०१ अश्वस्तूपरो गोमृगस्ते
विश्वास-प्रस्तुतिः ...{Loading}...
अश्व॑स्तूप॒रो गो॑मृ॒गस्ते प्रा॑जाप॒त्याः कृ॒ष्णग्री॑वऽआग्ने॒यो र॒राटे॑ पु॒रस्ता॑त्सारस्व॒ती मे॒ष्य᳙धस्ता॒द्धन्वो॑राश्वि॒नाव॒धोरा॑मौ बा॒ह्वोः सौ॑मापौ॒ष्णः श्या॒मो नाभ्याँ॑ सौर्यया॒मौ श्वे॒तश्च॑ कृ॒ष्णश्च॑ पा॒र्श्वयो॑स्त्वा॒ष्ट्रौ लो॑म॒शस॑क्थौ स॒क्थ्योर्वा॑य॒व्यः᳖ श्वे॒तः पुच्छ॒ऽइन्द्रा॑य स्वप॒स्या᳖य वे॒हद्वै॑ष्ण॒वो वा॑म॒नः ॥१ ॥
मूलम् ...{Loading}...
अश्व॑स्तूप॒रो गो॑मृ॒गस्ते प्रा॑जाप॒त्याः कृ॒ष्णग्री॑वऽआग्ने॒यो र॒राटे॑ पु॒रस्ता॑त्सारस्व॒ती मे॒ष्य᳙धस्ता॒द्धन्वो॑राश्वि॒नाव॒धोरा॑मौ बा॒ह्वोः सौ॑मापौ॒ष्णः श्या॒मो नाभ्याँ॑ सौर्यया॒मौ श्वे॒तश्च॑ कृ॒ष्णश्च॑ पा॒र्श्वयो॑स्त्वा॒ष्ट्रौ लो॑म॒शस॑क्थौ स॒क्थ्योर्वा॑य॒व्यः᳖ श्वे॒तः पुच्छ॒ऽइन्द्रा॑य स्वप॒स्या᳖य वे॒हद्वै॑ष्ण॒वो वा॑म॒नः ॥१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अश्वः॑। तू॒प॒रः। गो॒मृ॒ग इति॑ गोऽमृ॒गः। ते। प्रा॒जा॒प॒त्या इति॑ प्राजाऽप॒त्याः। कृ॒ष्णग्री॑व॒ इति॑ कृ॒ष्णऽग्री॑वः। आ॒ग्ने॒यः। र॒राटे॑। पु॒रस्ता॑त्। सा॒र॒स्व॒ती। मे॒षी। अ॒धस्ता॑त्। हन्वोः॑। आ॒श्वि॒नौ। अ॒धोरा॑मा॒वित्य॒धःऽरा॑मौ। बा॒ह्वोः। सौ॒मा॒पौ॒ष्णः। श्या॒मः। नाभ्या॑म्। सौ॒र्य॒या॒मौ। श्वे॒तः। च॒। कृ॒ष्णः। च॒। पा॒र्श्वयोः॑। त्वा॒ष्ट्रौ। लो॒म॒शस॑क्था॒विति॑ लोम॒शऽस॑क्थौ। स॒क्थ्योः। वा॒य॒व्यः᳖। श्वे॒तः। पुच्छे॑। इन्द्रा॑य। स्व॒प॒स्या᳖येति॑ सुऽअप॒स्या᳖य। वे॒हत्। वै॒ष्ण॒वः। वा॒म॒नः। १।
महीधरः
म० श्रुतिरूपमन्त्रा आश्वमेधिकानां पशूनां देवतासंबन्धविधायिनोऽध्यायेनोच्यन्ते । तत्राश्वमेधे एकविंशतिर्यूपाः सन्ति तत्र मध्यमो यूपोऽग्निष्ठसंज्ञः तत्र सप्तदश पशवो नियोजनीयाः । तान् देवतासंबन्धकथनपूर्वकमाह । अश्वस्तूपरोगोमृगस्ते प्राजापत्याः । अश्वः तूपरः शृङ्गोत्पत्तिकालेऽतीतेऽपि शृङ्गहीनः गोमृगः गवयः एते प्रजापतिदैवत्याः । ततः प्रजापतये जुष्टं नियुनज्मीति मन्त्रेण बन्धनीयाः । एवमग्रेऽपि यो यद्दैवत्यः पशुः सः अमुष्मै जुष्टं नियुनज्मीत्यादिमन्त्रैर्बन्धनीयः । आग्नेयोऽग्निदैवतः कृष्णग्रीवः श्यामवर्णगलोऽजः अश्वस्य पुरस्तात् ललाटे उपनये बन्धनीयः । हन्वोरधस्तात्सारस्वती मेषो बन्धनीयः। आश्विनावधोरामौ अधोभागे शुक्लवर्णावजौ बाह्वोः अश्वस्य पूर्वपादयोरेकैकः । सोमपूषदेवत्यः श्यामः शुक्लकृष्णरोमाजोऽश्वस्य नाभ्यां । श्वेतः कृष्णश्च सौर्ययामौ श्वेतः पशुः सूर्यदेवतो दक्षिणपार्श्वे । यमदैवतः कृष्णोऽश्ववामपार्श्वे । त्वाष्ट्रौ त्वष्टृदेवतौ लोमशसक्थौ बहुरोमपुच्छिकौ पशू अश्वस्य सक्थ्योरूर्वोः पश्चात्पदयोरेकैकः । वायव्यः श्वेतवर्णः पशुरश्वस्य पुच्छे । स्वपस्याय शोभनकर्मणे इन्द्राय स्वपस्येन्द्रदेवता वेहत् गर्भघातिनी वैष्णवो वामनः पशुश्च पुच्छ एव अङ्गान्तरानुक्तेः । एवमश्वादिभिः सह पञ्चदश भवन्ति । एते पर्यङ्ग्या उच्यन्ते । अत्राश्वस्य शरीरं तरणाय तुंबीफलवद्रज्जुं बद्ध्वा गुम्फनीयम् । ततः कृष्णग्रीवः आग्नेयो रराट इत्यादयोऽश्वस्य शरीरे यथोक्तस्थाने संबद्धायां रज्ज्वां बन्धनीयाः । ततो रोहितो धूम्ररोहित इत्यादयो द्वादशसंख्याकाः शितिबाहुरन्यतः । शितिबाहुः समन्तशितिबाहुस्ते बार्हस्पत्या इत्यन्ता मध्यमे एव यूपे नियोज्याः । ‘सप्तदशैव पशून्मध्यमे यूप आलभते’ (१३ । ५ । १ । १५) इति श्रुतेः । तत्र त्रयोऽश्वतूपरगोमृगाः द्वौ चाग्नेयावेकादशिनौ द्वादश रोहितादयः एवं सप्तदश मध्यमे यूपे । ततः पृषती क्षुद्रपृषतीत्यादीनां श्वेताः सौर्या इत्यन्तानां (१९) शतत्रयसंख्याकानां पशूनां मध्ये पञ्चदश पञ्चदश पशूनेकैकस्मिन्यूपे युनक्ति । एवमितरेषु यूपेषु पञ्चदश पञ्चदशैते पशवः एकैकश्चैकादशिनः । एवं मध्ययूपव्यतिरिक्तेषु विंशतियूपेषु षोडश षोडश पशवो भवन्ति ‘षोडशषोडशेतरेषु’ (१२ । ५ । १।१५) इति श्रवणात् ॥ १॥
द्वितीया ।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- प्रजापतिर्ऋषिः
- भुरिक्संकृतिः
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब चौबीसवें अध्याय का आरम्भ है, इसके प्रथम मन्त्र में मनुष्यों को पशुओं से कैसा उपकार लेना चाहिये, इस विषय का वर्णन है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम जो (अश्वः) शीघ्र चलने हारा घोड़ा (तूपरः) हिंसा करनेवाला पशु (गोमृगः) और गौ के समान वर्त्तमान नीलगाय है, (ते) वे (प्राजापत्याः) प्रजापालक सूर्य देवतावाले अर्थात् सूर्यमण्डल के गुणों से युक्त (कृष्णग्रीवः) जिसकी काली गर्दन वह पशु (आग्नेयः) अग्नि देवतावाला (पुरस्तात्) प्रथम से (रराटे) ललाट के निमित्त (मेषी) मेंढ़ी (सारस्वती) सरस्वती देवतावाली (अधस्तात्) नीचे से (हन्वोः) ठोढ़ी वामदक्षिण भागों के ओर (बाह्वोः) भुजाओं के निमित्त (अधोरामौ) नीचे रमण करनेवाले (आश्विनौ) जिनका अश्विदेवता वे पशु (सौमापौष्णः) सोम और पूषा देवतावाला (श्यामः) काले रंग से युक्त पशु (नाभ्याम्) तुन्दी के निमित्त और (पार्श्वयोः) बार्इं दाहिनी ओर के निमित्त (श्वेतः) सुफेद रंग (च) और (कृष्णः) काला रंगवाला (च) और (सौर्ययामौ) सूर्य वा यमसम्बन्धी पशु वा (सक्थ्योः) पैरों की गांठियों के पास के भागों के निमित्त (लोमशसक्थौ) जिसके बहुत रोम विद्यमान ऐसे गांठियों के पास के भाग से युक्त (त्वाष्ट्रौ) त्वष्टा देवतावाले पशु वा (पुच्छे) पूँछ के निमित्त (श्वेतः) सुफेद रंगवाला (वायव्यः) वायु जिस का देवता है, वह वा (वेहत्) जो कामोद्दीपन समय के विना बैल के समीप जाने से गर्भ नष्ट करनेवाली गौ वा (वैष्णवः) विष्णु देवतावाला और (वामनः) नाटा शरीर से कुछ ढेढ़े अङ्गवाला पशु इन सबों को (स्वपस्याय) जिसके सुन्दर-सुन्दर कर्म उस (इन्द्राय) ऐश्वर्य्ययुक्त पुरुष के लिये संयुक्त करो अर्थात् उक्त प्रत्येक अङ्ग के आनन्दनिमित्तक उक्त गुणवाले पशुओं को नियत करो ॥१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य अश्व आदि पशुओं से कार्य्यों को सिद्ध कर ऐश्वर्य्य को उन्नति देके धर्म के अनुकूल काम करें, वे उत्तम भाग्यवाले हों। इस प्रकरण में सब स्थानों में देवता पद से उस-उस पद के गुणयोग से पशु जानने चाहियें ॥१ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ मनुष्यैः पशुभ्यः कीदृश उपकारो ग्राह्य इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यूयमश्वस्तूपरो गोमृगस्ते प्राजापत्याः कृष्णग्रीव आग्नेयः पुरस्ताद् रराटे मेषी सारस्वती अधस्ताद्धन्वोर्बाह्वोरधोरामावाश्विनौ सौमापौष्णः श्यामो नाभ्यां पार्श्वयोः श्वेतश्च कृष्णश्च सौर्ययामौ सक्थ्योर्लोमशसक्थौ त्वाष्ट्रौ पुच्छे श्वेतो वायव्यो वेहद्वैष्णवो वामनश्च स्वपस्यायेन्द्राय संयोजयत ॥१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्या अश्वादिभ्यः कार्य्याणि संसाध्यैश्वर्यमुन्नीय धर्म्याणि कर्माणि कुर्युस्ते सौभाग्यवन्तो भवेयुः। अत्र सर्वत्र देवतापदेन तत्तद्गुणयोगात् पशवो वेदितव्याः ॥१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे घोडे इत्यादी पशूकडून काम करवून घेतात व ऐश्वर्य वाढवितात आणि धर्मानुकूल काम करतात ती भाग्यवान असतात.
सविता जोशी ← दयानन्दः (म) - पादटिप्पनी
टिप्पणी: या प्रकरणात सर्व स्थानी देवता हे पद त्या त्या पदाच्या योगाने पशु आहे हे लक्षात घ्यावे (सूर्य, अग्नी, वायू इत्यादी देवता व त्यांचे गुण आढळणारे पशू) .
०२ रोहितो धूम्ररोहितः
विश्वास-प्रस्तुतिः ...{Loading}...
रोहि॑तो धू॒म्ररो॑हितः क॒र्कन्धु॑रोहित॒स्ते सौ॒म्या ब॒भ्रुर॑रु॒णब॑भ्रुः॒ शुक॑बभ्रु॒स्ते वा॑रु॒णाः शि॑ति॒रन्ध्रो॒ऽन्यतः॑शितिरन्ध्रः सम॒न्तशि॑तिरन्ध्र॒स्ते सा॑वि॒त्राः शि॑तिबा॒हुर॒न्यतः॑शितिबाहुः सम॒न्तशि॑तिबाहु॒स्ते बा॑र्हस्प॒त्याः पृष॑ती क्षु॒द्रपृ॑षती स्थू॒लपृ॑षती॒ ता मै॑त्राव॒रुण्यः᳖ ॥२ ॥
मूलम् ...{Loading}...
रोहि॑तो धू॒म्ररो॑हितः क॒र्कन्धु॑रोहित॒स्ते सौ॒म्या ब॒भ्रुर॑रु॒णब॑भ्रुः॒ शुक॑बभ्रु॒स्ते वा॑रु॒णाः शि॑ति॒रन्ध्रो॒ऽन्यतः॑शितिरन्ध्रः सम॒न्तशि॑तिरन्ध्र॒स्ते सा॑वि॒त्राः शि॑तिबा॒हुर॒न्यतः॑शितिबाहुः सम॒न्तशि॑तिबाहु॒स्ते बा॑र्हस्प॒त्याः पृष॑ती क्षु॒द्रपृ॑षती स्थू॒लपृ॑षती॒ ता मै॑त्राव॒रुण्यः᳖ ॥२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
रोहि॑तः। धू॒म्ररो॑हित॒ इति॑ धू॒म्ररो॑हितः। क॒र्कन्धु॑रोहित॒ऽइति॑ क॒र्कन्धु॑ऽरोहितः। ते। सौ॒म्याः। ब॒भ्रुः। अ॒रुणब॑भ्रु॒रिति॑ अरु॒णऽब॑भ्रुः॒। शुक॑बभ्रु॒रिति॒ शुक॑ऽबभ्रुः। ते। वा॒रु॒णाः। शि॒ति॒रन्ध्र॒ऽइति॑ शि॒ति॒ऽरन्ध्रः। अ॒न्यतः॑शितिरन्ध्र॒ऽइत्य॒न्यतः॑ऽशितिरन्ध्रः। स॒म॒न्तशि॑तिरन्ध्र॒ऽइति॑ सम॒न्तऽशि॑तिरन्ध्रः। ते। सा॒वि॒त्राः। शि॒ति॒बा॒हुरिति॑ शितिऽबा॒हुः। अ॒न्यतः॑शि॑तिबाहु॒रित्य॒न्यतः॑ऽशितिबाहुः। स॒म॒न्तशि॑तिबाहु॒रिति॑ सम॒न्तऽशि॑तिबाहुः। ते। बा॒र्ह॒स्प॒त्याः। पृष॑ती। क्षु॒द्रपृ॑ष॒तीति॑ क्षु॒द्रऽषृ॑पती। स्थू॒लपृ॑ष॒तीति॑ स्थू॒लऽपृ॑षती। ताः। मैत्रा॒व॒रु॒ण्यः᳖। २।
महीधरः
म० रोहितः सर्वरक्तः धूम्ररोहितः धूम्रवर्णमिश्रो रक्तः तृतीयः कर्कन्धुरोहितः बदरसदृशरक्तः ते त्रयः सौम्याः सोमदैवत्याः सोमाय जुष्टं नियुनज्मीत्यादिमन्त्रेण प्रत्येकं मध्यमे यूप एव नियोज्याः। ततो बभ्रुः कपिलवर्णः अरुणबभ्रुः अरुणवर्णमिश्रः कपिलः शुकबभ्रुः शुकपक्षिसमवर्णः कपिलश्च ते त्रयो वारुणाः वरुणदेवत्याः मध्यमयूप एव । शिति कृष्णं रन्ध्रं छिद्रं यस्य स शितिरन्ध्रः । अन्यत इत्येकपार्श्वे शितिरन्ध्रः समन्तं सर्वतः शितिरन्ध्रः एते सारस्वताः मध्यमे एव । शितिबाहुः श्वेतपूर्वपादः अन्यतः शितिबाहुः एकस्मिन्नेव पार्श्वे शितिपादः समन्तशितिबाहुः सर्वश्वेतबाहुः ‘शिती धवलमेचकौ’ एते बार्हस्पत्याः बृहस्पतिदैवत्याः मध्यमे एव । अथ द्वितीययूपे । पृषती विचित्रवर्णबिन्दुयुक्तशरीरा क्षुद्रपृषती सूक्ष्म विचित्रबिन्दुयुक्ता स्थूलपृषती स्थूलविचित्रबिन्दुयुक्ता एते स्त्रीपशवो मित्रावरुणदेवताः द्वितीये यूपे नियोज्याः ॥ २ ॥
तृतीया ।
अधिमन्त्रम् (VC)
- सोमादयो देवताः
- प्रजापतिर्ऋषिः
- निचृत्संकृतिः
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर कौन पशु कैसे गुणवाले हैं? इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो तुम को जो (रोहितः) सामान्य लाल (धूम्ररोहितः) धुमेला लाल और (कर्कन्धुरोहितः) पके बेर के समान लाल पशु हैं, (ते) वे (सौम्याः) सोम देवता अर्थात् सोम गुणवाले, जो (बभ्रुः) न्योला के समान धुमेला (अरुणबभ्रुः) लालामी लिये हुए न्योले के समान रंगवाला और (शुकबभ्रुः) सुग्गा की समता को लिये हुए न्योले के समान रंगयुक्त पशु हैं, (ते) वे सब (वारुणाः) वरुण देवतावाले अर्थात् श्रेष्ठ जो (शितिरन्ध्रः) शितिरन्ध्र अर्थात् जिसके मर्मस्थान आदि में सुपेदी (अन्यतःशितिरन्ध्रः) जो और अङ्ग से और अङ्ग में छेद से हों, वैसी जिसके जहाँ-तहाँ सुपेदी (समन्तशितिरन्ध्रः) और जिसके सब ओर से छेदों के समान सुपेदी के चिह्न हैं, (ते) वे सब (सावित्राः) सविता देवतावाले (शितिबाहुः) जिसके अगले भुजाओं में सुपेदी के चिह्न (अन्यतःशितिबाहुः) जिसके और अङ्ग से और अङ्ग में सुपेदी के चिह्न और (समन्तशितिबाहुः) जिसके सब और से अगले गोड़ों में सुपेदी के चिह्न हैं, ऐसे जो पशु हैं, (ते) वे (बार्हस्पत्याः) बृहस्पति देवतावाले तथा जो (पृषती) सब अङ्गों से अच्छी छिटकी हुई सी (क्षुद्रपृषती) जिसके छोटे-छोटे रंग-बिरंग छींटे और (स्थूलपृषती) जिसके मोटे-मोटे छींटे (ताः) वे सब (मैत्रावरुण्यः) प्राण और उदान देवतावाले होते हैं, यह जानना चाहिये ॥२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो चन्द्रमा आदि के उत्तम गुणवाले पशु हैं, उनसे उन-उन के गुण के अनुकूल काम मनुष्यों को सिद्ध करने चाहियें ॥२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः के पशवः कीदृशगुणा इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्या युष्माभिर्ये रोहितो धूम्ररोहितः कर्कन्धुरोहितश्च सन्ति ते सौम्याः। ये बभ्रुररुणबभ्रुः शुकबभ्रुश्च सन्ति ते वारुणाः। ये शितिरन्ध्रोऽन्यतश्शितिरन्ध्रः समन्तशितिरन्ध्रश्च सन्ति ते सावित्राः। ये शितिबाहुरन्यतःशितिबाहुः समन्तशितिबाहुश्च सन्ति ते बार्हस्पत्याः। याः पृषती क्षुद्रपृषती स्थूलपृषती च सन्ति ता मैत्रावरुण्यो भवन्तीति बोध्यम् ॥२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये चन्द्रादिगुणयुक्ताः पशवः सन्ति तैस्तत्तत्कार्य्यं मनुष्यैः साध्यम् ॥२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे चंद्रासारखे उत्तम गुणयुक्त पशू आहेत त्यांच्याकडून त्यांच्या त्यांच्या गुणानुसार माणसांनी कार्ये करून घ्यावीत.
०३ शुद्धवालः सर्वशुद्धवालो
विश्वास-प्रस्तुतिः ...{Loading}...
शु॒द्धवा॑लः स॒र्वशु॑द्धवालो मणि॒वाल॒स्तऽआ॑श्वि॒नाः श्येतः॑ श्येता॒क्षो᳖ऽरु॒णस्ते रु॒द्राय॑ पशु॒पत॑ये क॒र्णा या॒माऽअ॑वलि॒प्ता रौ॒द्रा नभो॑रूपाः पार्ज॒न्याः ॥३ ॥
मूलम् ...{Loading}...
शु॒द्धवा॑लः स॒र्वशु॑द्धवालो मणि॒वाल॒स्तऽआ॑श्वि॒नाः श्येतः॑ श्येता॒क्षो᳖ऽरु॒णस्ते रु॒द्राय॑ पशु॒पत॑ये क॒र्णा या॒माऽअ॑वलि॒प्ता रौ॒द्रा नभो॑रूपाः पार्ज॒न्याः ॥३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
शु॒द्धवा॑ल॒ इति॑ शु॒द्धऽवा॑लः। स॒र्वशु॑द्धवाल॒ऽइति॑ स॒र्वऽशु॑द्धवालः। म॒णि॒वाल॒ इति॑ मणि॒ऽवालः॑। ते। आ॒श्वि॒नाः। श्येतः॑। श्ये॒ता॒क्ष इति॑ श्येतऽअ॒क्षः। अ॒रु॒णः। ते। रु॒द्राय॑। प॒शु॒पत॑य॒ इति॑ पशु॒ऽपत॑ये। क॒र्णाः। या॒माः। अ॒व॒लि॒प्ता इत्य॑वऽलि॒प्ताः। रौ॒द्राः। नभो॑रूपा॒ इति॒ नभः॑ऽरूपाः। पा॒र्ज॒न्याः। ३।
महीधरः
म० शुद्धवालः शुभ्रवालः सर्वशुद्धवालः मणिशुद्धवाल: मणिवर्णकेशः ते त्रयः अश्विदेवत्याः द्वितीये । श्येतः श्वेतवर्णः श्येताक्षः श्वेतनेत्रः अरुणः रक्तः ते त्रयो रुद्राय पशुपतये पशुपतिरुद्रदेवता द्वितीये । कर्णास्त्रयः पशुविशेषाः ‘कर्णश्चन्द्रे च वृक्षे च’ इति विश्वोक्तेः । कर्णाश्चन्द्रसदृशश्वेतकर्णास्त्रयः पशवः । बहुवचनस्य त्रित्वे पर्यवसानात् । यामाः यमदैवताः द्वितीये । अवलिप्ताः सगर्वास्त्रयो रौद्राः । एते द्वितीये पञ्चदश । । अथ तृतीययूपे । नभोरूपाः आकाशवन्नीलवर्णाः पार्जन्याः पर्जन्यदेवताः पशवः तृतीये नियोज्याः ॥ ३ ॥
चतुर्थी।
अधिमन्त्रम् (VC)
- अश्व्यादयो देवताः
- प्रजापतिर्ऋषिः
- निचृदतिजगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर कैसे गुणवाले पशु हैं, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुमको जो (शुद्धवालः) जिसके शुद्ध बाल वा शुद्ध छोटे-छोटे अङ्ग (सर्वशुद्धवालः) जिसके समस्त शुद्ध बाल और (मणिवालः) जिसके मणि के समान चिलकते हुए बाल हैं, ऐसे जो पशु (ते) वे सब (आश्विनाः) सूर्य-चन्द्र देवतावाले अर्थात् सूर्य-चन्द्रमा के समान दिव्य गुणवाले, जो (श्येतः) सुपेद रंगयुक्त (श्येताक्षः) जिसकी सुपेद आँखें और (अरुणः) जो लाल रंगवाला है, (ते) वे (पशुपतये) पशुओं की रक्षा करने और (रुद्राय) दुष्टों को रुलानेहारे के लिये। जो ऐसे हैं कि (कर्णाः) जिनसे काम करते हैं, वे (यामाः) वायु देवतावाले (अवलिप्ताः) जिन के उन्नतियुक्त अङ्ग अर्थात् स्थूल शरीर हैं, वे (रौद्राः) प्राणवायु आदि देवतावाले तथा (नभोरूपाः) जिनका आकाश के समान नीला रूप है, ऐसे जो पशु हैं, वे सब (पार्जन्याः) मेघ देवतावाले जानने चाहियें ॥३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो जिस पशु का देवता है, वह उस का गुण है, यह जानना चाहिये ॥३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः कीदृशगुणाः पशव इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! युष्माभिर्ये शुद्धवालः सर्वशुद्धवालो मणिवालश्च सन्ति, त आश्विनाः। ये श्येतः श्येताक्षोऽरुणश्च सन्ति, ते पशुपतये रुद्राय। ये कर्णाः सन्ति, ते यामाः। येऽवलिप्ताः सन्ति, ते रौद्राः। ये नभोरूपाः सन्ति, ते पार्जन्याश्च वेदितव्याः ॥३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यो यस्य पशोर्देवताऽस्ति स तद्गुणोऽस्तीति वेद्यम् ॥३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी ज्या ज्या पशूंची देवता आहे तो त्या त्या पशूंना गुण जाणावा.
०४ पृश्निस्तिरश्चीनपृश्निरूर्ध्वपृश्निस्ते मारुताः
विश्वास-प्रस्तुतिः ...{Loading}...
पृश्नि॑स्तिर॒श्चीन॑पृश्निरू॒र्ध्वपृ॑श्नि॒स्ते मा॑रु॒ताः फ॒ल्गूर्लो॑हितो॒र्णी प॑ल॒क्षी ताः सा॑रस्व॒त्यः᳖ प्लीहा॒कर्णः॑ शुण्ठा॒कर्णो॑ऽध्यालोह॒कर्ण॒स्ते त्वा॒ष्ट्राः कृ॒ष्णग्री॑वः शिति॒कक्षो॑ऽञ्जिस॒क्थस्तऽऐ॑न्द्रा॒ग्नाः कृ॒ष्णाञ्जि॒रल्पा॑ञ्जि॒र्महाञ्जि॒स्तऽउ॑ष॒स्याः᳖ ॥४ ॥
मूलम् ...{Loading}...
पृश्नि॑स्तिर॒श्चीन॑पृश्निरू॒र्ध्वपृ॑श्नि॒स्ते मा॑रु॒ताः फ॒ल्गूर्लो॑हितो॒र्णी प॑ल॒क्षी ताः सा॑रस्व॒त्यः᳖ प्लीहा॒कर्णः॑ शुण्ठा॒कर्णो॑ऽध्यालोह॒कर्ण॒स्ते त्वा॒ष्ट्राः कृ॒ष्णग्री॑वः शिति॒कक्षो॑ऽञ्जिस॒क्थस्तऽऐ॑न्द्रा॒ग्नाः कृ॒ष्णाञ्जि॒रल्पा॑ञ्जि॒र्महाञ्जि॒स्तऽउ॑ष॒स्याः᳖ ॥४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पृश्निः॑। ति॒र॒श्चीन॑पृश्नि॒रिति॑ तिर॒श्चीन॑ऽपृश्निः। ऊ॒र्ध्वपृ॑श्नि॒रित्यू॒र्ध्वऽपृ॑श्निः। ते। मा॒रु॒ताः। फ॒ल्गूः। लो॒हि॒तो॒र्णीति॑ लोहितऽऊ॒र्णी। प॒ल॒क्षी। ताः। सा॒र॒स्व॒त्यः᳖। प्ली॒हा॒कर्णः॑। प्ली॒ह॒कर्ण॒ इति॑ प्लीह॒ऽकर्णः॑। शु॒ण्ठा॒कर्णः॑। शु॒ण्ठ॒कर्णः॑ इति॑ शुण्ठ॒ऽकर्णः॑। अ॒ध्या॒लो॒ह॒कर्ण॒ इत्य॑ध्यालोह॒ऽकर्णः॑। ते। त्वा॒ष्ट्राः। कृ॒ष्णग्री॑व॒ इति॑ कृ॒ष्णऽग्री॑वः। शि॒ति॒कक्ष॒ऽइति॑ शिति॒ऽकक्षः॑। अ॒ञ्जि॒स॒क्थऽइत्य॑ञ्जिऽस॒क्थः। ते। ऐ॒न्द्रा॒ग्नाः। कृ॒ष्णाञ्जि॒रिति॑ कृ॒ष्णऽअ॑ञ्जिः। अल्पा॑ञ्जि॒रित्यल्प॑ऽअञ्जिः। म॒हाञ्जि॒रिति॑ म॒हाऽअ॑ञ्जिः। ते। उ॒ष॒स्याः᳖। ४।
महीधरः
म० पृश्निः विचित्रवर्णा तिरश्चीनानि पृश्नीनि बिन्दवो यस्य सः एवमूर्ध्वानि पृश्नीनि यस्य सः ते त्रयो मारुताः मरुद्देवत्यास्तृतीये । फल्गूः अपुष्टशरीरा लोहितोर्णी रक्तरोमवती पलक्षी श्वेता । पलक्षशब्दो वलक्षार्थः श्वेतपर्यायः । तास्तिस्रोऽजाः सारस्वत्याः सरस्वतिदैवतास्तृतीये । प्लीहाकर्णः प्लीहा रोगविशेषः तद्युक्तौ कर्णौ यस्य स प्लीहकर्णः ‘अन्येषामपि दृश्यते’ (पा० ६ । ३ । १३७) इति संहितायां दीर्घः । शुण्ठकर्णः ह्रस्वकर्णः अध्यालोहकर्णः रक्तवर्णकर्णः । ते त्रयस्त्वाष्ट्राः त्वष्टृदैवतास्तृतीये । कृष्णग्रीवः शितिकक्षः श्वेतकक्षः अञ्जिसक्थः अञ्जि पुण्ड्रं सक्थ्नोरूर्वोर्यस्य सः ते त्रय ऐन्द्राग्नाः इन्द्राग्निदैवताः तृतीये । पञ्चदश पूर्णाः । कृष्णाञ्जि कृष्णपुण्ड्र: अल्पाञ्जिः महाञ्जिः अल्पमञ्जि यस्य महदञ्जि यस्य स तथा। ते त्रय उषस्या उषोदेवताश्चतुर्थे यूपे नियोज्याः ॥ ४ ॥
पञ्चमी।
अधिमन्त्रम् (VC)
- मरुतादयो देवताः
- प्रजापतिर्ऋषिः
- विराडतिधृतिः
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो जो (पृश्निः) पूछने योग्य (तिरश्चीनपृश्निः) जिसका तिरछा स्पर्श और (ऊर्ध्वपृश्निः) जिसका ऊँचा वा उत्तम स्पर्श है, (ते) वे (मारुताः) वायु देवतावाले। जो (फल्गूः) फलों को प्राप्त हों (लोहितोर्णी) जिसकी लाल ऊर्णा अर्थात् देह के बाल और (पलक्षी) जिसकी चञ्चल-चपल आँखें ऐसे पशु हैं, (ताः) वे (सारस्वत्यः) सरस्वती देवतावाले (प्लीहाकर्णः) जिसके कान में प्लीहा रोग के आकार के चिह्न हों (शुण्ठाकर्णः) जिसके सूखे कान और जिसके (अध्यालोहकर्णः) अच्छे प्रकार प्राप्त हुए सुवर्ण के समान कान ऐसे जो पशु हैं, (ते) वे सब (त्वाष्ट्राः) त्वष्टा देवतावाले, जो (कृष्णग्रीवः) काले गलेवाले (शितिकक्षः) जिसके पांजर की ओर सुपेद अङ्ग और (अञ्जिसक्थः) जिसकी प्रसिद्ध जङ्घा अर्थात् स्थूल होने से अलग विदित हों, ऐसे जो पशु हैं, (ते) वे सब (ऐन्द्राग्नाः) पवन और बिजुली देवतावाले तथा (कृष्णाञ्जिः) जिसकी करोदी हुई चाल (अल्पाञ्जिः) जिसकी थोड़ी चाल और (महाञ्जिः) जिसकी बड़ी चाल ऐसे जो पशु हैं, (ते) वे सब (उषस्याः) उषा देवतावाले होते हैं, यह जानना चाहिये ॥४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो पशु और पक्षी पवन गुण वा जो नदी गुण वा जो सूर्य गुण वा जो पवन और बिजुली गुण तथा जो प्रातःसमय की वेला के गुणवाले हैं, उनसे उन्हीं के अनुकूल काम सिद्ध करने चाहियें ॥४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्या ये पृश्निस्तिरश्चीनपृश्निरूर्ध्वपृश्निश्च सन्ति ते मारुताः। याः फल्गूर्लोहितोर्णी पलक्षी च सन्ति ताः सारस्वत्यः। ये प्लीहाकर्णः शुण्ठाकर्णोऽध्यालोहकर्णश्च सन्ति ते त्वाष्ट्राः। ये कृष्णग्रीवः शितिकक्षोऽञ्जिसक्थश्च सन्ति त ऐन्द्राग्नाः। ये कृष्णाञ्जिरल्पाञ्जिर्महाञ्जिश्च सन्ति त उषस्याश्च भवन्तीति वेद्यम् ॥४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये पशवः पक्षिणश्च वायुगुणा ये नदीगुणा ये सूर्य्यगुणा ये वायुविद्युद्गुणा ये चोषोगुणाः सन्ति, तैस्तदनुकूलानि कार्य्याणि साधनीयानि ॥४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे पशू व पक्षी वायूच्या गुणाचे असतात किंवा जे नदीच्या गुणाचे असतात किंवा जे सूर्याच्या गुणाचे असतात व जे वायू व विद्युत यांच्या गुणाचे व जे प्रातःकालीन उषेच्या गुणाचे असतात त्यांच्याकडून त्यानुसारच काम करून घ्यावे.
०५ शिल्पा वैश्वदेव्यो
विश्वास-प्रस्तुतिः ...{Loading}...
शि॒ल्पा वै॑श्वदे॒व्यो᳙ रोहि॑ण्य॒स्त्र्यव॑यो वा॒चेऽवि॑ज्ञाता॒ऽअदि॑त्यै॒ सरू॑पा धा॒त्रे व॑त्सत॒र्यो᳖ दे॒वानां॒ पत्नी॑भ्यः ॥५ ॥
मूलम् ...{Loading}...
शि॒ल्पा वै॑श्वदे॒व्यो᳙ रोहि॑ण्य॒स्त्र्यव॑यो वा॒चेऽवि॑ज्ञाता॒ऽअदि॑त्यै॒ सरू॑पा धा॒त्रे व॑त्सत॒र्यो᳖ दे॒वानां॒ पत्नी॑भ्यः ॥५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
शि॒ल्पाः। वै॒श्वदे॒व्य] इति॑ वैश्वऽदे॒व्यः᳙। रोहि॑ण्यः। त्र्यव॑य॒ इति॑ त्रिऽअव॑यः। वा॒चे। अवि॑ज्ञाता॒ इत्यवि॑ऽज्ञाताः। अदि॑त्यै। सरू॑पा॒ इति॑ सऽरू॑पाः। धा॒त्रे। व॒त्स॒त॒र्यः᳖। दे॒वाना॑म्। पत्नी॑भ्यः। ५।
महीधरः
म० विचित्रवर्णास्तिस्रः स्त्रीपशवो वैश्वदेव्यः विश्वदेवदेव-ताश्चतुर्थे । रोहिण्यः रक्तवर्णाः व्यवयः सार्धसंवत्सरास्तिस्रोऽजा वाचे वाग्देवताचतुर्थे । अविज्ञाताः कृष्णग्रीवादिचिह्नविज्ञानशून्यास्त्रयः पशवोऽदिलै अदितिदेवताश्चतुर्थे । सरूपाः समानरूपास्त्रयः पशवो धात्रे धातृदेवताश्चतुर्थे एवं पञ्चदश । अथ पञ्चमे यूपे तिस्रो वत्सतर्यः बालछाग्यो देवानां पत्नीभ्यः तद्देवताः पञ्चमे ॥ ५॥
षष्ठी।
सप्तमी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- प्रजापतिर्ऋषिः
- निचृद्बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुमको (शिल्पाः) जो सुन्दर रूपवान् और शिल्पकार्यों की सिद्धि करनेवाली (वैश्वदेव्यः) विश्वेदेव देवतावाले (वाचे) वाणी के लिये (रोहिण्यः) नीचे से ऊपर को चढ़ने योग्य (त्र्यवयः) जो तीन प्रकार की भेड़ें (अदित्यै) पृथिवी के लिये (अविज्ञाताः) विशेषकर न जानी हुई भेड़ आदि (धात्रे) धारण करने के लिये (सरूपाः) एक से रूपवाली तथा (देवानाम्) दिव्यगुणवाले विद्वानों की (पत्नीभ्यः) स्त्रियों के लिये (वत्सतर्य्यः) अतीव छोटी-छोटी थोड़ी अवस्थावाली बछिया जाननी चाहिये ॥५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो सब विद्वान् शिल्पविद्या से अनेकों यान आदि बनावें और पशुओं की पालना कर उनसे उपयोग लेवें, वे धनवान् हों ॥५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! युष्माभिर्या शिल्पा वैश्वदेव्यो वाचे रोहिण्यस्त्र्यवयोऽदित्या अविज्ञाताः धात्रे सरूपा देवानां पत्नीभ्यो वत्सतर्यश्च ता विज्ञेयाः ॥५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये सर्वे विद्वांसः शिल्पविद्ययाऽनेकानि यानादीनि रचयेयुः पशूनां च पालनं कृत्वोपयोगं गृह्णीयुस्ते श्रीमन्तः स्युः ॥५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे विद्वान हस्तकौशल्याने अनेक याने इत्यादी बनवितात व पशूंचे पालन करतात आणि त्यांचा योग्य उपयोग करून घेतात ते धनवान बनतात.
०६ कृष्णग्रीवा आग्नेयाः
विश्वास-प्रस्तुतिः ...{Loading}...
कृ॒ष्णग्री॑वा आग्ने॒याः शि॑ति॒भ्रवो॒ वसू॑नाँ॒ रोहि॑ता रु॒द्राणाँ॑ श्वे॒ताऽअ॑वरो॒किण॑ऽ आदि॒त्यानां॒ नभो॑रूपाः पार्ज॒न्याः ॥६ ॥
मूलम् ...{Loading}...
कृ॒ष्णग्री॑वा आग्ने॒याः शि॑ति॒भ्रवो॒ वसू॑नाँ॒ रोहि॑ता रु॒द्राणाँ॑ श्वे॒ताऽअ॑वरो॒किण॑ऽ आदि॒त्यानां॒ नभो॑रूपाः पार्ज॒न्याः ॥६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
कृ॒ष्णग्री॑वा॒ इति॑ कृ॒ष्णऽग्री॑वाः। आ॒ग्ने॒याः। शि॒ति॒भ्रव॒ इति॑ शिति॒भ्रवः॑। वसू॑नाम्। रोहि॑ताः। रु॒द्राणा॑म्। श्वे॒ताः। अ॒व॒रो॒किण॒ इत्य॑वऽरो॒किणः॑। आ॒दि॒त्याना॑म्। नभो॑रू॒पा॒ इति॒ नभः॑ऽरूपाः। पार्ज॒न्याः। ६।
महीधरः
म० उन्नतः उच्चः ऋषभः पुष्टः वामनः बहुन्यपि वयसि गते वृद्धिरहितः ते त्रय ऐन्द्रावैष्णवाः इन्द्रविष्णुदेवताः षष्ठे । उन्नतः शितिबाहुः श्वेतपूर्वपादः शितिपृष्ठः श्वेतपृष्ठः ते त्रयः ऐन्द्राबार्हस्पत्याः इन्द्रबृहस्पतिदेवताः षष्ठे । शुकरूपाः शुकपक्षिसमवर्णाः त्रयो वाजिनाः वाजिदेवताः षष्ठे । कल्माषाः कर्बुरास्त्रयः पशव आग्निमारुताः षष्ठे । एवं पञ्चदश । अथ सप्तमे यूपे । श्यामाः कृष्णवर्णाः पौष्णाः पूषदेवताः सप्तमे ॥ ७ ॥
अष्टमी।
अधिमन्त्रम् (VC)
- अग्न्यादयो देवताः
- प्रजापतिर्ऋषिः
- विराट्त्रिष्टुप्
- ऋषभः
०७ उन्नत ऋषभो
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒न्न॒त ऋ॑ष॒भो वा॑म॒नस्तऽऐ॑न्द्रावैष्ण॒वाऽउ॑न्न॒तः शि॑तिबा॒हुः शि॑तिपृ॒ष्ठस्तऽऐ॑न्द्राबार्हस्प॒त्याः शुक॑रूपा वाजि॒नाः क॒ल्माषा॑ऽआग्निमारु॒ताः श्या॒माः पौ॒ष्णाः ॥७ ॥
मूलम् ...{Loading}...
उ॒न्न॒त ऋ॑ष॒भो वा॑म॒नस्तऽऐ॑न्द्रावैष्ण॒वाऽउ॑न्न॒तः शि॑तिबा॒हुः शि॑तिपृ॒ष्ठस्तऽऐ॑न्द्राबार्हस्प॒त्याः शुक॑रूपा वाजि॒नाः क॒ल्माषा॑ऽआग्निमारु॒ताः श्या॒माः पौ॒ष्णाः ॥७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उ॒न्न॒त इत्यु॑त्ऽन॒तः। ऋ॒ष॒भः। वा॒म॒नः। ते। ऐ॒न्द्रा॒वै॒ष्ण॒वाः। उ॒न्न॒त इत्यु॑त्ऽन॒तः। शि॒ति॒बा॒हुरिति॑ शितिऽबा॒हुः। शि॒ति॒पृ॒ष्ठ इति॑ शितिऽपृ॒ष्ठः। ते। ऐ॒न्द्रा॒बा॒र्ह॒स्प॒त्याः। शुक॑रू॒पा इति॒ शुक॑ऽरू॒पाः। वा॒जि॒नाः। क॒ल्माषाः॑। आ॒ग्नि॒मा॒रु॒ता इत्या॑ग्निमारु॒ताः। श्या॒माः। पौ॒ष्णाः। ७।
महीधरः
म० एताः कर्बुरवर्णास्त्रय इन्द्राग्निदेवताः सप्तमे । द्विरूपाः वर्णद्वयोपेतास्त्रयः अग्नीषोमीयाः अग्निसोमदेवत्याः सप्तमे । वामना अनड्वाहः त्रय आग्नावैष्णवाः अग्निविष्णुदेवत्याः सप्तमे। वशाः वन्ध्याः तिस्रोऽजाः मैत्रावरुण्यः तद्देवताः सप्तमे । अथाष्टमे यूपे । अन्यत एन्यः एकपार्श्वे कर्बुरवर्णास्तिस्रोऽजा मैत्र्यः मित्रदेवत्याः अष्टमे ॥ ८॥
नवमी।
अधिमन्त्रम् (VC)
- इन्द्रादयो देवताः
- प्रजापतिर्ऋषिः
- अतिजगती
- निषादः
०८ एताऽऐन्द्राग्ना द्विरूपाऽअग्नीषोमीया
विश्वास-प्रस्तुतिः ...{Loading}...
एता॑ऽऐन्द्रा॒ग्ना द्वि॑रू॒पाऽअ॑ग्नीषो॒मीया॑ वाम॒नाऽअ॑न॒ड्वाह॑ऽ आग्नावैष्ण॒वा व॒शा मै॑त्रावरु॒ण्यो᳙ऽन्यत॑ऽएन्यो मै॒त्र्यः᳖ ॥८ ॥
मूलम् ...{Loading}...
एता॑ऽऐन्द्रा॒ग्ना द्वि॑रू॒पाऽअ॑ग्नीषो॒मीया॑ वाम॒नाऽअ॑न॒ड्वाह॑ऽ आग्नावैष्ण॒वा व॒शा मै॑त्रावरु॒ण्यो᳙ऽन्यत॑ऽएन्यो मै॒त्र्यः᳖ ॥८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
एताः॑। ऐ॒न्द्रा॒ग्नाः। द्वि॒रू॒पा इति॑ द्विऽरू॒पाः। अ॒ग्नी॒षो॒मीयाः॑। वा॒म॒नाः। अ॒न॒ड्वाहः॑। आ॒ग्ना॒वै॒ष्ण॒वाः। व॒शा। मै॒त्रा॒व॒रु॒ण्यः᳙। अ॒न्यत॑एन्य॒ इत्य॒न्यतः॑ऽएन्यः। मै॒त्र्यः᳖। ८।
महीधरः
म० कृष्णग्रीवा आग्नेयास्त्रयः अष्टमे । बभ्रवः कपिलवर्णास्त्रयः सौम्याः सोमदेवत्याः अष्टमे । श्वेतास्त्रयः वायव्याः वायुदेवत्याः अष्टमे । अविज्ञाताः चिह्न विशेषेणाज्ञातास्त्रयः अदितिदेवत्याः अष्टमे । अथ नवमे । सरूपाः धातृदेवत्याः नवमे । वत्सतर्यः देवपत्नीदेवत्यास्तिस्रः नवमे ॥ ९ ॥
दशमी।
अधिमन्त्रम् (VC)
- इन्द्राग्न्यादयो देवताः
- प्रजापतिर्ऋषिः
- स्वराड्बृहती
- मध्यमः
०९ कृष्णग्रीवाऽआग्नेया बभ्रवः
विश्वास-प्रस्तुतिः ...{Loading}...
कृ॒ष्णग्री॑वाऽआग्ने॒या ब॒भ्रवः॑ सौ॒म्याः श्वे॒ता वा॑य॒व्या᳙ऽअवि॑ज्ञाता॒ऽअदि॑त्यै॒ सरू॑पा धा॒त्रे व॑त्सत॒र्यो᳖ दे॒वानां॒ पत्नी॑भ्यः ॥९ ॥
मूलम् ...{Loading}...
कृ॒ष्णग्री॑वाऽआग्ने॒या ब॒भ्रवः॑ सौ॒म्याः श्वे॒ता वा॑य॒व्या᳙ऽअवि॑ज्ञाता॒ऽअदि॑त्यै॒ सरू॑पा धा॒त्रे व॑त्सत॒र्यो᳖ दे॒वानां॒ पत्नी॑भ्यः ॥९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
कृ॒ष्णग्री॑वा॒ इति॑ कृ॒ष्णऽग्री॑वाः। आ॒ग्ने॒याः। ब॒भ्रवः॑। सौ॒म्याः। श्वे॒ताः। वा॒य॒व्याः᳙। अवि॑ज्ञाता॒ इत्यवि॑ऽज्ञाताः। अदि॑त्यै। सरू॑पा॒ऽइति॒ सऽरू॑पाः। धा॒त्रे। व॒त्स॒त॒र्य्यः᳖। दे॒वाना॑म्। पत्नी॑भ्यः। ९।
महीधरः
म० कृष्णाः भौमा भूमिदेवत्यास्त्रयः नवमे । धूम्रवर्णास्त्रयः अन्तरिक्षदेवत्याः नवमे । बृहन्तो महान्तस्त्रयः दिव्याः द्युदेवत्याः नवमे । अथ दशमे शबलाः कर्बुरास्त्रयः वैद्युताः विद्युद्देवत्याः दशमे । सिध्माः सिध्माख्यरोगवन्तस्त्रयः नक्षत्रदेवत्याः दशमे ॥ १० ॥
एकादशी।
अधिमन्त्रम् (VC)
- अग्न्यादयो देवताः
- प्रजापतिर्ऋषिः
- निचृत्पङ्क्तिः
- पञ्चमः
१० कृष्णा भौमा
विश्वास-प्रस्तुतिः ...{Loading}...
कृ॒ष्णा भौ॒मा धू॒म्राऽआ॑न्तरि॒क्षा बृ॒हन्तो॑ दि॒व्याः श॒बला॑ वैद्यु॒ताः सि॒ध्मास्ता॑र॒काः ॥१० ॥
मूलम् ...{Loading}...
कृ॒ष्णा भौ॒मा धू॒म्राऽआ॑न्तरि॒क्षा बृ॒हन्तो॑ दि॒व्याः श॒बला॑ वैद्यु॒ताः सि॒ध्मास्ता॑र॒काः ॥१० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
कृ॒ष्णाः। भौ॒माः। धू॒म्राः। आ॒न्त॒रि॒क्षाः। बृ॒हन्तः॑। दि॒व्याः। श॒बलाः॑। वै॒द्यु॒ताः। सि॒ध्माः। ता॒र॒काः। १०।
महीधरः
म० धूम्रवर्णान् त्रीनजान् वसन्ताय वसन्तदेवतानालभते नियुनक्ति दशमे । श्वेतान त्रीन् ग्रीष्माय दशमे । कृष्णवर्णान् त्रीन्वर्षाभ्यः दशमे । अथैकादशे अरुणान् रक्तान् त्रीन् शरदे एकादशे । पृषतः नानावर्णबिन्दुयुक्तान् त्रीन् हेमन्ताय एकादशे । पिशङ्गान् लोहितमिश्रकपिलवर्णान् त्रीन् शिशिराय एकादशे ॥ ११ ॥
द्वादशी।
अधिमन्त्रम् (VC)
- अन्तरिक्षादयो देवताः
- प्रजापतिर्ऋषिः
- स्वराड्गायत्री
- षड्जः
११ धूम्रान् वसन्तायालभते
विश्वास-प्रस्तुतिः ...{Loading}...
धू॒म्रान् व॑स॒न्तायाल॑भते श्वे॒तान् ग्री॒ष्माय॑ कृ॒ष्णान् व॒र्षाभ्यो॑ऽरु॒णाञ्छ॒रदे॒ पृष॑तो हेम॒न्ताय॑ पि॒शङ्गा॒ञ्छिशि॑राय ॥११ ॥
मूलम् ...{Loading}...
धू॒म्रान् व॑स॒न्तायाल॑भते श्वे॒तान् ग्री॒ष्माय॑ कृ॒ष्णान् व॒र्षाभ्यो॑ऽरु॒णाञ्छ॒रदे॒ पृष॑तो हेम॒न्ताय॑ पि॒शङ्गा॒ञ्छिशि॑राय ॥११ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
धू॒म्रान्। व॒स॒न्ताय॑। आ। ल॒भ॒ते॒। श्वे॒तान्। ग्री॒ष्माय॑। कृ॒ष्णान्। व॒र्षाभ्यः॑। अ॒रु॒णान्। श॒रदे॑। पृष॑तः। हे॒म॒न्ताय॑। पिशङ्गा॑न्। शिशि॑राय। ११।
महीधरः
म० सार्धसंवत्सरास्त्रयः गायत्र्यै एकादशे । सार्धद्विसंवत्सरास्त्रयः त्रिष्टुभे एकादशे । अथ द्वादशे यूपे । दित्यवाहः द्विसंवत्सरास्त्रयो जगत्यै द्वा० । त्रिवत्साः त्रिवर्षाः त्रयोऽनुष्टभे द्वा० । तुर्यवाहः सार्धत्रिसंवत्सरास्त्रय उष्णिहे द्वा० ॥ १२ ॥
त्रयोदशी।
अधिमन्त्रम् (VC)
- वसन्तादयो देवताः
- प्रजापतिर्ऋषिः
- स्वराड्बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो मनुष्य (वसन्ताय) वसन्त ऋतु में सुख के लिये (धूम्रान्) धुमेले पदार्थों के (ग्रीष्माय) ग्रीष्म ऋतु में आनन्द के लिये (श्वेतान्) सुपेद रंग के (वर्षाभ्यः) वर्षा ऋतु में कार्यसिद्धि के लिये (कृष्णान्) काले रंग के वा खेती की सिद्धि करानेवाले (शरदे) शरद् ऋतु में सुख के लिये (अरुणान्) लाल रंग के (हेमन्ताय) हेमन्त ऋतु में कार्य साधने के लिये (पृषतः) मोटे और (शिशिराय) शिशिर ऋतुसम्बन्धी व्यवहार साधने के लिये (पिशङ्गान्) लालामी लिये हुए पीले पदार्थों को (आ, लभते) अच्छे प्रकार प्राप्त होता है, वह निरन्तर सुखी होता है ॥११ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को जिस ऋतु में, जो पदार्थ इकट्ठे करने वा सेवने योग्ये हों, उनको इकट्ठे और उनका सेवन कर नीरोग होके धर्म, अर्थ, काम और मोक्ष के सिद्ध करने के व्यवहारों का आचरण करना चाहिये ॥११ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यो मनुष्यो वसन्ताय धूम्रान् ग्रीष्माय श्वेतान् वर्षाभ्यः कृष्णान् शरदेऽरुणान् हेमन्ताय पृषतः शिशिराय पिशङ्गानालभते, स सततं सुखी भवति ॥११ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्यस्मिन्नृतौ ये पदार्थाः संचयनीयाः सेवनीयाश्च स्युस्तान् संचित्य संसेव्याऽरोगा भूत्वा धर्मार्थकाममोक्षसाधनान्यनुष्ठातव्यानि ॥११ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्या ऋतुमध्ये जे पदार्थ संग्रह करण्यायोग्य व सेवन करण्यायोग्य असतात त्यांचा संग्रह करून माणसांनी त्यांचे सेवन करावे व निरोगी बनावे, तसेच धर्म, अर्थ, काम, मोक्ष प्राप्त होईल अशा व्यवहाराचे आचरण करावे.
१२ त्र्यवयो गायत्र्यै
विश्वास-प्रस्तुतिः ...{Loading}...
त्र्यव॑यो गाय॒त्र्यै पञ्चा॑वयस्त्रि॒ष्टुभे॑ दित्य॒वाहो॒ जग॑त्यै त्रिव॒त्साऽअ॑नु॒ष्टुभे॑ तुर्य॒वाह॑ऽउ॒ष्णिहे॑ ॥१२ ॥
मूलम् ...{Loading}...
त्र्यव॑यो गाय॒त्र्यै पञ्चा॑वयस्त्रि॒ष्टुभे॑ दित्य॒वाहो॒ जग॑त्यै त्रिव॒त्साऽअ॑नु॒ष्टुभे॑ तुर्य॒वाह॑ऽउ॒ष्णिहे॑ ॥१२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
त्र्यव॑य॒ इति॑ त्रि॒ऽअव॑यः। गा॒य॒त्र्यै। पञ्चा॑वय इति॒ पञ्च॑ऽअवयः। त्रि॒ष्टुभे॑। त्रि॒स्तुभ॒ इति॑ त्रि॒स्तुभे॑। दि॒त्य॒वाह॒ऽइति॑ दित्य॒ऽवाहः॑। जग॑त्यै। त्रि॒ऽव॒त्साऽइति॑ त्रिऽव॒त्साः। अ॒नु॒ष्टुभे॑। अ॒नु॒स्तुभ॒ इत्य॑नु॒ऽस्तुभे॑। तु॒र्य॒वाह॒ इति॑ तुर्य॒ऽवाहः॑। उ॒ष्णिहे॑। १२।
महीधरः
म० पष्ठवाहः चतुःसंवत्सरास्त्रयो विराजे द्वा० । उक्षाणः सेचनसमर्था युवानस्त्रयः बृहत्यै द्वा० । अथ त्रयोदशे यूपे ऋषभाः उक्ष्णोऽप्यधिकवयस्काः त्रयः ककुभे त्रयोदशे । अनड्वाहः शकटवहनसमर्था अजास्त्रयः पङ्क्त्यै त्रयो० । धेनवः नवप्रसूता अजास्तिस्रः अतिच्छन्दसे त्रयो० ॥ १३ ॥
चतुर्दशी।
अधिमन्त्रम् (VC)
- अग्न्यादयो देवताः
- प्रजापतिर्ऋषिः
- स्वराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (त्र्यवयः) ऐसे हैं कि जिन की तीन भेड़ें वे (गायत्र्यै) गाते हुओं की रक्षा करनेवाली के लिये (पञ्चावयः) जिन के पाँच भेड़ें हैं, वे (त्रिष्टुभे) तीन अर्थात् शरीर, वाणी और मन सम्बन्धी सुखों के स्थिर करने के लिये। जो (दित्यवाहः) विनाश में न प्रसिद्ध हों, उन की प्राप्ति करानेवाले (जगत्यै) संसार की रक्षा करने की जो क्रिया उस के लिये (त्रिवत्साः) जिन के तीन स्थानों में निवास वे (अनुष्टुभे) पीछे से रोकने की क्रिया के लिये और (तुर्यवाहः) जो अपने पशुओं में चौथे को प्राप्त करानेवाले हैं, वे (उष्णिहे) जिस क्रिया से उत्तमता के साथ प्रसन्न हों, उस क्रिया के लिये अच्छा यत्न करें, वे सुखी हों ॥१२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे विद्वान् जन पढ़े हुए गायत्री आदि छन्दों के अर्थों से सुखों को बढ़ाते हैं, वैसे पशुओं के पालनेवाले घी आदि पदार्थों को बढ़ावें ॥१२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये त्र्यवयो गायत्र्यै पञ्चावयस्त्रिष्टुभे दित्यवाहो जगत्यै त्रिवत्सा अनुष्टुभे तुर्यवाह उष्णिहे च प्रयतेरँस्ते सुखिनः स्युः ॥१२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यथा विद्वांसोऽधीतैर्गायत्र्यादिछन्दोऽर्थैः सुखानि वर्धयन्ते, तथा पशुपालका घृतादीनि वर्द्धयेयुः ॥१२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जसे विद्वान लोक गायत्री छंदाचा अर्थ जाणून सुख वाढवितात तसे पशूपालन करणाऱ्यांनी घृत इत्यादी पदार्थ वाढवावे.
१३ पष्ठवाहो विराजऽउक्षाणो
विश्वास-प्रस्तुतिः ...{Loading}...
प॒ष्ठ॒वाहो॑ वि॒राज॑ऽउ॒क्षाणो॑ बृह॒त्याऽऋ॑ष॒भाः क॒कुभे॑ऽन॒ड्वाहः॑ प॒ङ्क्त्यै धे॒नवोऽति॑छन्दसे ॥१३ ॥
मूलम् ...{Loading}...
प॒ष्ठ॒वाहो॑ वि॒राज॑ऽउ॒क्षाणो॑ बृह॒त्याऽऋ॑ष॒भाः क॒कुभे॑ऽन॒ड्वाहः॑ प॒ङ्क्त्यै धे॒नवोऽति॑छन्दसे ॥१३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प॒ष्ठ॒वाह॒ इति॑ पष्ठ॒वाहः॑। वि॒राज॒ इति॑ वि॒ऽराजे॑। उ॒क्षाणः॑। बृ॒ह॒त्यै। ऋ॒ष॒भाः। क॒कुभे॑। अ॒न॒ड्वाहः॑। प॒ङ्क्त्यै। धे॒नवः॑। अति॑छन्दस॒ऽइत्यति॑ऽछन्दसे। १३।
महीधरः
म० अथ चातुर्मास्यदेवाः पशवः श्वेताः सौर्या इत्यन्ताः । तत्र प्रथमं वैश्वदेवपर्वपशव उच्यन्ते । कृष्णग्रीवाः त्रयः आग्नेयाः त्रयो० । बभ्रवः कपिलास्त्रयः सौम्याः । अथ चतुर्दशे यूपे । उपध्वस्ताः उपध्वंसनमधःपतनं तद्गुणविशिष्टा वर्णान्तरमिश्रिता वा त्रयः सवितृदेवताः चतु० । वत्सतर्यः तिस्रः सरस्वतीदेवताः चतु० । श्यामाः शुक्लकृष्णवर्णाः पौष्णाः पूषदेवत्याः चतु० । पृश्नयः तनुकाया विचित्रवर्णा वा त्रयो मरुद्देवताः चतु० । बहुरूपास्त्रयो वैश्वदेवाः चतु० । अथ पञ्चदशे । वशाः वन्ध्यास्तिस्रो द्यावापृथिवीयाः द्यावापृथिवीदेवत्याः पञ्च० ॥ १४ ॥
पञ्चदशी ।
अधिमन्त्रम् (VC)
- विराजादयो देवताः
- प्रजापतिर्ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जिन मनुष्यों ने (विराजे) विराट् छन्द के लिये (पष्ठवाहः) जो पीठ से पदार्थों को पहुँचाते (बृहत्यै) बृहती छन्द के अर्थ को (उक्षाणः) वीर्य सींचने में समर्थ (ककुभे) ककुप् उष्णिक्छन्द के अर्थ को (ऋषभाः) अतिबलवान् प्राणी (पङ्क्त्यै) पङ्क्ति छन्द के अर्थ को (अनड्वाहः) लढ़ा पहुँचाने में समर्थ बैलों को (अतिछन्दसे) अतिजगती आदि छन्द के अर्थ को (धेनवः) दूध देनेवाली गौएँ स्वीकार कीं, वे अतीव सुख पाते हैं ॥१३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे विद्वान् विराट् आदि छन्दों के लिये बहुत विद्या-विषयक कामों को सिद्ध करते हैं, वैसे ऊँट आदि पशुओं से गृहस्थ लोग समस्त कामों को सिद्ध करें ॥१३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यैर्मनुष्यैर्विराजे पष्ठवाहो बृहत्या उक्षाणः ककुभे ऋषभाः पङ्क्त्या अनड्वाहोऽतिच्छन्दसे धेनवः स्वीक्रियन्ते तेऽतिसुखं लभन्ते ॥१३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यथा विद्वांसो विराडादिच्छन्दोभ्यो बहूनि विद्याकार्याणि साध्नुवन्ति तथोष्ट्रादिभ्यः पशुभ्यो गृहस्था अखिलानि कार्य्याणि साध्नुयुः ॥१३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जसे विद्वान लोक विराट् बृहती, उष्णिक इत्यादी छंदापासून भिन्न भिन्न अर्थाची विद्या प्राप्त करतात. तसे उंट, बैल गाय इत्यादी पशूंकडून गृहस्थी लोकांनी संपूर्ण कार्य सिद्ध करावे.
१४ कृष्णग्रीवाऽआग्नेया बभ्रवः
विश्वास-प्रस्तुतिः ...{Loading}...
कृ॒ष्णग्री॑वाऽआग्ने॒या ब॒भ्रवः॑ सौ॒म्याऽउ॑पध्व॒स्ताः सा॑वि॒त्रा वत्सत॒र्यः᳖ सारस्व॒त्यः᳖ श्या॒माः पौ॒ष्णाः पृश्न॑यो मारु॒ता ब॑हुरू॒पा वै॑श्वदे॒वा व॒शा द्या॑वापृथि॒वीयाः॑ ॥१४ ॥
मूलम् ...{Loading}...
कृ॒ष्णग्री॑वाऽआग्ने॒या ब॒भ्रवः॑ सौ॒म्याऽउ॑पध्व॒स्ताः सा॑वि॒त्रा वत्सत॒र्यः᳖ सारस्व॒त्यः᳖ श्या॒माः पौ॒ष्णाः पृश्न॑यो मारु॒ता ब॑हुरू॒पा वै॑श्वदे॒वा व॒शा द्या॑वापृथि॒वीयाः॑ ॥१४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
कृ॒ष्णग्री॑वा॒ इति॑ कृ॒ष्णऽग्री॑वाः। आ॒ग्ने॒याः। ब॒भ्रवः॑। सौ॒म्याः। उ॒प॒ध्व॒स्ताऽइत्यु॑पऽध्व॒स्ताः। सा॒वि॒त्राः। व॒त्स॒त॒र्यः᳖। सा॒र॒स्व॒त्यः᳖। श्या॒माः। पौ॒ष्णाः। पृश्न॑यः। मा॒रु॒ताः। ब॒हु॒रू॒पा इति॑ बहुऽरू॒पाः। वै॒श्व॒दे॒वा इति॑ वैश्वदे॒वाः। व॒शाः। द्या॒वा॒पृ॒थि॒वीयाः॑। ४।
महीधरः
म० अथ वरुणप्रघासपर्वपशव उच्यन्ते । संचरशब्देन कृष्णग्रीवा आग्नेया इत्यादयः पूर्वकण्डिकोक्ताः पञ्चदश पशव उच्यन्ते । पञ्च संचराणि हवींषि भवन्तीतिवत् । यथा चातुमास्येषु चतुर्ष्वपि पर्वसु आग्नेयादीनि पञ्च हवींषि समानानि एवमत्रापि चतुर्णां पर्वणां संबन्धिनाम् आद्यानां पञ्चानां देवानामाद्या एते पञ्चदश पशवः समाना एव भवन्ति । तेन संचरा उक्ताः । आग्नेयादयः पञ्चदश पशव उक्ता इत्यर्थः । आग्नेयाः कृष्णग्रीवास्त्रयः पञ्चदशे । सौम्याः बभ्रवस्त्रयः पञ्च० । सावित्रा उपध्वस्ताः त्रयः पञ्च० । सारस्वत्यः वत्सतर्यः तिस्रः पञ्च० । अथ षोडशे । पौष्णाः श्यामाः त्रयः षोडशे । एते संचरा उक्ताः । एताः कर्बुरास्त्रय ऐन्द्राग्ना इन्द्राग्निदेवताः षो० । कृष्णाः कृष्णवर्णास्त्रयो वारुणाः वरुणदेवताः षो० । पृश्नयः तनुशरीरास्त्रयः मारुताः षो० । त्रयः तूपराः निःशृङ्गाः कायाः कदेवताः षो० ॥ १५ ॥
षोडशी।
अधिमन्त्रम् (VC)
- अग्न्यादयो देवताः
- प्रजापतिर्ऋषिः
- भुरिगतिजगती
- निषादः
१५ उक्ताः सञ्चराऽएताऽऐन्द्राग्नाः
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒क्ताः स॑ञ्च॒राऽएता॑ऽऐन्द्रा॒ग्नाः कृ॒ष्णा वा॑रु॒णाः पृश्न॑यो मारु॒ताः का॒यास्तू॑प॒राः ॥१५ ॥
मूलम् ...{Loading}...
उ॒क्ताः स॑ञ्च॒राऽएता॑ऽऐन्द्रा॒ग्नाः कृ॒ष्णा वा॑रु॒णाः पृश्न॑यो मारु॒ताः का॒यास्तू॑प॒राः ॥१५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उ॒क्ताः। सं॒च॒रा इति॑ सम्ऽच॒राः। एताः॑। ऐ॒न्द्रा॒ग्नाः। कृ॒ष्णाः। वा॒रु॒णाः। पृश्न॑यः। मा॒रु॒ताः। का॒याः। तू॒प॒राः। १५।
महीधरः
म० अथ सप्तदशे । अथ साकमेधपशवः । प्रथमजान् मात्रा प्रथमगर्भे जातान् त्रीन् अजान् अनीकवते अनीकवद्गुणविशिष्टायाग्नये आलभते नियुनक्ति सप्त० । वातसमूहो वात्या तया सह वर्तन्त इति सवात्याः वातमण्डलीमध्यस्थां स्त्रीनजान् सान्तपनेभ्यः मरुद्भ्यः सप्त० । बष्किहान् चिरप्रसूतान् त्रीन् गृहमेधिभ्यो मरुद्भ्यः सप्त० । संसृष्टान् सह सृष्टान् त्रीन् क्रीडिभ्यः मरुद्भ्यः सप्त० । अनुसृष्टान् अनुक्रमेण जातान् त्रीन् स्वतवद्भ्यो मरुद्भ्यः सप्त० ॥ १६ ॥
सप्तदशी।
अधिमन्त्रम् (VC)
- इन्द्रादयो देवताः
- प्रजापतिर्ऋषिः
- विराडनुष्टुप्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम को (एताः) ये (उक्ताः) कहे हुए (सञ्चराः) जो अच्छे प्रकार चलने हारे पशु आदि हैं, वे (ऐन्द्राग्नाः) इन्द्र और अग्नि देवतावाले। जो (कृष्णाः) खींचने वा जोतने हारे हैं, वे (वारुणाः) वरुण देवतावाले और जो (पृश्नयः) चित्र-विचित्र चिह्न युक्त (मारुताः) मनुष्य के से स्वभाववाले (तूपराः) हिंसक हैं, वे (कायाः) प्रजापति देवतावाले हैं, यह जानना चाहिये ॥१५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो नाना प्रकार के देशों में आने-जानेवाले पशु आदि प्राणी हैं, उनसे मनुष्य यथायोग्य उपकार लेवें ॥१५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! युष्माभिरेता उक्ताः सञ्चरा ऐन्द्राग्नाः कृष्णा वारुणाः पृश्नयो मारुतास्तूपराः कायाश्च सन्तीति बोध्यम् ॥१५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये नानादेशसंचारिणः प्राणिनस्सन्ति तैर्मनुष्या यथायोग्यानुपकारान् गृह्णीयुः ॥१५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - अनेक देशांमध्ये जाणारे-येणारे जे पशू आहेत. त्यांचा माणसांनी यथायोग्य उपयोग करून घ्यावा.
१६ अग्नयेऽनीकवते प्रथमजानालभते
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्नयेऽनी॑कवते प्रथम॒जानाल॑भते म॒रुद्भ्यः॑ सान्तप॒नेभ्यः॑ सवा॒त्यान् म॒रुद्भ्यो॑ गृहमे॒धिभ्यो॒ बष्कि॑हान् म॒रुद्भ्यः॑ क्री॒डिभ्यः॑ सँसृ॒ष्टान् म॒रुद्भ्यः॒ स्वत॑वद्भ्योऽनुसृ॒ष्टान् ॥१६ ॥
मूलम् ...{Loading}...
अ॒ग्नयेऽनी॑कवते प्रथम॒जानाल॑भते म॒रुद्भ्यः॑ सान्तप॒नेभ्यः॑ सवा॒त्यान् म॒रुद्भ्यो॑ गृहमे॒धिभ्यो॒ बष्कि॑हान् म॒रुद्भ्यः॑ क्री॒डिभ्यः॑ सँसृ॒ष्टान् म॒रुद्भ्यः॒ स्वत॑वद्भ्योऽनुसृ॒ष्टान् ॥१६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒ग्नये॑। अनी॑कवत॒ इत्यनी॑कऽवते। प्र॒थ॒म॒जानिति॑ प्रथम॒ऽजान्। आ। ल॒भ॒ते॒। म॒रुद्भ्य॒ इति॑ म॒रुत्ऽभ्यः॑। सा॒न्त॒प॒नेभ्य॒ इति॑ साम्ऽतप॒नेभ्यः॑। स॒वा॒त्यानिति॑ सऽवा॒त्यान्। म॒रुद्भ्य॒ इति॑ म॒रुत्ऽभ्यः॑। गृ॒ह॒मे॒धिभ्य॒ इति॑ गृहऽमे॒धिभ्यः॑। बष्कि॑हान्। म॒रुद्भ्य॒ इति॑ म॒रुत्ऽभ्यः॑। क्री॒डिभ्य॒ इति॑ क्री॒डिऽभ्यः॑। सँ॒सृ॒ष्टानिति॑ सम्ऽमृ॒ष्टान्। म॒रुद्भ्य॒ इति॑ म॒रुत्ऽभ्यः॑। स्वत॑वद्भ्य॒ इति॒ स्वत॑वत्ऽभ्यः। अ॒नु॒सृ॒ष्टानित्य॑नुऽसृ॒ष्टान्। १६।
महीधरः
म० अथाष्टादशे यूपे महाहविःपशवः कृष्णग्रीवादयः पञ्चदश पूर्ववत् । अथैकोनविंशतितमे एताः कर्बुरास्त्रय ऐन्द्राग्नाः एकोन० । प्राशृङ्गाः संहितायां दीर्घः । प्रकृष्टशृङ्गयुक्ता माहेन्द्राः महेन्द्रदेवताः एकोन० । बहुरूपास्त्रयो वैश्वकर्मणाः विश्वकर्मदेवताः एकोन० ॥ १७ ॥
अष्टादशी।
अधिमन्त्रम् (VC)
- अग्न्यादयो देवताः
- प्रजापतिर्ऋषिः
- शक्वरी
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर किसके लिये कौन रक्षा करने योग्य हैं, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे विद्वान् जन (अनीकवते) प्रशंसित सेना रखनेवाले (अग्नये) अग्नि के समान वर्त्तमान तेजस्वी सेनाधीश के लिये (प्रथमजान्) विस्तारयुक्त कारण से उत्पन्न हुए (सान्तपनेभ्यः) जिनका अच्छे प्रकार ब्रह्मचर्य्य आदि आचरण है, उन (मरुद्भ्यः) प्राण के समान प्रीति उत्पन्न करनेवाले मनुष्यों के लिये (सवात्यान्) एक से पवन में हुए पदार्थों (गृहमेधिभ्यः) घर में जिन की धीर बुद्धि है, उन (मरुद्भ्यः) मनुष्यों के लिये (बष्किहान्) बहुत काल के उत्पन्न हुओं (क्रीडिभ्यः) प्रशंसायुक्त विहार आनन्द करनेवाले (मरुद्भ्यः) मनष्यों के लिये (संसृष्टान्) अच्छे प्रकार गुणयुक्त और (स्वतवद्भ्यः) जिनका आप से आप निवास है, उन (मरुद्भ्यः) स्वतन्त्र मनुष्यों के लिये (अनुसृष्टान्) मिलनेवालों को (आ, लभते) प्राप्त होता है, तुम लोग इन को प्राप्त होओ ॥१६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे विद्वानों से विद्यार्थी और पशु पाले जाते हैं, वैसे अन्य मनुष्यों को भी पालने चाहियें ॥१६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः कस्मै के रक्षणीय इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्या यथा विद्वांसोऽनीकवतेऽग्नये प्रथमजान् सान्तपनेभ्यो मरुद्भ्यः सवात्यान् गृहमेधिभ्यो मरुद्भ्यो बष्किहान् क्रीडिभ्यो मरुद्भ्यः संसृष्टान् स्वतवद्भ्यो मरुद्भ्योऽनुसृष्टानालभते तथैव यूयमेतानालभध्वम् ॥१६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यथा विद्वद्भिर्विद्यार्थिनः पशवश्च पाल्यन्ते, तथैवेतरैर्मनुष्यैः पालनीयाः ॥१६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - विद्वानांकडून विद्यार्थ्यांचे व पशूंचे पालन केले जाते तसे इतर माणसांनीही त्यांचे पालन केले पाहिजे.
१७ उक्ताः सञ्चराऽएताऽऐन्द्राग्नाः
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒क्ताः स॑ञ्च॒राऽएता॑ऽऐन्द्रा॒ग्नाः प्रा॑शृ॒ङ्गा मा॑हे॒न्द्रा ब॑हुरू॒पा वै॑श्वकर्म॒णाः ॥१७ ॥
मूलम् ...{Loading}...
उ॒क्ताः स॑ञ्च॒राऽएता॑ऽऐन्द्रा॒ग्नाः प्रा॑शृ॒ङ्गा मा॑हे॒न्द्रा ब॑हुरू॒पा वै॑श्वकर्म॒णाः ॥१७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उ॒क्ताः। स॒ञ्च॒रा इति॑ सम्ऽच॒राः। एताः॑। ऐ॒न्द्रा॒ग्नाः। प्रा॒शृ॒ङ्गाः। प्र॒शृ॒ङ्गा इति॑ प्रऽशृ॒ङ्गाः। मा॒हे॒न्द्रा इति॑ महाऽइ॒न्द्राः। ब॒हु॒रू॒पा इति॑ बहुऽरू॒पाः। वै॒श्व॒क॒र्म॒णा इति॑ वैश्वऽकर्म॒णाः। १७।
महीधरः
म०. अथ पित्र्येष्टिदेवतापशवः । धूम्राः कृष्णवर्णमिश्रा लोहितवर्णाः बभ्रुनीकाशाः कपिलवर्णसदृशास्त्रयः पशवः सोमवतां पितॄणां नियोज्याः एकोन० । बभ्रवः कपिलाः धूम्रनीकाशाः धूम्रा इव नितरां काशन्ते इति तादृशास्त्रयः बर्हिषदां पितॄणामेकोन० । अथ विंशे यूपे । कृष्णा बभ्रुनीकाशाः अग्निष्वात्तानां पितॄणां विंशे । कृष्णाः पृषन्तः बिन्दुयुक्ताः त्रैयम्बकाः त्र्यम्बकदेवताः विंशे ॥ १८ ॥
एकोनविंशी।
अधिमन्त्रम् (VC)
- इन्द्राग्न्यादयो देवताः
- प्रजापतिर्ऋषिः
- भुरिग्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम को जो (एताः) ये (ऐन्द्राग्नाः) वायु और बिजुली देवतावाले (प्राशृङ्गाः) जिन के उत्तम सींग हैं, वे (माहेन्द्राः) महेन्द्र देवतावाले वा (बहुरूपाः) बहुत रंगयुक्त (वैश्वकर्मणाः) विश्वकर्मा देवतावाले (सञ्चराः) जिनमें अच्छे प्रकार आते-जाते हैं, वे मार्ग (उक्ताः) निरूपण किये, उनमें जाना-आना चाहिये ॥१७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे विद्वानों ने पशुओं की पालना आदि के मार्ग कहे हैं, वैसे ही वेद में प्रतिपादित हैं ॥१७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! युष्माभिर्य एता ऐन्द्राग्नाः प्राशृङ्गा माहेन्द्रा बहुरूपा वैश्वकर्मणाः सञ्चरा उक्तास्तेषु गन्तव्यम् ॥१७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यथा विद्वद्भिः पश्वादिपालनमार्गा उक्तास्तथैव वेदे प्रतिपादिताः सन्ति ॥१७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - विद्वानांनी जसे पशू पालनाचे मार्ग सांगितलेले आहेत. तेच वेदांमध्ये प्रतिपादित केलेले आहेत.
१८ धूम्रा बभ्रुनीकाशाः
विश्वास-प्रस्तुतिः ...{Loading}...
धू॒म्रा ब॒भ्रुनी॑काशाः पितॄ॒णाँसोम॑वतां ब॒भ्रवो॑ धू॒म्रनी॑काशाः पितॄ॒णां ब॑र्हि॒षदां॑ कृ॒ष्णा ब॒भ्रुनी॑काशाः पितॄ॒णाम॑ग्निष्वा॒त्तानां॑ कृ॒ष्णाः पृष॑न्तस्त्रैयम्ब॒काः ॥१८ ॥
मूलम् ...{Loading}...
धू॒म्रा ब॒भ्रुनी॑काशाः पितॄ॒णाँसोम॑वतां ब॒भ्रवो॑ धू॒म्रनी॑काशाः पितॄ॒णां ब॑र्हि॒षदां॑ कृ॒ष्णा ब॒भ्रुनी॑काशाः पितॄ॒णाम॑ग्निष्वा॒त्तानां॑ कृ॒ष्णाः पृष॑न्तस्त्रैयम्ब॒काः ॥१८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
धू॒म्राः। ब॒भ्रुनी॑काशाः। ब॒भ्रुनि॑काशा॒ इति॑ ब॒भ्रुऽनि॑काशाः। पि॒तॄणाम्। सोम॑वता॒मिति॒ सोम॑ऽवताम्। ब॒भ्रवः॑। धू॒म्रनी॑काशाः। धू॒म्रनि॑काशा॒ इति॑ धू॒म्रऽनि॑काशाः। पि॒तॄणाम्। ब॒र्हि॒षदा॑म्। ब॒र्हि॒सदा॒मिति बर्हि॒ऽसदा॑म्। कृ॒ष्णाः। ब॒भ्रुनि॑काशा॒ इति॑ ब॒भ्रुऽनि॑काशाः। पि॒तॄणाम्। अ॒ग्नि॒ष्वा॒त्ताना॒म्। अ॒ग्नि॒स्वा॒त्ताना॒मित्य॑ग्निऽस्वा॒त्ताना॑म्। कृ॒ष्णाः। पृष॑न्तः। त्रै॒य॒म्ब॒काः। १८।
महीधरः
म० अथ शुनासीरीयपशवः । तत्र संचराः आग्नेयादयः पञ्चदशोक्ताः तेन कृष्णग्रीया आग्नेयाः विंशे। बभ्रवः सौम्याः विंशे । उपध्वस्ताः सावित्राः विंशे । अथैकविंशे यूपे । वत्सतर्यः सारस्वत्यः एकविंशे । श्यामाः पौष्णाः एक० । एताः कर्बुराः शुनासीरीयाः शुनासीरदेवताः एक० । श्वेताः त्रयो वायव्याः वायुदेवत्याः एक० । श्वेताः त्रयः सौर्याः सूर्यदेवताः एक० । एवं समाप्ताः यूपाः । इत्यश्वाद्याः सौर्यान्ताः सप्तविंशत्यधिकशतत्रयं ग्राम्याः पशवः सर्वे उक्ताः ॥ १९ ॥
विंशी।
अधिमन्त्रम् (VC)
- पितरो देवताः
- प्रजापतिर्ऋषिः
- भुरिगतिजगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम को (सोमवताम्) सोम शान्ति आदि गुणयुक्त उत्पन्न करनेवाले (पितॄणाम्) माता- पिताओं के (बभ्रुनीकाशाः) न्योले के समान (धूम्राः) धुमेले रंगवाले (बर्हिषदाम्) जो सभा के बीच बैठते हैं, उन (पितॄणाम्) पालना करने हारे विद्वानों के (कृष्णाः) काले रंगवाले (धूम्रनीकाशाः) धुआँ के समान अर्थात् धुमेले और (बभ्रवः) पुष्टि करनेवाले तथा (अग्निष्वात्तानाम्) जिन्होंने अग्निविद्या ग्रहण की है, उन (पितॄणाम्) पालना करने हारे विद्वानों के (बभ्रुनीकाशाः) पालने हारे के समान (कृष्णाः) काले रंगवाले (पृषन्तः) मोटे अङ्गों से युक्त (त्रैयम्बकाः) जिनका तीन अधिकारों में चिह्न है, वे प्राणी वा पदार्थ हैं, यह जानना चाहिये ॥१८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो उत्पन्न करने और विद्या देनेवाले विद्वान् हैं, उनका घी आदि पदार्थ वा गौ आदि के दान से यथायोग्य सत्कार करना चाहिये ॥१८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! युष्माभिः सोमवतां पितॄणां बभ्रुनीकाशाः धूम्रा बर्हिषदां पितॄणां कृष्णा धूम्रनीकाशाः बभ्रवोऽग्निष्वात्तानां पितॄणां बभ्रुनीकाशाः कृष्णाः पृषन्तस्त्रैयम्बकाश्च सन्तीति विज्ञेयाः ॥१८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये जनका विद्याजन्मदातारश्च सन्ति तेषां घृतादिभिर्गवादिदानैश्च यथायोग्यं सत्कारः कर्त्तव्यः ॥१८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे शांती वगैरे गुण आणि विद्या देणारे विद्वान असतात त्यांचा घृत इत्यादी पदार्थ किंवा गाई इत्यादी दान देऊन यथायोग्य सत्कार केला पाहिजे.
१९ उक्ताः सञ्चराऽएताः
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒क्ताः स॑ञ्च॒राऽएताः॑ शुनासी॒रीयाः॑ श्वे॒ता वा॑य॒व्याः᳖ श्वे॒ताः सौ॒र्याः ॥१९ ॥
मूलम् ...{Loading}...
उ॒क्ताः स॑ञ्च॒राऽएताः॑ शुनासी॒रीयाः॑ श्वे॒ता वा॑य॒व्याः᳖ श्वे॒ताः सौ॒र्याः ॥१९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उ॒क्ताः। स॒ञ्च॒रा इति॑ सम्ऽच॒राः। एताः॑। शु॒ना॒सी॒रीयाः॑। श्वे॒ताः। वा॒य॒व्याः᳖। श्वे॒ताः। सौ॒र्य्याः। १९।
महीधरः
म० अथारण्याः पशव उच्यन्ते । अत्रैकविंशतिर्यूपाः तेषां यूपानां विंशतिरन्तरालानि तेष्वन्तरालेषु अन्तरालोत्पत्तिक्रमेण कपिञ्जलादयस्त्रयोदश त्रयोदश पशव आलम्भनीयाः । अत्र यूपान्तरालेष्वारण्यपशूनां बन्धनोपाय उक्तो मानवसूत्रे । नाडीषु प्लुषिमशकान् करण्डेषु सर्पान् पञ्जरेषु मृगव्याघ्रसिंहान् कुम्भेषु मकरमत्स्यमण्डूकान् जालेषु पक्षिणः कारासु हस्तिनो नौषु चौदकानि यथार्थमितरानिति । ये पशवो येनोपायेन यूपान्तरालेषु तिष्ठन्ति ते तेनोपायेन स्थापनीया इति तात्पर्यम् । अत्र येषामारण्यजीववाचिपदानामर्था न ज्ञायन्ते ते निगमनिरुक्तनिघण्टुव्याकरणोणादिवृत्त्यभिधानग्रन्थेभ्यो विलोक्यावगन्तव्याः । आटविकेभ्यश्च लक्षणीयाः । तत्र प्रथमोत्पन्ने यूपान्तराले त्रीन् कपिञ्जलान् वसन्ताय आलभते नियुनक्ति । त्रीन् कलविङ्कान् चटकान् ग्रीष्माय । तित्तिरीन् त्रीन् वर्षाभ्यः। वर्तिकाः पक्षिविशेषान् शरदे । ततस्त्रयाणां ककराणां मध्ये एक ककरं हेमन्ताय । अथ द्वितीयेऽवकाशे शिष्टौ द्वौ ककरौ पक्षिविशेषौ हेमन्ताय । त्रीन् विककरान् शिशिराय ॥ २० ॥
एकविंशी।
अधिमन्त्रम् (VC)
- वायुर्देवता
- प्रजापतिर्ऋषिः
- त्रिपाद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम जो (एताः) ये (शुनासीरीयाः) शुनासीर देवतावाले अर्थात् खेती की सिद्धि करनेवाले (सञ्चराः) आने-जाने हारे (वायव्याः) पवन के समान दिव्यगुणयुक्त (श्वेताः) सुपेद रङ्गवाले वा (सौर्याः) सूर्य के समान प्रकाशमान (श्वेताः) सुपेद रङ्ग के पशु (उक्ताः) कहे हैं, उनको अपने कार्यों में अच्छे प्रकार निरन्तर नियुक्त करो ॥१९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो जिस पशु का देवता कहा है, वह उस पशु का गुणग्रहण करना चाहिये ॥१९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यूयं य एताः शुनासीरीयाः सञ्चरा वायव्याः श्वेताः सौर्य्याः श्वेताश्चोक्तास्तान् कार्येषु सम्प्रयुङ्ध्वम् ॥१९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - या यस्य पशोर्देवता उक्ताः स तद्गुणो ग्राह्यः ॥१९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्याला ज्या पशूंची देवता म्हटले गेले आहे ते त्या पशूंचे गुण समजून स्वीकारले पाहिजेत.
२० वसन्ताय कपिञ्जलानालभते
विश्वास-प्रस्तुतिः ...{Loading}...
व॒स॒न्ताय॑ क॒पिञ्ज॑ला॒नाल॑भते ग्री॒ष्माय॑ कल॒विङ्का॑न् व॒र्षाभ्य॑स्ति॒त्तिरी॑ञ्छ॒रदे॒ वर्त्ति॑का हेम॒न्ताय॒ कक॑रा॒ञ्छिशि॑राय॒ विक॑करान् ॥२० ॥
मूलम् ...{Loading}...
व॒स॒न्ताय॑ क॒पिञ्ज॑ला॒नाल॑भते ग्री॒ष्माय॑ कल॒विङ्का॑न् व॒र्षाभ्य॑स्ति॒त्तिरी॑ञ्छ॒रदे॒ वर्त्ति॑का हेम॒न्ताय॒ कक॑रा॒ञ्छिशि॑राय॒ विक॑करान् ॥२० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
व॒स॒न्ताय॑। क॒पिञ्ज॑लान्। आ। ल॒भ॒ते॒। ग्री॒ष्माय॑। क॒ल॒विङ्का॑न्। व॒र्षाभ्यः॑। ति॒त्तिरी॑न्। श॒रदे॑। वर्त्तिकाः। हे॒म॒न्ताय॑। कक॑रान्। शिशि॑राय। विक॑करा॒निति॒ विऽक॑करान्। २०।
महीधरः
म० त्रीन् शिशुमारान् जलचरजन्तून् समुद्रायालभते । त्रीन्मण्डूकान्भेकान् पर्जन्याय । त्रयाणां मत्स्यानां मध्ये द्वौ अद्भ्यः । अथ तृतीयेऽवकाशे एकं शिष्टं मत्स्यमद्भ्यः । त्रीन् कुलीपयान जलजान् मित्राय । त्रीन् नाक्रान् नक्रा एव नाक्रास्ताञ्जलचरान् वरुणाय ॥ २१ ॥
द्वाविंशी।
अधिमन्त्रम् (VC)
- वसन्तादयो देवताः
- प्रजापतिर्ऋषिः
- विराड्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर किस के लिये कौन अच्छे प्रकार आश्रय करने योग्य हैं, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! पक्षियों को जाननेवाला जन (वसन्ताय) वसन्त ऋतु के लिये (कपिञ्जलान्) जिन कपिञ्जल नाम के विशेष पक्षियों (ग्रीष्माय) ग्रीष्म ऋतु के लिये (कलविङ्कान्) चिरौटा नाम के पक्षियों (वर्षाभ्यः) वर्षा ऋतु के लिये (तित्तिरीन्) तीतरों (शरदे) शरद् ऋतु के लिये (वर्त्तिकाः) बतकों (हेमन्ताय) हेमन्त ऋतु के लिये (ककरान्) ककर नाम के पक्षियों और (शिशिराय) शिशिर ऋतु के अर्थ (विककरान्) विककर नाम के पक्षियों को (आ, लभते) अच्छे प्रकार प्राप्त होता है, उन को तुम जानो ॥२० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जिस-जिस ऋतु में जो-जो पक्षी अच्छे आनन्द को पाते हैं, वे-वे उस गुणवाले जानने चाहियें ॥२० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः कस्मै के समाश्रयितव्या इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! पक्षिविज्जनो वसन्ताय यान् कपिञ्जलान् ग्रीष्माय कलविङ्कान् वर्षाभ्यस्तित्तिरीञ्छरदे वर्त्तिका हेमन्ताय ककराञ्छिशिराय विककरानालभते तान् यूयं विजानीत ॥२० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यस्मिन् यस्मिन्नृतौ ये पक्षिणः प्रमुदिता भवन्ति, ते ते तद्गुणा विज्ञेयाः ॥२० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्या ऋतुमध्ये जे पक्षी आनंदी असतात. ते त्या गुणांचे समजले जातात.
२१ समुद्राय शिशुमारानालभते
विश्वास-प्रस्तुतिः ...{Loading}...
स॒मु॒द्राय॑ शिशु॒मारा॒नाल॑भते प॒र्जन्या॑य म॒ण्डूका॑न॒द्भ्यो मत्स्या॑न् मि॒त्राय॑ कुली॒पया॒न् वरु॑णाय ना॒क्रान् ॥२१ ॥
मूलम् ...{Loading}...
स॒मु॒द्राय॑ शिशु॒मारा॒नाल॑भते प॒र्जन्या॑य म॒ण्डूका॑न॒द्भ्यो मत्स्या॑न् मि॒त्राय॑ कुली॒पया॒न् वरु॑णाय ना॒क्रान् ॥२१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स॒मु॒द्राय॑। शि॒शु॒मारा॒निति॑ शिशु॒ऽमारा॑न्। आ। ल॒भ॒ते॒। प॒र्जन्या॑य। म॒ण्डूका॑न्। अ॒द्भ्य इत्य॒प्ऽभ्यः। मत्स्या॑न्। मि॒त्राय॑। कु॒ली॒पया॑न्। वरु॑णाय। ना॒क्रान्। २१।
महीधरः
म० त्रीन् हंसान् सोमाय । तिस्रो बलाकाः बकपत्नीः वायवे । अथ चतुर्थेऽवकाशे । त्रीन् क्रुञ्चान् पक्षिणः इन्द्राग्निभ्याम् । त्रीन् मद्गून्जलकाकान् मित्राय । त्रीन् चक्रवाकान् वरुणाय ॥ २२ ॥
त्रयोविंशी।
अधिमन्त्रम् (VC)
- वरुणो देवता
- प्रजापतिर्ऋषिः
- बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर कौन किसके अर्थ सेवन करने चाहियें, इस विषय को अगले मन्त्र में कहा हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे जल के जीवों की पालना करने को जाननेवाला जन (समुद्राय) महाजलाशय समुद्र के किये (शिशुमारान्) जो अपने बालकों को मार डालते हैं, उन शिशुमारों (पर्जन्याय) मेघ के लिये (मण्डूकान्) मेंडकों (अद्भ्यः) जलों के लिये (मत्स्यान्) मछलियों (मित्राय) मित्र के समान सुख देते हुए सूर्य्य के लिये (कुलीपयान्) कुलीपय नाम के जंगली पशुओं और (वरुणाय) वरुण के लिये (नाक्रान्) नाके मगर जलजन्तुओं को (आ, लभते) अच्छे प्रकार प्राप्त होता है, वैसे तुम भी प्राप्त होओ ॥२१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे जलचर जन्तुओं के गुण जाननेवाले पुरुष उन जल के जन्तुओं को बढ़ा वा पकड़ सकते हैं, वैसा आचरण और लोग भी करें। २१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः के किमर्था सेवनीया इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा जलजन्तुपालनवित्समुद्राय शिशुमारान् पर्जन्याय मण्डूकानद्भ्यो मत्स्यान् मित्राय कुलीपयान् वरुणाय नाक्रानालभते तथा यूयमप्यालभध्वम् ॥२१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यथा जलचरजन्तुगुणविदस्तान् वर्धयितुं निग्रहीतुं वा शक्नुवन्ति तथाऽन्येऽप्याचरन्तु ॥२१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जलचर जीवांचे गुण जाणणारे जलचर संशोधक त्या जलातील जीवांची वाढ करू शकतात किंवा पकडू शकतात तसे इतर लोकांनीही वागावे.
२२ सोमाय हंसानालभते
विश्वास-प्रस्तुतिः ...{Loading}...
सोमा॑य हँ॒सानाल॑भते वा॒यवे॑ ब॒लाका॑ऽइन्द्रा॒ग्निभ्यां॒ क्रुञ्चा॑न् मि॒त्राय॑ म॒द्गून् वरु॑णाय चक्रवा॒कान् ॥२२ ॥
मूलम् ...{Loading}...
सोमा॑य हँ॒सानाल॑भते वा॒यवे॑ ब॒लाका॑ऽइन्द्रा॒ग्निभ्यां॒ क्रुञ्चा॑न् मि॒त्राय॑ म॒द्गून् वरु॑णाय चक्रवा॒कान् ॥२२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सोमा॑य। हँ॒सान्। आ। ल॒भ॒ते॒। वा॒यवे॑। ब॒लाकाः॑। इ॒न्द्रा॒ग्निभ्या॒मिती॑न्द्रा॒ग्निऽभ्या॑म्। क्रुञ्चा॑न्। मि॒त्राय॑। म॒द्गून्। वरु॑णाय। च॒क्र॒वा॒कानिति॑ चक्रऽवा॒कान्। २२।
महीधरः
म० त्रीन् कुटरून् कुक्कुटानग्नये । ततस्त्रयाणामुलूकानां मध्ये एकमुलूकं वनस्पतिभ्यः । अथ पञ्चमेऽवकाशे द्वौ उलूकौ काकवैरिणौ । त्रीन् चाषानग्नीषोमाभ्यां त्रीन् मयूरानश्विभ्यां त्रीन् कपोतान् मित्रावरुणाभ्याम् ॥ २३ ॥
चतुर्विंशी।
अधिमन्त्रम् (VC)
- सोमादयो देवताः
- प्रजापतिर्ऋषिः
- विराड्बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे पक्षियों के गुण का विशेष ज्ञान रखनेवाला पुरुष (सोमाय) चन्द्रमा वा औषधियों में उत्तम सोम के लिये (हंसान्) हंसों (वायवे) पवन के लिये (बलाकाः) बगुलियों (इन्द्राग्निभ्याम्) इन्द्र और अग्नि के लिये (क्रुञ्चान्) सारसों (मित्राय) मित्र के लिये (मद्गून्) जल के कौओं वा सुतरमुर्गों और (वरुणाय) वरुण के लिये (चक्रवाकान्) चकई-चकवों को (आ, लभते) अच्छे प्रकार प्राप्त होता है, वैसे तुम भी प्राप्त होओ ॥२२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को जो उत्तम पक्षी हैं, वे अच्छे यत्न के साथ पालन कर बढ़ाने चाहियें ॥२२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा पक्षिगुणविज्ञानी जनः सोमाय हंसान् वायवे बलाका इन्द्राग्निभ्यां क्रुञ्चान् मित्राय मद्गून् वरुणाय चक्रवाकानालभते तथा यूयमप्यालभध्वम् ॥२२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैर्य उत्तमाः पक्षिणः सन्ति, ते प्रयत्नेन संपाल्य वर्द्धनीयाः ॥२२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. माणसांनी प्रयत्नपूर्वक उत्तम पक्ष्यांचे पालन केले पाहिजे व त्यांची वाढ केली पाहिजे.
२३ अग्नये कुटरूनालभते
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्नये॑ कु॒टरू॒नाल॑भते॒ वन॒स्पति॑भ्य॒ऽउलू॑कान॒ग्नीषोमा॑भ्यां॒ चाषा॑न॒श्विभ्यां॑ म॒यूरा॑न् मि॒त्रावरु॑णाभ्यां क॒पोता॑न् ॥२३ ॥
मूलम् ...{Loading}...
अ॒ग्नये॑ कु॒टरू॒नाल॑भते॒ वन॒स्पति॑भ्य॒ऽउलू॑कान॒ग्नीषोमा॑भ्यां॒ चाषा॑न॒श्विभ्यां॑ म॒यूरा॑न् मि॒त्रावरु॑णाभ्यां क॒पोता॑न् ॥२३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒ग्नये॑। कु॒टरू॑न्। आ। ल॒भ॒ते॒। वन॒स्पति॑भ्य॒ इति॑ वन॒स्पति॑ऽभ्यः। उलू॑कान्। अ॒ग्नीषोमा॑भ्याम्। चाषा॑न्। अ॒श्विभ्या॒मित्य॒श्विऽभ्या॑म्। म॒यूरा॑न्। मि॒त्रावरु॑णाभ्याम्। क॒पोता॑न्। २३।
महीधरः
म० अथ सप्तमेऽवकाशे त्रीन् पारावतान् कलरवानह्ने । | तिस्रः सीचापूः पक्षिणी रात्र्यै । तिस्रो जतूः पात्राख्याः पक्षिणीः अहोरात्रयोः सन्धिभ्यः। त्रीन् दात्यूहान् कालकण्ठान् मासेभ्यः। त्रयाणां महतां सुपर्णानां मध्ये एकं संवत्सराय । अथाष्टमेवकाशे द्वौ महन्तौ सुपर्णौ संवत्सराय ॥ २५ ॥
षड्विंशी।
अधिमन्त्रम् (VC)
- अग्न्यादयो देवताः
- प्रजापतिर्ऋषिः
- पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे पक्षियों के गुण जाननेवाला जन (अग्नये) अग्नि के लिये (कुटरून्) मुर्गों (वनस्पतिभ्यः) वनस्पति अर्थात् विना पुष्प-फल देनेवाले वृक्षों के लिये (उलूकान्) उल्लू पक्षियों (अग्नीषोमाभ्याम्) अग्नि और सोम के लिये (चाषान्) नीलकण्ठ पक्षियों (अश्विभ्याम्) सूर्य-चन्द्रमा के लिये (मयूरान्) मयूरों तथा (मित्रावरुणाभ्याम्) मित्र और वरुण के लिये (कपोतान्) कबूतरों को (आ, लभते) अच्छे प्रकार प्राप्त होता है, वैसे इनको तुम भी प्राप्त होओ ॥२३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो मुर्गा आदि पक्षियों के गुणों को जानते हैं, वे सदा इनको बढ़ाते हैं ॥२३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्या यथा पक्षिगुणविज्जनोऽग्नये कुटरून् वनस्पतिभ्य उलूकानग्नीषोमाभ्यां चाषानश्विभ्यां मयूरान् मित्रावरुणाभ्यां कपोतानालभते, तथैतान् यूयमप्यालभध्वम् ॥२३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये कुक्कुटादीनां पक्षिणां गुणान् जानन्ति, ते सदैतान् वर्धयन्ति ॥२३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जे लोक कोंबडे इत्यादी पक्षांचे गुण जाणतात ते सदैव त्यांची वाढ करतात.
२४ सोमाय लबानालभते
विश्वास-प्रस्तुतिः ...{Loading}...
सोमा॑य ल॒बानाल॑भते॒ त्वष्ट्रे॑ कौली॒कान् गो॑षा॒दीर्दे॒वानां॒ पत्नी॑भ्यः कु॒लीका॑ देवजा॒मिभ्यो॒ऽग्नये॑ गृ॒हपत॑ये पारु॒ष्णान् ॥२४ ॥
मूलम् ...{Loading}...
सोमा॑य ल॒बानाल॑भते॒ त्वष्ट्रे॑ कौली॒कान् गो॑षा॒दीर्दे॒वानां॒ पत्नी॑भ्यः कु॒लीका॑ देवजा॒मिभ्यो॒ऽग्नये॑ गृ॒हपत॑ये पारु॒ष्णान् ॥२४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सोमा॑य। ल॒बान्। आ। ल॒भ॒ते॒। त्वष्ट्रे॑। कौ॒ली॒कान्। गो॒षा॒दीः। गो॒सा॒दीरिति॑ गोऽसा॒दीः। दे॒वाना॑म्। पत्नी॑भ्यः। कु॒लीकाः। दे॒व॒जा॒मिभ्य॒ इति॑ देवऽजा॒मिभ्यः॑। अ॒ग्नये॑। गृ॒हप॑तय॒ इति॑ गृ॒हऽप॑तये। पा॒रु॒ष्णान्। २४।
महीधरः
म० भूम्यै आखून् मूषकान् त्रीन् पाङ्क्त्रान् मूषकजाति: विशेषानन्तरिक्षाय । काशान् तद्भेदानेव दिवे । त्रीन् नकुलान् दिग्भ्यः तत्र द्वौ अष्टमे । अथ नवमे एकम् । त्रीन् बभ्रुकानवान्तरदिशाभ्यः ॥ २६ ॥
सप्तविंशी।
अधिमन्त्रम् (VC)
- सोमादयो देवताः
- प्रजापतिर्ऋषिः
- भुरिक्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे पक्षियों का काम जाननेवाला जन (सोमाय) ऐश्वर्य के लिये (लबान्) बटेरों (त्वष्ट्रे) प्रकाश के लिये (कौलीकान्) कौलीक नाम के पक्षियों (देवानाम्) विद्वानों की (पत्नीभ्यः) स्त्रियों के लिये (गोसादीः) जो गौओं को मारती हैं, उन पखेरियों (देवजामिभ्यः) विद्वानों की बहिनियों के लिये (कुलीकाः) कुलीक नामक पखेरियों और (अग्नये) जो अग्नि के समान वर्त्तमान (गृहपतये) गृहपालन करनेवाला उस के लिये (पारुष्णान्) पारुष्ण पक्षियों को (आ, लभते) प्राप्त होता है, वैसे तुम भी प्राप्त होओ ॥२४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो मनुष्य पक्षियों के स्वभावज कामों को जानकर उनकी अनुहारि किया करते हैं, वे बहुश्रुत के समान होते हैं ॥२४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा पक्षिकर्मविज्जनः सोमाय लबाँस्त्वष्ट्रे कौलीकान् देवानां पत्नीभ्यो गोसादीर्देवजामिभ्यः कुलीका अग्नये गृहपतये पारुष्णानालभते, तथा यूयमप्यालभध्वम्। २४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये मनुष्याः पक्षिणां स्वभावजानि कर्माणि विदित्वा तदनुकरणं कुर्वन्ति, ते बहुश्रुतवद्भवन्ति ॥२४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जी माण्से पक्ष्यांचे स्वभाव जाणून त्यांचे अनुकरण करतात ती बहुश्रुत बनतात.
२५ अह्ने पारावतानालभते
विश्वास-प्रस्तुतिः ...{Loading}...
अह्ने॑ पा॒राव॑ता॒नाल॑भते॒ रात्र्यै॑ सीचा॒पूर॑होरा॒त्रयोः॑ स॒न्धिभ्यो॑ ज॒तूर्मासे॑भ्यो दात्यौ॒हान्त्सं॑वत्स॒राय॑ मह॒तः सु॑प॒र्णान् ॥२५ ॥
मूलम् ...{Loading}...
अह्ने॑ पा॒राव॑ता॒नाल॑भते॒ रात्र्यै॑ सीचा॒पूर॑होरा॒त्रयोः॑ स॒न्धिभ्यो॑ ज॒तूर्मासे॑भ्यो दात्यौ॒हान्त्सं॑वत्स॒राय॑ मह॒तः सु॑प॒र्णान् ॥२५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अह्ने॑। पा॒राव॑तान्। आ। ल॒भ॒ते॒। रात्र्यै॑। सी॒चा॒पूः। अ॒हो॒रा॒त्रयोः॑। स॒न्धिभ्य॒ इति॑ स॒न्धिऽभ्यः॑। ज॒तूः। मासे॑भ्यः। दा॒त्यौ॒हान्। सं॒व॒त्स॒राय॑। म॒ह॒तः। सु॒प॒र्णानिति॑ सुऽप॒र्णान्। २५।
महीधरः
म० त्रीनृष्यान् वसुभ्यः । ऋष्यादयो मृगविशेषाः । रुद्रेभ्यः । रुरून् । त्रीन् न्यङ्कूनादित्येभ्यः । अथ दशमेऽवकाशे त्रीन् पृषतान् विश्वेभ्यो देवेभ्यः । त्रीन् कुलुङ्गान् साध्येभ्यः ॥२७॥
अष्टाविंशी।
अधिमन्त्रम् (VC)
- कालावयवा देवताः
- प्रजापतिर्ऋषिः
- स्वराट्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे काल का जाननेवाला (अह्ने) दिवस के लिये (पारावतान्) कोमल शब्द करनेवाले कबूतरों (रात्र्यै) रात्रि के लिये (सीचापूः) सीचापू नामक पक्षियों (अहोरात्रयोः) दिन-रात्रि के (सन्धिभ्यः) सन्धियों अर्थात् प्रातः सायंकाल के लिये (जतूः) जतूनामक पक्षियों (मासेभ्यः) महीनों के लिये (दात्यौहान्) काले कौओं और (संवत्सराय) वर्ष के लिये (महतः) बड़े-बड़े (सुपर्णान्) सुन्दर-सुन्दर पंखोंवाले पक्षियों को (आ, लभते) अच्छे प्रकार प्राप्त होता है, वैसे तुम भी इन को प्राप्त होओ ॥२५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो मनुष्य अपने-अपने समय के अनुकूल क्रीड़ा करनेवाले पक्षियों के स्वभाव को जानकर अपने स्वभाव को वैसा करें, वे बहुत जाननेवाले हों ॥२५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा कालविज्जनोऽह्ने पारावतान् रात्र्यै सीचापूरहोरात्रयोः सन्धिभ्यो जतूर्मासेभ्यो दात्यौहान्त्संवत्सराय महतः सुपर्णानालभते, तथा यूयमप्येतानालभध्वम् ॥२५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये मनुष्याः स्वस्वसमयानुकूलक्रीडकानां पक्षिणां स्वभावं कुर्य्युस्ते बहुविदस्स्युः ॥२५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जी माणसे आपापल्या ऋतुकाळानुसार क्रीडा करणाऱ्या पक्ष्यांचे स्वभाव जाणतात व त्यांचे अनुकरण करतात किंवा आपला स्वभाव तसा बनवितात त्यांना पुष्कळ ज्ञान प्राप्त होते.
२६ भूम्याऽआखूनालभतेऽन्तरिक्षाय पाङ्क्तान्
विश्वास-प्रस्तुतिः ...{Loading}...
भूम्या॑ऽआ॒खूनाल॑भते॒ऽन्तरि॑क्षाय पा॒ङ्क्तान् दि॒वे कशा॑न् दि॒ग्भ्यो न॑कु॒लान् बभ्रु॑कानवान्तरदि॒शाभ्यः॑ ॥२६ ॥
मूलम् ...{Loading}...
भूम्या॑ऽआ॒खूनाल॑भते॒ऽन्तरि॑क्षाय पा॒ङ्क्तान् दि॒वे कशा॑न् दि॒ग्भ्यो न॑कु॒लान् बभ्रु॑कानवान्तरदि॒शाभ्यः॑ ॥२६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
भूम्यै॑। आ॒खून्। आ। ल॒भ॒ते॒। अ॒न्तरि॑क्षाय। पा॒ङ्क्तान्। दि॒वे। कशा॑न्। दि॒ग्भ्य इति॑ दि॒क्ऽभ्यः। न॒कु॒लान्। बभ्रु॑कान्। अ॒वा॒न्त॒र॒दि॒शाभ्य॒ इत्य॑वान्तरऽदि॒शाभ्यः॑। २६।
महीधरः
म० परस्वतः मृगविशेषानीशानाय । त्रीन् गौरान्मृगान् । मित्राय । त्रीन् महिषान्वरुणाय तत्रैकं दशमे । अथैकादशेऽवकाशे त्रीन् गवयान्गोसदृशानारण्यपशून् बृहस्पतये । त्रीनुष्ट्रान् त्वष्ट्रे ॥ २८ ॥
एकोनत्रिंशी।
अधिमन्त्रम् (VC)
- भूम्यादयो देवताः
- प्रजापतिर्ऋषिः
- भुरिगनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे भूमि के जन्तुओं के गुण जाननेवाला पुरुष (भूम्यै) भूमि के लिये (आखून्) मूषों (अन्तरिक्षाय) अन्तरिक्ष के लिये (पाङ्क्तान्) पङ्क्तिरूप से चलनेवाले विशेष पक्षियों (दिवे) प्रकाश के लिये (कशान्) कश नाम के पक्षियों (दिग्भ्यः) पूर्व आदि दिशाओं के लिये (नकुलान्) नेउलों और (अवान्तरदिशाभ्यः) अवान्तर अर्थात् कोण दिशाओं के लिए (बभ्रुकान्) भूरे-भूरे विशेष नेउलों को (आ, लभते) अच्छे प्रकार प्राप्त होता है, वैसे तुम भी प्राप्त होओ ॥२६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य भूमि आदि के समान मूषे आदि के गुणों को जानकर उपकार करें, वे बहुत विज्ञानवाले हों ॥२६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा भूमिजन्तुगुणविज्जनो भूम्या आखूनन्तरिक्षाय पाङ्क्तान् दिवे कशान् दिग्भ्यो नकुलानवान्तरदिशाभ्यो बभ्रुकानलभते तथा यूयमप्यालभध्वम् ॥२६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्या भूम्यादिवन्मूषकादिगुणान् विदित्वोपकुर्युस्ते बहुविज्ञाना जायेरन् ॥२६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे (जंतुशास्रज्ञ) भूमीसाठी उंदीर वगैरेंचे गुण जाणून उपकार करतात त्यांना खूप ज्ञान मिळते.
२७ वसुभ्यऽऋश्यानालभते रुद्रेभ्यो
विश्वास-प्रस्तुतिः ...{Loading}...
वसु॑भ्य॒ऽऋश्या॒नाल॑भते रु॒द्रेभ्यो॒ रुरू॑नादि॒त्येभ्यो॒ न्यङ्कू॒न् विश्वे॑भ्यो दे॒वेभ्यः॑ पृष॒तान्त्सा॒ध्येभ्यः॑ कुलु॒ङ्गान् ॥२७ ॥
मूलम् ...{Loading}...
वसु॑भ्य॒ऽऋश्या॒नाल॑भते रु॒द्रेभ्यो॒ रुरू॑नादि॒त्येभ्यो॒ न्यङ्कू॒न् विश्वे॑भ्यो दे॒वेभ्यः॑ पृष॒तान्त्सा॒ध्येभ्यः॑ कुलु॒ङ्गान् ॥२७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वसु॑भ्य॒ इति वसु॑ऽभ्यः। ऋश्या॑न्। आ। ल॒भ॒ते॒। रु॒द्रेभ्यः॑। रुरू॑न्। आ॒दि॒त्येभ्यः॑। न्यङ्कू॑न्। विश्वे॑भ्यः। दे॒वेभ्यः॑। पृ॒ष॒तान्। सा॒ध्येभ्यः॑। कु॒लु॒ङ्गान्। २७।
महीधरः
म० प्रजापतये पुरुषान् हस्तिनः त्रीन् । त्रीन् प्लुषीन् । वक्रतुण्डान् वाचे तन्मध्ये द्वौ प्लुषी एकादशे । अथ द्वादशेऽवकाशे एकं प्लुषिम् । त्रीन् मशकान् चक्षुषे । त्रयो भृङ्गाः श्रोत्राय नियोज्याः ॥ २९ ॥
त्रिंशी।
अधिमन्त्रम् (VC)
- वस्वादयो देवताः
- प्रजापतिर्ऋषिः
- निचृद्बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे पशुओं के गुणों का जाननेवाला जन (वसुभ्यः) अग्नि आदि वसुओं के लिये (ऋश्यान्) ऋश्य जाति के हरिणों (रुद्रेभ्यः) प्राण आदि रुद्रों के लिए (रुरून्) रोजनामी जन्तुओं (आदित्येभ्यः) बारह महीनों के लिये (न्यङ्कून्) न्यङ्कु नामक पशुओं (विश्वेभ्यः) समस्त (देवेभ्यः) दिव्य पदार्थों वा विद्वानों के लिये (पृषतान्) पृषत् जाति के मृगविशेषों और (साध्येभ्यः) सिद्ध करने के जो योग्य हैं, उनके लिये (कुलुङ्गान्) कुलुङ्ग नाम के पशुविशेषों को (आ, लभते) अच्छे प्रकार प्राप्त होता है, वैसे इनको तुम भी प्राप्त होओ ॥२७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो मनुष्य हरिण आदि के वेगरूप गुणों को जानकर उपकार करें, वे अत्यन्त सुख को प्राप्त हों ॥२७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा पशुगुणविज्जनो वसुभ्य ऋश्यान् रुद्रेभ्यो रुरूनादित्येभ्यो न्यङ्कून् विश्वेभ्यो देवेभ्यः पृषतान्त्साध्येभ्यः कुलुङ्गानालभते तथैतान् यूयमप्यालभध्वम् ॥२७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये मनुष्या मृगादीनां वेगगुणान् विदित्वोपकुर्युस्तेऽत्यन्तं सुखं लभेरन् ॥२७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जी पशुतज्ञ माणसे हरीण इत्यादींचा गतिरूपी गुण जाणून हितकारक काम करतात ते अत्यंत सुख प्राप्त करतात.
२८ ईशानाय त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
ईशा॑नाय॒ त्वा॒ पर॑स्वत॒ऽआ ल॑भते मि॒त्राय॑ गौ॒रान् वरु॑णाय महि॒षान् बृह॒स्पत॑ये गव॒याँस्त्वष्ट्र॒ उष्ट्रा॑न् ॥२८ ॥
मूलम् ...{Loading}...
ईशा॑नाय॒ त्वा॒ पर॑स्वत॒ऽआ ल॑भते मि॒त्राय॑ गौ॒रान् वरु॑णाय महि॒षान् बृह॒स्पत॑ये गव॒याँस्त्वष्ट्र॒ उष्ट्रा॑न् ॥२८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ईशा॑नाय। त्वा॒। पर॑स्वतः। आ। ल॒भ॒ते॒। मि॒त्राय॑। गौ॒रान्। वरु॑णाय। म॒हि॒षान्। बृह॒स्पत॑ये। ग॒व॒यान्। त्वष्ट्रे॑। उष्ट्रा॑न्। २८।
महीधरः
म० प्रजापतये च वायवे च एको गोमृगः गवयः । एक आरण्यो मेषो वरुणाय । एकः कृष्णो मेषो यमाय । एको मर्कटः मनुष्यराजाय । एको रोहिदृष्यः शार्दूलाय । एका गवयी ऋषभाय तदाख्यदेवाय । अथ त्रयोदशेऽवकाशे एका वर्तिका क्षिप्रश्येनाय देवाय । एकः कृमिः कीटः नीलङ्गोः नीलङ्गवे । शिशुमारः एको जलचरः समुद्राय । हस्ती हिमवते ॥ ३० ॥
एकत्रिंशी।
अधिमन्त्रम् (VC)
- ईशानादयो देवताः
- प्रजापतिर्ऋषिः
- बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजा जो मनुष्य (ईशानाय) समर्थ जन के लिये (त्वा) आप और (परस्वतः) परस्वत् नामी मृगविशेषों को (मित्राय) मित्र के लिये (गौरान्) गोरे मृगों को (वरुणाय) अति श्रेष्ठ के लिये (महिषान्) भैसों को (बृहस्पतये) बृहस्पति अर्थात् महात्माओं के रक्षक के लिये (गवयान्) नीलगायों को और (त्वष्ट्रे) त्वष्टा अर्थात् पदार्थविद्या से पदार्थों को सूक्ष्म करनेवाले के लिये (उष्ट्रान्) ऊँटों को (आ, लभते) अच्छे प्रकार प्राप्त होता है, वह धनधान्य युक्त होता है ॥२८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो पशुओं से यथावत् उपकार लेवें, वे समर्थ होवें ॥२८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! यो मनुष्य ईशानाय त्वा परस्वतो मित्राय गौरान् वरुणाय महिषान् बृहस्पतये गवयान् त्वष्ट्र उष्ट्रानालभते, स धनधान्ययुक्तो जायते ॥२८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये पशुभ्यो यथावदुपकारान् गृह्णीयुस्ते समर्थाः स्युः ॥२८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे पशूंचा योग्य उपयोग करून घेतात ते सामर्थ्यशाली बनतात.
२९ प्रजापतये पुरुषान्
विश्वास-प्रस्तुतिः ...{Loading}...
प्र॒जाप॑तये॒ पुरु॑षान् ह॒स्तिन॒ऽआ ल॑भते वा॒चे प्लुषीँ॒श्चक्षु॑षे म॒शका॒ञ्छ्रोत्रा॑य भृङ्गाः॑ ॥२९ ॥
मूलम् ...{Loading}...
प्र॒जाप॑तये॒ पुरु॑षान् ह॒स्तिन॒ऽआ ल॑भते वा॒चे प्लुषीँ॒श्चक्षु॑षे म॒शका॒ञ्छ्रोत्रा॑य भृङ्गाः॑ ॥२९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्र॒जा॑पतय॒ इति॑ प्र॒जाऽप॑तये। पुरु॑षान्। ह॒स्तिनः॑। आ। ल॒भ॒ते॒। वा॒चे। प्लुषी॑न्। चक्षु॑षे। म॒शका॑न्। श्रोत्रा॑य। भृङ्गाः॑। २९।
महीधरः
म० मयुः प्राजापत्यः तुरङ्गवदनः किन्नरः प्रजापतिदेवतः । उलो मृगविशेषः हलिक्ष्णः सिंहविशेषः वृषदंशो विडालः ते त्रयो धात्रे । एकः कङ्कः बकः दिशां दिग्भ्यः । एका धुङ्क्षा पक्षिणी आग्नेयी अग्निदेवत्या । कलविङ्कः चटकः लोहिताहिः रक्तवर्णसर्पः पुष्करसादी पुष्करे सीदतीति कमलभक्षी पक्षिविशेषः ते त्रयः त्वाष्ट्राः त्वष्टृदेवताः । अथ चतुर्दशेऽवकाशे एकः क्रुञ्चः वाचे ॥ ३१ ॥
द्वात्रिंशी। ।
अधिमन्त्रम् (VC)
- प्रजापत्यादयो देवताः
- प्रजापतिर्ऋषिः
- विराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो मनुष्य (प्रजापतये) प्रजा पालने हारे राजा के लिये (पुरुषान्) पुरुषों (हस्तिनः) और हाथियों (वाचे) वाणी के लिये (प्लुषीन्) प्लुषि नाम के जीवों (चक्षुषे) नेत्र के लिये (मशकान्) मशाओं और (श्रोत्राय) कान के लिये (भृङ्गाः) भौंरों को (आ, लभते) प्राप्त होता है, वह बली और पुष्ट इन्द्रियोंवाला होता है ॥२९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो प्रजा की रक्षा के लिये चतुरङ्गिणी अर्थात् चारों दिशाओं को रोकनेवाली सेना और जितेन्द्रियता का अच्छे प्रकार आचरण करते हैं, वे धनवान् और कान्तिमान् होते हैं ॥२९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यो मनुष्यः प्रजापतये पुरुषान् हस्तिनो वाचे प्लुषींश्चक्षुषे मशकाञ्छ्रोत्राय भृङ्गा आलभते, स बलिष्ठो दृढेन्द्रियो जायते ॥२९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये प्रजारक्षणाय चतुरङ्गिणीं सेनां जितेन्द्रियतां च समाचरन्ति, ते श्रीमन्तो भवन्ति ॥२९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे प्रजेच्या रक्षणासाठी चारही दिशांना सुसज्ज चतुरंग सेना बाळगतात व जितेंद्रिय बनून चांगले आचरण करतात ते धनवान व तेजस्वी होतात.
३० प्रजापतये च
विश्वास-प्रस्तुतिः ...{Loading}...
प्र॒जाप॑तये च वा॒यवे॑ च गोमृ॒गो वरु॑णायार॒ण्यो मे॒षो य॒माय॒ कृष्णो॑ मनुष्यरा॒जाय॑ म॒र्कटः॑ शार्दू॒लाय॑ रो॒हिदृ॑ष॒भाय॑ गव॒यी क्षि॑प्रश्ये॒नाय॒ वर्त्ति॑का॒ नील॑ङ्गोः॒ कृमिः॑ समु॒द्राय॑ शिशु॒मारो॑ हि॒मव॑ते ह॒स्ती ॥३० ॥
मूलम् ...{Loading}...
प्र॒जाप॑तये च वा॒यवे॑ च गोमृ॒गो वरु॑णायार॒ण्यो मे॒षो य॒माय॒ कृष्णो॑ मनुष्यरा॒जाय॑ म॒र्कटः॑ शार्दू॒लाय॑ रो॒हिदृ॑ष॒भाय॑ गव॒यी क्षि॑प्रश्ये॒नाय॒ वर्त्ति॑का॒ नील॑ङ्गोः॒ कृमिः॑ समु॒द्राय॑ शिशु॒मारो॑ हि॒मव॑ते ह॒स्ती ॥३० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्र॒जाप॑तय॒ इति॑ प्र॒जाऽप॑तये। च॒। वा॒यवे॑। च॒। गो॒मृ॒ग इति॑ गोऽमृ॒गः। वरु॑णाय। आ॒र॒ण्यः। मे॒षः। य॒माय॑। कृष्णः॑। म॒नु॒ष्य॒रा॒जायेति॑ मनुष्यऽरा॒जाय॑। म॒र्कटः॑। शा॒र्दू॒लाय॑। रो॒हित्। ऋ॒ष॒भाय॑। ग॒व॒यी। क्षि॒प्र॒श्ये॒नायेति॑ क्षिप्रऽश्ये॒नाय॑। वर्त्ति॑का। नील॑ङ्गोः। कृमिः॑। स॒मु॒द्राय॑। शि॒शु॒मार॒ऽइति॑ शिशु॒ऽमारः॑। हि॒मवत॒ऽइति॑ हि॒मऽव॑ते। ह॒स्ती। ३०।
महीधरः
म० कुलुङ्गः कुरङ्गो हरिण एकः सोमाय । आरण्यो वनजोऽजच्छागः नकुलः शका शकुन्तिः एते त्रयः पौष्णाः पूषदेवत्याः । क्रोष्टा शृगालो मायोर्दवस्य । एको गौरमृगः इन्द्रस्य । पिद्वो मृगविशेषः न्यङ्कुः अपि कक्कटः स एव ते त्रयोऽनुमत्यै । चक्रवाकः प्रतिश्रुत्कायै ॥ ३२ ॥
त्रयस्त्रिंशी।
अधिमन्त्रम् (VC)
- प्रजापत्यादयो देवताः
- प्रजापतिर्ऋषिः
- निचृदतिधृतिः
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुमको (प्रजापतये) प्रजा पालनेवाले (च) और उस के सम्बन्धियों तथा (वायवे) वायु (च) और वायु के सम्बन्धी पदार्थों के लिये (गोमृगः) जो पृथिवी को शुद्ध करता वह (वरुणाय) अति उत्तम के लिये (आरण्यः) वन का (मेषः) मेंढा (यमाय) न्यायाधीश के लिये (कृष्णः) काला हरिण (मनुष्यराजाय) मनुष्यों के राजा के लिये (मर्कटः) वानर (शार्दूलाय) बड़े सिंह अर्थात् केशरी के लिये (रोहित्) लाल मृग (ऋषभाय) श्रेष्ठ सभ्य पुरुष के लिये (गवयी) नीलगाहिनी (क्षिप्रश्येनाय) शीघ्र चलने हारे बाज पखेरू के समान जो वर्त्तमान उस के लिये (वर्त्तिका) वतक (नीलङ्गोः) जो नील को प्राप्त होता उस छोटे कीड़े के हेतु (कृमिः) छोटा कीड़ा (समुद्राय) समुद्र के लिये (शिशुमारः) बालकों को मारनेवाला शिशुमार और (हिमवते) जिसके अनेकों हिमखण्ड विद्यमान हैं, उस पर्वत के लिये (हस्ती) हाथी अच्छे प्रकार युक्त करना चाहिये ॥३० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य मनुष्यसम्बन्धी उत्तम प्राणियों की रक्षा करते हैं, वे साङ्गोपाङ्ग बलवान् होते हैं ॥३० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः युष्माभिः प्रजापतये च वायवे च गोमृगो वरुणायारण्यो मेषो यमाय कृष्णो मनुष्यराजाय मर्कटः शार्दूलाय रोहिदृषभाय गवयी क्षिप्रश्येनाय वर्त्तिका नीलङ्गोः कृमिः समुद्राय शिशुमारो हिमवते हस्ती च सम्प्रयोक्तव्यः ॥३० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्या मनुष्यसम्बन्ध्युत्तमान् प्राणिनो रक्षन्ति, ते साङ्गोपाङ्गबला जायन्ते ॥३० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे माणसांना उपयोगी पडणाऱ्या प्राण्यांचे रक्षण करतात ती पूर्णपणे शक्तिवान असतात.
३१ मयुः प्राजापत्यऽउलो
विश्वास-प्रस्तुतिः ...{Loading}...
म॒युः प्रा॑जाप॒त्यऽउ॒लो ह॒लिक्ष्णो॑ वृषदँ॒शस्ते धा॒त्रे दि॒शां क॒ङ्को धुङ्क्षा॑ग्ने॒यी क॑ल॒विङ्को॑ लोहिता॒हिः पु॑ष्करसा॒दस्ते त्वा॒ष्ट्रा वा॒चे क्रुञ्चः॑ ॥३१ ॥
मूलम् ...{Loading}...
म॒युः प्रा॑जाप॒त्यऽउ॒लो ह॒लिक्ष्णो॑ वृषदँ॒शस्ते धा॒त्रे दि॒शां क॒ङ्को धुङ्क्षा॑ग्ने॒यी क॑ल॒विङ्को॑ लोहिता॒हिः पु॑ष्करसा॒दस्ते त्वा॒ष्ट्रा वा॒चे क्रुञ्चः॑ ॥३१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
म॒युः। प्रा॒जा॒प॒त्यऽइति॑ प्राजाऽप॒त्यः। उ॒लः। ह॒लिक्ष्णः॑। वृ॒ष॒दँ॒शऽइति॑ वृषऽदँ॒शः। ते। धा॒त्रे। दि॒शाम्। क॒ङ्कः धुङ्क्षा॑। आ॒ग्ने॒यी। क॒ल॒विङ्कः॑। लो॒हि॒ता॒हिरिति॑ लोहितऽअ॒हिः। पु॒ष्क॒र॒सा॒दऽइति॑ पुष्करऽसा॒दः। ते। त्वा॒ष्ट्राः। वा॒चे। क्रुञ्चः॑। ३१।
महीधरः
म० बलाका बकस्त्री सूर्य देवत्या । शार्गः पक्षिविशेषः । अथ पञ्चदशेऽवकाशे सृजयः पक्षिविशेषः शयाण्डकोऽपि ते मैत्राः मित्रदेवत्याः । पुरुषवाक् मनुष्यवद्वादिनी शारिः शुकी सरस्वत्यै । श्वावित् सेधा भौमी भूदेवत्या शार्दूलो व्याघ्रः वृकः चित्रकः पृदाकुः सर्पः ते त्रयो मन्यवे । पुरुषवाक् शुकः सरस्वते समुद्राय ॥ ३३ ॥
चतुस्त्रिंशी।
अधिमन्त्रम् (VC)
- प्रजापत्यादयो देवताः
- प्रजापतिर्ऋषिः
- स्वराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुमको (प्राजापत्यः) प्रजापति देवतावाला (मयुः) किंनर निन्दित मनुष्य और जो (उलः) छोटा कीड़ा (हलिक्ष्णः) विशेष सिंह और (वृषदंशः) विलार हैं (ते) वे (धात्रे) धारण करनेवाले के लिये (कङ्कः) उजली चील्ह (दिशाम्) दिशाओं के हेतु (धुङ्क्षा) धुङ्क्षा नाम की पक्षिणी (आग्नेयी) अग्नि देवतावाली जो (कलविङ्कः) चिरौटा (लोहिताहिः) लाल साँप और (पुष्करसादः) तालाब में रहनेवाला है, (ते) वे सब (त्वाष्ट्राः) त्वष्टा देवतावाले तथा (वाचे) वाणी के लिये (क्रुञ्चः) सारस जानना चाहिये ॥३१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो सियार और साँप आदि को वश में लाते हैं, वे मनुष्य धुरन्धर होते हैं ॥३१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! युष्माभिः प्राजापत्यो मयुरुलो हलिक्ष्णो वृषदंशश्च ते धात्रे कङ्को दिशां धुङ्क्षा आग्नेयी कलविङ्को लोहिताहिः पुष्करसादस्ते त्वाष्ट्रा वाचे क्रुञ्चश्च वेदितव्याः ॥३१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये शृगालसर्पादीन् वशं नयन्ति ते धुरन्धरास्सन्ति ॥३१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे कोल्हे व साप इत्यादींना ताब्यात ठेवतात ती धुरंधर असतात.
३२ सोमाय कुलुङ्गऽआरण्योऽजो
विश्वास-प्रस्तुतिः ...{Loading}...
सोमा॑य कुलु॒ङ्गऽआ॑र॒ण्यो᳙ऽजो न॑कु॒लः शका॒ ते पौ॒ष्णाः क्रो॒ष्टा मा॒योरिन्द्र॑स्य गौरमृ॒गः पि॒द्वो न्यङ्कुः॑ कक्क॒टस्तेऽनु॑मत्यै प्रति॒श्रुत्का॑यै चक्रवा॒कः ॥३२ ॥
मूलम् ...{Loading}...
सोमा॑य कुलु॒ङ्गऽआ॑र॒ण्यो᳙ऽजो न॑कु॒लः शका॒ ते पौ॒ष्णाः क्रो॒ष्टा मा॒योरिन्द्र॑स्य गौरमृ॒गः पि॒द्वो न्यङ्कुः॑ कक्क॒टस्तेऽनु॑मत्यै प्रति॒श्रुत्का॑यै चक्रवा॒कः ॥३२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सोमा॑य। कु॒लु॒ङ्गः। आ॒र॒ण्यः। अ॒जः। न॒कु॒लः। शका॑। ते। पौ॒ष्णाः। क्रो॒ष्टा। मा॒योः। इन्द्र॑स्य। गौ॒र॒मृ॒ग इति॑ गौरऽमृ॒गः। पि॒द्वः। न्यङ्कुः॑। क॒क्क॒टः। ते। अनु॑मत्या॒ इत्यनु॑ऽमत्यै। प्र॒ति॒श्रुत्का॑या॒ इति॑ प्रति॒ऽश्रुत्का॑यै। च॒क्र॒वा॒कऽइति॑ चक्रऽवा॒कः। ३२।
महीधरः
म० सुपर्णः गरुत्मान् पार्जन्यः पर्जन्याय । आतिः आडी वाहसः दार्विदा काष्ठकुट्टः ते त्रयः पक्षिविशेषाः वायवे । बृहस्पतये वाचस्पतये वाचो वाण्याः पतये इति बृहस्पतिविशेषणम् । ईदृशाय बृहस्पतये पैङ्गराजः पक्षिविशेषः । अथ षोडशेऽवकाशे अलजः पक्षिविशेषः आन्तरिक्षः अन्तरिक्षदेवतः । प्लवः जलपक्षी मद्गुः कारण्डवः मत्स्यः ते नदीपतये । कूर्मः कच्छपः द्यावापृथिवीयः द्यावापृथिवीदेवतः ॥ ३४ ॥
पञ्चत्रिंशी।
अधिमन्त्रम् (VC)
- सोमादयो देवताः
- प्रजापतिर्ऋषिः
- भुरिग्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! यदि तुमने (सोमाय) सोम के लिये जो (कुलुङ्गः) कुलुङ्ग नामक पशु वा (आरण्यः) वनेला (अजः) बकरा (नकुलः) न्योला और (शका) सामर्थ्यवाला विशेषु पशु है, (ते) वे (पौष्णाः) पुष्टि करनेवाले के सम्बन्धी वा (मायोः) विशेष सियार के हेतु (क्रोष्टा) सामान्य सियार वा (इन्द्रस्य) ऐश्वर्य्ययुक्त पुरुष के अर्थ (गौरमृगः) गोरा हरिण वा जो (पिद्वः) विशेष मृग (न्यङ्कुः) किसी और जाति का हरिण और (कक्कटः) कक्कट नाम का मृग है, (ते) वे (अनुमत्यै) अनुमति के लिये तथा (प्रतिश्रुत्कायै) सुने पीछे सुनानेवाली के लिये (चक्रवाकः) चकई-चकवा पक्षी अच्छे प्रकार युक्त किये जावें तो बहुत काम करने को समर्थ हो सकें ॥३२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो वनेले पशुओं से भी उपकार करना जानें, वे सिद्ध कार्योंवाले होते हैं ॥३२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यदि युष्माभिः सोमाय कुलुङ्ग आरण्योऽजो नकुलः शका च ते पौष्णा मायोः क्रोष्टेन्द्रस्य गौरमृगो ये पिद्वो न्यङ्कुः कक्कटश्च तेऽनुमत्यै प्रतिश्रुत्कायै चक्रवाकश्च सम्प्रयुज्यते तर्हि बहुकृत्यं कर्त्तुं शक्येत ॥३२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - य आरण्येभ्यः पीवादिभ्योऽप्युपकारं कर्त्तुं जानीयुस्ते सिद्धकार्या जायन्ते ॥३२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे लोक वनातील पशूपासून उपकार घेतात त्यांचे कार्य सिद्ध होते.
३३ सौरी बलाका
विश्वास-प्रस्तुतिः ...{Loading}...
सौ॒री ब॒लाका॑ शा॒र्गः सृ॑ज॒यः श॒याण्ड॑क॒स्ते मै॒त्राः सर॑स्वत्यै॒ शारिः॑ पुरुष॒वाक्श्वा॒विद् द्भौ॒मी शा॑र्दू॒लो वृकः॒ पृदा॑कु॒स्ते म॒न्यवे॒ सर॑स्वते॒ शुकः॑ पुरुष॒वाक्॥३३ ॥
मूलम् ...{Loading}...
सौ॒री ब॒लाका॑ शा॒र्गः सृ॑ज॒यः श॒याण्ड॑क॒स्ते मै॒त्राः सर॑स्वत्यै॒ शारिः॑ पुरुष॒वाक्श्वा॒विद् द्भौ॒मी शा॑र्दू॒लो वृकः॒ पृदा॑कु॒स्ते म॒न्यवे॒ सर॑स्वते॒ शुकः॑ पुरुष॒वाक्॥३३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सौ॒री। ब॒लाका॑। शा॒र्गः। सृ॒ज॒यः। श॒याण्ड॑क॒ इति॑ शय॒ऽआण्ड॑कः। ते। मै॒त्राः। सर॑स्वत्यै। शारिः॑। पु॒रु॒ष॒वागिति॑ पुरुष॒ऽवाक्। श्वा॒वित्। श्व॒विदिति॑ श्व॒ऽवित्। भौ॒मी। शा॒र्दू॒लः। वृकः॑। पृदा॑कुः। ते। म॒न्यवे॑। सर॑स्वते। शुकः॑। पु॒रु॒ष॒वागिति॑ पुरुष॒ऽवाक्। ३३।
महीधरः
म० पुरुषमृगः पुंमृगः चन्द्रमसः । गोधा कालका पक्षिविशेषः दार्वाघाटः सारसः ते वनस्पतीनाम् । कृकवाकुः ताम् चूडः सावित्रः सवितृदेवतः हंसः वातस्य । नाक्रः मकरः कुलीपयः ते त्रयो जलचरविशेषाः अकूपारस्य समुद्रस्य । त्रयाणां मध्ये द्वौ षोडशे । अथ सप्तदशेऽवकाशे एकः कुलीपयः अकूपारस्य । शल्यकः श्वावित् ह्रियै देव्यै ॥ ३५ ॥
षट्त्रिंशी।
अधिमन्त्रम् (VC)
- मित्रादयो देवताः
- प्रजापतिर्ऋषिः
- भुरिगतिगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुमको (सौरी) जिसका सूर्य देवता है, वह (बलाका) बगुलिया तथा जो (शार्गः) पपीहा पक्षी (सृजयः) सृजय नामवाला और (शयाण्डकः) शयाण्डक पक्षी हैं, (ते) वे (मैत्राः) प्राण देवतावाले (शारिः) शुग्गी (पुरुषवाक्) पुरुष के समान बोलने हारा शुग्गा (सरस्वत्यै) नदी के लिये (श्वावित्) सेही (भौमी) भूमि देवतावाली जो (शार्दूलः) केशरी सिंह (वृकः) भेड़िया और (पृदाकुः) साँप हैं, (ते) वे (मन्यवे) क्रोध के लिये तथा (शुकः) शुद्धि करने हारा सुवा पक्षी और (पुरुषवाक्) जिसकी मनुष्य की बोली के समान बोली है, वह पक्षी (सरस्वते) समुद्र के लिये जानना चाहिये ॥३३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो बलाका आदि पशु पक्षी हैं, उनमें से कोई पालने और कोई ताड़ना देने योग्य हैं, यह जानना चाहिये ॥३३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! युष्माभिर्या सौरी सा बलाका ये शार्गः सृजयः शयाण्डकश्च ते मैत्राः शारिः पुरुषवाक्सरस्वत्यै श्वावित्भौमी शार्दूलो वृकः पृदाकुश्च ते मन्यवे शुकः पुरुषवाक्च सरस्वते विज्ञेयाः ॥३३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये बलाकादयः पशुपक्षिणस्तेषां मध्यात् केचित्पालनीयाः केचित्ताडनीयाः सन्तीति वेद्यम् ॥३३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - बगळे इत्यादी जे पशूपक्षी असतात त्यांच्यापैकी कोण पालन करण्यायोग्य व कोण मारण्यायोग्य आहेत हे जाणले पाहिजे.
३४ सुपर्णः पार्जन्यऽआतिर्वाहसो
विश्वास-प्रस्तुतिः ...{Loading}...
सु॒प॒र्णः पा॑र्ज॒न्यऽआ॒तिर्वा॑ह॒सो दर्वि॑दा॒ ते वा॒यवे॒ बृह॒स्पत॑ये वा॒चस्पत॑ये पैङ्गरा॒जो᳖ऽल॒जऽआ॑न्तरि॒क्षः प्ल॒वो म॒द्गुर्मत्स्य॒स्ते न॑दीप॒तये॑ द्यावापृथि॒वीयः॑ कू॒र्मः ॥३४ ॥
मूलम् ...{Loading}...
सु॒प॒र्णः पा॑र्ज॒न्यऽआ॒तिर्वा॑ह॒सो दर्वि॑दा॒ ते वा॒यवे॒ बृह॒स्पत॑ये वा॒चस्पत॑ये पैङ्गरा॒जो᳖ऽल॒जऽआ॑न्तरि॒क्षः प्ल॒वो म॒द्गुर्मत्स्य॒स्ते न॑दीप॒तये॑ द्यावापृथि॒वीयः॑ कू॒र्मः ॥३४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सु॒प॒र्ण इति॑ सुऽप॒र्णः। पा॒र्ज॒न्यः। आ॒तिः। वा॒ह॒सः। दर्वि॑देति॒ दर्वि॑ऽदा। ते। वा॒यवे॑। बृह॒स्पत॑ये। वा॒चः। पत॑ये। पै॒ङ्ग॒रा॒ज इति॑ पैङ्गऽरा॒जः। अ॒ल॒जः। आ॒न्त॒रि॒क्षः। प्ल॒वः। म॒द्गुः। मत्स्यः॑। ते। न॒दी॒प॒तय॒ऽइति॑ नदीऽप॒तये॑। द्या॒वा॒पृ॒थि॒वीयः॑। कू॒र्मः। ३४।
महीधरः
म० एणी मृगी अह्नः आलभ्या। मण्डूको मूषिका तित्तिरिः ते त्रयः सर्पाणाम् । लोपाशो वनचरविशेषः आश्विनः अश्विदेवतः । कृष्णो मृगः रात्र्यै । ऋक्षः भल्लूकः जतूः सुषिलीका एतौ पक्षिविशेषौ ते त्रयः इतरजनानां देवानाम् । जहका गात्रसङ्कोचनी वैष्णवी विष्णुदेवत्या ॥ ३६ ॥
सप्तत्रिंशी।
अधिमन्त्रम् (VC)
- अग्न्यादयो देवताः
- प्रजापतिर्ऋषिः
- स्वराट्शक्वरी
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम को जो (सुपर्णः) सुन्दर गिरने वा जानेवाला पक्षी वह (पार्जन्यः) मेघ के समान गुणवाला जो (आतिः) आति नामवाला पक्षी (वाहसः) अजगर साँप (दर्विदा) और काठ को छिन्न-भिन्न करनेवाला पक्षी है, (ते) वे सब (वायवे) पवन के लिये (पैङ्गराजः) पैङ्गराज नाम का पक्षी (बृहस्पतये) बड़े-बड़े पदार्थों और (वाचः, पतये) वाणी की पालना करने हारे के लिये (अलजः) अलज पक्षी (आन्तरिक्षः) अन्तरिक्ष देवतावाला जो (प्लवः) जल में तरनेवाला बतक पक्षी (मद्गुः) जल का कौआ और (मत्स्यः) मछली हैं, (ते) वे सब (नदीपतये) समुद्र के लिये और जो (कूर्मः) कछुआ है, वह (द्यावापृथिवीयः) प्रकाश भूमि देवतावाला जानना चाहिये ॥३४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मेघ आदि के समान गुणवाले विशेष विशेष पशु पक्षी हैं, वे काम के उपयोग के लिये युक्त करने चाहियें ॥३४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! युष्माभिर्यः सुपर्णः स पार्जन्यो य आतिर्वाहसो दर्विदा च ते वायवे पैङ्गराजो बृहस्पतये वाचस्पतयेऽलज आन्तरिक्षो ये प्लवो मद्गुर्मत्स्यश्च ते नदीपतये यः कूर्मः स द्यावापृथिवीयश्च विज्ञेयाः ॥३४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मेघादितुल्यगुणाः पशुपक्षिविशेषाः सन्ति, ते कार्योपयोगाय नियोजनीयाः ॥३४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे मेघासारख्या गुणांचे विशेष पशूपक्षी असतात त्यांचा कामासाठी उपयोग करून घेतला पाहिजे.
३५ पुरुषमृगश्चन्द्रमसो गोधा
विश्वास-प्रस्तुतिः ...{Loading}...
पु॒रु॒ष॒मृ॒गश्च॒न्द्रम॑सो गो॒धा काल॑का दार्वाघा॒टस्ते वन॒स्पती॑नां कृक॒वाकुः॑ सावि॒त्रो हँ॒सो वात॑स्य ना॒क्रो मक॑रः कुली॒पय॒स्तेऽकू॑पारस्य ह्रि॒यै शल्य॑कः ॥३५ ॥
मूलम् ...{Loading}...
पु॒रु॒ष॒मृ॒गश्च॒न्द्रम॑सो गो॒धा काल॑का दार्वाघा॒टस्ते वन॒स्पती॑नां कृक॒वाकुः॑ सावि॒त्रो हँ॒सो वात॑स्य ना॒क्रो मक॑रः कुली॒पय॒स्तेऽकू॑पारस्य ह्रि॒यै शल्य॑कः ॥३५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पु॒रु॒ष॒मृ॒गऽइति॑ पुरुषऽमृ॒गः। च॒न्द्रम॑सः। गो॒धा। काल॑का। दा॒र्वा॒घा॒टः। दा॒र्वा॒घा॒त इति॑ दारुऽआघा॒तः। ते। वन॒स्पती॑नाम्। कृ॒क॒वाकु॒रिति॑ कृक॒ऽवाकुः॑। सा॒वि॒त्रः। हँ॒सः। वात॑स्य। ना॒क्रः। मक॑रः। कु॒ली॒पयः॑। ते। अकू॑पारस्य। ह्रि॒यै। शल्य॑कः। ३५।
महीधरः
म० अन्यवापः कोकिलाख्यः पक्षिविशेषोऽर्धमासानां पशुः । अथाष्टादशऽवकाशे । ऋष्यो मृगविशेषः मयूरः बर्ही सुपर्णो गरुत्मान् ते गन्धर्वाणां पशवः। रुद्रः जलचरः कर्कटसंज्ञः अपां पशुः । कश्यपः कच्छपः मासां मासानाम् । रोहित् ऋष्यः अष्टत्रिंशी।
अधिमन्त्रम् (VC)
- चन्द्रादयो देवताः
- प्रजापतिर्ऋषिः
- निचृच्छक्वरी
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम को जो (पुरुषमृगः) पुरुषों को शुद्ध करने हारा विशेष पशु वह (चन्द्रमसः) चन्द्रमा के अर्थ जो (गोधा) गोह (कालका) कालका पक्षी और (दार्वाघाटः) कठफोरवा हैं, (ते) वे (वनस्पतीनाम्) वनस्पतियों के सम्बन्धी जो (कृकवाकुः) मुर्गा वह (सावित्रः) सविता देवतावाला जो (हंसः) हंस है, वह (वातस्य) पवन के अर्थ जो (नाक्रः) नाके का बच्चा (मकरः) मगरमच्छ (कुलीपयः) और विशेष जलजन्तु हैं, (ते) वे (अकूपारस्य) समुद्र के अर्थ और जो (शल्यकः) सेही है, वह (ह्रियै) लज्जा के लिये जानना चाहिये ॥३५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो चन्द्रमा आदि के गुणों से युक्त विशेष पशु-पक्षी हैं, वे मनुष्यों को जानने चाहियें ॥३५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! युष्माभिर्य पुरुषमृगः स चन्द्रमसो ये गोधा कालका दार्वाघाटश्च ते वनस्पतीनां यः कृकवाकुः स सावित्रो यो हंसः स वातस्य ये नाक्रो मकरः कुलीपयश्च तेऽकूपारस्य यः शल्यकः स ह्रियै च विज्ञेयाः ॥३५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये चन्द्रादिगुणाः पशुपक्षिविशेषास्ते मनुष्यैर्विज्ञेयाः ॥३५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे चंद्रासारख्या गुणांचे विशेष पशूपक्षी आहेत. त्यांना माणसांनी जाणावे.
३६ एण्यह्नो मण्डूको
विश्वास-प्रस्तुतिः ...{Loading}...
ए॒ण्यह्नो॑ म॒ण्डूको॒ मूषि॑का ति॒त्तिरि॒स्ते स॒र्पाणां॑ लोपा॒शऽआ॑श्वि॒नः कृष्णो॒ रात्र्या॒ऽऋक्षो॑ ज॒तूः सु॑षि॒लीका॒ तऽइ॑तरज॒नानां॒ जह॑का वैष्ण॒वी ॥३६ ॥
मूलम् ...{Loading}...
ए॒ण्यह्नो॑ म॒ण्डूको॒ मूषि॑का ति॒त्तिरि॒स्ते स॒र्पाणां॑ लोपा॒शऽआ॑श्वि॒नः कृष्णो॒ रात्र्या॒ऽऋक्षो॑ ज॒तूः सु॑षि॒लीका॒ तऽइ॑तरज॒नानां॒ जह॑का वैष्ण॒वी ॥३६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ए॒णी। अह्नः॑। म॒ण्डूकः॑। मूषि॑का। ति॒त्तिरिः॑। ते। स॒र्पाणा॑म्। लो॒पा॒शः। आ॒श्वि॒नः। कृष्णः॑। रात्र्यै॑। ऋक्षः॑। ज॒तूः। सु॒षि॒लीकेति॑ सुषि॒ऽलीका॑। ते। इ॒त॒र॒ज॒नाना॒मिती॑तरऽज॒नाना॑म्। जह॑का। वै॒ष्ण॒वी। ३६।
महीधरः
म० वर्षाहूः वर्षाभूः भेकी ऋतूनाम् । आखुः मूषकः कशः मान्थालश्च तद्विशेषौ ते त्रयः पितॄणाम् । अथैकोनविंशे । अजगरो महासर्पः बलाय । कपिञ्जलो वसूनाम् । कपोतः उलूकः शशः ते निर्ऋत्यै । आरण्यो मेषो वरुणाय ॥ ३८ ॥
एकोनचत्वारिंशी।
अधिमन्त्रम् (VC)
- अश्विन्यादयो देवताः
- प्रजापतिर्ऋषिः
- निचृज्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम को जो (ऐणी) हरिणी है, वह (अह्नः) दिन के अर्थ जो (मण्डूकः) मेंडुका (मूषिका) मूषटी और (तित्तिरिः) तीतरि पक्षिणी हैं, (ते) वे (सर्पाणाम्) सर्पों के अर्थ जो (लोपाशः) कोई वनचर विशेष पशु वह (आश्विनः) अश्वि देवतावाला, जो (कृष्णः) काले रंग का हरिण आदि है, वह (रात्र्यै) रात्रि के लिये जो (ऋक्षः) रीछ (जतूः) जतू नामवाला और (सुषिलीका) सुषिलीका पक्षी है, (ते) वे (इतरजनानाम्) और मनुष्यों के अर्थ और (जहका) अङ्गों का संकोच करनेहारी पक्षिणी (वैष्णवी) विष्णु देवतावाली जानना चाहिये ॥३६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो दिन आदि के गुणवाले पशु-पक्षी विशेष हैं, वे उस-उस गुण से जानने चाहियें ॥३६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! युष्माभिर्यैणी साऽह्नो ये मण्डूको मूषिका तित्तिरिश्च ते सर्पाणां यो लोपाशः स आश्विनो यः कृष्णः स रात्र्यै य ऋक्षो जतूः सुषिलीका च त इतरजनानां या जहका सा वैष्णवी च विज्ञेयाः ॥३६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये दिनादिगुणाः पशुपक्षिविशेषास्ते तत्तद्गुणतो विज्ञेयाः ॥३६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे दिवसाच्या गुणांचे विशेष पशूपक्षी असतात. त्यांच्या गुणांना जाणले पाहिजे.
३७ अन्यवापोऽर्द्धमासानामृश्यो मयूरः
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒न्य॒वा॒पो᳖ऽर्द्धमा॒साना॒मृश्यो॑ म॒यूरः॑ सुप॒र्णस्ते ग॑न्ध॒र्वाणा॑म॒पामु॒द्रो मा॒सान् क॒श्यपो॑ रो॒हित्कु॑ण्डृ॒णाची॑ गो॒लत्ति॑का॒ ते᳖ऽप्स॒रसां॑ मृ॒त्यवे॑ऽसि॒तः ॥३७ ॥
मूलम् ...{Loading}...
अ॒न्य॒वा॒पो᳖ऽर्द्धमा॒साना॒मृश्यो॑ म॒यूरः॑ सुप॒र्णस्ते ग॑न्ध॒र्वाणा॑म॒पामु॒द्रो मा॒सान् क॒श्यपो॑ रो॒हित्कु॑ण्डृ॒णाची॑ गो॒लत्ति॑का॒ ते᳖ऽप्स॒रसां॑ मृ॒त्यवे॑ऽसि॒तः ॥३७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒न्य॒वा॒प इत्य॑न्यऽवा॒पः। अ॒र्द्ध॒मा॒साना॒मित्य॑र्द्धऽमा॒साना॑म्। ऋश्यः॑। म॒यूरः॑। सु॒प॒र्ण इति॑ सुऽप॒र्णः। ते। ग॒न्ध॒र्वाणा॑म्। अ॒पाम्। उ॒द्रः। मा॒सान्। क॒श्यपः॑। रो॒हित्। कु॒ण्डृ॒णाची॑। गो॒लत्ति॑का। ते। अ॒प्स॒रसा॑म्। मृ॒त्यवे॑। अ॒सि॒तः। ३७।
महीधरः
म० श्वित्रः श्वेतः पशुरादित्यानाम् । उष्ट्रः दीर्घग्रीवः घृणिवान् तेजस्वी पशुविशेषः। संहितायां घृणिशब्दो दीर्घः । वार्रीेतनसः कण्ठे स्तनवानजः ते त्रयो मत्यै देव्यै । सृमरः गवयोऽरण्याय देवाय । रुरुः मृगः रौद्रः रुद्रदेवतः क्वयिः पक्षिविशेषः । अथ विंशेऽवकाशे । कुटरुः कुक्कुटः दात्यौहः कालकण्ठः ते त्रयो वाजिनां देवानाम् । पिकः कोकिलः कामाय ॥ ३९ ॥
चत्वारिंशी।
इति माध्यन्दिनीयायां वाजसनेयसंहितायां चतुर्विंशोऽध्यायः ॥ २४ ॥
अधिमन्त्रम् (VC)
- अर्द्धमासादयो देवताः
- प्रजापतिर्ऋषिः
- भुरिग्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम को जो (अन्यवापः) कोकिला पक्षी है, वह (अर्द्धमासानाम्) पखवाड़ों के अर्थ जो (ऋश्यः) ऋश्य जाति का मृग (मयूरः) मयूर और (सुपर्णः) अच्छे पंखोंवाला विशेष पक्षी है, (ते) वे (गन्धर्वाणाम्) गानेवालों के और (अपाम्) जलों के अर्थ जो (उद्रः) जलचर गिंगचा है, वह (मासान्) महीनों के अर्थ जो (कश्यपः) कछुआ (रोहित्) विशेष मृग (कुण्डृणाची) कुण्डृणाची नाम की वन में रहनेवाली और (गोलत्तिका) गोलत्तिका नामवाली विशेष पशुजाति है, (ते) वे (अप्सरसाम्) किरण आदि पदार्थों के अर्थ और जो (असितः) काले गुणवाला विशेष पशु है, वह (मृत्यवे) मृत्यु के लिये जानना चाहिये ॥३७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो काल आदि गुणवाले पशु-पक्षी हैं, वे उपकारवाले हैं, यह जानना चाहिये ॥३७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! युष्माभिर्योऽन्यवापः सोऽर्द्धमासानां य ऋश्यो मयूरः सुपर्णश्च ते गन्धर्वाणामपां च य उद्रः स मासान् ये कश्यपो रोहित् कुण्डृणाची गोलत्तिका च तेऽप्सरसां योऽसितः स मृत्यवे च विज्ञेयाः ॥३७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये कालादिगुणाः पशुपक्षिणस्त उपकारिणः सन्तीति वेद्यम् ॥३७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे काल वगैरेंच्या गुणांचे पशूपक्षी असतात ते उपकार करणारे असतात हे जाणावे.
३८ वर्षाहूर्ऋतूनामाखुः कशो
विश्वास-प्रस्तुतिः ...{Loading}...
व॒र्षा॒हूर्ऋ॑तू॒नामा॒खुः कशो॑ मान्था॒लस्ते पि॑तॄ॒णां बला॑याजग॒रो वसू॑नां क॒पिञ्ज॑लः क॒पोत॒ऽउलू॑कः श॒शस्ते निर्ऋ॑त्यै॒ वरु॑णायार॒ण्यो मे॒षः ॥३८ ॥
मूलम् ...{Loading}...
व॒र्षा॒हूर्ऋ॑तू॒नामा॒खुः कशो॑ मान्था॒लस्ते पि॑तॄ॒णां बला॑याजग॒रो वसू॑नां क॒पिञ्ज॑लः क॒पोत॒ऽउलू॑कः श॒शस्ते निर्ऋ॑त्यै॒ वरु॑णायार॒ण्यो मे॒षः ॥३८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
व॒र्षा॒हूरिति॑ वर्षऽआ॒हूः। ऋ॒तू॒नाम्। आ॒खुः। कशः॑। मा॒न्था॒लः। ते। पि॒तॄ॒णाम्। बला॑य। अ॒ज॒ग॒रः। वसू॑नाम्। क॒पिञ्ज॑लः। क॒पोतः॑। उलू॑कः। श॒शः। ते। निर्ऋ॑त्या॒ऽइति॒ निःऋ॑त्यै। वरु॑णाय। आ॒र॒ण्यः। मे॒षः। ३८।
महीधरः
म० खड्गो मृगविशेषो विश्वदेवदेवतः । एकः कृष्णः श्वा सारमेयः द्वितीयः कर्णो लम्बकर्णो गर्दभः तृतीयस्तरक्षुः मृगादनः ते त्रयो रक्षसां पशवः । सूकरः इन्द्राय । सिंहो मारुतः मरुद्देवतः । कृकलासः सरटः पिप्पका पक्षिणी शकुनिः पक्षी ते त्रयः शरव्यायै । एकः पृषतः मृगविशेषो विश्वेषां देवानां पशुर्भवति । विश्वेभ्यो देवेभ्यो जुष्टं नियुनज्मीति योज्यः । एवं षष्ट्यधिकं शतद्वयमारण्याः पशव उक्ताः । अत्र द्वाविंशतिरेकादशिनः सप्तविंशत्यधिकानि त्रीणि शतानि अश्वादयः सौर्यान्ताः षष्ट्यधिकं शतद्वयं कपिञ्जलादयः पृषतान्ता आरण्याः पशवः । सर्वे मिलित्वा षट्शतानि नवाधिकानि पशवो भवन्ति । श्लोकश्च । षट् शतानि नियुज्यन्ते पशूनां मध्यमेऽहनि । । अश्वमेधस्य यज्ञस्य नवभिश्चाधिकानि चेति । तेष्वारण्याः सर्वे उत्स्रष्टव्या न तु हिंस्याः ॥ ४० ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
गतोऽध्यायश्चतुर्विंशो देवतापशुवाचकः ॥ २४ ॥
अधिमन्त्रम् (VC)
- वर्षादयो देवताः
- प्रजापतिर्ऋषिः
- स्वराड्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम को जो (वर्षाहूः) वर्षा को बुलाती है, वह मेंडुकी (ऋतूनाम्) वसन्त आदि ऋतुओं के अर्थ (आखुः) मूषा (कशः) सिखाने योग्य कश नामवाला पशु और (मान्थालः) मान्थाल नामी विशेष जन्तु हैं, (ते) वे (पितॄणाम्) पालना करनेवालों के अर्थ (बलाय) बल के लिये (अजगरः) बड़ा साँप (वसूनाम्) अग्नि आदि वस्तुओं के अर्थ (कपिञ्जलः) कपिञ्जल नामक (कपोतः) जो कबूतर (उलूकः) उल्लू और (शशः) खरहा हैं, (ते) वे (निर्ऋत्यै) निर्ऋति के लिए (वरुणाय) और वरुण के लिये (आरण्यः) बनेला (मेषः) मेढ़ा जानना चाहिये ॥३८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो ऋतु आदि के गुणवाले पशु-पक्षी विशेष हैं, वे उन गुणों से युक्त जानने चाहियें ॥३८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! युष्माभिर्या वर्षाहूः सा ऋतुनामाखुः कशो मान्थालश्च ते पितॄणां बलायाजगरो वसूनां कपिञ्जलः कपोत उलूकः शशश्च ते निर्ऋत्यै य आरण्यो मेषः स वरुणाय च विज्ञेयाः ॥३८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये ऋत्वादिगुणाः पशुपक्षिणस्ते तद्गुणा विज्ञेयाः ॥३८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे पशूपक्षी ऋतुंच्या गुणांप्रमाणे असतात. त्यांचे गुण त्याप्रमाणे जाणावेत.
३९ श्वित्रऽआदित्यानामुष्ट्रो घृणीवान्
विश्वास-प्रस्तुतिः ...{Loading}...
श्वि॒त्रऽआ॑दि॒त्याना॒मुष्ट्रो॒ घृणी॑वान् वार्ध्रीन॒सस्ते म॒त्याऽअर॑ण्याय सृम॒रो रुरू॑ रौ॒द्रः क्व᳖यिः॑ कु॒टरु॑र्दात्यौ॒हस्ते वा॒जिनां॒ कामा॑य पि॒कः ॥३९ ॥
मूलम् ...{Loading}...
श्वि॒त्रऽआ॑दि॒त्याना॒मुष्ट्रो॒ घृणी॑वान् वार्ध्रीन॒सस्ते म॒त्याऽअर॑ण्याय सृम॒रो रुरू॑ रौ॒द्रः क्व᳖यिः॑ कु॒टरु॑र्दात्यौ॒हस्ते वा॒जिनां॒ कामा॑य पि॒कः ॥३९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
श्वि॒त्रः। आ॒दि॒त्याना॑म्। उष्ट्रः॑। घृणी॑वान्। घृणि॑वा॒निति॒ घृणि॑ऽवान्। वा॒र्ध्री॒न॒सः। ते। म॒त्यै। अर॑ण्याय। सृ॒म॒रः। रुरुः॑। रौ॒द्रः। क्वयिः॑। कु॒टरुः॑। दा॒त्यौ॒हः। ते। वा॒जिना॑म्। कामा॑य। पि॒कः। ३९।
महीधरः
अधिमन्त्रम् (VC)
- आदित्यादयो देवताः
- प्रजापतिर्ऋषिः
- स्वराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम को जो (श्वित्रः) चित्र-विचित्र रंगवाला पशु-विशेष वह (आदित्यानाम्) समय के अवयवों के अर्थ, जो (उष्ट्रः) ऊँट (घृणीवान्) तेजस्वि विशेष पशु और (वार्ध्रीनसः) कण्ठ में जिस के थन ऐसा बड़ा बकरा है, (ते) वे सब (मत्यै) बुद्धि के लिये, जो (सृमरः) नीलगाय वह (अरण्याय) वन के लिये, जो (रुरुः) मृगविशेष है, वह (रौद्रः) रुद्र देवतावाला, जो (क्वयिः) क्वयिनाम का पक्षी (कुटरुः) मुर्गा और (दात्यौहः) कौआ हैं, (ते) वे (वाजिनाम्) घोड़ों के अर्थ और जो (पिकः) कोकिला है, वह (कामाय) काम के लिये अच्छे प्रकार जानने चाहिये ॥३९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो सूर्य आदि के गुणवाले पशु-पक्षी विशेष हैं, वे उस-उस स्वभाववाले हैं, यह जानना चाहिये ॥३९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! युष्माभिर्यः श्वित्रः स आदित्यानाम्। य उष्ट्रो घृणीवान् वार्ध्रीनसश्च ते मत्यै। यः सृमरः सोऽरण्याय। यो रुरुः स रौद्रः। ये क्वयिः कुटरुर्दात्यौहश्च ते वाजिनाम्। यः पिकः स कामाय च विज्ञेयाः ॥३९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये आदित्यादिगुणाः पशुपक्षिणस्ते तत्तत्स्वभावाः सन्तीति वेद्यम् ॥३९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे जे सूर्य वगैरेंच्या गुणांचे विशेष पशू पक्षी आहेत ते ते त्या स्वभावाचे असतात.
४० खड्गो वैश्वदेवः
विश्वास-प्रस्तुतिः ...{Loading}...
ख॒ड्गो वै॑श्वदे॒वः श्वा कृ॒ष्णः क॒र्णो ग॑र्द॒भस्त॒रक्षु॒स्ते रक्ष॑सा॒मिन्द्रा॑य सूक॒रः सिँ॒हो मा॑रु॒तः कृ॑कला॒सः पिप्प॑का श॒कुनि॒स्ते श॑र॒व्या᳖यै॒ विश्वे॑षां दे॒वानां॑ पृष॒तः ॥४० ॥
मूलम् ...{Loading}...
ख॒ड्गो वै॑श्वदे॒वः श्वा कृ॒ष्णः क॒र्णो ग॑र्द॒भस्त॒रक्षु॒स्ते रक्ष॑सा॒मिन्द्रा॑य सूक॒रः सिँ॒हो मा॑रु॒तः कृ॑कला॒सः पिप्प॑का श॒कुनि॒स्ते श॑र॒व्या᳖यै॒ विश्वे॑षां दे॒वानां॑ पृष॒तः ॥४० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ख॒ड्गः। वै॒श्व॒दे॒व इति॑ वैश्वदे॒वः। श्वा। कृ॒ष्णः। क॒र्णः। ग॒र्द॒भः। त॒रक्षुः॑। ते। रक्ष॑साम्। इन्द्रा॑य। सू॒क॒रः। सिँ॒हः। मा॒रु॒तः। कृ॒क॒ला॒सः। पिप्प॑का। श॒कुनिः॑। ते। श॒र॒व्या᳖यै। विश्वे॑षाम्। दे॒वाना॑म्। पृ॒ष॒तः। ४०।
महीधरः
अधिमन्त्रम् (VC)
- विश्वेदेवादयो देवताः
- प्रजापतिर्ऋषिः
- शक्वरी
- धैवतः