०१ शादं दद्भिरवकाम्
विश्वास-प्रस्तुतिः ...{Loading}...
शादं॑ द॒द्भिरव॑कां दन्तमू॒लैर्मृदं॒ बर्स्वै॑स्ते॒ गां दँष्ट्रा॑भ्याँ॒सर॑स्वत्याऽअग्रजि॒ह्वं जि॒ह्वाया॑ऽ उत्सा॒दम॑वक्र॒न्देन॒ तालु॒ वाजँ॒हनु॑भ्याम॒पऽआ॒स्ये᳖न॒ वृष॑णमा॒ण्डाभ्या॑मादि॒त्याँ श्मश्रु॑भिः॒ पन्था॑नं भ्रू॒भ्यां द्यावा॑पृथि॒वी वर्त्तो॑भ्यां वि॒द्युतं॑ क॒नीन॑काभ्याँ शु॒क्राय॒ स्वाहा॑ कृ॒ष्णाय॒ स्वाहा॒ पार्या॑णि॒ पक्ष्मा॑ण्यवा॒र्या᳖ऽइ॒क्षवो॑ऽवा॒र्या᳖णि॒ पक्ष्मा॑णि॒ पार्या॑ इ॒क्षवः॑ ॥१ ॥
मूलम् ...{Loading}...
शादं॑ द॒द्भिरव॑कां दन्तमू॒लैर्मृदं॒ बर्स्वै॑स्ते॒ गां दँष्ट्रा॑भ्याँ॒सर॑स्वत्याऽअग्रजि॒ह्वं जि॒ह्वाया॑ऽ उत्सा॒दम॑वक्र॒न्देन॒ तालु॒ वाजँ॒हनु॑भ्याम॒पऽआ॒स्ये᳖न॒ वृष॑णमा॒ण्डाभ्या॑मादि॒त्याँ श्मश्रु॑भिः॒ पन्था॑नं भ्रू॒भ्यां द्यावा॑पृथि॒वी वर्त्तो॑भ्यां वि॒द्युतं॑ क॒नीन॑काभ्याँ शु॒क्राय॒ स्वाहा॑ कृ॒ष्णाय॒ स्वाहा॒ पार्या॑णि॒ पक्ष्मा॑ण्यवा॒र्या᳖ऽइ॒क्षवो॑ऽवा॒र्या᳖णि॒ पक्ष्मा॑णि॒ पार्या॑ इ॒क्षवः॑ ॥१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
शाद॑म्। द॒द्भिरिति॑ द॒त्ऽभिः। अव॑काम्। द॒न्त॒मू॒लैरिति॑ दन्तऽमू॒लैः। मृद॑म्। बर्स्वैः॑। ते॒। गाम्। दँष्ट्रा॑भ्याम्। सर॑स्वत्यै। अ॒ग्र॒जि॒ह्वमित्य॑ग्रऽजि॒ह्वम्। जि॒ह्वायाः॑। उ॒त्सा॒दमित्यु॑त्ऽसा॒दम्। अ॒व॒क्रन्देनेत्य॑वऽक्र॒न्देन॑। तालु॑। वाज॑म्। हनु॑भ्या॒मिति॒ हनु॑ऽभ्याम्। अ॒पः। आ॒स्ये᳖न। वृष॑णम्। आ॒ण्डाभ्या॑म्। आ॒दि॒त्यान्। श्मश्रु॑भि॒रिति॒ श्मश्रु॑ऽभिः। पन्था॑नम्। भ्रू॒भ्याम्। द्यावा॑पृथि॒वी इति॒ द्यावा॑पृथि॒वी। वर्त्तो॑भ्या॒मिति॒ वर्त्तः॑ऽभ्याम्। वि॒द्युत॑मिति॒ वि॒ऽद्युत॑म्। क॒नीन॑काभ्याम्। शु॒क्राय॑। स्वाहा॑। कृ॒ष्णाय॑। स्वाहा॑। पार्या॑णि। पक्ष्मा॑णि। अ॒वा॒र्याः᳖। इ॒क्षवः॑। अ॒वा॒र्या᳖णि। पक्ष्मा॑णि। पार्याः॑। इ॒क्षवः॑। १।
महीधरः
म० ‘स्विष्टकृद्वनस्पत्यन्तरे शूल्यᳪं᳭ हुत्वा देवताश्वाङ्गेभ्यो जुहोत्यमुष्यै स्वाहेति प्रतिदेवतᳪं᳭ शादप्रभृतित्वगन्तेभ्योऽविमुखाच्च परेभ्य इति’ ( का० २० । ८ । ५। ६) । स्विष्टकृद्वनस्पत्योरन्तरे वनस्पतियागानन्तरं स्विष्टकृद्यागात्पूर्वं शूले श्रपितं मांसं प्राजापत्योऽश्व इति वचनात्प्रजापतये हुत्वा अमुष्मै स्वाहेति प्रतिदेवतं शादादित्वगन्तेभ्यो देवताश्वाङ्गेभ्यो देवताभ्योऽश्वाङ्गेभ्यश्च घृतं जुहुयात् । अनादेशे घृतस्योक्तवात् । तत्र शादं दद्भिरित्यादि पृथिवीं त्वचेत्यन्तः संहिताभागो ब्राह्मणं न मन्त्राः। शादादयो देवाः दन्ताद्यङ्गानि । ततश्चतुर्गृहीतमाज्यं गृहीत्वा शादाय स्वाहा दद्भ्यः स्वाहा अवकाभ्यः स्वाहा दन्तमूलेभ्यः स्वाहेत्यादि पृथिव्यै स्वाहा त्वचे स्वाहेत्यन्तं जुहुयादित्येकः पक्षः शाखान्तरोदितः । स्वपक्षे तु शादं दद्भिः प्रीणामि स्वाहेत्यादिहोममन्त्राः । देवता भोक्त्री द्वितीयया निर्दिश्यते । अश्वाङ्गं भोग्यं तृतीयया करणविभक्त्या निर्दिश्यते । क्वचित्केवला देवतैव यथा शुक्लाय स्वाहा कृष्णाय स्वाहेति । क्वचिदन्यविभक्त्यैव द्रव्यदेवतयोर्निर्देशः यथा अग्नेः पक्षतिर्वायोर्निपक्षतिरिति । तथाच श्रुतिः ‘शादं दद्भिरवकां दन्तमूलैरित्याज्यमवदानानि कृला प्रत्याख्यायं देवताभ्य आहुतीर्जुहोति या एव देवता अपिभागास्ता भागधेयेन समर्धयति’ (१३।३।५।१) इति । अस्यायमर्थः । शादं नाम देवमश्वस्य दद्भिर्दन्तैः प्रीणामीति शेषः । स्वाहाकारो दानार्थः । ततश्च शादं दद्धिः प्रीणामि स्वाहेति एवमन्यान्यपि योज्यानि । आज्यमवदानानि कृत्वा आज्यमेवाश्वाङ्गत्वेन परिकल्प्य प्रत्याख्यायमवदानमवदानं प्रति शादादिदेवता आख्यायाख्यायाज्याहुतीर्जुहोति संकल्पिताश्वाङ्गभवा घृताहुतीः शादादिभ्यो ददाति । एवं कुर्वन्नपिभागाः कल्पितभागास्ता भागेन समर्धयति प्रीणातीत्यर्थः । अथ संहितार्थः । दद्भिरश्वदन्तैः शादं देवं प्रीणामि । दन्तमूलैरवकां देवतां प्रीणामि । वर्स्वैर्दन्तपीठैर्मृदं देवतां प्रीणामि ‘वर्स्व स्याद्दन्तपीठिका’ । शादादयो ऽप्रसिद्धा देवाः आदित्यादयः प्रसिद्धाः । दंष्ट्राभ्यां तेगां देवतां प्रीणामि । सरस्वत्यै अग्रजिह्वाम् । अत्र चतुर्थ्या देवतोद्देशः : प्रथमयाङ्गस्य अतो विभक्तिव्यत्ययः । जिह्वाया अग्रमग्रजिह्वं जिह्वाग्रेण सरस्वतीं प्रीणामि । जिह्वायाः उत्सादम् । अत्र षष्ठ्याश्वाङ्गोद्देशः द्वितीयया देवस्य विभक्तिव्यत्ययः । जिह्वयोत्सादं देवं प्रीणामि । अवक्रन्देन तालु अत्र देवे तृतीया अङ्गे प्रथमा व्यत्ययः । तालुना अवक्रन्दं देवं प्रीणामि । वाजं हनुभ्याम् । हनुभ्यां वक्रैकदेशाभ्यां वाजं देवं प्रीणामि । आस्येन मुखेनापो देवताः प्रीणामि । आण्डाभ्यां वृषणाभ्यां वृषणं देवं प्रीणामि । श्मश्रुभिर्मुखकेशैरादित्यान्प्रीणामि । भ्रूभ्यां ललाटगरोमपङ्क्तिभ्यां पन्थानं देवं प्रीणामि । वर्ताः पक्ष्मपङ्क्तिः ताभ्यां ’ द्यावापृथिव्यौ देवते प्रीणामि । कनीनकाभ्यां नेत्रमध्यगकृष्णगोलाभ्यां विद्युतं देवतां प्रीणामि । शुक्लाय स्वाहा कृष्णाय स्वाहा देवोद्देश एव न त्वङ्गम् । शुक्लाय कृष्णाय देवाय सुहुतमस्तु । यद्वा चतुर्थ्याश्वाङ्गमेव निर्दिश्यते । प्राजापत्योऽश्व इति ’ वचनाद्देवोऽध्याहर्तव्यः । शुक्लेन कृष्णेन चाश्वाङ्गेन प्रजापतिं प्रीणामि । एवं लोमभ्यः स्वाहेत्यादावपि बोध्यम् । पार्याणि पक्ष्माणि । अत्र तद्धितेन देवतोद्देशः । पक्ष्माणि नेत्रोपरिलोमानि पार्याणि पारदेवत्यानि ततः पक्ष्मभिः पारं प्रीणामि । इक्षवो नेत्राधोभागरोमाणि अवारदेवत्याः ततः इक्षुभिरवारं प्रीणामि । विपरीतं वा अवार्याणि अवारदेवत्यानि पक्ष्माणि इक्षवः पार्याः पारदेवत्याः ॥ १ ॥
द्वितीया।
अधिमन्त्रम् (VC)
- सरस्वत्यादयो देवताः
- प्रजापतिर्ऋषिः
- भुरिक्छक्वरी, निचृतदतिशक्वरी
- धैवतः, पञ्चमः
०२ वातं प्राणेनापानेन
विश्वास-प्रस्तुतिः ...{Loading}...
वातं॑ प्रा॒णेना॑पा॒नेन॒ नासि॑केऽउपया॒ममध॑रे॒णौष्ठे॑न॒ सदुत्त॑रेण प्रका॒शेनान्त॑रमनूका॒शेन॒ बाह्यं॑ निवे॒ष्यं मू॒र्ध्ना स्त॑नयि॒त्नुं नि॑र्बा॒धेना॒शनिं म॒स्तिष्के॑ण वि॒द्युतं॑ क॒नीन॑काभ्यां॒ कर्णा॑भ्याँ॒ श्रोत्रँ॒ श्रोत्रा॑भ्यां॒ कर्णौ॑ तेद॒नीम॑धरक॒ण्ठेना॒पः शु॑ष्कक॒ण्ठेन॑ चि॒त्तं मन्या॑भि॒रदि॑तिँ शी॒र्ष्णा निर्ऋ॑तिं॒ निर्ज॑र्जल्पेन शी॒र्ष्णा सं॑क्रो॒शैः प्रा॒णान् रे॒ष्माणँ॑ स्तु॒पेन॑ ॥२ ॥
मूलम् ...{Loading}...
वातं॑ प्रा॒णेना॑पा॒नेन॒ नासि॑केऽउपया॒ममध॑रे॒णौष्ठे॑न॒ सदुत्त॑रेण प्रका॒शेनान्त॑रमनूका॒शेन॒ बाह्यं॑ निवे॒ष्यं मू॒र्ध्ना स्त॑नयि॒त्नुं नि॑र्बा॒धेना॒शनिं म॒स्तिष्के॑ण वि॒द्युतं॑ क॒नीन॑काभ्यां॒ कर्णा॑भ्याँ॒ श्रोत्रँ॒ श्रोत्रा॑भ्यां॒ कर्णौ॑ तेद॒नीम॑धरक॒ण्ठेना॒पः शु॑ष्कक॒ण्ठेन॑ चि॒त्तं मन्या॑भि॒रदि॑तिँ शी॒र्ष्णा निर्ऋ॑तिं॒ निर्ज॑र्जल्पेन शी॒र्ष्णा सं॑क्रो॒शैः प्रा॒णान् रे॒ष्माणँ॑ स्तु॒पेन॑ ॥२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वात॑म्। प्रा॒णेन॑। अ॒पा॒नेनेत्य॑पऽआ॒नेन॑। नासि॑के॒ इति॒ नासि॑के। उ॒प॒या॒ममित्यु॑प॒ऽया॒मम्। अध॑रेण। ओष्ठे॑न। सत्। उत्त॑रे॒णेत्युत्ऽत॑रेण। प्र॒का॒शेनेति॑ प्रऽका॒शेन॑। अन्त॑रम्। अ॒नू॒का॒शेन॑। अ॒नु॒का॒शेनेत्य॑नुऽका॒शेन॑। बाह्य॑म्। नि॒वे॒ष्यमिति॑ निऽवे॒ष्यम्। मू॒र्ध्ना। स्त॒न॒यि॒त्नुम्। नि॒र्बा॒धेने॒ति॑ निःऽबा॒धेन॑। अ॒शनि॑म्। म॒स्तिष्के॑ण। वि॒द्युत॒मिति॑ वि॒ऽद्युत॑म्। क॒नीन॑काभ्याम्। कर्णा॑भ्याम्। श्रोत्र॑म्। श्रोत्रा॑भ्याम्। कर्णौ॑। ते॒द॒नीम्। अ॒ध॒र॒क॒ण्ठेनेत्य॑धरऽक॒ण्ठेन॑। अ॒पः। शु॒ष्क॒क॒ण्ठेनेति॑ शुष्कऽक॒ण्ठेन॑। चि॒त्तम्। मन्या॑भिः। अदि॑तिम्। शी॒र्ष्णा। निर्ऋ॑ति॒मिति॒ निःऽऋ॑तिम्। निर्ज॑र्जल्पे॒नेति॒ निःऽज॑र्जल्पेन। शी॒र्ष्णा। स॒ङ्क्रो॒शैरिति॑ सम्ऽक्रो॒शैः। प्रा॒णान्। रे॒ष्माण॑म्। स्तु॒पेन॑। २।
महीधरः
म० अश्वस्य प्राणवायुना वातं प्रीणामि । अपानवायुना नासिकासंज्ञे द्वे देवते प्रीणामि । अधस्तनेन ओष्ठेन उपयामं देवं प्रीणामि । उपरितनेन ओष्ठेन सत्संज्ञं देवं प्रीणामि । प्रकाशेनोपरितनदेहकान्या अन्तरं देवं प्रीणामि । ‘उपसर्गस्य घञ्यमनुष्ये बहुलम्’ (पा० ६ । ३ । १२२ ) इत्यनोर्दीर्घः । अनूकाशेनाधस्तनदेहकान्त्या बाह्यं देवं प्रीणामि । मूर्ध्ना मस्तकेन निवेष्यं देवं प्रीणामि । निश्चितं बध्यते निर्बाधः शिरोऽस्थिमध्यसंलग्नो मज्जाभागः तेन स्तनयित्नुं देवं प्रीणामि । मस्तके भवं मस्तिष्कं शिरोमध्यस्थो जर्जरो मांसभागः । ‘मस्तिष्कं गोर्दम्’ इत्यमरः । मस्तकमिष्यति गच्छति मस्तिष्कम् । ‘इष गतौ’ मस्तकमज्जेति क्षीरस्वामी । तेन मस्तिष्केणाशनिं देवं प्रीणामि । विद्युतं कनीनकाभ्यां प्रीणामीति पूर्ववत् । कर्णाभ्यां श्रोत्रम् । अत्राश्वाङ्गात्मिका एव देवता । कर्णाभ्यां कर्णशष्कुलीभ्यां श्रोत्रं देवं प्रीणामि । श्रोत्रेन्द्रियाभ्यां कर्णौ देवौ प्रीणामि । कण्ठाधोभागेन तेदनीं देवतां प्रीणामि । शुष्कश्चासौ कण्ठश्च शुष्ककण्ठम् । कण्ठस्य यः शुष्को निर्मांसो देशः तेनापो देवताः प्रीणामि । ‘पश्चाद्ग्रीवा शिरा मन्या’ इत्यमरः । ग्रीवापश्चाद्भागे कृकाटिकायां शिरा मन्या मन्यत इति मन्या ‘संज्ञायां समजनि-’ (पा० ३ । ३ । ९९) इति क्यप् । ग्रीवापश्चान्नाडीभिश्चित्तं प्रीणामि । शीर्ष्णा शिरसा दितिं देवतां प्रीणामि । शीर्षस्य शीर्षन्नादेशः शसादौ । नितरां जर्जरीभूतेन शिरोभागेन निर्ऋतिं देवं प्रीणामि । सम्यक् क्रोशन्ति शब्दायन्ते तानि संक्रोशानि गच्छतोऽश्वस्य यान्यङ्गानि शब्दं कुर्वन्ति तैरङ्गैः प्राणान्देवान्प्रीणामि । ‘स्तुप उच्छ्राये’ स्तुपेन उच्छ्रितेन शिखाभूतेनाङ्गेन रेष्माणं देवं प्रीणामि ॥ २ ॥
तृतीया।
अधिमन्त्रम् (VC)
- प्राणादयो देवताः
- प्रजापतिर्ऋषिः
- भुरिगतिशक्वर्यौ
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे जानने को इच्छा करनेवाले ! मेरे उपदेश के ग्रहण से तू (प्राणेन) प्राण और (अपानेन) अपान से (वातम्) पवन और (नासिके) नासिकाछिद्रों और (उपयामम्) प्राप्त हुए नियम को (अधरेण) नीचे के (ओष्ठेन) ओष्ठ के (उत्तरेण) ऊपर के (प्रकाशेन) प्रकाशरूप ओठ से (सदन्तरम्) बीच में विद्यमान मुख आदि स्थान को (अनूकाशेन) पीछे से प्रकाश होनेवाले अङ्ग से (बाह्यम्) बाहर हुए अङ्ग को (मूर्ध्ना) शिर से (निवेष्यम्) जो निश्चय से व्याप्त होने योग्य उस को (निर्बाधेन) निरन्तर ताड़ना के हेतु के साथ (स्तनयित्नुम्) शब्द करने हारी (अशनिम्) बिजुली को (मस्तिष्केण) शिर की चरबी और नसों से (विद्युतम्) अति प्रकाशमान बिजुली को (कनीनकाभ्याम्) दिपते हुए (कर्णाभ्याम्) शब्द को सुनवाने हारे पवनों से (कर्णौ) जिनसे श्रवण करता उन कानों को और (श्रोत्राभ्याम्) जिन गोल-गोल छेदों से सुनता उन से (श्रोत्रम्) श्रवणेन्द्रिय और (तेदनीम्) श्रवण करने की क्रिया (अधरकण्ठेन) कण्ठ के नीचे के भाग से (अपः) जलों (शुष्ककण्ठेन) सूखते हुए कण्ठ से (चित्तम्) विशेष ज्ञान सिद्ध कराने हारे अन्तःकरण के वर्त्ताव को (मन्याभिः) विशेष ज्ञान की क्रियाओं से (अदितिम्) न विनाश को प्राप्त होनेवाली उत्तम बुद्धि को (शीर्ष्णा) शिर से (निर्ऋतिम्) भूमि को (निर्जर्जल्पेन) निरन्तर जीर्ण सब प्रकार परिपक्व हुए (शीर्ष्णा) शिर और (सङ्क्रोशैः) अच्छे प्रकार बुलावाओं से (प्राणान्) प्राणों को प्राप्त हो तथा (स्तुपेन) हिंसा से (रेष्माणम्) हिंसक अविद्या आदि रोग का नाश कर ॥२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सब मनुष्यों को चाहिये कि पहिली अवस्था में समस्त शरीर आदि साधनों से शारीरिक और आत्मिक बल को अच्छे प्रकार सिद्ध करें और अविद्या, दुष्ट सिखावट, निन्दित स्वभाव आदि रोगों को सब प्रकार हनन करें ॥२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे जिज्ञासो ! मदुपदेशग्रहणेन त्वं प्राणेनापानेन वातं नासिके उपयाममधरेणौष्ठेनोत्तरेण प्रकाशेन सदन्तरमनूकाशेन बाह्यं मूर्ध्ना निवेष्यं निर्बाधेन सह स्तनयित्नुमशनिं मस्तिष्केण विद्युतं कनीनकाभ्यां कर्णाभ्यां कर्णौ श्रोत्राभ्यां च श्रोत्रं तेदनीमधरकण्ठेनापः शुष्ककण्ठेन चित्तं मन्याभिरदितिं शीर्ष्णा निर्ऋतिं निर्जर्जल्पेन शीर्ष्णा संक्रोशैः प्राणान् प्राप्नुहि स्तुपेन हिंसनेन रेष्माणमविद्यादिरोगं हिन्धि ॥२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सर्वैर्मनुष्यैः प्रथमवयसि सर्वैः शरीरादिभिः साधनैः शरीरात्मबले संसाधनीये अविद्याकुशिक्षाकुशीलादयो रोगाः सर्वथा हन्तव्याः ॥२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सर्व माणसांनी प्रथमावस्थेत संपूर्ण शरीर इत्यादी साधनांनी शारीरिक व आत्मिक बल वाढवावे व अविद्या, दुष्ट शिकवण, वाईट स्वभाव इत्यादींचा सर्व प्रकारे नाश करावा.
०३ मशकान् केशैरिन्द्र
विश्वास-प्रस्तुतिः ...{Loading}...
म॒शका॒न् केशै॒रिन्द्रँ॒ स्वप॑सा॒ वहे॑न॒ बृह॒स्पतिँ॑शकुनिसा॒देन॑ कू॒र्म्माञ्छ॒फैरा॒क्रम॑णँ स्थू॒राभ्या॑मृ॒क्षला॑भिः क॒पिञ्ज॑लाञ्ज॒वं जङ्घा॑भ्या॒मध्वा॑नं बा॒हुभ्यां॒ जाम्बी॑ले॒नार॑ण्यम॒ग्निम॑ति॒रुग्भ्यां॑ पू॒षणं॑ दो॒र्भ्याम॒श्विना॒वँसा॑भ्याँ रु॒द्रँ रोरा॑भ्याम् ॥३ ॥
मूलम् ...{Loading}...
म॒शका॒न् केशै॒रिन्द्रँ॒ स्वप॑सा॒ वहे॑न॒ बृह॒स्पतिँ॑शकुनिसा॒देन॑ कू॒र्म्माञ्छ॒फैरा॒क्रम॑णँ स्थू॒राभ्या॑मृ॒क्षला॑भिः क॒पिञ्ज॑लाञ्ज॒वं जङ्घा॑भ्या॒मध्वा॑नं बा॒हुभ्यां॒ जाम्बी॑ले॒नार॑ण्यम॒ग्निम॑ति॒रुग्भ्यां॑ पू॒षणं॑ दो॒र्भ्याम॒श्विना॒वँसा॑भ्याँ रु॒द्रँ रोरा॑भ्याम् ॥३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
म॒शका॑न्। केशैः॑। इन्द्र॑म्। स्वप॒सेति॑ सु॒ऽअप॑सा। वहे॑न। बृह॒स्पति॑म्। श॒कु॒नि॒सा॒देनेति॑ शकुनिऽसा॒देन॑। कू॒र्मान्। श॒फैः। आ॒क्रम॑णमित्या॒ऽक्रम॑णम्। स्थू॒राभ्या॑म्। ऋ॒क्षला॑भिः। क॒पिञ्ज॑लान्। ज॒वम्। जङ्घा॑भ्याम्। अध्वा॑नम्। बा॒हुभ्या॒मिति॑ बा॒हुऽभ्या॑म्। जाम्बी॑लेन। अ॒ग्निम्। अ॒ति॒रुग्भ्या॒मित्य॑ति॒रुग्ऽभ्या॑म्। पूषण॑म्। दो॒र्भ्यामिति॑ दोः॒ऽभ्याम्। अ॒श्विनौ॑। अँसा॑भ्याम्। रु॒द्रम्। रोरा॑भ्याम्। ३।
महीधरः
म० केशैः स्कन्धस्थरोमभिः मशकान्देवान्प्रीणामि । वहः स्कन्धस्तेनेन्द्रं प्रीणामि । कीदृशेन वहेन । स्वपसा अप इति कर्मनाम । शोभनमपः कर्म पर्याणधारणनरवहनादिकं यस्य स
स्वपाः तेन । शकुनिः पक्षी तद्वत् सादो गमनम् ‘षद्लृ विशरणगत्यादौ’ घञ् । वेगवत् कूर्दनं तेन बृहस्पतिं देवं प्रीणामि । ‘शफं क्लीबे खुरः पुमान्’ खुरैः कूर्मान्देवान्प्रीणामि । रलयोरैक्यम् । स्थूलाभ्यां गुल्फाभ्यामाक्रमणं देवं प्रीणामि । गुल्फाधःस्था नाड्यः ऋक्षलास्ताभिः कपिञ्जलान्देवान्प्रीणामि । - गुल्फजानुनोर्मध्यभागो जङ्घा ताभ्यां जवं देवं प्रीणामि । अग्रपादयोर्जानूर्ध्वभागौ बाहू ताभ्यां अध्वानं देवं प्रीणामि । जाम्बीरं जम्बीरतरोः फलं रलयोरभेदः तदाकारो जानुमध्यभागो जाम्बीरस्तेनारण्यं देवं प्रीणामि । अत्यन्तं रोचते तौ अतिरुचौ जानुदेशौ ताभ्यामग्निं देवं प्रीणामि । अग्रपादयोर्जान्वधो दोषौ करौ ताभ्यां पूषणं देवं प्रीणामि । अंसौ स्कन्धौ ताभ्यामश्विनौ देवौ प्रीणामि । रोरावंसग्रन्थी ताभ्यां रुद्रं प्रीणामि ॥ ३ ॥
चतुर्थी ।
अधिमन्त्रम् (VC)
- इन्द्रादयो देवताः
- प्रजापतिर्ऋषिः
- भुरिक्कृतिः
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (केशैः) शिर के बालों से (इन्द्रम्) ऐश्वर्य को (शकुनिसादेन) जिससे पक्षियों को स्थिर कराता उस व्यवहार से (कूर्मान्) कछुओं और (मशकान्) मशकों को (स्वपसा) उत्तम काम और (वहेन) प्राप्ति कराने से (बृहस्पतिम्) बड़ी वाणी के स्वामी विद्वान् को (स्थूराभ्याम्) स्थूल (ऋक्षलाभिः) चाल और ग्रहण करने आदि क्रियाओं से (कपिञ्जलान्) कपिञ्जल नामक पक्षियों को (जङ्घाभ्याम्) जङ्घाओं से (अध्वानम्) मार्ग और (जवम्) वेग को (अंसाभ्याम्) भुजाओं के मूल अर्थात् बगलों (बाहुभ्याम्) भुजाओं और (शफैः) खुरों से (आक्रमणम्) चाल को (जाम्बीलेन) जमुनी आदि के फल से (अरण्यम्) वन और (अग्निम्) अग्नि को (अतिरुग्भ्याम्) अतीव रुचि, प्रीति और इच्छा से (पूषणम्) पुष्टि को तथा (दोर्भ्याम्) भुजदण्डों से (अश्विनौ) प्रजा और राजा को प्राप्त होओ और (रोराभ्याम्) कहने-सुनने से (रुद्रम्) रुलानेहारे को प्राप्त होओ ॥३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि बहुत उपायों से उत्तम गुणों की प्राप्ति और विघ्नों की निवृत्ति करें ॥३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यूयं केशैरिन्द्रं शकुनिसादेन कूर्मान् मशकान् स्वपसा वहेन बृहस्पतिं स्थूराभ्यामृक्षलाभिः कपिञ्जलाञ्जङ्घाभ्यामध्वानं जवमंसाभ्यां बाहुभ्यां शफैराक्रमणं जाम्बीलेनारण्यमग्निमतिरुग्भ्यां पूषणं दोर्भ्यामश्विनौ प्राप्नुत रोराभ्यां रुद्रं च ॥३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्बहुभिरुपायैरुत्तमा गुणाः प्रापणीया विघ्नाश्च निवारणीयाः ॥३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी पुष्कळ उपाय योजून उत्तम गुणांची प्राप्ती करून घ्यावी व विघ्ने नाहीशी करावीत.
०४ अग्नेः पक्षतिर्वायोर्निपक्षतिरिन्द्रस्य
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्नेः प॑क्ष॒तिर्वा॒योर्निप॑क्षति॒रिन्द्र॑स्य तृ॒तीया॒ सोम॑स्य चतु॒र्थ्यदि॑त्यै पञ्च॒मीन्द्रा॒ण्यै ष॒ष्ठी म॒रुताँ॑ सप्त॒मी बृह॒स्पते॑रष्ट॒म्य᳖र्य॒म्णो न॑व॒मी धा॒तुर्द॑श॒मीन्द्र॑स्यैकाद॒शी वरु॑णस्य द्वाद॒शी य॒मस्य॑ त्रयोद॒शी ॥४ ॥
मूलम् ...{Loading}...
अ॒ग्नेः प॑क्ष॒तिर्वा॒योर्निप॑क्षति॒रिन्द्र॑स्य तृ॒तीया॒ सोम॑स्य चतु॒र्थ्यदि॑त्यै पञ्च॒मीन्द्रा॒ण्यै ष॒ष्ठी म॒रुताँ॑ सप्त॒मी बृह॒स्पते॑रष्ट॒म्य᳖र्य॒म्णो न॑व॒मी धा॒तुर्द॑श॒मीन्द्र॑स्यैकाद॒शी वरु॑णस्य द्वाद॒शी य॒मस्य॑ त्रयोद॒शी ॥४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒ग्नेः। प॒क्ष॒तिः। वा॒योः। निप॑क्षति॒रिति॒ निऽप॑क्षतिः। इन्द्र॑स्य। तृ॒तीया॑। सोम॑स्य। च॒तु॒र्थी। अदि॑त्यै। प॒ञ्च॒मी। इ॒न्द्रा॒ण्यै। ष॒ष्ठी। म॒रुता॑म्। स॒प्त॒मी। बृह॒स्पतेः॑। अ॒ष्ट॒मी। अ॒र्य॒म्णः। न॒व॒मी। धा॒तुः। द॒श॒मी। इन्द्र॑स्य। ए॒का॒द॒शी। वरु॑णस्य। द्वा॒द॒शी। य॒मस्य॑। त्र॒यो॒द॒शीति॑ त्रयःद॒शी। ४।
महीधरः
म०. अत्र षष्ठ्या देवतोद्देशः प्रथमयाङ्गोद्देशः ततोऽस्त्वित्यध्याहारः । अग्नेः देवस्य पक्षतिरस्तु । ‘पक्षः साध्यविरोधयोः बले काले पतत्रे च रुचौ पार्श्वे प्रकल्पितः’ इत्यभिधानोक्तेरत्र पक्षः पार्श्ववाची । पक्षस्य मूलं पक्षतिः ‘पक्षात्तिः’ (पा० ५। २। २५) इति मूलार्थे तिप्रत्ययः । ततः पक्षस्य पार्श्वस्य मूलभूतान्यस्थीनि वंक्रिशब्दवाच्यानि पक्षतिशब्देनोच्यन्ते । तानि च प्रतिपार्श्वं त्रयोदश भवन्ति ‘षड्विᳪं᳭शतिरश्वस्य वंक्रयः’ ( कौषी० ब्रा० १० । ४ ) इति श्रुतेः । तेषां क्रमेण देवतासंबन्धं वक्ति । तत्रादौ दक्षिणपार्श्वास्थ्नां देवता आह । अग्नेः पक्षतिः प्रथमं दक्षिणपार्श्वास्थि अग्नेरस्तु । विभक्तिव्यत्ययो वा । पक्षत्याग्निं देवं प्रीणामि । वायोर्निपक्षतिः नीचा पक्षतिर्निपक्षतिः । द्वितीयं दक्षिणपार्श्वास्थि वायोर्देवस्यास्तु । एवमग्रेऽपि व्याख्येयम् । तृतीया पक्षतिरिन्द्रस्यास्तु । चतुर्थी पक्षतिः सोमस्य । अदित्यै । चतुर्थी षष्ठ्यर्था । पञ्चमी पक्षतिः अदित्याः । षष्ठी पक्षतिः इन्द्राण्याः । सप्तमी पक्षतिः मरुताम् । अष्टमी पक्षतिः बृहस्पतेः । नवमी पक्षतिरर्यम्णो देवस्य । दशमी धातुर्देवस्य । एकादशी पक्षतिः इन्द्रस्य । द्वादशी पक्षतिः वरुणस्य । त्रयोदशी पक्षतिः दक्षिणपार्श्वास्थि यमस्य देवस्यास्तु ॥ ४ ॥
पञ्चमी।
अधिमन्त्रम् (VC)
- अग्न्यादयो देवताः
- प्रजापतिर्ऋषिः
- स्वराड्धृतिः
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर किस को क्या क्रिया करने योग्य है, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम को (अग्नेः) अग्नि की (पक्षतिः) सब ओर से ग्रहण करने योग्य व्यवहार की मूल (वायोः) पवन की (निपक्षतिः) निश्चित विषय का मूल (इन्द्रस्य) सूर्य की (तृतीया) तीन को पूरा करनेवाली क्रिया (सोमस्य) चन्द्रमा की (चतुर्थी) चार को पूरा करनेवाली (अदित्यै) अन्तरिक्ष की (पञ्चमी) पाँचवीं (इन्द्राण्यै) स्त्री के समान वर्त्तमान जो बिजुलीरूप अग्नि की लपट उसकी (षष्ठी) छठी (मरुताम्) पवनों की (सप्तमी) सातवीं (बृहस्पतेः) बड़ों की पालना करनेवाले महत्तत्त्व की (अष्टमी) आठवीं (अर्यम्णः) स्वामी जनों का सत्कार करनेवाले की (नवमी) नवीं (धातुः) धारण करने हारे की (दशमी) दशमी (इन्द्रस्य) ऐश्वर्यवान् की (एकादशी) ग्यारहवीं (वरुणस्य) श्रेष्ठ पुरुष की (द्वादशी) बारहवीं और (यमस्य) न्यायाधीश राजा की (त्रयोदशी) तेरहवीं क्रिया करनी चाहिये ॥४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! तुम को क्रिया के विशेष ज्ञान और साधनों से अग्नि आदि पदार्थों के गुणों को जानकर सब कार्यों की सिद्धि करनी चाहिये ॥४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः कस्य का क्रिया कर्त्तव्येत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! युष्माभिरग्ने पक्षतिर्वायोर्निपक्षतिरिन्द्रस्य तृतीया सोमस्य चतुर्थ्यदित्यै पञ्चमीन्द्राण्यै षष्ठी मरुतां सप्तमी बृहस्पतेरष्टम्यर्यम्णो नवमी धातुर्दशमीन्द्रस्यैकादशी वरुणस्य द्वादशी यमस्य त्रयोदशी च क्रियाः कर्त्तव्याः ॥४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! युष्माभिः क्रियाविज्ञानसाधनैरग्न्यादीनां गुणान् विदित्वा सर्वाणि कार्य्याणि साधनीयानि ॥४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! ज्ञानपूर्वक क्रिया व साधने यांच्याद्वारे अग्नी वगैरे पदार्थांचे गुण जाणून कार्यसिद्ध करावे.
०५ इन्द्राग्न्योः पक्षतिः
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒न्द्रा॒ग्न्योः प॑क्ष॒तिः सर॑स्वत्यै॒ निप॑क्षतिर्मि॒त्रस्य॑ तृ॒तीया॒ऽपां च॑तु॒र्थी निर्ऋ॑त्यै पञ्च॒म्य᳙ग्नीषोम॑योः ष॒ष्ठी स॒र्पाणाँ॑ सप्त॒मी विष्णो॑रष्ट॒मी पू॒ष्णो न॑व॒मी त्वष्टु॑र्दश॒मीन्द्र॑स्यैकाद॒शी वरु॑णस्य द्वाद॒शी य॒म्यै त्र॑योद॒शी द्यावा॑पृथि॒व्योर्दक्षि॑णं पा॒र्श्वं विश्वे॑षां दे॒वाना॒मुत्त॑रम् ॥५ ॥
मूलम् ...{Loading}...
इ॒न्द्रा॒ग्न्योः प॑क्ष॒तिः सर॑स्वत्यै॒ निप॑क्षतिर्मि॒त्रस्य॑ तृ॒तीया॒ऽपां च॑तु॒र्थी निर्ऋ॑त्यै पञ्च॒म्य᳙ग्नीषोम॑योः ष॒ष्ठी स॒र्पाणाँ॑ सप्त॒मी विष्णो॑रष्ट॒मी पू॒ष्णो न॑व॒मी त्वष्टु॑र्दश॒मीन्द्र॑स्यैकाद॒शी वरु॑णस्य द्वाद॒शी य॒म्यै त्र॑योद॒शी द्यावा॑पृथि॒व्योर्दक्षि॑णं पा॒र्श्वं विश्वे॑षां दे॒वाना॒मुत्त॑रम् ॥५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इ॒न्द्रा॒ग्न्योः। प॒क्ष॒तिः। सर॑स्वत्यै। निप॑क्षति॒रि॒ति॒ निऽप॑क्षतिः। मि॒त्रस्य॑। तृ॒तीया॑। अ॒पाम्। च॒तु॒र्थी। निर्ऋ॑त्या॒ऽइति॒ निःऽऋ॑त्यै। प॒ञ्च॒मी। अ॒ग्नीषोम॑योः। ष॒ष्ठी। स॒र्पाणा॑म्। स॒प्त॒मी। विष्णोः॑। अ॒ष्ट॒मी। पू॒ष्णः। न॒व॒मी। त्वष्टुः॑। द॒श॒मी। इन्द्र॑स्य। ए॒का॒द॒शी। वरु॑णस्य। द्वा॒द॒शी। य॒म्यै। त्र॒यो॒द॒शीति॑ त्रयःऽद॒शी। द्यावा॑पृथि॒व्योः। दक्षि॑णम्। पा॒र्श्वम्। विश्वे॑षाम्। दे॒वाना॑म्। उत्त॑रम्। ५।
महीधरः
म० अथ वामपार्श्वस्थ्नां देवानाह । प्रथममुपरिस्थं वामपार्श्वास्थि इन्द्राग्न्योर्दैवयोरस्तु । सरस्वत्यै निपक्षतिः । द्वितीया पक्षतिः सरस्वत्याः । तृतीया पक्षतिर्मित्रस्य देवस्य । चतुर्थी अपां देवतानाम् । पञ्चमी निर्ऋत्यै निर्ऋतेः । षष्ठी अग्नीषोमयोः । सप्तमी सर्पाणां देवानाम् । अष्टमी विष्णोर्देवस्य । नवमी पूष्णो देवस्य । दशमी त्वष्टुः । एकादशी इन्द्रस्य । । द्वादशी वरुणस्य । यमस्येयं यमी त्रयोदशी पक्षतिः यमसंबन्धिनी । चतुर्थी प्रथमार्था । अथ समस्तयोः पार्श्वयोर्देवानाह । दक्षिणं पार्श्वं द्यावापृथिव्योरस्तु । उत्तरं वामं पार्श्वं विश्वेषां देवानामस्तु ॥ ५॥
षष्ठी।
अधिमन्त्रम् (VC)
- इन्द्रादयो देवताः
- प्रजापतिर्ऋषिः
- स्वराड्विकृतिः
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर किसके अर्थ कौन होती है? इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोग जो (इन्द्राग्न्योः) पवन और अग्नि की (पक्षतिः) सब ओर से ग्रहण करने योग्य व्यवहार की मूल पहिली (सरस्वत्यै) वाणी के लिये (निपक्षतिः) निश्चित पक्ष का मूल दूसरी (मित्रस्य) मित्र की (तृतीया) तीसरी (अपाम्) जलों की (चतुर्थी) चौथी (निर्ऋत्यै) भूमि की (पञ्चमी) पाँचवीं (अग्नीषोमयोः) गर्मी-सर्दी को उत्पन्न करनेवाले अग्नि तथा जल की (षष्ठी) छठी (सर्पाणाम्) साँपों की (सप्तमी) सातवीं (विष्णोः) व्यापक ईश्वर की (अष्टमी) आठवीं (पूष्णः) पुष्टि करनेवाले की (नवमी) नवमी (त्वष्टुः) उत्तम दिपते हुए की (दशमी) दशमी (इन्द्रस्य) जीव की (एकादशी) ग्यारहवीं (वरुणस्य) श्रेष्ठ जन की (द्वादशी) बारहवीं और (यम्यै) न्याय करनेवाले की स्त्री के लिये (त्रयोदशी) तेरहवीं क्रिया है, उन सब को तथा (द्यावापृथिव्योः) प्रकाश और भूमि के (दक्षिणम्) दक्षिण (पार्श्वम्) ओर को और (विश्वेषाम्) सब (देवानाम्) विद्वानों के (उत्तरम्) उत्तर ओर को जानो ॥५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि इन उक्त पदार्थों के विशेष ज्ञान के लिये अनेक क्रियाओं को करके अपने-अपने कामों को सिद्ध करें ॥५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः किमर्था का भवतीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यूयमिन्द्राग्न्योः पक्षतिः सरस्वत्यै निपक्षतिर्मित्रस्य तृतीयाऽपां चतुर्थी निर्ऋत्यै पञ्चम्यग्नीषोमयोः षष्ठी सर्पाणां सप्तमी विष्णोरष्टमी पूष्णो नवमी त्वष्टुर्दशमीन्द्रस्यैकादशी वरुणस्य द्वादशी यम्यै त्रयोदशी च क्रिया द्यावापृथिव्योर्दक्षिणं पार्श्वं विश्वेषां देवानामुत्तरं च विजानीत ॥५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैरेतेषां विज्ञानाय विविधाः क्रियाः कृत्वा कार्याणि साधनीयानि ॥५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - वरील मंत्रात वर्णिलेल्या पदार्थांचे (पवन, अग्नी, भूमी, जल इत्यादी) विशेष ज्ञान प्राप्त करण्यासाठी अनेक क्रिया करून आपापले कार्य सिद्ध करावे.
०६ मरुता स्कन्धा
विश्वास-प्रस्तुतिः ...{Loading}...
म॒रुताँ॑ स्क॒न्धा विश्वे॑षां दे॒वानां॑ प्रथ॒मा कीक॑सा रु॒द्राणां॑ द्वि॒तीया॑ऽऽदि॒त्यानां॑ तृ॒तीया॑ वा॒योः पुच्छ॑म॒ग्नीषोम॑यो॒र्भास॑दौ॒ क्रुञ्चौ॒ श्रोणि॑भ्या॒मिन्द्रा॒बृह॒स्पती॑ऽऊ॒रुभ्यां॑ मि॒त्रावरु॑णाव॒ल्गाभ्या॑मा॒क्रम॑णँ स्थू॒राभ्यां॒ बलं॒ कुष्ठा॑भ्याम् ॥६ ॥
मूलम् ...{Loading}...
म॒रुताँ॑ स्क॒न्धा विश्वे॑षां दे॒वानां॑ प्रथ॒मा कीक॑सा रु॒द्राणां॑ द्वि॒तीया॑ऽऽदि॒त्यानां॑ तृ॒तीया॑ वा॒योः पुच्छ॑म॒ग्नीषोम॑यो॒र्भास॑दौ॒ क्रुञ्चौ॒ श्रोणि॑भ्या॒मिन्द्रा॒बृह॒स्पती॑ऽऊ॒रुभ्यां॑ मि॒त्रावरु॑णाव॒ल्गाभ्या॑मा॒क्रम॑णँ स्थू॒राभ्यां॒ बलं॒ कुष्ठा॑भ्याम् ॥६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
म॒रुता॑म्। स्क॒न्धाः। विश्वे॑षाम्। दे॒वाना॑म्। प्र॒थ॒मा। कीक॑सा। रु॒द्राणा॑म्। द्वि॒ताया॑। आ॒दि॒त्याना॑म्। तृ॒तीया॑। वा॒योः। पुच्छ॑म्। अ॒ग्नीषोम॑योः। भास॑दौ। क्रुञ्चौ॑। श्रोणि॑भ्या॒मिति॒ श्रोणि॑ऽभ्याम्। इन्द्रा॒बृह॒स्पती॒ इतीन्द्रा॒बृह॒स्पती॑। ऊ॒रुभ्या॒मित्यू॒रुऽभ्या॑म्। मि॒त्रावरु॑णौ। अ॒ल्गाभ्या॑म्। आ॒क्रम॑ण॒मित्या॒ऽक्रम॑णम्। स्थू॒राभ्या॑म्। बल॑म्। कुष्ठा॑भ्याम्। ६।
महीधरः
म० अथाङ्गान्तराणां देवता आह । विभक्तिव्यत्ययः । स्कन्धप्रदेशैर्मरुतो देवान् प्रीणामि । अश्वपुच्छोपरि तिस्रोऽस्थिपङ्क्तयः सन्ति तासां देवता आह । ‘कीकसं कुल्यमस्थि च’ इत्यमरः । कीकसति शब्दं करोति कीकसमस्थि प्रथमा कीकसा प्रथमानि कीकसानि पुच्छोपरिस्थाद्यास्थिपङ्क्तिर्विश्वेषां देवानां प्रथमकीकसैर्विश्वान्देवान्प्रीणामि । द्वितीयास्थिपङ्क्तिः रुद्राणां द्वितीयै रुद्रान्प्रीणामि । तृतीयानि कीकसानि आदित्यानां तृतीयैः कीकसैरादित्यान्प्रीणामि । वायोः पुच्छं पुच्छेन वायुं प्रीणामि । भासदौ भासेते तौ भासदौ नितम्बौ तावग्नीषोमयोः भासद्भ्यामग्नीषोमौ प्रीणामि । क्रुञ्चौ श्रोणिभ्यां पुनः पूर्ववदङ्गात् तृतीया । ‘कटिः श्रोणीः ककुद्मती’ इत्यमरः । श्रोणीभ्यां दक्षवामाभ्यां कटिप्रदेशाभ्यां क्रुञ्चौ देवौ प्रीणामि । इन्द्राबृहस्पती ऊरुभ्याम् ‘सक्थि क्लीबे पुमानूरुः’ इत्यमरः । ऊरुभ्यामिन्द्राबृहस्पति देवौ प्रीणामि । मित्रावरुणौ अल्गाभ्याम् अलमत्यर्थं गच्छत ऊरुभ्यां संयोगं प्राप्नुतस्तौ अल्गौ वङ्क्षणौ ऊरुसन्धी ताभ्यां मित्रावरुणौ प्रीणामि । स्थूरौ स्थूलौ स्फिचौ नितम्बाधोभागौ नाभ्यामाक्रमणं देवं प्रीणामि । ‘कुष निष्कर्ष’ कुष्येते तौ कुष्ठौ नितम्बस्थौ कूपकौ आवर्तौ ककुन्दरशब्दवाच्यौ ताभ्यां बलं देवं प्रीणामि ॥६॥
सप्तमी।
अधिमन्त्रम् (VC)
- मरुतादयो देवताः
- प्रजापतिर्ऋषिः
- निचृदतिधृतिः
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम को (मरुताम्) मनुष्यों के (स्कन्धाः) कंधा (विश्वेषाम्) सब (देवानाम्) विद्वानों की (प्रथमा) पहिली क्रिया और (कीकसा) निरन्तर शिखावटें (रुद्राणाम्) रुलाने हारे विद्वानों की (द्वितीया) दूसरी ताड़नरूप क्रिया (आदित्यानाम्) अखण्डित न्याय करनेवाले विद्वानों की (तृतीया) तीसरी न्यायक्रिया (वायोः) पवन सम्बन्धी (पुच्छम्) पशु की पूँछ अर्थात् जिससे पशु अपने शरीर को पवन देता (अग्नीषोमयोः) अग्नि और जल सम्बन्धी (भासदौ) जो प्रकाश को देवें वे (क्रुञ्चौ) कोई विशेष पक्षी वा सारस (श्रोणिभ्याम्) चूतड़ों से (इन्द्राबृहस्पती) पवन और सूर्य (ऊरुभ्याम्) जाँघों से (मित्रावरुणौ) प्राण और उदान (अल्गाभ्याम्) परिपूर्ण चलनेवाले प्राणियों से (आक्रमणम्) चाल तथा (कुष्ठाभ्याम्) निचोड़ और (स्थूराभ्याम्) स्थूल पदार्थों से (बलम्) बल को सिद्ध करना चाहिये ॥६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को भुजाओं का बल, अपने अङ्ग की पुष्टि, दुष्टों को ताड़ना और न्याय का प्रकाश आदि काम सदा करने चाहियें ॥६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! युष्माभिर्मरुतां स्कन्धा विश्वेषां देवानां प्रथमा कीकसा रुद्राणां द्वितीयाऽऽदित्यानां तृतीया वायोः पुच्छमग्नीषोमयोर्भासदौ क्रुञ्चौ श्रोणिभ्यामिन्द्राबृहस्पती ऊरुभ्यां मित्रावरुणावल्गाभ्यामाक्रमणं कुष्ठाभ्यां स्थूराभ्यां बलं च निष्पादनीयम् ॥६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्भुजबलं स्वाङ्गपुष्टिर्दुष्टताडनं न्यायप्रकाशादीनि च कर्माणि सदा कर्त्तव्यानि ॥६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी बाहुबल वाढवावे व आपले शरीर पुष्ट करावे. दुष्टांवर प्रहार करून न्यायाचा प्रसार वगैरे कामे सदैव करावीत.
०७ पूषणं वनिष्ठुनान्धाहीन्त्स्स्थूलगुदया
विश्वास-प्रस्तुतिः ...{Loading}...
पू॒षणं॑ वनि॒ष्ठुना॑न्धा॒हीन्त्स्स्थू॑लगु॒दया॑ स॒र्पान् गुदा॑भिर्वि॒ह्रुत॑ऽआ॒न्त्रैर॒पो व॒स्तिना॒ वृष॑णमा॒ण्डाभ्यां॒ वाजि॑नँ॒ शेपे॑न प्र॒जाँ रेत॑सा॒ चाषा॑न् पि॒त्तेन॑ प्रद॒रान् पा॒युना॑ कू॒श्माञ्छ॑कपि॒ण्डैः ॥७ ॥
मूलम् ...{Loading}...
पू॒षणं॑ वनि॒ष्ठुना॑न्धा॒हीन्त्स्स्थू॑लगु॒दया॑ स॒र्पान् गुदा॑भिर्वि॒ह्रुत॑ऽआ॒न्त्रैर॒पो व॒स्तिना॒ वृष॑णमा॒ण्डाभ्यां॒ वाजि॑नँ॒ शेपे॑न प्र॒जाँ रेत॑सा॒ चाषा॑न् पि॒त्तेन॑ प्रद॒रान् पा॒युना॑ कू॒श्माञ्छ॑कपि॒ण्डैः ॥७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पू॒षण॑म्। व॒नि॒ष्ठुना॑। अ॒न्धा॒हीनित्य॑न्धऽअ॒हीन्। स्थू॒ल॒गु॒दयेति॑ स्थूलऽगु॒दया॑। स॒र्पान्। गुदा॑भिः। वि॒ह्रुत॒ इति॑ वि॒ऽह्नुतः॑। आ॒न्त्रैः। अ॒पः। व॒स्तिना॑। वृष॑णम्। आ॒ण्डाभ्या॑म्। वाजि॑नम्। शेपे॑न। प्र॒जामिति॑ प्र॒ऽजाम्। रेत॑सा। चाषा॑न्। पि॒त्तेन॑। प्र॒द॒रानिति॑ प्रऽद॒रान्। पा॒युना॑। कू॒श्मान्। श॒क॒पि॒ण्डैरिति॑ शकऽपि॒ण्डैः। ७।
महीधरः
म०. वनति संभजति वनिष्ठुः स्थूलान्त्रं तेन पूषणं देवं प्रीणामि । ‘गुदं त्वपानं पायुर्ना’ इत्यमरः । स्त्रीत्वं छान्दसम् । ’ स्थूला चासौ गुदा च स्थूलगुदा तया गुदस्य स्थूलभागेन अन्धाहीन् प्रीणामि । अन्धाश्च ते अहयश्च सर्पास्तान् सर्पान् | गुदाभिः स्थूलगुदातिरिक्तैर्गुदभागैः सर्पान्प्रीणामि । विह्रुत आन्त्रैः ‘अन्त्रं पुरीतत्’ इत्यमरः । ‘अम् गतौ भजने शब्दे’। , अमति भजत्यनेनान्नमित्यन्त्रम् । अन्त्रे भवा आन्त्राः अन्त्रसंबन्धिनो मांसभागाः तैर्विह्रुतो देवान्प्रीणामि । अपो बस्तिना ‘बस्तिर्नाभेरधो द्वयोः’ इत्यमरः । वसति मूत्रं यस्मिन्स वस्तिः नाभेरधो वर्तमानं मूत्रपुटं तेनापो देवताः प्रीणामि । | ‘मुष्कोऽण्डो वृषणः कोशः’ इत्यमरः । अण्ड एवाण्डः ताभ्यां लिङ्गोभयपार्श्वस्थाभ्यां मांसपिण्डाभ्यां वृषणं देवं प्रीणामि । शेपो लिङ्गं तेन वाजिनं देवं प्रीणामि ‘शिश्नो मेढ्रो मेहनशेपसी’ इत्यमरः । ‘शि निशाने’ शिनोति भगमिति शेपः सान्तोऽदन्तश्च । प्रजां रेतसा ‘शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च’ इत्यमरः । ‘रीङ् स्रवणे’ रियते स्रवति रेतो वीर्यं तेन प्रजां देवतां प्रीणामि । मायुः पित्तं पतति स्रंसते पित्तं धातुविशेषस्तेन चाषान्देवान्प्रीणामि । पाति मलोत्सर्गमिति पायुर्गुदमुक्तातिरिक्तं तेन गुदतृतीयभागेन प्रदरान्देवान्प्रीणामि । कूश्मान् शकपिण्डैः । ‘शको देशे नृपे विशि’ । विशि विष्ठायां शकस्य विष्ठायाः पिण्डैः कूश्मान् देवान् प्रीणामि ॥ ७ ॥
अष्टमी।
अधिमन्त्रम् (VC)
- पूषादयो देवताः
- प्रजापतिर्ऋषिः
- निचृदष्टिः
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम (वनिष्ठुना) माँगने से (पूषणम्) पुष्टि करनेवाले को (स्थूलगुदया) स्थूल गुदेन्द्रिय के साथ वर्त्तमान (अन्धाहीन्) अन्धे साँपों को (गुदाभिः) गुदेन्द्रियों के साथ वर्त्तमान (विह्रुतः) विशेष कुटिल (सर्पान्) सर्पों को (आन्त्रैः) आँतों से (अपः) जलों को (वस्तिना) नाभि के नीचे के भाग से (वृषणम्) अण्डकोष को (आण्डाभ्याम्) आण्डों से (वाजिनम्) घोड़ा को (शेपेन) लिङ्ग और (रेतसा) वीर्य से (प्रजाम्) सन्तान को (पित्तेन) पित्त से (चाषान्) भोजनों को (प्रदरान्) पेट के अङ्गों को (पायुना) गुदेन्द्रिय से और (शकपिण्डैः) शक्तियों से (कूश्मान्) शिखावटों को निरन्तर लेओ ॥७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जिस-जिस से जो-जो काम सिद्ध हो, उस-उस अङ्ग वा पदार्थ से वह-वह काम सिद्ध करना चाहिये ॥७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यूयं वनिष्ठुना पूषणं स्थूलगुदया सह वर्त्तमानानन्धाहीन् गुदाभिः सहितान् विह्रुतः सर्पानान्त्रैरपो वस्तिना वृषणमाण्डाभ्यां वाजिनं शेपेन रेतसा प्रजां पित्तेन चाषान् प्रदरान् पायुना शकपिण्डैः निगृह्णीत ॥७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - येन येन यद्यत्कार्यं सिध्येत्तेन तेनाङ्गेन पदार्थेन वा तत्तत्साधनीयम् ॥७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्या अवयवाने किंवा पदार्थाने जे जे काम सिद्ध होते ते ते काम त्या त्या अवयवांनी किंवा पदार्थांनी सिद्ध केले पाहिजे.
०८ इन्द्रस्य क्रोडोऽदित्यै
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र॑स्य क्रो॒डोऽदि॑त्यै पाज॒स्यं᳖ दि॒शां ज॒त्रवोऽदि॑त्यै भ॒सज्जी॒मूता॑न् हृदयौप॒शेना॒न्तरि॑क्षं पुरी॒तता॒ नभ॑ऽउद॒र्ये᳖ण चक्रवा॒कौ मत॑स्नाभ्यां॒ दिवं॑ वृ॒क्काभ्यां॑ गि॒रीन् प्ला॒शिभि॒रुप॑लान् प्ली॒ह्ना व॒ल्मीका॑न् क्लो॒मभि॑र्ग्लौ॒भिर्गुल्मा॑न् हि॒राभिः॒ स्रव॑न्तीर्ह्र॒दान् कु॒क्षिभ्याँ॑ समु॒द्रमु॒दरे॑ण वैश्वान॒रं भस्म॑ना ॥८ ॥
मूलम् ...{Loading}...
इन्द्र॑स्य क्रो॒डोऽदि॑त्यै पाज॒स्यं᳖ दि॒शां ज॒त्रवोऽदि॑त्यै भ॒सज्जी॒मूता॑न् हृदयौप॒शेना॒न्तरि॑क्षं पुरी॒तता॒ नभ॑ऽउद॒र्ये᳖ण चक्रवा॒कौ मत॑स्नाभ्यां॒ दिवं॑ वृ॒क्काभ्यां॑ गि॒रीन् प्ला॒शिभि॒रुप॑लान् प्ली॒ह्ना व॒ल्मीका॑न् क्लो॒मभि॑र्ग्लौ॒भिर्गुल्मा॑न् हि॒राभिः॒ स्रव॑न्तीर्ह्र॒दान् कु॒क्षिभ्याँ॑ समु॒द्रमु॒दरे॑ण वैश्वान॒रं भस्म॑ना ॥८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इन्द्र॑स्य। क्रो॒डः। अदि॑त्यै। पा॒ज॒स्य᳖म्। दि॒शाम्। ज॒त्रवः॑। अदि॑त्यै। भ॒सत्। जी॒मूता॑न्। हृ॒द॒यौ॒प॒शेन॑। अ॒न्तरि॑क्षम्। पु॒री॒तता॑। पु॒रि॒ततेति॑ पुरि॒ऽतता॑। नभः॑। उ॒द॒र्ये᳖ण। च॒क्र॒वा॒काविति॑ चक्रऽवा॒कौ। मत॑स्नाभ्याम्। दिव॑म्। वृ॒क्काभ्या॑म्। गि॒रीन्। प्ला॒शिभि॒रिति॑ प्ला॒शिऽभिः॑। उप॑लान्। प्ली॒ह्ना। व॒ल्मीका॑न्। क्लो॒मभि॒रिति॑ क्लो॒मऽभिः॑। ग्लौ॒भिः। गुल्मा॑न्। हि॒राभिः॑। स्रव॑न्तीः। ह्न॒दान्। कु॒क्षिभ्या॒मिति॑ कु॒क्षिऽभ्या॑म्। स॒मु॒द्रम्। उ॒दरे॑ण। वै॒श्वा॒न॒रम्। भस्म॑ना। ८।
महीधरः
म० पुनर्देवे षष्ठी अङ्गे प्रथमा । ‘नना क्रोडं भुजान्तरम्’ इत्यमरः । ‘क्रुड घनत्वे’ क्रुडतीति क्रोड: घनो वक्षोमध्यभागः स इन्द्रस्यास्तु क्रोडेन वा इन्द्रं प्रीणामि एवमग्रेऽपि । पाजसे बलाय हितं पाजस्यं बलकरमङ्गं तददित्याः देवतायाः । ‘सन्धी तस्यैव जत्रुणी’ इत्यमरः । अंसकक्षयोः सन्धिर्जत्रु । जायत इति पुंस्त्वमार्षम् । तानि दिशां देवतानाम् । ‘भस भर्त्सनदीप्त्योः’ वभस्ति दीप्यते भसत् लिङ्गाग्रं तददित्याः अस्तु । पुनर्देवे द्वितीया अङ्गे तृतीया । हृदये उपशेते हृदयौपशं हृदयस्थं मांसं तेन जीमूतान्प्रीणामि । पूर्यते पुरीतत् हृदयाच्छादकमन्त्रं तेनान्तरिक्षं देवं प्रीणामि । उदरे भवमुदर्यमुदरस्थं मांसं तेन नभो देवं प्रीणामि । ‘शरीरावयवाद्यत्’ । ग्रीवाधस्ताद्भागस्थितहृदयोभयपार्श्वस्थे अस्थिनी मतस्ने ताभ्यां चक्रवाकौ देवौ प्रीणामि । ‘वृक्काग्रमांसम्’ इत्यमरः । ‘वृक आदाने’ | वृक्यते स्वादुतया गृह्यते वृक्का । नान्तः पुंस्ययं स्त्रीत्येके इति क्षीरस्वामी । वृक्का मुख्यं मांसं तेन दिवं देवतां प्रीणामि । वृक्कौ कुक्षिस्थौ मांसगोलकावाम्रफलाकृती इति याज्ञिकाः । | प्रकर्षेणाश्नन्ति भुञ्जतेऽन्नानीति प्लाशयः शिश्नमूलनाड्यः तन्नाडीद्वारैवान्नस्य देहे संचारात् रलयोरभेदः । ताभिर्गिरीन्देवान्प्रीणामि । ‘गुल्मस्तु प्लीहा पुंसि’ इत्यमरः । हृदयवामभागे शिथिलो मांसभागः पुप्पुससंज्ञः ‘प्लिह गतौ’ प्लेहते प्लीहा नान्तः तेन उपलान्देवान्प्रीणामि । ‘तिलकं क्लोम’ इत्यमरः । क्लोमति क्लोमा उदर्यो जलाधारः । हृदयस्य दक्षिणे यकृत् क्लोमा वामे प्लीहा पुप्पुसश्चेति वैद्या इति क्षीरस्वामी । क्लोमा गलनाडीति कर्कः । तैर्वल्मीकान्देवान्प्रीणामि । ग्लायन्ति श्राम्यन्ति ग्लावो हृदयनाड्यः ताभिर्गुल्मान्देवान्प्रीणामि । हरन्त्यन्नरसमिति हिरा अन्नवाहिन्यो नाड्यः ताभिः स्रवन्तीः देवताः प्रीणामि । ‘पिचण्डकुक्षी जठरोदरं तुन्दम्’ इत्यमरः । | जठरस्य दक्षवामभागौ कुक्षी ताभ्यां ह्रदान्देवान्प्रीणामि । | उदरेण जठरेण समुद्रं प्रीणामि । भस्मनाङ्गोत्थेन वैश्वानरं देवं प्रीणामि ॥ ८ ॥
नवमी।
अधिमन्त्रम् (VC)
- इन्द्रादयो देवताः
- प्रजापतिर्ऋषिः
- निचृदभिकृतिः
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर किस-किस के गुण पशुओं में हैं, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम को उत्तम यत्न के साथ (इन्द्रस्य) बिजुली का (क्रोडः) डूबना (अदित्यै) पृथिवी के लिये (पाजस्यम्) अन्नों में जो उत्तम वह (दिशाम्) दिशाओं की (जत्रवः) सन्धि अर्थात् उनका एक-दूसरे से मिलना (अदित्यै) अखण्डित प्रकाश के लिये (भसत्) लपट ये सब पदार्थ जानने चाहियें तथा (जीमूतान्) मेघों को (हृदयौपशेन) जो हृदय में सोता है, उस जीव से (पुरीतता) हृदयस्थ नाड़ी से (अन्तरिक्षम्) हृदय के अवकाश को (उदर्येण) उदर में होते हुए व्यवहार से (नभः) जल और (चक्रवाकौ) चकई-चकवा पक्षियों के समान जो पदार्थ उन को (मतस्नाभ्याम्) गले के दोनों ओर के भागों से (दिवम्) प्रकाश को (वृक्काभ्याम्) जिन क्रियाओं से अवगुणों का त्याग होता है, उनसे (गिरीन्) पर्वतों को (प्लाशिभिः) उत्तम भोजन आदि क्रियाओं से (उपलान्) दूसरे प्रकार के मेघों को (प्लीह्ना) हृदयस्थ प्लीहा अङ्ग से (वल्मीकान्) मार्गों को (क्लोमभिः) गीलेपन और (ग्लौभिः) हर्ष तथा ग्लानियों से (गुल्मान्) दाहिनी ओर उदर में स्थित जो पदार्थ उनको (हिराभिः) बढ़तियों से (स्रवन्तीः) नदियों को (ह्रदान्) छोटे-बड़े जलाशयों को (कुक्षिभ्याम्) कोखों से (समुद्रम्) अच्छे प्रकार जहाँ जल जाता उस समुद्र को (उदरेण) पेट और (भस्मना) जले हुए पदार्थ का जो शेषभाग उस राख से (वैश्वानरम्) सब के प्रकाश करने हारे अग्नि को तुम लोग जानो ॥८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य अनेक विद्याबोधों को प्राप्त होकर ठीक-ठीक यथोचित आहार और विहारों से सब अङ्गों को अच्छे प्रकार पुष्ट कर रोगों की निवृत्ति करें तो वे धर्म, अर्थ, काम और मोक्ष को अच्छे प्रकार प्राप्त होवें ॥८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः कस्य कस्य गुणाः पशुषु सन्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! युष्माभिः प्रयत्नेनेन्द्रस्य क्रोडोऽदित्यै पाजस्यं दिशां जत्रवोऽदित्यै भसच्च विज्ञेयाः। जीमूतान् हृदयौपशेन पुरीतताऽन्तरिक्षमुदर्येण नभश्चक्रवाकौ मतस्नाभ्यां दिवं वृक्काभ्यां गिरीन् प्लाशिभिरुपलान् प्लीह्ना वल्मीकान् क्लोमभिर्ग्लौभिश्च गुल्मान् हिराभिः स्रवन्तीर्ह्रदान् कुक्षिभ्यां समुद्रमुदरेण भस्मना च वैश्वानरं यूयं विजानीत ॥८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदि मनुष्या अनेकान् विद्याबोधान् प्राप्य युक्ताहारविहारैः सर्वाण्यङ्गानि संपोष्य रोगान्निवारयेयुस्तर्हि ते धर्मार्थकाममोक्षानाप्नुयुः ॥८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्या माणसांना अनेक विद्यांचा बोध होतो व जे यथायोग्य आहार-विहाराने सर्वांगाना चांगल्याप्रकारे पुष्ट करून रोगांची निवृत्ती करतात ते धर्म, अर्थ, काम, मोक्ष यांना चांगल्याप्रकारे प्राप्त करतात.
०९ विधृतिं नाभ्या
विश्वास-प्रस्तुतिः ...{Loading}...
विधृ॑तिं॒ नाभ्या॑ घृ॒तँरसे॑ना॒पो यू॒ष्णा मरी॑चीर्वि॒प्रुड्भि॑र्नीहा॒रमू॒ष्मणा॑ शी॒नं वस॑या॒ प्रुष्वा॒ऽ अश्रु॑भिर्ह्रा॒दुनी॑र्दू॒षीका॑भिर॒स्ना रक्षाँ॑सि चि॒त्राण्यङ्गै॒र्नक्ष॑त्राणि रू॒पेण॑ पृथि॒वीं त्व॒चा जु॑म्ब॒काय॒ स्वाहा॑ ॥९ ॥
मूलम् ...{Loading}...
विधृ॑तिं॒ नाभ्या॑ घृ॒तँरसे॑ना॒पो यू॒ष्णा मरी॑चीर्वि॒प्रुड्भि॑र्नीहा॒रमू॒ष्मणा॑ शी॒नं वस॑या॒ प्रुष्वा॒ऽ अश्रु॑भिर्ह्रा॒दुनी॑र्दू॒षीका॑भिर॒स्ना रक्षाँ॑सि चि॒त्राण्यङ्गै॒र्नक्ष॑त्राणि रू॒पेण॑ पृथि॒वीं त्व॒चा जु॑म्ब॒काय॒ स्वाहा॑ ॥९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
विधृ॑ति॒मिति॒ विऽधृ॑तिम्। नाभ्या॑। घृ॒तम्। रसे॑न। अ॒पः। यू॒ष्णा। मरी॑चीः। वि॒प्रुड्भि॒रिति॑ वि॒प्रुट्ऽभिः॑। नी॒हा॒रम्। ऊ॒ष्मणा॑। शी॒नम्। वस॑या। प्रुष्वाः॑। अश्रु॑भि॒रित्यश्रु॑ऽभिः। ह्ना॒दु॒नीः॑। दू॒षीका॑भिः। अ॒स्ना। रक्षाँ॑सि। चि॒त्राणि॑। अङ्गैः॑। नक्ष॑त्राणि। रू॒पेण॑। पृ॒थि॒वीम्। त्व॒चा। जु॒म्ब॒काय॑। स्वाहा॑। ९।
महीधरः
म० नाभ्या उदराधःस्थग्रन्थिना विधृतिं देवतां प्रीणामि । ‘रसो गन्धरसे स्वादे तिक्तादौ विषरागयोः । शृङ्गारादिरसे वीर्ये देहधात्वम्बुपारदे’ इति विश्वः । रसेन वीर्येण धातुविशेषेण वा घृतं देवं प्रीणामि । यूषः क्वथितो रसः ‘पद्दन्’ ( पा०६। १।६३) इत्यादिना यूषन्नादेशः । यूष्णा पक्वान्नरसेनापो देवताः प्रीणामि । ‘पृषन्ति बिन्दुपृषताः पुमांसो विप्रुषः स्त्रियः’ इत्यमरः । विप्रुड्भिर्वसाबिन्दुभिर्मरीचीर्देवताः प्रीणामि । ‘ऊष्माणस्तु निदाघोष्णग्रीष्माः शष्पसहा अपि’ इति विश्वः । ऊष्मणा शरीरगतेनौष्ण्येन नीहारं देवं प्रीणामि । ‘मेदस्तु वपा वसा’ इत्यमरः । वस्ते मांसमिति वसा । ‘शुद्धमांसस्य यः स्नेहः सा वसेति वैद्याः’ इति स्वामी । वसया मांसस्नेहेन शीनं देवं प्रीणामि । ‘अश्रु नेत्राम्बु रोदनम्’ इत्यमरः । अश्रुभिर्नेत्राम्बुभिः प्रुष्वाः देवताः प्रीणामि । ‘दूषिका नेत्रयोर्मलम्’ इत्यमरः । दूषीकाभिर्नेत्रमलैर्राेतदुनीर्देवताः प्रीणामि । ‘रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम्’ इत्यमरः । अस्यते सृज्यते इति वा असृक् रुधिरम् ‘पद्दन्-’ (पा० ६ । १ । ६३ ) इत्यसन्नादेशः । अस्ना रक्षांसि प्रीणामि । अङ्गैः पूर्वानुक्तावयवैः चित्राणि देवतानि प्रीणामि । ‘रूपं स्वभावे सौन्दर्ये नाणके पशुशब्दयोः’ इति विश्वः । रूपेण सौन्दर्येण नक्षत्राणि दैवतानि प्रीणामि । त्वचा चर्मणा पृथिवीं देवीं प्रीणामि । स्वाहेति मन्त्रैराज्यं जुहोतीत्यर्थः । अत्र अग्निं हृदयेनाशनिं हृदयाग्रेणेत्यादि द्यावापृथिवीभ्यां स्वाहेत्यन्ता अपि (३९ । ८-१३) आहुतीर्जुहुयात् आश्वमेधिकत्वात् । ‘अवभृथेष्ट्यन्तेऽप्सु मग्नस्याक्षिपिङ्गलस्य खलतिविक्लिधशुक्लस्य मूर्धनि जुहोति जुम्बकाय स्वाहेति’ (का० २० । ८ । १८)। अवभृथयागान्ते एवंविधस्य पुंसो मूर्धनि जुम्बकायेति मन्त्रेणाज्यं सकृद्गृहीतं जुहुयात् । कीदृशस्य पुंसः । जले मग्नस्य पिङ्गलाक्षस्य खलतेः खल्वाटस्य । विक्लिधस्य दन्तुरस्य शुक्लस्यातिगौरस्येति सूत्रार्थः । वरुणदेवत्या द्विपदा यजुर्गायत्री उदन्यपुत्रमुण्डिभदृष्टा । जुम्बकाय वरुणाय स्वाहा सुहुतमस्तु । ‘वरुणो वै जुम्बः’ ( १३ । ३ । ७। ५) इति श्रुतेः । एषा चान्तर्जले जप्ता पापनाशिनी। तदुक्तं हारीतेन ‘जुम्बका नाम गायत्री वेदे वाजसनेयके । अन्तर्जले सकृज्जप्ता ब्रह्महत्यां व्यपोहति ॥’ इति ॥ ९॥
दशमी।
एकादशी।
अधिमन्त्रम् (VC)
- पूषादयो देवताः
- प्रजापतिर्ऋषिः
- भुरिगत्यष्टिः
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर किससे क्या होता है, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोग (नाभ्या) नाभि से (विधृतिम्) विशेष करके धारण को (घृतम्) घी को (रसेन) रस से (अपः) जलों को (यूष्णा) क्वाथ किये रस से (मरीचीः) किरणों को (विप्रुड्भिः) विशेषकर पूरण पदार्थों से (नीहारम्) कुहर को (ऊष्मणा) गरमी से (शीनम्) जमे हुए घी को (वसया) निवासहेतु जीवन से (प्रुष्वाः) जिनसे सींचते हैं, उन क्रियाओं को (अश्रुभिः) आँसुओं से (ह्रादुनीः) शब्दों की अप्रकट उच्चारण-क्रियाओं को (दूषीकाभिः) विकाररूप क्रियाओं से (चित्राणि) चित्र-विचित्र (रक्षांसि) पालना करने योग्य (अस्ना) रुधिरादि पदार्थों को (अङ्गैः) अङ्गों और (रूपेण) रूप से (नक्षत्राणि) तारागणों को और (त्वचा) मांस रुधिर आदि को ढाँपनेवाली खाल आदि से (पृथिवीम्) पृथिवी को जानकर (जुम्बकाय) अतिवेगवान् के लिये (स्वाहा) सत्य वाणी का प्रयोग अर्थात् उच्चारण करो ॥९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को धारणा आदि क्रियाओं से खोटे आचरण और रोगों की निवृत्ति और सत्यभाषण आदि धर्म के लक्षणों का विचार कर प्रवृत्त करना चाहिये ॥९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः केन किं भवतीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यूयं नाभ्या विधृतिं घृतं रसेनापो यूष्णा मरीचीर्विप्रुड्भिर्नीहारमूष्मणा शीनं वसया प्रुष्वा अश्रुभिर्ह्रादुनीर्दूषीकाभिश्चित्राणि रक्षांस्यनाङ्गै रूपेण नक्षत्राणि त्वचा पृथिवीं विदित्वा जुम्बकाय स्वाहा प्रयुङ्ग्ध्वम् ॥९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्धारणादिभिः कर्मभिर्दुर्व्यसनानि रोगाँश्च निवार्य्य सत्यभाषणादिधर्मलक्षणानि विचार्य्य प्रवर्त्तनीयम् ॥९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी (योग) धारणा वगैरे क्रिया करून असत्याचरण व रोग यांची निवृत्ती करावी आणि सत्यभाषण इत्यादी धर्माच्या लक्षणाचा विचार करून त्यात प्रवृत्त व्हावे.
१० हिरण्यगर्भः समवर्त्तताग्रे
विश्वास-प्रस्तुतिः ...{Loading}...
हि॒र॒ण्य॒ग॒र्भः सम॑वर्त्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ऽआसीत्। स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥१० ॥
मूलम् ...{Loading}...
हि॒र॒ण्य॒ग॒र्भः सम॑वर्त्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ऽआसीत्। स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥१० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
हि॒र॒ण्य॒ग॒र्भ इति॑ हिरण्यऽग॒र्भः। सम्। अ॒व॒र्त्त॒त॒। अग्रे॑। भू॒तस्य॑। जा॒तः। पतिः॑। एकः॑। आ॒सी॒त्। सः। दा॒धा॒र॒। पृ॒थि॒वीम्। द्याम्। उ॒त। इ॒माम्। कस्मै॑। दे॒वाय॑। ह॒विषा॑। वि॒धे॒म॒। १०।
महीधरः
म० चतस्रः कदेवत्याः त्रिष्टुभः प्रजापतिसुतहिरण्यगर्भदृष्टाः प्राजापत्यपशूनामश्वादीनां याज्यानुवाक्याः । द्वे व्याख्याते । (२३ । १ । ३) ॥ १० ॥ ११ ॥
द्वादशी।
अधिमन्त्रम् (VC)
- हिरण्यगर्भो देवता
- प्रजापतिर्ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब परमात्मा कैसा है, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे हम लोग जो (हिरण्यगर्भः) सूर्यादि तेजवाले पदार्थ जिसके भीतर हैं, वह परमात्मा (जातः) प्रादुर्भूत और (भूतस्य) उत्पन्न हुए जगत् का (एकः) असहाय एक (अग्रे) भूमि आदि सृष्टि से पहिले भी (पतिः) पालन करने हारा (आसीत्) है और सब का प्रकाश करनेवाला (अवर्त्तत) वर्त्तमान हुआ (सः) वह (पृथिवीम्) अपनी आकर्षण शक्ति से पृथिवी (उत) और (द्याम्) प्रकाश को (सम् दाधार) अच्छे प्रकार धारण करता है तथा जो (इमाम्) इस सृष्टि को बनाता हुआ अर्थात् जिसने सृष्टि की उस (कस्मै) सुख करने हारे (देवाय) प्रकाशमान परमात्मा के लिये (हविषा) होम करने योग्य पदार्थ से (विधेम) सेवन का विधान करें, वैसे तुम लोग भी सेवन का विधान करो ॥१० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे मनुष्यो ! जिस परमात्मा ने अपने सामर्थ्य से सूर्य आदि समस्त जगत् को बनाया और धारण किया है, उसी की उपासना किया करो ॥१० ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ परमात्मा कीदृशोऽस्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा वयं यो हिरण्यगर्भो जातो जातस्य भूतस्यैकोऽग्रे पतिरासीत् सर्वप्रकाशेऽवर्त्तत स पृथिवीमुत द्यां संदाधार। य इमां सृष्टिं कृतवाँस्तस्मै कस्मै देवाय परमेश्वराय हविषा विधेम तथा यूयमपि विधत्त ॥१० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः ! येन परमेश्वरेण सूर्यादि सर्वं जगन्निर्मितं स्वसामर्थ्येन धृतं च तस्यैवोपासनां कुरुत ॥१० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे माणसांनो ! ज्या परमेश्वराने आपल्या सामर्थ्याने सूर्य इत्यादी संपूर्ण जगाला उत्पन्न केलेले आहे व धारण केलेले आहे त्याचीच उपासना करा.
११ यः प्राणतो
विश्वास-प्रस्तुतिः ...{Loading}...
यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ऽइद्राजा॒ जग॑तो ब॒भूव॑। य ईशे॑ऽअ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥११ ॥
मूलम् ...{Loading}...
यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ऽइद्राजा॒ जग॑तो ब॒भूव॑। य ईशे॑ऽअ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥११ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यः। प्रा॒ण॒तः। नि॒मि॒ष॒त इति॑ निऽमिष॒तः। म॒हि॒त्वेति॑ महि॒ऽत्वा। एकः॑। इत्। राजा॑। जग॑तः। ब॒भूव॑। यः। ईशे॑। अ॒स्य। द्वि॒पद॒ इति॑ द्वि॒ऽपदः॑। चतु॑ष्पदः। चतुः॑पद॒ इति॑ चतुः॑ऽपदः। कस्मै॑। दे॒वाय॑। ह॒विषा॑। वि॒धे॒म॒। ११।
महीधरः
म० वयं कस्मै प्रजापतये देवाय हविषा विधेम हविर्दद्मः । विभक्तिव्यत्ययः । कशब्दस्य सर्वनामत्वमार्षम् । इमे हिमवन्तः बहुवचनादन्येऽपि हिमाचलप्रभृतयः पर्वताः । प्रथमा द्वितीयार्थे । सुपां सुपो भवन्तीति वचनात् । इमान् हिमवत्प्रभृत्यद्रीन् यस्य प्रजापतेर्महित्वं महिमानमाहुर्बुधाः । महित्वेति विभक्तेराकारः । ‘रसा नदी रसतेः शब्दकर्मणः’ (निरु. ११ । २५) इति यास्कः । रसया नद्या सह समुद्रं यस्य महित्वमाहुः । इमाः प्रदिशः पूर्वाद्याः प्रकृष्टा आशा यस्य महित्वमाहुः । यस्य बाहू भुजौ जगद्रक्षणाविति शेषः । सर्वं जगद्यस्य प्रजापतेर्विभूतिरित्यर्थः ॥ १२ ॥
त्रयोदशी । ।
अधिमन्त्रम् (VC)
- ईश्वरो देवता
- प्रजापतिर्ऋषिः
- त्रिष्टुप्
- धैवतः
१२ यस्येमे हिमवन्तो
विश्वास-प्रस्तुतिः ...{Loading}...
यस्ये॒मे हि॒मव॑न्तो महि॒त्वा यस्य॑ समु॒द्रँ र॒सया॑ स॒हाहुः। यस्ये॒माः प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ ॥१२ ॥
मूलम् ...{Loading}...
यस्ये॒मे हि॒मव॑न्तो महि॒त्वा यस्य॑ समु॒द्रँ र॒सया॑ स॒हाहुः। यस्ये॒माः प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ ॥१२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यस्य॑। इ॒मे। हि॒मव॑न्त॒ इति॑ हि॒मऽव॑न्तः। म॒हि॒त्वेति॑ महि॒ऽत्वा। यस्य॑। स॒मु॒द्रम्। र॒सया॑। सह। आ॒हुः। यस्य॑। इ॒माः। प्र॒दिश॒ इति॑ प्र॒ऽदिशः॑। यस्य॑। बा॒हू इति॑ बा॒हू। कस्मै॑। दे॒वाय॑। ह॒विषा॑। वि॒धे॒म॒। १२।
महीधरः
म० कस्मै देवाय हविषा विधेमेति व्याख्यातम् । आत्मानं ददाति आत्मदाः उपासकानां सायुज्यप्रदः । बलं सामर्थ्यं ददाति बलदाः । भुक्तिमुक्तिप्रद इत्यर्थः । विश्वे सर्वे मनुष्याः यस्य प्रशिषं शासनमुपासते देवाश्च यस्य प्रशिषमुपासते । तदुक्तम् ‘यस्य ज्ञेयावधि ज्ञानं शिक्षावधि च शासनम् । कार्यावधि च कर्तृत्वं स स्वयंभूः पुनातु वः’ इति । किंच यस्य छाया आश्रयो ज्ञानपूर्वमुपासनम् अमृतं मुक्तिहेतुः यस्य । अज्ञानमिति शेषः । मृत्युः संसारहेतुः । तदुक्तम् ‘य एतद्विदुरमृस्तास्ते भवन्त्यथेतरे दुःखमेवापियन्ति’ (श्वेता० ३ । १०) इति ॥ १३ ॥
चतुर्दशी।
अधिमन्त्रम् (VC)
- ईश्वरो देवता
- प्रजापतिर्ऋषिः
- स्वराट्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर सूर्य के वर्णन विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (यस्य) जिस सूर्य के (महित्वा) बड़ेपन से (इमे) ये (हिमवन्तः) हिमालय आदि पर्वत आकर्षित और प्रकाशित हैं, (यस्य) जिस के (रसया) स्नेह के (सह) साथ (समुद्रम्) अच्छे प्रकार जिस में जल ठहरते हैं, उस अन्तरिक्ष को (आहुः) कहते हैं तथा (यस्य) जिस की (इमाः) इन दिशा और (यस्य) जिसकी (प्रदिशः) विदिशाओं को (बाहू) भुजाओं के समान वर्त्तमान कहते हैं, उस (कस्मै) सुखरूप (देवाय) मनोहर सूर्यमण्डल के लिये (हविषा) होम करने योग्य पदार्थ से हम लोग (विधेम) सेवन का विधान करें, ऐसे ही तुम भी विधान करो ॥१२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जो सब से बड़ा, सब का प्रकाश करने और सब पदार्थों से रस का लेने हारा, जिस के प्रताप से दिशा और विदिशाओं का विभाग होता है, वह सूर्य्यलोक युक्ति के साथ सेवन करने योग्य है ॥१२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः सूर्यवर्णनविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यस्य सूर्यस्य महित्वा महत्त्वेनेमे हिमवन्त आकर्षिताः सन्ति, यस्य रसया सह समुद्रमाहुर्यस्येमा दिशो यस्य प्रदिशश्च बाहू इवाहुस्तस्मै कस्मै देवाय हविषा वयं विधेम, एवं यूयमपि विधत्त ॥१२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यः सर्वेभ्यो महान् सर्वप्रकाशकः सर्वेभ्यो रसस्य हर्त्ता यस्य प्रतापेन दिशामुपदिशां च विभागो भवति, स सवितृलोको युक्त्या सेवितव्यः ॥१२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! जो सर्वांना प्रकाश देणारा व सर्व पदार्थांचा रस शोषून घेणारा, तसेच ज्याच्या शक्तीमुळे दिशा व उपदिशांचे विभाग निर्माण होतात. त्या सूर्याचा युक्तीने उपयोग करून घ्यावा.
१३ यऽआत्मदा बलदा
विश्वास-प्रस्तुतिः ...{Loading}...
यऽआ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ऽउ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः। यस्य॑ छा॒याऽमृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥१३ ॥
मूलम् ...{Loading}...
यऽआ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ऽउ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः। यस्य॑ छा॒याऽमृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥१३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यः। आ॒त्म॒दा। इत्या॑त्म॒ऽदाः। ब॒ल॒दा इति॑ बल॒ऽदाः। यस्य॑। विश्वे॑। उ॒पास॑त॒ इत्यु॑प॒ऽआस॑ते। प्र॒शिष॒मिति॑ प्र॒ऽशिष॑म्। यस्य॑। दे॒वाः। यस्य॑। छा॒या। अ॒मृत॑म्। यस्य॑। मृ॒त्युः। कस्मै॑। दे॒वाय॑। ह॒विषा॑। वि॒धे॒म॒। १३।
महीधरः
म० वैश्वदेवपशुवपापुरोडाशपशूनां याज्यानुवाक्या दश ऋचो विश्वदेवदेवत्या गोतमदृष्टाः । तत्रादौ पञ्च जगत्यः । क्रतवो यज्ञाः संकल्पा वा नोऽस्मान् प्रति आयन्तु आगच्छन्तु । यज्ञकर्तारो वयं भवेमेत्यर्थः । कीदृशाः क्रतवः । भद्राः भन्दनीयाः ‘भदि कल्याणे’ कल्याणकारिणः । तथा विश्वतः अदब्धासः सर्वतोऽनुपहिंसिताः । निर्विघ्ना इत्यर्थः । अपरीतासः न परीता अपरीताः अपरिगता अज्ञाताः । केनचित्फलानुमेया इत्यर्थः । उद्भिदः उद्भिन्दन्ति प्रकटयन्ति उद्भिदः उद्भेत्तारः । यज्ञान्तराणां प्रकटीकर्तार इत्यर्थः । किंच यथा येन प्रकारेण देवा नोऽस्माकं सदमित् सदैव वृधे वृद्ध्यै असन् भवन्ति । तथा क्रतवः आयन्वित्यर्थः । सदमिदित्यव्ययं सदार्थे । कीदृशा देवाः । अप्रायुवः प्रकर्षेणायुवन्ति प्रमाद्यन्ति ते प्रायुवः । यौतेः क्विप् तुगभाव आर्षः । न प्रायुवः अप्रायुवः अनलसा अस्माकं वृद्ध्यै भवन्त्वित्यर्थः । तथा दिवेदिवे अहन्यहनि प्रत्यहं रक्षितारः पालकाः ॥ १४ ॥
पञ्चदशी ॥
अधिमन्त्रम् (VC)
- परमात्मा देवता
- प्रजापतिर्ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उपासना किया ईश्वर क्या देता है, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (यः) जो (आत्मदाः) आत्मा को देने और (बलदाः) बल देनेवाला (यस्य) जिस की (प्रशिषम्) उत्तम शिक्षा को (विश्वे) समस्त (देवाः) विद्वान् लोग (उपासते) सेवते (यस्य) जिसके समीप से सब व्यवहार उत्पन्न होते (यस्य) जिस का (छाया) आश्रय (अमृतम्) अमृतस्वरूप और (यस्य) जिसकी आज्ञा का भङ्ग (मृत्युः) मरण के तुल्य है, उस (कस्मै) सुखरूप (देवाय) स्तुति के योग्य परमात्मा के लिये हम लोग (हविषा) होमने के पदार्थ से (विधेम) सेवा का विधान करें ॥१३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जिस जगदीश्वर की उत्तम शिक्षा में की हुई मर्यादा में सूर्य आदि लोक नियम के साथ वर्त्तमान हैं, जिस सूर्य के विना जल की वर्षा और अवस्था का नाश नहीं होता, वह सवितृमण्डल जिसने बनाया है, उसी की उपासना सब मिलकर करें ॥१३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनरुपासित ईश्वरः किं ददातीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! य आत्मदा बलदा यस्य प्रशिषं विश्वे देवा उपासते, यस्य सकाशात् सर्वे व्यवहारा जायन्ते, यस्यच्छायाऽमृतं यस्याज्ञाभङ्गो मृत्युस्तस्मै कस्मै देवाय वयं हविषा विधेम ॥१३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यस्य जगदीश्वरस्य प्रशासने कृतायां मर्यादायां सूर्यादयो लोका नियमेन वर्त्तन्ते, सूर्येण विना वर्षा आयुः क्षयश्च न जायते, स येन निर्मितस्तस्यैवोपासनां सर्वे मिलित्वा कुर्वन्तु ॥१३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! जो आत्मज्ञान देणारा, शरीर व आत्म्याला बळ देणारा, ज्याच्या व्यवस्थेने सूर्य वगैरे नियमाने चालतात. वृष्टी होते. ते सूर्यमंडळ ज्याने बनविले आहे व विद्वान लोक ज्याची उपासना करतात, त्याचा आश्रय घेतात. ज्याचा आज्ञाभंग म्हणजे मृत्यूसमान आहे त्याच परमेश्वराची सर्वांनी उपासना करावी.
१४ आ नो
विश्वास-प्रस्तुतिः ...{Loading}...
आ नो॑ भ॒द्राः क्रत॑वो यन्तु वि॒श्वतोऽद॑ब्धासो॒ऽअप॑रीतासऽउ॒द्भिदः॑। दे॒वा नो॒ यथा॒ सद॒मिद् वृ॒धेऽअस॒न्नप्रा॑युवो रक्षि॒तारो॑ दि॒वेदि॑वे ॥१४ ॥
मूलम् ...{Loading}...
आ नो॑ भ॒द्राः क्रत॑वो यन्तु वि॒श्वतोऽद॑ब्धासो॒ऽअप॑रीतासऽउ॒द्भिदः॑। दे॒वा नो॒ यथा॒ सद॒मिद् वृ॒धेऽअस॒न्नप्रा॑युवो रक्षि॒तारो॑ दि॒वेदि॑वे ॥१४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ। नः॒। भ॒द्राः। क्रत॑वः। य॒न्तु॒। वि॒श्वतः॑। अद॑ब्धासः। अप॑रीतास॒ इत्यप॑रिऽइतासः। उ॒द्भिद॒ इत्यु॒त्ऽभिदः॑। दे॒वाः। नः॒। यथा॑। सद॑म्। इत्। वृ॒धे। अस॑न्। अप्रा॑युव॒ इत्यप्र॑ऽआयुवः। र॒क्षि॒तारः॑। दि॒वेदि॑व॒ऽइति॑ दि॒वेदि॑वे। १४।
महीधरः
म० भद्रा कल्याणकारिणी देवानां सुमतिः शोभना बुद्धिः नोऽस्मान् प्रति अभिनिवर्ततामस्मदभिमुखीभवतु । कीदृशानां देवानाम् । ऋजूयताम् ऋजु अवक्रं यन्ति गच्छन्ति ऋजुयन्तस्तेषाम् । इणः शतृप्रत्ययः । अवक्रगामिनाम् । यद्वा ऋजुमवक्रं साधु यजमानं कामयन्ते ते ऋजूयन्ति ‘सुप आत्मनः क्यच्’ ऋजूयन्ति ते ऋजूयन्तस्तेषाम् । क्यजन्ताच्छतृ । साधुं यजमानं कामयमानानामित्यर्थः । किं च देवानां रातिः दानं नोऽस्मानभिनिवर्तताम् । देवा अस्मभ्यं ददत्वित्यर्थः । देवेभ्यो लब्धदाना वयं देवानां सख्यं मैत्रीमुपसेदिम प्राप्नुयाम । सदेर्लिटि उत्तमबहुत्वे रूपम् संहितायां दीर्घः । देवा नोऽस्माकं सखीनामायुः जीवसे जीवितुं प्रतिरन्तु प्रवर्धयन्तु ॥ १५॥
षोडशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- प्रजापतिर्ऋषिः
- निचृज्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को किस की इच्छा करनी चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वानो ! जैसे (नः) हम लोगों को (विश्वतः) सब ओर से (भद्राः) कल्याण करनेवाले (अदब्धासः) जो विनाश को न प्राप्त हुए (अपरीतासः) औरों ने जो न व्याप्त किये अर्थात् सब कामों से उत्तम (उद्भिदः) जो दुःखों को विनाश करते वे (क्रतवः) यज्ञ वा बुद्धि बल (आ, यन्तु) अच्छे प्रकार प्राप्त हों (यथा) जैसे (नः) हम लोगों की (सदम्) उस सभा को कि जिसमें स्थित होते हैं, प्राप्त हुए (अप्रायुवः) जिन की अवस्था नष्ट नहीं होती, वे (देवाः) पृथिवी आदि पदार्थों के समान विद्वान् जन (इत्) ही (दिवेदिवे) प्रतिदिन (वृधे) वृद्धि के लिये (रक्षितारः) पालना करनेवाले (असन्) हों, वैसा आचरण करो ॥१४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सब मनुष्यों को परमेश्वर के विज्ञान और विद्वानों के सङ्ग से बहुत बुद्धियों को प्राप्त होकर सब ओर से धर्म का आचरण कर नित्य सब की रक्षा करनेवाले होना चाहिये ॥१४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैः किमेष्टव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वांसो ! यथा नोस्माऽन् विश्वतो भद्रा अदब्धासोऽपरीतास उद्भिदः क्रतव आ यन्तु, यथा नः सदं प्राप्ता अप्रायुवो देवा इद् दिवेदिवे वृधे रक्षितारोऽसन् तथाऽनुतिष्ठन्तु ॥१४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सर्वैर्मनुष्यैः परमेश्वरस्य विज्ञानाद् विदुषां सङ्गेन पुष्कलाः प्रज्ञाः प्राप्य सर्वतो धर्ममाचर्य नित्यं सर्वेषां रक्षकैर्भवितव्यम् ॥१४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या सर्व माणसांनी विद्वानांच्या संगतीने परमेश्वरासंबंधी विशेष ज्ञान प्राप्त करावे व प्रखर बुद्धी प्राप्त करून धर्माचे आचरण करावे व सर्वांचे रक्षण करावे.
१५ देवानां भद्रा
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वानां॑ भ॒द्रा सु॑म॒तिर्ऋ॑जूय॒तां दे॒वानाँ॑ रा॒तिर॒भि नो॒ निव॑र्त्तताम्। दे॒वानाँ॑ स॒ख्यमुप॑सेदिमा व॒यं दे॒वा न॒ऽआयुः॒ प्रति॑रन्तु जी॒वसे॑ ॥१५ ॥
मूलम् ...{Loading}...
दे॒वानां॑ भ॒द्रा सु॑म॒तिर्ऋ॑जूय॒तां दे॒वानाँ॑ रा॒तिर॒भि नो॒ निव॑र्त्तताम्। दे॒वानाँ॑ स॒ख्यमुप॑सेदिमा व॒यं दे॒वा न॒ऽआयुः॒ प्रति॑रन्तु जी॒वसे॑ ॥१५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दे॒वाना॑म्। भ॒द्रा। सु॒म॒तिरिति॑ सुऽम॒तिः। ऋ॒जूय॒ताम्। ऋ॒जु॒य॒तामित्यृ॑जुऽय॒ताम्। दे॒वाना॑म्। रा॒तिः। अ॒भि। नः॒। नि। व॒र्त्त॒ता॒म्। दे॒वाना॑म्। स॒ख्यम्। उप॑। से॒दि॒म॒। आ। व॒यम्। दे॒वाः। नः॒। आयुः॑। प्र। ति॒र॒न्तु॒। जी॒वसे॑। १५।
महीधरः
म० पूर्वया प्राचीनया अकृत्रिमया स्वयंभुवा निविदा वाचा वेदरूपया वयं तान्प्रसिद्धान्देवान् हूमहे आह्वयामः । निविच्छब्दो वाग्वाचकः । तान् कान् तत्राह । भगं मित्रमदितिं देवमातरम् दक्षं प्रजापतिम् अर्यमणं वरुणं सोममश्विना अश्विनौ । अस्रिधमिति भगादीनां विशेषणम् । न स्रेधते च्योतते सोऽस्रित् तमच्युतसद्भावम् । किंच शोभनं भगं भाग्यं यस्याः सा सुभगा भजनीया सरस्वती भगादिसहिता नोऽस्माकं मयः करत् सुखं करोतु ॥ १६ ॥
सप्तदशी।
अधिमन्त्रम् (VC)
- विद्वांसो देवता
- प्रजापतिर्ऋषिः
- जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (देवानाम्) विद्वानों की (भद्रा) कल्याण करनेवाली (सुमतिः) उत्तम बुद्धि हम लोगों को और (ऋजूयताम्) कठिन विषयों को सरल करते हुए (देवानाम्) देनेवाले विद्वानों का (रातिः) विद्या आदि पदार्थों का देना (नः) हम लोगों को (अभि, नि, वर्त्तताम्) सब ओर से सिद्ध करे, सब गुणों से पूर्ण करे (वयम्) हम लोग (देवानाम्) विद्वानों की (सख्यम्) मित्रता को (उपा, सेदिम) अच्छे प्रकार पावें (देवाः) विद्वान् (नः) हम को (जीवसे) जीने के लिये (आयुः) जिस से प्राण का धारण होता, उस आयुर्दा को (प्र, तिरन्तु) पूरी भुगावें, वैसे तुम्हारे प्रति वर्त्ताव रक्खें ॥१५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सब मनुष्यों को चाहिये कि पूर्ण शास्त्रवेत्ता विद्वानों के समीप से उत्तम बुद्धियों को पाकर ब्रह्मचर्य आश्रम से आयु को बढ़ा के सदैव धार्मिक जनों के साथ मित्रता रक्खें ॥१५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा देवानां भद्रा सुमतिरस्मानृजूयतां देवानां रातिर्नोऽस्मानभिनिवर्त्ततां वयं देवानां सख्यमुपासेदिम देवा नो जीवस आयुः प्रतिरन्तु तथा युष्मान् प्रतिवर्त्तन्ताम् ॥१५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सर्वैर्मनुष्यैराप्तानां विदुषां सकाशात् प्रज्ञाः प्राप्य ब्रह्मचर्येणायुः संवर्ध्य सदैव धार्मिकैः सह मित्रता रक्षणीया ॥१५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सर्व माणसांनी पूर्ण शस्रवेत्ते व विद्वान यांच्याकडून उत्तम बुद्धी प्राप्त करून ब्रह्मचर्य पालन करावे व आयुष्य वाढवावे व सदैव धार्मिक लोकांबरोबर मैत्री करावी.
१६ तान् पूर्वया
विश्वास-प्रस्तुतिः ...{Loading}...
तान् पूर्व॑या नि॒विदा॑ हूमहे व॒यं भगं॑ मि॒त्रमदि॑तिं॒ दक्ष॑म॒स्रिध॑म्। अ॒र्य॒मणं॒ वरु॑णँ॒ सोम॑म॒श्विना॒ सर॑स्वती नः सु॒भगा॒ मय॑स्करत्॥१६ ॥
मूलम् ...{Loading}...
तान् पूर्व॑या नि॒विदा॑ हूमहे व॒यं भगं॑ मि॒त्रमदि॑तिं॒ दक्ष॑म॒स्रिध॑म्। अ॒र्य॒मणं॒ वरु॑णँ॒ सोम॑म॒श्विना॒ सर॑स्वती नः सु॒भगा॒ मय॑स्करत्॥१६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
तान्। पूर्व॑या। नि॒विदेति॑ नि॒ऽविदा॑। हू॒म॒हे॒। व॒यम्। भग॑म्। मि॒त्रम्। अदि॑तिम्। दक्ष॑म्। अ॒स्रिध॑म्। अ॒र्य॒मण॑म्। वरु॑णम्। सोम॑म्। अ॒श्विना॑। सर॑स्वती। नः॒। सु॒भगेति॑ सु॒ऽभगा॑। मयः॑। क॒र॒त्। १६।
महीधरः
म० वातः पवनः नोऽस्माकं भेषजमौषधं हितं यथा तथा वातु ‘वा गतिगन्धनयोः’ लोट् प्रवातु । अनुगृह्णात्वित्यर्थः । ददात्विति यावत् । कीदृशं हितम् । मयोभु मयः सुखं भवति यस्मात् तन्मयोभु सुखोत्पादकं हितं ददातु । माता जगन्निर्मात्री पृथिवी तत् हितं वातु । पिता पालको द्यौः स्वर्गः तत् हितं वातु । सोमं सुन्वन्ति सोमसुतः सोमाभिषवकारिणो ग्रावाणः दृषदः तत् भेषजं वान्तु ददतु । कीदृशा ग्रावाणः । मयोभुवः मयः सुखं भावयन्ति ते मयोभुवः सुखस्य दातारः । हे अश्विना अश्विनौ, युवं युवां तत् वातादिभ्यो भेषजप्रार्थनं शृणुतं युवामपि हितं दत्तमित्यर्थः । कीदृशौ युवाम् । धिष्ण्या धिष्ण्यौ गृहवद्धारयितारौ ॥ १७ ॥
अष्टादशी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- प्रजापतिर्ऋषिः
- जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (वयम्) हम लोग (पूर्वया) अगले सज्जनों ने स्वीकार की हुई (निविदा) वेदवाणी से (दक्षम्) चतुर (अर्यमणम्) प्रजापालक (अस्रिधम्) न विनाश करने योग्य (भगम्) ऐश्वर्य करानेवाले (मित्रम्) सब के मित्र (अदितिम्) जिस की बुद्धि कभी खण्डित नहीं होती, उस (वरुणम्) श्रेष्ठ (सोमम्) ऐश्वर्यवान् तथा (अश्विना) पढ़ानेवाले को (हूमहे) परस्पर हिरस करते हुए चाहते हैं। जैसे (सुभगा) सुन्दर ऐश्वर्यवाली (सरस्वती) समस्त विद्याओं से पूर्ण वेदवाणी (नः) हमारे और तुम्हारे लिये (मयः) सुख को (करत्) करे, वैसे (तान्) उन उक्त सज्जनों को तुम भी चाहो और सुख करो ॥१६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को चाहिये कि जो-जो वेद में कहा हुआ काम है, उस-उस का ही अनुष्ठान करें। जैसे अच्छे विद्यार्थी दूसरे की हिरस से अपनी विद्या को बढ़ाते हैं, वैसे ही सब को विद्या बढ़ानी चाहिये। जैसे परिपूर्ण विद्यायुक्त माता अपने सन्तानों को अच्छी शिक्षा दे, विद्याओं की प्राप्ति करा, उनकी विद्या बढ़ाती है, वैसे ही सब को सब के लिये सुख देकर सब की वृद्धि करनी चाहिये ॥१६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा वयं पूर्वया निविदा दक्षमर्यमणमस्रिधं भगं मित्रमदितिं वरुणं सोममश्विना हूमहे यथा सुभगा सरस्वती नो युष्मभ्यं च मयस्करत्तथा तान् यूयमप्याह्वयत कुरुत च ॥१६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैर्यद्यद्वेद्वोक्तं कर्म तत्तदेवानुष्ठेयं यथा सद्विद्यार्थिनः स्पर्द्धया विद्यां वर्द्धयन्ति, तथैव सर्वैर्विद्या वर्द्धनीया। यथा पूर्णविद्या माता सन्तानान् सुशिक्षया विद्याः प्रापय्य वर्द्धयति, तथैव सर्वैः सुखं दत्त्वा सर्वे वर्द्धनीयाः ॥१६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. वेदात जे जे सांगितले गेले आहे त्याचे माणसांनी अनुष्ठान करावे. जसे चांगले विद्यार्थी दुसऱ्या बरोबर स्पर्धा करून आपली विद्या वाढवितात तशीच सर्वांनी विद्या वाढवावी. पूर्ण विद्या प्राप्त झालेली माता जशी आपल्या संतानांना चांगले शिक्षण देऊन त्यांची विद्या वाढविते, तसेच सर्वांनी सर्वांसाठी सुखाची वृद्धी करावी.
१७ तन्नो वातो
विश्वास-प्रस्तुतिः ...{Loading}...
तन्नो॒ वातो॑ मयो॒भु वा॑तु भेष॒जं तन्मा॒ता पृ॑थि॒वी तत्पि॒ता द्यौः। तद्ग्रावा॑णः सोम॒सुतो॑ मयो॒भुव॒स्तद॑श्विना शृणुतं धिष्ण्या यु॒वम् ॥१७ ॥
मूलम् ...{Loading}...
तन्नो॒ वातो॑ मयो॒भु वा॑तु भेष॒जं तन्मा॒ता पृ॑थि॒वी तत्पि॒ता द्यौः। तद्ग्रावा॑णः सोम॒सुतो॑ मयो॒भुव॒स्तद॑श्विना शृणुतं धिष्ण्या यु॒वम् ॥१७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
तत्। नः॒। वातः॑। म॒यो॒भ्विति॑। मयः॒ऽभु। वा॒तु॒। भे॒ष॒जम्। तत्। मा॒ता। पृ॒थि॒वी। तत्। पि॒ता। द्यौः। तत्। ग्रावा॑णः। सो॒म॒सुत॒ इति॑ सोम॒ऽसुतः॑। म॒यो॒भुव॒ इति॑ मयः॒ऽभुवः॑। तत्। अ॒श्वि॒ना॒। शृ॒णु॒त॒म्। धि॒ष्ण्या॒। यु॒वम्। १७।
महीधरः
म० वयं तं प्रसिद्धमीशानं रुद्रं हूमहे आह्वयामः । कीदृशं तम् । जगतः जंगमस्य तस्थुषः स्थावरस्य च भूतजातस्य पतिं पालकम् । धियंजिन्वं धियं बुद्धिं जिन्वति प्रीणातीति धियंजिन्वस्तम् अलुक् बुद्धिसन्तोषकारकम् । जिन्वतिः प्रीणनार्थः । किमर्थं हूमहे । अवसे अवितुं तर्पयितुम् । तुमर्थे असेप्रत्ययः । यथा येन प्रकारेण पूषा नोऽस्माकं वृधे वृद्ध्यै स्वस्तये कल्याणाय च असत् भवतु तथा हूमहे इत्यर्थः । कीदृशः पूषा । वेदसां धनानां ज्ञानानां वा रक्षिता रक्षकः । पायुः पालकः पुत्रादीनाम् । अदब्धः अनुपहिंसितः ॥ १८ ॥
एकोनविंशी।
अधिमन्त्रम् (VC)
- वायुर्देवता
- गोतम ऋषिः
- भुरिक्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर कौन क्या करे, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अश्विना) पढ़ाने और पढ़ने हारे सज्जनो ! (धिष्ण्या) भूमि के समान धारण करनेवाले (युवम्) तुम दोनों हम लोगों ने जो पढ़ा है, उस को (शृणुतम्) सुनो। जैसे (नः) हम लोगों के लिये (वातः) पवन (तत्) उस (मयोभु) सुख करने हारी (भेषजम्) ओषधि की (वातु) प्राप्ति करे (तत्) उस ओषधि को (माता) मान्य देनेवाली (पृथिवी) विस्तारयुक्त भूमि तथा (तत्) उस को (पिता) पालना का हेतु (द्यौः) सूर्यमण्डल प्राप्त करे तथा (तत्) उस को (सोमसुतः) ओषधि और ऐश्वर्य को उत्पन्न करने और (मयोभुवः) सुख की भावना कराने हारे (ग्रावाणः) मेघ प्राप्त करें (तत्) यह सब व्यवहार तुम्हारे लिये भी होवे ॥१७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जिसकी पृथिवी के समान माता और सूर्य के समान पिता हो, वह सब ओर से कुशली सुखी होकर सब को नीरोग और चतुर करे ॥१७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः का किं कुर्यादित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अश्विना ! धिष्ण्या युवमस्माभिरधीतं शृणुतं यथा नो वातस्तन्मयोभु भेषजं वातु तन्माता पृथिवी तत्पिता द्यौर्वातु तत्सोमसुतो मयोभुवो ग्रावाणो वान्तु तद्युष्मभ्यमप्यस्तु ॥१७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यस्य पृथिवीव माता द्यौरिव पिता भवेत्, स सर्वतः कुशलीभूत्वा सर्वानरोगाञ्चतुरान् कुर्यात्॥१७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्याची माता पृथ्वीप्रमाणे व पिता सूर्याप्रमाणे असेल त्याने सर्व ठिकाणी व्यवहारकुशल असावे व सुखी होऊन सर्वांना निरोगी व चतुर बनवावे.
१८ तमीशानं जगतस्तस्थुषस्पतिम्
विश्वास-प्रस्तुतिः ...{Loading}...
तमीशा॑नं॒ जग॑तस्त॒स्थुष॒स्पतिं॑ धियञ्जि॒न्वमव॑से हूमहे व॒यम्। पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द् वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्धः स्व॒स्तये॑ ॥१८ ॥
मूलम् ...{Loading}...
तमीशा॑नं॒ जग॑तस्त॒स्थुष॒स्पतिं॑ धियञ्जि॒न्वमव॑से हूमहे व॒यम्। पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द् वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्धः स्व॒स्तये॑ ॥१८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
तम्। ईशा॑नम्। जग॑तः। त॒स्थुषः॑। पति॑म्। धि॒यं॒जि॒न्वमिति॑ धियम्ऽजि॒न्वम्। अव॑से। हू॒म॒हे॒। व॒यम्। पू॒षा। नः॒। यथा॑। वेद॑साम्। अस॑त्। वृ॒धे। र॒क्षि॒ता॒। पा॒युः। अद॑ब्धः। स्व॒स्तये॑। १८।
महीधरः
म०. विराट्स्थाना । आद्यौ पादौ नववर्णौ तृतीयो दशकः तुर्यो व्यूहेनैकादशकः ‘नवकौ वैराजस्त्रैष्टुभश्च’ इति वचनात् । इन्द्रः नोऽस्मभ्यं स्वस्ति अविनाशं शुभं दधातु ददातु । कीदृशः । वृद्धश्रवाः वृद्धं महत् श्रवः कीर्तिर्यस्य सः । पूषा नः स्वस्ति ददातु । कीदृशः । विश्ववेदाः विश्वं सर्व वेदो धनं यस्य विश्वं वेत्तीति वा विश्ववेदाः । तार्क्ष्यो रथो गरुडो वा नः स्वस्ति दधातु । कीदृशः । अरिष्टनेमिः अरिष्टा अनुपहिंसिता नेमिश्चक्रधारा पक्षो वा यस्य सः । बृहस्पतिः देवगुरुर्नोऽस्मभ्यं स्वस्ति ददातु ॥ १९ ॥
विंशी।
अधिमन्त्रम् (VC)
- ईश्वरो देवता
- गोतम ऋषिः
- निचृज्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर ईश्वर कैसा है, और किसलिये उपासना के योग्य है, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (वयम्) हम लोग (अवसे) रक्षा आदि के लिये (जगतः) चर और (तस्थुषः) अचर जगत् के (पतिम्) रक्षक (धियञ्जिन्वम्) बुद्धि को तृप्त प्रसन्न वा शुद्ध करनेवाले (तम्) उस अखण्ड (ईशानम्) सब को वश में रखनेवाले सब के स्वामी परमात्मा की (हूमहे) स्तुति करते हैं, वह (यथा) जैसे (नः) हमारे (वेदसाम्) धनों की (वृधे) वृद्धि के लिये (पूषा) पुष्टिकर्त्ता तथा (रक्षिता) रक्षा करने हारा (स्वस्तये) सुख के लिये (पायुः) सब का रक्षक (अदब्धः) नहीं मारनेवाला (असत्) होवे, वैसे तुम लोग भी उस की स्तुति करो और वह तुम्हारे लिये भी रक्षा आदि का करनेवाला होवे ॥१८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सब विद्वान् लोग सब मनुष्यों के प्रति ऐसा उपदेश करें कि जिस सर्वशक्तिमान् निराकार सर्वत्र व्यापक परमेश्वर की उपासना हम लोग करें तथा उसी को सुख और ऐश्वर्य का बढ़ानेवाला जानें, उसी की उपासना तुम लोग भी करो और उसी को सब की उन्नति करनेवाला जानो ॥१८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनरीश्वरः कीदृशः किमर्थ उपासनीय इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्या ! वयमवसे जगतस्तस्थुषस्पतिं धियंजिन्वं तमीशानं हूमहे, स यथा नो वेदसां वृधे पूषा रक्षिता स्वस्तये पायुरदब्धोऽसत्तथा यूयं कुरुत स च युष्मभ्यमप्यस्तु ॥१८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सर्वे विद्वांसः सर्वान् प्रत्येवमुपदिशेयुर्यस्य सर्वशक्तिमतो निराकारस्य सर्वत्र व्यापकस्य परमेश्वरस्योपासनं वयं कुर्मस्तमेव सुखैश्वर्यवर्धकं जानीमस्तस्यैवोपासनं यूयमपि कुरुत तमेव सर्वोन्नतिकरं च विजानीत ॥१८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सर्व विद्वानांनी सर्व माणसांना असा उपदेश करावा की, ज्या सर्व शक्तिमान निराकार सर्वत्र व्यापक परमेश्वराची उपासना आम्ही करतो त्यालाच सुख व ऐश्वर्याची वृद्धी करणारा समजावे. त्याचीच उपासना तुम्ही लोकांनी करावी. सर्वांची उन्नती करणारा तोच आहे, हे जाणावे.
१९ स्वस्ति नऽइन्द्रो
विश्वास-प्रस्तुतिः ...{Loading}...
स्व॒स्ति न॒ऽइन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः। स्व॒स्ति न॒स्तार्क्ष्यो॒ऽअरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥१९ ॥
मूलम् ...{Loading}...
स्व॒स्ति न॒ऽइन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः। स्व॒स्ति न॒स्तार्क्ष्यो॒ऽअरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥१९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स्व॒स्ति। नः॒। इन्द्रः॑। वृ॒द्धश्र॑वा॒ इति॑ वृ॒द्धऽश्र॑वाः। स्व॒स्ति। नः॒। पू॒षा। वि॒श्ववेदा॒ इति॑ वि॒श्वऽवे॑दाः। स्व॒स्ति। नः॒। तार्क्ष्यः॑। अरि॑ष्टनेमि॒रित्यरि॑ष्टऽनेमिः। स्व॒स्ति। नः॒। बृह॒स्पतिः॑। द॒धा॒तु॒। १९।
महीधरः
म० जगती । मरुतो देवाः अवसान्नेन हविर्लक्षणेन हेतुना इह यज्ञे आगमन्नागच्छन्तु । कीदृशा मरुतः । पृषदश्वा पृषत्यः पृषतीसंज्ञा अश्वा वडवा वाहनं येषां ते पृषदश्वाः । पुंवद्भावः ‘पृषत्यो मरुताम्’ इति निघण्टुवचनात् । यद्वा पृषन्तः शबलाः अश्वाः येषां ते पृश्निर्द्यौर्गौर्दितिर्वा माता जननी येषां ते पृश्निमातरः । शुभं कल्याणं यान्ति प्राप्नुवन्ति प्रापयन्ति वा शुभंयावानः ‘आतो मनिन्’ ( पा० ३ । २ । ७४ ) इति वनिप्प्रत्ययः । विदथेषु यज्ञगृहेषु जग्मयः गमनशीलाः ‘आदृगमहन-’ (पा० ३ । २ । १७१) इति किः । अग्निजिह्वाः अग्निर्जिह्वा भोजनसाधनं येषां ते ‘अग्निमुखा वै देवाः’ इति श्रुतेः । हुताद इत्यर्थः । मन्यन्ते जानन्ति मनवः सर्वज्ञाः । सूरः सूर्यश्चक्षः चक्षुः येषां ते सूर्यं चक्षते पश्यन्ति वा सूरचक्षसः । किंच न केवलं मरुतः विश्वे सर्वे देवाः च नोऽस्माकं यज्ञे आगमन्नागच्छन्तु ॥ २० ॥
एकविंशी ।
अधिमन्त्रम् (VC)
- ईश्वरो देवता
- गोतम ऋषिः
- स्वराड्बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को किसकी इच्छा करनी चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (वृद्धश्रवाः) बहुत सुननेवाला (इन्द्रः) परम ऐश्वर्यवान् ईश्वर (नः) हमारे लिये (स्वस्ति) उत्तम सुख जो (विश्ववेदाः) समस्त जगत् में वेद ही जिस का धन है, वह (पूषा) सब का पुष्टि करनेवाला (नः) हम लोगों के लिये (स्वस्ति) सुख जो (तार्क्ष्यः) घोड़े के समान (अरिष्टनेमिः) सुखों की प्राप्ति कराता हुआ (नः) हम लोगों के लिये (स्वस्ति) उत्तम सुख तथा जो (बृहस्पतिः) महत्तत्त्व आदि का स्वामी वा पालना करनेवाला परमेश्वर (नः) हमारे लिये (स्वस्ति) उत्तम सुख को (दधातु) धारण करे, वह तुम्हारे लिये भी सुख को धारण करे ॥१९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि जैसे अपने सुख को चाहें, वैसे और के लिये भी चाहें, जैसे कोई भी अपने लिये दुःख नहीं चाहता, वैसे और के लिये भी न चाहें ॥१९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैः किमेष्टव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यो वृद्धश्रवा इन्द्रो नः स्वस्ति, यो विश्ववेदाः पूषा नः स्वस्ति, यस्तार्क्ष्य इवारिष्टनेमिः सन्नः स्वस्ति, यो बृहस्पतिर्नः स्वस्ति दधातु, स युष्मभ्यमपि सुखं दधातु ॥१९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्यथा स्वार्थे सुखमेष्टव्यं तथाऽन्यार्थमप्येषितव्यं यथा कश्चिदपि स्वार्थे दुःखं नेच्छति तथा परार्थमपि नैषितव्यम् ॥१९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसे जशी स्वतः सुखाची इच्छा करतात तशीच दुसऱ्यासाठीही करावी. जसे स्वतःला दुःख नकोसे वाटते तसे इतरांनाही नकोसे वाटते हे लक्षात घ्यावे.
२० पृषदश्वा मरुतः
विश्वास-प्रस्तुतिः ...{Loading}...
पृष॑दश्वा म॒रुतः॒ पृश्नि॑मातरः शुभं॒ यावा॑नो वि॒दथे॑षु जग्म॑यः। अ॒ग्नि॒जि॒ह्वा मन॑वः॒ सूर॑चक्षसो॒ विश्वे॑ नो दे॒वाऽअव॒साग॑मन्नि॒ह ॥२० ॥
मूलम् ...{Loading}...
पृष॑दश्वा म॒रुतः॒ पृश्नि॑मातरः शुभं॒ यावा॑नो वि॒दथे॑षु जग्म॑यः। अ॒ग्नि॒जि॒ह्वा मन॑वः॒ सूर॑चक्षसो॒ विश्वे॑ नो दे॒वाऽअव॒साग॑मन्नि॒ह ॥२० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पृष॑दश्वा॒ इति॒ पृष॑त्ऽअश्वाः। म॒रुतः॑। पृश्नि॑मातर॒ इति॒ पृश्नि॑ऽमातरः। शु॒भं॒यावा॑न॒ इति॑ शुभ॒म्ऽयावा॑नः। वि॒दथे॑षु जग्म॑यः अ॒ग्नि॒जि॒ह्वा इत्य॑ग्निऽजिह्वाः। मन॑वः। सूर॑चक्षस॒ इति॒ सूर॑ऽचक्षसः। विश्वे॑। नः॒। दे॒वाः। अव॑सा। आ। अ॒ग॒म॒न्। इ॒ह। २०।
महीधरः
म० तिस्रस्त्रिष्टुभः । हे देवाः, कर्णेभिः कर्णैः भद्रं कल्याणमनुकूलं वयं शृणुयाम । हे यजत्राः, यजन्तं त्रायन्ते रक्षन्ति यजत्राः यजमानपालकाः अक्षभिः नेत्रैः भद्रं वयं पश्येम ‘बहुलं छन्दसि’ (पा० ७ । १ । ७६ ) इति हलादौ अक्षिशब्दस्यानङादेशः । किंच देवहितं देवैः स्थापितं देवानां हितं देवोपासनयोग्यं वा यदायुः जीवनं तद्वयं व्यशेमहि व्यश्नुवीमहि प्राप्नुयाम । कीदृशा वयम् । स्थिरैः दृढैरङ्गैः अवयवैः करचरणादिभिः तनूभिः शरीरैश्च पुत्रादिभिर्वा युताः तुष्टुवांसः भवतः स्तुवन्तः सन्तः ॥२१॥
द्वाविंशी।
अधिमन्त्रम् (VC)
- विद्वांसो देवता
- गोतम ऋषिः
- जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर कौन क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (पृश्निमातरः) जिनको मान्य देनेवाला अन्तरिक्ष माता के तुल्य है, उन वायुओं के समान (पृषदश्वाः) जिनके पुष्टि आदि से सींचे अङ्गोंवाले घोड़े हैं, वे (मरुतः) मनुष्य तथा (विदथेषु) संग्रामों में (शुभंयावानः) जो उत्तम सुख को प्राप्त होने और (जग्मयः) सङ्ग करनेवाले (अग्निजिह्वाः) जिनकी अग्नि के समान प्रकाशित वाणी और (सूरचक्षसः) जिन का ऐश्वर्य वा प्रेरणा में दर्शन होवे, ऐसे (विश्वे) समस्त (देवाः) विद्वान् (मनवः) जन (अवसा) रक्षा आदि के साथ वर्त्तमान हैं, वे लोग (इह) इस संसार वा इस समय में (नः) हम लोगों को (आ, अगमन्) प्राप्त होवें ॥२० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को विद्वानों का सङ्ग सदैव प्रार्थना करने योग्य है। जैसे इस जगत् में सब वायु आदि पदार्थ सब मनुष्यों वा प्राणियों के जीवन के हेतु हैं, वैसे इस जगत् में चेतनों में विद्वान् हैं ॥२० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः के किं कुर्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये पृश्निमातर इव पृषदश्वा मरुतो विदथेषु शुभंयावानो जग्मयोऽग्निजिह्वाः सूरचक्षसो विश्वे देवा मनवोऽवसा सह वर्त्तन्ते, त इह नोऽस्मानागमन् ॥२० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैर्विदुषां सङ्गः सदैव प्रार्थनीयो यथाऽस्मिञ्जगति सर्वे वायवः सर्वेषां जीवनहेतवः सन्ति, तथात्र जङ्गमेषु विद्वांसः सन्ति ॥२० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. माणसांनी विद्वानांच्या संगतीने सदैव प्रार्थना करावी. ज्याप्रमाणे वायू वगैरे पदार्थ सर्व माणसे व प्राणी यांच्या जीवनाचे कारण असतात. तसे या जगात चेतन वस्तूमध्ये विद्वान (महत्त्वाचे) असतात.
२१ भद्रं कर्णेभिः
विश्वास-प्रस्तुतिः ...{Loading}...
भ॒द्रं कर्णे॑भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः। स्थि॒रैरङ्गै॑स्तुष्टु॒वाँस॑स्त॒नूभि॒र्व्य᳖शेमहि दे॒वहि॑तं॒ यदायुः॑ ॥२१ ॥
मूलम् ...{Loading}...
भ॒द्रं कर्णे॑भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः। स्थि॒रैरङ्गै॑स्तुष्टु॒वाँस॑स्त॒नूभि॒र्व्य᳖शेमहि दे॒वहि॑तं॒ यदायुः॑ ॥२१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
भ॒द्रम्। कर्णे॑भिः। शृ॒णु॒या॒म॒। दे॒वाः॒। भ॒द्रम्। प॒श्ये॒म॒। अ॒क्षभि॒रित्य॒क्षऽभिः॑। य॒ज॒त्राः॒। स्थि॒रैः। अङ्गैः॑। तु॒ष्टु॒वाँसः॑। तु॒स्तु॒वाँस॒ इति॑ तुस्तु॒ऽवाँसः॑। त॒नूभिः॑। वि। अ॒शे॒म॒हि॒। दे॒वहि॑त॒मिति॑ दे॒वऽहि॑तम्। यत्। आयुः॑। २१।
महीधरः
म० हे देवाः, शतमित् शतमपि शरदो वर्षाणि शतवर्षपर्यन्तं यूयमन्ति अन्तिके समीपे भवतेति शेषः । यत्र शरच्छते नोऽस्माकं तनूनां शरीराणां यूयं जरसं जरां चक्र कुरुथ। करोतेर्लिटि मध्यमबहुवचनम् । ‘द्व्यचोऽतस्तिङः’ (पा० ६ । ३ । १३५) इति चक्रेत्यत्र संहितायां दीर्घः ‘निपातस्य च’ (पा० ६ । ३ । १३६ ) इति यत्रेत्यत्र दीर्घः । वार्धकावधि यूयं समीपे भवतेत्यर्थः । यत्रास्माकं जरायां पुत्रासोऽस्मत्पुत्राः पितरो भवन्ति पुत्रवन्तो भवन्ति । यावदस्माकं पौत्रा भवन्तीत्यर्थः । तावत् मध्या मध्ये नोऽस्माकमायुर्मा रीरिषत मा हिंसिष्ट । रिषतेर्हिंसार्थस्य णिजन्तस्य चङि रूपम् । कीदृशमायुः । गन्तोः गन्तृ गमनशीलम् । तदुक्तम् ‘संचिन्त्य संचिन्त्य तमुग्रदण्डं मृत्युं मनुष्यस्य विचक्षणस्य । वर्षासु सिक्ता इव चर्मबन्धाः सर्वे प्रयत्नाः शिथिलीभवन्ति’ इति ॥ २२ ॥
त्रयोविंशी।
अधिमन्त्रम् (VC)
- विद्वांसो देवता
- गोतम ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (यजत्राः) सङ्ग करनेवाले (देवाः) विद्वानो ! आप लोगों के साथ से हम (कर्णेभिः) कानों से (भद्रम्) जिस से सत्यता जानी जावे, उस वचन को (शृणुयाम) सुनें (अक्षभिः) आँखों से (भद्रम्) कल्याण को (पश्येम) देखें (स्थिरैः) दृढ़ (अङ्गैः) अवयवों से (तुष्टुवांसः) स्तुति करते हुए (तनूभिः) शरीरों से (यत्) जो (देवहितम्) विद्वानों के लिये सुख करने हारी (आयुः) अवस्था है, उस को (वि, अशेमहि) अच्छे प्रकार प्राप्त हों ॥२१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य विद्वानों के साथ से विद्वान् होकर सत्य सुनें, सत्य देखें और जगदीश्वर की स्तुति करें तो वे बहुत अवस्थावाले हों। मनुष्यों को चाहिये कि असत्य का सुनना, खोटा देखना, झूठी स्तुति, प्रार्थना, प्रशंसा और व्यभिचार कभी न करें ॥२१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैः किं कर्त्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे यजत्रा देवा विद्वांसो ! भवत्सङ्गेन वयं कर्णेभिर्भद्रं शृणुयामाक्षभिर्भद्रं पश्येम स्थिरैरङ्गैस्तुष्टुवांसः सन्तस्तूनभिर्यद्देवहितमायुस्तद् व्यशेमहि ॥२१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदि मनुष्या विद्वत्सङ्गे विद्वांसो भूत्वा सत्यं शृणुयुः सत्यं पश्येयुर्जगदीश्वरं स्तुयुस्तर्हि ते दीर्घायुषो भवेयुः। मनुष्यैरसत्यश्रवणं कुदर्शनं मिथ्यास्तुतिर्व्यभिचारश्च कदापि नैव कर्त्तव्यः ॥२१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे विद्वानांबरोबर विद्वान होऊन सत्य ऐकतात, पाहतात व जगदीश्वराची स्तुती करतात ती पुष्कळ वर्षे जगतात. माणसांनी असत्य ऐकणे, पाहणे, खोटी स्तुती, प्रार्थना प्रशंसा व व्यभिचार कधी करू नये.
२२ शतमिन्नु शरदोऽअन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
श॒तमिन्नु श॒रदो॒ऽअन्ति॑ देवा॒ यत्रा॑ नश्च॒क्रा ज॒रसं॑ त॒नूना॑म्। पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव॑न्ति॒ मा नो॑ म॒ध्या री॑रिष॒तायु॒र्गन्तोः॑ ॥२२ ॥
मूलम् ...{Loading}...
श॒तमिन्नु श॒रदो॒ऽअन्ति॑ देवा॒ यत्रा॑ नश्च॒क्रा ज॒रसं॑ त॒नूना॑म्। पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव॑न्ति॒ मा नो॑ म॒ध्या री॑रिष॒तायु॒र्गन्तोः॑ ॥२२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
श॒तम्। इत्। नु। श॒रदः॑। अन्ति॑। दे॒वाः॒। यत्र॑। नः॒। च॒क्र। ज॒रस॑म्। त॒नूना॑म्। पु॒त्रासः॑। यत्र॑। पि॒तरः॑। भव॑न्ति। मा। नः॒। म॒ध्या। री॒रि॒ष॒त॒। रि॒रि॒ष॒तेति॑ रिरिषत। आयुः॑। गन्तोः॑। २२।
महीधरः
म० मन्त्रदृक् सर्वात्मकत्वेनादितिं स्तौति । द्यौः स्वर्गोऽदितिः तदधिष्ठातृत्वात् । एवमग्रेऽपि । अन्तरिक्षमदितिः माता पुत्रश्च सः सादितिरेव लिङ्गव्यत्ययः । विश्वे सर्वे देवाः अदितिः। पञ्चजनाः मनुष्या अप्यदितिः । किं बहुना जातमुत्पन्नं प्राणिजातं जनित्वं जनिष्यमाणं च सर्वमदितिरेव । यद्वाऽदितिर्मन्त्रेण नोच्यते द्योरित्यादीनि सर्वाणि जनित्वान्तानि अदितिः अदितीनि अदीनानि महाभाग्ययुक्तानि सन्तु ॥ २३ ॥
चतुर्विंशी।
अधिमन्त्रम् (VC)
- विद्वांसो देवता
- गोतम ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर हमारे लिये कौन क्या करें? इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (देवाः) विद्वानो ! आप के (अन्ति) समीप स्थित (नः) हम लोगों के (यत्र) जिस व्यवहार में (तनूनाम्) शरीरों की (जरसम्) वृद्धावस्था और (शतम्) सौ (शरदः) वर्ष पूरे हों, उस व्यवहार को (नु) शीघ्र (चक्र) करो (यत्र) जहाँ (पुत्रासः) बुढ़ापे के दुःखों से रक्षा करनेवाले लड़के (इत्) ही (पितरः) पिता के समान वर्त्तमान (भवन्ति) होते हैं, उस (नः) हम लोगों की (गन्तोः) चाल और (आयुः) अवस्था को (मध्या) पूरी अवस्था भोगने के बीच (मा, रीरिषत) मत नष्ट करो ॥२२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को सदा दीर्घ काल अर्थात् अड़तालीस वर्ष प्रमाणे ब्रह्मचर्य सेवना चाहिये। जिससे पिता आदि के विद्यमान होते ही लड़के भी पिता हो जावें अर्थात् उनके भी लड़के हो जावें और जब सौ वर्ष आयु बीते तभी शरीरों की वृद्धावस्था होवे। जो ब्रह्मचर्य के साथ कम से कम पच्चीस वर्ष व्यतीत होवें, उससे पीछे भी अतिमैथुन करके जो लोग वीर्य का नाश करते हैं तो वे रोगसहित निर्बुद्धि होके अधिक अवस्थावाले कभी नहीं होते ॥२२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनरस्मदर्थं के किं कुर्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे देवा ! भवदन्ति स्थितानां नोऽस्माकं यत्र तनूनां जरसं शतं शरदः स्युस्तन्नु चक्र। यत्र पुत्रास इत्पितरो भवन्ति तन्नो गन्तोरायुर्मध्या मा रीरिषत ॥२२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्दीर्घमष्टचत्वारिंशद्वर्षपरिमितं ब्रह्मचर्यं सदा सेवनीयम्। येन पितृषु विद्यमानेषु पुत्रा अपि पितरो भवेयुः। यदा शतवार्षिकमायुर्व्यतीयात्तदैव शरीराणां जराऽवस्था भवेत्। यदि ब्रह्मचर्येण सह न्यूनान्न्यूनानि पञ्चविंशतिर्वर्षाणि व्यतीतानि स्युस्ततः पश्चादप्यतिमैथुनेन ये वीर्यक्षयं कुर्वन्ति, तर्हि ते सरोगा निर्बुद्धयो भूत्वा दीर्घायुषः कदापि न भवन्ति ॥२२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी दीर्घकाळ म्हणजे अट्टेचाळीस वर्षे ब्रह्मचर्य पाळावे. ज्यामुळे पिता इत्यादी जिवंत असेपर्यंत पुत्र ही पिता बनावा. अर्थात् त्यांनाही मुले व्हावीत. शंभर वर्षे वय झाल्यास वृद्धावस्था समजावी. जे कमीत कमी पंचवीस वर्षे ब्रह्मचर्य पाळतात व नंतरही अतिमैथुन करून वीर्याचा नाश करतात ते रोगी आणि निर्बुद्ध बनतात व अधिक काळ जगू शकत नाहीत.
२३ अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स
विश्वास-प्रस्तुतिः ...{Loading}...
अदि॑ति॒र्द्यौरदितिर॒न्तरि॑क्ष॒मदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः। विश्वे॑ दे॒वाऽअदि॑तिः॒ पञ्च॒ जना॒ऽअदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम् ॥२३ ॥
मूलम् ...{Loading}...
अदि॑ति॒र्द्यौरदितिर॒न्तरि॑क्ष॒मदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः। विश्वे॑ दे॒वाऽअदि॑तिः॒ पञ्च॒ जना॒ऽअदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम् ॥२३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अदि॑तिः। द्यौः। अदि॑तिः। अ॒न्तरि॑क्षम्। अदि॑तिः। मा॒ता। सः। पि॒ता। सः। पु॒त्रः। विश्वे॑। दे॒वाः। अदि॑तिः। पञ्च॑। जनाः॑। अदि॑तिः। जा॒तम्। अदि॑तिः। जनि॑त्व॒मिति॒ जनि॑ऽत्वम्। २३।
महीधरः
म० मा नो मित्र इति च प्रत्यृचमनुवाकाभ्याम्’ (का० २०। ८ । ७) । मा न इत्यादिषोडशकण्डिकात्मकेनानुवाकद्वयेन पूर्ववच्चतुर्ग्रहीतमाज्यं गृहीत्वा जुहोति । मा नो यदश्वस्याष्टकावित्युक्तेः ‘षोडशाश्वस्तोमीया जुहोति’ इति श्रुतेश्च । द्वाविंशतिर्ऋचोऽश्वस्तुतिपरत्वादश्वदेवत्यास्त्रिष्टुभो दीर्घतमोदृष्टाः अत्र एष छाग (२६) इति तृतीया यूपव्रस्का ( २९) इति षष्ठी, एते द्वे जगत्यौ । ततः षोडशभिर्होमः षड्भिः स्तुतिः सर्वाभिर्वा होमः ‘अश्वस्तोमीयᳪं᳭ हुत्वा द्विपदा जुहोति’ इति श्रुतेः । अथ मन्त्रार्थः । विदथे यज्ञे वाजिनोऽश्वस्य वीर्याणि चरित्राणि यत् वयं प्रवक्ष्यामः उच्चारयिष्यामः तत्र मित्रादयो देवा नोऽस्मान्मा परिख्यन् मा निन्दन्तु । परिख्यानं निन्दा ‘अस्यतिवक्तिख्यातिभ्योऽङ्’ (पा० ३ । १ । ५२) च्लेरङ् ‘न माङ्योगे’ (पा० ६ । ४ । ७४) इत्यडभावः । अस्माभिर्देवाः स्तुता न त्वश्वादयस्तिर्यञ्च इति यद्यपि निन्दोचिता तथाप्यश्वरूपेण देवानामेव स्तुतिः क्रियते । कीदृशस्य वाजिनः॥ देवजातस्य देवात्सूर्याज्जातस्योत्पन्नस्य देवैर्जनितस्य वा ‘सूरादश्वं वसवो निरतष्ट’ ( २९ । १३ ) इत्युक्तेः । सप्तेः ‘सप संबन्धे’ सपति देवैः सह युज्यत इति सप्तिस्तस्य । के मा निन्दन्तु तानाह । मित्रः अहरभिमानी देवः । वरुणः रात्र्यभिमानी देवः । अर्यमा आदित्यः । आयुः एति सततं गच्छतीति आयुर्वायुः । इन्द्रः देवराजः । ऋभुक्षाः ऋभवो देवाः क्षियन्ति निवसन्ति यस्मिन् स ऋभुक्षाः देवाधारः प्रजापतिः । यद्वा इयर्ति व्याप्नोति सर्वमिति ऋभुक्षाः अर्तेर्भुक्षिन्प्रत्ययः ‘पथिमथ्यृभुक्षामात्’ (पा. ७ । १।८५) इति सावाकारः । इन्द्रविशेषणं वा ॥ २४ ॥
पञ्चविंशी।
अधिमन्त्रम् (VC)
- द्यौरित्यादयो देवताः
- प्रजापतिर्ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब अदिति शब्द के अनेक अर्थ हैं, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम को (द्यौः) कारणरूप से जो प्रकाश वह (अदितिः) अखण्डित (अन्तरिक्षम्) अन्तरिक्ष (अदितिः) अविनाशी (माता) सब जगत् की उत्पन्न करनेवाली प्रकृति (सः) वह परमेश्वर (पिता) नित्य पालन करने हारा और (सः) वह (पुत्रः) ईश्वर के पुत्र के समान वर्त्तमान (अदितिः) कारणरूप से अविनाशी संसार (विश्वे) समस्त (देवाः) दिव्यगुणवाले पृथिवी आदि पदार्थ (अदितिः) कारणरूप से विनाशरहित (पञ्च) पाँच (जनाः) मनुष्य वा प्राण (अदितिः) कारणरूप से अविनाशी तथा (जातम्) जो कुछ उत्पन्न हुआ कार्यरूप जगत् और (जनित्वम्) जो उत्पन्न होनेवाला वह सब (अदितिः) कारणरूप से नित्य है, यह जानना चाहिये ॥२३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! आप लोग जितने कुछ कार्यरूप जगत् को देखते हो, वह अदृष्ट कारण रूप जानो जगत् का बनानेवाला परमात्मा, जीव, पृथिवी आदि तत्त्व जो उत्पन्न हुआ वा जो होगा और जो प्रकृति वह सब स्वरूप से नित्य है, कभी इस का अभाव नहीं होता और यह भी जानना चाहिये कि अभाव से भाव की उत्पत्ति कभी नहीं होती ॥२३ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथादितिशब्दस्यानेकाऽर्था सन्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! युष्माभिर्द्यौदितिरन्तरिक्षमदितिर्माता स पिता सा पुत्रश्चादितिर्विश्वे देवा अदितिः पञ्च जना अदितिर्जातञ्जनित्वञ्चादितिरस्तीति वेद्यम् ॥२३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्या ! भवन्तो यत्किंचित्कार्यं जगत्पश्यन्ति, तददृष्टकारणं विजानन्तु। जगन्निर्मातारं परमात्मानं जीवं पृथिव्यादीनि तत्त्वानि यज्जातं यच्च जनिष्यते या च प्रकृतिस्तत्सर्वं स्वरूपेण नित्यमस्ति, न कदाप्यस्याभावो भवति, न चाऽभावाद् भावोत्पत्तिर्भवतीति विज्ञेयम् ॥२३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! जेवढे कार्य जगात तुम्ही पाहात आहात त्याचे अदृश्य कारणरूप जाणा. जगाचा निर्माता परमेश्वर, जीव, प्रकृती (पृथ्वी इत्यादी तत्त्व जे उत्पन्न झाले व होईल) स्वरूपाने नित्य आहेत त्यांचा कधी अभाव होत नाही व अभावाने भावाची कधी उत्पत्ती होत नाही हे ही जाणा.
२४ मा नो
विश्वास-प्रस्तुतिः ...{Loading}...
मा नो॑ मि॒त्रो वरु॑णोऽअर्य॒मायुरिन्द्र॑ऽऋभु॒क्षा म॒रुतः॒ परि॑ख्यन्। यद्वा॒जिनो॑ दे॒वजा॑तस्य॒ सप्तेः॑ प्रव॒क्ष्यामो॑ वि॒दथे॑ वी॒र्या᳖णि ॥२४ ॥
मूलम् ...{Loading}...
मा नो॑ मि॒त्रो वरु॑णोऽअर्य॒मायुरिन्द्र॑ऽऋभु॒क्षा म॒रुतः॒ परि॑ख्यन्। यद्वा॒जिनो॑ दे॒वजा॑तस्य॒ सप्तेः॑ प्रव॒क्ष्यामो॑ वि॒दथे॑ वी॒र्या᳖णि ॥२४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मा। नः॒। मि॒त्रः। वरु॑णः। अ॒र्य॒मा। आ॒युः। इन्द्रः॑। ऋ॒भु॒क्षाः। म॒रुतः॑। परि॑ऽख्यन्। यत्। वा॒जिनः॑। दे॒वजा॑त॒स्येति॑ दे॒वऽजा॑तस्य। सप्तेः॑। प्र॒व॒क्ष्याम॒ इति॑ प्रऽव॒क्ष्यामः॑। वि॒दथे॑। वी॒र्या᳖णि। २४।
महीधरः
म० यत् यदा विप्रा अश्वस्य मुखतो मुखाग्रे गृभीतां गृहीतां रातिं दानमाज्यसक्तुधानालक्षणं नयन्ति प्रापयन्ति ‘अश्वाय रात्रिहुतशेषं प्रयच्छति’ इत्युक्तेः । तदा अजः छागः अप्येति भक्षणायागच्छति । कीदृशोऽजः । सुप्राङ् सुष्ठु प्राञ्चति पूर्व गच्छतीति सुप्राङ् । ललाटे बद्ध इत्यर्थः । ‘कृष्णग्रीव आग्नेयो ललाटे पुरस्तात्’ ( २४ । १) इत्युक्तेः । तथा मेम्यत् शब्दानुकरणम् । मे मे इति शब्दं कुर्वन् । विश्वरूपः विश्वानि रूपाणि यस्य । नानावर्ण इत्यर्थः । किंच इन्द्रापूष्णोः इन्द्रश्च पूषा च इन्द्रपूषणौ तयोः ‘देवताद्वन्द्वे च’ (पा० ६ । ३ । २६) इतीन्द्रपदस्य दीर्घः । इन्द्रस्य पूष्णश्च प्रियमिष्टं पाथोऽन्नं पशुलक्षणं तदप्येति भक्षाय नाभिबद्धोऽप्यागच्छति ‘सौमापौष्णः श्यामो नाभ्याम्’ (२४ । १) इत्युक्तेः । हुतशेषमन्नं यद्यश्वाय दीयते तदा ललाटनाभिबद्धावजौ भक्षायागच्छत इत्यर्थः । कीदृशस्याश्वस्य । निर्णिजा निर्णेजनेन स्नानेन प्रावृतस्य संस्कृतस्य । आलम्भनकाले स्नापितस्य निर्णेजनं निर्णिक् तया । निजतेः संपदादित्वाद्भावे क्विप् । तथा रेक्णसा प्रावृतस्य आच्छादितस्य । रेक्ण इति धननाम । धनेन सौवर्णमणिलक्षणेन प्रावृतस्य अश्वस्य सौवर्णान्मणीन् केसरपुच्छेषु पत्न्य आवपन्तीत्युक्तेः ॥ २५ ॥
षड्विंशी।
अधिमन्त्रम् (VC)
- मित्रादयो देवताः
- गोतम ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर कौन हम लोगों के किस काम को न करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वानो ! जैसे (मित्रः) प्राण के समान मित्र (वरुणः) उदान के समान श्रेष्ठ (अर्यमा) और न्यायाधीश के समान नियम करनेवाला (इन्द्रः) राजा तथा (ऋभुक्षाः) महात्मा (मरुतः) जन (नः) हम लोगों की (आयुः) आयुर्दा को (मा) मत (परिख्यन्) विनाश करावें, जिस से हम लोग (देवजातस्य) दिव्यगुणों से प्रसिद्ध (वाजिनः) वेगवान् (सप्तेः) घोड़ा के समान उत्तम वीर पुरुष के (विदथे) युद्ध में (यत्) जिन (वीर्याणि) बलों को (प्रवक्ष्यामः) कहें, उन का मत विनाश करावें, वैसा आप लोग उपदेश करें ॥२४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे सब मनुष्य अपने बलों को बढ़ाना चाहें, वैसे औरों के भी बल को बढ़ाने की इच्छा करें ॥२४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः केऽस्माकं किन्न कुर्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वांसोः यथा मित्रो वरुणोऽर्यमेन्द्रश्च ऋभुक्षा मरुतो न आयुर्मा परिख्यन्। येन वयं देवजातस्य वाजिनः सप्तेरिव विदथे यद्वीर्याणि प्रवक्ष्यामस्तानि मा परिख्यन्। तथा यूयमुपदिशत ॥२४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा सर्वे मनुष्याः स्वेषां बलानि वर्द्धयितुमिच्छेयुस्तथैवान्येषामपि वर्द्धयितुमिच्छन्तु ॥२४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जशी सर्व माणसे आपली शक्ती वाढवू इच्छितात तसे इतरांच्या शक्तीलाही वाढविण्याची इच्छा धरावी.
२५ यन्निर्णिजा रेक्णसा
विश्वास-प्रस्तुतिः ...{Loading}...
यन्नि॒र्णिजा॒ रेक्ण॑सा॒ प्रावृ॑तस्य रा॒तिं गृ॑भी॒तां मु॑ख॒तो नय॑न्ति। सुप्रा॑ङ॒जो मेम्य॑द्वि॒श्वरू॑पऽइन्द्रापू॒ष्णोः प्रि॒यमप्ये॑ति॒ पाथः॑ ॥२५ ॥
मूलम् ...{Loading}...
यन्नि॒र्णिजा॒ रेक्ण॑सा॒ प्रावृ॑तस्य रा॒तिं गृ॑भी॒तां मु॑ख॒तो नय॑न्ति। सुप्रा॑ङ॒जो मेम्य॑द्वि॒श्वरू॑पऽइन्द्रापू॒ष्णोः प्रि॒यमप्ये॑ति॒ पाथः॑ ॥२५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यत्। नि॒र्णिजा॑। नि॒र्निजेति॑ निः॒ऽनिजा॑। रेक्ण॑सा। प्रावृ॑तस्य। रा॒तिम्। गृ॒भी॒ताम्। मु॒ख॒तः। नय॑न्ति। सुप्रा॒ङिति॒। सुऽप्रा॑ङ्। अ॒जः। मेम्य॑त्। वि॒श्वरू॑प॒ इति॑ विश्वरू॑पः। इ॒न्द्रा॒पू॒ष्णोः। प्रि॒यम्। अपि॑। ए॒ति। पाथः॑। २५।
महीधरः
म० यत् यदा एषः छागोऽजः वाजिना वेगवताश्वेन पुरः पुरस्तात् नीयते प्राप्यते ललाटबद्धत्वात् । कीदृशः छागः । पूष्णो भागः पुष्णाति देवानिति पूषाग्निस्तस्य भागः भजनीयः ‘आग्नेयो रराटे’ (२४।१) इत्युक्तत्वात्। तथा विश्वदेव्यः विश्वेभ्यो देवेभ्यो हितः सर्वदेवार्हः अग्नेः सर्वदेवात्मकत्वात् । तदा त्वष्टा इत् त्वष्टैव प्रजापतिरेव अर्वता अश्वेन सह एनं छागं जिन्वति प्रीणाति । किमर्थम् । सौश्रवसाय शोभनं श्रवः कीर्तिर्यस्य सः सुश्रवास्तस्य भावः सौश्रवसं तस्मै सुकीर्तये यज्ञे मृतानां स्वर्गाप्तेरुक्तत्वात् । किंभूतमेनम् । अभिप्रियं अभिप्रीणातीति तम् समन्ताद्देवानां प्रीणयितारम् । पुरोडाशं पुरोडाश्यन्ते ददति एनं स पुरोडाशः तं पुरस्ताद्दातव्यम् ॥ २६ ॥
सप्तविंशी।
अधिमन्त्रम् (VC)
- विद्वांसो देवता
- गोतम ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्य क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यत्) जो मनुष्य (निर्णिजा) सुन्दररूप और (रेक्णसा) धन से (प्रावृतस्य) युक्त जन की (रातिम्) देनी वा (गृभीताम्) ली हुई वस्तु को (मुखतः) आगे से (नयन्ति) प्राप्त कराते तथा जो (मेम्यत्) प्राप्त होता हुआ (सुप्राङ्) अच्छे प्रकार पूछनेवाला (विश्वरूपः) संसार जिस का रूप वह (अजः) जन्म और मरण आदि दोषों से रहित अविनाशी जीव (इन्द्रापूष्णोः) बिजुली और पवन सम्बन्धी (प्रियम्) मनोहर (पाथः) अन्न को (अप्येति) सब ओर से पाता है, वे मनुष्य और वह जीव सब आनन्द को प्राप्त होते हैं ॥२५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य धन को पाकर अच्छे कामों में खर्च करते हैं, वे सब कामनाओं को पाते हैं ॥२५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुर्नमनुष्याः किं कुर्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यन्मनुष्या निर्णिजा रेक्णसा प्रावृतस्य रातिं गृभीतां सतीं मुखतो नयन्ति, यो मेम्यत्सुप्राङ् विश्वरूपोऽज इन्द्रापूष्णोः प्रियं पाथोऽप्येति ते स च सुखमाप्नुवन्ति ॥२५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये धनं प्राप्य सत्कर्मसु व्ययं कुर्वन्ति ते सर्वान् कामानाप्नुवन्ति ॥२५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे धन प्राप्त करून चांगल्या कामात खर्च करतात. त्यांच्या सर्व कामना पूर्ण होतात.
२६ एष छागः
विश्वास-प्रस्तुतिः ...{Loading}...
ए॒ष छागः॑ पु॒रोऽअश्वे॑न वा॒जिना॑ पू॒ष्णो भा॒गो नी॑यते वि॒श्वदे॑व्यः। अ॒भि॒प्रियं॒ यत्पु॑रो॒डाश॒मर्व॑ता॒ त्वष्टेदे॑नँ सौश्रव॒साय॑ जिन्वति ॥२६ ॥
मूलम् ...{Loading}...
ए॒ष छागः॑ पु॒रोऽअश्वे॑न वा॒जिना॑ पू॒ष्णो भा॒गो नी॑यते वि॒श्वदे॑व्यः। अ॒भि॒प्रियं॒ यत्पु॑रो॒डाश॒मर्व॑ता॒ त्वष्टेदे॑नँ सौश्रव॒साय॑ जिन्वति ॥२६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ए॒षः। छागः॑। पु॒रः। अश्वे॑न। वा॒जिना॑। पू॒ष्णः। भा॒गः। नी॒य॒ते॒। वि॒श्वदे॑व्य॒ इति॑ वि॒श्वऽदे॑व्यः॒। अ॒भि॒प्रिय॒मित्य॑भि॒ऽप्रिय॑म्। यत्। पु॒रो॒डाश॑म्। अर्व॑ता। त्वष्टा॑। इत्। ए॒नम्। सौ॒श्र॒व॒साय॑। जि॒न्व॒ति॒। २६।
महीधरः
म० मानुषा मनुष्या ऋत्विजो यत् यदा अश्वं त्रिः परिणयन्ति वारत्रयं पर्यग्निकुर्वन्ति । कीदृशमश्वम् । हविष्यं हविषे हितं हविर्योग्यम् । ऋतुशः ऋतौ ऋतौ यज्ञकाले देवयानं देवानां प्रापणीयं देवेषु यानं गमनं यस्य तम् , देवयानमार्गगामिनं वा । यद्वा देववदादित्यवद्यानं गतिर्यस्य । अनिवारितगतिमित्यर्थः । अत्रास्मिन्समये पर्यग्निकरणकाले पूष्णः पोषकस्य वृद्धस्य वाग्नेर्भागोऽजः प्रथमः पुरोगामी सन् एति गच्छति । किं कुर्वन् । देवेभ्यः यज्ञं प्रतिवेदयन्प्रख्यापयन् स्वशब्देन ज्ञापयन् । ‘पूष वृद्धौ’ पूषति वर्धते पूषाग्निः ॥२७॥
अष्टाविंशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- गोतम ऋषिः
- निचृज्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर किस के साथ कौन पालना करने योग्य हैं, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - विद्वानों को चाहिये कि जो (एषः) यह (पुरः) प्रथम (विश्वदेव्यः) सब विद्वानों में उत्तम (पूष्णः) पुष्टि करनेवाले का (भागः) सेवने योग्य (छागः) पदार्थों को छिन्न-भिन्न करता हुआ प्राणी (वाजिना) वेगवान् (अश्वेन) घोड़े के साथ (नीयते) प्राप्त किया जाता और (यत्) जिस (अभिप्रियम्) सब ओर से मनोहर (पुरोडाशम्) पुरोडाश नामक यज्ञभाग को (अर्वता) पहुँचाते हुए घोड़े के साथ (त्वष्टा) पदार्थों को सूक्ष्म करनेवाला (एनम्) उक्त भाग को (सौश्रवसाय) उत्तम कीर्तिमान् होने के लिये (इत्) ही (जिन्वति) पाकर प्रसन्न होता है, वह सदैव पालने योग्य है ॥२६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यदि अश्वादिकों के साथ अन्य बकरी आदि पशुओं को बढ़ावें तो वे मनुष्य सुख की उन्नति करें ॥२६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः केन सह के पालनीया इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - विद्वद्भिर्य एष पुरो विश्वदेव्यः पूष्णो भागश्छागो वाजिनाऽश्वेन सह नीयते, यदभिप्रियं पुरोडाशमर्वता सह त्वष्टैनं सौश्रवसायेज्जिन्वति स सदा पालनीयः ॥२६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यद्यश्वादिभिः सहान्यानजादीन् पशून् वर्धयेयुस्तर्हि ते मनुष्याः सुखमुन्नयेयुः ॥२६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जर अश्व वगैरे बरोबर शेळी इत्यादी इतर पशूंना बाळगले तर ती माणसे सुख वाढवितात.
२७ यद्धविष्यमृतुशो देवयानम्
विश्वास-प्रस्तुतिः ...{Loading}...
यद्ध॑वि॒ष्य᳖मृतु॒शो दे॑व॒यानं॒ त्रिर्मानु॑षाः॒ पर्यश्वं॒ नय॑न्ति। अत्रा॑ पू॒ष्णः प्र॑थ॒मो भा॒गऽए॑ति य॒ज्ञं दे॒वेभ्यः॑ प्रतिवे॒दय॑न्न॒जः ॥२७ ॥
मूलम् ...{Loading}...
यद्ध॑वि॒ष्य᳖मृतु॒शो दे॑व॒यानं॒ त्रिर्मानु॑षाः॒ पर्यश्वं॒ नय॑न्ति। अत्रा॑ पू॒ष्णः प्र॑थ॒मो भा॒गऽए॑ति य॒ज्ञं दे॒वेभ्यः॑ प्रतिवे॒दय॑न्न॒जः ॥२७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यत्। ह॒वि॒ष्य᳖म्। ऋ॒तु॒श इत्यृ॑तु॒ऽशः। दे॒व॒यान॒मिति॑ देव॒ऽयान॑म्। त्रिः। मानु॑षाः। परि॑। अश्व॑म्। नय॑न्ति। अत्र॑। पू॒ष्णः। प्र॒थ॒मः। भा॒गः। ए॒ति॒। य॒ज्ञम्। दे॒वेभ्यः॑। प्र॒ति॒वे॒दय॒न्निति॑ प्रतिऽवे॒दय॑न्। अ॒जः। २७।
महीधरः
म० हे होत्रादय ऋत्विजः, तेन प्रसिद्धेन यज्ञेनाश्वमेधेन वक्षणाः नदीः घृतकुल्याद्याः आपृणध्वं घृतपयोदधिपयस्यापुरोडाशमांसैः पूरयत । वहन्तीति वक्षणाः । यज्ञं संपाद्य फलं साधयतेत्यर्थः । कीदृशेन यज्ञेन । स्वलंकृतेन रलयोरैक्यम् । सुष्ठु अलंकृतेन विप्रहविर्दक्षिणादिभिः शोभितेन । स्विष्टेन सुष्ठु इष्टेन । के ऋत्विजस्तानाह । होता आह्वाता देवानां तन्नामक ऋत्विक् । अध्वर्युः अध्वरमिच्छति अध्वर्यति ‘सुप आत्मनः क्यच्’ ‘कव्यध्वरपृतनस्यर्चि लोपः’ (पा० ७।४।३९) इति टिलोपः ततः ‘क्याच्छन्दसि’ (पा० ३।२।१७० ) इत्युप्रत्ययः । आवयाः आभिमुख्येनावयजतीत्यावयाः श्वेतवाहोक्थशासेति उस् । आवयाः प्रतिप्रस्थाता ‘अवे यजः’ (पा० । ३।२।७२) इति ण्विन् अवाप्योरिति अवस्याल्लोपः । अग्निमिन्धः अग्निमिन्धे दीपयति अग्निमिन्धः अग्नीत् ‘भाष्ट्राग्न्योरिन्धे’ (पा०।६।३ । ७० ) इति मुम् । ग्रावग्राभः ग्राव्णो | गृह्णाति स्तौति ग्रावग्राभः । कर्मण्यण् हस्य भः ग्रावस्तोता। उतापि शंस्ता शंसति स्तौति शंस्ता प्रशास्ता । सुविप्रः शोभनो विप्रो मेधावी सुविप्रो ब्रह्मा ‘ब्रह्मा सर्वविद्यः सर्वं वेदितुमर्हति’ इत्युक्तेः । अयमनुक्तर्त्विगुपलक्षकः । एते यज्ञेन वक्षणाः पृणध्वमिति संबन्धः ॥ २८ ॥
एकोनत्रिंशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- प्रजापतिर्ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर किससे कौन क्या करते हैं, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यत्) जो (मानुषाः) मनुष्य (ऋतुशः) ऋतु-ऋतु के योग्य (हविष्यम्) होम में चढ़ाने के पदार्थों के लिये हितकारी (देवयानम्) दिव्य गुणवाले विद्वानों की प्राप्ति कराने हारे (अश्वम्) शीघ्रगामी प्राणी की (त्रिः) तीन वार (परि, नयन्ति) सब ओर पहुँचाते हैं वा जो (अत्र) इस संसार में (पूष्णः) पुष्टिसम्बन्धी (प्रथमः) प्रथम (भागः) सेवने योग्य (देवेभ्यः) विद्वानों के लिये (यज्ञम्) सत्कार को (प्रतिवेदयन्) जनाता हुआ (अजः) विशेष पशु बकरा (एति) प्राप्त होता है, वह सदा रक्षा करने योग्य है ॥२६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य ऋतु-ऋतु के प्रति उनके गुणों के अनुकूल आहार विहारों को करते तथा घोड़ा और बकरा आदि पशुओं से सङ्गत हुए कामों को करते हैं, वे अत्यन्त सुख को पाते हैं ॥२७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः केन के किं कुर्वन्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यद्ये मानुषा ऋतुशो हविष्यं देवयानमश्वं त्रिः परिनयन्ति योऽत्र पूष्णः प्रथमो भागो देवेभ्यो यज्ञं प्रतिवेदयन्नज एति स सदा रक्षणीयः ॥२७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये प्रत्यृत्वाहारविहारान् कुर्वन्त्यश्वाजादिपशुभ्यः सङ्गतानि कार्याणि कुर्वन्ति, तेऽत्यन्तं सुखं लभन्ते ॥२७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे ऋतुंचे गुणधर्म जाणून त्यानुसार आहार-विहार करतात व घोडे, बकरे इत्यादी पशू बाळगून कार्य करतात ते अत्यंत सुख प्राप्त करतात.
२८ होताध्वर्युरावयाऽअग्निमिन्धो ग्रावग्राभऽउत
विश्वास-प्रस्तुतिः ...{Loading}...
होता॑ध्व॒र्युराव॑याऽअग्निमि॒न्धो ग्रा॑वग्रा॒भऽउ॒त शँस्ता॒ सुवि॑प्रः। तेन॑ य॒ज्ञेन॒ स्व᳖रङ्कृतेन॒ स्वि᳖ष्टेन व॒क्षणा॒ऽआ पृ॑णध्वम् ॥२८ ॥
मूलम् ...{Loading}...
होता॑ध्व॒र्युराव॑याऽअग्निमि॒न्धो ग्रा॑वग्रा॒भऽउ॒त शँस्ता॒ सुवि॑प्रः। तेन॑ य॒ज्ञेन॒ स्व᳖रङ्कृतेन॒ स्वि᳖ष्टेन व॒क्षणा॒ऽआ पृ॑णध्वम् ॥२८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
होता॑ अ॒ध्व॒र्युः। आव॑या॒ इत्याऽव॑याः। अ॒ग्नि॒मि॒न्ध इत्या॑ग्निम्ऽइ॒न्धः। ग्रा॒व॒ग्रा॒भ इति॑ ग्रावऽग्रा॒भः। उ॒त। शँस्ता॑। सुवि॑प्र॒ इति॑ सुऽवि॑प्रः। तेन॑। य॒ज्ञेन॑। स्व॑रङ्कृते॒नेति॒ सुऽअ॑रङ्कृतेन। स्वि᳖ष्टे॒नेति॒ सुऽइ॑ष्टेन। व॒क्षणाः॑। आ। पृ॒ण॒ध्व॒म्। २८।
महीधरः
म०. तेषामृत्विजामभिगूर्तिः अभिगोरणमभिगूर्तिरुद्यमः नोऽस्मानिन्वतु प्रीणातु व्याप्नोतु वा । अस्माकं यज्ञं सम्यक् साधयत्वित्यर्थः । ‘इवि व्याप्तिप्रीणनयोः’ लोट् शपि ‘इदितो नुम् धातोः’ (पा० ७ । १ । ५८ ) इति नुमागमः। तेषां केषाम् । ये यूपव्रस्काः यूपाय वृश्चन्ति तरं छिन्दन्ति ते यूपव्रस्काः । उतापि च ये यूपवाहाः यूपं वहन्ति ते यूपवाहाः । कर्मण्यण् । छिन्नस्य यूपस्य वोढारः । ये च अश्वयूपाय अश्वबन्धनयूपार्थं चषालं तक्षति यूपाग्रभागे स्थाप्यं काष्ठं तक्षन्ति वचनव्यत्ययः । ‘चषालो यूपकटकः’ इत्यमरः । ‘तक्षु तनूकरणे’ साधु संपादयन्तीत्यर्थः । उतो अपिच ये नराः अर्वते अश्वाय पचनं पच्यतेऽनेनेति पचनं पाकसाधनं काष्ठभाण्डादिकं संभरन्ति संहरन्ति आनयन्ति तेषामुद्यमोऽस्मान्प्रीणात्वित्यर्थः ॥ २९ ॥
त्रिंशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- गोतम ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्य क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (होता) ग्रहण करने हारा वा (आवयाः) जिससे अच्छे प्रकार यज्ञ, सङ्ग और दान करते वह वा (अग्निमिन्धः) अग्नि को प्रदीप्त करने हारा वा (ग्रावग्राभः) मेघ को ग्रहण करने हारा वा (शंस्ता) प्रशंसा करने हारा (उत) और (सुविप्रः) जिसके समीप अच्छे-अच्छे बुद्धिमान् हैं, वह (अध्वर्युः) अहिंसा यज्ञ का चाहनेवाला उत्तम जन जिस (स्वरङ्कृतेन) सुन्दर सुशोभित किये (स्विष्टेन) सुन्दर भाव से चाहे और (यज्ञेन) मिले हुए यज्ञ आदि उत्तम काम से (वक्षणाः) नदियों को पूर्ण करता अर्थात् यज्ञ करने से पानी वर्षा, उस वर्षे हुए जल से नदियों को भरता, वैसे (तेन) उस काम से तुम लोग भी (आ, पृणध्वम्) अच्छे प्रकार सुख भोगो ॥२८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो मनुष्य सुगन्धि आदि से उत्तम बनाये हुए होम करने योग्य पदार्थों को अग्नि में छोड़ने से पवन और वर्षा जल आदि पदार्थों को शोध कर नदी-नद आदि के जलों की शुद्धि करते हैं, वे सदैव सुख भोगते हैं ॥२८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्याः किं कुर्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा होताऽऽवया अग्निमिन्धो ग्रावग्राभः शंस्तोत सुविप्रोऽध्वर्युर्येन स्वरंकृतेन स्विष्टेन यज्ञेन वक्षणा अलङ्करोति, तथा तेन यूयमप्यापृणध्वम् ॥२८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये मनुष्याः सुगन्ध्यादिसुसंस्कृतानां हविषां वह्नौ प्रक्षेपेण वायुवर्षाजलादीनि शोधयित्वा नद्यादिजलानि शोधयन्ति, ते सदा सुखयन्ति ॥२८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जी माणसे सुगंधित पदार्थ होमात टाकून वायू व वष्टिजल इत्यादी पदार्थ शुद्ध करून नद्यांचे पाणी शुद्ध करतात ती सदैव सुख भोगतात.
२९ यूपव्रस्काऽउत ये
विश्वास-प्रस्तुतिः ...{Loading}...
यू॒प॒व्र॒स्काऽउ॒त ये यू॑पवा॒हाश्च॒षालं॒ येऽअ॑श्वयू॒पाय॒ तक्ष॑ति। ये चार्व॑ते॒ पच॑नँ स॒म्भर॑न्त्यु॒तो तेषा॑म॒भिगू॑र्त्तिर्नऽइन्वतु ॥२९ ॥
मूलम् ...{Loading}...
यू॒प॒व्र॒स्काऽउ॒त ये यू॑पवा॒हाश्च॒षालं॒ येऽअ॑श्वयू॒पाय॒ तक्ष॑ति। ये चार्व॑ते॒ पच॑नँ स॒म्भर॑न्त्यु॒तो तेषा॑म॒भिगू॑र्त्तिर्नऽइन्वतु ॥२९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यू॒प॒व्र॒स्का ति॑ यूपऽव्र॒स्काः। उ॒त। ये। यू॒प॒वा॒हा इति॑ यूपऽवा॒हाः। च॒षाल॑म्। ये। अ॒श्व॒यू॒पायेति॑ अश्वऽयू॒पाय॑। तक्ष॑ति। ये। च॒। अर्व॑ते। पच॑नम्। स॒म्भर॒न्तीति॑ स॒म्ऽभर॑न्ति। उ॒तोऽइत्यु॒तो। तेषा॑म्। अ॒भिगू॑र्त्ति॒रित्य॒भिऽगू॑र्त्तिः। नः॒। इ॒न्व॒तु॒। २९।
महीधरः
म० मन्म मननीयं फलं सुमत् स्वयमुपप्रागात् उपगच्छतु । सुमदित्यव्ययं स्वयमित्यर्थे । ‘सुमत् स्वयमित्यर्थे’ (निरु० | ६ । २२ ) इति यास्कोक्तेः । तन्मन्म फलं मे मया अधायि | धृतमित्यर्थः । किंच अयं वीतं पुष्टं पृष्ठं यस्य । यद्वा वीतं कामितं पृष्ठं यस्य अश्वपृष्ठमारोहणाय सर्वे कामयन्ते स वीतपृष्ठोऽश्वो देवानामाशाः मनोरथान् पूरयितुमिति शेषः । उपगच्छतु उपसर्गेण क्रियावृत्तिः । किंच देवानां पुष्टे पोषणं पुष्टम् भावे निष्ठा । निमित्ते सप्तमी । देवपुष्टिनिमित्तं यमश्वं वयं सुबन्धुं चकृम कृतवन्तः । संहितायां दीर्घः । शोभनो बन्धुर्बन्धनं यस्य तम् यमश्वं बद्धवन्तः । एनमश्वं विप्रा मेधाविनः ऋषयो मन्त्रदर्शिन ऋविजोऽनुमदन्ति अनुमोदन्तां तुष्यन्तु ॥ ३० ॥
एकत्रिंशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- गोतम ऋषिः
- भुरिक्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर वे क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ये) जो (यूपव्रस्काः) यज्ञखंभा के छेदने-बनाने (उत) और (ये) जो (यूपवाहाः) यज्ञस्तम्भ को पहुँचानेवाले (अश्वयूपाय) घोड़ा के बाँधने के लिये (चषालम्) खंभा के खण्ड को (तक्षति) काटते-छाँटते (ये, च) और जो (अर्वते) घोड़ा के लिए (पचनम्) जिस में पाक किया जाये, उस काम को (सम्भरन्ति) अच्छे प्रकार धारण करते वा पुष्ट करते (उतो) और जो उत्तम यत्न करते हैं (तेषाम्) उनका (अभिगूर्त्तिः) सब प्रकार से उद्यम (नः) हम लोगों को (इन्वतु) व्याप्त और प्राप्त होवे ॥२९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो कारुक शिल्पीजन घोड़ा के बाँधने आदि काम के काठों से विशेष काम बनाते और जो वैद्य घोड़े आदि पशुओं की ओषधि और उन की सजावट की सामग्रियों को इकट्ठा करते हैं, वे सदा उद्यम करते हुए हम लोगों को प्राप्त होवें ॥२९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्ते किं कुर्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये यूपव्रस्का उतापि ये यूपवाहा अश्वयूपाय चषालं तक्षति, ये चार्वते पचनं सम्भरन्ति, उतो ये प्रयतन्ते तेषामभिगूर्त्तिर्न इन्वतु ॥२९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये शिल्पिनोऽश्वबन्धनादीनि काष्ठविशेषजानि वस्तूनि निर्मिमते, ये च वैद्या अश्वादीनामौषधानि सम्भारांश्च संगृह्णन्ति, ते सदोद्यमिनः सन्तोऽस्मान् प्राप्नुवन्तु ॥२६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे कारागीर घोड्यांना बांधण्याच्या जीनसाठी लाकडाचे काम करतात व जे वैद्य लोक घोडे इत्यादी पशूंचे औषध व त्यांच्या सजावटीचे सामान जवळ बाळगतात असे उद्योगी लोक सदैव आपल्याजवळ असावेत.
३० उप प्रागात्सुमन्मेऽधायि
विश्वास-प्रस्तुतिः ...{Loading}...
उप॒ प्रागा॑त्सु॒मन्मे॑ऽधायि॒ मन्म॑ दे॒वाना॒माशा॒ऽउप॑ वी॒तपृ॑ष्ठः। अन्वे॑नं॒ विप्रा॒ऽऋष॑यो मदन्ति दे॒वानां॑ पु॒ष्टे च॑कृमा सु॒बन्धु॑म् ॥३० ॥
मूलम् ...{Loading}...
उप॒ प्रागा॑त्सु॒मन्मे॑ऽधायि॒ मन्म॑ दे॒वाना॒माशा॒ऽउप॑ वी॒तपृ॑ष्ठः। अन्वे॑नं॒ विप्रा॒ऽऋष॑यो मदन्ति दे॒वानां॑ पु॒ष्टे च॑कृमा सु॒बन्धु॑म् ॥३० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उप॑। प्र। अ॒गा॒त्। सु॒मदि॑ति॑ सु॒ऽमत्। मे॒। अ॒धा॒यि॒। मन्म॑। दे॒वाना॑म्। आशाः॑। उप॑। वी॒तपृ॑ष्ठ॒ इति॑ वी॒तऽपृ॑ष्ठः। अनु॑। ए॒न॒म्। विप्राः॑। ऋष॑यः। म॒द॒न्ति॒। दे॒वाना॑म्। पु॒ष्टे। च॒कृ॒म॒। सु॒बन्धु॒मिति॑ सु॒ऽबन्धु॑म्। ३०।
महीधरः
म० वाजिनो वेगवतोऽर्वतोऽश्वस्य यत् दाम ग्रीवाबद्धा रज्जुः यच्च संदानं पादबन्धनरज्जुः । या च शीर्षण्या शीर्षे भवा शीर्षण्या शिरोबद्धास्याश्वस्य रज्जुः । शिरःशब्दात् ‘भवे छन्दसि’ (पा० ४ । ४ । ११० ) इति यत् । ‘ये च तद्धिते’ (पा० ६ । १ । ६१) इति शीर्षन्नादेशः । तित् स्वरितम् । कटिस्था रशना रज्जुः अस्यान्यापि या रज्जुः । वाथवा अस्याश्वस्य घ प्रसिद्धम् आस्ये मुखे प्रभृतं प्रहृतं प्रक्षिप्तं यत् तृणं हे अश्व, ते तव सर्वा सर्वाणि ता तानि देवेषु अस्तु देवोपयोगीनि भवन्तु देवत्वं प्राप्नुवन्तु वा । अत्रोपयुक्तानां सर्वेषां देवत्वमाशास्यते ॥ ३१॥
द्वात्रिंशी।
अधिमन्त्रम् (VC)
- विद्वांसो देवता
- गोतम ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर कौन किनसे क्या लेवें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जिसने (सुमत्) आप ही (देवानाम्) विद्वानों का (वीतपृष्ठः) जिस का पिछला भाग व्याप्त वह उत्तम व्यवहार (अधायि) धारण किया वा जिससे इनके और (मे) मेरे (मन्म) विज्ञान को तथा (आशाः) दिशा-दिशान्तरों को (उप, प्र, अगात्) प्राप्त हो वा जिस (एनम्) इस प्रत्यक्ष व्यवहार के (अनु) अनुकूल (देवानाम्) विद्वानों के बीच (पुष्टे) पुष्ट बलवान् जन के निमित्त (ऋषयः) मन्त्रों का अर्थ जाननेवाले (विप्राः) धीरबुद्धि पुरुष (उप, मदन्ति) समीप होकर आनन्द को प्राप्त होते हैं, उस (सुबन्धुम्) सुन्दर भाइयोंवाले जन को हम लोग (चकृम) उत्पन्न करें ॥३० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो विद्वानों के समीप से उत्तम ज्ञान को पाके ऋषि होते हैं, वे सब को विज्ञान देने से पुष्ट करते हैं, जो परस्पर एक-दूसरे की उन्नति कर परिपूर्ण कामवाले होते हैं, वे जगत् के हितैषी होते हैं ॥३० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः के केषां सकाशात् किं गृह्णीयुरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - येन सुमत्स्वयं देवानां वीतपृष्ठो यज्ञोऽधायि येनैतेषां मे च मन्माशाश्चोपप्रागाद्, यमेनमनुदेवानां पुष्टे ऋषयो विप्रा उपमदन्ति, तं सुबन्धुं वयं चकृम ॥३० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये विदुषां सकाशाद् विज्ञानं प्राप्यर्षयो भवन्ति, ते सर्वान् विज्ञानदानेन पोषयन्ति, येऽन्योन्यस्योन्नतिं विधाय सिद्धकामा भवन्ति, ते जगद्धितैषिणो जायन्ते ॥३० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे विद्वानांकडून उत्तम ज्ञान प्राप्त करून ऋषी बनतात ते विशेष ज्ञानाने सर्वांना कणखर व पुष्ट बनवितात. जे परस्पर उन्नती करून परिपूर्ण काम करतात ते जगाचे हितकर्ते असतात.
३१ यद्वाजिनो दाम
विश्वास-प्रस्तुतिः ...{Loading}...
यद्वा॒जिनो॒ दाम॑ स॒न्दान॒मर्व॑तो॒ या शी॑र्ष॒ण्या᳖ रश॒ना रज्जु॑रस्य। यद्वा॑ घास्य॒ प्रभृ॑तमा॒स्ये᳖ तृणँ॒ सर्वा॒ ता ते॒ऽअपि॑ दे॒वेष्व॑स्तु ॥३१ ॥
मूलम् ...{Loading}...
यद्वा॒जिनो॒ दाम॑ स॒न्दान॒मर्व॑तो॒ या शी॑र्ष॒ण्या᳖ रश॒ना रज्जु॑रस्य। यद्वा॑ घास्य॒ प्रभृ॑तमा॒स्ये᳖ तृणँ॒ सर्वा॒ ता ते॒ऽअपि॑ दे॒वेष्व॑स्तु ॥३१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यत्। वा॒जिनः॑। दाम॑। स॒न्दान॒मिति॑ स॒म्ऽदान॑म्। अर्व॑तः। या। शी॒र्ष॒ण्या᳖। र॒श॒ना। रज्जुः॑। अ॒स्य॒। यत्। वा॒। घ॒। अ॒स्य॒। प्रभृ॑त॒मिति॒ प्रऽभृ॑तम्। आ॒स्ये᳖। तृण॑म्। सर्वा॑। ता। ते॒। अपि॑। दे॒वेषु॑। अ॒स्तु॒। ३१।
महीधरः
म० मक्षिका अश्वस्य क्रविषः क्रविः यदाश भक्षितवती । अश्नातेर्लिट् क्रविषः इति कर्मणि षष्ठी । वाथवा यत् मांसं स्वरौ पश्वञ्जनकाले रिप्तं लिप्तमस्ति ‘स्वरुणा पशुमनक्ति’ इति श्रुतेः । यत् स्वधितौ शासे लिप्तमस्ति छेदनकालेऽवदानकाले च । यच्च शमितुर्हस्तयोः लिप्तं यच्च शमितुर्नखेषु लिप्तम् हे अश्व, सर्वा ता सर्वाणि तानि अपि देवेषु अस्तु भवन्तु । वचनव्यत्ययः । सर्व त्वदीयं देवभोग्यं भवतु ॥ ३२ ॥
त्रयस्त्रिंशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- गोतम ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर कौन किनसे क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! (वाजिनः) प्रशस्त वेगवाले (अस्य) इस (अर्वतः) बलवान् घोड़े का (यत्) जो (दाम) उदरबन्धन अर्थात् तङ्गी और (सन्दानम्) अगाड़ी-पछाड़ी पैर आदि में बाँधने की रस्सी वा (या) जो (शीर्षण्या) शिर में होनेवाली (रशना) मुँह में व्याप्त (रज्जुः) रस्सी मुहेरा आदि (यत्, वा) अथवा जो (अस्य) इस घोड़े के (आस्ये) मुख में (तृणम्) घास दूब आदि विशेष तृण (प्रभृतम्) उत्तमता से धरी हो (ता) वे (सर्वा) सब पदार्थ (ते) तेरे हों और यह उक्त समस्त वस्तु (घ) ही (देवेषु) विद्वानों में (अपि) भी (अस्तु) हो ॥३१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य घोड़ों को अच्छी शिक्षा कर उनके सब अङ्गों के बन्धन सुन्दर-सुन्दर तथा खाने-पीने के श्रेष्ठ पदार्थ और उत्तम-उत्तम औषध करते हैं, वे शत्रुओं को जीतना आदि काम सिद्ध कर सकते हैं ॥३१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः के कैः किं कुर्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! वाजिनोऽस्यार्वतो यद्दाम सन्दानं या शीर्षण्या रशना रज्जुर्यद्वाऽस्यास्ये तृणं प्रभृतं ता सर्वा ते सन्तु। एतत्सर्वं घ देवेष्वष्यस्तु ॥३१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - येऽश्वान् सुशिक्ष्य सर्वावयवबन्धनानि सुन्दराणि भक्ष्यं भोज्यं पेयं च श्रेष्ठमौषधमुत्तमं च कुर्वन्ति, ते विजयादीनि कार्याणि साद्धुं शक्नुवन्ति ॥३१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे घोड्यांना प्रशिक्षित करून खोगीर इत्यादी तयार करतात किंवा बांधतात, तसेच त्यांना चांगले पदार्थ खाऊ घालतात व त्यांच्या औषधांची व्यवस्था करतात ते शत्रूंना सहज जिंकू शकतात.
३२ यदश्वस्य क्रविषो
विश्वास-प्रस्तुतिः ...{Loading}...
यदश्व॑स्य क्र॒विषो॒ मक्षि॒काश॒ यद्वा॒ स्वरौ॒ स्वधि॑तौ रि॒प्तमस्ति॑। यद्धस्त॑योः शमि॒तुर्यन्न॒खेषु॒ सर्वा॒ ता ते॒ऽअपि॑ दे॒वेष्व॑स्तु ॥३२ ॥
मूलम् ...{Loading}...
यदश्व॑स्य क्र॒विषो॒ मक्षि॒काश॒ यद्वा॒ स्वरौ॒ स्वधि॑तौ रि॒प्तमस्ति॑। यद्धस्त॑योः शमि॒तुर्यन्न॒खेषु॒ सर्वा॒ ता ते॒ऽअपि॑ दे॒वेष्व॑स्तु ॥३२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यत्। अश्व॑स्य। क्र॒विषः॑। मक्षि॑का। आश॑। यत्। वा॒। स्वरौ॑। स्वधि॑ता॒विति॒ स्वऽधि॑तौ। रि॒प्तम्। अस्ति॑। यत्। हस्त॑योः। श॒मि॒तुः। यत्। न॒खेषु॑। सर्वा॑। ता। ते॒। अपि॑। दे॒वेषु॑। अ॒स्तु॒। ३२।
महीधरः
म० उदरस्य ऊवध्यमीषज्जीर्णतृणपुरीषं यत् अपवाति अपगच्छति । भक्षितमपक्वमामाशयस्थमूवध्यमुच्यते । आमस्यापक्वस्य क्रविषो मांसस्य यो गन्धो लेशोऽस्ति शमितारः विशसितारः तत्सर्वं सुकृता सुकृतं सुसंस्कृतं कृण्वन्तु कुर्वन्तु । उतापि च मेधं मेध्यमश्वं शृतपाकं यथा पचन्तु शृतो देवयोग्यो जातः पाको यस्मिन् कर्मणि तथा पचन्तु । अतिपक्वमीषत्पक्वं च मा कुर्वन्त्वित्यर्थः ॥ ३३ ॥
चतुस्त्रिंशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- गोतम ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर कैसे कौन रक्षा करने योग्य हैं, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (यत्) जो (मक्षिका) मक्खी (क्रविषः) चलते हुए (अश्वस्य) शीघ्र जानेवाले घोड़े का (आश) भोजन करती अर्थात् कुछ मल-रुधिर आदि खाती (वा) अथवा (यत्) जो (स्वरौ) स्वर (स्वधितौ) वज्र के समान वर्त्तमान हैं वा (शमितुः) यज्ञ करने हारे के (हस्तयोः) हाथों में (यत्) जो वस्तु (रिप्तम्) प्राप्त और (यत्) जो (नखेषु) नखों में प्राप्त (अस्ति) है (ता) वे (सर्वा) सब पदार्थ (ते) तुम्हारे हों तथा यह समस्त व्यवहार (देवेषु) विद्वानों में (अपि) भी (अस्तु) होवे ॥३२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को ऐसी घुड़शाल में घोड़े बाँधने चाहियें, जहाँ इनका रुधिर आदि माँछि आदि न पीवें। जैसे यज्ञ करने हारे के हाथ में लिपटे हुए हवि को धोने आदि से छुड़ाते हैं, वैसे ही घोड़े आदि पशुओं के शरीर में लिपटी धूलि आदि को नित्य छुड़ावें ॥३२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः कथं के रक्ष्या इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यद्या मक्षिका क्रविषोऽश्वस्याऽऽश वा यत्स्वरौ स्वधितौ स्तः, शमितुर्हस्तयोर्यद्रिप्तं यच्च नखेषु रिप्तमस्ति ता सर्वा ते सन्तु। एतत्सर्वं देवेष्वप्यस्तु ॥३२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैरीदृशायां शालायामश्वा बन्धनीया, यत्रैषां रुधिरादिकं मक्षिकादयो न पिबेयुः। यथा यज्ञकर्त्तुर्हस्तयोर्लिप्तं हविः प्रक्षालनादिना निवारयन्ति, तथैवाश्वादीनां शरीरे लिप्तानि धूल्यादीनि नित्यं निवारयन्तु ॥३२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी अशा अश्वशाळेत घोडे बांधले पाहिजेत की, जेथे त्यांचे रक्त माशा वगैरेंनी पिऊ नये. याज्ञिक जसे आपली हवी (यज्ञात टाकण्याचे पदार्थ) स्वच्छ करतात तसे घोडे इत्यादी पशूंच्या शरीरावरील धूळ झटकावी.
३३ यदूवध्यमुदरस्यापवाति यऽआमस्य
विश्वास-प्रस्तुतिः ...{Loading}...
यदूव॑ध्यमु॒दर॑स्याप॒वाति॒ यऽआ॒मस्य॑ क्र॒विषो॑ ग॒न्धोऽअस्ति॑। सु॒कृ॒ता तच्छ॑मि॒तारः॑ कृण्वन्तू॒त मेधँ॑ शृत॒पाकं॑ पचन्तु ॥३३ ॥
मूलम् ...{Loading}...
यदूव॑ध्यमु॒दर॑स्याप॒वाति॒ यऽआ॒मस्य॑ क्र॒विषो॑ ग॒न्धोऽअस्ति॑। सु॒कृ॒ता तच्छ॑मि॒तारः॑ कृण्वन्तू॒त मेधँ॑ शृत॒पाकं॑ पचन्तु ॥३३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यत्। ऊव॑ध्यम्। उ॒दर॑स्य। अ॒प॒वातीत्य॑प॒ऽवाति॑। यः। आ॒मस्य॑। क्र॒विषः॑। ग॒न्धः। अस्ति॑। सु॒कृ॒तेति॑ सुऽकृ॒ता। तत्। श॒मि॒तारः॑। कृ॒ण्व॒न्तु॒। उ॒त। मेध॑म्। शृ॒त॒पाक॒मिति॑ शृत॒ऽपाक॑म्। प॒च॒न्तु॒। ३३।
महीधरः
म०. हे अश्व, अग्निना पच्यमानात्ते तव गात्रात् शरीरात यत् ऊष्मा रसो वा अवधावति अधस्ताद्गच्छति तथा निहतस्य निःशेषेण हतस्य यत् अङ्गं शूलमभि अवधावति शूलेन पाके क्रियमाणे यन्निर्गच्छति तन्निर्गतमूष्माङ्गादिकं भूम्यां मा आश्रिषत् भूम्याश्लिष्टं मा भूत् । श्रिषेः पुषादित्वात् च्लेरङ् । तथा तृणेषु माश्रिषत् विशसनसमये तृणलग्नं मास्तु । किं तर्हि तत्पतितं तृणलग्नं सर्वं देवेभ्यो रातं दत्तमस्तु ‘रा दाने’ । कीदृशेभ्यो देवेभ्यः । उशन्ति कामयन्ते ते उशन्तः तेभ्यः हविःकामयमानेभ्यः । ‘वश कान्तौ’ लटः शत्रादेशः ॥ ३४ ॥
पञ्चत्रिंशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- गोतम ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर कौन किसलिये क्या न करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (उदरस्य) पेट के कोष्ठ से (यत्) जो (ऊवध्यम्) मलीन मल (अपवाति) निकलता और (यः) जो (आमस्य) न पके कच्चे (क्रविषः) खाये हुए पदार्थ का (गन्धः) गन्ध (अस्ति) है (तत्) उस को (शमितारः) शान्ति करने अर्थात् आराम देनेवाले (सुकृता) अच्छा सिद्ध (कृण्वन्तु) करें (उत) और (मेधम्) पवित्र (शृतपाकम्) जिसका सुन्दर पाक बने उस को (पचन्तु) पकावें ॥३३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो लोग यज्ञ करना चाहें वे दुर्गन्धयुक्त पदार्थ को छोड़ सुगन्धि आदि युक्त सुन्दरता से बना पाक कर अग्नि में होम करें, वे जगत् का हित चाहनेवाले होते हैं ॥३३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः के किमर्थं किं न कुर्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्या ! उदरस्य यदूवध्यमपवाति, य आमस्य क्रविषो गन्धोऽस्ति, तच्छमितारः सुकृता कृण्वन्तूतापि मेधं शृतपाकं पचन्तु ॥३३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये जना यज्ञं कर्त्तुमिच्छेयुस्ते दुर्गन्धयुक्तं द्रव्यं विहाय सुगन्धादियुक्तं सुसंस्कृतं पाकं कृत्वाऽग्नौ जुहुयुस्ते जगद्धितैषिणो भवन्ति ॥३३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे लोक यज्ञ करू इच्छितात व दुर्गंधीयुक्त पदार्थांचा त्याग करून सुगंधी व पवित्र पदार्थ अग्नीत टाकून होम करतात ते जगाचे हितकर्ते असतात.
३४ यत्ते गात्रादग्निना
विश्वास-प्रस्तुतिः ...{Loading}...
यत्ते॒ गात्रा॑द॒ग्निना॑ प॒च्यमा॑नाद॒भि शूलं॒ निह॑तस्याव॒धाव॑ति। मा तद्भूम्या॒माश्रि॑ष॒न्मा तृणे॑षु दे॒वेभ्य॒स्तदु॒शद्भ्यो॑ रा॒तम॑स्तु ॥३४ ॥
मूलम् ...{Loading}...
यत्ते॒ गात्रा॑द॒ग्निना॑ प॒च्यमा॑नाद॒भि शूलं॒ निह॑तस्याव॒धाव॑ति। मा तद्भूम्या॒माश्रि॑ष॒न्मा तृणे॑षु दे॒वेभ्य॒स्तदु॒शद्भ्यो॑ रा॒तम॑स्तु ॥३४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यत्। ते॒। गात्रा॑त्। अ॒ग्निना॑। प॒च्यमा॑नात्। अ॒भि। शूल॑म्। निह॑त॒स्येति॒ निऽह॑तस्य। अ॒व॒धाव॒ती॒त्य॑व॒ऽधाव॑ति। मा। तत्। भूम्या॑म्। आ। श्रि॒ष॒त्। मा। तृणे॑षु। दे॒वेभ्यः॑। तत्। उ॒शद्भ्य॒ऽइत्यु॒शत्ऽभ्यः॑। रा॒तम्। अ॒स्तु॒। ३४।
महीधरः
म० ये जनाः पक्वं वाजिनमश्वं परिपश्यन्ति अयं पक्व इति जानन्ति । य ईम् ईमित्यव्ययं चार्थे । ये च इत्याहुः । एवं कथयन्ति । किम् । सुरभिः सुगन्धः पाको जातः अतो निर्हर अग्नेः सकाशादुत्तारयेति । ये च जनाः अर्वतोऽश्वस्य मांसभिक्षामुपासते हुतशिष्टमांसयाचनां कुर्वते । उतो अपिच तेषां पाकद्रष्ट्रादिजनानामभिगूर्तिः उद्यमो नोऽस्मानिन्वतु प्रीणातु । यद्वायं मन्त्रो देवपरो व्याख्येयः । ये देवाः पक्वं वाजिनं परिपश्यन्ति कदा होष्यतीति । ये च विलम्बं दृष्ट्वा सुरभिः पाको जातोऽस्मभ्यं निर्हर देहीत्याहुः । ये चार्वतो मांसभिक्षामुपासते मांसं याचन्ते तेषामभिगूर्तिः संकल्पोऽस्मान्प्रीणातु । सफलो भवत्वित्यर्थः ॥ ३५ ॥
षट्त्रिंशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- गोतम ऋषिः
- भुरिक्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्य को किस से क्या निकालना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य ! (निहतस्य) निश्चय से श्रम किये हुए (ते) तेरे (अग्निना) अन्तःकरणरूप तेज से (पच्यमानात्) पकाये जाते (गात्रात्) अङ्ग से (यत्) जो (शूलम्) शीघ्र बोध का हेतु वचन (अभि, अवधावति) चारों ओर से निकलता है (तत्) वह (भूम्याम्) भूमि पर (मा, आ, श्रिषत्) नहीं आता है तथा (तत्) वह (तृणेषु) तृणों पर (मा) नहीं आता, किन्तु वह तो (उशद्भ्यः) सत्पुरुष (देवेभ्यः) विद्वानों के लिये (रातम्) दिया (अस्तु) होवे ॥३४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जो ज्वर आदि से पीडि़त अङ्ग हों, उन को वैद्यजनों से नीरोग कराना चाहिये, क्योंकि उन वैद्यजनों से जो औषध दिया जाता है, वह रोगी जन के लिये हितकारी होता है ॥३४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैः केन किं निस्सारणीयमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य ! निहतस्य ते तवाग्निना पच्यमानाद् गात्राद्यच्छूलमभ्यवधावति तद्भूम्यां माऽऽश्रिषत्। तत्तृणेषु माऽऽश्रिषत्, किन्तु तच्चोशद्भ्यो देवेभ्यो रातमस्तु ॥३४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यानि ज्वरादिपीडितान्यङ्गानि भवेयुस्तानि वैद्येभ्यो नीरोगाणि कार्याणि, तैर्यदौषधं दीयेत तद्रोगिभ्यो हितकरं भवति ॥३४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! ज्वराने पीडित माणसांनी वैद्याकडून औषध घेऊन निरोगी बनावे. कारण वैद्यांनी दिलेले औषध रोग्यासाठी हितकारक असते.
३५ ये वाजिनम्
विश्वास-प्रस्तुतिः ...{Loading}...
ये वा॒जिनं॑ परि॒पश्य॑न्ति प॒क्वं यऽई॑मा॒हुः सु॑र॒भिर्निर्ह॒रेति॑। ये चार्व॑तो माँसभि॒क्षामु॒पास॑तऽउ॒तो तेषा॑म॒भिगू॑र्त्तिर्नऽइन्वतु ॥३५ ॥
मूलम् ...{Loading}...
ये वा॒जिनं॑ परि॒पश्य॑न्ति प॒क्वं यऽई॑मा॒हुः सु॑र॒भिर्निर्ह॒रेति॑। ये चार्व॑तो माँसभि॒क्षामु॒पास॑तऽउ॒तो तेषा॑म॒भिगू॑र्त्तिर्नऽइन्वतु ॥३५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ये। वा॒जिन॑म्। प॒रि॒पश्य॒न्तीति॑ परि॒ऽपश्य॑न्ति। प॒क्वम्। ये। ई॒म्। आ॒हुः। सु॒र॒भिः। निः। ह॒र॒। इति॑। ये। च॒। अर्व॑तः। माँ॒स॒ऽभि॒क्षामिति॑ मांँसऽभिक्षाम्। उ॒पास॑त॒ इत्यु॑प॒ऽआस॑ते। उ॒तो इत्यु॒तो। तेषा॑म्। अ॒भिगू॑र्त्ति॒रित्य॒भिऽगू॑र्त्तिः। नः॒। इ॒न्व॒तु॒। ३५।
महीधरः
म० एते पदार्था अश्वं परिभूषन्ति अलंकुर्वन्ति। स्वव्यापारेण साधयन्तीत्यर्थः । ‘भूष अलंकारे’ भौवादिकः । एते के तानाह। यत् उखायाः स्थाल्याः नीक्षणं नितरामीक्षणं पाकपरीक्षार्थं दर्शनम् । कीदृश्या उखायाः । मांस्पचन्याः मांसं पच्यते यस्यां सा मांस्पचनी तस्याः मांसपाकाधिकरणभूतायाः । ‘करणाधिकरणयोश्च’ (पा. ३ । ३ । ११७) सुट् । ‘मांसस्य पचि युड्घञोः’ इति मांसस्याकारलोपः ‘टिड्ढाणञ्-’ (पा० ४ । १ । १५) इति ङीप् । तथा यूष्णः पक्वरसस्य आसेचनानि आसिच्यन्ते येषु तानि आसेचनसाधनानि या यानि पात्राणि । ‘पद्दन्’ इति यूपशब्दस्य यूषन्नादेशः । यानि च चरूणां मांसपूर्णपात्राणामपिधाना अपिधानानि आच्छादनपात्राणि । कीदृशानि तानि । ऊष्मण्या ऊष्माणं धारयन्ति तानि ऊष्मण्यानि । ऊष्मन्शब्दाद्धारणार्थे यप्रत्ययः । आच्छादने ऊष्मा बहिर्न यातीत्यर्थः । तथा अङ्काः चिह्नसाधनानि हृदयाद्यवयवज्ञापकानि वेतसमयानि । सूनाः विशसनकरणभूताः स्वधित्यादयः । एतेऽश्वं परिभूषयन्ति ॥ ३६ ॥
सप्तत्रिंशी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- गोतम ऋषिः
- स्वराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर कौन रोकने योग्य है, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ये) जो (अर्वतः) घोड़े के (मांसभिक्षाम्) मांस के माँगने की (उपासते) उपासना करते (च) और (ये) जो घोड़ा को (ईम्) पाया हुआ मारने योग्य (आहुः) कहते हैं, उन को (निः, हर) निरन्तर हरो, दूर पहुँचाओ (ये) जो (वाजिनम्) वेगवान् घोड़ों को (पक्वम्) पक्का सिखा के (परिपश्यन्ति) सब ओर से देखते हैं (उतो) और (तेषाम्) उन का (सुरभिः) अच्छा सुगन्ध और (अभिगूर्त्तिः) सब ओर से उद्यम (नः) हम लोगों को (इन्वतु) प्राप्त हो, उन के अच्छे काम हमको प्राप्त हों, (इति) इस प्रकार दूर पहुँचाओ ॥३५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो घोड़े आदि उत्तम पशुओं का मांस खाना चाहें, वे राजा आदि श्रेष्ठ पुरुषों को रोकने चाहियें, जिस से मनुष्यों का उद्यम सिद्ध हो ॥३५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः के निरोद्धव्या इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - येऽर्वतो मांसभिक्षामुपासते च येऽश्वमीं हन्तव्याहुस्तान्निर्हर दूरे प्रक्षिप। ये वाजिनं पक्वं परिपश्यन्ति उतो अपि तेषां सुरभिरभिगूत्तिर्न इन्वत्विति ॥३५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - येऽश्वादिश्रेष्ठानां पशूनां मांसमत्तुमिच्छेयुस्ते राजादिभिः श्रेष्ठैर्निरोद्धव्या यतो मनुष्याणामुद्यमसिद्धिः स्यात्॥३५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - घोडे इत्यादी उत्तम पशूंचे मास खाणाऱ्यांना, राजा व श्रेष्ठ पुरुष वगैरेंना रोखावे अन्यथा माणसांचे उद्योग व्यवस्थितपणे चालू शकणार नाहीत.
३६ यन्नीक्षणं माँस्पचन्याऽउखाया
विश्वास-प्रस्तुतिः ...{Loading}...
यन्नीक्ष॑णं माँ॒स्पच॑न्याऽउ॒खाया॒ या पात्रा॑णि यू॒ष्णऽआ॒सेच॑नानि। ऊ॒ष्म॒ण्या᳖ऽपि॒धाना॑ चरू॒णाम॒ङ्काः सू॒नाः परि॑ भूष॒न्त्यश्व॑म् ॥३६ ॥
मूलम् ...{Loading}...
यन्नीक्ष॑णं माँ॒स्पच॑न्याऽउ॒खाया॒ या पात्रा॑णि यू॒ष्णऽआ॒सेच॑नानि। ऊ॒ष्म॒ण्या᳖ऽपि॒धाना॑ चरू॒णाम॒ङ्काः सू॒नाः परि॑ भूष॒न्त्यश्व॑म् ॥३६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यत्। नीक्ष॑ण॒मिति॑ नि॒ऽईक्ष॑णम्। माँ॒स्पच॑न्या॒ इति॑ माँ॒स्पच॑न्याः। उ॒खायाः॑। या। पात्रा॑णि। यू॒ष्णः। आ॒सेच॑ना॒नीत्या॒ऽसेच॑नानि। ऊ॒ष्म॒ण्या᳖। अ॒पि॒धानेत्य॑पि॒ऽधाना॑। च॒रू॒णाम्। अङ्काः॑। सू॒नाः। परि॑। भू॒ष॒न्ति॒। अश्व॑म्। ३६।
महीधरः
म० हे अश्व पच्यमानाश्वावयव, अग्निः त्वा त्वां मा ध्वनयीत् ध्वनिं मा कारयतु । ध्वनौ सति भाण्डभङ्गः स्यात् । दह्यमानं मांसं सिमसिमेति शब्दं करोति तन्मास्तु ‘नोनयतिध्वनयति-’ (पा० ३।१।५१) इत्यादिना ण्यन्ताच्चङ्प्रतिषेधः ‘ह्रयन्तक्षण-’ (पा० ७ । २ । ५) इति वृद्ध्यभावः । | कीदृशोऽग्निः । धूमगन्धिः धूमस्य गन्धो लेशो यत्र सः अल्पधूमवानित्यर्थः । ‘अल्पाख्यायाम्-’ (पा० ५। ४ । १३६) | इति धूमादिकारः । किंच भ्राजन्ती अतितापेन दीप्यमाना उखा स्थाली मा अभिविक्त मा चलतु ‘ओविजी भयचलनयोः’ लुङि तङि ‘झलो झलि’ (पा० ८ । २ । २६) इति सिलोपे रूपम् । ‘न माङयोगे’ (पा०६ । ४ । ७४) इत्यडभावः । कीदृशी उखा । जघ्रिः जिघ्रति गन्धं गृह्णातीति जघ्रिः ‘आदृगम-’ (पा० ६।२। १७१) इति किन्प्रत्ययः । अधिष्ठात्र्या देवताया घ्राणम् । तमेवंविधमश्वं देवासः देवाः प्रतिगृभ्णन्ति प्रतिगृह्णन्तु । कीदृशमश्वम् । इष्टं प्रयाजैः । वीतमाप्रीभिः पर्यग्निकृतम् । अभिगूर्तं ये यजामह इत्यागूर्त्योक्तम् । । वषट्कृतं वषट्कारेण संस्कृतम् ॥ ३७ ॥
अष्टत्रिंशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- गोतम ऋषिः
- भुरिक्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर किस को क्या देखना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (या) जो (ऊष्मण्या) गरमियों में उत्तम (अपिधाना) ढाँपने (आसेचनानि) और सिचाने हारे (पात्राणि) पात्र वा (यत्) जो (मांस्पचन्याः) मांस जिस में पकाया जाए उस (उखायाः) बटलोई का (नीक्षणम्) निकृष्ट देखना वा (चरूणाम्) पात्रों के (अङ्काः) लक्षणा किये हुए (सूनाः) प्रसिद्ध पदार्थ तथा (यूष्णः) बढ़ानेवाले के (अश्वम्) घोड़े को (परि, भूषन्ति) सब ओर से सुशोभित करते हैं, वे सब स्वीकार करने योग्य हैं ॥३६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यदि कोई घोड़े आदि उपकारी पशुओं और उत्तम पक्षियों का मांस खावें तो उन को यथापराध अवश्य दण्ड देना चाहिये ॥३६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः केन किं निरीक्षणीयमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - या ऊष्मण्याऽपिधानाऽऽसेचनानि पात्राणि यन्मांस्पचन्या उखाया नीक्षणं चरूणामङ्काः सूना यूष्णोऽश्वं परिभूषन्ति तानि स्वीकर्त्तव्यानि ॥३६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदि केचिदश्वादीनामुपकारिणां पशूनां शुभानां पक्षिणां मांसाहारं कुर्युस्तर्हि तेभ्यो दण्डो यथापऽराधं दातव्य एव ॥३६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जर एखाद्याने घोडे वगैरे उपकारक पशूंचे व उत्तम पक्ष्यांचे मांस खाल्ले तर त्याला त्याच्या अपराधाप्रमाणे दंड द्यावा.
३७ मा त्वाग्निर्ध्वनयीद्
विश्वास-प्रस्तुतिः ...{Loading}...
मा त्वा॒ग्निर्ध्व॑नयीद् धू॒मग॑न्धि॒र्मोखा भ्राज॑न्त्य॒भि वि॑क्त॒ जघ्रिः॑। इ॒ष्टं वी॒तम॒भिगू॑र्त्तं॒ वष॑ट्कृतं॒ तं दे॒वासः॒ प्रति॑ गृभ्ण॒न्त्यश्व॑म् ॥३७ ॥
मूलम् ...{Loading}...
मा त्वा॒ग्निर्ध्व॑नयीद् धू॒मग॑न्धि॒र्मोखा भ्राज॑न्त्य॒भि वि॑क्त॒ जघ्रिः॑। इ॒ष्टं वी॒तम॒भिगू॑र्त्तं॒ वष॑ट्कृतं॒ तं दे॒वासः॒ प्रति॑ गृभ्ण॒न्त्यश्व॑म् ॥३७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मा। त्वा॒। अ॒ग्निः। ध्व॒न॒यी॒त्। धू॒मग॑न्धि॒रिति॑ धू॒मऽग॑न्धिः। मा। उ॒खा। भ्राज॑न्ती। अ॒भि। वि॒क्त॒। जघ्रिः॑। इ॒ष्टम्। वी॒तम्। अ॒भिगू॑र्त्त॒मित्य॒भिऽगू॑र्त्तम्। वष॑ट्कृत॒मिति॒ वष॑ट्ऽकृतम्। तम्। दे॒वासः॑। प्रति॑। गृ॒भ्ण॒न्ति॒। अश्व॑म्। ३७।
महीधरः
म० यत् निक्रमणं नितरां क्रमते यत्र तत् निष्क्रमणस्थानम् । निषदनं नितरां सीदत्यस्मिन्निति निषदनमुपवेशनस्थानम् । विवर्तनं विविधं वर्तते यत्र तत् इतस्ततो लुण्ठनस्थानम् । सर्वत्राधिकरणे ल्युट् । यच्चार्वतोऽश्वस्य पड्वीशम् पदेषु विशति पड्वीशं पादबन्धनम् । क्रियापरा वा निक्रमणादयः शब्दाः । आलम्भसमये यानि अश्वस्य निक्रमणादीनि चेष्टितानि । किंच यच्च पपौ यज्जलं पीतवान् यच्च घासिमदनीयं । तृणादिकं जघास भक्षितवान् ‘घस्लृ अदने’ लिट् । हे अश्व, ता तानि सर्वाणि ते तव निक्रमणादीनि देवेषु अस्तु सन्तु । । देवार्थस्याश्वस्य रोमादीनामपि निरर्थकत्वं मास्त्वित्यर्थः ॥ ३८॥
एकोनचत्वारिंशी।
अधिमन्त्रम् (VC)
- विद्वांसो देवता
- गोतम ऋषिः
- स्वराट्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को मांस न खाना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (देवासः) विद्वान् जन जिस (इष्टम्) चाहे हुए (वीतम्) प्राप्त (अभिगूर्त्तम्) चारों ओर से जिस में उद्यम किया गया (वषट्कृतम्) ऐसी क्रिया से सिद्ध हुए (अश्वम्) वेगवान् घोड़े को (प्रति गृभ्णन्ति) प्रतीति से ग्रहण करते उस को तुम (अभि) सब ओर से (विक्त) जानो (त्वा) उस को (धूमगन्धिः) धुआँ में गन्ध जिस का वह (अग्निः) अग्नि (मा) मत (ध्वनयीत्) शब्द करे वा (तम्) उस को (जघ्रिः) जिससे किसी वस्तु को सूँघते हैं, वह (भ्राजन्ती) चकमती हुई (उखा) बटलोई (मा) मत हिंसवावे ॥३७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जैसे विद्वान् जन मांसाहारियों को निवृत्त कर घोड़ा आदि पशुओं की वृद्धि और रक्षा करते हैं, वैसे तुम भी करो और अग्नि आदि के विघ्नों से अलग रक्खो ॥३७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैर्मांसभक्षणं न कर्त्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा देवासो यमिष्टं वीतमभिगूर्त्तं वषट्कृतमश्वं प्रतिगृभ्णन्ति, तं यूयमभि विक्त त्वा तं धूमगन्धिरग्निर्मा ध्वनयीत्तं जघ्रिर्भ्राजन्त्युखा मा ध्वनयीत्॥३७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यथा विद्वांसो मांसाहारिणो निवार्याऽश्वादीनां वृद्धिं रक्षां च कुर्वन्ति, तथा यूयमपि कुरुत। अग्न्यादिविघ्नेभ्यः पृथग् रक्षत ॥३७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! विद्वान लोक जसे मांसाहारी लोकांचे निवारण करून घोडे वगैरे पशूंची वाढ करतात व रक्षण करतात तसे तुम्हीही करा व अग्नी वगैरेपासून त्यांना दूर ठेवा.
३८ निक्रमणं निषदनम्
विश्वास-प्रस्तुतिः ...{Loading}...
नि॒क्रम॑णं नि॒षद॑नं वि॒वर्त्त॑नं॒ यच्च॒ पड्वी॑श॒मर्व॑तः। यच्च॑ प॒पौ यच्च॑ घा॒सिं ज॒घास॒ सर्वा॒ ता ते॒ऽअपि॑ दे॒वेष्व॑स्तु ॥३८ ॥
मूलम् ...{Loading}...
नि॒क्रम॑णं नि॒षद॑नं वि॒वर्त्त॑नं॒ यच्च॒ पड्वी॑श॒मर्व॑तः। यच्च॑ प॒पौ यच्च॑ घा॒सिं ज॒घास॒ सर्वा॒ ता ते॒ऽअपि॑ दे॒वेष्व॑स्तु ॥३८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नि॒क्रम॑ण॒मिति॑ नि॒ऽक्रम॑णम्। नि॒षद॑नम्। नि॒सद॑नमिति॑ नि॒ऽसद॑नम्। वि॒वर्त्त॑न॒मिति॑ वि॒ऽवर्त्त॑नम्। यत्। च॒। पड्वी॑शम्। अर्व॑तः। यत्। च॒। प॒पौ। यत्। च॒। घा॒सिम्। ज॒घास॑। सर्वा॑। ता। ते॒। अपि॑। दे॒वेषु॑। अ॒स्तु॒। ३८।
महीधरः
म० प्रिया प्रियाणि एतानि वस्तूनि देवेषु आयामयन्ति आगमयन्ति । ऋत्विजोऽश्वस्यैतानि देवेष्वेव प्रापयन्तीत्यर्थः । कानीत्यत आह । अश्वाय यत् अधीवासमाच्छादकं वासो वस्त्रमुपस्तृणन्ति ‘स्तृञ् आच्छादने’ क्र्यादिकः । तथा या यानि हिरण्यानि सौवर्णशकलानि अस्मै अश्वाय उपस्तृणन्ति । तथा अर्वन्तम् षष्ठ्यर्थे द्वितीया । अर्वतोऽश्वस्य संदानं शिरोबन्धनं पड्वीशं पादबन्धनम् । एतानि देवेषु प्रापयन्ति। कीदृशानि । प्रिया प्रियाणि देवानामिष्टानि ॥ ३९ ॥
चत्वारिंशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- गोतम ऋषिः
- विराट्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् ! जो (ते) तेरे (अर्वतः) घोड़े का (निक्रमणम्) निकलना (निषदनम्) बैठना (विवर्त्तनम्) विशेष कर वर्त्ताव वर्त्तना (च) और (यत्) जो (पड्वीशम्) पछाड़ी (यत्, च) और जो यह (पपौ) पीता (यत्, च) और जो (घासिम्) घास (जघास) खाता (ता) वे (सर्वा) सब काम युक्ति के साथ हों और यह सब (देवेषु) दिव्य उत्तम गुणवालों में (अपि) भी (अस्तु) होवे ॥३८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! आप घोड़े आदि पशुओं को अच्छी शिक्षा तथा खान-पान के देने से अपने सब कामों को सिद्ध किया करो ॥३८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यत्तेऽर्वतो निक्रमणं निषदनं विवर्त्तनं यच्च पड्वीशं यच्चायं पपौ यच्च घासिं जघास, ताः सर्वा युक्त्या सन्तु तद्देवेष्वप्यस्तु ॥३८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्या ! भवन्तोऽश्वादीनां सुशिक्षणेन भक्ष्यपेयदानेन सर्वाणि कार्याणि साध्नुवन्तु ॥३८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! तुम्ही घोडे इत्यादी पशूंना प्रशिक्षित करून चारा अन्न-पाणी द्या व त्यांच्याकडून आपले काम करून घ्या.
३९ यदश्वाय वासऽउपस्तृणन्त्यधीवासम्
विश्वास-प्रस्तुतिः ...{Loading}...
यदश्वा॑य॒ वास॑ऽउपस्तृ॒णन्त्य॑धीवा॒सं या हिर॑ण्यान्यस्मै। स॒न्दान॒मर्व॑न्तं॒ पड्वी॑शं प्रि॒या दे॒वेष्वा या॑मयन्ति ॥३९ ॥
मूलम् ...{Loading}...
यदश्वा॑य॒ वास॑ऽउपस्तृ॒णन्त्य॑धीवा॒सं या हिर॑ण्यान्यस्मै। स॒न्दान॒मर्व॑न्तं॒ पड्वी॑शं प्रि॒या दे॒वेष्वा या॑मयन्ति ॥३९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यत्। अश्वा॑य। वासः॑। उ॒प॒स्तृ॒णन्तीत्यु॑पऽस्तृ॒णन्ति॑। अ॒धी॒वा॒सम्। अ॒धि॒वा॒समित्य॑धिऽवा॒सम्। या। हिर॑ण्यानि। अ॒स्मै॒। स॒न्दान॒मिति॑ स॒म्ऽदान॑म्। अर्व॑न्तम्। पड्वी॑शम्। प्रि॒या। दे॒वेषु॑। आ। या॒म॒य॒न्ति॒। य॒म॒य॒न्तीति॑ यमयन्ति। ३९।
महीधरः
म० हे अश्व, अश्ववारः सादे गमने यत्ते तव त्वां पार्ष्यार् पादाधोभागेन कशया वा तुतोद पीडितवान् ‘तुद व्यथने’ लिट् । सदनं सादः घञ् । कीदृशस्य तव । महसा बलेन शूकृतस्य शूकृतमस्यास्ति शूकृतः तस्य । शब्दानुकरणमेतत् । शूकारं कुर्वतः । अध्वरेषु ता सर्वा तानि सर्वाणि ते तव पार्ष्णिकशाताडनानि ब्रह्मणा मन्त्रेणाहं सूदयामि ‘षूद क्षरणे’ चुरादिः क्षारयामि । यज्ञे आहुतित्वेन कल्पयामीत्यर्थः । तत्र दृष्टान्तः । हविषः स्रुचेव हविराज्यादिकं यथा स्रुचा जुह्वा सूदयामि तद्वत् । एकं तापदं पादपूरणाय ॥ ४० ॥
एकचत्वारिंशी।
अधिमन्त्रम् (VC)
- विद्वांसो देवता
- गोतम ऋषिः
- विराट्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! आप (अस्मै) इस (अश्वाय) घोड़े के लिए (यत्) जो (वासः) वस्त्र (अधीवासम्) चारजामा (सन्दानम्) मुहेरा आदि और (या) जिन (हिरण्यानि) सुवर्ण के बनाये हुए आभूषणों को (उपस्तृणन्ति) ढापते वा जिस (पड्वीशम्) पैरों से प्रवेश करते और (अर्वन्तम्) जाते हुए घोड़े को (आ, यामयन्ति) अच्छे प्रकार नियम में रखते हैं, वे सब पदार्थ और काम (देवेषु) विद्वानों में (प्रिया) प्रीति देनेवाले हों ॥३९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य घोड़े आदि पशुओं की यथावत् रक्षा करके उपकार लेवें तो बहुत कार्यों की सिद्धि से उपकारयुक्त हों ॥३९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्या ! भवन्तोऽस्मा अश्वाय यद्वासोऽधीवासं सन्दानं या हिरण्यान्युपस्तृणन्ति यं पड्वीशमर्वन्तमायामयन्ति, तानि सर्वाणि देवेषु प्रिया सन्तु ॥३९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदि मनुष्या अश्वादीन् पशून् यथावद् रक्षयित्वोपकारं गृह्णीयुस्तर्हि बहुकार्यसिद्ध्युपकृताः स्युः ॥३९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे घोडे वगैरे पशूंचे रक्षण करून त्यांचा उपयोग करून घेतात ती खूप कार्य करतात म्हणून उपकारक असतात.
४० यत्ते सादे
विश्वास-प्रस्तुतिः ...{Loading}...
यत्ते॑ सा॒दे मह॑सा॒ शूकृ॑तस्य॒ पार्ष्ण्या॑ वा॒ कश॑या वा तु॒तोद॑। स्रु॒चेव॒ ता ह॒विषो॑ऽअध्व॒रेषु॒ सर्वा॒ ता ते॒ ब्रह्म॑णा सूदयामि ॥४० ॥
मूलम् ...{Loading}...
यत्ते॑ सा॒दे मह॑सा॒ शूकृ॑तस्य॒ पार्ष्ण्या॑ वा॒ कश॑या वा तु॒तोद॑। स्रु॒चेव॒ ता ह॒विषो॑ऽअध्व॒रेषु॒ सर्वा॒ ता ते॒ ब्रह्म॑णा सूदयामि ॥४० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यत्। ते॒। सा॒दे। मह॑सा। शूकृ॑तस्य। पार्ष्ण्या॑। वा॒। कश॑या। वा॒। तु॒तोद॑। स्रु॒चेवे॑ति सु॒चाऽइ॑व। ता। ह॒विषः॒। अ॒ध्व॒रेषु॑। सर्वा॑। ता। ते॒। ब्रह्म॑णा। सू॒द॒या॒मि॒। ४०।
महीधरः
म० स्वधितिः पशुच्छेदनसाधनोऽसिः अश्वस्य चतुस्त्रिंशत् वंक्रीः चतुस्त्रिंशत्संख्याकान्युभयपार्श्वास्थीनि समेति सम्यगागच्छति छेदनाय । कीदृशस्याश्वस्य । वाजिनः वजति गच्छतीति वाजी तस्य । वेगवत इत्यर्थः । देवबन्धोः देवानां बन्धुः प्रियस्तस्य, देवा बन्धवो यस्येति वा भावी निर्देशः । अश्वस्य चतुस्त्रिंशद्वंक्रयः अजादीनां षड्विंशतिः । अतो हे ऋत्विजः, वयुना वयुनेन ज्ञानेनाश्वस्य गात्रा गात्राणि अच्छिद्रा अच्छिद्राणि छिद्रहीनानि यूयं कृणोत कुरुत । स्वधितिना छिन्नानि सच्छिद्राणि वर्तन्ते तान्यच्छिद्राणि कुरुत । किंच परुः परुः ‘ग्रन्थिर्ना पर्वपरुषी’ इत्यमरः । ‘नित्यवीप्सयोः’ इति (पा० ८ । १ । ४) द्वित्वम् । प्रतिपर्व प्रत्यवयवम् अनुघुष्य इदमिति नाम्ना संशब्द्य यूयं विशस्त विशसनं छेदं कुरुत । ‘शसु हिंसायाम्’ छान्दसः शपो लुक् । कृणोत ‘कॄ करणे’ स्वादिः ‘तप्तनब्-’ (पा० ७ । १ । ४५) इति मध्यमबहुवचनस्य तबादेशः ततो गुणः । अनुघुष्य, ‘घुषिर् विशब्दे’ क्त्वो ल्यप् ॥ ४१ ॥
द्विचत्वारिंशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- गोतम ऋषिः
- भुरिक्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! (ते) आप के (सादे) बैठने के स्थान में (महसा) बड़प्पन से (वा) अथवा (शूकृतस्य) जल्दी सिखाये हुए घोड़े के (कशया) कोड़े से (यत्) जिस कारण (पार्ष्ण्या) पसुली आदि स्थान (वा) वा कक्षाओं में जो उत्तम ताड़ना आदि काम वा (तुतोद) साधारण ताड़ना देना (ता) उन सब को (अध्वरेषु) यज्ञों में (हविषः) होमने योग्य पदार्थ सम्बन्धी (स्रुचेव) जैसे स्रुचा प्रेरणा देती वैसे करते हो (ता) वे (सर्वा) सब काम (ते) तेरे लिये (ब्रह्मणा) धन से (सूदयामि) प्राप्त करता हूँ ॥४० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे यज्ञ के साधनों से होमने योग्य पदार्थों को अग्नि में प्रेरणा देते हैं, वैसे ही घोड़े आदि पशुओं को अच्छी सिखावट की रीति से प्रेरणा देवें ॥४० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वँस्ते सादे महसा शूकृतस्य कशया वा यत्पार्ष्ण्या वा तुतोद ता तान्यध्वरेषु हविषः स्रुचेव करोषि ता सर्वा ते ब्रह्मणाऽहं सूदयामि ॥४० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा यज्ञसाधनैर्हवींष्यग्नौ प्रेरयन्ति तथैवाश्वादीनि सुशिक्षारीत्या प्रेरयेयुः ॥४० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जसे यज्ञात आहुती टाकल्याने अग्नी उत्तेजित होतो तसे घोडे वगैरे पशूंना प्रशिक्षित करून उत्तेजित करावे.
४१ चतुस्त्रिंशद्वाजिनो देवबन्धोर्वङ्क्रीरश्वस्य
विश्वास-प्रस्तुतिः ...{Loading}...
चतु॑स्त्रिँशद्वा॒जिनो॑ दे॒वब॑न्धो॒र्वङ्क्री॒रश्व॑स्य॒ स्वधि॑तिः॒ समे॑ति। अच्छि॑द्रा॒ गात्रा॑ व॒युना॑ कृणोतु॒ परु॑ष्परुरनु॒घुष्या॒ वि श॑स्त ॥४१ ॥
मूलम् ...{Loading}...
चतु॑स्त्रिँशद्वा॒जिनो॑ दे॒वब॑न्धो॒र्वङ्क्री॒रश्व॑स्य॒ स्वधि॑तिः॒ समे॑ति। अच्छि॑द्रा॒ गात्रा॑ व॒युना॑ कृणोतु॒ परु॑ष्परुरनु॒घुष्या॒ वि श॑स्त ॥४१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
चतु॑स्त्रिँश॒दिति॒ चतुः॑ऽत्रिँशत्। वा॒जिनः॑। दे॒वब॑न्धो॒रिति॑ दे॒वऽब॑न्धोः॒। वङ्क्रीः॑। अश्व॑स्य। स्वधि॑ति॒रिति॒ स्वऽधि॑तिः। सम्। ए॒ति॒। अच्छि॑द्रा। गात्रा॑। व॒युना॑। कृ॒णो॒तु॒। परु॑ष्परुः। परुः॑परु॒रिति॒ परुः॑ऽपरुः। अ॒नु॒घुष्येत्य॑नु॒ऽघुष्य॑। वि। श॒स्त॒। ४१।
महीधरः
म० अश्वस्य विशस्ता विशसनकर्ता एकः ऋतुः । कीदृशस्याश्वस्य । त्वष्टुः दीप्तस्य । ऋतूपलक्षितः कालात्मा प्रजापतिरेवाश्वस्य शस्तेत्यर्थः । शसेस्तृच् । तथा यन्तारा यन्तारौ नियमनकर्तारौ द्वा द्वौ द्यावापृथिव्यभिमानिदेवौ भवतः । तयोरेव सर्वेषां नियन्तृत्वादिति भावः । तथ ऋतुः अत्र ‘ऋत्यकः’ । (पा० ६।१ । १२८ ) इति ह्रस्वप्रकृतिभावौ । एवमश्वस्य विशसितृयन्तॄनुक्त्वाध्वर्युः स्वकर्माह । हे अश्व, ते तव गात्राणां पिण्डानां गात्रसंबन्धिनां मांसपिण्डानां या यानि अङ्गानि अहं कृणोमि हन्मि छिनद्मि । ‘कृञ् बन्धे’ स्वादिः । ऋतुथा ऋतौ ऋतूपलक्षिते वसन्तादियज्ञकाले ता ता तानि तान्यङ्गानि अग्नौ प्रजुहोमि प्रकर्षेण हुतानि करोमि ॥ ४२ ॥
त्रिचत्वारिंशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- गोतम ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे घुड़चढ़ा चाबुकी जन (देवबन्धोः) जिसके विद्वान् बन्धु के समान उस (वाजिनः) वेगवान् (अश्वस्य) घोड़े की (चतुस्त्रिंशत्) चौंतीस (वङ्क्रीः) टेढ़ी-मेंढ़ी चालों को (सम्, एति) अच्छे प्रकार प्राप्त होता और (अच्छिद्रा) छेद-भेद रहित (गात्रा) अङ्ग और (वयुना) उत्तम ज्ञानों को (कृणोतु) करे, वैसे उस के (परुष्परुः) प्रत्येक मर्मस्थान को (अनुघुष्य) अनुकूलता से बजाकर (स्वधितिः) वज्र के समान वर्त्तमान तुम लोग रोगों को (वि, शस्त) विशेषता से छिन्न-भिन्न करो ॥४१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जैसे घोड़ों को सिखानेवाला चतुर जन चौंतीस चित्र-विचित्र गतियों को घोड़े को पहुँचाता और वैद्यजन प्राणियों को नीरोग करता है, वैसे ही और पशुओं की रक्षा से उन्नति करनी चाहिये ॥४१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथाऽश्वशिक्षको देवबन्धोर्वाजिनोऽश्वस्य चतुस्त्रिंशद्वङ्क्रीः समेत्यच्छिद्रा गात्रा वयुना कृणोतु, तस्य परुष्परुरनुघुष्य स्वधितिरिव रोगान् यूयं विशस्त ॥४१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यथा चतुरोऽश्वशिकक्षश्चतुस्त्रिंशद् विचित्रा गतीरश्वं नयति, वैद्यश्चारोगिणं करोति, तथैवान्येषां पशूनां रक्षणेनोन्नतिः कार्या ॥४१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! जसे चतुर अश्वशिक्षक घोड्यांना चौतीस विविध गती शिकवितात व वैद्य प्राण्यांना निरोगी करतात, तसेच इतरही पशूंचे रक्षण करावे.
४२ एकस्त्वष्टुरश्वस्या विशस्ता
विश्वास-प्रस्तुतिः ...{Loading}...
एक॒स्त्वष्टु॒रश्व॑स्या विश॒स्ता द्वा य॒न्तारा॑ भवत॒स्तथ॑ऽऋ॒तुः। या ते॒ गात्रा॑णामृतु॒था कृ॒णोमि॒ ताता॒ पिण्डा॑नां॒ प्र जु॑होम्य॒ग्नौ ॥४२ ॥
मूलम् ...{Loading}...
एक॒स्त्वष्टु॒रश्व॑स्या विश॒स्ता द्वा य॒न्तारा॑ भवत॒स्तथ॑ऽऋ॒तुः। या ते॒ गात्रा॑णामृतु॒था कृ॒णोमि॒ ताता॒ पिण्डा॑नां॒ प्र जु॑होम्य॒ग्नौ ॥४२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
एकः॑। त्वष्टुः॑। अश्व॑स्य। वि॒श॒स्तेति॑ विऽश॒स्ता। द्वा। य॒न्तारा॑। भ॒व॒तः॒। तथा॑। ऋ॒तुः। या। ते॒। गात्रा॑णाम्। ऋ॒तु॒थेत्यृ॑तु॒ऽथा। कृ॒णोमि॑। तातेति॒ ताता॑। पिण्डा॑नाम्। प्र। जु॒हो॒मि॒। अ॒ग्नौ। ४२।
महीधरः
म० हे अश्व, प्रियः वल्लभो भोगायतनत्वात् तवात्मा देहः त्वा त्वां मा तपत् तप्तं दुःखितं मा कार्षीत् । तव देहवियोगजनिता व्यथा मा भूदिति विज्ञानात्मानं प्रत्युच्यते । किंभूतं त्वाम् । अपियन्तम् । अप्येतीत्यपियन् तम् देवलोकं गच्छन्तम् । अपिपूर्वादेतेः शतृप्रत्ययः । किंच स्वधितिः शस्त्रं ते तव तन्वः तनूः अङ्गानि मा आतिष्ठिपत् मा स्थापयतु । सर्वाणि छित्त्वा देवेभ्यो ददत्वित्यर्थः । तिष्ठतेर्ण्यन्तस्य लुङि चङि ‘तिष्ठतेरित्’ (पा. ७ । ४ । ५) इतीकारे कृते द्वित्वादि । किंच शमिता ते तव गात्राणि अङ्गानि अतिहाय त्यक्त्वा शास्त्रोक्तक्रमं त्यक्त्वा असिना शासेन मिथु मिथ्या छिद्रा छिद्राणि अयथाच्छिन्नानि मा कः मा कार्षीत् । करोतेर्लुङि ‘मन्त्रे घसह्वर-’ (पा० २ । ४ । ८०) इत्यादिना च्लेर्लुक् गुणे ‘हल्ड्याब् ’ (पा० ६ । १ । ६८) इति तिपो लोपे विसर्गः । मिथु इति मिथ्यार्थेऽव्ययम् । संहितायां दीर्घः । कीदृशः शमिता । गृध्नुः गृध्यतीति गृध्नुः लुब्धः केवलं मांसग्रहणेच्छुः। अतएवाविशस्ता न विशेषेण शसति हिनस्ति अविशस्ता विशसने अकुशलः । अतएवान्यथा मा छिदत् । सम्यगवदानानि | करोत्वित्यर्थः ॥ ४३ ॥
चतुश्चत्वारिंशी।
अधिमन्त्रम् (VC)
- यजमानो देवता
- गोतम ऋषिः
- स्वराट्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर किस प्रकार पशु सिखाने चाहियें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (एकः) अकेला (ऋतुः) वसन्त आदि ऋतु (त्वष्टुः) शोभायमान (अश्वस्य) घोड़े का (विशस्ता) विशेष करके रूपादि का भेद करनेवाला होता है वा जो (द्वा) दो (यन्तारा) नियम करनेवाले (भवतः) होते हैं (तथा) वैसे (या) जिन (ते) तुम्हारे (गात्राणाम्) अङ्गों वा (पिण्डानाम्) पिण्डों के (ऋतुथा) ऋतु सम्बन्धी पदार्थों को मैं (कृणोमि) करता हूँ (ताता) उन-उन को (अग्नौ) आग में (प्र, जुहोमि) होमता हूँ ॥४२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे घोड़ों के सिखानेवाले ऋतु-ऋतु के प्रति घोड़ों को अच्छा सिखलाते हैं, वैसे गुरुजन विद्यार्थियों को क्रिया करना सिखलाते हैं वा जैसे अग्नि में पिण्डों का होम कर पवन की शुद्धि करते हैं, वैसे विद्यारूपी अग्नि में अविद्यारूप भ्रमों को होम के आत्माओं की शुद्धि करते हैं ॥४२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः कथं पशवः शिक्षणीया इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथैक ऋतुस्त्वष्टुरश्वस्य विशस्ता भवति, यौ द्वा यन्तारा भवतस्तथा या ते गात्राणां पिण्डानामृतुथा वस्तून्यहं कृणोमि ताताऽग्नौ प्रजुहोमि ॥४२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथाऽश्वशिक्षकाः प्रत्यृत्वश्वान् सुशिक्षयन्ति, तथा गुरवो विद्यार्थिनां चेष्टाकरणानि शिक्षयन्ति। यथाग्नौ पिण्डान् हुत्वा वायुं शोधयन्ति, तथा विद्याग्नावविद्याभ्रमान् हुत्वाऽऽत्मनः शोधयन्ति ॥४२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसे अश्वशिक्षक निरनिराळ्या ऋतुंमध्ये घोड्यांना उत्तम शिक्षण देतात किंवा प्रशिक्षित करतात तसे गुरुजन विद्यार्थ्यांना निरनिराळ्या क्रिया शिकवितात. जसे अग्नीत तूप, तांदूळ वगैरेंची आहुती देऊन होम करतात व वायू शुद्ध करतात. तसे विद्यारूपी अग्नीत अविद्यारूपी भ्रमाचा हेत करून आत्म्याची शुद्धी करतात.
४३ मा त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
मा त्वा॑ तपत्प्रि॒यऽआ॒त्मापि॒यन्तं॒ मा स्वधि॑तिस्त॒न्व᳙ऽआ ति॑ष्ठिपत्ते। मा ते॑ गृ॒ध्नुर॑विश॒स्ताति॒हाय॑ छि॒द्रा गात्रा॑ण्य॒सिना॒ मिथू॑ कः ॥४३ ॥
मूलम् ...{Loading}...
मा त्वा॑ तपत्प्रि॒यऽआ॒त्मापि॒यन्तं॒ मा स्वधि॑तिस्त॒न्व᳙ऽआ ति॑ष्ठिपत्ते। मा ते॑ गृ॒ध्नुर॑विश॒स्ताति॒हाय॑ छि॒द्रा गात्रा॑ण्य॒सिना॒ मिथू॑ कः ॥४३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मा। त्वा॒। त॒प॒त्। प्रि॒यः। आ॒त्मा। अ॒पि॒यन्त॒मित्य॑पि॒ऽयन्त॑म्। मा। स्वधि॑ति॒रिति॒ स्वऽधि॑तिः। त॒न्वः᳖। आ। ति॒ष्ठि॒प॒त्। ति॒स्थि॒प॒दिति॑ तिस्थिपत्। ते॒। मा। ते॒। गृ॒ध्नुः। अ॒वि॒श॒स्तेत्य॑विऽश॒स्ता। अ॒ति॒हायेत्य॑ति॒हाय॑। छि॒द्रा। गात्रा॑णि। अ॒सिना॑। मिथू॑। क॒रिति॑ कः। ४३।
महीधरः
म० वै एवार्थे उ अवधारणे । हे अश्व, त्वमेतन्नैव म्रियसे इतराश्ववत् मृतो न भवसि देवत्वप्राप्तेर्वक्ष्यमाणत्वात् । अतएव न रिष्यसि हिंस्यसे व्यर्थहिंसाया अभावात् । रिषतेर्यकि परस्मैपदमार्षम् । ननु प्रत्यक्षत्वे मरणमङ्गनाशश्च दृश्यते तर्हि कथमेवमुच्यते तत्राह सुष्ठु गम्यते यत्र ते सुगाः तैः सुगेभिः सुगैः साधुगमनैः पथिभिर्मार्गैः देवयानरूपैः देवान् इत् एषि देवानेव गच्छसि । अथो युक्ता मदुक्तिः । कथं देवान् प्रति गमनं तत्राह । हे अश्व, ते तव हरी इन्द्राश्वौ युञ्जा युञ्जौ रथे युक्तौ अभूतां भविष्यतः । ‘आशंसायां भूतवच्च’ (पा० ३। ३ । १३२ ) इति भूतकालप्रयोगो भविष्यदर्थे । हरी इन्द्रस्येति यास्कः । तथा पृषती मरुतां वाहनभूते तव युञ्जौ अभूताम् । पृषत्यो मरुतामिति च । युङ्क्तस्ते युञ्जौ ‘ऋत्विग्दधृग्-’ (पा० ३ । २ । ५९) इत्यादिना क्विन् ‘क्विन्प्रत्ययस्य कुः’ (पा० ८ । २ । ६२ ) इति कुत्वम् ‘युजेरसमासे’ (पा० ७ । १। ७१) इति नुम् ‘सुपां सुलुक्’ (पा० ७ । १ । ३९ ) इति विभक्तेरात्वम् । किंच रासभस्याश्विवाहनस्य धुरि अश्विवाहनस्थाने वाजी कश्चिदश्वः उपास्थात् उपस्थास्यति । देवत्वं प्राप्तस्य तव वहनाय इन्द्रादयो निजवाहनानि प्रेषयिष्यन्तीति भावः । यद्वा तत्तद्देवभावं प्राप्तं त्वां तानि तानि वाहनानि वक्ष्यन्तीत्यर्थः ॥ ४४ ॥
पञ्चचत्वारिंशी। ।
अधिमन्त्रम् (VC)
- आत्मा देवता
- गोतम ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को आत्मादि पदार्थ कैसे शुद्ध करने चाहियें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् (ते) आप का जो (प्रियः) प्रीति वा आनन्द देनेवाला वह (आत्मा) अपना निज रूप आत्मतत्त्व भी (अपियन्तम्) निश्चय से प्राप्त होते हुए (त्वा) आप को (अतिहाय) अतीव छोड़ के (मा, तपत्) मत संताप को प्राप्त हो (स्वधितिः) वज्र (ते) आप के (तन्वः) शरीर के बीच (मा, आतिष्ठिपत्) मत स्थित करावे, आप के (छिद्रा) छिन्न-भिन्न (गात्राणि) अङ्गों को (अविशस्ता) विशेष न काटने और (गृध्नुः) चाहनेवाला जन (मा) मत स्थित करावे तथा (असिना) तलवार से (मिथू) परस्पर मत (कः) चेष्टा करे ॥४३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सब मनुष्यों को चाहिये कि अपने-अपने आत्मा को शोक में न डालें, किसी के ऊपर वज्र न छोड़ें और किसी का उपकार किया हुआ न नष्ट किया करें ॥४३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैरात्मादयः कथं शोधनीया इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वँस्ते प्रिय आत्माऽपियन्तं त्वा त्वामतिहाय मा तपत्, स्वधितिस्ते तन्वो मा तिष्ठिपत्, ते छिद्रा गात्राण्यविशस्ता गृध्नुर्मा तिष्ठिपदसिना मिथू मा कः ॥४३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सर्वैर्मनुष्यैः स्व स्व आत्मा शोके न निपातनीयः, कस्याप्युपरि वज्रो न निपातनीयः, कस्याप्युपकारो न विच्छेदनीयश्च ॥४३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सर्व माणसांनी आपापल्या आत्म्याला शोकातूर करू नये. कुणावरही वज्र सोडू नये. एखाद्याने उपकार केल्यास कृतघ्न बनू नये.
४४ न वाऽउऽएतान्म्रियसे
विश्वास-प्रस्तुतिः ...{Loading}...
न वाऽउ॑ऽए॒तान्म्रि॑यसे॒ न रि॑ष्यसि दे॒वाँ२ऽइदे॑षि प॒थिभिः॑ सु॒गेभिः॑। हरी॑ ते॒ युञ्जा॒ पृष॑तीऽअभूता॒मुपा॑स्थाद् वा॒जी धु॒रि रास॑भस्य ॥४४ ॥
मूलम् ...{Loading}...
न वाऽउ॑ऽए॒तान्म्रि॑यसे॒ न रि॑ष्यसि दे॒वाँ२ऽइदे॑षि प॒थिभिः॑ सु॒गेभिः॑। हरी॑ ते॒ युञ्जा॒ पृष॑तीऽअभूता॒मुपा॑स्थाद् वा॒जी धु॒रि रास॑भस्य ॥४४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
न। वै। ऊँ॒ इत्यूँ॑। ए॒तत्। म्रि॒य॒से॒। न। रि॒ष्य॒सि॒। दे॒वान्। इत्। ए॒षि। प॒थिऽभिः॑। सु॒गेभिः॑। हरी॒ इति॒ हरी॑। ते॒। युञ्जा॑। पृष॑ती॒ इति॒ पृष॑ती। अ॒भू॒ता॒म्। उप॑। अ॒स्था॒त्। वा॒जी। धु॒रि। रास॑भस्य। ४४।
महीधरः
म० इदानीं याञ्चा क्रियते । वाजी देवत्वं प्राप्तोऽश्वः नोऽस्माकं सुगव्यं शोभनं गोसमूहं कृणोतु । गवां समूहो गव्यम्। ‘खलगोरथात्’ (पा० ४ । २ । ५० ) इति यत्प्रत्ययः । शोभनं गव्यं सुगव्यम् । तथा स्वश्व्यं कृणोतु अश्वानां समूहः अश्व्यम् ‘केशाश्व-’ ( पा० ४ । २ । ४८ ) इति विकल्पात्पक्षे यत् । शोभनमश्व्यं स्वश्यम् । तथा पुंसः पुत्रान्करोतु । पुत्रशब्दोऽपत्यवाचक इति पुंस इति विशेषणम् । यद्वा पुंसः पुरुषार्थसाधकान्पुत्रान् करोतु । उतापि च रयिं धनं करोतु । कीदृशं रयिम् । विश्वपुषम् पुष्णातीति पुषः ‘इगुपध-’ (पा० ३ । १ । १३५) इति कप्रत्ययः । विश्वस्य सर्वस्य पुषस्तम् सर्वजनपोषणसमर्थं धनं करोत्वित्यर्थः । संहितायां विश्वशब्दस्य दीर्घः । किंच नोऽस्माकमनागास्त्वं करोतु नास्ति आगः अपराधः पापरूपो यस्य सोऽनागाः तस्य भावोऽनागस्वम् दीर्घइछान्दसः। निष्पापलं करोतु पापसद्भावे उक्तफलाप्राप्तेः । किंच अश्वो नोऽस्माकं क्षत्रं क्षतत्राणं परवालंभनाद्रक्षणं वा करोतु । कीदृशोऽश्वः । अदितिः नास्ति दितिः खण्डनं देन्यं वा यस्य सः । हविष्मान् हविरस्यास्तीति हविष्मान ‘तदस्यास्ति-’ (पा० ५। २ । ९४) इति मतुप् । हविर्भूतावयवः । यद्वा देवत्वाप्त्या हविष्मान् । ईदृशोऽश्वो नः क्षत्रं वनतां करोतु । वनतिः करोत्यर्थः ॥ ४५ ॥
षट्चत्वारिंशी।
अधिमन्त्रम् (VC)
- आत्मा देवता
- गोतम ऋषिः
- स्वराट्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को कैसे रथ-निर्माण करने चाहियें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् ! यदि (एतत्) इस पूर्वोक्त विज्ञान को पाते हो तो (न) न तुम (म्रियसे) मरते (न) न (वै) ही (रिष्यसि) मारते हो, किन्तु (सुगेभिः) सुगम (पथिभिः) मार्गों से (देवान्) विद्वानों (इत्) ही को (एषि) प्राप्त होते हो, यदि (ते) आप के (पृषती) स्थूल शरीरयुक्त (युञ्जा) योग करने हारे घोड़े (हरी) पहुँचानेवाले (अभूताम्) हों (उ) तो (वाजी) वेगवान् एक घोड़ा (रासभस्य) अश्वजाति से सम्बन्ध रखनेवाले खिच्चर की (धुरि) धारणा के निमित्त (उप, अस्थात्) उपस्थित हो ॥४४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे विद्या से अच्छे प्रकार जिनका प्रयोग किया, उन पवन जल और अग्नि से युक्त रथ में स्थिर होके मार्गों को सुख से जाते हैं, वैसे ही आत्मज्ञान से अपने स्वरूप को नित्य जान के मरण और हिंसा के डर को छोड़ दिव्य सुखों को प्राप्त हों ॥४४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैः कीदृशानि यानानि कर्त्तव्यानीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यद्येतद्विज्ञानं प्राप्नोषि तर्हि न त्वं म्रियसे न वै रिष्यसि सुगेभिः पथिभिर्देवानिदेषि यदि ते पृषती युञ्जा हरी अभूतामु तर्हि वाजी रासभस्य धुर्य्यपास्थात्॥४४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यथा विद्यया संयुक्तैर्वायुजलाग्निभिर्युक्ते रथे स्थित्वा मार्गान् सुखेन गच्छन्ति, तथैवात्मज्ञानेन स्वस्वरूपं नित्यं बुध्वा मरणहिंसात्रासं विहाय दिव्यानि सुखानि प्राप्नुयुः ॥४४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जसे वायू, जल, अग्नी यांच्यासंबंधी विद्या शिकून त्यांना रथात (यानात) प्रयुक्त करून मार्ग आक्रमिता येतो तसे मरण व हिंसा यांचे भय सोडून आत्मज्ञानाने आपल्या नित्य स्वरूपाला जाणून दिव्य सुख प्राप्त करावे.
४५ सुगव्यं नो
विश्वास-प्रस्तुतिः ...{Loading}...
सु॒गव्यं॑ नो वा॒जी स्वश्व्यं॑ पुँ॒सः पु॒त्राँ२ऽउ॒त वि॑श्वा॒पुषँ॑ र॒यिम्। अ॒ना॒गा॒स्त्वं नो॒ऽअदि॑तिः कृणोतु क्ष॒त्रं नो॒ऽअश्वो॑ वनताँ ह॒विष्मा॑न् ॥४५ ॥
मूलम् ...{Loading}...
सु॒गव्यं॑ नो वा॒जी स्वश्व्यं॑ पुँ॒सः पु॒त्राँ२ऽउ॒त वि॑श्वा॒पुषँ॑ र॒यिम्। अ॒ना॒गा॒स्त्वं नो॒ऽअदि॑तिः कृणोतु क्ष॒त्रं नो॒ऽअश्वो॑ वनताँ ह॒विष्मा॑न् ॥४५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सु॒गव्य॒मिति॑ सु॒ऽगव्य॑म्। नः॒। वा॒जी। स्वश्व्य॒मिति॑ सु॒ऽअश्व्य॑म्। पुं॒सः। पु॒त्रान्। उ॒त। वि॒श्वा॒पुष॑म्। वि॒श्वु॒पुष॒मिति॑ विश्व॒ऽपुष॑म्। र॒यिम्। अ॒ना॒गा॒स्त्वमित्य॑नागः॒ऽत्वम्। नः॒। अदि॑तिः। कृ॒णो॒तु॒। क्ष॒त्रम्। नः॒। अश्वः॑। व॒न॒ता॒म्। ह॒विष्मा॑न्। ४५।
महीधरः
म० ‘इमा नु कमिति च द्विपदाः’ ( का० २० । ८ । १२)। अयस्मयपात्रेणाश्वलोहितहोमानन्तरमिमा नु कमित्याद्याः षट् द्विपदाः जुहोति । कण्डिकाद्वयस्य षडर्धानि सन्ति तैः षडाहुतीर्जुहोतीति सूत्रार्थः । द्विपदाच्छन्दस्का विश्वदेवदेवत्या आस्यपुत्रभुवनदृष्टास्तिस्र ऋचः । नु कम् एतौ निपातौ पादपूरणौ । इमा इमानि भुवना भुवनानि भूतजातानि वयं सीषधाम साधयामः । वशीकुर्म इत्यर्थः । साधयतेर्लुङि उत्तमबहुवचने रूपम् अडभाव आर्षः । किंच इन्द्रः ‘इदि परमैश्वर्ये’ ऐश्वर्यवान् सगणो निजगणैः परिवारैः सहित इन्द्रो देवेशो विश्वे देवाश्च आदित्यैः द्वादशभिः मरुद्भिः एकोनपञ्चाशत्संख्यैश्च सहिताः अस्मभ्यं भेषजा भेषजानि औषधानि हितानि करत् कुर्वन्नु । सर्वे देवा अस्माकं हितकारिणो भवन्त्वित्यर्थः । किंच इन्द्रः आदित्यैः सह नोऽस्माकं यज्ञमश्वमेधं तन्वं शरीरं प्रजां पुत्रादिकां च सीषधाति साधयतु । वशीकरोत्वित्यर्थः । नीरोगाः सपुत्रा वयं यज्ञं सम्यक् कुर्म इति भावः ॥ ४६ ॥
सप्तचत्वारिंशी।
इति माध्यन्दिनीयायां वाजसनेयसंहितायां पञ्चविंशोऽध्यायः ॥ २५ ॥
अधिमन्त्रम् (VC)
- प्रजा देवता
- गोतम ऋषिः
- स्वराट्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
किन से राज्य की उन्नति होवे, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (नः) हमारा (वाजी) घोड़ा (सुगव्यम्) सुन्दर गौओं के लिये सुखस्वरूप (स्वश्व्यम्) अच्छे घोड़ों में प्रसिद्ध हुए काम को करता है वा जो विद्वान् (पुंसः) पुरुषपन से युक्त पुरुषार्थी (पुत्रान्) पुत्रों (उत) और (विश्वापुषम्) समग्र पुष्टि करनेवाले (रयिम्) धन को प्राप्त होता वा जैसे (अदितिः) कारणरूप से अविनाशी भूमि (नः) हमारे लिये (अनागास्त्वम्) अपराधरहित होने को करती है, वैसे आप (कृणोतु) करें वा जैसे (हविष्मान्) प्रशंसित सुख देने जिस में हैं, वह (अश्वः) व्याप्तिशील प्राणी (नः) हम लोगों के (क्षत्रम्) राज्य को (वनताम्) सेवे, वैसे आप सेवा किया करो ॥४५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो जितेन्द्रिय और ब्रह्मचर्य से वीर्यवान् घोड़े के समान अमोघवीर्य्य पुरुषार्थ से धन पाये हुए न्याय से राज्य को उन्नति देवें, वे सुखी होवें ॥४५ ॥
दयानन्द-सरस्वती (सं) - विषयः
कै राज्योन्नतिः स्यादित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यो नो वाजी सुगव्यं स्वश्व्यङ्करोति, यो विद्वान् पुंसः पुत्रानुत विश्वापुषं रयिञ्च प्राप्नोति, यथाऽदितिर्नोऽनागास्त्वङ्करोति, तथा भवान् कृणोतु। यथा हविष्मानश्वो नः क्षत्रं वनतान्तथा त्वं सेवस्व ॥४५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये जितेन्द्रिया ब्रह्मचर्येण वीर्यवन्तोऽश्व इवाऽमोघवीर्याः पुरुषार्थेन धनं प्राप्नुवन्तो न्यायेन राज्यमुन्नयेयुस्ते सुखिनः स्युः ॥४५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जे जितेंद्रिय व ब्रह्मचारी असून घोड्यांप्रमाणे बलवान असतात व पुरुषार्थाने धन कमावून न्यायीपणाने राज्याची उन्नती करतात ते सुखी होतात.
४६ इमा नु
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒मा नु कं॒ भुव॑ना सीषधा॒मेन्द्र॑श्च॒ विश्वे॑ च दे॒वाः। आ॒दि॒त्यैरिन्द्रः॒ सग॑णो म॒रुद्भि॑र॒स्मभ्यं॑ भेष॒जा क॑रत्। य॒ज्ञं च॑ नस्त॒न्वं᳖ च प्र॒जां चा॑दि॒त्यैरिन्द्रः॑ स॒ह सी॑षधाति ॥४६ ॥
मूलम् ...{Loading}...
इ॒मा नु कं॒ भुव॑ना सीषधा॒मेन्द्र॑श्च॒ विश्वे॑ च दे॒वाः। आ॒दि॒त्यैरिन्द्रः॒ सग॑णो म॒रुद्भि॑र॒स्मभ्यं॑ भेष॒जा क॑रत्। य॒ज्ञं च॑ नस्त॒न्वं᳖ च प्र॒जां चा॑दि॒त्यैरिन्द्रः॑ स॒ह सी॑षधाति ॥४६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इ॒मा। नु। क॒म्। भुव॑ना। सी॒ष॒धा॒म॒। सी॒स॒धा॒मेति॑ सीसधाम। इन्द्रः॑। च॒। विश्वे॑। च॒। दे॒वाः। आ॒दि॒त्यैः। इन्द्रः॑। सग॑ण॒ इति॒ सऽग॑णः। म॒रुद्भि॒रिति॑ म॒रुत्ऽभिः॑। अ॒स्मभ्य॑म्। भे॒ष॒जा। क॒र॒त्। य॒ज्ञम्। च॒। नः॒। त॒न्व᳖म्। च॒। प्र॒जामिति॑ प्र॒ऽजाम्। च॒। आ॒दि॒त्यैः। इन्द्रः॑। स॒ह। सी॒ष॒धा॒ति॒। सि॒स॒धा॒तीति॑ सिसधाति। ४६।
महीधरः
म० तिस्रो द्विपदा व्याख्याताः (अ० ३।क० २५–२६)। समिद्धो अञ्जन् ( अ० २९ । क. १) आश्वमेधिकोऽध्याय इति वचनात्तत्र हौत्रै तन्मन्त्राणां विनियोगः । समाप्तोऽश्वमेधः सप्तविंशत्युत्तरवर्षसाध्यः ॥ ४७ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
अध्यायः पञ्चविंशोऽयमश्वमेधगतोऽगमत् ॥ २५ ॥
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- गोतम ऋषिः
- भुरिक्शक्वरी
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर कौन धनवान् होते हैं, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (इन्द्रः) परमैश्वर्य्यवान् राजा (च) और (विश्वे) सब (देवाः) विद्वान् लोग (च) भी (इमा) इन समस्त (भुवना) लोकों को धारण करते, वैसे हम लोग (कम्) सुख को (नु) शीघ्र (सीषधाम) सिद्ध करें वा जैसे (सगणः) अपने सहचारी आदि गणों के साथ वर्त्तमान (इन्द्रः) सूर्य (आदित्यैः) महीनों के साथ वर्त्तमान समस्त लोकों को प्रकाशित करता, वैसे (मरुद्भिः) मनुष्यों के साथ वैद्यजन (अस्मभ्यम्) हम लोगों के लिये (भेषजा) ओषधियाँ (करत्) करे, जैसे (आदित्यैः) उत्तम विद्वानों के (सह) साथ (इन्द्रः) परमैश्वर्यवान् सभापति (नः) हम लोगों के (यज्ञम्) विद्वानों के सत्कार आदि उत्तम काम (च) और (तन्वम्) शरीर (च) और (प्रजाम्) सन्तान आदि को (च) भी (सीषधाति) सिद्ध करे, वैसे हम लोग सिद्ध करें ॥४६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो मनुष्य सूर्य के तुल्य नियम से वर्त्ताव रखके शरीर को नीरोग और आत्मा को विद्वान् बना तथा पूर्ण ब्रह्मचर्य कर स्वयंवरविधि से हृदय को प्यारी स्त्री को स्वीकार कर, उस में सन्तानों को उत्पन्न कर और अच्छी शिक्षा देके विद्वान् करते हैं, वे धनपति होते हैं ॥४६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः के श्रीमन्तो भवन्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्या यथेन्द्रश्च विश्वे देवाश्चेमा विश्वा भुवना धरन्ति, तथा वयं कं नु सीषधाम। यथा सगण इन्द्र आदित्यैः सह सर्वांल्लोकान् प्रकाशयति, तथा मरुद्भिः सह वैद्योऽस्मभ्यं भेषजा करत्। यथाऽऽदित्यैः सहेन्द्रो नो यज्ञं च तन्वं च प्रजां च सीषधाति, तथा वयं साध्नुयाम ॥४६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये मनुष्याः सूर्यवन्नियमेन वर्तित्वा शरीरमरोगमात्मानं विद्वांसं संसाध्य पूर्णं ब्रह्मचर्यं कृत्वा स्वयं वृतां हृद्यां स्त्रियं स्वीकृत्य तत्र प्रजा उत्पाद्य सुशिक्ष्य विदुषी कुर्वन्ति, ते श्रियः पतयो जायन्ते ॥४६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जी माणसे सूर्याप्रमाणे नियम पाळतात व शरीर निरोगी ठेवून आत्मज्ञान प्राप्त करतात, तसेच पूर्ण ब्रह्मचर्याचे पालन करतात व स्वयंवर विधीने अंतःकरणाला प्रिय वाटेल अशा स्रीचा स्वीकार करून संतान उत्पन्न करतात व त्यांना चांगले शिक्षण देऊन विद्वान करतात ते धनवान बनतात.
४७ अग्ने त्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने॒ त्वं नो॒ऽ अन्त॑मऽउ॒त त्रा॒ता शि॒वो भ॑वा वरू॒थ्यः᳖। वसु॑र॒ग्निर्वसु॑श्रवा॒ऽअच्छा॑ नक्षि द्यु॒मत्त॑मँ र॒यिं दाः॑ ॥४७ ॥ तं त्वा॑ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः। स नो॑ बोधि श्रु॒धी हव॑मुरु॒ष्या णो॑ अघाय॒तः सम॑स्मात्॥४८ ॥
मूलम् ...{Loading}...
अग्ने॒ त्वं नो॒ऽ अन्त॑मऽउ॒त त्रा॒ता शि॒वो भ॑वा वरू॒थ्यः᳖। वसु॑र॒ग्निर्वसु॑श्रवा॒ऽअच्छा॑ नक्षि द्यु॒मत्त॑मँ र॒यिं दाः॑ ॥४७ ॥ तं त्वा॑ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः। स नो॑ बोधि श्रु॒धी हव॑मुरु॒ष्या णो॑ अघाय॒तः सम॑स्मात्॥४८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अग्ने॑। त्वम्। नः॒। अन्त॑मः। उ॒त। त्रा॒ता। शि॒वः। भ॒व॒। व॒रु॒थ्यः᳖। वसुः॑। अ॒ग्निः। वसु॑श्रवा॒ इति॒ वसु॑ऽश्रवाः। अच्छ॑। न॒क्षि॒। द्यु॒मत्त॑म॒मिति॑ द्यु॒मत्ऽत॑मम्। र॒यिम्। दाः॒। ४७। तम्। त्वा॒। शो॒चि॒ष्ठ॒। दी॒दि॒व॒ इति॑ दीदिऽवः। सु॒म्नाय॑। नू॒नम्। ई॒म॒हे॒। सखि॑भ्य इति॒ सखिऽभ्यः। सः। नः॒। बो॒धि॒। श्रु॒धी। हव॑म्। उ॒रु॒ष्य। नः॒। अ॒घा॒य॒तः। अ॒घ॒य॒त इत्य॑घऽय॒तः। सम॑स्मात्। ४८।
महीधरः
अधिमन्त्रम् (VC)
- अग्निर्देवता, विद्वान् देवता
- गोतम ऋषिः
- शक्वरी, भुरिग्बृहती
- धैवतः, मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर कौन सत्कार करने योग्य हैं, इस विषय को अगले मन्त्र में कहा है ॥ फिर मनुष्यों को इस जगत् में कैसे वर्त्तना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) वेदवेत्ता पढ़ाने और उपदेश करने हारे विद्वान् ! आप (अग्निः) अग्नि के समान (नः) हम लोगों के (अन्तमः) समीपस्थ (त्राता) रक्षा करनेवाले (शिवः) कल्याणकारी (उत) और (वरूथ्यः) घरों में उत्तम (वसुश्रवाः) जिन के श्रवण में बहुत धन और (वसुः) विद्याओं में वसाने हारे हो, ऐसे (भव) हूजिये जो (द्युमत्तमम्) अतीव प्रकाशवान् (रयिम्) धन हम लोगों के लिये (अच्छ, दाः) भलीभाँति देओ तथा हम को (नक्षि) प्राप्त होते हो सो (त्वम्) आप हम लोगों से सत्कार पाने योग्य हो ॥४७ ॥ हे (शोचिष्ठ) उत्तम गुणों से प्रकाशमान (दीदिवः) विद्यादि गुणों से शोभायुक्त विद्वन् ! जो आप (नः) हम लोगों को (बोधि) बोध कराते (तम्) उन (त्वा) आप को (सुम्नाय) सुख और (सखिभ्यः) मित्रों के लिये (नूनम्) निश्चय से हम लोग (ईमहे) याचते हैं (सः) सो आप (नः) हम लोगों के (हवम्) पुकारने को (श्रुधी) सुनिये और (समस्मात्) अधर्म के तुल्य गुण-कर्म-स्वभाववाले (अघायतः) आत्मा के अपराध का आचरण करते हुए दुष्ट, डाकू, चोर, लम्पट से हमारी (उरुष्य) रक्षा कीजिये ॥४८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि सब के उपकारी वेदादि शास्त्रों के ज्ञाता, अध्यापक, उपदेशक, विद्वानों का सदैव सत्कार करें और वे सत्कार को प्राप्त हुए विद्वान् लोग भी सब के लिये उत्तम उपदेशादि अच्छे गुणों और धनादि पदार्थों को सदा देवें, जिससे परस्पर प्रीति और उपकार से बड़े-बड़े सुखों का लाभ होवे ॥४७ ॥ विद्यार्थी लोग पढ़ानेवालों के प्रति ऐसे कहें कि आप से जो हम लोगों ने पढ़ा है, उसकी परीक्षा लीजिये और हम को दुष्ट आचरण से पृथक् रखिये, जिससे हम लोग सब के साथ मित्र के समान वर्त्ताव रक्खें ॥४८ ॥ इस अध्याय में संसार के पदार्थों के गुणों का वर्णन, पशु आदि प्राणियों को सिखलाना पालना, अपने अङ्गों की रक्षा, परमेश्वर की प्रार्थना, यज्ञ की प्रशंसा, बुद्धि का देना, धर्म में इच्छा, घोड़े के गुण कहना, उसकी चाल आदि सिखलाना आत्मा का ज्ञान और धन की प्राप्ति होने का विधान कहा है, इससे इस अध्याय में कहे अर्थ की पिछले अध्याय में कहे हुए अर्थ के साथ एकता जाननी चाहिये ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्याणां श्रीयुतपरमविदुषां श्रीविरजानन्दसरस्वतीस्वामिनां शिष्येण परमहंसपरिव्राजकाचार्येण श्रीमद्दयानन्दसरस्वतीस्वामिना विरचिते संस्कृतार्य्यभाषाभ्यां समन्विते सुप्रमाणयुक्ते यजुर्वेदभाष्ये पञ्चविंशोऽध्यायः समाप्तः ॥२५॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः के सत्कर्त्तव्याः सन्तीत्याह ॥ पुनर्मनुष्यैरिह कथं वर्त्तितव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! त्वमग्निरिव नोऽन्तमस्त्राता शिव उत वरूथ्यो वसुश्रवा वसुर्भव। यो द्युमत्तमं रयिमस्मभ्यमच्छ दाः। अस्मान्नक्षि स त्वमस्माभिः सत्कर्त्तव्योऽसि ॥४७ ॥ हे शोचिष्ठ ! दीदिवो विद्वन् यस्त्वं नो बोधि तन्त्वा सुम्नाय सखिभ्यो नूनं वयमीमहे। स त्वन्नो हवं श्रुधि समस्मादघायत उरुष्य च ॥४८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैः सर्वोपकारिणो वेदादिशास्त्रवेत्तारोऽध्यापकोपदेशका विद्वांसः सदैव सत्कर्त्तव्याः। ते च सत्कृताः सन्तः सर्वेभ्यः सदुपदेशाद्युत्तमगुणान् धनादिकं च सदा प्रयच्छेयुः। येन परस्परस्य प्रीत्युपकारेण महान् सुखलाभः स्यादिति ॥४७ ॥ विद्यार्थिनोऽध्यापकान् प्रत्येवं वदेयुर्भवन्तो यदस्माभिरधीतं तत्परीक्षन्ताम्। अस्मान् दुष्टाचारात्पृथग् रक्षन्तु यतो वयं सर्वैः सह मित्रवद्वर्त्तेमहि ॥४८ ॥ अस्मिन्नध्याये सृष्टिस्थपदार्थगुणवर्णनं पश्वादिप्राणिनां शिक्षारक्षणं स्वाङ्गरक्षणं परमेश्वरप्रार्थनं यज्ञप्रशंसा प्रज्ञाप्रापणं धर्मेच्छाऽश्वगुणकथनं तच्छिक्षणमात्मज्ञानधनप्रापणयोर्विधानं चोक्तमत एतदध्यायोक्तार्थस्य पूर्वाध्यायोक्तार्थेन सह सङ्गतिरस्तीति वेद्यम् ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी सर्वांवर उपकार करणारे वेद शास्राचे ज्ञाते, अध्यापक, उपदेशक, विद्वान यांचा सदैव सन्मान करावा व विद्वानांनीही सर्वांना उत्तम उपदेश करून चांगले गुण व ज्ञानरूपी धन इत्यादी पदार्थ सदा द्यावेत. ज्यामुळे परस्परात प्रेम वाढेल व उपकार घडेल व महान सुख प्राप्त होईल.