुवनानाम्) लोकों के बीच (अभिश्रीः) सब ओर से ऐश्वर्य की शोभा से युक्त सूर्य (कम्) सुख को (हि) ही सिद्ध करता है और (इतः) इस कारण (जातः) प्रसिद्ध हुआ (इदम्) इस (विश्वम्) विश्व को (वि, चष्टे) प्रकाशित करता है वा जैसे (सूर्येण) सूर्य के साथ (वैश्वानरः) बिजुली रूप अग्नि (यतते) यत्नवान् है, वैसे हम लोग (वैश्वानरस्य) संसार के नायक परमेश्वर वा उत्तम सभापति की (सुमतौ) अति उत्तम देश काल को जानने हारी कपट-छलादि दोष रहित बुद्धि में (स्याम) होवें। हे विद्वान् ! जिससे आप (उपयामगृहीतः) सुन्दर नियमों से स्वीकृत (असि) हैं, इससे (वैश्वानराय) अग्नि के लिये (त्वा) आपको तथा जिस (ते) आप का (एषः) यह (योनिः) घर है उन (त्वा) आप को भी (वैश्वानराय) अग्निसाध्य कार्य साधने के लिये सत्कार करता हूँ ॥७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे सूर्य के साथ चन्द्रमा रात्रि को सुशोभित करता है, वैसे उत्तम राजा से प्रजा प्रकाशित होती है और विद्वान् शिल्पी जन अग्नि से सर्वोपयोगी कार्यों को सिद्ध करता है ॥७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्याः किं कुर्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - वयं यथा राजा भुवनानामभिश्रीः कं हि साध्नोति इतो जातः सन् विश्वमिदं विचष्टे यथा सूर्येण सह वैश्वानरो यतते तथा वयं वैश्वानरस्य सुमतौ स्याम। हे विद्वन् ! यतस्त्वमुपयामगृहीतोऽसि तस्माद्वैश्वानराय त्वा यस्यैष ते योनिरस्ति तं त्वा च वैश्वानराय सत्करोमि ॥७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यथा सूर्येण सह चन्द्रमा रात्रिं सुभूषयति तथा सुराज्ञा प्रजा प्रकाशिता भवति विद्वान् शिल्पिजनश्च वह्निना सर्वोपयोगीनि कार्याणि साध्नोति ॥७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जसे सूर्य या जगाला प्रकाश देतो व चंद्रही आपल्या प्रकाशाने रात्र सुशोभित करतो तसे उत्तम राजामुळे प्रजाही सुशोभित होते व विद्वान कारागीर सर्वोपयोगी कार्य सिद्ध करू शकतो.
०८ वैश्वानरो न
विश्वास-प्रस्तुतिः ...{Loading}...
वै॒श्वा॒न॒रो न॑ ऊ॒तय॒ऽआ प्र या॑तु परा॒वतः॑। अ॒ग्निरु॒क्थेन॒ वाह॑सा। उ॒प॒या॒मगृ॑हीतोऽसि वैश्वान॒राय॑ त्वै॒ष ते॒ योनि॑र्वैश्वान॒राय॑ त्वा ॥८ ॥
मूलम् ...{Loading}...
वै॒श्वा॒न॒रो न॑ ऊ॒तय॒ऽआ प्र या॑तु परा॒वतः॑। अ॒ग्निरु॒क्थेन॒ वाह॑सा। उ॒प॒या॒मगृ॑हीतोऽसि वैश्वान॒राय॑ त्वै॒ष ते॒ योनि॑र्वैश्वान॒राय॑ त्वा ॥८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वै॒श्वा॒न॒रः। नः॒। ऊ॒तये॑। आ। प्र। या॒तु। प॒रा॒वतः॑। अ॒ग्निः। उ॒क्थेन॑। वाह॑सा। उ॒प॒या॒मगृ॑हीत इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। वै॒श्वा॒न॒राय॑। त्वा॒। ए॒षः। ते॒। योनिः॑। वै॒श्वा॒न॒राय॑। त्वा॒। ८।
महीधरः
म० गायत्री। नोऽस्माकमूतयेऽवनाय परावतः दूरदेशाद्वैश्वानरः आ प्रयातु आगच्छतु । केन । वाहसा वाहनभूतेन । उक्थेन स्तोमेन ‘वाहिष्ठो वाहनानां स्तोमो दूतो हुतं नरा’ इति श्रुत्यन्तरे स्तोमस्य वाहनत्वमुक्तम् । उप० एष० उक्ते ॥ ८॥
नवमी।
अधिमन्त्रम् (VC)
- वैश्वानरो देवता
- कुत्स ऋषिः
- जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्य किसके समान क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जैसे (वैश्वानरः) समस्त नायक जनों में प्रकाशमान विद्वान् (परावतः) दूर से (नः) हमारी (ऊतये) रक्षा के लिये (आ, प्र, यातु) अच्छे प्रकार आवे, वैसे (अग्निः) अग्नि के समान तेजस्वी मनुष्य (उक्थेन) प्रशंसा करने योग्य (वाहसा) व्यवहार के साथ प्राप्त हो। जो आप (वैश्वानराय) प्रकाशमान के लिये (उपयामगृहीतः) विद्या के विचार से युक्त (असि) हैं, उन (त्वा) आप को तथा जिन (ते) आप का (एषः) यह घर (वैश्वानराय) समस्त नायकों में उत्तम नायकों में उत्तम के लिये (योनिः) घर है, उन (त्वा) आप को भी हम लोग स्वीकार करें ॥८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे सूर्य दूर देश से अपने प्रकाश से दूरस्थ पदार्थों को प्रकाशित करता है, वैसे ही विद्वान् जन अपने सुन्दर उपदेश से दूरस्थ जिज्ञासुओं को प्रकाशित करते हैं ॥८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्याः किंवत् किं कुर्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यथा वैश्वानरः परावतो न ऊतय आ प्रयातु तथाऽग्निरुक्थेन वाहसा सहाप्नोतु यस्त्वं वैश्वानरायोपयामगृहीतोऽसि तं त्वा यस्यैष ते वैश्वानराय योनिरस्ति तं त्वा च स्वीकुर्मः ॥८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोमालङ्कारः। यथा सूर्यो दूरदेशात् स्वप्रकाशेन दूरस्थान् पदार्थान् प्रकाशयति तथा विद्वांसः स्वसूपदेशेन दूरस्थान् जिज्ञासून् प्रकाशयन्ति ॥८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. सूर्य जसा दूर असलेल्या पदार्थांना आपल्या प्रकाशाने प्रकाशित करतो, तसेच विद्वान लोक दूर असलेल्या जिज्ञासू लोकांनाही आपल्या उपदेशाने प्रभावित करतात.
०९ अग्निर्ऋषिः पवमानः
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्निर्ऋषिः॒ पव॑मानः॒ पाञ्च॑जन्यः पु॒रोहि॑तः। तमी॑महे महाग॒यम्। उ॒प॒या॒मगृ॑हीतोऽस्य॒ग्नये॑ त्वा॒ वर्च॑सऽए॒ष ते॒ योनि॑र॒ग्नये॑ त्वा॒ वर्च॑से ॥९ ॥
मूलम् ...{Loading}...
अ॒ग्निर्ऋषिः॒ पव॑मानः॒ पाञ्च॑जन्यः पु॒रोहि॑तः। तमी॑महे महाग॒यम्। उ॒प॒या॒मगृ॑हीतोऽस्य॒ग्नये॑ त्वा॒ वर्च॑सऽए॒ष ते॒ योनि॑र॒ग्नये॑ त्वा॒ वर्च॑से ॥९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒ग्निः। ऋषिः॑। पव॑मानः। पाञ्च॑जन्य॒ इति॒ पाञ्च॑ऽजन्यः। पु॒रोहि॑त॒ इति॑ पु॒रःऽहि॑तः। तम्। ई॒म॒हे॒। म॒हा॒ग॒यमिति॑ महाऽग॒यम्। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। अ॒ग्नये॑। त्वा॒। वर्च॑से। ए॒षः। ते। योनिः॑। अ॒ग्नये॑। त्वा॒। वर्च॑से। ९।
महीधरः
म० अग्निदेवत्या गायत्री वसिष्ठभरद्वाजदृष्टा पुरोरुक् । महान् गयः स्तुतिर्यस्य स महागयो महागृहरूपो वा तमग्निं वयमीमहे याचामहे । तं कम् । योऽग्निर्ऋषिः मन्त्रद्रष्टा । पवमानः ‘पव गतौ’ पवत इतस्ततो गच्छति पवमानः । यद्वा ‘पूङ् शोधने’ पवते शोधयति पवमानः । पाञ्चजन्यः पञ्चजनेभ्यो हितः । विप्रादयश्चत्वारो वर्णा निषादश्चेति पञ्चजनास्तेषां यज्ञाधिकारात् । पुरोहितः पुरोऽग्रे हितः स्थापितः दधातेर्निष्ठा । उप० वर्चसे तेजोरूपायाग्नये त्वां गृह्णामि । एष० ॥ ९॥
दशमी।
अधिमन्त्रम् (VC)
- वैश्वानरो देवता
- कुत्स ऋषिः
- स्वराड्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर किन को किस से क्या माँगना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (पाञ्चजन्यः) पाँच जनों वा प्राणों की क्रिया में उत्तम (पुरोहितः) पहिले हित करने हारा (पवमानः) पवित्र (ऋषिः) मन्त्रार्थवेत्ता और (अग्निः) अग्नि के समान विद्या से प्रकाशित है (तम्) उस (महागयम्) बड़े-बड़े घर सन्तान वा धनवाले की जैसे हम लोग (ईमहे) याचना करें, वैसे आप (वर्चसे) पढ़ाने हारे और (अग्नये) विद्वान् के लिये (उपयामगृहीतः) समीप के नियमों से ग्रहण किये हुए (असि) हैं, इस से (त्वा) आप को तथा जिन (ते) आप को (एषः) यह (योनिः) निमित्त (वर्चसे) विद्याप्रकाश और (अग्नये) विद्वान् के लिये है, उन (त्वा) आप की हम लोग प्रार्थना करते हैं, वैसे तुम भी चेष्टा करो ॥९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सब मनुष्यों को चाहिये कि वेदवेत्ता विद्वानों से सदा विद्याप्राप्ति की प्रार्थना किया करें, जिससे वे सब मनुष्य महत्त्व को प्राप्त होवें ॥९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः कैः कस्मात् किं याचनीयमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्या यः पाञ्चजन्यः पुरोहितः पवमान ऋषिरग्निरस्ति तं महागयं यथा वयमीमहे तथा त्वं वर्चसेऽग्नय उपयामगृहीतोऽसि तस्मात् त्वा यस्यैष ते योनिर्वर्चसेऽग्नयेऽस्ति तं त्वा च वयमीमहे तथैतं यूयमपीहध्वम् ॥९।
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सर्वैर्मनुष्यैर्वेदशास्त्रविद्भ्यो विद्वद्भ्यः सदा विद्याप्राप्तिर्याचनीया येन महत्त्वं प्राप्नुयुः ॥९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सर्व माणसांनी वेद्य माणसांकडून विद्या प्राप्त करण्यासाठी प्रार्थना करावी. ज्यामुळे त्या माणसांना महत्त्व मिळेल.
१० महाँ२ ऽइन्द्रो
विश्वास-प्रस्तुतिः ...{Loading}...
म॒हाँ२ ॥ऽइन्द्रो॒ वज्र॑हस्तः षोड॒शी शर्म॑ यच्छतु। हन्तु॑ पा॒प्मानं॒ यो᳙ऽस्मान् द्वेष्टि॑। उ॒प॒या॒मगृ॑हीतोऽसि महे॒न्द्राय॑ त्वै॒ष ते॒ योनि॑र्महे॒न्द्राय॑ त्वा ॥१० ॥
मूलम् ...{Loading}...
म॒हाँ२ ॥ऽइन्द्रो॒ वज्र॑हस्तः षोड॒शी शर्म॑ यच्छतु। हन्तु॑ पा॒प्मानं॒ यो᳙ऽस्मान् द्वेष्टि॑। उ॒प॒या॒मगृ॑हीतोऽसि महे॒न्द्राय॑ त्वै॒ष ते॒ योनि॑र्महे॒न्द्राय॑ त्वा ॥१० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
म॒हान्। इन्द्रः॑। वज्र॑ह॒स्त इति॒ वज्र॑ऽहस्तः। षो॒ड॒शी। शर्म॑। य॒च्छ॒तु॒। हन्तु॑। पा॒प्मान॑म्। यः। अ॒स्मान्। द्वेष्टि॑। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। म॒हे॒न्द्रायेति॑ महाऽइ॒न्द्राय॑। त्वा॒। ए॒षः। ते॒। योनिः॑। म॒हे॒न्द्रायेति॑ महाऽइ॒न्द्राय॑। त्वा॒। १०।
महीधरः
म० महेन्द्रदेवत्या गायत्री वसिष्ठकृता पुरोरुक् । इन्द्रः शर्म सुखं यच्छतु ददातु । योऽस्मान् द्वेष्टि तं च पाप्मानं पापिष्ठं हन्तु नाशयतु । यद्वास्मद्द्वेष्टारं पाप्मानं च पापं ब्रह्महत्यादिकं हन्तु । ‘अस्त्री पङ्कं पुमान्पाप्मा’ इत्यमरः। कीदृश इन्द्रः । महान् श्रेष्ठः वज्रहस्तः वज्रं हस्ते यस्य सः । षोडशी पञ्च प्राणा दशेन्द्रियाणि मनश्चेति षोडशपदार्था लिङ्गशरीररूपा यस्य स षोडशी । आत्मरूप इत्यर्थः । उप० एष० उक्ते ॥ १० ॥
एकादशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- वसिष्ठ ऋषिः
- निचृज्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
अब राजा के सत्कार इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (वज्रहस्तः) जिस के हाथों में वज्र (षोडशी) सोलह कला युक्त (महान्) बड़ा (इन्द्रः) और परम ऐश्वर्यवान् राजा (शर्म) जिस में दुःख विनाश को प्राप्त होते हैं, उस घर को (यच्छतु) देवे (यः) जो (अस्मान्) हम लोगों को (द्वेष्टि) वैरभाव से चाहता उस (पाप्मानम्) खोटे कर्म करनेवाले को (हन्तु) मारे। जो आप (महेन्द्राय) बड़े-बड़े गुणों से युक्त के लिये (उपयामगृहीतः) प्राप्त हुए नियमों से ग्रहण किये हुए (असि) हैं, उन (त्वा) आप को तथा जिन (ते) आप का (एषः) यह (महेन्द्राय) उत्तम गुणवाले के लिये (योनिः) निमित्त है, उन (त्वा) आप का भी हम लोग सत्कार करें ॥१० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे प्रजाजनो ! जो तुम्हारे लिये सुख देवे, दुष्टों को मारे और महान् ऐश्वर्य को बढ़ावे, वह तुम लोगों को सदा सत्कार करने योग्य है। १० ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ राजसत्कारमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! वज्रहस्तः षोडशी महानिन्द्रः शर्म यच्छतु योऽस्मान् द्वेष्टि तं पाप्मानं हन्तु यस्त्वं महेन्द्रायोपयामगृहीतोऽसि तं त्वा यस्यैष ते महेन्द्राय योनिरस्ति तं त्वा च वयं सत्कुर्याम ॥१० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे प्रजाजन ! यो युष्मभ्यं सुखं दद्याद् दुष्टान् हन्यान्महैश्वर्यं वर्द्धयेत् स युष्माभिः सदा सत्कर्त्तव्यः ॥१० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे प्रजाजनांनो ! जो तुम्हाला सुख देतो, दुष्टांना मारतो व खूप ऐश्वर्य वाढवितो त्याचा तुम्ही सन्मान करा.
११ तं वो
विश्वास-प्रस्तुतिः ...{Loading}...
तं वो॑ द॒स्ममृ॑ती॒षहं॒ वसो॑र्मन्दा॒नमन्ध॑सः। अ॒भि व॒त्सं न स्वस॑रेषु धे॒नव॒ऽइन्द्रं॑ गी॒र्भिर्न॑वामहे ॥११ ॥
मूलम् ...{Loading}...
तं वो॑ द॒स्ममृ॑ती॒षहं॒ वसो॑र्मन्दा॒नमन्ध॑सः। अ॒भि व॒त्सं न स्वस॑रेषु धे॒नव॒ऽइन्द्रं॑ गी॒र्भिर्न॑वामहे ॥११ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
तम्। वः॒। द॒स्मम्। ऋ॒ती॒षह॑म्। ऋ॒ति॒सह॒मित्यृति॒ऽसह॑म्। वसोः॑। म॒न्दा॒नम्। अन्ध॑सः। अ॒भि। व॒त्सम्। न। स्वस॑रेषु। धे॒नवः॑। इन्द्र॑म्। गी॒र्भिरिति॑ गी॒ऽभिः। न॒वा॒म॒हे॒। ११।
महीधरः
म० इन्द्रदेवत्या पथ्या बृहती नोधागोतमदृष्टा स्वाध्यायादिषु नियुक्ता । आदित्ययाज्ञवल्क्ययोरार्षमाध्यायात् । हे यजमानाः, तमिन्द्रं वयं गीर्भिः स्तुतिलक्षणाभिर्वाग्भिः अभिनवामहे सम्यक् स्तुमहे ‘नु स्तुतौ’ व्यत्ययेन शप् । किंभूतमग्निम् । वो युष्माकं दस्मं दर्शनीयम् ‘दस दर्शने’ मप्रत्ययः । ऋतीषहम् ‘ऋ गतौ’ क्तिन्प्रत्ययः । ऋत्या गत्या सतेऽभिभवति शत्रूनिति ऋतिपषट् तम् ‘पूर्वपदाच्च’ (पा. ८।३।१०६) इति षत्वम् । संहितायां दीर्घः । वसोः वासयितुः स्थितिहेतुभूतस्यान्धसोऽन्नस्य । षष्ठी तृतीयार्थे । अन्नेन मन्दानं मोदमानम् ‘मदिङ् स्वप्ने जाड्ये मदे मोदे स्तुतौ गतौ’ इति धातोः शानच्प्रत्ययेन शपो लुक् । दृष्टान्तमाह । वत्सं न । नकार इवार्थः। स्वसरेषु स्वेनैवात्मनैव सरन्ति प्रसरन्ति किरणा येषु ते स्वसरा दिवसाः तेषु । यथा धेनवो नवप्रसूता गावो वत्सं नुवन्ति स्तुवन्ति । शब्दैराह्वयन्तीयर्थः । तद्वद्वयमिन्द्रं स्तुमः ॥११॥
द्वादशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- नोधा गोतम ऋषिः
- बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर राजा क्या करे, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! हम लोग (स्वसरेषु) दिनों में (धेनवः) गौएँ (वत्सम्) जैसे बछड़े को (न) वैसे जिस (दस्मम्) दुःखविनाशक (ऋतीषहम्) चाल को सहनेवाले (वसोः) धन और (अन्धसः) अन्न के (मन्दानम्) आनन्द को पाए हुए (इन्द्रम्) परमैश्वर्यवान् सभापति की (वः) तुम्हारे लिये (गीर्भिः) वाणियों से (अभि, नवामहे) सब ओर से स्तुति करते हैं, वैसे ही (तम्) उस सभापति की आप लोग सदा प्रीतिभाव से स्तुति कीजिये ॥११ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे गौएँ प्रतिदिन अपने-अपने बछड़ों को पालती हैं, वैसे ही प्रजाजनों की रक्षा करनेवाला पुरुष प्रजा की नित्य रक्षा करे और प्रजा के लिये धन और अन्न आदि पदार्थों से सुखों को नित्य बढ़ाया करे ॥११ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुना राजा किं कुर्यादित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! वयं स्वसरेषु धेनवो वत्सं न यं दस्ममृतीषहं वसोरन्धसो मन्दानमिन्द्रं वो गीर्भिरभि नवामहे तथा तं भवन्तोऽपि सदा प्रीतिभावेन स्तुवन्तु ॥११ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा गावः प्रतिदिनं स्वं स्वं वत्सं पालयन्ति तथैव प्रजारक्षकः पुरुषः प्रजा नित्यं रक्षेत् प्रजायै धनधान्यैः सुखानि वर्धयेत् ॥११ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जशा गाई दररोज आपापल्या वारसांचे पालन व रक्षण करतात तसे राजाने प्रजेचे रक्षण करावे. प्रजेसाठी धन व अन्न इत्यादी पदार्थांनी सुख वाढवावे.
१२ यद्वाहिष्ठं तदग्नये
विश्वास-प्रस्तुतिः ...{Loading}...
यद्वाहि॑ष्ठं॒ तद॒ग्नये॑ बृ॒हद॑र्च विभावसो। महि॑षीव॒ त्वद्र॒यिस्त्वद्वाजा॒ऽउदी॑रते ॥१२ ॥
मूलम् ...{Loading}...
यद्वाहि॑ष्ठं॒ तद॒ग्नये॑ बृ॒हद॑र्च विभावसो। महि॑षीव॒ त्वद्र॒यिस्त्वद्वाजा॒ऽउदी॑रते ॥१२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यत्। वाहि॑ष्ठम्। तत्। अ॒ग्नये॑। बृ॒हत्। अ॒र्च॒। वि॒भा॒व॒सो॒ इति॑ विभऽवसो। महि॑षी॒वेति॒ महि॑षीऽइव। त्वत्। र॒यिः त्वत्। वाजाः॑। उत्। ई॒र॒ते॒। १२।
महीधरः
म० अग्निदेवत्यानुष्टुब् वसूयुदृष्टा । हे उद्गातः, अग्नये अग्न्यर्थं तत् बृहत्साम अर्च गाय बृहत्साम्नो गानं कुरु । तत्किम् । यत् वाहिष्ठम् वाहयति प्रापयति इष्टमिति वाहयितृ । वहेर्ण्यन्तात् तृच् । अत्यन्तं वाहयितृ वाहिष्ठम् ‘अतिशायने तमविष्ठनौ’ (पा० ५। ३ । ५५) इत्यनुवृत्तौ ‘तुश्छन्दसि’ (पा० ५। ३ । ५९) इति इष्ठनि परे ‘तुरिष्ठेमेयःसु’ (पा. ५। ४ । १५४ ) इति च तृचो लोपे वाहिष्ठमिति रूपम् । किंच सामगानेन प्रत्यक्षमग्निं ब्रूहि । किम् । हे विभावसो, विभा कान्तिरेव वसु धनं यस्य स विभावसुः हे अग्ने, रयिः धनं वाजा अन्नानि च त्वत् त्वत्तः सकाशात् उदीरते उद्गच्छन्ति । ‘ईर गतौ कम्पे च’ लट् शपो लुक् ‘अदभ्यस्तात्’ (पा० ७।१।४) इत्यदादेशः । तत्र दृष्टान्तः । महिषीव यथा महिषी प्रथमपरिणीता स्त्री गृहात् भोगार्थं पतिं प्रति उदीर्ते उद्गच्छति । एकं त्वत्पदं पादपूरणम् । रयिः त्वदुदीर्ते इति वा ॥ १२ ॥
त्रयोदशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- नोधा गोतम ऋषिः
- विराड्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह रानी क्या करे, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (विभावसो) प्रकाशित धनवाले विद्वन् ! (अग्नये) अग्नि के लिये (यत्) जो (बृहत्) बड़ा और (वाहिष्ठम्) अत्यन्त पहुँचाने हारा है, उस का (अर्च) सत्कार करो (तत्) उस का हम भी सत्कार करें (महिषीव) और रानी के समान (त्वत्) तुम से (रयिः) धन और (त्वत्) तुम से (वाजाः) अन्न आदि पदार्थ (उत्, ईरते) भी प्राप्त होते हैं, उन आप का हम लोग सत्कार करें ॥१२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे रानी सुख पहुँचाती और बहुत धन देनेवाली होती है, वैसे ही राजा के समीप से सब लोग धन और अन्य उत्तम-उत्तम वस्तुओं को पावें ॥१२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः सा राज्ञी किं कुर्यादित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विभावसो अग्नये यद् बृहद्वाहिष्ठमस्ति तदर्च तद्वयमप्यर्चेम महिषीव त्वद्रयिस्त्वद्वाजाश्चोदीरते तं वयं सत्कुर्याम ॥१२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यथा राज्ञी सुखप्रापिका महाधनप्रदा भवति तथैव राज्ञः सकाशात् सर्वे धनमन्यान्युत्तमानि वस्तूनि च प्राप्नुयुः ॥१२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जसे राणी सर्वांना धन देऊन संतुष्ट करते तसे राजाकडून सर्व लोकांनी धन व इतर उत्तम वस्तू प्राप्त कराव्यात.
१३ एह्यू षु
विश्वास-प्रस्तुतिः ...{Loading}...
एह्यू॒ षु ब्रवा॑णि॒ तेऽग्न॑ऽ इ॒त्थेत॑रा॒ गिरः॑। ए॒भिर्व॑र्द्धास॒ऽइन्दु॑भिः ॥१३ ॥
मूलम् ...{Loading}...
एह्यू॒ षु ब्रवा॑णि॒ तेऽग्न॑ऽ इ॒त्थेत॑रा॒ गिरः॑। ए॒भिर्व॑र्द्धास॒ऽइन्दु॑भिः ॥१३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ। इ॒हि॒। ऊँ॒ इत्यूँ॑। सु। ब्रवा॑णि। ते॒। अग्ने॑। इ॒त्था। इत॑राः। गिरः॑। ए॒भिः। व॒र्द्धा॒से॒। इन्दु॑भि॒रितीन्दु॑ऽभिः। १३।
महीधरः
म० अग्निदेवत्या गायत्री भरद्वाजदृष्टा । हे अग्ने, त्वमेहि आगच्छ । उः पादपूरणः । सुञ् चेति संहितायामुकारस्य दीर्घः । इत्था इत्थमनेन प्रकारेण न इतराः अन्याः गिरो वाणीः स्तुतिलक्षणाः ते तव सुब्रवाणि सुतरां वदानि । ब्रूञो लोट् । किंच एभिरिन्दुभिः सोमैः वर्धासे वर्धस्व ‘लेटोऽडाटौ’ ॥ १३ ॥
चतुर्दशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- भारद्वाज ऋषिः
- विराड्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
विद्वानों को क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) प्रकाशित बुद्धिवाले विद्वन् ! मैं (इत्था) इस हेतु से (ते) आप के लिये (इतराः) जिन को तुम ने नहीं जाना है, उन (गिरः) वाणियों का (सु, ब्रवाणि) सुन्दर प्रकार से उपदेश करूँ कि जिस से आप इन वाणियों को (आ, इहि) अच्छे प्रकार प्राप्त हूजिये (उ) और (एभिः) इन (इन्दुभिः) जलादि पदार्थों से (वर्द्धासे) वृद्धि को प्राप्त हूजिये ॥१३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जिस शिक्षा से विद्यार्थी लोग विज्ञान से बढ़ें, उसी शिक्षा का विद्वान् लोग उपदेश किया करें ॥१३ ॥
दयानन्द-सरस्वती (सं) - विषयः
विद्वद्भिः किं कार्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्नेऽहमित्था त इतरा गिरः सु ब्रवाणि यतस्त्वमेता एहि उ एभिरिन्दुभिर्वर्द्धासे ॥१३।
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यया शिक्षया विद्यार्थिनो विज्ञानेन वर्द्धेरँस्तामेव विद्वांस उपदिशेयुः ॥१३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्या शिक्षणाने विद्यार्थ्यांचे विज्ञान वाढते. त्याच शिक्षणाचा विद्वान लोकांनी उपदेश करावा.
१४ ऋतवस्ते यज्ञम्
विश्वास-प्रस्तुतिः ...{Loading}...
ऋ॒तव॑स्ते य॒ज्ञं वित॑न्वन्तु॒ मासा॑ र॒क्षन्तु॑ ते॒ हविः॑। सं॒व॒त्स॒रस्ते॑ य॒ज्ञं द॑धातु नः प्र॒जां च॒ परि॑ पातु नः ॥१४ ॥
मूलम् ...{Loading}...
ऋ॒तव॑स्ते य॒ज्ञं वित॑न्वन्तु॒ मासा॑ र॒क्षन्तु॑ ते॒ हविः॑। सं॒व॒त्स॒रस्ते॑ य॒ज्ञं द॑धातु नः प्र॒जां च॒ परि॑ पातु नः ॥१४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ऋ॒तवः॑। ते॒। य॒ज्ञम्। वि। त॒न्व॒न्तु॒। मासाः॑। र॒क्षन्तु॑। ते॒। हविः॑। सं॒व॒त्स॒रः। ते॒। य॒ज्ञम्। द॒धा॒तु। नः॒। प्र॒जामिति॑ प्र॒ऽजाम्। च॒। परि॑। पा॒तु॒। नः॒। १४।
महीधरः
म० अग्निदेवत्या बृहती वर्णपादा विषमपादा । नवकाष्ठकैकादशाष्टिनो विषमपादेति वचनात् । हे अग्ने, ऋतवः ऋतूपलक्षिताः कालविशेषाः ते तव यज्ञं वितन्वन्तु विस्तारयन्तु । मासाः चैत्राद्यधिष्ठातारो देवास्ते तव हविः पुरोडाशादिकं रक्षन्तु पान्तु । संवत्सरस्तदधिष्ठाता देवः ते तुभ्यं त्वदर्थं नोऽस्माकं यज्ञं दधातु पुष्णातु । नोऽस्माकं प्रजां पुत्रादिकां च परिपातु रक्षतु संवत्सर एव ॥ १४ ॥
पञ्चदशी।
अधिमन्त्रम् (VC)
- सवंत्सरो देवता
- भारद्वाज ऋषिः
- भुरिग्बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! (ते) आप के (यज्ञम्) सत्कार आदि व्यवहार को (ऋतवः) वसन्तादि ऋतु (वि, तन्वन्तु) विस्तृत करें (ते) आप के (हविः) होमने योग्य वस्तु की (मासाः) कार्तिक आदि महीने (रक्षन्तु) रक्षा करें (ते) आप के (यज्ञम्) यज्ञ को (नः) हमारा (संवत्सरः) वर्ष (दधातु) पुष्ट करे (च) और (नः) हमारी (प्रजाम्) प्रजा की (परि, पातु) सब ओर से आप रक्षा करो ॥१४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्वान् मनुष्यों को योग्य है कि सब सामग्री से विद्यावर्द्धक व्यवहार को सदा बढ़ावें और न्याय से प्रजा की रक्षा किया करें ॥१४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वँस्ते यज्ञमृतवो वितन्वन्तु ते हविर्मासा रक्षन्तु ते यज्ञं नः संवत्सरो दधातु नः प्रजां च परिपातु ॥१४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - विद्वद्भिर्मनुष्यैः सर्वाभिः सामग्रीभिर्विद्यावर्द्धको व्यवहारः सदा वर्द्धनीयो न्यायेन प्रजाश्च पालनीयाः ॥१४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - विद्वान माणसांनी सर्व तऱ्हेने विद्यावर्धक व्यवहार वाढवावा व न्यायाने प्रजेचे रक्षण करावे.
१५ उपह्वरे गिरीणा
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒प॒ह्व॒रे गि॑री॒णाँ स॑ङ्ग॒मे च॑ न॒दीना॑म्। धि॒या विप्रो॑ अजायत ॥१५ ॥
मूलम् ...{Loading}...
उ॒प॒ह्व॒रे गि॑री॒णाँ स॑ङ्ग॒मे च॑ न॒दीना॑म्। धि॒या विप्रो॑ अजायत ॥१५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उ॒प॒ह्व॒र इत्यु॑ऽपह्व॒रे। गि॒री॒णाम्। स॒ङ्ग॒म इति॑ सम्ऽग॒मे। च॒। न॒दीना॑म्। धि॒या। विप्रः॑ अ॒जा॒य॒त॒। १५।
महीधरः
म० सोमदेवत्या गायत्री वत्सदृष्टा । गिरीणां पर्वतानामुपह्वरे निकटे नदीनां गङ्गादीनां च संगमे विप्रो मेधावी सोमः अजायत उत्पन्नः । जनेर्लङ् । कया । धिया बुद्ध्या । विप्रादयो मया यज्ञं करिष्यन्तीति विचार्येत्यर्थः ॥ १५ ॥
षोडशी।
अधिमन्त्रम् (VC)
- विद्वान् देवता
- वत्स ऋषिः
- विराड्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो मनुष्य (गिरीणाम्) पर्वतों के (उपह्वरे) निकट (च) और (नदीनाम्) नदियों के (सङ्गमे) मेल में योगाभ्यास से ईश्वर की और विचार से विद्या की उपासना करे, वह (धिया) उत्तम बुद्धि वा कर्म से युक्त (विप्रः) विचारशील बुद्धिमान् (अजायत) होता है ॥१५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो विद्वान् लोग पढ़ के एकान्त में विचार करते हैं, वे योगियों के तुल्य उत्तम बुद्धिमान् होते हैं ॥१५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यो मनुष्यो गिरीणामुपह्वरे नदीनां च सङ्गमे योगेनेश्वरं विचारेण विद्यां चोपासीत स धिया विप्रो अजायत ॥१५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये विद्वांसः पठित्वैकान्ते विचारयन्ति ते योगिन इव प्राज्ञा भवन्ति ॥१५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे विद्वान लोक अध्ययन करून एकांतात विचार करतात ते योग्यप्रमाणे बुद्धिमान असतात.
१६ उच्चा ते
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒च्चा ते॑ जा॒तमन्ध॑सो दि॒वि सद्भूम्याद॑दे। उ॒ग्रँशर्म॒ महि॒ श्रवः॑ ॥१६ ॥
मूलम् ...{Loading}...
उ॒च्चा ते॑ जा॒तमन्ध॑सो दि॒वि सद्भूम्याद॑दे। उ॒ग्रँशर्म॒ महि॒ श्रवः॑ ॥१६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उ॒च्चा। ते॒। जा॒तम्। अन्ध॑सः। दि॒वि। सत्। भूमि॑। आ। द॒दे॒। उ॒ग्रम्। शर्म॑। महि॑। श्रवः॑। १६।
महीधरः
म० सोमदेवत्यास्तिस्रो गायत्र्य आमहीयवदृष्टाः । हे सोम, ते तव अन्धसोऽन्नाद्रसरूपात् जातमुत्पन्नं होमतो जातमपूर्वम् । उच्चा उच्चं गतं दिवि स्वर्गे सत् विद्यमानं भूमिः आददे गृह्णाति । भूमिशब्दस्य विसर्गलोपे सन्धिश्छान्दसः । किं तत् द्युलोकस्थं भूमिर्गृह्णाति तदाह । उग्रमुत्कृष्टं शर्म सुखं गृहपुत्रादिजन्यं महि महत् श्रवः कीर्तिर्धनं वा । अनेन मन्त्रेण पञ्चाहुतिपरिणाम उक्तः । स यथा हुताहुतिरादौ दिवि गच्छति ततोऽन्तरिक्षे जलरूपेण ततो भूमावन्नरूपेण ततो नरे रेतोरूपेण ततो योनौ नररूपेणागत्य तं नरं धनयशोभ्यां सुखिनं करोतीति भावः ॥ १६ ॥
सप्तदशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- महीयव ऋषिः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! मैं (ते) आप के जिस (उच्चा) ऊँचे (अन्धसः) अन्न से (जातम्) प्रसिद्ध हुए (दिवि) प्रकाश में (सत्) वर्त्तमान (उग्रम्) उत्तम (महि) बड़े (श्रवः) प्रशंसा के योग्य (शर्म) घर को (आ, ददे) अच्छे प्रकार ग्रहण करता हूँ, वह (भूमि) पृथिवी के तुल्य दृढ़ हो ॥१६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। विद्वान् मनुष्यों को चाहिये कि सूर्य का प्रकाश और वायु जिस में पहुँचा करे, ऐसे अन्नादि से युक्त बड़े ऊँचे घरों को बना के उन में बसने से सुख भोगें ॥१६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन्नहं ते यदुच्चाऽन्धसो जातं दिवि सदुग्रं महि श्रवः शर्माददे तद्भूमीव भवतु ॥१६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। विद्वद्भिर्मनुष्यैः सूर्यकिरणवायुमन्त्यन्नादियुक्तानि महान्त्युच्चानि गृहाणि रचयित्वा तत्र निवासेन सुखं भोक्तव्यम् ॥१६।
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. विद्वान माणसांनी अशी उंच घरे बांधावीत की, ज्यात सूर्याचा प्रकाश व हवा खेळावी, तसेच अन्नाचा साठाही असावा. अशा घरात निवास केल्यास सुख प्राप्त होते.
१७ स नऽइन्द्राय
विश्वास-प्रस्तुतिः ...{Loading}...
स न॒ऽइन्द्रा॑य॒ यज्य॑वे॒ वरु॑णाय म॒रुद्भ्यः॑। व॒रि॒वो॒वित्परि॑ स्रव ॥१७ ॥
मूलम् ...{Loading}...
स न॒ऽइन्द्रा॑य॒ यज्य॑वे॒ वरु॑णाय म॒रुद्भ्यः॑। व॒रि॒वो॒वित्परि॑ स्रव ॥१७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सः। नः॒। इन्द्रा॑य। यज्य॑वे। वरु॑णाय। म॒रुद्भ्य॒ इति॑ म॒रुत्ऽभ्यः॑। व॒रि॒वो॒विदिति॑ वरिवः॒ऽवित्। परि॑। स्र॒व॒। १७।
महीधरः
म० हे सोम, स त्वं नोऽस्माकं परिस्रव क्षर । रसरूपो भूत्वाहुतित्वमेहीत्यर्थः । किमर्थम् । इन्द्राय वरुणाय मरुद्भ्यश्च इन्द्रादीनां तृप्तये परिस्रवेत्यर्थः । कीदृशायेन्द्राय । यज्यवे यष्टुं योग्यो यज्युस्तस्मै यष्टव्याय । इदं त्रयाणां विशेषणम् । यज्युभ्य इति मरुताम् । कीदृशस्त्वम् । वरिवोवित् वरिवो धनं वेत्ति जानाति विन्दति लभते वा वरिवोवित् धनस्य ज्ञाता प्रापकश्च ॥ १७ ॥
अष्टादशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- महीयव ऋषिः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! (सः) सो (मरुद्भ्यः) मनुष्यों के लिये (नः) हमारे (इन्द्राय) परमैश्वर्य को (यज्यवे) सङ्गति और (वरुणाय) श्रेष्ठ जन के लिए (वरिवोवित्) सेवाकर्म को जानते हुए आप (परि, स्रव) सब ओर से प्राप्त हुआ करो ॥१७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जिस विद्वान् ने जितना सामर्थ्य प्राप्त किया है, उसको चाहिये कि उस सामर्थ्य से सब का सुख बढ़ाया करे ॥१७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन्त्स मरुद्भ्यो न इन्द्राय यज्यवे वरुणाय वरिवोवित् संस्त्वं परिस्रव ॥१७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - येन विदुषा यावत्सामर्थ्यं प्राप्येत तेन तावता सर्वेषां सुखं वर्द्धनीयम् ॥१७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्या विद्वानाने जितके सामर्थ्य प्राप्त केले, त्या सामर्थ्याने त्याने सर्वांचे सुख वाढवावे.
१८ एना विश्वान्यर्यऽआ
विश्वास-प्रस्तुतिः ...{Loading}...
ए॒ना विश्वा॑न्य॒र्यऽआ द्यु॒म्नानि॒ मानु॑षाणाम्। सिषा॑सन्तो वनामहे ॥१८ ॥
मूलम् ...{Loading}...
ए॒ना विश्वा॑न्य॒र्यऽआ द्यु॒म्नानि॒ मानु॑षाणाम्। सिषा॑सन्तो वनामहे ॥१८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ए॒ना। विश्वा॑नि। अ॒र्यः। आ। द्यु॒म्नानि॑। मानु॑षाणाम्। सिषा॑सन्तः। सिसा॑सन्त॒ऽइति॒ सिसा॑ऽसन्तः। व॒ना॒म॒हे॒। १८।
महीधरः
म० अर्यः ईश्वरः सोमः एना एनानि विश्वानि सर्वाणि मानुषाणां नराणां द्युम्नानि धनानि यशांसि वा आनयत्विति शेषः । अस्मभ्यं ददात्वित्यर्थः । तानि सोमदत्तानि द्युम्नानि वयं वनामहे ‘वन संभक्तिशब्दयोः’ लट् । संभजामहे । कीदृशा वयम् । सिषासन्तः ‘षणु दाने’ सनितुं दातुमिच्छन्ति सिषासन्ति ते सिषासन्तः । सनेर्धातोः सन्नन्ताच्छतृप्रत्ययः ‘जनसनखनां सन्झलोः (पा० ६।४ । ४२) इत्यात्वम् ‘सन्यतः’ (पा० ७।४ । ७९ ) इति अभ्यासेकारः । दानं कुर्वाणा धनभाजः स्यामेत्यर्थः ॥ १८ ॥
एकोनविंशी।
अधिमन्त्रम् (VC)
- विद्वान् देवता
- महीयव ऋषिः
- विराड्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
ईश्वर की उपासना कैसी करनी चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (अर्यः) ईश्वर (मानुषाणाम्) मनुष्यों की (एना) इन (विश्वानि) सब (द्युम्नानि) शोभायमान कीर्त्तियों की शिक्षा करता है, उस की (सिषासन्तः) सेवा करने की इच्छा करते हुए हम लोग (आ, वनामहे) सुखों को माँगते हैं ॥१८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जिस ईश्वर ने मनुष्यों के सुख के लिये धनों, वेदों और खाने-पीने योग्य वस्तुओं को उत्पन्न किया है, उसी की उपासना सब मनुष्यों को सदा करनी चाहिये ॥१८ ॥
दयानन्द-सरस्वती (सं) - विषयः
ईश्वरः कथमुपास्य इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - योऽर्यो मानुषाणमेना विश्वानि द्युम्नानि शास्ति तं सिषासन्तो वयं सुखान्यावनामहे ॥१८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - येनेश्वरेण मनुष्याणां सुखाय धनानि वेदा भोज्यादीनि वस्तूनि चोत्पादितानि तस्यैवोपासना सर्वैर्मनुष्यैः सदा कर्त्तव्या ॥१८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्या ईश्वराने माणसांच्या सुखासाठी धन, वेद व खाण्यापिण्याने पदार्थ निर्माण केलेले आहेत. सदैव त्याचीच सर्व माणसांनी सदैव उपासना करावी.
१९ अनु वीरैरनु
विश्वास-प्रस्तुतिः ...{Loading}...
अनु॑ वी॒रैरनु॑ पुष्यास्म॒ गोभि॒रन्वश्वै॒रनु॒ सर्वे॑ण पु॒ष्टैः। अनु॒ द्विप॒दाऽनु॒ चतु॑ष्पदा व॒यं दे॒वा नो॑ य॒ज्ञमृ॑तु॒था न॑यन्तु ॥१९ ॥
मूलम् ...{Loading}...
अनु॑ वी॒रैरनु॑ पुष्यास्म॒ गोभि॒रन्वश्वै॒रनु॒ सर्वे॑ण पु॒ष्टैः। अनु॒ द्विप॒दाऽनु॒ चतु॑ष्पदा व॒यं दे॒वा नो॑ य॒ज्ञमृ॑तु॒था न॑यन्तु ॥१९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अनु॑। वी॒रैः। अनु॑। पु॒ष्या॒स्म॒। गोभिः॑। अनु॑। अश्वैः॑। अनु॑। सर्वे॑ण। पु॒ष्टैः। अनु॑। द्विप॒देति॒ द्विऽप॑दा। अनु॑। चतु॑ष्पदा। चतुः॑प॒देति॒ चतुः॑पदा। व॒यम्। दे॒वाः। नः॒। य॒ज्ञम्। ऋ॒तु॒थेत्यृ॑तु॒ऽथा। न॒य॒न्तु॒। १९।
महीधरः
म० आशीरियं देवदेवत्या त्रिष्टुप् मुद्गलदृष्टा । वयं वीरैः पुत्रैः अनुपुष्यास्म पुष्टा भवेम । पुषेराशीर्लिङि उत्तमबहुवचनम् । गोभिर्धेनुभिः अनुपुष्यास्म उपसर्गावृत्त्या क्रियावृत्तिः । अश्वैरनु पुष्यास्म । सर्वेणान्येनापि कामेन पुष्यास्म । पुष्टैः सर्वपदार्थैर्गृहादिभिः पुष्यास्म । द्वौ पादौ यस्येति द्विपात् तेन द्विपदा मनुष्येण दासादिना चतुष्पदा गजादिना च पुष्यास्म ‘पादोऽन्यतरस्याम्’ (पा० ४ । १ । ८) इत्यन्तलोपः ‘पादः पत्’ (पा० ६ । ४ । १३० ) इति पदादेशः । किंच ऋतुथा ऋतावृतौ कालेकाले देवा नोऽस्माकं यज्ञं नयन्तु प्रापयन्तु प्राप्नुवन्तु ॥ १९ ॥
विंशी।
अधिमन्त्रम् (VC)
- विद्वांसो देवता
- मुद्गल ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् लोगो ! जैसे (वयम्) हम लोग (पुष्टैः) पुष्ट (वीरैः) प्रशस्त बलवाले वीरपुरुषों की (अनु, पुष्यास्म) पुष्टि से पुष्ट हों, बलवती (गोभिः) गौओं की पुष्टि से (अनु) पुष्ट हों, बलवान् (अश्वैः) घोड़े आदि की पुष्टि से (अनु) पुष्ट हों, (सर्वेण) सब की पुष्टि से (अनु) पुष्ट हों, (द्विपदा) दो पगवाले मनुष्य आदि प्राणियों की पुष्टि से (अनु) पुष्ट हों और (चतुष्पदा) चार पगवाले गौ आदि की (अनु) पुष्टि से पुष्ट हों, वैसे (देवाः) विद्वान् लोग (नः) हमारे (यज्ञम्) धर्मयुक्त व्यवहार को (ऋतुथा) ऋतुओं से (नयन्तु) प्राप्त करें ॥१९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि वीर पुरुषों और पशुओं को अच्छे प्रकार पुष्ट करके पश्चात् आप पुष्ट हों और सदा वसन्तादि ऋतुओं के अनुकूल व्यवहार किया करें ॥१९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैः किं कर्त्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वांसो यथा वयं पुष्टैर्वीरैरनु पुष्यास्म पुष्टैर्गोभिरनुपुष्याम पुष्टैरश्वैरनुपुष्याम सर्वेणानुपुष्याम द्विपदाऽनुपुष्याम चतुष्पदानुपुष्याम तथा देवा नो यज्ञमृतुथा नयन्तु ॥१९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्वीरपुरुषान् पशूंश्च सम्पोष्यानुपोषणीयम्। सदा ऋत्वनुकूलो व्यवहारः कर्त्तव्यश्च ॥१९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी वीर पुरुष व पशू यांना बलवान करावे व स्वतः बलवान व्हावे आणि नेहमी वसंत इत्यादी ऋतुनुसार व्यवहार करावा.
२० अग्ने पत्नीरिहा
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने॒ पत्नी॑रि॒हा व॑ह दे॒वाना॑मुश॒तीरुप॑। त्वष्टा॑रँ॒ सोम॑पीतये ॥२० ॥
मूलम् ...{Loading}...
अग्ने॒ पत्नी॑रि॒हा व॑ह दे॒वाना॑मुश॒तीरुप॑। त्वष्टा॑रँ॒ सोम॑पीतये ॥२० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अग्ने॑। पत्नीः॑। इ॒ह। आ। व॒ह॒। दे॒वाना॑म्। उ॒श॒तीः। उप॑। त्वष्टा॑रम्। सोम॑पीतय॒ इति॒ सोम॑ऽपीतये। २०।
महीधरः
म० अग्निदेवत्या गायत्री मेधातिथिदृष्टा । इतः पञ्च ऋचोऽग्निष्टोमे नेष्टुर्याज्याः। आद्या प्रातःसवने नेष्टृचमसयागे याज्या । हे अग्ने, देवानां पत्नीः इह यज्ञे त्वमुपावह आगमय । कीदृशीः पत्नीः । उशतीः हविःकामयमानाः । वशेः शत्रन्तात् ‘उगितः-’ (पा० ४ । १।६) इति ङीप् । किंच सोमपीतये सोमपानाय त्वष्टारं देवं चोपावह ॥ २० ॥
एकविंशी ॥
अधिमन्त्रम् (VC)
- विद्वान् देवता
- मेधातिथिर्ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
सन्तान कैसे उत्तम हों, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) अध्यापक वा अध्यापिके ! तू (इह) इस गृहाश्रम में अपने तुल्य गुणवाले पतियों वा (उशतीः) कामनायुक्त (देवानाम्) विद्वानों की (पत्नीः) स्त्रियों को और (सोमपीतये) उत्तम ओषधियों के रस को पीने के लिये (त्वष्टारम्) तेजस्वी पुरुष को (उप, आ, वह) अच्छे प्रकार समीप प्राप्त कर वा करें ॥२० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य कन्याओं को अच्छी शिक्षा दे, विदुषी बना और स्वयंवर से प्रिय पतियों को प्राप्त करा के प्रेम से सन्तानों को उत्पन्न करावें तो वे सन्तान अत्यन्त प्रशंसित होते हैं ॥२० ॥
दयानन्द-सरस्वती (सं) - विषयः
कथमपत्यानि प्रशस्तानि स्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने त्वमिह स्वसदृशान् पतीरुशतीर्देवानां पत्नीः सोमपीतये त्वष्टारमुपा वह ॥२० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदि मनुष्याः कन्याः सुशिक्ष्य विदुषीः कृत्वा स्वयंवृतान् हृद्यान् पतीन् प्रापय्य प्रेम्णा सन्तानानुत्पादयेयुस्तर्हि तान्यपत्यान्यतीव प्रशंसितानि भवन्ति ॥२० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे मुलींना चांगले शिक्षण देऊन त्यांना विदुषी बनवितात व स्वयंवर पद्धतीने त्यांना प्रिय असलेल्या पतीशी विवाह करून देतात त्यांची संताने उत्तम होतात व त्यांची प्रशंसा होते.
२१ अभि यज्ञम्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒भि य॒ज्ञं गृ॑णीहि नो॒ ग्नावो॒ नेष्टः॒ पिब॑ऽऋ॒तुना॑। त्वँहि र॑त्न॒धा ऽअसि॑ ॥२१ ॥
मूलम् ...{Loading}...
अ॒भि य॒ज्ञं गृ॑णीहि नो॒ ग्नावो॒ नेष्टः॒ पिब॑ऽऋ॒तुना॑। त्वँहि र॑त्न॒धा ऽअसि॑ ॥२१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒भि। य॒ज्ञम्। गृ॒णी॒हि॒। नः॒। ग्नावः॑। नेष्ट॒रिति॒ नेष्टः॑। पिब॑। ऋ॒तुना॑। त्वम्। हि। र॒त्न॒धा इति॑ रत्न॒ऽधाः। असि॑। २१।
महीधरः
म०. द्वे ऋतुदेवते गायव्यौ मेधातिथिदृष्टे ऋतुयागे नेष्टुर्याज्ये । ग्नाः पत्न्योऽस्य सन्तीति ग्नावा । ‘तदस्यास्ति-’ (पा. ५। २ । ९४ ) इति मतुप् । ‘मादुपधायाः-’ (पा० ८ । २।९) इति वत्वम् । तस्य संबोधनं हे ग्नावः पत्नीवन् , हे नेष्टः, नोऽस्माकं यज्ञमभिगृणीहि स्तुहि ‘गॄ शब्दे’ क्र्यादित्वात् श्ना ‘ई हल्यघोः’ (पा० ६ । ४ । ११३) इति तस्येकारः ‘प्वादीनां ह्रस्वः’ (पा. ७ । ३ । ८०) इति धातोर्र्ईस्वः । किंच ऋतुना देवेन सह पिब सोममिति शेषः । हि यस्मात् त्वं रत्नधा असि रत्नानि दधाति ददाति रत्नधाः रमणीयधनानां दातासि ॥ २१॥
द्वाविंशी।
अधिमन्त्रम् (VC)
- विद्वान् देवता
- मेधातिथिर्ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
कौन विद्वान् हों, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (ग्नावः) प्रशस्त वाणीवाले (नेष्टः) नायक जन आप (ऋतुना) वसन्त आदि ऋतु के साथ (नः) हमारे (यज्ञम्) उत्तम व्यवहार की (अभि, गृणीहि) सन्मुख स्तुति कीजिये, जिस कारण (त्वं, हि) तुम ही (रत्नधाः) प्रसन्नता के हेतु वस्तु के धारणकर्त्ता (असि) हो इससे उत्तम ओषधियों के रसों को (पिब) पी ॥२१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो अच्छी शिक्षा को प्राप्त वाणी के सङ्गत व्यवहार को जानने की इच्छा करें, वे विद्वान् होवें ॥२१ ॥
दयानन्द-सरस्वती (सं) - विषयः
के विद्वांसो भवेयुरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे ग्नावो नेष्टस्त्वमृतुना सह नो यज्ञमभि गृणीहि यतस्त्वं हि रत्नधा असि तस्मात् सदोषधिरसान् पिब ॥२१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये सुशिक्षिताया वाचः सङ्गतं व्यवहारं ज्ञातुमिच्छेयुस्ते विद्वांसो भवेयुः ॥२१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे सुशिक्षित असून, वाणीचा व्यवहार जाणतात ते विद्वान असतात.
२२ द्रविणोदाः पिपीषति
विश्वास-प्रस्तुतिः ...{Loading}...
द्र॒वि॒णो॒दाः पि॑पीषति जु॒होत॒ प्र च॑ तिष्ठत। ने॒ष्ट्रादृ॒तुभि॑रिष्यत ॥२२ ॥
मूलम् ...{Loading}...
द्र॒वि॒णो॒दाः पि॑पीषति जु॒होत॒ प्र च॑ तिष्ठत। ने॒ष्ट्रादृ॒तुभि॑रिष्यत ॥२२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
द्र॒वि॒णो॒दा इति॑ द्रविणः॒ऽदाः। पि॒पी॒ष॒ति॒। जु॒होत॑। प्र। च॒। ति॒ष्ठ॒त॒। ने॒ष्ट्रात्। ऋ॒तुभि॒रित्यृ॒तुऽभिः॑। इ॒ष्य॒त॒। २२।
महीधरः
म०. द्रविणस्शब्दः सान्तो धनवाची । द्रविणो धनं ददाति द्रविणोदाः धनदाताग्निः । पिपीषति पातुमिच्छति सोममिति शेषः । ‘पीङ् पाने’ अस्माद्दैवादिकात्सन्प्रत्ययः । अतो हे ऋत्विजः, यूयं जुहोत जुहुत प्रतितिष्ठत च । ‘तप्तनप्-’ (पा० ७ । १ । ४५ ) इति तबादेशः । कर्मसूद्युक्ता भवतेत्यर्थः । किंच नेष्टुरिदं नेष्ट्रम् । वृद्ध्यभाव आर्षः। नेष्टुर्धिष्ण्यात् ऋतुभिः देवैः सह इष्यत सोमं प्रतिगच्छत । ‘इष गतौ’ दिवादित्वाच्छयन् लोट् ॥ २२ ॥
त्रयोविंशी।
अधिमन्त्रम् (VC)
- सोमो देवता
- मेधातिथिर्ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर विद्वान् मनुष्यों को क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (द्रविणोदाः) धन वा यश का देनेवाला जन (ऋतुभिः) वसन्तादि ऋतुओं के साथ (नेष्ट्रात्) विनय से रस को (पिपीषति) पिया चाहता है, वैसे तुम लोग रस को (इष्यत) प्राप्त होओ (जुहोत) ग्रहण वा हवन करो (च) और (प्र, तिष्ठत) प्रतिष्ठा को प्राप्त होओ ॥२२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे विद्वान् ! जैसे उत्तम वैद्य सुन्दर पथ्य भोजन और उत्तम विद्या से आप रोगरहित हुए दूसरों को रोगों से पृथक् करके प्रशंसा को प्राप्त होते हैं, वैसे ही तुम लोगों को भी आचरण करना अवश्य चाहिये ॥२२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्विद्वद्भिर्मनुष्यैः किं कार्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्या यथा द्रविणोदा ऋतुभिः सह नेष्ट्राद् रसं पिपीषति तथा यूयं रसमिष्यत जुहोत प्रतिष्ठत च ॥२२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे विद्वांसो मनुष्याः ! यथा सद्वैद्याः पथ्येनोत्तमविद्यया स्वयमरोगाः सन्तोऽन्यान् रोगात् पृथक्कृत्य प्रशंसां लभन्ते तथैव युष्माभिरप्याचरणीयम् ॥२२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे विद्वानांनो ! जसा उत्तम वैद्य पथ्याने भोजन करून, उत्तम विद्येने स्वतः रोगरहित बनून, इतरांना रोगांपासून पृथक करून प्रशंसेस पात्र ठरतो तसेच तुम्हीही वागा.
२३ तवायं सोमस्त्वमेह्यर्वाङ्
विश्वास-प्रस्तुतिः ...{Loading}...
तवा॒यँ सोम॒स्त्वमेह्य॒र्वाङ् श॑श्वत्त॒मँ सु॒मना॑ऽअ॒स्य पा॑हि। अ॒स्मिन् य॒ज्ञे ब॒र्हिष्या नि॒षद्या॑ दधि॒ष्वेमं ज॒ठर॒ऽइन्दु॑मिन्द्र ॥२३ ॥
मूलम् ...{Loading}...
तवा॒यँ सोम॒स्त्वमेह्य॒र्वाङ् श॑श्वत्त॒मँ सु॒मना॑ऽअ॒स्य पा॑हि। अ॒स्मिन् य॒ज्ञे ब॒र्हिष्या नि॒षद्या॑ दधि॒ष्वेमं ज॒ठर॒ऽइन्दु॑मिन्द्र ॥२३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
तव॑। अ॒यम्। सोमः॑। त्वम्। आ। इ॒हि॒। अ॒र्वाङ्। श॒श्व॒त्त॒ममिति॑ शश्वत्ऽत॒मम्। सु॒मना॒ इति॑ सु॒ऽमनाः॑। अ॒स्य। पा॒हि॒। अ॒स्मिन्। य॒ज्ञे। ब॒र्हिषि॑। आ। नि॒षद्य॑। नि॒सद्येति॑ नि॒ऽसद्य॑। द॒धि॒ष्व। इ॒मम्। ज॒ठरे॑। इन्दु॑म्। इ॒न्द्र॒। २३।
महीधरः
म० इन्द्रदेवत्या त्रिष्टुप् विश्वामित्रदृष्टा । माध्यन्दिने सवने नेष्टृचमसयागे याज्या । हे इन्द्र, तव अयं सोमोऽस्ति । अतः अर्वाङ् अस्मदभिमुखः त्वमेहि आगच्छ । शश्वत्तमं सर्वकालमस्य पाहि । कर्मणि षष्ठी । इमं सोमं रक्ष ‘पा रक्षणे’ लोट् । कीदृशः त्वम् । सुमनाः शोभनं मनो यस्य सः प्रसन्नचित्तः । किंच अस्मिन् यज्ञे बर्हिषि आस्तृतदर्भेषु निषध उपविश्य इममिन्दुं सोमं जठरे उदरे दधिष्व धारय । ‘धि धारणे’ नुदादिः व्यत्ययेन शपः श्लुस्तङ् च । अभ्यासेकारस्याकार आर्षः ॥ २३ ॥
चतुर्विंशी।
अधिमन्त्रम् (VC)
- विद्वान् देवता
- मेधातिथिर्ऋषिः
- भुरिक्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) परम ऐश्वर्य की इच्छावाले विद्वन् ! जो (तव) आप का (अयम्) यह (सोमः) ऐश्वर्य का योग है, उस को (त्वम्) आप (आ, इहि) अच्छे प्रकार प्राप्त हूजिये (सुमनाः) धर्म कार्य्यों में प्रसन्नचित्त (अर्वाङ्) सन्मुख प्राप्त हुए (अस्य) इस अपने आत्मा के (शश्वत्तमम्) अधिकतर अनादि धर्म की (पाहि) रक्षा कीजिये (अस्मिन्) इस (बर्हिषि) उत्तम (यज्ञे) प्राप्त होने योग्य व्यवहार में (निषद्य) निरन्तर स्थित हो के (जठरे) जाठराग्नि में (इमम्) इस प्रत्यक्ष (इन्दुम्) रोगनाशक ओषधियों के रस को (आ, दधिष्व) अच्छे प्रकार धारण कीजिये ॥२३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्वान् लोग सब के साथ सदा सन्मुखता को प्राप्त होके प्रसन्नचित्त हुए सनातन धर्म तथा विज्ञान का उपदेश किया करें, पथ्य अन्न आदि का भोजन करें और सदा पुरुषार्थ में प्रवृत्त रहें ॥२३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे इन्द्र विद्वन् ! यस्तवायं सोमोऽस्ति तं त्वमेहि सुमना अर्वाङ् सन्नस्य शश्वत्तमं पाहि। अस्मिन् बर्हिषि यज्ञे निषद्य जठर इममिन्दुं चादधिष्व ॥२३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - विद्वांसः सर्वैः सहाभिमुख्यं प्राप्य प्रसन्नमनसः सन्तः सनातनं धर्मं विज्ञानञ्चोपदिशेयुः पथ्यमन्नादि सेवेरन् सदैव पुरुषार्थे प्रयतेरँश्च ॥२३।
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - विद्वान लोकांनी सर्वांसमोर प्रसन्नचित्त राहून सनातन् धर्म व विज्ञान यांचा उपदेश करावा. पथ्यकारक अन्नाचे भोजन करावे व सदैव पुरुषार्थ करावा.
२४ अमेव नः
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒मेव॑ नः सुहवा॒ऽआ हि गन्त॑न॒ नि ब॒र्हिषि॑ सदतना॒ रणि॑ष्टन। अथा॑ मदस्व जुजुषा॒णो ऽअन्ध॑स॒स्त्वष्ट॑र्दे॒वेभि॒र्जनि॑भिः सु॒मद्ग॑णः ॥२४ ॥
मूलम् ...{Loading}...
अ॒मेव॑ नः सुहवा॒ऽआ हि गन्त॑न॒ नि ब॒र्हिषि॑ सदतना॒ रणि॑ष्टन। अथा॑ मदस्व जुजुषा॒णो ऽअन्ध॑स॒स्त्वष्ट॑र्दे॒वेभि॒र्जनि॑भिः सु॒मद्ग॑णः ॥२४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒मेवेत्य॒माऽइ॑व। नः॒। सु॒ह॒वा॒ऽइति॑ सुऽहवाः। आ। हि। गन्त॑न। नि। ब॒र्हिषि॑। स॒द॒त॒न॒। रणि॑ष्टन। अथ॑। म॒द॒स्व॒। जु॒जु॒षा॒णः। अन्ध॑सः। त्वष्टः॑। दे॒वेभिः॑। जनि॑भि॒रिति॒ जनि॑ऽभिः। सु॒मद्ग॑ण॒ इति॑ सु॒मत्ऽग॑णः। २४।
महीधरः
म० त्वटृदेवत्या जगती गृत्समददृष्टा । तृतीयसवने नेष्टृचमसयागे याज्या । देवपत्न्यः प्रार्थ्यन्ते । अमाशब्दो गृहवाचकः । अमेव स्वगृहमिव नोऽस्माकं यज्ञगृहाणि हे देवपत्न्यः, यूयमागन्तन आगच्छत । गमेः शपो लुक् लोटि मध्यमबहुवचने । हिः पादपूरणः । बर्हिषि दर्भ् निसदतन निषीदत उपविशत । ‘सदिलृ गतौ’ रणिष्टन ‘रण शब्दे’ अस्य लुङि रूपम् अडागमाभावः। परस्परं वार्तां कुरुतेत्यर्थः । ‘तप्तनप्-’ (पा. ७ । १ । ४५) इति सर्वत्र तनबादेशः । कीदृश्यो यूयम् । सुवहाः शोभनः सुकरो हव आह्वानं यासां ताः । एवं देवपत्नीरुक्त्वाथ त्वष्टारमाह । हे त्वष्टः, त्वमथानन्तरं देवपत्नीष्वागतासु मदस्व मोदस्व तृप्यस्वेत्यर्थः । कीदृशस्त्वम् । अन्धसः अन्धः हविर्लक्षणमन्नं । जुजुषाणः सेवमानः । ‘जुषी प्रीतिसेवनयोः’ व्यत्ययेन शानचि शपः श्लुः । अन्धसः इति कर्मणि षष्ठी । देवेभिः देवैः जनिभिः देवपत्नीभिश्च सुमद्गणः सुष्ठु माद्यन्ति हृष्यन्ति मुमदः । मदेः क्विप् । सुमदः सन्तुष्टा गणा देवाः स्त्रीगणाश्च यस्य स सुमद्गणः । जनयन्तीति जनयो नार्यः ॥२४॥
पञ्चविंशी।
अधिमन्त्रम् (VC)
- विद्वान् देवता
- गृत्समद ऋषिः
- जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (त्वष्टः) तेजस्वि विद्वन् ! (जुजुषाणः) प्रसन्नचित्त गुरु आदि की सेवा करते हुए (सुमद्गणः) सुन्दर प्रसन्न मण्डलीवाले आप (देवेभिः) उत्तम गुणवाले (जनिभिः) जन्मों के साथ (अन्धसः) अन्नादि उत्तम पदार्थों की प्राप्ति में (मदस्व) आनन्दित हूजिये (अथ) इस के अनन्तर (अमेव) उत्तम घर के तुल्य औरों को आनन्दित कीजिये। हे विद्वान् लोगो ! (सुहवाः) सुन्दर प्रकार बुलाने हारे तुम लोग उत्तम घर के समान (बर्हिषि) उत्तम व्यवहार में (नः) हमको (आ, गन्तन) अच्छे प्रकार प्राप्त हूजिये। इस स्थान में (हि) निश्चित होकर (नि, सदतन) निरन्तर बैठिये और (रणिष्टन) अच्छा उपदेश कीजिए ॥२४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जो आप उत्तम व्यवहार में स्थित हो के औरों को स्थित करें, वे सदा आनन्दित हों। स्त्री-पुरुष उत्कण्ठा पूर्वक संयोग करके जिन सन्तानों को उत्पन्न करें, वे उत्तम गुणवाले होते हैं ॥२४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे त्वष्टो ! जुजुषाणः सुमद्गणाः संस्त्वं देवेभिर्जनिभिः सहाऽन्धसो मदस्वाथाऽमेवान्यानानन्दय। हे विद्वांसः ! सुहवा यूयममेव बर्हिषि न आ गन्तन। अत्र हि निषदतन रणिष्टन च ॥२४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। ये स्वयमुत्तमे व्यवहारे स्थित्वाऽन्यान् स्थापयेयुस्ते सदाऽऽनन्देयुः। स्त्रीपुरुषाः प्रीत्या संयुज्य यान्यपत्यानि जनयेयुस्तानि दिव्यगुणानि जायन्ते ॥२४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जे स्वतः उत्तम व्यवहार करतात व इतरांनाही करावयास लावतात ते नेहमी आनंदात राहतात. स्री-पुरुषांनी इच्छापूर्वक मिलन करून संतान उत्पन्न केल्यास ते उत्तम गुणांनी युक्त असतात.
२५ स्वादिष्ठया मदिष्ठया
विश्वास-प्रस्तुतिः ...{Loading}...
स्वादि॑ष्ठया॒ मदि॑ष्ठया॒ पव॑स्व सोम॒ धार॑या। इन्द्रा॑य॒ पात॑वे सु॒तः ॥२५ ॥
मूलम् ...{Loading}...
स्वादि॑ष्ठया॒ मदि॑ष्ठया॒ पव॑स्व सोम॒ धार॑या। इन्द्रा॑य॒ पात॑वे सु॒तः ॥२५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स्वादि॑ष्ठया। मदि॑ष्ठया। पव॑स्व। सो॒म॒। धार॑या। इन्द्रा॑य। पात॑वे। सु॒तः। २५।
महीधरः
म० सोमदेवत्ये द्वे गायत्र्यौ मधुच्छन्दोदृष्टे जपादिषु विनियुक्ते । हे सोम, धारया कृत्वा पवस्व गच्छ दशापवित्राद्रोणकलशं प्रति गच्छ । कीदृश्या धारया । स्वादिष्ठया वादो विद्यते यस्यां सा खादवती अत्यन्तं खादवती स्वादिष्ठा तया। ‘विन्मतोलक’ (पा० ५। ३ । ६५) इतीष्टनि मतुपो लुक । स्वादुतमया । मदिष्ठया मदयतीति मदयित्री अत्यन्तं मदयित्री मदिष्ठा तया । इष्टनि ‘तुरिष्ठेमेयःसु’ (पा० ६ । ४ । १५४) इति तृचो लोपः । यत इन्द्राय पातवे इन्द्रस्य पातुं वं सुतोऽभिषुतोऽसि अस्माभिरतो धारया पवख ॥ २५ ॥
पड़्विंशी।
इति माध्यन्दिनीयायां वाजसनेविसंहितायां षड्विंशोऽध्यायः ॥ २६ ॥
अधिमन्त्रम् (VC)
- सोमो देवता
- मधुच्छन्दा ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सोम) ऐश्वर्ययुक्त विद्वन् ! आप जो (इन्द्राय) संपत्ति की (पातवे) रक्षा करने के लिए (सुतः) निकाला हुआ उत्तम रस है, उस की (स्वादिष्ठया) अति स्वादयुक्त (मदिष्ठया) अति आनन्द देनेवाली (धारया) धारण करने हारी क्रिया से (पवस्व) पवित्र हूजिये ॥२५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो विद्वान् मनुष्य सब रोगों के नाशक आनन्द देनेवाले ओषधियों के रस को पी के अपने शरीर और आत्मा को पवित्र करते हैं, वे धनाढ्य होते हैं ॥२५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सोम विद्वँस्त्वं य इन्द्राय पातवे सुतोऽस्ति तस्य स्वादिष्ठया मदिष्ठया धारया पवस्व ॥२५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये विद्वांसो मनुष्याः सर्वरोगप्रणाशकमानन्दप्रदमोषधिरसं पीत्वा शरीरात्मानौ पवित्रयन्ति ते धनाढ्या जायन्ते ॥२५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी विद्वान माणसे सर्व रोगांचा नाश करून आनंदी राहतात व औषधांचा रस पिऊन आपले शरीर व आत्मा यांना पवित्र करतात ते धनाढ्य बनतात.
२६ रक्षोहा विश्वचर्षणिरभि
विश्वास-प्रस्तुतिः ...{Loading}...
र॒क्षो॒हा वि॒श्वच॑र्षणिर॒भि योनि॒मयो॑हते। द्रोणे॑ स॒धस्थ॒मास॑दत् ॥२६ ॥
मूलम् ...{Loading}...
र॒क्षो॒हा वि॒श्वच॑र्षणिर॒भि योनि॒मयो॑हते। द्रोणे॑ स॒धस्थ॒मास॑दत् ॥२६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
र॒क्षो॒हेति॑ रक्षः॒ऽहा। वि॒श्वच॑र्षणि॒रिति॑ वि॒श्वऽच॑र्षणिः। अ॒भि। योनि॑म्। अयः॑ऽहते। द्रोणे॑। स॒धस्थ॒मिति॑ स॒धऽस्थ॑म्। आ। अ॒स॒द॒त्। २६।
महीधरः
म० सोमः द्रोणे । विभक्तिव्यत्ययः । द्रोणं द्रोणकलशलक्षणं योनिं स्थानमभि आसदत् आभिमुख्येन सीदति तिष्ठति । कीदृशः सोमः । रक्षोहा रक्षांसि हन्तीति रक्षोहा दुष्टनाशकः । विश्वचर्षणिः विश्वं सर्व जगत् चष्टे पश्यति विश्वचर्षणिः । सर्वस्य शुभाशुभद्रष्टा । यद्वा चर्षणिरिति मनुष्यनामसु पठितम् । विश्वे सर्वे चर्षणयो मनुष्या ऋत्विग्यजमानलक्षणा यस्य कण्डनाहरणादिषु सः । तथा कीदृशं द्रोणम् । अयः ‘सुपां सुलुक्’ इति तृतीयैकवचनलोपः । अयसा लोहेन हतमुत्कीर्णम् । वास्या कृत्वा तक्ष्णा सोमभाजनीकृतम् हतमिति विभक्तिव्यत्ययः । तथा सधस्थं सह सार्धं तिष्ठन्ति सोमाः यत्र स सहस्थः ‘सुपि स्थः’ ( पा० ३ । २ । ४ ) इति कप्रत्ययः । ‘आतो लोपः’ (पा० ६ । ४ । ६४ ) इति आलोपः ‘सधमादस्थयोश्छन्दसि’ (पा. ६ । ३ । ९६ ) इति सहस्य सधादेशः । असदत् ‘पुषादि-’ (पा० ६ । १ । ५५) इति लुङि च्लेरङ् ‘छन्दसि लुङ्लङ्लिटः’ (पा० ३ । ४ । ६) इति लडर्थे लुङ् ॥ २६ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
अनुक्तमन्त्रकथनः षड्विंशोऽध्याय ईरितः ॥ २६ ॥
अधिमन्त्रम् (VC)
- अग्निर्देवता
- मधुच्छन्दा ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (रक्षोहा) दुष्ट प्राणियों को मारने हारा (विश्वचर्षणिः) सब संसार का प्रकाशक विद्वान् (अयोहते) सुवर्ण से प्राप्त हुए (द्रोणे) बीस सेर अन्न रखने के पात्र में (सधस्थम्) समान स्थितिवाले (योनिम्) घर में (अभि, आ, असदत्) अच्छे प्रकार स्थित होवे, वह सम्पूर्ण सुख को प्राप्त होवे ॥२६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो अविद्या अज्ञान के नाशक, विज्ञान के प्रकाशक, सब ऋतुओं में सुखकारी, सुवर्ण आदि से युक्त घरों में बैठ के विचार करें वे सुखी होते हैं ॥२६ ॥ इस अध्याय में पुरुषार्थ के फल, सब मनुष्यों को वेद पढ़ने सुनने का अधिकार, परमेश्वर विद्वान् और सत्य का निरूपण, अग्न्यादि पदार्थ, यज्ञ, सुन्दर घरों को बनाना और उत्तम स्थान में स्थिति आदि कही है, इससे इस अध्याय के अर्थ की पूर्व अध्याय में कहे अर्थ के साथ सङ्गति जाननी चाहिये ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्याणां श्रीपरमविदुषां विरजानन्दसरस्वतीस्वामिनां शिष्येण श्रीमत्परमहंसपरिव्राजकाचार्येण श्रीमद्दयानन्दसरस्वतीस्वामिना विरचिते संस्कृतार्य्यभाषाभ्यां समन्विते सुप्रमाणयुक्ते यजुर्वेदभाष्ये षड्विंशोऽध्यायः पूर्तिमगात् ॥२६॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यो रक्षोहा विश्वचर्षणिर्विद्वानयोहते द्रोणे सधस्थं योनिमभ्यासदत् स सर्वं सुखमाप्नुयात् ॥२६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - येऽविद्याहन्तारो विद्याप्रकाशकाः सर्वर्त्तुसुखकरेषु सुवर्णादियुक्तेषु गृहेषु स्थित्वा विचारं कुर्युस्ते सुखिनो जायन्त इति ॥२६ ॥ अस्मिन्नध्याये पुरुषार्थफलवर्णनं सर्वेषां मनुष्याणां वेदपठनश्रवणाधिकारः परमेश्वरविद्वत्सत्यनिरूपण-मग्न्यादिपदार्थकथनं यज्ञवर्णनं सुन्दरगृहनिर्माणमुत्तमस्थाने स्थितिश्चोक्ताऽत एतदर्थस्य पूर्वाध्यायोक्तार्थेन सह सङ्गतिरस्तीति वेद्यम् ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे लोक अविद्या व अज्ञान यांचा नाश करतात व विज्ञानाचा प्रकाश करतात, तसेच सर्व ऋतूत सुखदायी व संपत्तीयुक्त घरात राहून विचार विनिमय करतात ते सुखी होतात.