०१ हिरण्यगर्भः समवर्त्तताग्रे
विश्वास-प्रस्तुतिः ...{Loading}...
हि॒र॒ण्य॒ग॒र्भः सम॑वर्त्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ऽआसीत्। स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥१ ॥
मूलम् ...{Loading}...
हि॒र॒ण्य॒ग॒र्भः सम॑वर्त्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ऽआसीत्। स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
हि॒र॒ण्य॒ग॒र्भ इति॑ हिरण्यऽग॒र्भः। सम्। अ॒व॒र्त्त॒त॒। अग्रे॑। भू॒तस्य॑। जा॒तः। पतिः॑। एकः॑। आ॒सी॒त्। सः। दा॒धा॒र॒। पृ॒थि॒वीम्। द्याम्। उ॒त। इ॒माम्। कस्मै॑। दे॒वाय॑। ह॒विषा॑। वि॒धे॒म॒। १।
महीधरः
म०. द्वाविंशे होममन्त्रास्त्रयोविंशेऽध्याये शिष्टं कर्मोच्यते । ‘प्रातरुक्थ्यो महिमानौ गृह्णाति सौवर्णेन पूर्व ᳪं᳭ हिरण्यगर्भ इति’ (का० । २० । ५। १-२)। प्रातर्द्वितीयेऽहनि उक्थ्यसंस्थमहर्भवति तत्र महिमसंज्ञौ द्वौ ग्रहौ गृह्णाति आगन्तुत्वादाग्रयणोक्थ्ययोर्मध्ये तौ गृह्णाति ‘अन्तराग्रयणोक्थ्यावागन्स्थातुं ग्रहाणाम्’ इति वचनात् द्वयोर्मध्ये पूर्वं महिमानं सौवर्णेनोलूखलेन गृह्णाति । व्याख्याता (अ० १३ । क० ४) ॥१॥
द्वितीया ।
अधिमन्त्रम् (VC)
- परमेश्वरो देवता
- प्रजापतिर्ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब तेईसवें अध्याय का आरम्भ है, उसके प्रथम मन्त्र में ईश्वर क्या करता है, इस विषय को कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (भूतस्य) उत्पन्न कार्यरूप जगत् के (अग्रे) पहिले (हिरण्यगर्भः) सूर्य, चन्द्र, तारे आदि ज्योति गर्भरूप जिसके भीतर हैं, वह सूर्य आदि कारणरूप पदार्थों में गर्भ के समान व्यापक स्तुति करने योग्य (समवर्त्तत) अच्छे प्रकार वर्त्तमान और इस सब जगत् का (एकः) एक ही (जातः) प्रसिद्ध (पतिः) पालना करनेहारा (आसीत्) होता है (सः) वह (इमाम्) इस (पृथिवीम्) विस्तारयुक्त पृथिवी (उत) और (द्याम्) सूर्य आदि लोकों को रचके इनको (दाधार) तीनों काल में धारण करता है, उस (कस्मै) सुखस्वरूप (देवाय) सुख देनेहारे परमात्मा के लिये जैसे हम लोग (हविषा) सर्वस्व दान करके उस की (विधेम) परिचर्या सेवा करें, वैसे तुम भी किया करो ॥१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जब सृष्टि प्रलय को प्राप्त होकर प्रकृति में स्थिर होती है और फिर उत्पन्न होती है, उस के आगे जो एक जागता हुआ परमात्मा वर्त्तमान रहता है, तब सब जीव मूर्छा सी पाये हुए होते हैं। वह कल्प के अन्त में प्रकाशरहित पृथिवी आदि सृष्टि तथा प्रकाशसहित सूर्य आदि लोकों की सृष्टि का विधान, धारण और सब जीवों के कर्मों के अनुकूल जन्म देकर सब के निर्वाह के लिये सब पदार्थों का विधान करता है, वही सब को उपासना करने योग्य देव है, यह जानना चाहिये ॥१ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथेश्वरः किं करोतीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यो भूतस्य जगतोऽग्रे हिरण्यगर्भः समवर्त्तताऽस्य सर्वस्यैको जातः पतिरासीत् स इमां पृथिवीमुत द्यां दाधार तस्मै कस्मै देवाय यथा वयं हविषा विधेम तथा यूयमपि विधत्त ॥१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यदा सृष्टिः प्रलयं गत्वा प्रकृतिस्था भवति, पुनरुत्पद्यते तस्या अग्रे य एकः परमात्मा जाग्रन् सन् भवति, तदानीं सर्वे जीवा मूर्छिता इव भवन्ति। स कल्पान्ते प्रकाशरहितां पृथिव्यादिरूपां प्रकाशसहितां सूर्यादिलोकप्रभृति सृष्टिं विधाय धृत्वा सर्वेषां कर्मानुकूलतया जन्मानि दत्त्वा सर्वेषां निर्वाहाय सर्वान् पदार्थान् विधत्ते, स एव सर्वैरुपासनीयो देवोऽस्तीति वेद्यम् ॥१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचक लुप्तोपमालंकार आहे. जेव्हा सृष्टीचा प्रलय होऊन प्रकृतीचे रूप स्थिर होते. त्यावेळी एकटा परमेश्वर जागृत स्वरूपात विद्यमान असतो व सर्व जीव मूर्छितावस्थेत असतात. प्रलयावस्थेनंतर प्रकाशरहित पृथ्वी इत्यादी सृष्टी व प्रकाशयुक्त सूर्य इत्यादींची परमेश्वर रचना करतो. धारण करतो व सर्व जीवांना कर्मानुसार जन्म देऊन सर्वांच्या निर्वाहासाठी सर्व पदार्थांना उत्पन्न करतो तोच सर्वांचा उपास्यदेव आहे, हे जाणावे.
०२ उपयामगृहीतोऽसि प्रजापतये
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनिः॒ सूर्य्य॑स्ते महि॒मा। यस्तेऽह॑न्त्संवत्स॒रे म॑हि॒मा स॑म्ब॒भूव॒ यस्ते॑ वा॒याव॒न्तरि॑क्षे महि॒मा स॑म्ब॒भूव॒ यस्ते॑ दि॒वि सूर्ये॑ महि॒मा स॑म्ब॒भूव॒ तस्मै॑ ते महि॒म्ने प्र॒जाप॑तये॒ स्वाहा॑ दे॒वेभ्यः॑ ॥२ ॥
मूलम् ...{Loading}...
उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनिः॒ सूर्य्य॑स्ते महि॒मा। यस्तेऽह॑न्त्संवत्स॒रे म॑हि॒मा स॑म्ब॒भूव॒ यस्ते॑ वा॒याव॒न्तरि॑क्षे महि॒मा स॑म्ब॒भूव॒ यस्ते॑ दि॒वि सूर्ये॑ महि॒मा स॑म्ब॒भूव॒ तस्मै॑ ते महि॒म्ने प्र॒जाप॑तये॒ स्वाहा॑ दे॒वेभ्यः॑ ॥२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। प्र॒जाप॑तय॒ इति॑ प्र॒जाऽप॑तये। त्वा॒। जुष्ट॑म्। गृ॒ह्णा॒मि॒। ए॒षः। ते॒। योनिः॑। सूर्य्यः॑। ते॒। म॒हि॒मा। यः। ते॒। अह॑न्। सं॒व॒त्स॒रे। म॒हि॒मा। स॒म्ब॒भूवेति॑ सम्ऽब॒भूव॑। यः। ते। वा॒यौ। अ॒न्तरि॑क्षे। म॒हि॒मा। स॒म्ब॒भूवेति॑ सम्ऽब॒भूव॑। यः। ते॒। दि॒वि। सूर्य्ये॑। म॒हि॒मा। स॒म्ब॒भूवेति॑ सम्ऽब॒भूव॑। तस्मै॑। ते॒। म॒हि॒म्ने। प्र॒जाप॑तय॒ इति॑ प्र॒जाऽप॑तये। स्वाहा॑। दे॒वेभ्यः॑। २।
महीधरः
म० उपयाम० प्रजापतये जुष्टं रुचितं त्वां हे ग्रह, अहं गृह्णामि । ‘एष ते योनिरिति ग्रहसादनम्’ (का० ९ । ५ । २५) । एष ते योनिः स्थानं ते तव महिमा शक्तिः सूर्यः दीपस्येव प्रभा । ‘यस्तेऽहन्निति जुहोति’ (का० २० । ७ । १६) । पूर्वमहिमानं ग्रहं जुहोति वषट्कृते सर्वहुतम् । देवदेवत्यं यजुः द्व्यधिका शक्वरी । हे महिमन् , यः ते तव महिमा अहन् अह्नि दिवसे संवत्सरे च निमित्ते संबभूव उत्पन्नः, वायौ अन्तरिक्षे च यः तव महिमा संबभूव, दिवि सूर्ये च यस्ते महिमा संबभूव ते तव तस्मै महिम्ने प्रजापतये देवेभ्यश्च स्वाहा सुहुतमस्तु ॥ २ ॥
तृतीया।
अधिमन्त्रम् (VC)
- परमेश्वरो देवता
- प्रजापतिर्ऋषिः
- निचृदाकृतिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे भगवन् जगदीश्वर ! जो आप (उपयामगृहीतः) यम जो योगाभ्यास सम्बन्धी काम है, उन से समीप में साक्षात् किये अर्थात् हृदयाकाश में प्रगट किये हुए (असि) हैं, उन (जुष्टम्) सेवा किये हुए वा प्रसन्न किये (त्वा) आपको (प्रजापतये) प्रजापालन करने हारे राजा की रक्षा के लिये मैं (गृह्णामि) ग्रहण करता हूँ जिन (ते) आपकी (एषः) यह (योनिः) प्रकृति जगत् का कारण है, जो (ते) आपका (सूर्यः) सूर्यमण्डल (महिमा) बड़ाई रूप तथा (यः) जो (ते) आपकी (अहन्) दिन और (संवत्सरे) वर्ष में नियम बन्धन द्वारा (महिमा) बड़ाई (सम्बभूव) संभावित है (यः) जो (ते) आपकी (वायौ) पवन और (अन्तरिक्षे) अन्तरिक्ष में (महिमा) बड़ाई (सम्बभूव) प्रसिद्ध है तथा (यः) जो (ते) आपकी (दिवि) बिजुली अर्थात् सूर्य आदि के प्रकाश और (सूर्ये) सूर्य में (महिमा) बड़ाई (सम्बभूव) प्रत्यक्ष है (तस्मै) उस (महिम्ने, प्रजापतये) प्रजापालनरूप बड़ाईवाले (ते) आप के लिये और (देवेभ्यः) विद्वानों के लिये (स्वाहा) उत्तम विद्यायुक्त बुद्धि सब को ग्रहण करनी चाहिये ॥२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जिस परमेश्वर के महिमा को यह सब जगत् प्रकाश करता है, उस परमेश्वर की उपासना को छोड़ और किसी की उपासना उसके स्थान में नहीं करनी चाहिये और जो कोई कहे कि परमेश्वर के होने में क्या प्रमाण है, उसके प्रति जो यह जगत् वर्त्तमान है सो सब परमेश्वर का प्रमाण कराता है, यह उत्तर देना चाहिये ॥२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे भगवन् जगदीश्वर ! यस्त्वमुपयामगृहीतोऽसि तं जुष्टं त्वा प्रजापतयेऽहं गृह्णामि यस्य ते एष योनिरस्ति यस्ते सूर्या महिमा यस्तेऽहन् संवत्सरे महिमा सम्बभूव तस्मै महिम्ने प्रजापतये ते देवेभ्यश्च स्वाहा सर्वैः संग्राह्या ॥२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यस्य परमेश्वरस्येदं सर्वे जगन्महिमानं प्रकाशयति तस्योपासनां विहायान्यस्य कस्यचित्तस्य स्थाने चोपासना नैव कार्या। यः कश्चिद् ब्रूयात् परमेश्वरस्य सत्त्वे किं प्रमाणमिति तं प्रति यदिदं जगद्वर्त्तते तत्सर्वं परमेश्वरं प्रमाणयतीत्युत्तरं देयम् ॥२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! ज्या परमेश्वराची महिमा सर्व जग जाणते त्याची उपासना सौडून इतर कुणाचीही उपासना करता कामा नये. जर एखाद्याने विचारले की, परमेश्वराच्या अस्तित्वाचे प्रमाण काय? तर जग हेच परमेश्वराच्या अस्तित्वाचे प्रमाण आहे, हे उत्तर दिले पाहिजे.
०३ यः प्राणतो
विश्वास-प्रस्तुतिः ...{Loading}...
यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ऽइद्राजा॒ जग॑तो ब॒भूव॑। यऽईशे॑ऽअ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥३ ॥
मूलम् ...{Loading}...
यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ऽइद्राजा॒ जग॑तो ब॒भूव॑। यऽईशे॑ऽअ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यः। प्रा॒ण॒तः। नि॒मि॒ष॒त इति॑ निऽमिष॒तः। म॒हि॒त्वेति॑ महि॒ऽत्वा। एकः॑। इत्। राजा॑। जग॑तः। ब॒भूव॑। यः। ईशे॑। अ॒स्य। द्वि॒पद॒ इति॑ द्वि॒ऽपदः॑। चतु॑ष्पदः। चतुः॑पद इति॒ चतुः॑पदः। कस्मै॑। दे॒वाय॑। ह॒विषा॑। वि॒धे॒म॒। ३।
महीधरः
म०. ‘द्वितीयᳪं᳭ राजतेन यः प्राणत इति’ (का० २० । ५।२)। द्वितीयं महिमानं ग्रहं राजतेनोलूखलेन गृह्णाति । हिरण्यगर्भदृष्टा कदेवत्या त्रिष्टुप् । तस्मै कस्मै प्रजापतये देवाय वयं हविर्विधेम हविर्दद्मः । विधृतिर्दानार्थः। तृतीया द्वितीयार्थे। तस्मै कस्मै । यः प्रजापतिः प्राणतः प्राणनं जीवनं कुर्वतो निमिषतो निमेषणं कुर्वतः । उपलक्षणमेतत् दृगादीन्द्रियव्यापारं कुर्वतः सचेतनस्य जगतः । विश्वस्य एक एव राजा बभूव । केन । महित्वा महेर्महिम्नो भावो महित्वं तेन महित्वेन । विभक्तेः पूर्वसवर्णः । महाभाग्येनेत्यर्थः । यश्चास्य द्विपदः द्वौ पादौ यस्य स द्विपात् तस्य ‘पादः पत्’ (पा० ६।४। १३०) | इति पदादेशः। द्विपादस्य मनुष्यपक्ष्यादेः चतुष्पदः हस्तिगवादेः प्राणिजातस्य ईशे ईष्टे ऐश्वर्यं करोति । ‘लोपस्त आत्मनेपदेषु’ (पा० ७ । १ । ४१) इति तकारलोपे ईशे इति रूपम् । ‘अधीगर्थदयेशां कर्मणि’ (पा० २।३ । ५२) कर्मणि | षष्ठी ॥ ३ ॥
चतुर्थी।
अधिमन्त्रम् (VC)
- परमेश्वरो देवता
- प्रजापतिर्ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे हम लोग (यः) जो (एकः) एक (इत्) ही (महित्वा) अपनी महिमा से (निमिषतः) नेत्र आदि से चेष्टा को करते हुए (प्राणतः) प्राणी रूप (द्विपदः) दो पगवाले मनुष्य आदि वा (चतुष्पदः) चार पगवाले गौ आदि पशुसम्बन्धी इस (जगतः) संसार का (राजा) अधिष्ठाता (बभूव) होता है और (यः) जो (अस्य) इस संसार का (ईशे) सर्वोपरि स्वामी है, उस (कस्मै) आनन्दस्वरूप (देवाय) अतिमनोहर परमेश्वर की (हविषा) विशेष भक्तिभाव से (विधेम) सेवा करें, वैसे विशेष भक्तिभाव का आप लोगों को भी विधान करना चाहिये ॥३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे मनुष्यो ! जो एक ही सब जगत् का महाराजाधिराज, समस्त जगत् का उत्पन्न करनेहारा सकल ऐश्वर्ययुक्त महात्मा न्यायाधीश है, उसी की उपासना से तुम सब धर्म, अर्थ, काम और मोक्ष के फलों को पाकर सन्तुष्ट होओ ॥३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा वयं य एक इन्महित्वा निमिषतः प्राणतो द्विपदश्चतुष्पदोऽस्य जगतो राजा बभूव, योऽस्येशे तस्मै कस्मै देवाय हविषा विधेम तथाऽस्य भक्तिविशेषो भवद्भिर्विधेयः ॥३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः ! य एक एव सर्वस्य जगतो महाराजाधिराजोऽखिलजगन्निर्माता सकलैश्वर्ययुक्तो महात्मा न्यायाधीशोऽस्ति तस्यैवोपासनेन धर्मार्थकाममोक्षफलानि प्राप्य भवन्तः सन्तुष्यन्तु ॥३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे माणसांनो ! जो सर्व जगाचा एक महाराजाधिराज, सर्व जगाचा निर्माणकर्ता, पूर्ण ऐश्वर्यवान, महात्मा व न्यायाधीश आहे. त्याच्या उपासनेने तुम्ही धर्म, अर्थ, काम, मोक्ष यांचे फळ प्राप्त करून संतुष्ट व्हा.
०४ उपयामगृहीतोऽसि प्रजापतये
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॑श्च॒न्द्रमा॑स्ते महि॒मा। यस्ते॒ रात्रौ॑ संवत्स॒रे म॑हि॒मा स॑म्ब॒भूव॒ यस्ते॑ पृथि॒व्याम॒ग्नौ म॑हि॒मा स॑म्ब॒भूव॒ यस्ते॒ नक्ष॑त्रेषु च॒न्द्रम॑सि महि॒मा स॑म्ब॒भूव॒ तस्मैं॑ ते महि॒म्ने प्र॒जाप॑तये दे॒वेभ्यः॒ स्वाहा॑ ॥४ ॥
मूलम् ...{Loading}...
उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॑श्च॒न्द्रमा॑स्ते महि॒मा। यस्ते॒ रात्रौ॑ संवत्स॒रे म॑हि॒मा स॑म्ब॒भूव॒ यस्ते॑ पृथि॒व्याम॒ग्नौ म॑हि॒मा स॑म्ब॒भूव॒ यस्ते॒ नक्ष॑त्रेषु च॒न्द्रम॑सि महि॒मा स॑म्ब॒भूव॒ तस्मैं॑ ते महि॒म्ने प्र॒जाप॑तये दे॒वेभ्यः॒ स्वाहा॑ ॥४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। प्र॒जाप॑तय॒ इति॑ प्र॒जाऽप॑तये। त्वा॒। जुष्ट॑म्। गृ॒ह्णा॒मि॒। ए॒षः। ते॒। योनिः॑। च॒न्द्रमाः॑। ते॒। म॒हि॒मा। यः। ते॒। रात्रौ॑। सं॒व॒त्स॒रे। म॒हि॒मा। स॒म्ब॒भूवेति॑ सम्ऽब॒भूव॑। यः। ते॒। पृ॒थि॒व्याम्। अ॒ग्नौ। म॒हि॒मा। स॒म्ब॒भूवेति॑ सम्ऽब॒भूव॑। यः। ते॒। नक्ष॑त्रेषु। च॒न्द्रम॑सि। म॒हि॒मा। स॒म्ब॒भूवेति॑ सम्ऽब॒भूव॑। तस्मै॑। ते॒। म॒हि॒म्ने। प्र॒जाप॑तय॒ इति॑ प्र॒जाऽप॑तये। दे॒वेभ्यः॑। स्वाहा॑। ४।
महीधरः
म० उपयामपात्रेण गृहीतोऽसि प्रजापतये जुष्टं त्वां गृह्णामि । सादयति । एष ते । चन्द्रमास्ते तव महिमा दीप्तिः । ‘वपान्ते द्वितीयेन पूर्ववद् यस्ते रात्राविति जुहोति’ (का० २० । ७ । २६ )। वपायागान्ते द्वितीयेन महिम्ना पूर्ववदिति सर्वहुतं महिमानं जुहोति । अष्टिः हे महिमन् , रात्रौ संवत्सरे च यस्ते तव महिमा संबभूव पृथिव्यामग्नौ च यस्ते महिमा संबभूव नक्षत्रेषु चन्द्रमसि च यस्तव महिमा संबभूव सर्वव्यापकस्तव यो महिमा तस्मै महिम्ने प्रजापतये देवेभ्यश्च स्वाहा सुहुतमस्तु ॥ ४॥
पञ्चमी।
अधिमन्त्रम् (VC)
- परमेश्वरो देवता
- प्रजापतिर्ऋषिः
- विकृतिः
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे जगदीश्वर ! जो आप (उपयामगृहीतः) सत्कर्म अर्थात् योगाभ्यास आदि उत्तम काम से स्वीकार किये हुए (असि) हो, उन (त्वा, जुष्टम्) सेवा किये हुए आपको (प्रजापतये) प्रजा की पालना करनेवाले राजा की रक्षा के लिये मैं (गृह्णामि) ग्रहण करता अर्थात् मन में धरता हूँ, जिन (ते) आप के संसार में (एषः) यह (योनिः) जल वा जिन (ते) आपका संसार में (चन्द्रमाः) चन्द्रलोक (महिमा) बड़प्पन वा जिन (ते) आपका (यः) जो (रात्रौ) रात्रि और (संवत्सरे) वर्ष में (महिमा) बड़प्पन (सम्बभूव) सम्भव हुआ, होता और होगा (यः) जो (ते) आपकी सृष्टि में (पृथिव्याम्) अन्तरिक्ष वा भूमि और (अग्नौ) आग में (महिमा) बड़प्पन (सम्बभूव) सम्भव हुआ, होता और होगा तथा जिन (ते) आपकी सृष्टि में (यः) जो (नक्षत्रेषु) कारण रूप से विनाश को न प्राप्त होनेवाले लोक-लोकान्तरों में और (चन्द्रमसि) चन्द्रलोक में (महिमा) बड़प्पन (सम्बभूव) सम्भव हुआ, होता और होगा उन (ते) आप के (तस्मै) उस (महिम्ने) बड़प्पन (प्रजापतये) प्रजा पालने हारे राजा (देवेभ्यः) और विद्वानों के लिये (स्वाहा) सत्याचरणयुक्त क्रिया का हम लोगों को अनुष्ठान करना चाहिये ॥४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जिसके महिमा सामर्थ्य से सब जगत् विराजमान, जिसका अनन्त महिमा और जिसकी सिद्धि करने में रचना से भरा हुआ समस्त जगत् दृष्टान्त है, उसी की सब मनुष्य उपासना करें ॥४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे जगदीश्वर ! यस्त्वमुपयामगृहीतोऽसि तं त्वा जुष्टं प्रजापतयेऽहं गृह्णामि, यस्य ते सृष्टावेष योनिर्जलं, यस्य ते सृष्टौ चन्द्रमा महिमा यस्य ते यो रात्रौ संवत्सरे महिमा च सम्बभूव, यस्ते सृष्टौ पृथिव्यामग्नौ महिमा सम्बभूव, यस्य ते सृष्टौ यो नक्षत्रेषु चन्द्रमसि च महिमा सम्बभूव तस्य ते तस्मै महिम्ने प्रजापतये देवेभ्यश्च स्वाहाऽस्माभिरनुष्ठेया ॥४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यस्य महिम्ना सामर्थ्येन सर्वं जगद्विराजते यस्यानन्तो महिमास्ति यस्य सिद्धौ रचनाविशिष्टं सर्वं जगद्दृष्टान्तमस्ति, तमेव सर्वे मनुष्या उपासीरन् ॥४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! ज्याच्या अनंत सामर्थ्याने हे जग विराजमान आहे व त्याची अनंत महिमा वर्णन करण्यासाठी हे जग हा एक दृष्टांत आहे. त्या परमेश्वराची सर्व माणसांनी उपासना केली पाहिजे.
०५ युञ्जन्ति ब्रध्नमरुषम्
विश्वास-प्रस्तुतिः ...{Loading}...
यु॒ञ्जन्ति॑ ब्र॒ध्नम॑रु॒षं चर॑न्तं॒ परि॑ त॒स्थुषः॑। रोच॑न्ते रोच॒ना दि॒वि ॥५ ॥
मूलम् ...{Loading}...
यु॒ञ्जन्ति॑ ब्र॒ध्नम॑रु॒षं चर॑न्तं॒ परि॑ त॒स्थुषः॑। रोच॑न्ते रोच॒ना दि॒वि ॥५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यु॒ञ्जन्ति॑। ब्र॒ध्नम्। अ॒रु॒षम्। चर॑न्तरम्। परि॑। त॒स्थुषः॑। रोच॑न्ते। रो॒च॒नाः। दि॒वि। ५।
महीधरः
म० ‘युनक्त्येनं युञ्जन्ति ब्रध्नमिति’ (का० २० । ५ । ११)। अश्वं रथे युनक्ति । मधुच्छन्दोदृष्टा आदित्यदेवत्या गायत्री । तस्थुषः । विभक्तेर्व्यत्ययः । तस्थिवांसः कर्मार्थं स्थिता ऋत्विजः ब्रध्नमादित्यं युञ्जन्ति रथे योजयन्ति । अश्व आदित्यत्वेन स्तूयते । ‘असौ वा आदित्यो ब्रध्नोऽरुषोऽमुमेवास्या आदित्यं युनक्ति स्वर्गस्य लोकस्य समष्ट्यै (१३ । २ ६।१) इति श्रुतेः । किंभूतं ब्रध्नम् । अरुषं रोषति क्रुध्यति रुषः ‘इगुपध-’ (पा० ३ । १ । १३५) इति कः । न रुषः अरुषः तं क्रोधरहितम् । परिचरन्तं वैदिककर्मसिद्ध्यर्थं सर्वत्र गच्छन्तम् । यस्य ब्रध्नस्य रोचना । विभक्तिलोपः । दीप्तयो दिवि आकाशे रोचन्ते प्रकाशन्ते । यद्वा रोचनानि दीप्तानि चन्द्रग्रहतारकादीनि ब्रध्नस्य भासा रोचन्ते ‘तेजसां गोलकः सूर्यो नक्षत्राण्यम्बुगोलकाः’ इति ज्योतिःशास्त्रोक्तेः ॥ ५॥
षष्ठी।
अधिमन्त्रम् (VC)
- परमेश्वरो देवता
- प्रजापतिर्ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर ईश्वर कैसा है, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो पुरुष (परि) सब ओर से (तस्थुषः) स्थावर जीवों को (चरन्तम्) प्राप्त होते हुए बिजुली के समान वर्त्तमान (अरुषम्) प्राणियों के मर्मस्थल जिनमें पीड़ा होने से प्राण का वियोग शीघ्र हो जाता है, उन स्थानों की रक्षा करने के लिये स्थिर होते हुए (ब्रध्नम्) सबसे बड़े सर्वोपरि विराजमान परमात्मा को अपने आत्मा के साथ (युञ्जन्ति) युक्त करते हैं, वे (दिवि) सूर्य में (रोचनाः) किरणों के समान (रोचन्ते) परमात्मा में प्रकाशमान होते हैं ॥५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जैसे प्रत्येक ब्रह्माण्ड में सूर्य प्रकाशमान है, वैसे सर्व जगत् में परमात्मा प्रकाशमान है। जो योगाभ्यास से उस अन्तर्यामी परमेश्वर को अपने आत्मा से युक्त करते हैं, वे सब ओर से प्रकाश को प्राप्त होते हैं ॥५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनरीश्वरः कीदृशोऽस्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये परितस्थुषश्चरन्तं विद्युतमिव वर्त्तमानमरुषं ब्रध्नम्परमात्मानमात्मना सह युञ्जन्ति, ते दिवि सूर्ये रोचनाः किरणा इव रोचन्ते ॥५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यथा प्रतिब्रह्माण्डे सूर्यः प्रकाशते तथा सर्वस्मिन् जगति परमात्मा प्रकाशते। ये योगाभ्यासेनाऽन्तर्यामिणं परमात्मानं स्वमात्मना युञ्जते ते सर्वतः प्रकाशिता जायन्ते ॥५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! प्रत्येक ब्रह्मांडात जसा सूर्य प्रकाशमान असतो. तसे सर्व जगात परमेश्वर प्रकाशमान असतो. जे योगाभ्यासाने त्या अंतर्यामी परमेश्वराला आपल्या आत्म्यात युक्त करतात तेही सर्वस्वी (ज्ञान) प्रकाशयुक्त बनतात.
०६ युञ्जन्त्यस्य काम्या
विश्वास-प्रस्तुतिः ...{Loading}...
यु॒ञ्जन्त्य॑स्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे॑। शोणा॑ धृ॒ष्णू नृ॒वाह॑सा ॥६ ॥
मूलम् ...{Loading}...
यु॒ञ्जन्त्य॑स्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे॑। शोणा॑ धृ॒ष्णू नृ॒वाह॑सा ॥६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यु॒ञ्जन्ति॑। अ॒स्य॒। काम्या॑। हरी॒ऽइति॒ हरी॑। विप॑क्ष॒सेति॒ विऽप॑क्षसा। रथे॑। शोणा॑। धृ॒ष्णूऽइति॑ धृ॒ष्णू। नृ॒वाह॒सेति॑ नृ॒ऽवाह॑सा। ६।
महीधरः
म०. ‘इतरांश्च युञ्जन्त्यस्येति’ (का० २० । ५ । ११) इतरान्त्रीनश्वान्रथे युनक्ति । गायत्री अश्वस्तुतिः । ऋत्विजो हरी अश्वौ रथे युञ्जन्ति । कीदृशौ । अस्याश्वमेधिकाश्वस्य काम्या काम्यौ काम्येते तौ काम्यौ कामसंपादिनौ न त्वेको वोढुं शक्त इति तौ काम्यौ । विपक्षसा ‘पक्ष परिग्रहे’ असुन्प्रत्ययः । पक्षयन्ति शरीरं गृह्णन्ति पक्षसः पक्षाः विविधाः पक्षसः पक्षाः ययोस्तौ विपक्षसौ । यद्वा विरिति शकुनिनाम ‘वेतेर्गतिकर्मणः’ (निरु० २।६) इति यास्कः । वेः पक्षिण इव पक्षसो ययोस्तौ । शोणा शोणौ रक्तौ धृष्णू प्रगल्भौ ‘ञिधृषा प्रागल्भ्ये’ कुप्रत्ययः । नृवाहसा नॄन् वहतस्तौ । वहेरसुन्प्रत्ययः सर्वत्र विभक्तेराकारः । नृणां वोढारौ ॥ ६ ॥
सप्तमी।
अधिमन्त्रम् (VC)
- सूर्यो देवता
- प्रजापतिर्ऋषिः
- विराड्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब किससे ईश्वर की प्राप्ति होने योग्य है, इस विषय को अगले मन्त्र में कहा है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे शिक्षा करनेवाले सज्जन (काम्या) मनोहर (हरी) ले जाने हारे (विपक्षसा) जो कि विविध प्रकारों से भलीभाँति ग्रहण किये हुए (शोणा) लाल-लाल रंग से युक्त (धृष्णू) अतिपुष्ट (नृवाहसा) मनुष्यों को एक देश से दूसरे देश को पहुँचाने हारे दो घोड़ों को (रथे) में (युञ्जन्ति) जोड़ते हैं, वैसे योगीजन (अस्य) इस परमेश्वर के बीच इन्द्रियाँ, अन्तःकरण और प्राणों को युक्त करते हैं ॥६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे मनुष्य अच्छे सिखाये हुए घोड़ों से युक्त रथ से एक स्थान से दूसरे स्थान को शीघ्र प्राप्त होते हैं, वैसे ही विद्या, सज्जनों का सङ्ग और योगाभ्यास से परमात्मा को शीघ्र प्राप्त होते हैं ॥६ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ केनेश्वरः प्राप्तव्य इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा शिक्षकाः काम्या हरी विपक्षसा शोणा धृष्णू नृवाहसा रथे युञ्जन्ति, तथा योगिनोऽस्य परमेश्वरस्य मध्य इन्द्रियाणि मनः प्राणाँश्च युञ्जन्ति ॥६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा मनुष्याः सुशिक्षितैर्हयैर्युक्तेन यानेन स्थानान्तरं सद्यः प्राप्नुवन्ति, तथैव विद्यासत्सङ्गयोगाभ्यासैः परमात्मानं क्षिप्रं प्राप्नुवन्ति ॥६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. माणसे प्रशिक्षित घोडे असलेल्या रथाने एका स्थानाहून दुसऱ्या स्थानी जशी शीघ्र पोचतात, तसेच विद्या, सज्जनांची संगती व योगाभ्यासाने परमेश्वराला त्वरेने प्राप्त करता येते.
०७ यद्वातोऽअपोऽअगनीगन्प्रियामिन्द्रस्य तन्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
यद्वातो॑ऽअ॒पोऽअग॑नीगन्प्रि॒यामिन्द्र॑स्य त॒न्व᳖म्। ए॒तँस्तो॑तर॒नेन॑ प॒था पुन॒रश्व॒माव॑र्त्तयासि नः ॥७ ॥
मूलम् ...{Loading}...
यद्वातो॑ऽअ॒पोऽअग॑नीगन्प्रि॒यामिन्द्र॑स्य त॒न्व᳖म्। ए॒तँस्तो॑तर॒नेन॑ प॒था पुन॒रश्व॒माव॑र्त्तयासि नः ॥७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यत्। वातः॑। अ॒पः। अग॑नीगन्। प्रि॒याम्। इन्द्र॑स्य। त॒न्व᳖म्। ए॒तम्। स्तो॒तः॒। अ॒नेन॑। प॒था। पुनः॑। अश्व॑म्। आ। व॒र्त्त॒या॒सि॒। नः॒। ७।
महीधरः
म० ‘अपो यात्वावगाढेषु वाचयति यद्वात इति’ (का. २० । ५। १४) । चतुर्भिरश्वैर्युक्तं रथमध्वर्युयजमानावारुह्य तडागादिजलं गत्वा जलं प्रविष्टेष्वश्वेषु यजमानं वाचयति । बृहती अश्वस्तुतिः । सिंहो माणवक इति वत् वातः वातसमानवेगोऽश्वः यत् यस्मात् अपो जलानि अगनीगन् इन्द्रस्य प्रियं तन्वं शरीरं चागनीगन् अत्यर्थं गतः ‘दाधर्तिदर्धर्ति-’ | (पा० ७ । ४ । ६५) इत्यादिना यङ्लुगन्तो निपातः । अतो हे स्तोतः अध्वर्यो, एतं नोऽस्माकमश्वमनेन पथा मार्गेण येन गतस्तेन पुनरावर्तयासि आवर्तय आनय । ‘लेटोऽडाटौं’ पुरुषव्यत्ययः ॥ ७ ॥
अष्टमी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- प्रजापतिर्ऋषिः
- निचृद्बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्य किसका सङ्ग करे, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (स्तोतः) स्तुति करनेहारे जन ! जैसे शिल्पी लोग (इन्द्रस्य) बिजुली के (प्रियाम्) अति सुन्दर (तन्वम्) विस्तारयुक्त शरीर को (वातः) पवन के समान पाकर (यत्) जिस कलायन्त्र रूपी घोड़े और (अपः) जलों को (अगनीगन्) प्राप्त होते हैं, वैसे (एतम्) इस (अश्वम्) शीघ्र चलने हारे कलायन्त्र रूप घोड़े को (अनेन) उक्त बिजुली रूप (पथा) मार्ग से आप प्राप्त होते (पुनः) फिर (नः) हम लोगों को (आ, वर्त्तयासि) भलीभाँति वर्त्ताते अर्थात् इधर-उधर ले जाते हो, उन आपका हम लोग सत्कार करें ॥७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे मनुष्यो ! जो तुम को अच्छे मार्ग से चलाते हैं, उनके सङ्ग से तुम लोग पवन और बिजुली आदि की विद्या को प्राप्त होओ ॥७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यः कस्य सङ्गं कुर्य्यादित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्तोतर्यथा शिल्पिजना इन्द्रस्य प्रियां तन्वं वात इव प्राप्य यद्यमपोऽगनीगँस्तथैतमश्वमनेन पथा त्वं प्राप्नोषि पुनर्नोऽस्मानावर्त्तयासि तं भवन्तं वयं सत्कुर्याम ॥७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः ! ये युष्मान् सुमार्गेण गमयन्ति, तत्सङ्गेन यूयं वायुविद्युदादिविद्यां प्राप्नुत ॥७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे माणसांनो ! जे तुम्हाला चांगल्या मार्गाकडे नेतात त्यांच्याकडून तुम्ही लोक वायू व विद्युत इत्यादींची विद्या प्राप्त करा.
०८ वसवस्त्वाञ्जन्तु गायत्रेण
विश्वास-प्रस्तुतिः ...{Loading}...
व॑सवस्त्वाञ्जन्तु गाय॒त्रेण॒ छन्द॑सा रु॒द्रास्त्वा॑ञ्जन्तु॒ त्रैष्टु॑भेन॒ छन्द॑सादि॒त्यास्त्वा॑ञ्जन्तु॒ जाग॑तेन॒ छन्द॑सा। भूर्भुवः॒ स्व᳙र्लाजी३ञ्छाची३न्यव्ये॒ गव्य॑ऽए॒तदन्न॑मत्त देवाऽए॒तदन्न॑मद्धि प्रजापते ॥८ ॥
मूलम् ...{Loading}...
व॑सवस्त्वाञ्जन्तु गाय॒त्रेण॒ छन्द॑सा रु॒द्रास्त्वा॑ञ्जन्तु॒ त्रैष्टु॑भेन॒ छन्द॑सादि॒त्यास्त्वा॑ञ्जन्तु॒ जाग॑तेन॒ छन्द॑सा। भूर्भुवः॒ स्व᳙र्लाजी३ञ्छाची३न्यव्ये॒ गव्य॑ऽए॒तदन्न॑मत्त देवाऽए॒तदन्न॑मद्धि प्रजापते ॥८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वस॑वः। त्वा॒। अ॒ञ्ज॒न्तु॒। गा॒य॒त्रेण॑। छन्द॑सा। रु॒द्राः। त्वा॒। अ॒ञ्ज॒न्तु॒। त्रैष्टु॑भेन। त्रैस्तु॑भे॒नति॒ त्रैऽस्तु॑भेन। छन्द॑सा। आ॒दि॒त्याः। त्वा॒। अ॒ञ्ज॒न्तु॒। जाग॑तेन। छन्द॑सा। भूः। भुवः॑। स्वः॑। लाजी३न्। शाची३न्। यव्ये॑। गव्ये॑। ए॒तत्। अन्न॑म्। अ॒त्त॒। दे॒वाः॒। ए॒तत्। अन्न॑म्। अ॒द्धि॒। प्र॒जा॒प॒त॒ इति॑ प्रजाऽपते। ८।
महीधरः
म०. ‘आयाय विमुक्तमश्वं महिषी वावाता परिवृक्ताज्येनाभ्यञ्जन्ति पूर्वकायमध्यापरकायान्यथादेशं वसवस्त्वेति प्रतिमन्त्रम्’ (का० २।५।१५) । आयाय जलप्रदेशाद्देवयजनमागत्य रथाद्विमुक्तमश्वं महिष्याद्यास्तिस्रः पत्न्यो यथाक्रममश्वस्य पूर्वादिकानभ्यञ्जन्ति घृतेन महिषी पूर्वकायं वसव इति वावाता देहमध्यं रुद्रा इति परिवृक्ता पश्चाद्भागमादित्या इति मन्त्रेणेति सूत्रार्थः । त्रीणि यजूंषि लिङ्गोक्तदेवतानि । हे अश्व, वसवोऽष्टौ देवा गायत्रेण छन्दसा त्वा त्वामञ्जन्तु स्निग्धं कुर्वन्तु । रुद्रा एकादश त्रैष्टुभेन छन्दसा त्वामञ्जन्तु । आदित्या द्वादश जागतेन छन्दसा त्वामञ्जन्तु । ‘अभ्रᳪं᳭श्यमानान्मणीन् सौवर्णानेकशतमेकशतं केसरापुच्छेष्वावयन्ति भूर्भुवः स्वरिति प्रतिमहाव्याहृति’ (का० २० ।५।१६)। महिष्याद्यास्तिस्रः पत्न्यः एकाधिकं शतं सुवर्णमयमणीन् यथा न पतन्ति तथा केसरयोः शिरःस्कन्धस्थयोः पुच्छे चाबध्नन्ति महिष्यश्वशिरोरोमसु भूरिति एकशतं मणीन्प्रवयति वावाता ग्रीवारोमसु भुव इति परिवृक्ता पुच्छरोमसु स्वरिति वयतीति सूत्रार्थः । भूर्भुवः स्वः व्याख्याताः । ‘अश्वाय रात्रिहुतशेषं प्रयच्छति लाजीञ्छाचीनिति’ (का० २० । ५। १८)। सक्तुधानालाजारूपं रात्रिहुतशेषमश्वाय ददाति भक्ष्याय । अश्वो नात्ति चेत् जले प्रक्षेपः । लाजीन् अश्वदेवत्यं यजुः । लाजानां समूहो लाजीनित्युक्तः सक्तूनां समूहः । शाचीन् यश्चायं यव्ये यव्यः यवसमूहः गव्ये गव्यः गोर्विकारसमूहो दध्यादिः हे देवाः, एतदन्नमत्त भक्षयत । हे प्रजापते, एतदन्नमद्धि भक्षय । येभ्योऽश्वः प्रोक्षितस्तद्रूपोऽश्वः संबोध्यते ॥ ८॥
नवमी।
अधिमन्त्रम् (VC)
- वाय्वादयो देवताः
- प्रजापतिर्ऋषिः
- निचृदत्यष्टिः
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर विद्वान् लोग क्या करते हैं, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (प्रजापते) प्रजाजनों को पालने हारे राजन् ! (वसवः) प्रथम कक्षा के विद्वान् (गायत्रेण) गायत्री छन्द से कहने योग्य (छन्दसा) स्वच्छन्द अर्थ से जिन (त्वा) आपको (अञ्जन्तु) चाहें (रुद्राः) मध्यम कक्षा के विद्वान् जन (त्रैष्टुभेन) त्रिष्टुप् छन्द से प्रकाश किये हुए (छन्दसा) स्वच्छन्द अर्थ से जिन (त्वा) आपको (अञ्जन्तु) चाहें वा (आदित्याः) उत्तम कक्षा के विद्वान् जन (जागतेन) जगती छन्द से प्रकाशित किये हुए (छन्दसा) स्वच्छन्द अर्थ से जिन (त्वा) आपको (अञ्जन्तु) चाहें सो आप (एतत्) इस (अन्नम्) अन्न को (अद्धि) खाइये। हे (देवाः) विद्वानो ! तुम (यव्ये) यवों के खेत में उत्पन्न (गव्ये) गौ के दूध-दही आदि उत्तम पदार्थ में मिले हुए (एतम्) इस (अन्नम्) अन्न को (अत्त) खाओ तथा (लाजीन्) अपनी-अपनी कक्षा में चलते हुए (शाचीन्) प्रगट (भूः) इस प्रत्यक्ष लोक (भुवः) अन्तरिक्षस्थ लोक और (स्वः) प्रकाश में स्थिर सूर्य्यादि लोकों को प्राप्त होओ ॥८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो विद्वान् जन अङ्गों और उपाङ्गों से युक्त चारों वेदों को मनुष्यों को पढ़ाते हैं, वे धन्यवाद के योग्य होते हैं ॥८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्विद्वांसः किं कुर्वन्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे प्रजापते ! वसवो गायत्रेण छन्दसा यं त्वाऽञ्जन्तु रुद्रास्त्रैष्टुभेन छन्दसा यं त्वाऽञ्जन्त्वादित्या जागतेन छन्दसा यं त्वाऽञ्जन्तु स त्वमेतदन्नमद्धि। हे देवाः ! यूयं यव्ये गव्य एतदन्नमत्त लाजीन् शाचीन् भूर्भुवः स्वर्लोकान् प्राप्नुत च ॥८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये विद्वांसः साङ्गोपाङ्गान् वेदान् मनुष्यानध्यापयन्ति, ते धन्यवादार्हा भवन्ति ॥८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे विद्वान लोक माणसांना वेदांग व उपांगासह चार वेद शिकवितात ते धन्यवादास पात्र असतात.
०९ कः स्विदेकाकी
विश्वास-प्रस्तुतिः ...{Loading}...
कः स्वि॑देका॒की चर॑ति॒ कऽउ॑ स्विज्जायते॒ पुनः॑। किँस्वि॑द्धि॒मस्य॑ भेष॒जं किम्वा॒वप॑नं म॒हत्॥९ ॥
मूलम् ...{Loading}...
कः स्वि॑देका॒की चर॑ति॒ कऽउ॑ स्विज्जायते॒ पुनः॑। किँस्वि॑द्धि॒मस्य॑ भेष॒जं किम्वा॒वप॑नं म॒हत्॥९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
कः। स्वि॒त्। ए॒का॒की। च॒र॒ति॒। कः। ऊँ॒ऽइत्यूँ॑। स्वि॒त्। जा॒य॒ते॒। पुन॒रिति॒ पुनः॑। किम्। स्वित्। हि॒मस्य॑। भे॒ष॒जम्। किम्। ऊँ॒ऽइत्यूँ॑। आ॒वप॑न॒मित्या॒ऽवप॑नम्। म॒हत्। ९।
महीधरः
म० ‘ब्रह्मा पृच्छति होतारं यूपमभितः कः स्विदेकाकीति’ (का० २० । ५ । २०)। यूपस्य दक्षिणत उदङ्मुखो ब्रह्मा यूपोत्तरतो दक्षिणामुखं होतारं पृच्छति । ब्रह्मोद्ये कर्मणि होतुर्ब्रह्मणश्च प्रश्नप्रतिप्रश्नभूताश्चतस्रोऽनुष्टुभः। स्विदिति वितर्के। एकः असहायः कः चरति गच्छति । उ पादपूरणः । कःस्वित् विनष्टः सन् पुनर्जायते उत्पद्यते । किंस्वित् हिमस्य शीतस्य भेषजमौषधम् । किंस्वित् महत् आवपनम् आ समन्तादुप्यते यस्मिंस्तद्वपनस्थानम् ॥ ९॥
दशमी।
अधिमन्त्रम् (VC)
- जिज्ञासुर्देवता
- प्रजापतिर्ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब विद्वान् जनों को क्या-क्या पूछना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वानो ! हम लोग तुम को पूछते हैं कि (कः स्वित्) कौन (एकाकी) एकाएकी अकेला (चरति) विचरता है? (उ) और (कः, स्वित्) कौन (पुनः) बार-बार (जायते) प्रगट होता है? (किम्, स्वित्) क्या (हिमस्य) शीत का (भेषजम्) औषध और (किम्) क्या (उ) तो (महत्) बड़ा (आवपनम्) बीज बोने का स्थान है? ॥९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इन उक्त प्रश्नों के उत्तर अगले मन्त्र में कहे हुए हैं, यह जानना चाहिये। मनुष्यों को योग्य है कि सदा इसी प्रकार के प्रश्न किया करें ॥९ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ विद्वांसः किं किं प्रष्टव्या इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वांसो वयं युष्मान् कः स्विदेकाकी चरति, क उ स्वित्पुनः पुनर्जायते किं स्विद्धिमस्य भेषजं किमु महदावपनमस्तीति पृच्छामः ॥९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - एतेषां प्रश्नानामुत्तरस्मिन् मन्त्र उत्तराणि कथितानीति वेद्यम्। मनुष्या ईदृशानेव प्रश्नान् कुर्युः ॥९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - कोण एकटा फिरतो? कोण वारंवार प्रकाशित होतो? सर्दीचे औषध कोणते? बीजवपनाचे स्थन कोणते? या प्रश्नांची उत्तरे पुढील मंत्रात दिलेली आहेत, हे जाणावे. माणसांनी अशा प्रकारचे प्रश्न नेहमी विचारावेत.
१० सूर्यऽएकाकी चरति
विश्वास-प्रस्तुतिः ...{Loading}...
सूर्य॑ऽएका॒की च॑रति च॒न्द्रमा॑ जायते॒ पुनः॑। अ॒ग्निर्हि॒मस्य॑ भेष॒जं भूमि॑रा॒वप॑नं म॒हत्॥१० ॥
मूलम् ...{Loading}...
सूर्य॑ऽएका॒की च॑रति च॒न्द्रमा॑ जायते॒ पुनः॑। अ॒ग्निर्हि॒मस्य॑ भेष॒जं भूमि॑रा॒वप॑नं म॒हत्॥१० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सूर्यः॑। ए॒का॒की। च॒र॒ति॒। च॒न्द्रमाः॑। जा॒य॒ते॒। पुन॒रिति॒ऽपुनः॑। अ॒ग्निः। हि॒मस्य॑। भे॒ष॒जम्। भूमिः॑। आ॒वप॑न॒मित्या॒वप॑नम्। म॒हत्। १०।
महीधरः
म० ‘सूर्य इत्याचष्टे होता ब्रह्माणं प्रति वक्ति’ (का २०।५।२१)। सूर्योऽसहायो गच्छति । अनेन होतृब्रह्माणौ यजमाने ब्रह्मवर्चसं धत्तः । ‘असौ वा आदित्य एकाकी चरत्येष ब्रह्मवर्चसं ब्रह्मवर्चसमेवास्मिंस्तद्धत्ते’ (१३ । २ । ६ ।१०) इति श्रुतेः । चन्द्रमाः क्षीणः पुनर्जायते वर्धते अनेनायुर्धत्तः । ‘चन्द्रमा वै जायते पुनरायुरेवास्मिंस्तद्धत्ते’ (१३।२। ६। ११) इति श्रुतेः । हिमस्य भेषजमग्निः अनेन तेजो धत्तः । ‘अग्निर्वै हिमस्य भेषजं तेज एवास्मिंस्तद्धत्ते’ (१३।२।६।१२) इति श्रुतेः । भूमिरयं लोको महदावपनम् अनेनास्मिन् प्रतिष्ठां धत्तः । ‘अयं वै लोक आवपनं महदस्मिन्नेव लोके प्रतितिष्ठति’ (१३ । २ । ६ । १३) इति श्रुतेः ॥ १० ॥
एकादशी।
अधिमन्त्रम् (VC)
- सूर्यो देवता
- प्रजापतिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब पिछले मन्त्र में कहे प्रश्नों के उत्तर को कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे जानने की इच्छा करनेवाले मनुष्यो ! (सूर्य्यः) सूर्य्य (एकाकी) बिना सहाय अपनी कक्षा में (चरति) चलता है, (पुनः) फिर इसी सूर्य के प्रकाश से (चन्द्रमाः) चन्द्रलोक (जायते) प्रकाशित होता है। (अग्निः) आग (हिमस्य) शीत का (भेषजम्) औषध है। (भूमिः) पृथिवी (महत्) बड़ा (आवपनम्) बोने का स्थान है, इसको तुम लोग जानो ॥१० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस संसार में सूर्यलोक अपनी आकर्षण शक्ति से अपनी ही कक्षा में वर्त्तमान है और उसी के प्रकाश से चन्द्र आदि लोक प्रकाशित होते हैं। अग्नि के समान शीत के हटाने को कोई वस्तु और पृथिवी के तुल्य बड़ा पदार्थों के बोने का स्थान नहीं है, यह मनुष्यों को जानना चाहिये। १० ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ पूर्वोक्तप्रश्नानामुत्तराण्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे जिज्ञासवो मनुष्याः ! सूर्य्य एकाकी चरति पुनश्चन्द्रमाः प्रकाशितो जायते। अग्निर्हिमस्य भेषजं भूमिर्महदावपनमस्तीति यूयं वित्त ॥१० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अस्मिन् संसारे सूर्य्यः स्वाकर्षणेन स्वस्यैव कक्षायां वर्त्तते, तस्यैव प्रकाशेन चन्द्रादयो लोकाः प्रकाशिता भवन्ति। अग्निना तुल्यं शीतनिवारकं वस्तु, पृथिव्या तुल्यं महत्क्षेत्रं किमपि नास्तीति मनुष्यैर्वेदितव्यम् ॥१० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या जगात सूर्य आपल्या आकर्षणशक्तीने एकटा आपल्या कक्षेत फिरतो. त्याच्या प्रकाशानेच चंद्र इत्यादी प्रकाशित होतात. सर्दी कमी करण्यासाठी अग्नीसारखा दुसरा पदार्थ नाही व बी पेरण्यासाठी पृथ्वीहून मोठी वस्तू नाही, हे माणसांनी जाणावे.
११ का स्विदासीत्पूर्वचित्तिः
विश्वास-प्रस्तुतिः ...{Loading}...
का स्वि॑दासीत्पू॒र्वचि॑त्तिः॒ किँस्वि॑दासीद् बृ॒हद्वयः॑। का स्वि॑दासीत्पिलिप्पि॒ला का स्वि॑दासीत्पिशङ्गि॒ला ॥११ ॥
मूलम् ...{Loading}...
का स्वि॑दासीत्पू॒र्वचि॑त्तिः॒ किँस्वि॑दासीद् बृ॒हद्वयः॑। का स्वि॑दासीत्पिलिप्पि॒ला का स्वि॑दासीत्पिशङ्गि॒ला ॥११ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
का। स्वि॒त्। आ॒सी॒त्। पू॒र्वचि॑त्ति॒रिति॑ पू॒र्वऽचि॑त्तिः॒। किम्। स्वि॒त्। आ॒सी॒त्। बृ॒हत्। वयः॑। का। स्वि॒त्। आ॒सी॒त्। पि॒लि॒प्पि॒ला। का। स्वि॒त्। आ॒सी॒त्। पि॒श॒ङ्गि॒ला। ११।
महीधरः
म० ‘होता ब्रह्माणं का स्विदासीदिति’ (का० २० ।५। २२) होता ब्रह्माणं पृच्छति । पूर्वं चिन्त्यत इति पूर्वचित्तिः सर्वेषां प्रथमस्मृतिविषया का स्वित् बृहत् महत् । वयः पक्षी किं स्वित् आसीत् । पिलिप्पिला का स्वित् पिशङ्गिला च का स्विदासीत् ॥ ११ ॥
द्वादशी।
अधिमन्त्रम् (VC)
- जिज्ञासुर्देवता
- प्रजापतिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर प्रश्नों को अगले मन्त्र में कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वानो ! हम लोग तुम्हारे प्रति पूछते हैं कि (का, स्वित्) कौन (पूर्वचित्तिः) स्मरण का प्रथम पहिला विषय (आसीत्) हुआ है, (किम्, स्वित्) कौन (बृहत्) बड़ा (वयः) उड़ने हारा पक्षी (आसीत्) है (का, स्वित्) कौन (पिलिप्पिला) पिलपिली चिकनी वस्तु (आसीत्) है तथा (का, स्वित्) कौन (पिशङ्गिला) प्रकाश रूप को निगल जानेवाली वस्तु (आसीत्) है ॥११ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इन प्रश्नों के उत्तर अगले मन्त्र में हैं। जो विद्वानों के प्रति न पूछें तो आप विद्वान् भी न हों ॥११ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः प्रश्नानाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वांसः ! वयं युष्मान् प्रति का स्वित्पूर्वचित्तिरासीत्, किंस्विद् बृहद्वय आसीत्, का स्वित्पिलिप्पिलाऽऽसीत्, का स्वित्पिशङ्गिलाऽऽसीदिति पृच्छामः ॥११ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - एतेषामुत्तराण्युत्तरत्र मन्त्रे सन्ति। यदि विदुषः प्रति प्रश्नान्न कुर्युस्तर्हि विद्वांसोऽपि न भवेयुः ॥११ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - प्रथम स्मरण कोणाचे करावे? उडणारा मोठा पक्षी कोण आहे? कोणती वस्तू मऊ आहे? कोणती वस्तू प्रकाशाला गिळते?
सविता जोशी ← दयानन्दः (म) - पादटिप्पनी
टिप्पणी: या प्रश्नांची उत्तरे पुढील मंत्रात आहेत. विद्वानांना (प्रश्न) विचारले नाही तर माणसे स्वतःही विद्वान बनणार नाहीत.
१२ द्यौरासीत्पूर्वचित्तिरश्वऽआसीद् बृहद्वयः
विश्वास-प्रस्तुतिः ...{Loading}...
द्यौरा॑सीत्पू॒र्वचि॑त्ति॒रश्व॑ऽआसीद् बृ॒हद्वयः॑। अवि॑रासीत्पिलिप्पि॒ला रात्रि॑रासीत्पिशङ्गि॒ला ॥१२ ॥
मूलम् ...{Loading}...
द्यौरा॑सीत्पू॒र्वचि॑त्ति॒रश्व॑ऽआसीद् बृ॒हद्वयः॑। अवि॑रासीत्पिलिप्पि॒ला रात्रि॑रासीत्पिशङ्गि॒ला ॥१२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
द्यौः। आ॒सी॒त्। पू॒र्वचि॑त्ति॒रिति॑ पू॒र्वऽचि॑त्तिः। अश्वः॑। आ॒सी॒त्। बृ॒हत्। वयः॑। अविः॑। आ॒सी॒त्। पि॒लि॒प्पि॒ला। रात्रिः॑। आ॒सी॒त्। पि॒श॒ङ्गि॒ला। १२।
महीधरः
म० ‘द्यौरिति प्रत्याह’ ( का० २० । ५। २३)। ब्रह्मा होतारं प्रति वक्ति । पूर्वचित्तिः पूर्वस्मरणविषया द्यौर्वृष्टिरासीत् । द्योशब्देन वृष्टिर्लक्ष्यते सर्वप्राणिनामिष्टत्वात् । तथाच श्रुतिः ‘द्यौः वृष्टिः पूर्वचित्तिर्दिवमेव वृष्टिमवरुन्द्धे’ (१३ । २॥ १४) इति । अश्वः बृहद्वयः आसीत् । अश्वशब्देनाश्वमेधो लक्ष्यते । अश्वमेधेन वयसेव स्वर्गमारोहतीत्यश्वमेधो वयः। अवतीत्यविः पृथिवी पिलिप्पिलासीत् । वृष्ट्या भूः पिलिप्पिला चिक्कणा भवति । ‘श्रीवै पिलिप्पिला’ (१३ । २ । ६।१६) इति श्रुत्या श्रयन्त एनामिति श्रीशब्देन भूरेव । रात्रिः पिशङ्गिला आसीत् । पिशमिति रूपनाम पिशं रूपं गिलतीति पिशङ्गिला रात्रौ सर्वाणि रूपाण्यन्तर्भवन्ति ॥ १२ ॥
त्रयोदशी।
अधिमन्त्रम् (VC)
- विद्युदादयो देवताः
- प्रजापतिर्ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब पिछले प्रश्नों के उत्तरों को कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे जानने की इच्छा करनेवालो ! (पूर्वचित्तिः) प्रथम स्मृति का विषय (द्यौः) दिव्यगुण देने हारी वर्षा (आसीत्) है, (बृहत्) बड़े (वयः) उड़ने हारे (अश्वः) मार्गों को व्याप्त होनेवाले पक्षी के तुल्य अग्नि (आसीत्) है, (पिलिप्पिला) वर्षा से पिलिपिली चिकनी शोभायमान (अविः) अन्नादि से रक्षा आदि उत्तम गुण प्रगट करनेवाली पृथिवी (आसीत्) है और (पिशङ्गिला) प्रकाशरूप को निगलने अर्थात् अन्धकार करने हारी (रात्रिः) रात (आसीत्) है, यह तुम जानो ॥१२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हवन और सूर्य रूपादि अग्नि के ताप से सब गुणों से युक्त अन्नादि से संसार की स्थिति करनेवाली वर्षा होती है। उस वर्षा से सब ओषधि आदि उत्तम पदार्थ युक्त पृथिवी होती और सूर्य्य रूप अग्नि से ही प्राणियों के विश्राम के लिये रात्रि होती है ॥१२ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ प्राक्प्रश्नोत्तराण्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे जिज्ञासवः ! पूर्वचित्तिर्द्यौरासीद्, बृहद्वयोऽश्व आसीत्, पिलिप्पिलाऽविरासीत्, पिशङ्गिला रात्रिरासीदिति यूयं बुध्यध्वम् ॥१२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हवनसूर्यरूपाद्यग्नितापेन सर्वगुणसंपन्नाऽन्नादिना संसारस्थितिनिमित्ता वृष्टिर्जायते, ततः सर्वरत्नाढ्या भूर्भवति। सूर्याग्निनिमित्तेनैव प्राणिनां शयनाय रात्रिर्जायते ॥१२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हवन व सूर्यरूपी अग्नीच्या योगे उत्तम अन्न उत्पन्न करणारी व लक्षात ठेवण्याजोगी वस्तू म्हणजे वृष्टी होय. उडणाऱ्या पक्षाप्रमाणे अग्नी हा सर्वत्र उपस्थित असतो. पर्जन्यामुळेच पृथ्वीवर उत्तम पदार्थ निर्माण होतात, ती पृथ्वी नरम किंवा मऊ असते व सूर्यरूपी अग्नीला गिळण्यासाठी किंवा प्राण्यांना विश्रांतीसाठी रात्र निर्माण होते.
१३ वायुष्ट्वा
विश्वास-प्रस्तुतिः ...{Loading}...
वा॒युष्ट्वा॑ पच॒तैर॑व॒त्वसि॑तग्रीव॒श्छागै॑र्न्य॒ग्रोध॑श्चम॒सैः श॑ल्म॒लिर्वृद्ध्या॑। ए॒ष स्य रा॒थ्यो वृषा॑ प॒ड्भिश्च॒तुर्भि॒रेद॑गन्ब्र॒ह्मा कृ॑ष्णश्च नोऽवतु॒ नमो॒ऽग्नये॑ ॥१३ ॥
मूलम् ...{Loading}...
वा॒युष्ट्वा॑ पच॒तैर॑व॒त्वसि॑तग्रीव॒श्छागै॑र्न्य॒ग्रोध॑श्चम॒सैः श॑ल्म॒लिर्वृद्ध्या॑। ए॒ष स्य रा॒थ्यो वृषा॑ प॒ड्भिश्च॒तुर्भि॒रेद॑गन्ब्र॒ह्मा कृ॑ष्णश्च नोऽवतु॒ नमो॒ऽग्नये॑ ॥१३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वा॒युः। त्वा॒। प॒च॒तैः। अ॒व॒तु॒। असि॑तग्रीव॒ इत्यसि॑तऽग्रीवः। छागैः॑। न्य॒ग्रोधः॑। च॒म॒सैः। श॒ल्म॒लिः। वृद्ध्या॑। ए॒षः। स्यः। रा॒थ्यः। वृषा॑। प॒ड्भिरिति॑ प॒ड्ऽभिः। च॒तुर्भि॒रिति॑ च॒तुःभिः॑। आ। इत्। अ॒ग॒न्। ब्र॒ह्मा। अकृ॑ष्णः। च॒। नः॒। अ॒व॒तु॒। नमः॑। अ॒ग्नये॑। १३।
महीधरः
म० ‘अश्वप्रोक्षणमद्भ्यस्त्वा वायुष्ट्वेति’ (का० २० । ६ । ७)। अद्भ्यस्त्वोषधीभ्य इति प्राकृतमन्त्रेण ( ६ । ९) वायुष्ट्वेत्यारभ्य देवः सविता दधात्वित्यन्तेन (१६) कण्डिकाचतुष्टयेनाश्वमेधिकेन चाश्वप्रोक्षणं करोतीति सूत्रार्थः । चत्वारि यजूंष्यश्वदेवत्यानि । हे अश्व, वायुः पचतैः पाकैः त्वा त्वामवतु । वायुसंयोगादग्निः शीघ्रं पचति । असिता ग्रीवा यस्य धूमेनेत्यसितग्रीवोऽग्निः छागैः त्वामवतु । ‘अग्निर्वा असितग्रीवः’ (१३ । २ । ७।२) इति श्रुतेः । ‘कृष्णग्रीव आग्नेयो रराटे’ ( २४ । १) इति वक्ष्यमाणत्वादश्वाङ्गेषु कृष्णग्रीवादयः पञ्चदश पर्यङ्ग्याः पशवः सन्ति तैरग्निरवत्वित्यर्थः । न्यग्रोधः चमसैः सोमपात्रैः त्वामवतु । शल्मलिः वृक्षविशेषो वृद्ध्या त्वामवतु ‘शल्मलिर्वनस्पतीनां वर्षिष्ठं वर्धते’ (१३ । २ । ७।४) इति श्रुतेः । किंच स्यः स एष वृषा सेक्ताश्वः राथ्यः रथे साधुः पद्भिः पादैः चतुर्भिरेव आ अगन् आगतः आ इदगन्निति पदच्छेदः । अश्वस्त्रिभिः पादैस्तिष्ठति चतुर्भिश्च गच्छतीति चतुर्ग्रहणम् । तथाच श्रुतिः ‘तस्मादश्वस्त्रिभिस्तिष्ठत्यथ युक्तः सर्वैः पद्भिः सममायुत’ (१३ । २ । ७ । ५) इति । पदशब्दस्य डान्तत्वं छान्दसम् । किंच अकृष्णः नास्ति कृष्णं लाञ्छनं यस्मिन् स ब्रह्मा चन्द्रो नोऽस्मानवतु । ‘चन्द्रमा वै ब्रह्मा कृष्णश्चन्द्रमस एनं परिददाति’ (१३ । २ । ७ । ७) इति श्रुतेः । नोऽस्माकमश्वमवत्विति वा । अग्नये नमः नमस्कारोऽस्तु विघ्नाभावायाग्नेर्नतिः क्रियते ॥ १३ ॥
चतुर्दशी।
अधिमन्त्रम् (VC)
- ब्रह्मादयो देवताः
- प्रजापतिर्ऋषिः
- भुरिगतिजगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
अब विद्वानों को मनुष्य कहाँ युक्त करने चाहियें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्यार्थी जन ! (पचतैः) अच्छे प्रकार पाकों से (वायुः) स्थूल कार्यरूप पवन (छागैः) काटने की क्रियाओं से (असितग्रीवः) काली चोटियोंवाला अग्नि और (चमसैः) मेघों से (न्यग्रोधः) वट वृक्ष (वृद्ध्या) उन्नति के साथ (शल्मलिः) सेंबर वृक्ष (त्वा) तुझ को (अवतु) पाले, जो (एषः) यह (राथ्यः) सड़कों में चलने में कुशल और (वृषा) सुखों की वर्षा करने हारा है (स्यः) वह (चतुर्भिः, पड्भिः, इत्) जिन से गमन करता है, उन चारों पगों से तुझ को (आऽगन्) प्राप्त हो (च) तथा जो (अकृष्णः) अविद्यारूप अन्धकार से पृथक् (ब्रह्मा) चार वेदों को जानने हारा उत्तम विद्वान् (नः) हम लोगों को सब गुणों में (अवतु) पहुँचावे। उस (अग्नये) विद्या से प्रकाशमान चारों वेदों को पढ़े हुए विद्वान् के लिये (नमः) अन्न देना चाहिये ॥१३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! पवन, श्वास आदि के चलाने, आग अन्न आदि के पकाने, सूर्यमण्डल, वर्षा, वृक्ष फल आदि, घोड़े आदि गमन और विद्वान् शिक्षा से तुम्हारी रक्षा करते हैं, उनको तुम जानो और विद्वानों का सत्कार करो ॥१३ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ विद्वद्भिर्मनुष्याः क्व योजनीया इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्यार्थिन् ! पचतैर्वायुश्छागैरसितग्रीवश्चमसैर्न्यग्रोधो वृद्ध्या शल्मलिस्त्वावतु। य एष राथ्यो वृषा स्य चतुर्भिः पड्भिरित्त्वाऽगन् योऽकृष्णो ब्रह्मा च नोऽस्मानवतु, तस्मा अग्नये विद्यया प्रकाशमानाय नमो देयम् ॥१३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! वायुः प्राणेनाग्निः पाचनेन सूर्यो वृष्ट्या वृक्षाः फलादिभिरश्वादयो गत्या विद्वांसः शिक्षया युष्मान् रक्षन्ति तान् यूयं विजानीत विदुषस्सत्कुरुत च ॥१३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! वायू श्वासाने, अग्नी अन्न शिजविण्याने, सूर्यमंडळ वृष्टीने, वृक्षे, फळे इत्यादीने व घोडे येण्या-जाण्याने, तसेच विद्वान शिक्षणाने तुमचे रक्षण करतात. त्यांना तुम्ही जाणा व विद्वानांचा सत्कार करा.
१४ संशितो रश्मिना
विश्वास-प्रस्तुतिः ...{Loading}...
सँशि॑तो र॒श्मिना॒ रथः॒ सँशि॑तो र॒श्मिना॒ हयः॑। सँशि॑तो अ॒प्स्व᳖प्सु॒जा ब्र॒ह्मा सोम॑पुरोगवः ॥१४ ॥
मूलम् ...{Loading}...
सँशि॑तो र॒श्मिना॒ रथः॒ सँशि॑तो र॒श्मिना॒ हयः॑। सँशि॑तो अ॒प्स्व᳖प्सु॒जा ब्र॒ह्मा सोम॑पुरोगवः ॥१४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सँशि॑त॒ इति॒ सम्ऽशि॑तः। र॒श्मिना॑। रथः॑। सँशि॑त॒ इति॒ सम्ऽशि॑तः। र॒श्मिना॑। हयः॑। सँशि॑त॒ इति॒ सम्ऽशि॑तः। अ॒प्स्वित्य॒प्ऽसु। अ॒प्सु॒जा इत्य॑प्सु॒ऽजा। ब्र॒ह्मा। सोम॑ऽपुरोगवः। १४।
महीधरः
म० अश्वदेवत्यानुष्टुप् । संपूर्वः श्यतिः शोभनार्थः । रथः रश्मिना कृत्वा संशितः दर्शनीयो भवति ‘तस्माद्रथः पर्युतो ।’ दर्शनीयतमो भवति’ (१३ । २ । ७ । ८) इति श्रुतेः । हयोऽश्वो रश्मिना संशितः शोभितः । अप्सु जायते अप्सुजा अश्वः अप्सु अद्भिः संशितः । विभक्तिव्यत्ययः । ‘अप्सुयोनिर्वा अश्वः’ (१३ । २ । ७ । ९) इति श्रुतेः । कीदृशः ब्रह्मा । परिवृढः सोमपुरोगमः सोमः पुरोगमोऽग्रगामी यस्य सः सोमं पुरस्कृत्य स्वर्गं लोकं गच्छति । ‘सोमपुरोगममेवैनᳪं᳭ स्वर्गं लोकं गमयति’ (१३ । २ । ७ । १०) इति श्रुतेः ॥१४॥
पञ्चदशी।
अधिमन्त्रम् (VC)
- ब्रह्मा देवता
- प्रजापतिर्ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर विद्वान् लोग क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो मनुष्यों से (रश्मिना) किरणसमूह से (रथः) आनन्द को सिद्ध करनेवाला यान (संशितः) अच्छे प्रकार सूक्ष्म कारीगरी से बनाया (रश्मिना) लगाम की रस्सी आदि से (हयः) घोड़ा (संशितः) भलीभाँति चलने में तीक्ष्ण अर्थात् उत्तम क्रिया तथा (अप्सु) प्राणों में (अप्सुजाः) जो प्राणवायु रूप से संचार करनेवाला पवन वा वाष्प (सोमपुरोगवः) ओषधियों का बोध और ऐश्वर्य्य का योग जिससे पहिले प्राप्त होनेवाला है, वह (ब्रह्मा) बड़ा योगी विद्वान् (संशितः) अतिप्रशंसित किया जाये तो क्या-क्या सुख न मिले ॥१४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य पदार्थों के विशेष ज्ञान से विद्वान् होते हैं, वे औरों को विद्वान् करके प्रशंसा को पावें ॥१४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्विद्वांसः किं कुर्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यदि मनुष्यै रश्मिना रथः संशितो रश्मिना हयः संशितोऽप्स्वप्सुजाः सोमपुरोगवो ब्रह्मा संशितः क्रियेत तर्हि किं किं सुखं न लभ्येत ॥१४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्याः पदार्थविज्ञानेन विद्वांसो भवन्ति, तेऽन्यान् कारयित्वा प्रशंसां प्राप्नुवन्तु ॥१४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे पदार्थांच्या विशेष ज्ञानाने विद्वान होतात ती इतरांना विद्वान करतात व त्यांची प्रशंसा होते.
१५ स्वयं वाजिँस्तन्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
स्व॒यं वा॑जिँस्त॒न्वं᳖ कल्पयस्व स्व॒यं य॑जस्व स्व॒यं जु॑षस्व। म॒हि॒मा ते॒ऽन्येन॒ न स॒न्नशे॑ ॥१५ ॥
मूलम् ...{Loading}...
स्व॒यं वा॑जिँस्त॒न्वं᳖ कल्पयस्व स्व॒यं य॑जस्व स्व॒यं जु॑षस्व। म॒हि॒मा ते॒ऽन्येन॒ न स॒न्नशे॑ ॥१५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स्व॒यम्। वा॒जि॒न्। त॒न्व᳖म्। क॒ल्प॒य॒स्व॒। स्व॒यम्। य॒ज॒स्व॒। स्व॒यम्। जु॒ष॒स्व॒। म॒हि॒मा। ते॒। अ॒न्येन॑। न। स॒न्नश॒ इति॑ स॒म्ऽनशे॑। १५।
महीधरः
म० आश्वी विराट् । हे वाजिन् , स्वयं तन्वं शरीरं त्वं कल्पयस्व ‘स्वयं रूपं कुरुष्व यादृशमिच्छसि’ (१३ । २ । ७ । ११) इति श्रुतेः । स्वाराज्यं तवास्तीति भावः । अतः स्वयं यजस्व न तवान्यो यष्टास्ति । स्वयं जुषस्व इष्टस्थानं सेवस्व । यतस्ते तव महिमा अन्येन न संनश्यते महिम्ना न संनशे न व्याप्यते । नशिरदर्शनार्थोऽत्र तु व्याप्त्यर्थः । यलोपे नशे रूपम् ॥ १५ ॥
षोडशी।
अधिमन्त्रम् (VC)
- विद्वान् देवता
- प्रजापतिर्ऋषिः
- विराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब पढ़ने वा उत्तम विद्या-बोध चाहनेवाले कैसे हों, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (वाजिन्) बोध चाहनेवाले जन ! तू (स्वयम्) आप (तन्वम्) अपने शरीर को (कल्पयस्व) समर्थ कर (स्वयम्) आप अच्छे विद्वानों को (यजस्व) मिल और (स्वयम्) आप उनकी (जुषस्व) सेवा कर, जिससे (ते) तेरी (महिमा) बड़ाई तेरा प्रताप (अन्येन) और के साथ (न) मत (सन्नशे) नष्ट हो ॥१५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे अग्नि आप से आप प्रकाशित होता, आप मिलता तथा आप सेवा को प्राप्त है, वैसे जो बोध चाहनेवाले जन आप पुरुषार्थयुक्त होते हैं, उनका प्रताप, बड़ाई कभी नहीं नष्ट होती ॥१५ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ जिज्ञासवः कीदृशा भवेयुरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे वाजिंस्त्वं तन्वं कल्पयस्व स्वयं विदुषो यजस्व स्वयं जुषस्व च। यतस्ते महिमाऽन्येन सह न संनशे ॥१५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यथाग्निः स्वयं प्रकाशः स्वयं सङ्गतः स्वयं सेवमानोऽस्ति, तथा ये जिज्ञासवः स्वयं पुरुषार्थयुक्ता भवन्ति, तेषां महिमा कदाचिन्न नश्यति ॥१५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जसा अग्नी स्वयंप्रकाशित असतो व सर्वांच्या सेवेत उपलब्ध असतो. तसे जे जिज्ञासू लोक विद्वानांकडून बोध करून घेऊ इच्छितात ते स्वतः पुरुषार्थी असतात. त्यांचा पराक्रम आणि मोठेपणा कधी नष्ट होत नाही.
१६ न वाऽउऽएतन्म्रियसे
विश्वास-प्रस्तुतिः ...{Loading}...
न वाऽउ॑ऽए॒तन्म्रि॑यसे॒ न रि॑ष्यसि दे॒वाँ२ऽइदे॑षि प॒थिभिः॑ सु॒गेभिः॑। यत्रास॑ते सु॒कृतो॒ यत्र॒ ते य॒युस्तत्र॑ त्वा दे॒वः स॑वि॒ता द॑धातु ॥१६ ॥
मूलम् ...{Loading}...
न वाऽउ॑ऽए॒तन्म्रि॑यसे॒ न रि॑ष्यसि दे॒वाँ२ऽइदे॑षि प॒थिभिः॑ सु॒गेभिः॑। यत्रास॑ते सु॒कृतो॒ यत्र॒ ते य॒युस्तत्र॑ त्वा दे॒वः स॑वि॒ता द॑धातु ॥१६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
न। वै। ऊँ॒ऽइत्यूँ॑। ए॒तत्। म्रि॒यसे॒। न। रि॒ष्य॒सि॒। दे॒वान्। इत्। ए॒षि॒। प॒थिभि॒रिति॒ प॒थिऽभिः॑। सु॒गेभि॒रिति॑ सु॒ऽगेभिः॑। यत्र॑। आस॑ते। सु॒कृत॒ इति॑ सु॒ऽकृतः॑। यत्र॑। ते। य॒युः। तत्र॑। त्वा॒। दे॒वः। स॒वि॒ता। द॒धा॒तु॒। १६।
महीधरः
म० आश्वी त्रिष्टुप् । हे अश्व, अस्माभिर्यत्त्वं संज्ञप्यसे एतत्त्वं न म्रियसे मरणं नाप्नोषि नच रिष्यसे न विनश्यसि विशस्यमानः । वै उ निपातौ पादपूरणौ । यत्सुगेभिः सुगैः ‘सुदुरोरधिकरणे’ (पा० ३ । १ । ४८) इति गमेर्डप्रत्ययः । साधुगमनैः पथिभिः देवयानमार्गैः देवानित् देवान्प्रति एषि गच्छसि । किंच सुकृतः साधुकारिणो नरा यत्र लोके आसते तिष्ठन्ति । यत्र च ते सुकृतो ययुर्गताः तत्र लोके सविता देवः त्वा त्वां दधातु स्थापयतु । ‘सवितैवैनᳪं᳭ स्वर्गे लोके दधाति’ (१३ । २ । ७ । १२) इति श्रुतेः ॥ १६ ॥
सप्तदशी।
अधिमन्त्रम् (VC)
- सविता देवता
- प्रजापतिर्ऋषिः
- विराड्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
अब मनुष्य कैसे हों, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्यार्थी ! (यत्र) जहाँ (ते) वे (सुकृतः) धर्मात्मा योगी विद्वान् (आसते) बैठते और सुख को (ययुः) प्राप्त होते हैं वा (यत्र) जहाँ (सुगेभिः) सुख से जाने योग्य (पथिभिः) मार्गों से तू (देवान्) दिव्य अच्छे-अच्छे गुण वा विद्वानों को (एषि) प्राप्त होता है और जहाँ (एतत्) यह पूर्वोक्त सब वृत्तान्त (उ) तो वर्त्तमान है और स्थिर हुआ तू (न) नहीं (म्रियसे) नष्ट हो (न, वै) नहीं (रिष्यसि) दूसरे का नाश करे (तत्र) वहाँ (इत्) ही (त्वा) तुझे (सविता) समस्त जगत् का उत्पन्न करनेवाला परमेश्वर (देवः) जोकि आप प्रकाशमान है, वह (दधातु) स्थापन करे ॥१६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य अपने-अपने रूप को जानें तो अविनाशीभाव को जान सकें, जो धर्मयुक्त मार्ग से चलें तो अच्छे कर्म करनेहारों के आनन्द को पावें, जो परमात्मा की सेवा करें तो जीवों को सत्यमार्ग में स्थापन करें ॥१६ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ मनुष्याः कीदृशा भवेयुरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्यार्थिन् ! यत्र ते सृकृत आसते सुखं ययुर्यत्र सुगेभिः पथिभिस्त्वं देवानेषि यत्रैतदु वर्त्तते स्थितस्त्वं न म्रियसे न वै रिष्यसि तत्रेत्त्वा सविता देवो दधातु ॥१६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदि मनुष्याः स्वस्वरूपं जानीयुस्तर्हि तेऽविनाशित्वं विद्युः। यदि धर्म्येण मार्गेण गच्छेयुस्तर्हि सुकृतामानन्दं प्राप्नुयुः। यदि परमात्मानं सेवेरँस्तर्हि सत्ये मार्गे जीवान् दध्युः ॥१६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे आपले स्वरूप जाणतात ती अविनाशी तत्त्व जाणू शकतात. जी धर्मयुक्त मार्गाने चालतात, ती सत्कर्म करण्याचा आनंद मिळवू शकतात. जी माणसे परमेश्वराची सेवा करतात. जी जीवांना सत्य मार्गाने नेऊ शकतात.
१७ अग्निः पशुरासीत्तेनायजन्त
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्निः प॒शुरा॑सी॒त्तेना॑यजन्त॒ सऽए॒तं लो॒कम॑जय॒द् यस्मि॑न्न॒ग्निः स ते॑ लो॒को भ॑विष्यति॒ तं जे॑ष्यसि॒ पिबै॒ताऽअ॒पः। वा॒युः प॒शुरा॑सी॒त्तेना॑यजन्त॒ सऽए॒तं लो॒कम॑जय॒द् यस्मि॑न् वा॒युः स ते॑ लो॒को भ॑विष्यति॒ तं जे॑ष्यसि॒ पिबै॒ताऽअ॒पः। सूर्यः॑ प॒शुरा॑सी॒त्तेना॑यजन्त॒ सऽए॒तं लो॒कम॑जय॒द् यस्मि॒न्त्सूर्य्यः॒ स ते॑ लो॒को भ॑विष्यति॒ तं जे॑ष्यसि॒ पिबै॒ताऽअ॒पः ॥१७ ॥
मूलम् ...{Loading}...
अ॒ग्निः प॒शुरा॑सी॒त्तेना॑यजन्त॒ सऽए॒तं लो॒कम॑जय॒द् यस्मि॑न्न॒ग्निः स ते॑ लो॒को भ॑विष्यति॒ तं जे॑ष्यसि॒ पिबै॒ताऽअ॒पः। वा॒युः प॒शुरा॑सी॒त्तेना॑यजन्त॒ सऽए॒तं लो॒कम॑जय॒द् यस्मि॑न् वा॒युः स ते॑ लो॒को भ॑विष्यति॒ तं जे॑ष्यसि॒ पिबै॒ताऽअ॒पः। सूर्यः॑ प॒शुरा॑सी॒त्तेना॑यजन्त॒ सऽए॒तं लो॒कम॑जय॒द् यस्मि॒न्त्सूर्य्यः॒ स ते॑ लो॒को भ॑विष्यति॒ तं जे॑ष्यसि॒ पिबै॒ताऽअ॒पः ॥१७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒ग्निः। प॒शुः। आ॒सी॒त्। तेन॑। अ॒य॒ज॒न्त॒। सः। ए॒तम्। लो॒कम्। अ॒ज॒य॒त्। यस्मि॑न्। अ॒ग्निः। सः। ते॒। लो॒कः। भ॒वि॒ष्य॒ति॒। तम्। जे॒ष्य॒सि॒। पिब॑। ए॒ताः। अ॒पः। वा॒युः। प॒शुः। आ॒सी॒त्। तेन॑। अ॒य॒ज॒न्त॒। सः। ए॒तम्। लो॒कम्। अ॒ज॒य॒त्। यस्मि॑न्। वा॒युः। सः। ते॒। लो॒कः। भ॒वि॒ष्य॒ति॒। तम्। जे॒ष्य॒सि॒। पिब॑। ए॒ताः। अ॒पः। सूर्यः॑। प॒शुः। आ॒सी॒त्। तेन॑। अ॒य॒ज॒न्त॒। सः। ए॒तम्। लो॒कम्। अ॒ज॒य॒त्। यस्मि॑न्। सूर्य्यः॑। सः। ते॒। लो॒कः। भ॒वि॒ष्य॒ति॒। तम्। जे॒ष्य॒सि॒। पिब॑। ए॒ताः। अ॒पः। १७।
महीधरः
म० ‘उपगृह्णात्यपां पेरुरग्निः पशुरिति’ (का० २० । ६ । ८)। अपां पेरुरिति (अ० ६ । क० १०) प्राकृतेन मन्त्रेणाग्निः पशुरिति वैकृतेन च प्रोक्षणीरश्वास्ये उपगृह्णातीति सूत्रार्थः । अश्वदेवत्यानि त्रीणि यजूंषि । सृष्टिदेवानामग्निः पशुरासीत् तेनाग्निरूपेण पशुना देवा अयजन्त ईजिरे । स पशुभावमुपगतोऽग्निः एतं लोकं पृथ्वीलोकमजयत् यस्मिन् लोकेऽग्निः हे अश्व, स लोकः ते तव भविष्यति तं लोकं त्वं जेष्यसि एताः प्रोक्षणीरपः पिब । तथाच श्रुतिः ‘यावानग्नेर्विजयो यावांल्लोको यावदैश्वर्यं तावांस्ते विजयस्तावांल्लोकस्तावदैश्वर्यं भविष्यतीत्येवैनं तदाह’ (१३ । २ । ७ । १३) इति ।
वायुः पशुरासीत् सूर्यः पशुरासीत् वायुलोकोऽन्तरिक्षं सूर्यलोकः स्वर्गः तावपि ते भविष्यत इत्यर्थः ॥ १७ ॥
अष्टादशी।
अधिमन्त्रम् (VC)
- अग्न्यादयो देवताः
- प्रजापतिर्ऋषिः
- अतिशक्वरी
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब पशु कौन हैं, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्याबोध चाहनेवाले पुरुष ! (यस्मिन्) जिस देखने योग्य लोक में (सः) वह (अग्निः) अग्नि (पशुः) देखने योग्य (आसीत्) है, (तेन) उससे जिस प्रकार यज्ञ करनेवाले (अयजन्त) यज्ञ करें, उस प्रकार से तू यज्ञ कर। जैसे (सः) वह विद्वान् (एतम्) इस (लोकम्) देखने योग्य स्थान को (अजयत्) जीतता है, वैसे इसको जीत, यदि (तम्) उसको (जेष्यसि) जीतेगा तो वह (अग्निः) अग्नि (ते) तेरा (लोकः) देखने योग्य (भविष्यति) होगा, इससे तू (एताः) इन यज्ञ से शुद्ध किये हुए (अपः) जलों को (पिब) पी। (यस्मिन्) जिसमें (सः) वह (वायुः) पवन (पशुः) देखने योग्य (आसीत्) है और जिससे यज्ञ करनेवाले (अयजन्त) यज्ञ करें (तेन) उससे तू यज्ञ कर। जैसे (सः) वह विद्वान् (एतम्) इस वायुमण्डल के रहने के (लोकम्) लोक को (अजयत्) जीते, वैसे तू जीत, जो (तम्) उसको (जेष्यसि) जीतेगा तो वह (वायुः) पवन (ते) तेरा (लोकः) देखने योग्य (भविष्यति) होगा। इससे तू (एताः) इन (अपः) यज्ञ से शुद्ध किये हुए प्राण रूपी पवनों को (पिब) धारण कर (यस्मिन्) जिसमें वह (सूर्य्यः) सूर्य्यमण्डल (पशुः) देखने योग्य (आसीत्) है, (तेन) उससे (अयजन्त) यज्ञ करनेवाले यज्ञ करें, जैसे (सः) वह विद्वान् (एतम्) इस सूर्य्यमण्डल के ठहरने के (लोकम्) लोक को (अजयत्) जीतता है, वैसे तू जीत। जो तू (तम्) उसको (जेष्यसि) जीतेगा तो (सः) वह (सूर्यः) सूर्य्यमण्डल (ते) तेरा (लोकः) देखने योग्य (भविष्यति) होगा, इससे तू (एताः) यज्ञ से शुद्धि किये हुए (अपः) संसार में व्याप्त हो रहे सूर्यप्रकाशों को (पिब) ग्रहण कर ॥१७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! सब यज्ञों में अग्नि आदि को ही पशु जानो, किन्तु प्राणी इन यज्ञों में मारने योग्य नहीं, न होमने योग्य हैं। जो ऐसे जानकर सुगन्धि आदि अच्छे-अच्छे पदार्थों को भलीभाँति बना, आग में होम करनेहारे होते हैं, वे पवन और सूर्य को प्राप्त होकर वर्षा के द्वारा वहाँ से छूट कर ओषधि, प्राण, शरीर और बुद्धि को क्रम से प्राप्त होकर सब प्राणियों को आनन्द देते हैं। इस यज्ञकर्म के करनेवाले पुण्य की बहुताई से परमात्मा को प्राप्त होकर सत्कारयुक्त होते हैं ॥१७ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ के पशव इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे जिज्ञासो ! यस्मिन् सोऽग्निः पशुरासीत्तेनाऽयजन्त तेन त्वं यज यथा स विद्वांस्तेनैतं लोकमजयत्तयैतं जय, तं चेज्जेष्यसि तर्हि सोऽग्निस्ते लोको भविष्यति, अतस्त्वमेता यज्ञेन शोधिता अपः पिब। यस्मिन् स वायुः पशुरासीद् येन यजमाना अयजन्त तेन त्वं यज यथा स एतं लोकमजयत्तथा त्वं जय, यदि तं जेष्यसि तर्हि स वायुस्ते लोको भविष्यति, अतस्त्वमेता अपः पिब। यस्मिन्स सूर्य्यः पशुरासीत्तेनायजन्त यथा स एतं लोकमजयत्तथा त्वं जय, यदि त्वं तं जेष्यसि तर्हि स सूर्यस्ते लोको भविष्यति तस्मात्त्वमेता अपः पिब ॥१७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! सर्वेषु यज्ञेष्वग्न्यादीनेव पशून् जानन्तु, नैव प्राणिनोऽत्र हिंसनीया होतव्या वा सन्ति, य एवं विदित्वा सुगन्ध्यादिद्रव्याणि सुसंस्कृत्याऽग्नौ जुह्वति, तानि वायुं सूर्य्यं च प्राप्य वृष्टिद्वारा निवर्त्य ओषधीः प्राणान् शरीरं बुद्धिं च क्रमेण प्राप्य सर्वान् प्राणिन आह्लादयन्ति। एतत्कर्त्तारः पुण्यस्य महत्त्वेन परमात्मानं प्राप्य महीयन्ते ॥१७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! सर्व यज्ञात अग्नीलाच पशू (पाहण्यायोग्य) समजा. प्राण्यांना मारून यज्ञात बळी देऊ नका. जे लोक हे जाणतात, ते सुगंधित पदार्थ होमात टाकून यज्ञ करतात. ते पदार्थ वायू व सूर्यापर्यंत पोहोचतात. ते पर्जन्याच्या माध्यमाने पृथ्वीवर येतात आणि क्रमाने औषध (वृक्षवनस्पती) , प्राण, शरीर व बुद्धी इत्यादी बनतात व सर्व प्राण्यांना आनंद देतात असा यज्ञ करणारे अधिक पुण्य करून परमेश्वराला प्राप्त करतात व तेच सत्कार करण्यायोग्य असतात.
१८ प्राणाय स्वाहापानाय
विश्वास-प्रस्तुतिः ...{Loading}...
प्रा॒णाय॒ स्वाहा॑पा॒नाय॒ स्वाहा॑ व्या॒नाय॒ स्वाहा॑। अम्बे॒ऽअम्बि॒केऽम्बा॑लिके॒ न मा॑ नयति॒ कश्च॒न। सस॑स्त्यश्व॒कः सुभ॑द्रिकां काम्पीलवा॒सिनी॑म् ॥१८ ॥
मूलम् ...{Loading}...
प्रा॒णाय॒ स्वाहा॑पा॒नाय॒ स्वाहा॑ व्या॒नाय॒ स्वाहा॑। अम्बे॒ऽअम्बि॒केऽम्बा॑लिके॒ न मा॑ नयति॒ कश्च॒न। सस॑स्त्यश्व॒कः सुभ॑द्रिकां काम्पीलवा॒सिनी॑म् ॥१८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्रा॒णाय॑। स्वाहा॑। अ॒पा॒नाय॑। स्वाहा॑। व्या॒नायेति॑ विऽआ॒नाय॑। स्वाहा॑। अम्बे॑। अम्बि॑के। अम्बा॑लिके। न। मा॒। न॒य॒ति॒। कः। च॒न। सस॑स्ति। अ॒श्व॒कः। सुभ॑द्रिका॒मिति॒ सुऽभ॑द्रिकाम्। का॒म्पी॒ल॒वा॒सिनी॒मिति॑ काम्पीलऽ वा॒सिनी॑म्। १८।
महीधरः
म० ‘परिपशव्ये हुत्वा प्राणाय स्वाहेति तिस्रोऽपराः’ (का० २० । ६ । ११)। ‘परिपशव्ये खाहा देवेभ्यः स्वाहेति’ (२० । ६ । ११) द्वे आहुती हुत्वा प्राणायेत्याद्यास्तिस्र आहुतीर्जुहोति एकामश्वसंज्ञपनादौ चतस्रोऽन्ते इति सूत्रार्थः । त्रीणि यजूंषि । प्राणाय अपानाय व्यानाय आभिराहुतिभिरश्वं प्राणवन्तं करोति । तथाच श्रुतिः ‘प्राणानेवास्मिन्नेतद्दधाति तथो हास्यैतेन जीवतैव पशुनेष्टं भवति’ (१३ । २। ८ । २)। ‘वाचयति पत्नीर्नयन्नमस्तेऽन्व इति’ (का०२०।६।१२)। ‘सर्वाः पत्नीः पशुशोधनाय पान्नेजनीहस्ताः पशून् प्रति नयन्नमस्ते आतानेति’ (२० । ६ । १२) प्राकृतं मन्त्रमम्बे इत्याश्वमेधिकं च वाचयतीति सूत्रार्थः । अश्वदेवत्यानुष्टुप् । पत्न्यः परस्परं वदन्ति हे अम्बे, हे अम्बिके, हे अम्बालिके, नामान्येतानि । कश्चन नरो मां न नयति अश्वं प्रति न प्रापयति । तर्हि किमर्थं गम्यते तत्राह । अश्वकः कुत्सितोऽश्वोऽश्वकः अकु त्सितोऽपीर्ष्यया कुत्स्यते । सुभद्रिकां कुत्सिता सुभद्रा सुभद्रिका ईर्ष्यया कुत्स्यते तां नारीमादाय ससस्ति शेते ‘सस् स्वप्ने’ ह्वादिः । मदगमनेऽश्वोऽन्यामादाय शयिष्यत इति मया गम्यते न तु मां कश्चिन्नयतीति भावः । किंभूतां सुभद्रिकाम् । काम्पीलवासिनीं काम्पीले नगरे वसतीति काम्पीलवासिनी ताम् । तत्र हि विदग्धाः सुरूपाः कामिन्यो भवन्ति । ‘आपो जुषाणो वृष्णो वर्षिष्ठेऽम्बेऽम्बालेऽम्बिके पूर्वे’ (पा० ६।१।११८) इति प्रकृतिभावः ॥ १८ ॥
एकोनविंशी।
अधिमन्त्रम् (VC)
- प्राणादयो देवताः
- प्रजापतिर्ऋषिः
- विराड्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को क्या-क्या जानना चाहिये, इस विषय को अगले मन्त्र में कहा है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अम्बे) माता (अम्बिके) दादी (अम्बालिके) वा परदादी (कश्चन) कोई (अश्वकः) घोड़े के समान शीघ्रगामी जन जिस (काम्पीलवासिनीम्) सुखग्राही मनुष्य को बसानेवाली (सुभद्रिकाम्) उत्तम कल्याण करनेहारी लक्ष्मी को ग्रहण कर (ससस्ति) सोता है, वह (मा) मुझे (न) नहीं (नयति) अपने वश में लाता, इससे मैं (प्राणाय) प्राण के पोषण के लिये (स्वाहा) सत्य वाणी (अपानाय) दुःख के हटाने के लिए (स्वाहा) सुशिक्षित वाणी और (व्यानाय) सब शरीर में व्याप्त होनेवाले अपने आत्मा के लिये (स्वाहा) सत्य वाणी को युक्त करता हूँ ॥१८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जैसे माता, दादी, परदादी अपने-अपने सन्तानों को अच्छी सिखावट पहुँचाती हैं, वैसे तुम लोगों को भी अपने सन्तान शिक्षित करने चाहियें। धन का स्वभाव है कि जहाँ यह इकट्ठा होता है, उन जनों को निद्रालु, आलसी और कर्महीन कर देता है, इससे धन पाकर भी मनुष्य को पुरुषार्थ ही करना चाहिये ॥१८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैः किं किं विज्ञेयमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अम्बेऽम्बिकेऽम्बालिके ! कश्चनाश्वको यां काम्पीलवासिनीं सुभद्रिकामादाय ससन्ति, न मा नयति, अतोऽहं प्राणाय स्वाहाऽपानाय स्वाहा व्यानाय स्वाहा च करोमि ॥१८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यथा माता पितामही प्रपितामह्यऽपत्यानि सुशिक्षां नयति, तथा युष्माभिरपि स्वसन्तानाः शिक्षणीयाः। धनस्य स्वभावोऽस्ति यत्रेदं संचीयते तान्निद्रालूनलसान् कर्महीनान् करोति। अतो धनं प्राप्यापि पुरुषार्थ एव कर्त्तव्यः ॥१८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! आई, आजी व पणजी अशा आपापल्या संतानांना चांगली शिकवण देतात, तसे तुम्हीही आपापल्या संतानांना शिक्षित करा.
सविता जोशी ← दयानन्दः (म) - पादटिप्पनी
टिप्पणी: धनाचे हे वैशिष्ट्य आहे की जेथे हे अधिक होते. तेथील लोकांना झोपाळू, आळशी, निष्क्रिय बनविते त्यामुळे धन प्राप्त झाले तरीही माणसांनी पुरुषार्थ केला पाहिजे.
१९ गणानां त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
ग॒णानां॑ त्वा ग॒णप॑तिँहवामहे प्रि॒याणां॑ त्वा प्रि॒यप॑तिँहवामहे निधी॒नां त्वा॑ निधि॒पतिँ॑ हवामहे वसो मम। आहम॑जानि गर्भ॒धमा त्वम॑जासि गर्भ॒धम् ॥१९ ॥
मूलम् ...{Loading}...
ग॒णानां॑ त्वा ग॒णप॑तिँहवामहे प्रि॒याणां॑ त्वा प्रि॒यप॑तिँहवामहे निधी॒नां त्वा॑ निधि॒पतिँ॑ हवामहे वसो मम। आहम॑जानि गर्भ॒धमा त्वम॑जासि गर्भ॒धम् ॥१९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ग॒णाना॑म्। त्वा॒। ग॒णप॑ति॒मिति॑ ग॒णऽप॑तिम्। ह॒वा॒म॒हे॒। प्रि॒याणा॑म्। त्वा॒। प्रि॒यप॑ति॒मिति॑ प्रि॒यऽप॑तिम्। ह॒वा॒म॒हे॒। नि॒धी॒नामिति॑ निऽधी॒नाम्। त्वा॒। नि॒धि॒पति॒मिति॑ निधि॒ऽपति॑म्। ह॒वा॒म॒हे॒। व॒सो॒ऽइति॑ वसो। मम॑। आ। अ॒हम्। अ॒जा॒नि॒। ग॒र्भ॒धमिति॑ गर्भ॒ऽधम्। आ। त्वम्। अ॒जा॒सि॒। ग॒र्भ॒धमिति॑ गर्भ॒ऽधम्। १९।
महीधरः
म० अश्वं त्रिस्त्रिः परियन्ति पितृवन्मध्ये गणानां प्रियाणां निधीनामिति’ (का० २० । ६ । १३)। सर्वाः पत्न्यः पान्नेजनहस्ता एव प्राणशोधनात्प्राक् अश्वं त्रिस्त्रिः परियन्ति मध्ये पितृवत् अप्रदक्षिणं परियन्ति त्रिः त्रिभिर्मन्त्रैः । वसो ममेति त्रिष्वप्यनुषङ्गः । ततश्चैवं प्रथमं गणानामिति त्रिः प्रदक्षिणं परियन्ति । तत्र सकृन्मन्त्रेण द्विस्तूष्णीम् । ततः प्रियाणामित्यप्रदक्षिणं त्रिः निधीनामिति प्रदक्षिणं त्रिः एवं नवकृत्व इति सूत्रार्थः । त्रीणि यजूंषि लिङ्गोक्तदेवत्यानि । हे अश्व, वयं त्वां हवामहे आह्वयामः । कीदृशं त्वाम् । गणपतिं गणानां मध्ये गणपतिं गणरूपेण पालकम् । प्रियाणां वल्लभानां मध्ये प्रियपतिं प्रियस्य पालकम् । निधीनां सुखनिधीनां मध्ये निधिपतिं सुखनिधेः पालकं त्वां हवामहे । हे वसुरूप अश्व, मम पतिस्त्वं भूया इति शेषः । ‘प्रक्षालितेषु महिष्यश्वमुपसंविशत्याहमजानीति’ (का० २०।६।१४)। प्रक्षालितेषु शोधितेषु पशूनां प्राणेषु पत्नीभिरध्वर्युणा यजमानेन प्राणशोधने कृते महिषी अश्वसमीपे शेते । अश्वदेवत्यम् । हे अश्व, गर्भधं गर्भं दधाति गर्भधं गर्भधारकं रेतः अहम् आ अजानि आकृष्य क्षिपामि । ‘अज गतिक्षेपणयोः’ लोट् । तं च गर्भधं रेतः आ अजासि आकृष्य क्षिपसि ॥ १९॥
विंशी।
अधिमन्त्रम् (VC)
- गणपतिर्देवता
- प्रजापतिर्ऋषिः
- शक्वरी
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्य को कैसे परमात्मा की उपासना करनी चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे जगदीश्वर ! हम लोग (गणानाम्) गणों के बीच (गणपतिम्) गणों के पालनेहारे (त्वा) आपको (हवामहे) स्वीकार करते (प्रियाणाम्) अतिप्रिय सुन्दरों के बीच (प्रियपतिम्) अतिप्रिय सुन्दरों के पालनेहारे (त्वा) आपकी (हवामहे) प्रशंसा करते (निधीनाम्) विद्या आदि पदार्थों की पुष्टि करनेहारों के बीच (निधिपतिम्) विद्या आदि पदार्थों की रक्षा करनेहारे (त्वा) आपको (हवामहे) स्वीकार करते हैं। हे (वसो) परमात्मन् ! जिस आप में सब प्राणी वसते हैं, सो आप (मम) मेरे न्यायाधीश हूजिये, जिस (गर्भधम्) गर्भ के समान संसार को धारण करने हारी प्रकृति को धारण करने हारे (त्वम्) आप (आ, अजासि) जन्मादि दोषरहित भलीभाँति प्राप्त होते हैं, उस (गर्भधम्) प्रकृति के धर्त्ता आपको (अहम्) मैं (आ, अजानि) अच्छे प्रकार जानूँ ॥१९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जो सब जगत् की रक्षा, चाहे हुए सुखों का विधान, ऐश्वर्य्यों का भलीभाँति दान, प्रकृति का पालन और सब बीजों का विधान करता है, उसी जगदीश्वर की उपासना सब करो ॥१९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैः कीदृशः परमात्मोपासनीय इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे जगदीश्वर ! वयं गणानां गणपतिं त्वा हवामहे, प्रियाणां प्रियपतिं त्वा हवामहे, निधीनां निधिपतिं त्वा हवामहे। हे वसो ! मम न्यायाधीशो भूयाः। यं गर्भधं त्वमाजासि तं गर्भधमहमाजानि ॥१९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यः सर्वस्य जगतो रक्षक इष्टानां विधातैश्वर्य्याणां प्रदाता प्रकृतेः पतिः सर्वेषां बीजानि विदधाति, तमेव जगदीश्वरं सर्व उपासीरन् ॥१९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! जो सर्व जगाचे रक्ष्ण करतो, इच्छित सुख देतो, चांगल्या प्रकारचे ऐश्वर्य देतो, प्रकृतीचे पालन करतो व सर्व बीजांची निर्मिती करतो त्याच जगदीश्वराची सर्वांनी उपासना करावी.
२० ताऽउभौ चतुरः
विश्वास-प्रस्तुतिः ...{Loading}...
ताऽउ॒भौ च॒तुरः॑ प॒दः स॒म्प्रसा॑रयाव स्व॒र्गे लो॒के प्रोर्णु॑वाथां॒ वृषा॑ वा॒जी रे॑तो॒धा रेतो॑ दधातु ॥२० ॥
मूलम् ...{Loading}...
ताऽउ॒भौ च॒तुरः॑ प॒दः स॒म्प्रसा॑रयाव स्व॒र्गे लो॒के प्रोर्णु॑वाथां॒ वृषा॑ वा॒जी रे॑तो॒धा रेतो॑ दधातु ॥२० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
तौ। उ॒भौ। च॒तुरः॑। प॒दः। स॒म्प्रसा॑रया॒वेति॑ स॒म्ऽप्रसा॑रयाव। स्व॒र्ग इति॑ स्वः॒ऽगे। लो॒के। प्र। ऊ॒र्णु॒वा॒था॒म्। वृषा॑। वा॒जी। रे॒तो॒धा इति॑ रेतः॒ऽधाः। रेतः॑। द॒धा॒तु॒। २०।
महीधरः
म० पूर्वमन्त्रशेषः । तौ त्वमहं च उभौ चतुरः पदः पादा नावां संप्रसारयाव तव द्वौ मम द्वौ एवं संवेशनप्रकारः । ‘अधीवासेन प्रच्छादयति स्वर्गे लोक इति’ ( का० २० । ६ ।१४) । अधीवासेनाश्वमहिष्यौ छादयति अध उपरिष्टाच्चाच्छादनक्षमं वासोऽधीवासः । अश्वदेवत्यम् । अध्वर्युर्वदति । हे अश्वमहिष्यौ, युवां स्वर्गे लोकेऽस्यां यज्ञभूमौ प्रोर्णुवाथां वास आच्छादयतम् । ‘ऊर्णुञ् आच्छादने’ ‘एष वै स्वर्गों लोको यत्र पशुᳪं᳭ संज्ञपयन्ति’ (१३ । २ । ८ । ५) इति श्रुतेः। ‘अश्वशिश्नमुपस्थे कुरुते वृषा वाजीति’ (का० २० । ६ । १६)। महिषी स्वयमेवाश्वशिश्नमाकृष्य स्वयोनौ स्थापयति । अश्वदेवत्यम् । वाजी अश्वो रेतो दधातु मयि वीर्यं स्थापयतु । कीदृशोऽश्वः । वृषा सेक्ता रेतोधाः रेतो दधातीति रेतोधाः वीर्यस्य धारयिता ॥ २०॥
एकविंशी।
अधिमन्त्रम् (VC)
- राजप्रजे देवते
- प्रजापतिर्ऋषिः
- स्वराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब राजा और प्रजाजन परस्पर कैसे वर्त्तें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजाप्रजाजनो ! तुम (उभौ) दोनों (तौ) प्रजा राजाजन जैसे (स्वर्गे) सुख से भरे हुए (लोके) देखने योग्य व्यवहार वा पदार्थ में (चतुरः) चारों धर्म, अर्थ, काम और मोक्ष (पदः) जो कि पाने योग्य हैं, उनको (प्रोर्णुवाथाम्) प्राप्त होओ, वैसे इन का हम अध्यापक और उपदेशक दोनों (संप्रसारयाव) विस्तार करें, जैसे (रेतोधाः) आलिङ्गन अर्थात् दूसरे से मिलने को धारण करने और (वृषा) दुष्टों के सामर्थ्य को बाँधने अर्थात् उन की शक्ति को रोकने हारा (वाजी) विशेष ज्ञानवान् राजा प्रजाजनों में (रेतः) अपने पराक्रम को स्थापन करे, वैसे प्रजाजन (दधातु) स्थापना करें ॥२० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो राजा-प्रजा पिता और पुत्र के समान अपना वर्त्ताव वर्त्तें तो धर्म, अर्थ, काम और मोक्ष फल की सिद्धि को यथावत् प्राप्त हों, जैसे राजा प्रजा के सुख और बल को बढ़ावें, वैसे प्रजा भी राजा के सुख और बल की उन्नति करे ॥२० ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ राजप्रजाजनाः परस्परं कथं वर्त्तेरन्नित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे राजप्रजे ! युवां उभौ तौ यथा स्वर्गे लोके चतुरः पदः प्रोर्णुवाथां तथैतानावामध्यापकोपदेशकौ संप्रसारयाव, यथा रेतोधा वृषा वाजी राजा प्रजासु रेतो वीर्यं दध्यात्तथा प्रजापि दधातु ॥२० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यदि राजप्रजे पितापुत्रवद् वर्त्तेयातां तर्हि धर्मार्थकाममोक्षफलसिद्धिं यथावत्प्राप्नुयातां, यथा राजा प्रजासुखबले वर्द्धयेत्तथा प्रजा अपि राज्ञः सुखबले उन्नयेत्॥२० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जो राजा प्रजेबरोबर पिता व पुत्र यांच्याप्रमाणे आपली वागणूक ठेवतो तो धर्म, अर्थ, काम, मोक्ष प्राप्त करतो. जसा राजा प्रजेचे सुख व बळ वाढवितो तसे प्रजेनेही राजाचे सुख व बल वाढवावे.
२१ उत्सक्थ्याऽअव गुदम्
विश्वास-प्रस्तुतिः ...{Loading}...
उत्स॑क्थ्या॒ऽअव॑ गु॒दं धे॑हि॒ सम॒ञ्जिं चा॑रया वृषन्। य स्त्री॒णां जी॑व॒भोज॑नः ॥२१ ॥
मूलम् ...{Loading}...
उत्स॑क्थ्या॒ऽअव॑ गु॒दं धे॑हि॒ सम॒ञ्जिं चा॑रया वृषन्। य स्त्री॒णां जी॑व॒भोज॑नः ॥२१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उत्स॑क्थ्या॒ इत्युत्ऽस॑क्थ्याः। अव॑। गु॒दम्। धे॒हि॒। सम्। अ॒ञ्जिम्। चा॒र॒य॒। वृ॒ष॒न्। यः। स्त्री॒णाम्। जी॒व॒भोज॑न॒ इति॑ जीव॒ऽभोज॑नः। २१।
महीधरः
म० ‘उत्सक्थ्या इत्यश्वं यजमानोऽभिमन्त्रयते’ (का० २० । ६ । १७)। अश्वदेवत्या गायत्री । हे वृषन् सेक्तः अश्व, महिष्या गुदमव गुदोपरि रेतो धेहि वीर्यं धारय । कीदृश्याः । उत्सक्थ्याः उत् ऊर्ध्वे सक्थिनी ऊरू यस्याः सा उत्सक्थी तस्याः । कथं तदाह । अञ्जिं लिङ्गं संचारय । अनक्ति व्यनक्ति पुंस्त्वमित्यञ्जिर्लिङ्गम् । लिङ्गं योनौ प्रवेशय । योऽञ्जिः स्त्रीणां जीवभोजनः जीवयति जीवः भोजयति भोजनः जीवश्चासौ भोजनश्च जीवभोजनः । यस्मिन् लिङ्गे योनौ प्रविष्टे स्त्रियो जीवन्ति भोगांश्च लभन्ते तं प्रवेशय ॥ २१ ॥
द्वाविंशी।
अधिमन्त्रम् (VC)
- न्यायाधीशो देवता
- प्रजापतिर्ऋषिः
- भुरिग्गायत्री
- षड्जः
२२ यकासकौ शकुन्तिकाहलगिति
विश्वास-प्रस्तुतिः ...{Loading}...
य॒कास॒कौ श॑कुन्ति॒काहल॒गिति॒ वञ्च॑ति। आह॑न्ति ग॒भे पसो॒ निग॑ल्गलीति॒ धार॑का ॥२२ ॥
मूलम् ...{Loading}...
य॒कास॒कौ श॑कुन्ति॒काहल॒गिति॒ वञ्च॑ति। आह॑न्ति ग॒भे पसो॒ निग॑ल्गलीति॒ धार॑का ॥२२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
य॒का। अ॒स॒कौ। श॒कु॒न्ति॒का। आ॒हल॑क्। इति॑। वञ्च॑ति। आ। ह॒न्ति॒। ग॒भे। पसः॑। निग॑ल्गलीति। धार॑का। २२।
महीधरः
म० ‘अध्वर्युब्रह्मोद्गातृहोतृक्षत्तारः कुमारीपत्नीभिः संवदन्ते यकासकाविति दशर्चस्य द्वाभ्यां द्वाभ्याᳪं᳭ हये-हयेऽसावित्यामन्त्र्यामन्त्र्य’ ( का० २० । १।१८) । अध्वर्य्वादयः पञ्च हये हयेऽसाविति संबुद्ध्यन्तनामोच्चारणपूर्वकं संमुखीकृत्य यकासकाविति दशर्चसंबन्धिनीभ्यां द्वाभ्यामृग्भ्यां कुमारीपत्नीभिः सहसोपहासं संवदन्ते । तत्र प्रथममध्वर्युः कुमारीं पृच्छति कुमारि हये हये कुमारि यकासकौ शकुन्तिकेत्यर्थः । कुमार्यादिदेवत्या दश तन्मध्ये द्वितीयोपरिष्टाद्बृहती अन्या नवानुष्टुभः । ‘अव्ययसर्वनाम्नामकच्प्राक्टेः’ (पा० ५। ३ । ७१) इति अकच् कुत्सायाम् । अल्पा शकुन्तिः शकुन्तिका ‘अल्प’ (पा० ५। ३ । ८५) इति कन् । अङ्गुल्या योनिं प्रदर्शयन्नाह । यका या असकौ असौ शकुन्तिका अल्पपक्षिणीव आहलक् शब्दानुकरणम् । हले हले इति शब्दयन्ती वञ्चति गच्छति । स्त्रीणां शीघ्रगमने योनौ हलहलाशब्दो भवतीत्यर्थः । गभे वर्णविपर्यय आर्षः । भगे योनौ शकुनिसदृश्यां यदा पसो लिङ्गमाहन्ति आगच्छति । ‘पस इति पसतेः स्पृशतिकर्मणः’ (निरु. ५। १६) इति यास्कः । पुंस्प्रजननस्य नाम । हन्तिर्गत्यर्थः । यदा भगे शिश्नमागच्छति तदाधारका धरति लिङ्गमिति धारका योनिर्निगल्गलीति नितरां गलति वीर्यं क्षरति । यद्वानुकरणम् । गल्गलेति शब्द करोति ॥ २२ ॥
त्रयोविंशी।
अधिमन्त्रम् (VC)
- राजप्रजे देवते
- प्रजापतिर्ऋषिः
- विराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जिस (गभे) प्रजा में राजा अपने (पसः) राज्य को (आहन्ति) जाने वा प्राप्त हो, वह (धारका) सुख को धारण करनेवाली प्रजा (निगल्गलीति) निरन्तर सुख को निगलती-सी वर्त्तमान होती है और जिससे (यका) जो (असकौ) यह प्रजा (शकुन्तिका) छोटी चिडि़या के समान निर्बल है, इससे इस प्रजा को (आहलक्) अच्छे प्रकार जो हल से भूमि करोदता है, उसको प्राप्त होनेवाला अर्थात् हल से जुती हुई भूमि से कर को लेनेवाला राजा (वञ्चतीति) ऐसे वञ्चता अपना कर धन लेता है कि जैसे प्रजा को सुख प्राप्त हो ॥२२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। यदि राजा न्याय से प्रजा की रक्षा न करे और प्रजा से कर लेवे तो जैसे-जैसे प्रजा नष्ट हो, वैसे राजा भी नष्ट होता है। यदि विद्या और विनय से प्रजा की भलीभाँति रक्षा करे तो राजा और प्रजा सब ओर से वृद्धि को पावें ॥२२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यस्यां गभे राजा पसो राष्ट्रमाहन्ति सा धारका प्रजा निगल्गलीति, यतो यकाऽसकौ शकुन्तिका शकुन्तिकेव वर्त्तते, तस्मादिमामाहलग्राजा वञ्चतीति ॥२२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यदि राजा न्यायेन प्रजाया रक्षणं न कुर्यादकृत्वा करं गृह्णीयात्तर्हि यथा प्रजाः क्रमशः क्षीणा भवन्ति तथा राजापि नष्टो भवति। यदि विद्याविनयाभ्यां प्रजाः संरक्षेत्तर्हि राजप्रजे सर्वतो वर्द्धेताम् ॥२२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जर राजाने न्यायाने प्रजेचे रक्षण केले नाही व प्रजेकडून कर घेतला तर जसजशी प्रजा नष्ट होते तसतसा राजा नष्ट होतो. जर विद्या व विनयाने प्रजेचे चांगल्याप्रकारे रक्षण केले तर राजा व प्रजा यांची सर्व बाजूंनी भरभराट होते.
२३ यकोऽसकौ शकुन्तकऽआहलगिति
विश्वास-प्रस्तुतिः ...{Loading}...
य॒को᳖ऽस॒कौ श॑कुन्त॒कऽआ॒हल॒गिति॒ वञ्च॑ति। विव॑क्षतऽइव ते॒ मुख॒मध्व॑र्यो॒ मा न॒स्त्वम॒भि भा॑षथाः ॥२३ ॥
मूलम् ...{Loading}...
य॒को᳖ऽस॒कौ श॑कुन्त॒कऽआ॒हल॒गिति॒ वञ्च॑ति। विव॑क्षतऽइव ते॒ मुख॒मध्व॑र्यो॒ मा न॒स्त्वम॒भि भा॑षथाः ॥२३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
य॒कः। अ॒स॒कौ। श॒कु॒न्त॒कः। आ॒हल॑क्। इति॑। वञ्च॑ति। विव॑क्षतऽइ॒वेति॒ विव॑क्षतःऽइव। ते॒। मुख॑म्। अध्व॑र्यो॒ऽइत्यध्व॑र्यो। मा। नः॒। त्वम्। अ॒भि। भा॒ष॒थाः॒। २३।
महीधरः
म० कुमारी अध्वर्युं प्रत्याह । अङ्गुल्या शिश्नं प्रदर्शयन्त्याह । हे अध्वर्यो, यकः यः असकौ असौ शकुन्तकः पक्षीव विवक्षतः वक्तुमिच्छतस्ते तव मुखमिव आहलगिति वञ्चति इतस्ततश्चलति अग्रभागे सच्छिदं लिङ्गं तव मुखमिव भासते । अतो नोऽस्मान्प्रति मा अभिभाषथाः मा वद तुल्यत्वात् ॥ २३ ॥
चतुर्विशी।
अधिमन्त्रम् (VC)
- राजप्रजे देवते
- प्रजापतिर्ऋषिः
- बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अध्वर्यो) यज्ञ के समान आचरण करने हारे राजा ! (त्वम्) तू (नः) हम लोगों के प्रति (मा, अभिभाषथाः) झूठ मत बोलो और (विवक्षत इव) बहुत गप्प-सप्प बकते हुए मनुष्य के मुख के समान (ते) तेरा (मुखम्) मुख मत हो, यदि इस प्रकार (यकः) जो (असकौ) यह राजा गप्प-सप्प करेगा तो (शकुन्तकः) निर्बल पखेरू के समान (आहलक्) भलीभाँति उच्छिन्न जैसे हो (इति) इस प्रकार (वञ्चति) ठगा जायेगा ॥२३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। राजा कभी झूठी प्रतिज्ञा करने और कटुवचन बोलनेवाला न हो तथा न किसी को ठगे, जो यह राजा अन्याय करे तो आप भी प्रजाजनों से ठगा जाये ॥२३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अध्वर्यो ! त्वं नो माभिभाषथा मिथ्याभाषणं विवक्षत इव ते मुखं मा भवतु। यद्येवं यकोऽसकौ करिष्यसि, तर्हि शकुन्तक इव राजाऽऽहलगिति न वञ्चति ॥२३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। राजा कदाचिन्मिथ्याप्रतिज्ञः परुषवादी न स्यान्न कंचिद् वञ्चयेत्। यद्ययमन्यायं कुर्यात्तर्हि स्वयमपि प्रजाभिर्वञ्चितः स्यात्॥२३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. राजाने कधी असत्य प्रतिज्ञा करू नये व कटू वचन बोलू नसे किंवा कुणाला फसवू नये. जो राजा अन्याय करतो तो स्वतः प्रजेकडून फसविला जातो.
२४ माता च
विश्वास-प्रस्तुतिः ...{Loading}...
मा॒ता च॑ ते पि॒ता च॒ तेऽग्रं॑ वृ॒क्षस्य॑ रोहतः। प्रति॑ला॒मीति॑ ते पि॒ता ग॒भे मु॒ष्टिम॑तँसयत्॥२४ ॥
मूलम् ...{Loading}...
मा॒ता च॑ ते पि॒ता च॒ तेऽग्रं॑ वृ॒क्षस्य॑ रोहतः। प्रति॑ला॒मीति॑ ते पि॒ता ग॒भे मु॒ष्टिम॑तँसयत्॥२४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मा॒ता। च॒। ते॒। पि॒ता। च॒। ते॒। अग्र॑म्। वृ॒क्षस्य॑। रो॒ह॒तः॒। प्रति॑लामि। इति॑। ते॑। पि॒ता। ग॒भे। मु॒ष्टिम्। अ॒तँ॒स॒य॒त्। २४।
महीधरः
म० ब्रह्मा महिषीमाह । महिषि हे महिषि, ते तव माता च पुनस्ते तव पिता यदा वृक्षस्य वृक्षजस्य काष्ठमयस्य मञ्चकस्याग्रमुपरिभागं रोहतः आरोहतः तदा ते पिता गभे भगे मुष्टिं मुष्टितुल्यं लिङ्गमतंसयत् तंसयति प्रक्षिपति एवं तवोत्पत्तिरित्यश्लीलम् । ‘तसि अलंकृतौ’ चुरादिः । लिङ्गमुत्थानेनालंकरोति वा । किं कुर्वन् । प्रतिलामीति वदन्निति शेषः । ‘तिल स्नेहने’ तव भोगेन स्निह्यामीति वदन् । एवं तवोत्पत्तिः ॥ २४ ॥
पञ्चविंशी।
अधिमन्त्रम् (VC)
- भूमिसूर्यौ देवते
- प्रजापतिर्ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! यदि (ते) आपकी (माता) पृथिवी के तुल्य सहनशील मान करनेवाली माता (च) और (ते) आपका (पिता) सूर्य्य के समान तेजस्वी पालन करनेवाला पिता (च) भी (वृक्षस्य) छेदन करने योग्य संसार रूप वृक्ष के राज्य की (अग्रम्) मुख्य श्री शोभा वा लक्ष्मी पर (रोहतः) आरुढ़ होते हैं, (ते) आपका (पिता) पिता (गभे) प्रजा में (मुष्टिम्) मुट्ठी से धन लेनेवाले राज्य को, धन लेकर (अतंसयत्) प्रकाशित करता है तो मैं (इति) इस प्रकार प्रजाजन (प्रतिलामि) भलीभाँति उस राजा से प्रीति करता हूँ ॥२४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो माता-पिता पृथिवी और सूर्य्य के तुल्य धैर्य और विद्या से प्रकाश को प्राप्त न्याय से राज्य को पाल कर, उत्तम लक्ष्मी वा शोभा को पाकर, प्रजा को सुशोभित कर, अपने पुत्र को राजनीति से युक्त करें, वे राज्य करने को योग्य हों ॥२४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! यदि ते पृथिवीव माता च सूर्य्य इव ते पिता च वृक्षस्याग्रं रोहतः। यदि ते पिता गभे मुष्टिमतंसयत्तर्हि प्रजाजनोऽहम्प्रतिलामीति ॥२४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यौ मातापितरौ पृथिवीसूर्य्यवर्द्धैर्यविद्याप्रकाशितौ न्यायेन राज्यं पालयित्वाग्र्यां श्रियं प्राप्य प्रजा भूषयित्वा स्वस्य पुत्रं राजनीत्या युक्तं कुर्यातां तौ राज्यं कर्तुमर्हेताम् ॥२४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जे माता-पिता, पृथ्वी व सूर्य यांच्याप्रमाणे धैर्य व विद्या, तसेच न्यायमार्गाने राज्याचे पालन करून उत्तम लक्ष्मी प्राप्त करून प्रजेला सुशोभित करतात व आपल्या पुत्रांना राजनीतिनिपुण करतात ते राज्य करण्यायोग्य असतात.
२५ माता च
विश्वास-प्रस्तुतिः ...{Loading}...
मा॒ता च॒ ते पि॒ता च॒ तेऽ ग्रे॑ वृ॒क्षस्य॑ क्रीडतः। विव॑क्षतऽइव ते॒ मुखं॒ ब्रह्म॒न्मा त्वं व॑दो ब॒हु ॥२५ ॥
मूलम् ...{Loading}...
मा॒ता च॒ ते पि॒ता च॒ तेऽ ग्रे॑ वृ॒क्षस्य॑ क्रीडतः। विव॑क्षतऽइव ते॒ मुखं॒ ब्रह्म॒न्मा त्वं व॑दो ब॒हु ॥२५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मा॒ता। च॒। ते॒। पि॒ता। च॒। ते॒। अग्रे॑। वृ॒क्षस्य॑। क्री॒ड॒तः॒। विव॑क्षतऽइ॒वेति॑ विव॑क्षतःऽइव। ते॒। मुख॑म्। ब्रह्म॑न्। मा। त्वम्। व॒दः॒। ब॒हु। २५।
महीधरः
म० सानुचरी महिषी ब्रह्माणं प्रत्याह । हे ब्रह्मन् , ते तव माता ते पिता च यदि वृक्षस्य वृक्षविकारस्य मञ्चकस्याग्रे क्रीडतः रमेते तदा तवोत्पत्तिरिति तवापि तुल्यम् । ‘यत्रोभयोः समो दोषः परिहारोऽपि वा समः । नैकः पर्यनयोक्तव्यस्तादृगर्थविचारणे’ इति न्यायात्त्वयेदं न वक्तव्यमिति भावः । एवं सत्यपि विवक्षतः वक्तुमिच्छोरिव ते तव मुखं लक्ष्यत इति शेषः । हे ब्रह्मन् , त्वं मा बहु वदः मा ब्रूहि ॥ २५ ॥
षड्विंशी।
अधिमन्त्रम् (VC)
- भूमिसूर्य्यौ देवते
- प्रजापतिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर माता-पिता कैसे हों, इस विषय को अगले मन्त्र में कहा है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (ब्रह्मन्) चारों वेदों के जाननेवाले सज्जन ! जिन (ते) सूर्य के समान तेजस्वी आपकी (माता) पृथिवी के समान माता (च) और जिन (ते) आपका (पिता) पिता (च) भी (वृक्षस्य) संसाररूप राज्य के बीच (अग्रे) विद्या और राज्य की शोभा में (क्रीडतः) रमते हैं, उन (ते) आपका (विवक्षत इव) बहुत कहा चाहते हुए मनुष्य के मुख के समान (मुखम्) मुख है, उससे (त्वम्) तू (बहु) बहुत (मा) मत (वदः) कहा कर ॥२५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो माता-पिता, सुशील, धर्मात्मा, लक्ष्मीवान्, कुलीन हों, उन्होंने सिखाया हुआ ही पुत्र प्रमाणयुक्त थोड़ा बोलनेवाला होकर कीर्ति को प्राप्त होता है ॥२५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मातापितरौ कीदृशौ भवेतामित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे ब्रह्मन् ! यस्य ते माता च यस्य ते पिता च वृक्षस्याग्रे क्रीडतस्तस्य ते विवक्षत इव यन्मुखं तेन त्वं बहु मा वदः ॥२५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यौ मातापितरौ सुशीलौ धर्मात्मानौ कुलीनौ भवेतां ताभ्यां शिक्षित एव पुत्रो मितभाषी भूत्वा कीर्त्तिमाप्नोति ॥२५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे माता-पिता सुशील, धर्मात्मा, धनवान व कुलीन असतात त्यांच्या संस्कारानुसार त्यांचा पुत्र मितभाषी बनून किर्ती प्राप्त करतो.
२६ ऊर्ध्वामेनामुच्छ्रापय गिरौ
विश्वास-प्रस्तुतिः ...{Loading}...
ऊ॒र्ध्वामे॑ना॒मुच्छ्रा॑पय गि॒रौ भा॒रँ हर॑न्निव। अथा॑स्यै॒ मध्य॑मेधताँ शी॒ते वाते॑ पु॒नन्नि॑व ॥२६ ॥
मूलम् ...{Loading}...
ऊ॒र्ध्वामे॑ना॒मुच्छ्रा॑पय गि॒रौ भा॒रँ हर॑न्निव। अथा॑स्यै॒ मध्य॑मेधताँ शी॒ते वाते॑ पु॒नन्नि॑व ॥२६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ऊ॒र्ध्वाम्। ए॒ना॒म्। उत्। श्रा॒प॒य॒। गि॒रौ। भा॒रम्। हर॑न्नि॒वेति॒ हर॑न्ऽइव। अथ॑। अ॒स्यै॒। मध्य॑म्। ए॒ध॒ता॒म्। शी॒ते। वाते॑ पु॒नन्नि॒वेति॑ पु॒नन्ऽइ॑व। २६।
महीधरः
म० उद्गाता वावातामाह । कंचिन्नरं प्रत्याह । हे नर, एनां वावातामूर्ध्वमुच्छ्रापय उच्छ्रितां कुरु । कथमिव । गिरौ भारं हरन्निव । यथा कश्चित् गिरौ पर्वते भारं हरन् पर्वतोपरि भारमारोपयन् यथा तमुच्छ्रयति तथैनामूर्ध्वां कुरु । कथमूर्ध्वा कार्या तदाह । अथेति निपातो यथार्थः । यथा अस्यै अस्या वावाताया मध्यमेधतां योनिप्रदेशो वृद्धिं यायात् । यथा योनिर्विशाला भवति तथा मध्ये गृहीत्वोच्छ्रापयेत्यर्थः । दृष्टान्तान्तरमाह । शीते वाते पुनन्निव । यथा शीतले वायौ वाति पुनन्धान्यपवनं कुर्वाणः कृषीवलो धान्यपात्रं यथा ऊर्ध्वं करोति तथेत्यर्थः ॥ २६ ॥
सप्तत्रिंशी।
अधिमन्त्रम् (VC)
- श्रीर्देवता
- प्रजापतिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर राजपुरुष किसकी उन्नति करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! तू (गिरौ) पर्वत पर (भारम्) भार (हरन्निव) पहुँचाते हुए के समान (एनाम्) इस राज्यलक्ष्मीयुक्त (ऊर्ध्वाम्) उत्तम कक्षावाली प्रजा को (उच्छ्रापय) सदा अधिक-अधिक उन्नति दिया कर (अथ) अब (अस्यै) इस प्रजा के (मध्यम्) मध्यभाग लक्ष्मी को पाकर (शीते) शीतल (वाते) पवन में (पुनन्निव) खेती करनेवालों की क्रिया से जैसे अन्न आदि शुद्ध हो वा पवन के योग से जल स्वच्छ हो, वैसे आप (एधताम्) वृद्धि को प्राप्त हूजिये ॥२६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में दो उपमालङ्कार हैं। राजा जैसे कोई बोझा ले जानेवाला, अपने शिर वा पीठ पर बोझा को उठा, पर्वत पर चढ़, उस भार को ऊपर स्थापन करे, वैसे लक्ष्मी को उन्नति होने को पहुँचावे वा जैसे खेती करनेवाले भूसा आदि से अन्न को अलग कर उस अन्न को खाके बढ़ते हैं, वैसे सत्य न्याय से सत्य असत्य को अलग कर न्याय करने हारा राजा नित्य बढ़ता है ॥२६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुना राजपुरुषः कामुत्कृष्टां कुर्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! त्वं गिरौ भारं हरन्निवैनामूर्ध्वामुच्छ्रापय। अथास्यै मध्यं प्राप्य शीते वाते पुनन्निव भवानेधताम् ॥२६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारौ। यथा कश्चिद् भारवाट्शिरसि पृष्ठे वा भारमुत्थाप्य गिरिमारुह्योपरि स्थापयेत्तथा राजा श्रियमुन्नतिभावं नयेत्। यथा वा कृषीवला बुसादिभ्योऽन्नं पृथक्कृत्य भुक्त्वा वर्द्धन्ते, तथा सत्यन्यायेन सत्यासत्ये पृथक्कृत्य न्यायकारी राजा नित्यं वर्द्धते ॥२६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात दोन उपमालंकार आहेत. जसे एखादा भारवाहक आपल्या डोक्यावर किंवा पाठीवर भार घेऊन पर्वतावर चढतो व तेथे भार ठेवतो. तशी राजाने लक्ष्मी हळूहळू वाढवावी किंवा जसे शेतकरी धान्याचा भूसा वेगळा करून ते अन्न खातात. तसे न्यायमार्गाने सत्यासत्य वेगवेगळे करून न्याय करणारा राजा सदैव उन्नत होतो.
२७ ऊर्ध्वमेनमुच्छ्रयताद् गिरौ
विश्वास-प्रस्तुतिः ...{Loading}...
ऊ॒र्ध्वमे॑न॒मुच्छ्र॑यताद् गि॒रौ भा॒रँ हर॑न्निव। अथा॑स्य॒ मध्य॑मेजतु शी॒ते वाते॑ पु॒नन्नि॑व ॥२७ ॥
मूलम् ...{Loading}...
ऊ॒र्ध्वमे॑न॒मुच्छ्र॑यताद् गि॒रौ भा॒रँ हर॑न्निव। अथा॑स्य॒ मध्य॑मेजतु शी॒ते वाते॑ पु॒नन्नि॑व ॥२७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ऊ॒र्ध्वम्। ए॒न॒म्। उत्। श्र॒य॒ता॒त्। गि॒रौ। भा॒रम्। हर॑न्नि॒वेति॒ हर॑न्ऽइव। अथ॑। अ॒स्य॒। मध्य॑म्। ए॒ज॒तु॒। शी॒ते। वात॑ पु॒नन्नि॒वेति॑ पु॒नन्ऽइ॑व। २७।
महीधरः
म० वावातोद्गातारं प्रत्याह । भवतोऽप्येतत्समानम् । हे नर, एनमुद्गातारमूर्ध्वमुच्छ्रयतात् ऊर्ध्वं कुरु । गिरौ भारमिति पूर्ववत् । अथ यथास्य उद्गातुर्मध्यं लिङ्गमेजत् कम्पताम् ‘एजृकम्पने’ लोट् । शीते वाते उक्तम् ॥ २७ ॥
अष्टाविंशी।
अधिमन्त्रम् (VC)
- श्रीर्देवता
- प्रजापतिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे प्रजास्थ विद्वान् ! आप (गिरौ) पर्वत पर (भारम्) भार को (हरन्निव) पहुँचाने के समान (एनम्) इस राजा को (ऊर्ध्वम्) सब व्यवहारों में अग्रगन्ता (उच्छ्रयतात्) उन्नतियुक्त करें, (अथ) इस के अनन्तर जैसे (अस्य) इस राज्य के (मध्यम्) मध्यभाग लक्ष्मी को पाकर (शीते) शीतल (वाते) पवन में (पुनन्निव) शुद्ध होते हुए अन्न आदि के समान (एजतु) उत्तम कर्मों में चेष्टा किया कीजिये ॥२७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में दो उपमालङ्कार हैं। जैसे सूर्य मेघमण्डल में जल के भार को पहुँचा और वहाँ से बरसा के सब को उन्नति देता है, वैसे ही प्रजाजन राजपुरुषों को उन्नति दें और अधर्म के आचरण से डरें ॥२७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे प्रजास्थ विद्वन् ! भवान् गिरौ भारं हरन्निवैनं राजानमूर्ध्वमुच्छ्रयतात्। अथास्य मध्यं प्राप्य शीते वाते पुनन्निवैजतु ॥२७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारौ। यथा सूर्यो मेघमण्डले जलभारं नीत्वा वर्षयित्वा सर्वानुन्नयति, तथैव प्रजा राजपुरुषानुन्नयेदधर्माचरणाद् बिभीयाच्च ॥२७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात दोन उपमालंकार आहेत. जसे सूर्य मेघांना जलभार देतो व तेथून वृष्टीरूपाने बरसात करतो. त्यामुळे सर्वांची भरभराट होते. तसे प्रजेने राजपुरुषांना समृद्ध करावे व अधर्माचरणास घाबरावे.
२८ यदस्याऽअंहुभेद्याः कृधु
विश्वास-प्रस्तुतिः ...{Loading}...
यद॑स्याऽअँहु॒भेद्याः॑ कृ॒धु स्थू॒लमु॒पात॑सत्। मु॒ष्काविद॑स्याऽएजतो गोश॒फे श॑कु॒लावि॑व ॥२८ ॥
मूलम् ...{Loading}...
यद॑स्याऽअँहु॒भेद्याः॑ कृ॒धु स्थू॒लमु॒पात॑सत्। मु॒ष्काविद॑स्याऽएजतो गोश॒फे श॑कु॒लावि॑व ॥२८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यत्। अ॒स्याः॒। अँ॒हु॒भेद्या॒ऽइत्यँ॑हु॒ऽभेद्याः॑। कृ॒धु। स्थू॒लम्। उ॒पात॑स॒दित्यु॑प॒ऽअत॑सत्। मु॒ष्कौ। इत्। अ॒स्याः॒। ए॒ज॒तः॒। गो॒श॒फ इति॑ गोऽश॒फे। श॒कु॒लावि॒वेति॑ शकु॒लौऽइ॑व। २८।
महीधरः
म० होता परिवृक्तामाह । यत् यदा अस्याः परिवृक्तायाः कृधु ह्रस्वं स्थूलं च शिश्नमुपातसत् उपगच्छेत् योनिं प्रति गच्छेत् ‘तंस उपक्षये’ तदा मुष्कौ वृषणौ इत् एव अस्याः योनेरुपरि एजतः कम्पेते । लिङ्गस्य स्थूलत्वाद्योनेरल्पत्वाद्वृषणौ बहिस्तिष्ठत इत्यर्थः । तत्र दृष्टान्तः । गोशफे जलपूर्णे गोः खुरे शकुलौ मत्स्याविव यथा उदकपूर्णे गोः पदे मत्स्यौ कम्पेते । कृध्विति ह्रस्वनाम । कीदृश्या अस्याः । अंहुभेद्याः अंहु भगं भेद्यं विदार्यं यस्याः सा अंहुभेदी तस्याः, अंहुर्भिद्यते यस्या वा ॥ २८ ॥
एकोनत्रिंशी।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- प्रजापतिर्ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यत्) जो राजा वा राजपुरुष (अस्याः) इस (अंहुभेद्याः) अपराध का विनाश करनेवाली प्रजा के (कृधु) थोड़े और (स्थूलम्) बहुत कर्म को (उपातसत्) सुशोभित करें, वे दोनों (अस्याः) इसको (एजतः) कर्म कराते हैं और वे आप (गोशफे) गौ के खुर से भूमि में हुए गढ़ेले में (शकुलाविव) छोटी दो मछलियों के समान (मुष्कौ, इत्) प्रजा से पाये हुए कर को चोरते हुए कंपते हैं ॥२८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे एक-दूसरे से प्रीति रखनेवाली मछली छोटी ताल तलैया में निरन्तर बसती है, वैसे राजा और राजपुरुष थोड़े भी कर के लाभ में न्यायपूर्वक प्रीति के साथ वर्त्तें और यदि दुःख को दूर करनेवाली प्रजा के थोड़े बहुत उत्तम काम की प्रंशसा करें तो वे दोनों प्रजाजनों को प्रसन्न कर अपने में उनसे प्रीति करावें ॥२८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यद्यो राजा राजपुरुषश्चास्या अंहुभेद्याः कृधु स्थूलं कर्मोपातसत्तावस्या एजतो गोशफे शकुलाविव मुष्काविदेजतः ॥२८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा प्रीतिमन्तौ मत्स्यावल्पेऽपि जलाशये निवसतस्तथा राजराजपुरुषावल्पेऽपि करलाभे न्यायेन प्रीत्या वर्त्तेयाताम्। यदि दुःखच्छेदिकायाः प्रजायाः स्वल्पमहदुत्तमं कर्म प्रशंसयेतां तर्हि तौ प्रजा उपरक्ताः कृत्वा स्वविषये प्रीतिं कारयेताम् ॥२८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. परस्परांवर प्रेम करणारे दोन मासे जसे लहान तलावात राहतात तसे राजा व राजपुरुष यांनी कर कमी व लाभ कमी होत असेल तरीही प्रजेबरोबर न्यायाने व प्रेमाने वागावे. दुःख दूर करणाऱ्या प्रजेने थोडे-बहुत उत्तम काम केल्यास त्यांची प्रशंसा करावी व त्या दोघांनी (राजा व राजपुरुष) प्रजेला प्रसन्न करून परस्पर प्रीती वाढवावी.
२९ यद्देवासो ललामगुम्
विश्वास-प्रस्तुतिः ...{Loading}...
यद्दे॒वासो॑ ल॒लाम॑गुं॒ प्र वि॑ष्टी॒मिन॒मावि॑षुः। स॒क्थ्ना दे॑दिश्यते॒ नारी॑ स॒त्यस्या॑क्षि॒भुवो॑ यथा ॥२९ ॥
मूलम् ...{Loading}...
यद्दे॒वासो॑ ल॒लाम॑गुं॒ प्र वि॑ष्टी॒मिन॒मावि॑षुः। स॒क्थ्ना दे॑दिश्यते॒ नारी॑ स॒त्यस्या॑क्षि॒भुवो॑ यथा ॥२९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यत्। दे॒वासः॑। ल॒लाम॑गु॒मिति॑ ल॒लाम॑ऽगुम्। प्र। वि॒ष्टी॒मिन॑म्। आवि॑षुः। स॒क्थ्ना। दे॒दि॒श्य॒ते॒। नारी॑। स॒त्यस्य॑। अ॒क्षि॒भुव॒ इत्य॑क्षि॒ऽभुवः॑। य॒था॒। २९।
महीधरः
म० परिवृक्ता होतारमाह । यत् यदा देवासः देवाः दीव्यन्ति क्रीडन्ति देवा होत्रादय ऋत्विजो ललामगुं लिङ्गं प्र आविषुः योनौ प्रवेशयन्ति । ‘अव रक्षे गतौ कान्तौ तृप्तौ ’ प्रीतौ द्युतौ श्रुतौ । प्राप्तौ श्लेषेऽर्पणे वेशे भागे वृद्धौ गृहे वधे ॥‘इत्युक्तेरत्रावधातुः प्रवेशनार्थः । लुङ् ‘छन्दसि लुङ्लङ्लिटः’ (पा० ३ । ४ । ६ ) इति वर्तमाने लुङ् ‘व्यवहिताश्च’ (पा. १।४। ८२) इति प्रोपसर्गेण व्यवधानम् । ललामेति सुखनाम । ललाम सुखं गच्छति प्राप्नोति ललामगुः शिश्नः । यद्वा ‘ललामं पुण्ड्रं गच्छति ललामगुः लिङ्गं योनिं प्रविशदुत्थितं पुड्राकारं भवतीत्यर्थः । कीदृशं ललामगुम् । विष्टीमिनं ‘ष्टीम क्लेदे’ विशेषेण स्तीमनं क्लेदनं विष्टीमः घञ्प्रत्ययः विष्टीमः क्लेदोऽस्यास्ति विष्टीमी तम् ‘अत इनिठनौ’ (पा० ५।२। । ११५) इत्यस्त्यर्थे इनिप्रत्ययः । शिश्नस्य योनिप्रवेशे क्लेदनं भवतीत्यर्थः । यदा देवाः शिश्नक्रीडिनो भवन्तो ललामगुं योनौ प्रवेशयन्ति तदा नारी सक्थ्ना ऊरुणा ऊरुभ्यां देदिश्यते
निर्दिश्यते अत्यन्तं लक्ष्यते । दिश्यतेर्यङ्प्रत्ययः । भोगसमये सर्वस्य नार्यङ्गस्य नरेण व्याप्तत्वादूरुमात्रं लक्ष्यते इयं नारीत्यर्थः । तत्र दृष्टान्तः । सत्यस्याक्षिभुवो यथेति । सत्यं द्विविधम् अक्षिभ्यां भवतीत्यक्षिभु प्रत्यक्षं । एकं च श्रोत्रग्राह्यम् । षष्ठ्यौ तृतीयार्थे । भवति यथा कश्चिदक्षिभुवा प्रत्यक्षेण सत्येन निर्दिश्यते तत्र विश्वासो भवति तथा उरुणा दृष्टेन नारीति लक्ष्यत इत्यर्थः । श्रोत्रग्राह्ये तु सत्ये वक्तुराप्ततमत्वमपेक्षितम् ॥ २९ ॥
त्रिंशी।
अधिमन्त्रम् (VC)
- विद्वांसो देवता
- प्रजापतिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! (यथा) जैसे (सत्यस्य) सत्य (अक्षिभुवः) आँख के सामने प्रगट हुए प्रत्यक्ष व्यवहार के मध्य में वर्त्तमान (देवासः) विद्वान् लोग (सक्थ्ना) जाँघ वा और अपने शरीर के अङ्ग से (नारी) स्त्री के समान (यत्) जिस (विष्टीमिनम्) जिस में सुन्दर बहुत गीले पदार्थ विद्यमान हैं (ललामगुम्) और जिससे मनोवाञ्छित फल को प्राप्त होते हैं, ऐसे न्याय को (प्राविषुः) व्याप्त हों वा जैसे शास्त्रवेत्ता विद्वान् जन सत्य का (देदिश्यते) निरन्तर उपदेश करें, वैसे आप आचरण करो ॥२९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे शरीर के अङ्गों से स्त्री-पुरुष लखे जाते हैं, वैसे प्रत्यक्ष आदि प्रमाणों से सत्य लखा जाता है, उस सत्य से विद्वान् लोग जैसे पाने योग्य कोमलता को पावें, वैसे राजा-प्रजा के स्त्री-पुरुष विद्या से नम्रता को पाकर सुख को ढूँढें ॥२९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! यथा सत्यस्याक्षिभुवो मध्ये वर्त्तमाना देवासः सक्थ्ना नारीव यद्विष्टीमिनं ललामगुं न्यायं प्राविषुर्यथा चाऽऽप्तेन सत्यमेव देदिश्यते तथा त्वमाचर ॥२९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा शरीराङ्गैः स्त्रीपुरुषौ लक्ष्येते तथा प्रत्यक्षादिप्रमाणैः सत्यं लक्ष्यते। तेन सत्येन विद्वांसो यथा प्राप्तव्यमार्द्रीभावं प्राप्नुयुस्तथेतरे राजप्रजास्थाः स्त्रीपुरुषा विद्यया विनयं प्राप्य सुखमन्विच्छन्तु ॥२९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. ज्याप्रमाणे शरीरावरून स्री व पुरुष ओळखले जातात. त्याप्रमाणे प्रत्यक्ष प्रमाणांनी सत्य ओळखले जाते. त्या सत्याला जाणून विद्वान लोक जसे नम्र असतात, तसे राजा व प्रजा यांच्या स्री-पुरुषांनी विद्येने नम्रतायुक्त बनावे व सुख शोधावे.
३० यद्धरिणो यवमत्ति
विश्वास-प्रस्तुतिः ...{Loading}...
यद्ध॑रि॒णो यव॒मत्ति॒ न पु॒ष्टं प॒शु मन्य॑ते। शू॒द्रा यदर्य॑जारा॒ न पोषा॑य धनायति ॥३० ॥
मूलम् ...{Loading}...
यद्ध॑रि॒णो यव॒मत्ति॒ न पु॒ष्टं प॒शु मन्य॑ते। शू॒द्रा यदर्य॑जारा॒ न पोषा॑य धनायति ॥३० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यत्। ह॒रि॒णः। यव॑म्। अत्ति॑। न। पु॒ष्टम्। प॒शु। मन्य॑ते। शू॒द्रा। यत्। अर्य्य॑जा॒रेत्यर्य्य॑ऽजारा। न। पोषा॑य। ध॒ना॒य॒ति॒। ३०।
महीधरः
म० क्षत्ता पालागलीमाह । यत् यदा हरिणो यवमत्ति मृगो यदा क्षेत्रस्थं धान्यं भक्षयति तदा क्षेत्री पशु पशुं हरिणं पुष्टं न मन्यते मम धान्यभक्षणेन पशुः पुष्टो जातः सम्यगिति न जानाति किंतु मदीयं क्षेत्रं भक्षितमिति दुःखी भवतीत्यर्थः । पशुशब्दात् ‘सुपां सुलुक्’ इत्यमो लुक् । एवं शूद्रा शूद्रजातिः स्त्री यदा अर्यजारा भवति ‘अर्यः स्वामिवैश्ययोः’ (पा० ३।१।१०३) इति निपातनादर्यो वैश्यो जार उपपतिर्यस्याः सा अर्यजारा । ‘शूद्रा चामहत्पूर्वा जातिः’ (पा. ४।१।४) इति शूद्राज्जात्यर्थे टाप् । वैश्यो यदा शूद्रां गच्छति तदा शूद्रः पोषाय न धनायते पुष्टिं न गच्छति मद्भार्या वैश्येन भुक्ता सती पुष्टा जातेति न मन्यते किंतु व्यभिचारिणी जातेति दुःखितो भवतीत्यर्थः । ‘अशनायोदन्य-’ (पा. ७ । ४ ॥ ३४) इति क्यचि धनायतीति इच्छार्थे निपातः ॥ ३० ॥
एकत्रिंशी।
अधिमन्त्रम् (VC)
- राजा देवता
- प्रजापतिर्ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह राजा कैसे आचरण करे, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यत्) जो राजा (हरिणः) हरिण जैसे (यवम्) खेत में उगे हुए जौ आदि को (अत्ति) खाता है, वैसे (पुष्टम्) पुष्ट (पशुः) देखने योग्य अपने प्रजाजन को (न) नहीं (मन्यते) मानता अर्थात् प्रजा को हृष्ट-पुष्ट नहीं देख के खाता है वह (यत्) जो (अर्य्यजारा) स्वामी वा वैश्य कुल को अवस्था से बुड्ढा करने हारी दासी (शूद्रा) शूद्र की स्त्री के समान (पोषाय) पुष्टि के लिये (न) नहीं (धनायति) अपने धन को चाहता है ॥३० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो राजा पशु के समान व्यभिचार में वर्त्तमान प्रजा की पुष्टि को नहीं करता, वह धनाढ्य शूद्रकुल की स्त्री, जो कि जारकर्म करती हुई दासी है, उसके समान शीघ्र रोगी होकर अपनी पुष्टि का विनाश करके धनहीनता से दरिद्र हुआ मरता है। इससे राजा न कभी ईर्ष्या और न व्यभिचार का आचरण करे ॥३० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स राजा कथमाचरेदित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यद् यो राजा हरिणो यवमत्तीव पुष्टं पशु न मन्यते, स यदर्य्यजारा शूद्रेव पोषाय न धनायति ॥३० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यो राजा पशुवद् व्यभिचारे वर्त्तमानः प्रजापुष्टिं न करोति, स धनाढ्या शूद्रा जारा दासीव सद्यो रोगी भूत्वा पुष्टिं विनाश्य धनहीनतया दरिद्रः सन् म्रियते तस्माद् राजा कदाचिदीर्ष्यां व्यभिचारं च नाचरेत्॥३० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जो राजा पशूप्रमाणे व्याभिचारी असेल तो प्रजेला बलवान करू शकत नाही. शुद्र कुलातील दासी ज्याप्रमाणे व्याभिचार करून लवकर रोगी बनते. त्याप्रमाणेच धनाढ्य राजाचाही बलहीनतेमुळे नाश होतो व तो धनहीन व दरिद्री बनून मरतो. त्यामुळे राजाने कधीही ईषा करू नये व व्याभिचार करू नये.
३१ यद्धरिणो यवमत्ति
विश्वास-प्रस्तुतिः ...{Loading}...
यद्ध॑रि॒णो यव॒मत्ति॒ न पु॒ष्टं ब॒हु मन्य॑ते। शू॒द्रो यदर्या॑यै जा॒रो न पोष॒मनु॑ मन्यते ॥३१ ॥
मूलम् ...{Loading}...
यद्ध॑रि॒णो यव॒मत्ति॒ न पु॒ष्टं ब॒हु मन्य॑ते। शू॒द्रो यदर्या॑यै जा॒रो न पोष॒मनु॑ मन्यते ॥३१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यत्। ह॒रि॒णः। यव॑म्। अत्ति॑। न। पु॒ष्टम्। ब॒हु॒। मन्य॑ते। शू॒द्रः। यत्। अर्य्या॑यै। जा॒रः। न। पोष॑म्। अनु॑। म॒न्य॒ते॒। ३१।
महीधरः
म० पालागली क्षत्तारमाह । यदा हरिणो यवमत्ति तदा बहु यथा तथा पशुं पुष्टं न मन्यते । इदं भवतोऽपि तुल्यम् । इयान् विशेषः । यत् यदा शूद्रः अर्यायै अर्याया वैश्याया जारो भवति तदा वैश्यः पोषं पुष्टिं नानुमन्यते मम स्त्री पुष्टा जातेति नानुमन्यते किंतु शूद्रेण नीचेन भुक्तेति क्लिश्यतीत्यर्थः । अश्लीलभाषणं समाप्तम् ॥ ३१ ॥
द्वात्रिंशी।
अधिमन्त्रम् (VC)
- राजप्रजे देवते
- प्रजापतिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह राजा किस हेतु से नष्ट होता है, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यत्) जो (शूद्रः) मूर्खों के कुल में जन्मा हुआ मूढ़जन (अर्य्यायै) अपने स्वामी अर्थात् जिसका सेवक उसकी वा वैश्यकुल की स्त्री के अर्थ (जारः) जार अर्थात् व्यभिचार से अपनी अवस्था का नाश करनेवाला होता है, वह जैसे (पोषम्) पुष्टि का (न) नहीं (अनुमन्यते) अनुमान रखता वा (यत्) जो राजा (हरिणः) हरिण जैसे (यवम्) उगे हुए जौ आदि को (अत्ति) खाता है, वैसे (पुष्टम्) धन, सन्तान, स्त्री, सुख, ऐश्वर्य्य आदि से पुष्ट अपने प्रजाजन को (बहु) अधिक (न) नहीं (मन्यते) मानता, वह सब ओर से क्षीण नष्ट और भ्रष्ट होता है ॥३१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो राजा और राजपुरुष परस्त्री, वेश्यागमन के लिए पशु के समान अपना वर्त्ताव करते हैं, उनको सब विद्वान् शूद्र के समान जानते हैं। जैसे शूद्र मूर्खजन श्रेष्ठों के कुल में व्यभिचारी होकर सब को वर्णसंकर कर देता है, वैसे ब्राह्मण, क्षत्रिय और वैश्य शूद्रकुल में व्यभिचार करके वर्णसंकर के निमित्त होकर नाश को प्राप्त होते हैं ॥३१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स राजा केन हेतुना नश्यतीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यद्यः शूद्रोऽर्यायै जारो भवति स यथा पोषं नाऽनुमन्यते यद् यो राजा हरिणो यवमत्तीव पुष्टं प्रजाजनं बहु न मन्यते, स सर्वतः क्षीणो जायते ॥३१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यदि राजा राजपुरुषाश्च परस्त्रीवेश्यागमनाय पशुवद्वर्त्तन्ते, तान् सर्वे विद्वांसः शूद्रानिव जानन्ति यथा शूद्र आर्य्यकुले जारो भूत्वा सर्वान् संकरयति, तथा ब्राह्मणक्षत्रियवैश्याः शूद्रकुले व्यभिचारं कृत्वा वर्णसंकरनिमित्ता भूत्वा नश्यन्ति ॥३१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जे राजे व राजपुरुष परस्रीवेश्यागमन करून पशूप्रमाणे आपले वर्तन ठेवतात. त्यांना सर्व विद्वान शुद्राप्रमाणे मानतात. जसे शुद्र, मूर्ख लोक श्रेष्ठ लोकांच्या कुळात व्याभिचारी बनून वर्णसंकर करतात तसे ब्राह्मण, क्षत्रिय व वैश्य, शूद्र कुळाशी व्याभिचार करून वर्णसंकर घडवून आणतात व नष्ट होतात.
३२ दधिक्राव्णोऽअकारिषं जिष्णोरश्वस्य
विश्वास-प्रस्तुतिः ...{Loading}...
द॒धि॒क्राव्णो॑ऽअकारिषं जि॒ष्णोरश्व॑स्य वा॒जिनः॑। सु॒र॒भि नो॒ मुखा॑ कर॒त्प्र ण॒ऽआयूँ॑षि तारिषत्॥३२ ॥
मूलम् ...{Loading}...
द॒धि॒क्राव्णो॑ऽअकारिषं जि॒ष्णोरश्व॑स्य वा॒जिनः॑। सु॒र॒भि नो॒ मुखा॑ कर॒त्प्र ण॒ऽआयूँ॑षि तारिषत्॥३२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
द॒धि॒क्राव्ण॒ इति दधि॒ऽक्राव्णः॑। अ॒का॒रि॒ष॒म्। जि॒ष्णोः। अश्व॑स्य। वा॒जिनः॑। सु॒र॒भि। नः॒। मुखा॑। क॒र॒त्। प्र। नः॒। आयूँ॑षि। ता॒रि॒ष॒त्। ३२।
महीधरः
म० ‘महिषीमुत्थाप्य पुरुषा दधिक्राव्ण इत्याहुः’ ( का० २० । ६ । २१)। महिषीं यजमानस्य प्रथमपरिणीतां पत्नीमश्वसमीपसुप्तामुत्थाप्य पुरुषा अध्वर्युब्रह्मोद्गातृहोतृक्षत्तारो मन्त्रं पठेयुरिति सूत्रार्थः । वामदेवात्मजदधिक्रावदृष्टाश्वदेवत्यानुष्टुप् । वयमध्वर्यादयः अकारिषमकार्ष्म कृतवन्तः । वचनव्यत्ययः । अश्लीलभाषणमिति शेषः । किमर्थम् । अश्वस्य संस्कारायेति शेषः । अश्वसंस्कारायाश्लीलभाषणं कृतवन्त इत्यर्थः । कीदृशस्याश्वस्य । दधिक्राव्णः दधाति धारयति नरमिति दधिः ‘आदृगमहन-’ (पा० ३।२ । १७१) इति किप्रत्ययः । । दधिः सन् क्रामतीति दधिक्रावा । तस्य ‘अन्येभ्योऽपि दृश्यते’ (पा० ३ । २ । ७५) इति वनिप्प्रत्ययः ‘विड्वनोरनुनासिकस्यात्-’ (पा० ६ । ४ । ४१) इति धातोराकारः । जिष्णोः जयनशीलस्य । वाजिनः वजति गच्छतीति वाजी वाजोऽस्यास्तीति वा वाजी तस्य च नोऽस्माकं मुखा मुखानि सुरभि सुरभीणि करत् करोतु यज्ञ इति शेषः । अश्लीलभाषणेन दुर्गन्धं प्राप्तानि ‘मुखानि सुरभीणि यज्ञः करोत्वित्यर्थः । तथाच श्रुतिः ‘सुरभिमतीमृचमन्ततोऽन्वाहुर्वाचमेव पुनन्तः (१३ । २ । ९ । ९) इति । सुरभिशब्दाद्विभक्तिलोपः । किंच नोऽस्माकमायूंषि जीवनानि बाल्ययौवनवार्धकानि प्रतारिषत् प्रतारयतु प्रवर्धयतु । लेटि रूपम् ॥ ३२॥
त्रयस्त्रिंशी।
अधिमन्त्रम् (VC)
- राजा देवता
- प्रजापतिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह राजा किस के समान क्या बढ़ावे, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! जैसे मैं (दधिक्राव्णः) जो धारण-पोषण करनेवालों को प्राप्त होता (वाजिनः) बहुत वेगयुक्त (जिष्णोः) जीतने और (अश्वस्य) शीघ्र जानेवाला है, उस घोड़े के समान पराक्रम को (अकारिषम्) करूँ, वैसे आप (नः) हम लोगों के (सुरभि) सुगन्धियुक्त (मुखा) मुखों के तुल्य पराक्रम को (प्र, करत्) भलीभाँति करो और (नः) हमारे (आयूंषि) आयुओं को (तारिषत्) उनकी अवधि के पार पहुँचाओ ॥३२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे घोड़ों के सिखानेवाले घोड़ों को पराक्रम की रक्षा के नियम से बलिष्ठ और संग्राम में जितानेवाले करते हैं, वैसे पढ़ाने और उपदेश करनेहारे कुमार और कुमारियों को पूरे ब्रह्मचर्य्य के सेवन से पण्डित, पण्डिता कर उनको शरीर और आत्मा के बल के लिए प्रवृत्त करा के बहुत आयुवाले और अति युद्ध करने में कुशल बनावें ॥३२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स राजा कस्येव किं वर्द्धयेदित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! यथाऽहं दधिक्राव्णो वाजिनो जिष्णोरश्वस्येव वीर्यमकारिषं तथा भवान् नः सुरभि मुखेव वीर्यं प्रकरन्न आयूंषि तारिषत्॥३२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यथाऽश्वशिक्षका अश्वान् वीर्यरक्षणनियमेन बलिष्ठान् संग्रामे विजयनिमित्तान् कुर्वन्ति, तथैवाध्यापकोपदेशकाः कुमारान् कुमारींश्च पूर्णेन ब्रह्मचर्यसेवनेन विद्यायुक्तान् विदुषीश्च कृत्वा शरीरात्मबलाय प्रवर्त्तय्य दीर्घायुषो युद्धशालीनान् सम्पादयेयुः ॥३२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जसे अश्वशिक्षक घोड्यांना पराक्रमी, रक्षक, वेगवान, बलिष्ठ व युद्धात जिंकणारे बनवितात तसे अध्यापन व उपदेश करणाऱ्यांनी कुमार व कुमारींना पूर्ण ब्रह्मचर्याने पंडित व पंडिता बनवून शरीर व आत्म्याचे बल वाढविण्यास प्रवृत्त करावे व दीर्घायुषी बनवावे, तसेच युद्धकुशलही बनवावे.
३३ गायत्री त्रिष्टुब्जगत्यनुष्टुप्पङ्क्त्या
विश्वास-प्रस्तुतिः ...{Loading}...
गा॒य॒त्री त्रि॒ष्टुब्जग॑त्यनु॒ष्टुप्प॒ङ्क्त्या स॒ह। बृ॒ह॒त्यु᳙ष्णिहा॑ क॒कुप्सू॒चीभिः॑ शम्यन्तु त्वा ॥३३ ॥
मूलम् ...{Loading}...
गा॒य॒त्री त्रि॒ष्टुब्जग॑त्यनु॒ष्टुप्प॒ङ्क्त्या स॒ह। बृ॒ह॒त्यु᳙ष्णिहा॑ क॒कुप्सू॒चीभिः॑ शम्यन्तु त्वा ॥३३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
गा॒य॒त्री। त्रि॒ष्टुप्। त्रि॒स्तुबिति॑ त्रि॒ऽस्तुप्। जग॑ती। अ॒नु॒ष्टुप्। अ॒नु॒स्तुबित्य॑नु॒ऽस्तुप्। प॒ङ्क्त्या। स॒ह। बृ॒ह॒ती। उ॒ष्णिहा॑। क॒कुप्। सू॒चीभिः॑। श॒म्य॒न्तु॒। त्वा॒। ३३।
महीधरः
म० ‘तिस्रः पत्न्योऽसि पथान्कल्पयन्त्यश्वस्य’ सूचीभिर्लौहराजतसौवर्णीभिर्मणिसंख्याभिर्गायत्रीत्रिष्टुबिति द्वाभ्यां द्वाभ्याम् (का० २० । ७।१)। गायत्री त्रिष्टुबिति षडृचे द्वाभ्यां द्वाभ्यामृग्भ्यां महिष्याद्यास्तिस्रः पत्न्यः ताम्ररूप्यस्वर्णमयीभिः प्रत्येकमेकाधिकशतसंख्याभिः सूचीभिरश्वाङ्गेऽसेः शासस्य मार्गान्कुर्वन्ति । शासस्य सुखप्रवेशाय सूचीभिर्वितुद्य वितुद्याश्वत्वचं जर्जरीकुर्वन्तीति सूत्रार्थः । अश्वदेवत्याः षड़ृचः आद्योष्णिक् । हे अश्व, गायत्री त्रिष्टुप् जगती अनुष्टुप् पङ्क्यारा सह बृहती उष्णिहा सह ककुप् एतानि छन्दांसि सूचीभिरेताभिः त्वां शम्यन्तु संस्कुर्वन्तु । विकरणव्यत्ययः । असिपथार्थं त्वग्भेदनं संस्कारः ॥ ३३ ॥
चतुस्त्रिंशी।
अधिमन्त्रम् (VC)
- विद्वांसो देवता
- प्रजापतिर्ऋषिः
- उष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! जो विद्वान् जन (पङ्क्त्या) विस्तारयुक्त पङ्क्ति छन्द के (सह) साथ जो (गायत्री) गानेवाले की रक्षा करती हुई गायत्री (त्रिष्टुप्) आध्यात्मिक, आधिभौतिक और आधिदैविक इन तीनों दुःखों को रोकनेवाला त्रिष्टुप् (जगती) जगत् के समान विस्तीर्ण अर्थात् फैली हुई जगती (अनुष्टुप्) जिससे पीछे से संसार के दुःखों को रोकते हैं, वह अनुष्टुप् तथा (उष्णिहा) जिससे प्रातः समय की वेला को प्राप्त करता है, उस उष्णिह् छन्द के साथ (बृहती) गम्भीर आशयवाली बृहती (ककुप्) ललित पदों के अर्थ से युक्त ककुप् छन्द (सूचीभिः) सूइयों से जैसे वस्त्र सिया जाता है, वैसे (त्वा) तुझको (शम्यन्तु) शान्तियुक्त करें वा सब विद्याओं का बोध करावें, उनका तू सेवन कर ॥३३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो विद्वान् गायत्री आदि छन्दों के अर्थ को बताने से मनुष्यों को विद्वान् करते हैं और सूई से फटे वस्त्र को सीवें त्यों अलग-अलग मतवालों का सत्य में मिलाप कर देते हैं और उनको एक मत में स्थापन करते हैं, वे जगत् के कल्याण करनेवाले होते हैं ॥३३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! ये विद्वांसः पङ्क्त्या सह गायत्री त्रिष्टुब्जगत्यनुष्टुबुष्णिहा सह बृहती ककुप्सूचीभिरिव त्वा त्वां शम्यन्तु तांस्त्वं सेवस्व ॥३३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये विद्वांसो गायत्र्यादिच्छन्दोऽर्थविज्ञापनेन मनुष्यान् विदुषः कुर्वन्ति, सूच्या छिन्नं वस्त्रमिव भिन्नमतान्यनुसंदधत्यैकमत्ये स्थापयन्ति, ते जगत्कल्याणकारका भवन्ति ॥३३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जसे फाटलेले वस्र सुईने शिवता येते तसे वेगवेगळ्या मतांच्या लोकांना सत्याबाबत एकमत करून जे विद्वान गायत्री इत्यादी छंदांचे अर्थ सांगतात आणि माणसांना विद्वान करतात ते जगाचे कल्याण करतात.
३४ द्विपदा याश्चतुष्पदास्त्रिपदा
विश्वास-प्रस्तुतिः ...{Loading}...
द्विप॑दा॒ याश्चतु॑ष्पदा॒स्त्रिप॑दा॒ याश्च॒ षट्प॑दाः। विच्छ॑न्दा॒ याश्च॒ सच्छ॑न्दाः सू॒चीभिः॑ शम्यन्तु त्वा ॥३४ ॥
मूलम् ...{Loading}...
द्विप॑दा॒ याश्चतु॑ष्पदा॒स्त्रिप॑दा॒ याश्च॒ षट्प॑दाः। विच्छ॑न्दा॒ याश्च॒ सच्छ॑न्दाः सू॒चीभिः॑ शम्यन्तु त्वा ॥३४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
द्विप॑दा॒ इति॒ द्विऽप॑दाः। याः। चतु॑ष्पदा॒ इति॒ चतुः॑ऽपदाः। त्रिप॑दा॒ इति॒ त्रिऽप॑दाः। याः। च॒। षट्प॑दा॒ इति॒ षट्ऽप॑दाः। विच्छ॑न्दा॒ इति॒ विऽच्छ॑न्दाः। याः। च॒। सच्छ॑न्दा॒ऽइति॒ सच्छ॑न्दाः। सू॒चीभिः॑। श॒म्य॒न्तु॒। त्वा॒। ३४।
महीधरः
म० चतस्रोऽनुष्टुभः । द्वे पदे यासां ता द्विपदाः याः चतुप्पदाः याः त्रिपदाः याः षट्पदाः याः विच्छन्दाः विगतं छन्दो याभ्यस्ताः छन्दोलक्षणहीनाः याः सच्छन्दाः छन्दोलक्षणयुताः ताः सर्वाः छन्दोजातयः हे अश्व, सूचीभिः त्वां शम्यन्तु ॥ ३४ ॥
पञ्चत्रिंशी।
अधिमन्त्रम् (VC)
- प्रजा देवता
- प्रजापतिर्ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर विद्वान् लोग क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो विद्वान् जन (सूचीभिः) सन्धियों को मिला देनेवाली क्रियाओं से (याः) जो (द्विपदाः) दो-दो पदवाली वा जो (चतुष्पदाः) चार-चार पदवाली वा (त्रिपदाः) तीन पदोंवाली (च) और (याः) जो (षट्पदाः) छः पदोंवाली जो (विच्छन्दाः) अनेकविध पराक्रमोंवाली (च) और (याः) जो (सच्छन्दाः) ऐसी हैं कि जिनमें एक से छन्द हैं, वे क्रिया (त्वा) तुम को ग्रहण कराके (शम्यन्तु) शान्ति सुख को प्राप्त करावें, उन का नित्य सेवन करो ॥३४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो विद्वान् मनुष्यों को ब्रह्मचर्य्य नियम से वीर्य्यवृद्धि को पहुँचा कर नीरोग जितेन्द्रिय और विषयासक्ति से रहित करके धर्मयुक्त व्यवहार में चलाते हैं, वे सब के पूज्य अर्थात् सत्कार करने के योग्य होते हैं ॥३४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्विद्वांसः किं कुर्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये विद्वांसः सूचीभिर्या द्विपदा याश्चतुष्पदा यास्त्रिपदा याश्च षट्पदा या विच्छन्दा याश्च सच्छन्दास्त्वा ग्राहयित्वा शम्यन्तु शमं प्रापयन्तु तान् नित्यं सेवस्व ॥३४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये विद्वांसो मनुष्यान् ब्रह्मचर्यनियमेन वीर्यवृद्धिं प्रापय्यारोगान् जितेन्द्रियान् विषयासक्तिविरहान् कृत्वा धर्म्ये व्यवहारे चालयन्ति, ते सर्वेषां पूज्या भवन्ति ॥३४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे विद्वान माणसांना ब्रह्मचर्य पाळून वीर्यवृद्धी करण्यास शिकवितात व निरोगी जितेंद्रिय बनवून विषयासक्तीपासून दूर ठेवतात व धर्म व्यवहारात युक्त करतात. ते सर्वांचे आदरणीय बनतात अर्थात् सत्कार करण्यायोग्य असतात.
३५ महानाम्न्यो रेवत्यो
विश्वास-प्रस्तुतिः ...{Loading}...
म॒हाना॑म्न्यो रे॒वत्यो॒ विश्वा॒ आशाः॑ प्र॒भूव॑रीः। मैघी॑र्वि॒द्युतो॒ वाचः॑ सू॒चीभिः॑ शम्यन्तु त्वा ॥३५ ॥
मूलम् ...{Loading}...
म॒हाना॑म्न्यो रे॒वत्यो॒ विश्वा॒ आशाः॑ प्र॒भूव॑रीः। मैघी॑र्वि॒द्युतो॒ वाचः॑ सू॒चीभिः॑ शम्यन्तु त्वा ॥३५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
म॒हाना॑म्न्य॒ इति॑ म॒हाऽना॑म्न्यः। रे॒वत्यः॑। विश्वाः॑। आशाः॑। प्र॒भूव॒रीरिति॑ प्र॒ऽभूव॑रीः। मैघीः॑। वि॒द्युत॒ इति॑ वि॒द्युऽतः॑। वाचः॑। सू॒चीभिः॑। श॒म्य॒न्तु॒। त्वा॒। ३५।
महीधरः
म० महत् नाम यासां ता महानाम्न्यः शक्वर्य ऋचः। रेवत्यः ऋचः यस्यामृचि रैवतं साम गीयते सा रेवती । विश्वाः सर्वाः आशा दिशः। कीदृश्य आशाः । प्रभूवरीः प्रभवन्ति सर्वभूतानि धारयितुं समर्था भवन्ति प्रभूवर्यः ‘अन्येभ्योऽपि दृश्यन्ते’ (पा० ३ । २ । ७५) इति वनिप् ‘ऋन्नेभ्यः-’ (पा. ४। १ । ५) इति ङीप् ‘वनो र च-’ (पा० ४ । १।७) इति तस्य रेफः पूर्वसवर्णदीर्घत्वम् । मेघे भवा मैघ्यः । पूर्वसवर्णः । मेघोत्था विद्युतः वाचो वेदलक्षणा अन्या अपि । एताः सर्वाः सूचीभिः हे अश्व, त्वां शम्यन्तु हविः कुर्वन्तु ॥ ३५ ॥
षट्त्रिंशी।
अधिमन्त्रम् (VC)
- प्रजा देवता
- प्रजापतिर्ऋषिः
- भुरिगुष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर विद्वान् कैसे हों, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे ज्ञान चाहने हारे (सूचीभिः) सन्धान करनेवाली क्रियाओं से जो (महानाम्न्यः) बड़े नामवाली (रेवत्यः) बहुत प्रकार के धन और (प्रभूवरीः) प्रभुता से युक्त (विश्वाः) समस्त (आशाः) दिशाओं के समान (मैघीः) वा मेघों की तड़क (विद्युतः) जो बिजुली उनके समान (वाचः) वाणी (त्वा) तुझ को (शम्यन्तु) शान्तियुक्त करें, उनका तू ग्रहण कर ॥३५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जिनकी वाणी दिशा के तुल्य सब विद्याओं में व्याप्त होने और मेघ में ठहरी हुई बिजुली के समान अर्थ का प्रकाश करनेवाली है, वे विद्वान् शान्ति से जितेन्द्रियता को प्राप्त होकर बड़ी कीर्तिवाले होते हैं ॥३५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्विद्वांसः कीदृशा भवेयुरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे जिज्ञासो ! सूचीभिर्या महानाम्न्यो रेवत्यः प्रभूवरीर्विश्वा आशा इव मैघीर्विद्युत इव च वाचस्त्वा शम्यन्तु तास्त्वं गृहाण ॥३५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। येषां वाचो दिग्वत्सर्वासु विद्यासु व्यापिका मेघस्था विद्युदिव सर्वार्थप्रकाशिकाः सन्ति, ते शान्त्या जितेन्द्रियत्वं प्राप्य महाकीर्त्तयो जायन्ते ॥३५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. ज्यांची वाणी मेघातील विद्युतप्रमाणे व दशदिशाप्रमाणे सर्व विद्यांमध्ये व्याप्त असते. ते विद्वान शांती व जितेंद्रियता प्राप्त करतात व महान कीर्तीही प्राप्त करतात.
३६ नार्यस्ते पत्न्यो
विश्वास-प्रस्तुतिः ...{Loading}...
नार्य॑स्ते॒ पत्न्यो॒ लोम॒ विचि॑न्वन्तु मनी॒षया॑। दे॒वानां॒ पत्न्यो॒ दिशः॑ सू॒चीभिः॑ शम्यन्तु त्वा ॥३६ ॥
मूलम् ...{Loading}...
नार्य॑स्ते॒ पत्न्यो॒ लोम॒ विचि॑न्वन्तु मनी॒षया॑। दे॒वानां॒ पत्न्यो॒ दिशः॑ सू॒चीभिः॑ शम्यन्तु त्वा ॥३६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नार्य्यः॑। ते॒। पत्न्यः॑। लोम॑। वि। चि॒न्व॒न्तु॒। म॒नी॒षया॑। दे॒वाना॑म्। पत्न्यः॑। दिशः॑। सू॒चीभिः॑। श॒म्य॒न्तु॒। त्वा॒। ३६।
महीधरः
म०. हे अश्व, नार्यः नृणामपत्यानि स्त्रियः ते तव लोम रोमाणि मनीषया मनसः इच्छया विचार्य विचिन्वन्तु पृथक्कुर्वन्तु । रोमेत्यत्र जातावेकवचनं विभक्तिलोपो वा । कीदृश्यो नार्यः । पत्न्यः ‘पत्युर्नो यज्ञसंयोगे’ (पा. ४।१।३३) । इति नकारः । यजमानभार्या महिष्याद्या इत्यर्थः । किंच | देवानामिन्द्रादीनां पत्न्यः दिशः प्राच्याद्याः सूचीभिः त्वां शम्यन्तु ॥ ३६॥
सप्तत्रिंशी।
अधिमन्त्रम् (VC)
- स्त्रियो देवताः
- प्रजापतिर्ऋषिः
- भुरिगुष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
अब कन्या कितना ब्रह्मचर्य करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे पण्डिता पढ़ानेवाली विदुषी स्त्री ! जो कुमारी (मनीषया) तीक्ष्ण बुद्धि से (ते) तेरी (लोम) अनुकूल आज्ञा को (विचिन्वन्तु) इकट्ठा करें वे (देवानाम्) पण्डितों की (नार्य्यः, पत्न्यः) पण्डितानी हों। हे कुमारी ! जो पण्डितों की (पत्न्यः) पण्डितानी होके (सूचीभिः) मिलाप की क्रियाओं से (दिशः) दिशाओं के समान शुद्ध पाकविद्या पढ़ी हुई हैं, वे (त्वा) तुझे (शम्यन्तु) शान्ति और ज्ञान दें ॥३६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो कन्या प्रथम अवस्था में सोलह वर्ष की अवस्था से चौबीस वर्ष की अवस्था तक ब्रह्मचर्य से विद्या उत्तम शिक्षा को पाकर अपने सदृश पुरुषों की पत्नी हों, वे दिशाओं के समान उत्तम प्रकाशयुक्त कीर्तिवाली हों ॥३६ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ कन्याः कियद् ब्रह्मचर्यं कुर्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विदुष्यध्यापिके ! याः कुमार्य्यो मनीषया ते लोम विचिन्वन्तु ता देवानां नार्य्यः पत्न्यो भवन्तु। हे कुमारि ! या देवानां पत्न्यो भूत्वा सूचीभिः दिश इव शुद्धा विदुष्यः सन्ति तास्त्वा त्वां शम्यन्तु ॥३६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - याः कन्या आद्ये वयसि आषोडशादाचतुर्विंशद्वर्षब्रह्मचर्य्येण विद्यासुशिक्षाः प्राप्य स्वसदृशानां पत्न्यः स्युस्ताः दिश इव सुप्रकाशितकीर्त्तयो भवन्ति ॥३६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्या कन्या सोळा वर्षांपासून चोवीस वर्षांपर्यंत ब्रह्मचर्य पाळून विद्या व उत्तम शिक्षण प्राप्त करतात व आपल्यासारख्याच पुरुषांच्या पत्नी बनतात. त्या दिशांप्रमाणे सर्वत्र प्रकाशित व कीर्तिमान होतात.
३७ रजता हरिणीः
विश्वास-प्रस्तुतिः ...{Loading}...
र॒ज॒ता हरि॑णीः॒ सीसा॒ युजो॑ युज्यन्ते॒ कर्म॑भिः। अश्व॑स्य वा॒जिन॑स्त्व॒चि सिमाः॑ शम्यन्तु॒ शम्य॑न्तीः ॥३७ ॥
मूलम् ...{Loading}...
र॒ज॒ता हरि॑णीः॒ सीसा॒ युजो॑ युज्यन्ते॒ कर्म॑भिः। अश्व॑स्य वा॒जिन॑स्त्व॒चि सिमाः॑ शम्यन्तु॒ शम्य॑न्तीः ॥३७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
र॒ज॒ताः। हरि॑णीः। सीसाः॑। युजः॑। यु॒ज्य॒न्ते॒। कर्म॑भिरिति॒ कर्म॑ऽभिः। अश्व॑स्य। वा॒जिनः॑। त्व॒चि। सिमाः॑। श॒म्य॒न्तु॒। शम्य॑न्तीः। ३७।
महीधरः
म० रजताः रजतमय्यः हरिणीः हरिण्यः सुवर्णमय्यः सीसाः सीसं ताम्रं तन्मय्यः । ‘त्रय्यः सूच्यो भवन्ति लोहमय्यो रजता हरिण्यः दिशो वै लोहमय्योऽवान्तरदिशो रजता ऊर्ध्वा हरिण्यस्ताभिरेवैनं कल्पयन्ति’ (१३ । २।१०।६) इति श्रुतेः । सूचीनां दिग्रूपत्वादश्वसंस्कारक्षमत्वम् । ताः सूच्यः कर्मभिः अश्वदेहे सीमाकरणलक्षणैः युज्यन्ते योगं प्राप्नुवन्ति । सीमाकरणयोग्या भवन्तीत्यर्थः । कीदृश्यस्ताः । युजः युज्यन्ते ता युजः संयुताः । एकीभूता इत्यर्थः । ताः सूच्यो वाजिनो वेगवतोऽश्वस्य त्वचि सिमाः सीमारेखाः शम्यन्तु सम्यक् कुर्वन्तु। सिमाशब्दः सीमापर्यायः । कीदृश्यस्ताः । शम्यन्तीः शम्यन्त्यः संस्कारं कुर्वाणाः ॥ ३७ ॥
अष्टत्रिंशी।
अधिमन्त्रम् (VC)
- स्त्रियो देवताः
- प्रजापतिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर वे कैसी हों, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जैसे स्वयंवर विवाह से विवाही हुई स्त्री (वाजिनः) प्रशंसित बलयुक्त (अश्वस्य) उत्तम गुणों में व्याप्त अपने पति के (त्वचि) उढ़ाने में (युज्यन्ते) संयुक्त की जाती अर्थात् पति को वस्त्र उढ़ाने आदि सेवा में लगाई जाती हैं, वैसे (कर्मभिः) धर्मयुक्त क्रियाओं से (रजताः) अनुराग अर्थात् प्रीति को प्राप्त हुई (हरिणीः) जिनका प्रशंसित स्वीकार करना है, वे (सीसाः) प्रेमवाली (युजः) सावधानचित्त, उचित काम करनेवाली (शम्यन्तीः) शान्ति को प्राप्त होती वा प्राप्त कराती हुई वा (सिमाः) प्रेम से बँधी स्त्री अपने हृदय से प्रिय पतियों को प्राप्त हो के (शम्यन्तु) आनन्द भोगें ॥३७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जो विद्या और अच्छी शिक्षा से युक्त आप विवाह को प्राप्त स्त्री-पुरुष अपनी इच्छा से एक-दूसरे से प्रीति किये हुए विवाह को करते हैं, वे लावण्य अर्थात् अतिसुन्दरता गुण और उत्तम स्वभावयुक्त सन्तानों को उत्पन्न कर सदा आनन्दयुक्त होते हैं ॥३७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्ताः कीदृशो भवेयुरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यथा स्वयंवरा वाजिनोऽश्वस्य त्वचि संयुज्यन्ते तथा कर्मभी रजता हरिणीः सीसा युजः शम्यन्तीः सिमा हृद्यान् पतीन् प्राप्य शम्यन्तु ॥३७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! ये सुशिक्षिताः स्वयंवरा भूत्वा स्त्रीपुरुषाः स्वेच्छया परस्परस्मिन् प्रीता विवाहं कुर्वन्ति, ते भद्रान् लावण्यगुणस्वभावयुक्तान् सन्तानानुत्पाद्य सदानन्दन्ति ॥३७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! विद्या व चांगले शिक्षण यांनी युक्त जे विवाहेच्छू स्री-पुरुष एकमेकांवर प्रेम करून विवाह करतात ते अतिसुंदर, गुणवान व उत्तम स्वभाव असलेल्या संतानांना उत्पन्न करून नेहमी आनंदात राहतात.
३८ कुविदङ्ग यवमन्तो
विश्वास-प्रस्तुतिः ...{Loading}...
कु॒विद॒ङ्ग यव॑मन्तो॒ यव॑ञ्चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑। इ॒हेहै॑षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नम॑ऽउक्तिं॒ यज॑न्ति ॥३८ ॥
मूलम् ...{Loading}...
कु॒विद॒ङ्ग यव॑मन्तो॒ यव॑ञ्चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑। इ॒हेहै॑षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नम॑ऽउक्तिं॒ यज॑न्ति ॥३८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
कु॒वित्। अ॒ङ्ग। यव॑मन्त इति॒ यव॑ऽमन्तः। यव॑म्। चि॒त्। यथा॑। दान्ति॑। अ॒नु॒पू॒र्वमित्य॑नुऽपू॒र्वम्। वि॒यूयेति॑ वि॒ऽयूय॑। इ॒हेहेती॒हऽइ॑ह। ए॒षा॒म्। कृ॒णु॒हि॒। भोज॑नानि। ये। ब॒र्हिषः॑। नम॑ऽउक्ति॒मिति॒ नमः॑ऽउक्तिम्। यज॑न्ति। ३८।
महीधरः
म० इयं व्याख्याता (अ० १० । क० ३२ ) ॥ ३८ ॥
एकोनचत्वारिंशी।
अधिमन्त्रम् (VC)
- सभासदो देवताः
- प्रजापतिर्ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब पढ़ने और पढ़ाने हारे कैसे हों, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अङ्ग) मित्र ! (कुवित्) बहुत विज्ञानयुक्त तू (इहेह) इस-इस व्यवहार में (एषाम्) इन मनुष्यों से (यथा) जैसे (यवमन्तः) बहुत जौ आदि अन्नयुक्त खेती करनेवाले (यवम्) जौ आदि अनाज के समूह को बुस आदि से (वियूय) पृथक्कर (चित्) और (अनुपूर्वम्) क्रम से (दान्ति) छेदन करते हैं, उनके और (ये) जो (बर्हिषः) जल वा (नमउक्तिम्) अन्नसम्बन्धी वचन को (यजन्ति) कहकर सत्कार करते हैं, उनके (भोजनानि) भोजनों को (कृणुहि) करो ॥३८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। हे पढ़ाने और पढ़ने वालो ! तुम लोग जैसे खेती करनेहारे एक-दूसरे के खेत को पारी से काटते और भूसा से अन्न को अलग कर औरों को भोजन कराके फिर आप भोजन करते हैं, वैसे ही यहाँ विद्या के व्यवहार में निष्कपट भाव से विद्यार्थियों को पढ़ानेवालों की सेवा और पढ़ानेवालों को विद्यार्थियों की विद्यावृद्धि कर एक-दूसरे को खान-पान से सत्कार कर सब कोई आनन्द भोगें ॥३८ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथाऽध्यापकाऽध्येतारः कीदृशः स्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अङ्ग ! कुवित्त्वमिहेहैषां यथा यवमन्तो कृषीव यवं वियूय चिदप्यनुपूर्वं दान्ति ये च बर्हिषो नम उक्तिं यजन्ति, तेषां भोजनानि कृणुहि ॥३८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। हे अध्यापकाध्येतारः ! यूयं यथा कृषीवलाः परस्परस्य क्षेत्राणि पर्यायेण लुनन्ति, बुसादिभ्योऽन्नानि पृथक्कृत्याऽन्यान् भोजयित्वा स्वयं भुञ्जते, तथैवेह विद्याव्यवहारे निष्कपटतया विद्यार्थिभिरध्यापकानां सेवामध्यापकैर्विद्यार्थिनां विद्यावृद्धिं च कृत्वा परस्परान् भोजनादिना सत्कृत्य सर्व आनन्दन्तु ॥३८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. हे अध्ययन व अध्यापन करणाऱ्यांनो! ज्याप्रमाणे शेतकरी एकमेकांचे शेत आळीपाळीने कापतात व धान्यापासून भूसा वेगळा करून अन्न तयार करून इतरांना भोजन देतात व नंतर स्वतः भोजन करतात तसे विद्यार्थ्यांनी विद्या प्रक्रियेत अध्यापकांची सेवा करावी व अध्यापकांनीही विद्यार्थ्यांची विद्या वृद्धिंगत करावी. खानपानासह सत्कार करावा व सर्वांनी आनंदात राहावे.
३९ कस्त्वाछ्यति कस्त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
कस्त्वाछ्य॑ति॒ कस्त्वा॒ विशा॑स्ति॒ कस्ते॒ गात्रा॑णि शम्यति। कऽउ॑ ते शमि॒ता क॒विः ॥३९ ॥
मूलम् ...{Loading}...
कस्त्वाछ्य॑ति॒ कस्त्वा॒ विशा॑स्ति॒ कस्ते॒ गात्रा॑णि शम्यति। कऽउ॑ ते शमि॒ता क॒विः ॥३९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
कः। त्वा॒। आछ्य॑ति। कः। त्वा॒। वि। शा॒स्ति॒। कः। ते॒। गात्रा॑णि। श॒म्य॒ति॒। कः। उँ॒ऽइत्यूँ॑। ते॒। श॒मि॒ता। क॒विः। ३९।
महीधरः
म० ‘अश्वं विशास्त्यनुवाकेन कस्त्वाऽऽच्छ्यतीति’ ( का. २०। ७ । ६)। षडृचेनानुवाकेनाश्वं विशास्ति अश्वोदरं पाटयति मेदस उद्धरणाय । वपाया अभावात् उदरमध्यस्थं स्त्यानं घृताभं घनं श्वेतं मांसं मेद इति सूत्रार्थः । अश्वदेवत्याः षडृचः। आद्या गायत्री । हे अश्व, कः प्रजापतिः त्वा त्वामाच्छ्यति छिनत्ति । ‘छो छेदने’ लट् ‘ओतः श्यनि’ (पा० ७ । ३ । ७१ ) इति ओकारलोपः । हे अश्व, कः त्वां विशास्ति त्वचा वियोजयति । ते तव गात्राणि कः शम्यति शमनेन हविः करोति । कः उ कश्च प्रजापतिरेव कविर्मेधावी ते तव शमिता शमयिता । प्रजापतिरेव सर्वं करोति नाहमित्यर्थः ॥ ३९॥
चत्वारिंशी।
अधिमन्त्रम् (VC)
- अध्यापको देवता
- प्रजापतिर्ऋषिः
- भुरिग्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर पढ़ानेवाले विद्यार्थियों की कैसी परीक्षा लेवें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे पढ़नेवाले विद्यार्थिजन ! (त्वा) तुझे (कः) कौन (आछ्यति) छेदन करता (कः) कौन (त्वा) तुझे (विशास्ति) अच्छा सिखाता (कः) कौन (ते) तेरे (गात्राणि) अङ्गों को (शम्यति) शान्ति पहुँचाता और (कः) कौन (उ) तो (ते) तेरा (शमिता) यज्ञ करनेवाला (कविः) समस्त शास्त्र को जानता हुआ पढ़ाने हारा है ॥३९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अध्यापक लोग पढ़नेवालों के प्रति ऐसे परीक्षा में पूछें कि कौन तुम्हारे पढ़ने को काटते अर्थात् पढ़ने में विघ्न करते? कौन तुम को पढ़ने के लिए उपदेश देते हैं? कौन अङ्गों की शुद्धि और योग्य चेष्टा को जनाते हैं? कौन पढ़ानेवाला है? क्या पढ़ा? क्या पढ़ने योग्य है? ऐसे-ऐसे पूछ उत्तम परीक्षा कर उत्तम विद्यार्थियों को उत्साह देकर दुष्ट स्वभाववालों को धिक्कार दे के विद्या की उन्नति करावें ॥३९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनरध्यापका विद्यार्थिनां कीदृशीं परीक्षां गृह्णीयुरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अध्येतस्त्वा त्वां क आछ्यति कस्त्वा विशास्ति कस्ते गात्राणि शम्यति क उ ते शमिता कविरध्यापकोऽस्ति ॥३९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अध्यापका अध्येतॄन् प्रत्येवं परीक्षायां पृच्छेयुः के युष्माकमध्ययनं छिन्दन्ति? के युष्मानध्ययनायोपदिशन्ति? केऽङ्गानां शुद्धिं योग्यां चेष्टां च ज्ञापयन्ति? कोऽध्यापकोऽस्ति? किमधीतम्? किमध्येतव्यमस्ति? इत्यादि पृष्ट्वा सुपरीक्ष्योत्तमानुत्साह्याधमान् धिक्कृत्वा विद्यामुन्नयेयुः ॥३९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - अध्यापकांनी विद्यार्थ्यांना परीक्षेमध्ये असे प्रश्न विचारावेत की, तुमच्या शिक्षणात कुणामुळे अडथळा येतो? शिकण्याचा उपदेश कोण करतो? शरीराची स्वच्छता करावी व योग्य प्रयत्न करावे? असे कोण सांगते? कोण शिकविणारा आहे? काय शिकलात? व काय शिकण्यायोग्य आहे? असे निरनिराळे प्रश्न विचारून चांगली परीक्षा घ्यावी व चांगल्या विद्यार्थ्यांना उत्साहित करावे. दुष्ट स्वभावाच्या व्यक्तींचा धिक्कार करावा व विद्येची वाढ करावी.
४० ऋतवस्तऽऋतुथा पर्व
विश्वास-प्रस्तुतिः ...{Loading}...
ऋ॒तव॑स्तऽऋतु॒था पर्व॑ शमि॒तारो॒ विशा॑सतु। सं॒व॒त्स॒रस्य॒ तेज॑सा श॒मीभिः॑ शम्यन्तु त्वा ॥४० ॥
मूलम् ...{Loading}...
ऋ॒तव॑स्तऽऋतु॒था पर्व॑ शमि॒तारो॒ विशा॑सतु। सं॒व॒त्स॒रस्य॒ तेज॑सा श॒मीभिः॑ शम्यन्तु त्वा ॥४० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ऋ॒तवः॑। ते॒। ऋ॒तु॒थेत्यृ॑तु॒ऽथा। पर्व॑। श॒मि॒तारः॑। वि। शा॒स॒तु॒। सं॒व॒त्स॒रस्य॑। तेज॑सा। श॒मीभिः॑। श॒म्य॒न्तु॒। त्वा॒। ४०।
महीधरः
म० पञ्चानुष्टुभः । हे अश्व, ऋतवः शमितारः ऋतुथा ऋतौ ऋतौ काले काले ते तव पर्वणि पर्वणि अस्थिग्रन्थीन् शमीभिः कर्मभिः विशासतु भिन्नानि कुर्वन्तु । केन संवत्सरस्य संवत्सरात्मकस्य कालस्य तेजसा । किंच ऋतवः त्वा त्वां शम्यन्तु पर्वविशासनेन हविः कुर्वन्तु ॥ ४० ॥
एकचत्वारिंशी।
अधिमन्त्रम् (VC)
- प्रजा देवता
- प्रजापतिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर स्त्री-पुरुष कैसे अपना वर्त्ताव वर्त्तें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्यार्थी जन ! जैसे (ते) तेरे (ऋतवः) वसन्त आदि ऋतु (ऋतुथा) ऋतु-ऋतु के गुणों से (पर्व) पालना कर (शमितारः) वैसे पढ़ाने रूप यज्ञ में शम, दम आदि गुणों की प्राप्ति करानेहारे अध्यापक पढ़नेवालों को (वि, शासतु) विशेषता से उपदेश करें (संवत्सरस्य) और संवत् के (तेजसा) जल (शमीभिः) और कर्मों से (त्वा) तुझे (शम्यन्तु) शान्ति दें, उनकी तू सदैव सेवा कर ॥४० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे ऋतु पारी से अपने-अपने चिह्नों को प्राप्त होते हैं, वैसे स्त्री-पुरुष पारी से ब्रह्मचर्य, गृहस्थ का धर्म, वानप्रस्थ वन में रहकर तप करना और संन्यास आश्रम को करके; ब्राह्मण और ब्राह्मणी पढ़ावें, क्षत्रिय और क्षत्रिया प्रजा की रक्षा करें, वैश्य और वैश्या खेती आदि की उन्नति करें और शूद्र-शूद्रा उक्त ब्राह्मण आदि की सेवा किया करें ॥४० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स्त्रीपुरुषाः कथं वर्त्तेरन्नित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्यार्थिन् ! यथा ते ऋतव ऋतथा पर्वेव शमितारोऽध्येतारं विशासतु संवत्सरस्य तेजसा शमीभिस्त्वा त्वां शम्यन्तु तांस्त्वं सदैव सेवस्व ॥४० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा ऋतवः पर्यायेण स्वानि स्वानि लिङ्गान्यभिपद्यन्ते, तथैव स्त्रीपुरुषाः पर्यायेण ब्रह्मचर्यगृहस्थवानप्रस्थसंन्यासाश्रमान् कृत्वा, ब्राह्मणा ब्राह्मण्यश्चाऽध्यापयेयुः, क्षत्रियाः प्रजा रक्षन्तु, वैश्याः कृष्यादिकमुन्नयन्तु, शूद्राश्चैतान् सेवन्तामिति ॥४० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसे ऋतूचे चिन्ह क्रमाक्रमाने प्रकट होते तसे स्री-पुरुषांनीही क्रमाक्रमाने ब्रह्मचर्य, गृहस्थ, वानप्रस्थ यांचे पालन करावे व संन्यासाश्रमाचा स्वीकार करावा. ब्राह्मण व ब्राह्मण स्रीने अध्यापन करावे. क्षत्रिय व क्षत्रिय स्रीने प्रजेचे रक्षण करावे. वैश्य व वैश्य स्रीने शेतीचा विकास करावा आणि शूद्र व शूद्र स्रीने इतरांची सेवा करावी.
४१ अर्द्धमासाः परूषि
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒र्द्ध॒मा॒साः परूँ॑षि ते॒ मासा॒ऽआच्छ्य॑न्तु॒ शम्य॑न्तः। अ॒हो॒रा॒त्राणि॑ म॒रुतो॒ विलि॑ष्टँ सूदयन्तु ते ॥४१ ॥
मूलम् ...{Loading}...
अ॒र्द्ध॒मा॒साः परूँ॑षि ते॒ मासा॒ऽआच्छ्य॑न्तु॒ शम्य॑न्तः। अ॒हो॒रा॒त्राणि॑ म॒रुतो॒ विलि॑ष्टँ सूदयन्तु ते ॥४१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒र्द्ध॒मा॒सा इत्य॑र्द्धमा॒साः। परूँ॑षि। ते॒। मासाः॑। आ। छ्यन्तु॒। शम्य॑न्तः। अ॒हो॒रा॒त्राणि॑। म॒रुतः॑। विलि॑ष्ट॒मिति॒ विऽलि॑ष्टम्। सू॒द॒य॒न्तु॒। ते॒। ४१।
महीधरः
म० अर्धमासाः पक्षाः मासाश्च तदभिमानिनो देवाः शम्यन्तः संस्कुर्वन्तः सन्तो हे अश्व, ते तव परूंषि पर्वाणि आच्छ्यन्तु समन्ताच्छिन्दन्तु । ‘ग्रन्थिर्ना पर्वपरुषी’ इति कोशः । किंच अहोरात्राणि अहोरात्राभिमानिदेवा मरुतश्च देवाः ते तव विलिष्टं ‘लिश अल्पीभावे’ विशेषेणाल्पमङ्गम् तत् सूदयन्तु संदधतु ‘सूद क्षरणे’ अत्र सन्धानार्थः व्यर्थं मास्तु ॥४१॥
द्विचत्वारिंशी।
अधिमन्त्रम् (VC)
- प्रजा देवता
- प्रजापतिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब बालकों में माता आदि कैसे वर्त्तें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्यार्थी लोग ! (अहोरात्राणि) दिन-रात (अर्द्धमासाः) उजेले-अंधियारे पखवाड़े और (मासाः) चैत्रादि महीने जैसे आयु अर्थात् उमरों को काटते हैं, वैसे (ते) तेरे (परूंषि) कठोर वचनों को (शम्यन्तः) शान्ति पहुँचाते हुए (मरुतः) उत्तम मनुष्य दुष्ट कामों का (आच्छ्यन्तु) विनाश करें और (ते) तेरे (विलिष्टम्) थोड़े भी कुव्यसन को (सूदयन्तु) दूर करें ॥४१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो माता-पिता पढ़ाने और उपदेश करनेवाले तथा अतिथि लोग बालकों के दुष्ट गुणों को न निवृत्त करें तो वे शिष्ट अर्थात् उत्तम कभी न हों ॥४१ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ बालकेषु मात्रादयः कथं वर्त्तेरन्नित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्यार्थिन् ! अहोरात्राण्यर्द्धमासा मासाश्चायूंषीव ते तव परूंषि शम्यन्तो मरुतो दुर्व्यसनान्याच्छ्यन्तु ते तव मासा विलिष्टं सूदयन्तु ॥४१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यदि मातापित्रध्यापकोपदेशकातिथयो बालानां दुर्गुणान्न निवर्त्तयेयुस्तर्हि ते शिष्टाः कदाचिन्न भवेयुः ॥४१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जे आई-वडील शिकविणारे व उपदेश करणारे नसतील व अतिथी मुलांच्या दुष्ट गुणांना दूर करणार नसतील तर ती मुले सभ्य अर्थात् कधीही उत्तम होणार नाहीत.
४२ दैव्याऽअध्वर्यवस्त्वाच्छ्यन्तु वि
विश्वास-प्रस्तुतिः ...{Loading}...
दैव्या॑ऽअध्व॒र्यव॒स्त्वाच्छ्य॑न्तु॒ वि च॑ शासतु। गात्रा॑णि पर्व॒शस्ते॒ सिमाः॑ कृण्वन्तु॒ शम्य॑न्तीः ॥४२ ॥
मूलम् ...{Loading}...
दैव्या॑ऽअध्व॒र्यव॒स्त्वाच्छ्य॑न्तु॒ वि च॑ शासतु। गात्रा॑णि पर्व॒शस्ते॒ सिमाः॑ कृण्वन्तु॒ शम्य॑न्तीः ॥४२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दैव्याः॑। अ॒ध्व॒र्यवः॑। त्वा॒। आ। छ्य॒न्तु॒। वि। च॒। शा॒स॒तु॒। गात्रा॑णि। प॒र्व॒श इति॑ पर्व॒ऽशः। ते। सिमाः॑। कृ॒ण्व॒न्तु॒। शम्य॑न्तीः। ४२।
महीधरः
म०. देवानामिमे दैव्याः अश्विनौ देवानामध्वर्यू इत्युक्तत्वात् अश्विप्रमृतयो देवसंबन्धिनोऽध्वर्यवः हे अश्व, त्वा त्वामाच्छ्यन्तु आच्छिन्दन्तु विशासतु च । चकारो भिन्नक्रमः । हविः कुर्वन्तु । किंच ते तव गात्राणि । विभक्तिव्यत्ययः । गात्रेषु शरीरेषु पर्वशः पर्वणि पर्वणि सिमाः सीमा मर्यादाः कृण्वन्तु कुर्वन्तु । ‘कॄ करणे’ स्वादिः । कीदृशीः सीमाः । शम्यन्तीः संस्कुर्वाणाः ॥ ४२ ॥
त्रिचत्वारिंशी।
अधिमन्त्रम् (VC)
- अध्यापको देवता
- प्रजापतिर्ऋषिः
- भुरिगुष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
अब पढ़ानेवाले आदि सज्जन कैसे वर्त्तें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्यार्थी वा विद्यार्थिनी ! (दैव्याः) विद्वानों में कुशल (अध्वर्यवः) अपनी रक्षारूप यज्ञ को चाहते हुए अध्यापक उपदेशक लोग (त्वा) तुझे (वि, शासतु) विशेष उपदेश दें (च) और (ते) तेरे दोषों का (आ, छ्यन्तु) विनाश करें (पर्वशः) सन्धि-सन्धि से (गात्राणि) अङ्गों को परखें (सिमाः) प्रेम से बँधी हुई (शम्यन्तीः) दुष्ट स्वभाव को दूर करती हुई माता आदि सती स्त्रियाँ भी ऐसी ही शिक्षा (कृण्वन्तु) करें ॥४२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अध्यापक, उपदेशक और अतिथि लोग जब बालकों को सिखलावें तब दोषों का विनाश कर उनको विद्या की प्राप्ति करावें, ऐसे पढ़ाने और उपदेश करनेवाली स्त्री भी कन्याओं के प्रति आचरण करें और वैद्यक शास्त्र की रीति से शरीर के अङ्गों की अच्छे प्रकार परीक्षा कर औषधि भी देवें ॥४२ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथाध्यापकादयः कथं वर्त्तेरन्नित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्यार्थिन् विद्यार्थिनि वा ! दैव्या अध्वर्य्यवस्त्वा विशासतु च ते तव दोषानाच्छ्यन्तु पर्वशो गात्राणि परीक्षन्तां सिमाः शम्यन्तीः सत्यो मातरोऽप्येवं शिक्षां कृण्वन्तु ॥४२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अध्यापकोपदेशकाऽतिथयो यदा बालकान् शिक्षयेयुस्तदा दुर्गुणान् विनाश्य विद्यां प्रापयेयुरेवमध्यापिकोपदेशिका विदुष्यः स्त्रियोऽपि कन्याः प्रत्याचरेयुः। वैद्यकशास्त्ररीत्या शरीरावयवान् सम्यक्परीक्ष्यौषधान्यपि प्रदद्युः ॥४२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - अध्यापक, उपदेशक व अतिथी लोकांनी बालकांना शिकविताना त्यांच्या दोषांचे निवारण करून त्यांना विद्या शिकवावी, तसेच अध्यापिका व उपदेशिका यांनी मुलींशी याप्रमाणेच वागावे आणि वैद्यकशास्रानुसार शरीराच्या अवयवातील दोष जाणून चांगल्याप्रकारे परीक्षा करून औषध द्यावे.
४३ द्यौस्ते पृथिव्यन्तरिक्षम्
विश्वास-प्रस्तुतिः ...{Loading}...
द्यौस्ते॑ पृथि॒व्य᳙न्तरि॑क्षं वा॒युश्छि॒द्रं पृ॑णातु ते। सूर्य॑स्ते॒ नक्ष॑त्रैः स॒ह लो॒कं कृ॑णोतु साधु॒या ॥४३ ॥
मूलम् ...{Loading}...
द्यौस्ते॑ पृथि॒व्य᳙न्तरि॑क्षं वा॒युश्छि॒द्रं पृ॑णातु ते। सूर्य॑स्ते॒ नक्ष॑त्रैः स॒ह लो॒कं कृ॑णोतु साधु॒या ॥४३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
द्यौः। ते॒। पृ॒थि॒वी। अ॒न्तरि॑क्षम्। वा॒युः। छि॒द्रम्। पृ॒णा॒तु॒। ते॒। सूर्यः॑। ते। नक्ष॑त्रैः। स॒ह। लो॒कम्। कृ॒णो॒तु॒। सा॒धु॒येति॑ साधु॒ऽया। ४३।
महीधरः
म० द्यौः स्वर्गः पृथिवी अन्तरिक्षं लोकत्रयाभिमानिनो देवाः अग्निवायुसूर्याः वायुरन्योऽपि शरीरस्थः प्राणादिः हे अश्व, ते तव छिद्रं पृणातु । वचनव्यत्ययः पृणन्तु पूरयन्तु । यत् न्यूनं तत् पूरयन्तु । किंच नक्षत्रैः सह नक्षत्रयुक्तः सूर्यः ते तव साधुया साधुं समीचीनं लोकं कृणोतु करोतु । ‘सुपां सुलुक्’ इत्यादिना साधुशब्दात्परस्यामो यादेशः । सूर्यस्ते उत्तमं लोकं ददात्वित्यर्थः ॥ ४३ ॥
चतुश्चत्वारिंशी ।
अधिमन्त्रम् (VC)
- राजा देवता
- प्रजापतिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर अध्यापकादि कैसे हों, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे पढ़ने या पढ़ाने हारी स्त्रियो ! जैसे (द्यौः) प्रकाशरूप बिजुली (पृथिवी) भूमि (अन्तरिक्षम्) आकाश (वायुः) पवन (सूर्य्यः) सूर्यलोक और (नक्षत्रैः) तारागणों के (सह) साथ चन्द्रलोक (ते) तेरे (छिद्रम्) प्रत्येक इन्द्रिय को (पृणातु) सुख देवें (ते) तेरे व्यवहार को सिद्ध करें, वैसे (ते) तेरे (साधुया) उत्तम सत्य (लोकम्) देखने योग्य लोक को (कृणोतु) सिद्ध करें ॥४३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे पृथिवी आदि सुख देने और सूर्य आदि पदार्थ प्रकाश करनेवाले हैं, वैसे ही पढ़ानेवाले और उपदेश करनेवाले वा पढ़ाने और उपदेश करनेवाली स्त्री सब को अच्छे मार्ग में स्थापन कर विद्या के प्रकाश को उत्पन्न करें ॥४३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनरध्यापकादयः कीदृशा भवेयुरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे शिष्येऽध्यापिके वा ! यथा द्यौः पृथिव्यन्तरिक्षं वायुः सूर्य्यो नक्षत्रैः सह चन्द्रश्च ते छिद्रं पृणातु ते तव व्यवहारं साध्नोतु, तथा ते तव साधुया लोकं कृणोतु ॥४३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा पृथिव्यादयः सुखप्रदाः सूर्यादयः प्रकाशकाः पदार्थाः सन्ति, तथैवाऽध्यापका उपदेशकाश्चाऽध्यापिका अप्युपदेशिकाश्च सर्वान् सन्मार्गस्थान् कृत्वा विद्याप्रकाशं जनयन्तु ॥४३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जशी पृथ्वी वगैरे पदार्थ सुख देणारे आणि सूर्य वगैरे पदार्थ प्रकाश देणारे असतात, तसेच अध्यापक व उपदेशक आणि अध्यापिका व उपदेशिका यांनी सर्वांना चांगल्या मार्गाकडे वळवून विद्येचा प्रसार करावा.
४४ शं ते
विश्वास-प्रस्तुतिः ...{Loading}...
शं ते॒ परे॑भ्यो॒ गात्रे॑भ्यः॒ शम॒स्त्वव॑रेभ्यः। शम॒स्थभ्यो॑ म॒ज्जभ्यः॒ शम्व॑स्तु त॒न्वै᳙ तव॑ ॥४४ ॥
मूलम् ...{Loading}...
शं ते॒ परे॑भ्यो॒ गात्रे॑भ्यः॒ शम॒स्त्वव॑रेभ्यः। शम॒स्थभ्यो॑ म॒ज्जभ्यः॒ शम्व॑स्तु त॒न्वै᳙ तव॑ ॥४४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
शम्। ते॒। परे॑भ्यः। गात्रे॑भ्यः। शम्। अ॒स्तु॒। अव॑रेभ्यः। शम्। अ॒स्थभ्य॒ इत्य॒स्थऽभ्यः॑। म॒ज्जभ्य॒ इति॑ म॒ज्जऽभ्यः॑। शम्। ऊँऽइत्यूँ॑। अ॒स्तु॒। त॒न्वै। तव॑। ४४।
महीधरः
म० हे अश्व, ते तव परेभ्योऽवयवेभ्य उच्चेभ्यः शिरआदिभ्यः शं सुखमस्तु । अवरेभ्यः अधःस्थेभ्यश्च पादादिभ्यो गात्रेभ्यः शमस्तु । अस्थभ्यः तवास्थिभ्यश्च शमस्तु । ‘अस्थिदधि-’ (पा. ७ । १ । ७५) इत्यस्यानुवृत्तौ ‘छन्दस्यपि दृश्यते’ (पा० ७ । १ । ७६ ) इति सूत्रेण हलादावप्यस्थिशब्दस्यानङादेशः । मज्जभ्यः पृष्ठधातुभ्योऽपि शमस्तु । किंबहुना तव तन्वै तन्वाः सर्वस्यापि शरीरस्य शमु सुखमेवास्तु ॥ षष्ठी चतुर्थ्यर्थे । आशिषि वा चतुर्थी । उ एवार्थे ॥ ४४ ॥
पञ्चचत्वारिंशी।
अधिमन्त्रम् (VC)
- राजा देवता
- प्रजापतिर्ऋषिः
- उष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर माता आदि को क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्या चाहनेवाले ! जैसे पृथिवी आदि तत्त्व (तव) तेरे (तन्वै) शरीर के लिये (शम्) सुखहेतु (अस्तु) हो वा (परेभ्यः) अत्यन्त उत्तम (गात्रेभ्यः) अङ्गों के लिये (शम्) सुख (उ) और (अवरेभ्यः) उत्तमों से न्यून मध्य तथा निकृष्ट अङ्गों के लिये (शम्) सुखरूप (अस्तु) हो और (अस्थभ्यः) हड्डी (मज्जभ्यः) और शरीर में रहनेवाली चरबी के लिये (शम्) सुखहेतु हो, वैसे अपने उत्तम गुण-कर्म और स्वभाव से अध्यापक लोग (ते) तेरे लिये सुख के करनेवाले हों ॥४४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे माता, पिता, पढ़ाने और उपदेश करनेवालों को अपने सन्तानों के पुष्ट अङ्ग और पुष्ट धातु हों, जिनसे दूसरों के कल्याण करने के योग्य हों, वैसे पढ़ाना और उपदेश करना चाहिये ॥४४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मात्रादिभिः किं कर्त्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्यामिच्छो ! यथा पृथिव्यादितत्त्वं तव तन्वै शमस्तु परेभ्यो गात्रेभ्यः शम्ववरेभ्यो गात्रेभ्यः शमस्तु। अस्थभ्यो मज्जभ्यः शमस्तु तथा स्वकीयैरुत्तमगुणकर्मस्वभावैरध्यापकास्ते शंकरा भवन्तु ॥४४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा मातापित्रध्यापकोपदेशकैः सन्तानानां दृढाङ्गानि दृढा धातवश्च स्युर्यैः कल्याणं कर्त्तुमर्हेयुस्तथाऽध्यापनीयमुपदेष्टव्यं च ॥४४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. माता, पिता, अध्यापक व उपदेशक यांनी मुलांचे शरीर धष्टपुष्ट करावे व त्यांनी बलवान बनून दुसऱ्यांचे कल्याण करावे. अशा प्रकारची शिकवण व उपदेश करावा.
४५ कः स्विदेकाकी
विश्वास-प्रस्तुतिः ...{Loading}...
कः स्वि॑देका॒की च॑रति॒ कऽउ॑ स्विज्जायते॒ पुनः॑। किँस्वि॑द्धि॒मस्य॑ भेष॒जं किम्वा॒वप॑नं म॒हत्॥४५ ॥
मूलम् ...{Loading}...
कः स्वि॑देका॒की च॑रति॒ कऽउ॑ स्विज्जायते॒ पुनः॑। किँस्वि॑द्धि॒मस्य॑ भेष॒जं किम्वा॒वप॑नं म॒हत्॥४५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
कः। स्वि॒त्। ए॒का॒की। च॒र॒ति॒। कः। ऊँ॒ऽइत्यूँ॑। स्वि॒त्। जा॒य॒ते॒। पुन॒रिति॒ पुनः॑। किम्। स्वि॒त्। हि॒मस्य॑। भे॒ष॒जम्। किम्। ऊँ॒ऽइत्यूँ॑। आ॒वप॑न॒मित्या॒ऽवप॑नम्। म॒हत्। ४५।
महीधरः
म० ‘प्राग्वपाहोमाद्धोताध्वर्युश्च सदसि संवदेते चतसृभिः’ (का २० । ७ । १०)। कः स्विदेकाकीति पूर्ववत् । वपाहोमात्प्राक् च चतुर्ऋग्भिः पूर्ववदुक्तिप्रत्युक्त्या सदोमध्ये गत्वा होता अध्वर्युश्च संवादं कुरुतः । अष्टादश ऋचो ब्रह्मोद्यसंज्ञाः । ब्रह्मोद्यं परस्परं संवादः । आद्याश्चतस्रोऽनुष्टुभः का स्विदित्याद्याश्च (५३) अनुष्टुभः । होताध्वर्युं पृच्छति । व्याख्याता ॥४५॥
षट्चत्वारिंशी।
अधिमन्त्रम् (VC)
- जिज्ञासुर्देवता
- प्रजापतिर्ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब विद्वानों के प्रति प्रश्न ऐसे करने चाहियें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! इस संसार में (कः, स्वित्) कौन (एकाकी) एकाएकी अकेला (चरति) चलता वा प्राप्त होता है (उ) और (कः, स्वित्) कौन (पुनः) फिर-फिर (जायते) उत्पन्न होता (किं, स्वित्) कौन (हिमस्य) शीत का (भेषजम्) औषध (किम्, उ) और क्या (महत्) बड़ा (आवपनम्) अच्छे प्रकार सब बीज बोने का आधार है, इस सब को आप कहिये ॥४५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विना सहाय के कौन भ्रमता? कौन फिर-फिर उत्पन्न होता? शीत की निवृत्ति कर्त्ता कौन? और बड़ा उत्पत्ति का स्थान क्या है? इन सब प्रश्नों के समाधान अगले मन्त्र से जानने चाहियें ॥४५ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ विदुषः प्रति प्रश्ना एवं कर्त्तव्या इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! अस्मिन् संसारे कः स्विदेकाकी चरति क उ स्वित्पुनर्जायते किं स्विद्धिमस्य भेषजं किमु महदावपनमस्तीति वदस्व ॥४५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - असहायः को भ्रमति? शीतनिवारकः कः? कः पुनः पुनरुत्पद्यते? महदुत्पत्तिस्थानं किमस्ति? इत्येतेषां प्रश्नानामुत्तरेण मन्त्रेण समाधानानि वेदितव्यानि ॥४५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - कुणाचीही मदत न घेता कोण भ्रमण करतो? पुन्हा पुन्हा कोण उत्पन्न होतो? थंडी कशामुळे नष्ट होते? सर्वात मोठे उत्पत्ती स्थान कोणते? या सर्व प्रश्नांची उत्तरे पुढील मंत्रात आहेत, हे जाणावे.
४६ सूर्य्यऽएकाकी चरति
विश्वास-प्रस्तुतिः ...{Loading}...
सूर्य्य॑ऽएका॒की च॑रति च॒न्द्रमा॑ जायते॒ पुनः॑। अ॒ग्निर्हि॒मस्य॑ भेष॒जं भूमि॑रा॒वप॑नं म॒हत्॥४६ ॥
मूलम् ...{Loading}...
सूर्य्य॑ऽएका॒की च॑रति च॒न्द्रमा॑ जायते॒ पुनः॑। अ॒ग्निर्हि॒मस्य॑ भेष॒जं भूमि॑रा॒वप॑नं म॒हत्॥४६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सूर्य्यः॑। ए॒का॒की। च॒र॒ति॒। च॒न्द्रमाः॑। जा॒य॒ते॒। पुन॒रिति॒ऽपुनः॑। अ॒ग्निः। हि॒मस्य॑। भे॒ष॒जम्। भूमिः॑। आ॒वप॑न॒मित्या॒ऽवप॑नम्। म॒हत्। ४६।
महीधरः
म० व्याख्याता ॥ ४६ ॥
सप्तचत्वारिंशी।
अधिमन्त्रम् (VC)
- सूर्यादयो देवताः
- प्रजापतिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर पूर्वोक्त प्रश्नों के उत्तरों को अगले मन्त्र में कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे जिज्ञासु जानने की इच्छा करनेवाले पुरुष ! (सूर्य्यः) सूर्यलोक (एकाकी) अकेला (चरति) स्वपरिधि में घूमता है। (चन्द्रमाः) आनन्द देनेवाला चन्द्रमा (पुनः) फिर-फिर (जायते) प्रकाशित होता है। (अग्निः) पावक (हिमस्य) शीत का (भेषजम्) औषध और (महत्) बड़ा (आवपनम्) अच्छे प्रकार बोने का आधार कि जिस में सब वस्तु बोते हैं, (भूमिः) वह भूमि है ॥४६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे विद्वानो ! सूर्य अपनी ही परिधि में घूमता है, किसी लोकान्तर के चारों ओर नहीं घूमता। चन्द्रादि लोक उसी सूर्य के प्रकाश से प्रकाशित होते हैं। अग्नि ही शीत का नाशक और सब बीजों के बोने को बड़ा क्षेत्र भूमि ही है, ऐसा तुम लोग जानो ॥४६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः पूर्वोक्तप्रश्नोत्तराण्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे जिज्ञासो ! सूर्य एकाकी चरति, चन्द्रमाः पुनर्जायते, अग्निर्हिमस्य भेषजम्, महदावपनं भूमिरस्तीति ॥४६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे विद्वांसः ! सूर्यः स्वस्यैव परिधौ भ्रमति, न कस्यचिल्लोकस्य परितः। चन्द्रादिलोकास्तेनैव प्रकाशिता भवन्ति। अग्निरेव शीतविनाशकस्सर्वबीजवपनार्थं महत्क्षेत्रं भूमिरेवास्तीति यूयं विजानीत ॥४६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे विद्वानांनो ! सूर्य आपल्या कक्षेत फिरतो कोणत्याही गोलाभोवती फिरत नाही. चंद्र वगैरे सूर्याच्या प्रकाशानेच चमकतात. थंडीचा नाश अग्नीमुळे होतो तर भूमी ही सर्व बीज पेरेण्याचे मोठे क्षेत्र असते हे तुम्ही जाणा.
४७ किंस्वित्सूर्यसमं ज्योतिः
विश्वास-प्रस्तुतिः ...{Loading}...
किँस्वि॒त्सूर्य॑समं॒ ज्योतिः॒ किँस॑मु॒द्रस॑मँ॒सरः॑। किँस्वि॑त्पृथि॒व्यै वर्षी॑यः॒ कस्य॒ मात्रा॒ न वि॑द्यते ॥४७ ॥
मूलम् ...{Loading}...
किँस्वि॒त्सूर्य॑समं॒ ज्योतिः॒ किँस॑मु॒द्रस॑मँ॒सरः॑। किँस्वि॑त्पृथि॒व्यै वर्षी॑यः॒ कस्य॒ मात्रा॒ न वि॑द्यते ॥४७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
किम्। स्वि॒त्। सूर्य॑सम॒मिति॒ सूर्य॑ऽसमम्। ज्योतिः॑। किम्। स॒मु॒द्रस॑म॒मिति॑ समु॒द्रऽस॑मम्। सरः॑। किम्। स्वि॒त्। पृ॒थि॒व्यै। वर्षी॑यः। कस्य॑। मात्रा॑। न। वि॒द्य॒ते॒। ४७।
महीधरः
म० अध्वर्युर्होतारं पृच्छति । हे होतः, स्विदिति तर्के । सूर्यसमं सूर्यमण्डलतुल्यं ज्योतिः तेजः किं तत् ब्रूहि । समुद्रसमं सरः किं स्वित् । पृथिव्यै पृथिव्याः सकाशात् वर्षीयः महत्तरं किं स्वित् । ‘प्रियस्थिर-’ (पा० ६ । ४ । १५७) इत्यादिना वृद्धस्य वर्षादेशः । कस्य मात्रा परिमाणं न विद्यते ॥ ४७ ॥
अष्टचत्वारिंशी।
अधिमन्त्रम् (VC)
- जिज्ञासुर्देवता
- प्रजापतिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर प्रश्नों को अगले मन्त्र में कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! (किं, स्वित्) कौन (सूर्यसमम्) सूर्य के समान (ज्योतिः) प्रकाशस्वरूप (किम्) कौन (समुद्रसमम्) समुद्र के समान (सरः) जिसमें जल बहते वा गिरते वा आते-जाते हैं, ऐसा तालाब (किं, स्वित्) कौन (पृथिव्यै) पृथिवी से (वर्षीयः) अति बड़ा और (कस्य) किस का (मात्रा) जिससे तोल हो, वह परिमाण (न) नहीं (विद्यते) विद्यमान है ॥४७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - आदित्य के तुल्य तेजस्वी, समुद्र के समान जलाधार और भूमि से बड़ा कौन है? और किस का परिमाण नहीं है? इन चार प्रश्नों का उत्तर अगले मन्त्र में जानना चाहिये ॥४७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः प्रश्नानाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! किं स्वित्सूर्यसमं ज्योतिः? किं समुद्रसमं सरः? किं स्वित्पृथिव्यै वर्षीयः? कस्य मात्रा न विद्यत? इति ॥४७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - आदित्यवत्तेजस्वि समुद्रवदुदधि भूमेरधिकं च किं कस्य च परिमाणं नास्तीत्येतेषां प्रश्नानामुत्तराणि परस्मिन् मन्त्रे वेदितव्यानि ॥४७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सूर्याप्रमाणे तेजस्वी, समुद्राप्रमाणे जलाचा आधार, भूमीहून मोठा कोण आहे? तसेच कोणत्या गोष्टीला परिमाण नाही. या चार प्रश्नांची उत्तरे पुढच्या मंत्रात जाणावी.
४८ ब्रह्म सूर्यसमम्
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्म॒ सूर्य॑समं॒ ज्योति॒र्द्यौः स॑मु॒द्रस॑मँ॒सरः॑। इन्द्रः॑ पृथि॒व्यै वर्षी॑या॒न् गोस्तु मात्रा॒ न वि॑द्यते ॥४८ ॥
मूलम् ...{Loading}...
ब्रह्म॒ सूर्य॑समं॒ ज्योति॒र्द्यौः स॑मु॒द्रस॑मँ॒सरः॑। इन्द्रः॑ पृथि॒व्यै वर्षी॑या॒न् गोस्तु मात्रा॒ न वि॑द्यते ॥४८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ब्रह्म॑। सूर्य्य॑सम॒मिति॒ सूर्य्य॑ऽसमम्। ज्योतिः॑। द्यौः। स॒मु॒द्रस॑म॒मिति॑ समु॒द्रऽस॑मम्। सरः॑। इन्द्रः॑। पृ॒थि॒व्यै। वर्षी॑यान्। गोः। तु। मात्रा॑। न। वि॒द्य॒ते॒। ४८।
महीधरः
म०. होता प्रत्याह सूर्यसमं ज्योतिर्ब्रह्म त्रयीलक्षणं परं च । समुद्रसमं सरो द्यौरन्तरिक्षं यतो वृष्टिर्भवति । पृथिव्यै पृथिव्याः सकाशात् इन्द्रः वर्षीयान् वृद्धतरः । तु पुनः गोः धेनोः मात्रा न विद्यते यज्ञधारकत्वात् ॥ ४८ ॥
एकोनपञ्चाशी।
अधिमन्त्रम् (VC)
- ब्रह्मादयो देवताः
- प्रजापतिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब उक्त प्रश्नों के उत्तरों को अगले मन्त्र में कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे ज्ञान चाहनेवाले जन ! तू (सूर्य्यसमम्) सूर्य के समान (ज्योतिः) स्वप्रकाशस्वरूप (ब्रह्म) सब से बड़े अनन्त परमेश्वर (समुद्रसमम्) समुद्र के समान (सरः) ताल (द्यौः) अन्तरिक्ष (पृथिव्यै) पृथिवी से (वर्षीयान्) बड़ा (इन्द्रः) सूर्य और (गोः) वाणी का (तु) तो (मात्रा) मान परिमाण (न) नहीं (विद्यते) विद्यमान है, इसको जान ॥४८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - कोई भी, आप प्रकाशमान जो ब्रह्म है उसके समान ज्योति विद्यमान नहीं वा सूर्य के प्रकाश से युक्त मेघ के समान जल के ठहरने का स्थान वा सूर्यमण्डल के तुल्य लोकेश वा वाणी के तुल्य व्यवहार का सिद्ध करनेहारा कोई भी पदार्थ नहीं होता, इसका निश्चय सब करें ॥४८ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथैतेषामुत्तराण्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे जिज्ञासो ! त्वं सूर्य्यसमं ज्योतिर्ब्रह्म समुद्रसमं सरो द्यौः पृथिव्यै वर्षीयानिन्द्रो गोस्तु मात्रा न विद्यत इति विजानीहि ॥४८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - न किंचित्स्वप्रकाशेन ब्रह्मणा समं ज्योतिर्विद्यते सूर्य्यप्रकाशेन युक्तेन मेघेन तुल्यो जलाशयः सूर्य्येण तुल्यो लोकेशो वाचा तुल्यं व्यवहारसाधकं किंचिदपि वस्तु न भवतीति सर्वे निश्चिन्वन्तु ॥४८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ब्रह्मासारखी तेजस्वी ज्योती कोणतीच नाही. मेघासारखा जलाचा आधार कोणीही नाही. भूमीहून मोठा सूर्य होय व वाणीला कोणतेही परिमाण नाही. कारण त्यामुळेच सर्व व्यवहार सिद्ध होतो, हे निश्चयाने जाणा.
४९ पृच्छामि त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
पृ॒च्छामि॑ त्वा चि॒तये॑ देवसख॒ यदि॒ त्वमत्र॒ मन॑सा ज॒गन्थ॑। येषु॒ विष्णु॑स्त्रि॒षु प॒देष्वेष्ट॒स्तेषु॒ विश्वं॒ भुव॑न॒मावि॑वेशाँ३ऽ ॥४९ ॥
मूलम् ...{Loading}...
पृ॒च्छामि॑ त्वा चि॒तये॑ देवसख॒ यदि॒ त्वमत्र॒ मन॑सा ज॒गन्थ॑। येषु॒ विष्णु॑स्त्रि॒षु प॒देष्वेष्ट॒स्तेषु॒ विश्वं॒ भुव॑न॒मावि॑वेशाँ३ऽ ॥४९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पृ॒च्छामि॑। त्वा॒। चि॒तये॑। दे॒व॒स॒खेति॑ देवऽसख। यदि॑। त्वम्। अत्र॑। मन॑सा। ज॒गन्थ॑। येषु॑। विष्णुः॑। त्रि॒षु। प॒देषु॑। आइ॑ष्ट॒ इत्याऽइ॑ष्टः। तेषु॑। विश्व॑म्। भुव॑नम्। आ। वि॒वे॒श॒। ४९।
महीधरः
म० ‘ब्रह्मोद्गातारौ च पृच्छामि त्वेति’ ( का० २० । ७ । ११)। ब्रह्मोद्गातारं पृच्छति पृच्छामीति । चकाराच्चतुर्ऋग्भिः सदसि ब्रह्मोद्गातारौ संवदेते । ब्रह्मा उद्गातारं पृच्छति । पृच्छामि । देवानां सखा देवसखः ‘राजाहःसखिभ्यष्टच्’ हे देवसख देवानां मित्र उद्गातः, त्वा त्वां चितये ज्ञानायाहं पृच्छामि । अत्र मत्कृते प्रश्ने यदि त्वं मनसा जगन्थ जनासि गमेर्लिट् । ये गत्यर्थास्ते ज्ञानार्थाः । किं पृच्छसीत्यत आह । विष्णुः यज्ञो येषु त्रिषु पदेषु गार्हपत्याहवनीयदक्षिणाग्निषु एष्टः आ इष्टः यागेन तर्पितः । यजेः क्तः । तेषु त्रिषु पदेषु विश्वं सर्वं भुवनमाविवेश प्रविष्टमुत नेति प्रश्ने प्लुतः ॥ ४९ ॥
पञ्चाशी।
अधिमन्त्रम् (VC)
- प्रष्टृसमाधातारौ देवते
- प्रजापतिर्ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर प्रश्नों को अगले मन्त्र में कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (देवसख) विद्वानों के मित्र ! (यदि) जो (त्वम्) तू (अत्र) यहाँ (मनसा) अन्तःकरण से (जगन्थ) प्राप्त हो तो (त्वा) तुझे (चितये) चेतन के लिये (पृच्छामि) पूछता हूँ जो (विष्णुः) व्यापक ईश्वर (येषु) जिन (त्रिषु) तीन प्रकार के (पदेषु) प्राप्त होने योग्य जन्म, नाम और स्थान में (एष्टः) अच्छे प्रकार इष्ट है, (तेषु) उनमें व्याप्त हुआ (विश्वम्) सम्पूर्ण (भुवनम्) पृथिवी आदि लोकों को (आ, विवेश) भलीभाँति प्रवेश कर रहा है, उस परमात्मा को भी तुझ से पूछता हूँ ॥४९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे विद्वान् ! जो चेतनस्वरूप, सर्वव्यापी, पूजा, उपासना, प्रशंसा, स्तुति करने योग्य परमेश्वर है; उसका मेरे लिये उपदेश करो ॥४९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः प्रश्नानाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे देवसख ! यदि त्वमत्र मनसा जगन्थ तर्हि त्वा चितये पृच्छामि, यो विष्णुर्येषु त्रिषु पदेष्वेष्टोऽस्ति तेषु व्याप्तः सन् विश्वं भुवनमाविवेश तं च पृच्छामि ॥४९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे विद्वन् ! यश्चेतनः सर्वव्यापी पूजितुं योग्यः परमेश्वरोऽस्ति, तं मह्यमुपदिश ॥४९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे विद्वानांनो ! जो चेतनस्वरूप, सर्वव्यापी, पूजा, उपासना प्रशंसा, स्तुती करण्यायोग्य असा परमेश्वरच आहे. त्यांच्यासंबंधी मला उपदेश करा.
५० अपि तेषु
विश्वास-प्रस्तुतिः ...{Loading}...
अपि॒ तेषु॑ त्रि॒षु प॒देष्व॑स्मि॒ येषु॒ विश्वं॒ भुव॑नमा वि॒वेश॑। स॒द्यः पर्ये॑मि पृथि॒वीमु॒त द्यामेके॒नाङ्गे॑न दि॒वोऽअ॒स्य पृ॒ष्ठम् ॥५० ॥
मूलम् ...{Loading}...
अपि॒ तेषु॑ त्रि॒षु प॒देष्व॑स्मि॒ येषु॒ विश्वं॒ भुव॑नमा वि॒वेश॑। स॒द्यः पर्ये॑मि पृथि॒वीमु॒त द्यामेके॒नाङ्गे॑न दि॒वोऽअ॒स्य पृ॒ष्ठम् ॥५० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अपि॑। तेषु॑। त्रि॒षु। प॒देषु॑। अ॒स्मि॒। येषु॑। विश्व॑म्। भुव॑नम्। आ॒वि॒वेशेत्या॑ऽवि॒वेश॑। स॒द्यः। परि॑। ए॒मि॒। पृ॒थि॒वीम्। उ॒त। द्याम्। एके॑न। अङ्गे॑न। दि॒वः। अ॒स्य। पृ॒ष्ठम्। ५०।
महीधरः
म० उद्गाता प्रत्याह । येषु त्रिषु पदेषु विश्वं भुवनमाविवेशेति यत्त्वया पृष्टम् तेषु त्रिषु पदेषु गार्हपत्यादिषु अहमस्मि अहमपि तत्रैव स्थितोऽस्मि । अपिशब्दात् त्वं च तत्रैवासि । किमेतावदेव जानामि किंतु पृथिवीमुतापि च द्यां स्वर्गं दिवः स्वर्गस्य पृष्ठमुपरिभागमपि सद्यः तत्क्षणमेव एकेनाङ्गेन मनसा पर्येमि परिगच्छामि सर्वं जानामि किंपुनर्भूतानि प्रविष्टानीति भावः ॥ ५० ॥
एकपञ्चाशी।
अधिमन्त्रम् (VC)
- ईश्वरो देवता
- प्रजापतिर्ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब उक्त प्रश्नों के उत्तर अगले मन्त्र में कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो जगत् का रचनेहारा ईश्वर मैं (येषु) जिन (त्रिषु) तीन (पदेषु) प्राप्त होने योग्य जन्म, नाम, स्थानों में (विश्वम्) समस्त (भुवनम्) जगत् (आविवेश) सब ओर से प्रवेश को प्राप्त हो रहा है, (तेषु) उन जन्म, नाम और स्थानों में (अपि) भी मैं व्याप्त (अस्मि) हूँ। (अस्य) इस (दिवः) प्रकाशमान सूर्य आदि लोकों के (पृष्ठम्) ऊपरले भाग (पृथिवीम्) भूमि वा अन्तरिक्ष (उत) और (द्याम्) समस्त प्रकाश को (एकेन) एक (अङ्गेन) अति मनोहर प्राप्त होने योग्य व्यवहार वा देश से (सद्यः) शीघ्र (परि, एमि) सब ओर से प्राप्त हूँ, उस मेरी उपासना तुम सब किया करो ॥५० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे सब जीवों के प्रति ईश्वर उपदेश करता है कि मैं कार्य्य-कारणात्मक जगत् में व्याप्त हूँ, मेरे विना एक परमाणु भी अव्याप्त नहीं है। सो मैं जहाँ जगत् नहीं है, वहाँ भी अनन्त स्वरूप से परिपूर्ण हूँ। जो इस अतिविस्तारयुक्त जगत् को आप लोग देखते हैं सो यह मेरे आगे अणुमात्र भी नहीं है, इस बात को वैसे ही विद्वान् सब को जनावें ॥५० ॥
दयानन्द-सरस्वती (सं) - विषयः
अथैतेषामुत्तराण्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यो जगत्स्रष्टेश्वरोऽहं येषु त्रिषु पदेषु विश्वं भुवनमाविवेश तेष्वप्यहं व्याप्तोऽस्मि। अस्य दिवः पृष्ठं पृथिवीमुत द्याञ्चैकेनाङ्गेन सद्यः पर्य्येमि तं मां सर्वे यूयमुपाध्वम् ॥५० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यथा सर्वाञ्जीवान् प्रतीश्वर उपदिशति−अहं कार्य्यकारणात्मके जगति व्याप्तोऽस्मि, मया विनैकः परमाणुरप्यव्याप्तो नास्ति। सोऽहं यत्र जगन्नास्ति तत्राप्यनन्तस्वरूपेण पूर्णोऽस्मि। यदिदं जगदतिविस्तीर्णं भवन्तः पश्यन्ति तदिदं मत्सन्निधावेकाणुमात्रमपि नास्तीति, तथैव विद्वान् विज्ञापयेत्॥५० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ईश्वर सर्व जीवांना उपदेश करतो की, मी कार्य कारणात्मक जगात व्याप्त आहे. प्रत्येक परमाणूमध्ये मी व्याप्त आहे. जेथे हे जग किंवा सृष्टी नाही तेथेही मी अनंत स्वरूपाने व्याप्त आहे. या विस्तारलेल्या जगाला तुम्ही पाहात आहात ते माझ्यासमोर अणुमात्रही नाही या गोष्टीला विद्वानांनी जाणावे.
५१ केष्वन्तः पुरुषऽआ
विश्वास-प्रस्तुतिः ...{Loading}...
केष्व॒न्तः पुरु॑ष॒ऽआ वि॑वेश॒ कान्य॒न्तः पुरु॑षे॒ऽअर्पि॑तानि। ए॒तद् ब्र॑ह्म॒न्नुप॑ वल्हामसि त्वा॒ किँस्वि॑न्नः॒ प्रति॑ वोचा॒स्यत्र॑ ॥५१ ॥
मूलम् ...{Loading}...
केष्व॒न्तः पुरु॑ष॒ऽआ वि॑वेश॒ कान्य॒न्तः पुरु॑षे॒ऽअर्पि॑तानि। ए॒तद् ब्र॑ह्म॒न्नुप॑ वल्हामसि त्वा॒ किँस्वि॑न्नः॒ प्रति॑ वोचा॒स्यत्र॑ ॥५१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
केषु॑। अ॒न्तरित्य॒न्तः। पुरु॑षः। आ। वि॒वे॒श॒। कानि॑। अ॒न्तरित्य॒न्तः। पुरु॑षे। अर्पि॑तानि। ए॒तत्। ब्र॒ह्म॒न्। उप॑। व॒ल्हा॒म॒सि॒। त्वा॒। किम्। स्वि॒त्। नः॒। प्रति॑। वो॒चा॒सि॒। अत्र॑। ५१।
महीधरः
म० उद्गाता ब्रह्माणं पृच्छति । हे ब्रह्मन् , पुरुषः केषु ’ पदार्थेषु अन्तर्मध्ये आविवेश प्रविष्टः । पुरुषे अन्तः पुरुषमध्ये कानि वस्तूनि अर्पितानि स्थापितानि । एतत् त्वा त्वां वयमुपवल्हामसि उपवल्हामः स्पर्धया पृच्छामः ‘वल्ह प्राधान्यपरिभाषणहिंसादानेषु’ लट् ‘इदन्तो मसि’ अत्र प्रश्ने । किं स्वित् त्वं प्रतिवोचासि प्रतिवदसि । ‘वच उम्’ (पा० ७ । ४ । २० ) इति लेटि छान्दस उम् । ‘लेटोऽडाटौ’ (पा० ३ । । ४ । ९४) इत्याडागमः ॥५१॥
द्विपञ्चाशी। ।
अधिमन्त्रम् (VC)
- पुरुषेश्वरो देवता
- प्रजापतिर्ऋषिः
- पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब ईश्वर-विषय में दो प्रश्न कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (ब्रह्मन्) वेदज्ञ विद्वन् ! (केषु) किन में (पुरुषः) सर्वत्र पूर्ण परमेश्वर (अन्तः) भीतर (आ, विवेश) प्रवेश कर रहा है और (कानि) कौन (पुरुषे) पूर्ण ईश्वर में (अन्तः) भीतर (अर्पितानि) स्थापन किये हैं, जिस ज्ञान से हम लोग (उप, वल्हामसि) प्रधान हों (एतत्) यह (त्वा) आपको पूछते हैं सो (किं, स्वित्) क्या है (अत्र) इसमें (नः) हमारे (प्रति) प्रति (वोचासि) कहिये ॥५१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इतर मनुष्यों को चाहिये कि चारों वेद के ज्ञाता विद्वान् को ऐसे पूछें कि हे वेदज्ञ विद्वन् ! पूर्ण परमेश्वर किन में प्रविष्ट है? और कौन उसके अन्तर्गत हैं? यह बात आप से पूछी है, यथार्थता से कहिये जिसके ज्ञान से हम उत्तम पुरुष हों ॥५१ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथेश्वरविषये प्रश्नावाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे ब्रह्मन् ! केषु पुरुषोऽन्तराविवेश कानि पुरुषेऽन्तरर्पितानि येन वयमुपवल्हामसि। एतत्त्वा त्वां पृच्छामस्तत्किंस्विदस्त्यत्र नः प्रतिवोचासि ॥५१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - चतुर्वेदविद्विद्वानितरैर्जनैरेवं प्रष्टव्याः। हे वेदविद्विद्वन् ! पूर्णः परमेश्वरः केषु प्रविष्टोऽस्ति? कानि च तदन्तर्गतानि सन्ति? एतत्पृष्टो भवान् याथार्थ्येन ब्रवीतु येन वयं प्रधानपुरुषा भवेम ॥५१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी चारही वेदांचे ज्ञान असलेल्या विद्वानांना असे प्रश्न विचारावे की, ‘हे वेदज्ञ विद्वानांनो हा पूर्ण परमेश्वर कशात प्रविष्ट झलेला असतो?’ कोण त्याच्यामध्ये असते? याचे यथार्थ निराकरण करा त्या ज्ञानाने आम्ही उत्तम पुरुष बनू.
५२ पञ्चस्वन्तः पुरुषऽआविवेश
विश्वास-प्रस्तुतिः ...{Loading}...
प॒ञ्चस्व॒न्तः पुरु॑ष॒ऽआवि॑वेश॒ तान्य॒न्तः पुरु॑षे॒ऽअर्पि॑तानि। ए॒तत्त्वात्र॑ प्रतिमन्वा॒नोऽअ॑स्मि॒ न मा॒यया॑ भव॒स्युत्त॑रो॒ मत्॥५२ ॥
मूलम् ...{Loading}...
प॒ञ्चस्व॒न्तः पुरु॑ष॒ऽआवि॑वेश॒ तान्य॒न्तः पुरु॑षे॒ऽअर्पि॑तानि। ए॒तत्त्वात्र॑ प्रतिमन्वा॒नोऽअ॑स्मि॒ न मा॒यया॑ भव॒स्युत्त॑रो॒ मत्॥५२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प॒ञ्चस्विति॑। प॒ञ्चऽसु॑। अ॒न्तरित्य॒न्तः। पुरु॑षः। आ। वि॒वे॒श॒। तानि॑। अ॒न्तरित्य॒न्तः। पुरु॑षे। अर्पि॑तानि। ए॒तत्। त्वा॒। अत्र॑। प्र॒ति॒म॒न्वा॒न इति॑ प्रतिऽमन्वा॒नः। अ॒स्मि॒। न। मा॒यया॑। भ॒व॒सि॒। उत्त॑र॒ इत्युत्ऽत॑रः। मत्। ५२।
महीधरः
म० ब्रह्मा प्रत्याह । पुरुषः आत्मा पञ्चसु प्राणेषु अन्तः प्राणमध्ये आविवेश प्रविष्टः तानि प्रसिद्धानि श्रोत्राधिकरणानि पुरुषे अन्तः मध्ये अर्पितानि । प्राणात्मनामन्योन्यापेक्षासिद्धिरित्यर्थः । नचात्मानमन्तरेण प्राणाः ख्यायन्ते ‘न प्राणानन्तरेणात्मेति’ बह्वृचश्रुतेः । यद्वा पञ्चसु भूतेषु भूम्यादिषु आत्मा प्रविष्टस्तानि चात्मनि प्रविष्टानि ‘तानि सृष्ट्वा तदेवानुप्राविशत्’ इति श्रुतेः । उद्गातः, अहमत्र प्रश्ने । त्वा त्वां प्रति एतदुत्तरं प्रतिमन्वानः प्रतिजानानोऽस्मि । एवमुत्तरं ददामीत्यर्थः । किंच मायया बुद्ध्या मत् मत्तः उत्तरोऽधिकस्वं न भवसि । मत्तो बुद्धिमान्नासीत्यर्थः ॥ ५२ ॥
त्रिपञ्चाशी।
अधिमन्त्रम् (VC)
- परमेश्वरो देवता
- प्रजापतिर्ऋषिः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
पूर्व मन्त्र में कहे प्रश्नों के उत्तर अगले मन्त्र में कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे जानने की इच्छावाले पुरुष ! (पञ्चसु) पाँच भूतों वा उनकी सूक्ष्म मात्राओं में (अन्तः) भीतर (पुरुषः) पूर्ण परमात्मा (आ, विवेश) अपनी व्याप्ति से अच्छे प्रकार व्याप्त हो रहा है, (तानि) वे पञ्चभूत वा तन्मात्रा (पुरुषे) पूर्ण परमात्मा पुरुष के (अन्तः) भीतर (अर्पितानि) स्थापित किये हैं, (एतत्) यह (अत्र) इस जगत् में (त्वा) आपको (प्रतिमन्वानः) प्रत्यक्ष जानता हुआ मैं समाधान-कर्त्ता (अस्मि) हूँ, जो (मायया) उत्तम बुद्धि से युक्त तू (भवसि) होता है तो (मत्) मुझ से (उत्तरः) उत्तम समाधान-कर्त्ता कोई भी (न) नहीं है, यह तू जान ॥५२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - परमेश्वर उपदेश करता है कि हे मनुष्यो ! मेरे ऊपर कोई भी नहीं है। मैं ही सब का आधार, सब में व्याप्त होके धारण करता हूँ। मेरे व्याप्त होने से सब पदार्थ अपने-अपने नियम में स्थित हैं। हे सब से उत्तम योगी विद्वान् लोगो ! आप लोग इस मेरे विज्ञान को जनाओ ॥५२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पूर्वमन्त्रोक्तप्रश्नयोरुत्तरमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे जिज्ञासो ! पञ्चस्वन्तः पुरुष आ विवेश तानि पुरुषेऽन्तरर्पितानि। एतदत्र त्वा प्रतिमन्वानोऽहं समाधाताऽस्मि। यदि मायया युक्तस्त्वं भवसि तर्हि मदुत्तरः समाधाता कश्चिन्नास्तीति विजानीहि ॥५२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - परमेश्वर उपदिशति−हे मनुष्याः ! मदुत्तरः कोऽपि नास्ति। अहमेव सर्वेषामाधारः सर्वमभिव्याप्य धरामि। मयि व्याप्ते सर्वाणि वस्तूनि स्वस्वनियमे स्थितानि सन्ति। हे सर्वोत्तमा योगिनो विद्वांसो ! भवन्तो ममेदं विज्ञानं विज्ञापयत ॥५२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - परमेश्वर उपदेश करतो की हे माणसांनो ! माझ्यापेक्षा मोठा कोणी नाही. मीच सर्वांचा आधार असून सर्वात व्याप्त असून, सर्वांना धारण करतो. मी सर्वात व्याप्त असल्यामुळे सर्व पदार्थ आपापल्या नियमात स्थित आहेत. हे उत्तम योगी विद्वानांनो ! माझे हे विज्ञान तुम्ही जाणा.
५३ का स्विदासीत्पूर्वचित्तिः
विश्वास-प्रस्तुतिः ...{Loading}...
का स्वि॑दासीत्पू॒र्वचि॑त्तिः॒ किँ॑स्वि॑दासीद् बृ॒हद्वयः॑। का स्वि॑दासीत्पिलिप्पि॒ला का स्वि॑दासीत्पिशङ्गि॒ला ॥५३ ॥
मूलम् ...{Loading}...
का स्वि॑दासीत्पू॒र्वचि॑त्तिः॒ किँ॑स्वि॑दासीद् बृ॒हद्वयः॑। का स्वि॑दासीत्पिलिप्पि॒ला का स्वि॑दासीत्पिशङ्गि॒ला ॥५३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
का। स्वि॒त्। आ॒सी॒त्। पू॒र्वचि॑त्ति॒रिति॑ पू॒र्वऽचि॑त्तिः। किम्। स्वि॒त्। आ॒सी॒त्। बृ॒हत्। वयः॑। का। स्वि॒त्। आ॒सी॒त्। पि॒लि॒प्पि॒ला। का। स्वि॒त्। आ॒सी॒त्। पि॒श॒ङ्गि॒ला। ५३।
महीधरः
म० ‘पुनः पूर्वावपरेणोत्तरवेदिं का स्विदिति’ (का. । २० । ७ । १२)। ततः सदसो निष्क्रम्य हविर्धानस्य पुर उत्तरवेदेः पश्चादुपविश्य पूर्वौ पूर्वोक्तौ होत्रध्वर्यू चतुर्ऋग्भिः संवदेते इति सूत्रार्थः । होताध्वर्युं पृच्छति । व्याख्याता (११) ॥ ५३ ॥
चतुःपञ्चाशी।
अधिमन्त्रम् (VC)
- प्रष्टा देवता
- प्रजापतिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी अगले मन्त्र में प्रश्नों को कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! इस जगत् में (का, स्वित्) कौन (पूर्वचित्तिः) पूर्व अनादि समय में संचित होनेवाली (आसीत्) है (किं, स्वित्) क्या (बृहत्) बड़ा (वयः) उत्पन्न स्वरूप (आसीत्) है, (का, स्वित्) कौन (पिलिप्पिला) पिलपिली चिकनी (आसीत्) है और (का, स्वित्) कौन (पिशङ्गिला) अवयवों को भीतर करनेवाली (आसीत्) है, यह आपको पूछता हूँ ॥५३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में चार प्रश्न हैं, उनके समाधान अगले मन्त्र में देखने चाहियें ॥५३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः प्रश्नानाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन्नत्र जगति का स्वित्पूर्वचित्तिरासीत्? किं स्विद् बृहद्वय आसीत्? का स्वित्पिलिप्पिला आसीत्? कास्वित्पिशङ्गिला आसीद्? इति भवन्तं पृच्छामि ॥५३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र चत्वारः प्रश्नास्तेषां समाधानानि परस्मिन् मन्त्रे द्रष्टव्यानि ॥५३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे विद्वानांनो ! अनादी काळी कोणती वस्तू संचित होती? मोठ्या स्वरूपात काय उत्पन्न होते? कोण मऊ नरम असते? सर्व अवयवांना नष्ट करणारा कोण असतो? या चार प्रश्नांची उत्तरे पुढील मंत्रात आहेत.
५४ द्यौरासीत्पूर्वचित्तिरश्वऽआसीद् बृहद्वयः
विश्वास-प्रस्तुतिः ...{Loading}...
द्यौरा॑सीत्पू॒र्वचि॑त्ति॒रश्व॑ऽआसीद् बृ॒हद्वयः॑। अवि॑रासीत्पिलिप्पि॒ला रात्रि॑रासीत्पिशङ्गि॒ला ॥५४ ॥
मूलम् ...{Loading}...
द्यौरा॑सीत्पू॒र्वचि॑त्ति॒रश्व॑ऽआसीद् बृ॒हद्वयः॑। अवि॑रासीत्पिलिप्पि॒ला रात्रि॑रासीत्पिशङ्गि॒ला ॥५४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
द्यौः। आ॒सी॒त्। पू॒र्वचि॑त्ति॒रिति॑ पू॒र्वऽचि॑त्तिः। अश्वः॑। आ॒सी॒त्। बृ॒हत्। वयः॑। अविः॑। आ॒सी॒त्। पि॒लि॒प्पि॒ला। रात्रिः॑। आ॒सी॒त्। पि॒श॒ङ्गि॒ला। ५४।
महीधरः
म० व्याख्याता (१२) ॥ ५४ ॥
पञ्चपञ्चाशी।
अधिमन्त्रम् (VC)
- समाधाता देवता
- प्रजापतिर्ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
पूर्व मन्त्र के प्रश्नों के उत्तर अगले मन्त्र में कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे जिज्ञासु मनुष्य ! (द्यौः) बिजुली (पूर्वचित्तिः) पहिला संचय (आसीत्) है, (अश्वः) महतत्त्व (बृहत्) बड़ा (वयः) उत्पत्ति स्वरूप (आसीत्) है, (अविः) रक्षा करनेवाली प्रकृति (पिलिप्पिला) पिलपिली (आसीत्) है, (रात्रिः) रात्रि के समान वर्त्तमान प्रलय (पिशङ्गिला) सब अवयवों को निगलनेवाला (आसीत्) है, यह तू जान ॥५४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जो अतिसूक्ष्म विद्युत् है सो प्रथम परिणाम, महत्तत्वरूप द्वितीय परिणाम और प्रकृति सबका मूल कारण परिणाम से रहित है और प्रलय सब स्थूल जगत् का विनाशरूप है, यह जानना चाहिये ॥५४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पूर्वप्रश्नानामुत्तराण्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे जिज्ञासो ! द्यौः पूर्वचित्तिरासीद्, अश्वो बृहद्वय आसीद्, अविः पिलिप्पिलाऽऽसीद्, इति त्वं विजानीहि ॥५४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! याऽतीवसूक्ष्मा विद्युत् सा प्रथमा परिणतिर्महदाख्यं द्वितीया परिणतिः, प्रकृतिर्मूलकारणपरिणतिः, प्रलयः सर्वस्थूलविनाशकोऽस्तीति विजानीत ॥५४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! जी (अनादीकाळापासून संचित) विद्युत अतिसूक्ष्म असते ती प्रथम परिणाम असून महत्तत्वरूप द्वितीय परिणाम आहे व प्रकृती ही सर्वांचे मूळ कारण असून परिणामरहित आहे व प्रलय हा सर्व जगाला नष्ट करणारा आहे हे जाणा.
५५ काऽईमरे पिशङ्गिला
विश्वास-प्रस्तुतिः ...{Loading}...
काऽईम॑रे पिशङ्गि॒ला काऽर्इं॑ कुरुपिशङ्गि॒ला। कऽर्इ॑मा॒स्कन्द॑मर्षति॒ कऽर्इं॒ पन्थां॒ विस॑र्पति ॥५५ ॥
मूलम् ...{Loading}...
काऽईम॑रे पिशङ्गि॒ला काऽर्इं॑ कुरुपिशङ्गि॒ला। कऽर्इ॑मा॒स्कन्द॑मर्षति॒ कऽर्इं॒ पन्थां॒ विस॑र्पति ॥५५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
का। ई॒म्। अ॒रे॒। पि॒श॒ङ्गि॒ला। का। ई॒म्। कु॒रु॒पि॒श॒ङ्गि॒लेति॑ कुरुऽपिशङ्गि॒ला। कः। ई॒म्। आ॒स्कन्द॒मित्या॒ऽस्कन्द॑म्। अ॒र्ष॒ति॒। कः। ई॒म्। पन्था॑म्। वि। स॒र्प॒ति॒। ५५।
महीधरः
म० अध्वर्युर्होतारं पृच्छति । ईमिति निपातश्चार्थः । अरे होतः, का च पिशंगिला का च कुरुपिशंगिला कश्च आस्कन्दं णमुलन्तः । आस्कद्य उत्प्लुत्य अर्षति गच्छति ‘ऋष गतौ’ तुदादिः व्यत्ययेन शप् । कश्च पन्थां पन्थानं मार्गं प्रति विसर्पति विविधं गच्छति ॥ ५५ ॥
षट्पञ्चाशी।
अधिमन्त्रम् (VC)
- प्रष्टा देवता
- प्रजापतिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर अगले मन्त्र में प्रश्न कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अरे) हे विदुषि स्त्रि ! (का, ईम्) कौन वार-वार (पिशङ्गिला) रूप का आवरण करने हारी (का, ईम्) कौन वार-वार (कुरुपिशङ्गिला) यवादि अन्नों के अवयवों को निगलनेवाली (क, ईम्) कौन वार-वार (आस्कन्दम्) न्यारी-न्यारी चाल को (अर्षति) प्राप्त होता और (कः) कौन (ईम्) जल के (पन्थाम्) मार्ग को (वि, सर्पति) विशेष पसर के चलता है ॥५५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - किससे रूप का आवरण? और किस से खेती आदि का विनाश होता? कौन शीघ्र भागता? और कौन मार्ग में पसरता है? ये चार प्रश्न हैं, इन के उत्तर अगले मन्त्र में जानो ॥५५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः प्रश्नानाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - अरे स्त्रि ! का र्इं पिशङ्गिला का र्इं कुरुपिशङ्गिला क ईमास्कन्दमर्षति क र्इं पन्थां विसर्पतीति समाधेहि ॥५५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - केन रूपमाव्रियते? केन कृष्यादिर्नश्यते? कः शीघ्रं धावति? कश्च मार्गे प्रसरति? इति चत्वारः प्रश्नास्तेषामुत्तराणि परस्मिन् मन्त्रे वेदितव्यानि ॥५५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - विश्वाच्या या रूपाला वारंवार कोण झाकून टाकते? कोणत्या गोष्टीमुळे शेतीचा नाश होतो? कुणाची चाल वारंवार वेगाने बदलते? जलमार्गाचा विस्तार कोण करतो? या चार प्रश्नांची उत्तरे पुढील मंत्रात आहेत.
५६ अजारे पिशङ्गिला
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒जारे॑ पिशङ्गि॒ला श्वा॒वित्कु॑रुपिशङ्गि॒ला। श॒शऽआ॒स्कन्द॑मर्ष॒त्यहिः॒ पन्थां॒ वि स॑र्पति ॥५६ ॥
मूलम् ...{Loading}...
अ॒जारे॑ पिशङ्गि॒ला श्वा॒वित्कु॑रुपिशङ्गि॒ला। श॒शऽआ॒स्कन्द॑मर्ष॒त्यहिः॒ पन्थां॒ वि स॑र्पति ॥५६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒जा। अ॒रे॒। पि॒श॒ङ्गि॒ला। श्वा॒वित्। श्व॒विदिति॑ श्व॒ऽवित्। कु॒रु॒पिश॒ङ्गि॒लेति॑ कुरुऽपिशङ्गि॒ला। श॒शः। आ॒स्कन्द॒मित्या॒ऽस्कन्द॑म्। अ॒र्ष॒ति॒। अहिः॑। पन्था॑म्। वि। स॒र्प॒ति॒। ५६।
महीधरः
म० अरे अध्वर्यो, अजा पिशंगिला अजा नित्या माया रात्रिर्वा पिशंगिला पिशं रूपं गिलति भक्षयति पिशंगिला माया विश्वं ग्रसते । रात्रावपि रूपाणि न प्रतीयन्ते तमसा । श्वावित् सेधा कुरुपिशंगिला कुरुशब्दोऽनुकरणे ‘पिश अवयवे’ इति धातोरिगुपधेति कप्रत्ययः । कुरु इति शब्दमनुकुर्वाणा पिशान् मूलाद्यवयवान् गिलति पिशंगिला । मूलानां शतं कुक्षौ स्थापयति शतं च भक्षयतीति सेधायाः स्वभावः । शशः वन्यो जीवविशेषः आस्कन्दमास्कन्द्यास्कन्द्य अर्षति स तस्य स्वभावः । अहिः सर्पः पन्थां पन्थानं विसर्पति विशेषेण | गच्छति ॥ ५६ ॥
सप्तपञ्चाशी।
अधिमन्त्रम् (VC)
- समाधाता देवता
- प्रजापतिर्ऋषिः
- स्वराडुष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
पूर्व मन्त्र में कहे प्रश्नों के उत्तर अगले मन्त्र में कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अरे) हे मनुष्यो ! (अजा) जन्मरहित प्रकृति (पिशङ्गिला) विश्व के रूप को प्रलय समय में निगलनेवाली (श्वावित्) सेही (कुरुपिशङ्गिला) किये हुए खेती आदि के अवयवों का नाश करती है, (शशः) खरहा के तुल्य वेगयुक्त कृषि आदि में खरखरानेवाला वायु (आस्कन्दम्) अच्छे प्रकार कूद के चलने अर्थात् एक पदार्थ से दूसरे पदार्थ को शीघ्र (अर्षति) प्राप्त होता और (अहिः) मेघ (पन्थाम्) मार्ग में (वि, सर्पति) विविध प्रकार से जाता है, इस को तुम जानो ॥५६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जो प्रकृति सब कार्यरूप जगत् का प्रलय करने हारी, कार्य्यकारणरूप अपने कार्य को अपने में लय करने हारी है, जो सेही खेती आदि का विनाश करती है, जो वायु खरहा के समान चलता हुआ सब को सुखाता है और जो मेघ साँप के समान पृथिवी पर जाता है, उन सब को जानो ॥५६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पूर्वप्रश्नानामुत्तराण्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - अरे मनुष्याः ! अजा पिशङ्गिला श्वावित्कुरुपिशङ्गिलाऽस्ति, शश आस्कन्दमर्षत्यहिः पन्थां विसर्पतीति विजानीत ॥५६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! याऽजा प्रकृतिः सर्वकार्यप्रलयाधिकारिणी कार्यकारणाख्या स्वकार्य्यं स्वस्मिन् प्रलापयति। या सेधा कृष्यादिकं विनाशयति, यो वायुः शश इव गच्छन् सर्वं शोषयति, यो मेघः सर्प इव गच्छति, तान् विजानीत ॥५६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! प्रकृती ही सर्व कार्यरूपी जगाचा प्रलय करणारी (गिळून टाकणारी) असून कार्यकारणरूपी कार्याचा आपल्यातच लय करणारी आहे. शेतीचा नाश जंतू करतात. वायू हा सशाप्रमाणे शीघ्र चालतो, सर्वांना सुकवितो. मेघ सापाप्रमाणे जलमार्गाचा विस्तार करून पृथ्वीवर येतो त्या सर्वांना तुम्ही जाणा.
५७ कत्यस्य विष्ठाः
विश्वास-प्रस्तुतिः ...{Loading}...
कत्य॑स्य वि॒ष्ठाः कत्य॒क्षरा॑णि॒ कति॒ होमा॑सः कति॒धा समि॑द्धः। य॒ज्ञस्य॑ त्वा वि॒दथा॑ पृच्छ॒मत्र॒ कति॒ होता॑रऽऋतु॒शो य॑जन्ति ॥५७ ॥
मूलम् ...{Loading}...
कत्य॑स्य वि॒ष्ठाः कत्य॒क्षरा॑णि॒ कति॒ होमा॑सः कति॒धा समि॑द्धः। य॒ज्ञस्य॑ त्वा वि॒दथा॑ पृच्छ॒मत्र॒ कति॒ होता॑रऽऋतु॒शो य॑जन्ति ॥५७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
कति॑। अ॒स्य॒। वि॒ष्ठाः। वि॒स्था इति॑ वि॒ऽस्थाः। कति॑। अ॒क्षरा॑णि। कति॑। होमा॑सः। क॒ति॒धा। समि॑द्ध॒ इति॒ सम्ऽइ॑द्धः। य॒ज्ञस्य॑। त्वा॒। वि॒दथा॑। पृ॒च्छ॒म्। अत्र॑। कति॑। होता॑रः। ऋ॒तु॒श इत्यृ॑तु॒ऽशः। य॒ज॒न्ति॒। ५७।
महीधरः
म० ‘उत्तरौ च कत्यस्येति’ ( का० २० । ७ । १३)। । उत्तरौ पश्चादुक्तौ ब्रह्मोद्गातारौ चतुर्ऋग्भिः संवदेते । ब्रह्मोद्गातारं पृच्छति । अस्य कति विष्टाः कियन्ति अन्नानि । का संख्या यासां ताः कति । विशेषेण तिष्ठति यज्ञो यासु ताः विष्ठाः अन्नानि कियत्प्रकाराणि यज्ञे । अक्षराणि च कति । होमासः होमाः कति । समिद्धः समिधः कतिप्रकाराः । धकारस्य द्वित्वमार्षम् । यज्ञस्य विदथा वेत्तीति विदः विदस्य भावो विदथा यज्ञावेदितृत्वेन हेतुना अत्र स्थले त्वा त्वामहं पृच्छमपृच्छं पृच्छामि । पृच्छतेर्लङ् । अडभाव आर्षः । ऋतुशः ऋतौ ऋतौ कति होतारः यजन्ति ॥ ५७ ॥
अष्टपञ्चाशी।
अधिमन्त्रम् (VC)
- प्रष्टा देवता
- प्रजापतिर्ऋषिः
- निचृत त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी अगले मन्त्र में प्रश्न कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! (अस्य) इस (यज्ञस्य) संयोग से उत्पन्न हुए संसाररूप यज्ञ के (कति) कितने (विष्ठाः) विशेष कर संसाररूप यज्ञ जिनमें स्थित हो वे (कति) कितने इस के (अक्षराणि) जलादि साधन (कति) कितने (होमासः) देने-लेने योग्य पदार्थ (कतिधा) कितने प्रकारों से (समिद्धः) ज्ञानादि के प्रकाशक पदार्थ समिधरूप (कति) कितने (होतारः) होता अर्थात् देने-लेने आदि व्यवहार के कर्त्ता (ऋतुशः) वसन्तादि प्रत्येक ऋतु में (यजन्ति) सङ्गम करते हैं, इस प्रकार (अत्र) इस विषय में (विदथा) विज्ञानों को (त्वा) आप से मैं (पृच्छम्) पूछता हूँ ॥५७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यह जगत् कहाँ स्थित है? कितने इसकी उत्पत्ति के साधन? कितने व्यापार के योग्य वस्तु? कितने प्रकार का ज्ञानादि प्रकाशक वस्तु? और कितने व्यवहार करने हारे हैं? इन पाँच प्रश्नों के उत्तर अगले मन्त्र में जान लेना चाहिये ॥५७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः प्रश्नानाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन्नस्य यज्ञस्य कति विष्ठाः? कत्यक्षराणि? कति होमासः? कतिधा समिद्धः? कति होतार ऋतुशो यजन्तीत्यत्र विषये विदथा त्वाऽहं पृच्छम् ॥५७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - इदं जगत्क्व तिष्ठति? कत्यस्य निर्माणसाधनानि? कति व्यापारयोग्यानि? कतिविधं ज्ञानादिप्रकाशकम्? कति व्यवहर्त्तार? इति पञ्च प्रश्नास्तेषामुत्तराण्युत्तरत्र वेद्यानि ॥५७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या जगतरूपी यज्ञाचा आधार कुठे स्थित असतो? त्याच्या उत्पत्तीची साधने कोणती? देवाण घेवाणाच्या वस्तू कोणत्या? ज्ञानाचा प्रसार करणाऱ्या वस्तू कोणत्या? व त्यांचा व्यवहार करणारे कोण? या प्रश्नांची उत्तरे पुढील मंत्रातून जाणावी.
५८ षडस्य विष्ठाः
विश्वास-प्रस्तुतिः ...{Loading}...
षड॑स्य वि॒ष्ठाः श॒तम॒क्षरा॑ण्यशी॒तिर्होमाः॑ स॒मिधो॑ ह ति॒स्रः। य॒ज्ञस्य॑ ते वि॒दथा॒ प्र ब्र॑वीमि स॒प्त होता॑रऽऋतु॒शो य॑जन्ति ॥५८ ॥
मूलम् ...{Loading}...
षड॑स्य वि॒ष्ठाः श॒तम॒क्षरा॑ण्यशी॒तिर्होमाः॑ स॒मिधो॑ ह ति॒स्रः। य॒ज्ञस्य॑ ते वि॒दथा॒ प्र ब्र॑वीमि स॒प्त होता॑रऽऋतु॒शो य॑जन्ति ॥५८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
षट्। अ॒स्य॒। वि॒ष्ठाः। वि॒स्था इति॑ वि॒ऽस्थाः। श॒तम्। अ॒क्षरा॑णि। अ॒शी॒तिः। होमाः॑। स॒मिध॒ इति॑ स॒म्ऽइधः॑। ह॒। ति॒स्रः। य॒ज्ञस्य॑। ते॒ वि॒दथा॑। प्र। ब्र॒वी॒मि॒। स॒प्त। होता॑रः। ऋ॒तु॒श इति॑ ऋतु॒ऽशः। य॒ज॒न्ति॒। ५८।
महीधरः
म० उद्गाता प्रत्याह । रससंख्यया अन्नसंख्यामाह । अस्य यज्ञस्य षट् विष्ठाः अन्नानि । सर्वेषामन्नानां षड्रसात्मकत्वात्षडेवान्नानीत्यर्थः । अस्य यज्ञस्य शतमक्षराणि छन्दोभिर्यज्ञो निष्पाद्यते तानि च छन्दांसि गायत्र्यादीन्यतिधृत्यन्तानि चतुर्दश चतुर्विशत्यक्षरादीनि चतुर्वर्णान्तराणि तेषां क्रमोत्क्रमगत्या द्वाभ्यां शतमक्षराणि भवन्ति । तथा हि । गायत्री चतुर्विंशतिवर्णा । अतिधृतिः षट्सप्तत्यक्षरा एवं द्वे मिलित्वा शतमक्षराणि उष्णिक् २८ धृतिः ७२ एवं शतम् । अनुष्टुप् ३२ अत्यष्टिः ६८ एवं शतम् । अष्टिः ६४ बृहती ३६ एवं शतम् । अतिशक्वरी ६० पङ्क्तिः ४० एवं शतम् । शक्वरी ५६ त्रिष्टुप् ४४ एवं शतम् । अतिजगती ५२ जगती ४८ एवं शतमक्षराणि । अनेनाभिप्रायेण शतमक्षराणीत्युक्तम् । होमाः अशीतिः अश्वमेध एकविंशतिर्यूपाः तत्राग्निष्टे मध्यमयूपेऽश्वतूपरगोमृगान्नियुनक्ति इतरेषु षोडश पशून् तत्र विंशतियूपेषु चतस्रोऽशीतयः पशवो भवन्तीत्यभिप्रायेणोक्तम् । अशीतिर्होमाः ह स्फुटम् । तिस्रः समिधः अश्वतूपरगोमृगाः प्राजापत्याः पशवः तद्रूपाभिः समिद्भिर्यज्ञो दीप्त इति तिस्रः समिध उक्ताः । यज्ञस्य विदथा वेदनेन हेतुना ते तुभ्यं प्रव्रवीमि प्रवदामि । किंच सप्त होतारो वषट्कर्तारः ऋतुशः ऋतुयाजेषु यजन्ति ॥ ५८ ॥
एकोनषष्टी।
अधिमन्त्रम् (VC)
- समिधा देवता
- प्रजापतिर्ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
पूर्व मन्त्र में कहे प्रश्नों के उत्तर अगले मन्त्र में कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे जिज्ञासु लोगो ! (अस्य) इस (यज्ञस्य) सङ्गत जगत् के (षट्) छः ऋतु (विष्ठाः) विशेष स्थिति के आधार (शतम्) असंख्य (अक्षराणि) जलादि उत्पत्ति के साधन (अशीतिः) असंख्य (होमाः) देने-लेने योग्य वस्तु (तिस्रः) आध्यात्मिक, आधिदैविक, आधिभौतिक तीन (ह) प्रसिद्ध (समिधः) ज्ञानादि की प्रकाशक विद्या (सप्त) पाँच प्राण, मन और आत्मा सात (होतारः) देने-लेने आदि व्यवहार के कर्त्ता (ऋतुशः) प्रति वसन्तादि ऋतु में (यजन्ति) सङ्गत होते हैं, उस जगत् के (विदथा) विज्ञानों को (ते) तेरे लिये मैं (प्रब्रवीमि) कहता हूँ ॥५८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे ज्ञान चाहनेवाले लोगो ! जिस जगद्रूप यज्ञ में छः ऋतु स्थिति के साधक, असंख्य जलादि वस्तु, व्यवहारसाधक बहुत व्यवहार योग्य पदार्थ और सब प्राणी-अप्राणी होता आदि सङ्गत होते हैं और जिस में ज्ञान आदि का प्रकाश करनेवाली तीन प्रकार की विद्या हैं, उस यज्ञ को तुम लोग जानो ॥५८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पूर्वप्रश्नानामुत्तराण्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे जिज्ञासवोऽस्य यज्ञस्य षड्विष्ठाः शतमक्षराण्यशीतिर्होमास्तिस्रो ह समिधः सप्त होतार ऋतुशो यजन्ति तस्य विदथा तेऽहं प्रब्रवीमि ॥५८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे ज्ञानमीप्सवो जनाः ! यस्मिन् यज्ञे षड् ऋतवः स्थितिसाधका, असंख्यानि जलादीनि वस्तूनि व्यवहारसाधकानि, बहवो व्यवहारयोग्याः पदार्थाः, सर्वे प्राण्यप्राणिनो होत्रादयः सङ्गच्छन्ते, यत्र च ज्ञानादिप्रकाशिकाः त्रिविधा विद्याः सन्ति, तं यज्ञं यूयं विजानीत ॥५८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे जिज्ञासू लोकांनो ! या जगतरूपी यज्ञात सहा ऋतू हे स्थिती साधक असून जल वगैरे असंख्य पदार्थ व्यवहार साधक असतात सर्व जड व चेतन (होता) यांची संगती होते व ज्याच्यामध्ये आध्यात्मिक, आधिदैविक व आधिभौतिक या तीन प्रकारच्या ज्ञानप्रकाश करणाऱ्या विद्या आहेत त्या (जगतरूपी) यज्ञाला तुम्ही जाणा.
५९ कोऽअस्य वेद
विश्वास-प्रस्तुतिः ...{Loading}...
कोऽअ॒स्य वे॑द॒ भुव॑नस्य॒ नाभिं॒ को द्यावा॑पृथि॒वीऽअ॒न्तरि॑क्षम्। कः सूर्य॑स्य वेद बृह॒तो ज॒नित्रं॒ को वे॑द च॒न्द्रम॑सं यतो॒जाः ॥५९ ॥
मूलम् ...{Loading}...
कोऽअ॒स्य वे॑द॒ भुव॑नस्य॒ नाभिं॒ को द्यावा॑पृथि॒वीऽअ॒न्तरि॑क्षम्। कः सूर्य॑स्य वेद बृह॒तो ज॒नित्रं॒ को वे॑द च॒न्द्रम॑सं यतो॒जाः ॥५९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
कः। अ॒स्य॒। वे॒द॒। भुव॑नस्य। नाभि॑म्। कः। द्यावा॑पृथि॒वी इति॒ द्यावा॑पृथि॒वी। अ॒न्तरि॑क्षम्। कः। सूर्य॑स्य। वे॒द॒। बृ॒ह॒तः। ज॒नित्र॑म्। कः। वे॒द॒। च॒न्द्रम॑सम्। य॒तो॒जा इति॑ यतः॒ऽजाः। ५९।
महीधरः
म० उद्गाता ब्रह्माणं पृच्छति । हे ब्रह्मन् , अस्य भुवनस्य जातस्य नाभिं नभ्यते यत्र स नाभिर्बन्धनस्थानं कारणमिति यावत् । नाभौ हि सर्वा नाड्यो बध्यन्ते ‘नभ हिंसायाम्’ अत्र बन्धनार्थः । औणादिक इप्रत्ययः । भूतजातस्य कारणं को वेद जानाति । द्यावापृथिवी द्यावापृथिव्यौ अन्तरिक्षं च को वेद । बृहतो महतो जनित्रं जन्म को वेद । सूर्यस्योत्पत्तिः कस्मादित्यर्थः । जनेस्त्रल्प्रत्ययः। यतो जायते उत्पद्यते इति यतोजाः यत इत्युपपदे ‘जनसनखनक्रमगमो विट्’ (पा० ३। २।६७) इति विट्प्रत्ययः । ‘विड्वनोरनुनासिकस्य’ (पा० ६। ४ । ४१) इति नकारस्यात्वम् । प्रथमा द्वितीयार्था । यतोजाः यत उत्पन्नं चन्द्रमसमिन्दुं को वेद । यतश्चन्द्रस्योत्पत्तिस्तं को वेदेत्यर्थः ॥ ५९॥
षष्टी।
अधिमन्त्रम् (VC)
- प्रष्टा देवता
- प्रजापतिर्ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी अगले मन्त्र में प्रश्नों को कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! (अस्य) इस (भुवनस्य) सब के आधारभूत संसार के (नाभिम्) बन्धन के स्थान मध्यभाग को (कः) कौन (वेद) जानता (कः) कौन (द्यावापृथिवी) सूर्य और पृथिवी तथा (अन्तरिक्षम्) आकाश को जानता (कः) कौन (बृहतः) बड़े (सूर्यस्य) सूर्यमण्डल के (जनित्रम्) उपादान वा निमित्त कारण को (वेद) जानता और जो (यतोजाः) जिससे उत्पन्न हुआ है, उस चन्द्रमा के उत्पादक को और (चन्द्रमसम्) चन्द्रलोक को (कः) कौन (वेद) जानता है, इनका समाधान कीजिए ॥५९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस जगत् के धारणकर्त्ता, बन्धन, भूमि, सूर्य, अन्तरिक्षों, महान् सूर्य के कारण और चन्द्रमा जिससे उत्पन्न हुआ है, उसको कौन जानता है? इन चार प्रश्नों के उत्तर अगले मन्त्र में हैं, यह जानना चाहिये ॥५९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः प्रश्नानाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन्नस्य भुवनस्य नाभिं को वेद? को द्यावापृथिवी अन्तरिक्षं वेद? को बृहतः सूर्य्यस्य जनित्रं वेद? यो यतोजास्तं चन्द्रमसं च को वेद? इति समाधेहि ॥५९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अस्य जगतो धारकं बन्धनं, भूमिसूर्यान्तरिक्षाणि महतः सूर्यस्य कारणं यस्मादुत्पन्नश्चन्द्रस्तं च को वेद? इति चतुर्णां प्रश्नानामुत्तराणि परस्मिन् मन्त्रे सन्तीति वेदितव्यम् ॥५९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या जगाच्या बंधनाच्या मध्य (मुख्य) स्थानाला कोण जाणतो? भूमी, सूर्य, आकाश यांना कोण जाणतो? सूर्यमंडळाच्या उपादान व निमित्त कारणाला कोण जाणतो? चंद्र ज्यांच्यामुळे उत्पन्न झालेला आहे त्याला कोण जाणतो? या चार प्रश्नांची उत्तरे पुढील मंत्रात आहेत. ते जाणा.
६० वेदाहमस्य भुवनस्य
विश्वास-प्रस्तुतिः ...{Loading}...
वेदा॒हम॒स्य भुव॑नस्य॒ नाभिं॒ वेद॒ द्यावा॑पृथि॒वीऽअ॒न्तरि॑क्षम्। वेद॒ सूर्य॑स्य बृह॒तो ज॒नित्र॒मथो॑ वेद च॒न्द्रम॑सं यतो॒जाः ॥६० ॥
मूलम् ...{Loading}...
वेदा॒हम॒स्य भुव॑नस्य॒ नाभिं॒ वेद॒ द्यावा॑पृथि॒वीऽअ॒न्तरि॑क्षम्। वेद॒ सूर्य॑स्य बृह॒तो ज॒नित्र॒मथो॑ वेद च॒न्द्रम॑सं यतो॒जाः ॥६० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वेद॑। अ॒हम्। अ॒स्य। भुव॑नस्य। नाभि॑म्। वेद॑। द्यावा॑पृथि॒वी इति॑ द्यावा॑पृथि॒वी। अ॒न्तरि॑क्षम्। वेद॑। सूर्य॑स्य। बृ॒ह॒तः। ज॒नित्र॑म्। अथो॒ इत्यथो॑। वे॒द॒। च॒न्द्रम॑सम्। य॒तो॒जा इति॑ य॒तःऽजाः। ६०।
महीधरः
म० ब्रह्मा प्रत्याह । अस्य भुवनस्य नाभिं कारणमहं वेद जानामि विदो लटो वा’ (पा० ३।४। ८३ ) परब्रह्मव जगकारणं जानामीत्यर्थः । द्यावापृथिवी अन्तरिक्षं च वेद ब्रह्मणो विकारभूतं जानामि । वृहतः सूर्यस्य जनित्रमुत्पत्तिकारणं ब्रह्मैव वेद । अथो अपिच यतोजाः चन्द्रमसमहं वेद परमात्मनो जातं चन्द्रमहं वेमीत्यर्थः ॥ ६० ॥
एकषष्टी।
अधिमन्त्रम् (VC)
- समाधाता देवता
- प्रजापतिर्ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
पूर्व मन्त्र में कहे प्रश्नों के उत्तर अगले मन्त्र में कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे जिज्ञासो पुरुष ! (अस्य) इस (भुवनस्य) सब के अधिकरण जगत् के (नाभिम्) बन्धन के स्थान कारणरूप मध्यभाग परब्रह्म को (अहम्) मैं (वेद) जानता हूँ तथा (द्यावापृथिवी) प्रकाशित और अप्रकाशित लोकसमूहों और (अन्तरिक्षम्) आकाश को भी (वेद) मैं जानता हूँ (बृहतः) बड़े (सूर्य्यस्य) सूर्यलोक के (जनित्रम्) उपादान तैजस कारण और निमित्तकारण ब्रह्म को (वेद) मैं जानता हूँ (अथो) इस के अनन्तर (यतोजाः) जिस परमात्मा से उत्पन्न हुआ जो चन्द्र उस परमात्मा को तथा (चन्द्रमसम्) चन्द्रमा को (वेद) मैं जानता हूँ ॥६० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्वान् उत्तर देवे कि हे जिज्ञासु पुरुष ! इस जगत् के बन्धन अर्थात् स्थिति के कारण, प्रकाशित मध्यस्थ आकाश, इन तीनों लोक के कारण और सूर्य्य चन्द्रमा के उपादान और निमित्तकारण इस सब को मैं जानता हूँ, ब्रह्म ही इस सब का निमित्तकारण और प्रकृति उपादानकारण है ॥६० ॥
दयानन्द-सरस्वती (सं) - विषयः
पूर्वप्रश्नानामुत्तराण्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे जिज्ञासोऽस्य भुवनस्य नाभिमहं वेद, द्यावापृथिवी अन्तरिक्षं वेद, बृहतः सूर्य्यस्य जनित्रं वेद। अथो यतोजास्तं चन्द्रमसञ्चाहं वेद ॥६० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - विद्वान् ब्रूयात्−हे जिज्ञासोऽस्य जगतो बन्धनस्थितिकारणं, लोकत्रयस्य कारणं, सूर्य्याचन्द्रमसोश्चोपादाननिमित्ते एतत्सर्वमहं जानामि, ब्रह्मैवास्य सर्वस्य निमित्तं कारणं प्रकृतिश्चोपादानमिति ॥६० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - विद्वानाने उत्तर द्यावे की, हे जिज्ञासू पुरुषा ! या जगाच्या बंधनाचे अर्थात स्थितीचे कारण, प्रकाशित व अप्रकाशित लोक, मध्यस्थ आकाश या तीन लोकांचे कारण, सूर्य चंद्राचे उपादान व निमित्त कारण या सर्वांना मी जाणतो. तो परमब्रह्मच या सर्वांचे निमित्त करण असून प्रकृती ही उपादान कारण आहे.
६१ पृच्छामि त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
पृ॒च्छामि॑ त्वा॒ पर॒मन्तं॑ पृथि॒व्याः पृ॒च्छामि॒ यत्र॒ भुव॑नस्य॒ नाभिः॑। पृ॒च्छामि॑ त्वा॒ वृष्णो॒ऽअश्व॑स्य॒ रेतः॑ पृ॒च्छामि॑ वा॒चः प॑र॒मं व्यो॑म ॥६१ ॥
मूलम् ...{Loading}...
पृ॒च्छामि॑ त्वा॒ पर॒मन्तं॑ पृथि॒व्याः पृ॒च्छामि॒ यत्र॒ भुव॑नस्य॒ नाभिः॑। पृ॒च्छामि॑ त्वा॒ वृष्णो॒ऽअश्व॑स्य॒ रेतः॑ पृ॒च्छामि॑ वा॒चः प॑र॒मं व्यो॑म ॥६१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पृ॒च्छामि॑। त्वा॒। पर॑म्। अन्त॑म्। पृ॒थि॒व्याः। पृ॒च्छामि॑। यत्र॑। भुव॑नस्य। नाभिः॑। पृ॒च्छामि॑। त्वा॒। वृष्णः॑। अश्व॑स्य। रेतः॑। पृ॒च्छामि॑। वा॒चः। प॒र॒मम्। व्यो॒मेति॒ विऽओ॑म। ६१।
महीधरः
म० ‘यजमानोऽध्वर्यु पृच्छामि बेति’ (का० २० । ७ । १४) । यजमानोऽध्वर्यु पृच्छति । हे अध्वर्यो, पृथिव्याः परमन्तमवधिभूतं पर्यन्तं त्वा त्वामहं पृच्छामि । द्विकर्मकः । यत्र यस्मिन्स्थले भुवनस्य भूतजातस्य नाभिः कारणं तदपि त्वां पृच्छामि । वृष्णः सेक्तुः अश्वस्य रेतः वीर्यं त्वां पृच्छामि । वाचो वाण्याः त्रयीलक्षणायाः परममुत्कृष्टं व्योम स्थानं त्वां पृच्छामि ॥ ६१ ॥
द्विषष्टी।
अधिमन्त्रम् (VC)
- प्रष्टा देवता
- प्रजापतिर्ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी अगले मन्त्र में प्रश्नों को कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् जन ! मैं (त्वा) आप को (पृथिव्याः) पृथिवी के (अन्तम्, परम्) परभाग अवधि को (पृच्छामि) पूछता (यत्र) जहाँ इस (भुवनस्य) लोक का (नाभिः) मध्य से खेंच के बन्धन करता है, उस को (पृच्छामि) पूछता हूँ। जो (वृष्णः) सेचनकर्त्ता (अश्वस्य) बलवान् पुरुष का (रेतः) पराक्रम है, उस को (पृच्छामि) पूछता हूँ और (वाचः) तीन वेदरूप वाणी के (परमम्) उत्तम (व्योम) आकाशरूप स्थान को (त्वा) आप से (पृच्छामि) पूछता हूँ, आप उत्तर कहिये ॥६१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - पृथिवी की सीमा क्या? जगत् का आकर्षण से बन्धन कौन? बली जन का पराक्रम कौन? और वाणी का पारगन्ता कौन है? इन चार प्रश्नों के उत्तर अगले मन्त्र में जानने चाहियें ॥६१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः प्रश्नानाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन्नहं त्वा त्वां पृथिव्या अन्तं परं पृच्छामि यत्र भुवनस्य नाभिरस्ति, तं पृच्छामि यद् वृष्णोऽश्वस्य रेतोऽस्ति, तत्पृच्छामि वाचः परमं व्योम, त्वा पृच्छामीति वदोत्तराणि ॥६१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - पृथिव्याः सीमा लोकस्याकर्षणेन बन्धनं, बलिनो जनस्य पराक्रमो वाक्पारगश्च कोऽस्तीत्येतेषां प्रश्नानामुत्तराणि परस्मिन् मन्त्रे वेदितव्यानि ॥६१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - पृथ्वीची सीमा कोणती? या जगाचा आकर्षणकर्ता (धारणकर्ता) कोण आहे? पराक्रमी बलवान माणसांच्या पराक्रमाचा आधार कोणता? वाणीचा यथायोग्य उपयोग कोण करतो? या प्रश्नाची उत्तरे पुढील मंत्रात आहेत.
६२ इयं वेदिः
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒यं वेदिः॒ परो॒ऽअन्तः॑ पृथि॒व्याऽअ॒यं य॒ज्ञो भुव॑नस्य॒ नाभिः॑। अ॒यँ सोमो॒ वृष्णो॒ऽअश्व॑स्य॒ रेतो॑ ब्र॒ह्मायं वा॒चः प॑र॒मं व्यो॑म ॥६२ ॥
मूलम् ...{Loading}...
इ॒यं वेदिः॒ परो॒ऽअन्तः॑ पृथि॒व्याऽअ॒यं य॒ज्ञो भुव॑नस्य॒ नाभिः॑। अ॒यँ सोमो॒ वृष्णो॒ऽअश्व॑स्य॒ रेतो॑ ब्र॒ह्मायं वा॒चः प॑र॒मं व्यो॑म ॥६२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इ॒यम्। वेदिः॑। परः॑। अन्तः॑। पृ॒थि॒व्याः। अ॒यम्। य॒ज्ञः। भुव॑नस्य। नाभिः॑। अ॒यम्। सोमः॑। वृष्णः॑। अश्व॑स्य। रेतः॑। ब्र॒ह्मा। अ॒यम्। वा॒चः। प॒र॒मम्। व्यो॒मेति॒ विऽओ॑म। ६२।
महीधरः
म०. ‘इयं वेदिरित्यध्वर्युः’ (का० २० । ७ । १५) । अध्वर्युः यजमानं प्रत्याह । इयं वेदिः उत्तरवेदिः पृथिव्याः परः अन्तोऽवधिः । वेदेः सर्वपृथ्वीरूपत्वादित्यर्थः । भुवनस्य नाभिः कारणम् । अयं यज्ञोऽश्वमेधः भुवनस्य प्राणिजातस्य नाभिः कारणम् । ‘यज्ञाद्वै प्रजाः प्रजायन्ते’ इति श्रुतेः । वृष्णः अश्वस्य रेतः अयं सोमः सोमलताश्वस्य वीर्याज्जातेत्यर्थः । अयं ब्रह्मा ऋत्विक् वाचः त्रयीरूपायाः परमं व्योम स्थानम् । ब्रह्मणस्त्रिवेदसंयोगादित्यर्थः । ब्रह्मोद्यं समाप्तम् ॥ ६२ ॥
त्रिषष्टी।
अधिमन्त्रम् (VC)
- समाधाता देवता
- प्रजापतिर्ऋषिः
- विराडनुष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
पूर्व मन्त्र में कहे प्रश्नों के उत्तर अगले मन्त्र में कहे हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे जिज्ञासु जन ! (इयम्) यह (वेदिः) मध्यरेखा (पृथिव्याः) भूमि के (परः) परभाग की (अन्तः) सीमा है, (अयम्) यह प्रत्यक्ष गुणोंवाला (यज्ञः) सब को पूजनीय जगदीश्वर (भुवनस्य) संसार की (नाभिः) नियत स्थिति का बन्धक है, (अयम्) यह (सोमः) ओषधियों में उत्तम अंशुमान् आदि सोम (वृष्णः) पराक्रमकर्त्ता (अश्वस्य) बलवान् जन का (रेतः) पराक्रम है और (अयम्) यह (ब्रह्मा) चारों वेद का ज्ञाता (वाचः) तीन वेदरूप वाणी का (परमम्) उत्तम (व्योम) स्थान है, तू इस को जान ॥६२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जो इस भूगोल की मध्यस्थ रेखा की जावे तो वह ऊपर से भूमि के अन्त को प्राप्त होती हुई व्याससंज्ञक होती है। यही भूमि की सीमा है। सब लोकों के मध्य आकर्षणकर्त्ता जगदीश्वर है। सब प्राणियों को पराक्रमकर्त्ता ओषधियों में उत्तम अंशुमान् आदि सोम है और वेदपारग पुरुष वाणी का पारगन्ता है, यह तुम जानो ॥६२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पूर्वप्रश्नानामुत्तराण्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे जिज्ञासो ! इयं वेदिः पृथिव्याः परोऽन्तोऽयं यज्ञो भुवनस्य नाभिरयं सोमो वृष्णोऽश्वस्य रेतोऽयं ब्रह्मा वाचः परमं व्योमास्तीति विद्धि ॥६२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यद्यस्य भूगोलस्य मध्यस्था रेखा क्रियते तर्हि सा उपरिष्टाद् भूमेरन्तं प्राप्नुवती सती व्याससंज्ञां लभते। अयमेव भूमेरन्तोऽस्ति। सर्वेषां मध्याकर्षणं जगदीश्वरः। सर्वेषां प्राणिनां वीर्यकर ओषधिराजः सोमो, वेदपारगो वाक्पारगोऽस्तीति यूयं विजानीत ॥६२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! या भूगोलाच्या मध्यातून जाणारी ही रेषा भूमीच्या शेवटापर्यंत जाते तिला व्यास म्हणतात हीच भूमीची सीमा होय. सर्व गोलांचा आकर्षणकर्ता ईश्वर आहे. सर्व औषधांमध्ये उत्तम अंशुमान इत्यादी सोम प्राण्यांना बलवान करते. वेदाचा पूर्ण ज्ञाता असलेला पुरुष वाणीचा यथायोग्य उपयोग करतो हे तुम्ही जाणा.
६३ सुभूः स्वयम्भूः
विश्वास-प्रस्तुतिः ...{Loading}...
सु॒भूः स्व॑य॒म्भूः प्र॑थ॒मो᳙ऽन्तर्म॑हत्य᳖र्ण॒वे। द॒धे ह॒ गर्भ॑मृ॒त्वियं॒ यतो॑ जा॒तः प्र॒जाप॑तिः ॥६३ ॥
मूलम् ...{Loading}...
सु॒भूः स्व॑य॒म्भूः प्र॑थ॒मो᳙ऽन्तर्म॑हत्य᳖र्ण॒वे। द॒धे ह॒ गर्भ॑मृ॒त्वियं॒ यतो॑ जा॒तः प्र॒जाप॑तिः ॥६३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सु॒भूरिति॑ सु॒ऽभूः। स्व॒य॒म्भूरिति॑ स्व॒य॒म्ऽभूः। प्र॒थ॒मः। अ॒न्तः। म॒ह॒ति। अ॒र्ण॒वे। द॒धे। ह॒। गर्भ॑म्। ऋ॒त्विय॑म्। यतः॑। जा॒तः। प्र॒जाप॑ति॒रिति॑ प्र॒जाऽप॑तिः। ६३।
महीधरः
म०. सुभूरिति पूर्वस्य महिम्नः पुरोऽनुवाक्या उत्तरस्य याज्या च । ‘उदिते ब्रह्मोद्यं संप्रपद्याध्वर्युर्हिरण्मयेन पात्रेण प्राजापत्यं महिमानं ग्रहं गृह्णाति तस्य पुरोरुग्घिरण्यगर्भः समवर्तताग्र इत्यथास्य पुरोऽनुवाक्याः सुभूः स्वयंभूः’ (१३ । ५ । २।२३) इति श्रुतेः । प्रजापतिदेवत्यानुष्टुप् । ह इति प्रसिद्धम् । प्रथमः सर्वस्य आदिः अनादिनिधनः पुरुषः महति अर्णवे कल्पान्तकालीने समुद्रे अन्तर्मध्ये गर्भं दधे स्थापितवान् । कीदृशः । सुष्ठू भूरुत्पत्तिर्यस्मात्स सुभूः विश्वोत्पादकः । खयं भवतीति स्वयंभूः स्वेच्छाधृतशरीरः । कीदृशं गर्भम् । ऋत्वियम् ऋतुः प्राप्तो यस्य । घस्प्रत्ययः । प्राप्तकालम् । यतो गर्भात् प्रजापतिः ब्रह्मा जातः उत्पन्नः ॥ ६३ ॥
चतुःषष्टी।
अधिमन्त्रम् (VC)
- समाधाता देवता
- प्रजापतिर्ऋषिः
- विराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
ईश्वर कैसा है, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे जिज्ञासु जन ! (यतः) जिस जगदीश्वर से (प्रजापतिः) विश्व का रक्षक सूर्य (जातः) उत्पन्न हुआ है और जो (सुभूः) सुन्दर विद्यमान (स्वयम्भूः) जो अपने आप प्रसिद्ध उत्पत्तिनाशरहित (प्रथमः) सब से प्रथम जगदीश्वर (महति) बड़े विस्तृत (अर्णवे) जलों से सम्बद्ध हुए संसार के (अन्तः) बीच (ऋत्वियम्) समयानुकूल प्राप्त (गर्भम्) बीज को (दधे) धारण करता है, (ह) उसी की सब लोग उपासना करें ॥६३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यदि जो मनुष्य लोग सूर्यादि लोकों के उत्तम कारण प्रकृति को और उस प्रकृति में उत्पत्ति की शक्ति को धारण करनेहारे परमात्मा को जानें तो वे जन इस जगत् में विस्तृत सुखवाले होवें ॥६३ ॥
दयानन्द-सरस्वती (सं) - विषयः
ईश्वरः कीदृश इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे जिज्ञासो ! यतः प्रजापतिर्जातो यश्च सुभूः स्वयम्भूः प्रथमो जगदीश्वरो महत्यर्णवऽन्तर्ऋत्वियं गर्भं दधे तं ह सर्वे जना उपासीरन् ॥६३।
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदि ये मनुष्याः सूर्य्यादीनां परं कारणं प्रकृतिं तत्र बीजधारकं परमात्मानं च विजानीयुस्तर्हि तेऽस्मिन् संसारे विस्तीर्णसुखा भवेयुः ॥६३।
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे, सूर्य वगैरे गोलांचे कारण प्रकृती आहे हे जाणतात व त्या प्रकृतीमध्ये उत्पत्तीशक्ती धोरण करणाऱ्या परमेश्वराला जाणतात. त्यांना या जगात खूप सुख मिळू शकते.
६४ होता यक्षत्प्रजापतिम्
विश्वास-प्रस्तुतिः ...{Loading}...
होता॑ यक्षत्प्र॒जाप॑तिँ॒ सोम॑स्य महि॒म्नः। जु॒षतां॒ पिब॑तु॒ सोमँ॒ होत॒र्यज॑ ॥६४ ॥
मूलम् ...{Loading}...
होता॑ यक्षत्प्र॒जाप॑तिँ॒ सोम॑स्य महि॒म्नः। जु॒षतां॒ पिब॑तु॒ सोमँ॒ होत॒र्यज॑ ॥६४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
होता॑। य॒क्ष॒त्। प्र॒जाप॑ति॒मिति॑ प्र॒जाऽप॑तिम्। सोम॑स्य। म॒हि॒म्नः। जु॒षता॑म्। पिब॑तु। सोम॑म्। होतः॑। यज॑। ६४।
महीधरः
म० महिम्नः प्रैषः । ‘होता यक्षत्प्रजापतिमिति प्रैषः’ ( १३ । ५।२।२३) इति श्रुतेः । आर्षी गायत्री । महिम्नः सोमस्य महिमसंज्ञस्य सोमग्रहस्य संबन्धिनं प्रजापतिं होता दैव्यो यक्षत् यजतु । इज्यमानः स प्रजापतिः जुषतां सोमं महिमग्रहं पिबतु च । हे मनुष्यहोतः, त्वमपि यज ॥ ६४ ॥
पञ्चषष्टी ।
इति माध्यन्दिनीयायां वाजसनेयसंहितायां त्रयोविंशोऽध्यायः ॥ २३ ॥
अधिमन्त्रम् (VC)
- ईश्वरो देवता
- प्रजापतिर्ऋषिः
- विराडुष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
ईश्वर की उपासना कैसे करनी चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (होतः) दान देनेहारे जन ! जैसे (होता) ग्रहीता पुरुष (सोमस्य) सब ऐश्वर्य से युक्त (महिम्नः) बड़प्पन के होने से (प्रजापतिम्) विश्व के पालक स्वामी की (यक्षत्) पूजा करे वा उस को (जुषताम्) सेवन से प्रसन्न करे और (सोमम्) सब उत्तम ओषधियों के रस को (पिबतु) पीवे, वैसे तू (यज) उस की पूजा कर और उत्तम ओषधि के रस को पिया कर ॥६४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे मनुष्यो ! जैसे विद्वान् लोग इस जगत् में रचना आदि विशेष चिह्नों से परमात्मा की महिमा को जान के इस की उपासना करते हैं, वैसे ही तुम लोग भी इस की उपासना करो, जैसे ये विद्वान् युक्तिपूर्वक पथ्य पदार्थों का सेवन कर नीरोग होते हैं, वैसे आप लोग भी हों ॥६४ ॥
दयानन्द-सरस्वती (सं) - विषयः
ईश्वरः कथमुपास्य इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे होतः ! यथा होता सोमस्य महिम्नः प्रजापतिं यक्षज्जुषतां च सोमं च पिबतु तथा त्वं यज पिब च ॥६४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः ! यथा विद्वांसोऽस्मिञ्जगति रचनादिविशेषैः परमात्मनो महिमानं विदित्वैनमुपासते, तथैतं यूयमप्युपाध्वं यथेमे युक्त्यौषधानि सेवित्वाऽरोगा जायन्ते, तथा भवन्तोऽपि भवन्तु ॥६४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे माणसांनो ! ज्याप्रमाणे लोक विद्वान लोक या जगाची रचना इत्यादी विशेष चिन्हांना पाहून परमेश्वराची महिना जाणतात व त्याची उपासना करतात. त्याप्रमाणे तुम्ही लोकही त्याची उपासना करा. जसे विद्वान लोक पथ्य पाळून युक्तिपूर्वक पदार्थांचे सेवन करतात व निरोगी राहतात तसे तुम्ही लोक राहा.
६५ प्रजापते न
विश्वास-प्रस्तुतिः ...{Loading}...
प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ रू॒पाणि॒ परि॒ ता ब॑भूव। यत्का॑मास्ते जुहु॒मस्तन्नो॑ऽअस्तु व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ॥६५ ॥
मूलम् ...{Loading}...
प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ रू॒पाणि॒ परि॒ ता ब॑भूव। यत्का॑मास्ते जुहु॒मस्तन्नो॑ऽअस्तु व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ॥६५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्रजा॑पत॒ इति॒ प्रजा॑ऽपते। न। त्वत्। ए॒तानि॑। अ॒न्यः। विश्वा॑। रू॒पाणि॑। परि॑। ता। ब॒भू॒व॒। यत्का॑मा॒ इति॒ यत्ऽका॑माः। ते॒। जु॒हु॒मः। तत्। नः॒। अ॒स्तु॒। व॒यम्। स्या॒म॒। पत॑यः। र॒यी॒णाम्। ६५।
भट्टभास्कर-टीका
20’यः प्रजाकामस्स्यात्तस्मा एतं प्राजापत्यं गार्मुतं चरुं निर्वपेत्’ इत्यस्याः पुरोऽनुवाक्या - प्रजापते न त्वदिति त्रिष्टुप् ॥ व्याख्यातेयं ‘सोमस्य त्विषिरसि’ इत्यत्र इह त्वस्याः प्रतीकं गृह्यते । हे प्रजापते त्वदन्य एतानि विश्वानि जातानि भुवनानि परिबभूव सर्वतो व्याप्नोति । तस्माद्यद्यत्कामयमानास्ते जुहुमो वयं तत्तथैवास्माकमस्तु वयं रयीणां पतयस्स्यामेति ॥
-
प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव ।
यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ॥ [28] -
युवराजस्य प्रतिहितस्य गृहे जुहोति - प्रजापत इति त्रिष्टुभा ॥ हे प्रजापते त्वत्तोन्यः कश्चिदपि तान्येतानि विश्वा विश्वानि जातानि जन्मवन्ति वस्तूनि परिबभूव परिभवति वाप्नोति परिगृह्णाति वा । यद्वा - त्वदेतानि त्वत्तो जातानि विश्वानि वस्तूनि कश्चिदन्यः पीरबभूव न त्वमेव परिभवसि, तस्मादेवं तावन्महानुभावस्त्वम् । न च मया किञ्चिदज्ञातमस्ति ; अतो यत्कामा यत्फलं कामयमानाः ते जुहुमस्तन्नोस्माकमस्तु त्वत्प्रसादात् स कामोस्माकं सम्पद्यताम् । ‘शीलिकामिभिक्षाचरिभ्यः’ इति णः, पूर्वपदप्रकृतिस्वरत्वं च । इदं तु विशेषेणेत्याह - वयं रयीणां धनानां पतयः सर्वदा स्यामेत्याशास्ते ॥
-
अथ तत्रैव याज्या - प्रजापत इति त्रिष्टुप् ॥ इदं च प्रतीकग्रहणं ‘प्रजापते न त्वदेतान्यन्यः’ इत्यस्याः । इयं च ‘सोमस्य त्विषिरसि’ इत्यत्र व्याख्याता । (यजमानायतने शार्दूलचर्मोपस्तृणाति - सोमस्य त्विषिरसीति ॥ सोमस्य या त्विषिर्दीप्तिः सैव त्वमसि दीप्तत्वात् व्यापित्वाच्छान्तत्वाच्च । तवेव मे ममापि त्वीषिर्भूयात् दीप्ता व्यापिनी शान्ता चेत्याशास्ते ॥)
-
हे प्रजापते न खलु कश्चित् त्वत्तोन्यः तान्येतानि विश्वानि जातानि भूतानि परिबभूव परिभवति । तस्माद्यत्कामा वयं जुहुमस्तन्नोस्माकमस्तु । किञ्च - वयं रयीणां पतयस्स्वामिनश्च स्यामेति ॥
-
19प्राजापत्यया त्रैष्टुभा गार्हपत्यमुपतिष्ठते - प्रजापत इति ॥ व्याख्याता चेयं ‘सोमस्य त्विषिरसि’ इत्यत्र । हे प्रजापते तान्येतानि विश्वानि जातानि भूतानि त्वत्तोन्यः कश्चिदपि परिभवति निजेन महिम्ना व्याप्नोति । यत्कामास्ते जुहुमो वयं तदस्माकमस्तु । किं च - वयं रयीणां पतयः स्याम भूयास्मेति ॥
महीधरः
म० पूर्वस्य महिम्नो याज्या । ‘प्रजापते न त्वदेतान्यन्य इति होता यजतीति’ (१३ । ५ । २ । २३) इति श्रुतेः । व्याख्याता (१० । २०)॥६५॥
श्रीमन्महीधरकृते वेददीपे मनोहरे।
त्रयोविंशोऽयमध्यायो व्यरंसीदाश्वमेधिकः ॥ २३ ॥
अधिमन्त्रम् (VC)
- ईश्वरो देवता
- प्रजापतिर्ऋषिः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (प्रजापते) सब प्रजा के रक्षक स्वामिन् ईश्वर ! कोई भी (त्वत्) आप से (अन्यः) भिन्न (ता) उन (एतानि) इन पृथिव्यादि भूतों तथा (विश्वा) सब (रूपाणि) स्वरूपयुक्त वस्तुओं पर (न) नहीं (परि, बभूव) बलवान् है, (यत्कामाः) जिस-जिस पदार्थ की कामनावाले होकर (वयम्) हम लोग आप की (जुहुमः) प्रशंसा करें (तत्) वह-वह कामना के योग्य वस्तु (नः) हम को (अस्तु) प्राप्त हो, (ते) आपकी कृपा से हम लोग (रयीणम्) विद्या, सुवर्ण आदि धनों के (पतयः) रक्षक स्वामी (स्याम) होवें ॥६५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो परमेश्वर से उत्तम, बड़ा, ऐश्वर्ययुक्त, सर्वशक्तिमान् पदार्थ कोई भी नहीं है तो उस के तुल्य भी कोई नहीं। जो सब का आत्मा, सब का रचनेवाला, समस्त ऐश्वर्य का दाता ईश्वर है, उसकी भक्तिविशेष और अपने पुरुषार्थ से इस लोक के ऐश्वर्य और योगाभ्यास के सेवन से परलोक के सामर्थ्य को हम लोग प्राप्त हों ॥६५ ॥ इस अध्याय में परमात्मा की महिमा, सृष्टि के गुण, योग-प्रशंसा, प्रश्नोत्तर, सृष्टि के पदार्थों की प्रशंसा, राजा प्रजा के गुण, शास्त्र आदि का उपदेश, पठन-पाठन, स्त्री पुरुषों के परस्पर गुण, फिर प्रश्नोत्तर, ईश्वर के गुण, यज्ञ की व्याख्या और रेखागणित आदि का वर्णन किया है, इससे इस अध्याय के अर्थ की पूर्व अध्याय के अर्थ के साथ संगति जाननी चाहिये ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्याणां परमविदुषां श्रीमद्विरजानन्दसरस्वतीस्वामिनां शिष्येण दयानन्दसरस्वतीस्वामिना विरचिते संस्कृतार्य्यभाषाभ्यां विभूषिते सुप्रमाणयुक्ते यजुर्वेदभाष्ये त्रयोविंशोऽध्यायः समाप्तः ॥२३॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे प्रजापते परमात्मन् ! कश्चित्त्वदन्यस्ता तान्येतानि विश्वा रूपाणि वस्तूनि न परि बभूव। यत्कामा वयं त्वां जुहुमस्तन्नोऽस्तु ते कृपया वयं रयीणां पतयः स्याम ॥६५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदि परमेश्वरादुत्तमं बृहदैश्वर्य्ययुक्तं सर्वशक्तिमद्वस्तु किंचिदपि नास्ति, तर्हि तुल्यमपि न। यो विश्वात्मा विश्वस्रष्टाऽखिलैश्वर्य्यप्रद ईश्वरोऽस्ति तस्यैव भक्तिविशेषेण पुरुषार्थेनैहिकमैश्वर्य्यं योगाभ्यासेन पारमार्थिकं सामर्थ्यं प्राप्नुयाम ॥६५ ॥ अत्र परमात्ममहिमा सृष्टिगुणवर्णनं योगप्रशंसा प्रश्नोत्तराणि सृष्टिपदार्थप्रशंसनं राजप्रजागुणवर्णनं शास्त्राद्युपदेशोऽध्ययनमध्यापनं स्त्रीपुरुषगुणवर्णनं पुनः प्रश्नोत्तराणि परमेश्वरगुणवर्णनं यज्ञव्याख्या रेखागणितादि चोक्तमत एतदर्थस्य पूर्वाध्यायोक्तार्थेन सह सङ्गतिरस्तीति वेद्यम् ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - परमेश्वराहून उत्तम, मोठा, ऐश्वर्ययुक्त, सर्वशक्तिमान पदार्थ केणताही नाही, तर त्याच्याशी तुलना करावी असाही कुणी नाही. जो सर्वांचा आत्मा, सर्वांचा निर्माता व संपूर्ण ऐश्वर्याचा दाता असा तो एक ईश्वरच आहे. त्यासाठी त्याची विशेष रूपाने भक्ती करून पुरुषार्थाने इहलोकाचे ऐश्वर्य आम्हाला प्राप्त व्हावे आणि योगाभ्यासाने परलोकाचे सामर्थ्य प्राप्त व्हावे.