२३

०१ हिरण्यगर्भः समवर्त्तताग्रे

विश्वास-प्रस्तुतिः ...{Loading}...

हि॒र॒ण्य॒ग॒र्भः सम॑वर्त्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ऽआसीत्। स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥१ ॥

०२ उपयामगृहीतोऽसि प्रजापतये

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनिः॒ सूर्य्य॑स्ते महि॒मा। यस्तेऽह॑न्त्संवत्स॒रे म॑हि॒मा स॑म्ब॒भूव॒ यस्ते॑ वा॒याव॒न्तरि॑क्षे महि॒मा स॑म्ब॒भूव॒ यस्ते॑ दि॒वि सूर्ये॑ महि॒मा स॑म्ब॒भूव॒ तस्मै॑ ते महि॒म्ने प्र॒जाप॑तये॒ स्वाहा॑ दे॒वेभ्यः॑ ॥२ ॥

०३ यः प्राणतो

विश्वास-प्रस्तुतिः ...{Loading}...

यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ऽइद्राजा॒ जग॑तो ब॒भूव॑। यऽईशे॑ऽअ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥३ ॥

०४ उपयामगृहीतोऽसि प्रजापतये

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॑श्च॒न्द्रमा॑स्ते महि॒मा। यस्ते॒ रात्रौ॑ संवत्स॒रे म॑हि॒मा स॑म्ब॒भूव॒ यस्ते॑ पृथि॒व्याम॒ग्नौ म॑हि॒मा स॑म्ब॒भूव॒ यस्ते॒ नक्ष॑त्रेषु च॒न्द्रम॑सि महि॒मा स॑म्ब॒भूव॒ तस्मैं॑ ते महि॒म्ने प्र॒जाप॑तये दे॒वेभ्यः॒ स्वाहा॑ ॥४ ॥

०५ युञ्जन्ति ब्रध्नमरुषम्

विश्वास-प्रस्तुतिः ...{Loading}...

यु॒ञ्जन्ति॑ ब्र॒ध्नम॑रु॒षं चर॑न्तं॒ परि॑ त॒स्थुषः॑। रोच॑न्ते रोच॒ना दि॒वि ॥५ ॥

०६ युञ्जन्त्यस्य काम्या

विश्वास-प्रस्तुतिः ...{Loading}...

यु॒ञ्जन्त्य॑स्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे॑। शोणा॑ धृ॒ष्णू नृ॒वाह॑सा ॥६ ॥

०७ यद्वातोऽअपोऽअगनीगन्प्रियामिन्द्रस्य तन्वम्

विश्वास-प्रस्तुतिः ...{Loading}...

यद्वातो॑ऽअ॒पोऽअग॑नीगन्प्रि॒यामिन्द्र॑स्य त॒न्व᳖म्। ए॒तँस्तो॑तर॒नेन॑ प॒था पुन॒रश्व॒माव॑र्त्तयासि नः ॥७ ॥

०८ वसवस्त्वाञ्जन्तु गायत्रेण

विश्वास-प्रस्तुतिः ...{Loading}...

व॑सवस्त्वाञ्जन्तु गाय॒त्रेण॒ छन्द॑सा रु॒द्रास्त्वा॑ञ्जन्तु॒ त्रैष्टु॑भेन॒ छन्द॑सादि॒त्यास्त्वा॑ञ्जन्तु॒ जाग॑तेन॒ छन्द॑सा। भूर्भुवः॒ स्व᳙र्लाजी३ञ्छाची३न्यव्ये॒ गव्य॑ऽए॒तदन्न॑मत्त देवाऽए॒तदन्न॑मद्धि प्रजापते ॥८ ॥

०९ कः स्विदेकाकी

विश्वास-प्रस्तुतिः ...{Loading}...

कः स्वि॑देका॒की चर॑ति॒ कऽउ॑ स्विज्जायते॒ पुनः॑। किँस्वि॑द्धि॒मस्य॑ भेष॒जं किम्वा॒वप॑नं म॒हत्॥९ ॥

१० सूर्यऽएकाकी चरति

विश्वास-प्रस्तुतिः ...{Loading}...

सूर्य॑ऽएका॒की च॑रति च॒न्द्रमा॑ जायते॒ पुनः॑। अ॒ग्निर्हि॒मस्य॑ भेष॒जं भूमि॑रा॒वप॑नं म॒हत्॥१० ॥

११ का स्विदासीत्पूर्वचित्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

का स्वि॑दासीत्पू॒र्वचि॑त्तिः॒ किँस्वि॑दासीद् बृ॒हद्वयः॑। का स्वि॑दासीत्पिलिप्पि॒ला का स्वि॑दासीत्पिशङ्गि॒ला ॥११ ॥

१२ द्यौरासीत्पूर्वचित्तिरश्वऽआसीद् बृहद्वयः

विश्वास-प्रस्तुतिः ...{Loading}...

द्यौरा॑सीत्पू॒र्वचि॑त्ति॒रश्व॑ऽआसीद् बृ॒हद्वयः॑। अवि॑रासीत्पिलिप्पि॒ला रात्रि॑रासीत्पिशङ्गि॒ला ॥१२ ॥

१३ वायुष्ट्वा

विश्वास-प्रस्तुतिः ...{Loading}...

वा॒युष्ट्वा॑ पच॒तैर॑व॒त्वसि॑तग्रीव॒श्छागै॑र्न्य॒ग्रोध॑श्चम॒सैः श॑ल्म॒लिर्वृद्ध्या॑। ए॒ष स्य रा॒थ्यो वृषा॑ प॒ड्भिश्च॒तुर्भि॒रेद॑गन्ब्र॒ह्मा कृ॑ष्णश्च नोऽवतु॒ नमो॒ऽग्नये॑ ॥१३ ॥

१४ संशितो रश्मिना

विश्वास-प्रस्तुतिः ...{Loading}...

सँशि॑तो र॒श्मिना॒ रथः॒ सँशि॑तो र॒श्मिना॒ हयः॑। सँशि॑तो अ॒प्स्व᳖प्सु॒जा ब्र॒ह्मा सोम॑पुरोगवः ॥१४ ॥

१५ स्वयं वाजिँस्तन्वम्

विश्वास-प्रस्तुतिः ...{Loading}...

स्व॒यं वा॑जिँस्त॒न्वं᳖ कल्पयस्व स्व॒यं य॑जस्व स्व॒यं जु॑षस्व। म॒हि॒मा ते॒ऽन्येन॒ न स॒न्नशे॑ ॥१५ ॥

१६ न वाऽउऽएतन्म्रियसे

विश्वास-प्रस्तुतिः ...{Loading}...

न वाऽउ॑ऽए॒तन्म्रि॑यसे॒ न रि॑ष्यसि दे॒वाँ२ऽइदे॑षि प॒थिभिः॑ सु॒गेभिः॑। यत्रास॑ते सु॒कृतो॒ यत्र॒ ते य॒युस्तत्र॑ त्वा दे॒वः स॑वि॒ता द॑धातु ॥१६ ॥

१७ अग्निः पशुरासीत्तेनायजन्त

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्निः प॒शुरा॑सी॒त्तेना॑यजन्त॒ सऽए॒तं लो॒कम॑जय॒द् यस्मि॑न्न॒ग्निः स ते॑ लो॒को भ॑विष्यति॒ तं जे॑ष्यसि॒ पिबै॒ताऽअ॒पः। वा॒युः प॒शुरा॑सी॒त्तेना॑यजन्त॒ सऽए॒तं लो॒कम॑जय॒द् यस्मि॑न् वा॒युः स ते॑ लो॒को भ॑विष्यति॒ तं जे॑ष्यसि॒ पिबै॒ताऽअ॒पः। सूर्यः॑ प॒शुरा॑सी॒त्तेना॑यजन्त॒ सऽए॒तं लो॒कम॑जय॒द् यस्मि॒न्त्सूर्य्यः॒ स ते॑ लो॒को भ॑विष्यति॒ तं जे॑ष्यसि॒ पिबै॒ताऽअ॒पः ॥१७ ॥

१८ प्राणाय स्वाहापानाय

विश्वास-प्रस्तुतिः ...{Loading}...

प्रा॒णाय॒ स्वाहा॑पा॒नाय॒ स्वाहा॑ व्या॒नाय॒ स्वाहा॑। अम्बे॒ऽअम्बि॒केऽम्बा॑लिके॒ न मा॑ नयति॒ कश्च॒न। सस॑स्त्यश्व॒कः सुभ॑द्रिकां काम्पीलवा॒सिनी॑म् ॥१८ ॥

१९ गणानां त्वा

विश्वास-प्रस्तुतिः ...{Loading}...

ग॒णानां॑ त्वा ग॒णप॑तिँहवामहे प्रि॒याणां॑ त्वा प्रि॒यप॑तिँहवामहे निधी॒नां त्वा॑ निधि॒पतिँ॑ हवामहे वसो मम। आहम॑जानि गर्भ॒धमा त्वम॑जासि गर्भ॒धम् ॥१९ ॥

२० ताऽउभौ चतुरः

विश्वास-प्रस्तुतिः ...{Loading}...

ताऽउ॒भौ च॒तुरः॑ प॒दः स॒म्प्रसा॑रयाव स्व॒र्गे लो॒के प्रोर्णु॑वाथां॒ वृषा॑ वा॒जी रे॑तो॒धा रेतो॑ दधातु ॥२० ॥

२१ उत्सक्थ्याऽअव गुदम्

विश्वास-प्रस्तुतिः ...{Loading}...

उत्स॑क्थ्या॒ऽअव॑ गु॒दं धे॑हि॒ सम॒ञ्जिं चा॑रया वृषन्। य स्त्री॒णां जी॑व॒भोज॑नः ॥२१ ॥

२२ यकासकौ शकुन्तिकाहलगिति

विश्वास-प्रस्तुतिः ...{Loading}...

य॒कास॒कौ श॑कुन्ति॒काहल॒गिति॒ वञ्च॑ति। आह॑न्ति ग॒भे पसो॒ निग॑ल्गलीति॒ धार॑का ॥२२ ॥

२३ यकोऽसकौ शकुन्तकऽआहलगिति

विश्वास-प्रस्तुतिः ...{Loading}...

य॒को᳖ऽस॒कौ श॑कुन्त॒कऽआ॒हल॒गिति॒ वञ्च॑ति। विव॑क्षतऽइव ते॒ मुख॒मध्व॑र्यो॒ मा न॒स्त्वम॒भि भा॑षथाः ॥२३ ॥

२४ माता च

विश्वास-प्रस्तुतिः ...{Loading}...

मा॒ता च॑ ते पि॒ता च॒ तेऽग्रं॑ वृ॒क्षस्य॑ रोहतः। प्रति॑ला॒मीति॑ ते पि॒ता ग॒भे मु॒ष्टिम॑तँसयत्॥२४ ॥

२५ माता च

विश्वास-प्रस्तुतिः ...{Loading}...

मा॒ता च॒ ते पि॒ता च॒ तेऽ ग्रे॑ वृ॒क्षस्य॑ क्रीडतः। विव॑क्षतऽइव ते॒ मुखं॒ ब्रह्म॒न्मा त्वं व॑दो ब॒हु ॥२५ ॥

२६ ऊर्ध्वामेनामुच्छ्रापय गिरौ

विश्वास-प्रस्तुतिः ...{Loading}...

ऊ॒र्ध्वामे॑ना॒मुच्छ्रा॑पय गि॒रौ भा॒रँ हर॑न्निव। अथा॑स्यै॒ मध्य॑मेधताँ शी॒ते वाते॑ पु॒नन्नि॑व ॥२६ ॥

२७ ऊर्ध्वमेनमुच्छ्रयताद् गिरौ

विश्वास-प्रस्तुतिः ...{Loading}...

ऊ॒र्ध्वमे॑न॒मुच्छ्र॑यताद् गि॒रौ भा॒रँ हर॑न्निव। अथा॑स्य॒ मध्य॑मेजतु शी॒ते वाते॑ पु॒नन्नि॑व ॥२७ ॥

२८ यदस्याऽअंहुभेद्याः कृधु

विश्वास-प्रस्तुतिः ...{Loading}...

यद॑स्याऽअँहु॒भेद्याः॑ कृ॒धु स्थू॒लमु॒पात॑सत्। मु॒ष्काविद॑स्याऽएजतो गोश॒फे श॑कु॒लावि॑व ॥२८ ॥

२९ यद्देवासो ललामगुम्

विश्वास-प्रस्तुतिः ...{Loading}...

यद्दे॒वासो॑ ल॒लाम॑गुं॒ प्र वि॑ष्टी॒मिन॒मावि॑षुः। स॒क्थ्ना दे॑दिश्यते॒ नारी॑ स॒त्यस्या॑क्षि॒भुवो॑ यथा ॥२९ ॥

३० यद्धरिणो यवमत्ति

विश्वास-प्रस्तुतिः ...{Loading}...

यद्ध॑रि॒णो यव॒मत्ति॒ न पु॒ष्टं प॒शु मन्य॑ते। शू॒द्रा यदर्य॑जारा॒ न पोषा॑य धनायति ॥३० ॥

३१ यद्धरिणो यवमत्ति

विश्वास-प्रस्तुतिः ...{Loading}...

यद्ध॑रि॒णो यव॒मत्ति॒ न पु॒ष्टं ब॒हु मन्य॑ते। शू॒द्रो यदर्या॑यै जा॒रो न पोष॒मनु॑ मन्यते ॥३१ ॥

३२ दधिक्राव्णोऽअकारिषं जिष्णोरश्वस्य

विश्वास-प्रस्तुतिः ...{Loading}...

द॒धि॒क्राव्णो॑ऽअकारिषं जि॒ष्णोरश्व॑स्य वा॒जिनः॑। सु॒र॒भि नो॒ मुखा॑ कर॒त्प्र ण॒ऽआयूँ॑षि तारिषत्॥३२ ॥

३३ गायत्री त्रिष्टुब्जगत्यनुष्टुप्पङ्क्त्या

विश्वास-प्रस्तुतिः ...{Loading}...

गा॒य॒त्री त्रि॒ष्टुब्जग॑त्यनु॒ष्टुप्प॒ङ्क्त्या स॒ह। बृ॒ह॒त्यु᳙ष्णिहा॑ क॒कुप्सू॒चीभिः॑ शम्यन्तु त्वा ॥३३ ॥

३४ द्विपदा याश्चतुष्पदास्त्रिपदा

विश्वास-प्रस्तुतिः ...{Loading}...

द्विप॑दा॒ याश्चतु॑ष्पदा॒स्त्रिप॑दा॒ याश्च॒ षट्प॑दाः। विच्छ॑न्दा॒ याश्च॒ सच्छ॑न्दाः सू॒चीभिः॑ शम्यन्तु त्वा ॥३४ ॥

३५ महानाम्न्यो रेवत्यो

विश्वास-प्रस्तुतिः ...{Loading}...

म॒हाना॑म्न्यो रे॒वत्यो॒ विश्वा॒ आशाः॑ प्र॒भूव॑रीः। मैघी॑र्वि॒द्युतो॒ वाचः॑ सू॒चीभिः॑ शम्यन्तु त्वा ॥३५ ॥

३६ नार्यस्ते पत्न्यो

विश्वास-प्रस्तुतिः ...{Loading}...

नार्य॑स्ते॒ पत्न्यो॒ लोम॒ विचि॑न्वन्तु मनी॒षया॑। दे॒वानां॒ पत्न्यो॒ दिशः॑ सू॒चीभिः॑ शम्यन्तु त्वा ॥३६ ॥

३७ रजता हरिणीः

विश्वास-प्रस्तुतिः ...{Loading}...

र॒ज॒ता हरि॑णीः॒ सीसा॒ युजो॑ युज्यन्ते॒ कर्म॑भिः। अश्व॑स्य वा॒जिन॑स्त्व॒चि सिमाः॑ शम्यन्तु॒ शम्य॑न्तीः ॥३७ ॥

३८ कुविदङ्ग यवमन्तो

विश्वास-प्रस्तुतिः ...{Loading}...

कु॒विद॒ङ्ग यव॑मन्तो॒ यव॑ञ्चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑। इ॒हेहै॑षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नम॑ऽउक्तिं॒ यज॑न्ति ॥३८ ॥

३९ कस्त्वाछ्यति कस्त्वा

विश्वास-प्रस्तुतिः ...{Loading}...

कस्त्वाछ्य॑ति॒ कस्त्वा॒ विशा॑स्ति॒ कस्ते॒ गात्रा॑णि शम्यति। कऽउ॑ ते शमि॒ता क॒विः ॥३९ ॥

४० ऋतवस्तऽऋतुथा पर्व

विश्वास-प्रस्तुतिः ...{Loading}...

ऋ॒तव॑स्तऽऋतु॒था पर्व॑ शमि॒तारो॒ विशा॑सतु। सं॒व॒त्स॒रस्य॒ तेज॑सा श॒मीभिः॑ शम्यन्तु त्वा ॥४० ॥

४१ अर्द्धमासाः परूषि

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒र्द्ध॒मा॒साः परूँ॑षि ते॒ मासा॒ऽआच्छ्य॑न्तु॒ शम्य॑न्तः। अ॒हो॒रा॒त्राणि॑ म॒रुतो॒ विलि॑ष्टँ सूदयन्तु ते ॥४१ ॥

४२ दैव्याऽअध्वर्यवस्त्वाच्छ्यन्तु वि

विश्वास-प्रस्तुतिः ...{Loading}...

दैव्या॑ऽअध्व॒र्यव॒स्त्वाच्छ्य॑न्तु॒ वि च॑ शासतु। गात्रा॑णि पर्व॒शस्ते॒ सिमाः॑ कृण्वन्तु॒ शम्य॑न्तीः ॥४२ ॥

४३ द्यौस्ते पृथिव्यन्तरिक्षम्

विश्वास-प्रस्तुतिः ...{Loading}...

द्यौस्ते॑ पृथि॒व्य᳙न्तरि॑क्षं वा॒युश्छि॒द्रं पृ॑णातु ते। सूर्य॑स्ते॒ नक्ष॑त्रैः स॒ह लो॒कं कृ॑णोतु साधु॒या ॥४३ ॥

४४ शं ते

विश्वास-प्रस्तुतिः ...{Loading}...

शं ते॒ परे॑भ्यो॒ गात्रे॑भ्यः॒ शम॒स्त्वव॑रेभ्यः। शम॒स्थभ्यो॑ म॒ज्जभ्यः॒ शम्व॑स्तु त॒न्वै᳙ तव॑ ॥४४ ॥

४५ कः स्विदेकाकी

विश्वास-प्रस्तुतिः ...{Loading}...

कः स्वि॑देका॒की च॑रति॒ कऽउ॑ स्विज्जायते॒ पुनः॑। किँस्वि॑द्धि॒मस्य॑ भेष॒जं किम्वा॒वप॑नं म॒हत्॥४५ ॥

४६ सूर्य्यऽएकाकी चरति

विश्वास-प्रस्तुतिः ...{Loading}...

सूर्य्य॑ऽएका॒की च॑रति च॒न्द्रमा॑ जायते॒ पुनः॑। अ॒ग्निर्हि॒मस्य॑ भेष॒जं भूमि॑रा॒वप॑नं म॒हत्॥४६ ॥

४७ किंस्वित्सूर्यसमं ज्योतिः

विश्वास-प्रस्तुतिः ...{Loading}...

किँस्वि॒त्सूर्य॑समं॒ ज्योतिः॒ किँस॑मु॒द्रस॑मँ॒सरः॑। किँस्वि॑त्पृथि॒व्यै वर्षी॑यः॒ कस्य॒ मात्रा॒ न वि॑द्यते ॥४७ ॥

४८ ब्रह्म सूर्यसमम्

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्म॒ सूर्य॑समं॒ ज्योति॒र्द्यौः स॑मु॒द्रस॑मँ॒सरः॑। इन्द्रः॑ पृथि॒व्यै वर्षी॑या॒न् गोस्तु मात्रा॒ न वि॑द्यते ॥४८ ॥

४९ पृच्छामि त्वा

विश्वास-प्रस्तुतिः ...{Loading}...

पृ॒च्छामि॑ त्वा चि॒तये॑ देवसख॒ यदि॒ त्वमत्र॒ मन॑सा ज॒गन्थ॑। येषु॒ विष्णु॑स्त्रि॒षु प॒देष्वेष्ट॒स्तेषु॒ विश्वं॒ भुव॑न॒मावि॑वेशाँ३ऽ ॥४९ ॥

५० अपि तेषु

विश्वास-प्रस्तुतिः ...{Loading}...

अपि॒ तेषु॑ त्रि॒षु प॒देष्व॑स्मि॒ येषु॒ विश्वं॒ भुव॑नमा वि॒वेश॑। स॒द्यः पर्ये॑मि पृथि॒वीमु॒त द्यामेके॒नाङ्गे॑न दि॒वोऽअ॒स्य पृ॒ष्ठम् ॥५० ॥

५१ केष्वन्तः पुरुषऽआ

विश्वास-प्रस्तुतिः ...{Loading}...

केष्व॒न्तः पुरु॑ष॒ऽआ वि॑वेश॒ कान्य॒न्तः पुरु॑षे॒ऽअर्पि॑तानि। ए॒तद् ब्र॑ह्म॒न्नुप॑ वल्हामसि त्वा॒ किँस्वि॑न्नः॒ प्रति॑ वोचा॒स्यत्र॑ ॥५१ ॥

५२ पञ्चस्वन्तः पुरुषऽआविवेश

विश्वास-प्रस्तुतिः ...{Loading}...

प॒ञ्चस्व॒न्तः पुरु॑ष॒ऽआवि॑वेश॒ तान्य॒न्तः पुरु॑षे॒ऽअर्पि॑तानि। ए॒तत्त्वात्र॑ प्रतिमन्वा॒नोऽअ॑स्मि॒ न मा॒यया॑ भव॒स्युत्त॑रो॒ मत्॥५२ ॥

५३ का स्विदासीत्पूर्वचित्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

का स्वि॑दासीत्पू॒र्वचि॑त्तिः॒ किँ॑स्वि॑दासीद् बृ॒हद्वयः॑। का स्वि॑दासीत्पिलिप्पि॒ला का स्वि॑दासीत्पिशङ्गि॒ला ॥५३ ॥

५४ द्यौरासीत्पूर्वचित्तिरश्वऽआसीद् बृहद्वयः

विश्वास-प्रस्तुतिः ...{Loading}...

द्यौरा॑सीत्पू॒र्वचि॑त्ति॒रश्व॑ऽआसीद् बृ॒हद्वयः॑। अवि॑रासीत्पिलिप्पि॒ला रात्रि॑रासीत्पिशङ्गि॒ला ॥५४ ॥

५५ काऽईमरे पिशङ्गिला

विश्वास-प्रस्तुतिः ...{Loading}...

काऽईम॑रे पिशङ्गि॒ला काऽर्इं॑ कुरुपिशङ्गि॒ला। कऽर्इ॑मा॒स्कन्द॑मर्षति॒ कऽर्इं॒ पन्थां॒ विस॑र्पति ॥५५ ॥

५६ अजारे पिशङ्गिला

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒जारे॑ पिशङ्गि॒ला श्वा॒वित्कु॑रुपिशङ्गि॒ला। श॒शऽआ॒स्कन्द॑मर्ष॒त्यहिः॒ पन्थां॒ वि स॑र्पति ॥५६ ॥

५७ कत्यस्य विष्ठाः

विश्वास-प्रस्तुतिः ...{Loading}...

कत्य॑स्य वि॒ष्ठाः कत्य॒क्षरा॑णि॒ कति॒ होमा॑सः कति॒धा समि॑द्धः। य॒ज्ञस्य॑ त्वा वि॒दथा॑ पृच्छ॒मत्र॒ कति॒ होता॑रऽऋतु॒शो य॑जन्ति ॥५७ ॥

५८ षडस्य विष्ठाः

विश्वास-प्रस्तुतिः ...{Loading}...

षड॑स्य वि॒ष्ठाः श॒तम॒क्षरा॑ण्यशी॒तिर्होमाः॑ स॒मिधो॑ ह ति॒स्रः। य॒ज्ञस्य॑ ते वि॒दथा॒ प्र ब्र॑वीमि स॒प्त होता॑रऽऋतु॒शो य॑जन्ति ॥५८ ॥

५९ कोऽअस्य वेद

विश्वास-प्रस्तुतिः ...{Loading}...

कोऽअ॒स्य वे॑द॒ भुव॑नस्य॒ नाभिं॒ को द्यावा॑पृथि॒वीऽअ॒न्तरि॑क्षम्। कः सूर्य॑स्य वेद बृह॒तो ज॒नित्रं॒ को वे॑द च॒न्द्रम॑सं यतो॒जाः ॥५९ ॥

६० वेदाहमस्य भुवनस्य

विश्वास-प्रस्तुतिः ...{Loading}...

वेदा॒हम॒स्य भुव॑नस्य॒ नाभिं॒ वेद॒ द्यावा॑पृथि॒वीऽअ॒न्तरि॑क्षम्। वेद॒ सूर्य॑स्य बृह॒तो ज॒नित्र॒मथो॑ वेद च॒न्द्रम॑सं यतो॒जाः ॥६० ॥

६१ पृच्छामि त्वा

विश्वास-प्रस्तुतिः ...{Loading}...

पृ॒च्छामि॑ त्वा॒ पर॒मन्तं॑ पृथि॒व्याः पृ॒च्छामि॒ यत्र॒ भुव॑नस्य॒ नाभिः॑। पृ॒च्छामि॑ त्वा॒ वृष्णो॒ऽअश्व॑स्य॒ रेतः॑ पृ॒च्छामि॑ वा॒चः प॑र॒मं व्यो॑म ॥६१ ॥

६२ इयं वेदिः

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒यं वेदिः॒ परो॒ऽअन्तः॑ पृथि॒व्याऽअ॒यं य॒ज्ञो भुव॑नस्य॒ नाभिः॑। अ॒यँ सोमो॒ वृष्णो॒ऽअश्व॑स्य॒ रेतो॑ ब्र॒ह्मायं वा॒चः प॑र॒मं व्यो॑म ॥६२ ॥

६३ सुभूः स्वयम्भूः

विश्वास-प्रस्तुतिः ...{Loading}...

सु॒भूः स्व॑य॒म्भूः प्र॑थ॒मो᳙ऽन्तर्म॑हत्य᳖र्ण॒वे। द॒धे ह॒ गर्भ॑मृ॒त्वियं॒ यतो॑ जा॒तः प्र॒जाप॑तिः ॥६३ ॥

६४ होता यक्षत्प्रजापतिम्

विश्वास-प्रस्तुतिः ...{Loading}...

होता॑ यक्षत्प्र॒जाप॑तिँ॒ सोम॑स्य महि॒म्नः। जु॒षतां॒ पिब॑तु॒ सोमँ॒ होत॒र्यज॑ ॥६४ ॥

६५ प्रजापते न

विश्वास-प्रस्तुतिः ...{Loading}...

प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ रू॒पाणि॒ परि॒ ता ब॑भूव। यत्का॑मास्ते जुहु॒मस्तन्नो॑ऽअस्तु व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ॥६५ ॥