०१ इमं मे
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒मं मे॑ वरुण श्रु॒धी हव॑म॒द्या च॑ मृडय। त्वाम॑व॒स्युरा च॑के ॥१ ॥
मूलम् ...{Loading}...
इ॒मं मे॑ वरुण श्रु॒धी हव॑म॒द्या च॑ मृडय। त्वाम॑व॒स्युरा च॑के ॥१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इम॒म्। मे॒। व॒रु॒ण॒। श्रु॒धि। हव॑म्। अ॒द्य। च॒। मृ॒ड॒य॒। त्वाम्। अ॒व॒स्युः। आ। च॒के॒। १।
महीधरः
म०. ‘इमं मे तत्त्वेत्येककपालस्य’ (का० १९ । ७ । १३)। अवभृथेष्टौ वारुणस्यैककपालस्य पुरोडाशस्य द्वे पुरोऽनुवाक्यायाज्ये इत्यर्थः । वरुणदेवत्ये गायत्रीत्रिष्टुभौ शुनःशेपदृष्टे । हे वरुण, त्वं मे मम इमं हवमाह्वानं श्रुधि शृणु । ‘शुशृणु-’ (पा. ६।४।१०२) इति हेर्धिः। संहितायां दीर्घः। च पुनः अद्यदिने मृडयास्मान् सुखय । यतोऽहं त्वामाचके कामये । आचक इति कान्तिकर्मा । कीदृशोऽहम् । अवस्युः अवनमवः पालनम् । अवतेरसुन् तदिच्छति अवस्युः ‘सुप आत्मनः क्यच्’ (पा० ३ । १। ८) ‘क्याच्छन्दसि’ (पा० ३ । २ । १७०) इत्युप्रत्ययः । आत्मनो रक्षणमिच्छन् त्वामिच्छामीत्यर्थः ॥ १॥
द्वितीया।
अधिमन्त्रम् (VC)
- वरुणो देवता
- शुनःशेप ऋषिः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब इक्कीसवें अध्याय का आरम्भ है, इसके प्रथम मन्त्र में विद्वानों के विषय में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (वरुण) उत्तम विद्यावान् जन ! जो (अवस्युः) अपनी रक्षा की इच्छा करनेहारा मैं (इमम्) इस (त्वाम्) तुझ को (आ, चके) चाहता हूँ वह तू (मे) मेरी (हवम्) स्तुति को (श्रुधि) सुन (च) और (अद्य) आज मुझ को (मृडय) सुखी कर ॥१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सब विद्या की इच्छावाले पुरुषों को चाहिए कि अनुक्रम से उपदेश करनेवाले बड़े विद्वान् की इच्छा करें, वह विद्यार्थियों के स्वाध्याय को सुन और उत्तम परीक्षा करके सब को आनन्दित करे ॥१ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ विद्वद्विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे वरुण! योऽवस्युरहमिमं त्वामाचके स त्वं मे हवं श्रुधि। अद्य मां मृडय च ॥१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सर्वैर्विद्याकामैरनूचानो विद्वान् कमनीयः स विद्यार्थिनां स्वाध्यायं श्रुत्वा सुपरीक्ष्य सर्वानानन्दयेत् ॥१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - विद्यार्थ्यांनी विद्येचा उपदेश करणाऱ्या श्रेष्ठ विद्वानांकडून विद्या प्राप्त करण्याची इच्छा बाळगावी. विद्वानांनी विद्यार्थ्यांचा स्वाध्याय ऐकावा व उत्तम परीक्षा करून सर्वांना आनंदित करावे.
०२ तत्त्वा यामि
विश्वास-प्रस्तुतिः ...{Loading}...
तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदाशा॑स्ते॒ यज॑मानो ह॒विर्भिः॑। अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शँस॒ मा न॒ऽआयुः॒ प्र मो॑षीः ॥२ ॥
मूलम् ...{Loading}...
तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदाशा॑स्ते॒ यज॑मानो ह॒विर्भिः॑। अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शँस॒ मा न॒ऽआयुः॒ प्र मो॑षीः ॥२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
तत्। त्वा॒। या॒मि॒। ब्रह्म॑णा। वन्द॑मानः। तत्। आ। शा॒स्ते॒। यज॑मानः। ह॒विर्भि॒रिति॑ ह॒विःऽभिः॑। अहे॑डमानः। व॒रु॒ण॒। इ॒ह। बो॒धि॒। उरु॑शँसेत्युरु॑ऽशँस। मा। नः॒। आयुः॑। प्र। मो॒षीः॒। २।
महीधरः
म० व्याख्याता ( अ० १९ । क० ४९)॥२॥
तृतीया।
अधिमन्त्रम् (VC)
- वरुणो देवता
- शुनःशेप ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (वरुण) अति उत्तम विद्वान् पुरुष ! जैसे (यजमानः) यजमान (हविर्भिः) देने योग्य पदार्थों से (तत्) उस की (आ, शास्ते) इच्छा करता है वैसे (ब्रह्मणा) वेद के विज्ञान से (वन्दमानः) स्तुति करता हुआ मैं (तत्) उस (त्वा) तुझ को (यासि) प्राप्त होता हूँ। हे (उरुशंस) बहुत लोगों से प्रशंसा किये हुए जन ! मुझ से (अहेडमानः) सत्कार को प्राप्त होता हुआ तू (इह) इस संसार में (नः) हमारे (आयुः) जीवन वा विज्ञान को (मा) मत (प्र, मोषीः) चुरा लेवे और शास्त्र का (बोधि) बोध कराया कर ॥२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस में वाचकलुप्तोपमालङ्कार है। जो मनुष्य जिससे विद्या को प्राप्त हो, वह उसको प्रथम नमस्कार करे। जो जिस का पढ़ानेवाला हो, वह उसको विद्या देने के लिए कपट न करे, कदापि किसी को आचार्य का अपमान न करना चाहिए ॥२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे वरुण विद्वज्जन ! यथा यजमानो हविर्भिस्तदाशास्ते तथा ब्रह्मणा वन्दमानोऽहं तत्त्वा यामि। हे उरुशंस ! मयाऽहेडमानस्त्वमिह न आयुर्मा प्रमोषीः शास्त्रं बोधि ॥२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यो यस्माद्विद्यामाप्नुयात्स तं पूर्वमभिवादयेत्। यो यस्याध्यापकः स्यात्स तस्मै विद्यादानाय कपटं न कुर्यात्, कदाचित्केनचिदाचार्य्यो नाऽवमन्तव्यः ॥२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जो माणूस ज्याच्याकडून विद्या प्राप्त करतो त्याला प्रथम त्याने नमस्कार करावा व जो विद्या शिकवितो त्यानेही विद्या देताना कपट करू नये, कधीही कुणा आचार्याचा अपमान करू नये.
०३ त्वं नोऽअग्ने
विश्वास-प्रस्तुतिः ...{Loading}...
त्वं नो॑ऽअग्ने॒ वरु॑णस्य वि॒द्वान् दे॒वस्य॒ हेडो॒ऽअव॑ यासिसीष्ठाः। यजि॑ष्ठो॒ वह्नि॑तमः॒ शोशु॑चानो॒ विश्वा॒ द्वेषाँ॑सि॒ प्र मु॑मुग्ध्य॒स्मत्॥३ ॥
मूलम् ...{Loading}...
त्वं नो॑ऽअग्ने॒ वरु॑णस्य वि॒द्वान् दे॒वस्य॒ हेडो॒ऽअव॑ यासिसीष्ठाः। यजि॑ष्ठो॒ वह्नि॑तमः॒ शोशु॑चानो॒ विश्वा॒ द्वेषाँ॑सि॒ प्र मु॑मुग्ध्य॒स्मत्॥३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
त्वम्। नः॒। अ॒ग्ने॒। वरु॑णस्य। वि॒द्वान्। दे॒वस्य॑। हेडः॑। अव॑। या॒सि॒सी॒ष्ठाः॒। यजि॑ष्ठः। वह्नि॑तम इति वह्नि॑ऽतमः। शोशु॑चानः। विश्वा॑। द्वेषाँ॑सि। प्र। मु॒मु॒ग्धि॒। अ॒स्मत्। ३।
महीधरः
म० ‘अग्निवरुणयोस्त्वं नः स त्वं न इति’ ( का० १८ । ७। १४ ) । अवभृथेष्टावेवाग्निवरुणयागे पुरोनुवाक्यायाज्ये अग्निवरुणदेवत्ये त्रिष्टुभौ वामदेवदृष्टे । हे अग्ने, त्वं नोऽस्मान्प्रति वरुणस्य देवस्य हेडः क्रोधमवयासिसीष्ठाः निवर्तय । ‘यसु उपक्षये’ अवपूर्वस्य णिजन्तस्याशीर्लिङि रूपम् । किंच विश्वा विश्वानि सर्वाणि द्वेषांसि दौर्भाग्यानि अस्मत् अस्मत्तः सकाशात् प्रमुमुग्धि प्रमुञ्च दूरीकुरु । मुचेर्व्यत्ययेन शपः श्लुः । कीदृशस्त्वम् । विद्वान् स्वाधिकारं जानन् यजिष्ठः अतिशयेन यष्टा यजिष्ठः । ‘तुरिष्ठेमेयःसु’ (पा० ६ । ४ । १५४) इति तृचो लोपः । वह्नितमः वहतीति वह्निः अत्यन्तं वह्निर्वह्नितमः हविषां वोढा । शोशुचानः अत्यन्तं शोचते दीप्यते शोशुचानः । शोचतेर्यङन्ताच्छानच्प्रत्ययः॥ ३ ॥
चतुर्थी।
अधिमन्त्रम् (VC)
- अग्निवरुणौ देवते
- वामदेव ऋषिः
- स्वराट्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) के तुल्य प्रकाशमान (यजिष्ठः) अतीत यजन करने (वह्नितमः) अत्यन्त प्राप्ति कराने और (शोशुचानः) शुद्ध करने हारे (विद्वान्) विद्यायुक्त जन ! (त्वम्) तू (वरुणस्य) श्रेष्ठ (देवस्य) विद्वान् का जो (हेडः) अनादर उस को (अव) मत (यासिसीष्ठाः) करे। हे तेजस्वि ! तू जो (नः) हमारा अनादर हो उस को अङ्गीकार मत कर। हे शिक्षा करने हारे ! तू (अस्मत्) हम से (विश्वा) सब (द्वेषांसि) द्वेष आदि युक्त कर्मों को (प्र, मुमुग्धि) छुड़ा दे ॥३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - कोई भी मनुष्य विद्वानों का अनादर और कोई भी विद्वान् विद्यार्थियों का असत्कार न करे, सब मिल के ईर्ष्या, क्रोध आदि दोषों को छोड़ के सब के मित्र होवें ॥३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने यजिष्ठो वह्नितमः शोशुचानो विद्वांस्त्वं वरुणस्य देवस्य यो हेडस्तमव यासिसीष्ठा मा कुर्याः। हे अग्ने ! त्वं यो नोऽज्ञमाकं हेडो भवेत्तं मा स्वीकुर्याः। हे शिक्षक ! त्वमस्मद्विश्वा द्वेषांसि प्रमुमुग्धि ॥३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - कोऽपि मनुष्यो विदुषामनादरं कोऽपि विद्वान् विद्यार्थिनामसत्कारं च न कुर्यात्, सर्वे मिलित्वेर्ष्याक्रोधादिदोषांस्त्यक्त्वा सर्वेषां सखायो भवेयुः ॥३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - कोणत्याही माणसाने विद्वानांचा अनादर करू नये व कोणत्याही विद्वानाने विद्यार्थ्यांचा उपमर्द करू नये. सर्वांनी मिळून ईर्ष्या, क्रोध इत्यादी दोषांना सोडून सर्वांचे मित्र बनावे.
०४ स त्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
स त्वं नो॑ऽअग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठोऽअ॒स्याऽउ॒षसो॒ व्युष्टौ। अव॑ यक्ष्व नो॒ वरु॑णँ॒ ररा॑णो वी॒हि मृ॑डी॒कँ सु॒हवो॑ नऽएधि ॥४ ॥
मूलम् ...{Loading}...
स त्वं नो॑ऽअग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठोऽअ॒स्याऽउ॒षसो॒ व्युष्टौ। अव॑ यक्ष्व नो॒ वरु॑णँ॒ ररा॑णो वी॒हि मृ॑डी॒कँ सु॒हवो॑ नऽएधि ॥४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सः। त्वम्। नः॒। अ॒ग्ने॒। अ॒व॒मः। भ॒व॒। ऊ॒ती। नेदि॑ष्ठः। अ॒स्याः। उ॒षसः॑। व्यु॑ष्टा॒विति॒ विऽउ॑ष्टौ। अव॑। य॒क्ष्व॒। नः॒। वरु॑णम्। ररा॑णः। वी॒हि। मृ॒डी॒कम्। सु॒हव॒ इति॑ सु॒ऽहवः॑। नः॒। ए॒धि॒। ४।
महीधरः
म० हे अग्ने, स त्वमस्या उषसो व्युष्टौ व्युष्टिकालेऽस्मिन्नहनि ऊती ऊत्या अवनेन नोऽस्माकमवमः रक्षकः नेदिष्ठोऽन्तिकतमः समीपतमश्च भव । अवतीत्यवमः अवतेरमप्रत्ययः । यद्वा अवतीत्यवः पचाद्यच् अत्यन्तमवोऽवतमः तलोपश्छान्दसः । अत्यन्तमन्तिको नेदिष्ठः ‘अन्तिकबाढयोर्नेदसाधौ’ (पा० ५। ३ । ६३) इति इष्ठे परे नेदादेशः । किंच रराणो हविर्ददत् सन् नोऽस्माकं वरुणमवयक्ष्व अवयज । अवपूर्वाद्यजतेर्लोटि शपो लुक् । ततो मृडीकं सुखकरं हविः वीहि भक्षय । ‘वी कान्तिव्याप्तिक्षेपप्रजनस्वादनेषु’ । किंच नोऽस्माकं सुहवः स्वाह्वान एधि भव । ‘ध्वसोरेद्धावभ्यासलोपश्च’ (पा० ६ । ४ । ११९) इत्येकारः ॥ ४ ॥
पञ्चमी ।
अधिमन्त्रम् (VC)
- अग्निवरुणौ देवते
- वामदेव ऋषिः
- स्वराट्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) अग्नि के समान विद्वान् ! जैसे (अस्याः) इस (उषसः) प्रभात समय के (व्युष्टौ) नाना प्रकार के दाह में अग्नि (नेदिष्ठः) अत्यन्त समीप और रक्षा करने हारा है, वैसे (सः) वह (त्वम्) तू (ऊती) प्रीति से (नः) हमारा (अवमः) रक्षा करने हारा (भव) हो (नः) हम को (वरुणम्) उत्तम गुण वा उत्तम विद्वान् वा उत्तम गुणीजन का (अव, यक्ष्व) मेल कराओ और (रराणः) रमण करते हुए तुम (मृडीकम्) सुख देने हारे को (वीहि) व्याप्त होओ (नः) हम को (सुहवः) शुभदान देनेहारे (एधि) हूजिये ॥४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे प्रातः समय में सूर्य समीप स्थित हो के साथ सब समीप के मूर्त्त पदार्थों को व्याप्त होता है, वैसे शिष्यों के समीप अध्यापक हो के इनको अपनी विद्या से व्याप्त करे ॥४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! यथाऽस्या उषसो व्युष्टौ वह्निर्नेदिष्ठो रक्षकश्च भवति तथा स त्वमूती नोऽवमो भव नो वरुणमवयक्ष्व रराणः सन् मृडीकं वीहि नः सुहव एधि ॥४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा प्रातःसमये सूर्यः सन्निहितः सन् सर्वान् सन्निहितान् मूर्त्तान् पदार्थान् व्याप्नोति तथाऽन्तेवासिनां सन्निधावध्यापको भूत्वैतानात्मनो विद्यया व्याप्नुयात्॥४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसे प्रातःकाळी सूर्यामुळे सर्व पदार्थ प्रकाशित होतात तसे अध्यापकाने आपल्या शिष्यांना विद्येने प्रकाशित करावे.
०५ महीमू षु
विश्वास-प्रस्तुतिः ...{Loading}...
म॒हीमू॒ षु मा॒तरँ॑ सुव्र॒ताना॑मृ॒तस्य॒ पत्नी॒मव॑से हुवेम। तु॒वि॒क्ष॒त्राम॒जर॑न्तीमुरू॒चीँ सु॒शर्मा॑ण॒मदितिँ सु॒प्रणी॑तिम् ॥५ ॥
मूलम् ...{Loading}...
म॒हीमू॒ षु मा॒तरँ॑ सुव्र॒ताना॑मृ॒तस्य॒ पत्नी॒मव॑से हुवेम। तु॒वि॒क्ष॒त्राम॒जर॑न्तीमुरू॒चीँ सु॒शर्मा॑ण॒मदितिँ सु॒प्रणी॑तिम् ॥५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
म॒हीम्। ऊँ॒ऽइत्यूँ॑। सु। मा॒तर॑म्। सु॒व्र॒ताना॑म्। ऋ॒तस्य॑। पत्नी॑म्। अव॑से। हु॒वे॒म॒। तु॒वि॒क्ष॒त्रामिति॑ तुविऽक्ष॒त्राम्। अ॒जर॑न्तीम्। उ॒रू॒चीम्। सु॒शर्मा॑ण॒मिति॑ सु॒ऽशर्मा॑णम्। अदि॑तिम्। सु॒प्रणी॑तिम्। सु॒प्रनी॑ति॒मिति॑ सु॒ऽप्रनी॑तिम्। ५।
महीधरः
म० ‘आदित्यस्य सुत्रामाणं महीमूषु मातरमिति’ ( का० १९ । ७।१५)। आदित्यं चरुं यक्ष्यमाणो निर्वपत्यादित्यमीजान इत्यादावन्ते चादित्यश्चरुरुक्तस्तस्य सुत्रामाणमिति (६) पुरोऽनुवाक्या महीमूष्विति याज्या अदितिदेवत्या त्रिष्टुप् । ऊ सु निपातौ पादपूरणौ । संहितायामाद्यस्य दीर्घोऽन्त्यस्य षत्वम् । वयमवसे अवितुं रक्षितुमदितिं हुवेम आह्वयामः । तुमर्थे असेप्रत्ययः । कीदृशीमदितिम् । महीं महतीम् सुव्रतानां शोभनकर्मणां मातरं निर्मात्रीम् । व्रतमिति कर्मनाम । ऋतस्य यज्ञस्य पत्नीं पालयित्रीम् । तुविक्षत्राम् । तुवीति बहुनाम । बहुक्षतात् त्राणशीलाम् । अजरन्तीं न जीर्यत्यजरन्ती तां जरारहिताम् । उरु अञ्चतीति उरूचीं बहुगमनशीलाम् । सुशर्माणं शोभनं शर्माश्रयः सुखं वा यस्यास्ताम् । सुप्रणीतिं शोभना प्रणीतिः प्रणयनं भजनं यस्यास्ताम् । ‘अदितिरदीना देवमाता’ ( निरु० ४ । २२ ) इति ॥ ५॥
षष्ठी।
अधिमन्त्रम् (VC)
- आदित्या देवताः
- वामदेव ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब पृथिवी के विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे हम लोग (मातरम्) माता के समान स्थित (सुव्रतानाम्) जिन के शुभ सत्याचरण हैं, उन को (ऋतस्य) प्राप्त हुए सत्य की (पत्नीम्) स्त्री के समान वर्त्तमान (तुविक्षत्राम्) बहुत धनवाली (अजरन्तीम्) जीर्णपन से रहित (उरूचीम्) बहुत पदार्थों को प्राप्त कराने हारी (सुशर्माणम्) अच्छे प्रकार के गृह से और (सुप्रणीतिम्) उत्तम नीतियों से युक्त (उ) उत्तम (अदितिम्) अखण्डित (महीम्) पृथिवी को (अवसे) रक्षा आदि के लिए (सु, हुवेम) ग्रहण करते हैं, वैसे तुम भी ग्रहण करो ॥५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे माता सन्तानों और पतिव्रता स्त्री पति का पालन करती है, वैसे यह पृथिवी सब का पालन करती है ॥५ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ पृथिव्या विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा वयं मातरमिव सुव्रतानामृतस्य पत्नीं तुविक्षत्रामजरन्तीमुरूचीं सुशर्माणं सुप्रणीतिमु महीमदितिमवसे सुहुवेम तथा यूयमपि गृह्णीत ॥५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा माताऽपत्यानि पतिव्रता पतिं च पालयति तथेयं भूमिः सर्वान् रक्षति ॥५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. माता जसे संतानाचे पालन करते व पतिव्रता स्री पतीकडे लक्ष देते, तसेच पृथ्वीही सर्वांचे पालन करते.
०६ सुत्रामाणं पृथिवीम्
विश्वास-प्रस्तुतिः ...{Loading}...
सु॒त्रामा॑णं पृथि॒वीं द्याम॑ने॒हसँ॑ सु॒शर्मा॑ण॒मदि॑तिँ सु॒प्रणी॑तिम्। दै॒वीं नावँ॑ स्वरि॒त्रामना॑गस॒मस्र॑वन्ती॒मा रु॑हेमा स्व॒स्तये॑ ॥६ ॥
मूलम् ...{Loading}...
सु॒त्रामा॑णं पृथि॒वीं द्याम॑ने॒हसँ॑ सु॒शर्मा॑ण॒मदि॑तिँ सु॒प्रणी॑तिम्। दै॒वीं नावँ॑ स्वरि॒त्रामना॑गस॒मस्र॑वन्ती॒मा रु॑हेमा स्व॒स्तये॑ ॥६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सु॒त्रामा॑ण॒मिति॑ सु॒ऽत्रामा॑णम्। पृ॒थि॒वीम्। द्याम्। अ॒ने॒हस॑म्। सु॒शर्म्मा॑ण॒मिति॑ सु॒ऽशर्मा॑णम्। अदि॑तिम्। सु॒प्रणी॑तिम्। सु॒प्रनी॑ति॒मिति॑ सु॒ऽप्रनी॑तिम्। दैवी॑म्। नाव॑म्। स्व॒रि॒त्रामिति॑ सुऽअरि॒त्राम्। अना॑गसम्। अस्र॑वन्तीम्। आ। रु॒हे॒म॒। स्व॒स्तये॑। ६।
महीधरः
म० अदितिदेवत्या त्रिष्टुप् गयःप्लातदृष्टा । दैवीं देवसंबन्धिनीं नावं यज्ञरूपां स्वस्तये कल्याणायाविनाशाय वयमारुहेम । यज्ञं कृत्वा स्वर्गं गच्छेमेत्यर्थः । कीदृशीं नावम् । सुत्रामाणं सुष्ठु त्रायते रक्षति सुत्रामा ताम् । पृथिवीं विशालाम् । द्यां स्वर्गरूपाम् । स्वर्गहेतुभूतामित्यर्थः । अनेहसम् । एह इति क्रोधनाम । नास्ति एहो यत्र क्रोधरहिताम् । यद्वा लुप्तोपमानम् । पृथिवीमिव सुत्रामाणं पालयित्रीं द्यामिवानेहसमक्रोधाम् । सुशर्माणं साधुशरणभूताम् । अदितिमखण्डितामदीनां वा । सुप्रणीतिं सुष्ठु प्रणयतीति सुप्रणीतिः साधुप्रणेत्री। स्वरित्रां साधुकेन्दुवालाम् । अरित्रशब्दः केन्दुवालवाचकः । ‘अरित्रं केनिपातकः’ इत्यभिधानात् । प्रयाजानुयाजादयोऽरित्र स्थानीयाः । अनागसमनपराधाम् । अस्रवन्तीमच्छिद्राम् । निर्दोषामित्यर्थः । ईदृशीं नावमारुहेम । संहितायां दीर्घः ॥ ६॥
सप्तमी।
अधिमन्त्रम् (VC)
- अदितिर्देवता
- गयप्लात ऋषिः
- भुरिक्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब जलयान विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे शिल्पि जनो ! जैसे हम (स्वस्तये) सुख के लिए (सुत्रामाणम्) अच्छे रक्षण आदि से युक्त (पृथिवीम्) विस्तार और (द्याम्) शुभ प्रकाशवाली (अनेहसम्) अहिंसनीय (सुशर्माणम्) जिस में सुशोभित घर विद्यमान उस (अदितिम्) अखण्डित (सुप्रणीतिम्) बहुत राजा और प्रजाजनों की पूर्ण नीति से युक्त (स्वरित्राम्) वा जिस में बल्ली पर बल्ली लगी हैं, उस (अनागसम्) अपराधरहित और (अस्रवन्तीम्) छिद्ररहित (दैवीम्) विद्वान् पुरुषों की (नावम्) प्रेरणा करने हारी नाव पर (आ, रुहेम) चढ़ते हैं, वैसे तुम लोग भी चढ़ो ॥६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे मनुष्यो ! जिस में बहुत घर, बहुत साधन, बहुत रक्षा करने हारे, अनेक प्रकार का प्रकाश और बहुत विद्वान् हों उस छिद्र रहित बड़ी नाव में स्थित होके समुद्र आदि जल के स्थानों में पारावार देशान्तर और द्वीपान्तर में जा आ के भूगोल में स्थित देश और द्वीपों को जान के लक्ष्मीवान् होवें ॥६ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ जलयानविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे शिल्पिनः ! यथा वयं स्वस्तये सुत्रामाणं पृथिवीं द्यामनेहसं सुशर्माणमदितिं सुप्रणीतिं स्वरित्रामनागसमस्रवन्तीं दैवीं नावमारुहेम तथा यूयमिमामारोहत ॥६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्या यस्यां बहूनि गृहाणि बहूनि साधनानि बहूनि रक्षणानि बहुविधः प्रकाशो बहवो विद्वांसश्च स्युस्तस्यामच्छिद्रायां महत्यां नावि स्थित्वा समुद्रादिजलाशयेष्ववारपारौ देशान्तरद्वीपान्तरौ च गत्वाऽऽगत्य भूगोलस्थान् देशान् द्वीपांश्च विज्ञाय श्रीमन्तो भवन्तु ॥६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे माणसांनो ! ज्यामध्ये अनेक खोल्या, दरवाजे, अनेक साधने, रक्षक व विद्वान आहेत अशा प्रकाशयुक्त छिद्ररहित जहाजात बसून समुद्रातून देशदेशांतरी, द्वीपद्वीपांतरी जा ये करावी व या भूगोलातील निरनिराळ्या देशात आणि द्वीपात जाऊन धनवान बनावे.
०७ सुनावमा रुहेयमस्रवन्तीमनागसम्
विश्वास-प्रस्तुतिः ...{Loading}...
सु॒नाव॒मा रु॑हेय॒मस्र॑वन्ती॒मना॑गसम्। श॒तारि॑त्राँ स्वस्तये॑ ॥७ ॥
मूलम् ...{Loading}...
सु॒नाव॒मा रु॑हेय॒मस्र॑वन्ती॒मना॑गसम्। श॒तारि॑त्राँ स्वस्तये॑ ॥७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सु॒नाव॒मिति॑ सु॒ऽनाव॑म्। आ। रु॒हे॒य॒म्। अस्र॑वन्तीम्। अना॑गसम्। श॒तारि॑त्रा॒मिति॑ श॒तऽअ॑रित्राम्। स्व॒स्तये॑। ७।
महीधरः
म० स्वर्गसंबन्धिनी यज्ञदेवत्या गायत्री । ‘तद्वै सर्व एव | यज्ञो नौः स्वर्ग्या’ इति श्रुतेः स्वर्ग्या नौर्यज्ञ एव । सुनावं शोभनां नावं यज्ञरूपां स्वस्तयेऽविनाशाय संसारसागरोत्तरणायाहमारुहेयमारोहेयम् । यज्ञं कुर्यामित्यर्थः । कीदृशीम् । अस्रवन्तीमच्छिद्राम् । अनागसं निरपराधां सर्वेष्टदामित्यर्थः । शतारित्रां बहुकेन्दुबालाम् । ऋग्यजुःसामभिरित्यर्थः । स्मार्ते नावारोहणे विनियोगोऽस्या ऋचः ॥ ७ ॥
अष्टमी।
अधिमन्त्रम् (VC)
- स्वर्ग्या नौर्देवता
- गयप्लात ऋषिः
- यवमध्या गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे मैं (स्वस्तये) सुख के लिए (अस्रवन्तीम्) छिद्रादि दोष वा (अनागसम्) बनावट के दोषों से रहित (शतारित्राम्) अनेकों लङ्गरवाली (सुनावम्) अच्छे बनी नाव पर (आ, रुहेयम्) चढ़ूँ, वैसे इस पर तुम भी चढ़ो ॥७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्य लोग बड़ी नावों की अच्छे प्रकार परीक्षा करके और उनमें स्थिर होके समुद्र आदि के पारावार जायें, जिनमें बहुत लङ्गर आदि होवें, वे नावें अत्यन्त उत्तम हों ॥७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथाऽहं स्वस्तयेऽस्रवन्तीमनागसं शतारित्रां सुनावमारुहेयं तथास्यां यूयमप्यारोहत ॥७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्या महतीर्नावः सुपरीक्ष्य तासु स्थित्वा समुद्रादिपारावारौ गच्छेयुः। यत्र बहून्यरित्रादीनि स्युस्ता नावोऽतीवोत्तमाः स्युः ॥७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. माणसांनी मोठ्या जहाजाची परीक्षा करून त्यात स्थिरपणे राहून समुद्र पार करावा. ज्या जहाजना पुष्कळ नांगर असतात ती जहाजे अत्यंत उत्तम असतात.
०८ आ नो
विश्वास-प्रस्तुतिः ...{Loading}...
आ नो॑ मित्रावरुणा घृ॒तैर्गव्यू॑तिमुक्षतम्। मध्वा॒ रजाँ॑सि सुक्रतू ॥८ ॥
मूलम् ...{Loading}...
आ नो॑ मित्रावरुणा घृ॒तैर्गव्यू॑तिमुक्षतम्। मध्वा॒ रजाँ॑सि सुक्रतू ॥८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ। नः॒। मि॒त्रा॒व॒रु॒णा॒। घृ॒तैः। गव्यू॑तिम्। उ॒क्ष॒त॒म्। मध्वा॑। रजाँ॑सि। सु॒क्र॒तू॒ इति॑ सुऽक्रतू। ८।
महीधरः
म० ‘आ नः प्र वाहवेति पयस्यायाः’ (का० १९ । ७।| १६ ) । अवभृथादुदेत्य मैत्रावरुण्या पयस्यया यजतीति या पयस्या तस्या आ नो मित्रावरुणेति पुरोनुवाक्या प्र बाहवेति याज्या मित्रावरुणदेवत्या गायत्री विश्वामित्रदृष्टा । हे मित्रावरुणा मित्रवरुणौ देवौ, नोऽस्माकं गव्यूतिं यज्ञमार्गं घृतैर्युवामा उक्षतं सर्वतः सिञ्चतम् । यद्वा गवि पृथिव्यामूतिमवनहेतुभूतं क्षेत्रं घृतैः शुद्धोदकैः सिञ्चतम् । किंच हे सुक्रतू शोभनः क्रतुः कर्म ययोस्तौ हे सुकर्माणौ, मध्वा मधुना रजांसि लोकानां उक्षतम् । अनित्यमागमशासनमिति नुमभावः ॥ ८ ॥
नवमी।
अधिमन्त्रम् (VC)
- मित्रावरुणौ देवते
- विश्वामित्र ऋषिः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (मित्रावरुणा) प्राण और उदान वायु के समान वर्त्तने हारे (सुक्रतू) शुभ बुद्धि वा उत्तम कर्मयुक्त शिल्पी लोगो ! तुम (घृतैः) जलों से (नः) हमारे (गव्यूतिम्) दो कोश को (उक्षतम्) सेचन करो और (आ, मध्वा) सब ओर से मधुर जल से (रजांसि) लोकों का सेचन करो ॥८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो शिल्पविद्यावाले लोग नाव आदि को जल आदि मार्ग से चलावें तो वे ऊपर और नीचे मार्गों में जाने को समर्थ हों ॥८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मित्रावरुणा प्राणोदानवद्वर्त्तमानौ सुक्रतू शिल्पिनौ ! युवां घृतैर्नो गव्यूतिमुक्षतमा मध्वा रजांस्युक्षतम् ॥८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यदि शिल्पिनो यानानि जलादिना चालयेयुस्तर्हि त ऊर्ध्वाऽधोमार्गेषु गन्तुं शक्नुयुः ॥८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जे कारागीर हस्तविद्याकौशल्य जाणणारे असतात ते नावा इत्यादींना जलमार्गातून नेतात. त्यांनी खडतर मार्गातून नावा नेण्यास समर्थ असावे.
०९ प्र बाहवा
विश्वास-प्रस्तुतिः ...{Loading}...
प्र बा॒हवा॑ सिसृतं जी॒वसे॑ न॒ऽआ नो॒ गव्यू॑तिमुक्षतं घृ॒तेन॑। आ मा॒ जने॑ श्रवयतं युवाना श्रु॒तं मे॑ मित्रावरुणा॒ हवे॒मा ॥९ ॥
मूलम् ...{Loading}...
प्र बा॒हवा॑ सिसृतं जी॒वसे॑ न॒ऽआ नो॒ गव्यू॑तिमुक्षतं घृ॒तेन॑। आ मा॒ जने॑ श्रवयतं युवाना श्रु॒तं मे॑ मित्रावरुणा॒ हवे॒मा ॥९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्र। बा॒हवा॑। सि॒सृ॒त॒म्। जी॒वसे॑। नः॒। आ। नः॒। गव्यू॑तिम्। उ॒क्ष॒त॒म्। घृ॒तेन॑। आ। मा। जने॑। श्र॒व॒य॒त॒म्। यु॒वा॒ना॒। श्रु॒तम्। मे॒। मि॒त्रा॒व॒रु॒णा॒। हवा॑। इ॒मा। ९।
महीधरः
म०. मित्रावरुणदेवत्या त्रिष्टुप् वसिष्ठदृष्टा । हे मित्रावरुणौ, हे युवाना युवानौ तरुणौ छिन्नजरसौ, नोऽस्माकं जीवसे चिरं जीवनाय बाहवा बाहू प्रसिसृतम् । अन्तर्भूतण्यर्थः प्रसारयतम् । जीवनविघ्ननिवारणाय बाहुप्रसारणं कुरुतमित्यर्थः । किंच नोsस्माकं गव्यूतिं क्षेत्रं घृतेन जलेन आ उक्षतं सिञ्चतम् । भवत्सिक्तक्षेत्रनिष्पन्नधान्यैः यज्विनं मा मां जने जनपदे युवामश्रवयतम् आश्रावयतम् । इत्थमदात् इत्थमयाक्षीदिति लोके मां कथयतमित्यर्थः । वृद्ध्यभाव आर्षः । किंच युवां मे मम इमा इमानि हवा हवानि आह्वानानि श्रुतं शृणुतम् । श्रुत्वा पूर्वोक्तं कुरुतमित्यर्थः । शृणोतेः शपो लुक् ॥ ९ ॥
दशमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वसिष्ठ ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर विद्वानों के विषय में अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (मित्रावरुणा) मित्र और वरुण उत्तम जन (बाहवा) दोनों बाहु के तुल्य (युवाना) मिलान और अलग करने हारे तुम (नः) हमारे (जीवसे) जीने के लिए (मा) मुझ को (प्र, सिसृतम्) प्राप्त होओ (घृतेन) जल से (नः) हमारे (गव्यूतिम्) दो कोश पर्यन्त (आ, उक्षतम्) सब ओर से सेचन करो। नाना प्रकार की कीर्त्ति को (आ, श्रवयतम्) अच्छे प्रकार सुनाओ और (मे) मेरे (जने) मनुष्यगण में (इमा) इन (हवा) वाद-विवादों को (श्रुतम्) सुनो ॥९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अध्यापक और उपदेशक प्राण और उदान के समान सब के जीवन के कारण होवें, विद्या और उपदेश से सब के आत्माओं को जल से वृक्षों के समान सेचन करें ॥९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्विद्वद्विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मित्रावरुणा ! बाहवा युवाना युवां नो जीवसे मा प्रसिसृतं घृतेन नो गव्यूतिमोक्षतं नाना कीर्तिमाश्रवयतं मे जन इमा हवा श्रुतम् ॥९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अध्यापकोपदेष्टारौ प्राणोदानवत्सर्वेषां जीवनहेतू भवेतां विद्योपदेशाभ्यां सर्वेषामात्मनो जलेन वृक्षानिव सिञ्चेताम् ॥९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - अध्यापक व उपदेशक यांनी प्राण व उदान याप्रमाणे सर्वांच्या जीवनाचे कारण अनावे आणि ज्याप्रमाणे वृक्षांना जलाने सिंचित करतात त्याप्रमाणे सर्व आत्म्यांना विद्या व उपदेश सिंचित करावे.
१० शन्नो भवन्तु
विश्वास-प्रस्तुतिः ...{Loading}...
शन्नो॑ भवन्तु वा॒जिनो॒ हवे॑षु दे॒वता॑ता मि॒तद्र॑वः स्व॒र्काः। ज॒म्भय॒न्तोऽहिं॒ वृकँ॒ रक्षाँ॑सि॒ सने॑म्य॒स्मद्यु॑यव॒न्नमी॑वाः ॥१० ॥
मूलम् ...{Loading}...
शन्नो॑ भवन्तु वा॒जिनो॒ हवे॑षु दे॒वता॑ता मि॒तद्र॑वः स्व॒र्काः। ज॒म्भय॒न्तोऽहिं॒ वृकँ॒ रक्षाँ॑सि॒ सने॑म्य॒स्मद्यु॑यव॒न्नमी॑वाः ॥१० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
शम्। नः॒। भ॒व॒न्तु॒। वा॒जिनः॑। हवे॑षु। दे॒वता॒तेति॑ दे॒वऽता॑ता। मि॒तद्र॑व॒ इति॑ मि॒तऽद्र॑वः। स्व॒र्का इति॑ सुऽअ॒र्काः। ज॒म्भय॑न्तः। अहि॑म्। वृक॑म्। रक्षाँ॑सि। सने॑मि। अ॒स्मत्। यु॒य॒व॒न्। अमी॑वाः। १०।
महीधरः
म० ‘वाजिनस्य शं नो वाजेवाज इति’ (का० १६ । ७। १७) पयस्यायां वाजिनयागोऽस्ति तत्र शं न इति पुरोनुवाक्या वाजेवाज इति याज्या । व्याख्याते (९ । १६ । १८)॥ १० ॥ ११ ॥
एकादशी।
अधिमन्त्रम् (VC)
- ऋत्विजो देवताः
- आत्रेय ऋषिः
- भुरिक्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (स्वर्काः) अच्छे अन्न वा वज्र से युक्त और (मितद्रवः) प्रमाणित चलने और (देवताता) विद्वानों के समान वर्त्तने हारे (वाजिनः) अति उत्तम विज्ञान से युक्त (हवेषु) लेने-देने में चतुर आप लोग (अहिम्) मेघ को सूर्य के समान (वृकम्) चोर और (रक्षांसि) दुष्ट जीवों का (जम्भयन्तः) नाश करते हुए (नः) हमारे लिए (सनेमि) सनातन (शम्) सुख करने हारे (भवन्तु) होओ और (अस्मत्) हमारे (अमीवाः) रोगों को (युयवन्) दूर करो ॥१० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे सूर्य अन्धकार को हटा के सब को सुखी करता है, वैसे विद्वान् लोग प्राणियों के शरीर और आत्मा के सब रोगों को निवृत्त करके आनन्दयुक्त करें ॥१० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्वर्का ! मितद्रवो देवताता वाजिनो हवेषु विद्वांसो भवन्तोऽहिं सूर्य इव वृकं रक्षांसि च जम्भयन्तो नः सनेमि शं भवन्तु। अस्मदमीवा युयवन् ॥१० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा सूर्योऽन्धकारं निवर्त्त्य सर्वान् सुखयति, तथा विद्वांसः प्राणिनां सर्वान् शरीरात्मरोगान् निवार्य्यानन्दयेयुः ॥१० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. सूर्य जसा अंधःकार हटवून सर्वांना सुखी करतो तसे विद्वान लोकांनी प्राण्यांच्या शरीराचे व आत्म्याचे सर्व रोग दूर करून आनंदित करावे.
११ वाजेवाजेऽवत वाजिनो
विश्वास-प्रस्तुतिः ...{Loading}...
वाजे॑वाजेऽवत वाजिनो नो॒ धने॑षु विप्राऽअमृताऽऋतज्ञाः। अ॒स्य मध्वः॑ पिबत मा॒दय॑ध्वं तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानैः॑ ॥११ ॥
मूलम् ...{Loading}...
वाजे॑वाजेऽवत वाजिनो नो॒ धने॑षु विप्राऽअमृताऽऋतज्ञाः। अ॒स्य मध्वः॑ पिबत मा॒दय॑ध्वं तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानैः॑ ॥११ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वाज॑वाज॒ऽइति॑ वाजे॑ऽवाजे। अ॒व॒त॒। वा॒जि॒नः॒। नः॒। धने॑षु। वि॒प्राः॒। अ॒मृ॒ताः॒। ऋ॒त॒ज्ञा॒ऽइत्यृ॒॑तज्ञाः। अ॒स्य। मध्वः॑। पि॒ब॒त॒। मा॒दय॑ध्वम्। तृ॒प्ताः। या॒त॒। प॒थिभि॒रिति॑ प॒थिऽभिः॑। दे॒व॒यानै॒रिति॑ देव॒ऽयानैः॑। ११।
महीधरः
म० ‘वायोधस आप्रियः समिद्धो अग्निः समिधेति’ (का०. : १९ । ७ । १९)। वायोधसे पशौ समिद्धो अग्निरियाद्या एकादश ऋच आप्रियः प्रयाजानां याज्या इति सूत्रार्थः । एकादश आप्रीदेवत्या अनुष्टुभः स्वस्त्यात्रेयदृष्टाः । अग्निः गायत्री छन्दो गौश्च एते त्रय इन्द्रे इन्द्रियं वीर्यं वयः सत्त्वमन्नमायुर्वा दधुः दधतु प्रयच्छन्तु । कीदृशोऽग्निः । समिधा प्रयाजदेवतया समिद्धः दीप्तः सुसमिद्धश्च अतिदीप्तः प्रयाजघृतेनेति शेषः । वरेण्यः वरणीयः संभजनीयः । कीदृशो गौः । त्र्यविः त्रयोऽवयोऽनुचरत्वेन यस्य स त्र्यविः । यद्वा षण्मासावधिः कालोऽविः त्रयोऽवयो यस्य सार्धवत्सरो गौरित्यर्थः ॥ १२ ॥
त्रयोदशी । ।
अधिमन्त्रम् (VC)
- विद्वांसो देवता
- आत्रेय ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अमृताः) आत्मस्वरूप से अविनाशी (ऋतज्ञाः) सत्य के जानने हारे (वाजिनः) विज्ञानवाले (विप्राः) बुद्धिमान् लोगो ! तुम (वाजेवाजे) युद्ध-युद्ध में और (धनेषु) धनों में (नः) हमारी (अवत) रक्षा करो और (अस्य) इस (मध्वः) मधुर रस का (पिबत) पान करो और उस से (मादयध्वम्) विशेष आनन्द को प्राप्त होओ और इस से (तृष्ताः) तृप्त होके (देवयानैः) विद्वानों के जाने योग्य (पथिभिः) मार्गों से (यात) जाओ ॥११ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे विद्वान् लोग विद्यादान से और उपदेश से सब को सुखी करते हैं, वैसे ही राजपुरुष रक्षा और अभयदान से सब को सुखी करें तथा धर्मयुक्त मार्गों में चलते हुए अर्थ, काम और मोक्ष इन तीन पुरुषार्थ के फलों को प्राप्त होवें ॥११ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अमृता ऋतज्ञा वाजिनो विप्राः ! यूयं वाजेवाजे धनेषु नोऽवतास्य मध्वः पिबत, तेन मादयध्वमनेन तृप्ताः सन्तो देवयानैः पथिभिर्यात ॥११ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यथा विद्वांसो विद्यादानोपदेशाभ्यां सर्वान् सुखयन्ति, तथैव राजपुरुषा रक्षाऽभयदानाभ्यां सर्वान् सुखयन्तु। धर्म्यमार्गेषु गच्छन्तोऽर्थकाममोक्षान् प्राप्नुवन्तु ॥११ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जसे विद्वान लोक विद्यादान व उपदेश यांनी सर्वांना सुखी करतात, तसेच राजपुरुषांनी सर्वांचे रक्षण करून निर्भय बनवून सुखी करावे. धर्मयुक्त मार्गाचे अनुसरण करून अर्थ, काम, मोक्ष या तीन पुरुषार्थांचे फळ प्राप्त करावे.
१२ समिद्धोऽअग्निः समिधा
विश्वास-प्रस्तुतिः ...{Loading}...
समि॑द्धोऽअ॒ग्निः स॒मिधा॒ सुस॑मिद्धो॒ वरे॑ण्यः। गा॒य॒त्री छन्द॑ऽइन्द्रि॒यं त्र्यवि॒र्गौर्वयो॑ दधुः ॥१२ ॥
मूलम् ...{Loading}...
समि॑द्धोऽअ॒ग्निः स॒मिधा॒ सुस॑मिद्धो॒ वरे॑ण्यः। गा॒य॒त्री छन्द॑ऽइन्द्रि॒यं त्र्यवि॒र्गौर्वयो॑ दधुः ॥१२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
समि॑द्ध॒ऽइति॒ सम्ऽइ॑द्धः। अग्निः। स॒मिधेति॑ स॒म्ऽइधा॑। सुस॑मिद्ध॒ इति॒ सुऽस॑मिद्धः। वरे॑ण्यः। गा॒य॒त्री। छन्दः॑। इ॒न्द्रि॒यम्। त्र्यवि॒रिति॒ त्रिऽअ॑विः। गौः। वयः॑। द॒धुः॒। १२।
महीधरः
म० तनूनामपां नपात् पौत्रोऽग्निः तनूनां गवां नपात् घृतं वा प्रयाजदेवता सरस्वती उष्णिहा छन्दः । हलन्तत्वादाप उष्णिक् छन्दः । गौश्च एते चत्वार इन्द्रे इन्द्रियं वयश्च दधुः दधतु । कीदृशस्तनूनपात् । शुचिव्रतः शुचि शुद्धं व्रतं कर्म यस्य सः । कीदृशी सरस्वती । तनूपाः तनूं शरीरं पाति रक्षतीति । कीदृशो गौः । दित्यवाट् दिव्यं हविर्वहतीति ॥ १३ ॥
चतुर्दशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- स्वस्त्यात्रेय ऋषिः
- विराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर विद्वान् के विषय में अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जैसे (समिद्धः) अच्छे प्रकार देदीप्यमान (अग्निः) अग्नि (समिधा) उत्तम प्रकाश से (सुसमिद्धः) बहुत प्रकाशमान सूर्य (वरेण्यः) अङ्गीकार करने योग्य जन और (गायत्री, छन्दः) गायत्री छन्द (इन्द्रियम्) मन को प्राप्त होता है और जैसे (त्र्यविः) शरीर, इन्द्रिय, आत्मा इन तीनों की रक्षा करने और (गौः) स्तुति प्रशंसा करने हारा जन (वयः) जीवन को धारण करता है, वैसे विद्वान् लोग (दधुः) धारण करें ॥१२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। विद्वान् लोग विद्या से सब के आत्माओं को प्रकाशित और सब को जितेन्द्रिय करके पुरुषों को दीर्घ आयुवाले करें ॥१२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्विद्वद्विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यथा समिद्धोऽग्निः समिधा सुसमिद्धो वरेण्यो गायत्री छन्दश्चेन्द्रियं प्राप्नोति यथा च त्र्यविर्गौर्वयो दधाति तथा विद्वांसो दधुः ॥१२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। विद्वांसो विद्यया सर्वेषामात्मनः प्रकाश्य सर्वान् जितेन्द्रियान् कृत्वा दीर्घायुषः सम्पादयन्तु ॥१२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. विद्वान लोकांनी ज्ञानाने सर्व आत्म्यांना प्रकाशित करावे आणि सर्वांना जितेंद्रिय व दीर्घजीवी बनवावे.
१३ तनूनपाच्छुचिव्रतस्तनूपाश्च सरस्वती
विश्वास-प्रस्तुतिः ...{Loading}...
तनू॒नपा॒च्छुचि॑व्रतस्तनू॒पाश्च॒ सर॑स्वती। उ॒ष्णिहा॒ छन्द॑ऽइन्द्रि॒यं दि॑त्य॒वाड् गौर्वयो॑ दधुः ॥१३ ॥
मूलम् ...{Loading}...
तनू॒नपा॒च्छुचि॑व्रतस्तनू॒पाश्च॒ सर॑स्वती। उ॒ष्णिहा॒ छन्द॑ऽइन्द्रि॒यं दि॑त्य॒वाड् गौर्वयो॑ दधुः ॥१३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
तनू॒नपा॒दिति॒ तनू॒ऽनपा॑त्। शुचि॑ऽव्रतः। त॒नू॒पा इति॑ तनू॒ऽपाः। च॒। सर॑स्वती। उ॒ष्णिहा॑। छन्दः॑। इ॒न्द्रि॒यम्। दि॒त्य॒वाडिति॑ दित्य॒ऽवाट्। गौः। वयः॑। द॒धुः॒। १३।
महीधरः
म० इडाभिः प्रयाजदेवताभिः सहाग्निः सोमो देवः अनुष्टुप्छन्दः गौः एते पञ्च इन्द्रियं वयश्चेन्द्रे दधुः । कीदृशोऽग्निः । ईड्यः स्तुत्यः । कीदृशः सोमः । अमर्त्यः अमरणधर्मा । कीदृशो गौः । पञ्चाविः पञ्चावयोऽनुचराः कालविशेषा वा यस्य सार्धद्विवर्षः ॥ १४ ॥
पञ्चदशी।
अधिमन्त्रम् (VC)
- विद्वांसो देवता
- स्वस्त्यात्रेय ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जैसे (शुचिव्रतः) पवित्र धर्म के आचरण करने (तनूनपात्) शरीर को पड़ने न देने (तनूपाः) किन्तु शरीर की रक्षा करने हारा (च) और (सरस्वती) वाणी तथा (उष्णिहा) उष्णिह (छन्दः) छन्द (इन्द्रियम्) जीव के चिह्न को धारण करता है वा जैसे (दित्यवाट्) खण्डनीय पदार्थों के लिये हित प्राप्त कराने और (गौः) स्तुति करने हारा जन (वयः) इच्छा को बढ़ाता है, वैसे इन सब को विद्वान् लोग (दधुः) धारण करें ॥१३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो लोग पवित्र आचरणवाले हैं और जिनकी वाणी विद्याओं में सुशिक्षा पाई हुई है, वे पूर्ण जीवन के धारण करने को योग्य हैं ॥१३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यथा शुचिव्रतस्तनूनपात्तनूपाः सरस्वती चोष्णिहा छन्द इन्द्रियं दधाति, यथा च दित्यवाड् गौर्वयो वर्धयति, तथैतस्सर्वं विद्वांसो दधुः ॥१३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये पवित्राचरणा येषां वाणी विद्यासुशिक्षायुक्तास्ति, ते पूर्णं जीवनं धातुर्महन्ति ॥१३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जे लोक पवित्र आचरण करणारे असतात व ज्यांची वाणी विद्येने संस्कारित झालेली असते ते पूर्णपणे व्यवस्थित जीवन जगतात.
१४ इडाभिरग्निरीड्यः सोमो
विश्वास-प्रस्तुतिः ...{Loading}...
इडा॑भिर॒ग्निरीड्यः॒ सोमो॑ दे॒वोऽअम॑र्त्यः। अ॒नु॒ष्टुप् छन्द॑ऽइन्द्रि॒यं पञ्चा॑वि॒गौर्वयो॑ दधुः ॥१४ ॥
मूलम् ...{Loading}...
इडा॑भिर॒ग्निरीड्यः॒ सोमो॑ दे॒वोऽअम॑र्त्यः। अ॒नु॒ष्टुप् छन्द॑ऽइन्द्रि॒यं पञ्चा॑वि॒गौर्वयो॑ दधुः ॥१४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इडा॑भिः। अ॒ग्निः। ईड्यः॑। सोमः॑। दे॒वः। अम॑र्त्यः। अ॒नु॒ष्टुप्। अ॒नु॒स्तुबित्य॑नुऽस्तुप्। छन्दः॑। इ॒न्द्रि॒यम्। पञ्चा॑वि॒रिति॒ पञ्च॑ऽअविः। गौः। वयः॑। द॒धुः॒। १४।
महीधरः
म० शोभनं बर्हिः प्रयाजदेवता अग्निः बृहती छन्दः गौः एते चत्वार इन्द्रियं वयश्चेन्द्रे दधुः । कीदृशोऽग्निः । पूषण्वान् पूषास्यास्तीति पूष्णा युक्तः । स्तीर्णबर्हिः स्तीर्णं बहिर्यस्य सः ॥ अमर्त्यः अनश्वरः । कीदृशो गौः । त्रिवत्सः त्रयो वत्सा अनुचरा वत्सरा वा यस्य स त्रिवत्सः ॥ १५॥
षोडशी।
अधिमन्त्रम् (VC)
- विद्वांसो देवता
- स्वस्त्यात्रेय ऋषिः
- विराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जैसे (अग्निः) अग्नि के समान प्रकाशमान (अमर्त्यः) अपने स्वरूप से नाशरहित (सोमः) ऐश्वर्यवान् (ईड्यः) स्तुति करने वा खोजने के योग्य (देवः) दिव्य गुणी (पञ्चाविः) पाँच से रक्षा को प्राप्त (गौः) विद्या से स्तुति के योग्य विद्वान् पुरुष (इडाभिः) प्रशंसाओं से (अनुष्टुप्, छन्दः) अनुष्टुप् छन्द (इन्द्रियम्) ज्ञान आदि व्यवहार को सिद्ध करने हारे मन और (वयः) तृप्ति को धारण करे, वैसे इस को सब (दधुः) धारण करें ॥१४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो लोग धर्म से विद्या और ऐश्वर्य को प्राप्त होते हैं, वे सब मनुष्यों को विद्या और ऐश्वर्य प्राप्त करा सकते हैं ॥१४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यथाऽग्निरमर्त्यः सोम ईड्यो देवः पञ्चाविर्गौर्विद्वानिडाभिरनुष्टुप् छन्द इन्द्रियं वयश्च दध्यात्तथैतत्सर्वे दधुः ॥१४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये धर्मेण विद्यैश्वर्ये प्राप्नुवन्ति, ते सर्वान् मनुष्यानेते प्रापयितुं शक्नुवन्ति ॥१४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जे लोक धर्माने विद्या व ऐश्वर्य प्राप्त करतात ते सर्व माणसांना विद्या व ऐश्वर्याची प्राप्ती करून देऊ शकतात.
१५ सुबर्हिरग्निः पूषण्वान्त्स्तीर्णबर्हिरमर्त्यः
विश्वास-प्रस्तुतिः ...{Loading}...
सु॒ब॒र्हिर॒ग्निः पू॑षण्वान्त्स्ती॒र्णब॑र्हि॒रम॑र्त्यः। बृ॒ह॒ती छन्द॑ऽइन्द्रि॒यं त्रि॑व॒त्सो गौर्वयो॑ दधुः ॥१५ ॥
मूलम् ...{Loading}...
सु॒ब॒र्हिर॒ग्निः पू॑षण्वान्त्स्ती॒र्णब॑र्हि॒रम॑र्त्यः। बृ॒ह॒ती छन्द॑ऽइन्द्रि॒यं त्रि॑व॒त्सो गौर्वयो॑ दधुः ॥१५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सु॒ब॒र्हिरिति॑ सु॒ऽब॒र्हिः। अ॒ग्निः। पू॒ष॒ण्वानिति॑ पूष॒ण्ऽवान्। स्ती॒र्णब॑र्हिरिति॑ स्ती॒र्णऽब॑र्हिः। अम॑र्त्यः। बृ॒ह॒ती। छन्दः॑। इ॒न्द्रि॒यम्। त्रि॒व॒त्स इति॑ त्रिऽव॒त्सः। गौः। वयः॑। द॒धुः॒। १५।
महीधरः
म०. दुरो द्वारो देव्यः प्रयाजदेवताः छान्दसं संप्रसारणम् । महीर्महत्यो दिशः ब्रह्मा देवो बृहस्पतिः पङ्क्तिश्छन्दः तुर्यं चतुर्थं वर्षं वहतीति तुर्यवाट् गौः एते षट् देवा इह इन्द्रे इन्द्रियं वयश्च दधुः ॥ १६ ॥
सप्तदशी।
अधिमन्त्रम् (VC)
- विद्वांसो देवता
- स्वस्त्यात्रेय ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जैसे (पूषण्वान्) पुष्टि करने हारे गुणों से युक्त (स्तीर्णबर्हिः) आकाश को व्याप्त होनेवाला (अमर्त्यः) अपने स्वरूप से नाशरहित (सुबर्हिः) आकाश को शुद्ध करने हारा (अग्निः) अग्नि के समान जन और (बृहती) बृहती (छन्दः) छन्द (इन्द्रियम्) जीव के चिह्न को धारण करें और (त्रिवत्सः) त्रिवत्स अर्थात् देह, इन्द्रिय, मन जिस के अनुगामी वह (गौः) गौ के समान मनुष्य (वयः) तृप्ति को प्राप्त करें, वैसे इस को सब लोग (दधुः) धारण करें ॥१५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे अग्नि अन्तरिक्ष में चलता है, वैसे विद्वान् लोग सूक्ष्म और निराकार पदार्थों की विद्या में चलते हैं, जैसे गाय के पीछे बछड़ा चलता है, वैसे अविद्वान् जन विद्वानों के पीछे चला करें और अपनी इन्द्रियों को वश में लावें ॥१५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यथा पूषण्वान् स्तीर्णबर्हिरमर्त्यः सुबर्हिरग्निरिव जना बृहती छन्दश्चेन्द्रियं दध्यात्त्रिवत्सो गौरिव वयो दध्यात्तथैतद् दधुः ॥१४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथाग्निरन्तरिक्षे चरति तथा विद्वांसः सूक्ष्मनिराकारपदार्थविद्यायां चरन्ति, यथा गोरनुकूलो वत्सो भवति, तथा विद्वदनुकूला अविद्वांसश्चरन्त्विन्द्रियाणि च वशमानयेयुः ॥१५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसा अंतरिक्षात सूक्ष्म अग्नी असतो. तशी विद्वान लोकांची सूक्ष्म व निराकार पदार्थविद्येमध्ये गती असते. जसे पाडस गाईच्या मागे चालते तसे अविद्वान लोकांनी विद्वानांचे अनुसरण करावे व आपल्या इंद्रियांना ताब्यात ठेवावे.
१६ दुरो देवीर्दिशो
विश्वास-प्रस्तुतिः ...{Loading}...
दुरो॑ दे॒वीर्दिशो॑ म॒हीर्ब्र॒ह्मा दे॒वो बृह॒स्पतिः॑। प॒ङ्क्तिश्छन्द॑ऽइ॒हेन्द्रि॒यं तु॑र्य्य॒वाड् गौर्वयो॑ दधुः ॥१६ ॥
मूलम् ...{Loading}...
दुरो॑ दे॒वीर्दिशो॑ म॒हीर्ब्र॒ह्मा दे॒वो बृह॒स्पतिः॑। प॒ङ्क्तिश्छन्द॑ऽइ॒हेन्द्रि॒यं तु॑र्य्य॒वाड् गौर्वयो॑ दधुः ॥१६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दुरः॑। दे॒वीः। दिशः॑। म॒हीः। ब्र॒ह्मा। दे॒वः। बृह॒स्पतिः॑। प॒ङ्क्तिः। छन्दः॑। इ॒ह। इ॒न्द्रि॒यम्। तु॒र्य्य॒वाडिति॑ तर्य्य॒ऽवाट्। गौः। वयः॑। द॒धुः॒। १६।
महीधरः
म० उषे द्विवचनाद्दिनं रात्रिश्च । अमाः विश्वेदेवाः त्रिष्टुप् छन्दः । पष्ठं भारं वहतीति पष्ठवाड् गौः । एते पञ्चेहेन्द्रियं वयश्च दधुः । कीदृश्यौ उषे । यह्वी यह्व्यौ महत्यौ । यह्व इति महन्नाम । सुपेशसा शोभनं पेशो रूपं ययोस्ते सुपेशसौ सुरूपे । विभक्तेराकारः ॥ १७ ॥
अष्टादशी।
अधिमन्त्रम् (VC)
- विद्वांसो देवता
- स्वस्त्यात्रेय ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब वायु आदि पदार्थों के प्रयोजन विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (इह) यहाँ (देवीः) देदीप्यमान (महीः) बड़े (दुरः) द्वारे (दिशः) दिशाओं को (ब्रह्मा) अन्तरिक्षस्थ पवन (देवः) प्रकाशमान (बृहस्पतिः) बड़ों का पालन करने हारा सूर्य और (पङ्क्तिश्छन्दः) पङ्क्ति छन्द (इन्द्रियम्) धन तथा (तुर्य्यवाट्) चौथे को प्राप्त होने हारी (गौः) गाय (वयः) जीवन को (दधुः) धारण करें, वैसे तुम लोग भी जीवन को धारण करो ॥१६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - कोई भी प्राणी अन्तरिक्षस्थ पवन आदि के बिना नहीं जी सकता ॥१६ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ वायुप्रभृतिपदार्थप्रयोजनमुपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथेह देवीर्महीर्दुरो दिशो ब्रह्मा देवो बृहस्पतिः पङ्क्तिश्छन्द इन्द्रियं तुर्य्यवाड् गौर्वयश्च दधुस्तथा यूयमपि धरत ॥१६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - नहि कश्चिदप्यन्तरिक्षस्थवाय्वादिभिर्विना जीवितुं शक्नोति ॥१६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - कोणताही प्राणी अंतरिक्षातील वायूशिवाय जिवंत राहू शकत नाही.
१७ उषे यह्वी
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒षे य॒ह्वी सु॒पेश॑सा॒ विश्वे॑ दे॒वाऽअम॑र्त्याः। त्रि॒ष्टुप् छन्द॑ऽइ॒हेन्द्रि॒यं प॑ष्ठ॒वाड् गौर्वयो॑ दधुः ॥१७ ॥
मूलम् ...{Loading}...
उ॒षे य॒ह्वी सु॒पेश॑सा॒ विश्वे॑ दे॒वाऽअम॑र्त्याः। त्रि॒ष्टुप् छन्द॑ऽइ॒हेन्द्रि॒यं प॑ष्ठ॒वाड् गौर्वयो॑ दधुः ॥१७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उ॒षेऽइत्यु॒षे। य॒ह्वीऽइति॑ य॒ह्वी। सु॒पेश॒सेति॑ सु॒ऽपेश॑सा। विश्वे॑। दे॒वाः। अम॑र्त्याः। त्रि॒ष्टुप्। त्रि॒स्तुबिति॑ त्रि॒ऽस्तुप्। छन्दः॑। इ॒ह। इ॒न्द्रि॒यम्। प॒ष्ठ॒वाडिति॑ पष्ठ॒ऽवाट्। गौः। वयः॑। द॒धुः॒। १७।
महीधरः
म०. दैव्यौ होतारौ प्रयाजदेवौ अयं चाग्निरसौ च मध्यमो वायुः । जगती छन्दः । अनः शकटं वहतीत्यनड्वान् गौः एते चत्वार इन्द्रे इन्द्रियं वयश्च दधुः । कीदृशौ होतारौ । भिषजा भिषजौ वैद्यौ इन्द्रेण सयुजौ सह युज्येते सयुजौ संयुक्तौ युजौ परस्परं संयुक्तौ ॥ १८ ॥
एकोनविंशी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- स्वस्त्यात्रेय ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (इह) इस जगत् में (सुपेशसा) सुन्दर रूपयुक्त पढ़ाने और उपदेश करने हारी (यह्वी) बड़ी (उषे) दहन करनेवाली प्रभात वेला के समान दो स्त्री (अमर्त्याः) तत्त्वस्वरूप से नित्य (विश्वे) सब (देवाः) देदीप्यमान पृथ्वी आदि लोक (त्रिष्टुप् छन्दः) त्रिष्टुप् छन्द और (पष्ठवाट्) पीठ से उठानेवाला (गौः) बैल (वयः) उत्पत्ति और (इन्द्रियम्) धन को धारण करते हैं, वैसे (दधुः) तुम लोग भी आचरण करो ॥१७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे पृथ्वी आदि पदार्थ परोपकारी हैं, वैसे इस जगत् में मनुष्यों को होना चाहिए ॥१७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथेह सुपेशसोषे यह्वी अमर्त्या विश्वे देवास्त्रिष्टुप् छन्दः पष्ठवाड्गौर्वय इन्द्रियं दधुस्तथा यूयमप्याचरत ॥१७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यथा पृथिव्यादयः पदार्थाः परोपकारिणः सन्ति, तथाऽत्र मनुष्यैर्भवितव्यम् ॥१७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या जगात पृथ्वी वगैरे पदार्थ जसे परोपकारी आहेत, तसेच माणसांनी वागावे.
१८ दैव्या होतारा
विश्वास-प्रस्तुतिः ...{Loading}...
दैव्या॒ होता॑रा भि॒षजेन्द्रे॑ण स॒युजा॑ यु॒जा। जग॑ती॒ छन्द॑ऽइन्द्रि॒यम॑न॒ड्वान् गौर्वयो॑ दधुः ॥१८ ॥
मूलम् ...{Loading}...
दैव्या॒ होता॑रा भि॒षजेन्द्रे॑ण स॒युजा॑ यु॒जा। जग॑ती॒ छन्द॑ऽइन्द्रि॒यम॑न॒ड्वान् गौर्वयो॑ दधुः ॥१८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दैव्या॑। होता॑रा। भि॒षजा॑। इन्द्रे॑ण स॒युजेति॑ स॒ऽयुजा॑। यु॒जा। जग॑ती। छन्दः॑। इ॒न्द्रि॒यम्। अ॒न॒ड्वान्। गौः। वयः॑। द॒धुः॒। १८।
महीधरः
म० इडा सरस्वती भारतीति तिस्रः प्रयाजदेव्यः मरुतो विशः इन्द्रप्रजाः विराट् छन्दः धेनुर्दोग्ध्री गौश्च । नकारश्वार्थे । एते षट् इहेन्द्रे इन्द्रियं वयश्च दधुः ॥ १९ ॥
विंशी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- स्वस्त्यात्रेय ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब अगले मन्त्र में वैद्य के तुल्य अन्यों को आचरण करना चाहिए, इस विषय को कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य लोगो ! जैसे (इन्द्रेण) ऐश्वर्य से (सयुजा) ओषधि आदि का तुल्य योग करनेहारे (युजा) सावधान चित्त हुए (दैव्या) विद्वानों में निपुण (होतारा) विद्यादि के देनेवाले (भिषजा) उत्तम दो वैद्य लोग (अनड्वान्) बैल (गौः) गाय और (जगती छन्दः) जगती छन्द (वयः) सुन्दर (इन्द्रियम्) धन को (दधुः) धारण करें, वैसे इस को तुम लोग धारण करो ॥१८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे वैद्यों से अपने और दूसरों के रोग मिटाके अपने आप और दूसरे ऐश्वर्यवान् किये जाते हैं, वैसे सब मनुष्यों को वर्त्तना चाहिए ॥१८ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ भिषग्वदितरैराचरितव्यमित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथेन्द्रेण सयुजा युजा दैव्या होतारा भिषजाऽनड्वान् गौर्जगती छन्दश्च वय इन्द्रियं दधुस्तथैतद्भवन्तो दधीरन् ॥१८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा वैद्यैः स्वेषां परेषां च रोगान्निवार्य्य स्वेऽन्ये चैश्वर्य्यवन्तः क्रियन्ते तथा सर्वैर्मनुष्यैर्वर्तितव्यम् ॥१८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसा वैद्य स्वतःचे व इतरांचे रोग नाहीसे करून स्वतःला व इतरांना ऐश्वर्यवान करतो तसे सर्व माणसांनी वागावे.
१९ तिस्रऽइडा सरस्वती
विश्वास-प्रस्तुतिः ...{Loading}...
ति॒स्रऽइडा॒ सर॑स्वती॒ भार॑ती म॒रुतो॒ विशः॑। वि॒राट्छन्द॑ऽइ॒हेन्द्रि॒यं धे॒नुर्गौर्न वयो॑ दधुः ॥१९ ॥
मूलम् ...{Loading}...
ति॒स्रऽइडा॒ सर॑स्वती॒ भार॑ती म॒रुतो॒ विशः॑। वि॒राट्छन्द॑ऽइ॒हेन्द्रि॒यं धे॒नुर्गौर्न वयो॑ दधुः ॥१९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ति॒स्रः। इडा॑। सर॑स्वती। भार॑ती। म॒रुतः॑। विशः॑। वि॒राडिति॑ वि॒ऽराट्। छन्दः॑। इ॒ह। इ॒न्द्रि॒यम्। धे॒नुः। गौः। न। वयः॑। द॒धुः॒। १९।
महीधरः
म० त्वष्टा प्रयाजदेवः इन्द्राग्नी द्विपदा छन्दः । उक्षा सेक्ता गौश्च पञ्चेन्द्रे इन्द्रियं वयश्च दधुः । कीदृशः त्वष्टा । तुरीपः तूर्णमाप्नोति व्याप्नोति तुरीपः अद्भुतो महान् । कीदृशाविन्द्राग्नी । पुष्टिवर्धना पुष्टिं धनादिपोषं वर्धयतस्तौ पुष्टिवर्धनौ । । नश्चार्थः ॥ २०॥
एकविंशी
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- स्वस्त्यात्रेय ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर विद्वानों के विषय में अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जैसे (इह) इस जगत् में (इडा) पृथ्वी (सरस्वती) वाणी और (भारती) धारणवाली बुद्धि ये (तिस्रः) तीन (मरुतः) पवनगण (विशः) मनुष्य आदि प्रजा (विराट्) तथा अनेक प्रकार से देदीप्यमान (छन्दः) बल (इन्द्रियम्) धन को और (धेनुः) पान कराने हारी (गौः) गाय के (न) समान (वयः) प्राप्त होने योग्य वस्तु को (दधुः) धारण करें, वैसे सब मनुष्य लोग इस को धारण करके वर्त्ताव करें ॥१९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। जैसे विद्वान् लोग सुशिक्षित वाणी, विद्या, प्राण और पशुओं से ऐश्वर्य को प्राप्त होते हैं, वैसे अन्य सब को प्राप्त होना चाहिए ॥१९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्विद्वद्विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यथेहेडा सरस्वती भारती च तिस्रो मरुतो विशो विराट्छन्द इन्द्रियं धेनुर्गौर्न वयश्च दधुस्तथा सर्वे मनुष्या एतद्धृत्वा वर्तेरन् ॥१९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। यथा विद्वांसः सुशिक्षितया वाचा विद्यया प्राणैः पशुभिश्चैश्वर्य्यं लभन्ते, तथाऽन्यैर्लब्धव्यम् ॥१९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. विद्वान लोक जसे सुशिक्षित वाणी, विद्या, प्राण व पशू यांच्यापासून ऐश्वर्य प्राप्त करतात तसे इतरांनीही प्राप्त करावे.
२० त्वष्टा तुरीपोऽअद्भुतऽइन्द्राग्नी
विश्वास-प्रस्तुतिः ...{Loading}...
त्वष्टा॑ तु॒रीपो॒ऽअद्भु॑तऽइन्द्रा॒ग्नी पु॑ष्टि॒वर्ध॑ना। द्विप॑दा॒ छन्द॑ऽइन्द्रि॒यमु॒क्षा गौर्न वयो॑ दधुः ॥२० ॥
मूलम् ...{Loading}...
त्वष्टा॑ तु॒रीपो॒ऽअद्भु॑तऽइन्द्रा॒ग्नी पु॑ष्टि॒वर्ध॑ना। द्विप॑दा॒ छन्द॑ऽइन्द्रि॒यमु॒क्षा गौर्न वयो॑ दधुः ॥२० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
त्वष्टा॑। तु॒रीपः॑। अद्भु॑तः। इ॒न्द्रा॒ग्नीऽइति इन्द्रा॒ग्नी। पु॒ष्टि॒वर्ध॒नेति॑ पुष्टि॒ऽवर्ध॑ना। द्विप॑देति॒ द्विऽप॑दा। छन्दः॑। इ॒न्द्रि॒यम्। उ॒क्षा। गौः। न। वयः॑। द॒धुः॒। २०।
महीधरः
म० वनस्पतिः प्रयाजदेवः सविता सूर्यः ककुप्छन्दः वशा वन्ध्या गौः वेहत् गर्भघ्नो गौः एते पञ्च इहेन्द्रं इन्द्रियं वयश्च दधुः । कीदृशो वनस्पतिः। नोऽस्माकं शमिता शमयति सुखयति शमिता । ‘शमिता मन्त्रे’ (पा० ६ । ४ । ५४) इति छान्दसो णिचो लोपः । कीदृशः सविता । भगं प्रसुवन् धनं प्रेरयन् ददत् ॥ २१ ॥
द्वाविंशी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- स्वस्त्यात्रेय ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य लोगो ! जो (अद्भुतः) आश्चर्य्य गुण-कर्म-स्वभावयुक्त (तुरीपः) शीघ्र प्राप्त होने (त्वष्टा) और सूक्ष्म करने हारे तथा (पुष्टिवर्द्धना) पुष्टि को बढ़ाने हारे (इन्द्राग्नी) पवन और अग्नि दोनों और (द्विपदा) दो पादवाले (छन्दः) छन्द (इन्द्रियम्) श्रोत्र आदि इन्द्रिय को (उक्षा) सेचन करने में समर्थ (गौः) बैल के (न) समान (वयः) जीवन को (दधुः) धारण करें, उनको जानो ॥२० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे प्रसिद्ध अग्नि, बिजुली, पेट में का अग्नि, वडवानल ये चार और प्राण, इन्द्रियाँ तथा गाय आदि पशु सब जगत् की पुष्टि करते हैं, वैसे ही मनुष्यों को ब्रह्मचर्य आदि से अपना और दूसरों का बल बढ़ाना चाहिए ॥२० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! येऽद्भुतस्तुरीपस्त्वष्टा पुष्टिवर्धनेन्द्राग्नी द्विपदा छन्द इन्द्रियमुक्षा गौर्न वयो दधुस्तान् विजानीत ॥२० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा प्रसिद्धोऽग्निर्विद्युज्जाठरो वडवानल एते चत्वारः प्राण इन्द्रियाणि गवादयः पशवश्च सर्वस्य जगतः पुष्टिं कुर्वन्ति, तथैव मनुष्यैर्ब्रह्मचर्यादिना स्वस्य परेषां च बलं वर्द्धनीयम् ॥२० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जसे अग्नी, विद्युत, जठराग्नी व वडवानल हे चार आणि प्राण, इंद्रिये व गाय इत्यादी पशू सर्व जगाचे पोषण करतात तसे माणसांनीही ब्रह्मचर्य इत्यादींनी आपले व इतरांचे बल वाढविले पाहिजे.
२१ शमिता नो
विश्वास-प्रस्तुतिः ...{Loading}...
श॒मि॒ता नो॒ वन॒स्पतिः॑ सवि॒ता प्र॑सु॒वन् भग॑म्। क॒कुप् छन्द॑ऽइ॒हेन्द्रि॒यं व॒शा वे॒हद्वयो॑ दधुः ॥२१ ॥
मूलम् ...{Loading}...
श॒मि॒ता नो॒ वन॒स्पतिः॑ सवि॒ता प्र॑सु॒वन् भग॑म्। क॒कुप् छन्द॑ऽइ॒हेन्द्रि॒यं व॒शा वे॒हद्वयो॑ दधुः ॥२१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
श॒मि॒ता। नः॒। वन॒स्पतिः॑। स॒वि॒ता। प्र॒सु॒वन्निति॑ प्रऽसु॒वन्। भग॑म्। क॒कुप्। छन्दः॑। इ॒ह। इ॒न्द्रि॒यम्। व॒शा। वे॒हत्। वयः॑। द॒धुः॒। २१।
महीधरः
म० शोभनं क्षत्रं क्षतत्राणं यस्य स सुक्षत्रः शोभनक्षतत्राता वरुणः खाहा । नामैकदेशे नामग्रहणम् । स्वाहाकृतिभिः प्रयाजदेवैः सह यज्ञं भेषजं यज्ञलक्षणमौषधमिन्द्राय करत् करोतु । किंच अतिच्छन्दाः छन्दः बृहत् महान् ऋषभः समर्थो गौः वरुणश्च स्वाहाकृतयोऽपि एते चत्वार इन्द्रियं वयश्च इन्द्रे दधुः दधतु ॥ २२॥
त्रयोविंशी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- स्वस्त्यात्रेय ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर प्रजाविषय को अगले मन्त्र में कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (शमिता) शान्ति देने हारा (वनस्पतिः) औषधियों का राजा वा वृक्षों का पालक (सविता) सूर्य (भगम्) धन को (प्रसुवन्) उत्पन्न करता हुआ (ककुप्) ककुप् (छन्दः) छन्द और (इन्द्रियम्) जीव के चिह्न को तथा (वशा) जिस के सन्तान नहीं हुआ और (वेहत्) जो गर्भ को गिराती है, वह (इह) इस जगत् में (नः) हमारे (वयः) प्राप्त होने योग्य वस्तु को (दधुः) धारण करे, उस को तुम लोग जान के उपकार करो ॥२१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जिस मनुष्य से सर्वरोग की नाशक औषधियाँ और ढाँकनेवाले उत्तम वस्त्र सेवन किये जाते हैं, वह बहुत वर्षों तक जी सकता है ॥२१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः प्रजाविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यः शमिता वनस्पतिः सविता भगं प्रसुवन् ककुप् छन्द इन्द्रियं वशा वेहच्चेह नो वयो दधुस्तान् यूयं विज्ञायोपकुरुत ॥२१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - येन मनुष्येण सर्वरोगप्रणाशिका औषधय आवरकाण्युत्तमानि वस्त्राणि च सेव्यन्ते, स चिरंजीवी भवति ॥२१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जो मनुष्य सर्व रोगांचा नाश करणारे औषध घेतो व देह झाकला जावा म्हणून उत्तम वस्रे वापरतो, तो पुष्कळ वर्षे जगतो.
२२ स्वाहा यज्ञम्
विश्वास-प्रस्तुतिः ...{Loading}...
स्वाहा॑ य॒ज्ञं वरु॑णः। सुक्ष॒त्रो भे॑ष॒जं क॑रत्। अति॑च्छन्दाऽइन्द्रि॒यं बृ॒हदृ॑ष॒भो गौर्वयो॑ दधुः ॥२२ ॥
मूलम् ...{Loading}...
स्वाहा॑ य॒ज्ञं वरु॑णः। सुक्ष॒त्रो भे॑ष॒जं क॑रत्। अति॑च्छन्दाऽइन्द्रि॒यं बृ॒हदृ॑ष॒भो गौर्वयो॑ दधुः ॥२२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स्वाहा॑। य॒ज्ञम्। वरु॑णः। सु॒क्ष॒त्र इति॑ सुऽक्ष॒त्रः। भे॒ष॒जम्। क॒र॒त्। अति॑च्छन्दा॒ इत्यति॑ऽछन्दाः। इ॒न्द्रि॒यम्। बृ॒हत्। ऋ॒ष॒भः। गौः। वयः॑। द॒धुः॒। २२।
महीधरः
म० ‘याज्याः पुरोनुवाक्याश्च वपापुरोडाशपशूनां वसन्तेन ऋतुनेति’ (का. १९ । ७ । २०) । चकाराद्वयोधसे पशावेव षडृचो यथाक्रमं वपादीनां याज्यानुवाक्याः वपायागे । वसन्तेनेति ( २३ ) पुरोऽनुवाक्या ग्रीष्मेणेति ( २४ ) याज्या, पशुपुरोडाशयागे वर्षाभिरिति ( २५) पुरोनुवाक्या शारदेनेति (२६) याज्या, हृदयादियागे हेमन्तेनेति (२७) पुरोनुवाक्या, शैशिरेणेति (२८) याज्येति सूत्रार्थः । अनुष्टुभः षट् लिङ्गोक्तदेवता । वयोधा इन्द्रो देवतेत्यर्थः । वसवो देवा इन्द्रे तेजसा सह हविर्वपाख्यं वयः शक्तिं च दधुः दधतु स्थापयन्तु । कीदृशा वसवः । वसन्तेन ऋतुना त्रिवृता स्तोमेन रथन्तरेण पृष्ठेन च स्तुताः ॥ २३ ॥
चतुर्विशी।
अधिमन्त्रम् (VC)
- विद्वांसो देवता
- स्वस्त्यात्रेय ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम जैसे (वरुणः) श्रेष्ठ (सुक्षत्रः) उत्तम धनवान् जन (स्वाहा) सत्य क्रिया से (यज्ञम्) सङ्गममय (भेषजम्) औषध को (करत्) करे और जो (अतिच्छन्दाः) अतिच्छन्द और (ऋषभः) उत्तम (गौः) बैल (बृहत्) बड़े (इन्द्रियम्) ऐश्वर्य और (वयः) सुन्दर अपने व्यवहार को धारण करते हैं, वैसे ही सब (दधुः) धारण करें, इसको जानो ॥२२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो लोग अच्छे पथ्य और औषध के सेवन से रोगों का नाश करते हैं और पुरुषार्थ से धन तथा आयु का धारण करते हैं, वे बहुत सुख को प्राप्त होते हैं ॥२२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यूयं यथा वरुणः सुक्षत्रः स्वाहा यज्ञं भेषजं च करद्योऽतिच्छन्दा ऋषभो गौर्बृहदिन्द्रियं वयश्च धत्तस्तथैव सर्वे दधुरेतज्जानीत ॥२२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये सुपथ्यौषधसेवनेन रोगान् हरन्ति, पुरुषार्थेन धनमायुश्च धरन्ति, तेऽतुलं सुखं लभन्ते ॥२२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जे लोक पथ्य व औषधांचे सेवन करून रोगांचा नाश करतात व पुरुषार्थाने धन प्राप्त करून आयुष्य वाढवितात. ते अत्यंत सुखी होतात.
२३ वसन्तेनऽऋतुना देवा
विश्वास-प्रस्तुतिः ...{Loading}...
व॒स॒न्तेन॑ऽऋ॒तुना॑ दे॒वा वस॑वस्त्रि॒वृता॑ स्तु॒ताः। र॒थ॒न्त॒रेण॒ तेज॑सा ह॒विरिन्द्रे॒ वयो॑ दधुः ॥२३ ॥
मूलम् ...{Loading}...
व॒स॒न्तेन॑ऽऋ॒तुना॑ दे॒वा वस॑वस्त्रि॒वृता॑ स्तु॒ताः। र॒थ॒न्त॒रेण॒ तेज॑सा ह॒विरिन्द्रे॒ वयो॑ दधुः ॥२३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
व॒स॒न्तेन॑। ऋ॒तुना॑। दे॒वाः। वस॑वः। त्रि॒वृतेति॑ त्रि॒ऽवृता॑। स्तु॒ताः। र॒थ॒न्त॒रेणेति॑ रथम्ऽत॒रेण॑। तेज॑सा। ह॒विः। इन्द्रे॑। वयः॑। द॒धुः॒। २३।
महीधरः
म०. रुद्रा देवा इन्द्रे यशसा सह बलं हविर्वयश्च दधुः । कीदृशा रुद्राः । ग्रीष्मेण ऋतुना पञ्चदशः पञ्चदशेन स्तोमेन । विभक्तिव्यत्ययः । बृहता पृष्ठेन च स्तुताः ॥ २४ ॥
पञ्चविंशी।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- स्वस्त्यात्रेय ऋषिः
- भुरिगनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (वसवः) पृथिवी आदि आठ वसु वा प्रथम कक्षावाले विद्वान् लोग (देवाः) दिव्य गुणों से युक्त (स्तुताः) स्तुति को प्राप्त हुए (त्रिवृता) तीनों कालों में विद्यमान (वसन्तेन) जिस में सुख से रहते हैं, उस प्राप्त होने योग्य वसन्त (ऋतुना) ऋतु के साथ वर्त्तमान हुए (रथन्तरेण) जहाँ रथ से तरते हैं, उस (तेजसा) तीक्ष्ण स्वरूप से (इन्द्रे) सूर्य के प्रकाश में (हविः) देने योग्य (वयः) आयु बढ़ाने हारे वस्तु को (दधुः) धारण करें, उनको स्वरूप से जानकर सङ्गति करो ॥२३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य लोग रहने के हेतु दिव्य पृथिवी आदि लोकों वा विद्वानों की वसन्त में सङ्गति करें, वे वसन्तसम्बन्धी सुख को प्राप्त होवें ॥२३।
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! ये वसवो देवा स्तुतास्त्रिवृता वसन्तेनर्तुना सह वर्त्तमाना रथन्तरेण तेजसेन्द्रे हविर्वयो दधुस्तान् स्वरूपतो विज्ञाय सङ्गच्छध्वम् ॥२३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्या वासहेतून् दिव्यान् पृथिव्यादीन् विदुषो वा वसन्ते सङ्गच्छेरँस्ते वासन्तिकं सुखं प्राप्नुयुः ॥२३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे दिव्य पृथ्वी इत्यादी लोकांवर राहून वसंत ऋतूमध्ये विद्वानांची संगती धरतात. त्यांना वसंत ऋतूतील सर्व सुख प्राप्त होते.
२४ ग्रीष्मेणऽऋतुना देवा
विश्वास-प्रस्तुतिः ...{Loading}...
ग्री॒ष्मेण॑ऽऋ॒तुना॑ दे॒वा रु॒द्राः प॒ञ्च॒द॒शे स्तु॒ताः। बृ॒ह॒ता यश॑सा॒ बलँ॑ह॒विरिन्द्रे॒ वयो॑ दधुः ॥२४ ॥
मूलम् ...{Loading}...
ग्री॒ष्मेण॑ऽऋ॒तुना॑ दे॒वा रु॒द्राः प॒ञ्च॒द॒शे स्तु॒ताः। बृ॒ह॒ता यश॑सा॒ बलँ॑ह॒विरिन्द्रे॒ वयो॑ दधुः ॥२४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ग्री॒ष्मेण॑। ऋ॒तुना॑। दे॒वाः। रुद्राः। प॒ञ्च॒द॒श इति॑ पञ्चऽद॒शे। स्तु॒ताः। बृ॒ह॒ता। यश॑सा। बल॑म्। ह॒विः। इन्द्रे॑। वयः॑। द॒धुः॒। २४।
महीधरः
म० आदित्या देवाः इन्द्रे विशा प्रजया ओजसा च सह हविर्वयश्च दधुः । कीदृशाः । वर्षाभिर्ऋतुना सप्तदशेन स्तोमेन । तृतीयार्थे सप्तम्यौ । वैरूपेण पृष्ठेन च स्तुताः ॥ २५ ॥
षड्विंशी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- स्वस्त्यात्रेय ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
मध्यम ब्रह्मचर्य विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (स्तुताः) प्रशंसा किये हुए (रुद्राः) दश प्राण ग्यारहवाँ जीवात्मा वा मध्यम कक्षा के (देवाः) दिव्यगुणयुक्त विद्वान् (पञ्चदशे) पन्द्रहवें व्यवहार में (ग्रीष्मेण) सब रसों के खेंचने और (ऋतुना) उष्णपन प्राप्त करनेहारे ग्रीष्म ऋतु वा (बृहता) बड़े (यशसा) यश से (इन्द्रे) जीवात्मा में (हविः) ग्रहण करने योग्य (बलम्) बल और (वयः) जीवन को (दधुः) धारण करें, उन को तुम लोग जानो ॥२४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो ४४ चवालीस वर्ष पर्यन्त ब्रह्मचर्य से विद्वान् हुए अन्य मनुष्यों के शरीर और आत्मा के बल को बढ़ाते हैं, वे भाग्यवान् होते हैं ॥२४ ॥
दयानन्द-सरस्वती (सं) - विषयः
मध्यमब्रह्मचर्यविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! ये स्तुता रुद्रा देवाः पञ्चदशे ग्रीष्मेणर्त्तुना बृहता यशसेन्द्रे हविर्बलं वयश्च दधुस्तान् यूयं विजानीत ॥२४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये चतुश्चत्वारिंशद् वर्षयुक्तेन ब्रह्मचर्येण जातविद्वांसोऽन्येषां शरीरात्मबलमुन्नयन्ति, ते भाग्यशालिनो जायन्ते ॥२४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे चौरेचाळीस (४४) वर्षांपर्यंत ब्रह्मचर्य पालन करून विद्वान बनतात व इतर माणसांचे शरीर आणि आत्म्याचे बल वाढवितात ते भाग्यवान असतात.
२५ वर्षाभिर्ऋतुनादित्या स्तोमे
विश्वास-प्रस्तुतिः ...{Loading}...
व॒र्षाभि॑र्ऋ॒तुना॑दि॒त्या स्तोमे॑ सप्तद॒शे स्तु॒ताः। वै॒रू॒पेण॑ वि॒शौज॑सा ह॒विरिन्द्रे॒ वयो॑ दधुः ॥२५ ॥
मूलम् ...{Loading}...
व॒र्षाभि॑र्ऋ॒तुना॑दि॒त्या स्तोमे॑ सप्तद॒शे स्तु॒ताः। वै॒रू॒पेण॑ वि॒शौज॑सा ह॒विरिन्द्रे॒ वयो॑ दधुः ॥२५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
व॒र्षाभिः॑। ऋ॒तुना॑। आ॒दि॒त्याः। स्तोमे॑। स॒प्त॒द॒श इति॑ सप्तऽद॒शे। स्तु॒ताः। वै॒रू॒पेण॑। वि॒शा। ओज॑सा। ह॒विः। इन्द्रे॑। वयः॑। द॒धुः॒। २५।
महीधरः
म० ऋभवः ऋभुसंज्ञा देवाः इन्द्रे श्रियं हविर्वयश्च दधुः । | कीदृशाः । शारदेन ऋतुना एकविंशेन स्तोमेन वैराजेन पृष्ठेन । श्रिया लक्ष्म्या च स्तुताः । सप्तमी तृतीयार्थे ॥ २६ ॥
सप्तविंशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- स्वस्त्यात्रेय ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब उत्तम ब्रह्मचर्य विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (वर्षाभिः) जिसमें मेघ वृष्टि करते हैं, उस वर्षा (ऋतुना) प्राप्त होने योग्य ऋतु (वैरूपेण) अनेक रूपों के होने से (ओजसा) जो बल और उस (विशा) प्रजा के साथ रहनेवाले (आदित्याः) बारह महीने वा उत्तम कल्प के विद्वान् (सप्तदशे) सत्रहवें (स्तोमे) स्तुति के व्यवहार में (स्तुताः) प्रशंसा किये हुए (इन्द्रे) जीवात्मा में (हविः) देने योग्य (वयः) काल के ज्ञान को (दधुः) धारण करते हैं, उन को तुम लोग जानकार उपकार करो ॥२५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य लोग विद्वानों के सङ्ग से काल की स्थूल-सूक्ष्म गति को जान के एक क्षण भी व्यर्थ नहीं गमाते हैं, वे नानाविध ऐश्वर्य को प्राप्त होते हैं ॥२५ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथोत्तमब्रह्मचर्यविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! ये वर्षाभिर्ऋतुना वैरूपेणौजसा विशा सह वर्त्तमाना आदित्याः सप्तदशे स्तोमे स्तुता इन्द्रे हविर्वयो दधुस्तान् यूयं विज्ञायोपकुरुत ॥२५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्या विद्वत्सङ्गेन कालस्य स्थूलसूक्ष्मगती विज्ञायैकक्षणमपि व्यर्थे न नयन्ति, ते विचित्रमैश्वर्यमाप्नुवन्ति ॥२५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे विद्वानांच्या संगतीने काळाची स्थूल व सूक्ष्म गती जाणून एक क्षणही व्यर्थ घालवित नाहीत ती नाना प्रकारचे ऐश्वर्य प्राप्त करतात.
२६ शारदेनऽऋतुना देवाऽएकविंशऽऋभव
विश्वास-प्रस्तुतिः ...{Loading}...
शा॒र॒देन॑ऽऋ॒तुना॑ दे॒वाऽए॑कविँ॒शऽऋ॒भव॑ स्तु॒ताः। वै॒रा॒जेन॑ श्रि॒या श्रियँ॑ ह॒विरिन्द्रे॒ वयो॑ दधुः ॥२६ ॥
मूलम् ...{Loading}...
शा॒र॒देन॑ऽऋ॒तुना॑ दे॒वाऽए॑कविँ॒शऽऋ॒भव॑ स्तु॒ताः। वै॒रा॒जेन॑ श्रि॒या श्रियँ॑ ह॒विरिन्द्रे॒ वयो॑ दधुः ॥२६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
शा॒र॒देन॑। ऋ॒तुना॑। दे॒वाः। ए॒क॒विँ॒श इत्ये॑कऽविँ॒शे। ऋ॒भवः॑। स्तु॒ताः। वै॒रा॒जेन॑। श्रि॒या। श्रिय॑म्। ह॒विः। इन्द्रे॑। वयः॑। द॒धुः॒। २६।
महीधरः
म० मरुतो देवाः इन्द्रे बलेन सह । सहः इन्द्रियसामर्थ्यं हविर्वयश्च दधुः । कीदृशा मरुतः । हेमन्तेन ऋतुना त्रिणवेन स्तोमेन स्तुताः । शक्वरीरिति शाक्वरस्य योनिनिर्देशः । शाक्वरेण पृष्ठेन स्तुता इत्यर्थः ॥ २७ ॥
अष्टाविंशी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- स्वस्त्यात्रेय ऋषिः
- विराड् बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (एकविंशे) इक्कीसवें व्यवहार में (स्तुताः) स्तुति किये हुए (ऋभवः) बुद्धिमान् (देवाः) दिव्यगुणयुक्त (शारदेन) शरद् (ऋतुना) ऋतु वा (वैराजेन) विराट्छन्द में प्रकाशमान अर्थ के साथ (श्रिया) शोभा और लक्ष्मी के साथ वर्त्ताव वर्त्तने हारे जन (इन्द्रे) जीवात्मा में (श्रियम्) लक्ष्मी और (हविः) देने-लेने योग्य (वयः) वाञ्छित सुख को (दधुः) धारण करें, उन का तुम लोग सेवन करो ॥२६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो लोग अच्छे पथ्य करने हारे शरद् ऋतु में रोगरहित होते हैं, वे लक्ष्मी को प्राप्त होते हैं ॥२६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! य एकविंशे स्तुता ऋभवो देवाः शारदेनर्तुना वैराजेन श्रिया सह वर्त्तमाना इन्द्रे श्रियं हविर्वयश्च दधुस्तान् यूयं सेवध्वम् ॥२६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये सुपथ्यकारिणो जनाः शरद्यरोगा भवन्ति, ते श्रियमाप्नुवन्ति ॥२६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे लोक शरद ऋतूमध्ये पथ्य करून रोगरहित होतात त्यांना लक्ष्मी प्राप्त होते.
२७ हेमन्तेनऽऋतुना देवास्त्रिणवे
विश्वास-प्रस्तुतिः ...{Loading}...
हे॒म॒न्तेन॑ऽऋ॒तुना॑ दे॒वास्त्रि॑ण॒वे म॒रुत॑ स्तु॒ताः। बले॑न॒ शक्व॑रीः॒ सहो॑ ह॒विरिन्द्रे॒ वयो॑ दधुः ॥२७ ॥
मूलम् ...{Loading}...
हे॒म॒न्तेन॑ऽऋ॒तुना॑ दे॒वास्त्रि॑ण॒वे म॒रुत॑ स्तु॒ताः। बले॑न॒ शक्व॑रीः॒ सहो॑ ह॒विरिन्द्रे॒ वयो॑ दधुः ॥२७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
हे॒म॒न्तेन॑। ऋ॒तुना॑। दे॒वाः। त्रि॒ण॒वे। त्रि॒न॒व इति॑ त्रिऽन॒वे। म॒रुतः॑। स्तु॒ताः। बले॑न। शक्व॑रीः। सहः॑। ह॒विः। इन्द्रे॑। वयः॑। द॒धुः॒। २७।
महीधरः
म० अमृता देवाः सत्येन सह क्षत्रं क्षतत्राणं हविर्वयः च इन्द्रे दधुः दधतु । कीदृशा अमृताः । शारदेन ऋतुना त्रयस्त्रिंशेन स्तोमेन स्तुताः । रेवतीरिति रैवतस्य योनिः । रैवतेन च पृष्ठेन स्तुता इत्यर्थः ॥ २८ ॥
एकोनत्रिंशी ।
अधिमन्त्रम् (VC)
- विद्वांसो देवता
- आत्रेय ऋषिः
- भुरिगनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य लोगो ! जो (त्रिणवे) सत्ताईसवें व्यवहार में (हेमन्तेन) जिस में जीवों के देह बढ़ते जाते हैं, उस (ऋतुना) प्राप्त होने योग्य हेमन्त ऋतु के साथ वर्त्तते हुए (स्तुताः) प्रशंसा के योग्य (देवाः) दिव्यगुणयुक्त (मरुतः) मनुष्य (बलेन) मेघ से (शक्वरीः) शक्ति के निमित्त गौओं के (सहः) बल तथा (हविः) देने-लेने योग्य (वयः) वाञ्छित सुख को (इन्द्रे) जीवात्मा में (दधुः) धारण करें, उस का तुम सेवन करो ॥२७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो लोग सब रसों को पकाने हारे हेमन्त ऋतु में यथायोग्य व्यवहार करते हैं, वे अत्यन्त बलवान् होते हैं ॥२७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! ये त्रिणवे हेमन्तेनर्तुना सह वर्त्तमाना स्तुता देवा मरुतो बलेन शक्वरीः सहो हविर्वय इन्द्रे दधुस्तान् सेवध्वम् ॥२७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये सर्वरसपरिपाचके हेमन्ते यथायोग्यं व्यवहारं कुर्वन्ति, ते बलिष्ठा जायन्ते ॥२७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सर्व प्रकारचा रस परिपक्व करणाऱ्या हेमंत ऋतूमध्ये जे लोक यथायोग्य रीतीने वागतात ते अत्यंत बलवान होतात.
२८ शैशिरेणऽऋतुना देवास्त्रयस्त्रिंशेऽमृता
विश्वास-प्रस्तुतिः ...{Loading}...
शै॒शि॒रेण॑ऽऋ॒तुना॑ दे॒वास्त्र॑यस्त्रिँ॒शे᳙ऽमृता॑ स्तु॒ताः। स॒त्येन॑ रे॒वतीः॑ क्ष॒त्रँ ह॒विरिन्द्रे॒ वयो॑ दधुः ॥२८ ॥
मूलम् ...{Loading}...
शै॒शि॒रेण॑ऽऋ॒तुना॑ दे॒वास्त्र॑यस्त्रिँ॒शे᳙ऽमृता॑ स्तु॒ताः। स॒त्येन॑ रे॒वतीः॑ क्ष॒त्रँ ह॒विरिन्द्रे॒ वयो॑ दधुः ॥२८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
शै॒शि॒रेण॑। ऋ॒तुना॑। दे॒वाः। त्र॒य॒स्त्रिँ॒श इति॑ त्रयःऽत्रिँ॒शे। अ॒मृताः॑। स्तु॒ताः। स॒त्येन॑। रे॒वतीः॑। क्ष॒त्रम्। ह॒विः। इन्द्रे॑। वयः॑। द॒धुः॒। २८।
महीधरः
म० होता यक्षत्समिधाग्निमिति प्रयाजप्रैषास्त्रिपशोः’ (का० १९ । ६ । १४)। होता यक्षत्समिधाग्निमिडस्पद इत्यादयो द्वादश कण्डिकास्त्रिपशोः प्रयाजप्रैषाः स्युः । द्वादशाप्रीणां प्रयाजयाज्यानां प्रैषा अश्विसरस्वतीन्द्रदेवत्याः आद्या अष्टिः । दैव्यो होता समिधा प्रयाजदेवत्या सह अग्निमश्विना अश्विनौ इन्द्रं सरस्वती च इडः पदे गोपदे आहवनीये यक्षत् यजतु । | गोपदे स्थाप्यत इत्यभिप्रायेणेदं वचनम् । तत्र यागे अजो धूम्रो मेषश्च गोधूमैः कुवलैः बदरैः शष्पैः अङ्कुरितव्रीहिभिश्च सहितो भेषजमौषधं भवति । नकारौ चार्थौ । इन्द्रायेति शेषः । कीदृशं भेषजम् । मधु मधुरं तेजः तेजःप्रदमिन्द्रियमिन्द्रियसामर्थ्यप्रदम् । किंच ते अश्विसरस्वतीन्द्रा दैव्येन होत्रेज्यमानाः सन्तः पयः परिस्रुता मदिरया सह सोमः सोमं घृतं मधु च व्यन्तु पिबन्तु । सोम इति विभक्तिव्यत्ययः । सर्वत्र हे होतर्मनुष्यहोतः, त्वमपि आज्यस्य यज । कर्मणि षष्ठी । यजतिर्दानार्थः । अंश्व्यादिभ्य आज्यं देहीत्यर्थः ॥ २९ ॥
त्रिंशी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- स्वस्त्यात्रेय ऋषिः
- भुरिगनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (अमृताः) अपने स्वरूप से नित्य (स्तुताः) प्रशंसा के योग्य (शैशिरेण, ऋतुना) प्राप्त होने योग्य शिशिर ऋतु से (देवाः) दिव्य गुण-कर्म-स्वभाववाले (सत्येन) सत्य के साथ (त्रयस्त्रिंशे) तेंतीस वसु आदि के समुदाय में विद्वान् लोग (रेवतीः) धनयुक्त शत्रुओं की सेनाओं को कूद के जानेवाली प्रजाओं और (इन्द्रे) जीव में (हविः) देने-लेने योग्य (क्षत्रम्) धन वा राज्य और (वयः) वाञ्छित सुख को (दधुः) धारण करें, उन से पृथिवी आदि की विद्याओं का ग्रहण करो ॥२८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो लोग पीछे कहे हुए आठ वसु, एकादश रुद्र, द्वादश आदित्य, बिजुली और यज्ञ इन तेंतीस दिव्य पदार्थों को जानते हैं, वे अक्षय सुख को प्राप्त होते हैं ॥२८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! येऽमृताः स्तुताः शैशिरेणर्त्तुना देवाः सत्येन सह त्रयस्त्रिंशे विद्वांसो रेवतीरिन्द्रे हविः क्षत्रं वयश्च दधुस्तेभ्यो भूम्यादिविद्या गृह्णीत ॥२८
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये पूर्वोक्तानष्टौ वसूनेकादश रुद्रान् द्वादशाऽऽदित्यान् विद्युतं यज्ञं चेमान् त्रयस्त्रिंशद् दिव्यान् पदार्थान् जानन्ति, तेऽक्षय्यं सुखमाप्नुवन्ति ॥२८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे लोक पूर्वी कथन केल्याप्रमाणे आठ वसू, अकरा रुद्र, बारा आदित्य, विद्युत व यज्ञ या तेहतीस दिव्य पदार्थांना जाणतात ते चिरकाल सुख प्राप्त करतात.
२९ होता यक्षत्समिधाऽग्निमिडस्पदेऽश्विनेन्द्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
होता॑ यक्षत्स॒मिधा॒ऽग्निमि॒डस्प॒दे᳙ऽश्विनेन्द्रँ॒ सर॑स्वतीम॒जो धू॒म्रो न गो॒धूमैः॒ कुव॑लैर्भेष॒जं मधु॒ शष्पै॒र्न तेज॑ऽइन्द्रि॒यं पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥२९ ॥
मूलम् ...{Loading}...
होता॑ यक्षत्स॒मिधा॒ऽग्निमि॒डस्प॒दे᳙ऽश्विनेन्द्रँ॒ सर॑स्वतीम॒जो धू॒म्रो न गो॒धूमैः॒ कुव॑लैर्भेष॒जं मधु॒ शष्पै॒र्न तेज॑ऽइन्द्रि॒यं पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥२९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
होता॑। य॒क्ष॒त्। स॒मिधेति॑ स॒म्ऽइधा॑। अ॒ग्निम्। इ॒डः। प॒दे। अ॒श्विना॑। इन्द्र॑म्। सर॑स्वतीम्। अ॒जः। धू॒म्रः। न। गो॒धूमैः॑। कुव॑लैः। भे॒ष॒जम्। मधु॑। शष्पैः॑। न। तेजः॑। इ॒न्द्रि॒यम्। पयः॑। सोमः॑। प॒रि॒स्रुतेति॑ परि॒ऽस्रुता॑। घृ॒तम्। मधु॑। व्यन्तु॑। आज्यस्य॑। होतः॑। यज॑। २९।
महीधरः
म० एकाधिका अत्यष्टिः । तनूनपादिति प्रथमा द्वितीयार्थे । इन्द्रायेति चतुर्थी द्वितीयार्थे । नकारश्चार्थः । दैव्यो होता तनूनपातं प्रयाजदेवं सरस्वतीमश्विनौ इन्द्रं च यजतु । तत्र यागे अविः अजः मेषश्च । नश्चार्थे । मधुमता रसवता पथा यज्ञमार्गेण भरन् आत्मानं हरन् सन् बदरर्बदरीफलैः । उपवाकाभिरिन्द्रयवैः तोक्मभिरङ्कुरितव्रीहिभिर्यवैर्वा सहितो वीर्यं वीर्यकरं भेषजं भवति । अश्विसरस्वतीन्द्रा दैव्येन होत्रेज्यमानाः पयआदीनि व्यन्तु । हे होतः, त्वमपि आज्यस्य यज आज्यं देहि ॥ ३०॥
एकत्रिंशी।
अधिमन्त्रम् (VC)
- अग्न्यश्वीन्द्रसरस्वत्याद्या लिङ्गोक्ता देवताः
- स्वस्त्यात्रेय ऋषिः
- निचृदष्टिः
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (होतः) यज्ञ करने हारे जन ! जैसे (होता) देनेवाला (इडस्पदे) पृथिवी और अन्न के स्थान में (समिधा) इन्धनादि साधनों से (अग्निम्) अग्नि को (अश्विना) सूर्य और चन्द्रमा (इन्द्रम्) ऐश्वर्य वा जीव और (सरस्वतीम्) सुशिक्षायुक्त वाणी को (अजः) प्राप्त होने योग्य (धूम्रः) धुमैले मेढ़े के (न) समान कोई जीव (गोधूमैः) गेहूँ और (कुवलैः) जिन से बल नष्ट हो, उन बेरों से (भेषजम्) औषध को (यक्षत्) सङ्गत करे, वैसे (शष्पैः) हिंसाओं के (न) समान साधनों से जो (तेजः) प्रगल्भपन (मधु) मधुर जल (इन्द्रियम्) धन (पयः) दूध वा अन्न (परिस्रुता) सब ओर से प्राप्त हुए रस के साथ (सोमः) औषधियों का समूह (घृतम्) घृत (मधु) और सहत (व्यन्तु) प्राप्त हों, उनके साथ (आज्यस्य) घी का (यज) होम कर ॥२९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। जो लोग इस संसार में साधन और उपसाधनों से पृथिवी आदि की विद्या को जानते हैं, वे सब उत्तम पदार्थों को प्राप्त होते हैं ॥२९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे होतर्यथा होतेडस्पदे समिधाग्निमश्विनेन्द्रं सरस्वतीमजो धूम्रो न कश्चिज्जीवो गोधूमैः कुवलैर्भेषजं यक्षत्तथा शष्पैर्न यानि तेजो मध्विन्द्रियं पयः परिस्रुता स सोमो घृतं मधु व्यन्तु, तैः सह वर्त्तमानमाज्यस्य यज ॥२९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। येऽस्य संसारस्य मध्ये साधनोपसाधनैः पृथिव्यादिविद्यां जानन्ति, ते सर्व उत्तमान् पदार्थान् प्राप्नुवन्ति ॥२९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहे. जे लोक या जगात साधनांनी व उपसाधनांनी पृथ्वीची विद्या जाणतात त्यंना सर्व उत्तम पदार्थ प्राप्त होतात.
३० होता यक्षत्तनूनपात्सरस्वतीमविर्मेषो
विश्वास-प्रस्तुतिः ...{Loading}...
होता॑ यक्ष॒त्तनू॒नपा॒त्सर॑स्वती॒मवि॑र्मे॒षो न भे॑ष॒जं प॒था मधु॑मता॒ भर॑न्न॒श्विनेन्द्रा॑य वी॒र्यं᳙ बद॑रैरुप॒वाका॑भिर्भेष॒जं तोक्म॑भिः॒ पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥३० ॥
मूलम् ...{Loading}...
होता॑ यक्ष॒त्तनू॒नपा॒त्सर॑स्वती॒मवि॑र्मे॒षो न भे॑ष॒जं प॒था मधु॑मता॒ भर॑न्न॒श्विनेन्द्रा॑य वी॒र्यं᳙ बद॑रैरुप॒वाका॑भिर्भेष॒जं तोक्म॑भिः॒ पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥३० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
होता॑। य॒क्ष॒त्। तनू॒नपा॒दिति॒ तनू॒ऽनपा॑त्। सर॑स्वतीम्। अविः॑। मे॒षः। न। भे॒ष॒जम्। प॒था। मधु॑म॒तेति॒ मधु॑ऽमता। भर॑न्। अ॒श्विना॑। इन्द्रा॑य। वी॒र्य᳙म्। बद॑रैः। उ॒प॒वाका॑भि॒रित्यु॑प॒ऽवाका॑भिः। भे॒ष॒जम्। तोक्म॑भि॒रिति॒ तोक्म॑ऽभिः। पयः॑। सोमः॑। प॒रि॒स्रुतेति॑ परि॒ऽस्रुता॑। घृ॒तम्। मधु॑। व्यन्तु॑। आज्य॑स्य। होतः॑। यज॑। ३०।
महीधरः
म० दैव्यो होता नराशंसं प्रयाजदेवं सरस्वती सरस्वतीं भिषक् भिषजोः अश्विनोः रथः रथंच यक्षत् यजतु । कीदृशो रथः । चन्द्री चन्द्रं सुवर्णमस्मिन्नस्तीति चन्द्री सुवर्णमयः। रथस्य यागोऽश्विनोरेव । तदुक्तम् ‘आयुधं वाहनं वापि स्तुतौ यस्येह दृश्यते । तमेव तत्स्तुतं विन्द्यात्तस्यात्मा बहुधा हि सः’ इति । सरस्वतीरथयोः प्रथमा द्वितीयार्थे । भिषजि । प्रथमा षष्ठ्यर्थे । तत्र सुरया सह नग्नहुं नग्नहुः किण्वः मेषः वपाः ॥ बहुत्वात्त्रिपशुसंबन्धिन्यो वपाः बदरैः उपवाकाभिर्यवैः तोक्मभिश्च व्रीहिभिः सहिता इन्द्रस्य वीर्यकरं भेषजं भवतु । अश्व्यादयः पयआदीनि पिबन्तु । हे होतः, आज्यस्य यज देहि। कीदृशं नराशंसम् । पतिं पालकम् । नग्नहुः सुराकन्दः । नकारौ चार्थौ । द्वितीयो भेषजशब्द आर्षः ॥ ३१ ॥
द्वात्रिंशी।
अधिमन्त्रम् (VC)
- अश्व्यादयो लिङ्गोक्ता देवताः
- स्वस्त्यात्रेय ऋषिः
- भुरिगत्यष्टिः
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (होतः) हवनकर्त्ता जन ! जैसे (तनूनपात्) देह की ऊनता को पालने अर्थात् उस को किसी प्रकार पूरी करने और (होता) ग्रहण करनेवाला जन (सरस्वतीम्) बहुत ज्ञानवाली वाणी को वा (अविः) भेड़ और (मेषः) बकरा के (न) समान (मधुमता) बहुत जलयुक्त (पथा) मार्ग से (भेषजम्) औषध को (भरन्) धारण करता हुआ (इन्द्राय) ऐश्वर्य के लिए (अश्विना) सूर्य-चन्द्रमा और (वीर्यम्) पराक्रम को वा (बदरैः) बेर और (उपवाकाभिः) उपदेशरूप क्रियाओं से (भेषजम्) औषध को (यक्षत्) सङ्गत करे, वैसे जो (तोक्मभिः) सन्तानों के साथ (पयः) जल और (परिस्रुता) सब ओर से प्राप्त हुए रस के साथ (सोमः) औषधियों के समूह (घृतम्) घृत और (मधु) सहत (व्यन्तु) प्राप्त हों, उनके साथ वर्त्तमान तू (आज्यस्य) घी का (यज) हवन कर ॥३० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। जो सङ्गति करने हारे जन विद्या और उत्तम शिक्षायुक्त वाणी को प्राप्त हो के पथ्याहार-विहारों से पराक्रम बढ़ा और पदार्थों के ज्ञान को प्राप्त होके ऐश्वर्य को बढ़ाते हैं, वे जगत् के भूषक होते हैं ॥३० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे होतर्यथा तनूनपाद्धोता सरस्वतीमविर्मेषो न मधुमता पथा भेषजं भरन्निन्द्रायाऽश्विना वीर्यं बदरैरुपवाकाभिर्भेषजं यक्षत्तथा यानि तोक्मभिः पयः परिस्रुता सह सोमो घृतं मधु च व्यन्तु तैस्सह वर्त्तमानस्त्वमाज्यस्य यज ॥३० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। ये सङ्गन्तारो विद्यासुशिक्षासहितां वाचं प्राप्य पथ्याहारविहारैर्वीर्यं वर्द्धयित्वा पदार्थविज्ञानं प्राप्यैश्वर्यं वर्धयन्ति, ते जगद्भूषका भवन्ति ॥३० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहे. जे लोक विद्या व उत्तम संस्कारित वाणीने युक्त होऊन आहार, विहार व पथ्य यांनी पराक्रमी बनून पदार्थांचे ज्ञान प्राप्त करून ऐश्वर्य वाढवितात ते जगात भूषणावह ठरतात.
३१ होता यक्षन्नराशंसम्
विश्वास-प्रस्तुतिः ...{Loading}...
होता॑ यक्ष॒न्नरा॒शँसं॒ न न॒ग्नहुं॒ पतिँ॒ सुर॑या भेष॒जं मे॒षः सर॑स्वती भि॒षग्रथो॒ न च॒न्द्र्य᳙श्विनो॑र्व॒पा इन्द्र॑स्य वी॒र्यं᳙ बद॑रैरुप॒वाका॑भिर्भेष॒जं तोक्म॑भिः॒ पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥३१ ॥
मूलम् ...{Loading}...
होता॑ यक्ष॒न्नरा॒शँसं॒ न न॒ग्नहुं॒ पतिँ॒ सुर॑या भेष॒जं मे॒षः सर॑स्वती भि॒षग्रथो॒ न च॒न्द्र्य᳙श्विनो॑र्व॒पा इन्द्र॑स्य वी॒र्यं᳙ बद॑रैरुप॒वाका॑भिर्भेष॒जं तोक्म॑भिः॒ पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥३१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
होता॑। य॒क्ष॒त्। न॒रा॒शँस॑म्। न। न॒ग्नहु॑म्। पतिम्। सुर॑या। भे॒ष॒जम्। मेषः॒। सर॑स्वती। भि॒षक्। रथः॑। न। च॒न्द्री। अश्विनोः॑। व॒पाः। इन्द्र॑स्य। वी॒र्य᳙म्। बद॑रैः। उ॒प॒वाका॑भि॒रित्यु॑प॒ऽवाका॑भिः। भे॒ष॒जम्। तोक्म॑भि॒रिति॒ तोक्म॑ऽभिः। पयः॑। सोमः॑। प॒रिस्रु॒तेति॑ परि॒ऽस्रुता॑। घृ॒तम्। मधु॑। व्यन्तु॑। आज्य॑स्य। होतः॑। यज॑। ३१।
महीधरः
म० दैव्यो होता इडा इडां प्रयाजदेवतां सरस्वतीमिन्द्रमश्विना अश्विनौ च यक्षत् यजतु । किं कुर्वन् । ऋषभेण गवा च धेन्वा च बलेन वर्धयन् इडादीन् समर्धयन् यजतु । कीदृशो होता । ईडितः ऋत्विग्भिः स्तुतः । आजुह्वानः इडादीनाह्वयन् । तत्र यवैः लाजैश्च सहितं मधु मासरमोदनं निःस्रावं च इन्द्राय इन्द्रियं वीर्यकरं भेषजं भवति । अश्विसरस्वतीन्द्रा होत्रेज्यमानाः पयआदीनि पिबन्तु । हे होतः, त्वं च यज ॥ ३२॥
त्रयस्त्रिंशी।
अधिमन्त्रम् (VC)
- अश्व्यादयो देवताः
- स्वस्त्यात्रेय ऋषिः
- अतिधृतिः
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (होतः) हवनकर्त्ता जन ! जैसे (होता) देनेवाला (नराशंसम्) जो मनुष्यों से स्तुति किया जाये उसके (न) समान (नग्नहुम्) नग्न दुष्ट पुरुषों को कारागृह में डालनेवाले (पतिम्) स्वामी वा (सुरया) जल के साथ (भेषजम्) औषध को वा (इन्द्रस्य) दुष्टगण का विदारण करने हारे जन के (वीर्यम्) शूरवीरों में उत्तम बल को (यक्षत्) सङ्गत करे तथा (मेषः) उपदेश करनेवाला (सरस्वती) विद्यासंबन्धिनी वाणी (भिषक्) वैद्य और (रथः) रथ के (न) समान (चन्द्री) बहुत सुवर्णवाला जन (अश्विनोः) आकाश और पृथिवी के मध्य (वपाः) क्रियाओं को वा (बदरैः) बेरों के समान (उपवाकाभिः) समीप प्राप्त हुई वाणियों के साथ (भेषजम्) औषध को सङ्गत करे, वैसे जो (तोक्मभिः) सन्तानों के साथ (पयः) दूध (परिस्रुता) सब ओर से प्राप्त हुए रस के साथ (सोमः) ओषधिगण (घृतम्) घी और (मधु) सहत (व्यन्तु) प्राप्त होवें, उनके साथ वर्त्तमान तू (आज्यस्य) घी का (यज) हवन कर ॥३१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। जो लोग लज्जाहीन पुरुषों को दण्ड देते, स्तुति करने योग्यों की स्तुति और जल के साथ औषध का सेवन करते हैं, वे बल और नीरोगता को पाके ऐश्वर्यवाले होते हैं ॥३१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे होतर्यथा होता नराशंसं न नग्नहुं पतिं सुरया सह वर्त्तमानं भेषजमिन्द्रस्य वीर्यं यक्षत्मेषः सरस्वती भिषग्रथो न चन्द्र्यश्विनोर्वपा बदरैरुपवाकाभिः सह भेषजं यक्षत्तथा यानि तोक्मभिः सह पयः परिस्रुता सह सोमो घृतं मधु च व्यन्तु, तैः सह वर्त्तमानस्त्वमाज्यस्य यज ॥३१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। ये निर्लज्जान् दण्डयन्ति, प्रशंसनीयान् स्तुवन्ति, जलेन सहौषधं सेवन्ते, ते बलाऽऽरोग्ये प्राप्यैश्वर्यवन्तो जायन्ते ॥३१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहे. जे लोक निर्लज्ज माणसांना शिक्षा करतात व स्तुती करण्यायोग्य माणसांची स्तुती करतात, तसेच पाण्याबरोबर औषधांचे सेवन करतात ते बलवान व निरोगी बनून ऐश्वर्यप्राप्ती करतात.
३२ होता यक्षदिडेडितऽआ
विश्वास-प्रस्तुतिः ...{Loading}...
होता॑ यक्षदि॒डेडि॒तऽआ॒ जु॒ह्वा॑नः॒ सर॑स्वती॒मिन्द्रं बले॑न व॒र्धय॑न्नृष॒भेण॒ गवे॑न्द्रि॒यम॒श्विनेन्द्रा॑य भेष॒जं यवैः॑ क॒र्कन्धु॑भि॒र्मधु॑ ला॒जैर्न मास॑रं॒ पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥३२ ॥
मूलम् ...{Loading}...
होता॑ यक्षदि॒डेडि॒तऽआ॒ जु॒ह्वा॑नः॒ सर॑स्वती॒मिन्द्रं बले॑न व॒र्धय॑न्नृष॒भेण॒ गवे॑न्द्रि॒यम॒श्विनेन्द्रा॑य भेष॒जं यवैः॑ क॒र्कन्धु॑भि॒र्मधु॑ ला॒जैर्न मास॑रं॒ पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥३२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
होता॑। य॒क्ष॒त्। इ॒डा। ई॒डि॒तः। आ॒जुह्वा॑न॒ इत्या॒ऽजुह्वा॑नः। सर॑स्वतीम्। इन्द्र॑म्। बले॑न। व॒र्धय॑न्। ऋ॒ष॒भेण॑। गवा॑। इ॒न्द्रि॒यम्। अ॒श्विना॑। इन्द्रा॑य। भे॒ष॒जम्। यवैः॑। क॒र्कन्धु॑भि॒रिति॑ क॒र्कन्धु॑ऽभिः। मधु॑। ला॒जैः। न। मास॑रम्। पयः॑। सोमः॑। प॒रि॒स्रुतेति॑ परि॒ऽस्रुता॑। घृ॒तम्। मधु॑। व्यन्तु॑। आज्य॑स्य। होतः॑। यज॑। ३२।
महीधरः
म० दैव्यो होता ऊर्णम्रदाः ऊर्णमिव म्रदीयः बर्हिः प्रयाजदेवम् । भिषजा भिषजौ वैद्यौ । नासत्या न असत्यौ सत्यरूपौ अश्विना अश्विनौ । सरस्वती सरस्वतीं च यक्षत् यजतु । तत्र शिशुमती बालकोपेता अश्वा वडवा भिषक् धेनुः भिषक् च इन्द्राय भेषजमौषधं दुहे दुग्धे पूरयति । अश्वादयो दक्षिणा दीयन्ते । ‘लोपस्त आत्मनेपदेषु’ (पा. ७।१।४१) इति तलोपः । ते पयआदीनि व्यन्तु होतर्यज ॥ ३३ ॥
चतुस्त्रिंशी।
अधिमन्त्रम् (VC)
- सरस्वत्यादयो देवताः
- स्वस्त्यात्रेय ऋषिः
- विराडतिधृतिः
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (होतः) हवनकर्त्ता जन ! जैसे (इडा) स्तुति करने योग्य वाणी से (ईडितः) प्रशंसायुक्त (आजुह्वानः) सत्कार से आजुह्वान किया गया (होता) प्रशंसा करने योग्य मनुष्य (बलेन) बल से (सरस्वतीम्) वाणी और (इन्द्रम्) ऐश्वर्य को (ऋषभेण) चलने योग्य उत्तम (गवा) बैल से (इन्द्रियम्) धन तथा (अश्विना) आकाश और पृथिवी को (यवैः) यव आदि अन्नों से (इन्द्राय) ऐश्वर्य के लिये (भेषजम्) औषध को (वर्द्धयन्) बढ़ाता हुआ (कर्कन्धुभिः) बेर की क्रिया को धारण करनेवालों से (मधु) मीठे (लाजैः) प्रफुल्लित अन्नों के (न) समान (मासरम्) भात को (यक्षत्) सङ्गत करे, वैसे जो (परिस्रुता) सब ओर से प्राप्त हुए रस के साथ (सोमः) ओषधिसमूह (पयः) रस (घृतम्) घी (मधु) और सहत (व्यन्तु) प्राप्त होवें, उनके साथ वर्त्तमान तू (आज्यस्य) घी का (यज) होम कर ॥३२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुतोपमालङ्कार हैं। मनुष्य ब्रह्मचर्य्य से शरीर और आत्मा के बल को तथा विद्वानों की सेवा विद्या और पुरुषार्थ से ऐश्वर्य को प्राप्त हो पथ्य और औषध के सेवन से रोगों का विनाश कर नीरोगता को प्राप्त हों ॥३२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे होतर्य इडेडित आजुह्वानो होता बलेन सरस्वतीमिन्द्रमृषभेण गवेन्द्रियमश्विना यवैरिन्द्राय भेषजं वर्द्धयन् कर्कन्धुभिर्मधु लाजैर्न मासरं यक्षत्तथा यानि परिस्रुता सह सोमः पयो घृतं मधु व्यन्तु तैस्सह वर्त्तमानस्त्वमाज्यस्य यज ॥३२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोमलङ्कारौ। मनुष्या ब्रह्मचर्य्येण शरीरात्मबलं विद्वत्सेवया विद्यापुरुषार्थेनैश्वर्य्यं प्राप्य पथ्यौषधसेवनाभ्यां रोगान् हत्वारोग्यमाप्नुयुः ॥३२।
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. माणसांनी ब्रह्मचर्याने शरीर व आत्म्याचे बल वाढवावे. विद्वानांची सेवा करावी. विद्या व पुरुषार्थ यांच्याद्वारे ऐश्वर्य प्राप्त करून घ्यावे. पथ्य करून औषधांचे सेवन करावे व रोगांचा नाश करून निरोगी बनावे.
३३ होता यक्षद्
विश्वास-प्रस्तुतिः ...{Loading}...
होता॑ यक्षद् ब॒र्हि॒रूर्ण॑म्रदा भि॒षङ् नास॑त्या भि॒षजा॒श्विनाश्वा॒ शिशु॑मती भि॒षग्धे॒नुः सर॑स्वती भि॒षग्दु॒हऽइन्द्रा॑य भेष॒जं पयः॒ सोमः॑ परि॒स्रु॒ता घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥३३ ॥
मूलम् ...{Loading}...
होता॑ यक्षद् ब॒र्हि॒रूर्ण॑म्रदा भि॒षङ् नास॑त्या भि॒षजा॒श्विनाश्वा॒ शिशु॑मती भि॒षग्धे॒नुः सर॑स्वती भि॒षग्दु॒हऽइन्द्रा॑य भेष॒जं पयः॒ सोमः॑ परि॒स्रु॒ता घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥३३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
होता॑। य॒क्ष॒त्। ब॒र्हिः। ऊर्ण॑म्रदा॒ इत्यूर्ण॑ऽम्रदाः। भि॒षक्। ना॑सत्या। भि॒षजा॑। अ॒श्विना॑। अश्वा॑। शिशु॑म॒तीति॒ शिशु॑ऽमती। भि॒षक्। धे॒नुः। सर॑स्वती। भि॒षक्। दु॒हे। इन्द्रा॑य। भे॒ष॒जम्। पयः॑। सोमः॑। प॒रि॒स्रु॒तेति॑ परि॒ऽस्रुता॑। घृ॒तम्। मधु॑। व्यन्तु॑। आज्य॑स्य। होतः॑। यज॑। ३३।
महीधरः
म० दैव्यो होता दुरो द्वारः प्रयाजदेवीः इन्द्रः इन्द्रं सरस्वती सरस्वतीं अश्विना अश्विनौ च यक्षत् यजतु । नकाराश्चार्थाः । द्वारशब्दस्य संप्रसारणम् । कीदृशीः द्वारः । दिशः दिश इव सावकाशाः कवष्यः ससुषिराः । अतएव व्यचस्वतीः व्यचो व्यञ्चनं गमनं विद्यते यासु ताः गमनवत्यः । दिशो दिक्तुल्या दुरो द्वारः अश्विभ्यां सहिताः सत्यो रोदसी द्यावापृथिव्यौ इन्द्राय भेषजमौषधं दुहे दुग्धे । कीदृश्यों रोदसी । दुधे ‘दुहः कव्घश्च’ (पा० ३ । २ । ७० ) इति हकारस्य घकारः । दुहे इत्यत्र तलोपश्च वचनव्यत्ययः । दुहते। रोदसीभ्यां सकाशादिन्द्रायौषधं दुहते इत्यर्थः । ‘अकथितं च’ (पा० १ । ४ । ५१) इति द्विकर्मकत्वम् । सरस्वती च धेनुर्भूत्वा इन्द्राय शुक्रं शुक्लं शुद्धं ज्योतिरिन्द्रियं वीर्यं च दुहे दुग्धे । अन्यद्व्याख्यातम् ॥ ३४ ॥
पञ्चत्रिंशी।
अधिमन्त्रम् (VC)
- अश्व्यादयो देवताः
- स्वस्त्यात्रेय ऋषिः
- निचृदष्टिः
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (होतः) हवन करनेहारे जन ! जैसे (होता) देने हारा (ऊर्णम्रदाः) ढाँपने हारों को मर्दन करनेवाले जन (भिषक्) वैद्य (शिशुमती) और प्रशंसित बालकोंवाली (अश्वा) शीघ्र चलनेवाली घोड़ी (दुहे) परिपूर्ण करने के लिए (बर्हिः) अन्तरिक्ष को (यक्षत्) सङ्गत करें वा जैसे (नासत्या) सत्यव्यवहार करने हारे (अश्विना) वैद्यविद्या में व्याप्त (भिषजा) उत्तम वैद्य मेल करें वा जैसे (भिषक्) रोग मिटाने और (धेनुः) दुग्ध देनेवाली गाय वा (सरस्वती) उत्तम विज्ञानवाली वाणी (भिषक्) सामान्य वैद्य (इन्द्राय) जीव के लिए मेल करें, वैसे जो (परिस्रुता) प्राप्त हुए रस के साथ (भेषजम्) जल (पयः) दूध (सोमः) ओषधिगण (घृतम्) घी (मधु) सहत (व्यन्तु) प्राप्त हों, उन के साथ वर्त्तमान तू (आज्यस्य) घी का (यज) हवन कर ॥३३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो मनुष्य विद्या और सङ्गति से सब पदार्थों से उपकार ग्रहण करें, तो वायु और अग्नि के समान सब विद्याओं के सुखों को व्याप्त होवें ॥३३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे होतर्यथा होतोर्णम्रदा भिषक्शिशुमत्यश्वा च दुहे बर्हिर्यक्षत्। नासत्याऽश्विना भिषजा यजेतां भिषग्धेनुः सरस्वती भिषगिन्द्राय यक्षत्तथा यानि परिस्रुता भेषजं पयः सोमो घृतं मधु व्यन्तु तैः सह वर्त्तमानस्त्वमाज्यस्य यज ॥३३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यदि मनुष्या विद्यासङ्गतिभ्यां सर्वेभ्यः पदार्थेभ्य उपकारान् गृह्णीयुस्तर्हि वाय्वग्निवत्सर्वविद्यासुखानि व्याप्नुयुः ॥३३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. अग्नी व वायू जसे सर्वत्र व्याप्त असतात, तसे जी माणसे विद्या व सत्संगाने सर्व पदार्थांचा यथायोग्य उपयोग करून घेतात त्यांना सर्व प्रकारचे सुख मिळते.
३४ होता यक्षद्
विश्वास-प्रस्तुतिः ...{Loading}...
होता॑ यक्ष॒द् दुरो॒ दिशः॑ कव॒ष्यो᳙ न व्यच॑स्वतीर॒श्विभ्यां॒ न दुरो॒ दिश॒ऽइन्द्रो॒ न रोद॑सी॒ दुघे॑ दु॒हे धे॒नुः सर॑स्वत्य॒श्विनेन्द्रा॑य भेष॒जँ शु॒क्रं न ज्योति॑रिन्द्रि॒यं पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥३४ ॥
मूलम् ...{Loading}...
होता॑ यक्ष॒द् दुरो॒ दिशः॑ कव॒ष्यो᳙ न व्यच॑स्वतीर॒श्विभ्यां॒ न दुरो॒ दिश॒ऽइन्द्रो॒ न रोद॑सी॒ दुघे॑ दु॒हे धे॒नुः सर॑स्वत्य॒श्विनेन्द्रा॑य भेष॒जँ शु॒क्रं न ज्योति॑रिन्द्रि॒यं पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥३४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
होता॑। य॒क्ष॒त्। दुरः॑। दिशः॑। क॒व॒ष्यः᳙। न। व्यच॑स्वतीः। अ॒श्विभ्या॒मित्य॒श्विऽभ्या॑म्। न। दुरः॑। दिशः॑। इन्द्रः॑। न। रोद॑सी॒ऽइति॒ रोद॑सी। दुघ॒ऽइति॒ दुघे॑। दु॒हे। धे॒नुः। सर॑स्वती। अ॒श्विना॑। इन्द्रा॑य। भे॒ष॒जम्। शु॒क्रम्। न। ज्योतिः॑। इ॒न्द्रि॒यम्। पयः॑। सोमः॑। प॒रि॒स्रुतेति॑ परि॒ऽस्रुता॑। घृ॒तम्। मधु॑। व्यन्तु॑। आज्य॑स्य। होतः॑। यज॑। ३४।
महीधरः
म० होता सुपेशसा सुरूपे उषे द्विवचनाद्रात्रिश्च नक्तोषे प्रयाजदेवौ सरस्वत्या सहितौ अश्विनौ च यक्षत् । तौ चाश्विनौ नक्तं दिवा दिने च रजसा ज्योतिषा । रजःशब्दो ज्योतिर्वचनः । हृदा चित्तेन श्रिया च सह मासरं भेषजं मासररूपमौषधं श्येनः श्येनपत्रं त्विषिं कान्तिं च इन्द्रे समञ्जाते संश्लेषयतः । नकाराश्चार्थाः । ते पयआदीनि व्यन्तु । हे होतः, त्वं यज ॥ ३५ ॥
षट्त्रिंशी।
अधिमन्त्रम् (VC)
- अश्व्यादयो देवताः
- स्वस्त्यात्रेय ऋषिः
- विराडतिधृतिः
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (होतः) देने हारे जन ! जैसे (होता) लेने हारा (कवष्यः) छिद्रसहित वस्तुओं के (न) समान (दुरः) द्वारों और (व्यचस्वतीः) व्याप्त होनेवाली (दिशः) दिशाओं को वा (अश्विभ्याम्) इन्द्र और अग्नि से जैसे (न) वैसे (दुरः) द्वारों और (दिशः) दिशाओं को वा (इन्द्रः) बिजुली के (न) समान (दुघे) परिपूर्णता करनेवाले (रोदसी) आकाश और पृथिवी के और (धेनुः) गाय के समान (सरस्वती) विज्ञानवाली वाणी (इन्द्राय) जीव के लिए (अश्विना) सूर्य और चन्द्रमा (शुक्रम्) वीर्य करनेवाले जल के (न) समान (भेषजम्) औषध तथा (ज्योतिः) प्रकाश करने हारे (इन्द्रियम्) मन आदि को (दुहे) परिपूर्णता के लिए (यक्षत्) सङ्गत करे, वैसे जो (परिस्रुता) सब ओर से प्राप्त हुए रस के साथ (पयः) दूध (सोमः) औषधियों का समूह (घृतम्) घी (मधु) और सहत (व्यन्तु) प्राप्त होवें, उनके साथ वर्त्तमान तू (आज्यस्य) घी का (यज) हवन किया कर ॥३४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस में उपमा और वाचकलुप्तोपमालङ्कार हैं। जो मनुष्य सब दिशाओं के द्वारोंवाले सब ऋतुओं में सुखकारी घर बनावें, वे पूर्ण सुख को प्राप्त होवें। इनके सब प्रकार के उदय के सुख की न्यूनता कभी नहीं होवे ॥३४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे होतर्यथा होता कवष्यो न दुरो व्यचस्वतीर्दिशोऽश्विभ्यां न दुरो दिश इन्द्रो न दुघे रोदसी धेनुः सरस्वतीन्द्रायाश्विना शुक्रं न भेषजं ज्योतिरिन्द्रियं दुहे यक्षत्तथा यानि परिस्रुता पयः सोमो घृतं मधु व्यन्तु तैः सह वर्त्तमानस्त्वमाज्यस्य यज ॥३४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। ये मनुष्याः सर्वदिग्द्वाराणि सर्वर्तुसुखकराणि गृहाणि निर्मिमीरंस्ते पूर्णसुखं प्राप्नुयुः। नैतेषामाभ्युदयिकसुखन्यूनता कदाचिज्जायेत ॥३४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहेत. जी माणसे सर्व दिशांना दरवाजे असणारी व सर्वऋतूमध्ये सुख देणारी अशी सुखदायक घरे बांधतात. त्यांना पूर्ण सुख प्राप्त होते. सर्व प्रकारे त्यांचा उत्कर्ष होतो. त्यांचे सुख कधीच कमी होत नाही.
३५ होता यक्षत्सुपेशसोषे
विश्वास-प्रस्तुतिः ...{Loading}...
होता॑ यक्षत्सु॒पेश॑सो॒षे नक्तं॒ दिवा॒श्विना॒ सम॑ञ्जाते॒ सर॑स्वत्या॒ त्विषि॒मिन्द्रे॒ न भे॑ष॒जँ श्ये॒नो न रज॑सा हृ॒दा श्रि॒या न मास॑रं॒ पयः॒ सोमः॑ परि॒स्रुता घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥३५ ॥
मूलम् ...{Loading}...
होता॑ यक्षत्सु॒पेश॑सो॒षे नक्तं॒ दिवा॒श्विना॒ सम॑ञ्जाते॒ सर॑स्वत्या॒ त्विषि॒मिन्द्रे॒ न भे॑ष॒जँ श्ये॒नो न रज॑सा हृ॒दा श्रि॒या न मास॑रं॒ पयः॒ सोमः॑ परि॒स्रुता घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥३५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
होता॑। य॒क्ष॒त्। सु॒पेश॒सेति॑ सु॒ऽपेश॑सा। उ॒षेऽइत्यु॒षे। नक्त॑म्। दिवा॑। अ॒श्विना॑। सम्। अ॒ञ्जा॒ते॒ऽइत्य॑ञ्जाते। सर॑स्वत्या। त्विषि॑म्। इन्द्रे॑। न। भे॒ष॒जम्। श्ये॒नः। न। रज॑सा। हृ॒दा। श्रि॒या। न। मास॑रम्। पयः॑। सोमः॑। प॒रि॒स्रुतेति॑ परि॒ऽस्रुता॑। घृ॒तम्। मधु॑। व्यन्तु॑। आज्य॑स्य। होतः॑। यज॑। ३५।
महीधरः
म०. दैव्यो होता दैव्या होतारा दैव्यौ होतारौ अयं अग्निरसौ च मध्यमः एतौ प्रयाजदेवौ भिषजौ वैद्यौ अश्विनौ इन्द्रं च यक्षत् यजतु । नौ चार्थौ । भिषग्भूता सरस्वती भेषजैः सह शूषं बलमिन्द्रियं वीर्यं च सीसेन कृत्वा दुहे दुग्धे । दुहेर्लट् - ‘लोपस्त आत्मनेपदेषु’ (पा० ७ । १ । ४१) । तलोपः ।
इन्द्रियार्थम् । कीदृशी सरस्वती । दिवानक्तमहोरात्रं जागृवि जागरणशीला स्वकार्यसिद्धावप्रमत्ता ‘सुपां सुलुक्’ (पा० ७ ।१ । ३९ )। सोर्लुक् तां च दैव्यो होता यजतु । अश्याौ दयः पयआदीनि व्यन्तु । हे होतः, त्वमपि यज ॥ ३६ ॥
सप्तत्रिंशी।
अधिमन्त्रम् (VC)
- अश्व्यादयो देवताः
- स्वस्त्यात्रेय ऋषिः
- भुरिगतिधृतिः
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (होतः) देनेहारे जन ! जैसे (सुपेशसा) सुन्दर स्वरूपवती (उषे) काम का दाह करनेवाली स्त्रियाँ (नक्तम्) रात्रि और (दिवा) दिन में (अश्विना) व्याप्त होनेवाले सूर्य और चन्द्रमा (सरस्वत्या) विज्ञानयुक्त वाणी से (इन्द्रे) परमैश्वर्यवान् प्राणी में (त्विषिम्) प्रदीप्ति और (भेषजम्) जल को (समञ्जाते) अच्छे प्रकार प्रकट करते हैं, उन के (न) समान और (रजसा) लोकों के साथ वर्त्तमान (श्येनः) विशेष ज्ञान करानेवाले विद्वान् के (न) समान (होता) लेने हारा (श्रिया) लक्ष्मी वा शोभा के (न) समान (हृदा) मन से (मासरम्) भात वा अच्छे संस्कार किये हुए भोजन के पदार्थों को (यक्षत्) सङ्गत करे, वैसे जो (परिस्रुता) सब ओर से प्राप्त हुए रस (पयः) सब औषधि का रस (सोमः) सब ओषधिसमूह (घृतम्) जल (मधु) सहत (व्यन्तु) प्राप्त होवें, उनके साथ वर्त्तमान तू (आज्यस्य) घी का (यज) हवन कर ॥३५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। हे मनुष्यो ! जैसे रात-दिन सूर्य और चन्द्रमा सब को प्रकाशित करते और सुन्दर रूप यौवन सम्पन्न स्वधर्मपत्नी अपने पति की सेवा करती वा जैसे पाकविद्या जाननेवाला विद्वान् पाककर्म का उपदेश करता है, वैसे सब का प्रकाश और सब कामों का सेवन करो और भोजन के पदार्थों को उत्तमता से बनाओ ॥३५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - होतर्यथा सुपेशसोषे नक्तं दिवाऽश्विना सरस्वत्येन्द्रे त्विषिं भेषजं समञ्जाते न च रजसा सह श्येनो न होता श्रिया न हृदा मासरं यक्षत्तथा यानि परिस्रुता पयः सोमो घृतं व्यन्तु तैः सह वर्त्तमानस्त्वमाज्यस्य यज ॥३५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। हे मनुष्याः ! यथाहर्निशं सूर्याचन्द्रमसौ सर्वं प्रकाशयतो, रूपयौवनसंपन्नाः पत्न्यः पतिं परिचरन्ति च, यथा वा पाकविद्याविद्विद्वान् पाककर्मोपदिशति, तथा सर्वप्रकाशं सर्वपरिचरणं च कुरुत भोजनपदार्थांश्चोत्तमतया निर्मिमीध्वम् ॥३५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचक लुप्तोपमालंकार आहेत. हे माणसांनो! सूर्य व चंद्र ज्याप्रमाणे दिवसा व रात्री सर्वांना प्रकाश देतात व सुंदर रूप यौवना पत्नी आपल्या पतीची सेवा करते व पाक कुशल विद्वान पाक क्रिया शिकवितो त्याप्रमाणे सर्वांकडून ज्ञान प्राप्त करा. भोजनासाठी उत्तम पदार्थ चांगल्या तऱ्हेने तयार करा.
३६ होता यक्षद्
विश्वास-प्रस्तुतिः ...{Loading}...
होता॑ यक्ष॒द् दैव्या॒ होता॑रा भि॒षजा॒श्विनेन्द्रं॒ न जागृ॑वि॒ दिवा॒ नक्तं॒ न भे॑ष॒जैः शूषँ॒ सर॑स्वती भि॒षक्सीसे॑न दु॒हऽइन्द्रि॒यं पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥३६ ॥
मूलम् ...{Loading}...
होता॑ यक्ष॒द् दैव्या॒ होता॑रा भि॒षजा॒श्विनेन्द्रं॒ न जागृ॑वि॒ दिवा॒ नक्तं॒ न भे॑ष॒जैः शूषँ॒ सर॑स्वती भि॒षक्सीसे॑न दु॒हऽइन्द्रि॒यं पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥३६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
होता॑। य॒क्ष॒त्। दैव्या॑। होता॑रा। भि॒षजा॑। अ॒श्विना॑। इन्द्र॑म्। न। जागृ॑वि। दिवा॑। नक्त॑म्। न। भे॒ष॒जैः। शूष॑म्। सर॑स्वती। भि॒षक्। सीसे॑न। दु॒हे॒। इ॒न्द्रि॒यम्। पयः॑। सोमः॑। प॒रि॒स्रुतेति॑ परि॒ऽस्रुता॑। घृ॒तम्। मधु॑। व्यन्तु॑। आज्य॑स्य। होतः॑। यज॑। ३६।
महीधरः
म० नौ चार्थौ । दैव्यो होता । इडा भारती सरस्वती चेति तिस्रो देवीः प्रयाजदेवीः इन्द्रे इन्द्रमश्विना अश्विनौ च यक्षत् यजतु । या सरस्वती वाचा त्रयीलक्षणया भेषजमौषधं हिरण्ययं द्योतमानं रूपं च महस्तेजश्च इन्द्रियं चेन्द्राय इन्द्रार्थं । दुहे दुग्धे । कैः कृत्वा । त्रयस्त्रिधातवः त्रिभिः पशुभिः । तृतीयार्थे प्रथमा । त्रयो धातवः प्रधानाङ्गोपाङ्गलक्षणाः प्रकारा येषां ते त्रिधातवः पशवः । ते च त्रयः आश्विनो धूम्रः सारस्वतो मेषः ऐन्द्र ऋषभः । कीदृशाः पशवः । अपसः । अप इति कर्मनाम विनो लोपः । अपस्विनः कर्मवन्तः । त्रिभिः पशुभिर्भेषजरूपेन्द्रियमहांसि इन्द्राय दुग्धे । तेऽश्यालोदयः पयआदीनि पिबन्तु। हे होतः, त्वमप्याज्यस्य यज घृतं देहि ॥ ३७ ॥
अष्टत्रिंशी।
अधिमन्त्रम् (VC)
- अश्व्यादयो देवताः
- स्वस्त्यात्रेय ऋषिः
- निचृदष्टिः
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (होतः) देने हारे जन ! जैसे (होता) लेनेहारा (दैव्या) दिव्य गुणवालों में प्राप्त (होतारा) ग्रहण करने और (भिषजा) वैद्य के समान रोग मिटानेवाले (अश्विना) अग्नि और वायु को (इन्द्रम्) बिजुली के (न) समान (यक्षत्) सङ्गत करे वा (दिवा) दिन और (नक्तम्) रात्रि में (जागृवि) जागती अर्थात् काम के सिद्ध करने में अतिचैतन्य (सरस्वती) वैद्यकशास्त्र जाननेवाली उत्तम ज्ञानवती स्त्री और (भिषक्) वैद्य (भेषजैः) जलों और (सीसेन) धनुष के विशेष व्यवहार से (शूषम्) बल के (न) समान (इन्द्रियम्) धन को (दुहे) परिपूर्ण करते हैं, वैसे जो (परिस्रुता) सब ओर से प्राप्त हुए रस के साथ (पयः) दुग्ध (सोमः) ओषधिगण (घृतम्) घी (मधु) सहत (व्यन्तु) प्राप्त होवें, उनके साथ वर्त्तमान (आज्यस्य) घी का (यज) हवन कर ॥३६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। हे विद्वान् लोगो ! जैसे अच्छी वैद्यक-विद्या पढ़ी हुई स्त्री काम सिद्ध करने को दिन-रात उत्तम यत्न करती हैं वा जैसे वैद्य लोग रोगों को मिटाके शरीर का बल बढ़ाते हैं, वैसे रहके सब को आनन्दयुक्त होना चाहिए ॥३६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे होतर्यथा होता दैव्या होतारा भिषजाश्विनेन्द्रं न यक्षत्दिवा नक्तं जागृवि सरस्वती भिषग् भेषजैः सीसेन शूषं न इन्द्रियं दुहे तथा यानि परिस्रुता पयः सोमो घृतं मधु व्यन्तु तैः सह वर्त्तमानस्त्वमाज्यस्य यज ॥३६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। हे विद्वांसः ! यथा सद्वैद्याः स्त्रियः कार्य्याणि साधयितुमहर्निशं प्रयतन्ते तथा वा वैद्या रोगान्निवार्य्य शरीरबलं वर्धयन्ति तथा वर्त्तित्वा सर्वैरानन्दितव्यम् ॥३६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहेत. हे विद्वानांनो ! जशी उत्तम वैद्या वैद्यक शास्राप्रमाणे रात्रंदिवस काम करण्याचा प्रयत्न करते किंवा जसे वैद्य लोक रोग नष्ट करून शरीराचे बल वाढवितात तसे आचरण करून सर्वांनी आनंदी बनावे.
३७ होता यक्षत्तिस्रो
विश्वास-प्रस्तुतिः ...{Loading}...
होता॑ यक्षत्ति॒स्रो दे॒वीर्न भे॑ष॒जं त्रय॑स्त्रि॒धात॑वो॒ऽपसो॑ रू॒पमिन्द्रे॑ हिर॒ण्यय॑म॒श्विनेडा॒ न भार॑ती वा॒चा सर॑स्वती॒ मह॒ऽइन्द्रा॑य दु॒हऽइ॑न्द्रि॒यं पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥३७ ॥
मूलम् ...{Loading}...
होता॑ यक्षत्ति॒स्रो दे॒वीर्न भे॑ष॒जं त्रय॑स्त्रि॒धात॑वो॒ऽपसो॑ रू॒पमिन्द्रे॑ हिर॒ण्यय॑म॒श्विनेडा॒ न भार॑ती वा॒चा सर॑स्वती॒ मह॒ऽइन्द्रा॑य दु॒हऽइ॑न्द्रि॒यं पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥३७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
होता॑। य॒क्ष॒त्। ति॒स्रः। दे॒वीः। न। भे॒ष॒जम्। त्रयः॑। त्रि॒धात॑व॒ इति॑ त्रि॒ऽधात॑वः। अ॒पसः॑। रू॒पम्। इन्द्रे॑। हि॒र॒ण्यय॑म्। अ॒श्विना॑। इडा॑। न। भार॑ती। वा॒चा। सर॑स्वती। महः॑। इन्द्रा॑य। दु॒हे॒। इ॒न्द्रि॒यम्। पयः॑। सोमः॑। प॒रि॒स्रुतेति॑ परि॒ऽस्रुता॑। घृ॒तम्। मधु॑। व्यन्तु॑। आज्य॑स्य। होतः॑। यज॑। ३७।
महीधरः
म० नकाराश्चार्थाः । होता त्वष्टारं प्रयाजदेवमिन्द्रमश्विना अश्विनौ सरस्वती भिषजं च यक्षत् यजतु । कीदृशं त्वष्टारम् । सुरेतसं शोभनं रेतो वीर्यं वृष्टिलक्षणं यस्य स सुरेताः तम् । यद्वा सुष्ठु रेतो यस्मात्तम् पुंसो रेतःकारणभूतम् । ऋषभं वर्षितारम् नर्यापसं नरेभ्यो हितं नर्यमपः कर्म यस्य स नर्यापा: तम् । केन यजतु तदाह । रभसः सोद्यमो भिषग्वैद्यभूतो यो वृकः तेन । प्रथमा तृतीयार्थे । सुरायां वृकलोमानि क्षिप्यन्तेऽतो वृकेन यजतु सुरया च यजतु । भेषजं यन्मासरं तेन च यजतु । एवंच यागे ओजस्तेजः जूतिर्वेगः इन्द्रियं वीर्ये श्रिया सह यशश्चेन्द्रे भवन्त्विति शेषः । अश्व्यादयः पयआदीनि व्यन्तु । हे होतः, त्वमप्याज्यस्य यज ॥ ३८॥
एकोनचत्वारिंशी।
अधिमन्त्रम् (VC)
- अश्व्यादयो देवताः
- स्वस्त्यात्रेय ऋषिः
- धृतिः
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (होतः) विद्या देनेवाले विद्वज्जन ! जैसे (होता) विद्या लेनेवाला (तिस्रः) तीन (देवीः) देदीप्यमान नीतियों के (न) समान (भेषजम्) औषध को (यक्षत्) अच्छे प्रकार प्राप्त करें वा जैसे (अपसः) कर्मवान् (त्रिधातवः, त्रयः) सब विषयों को धारण करनेवाले सत्व, रजस्, तम गुण जिनमें विद्यमान वे तीन अर्थात् अस्मद्, युष्मद् और तद् पदवाच्य जीव (हिरण्ययम्) ज्योतिर्मय (रूपम्) नेत्र के विषय रूप को (इन्द्रे) बिजुली में प्राप्त करें वा (अश्विना) सूर्य और चन्द्रमा तथा (इडा) स्तुति करने योग्य (भारती) धारणावाली बुद्धि के (न) समान (सरस्वती) अत्यन्त विदुषी (वाचा) विद्या और सुशिक्षायुक्त वाणी से (इन्द्राय) ऐश्वर्य्यवान् के लिए (महः) अत्यन्त (इन्द्रियम्) धन की (दुहे) परिपूर्णता करती वैसे जो (परिस्रुता) सब ओर प्राप्त हुए रस के साथ (पयः) दूध (सोमः) औषधिसमूह (घृतम्) घी (मधु) सहत (व्यन्तु) प्राप्त होवें, उनके साथ वर्त्तमान तू (आज्यस्य) घी का (यज) हवन कर ॥३७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। हे मनुष्यो ! जैसे हाड, मज्जा और वीर्य शरीर में कार्य के साधन हैं वा जैसे सूर्य आदि और वाणी सब को जनानेवाले हैं, वैसे होके और सृष्टि की विद्या को प्राप्त होके लक्ष्मीवाले होओ ॥३७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे होतर्यथा होता तिस्रो देवीर्न भेषजं यक्षद् यथाऽपसस्त्रिधातवस्त्रयो हिरण्ययं रूपमिन्द्रे यजेरन्। अश्विनेडा भारती न सरस्वती वाचेन्द्राय मह इन्द्रियं दुहे तथा यानि परिस्रुता पयस्सोमो घृतं मधु व्यन्तु तैः सह वर्त्तमानस्त्वमाज्यस्य यज ॥३७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। हे मनुष्याः ! यथाऽस्थिमज्जवीर्य्याणि शरीरे कर्मसाधनानि सन्ति, यथा च सूर्यादयो वाणी च सर्वज्ञापकाः सन्ति तथा भूत्वा सृष्टिविद्यां प्राप्य श्रीमन्तो भवत ॥३७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहे. हे माणसांनो ! जसे अस्थि, मज्जा व वीर्य ही शरीराचे कार्य करण्याची साधने आहेत किंवा जसे सूर्य सर्वांना उत्पन्न करतो व वाणीने सर्व कार्य पार पडते तसे सृष्टीविद्या जाणून लक्ष्मी प्राप्त करा.
३८ होता यक्षत्सुरेतसमृषभम्
विश्वास-प्रस्तुतिः ...{Loading}...
होता यक्षत्सु॒रेत॑समृष॒भं नर्या॑पसं॒ त्वष्टा॑र॒मिन्द्र॑म॒श्विना॑ भि॒षजं॒ न सर॑स्वती॒मोजो॒ न जू॒तिरि॑न्द्रि॒यं वृको॒ न र॑भ॒सो भि॒षग्यशः॒ सुर॑या भेष॒जँ श्रि॒या न मास॑रं॒ पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥३८ ॥
मूलम् ...{Loading}...
होता यक्षत्सु॒रेत॑समृष॒भं नर्या॑पसं॒ त्वष्टा॑र॒मिन्द्र॑म॒श्विना॑ भि॒षजं॒ न सर॑स्वती॒मोजो॒ न जू॒तिरि॑न्द्रि॒यं वृको॒ न र॑भ॒सो भि॒षग्यशः॒ सुर॑या भेष॒जँ श्रि॒या न मास॑रं॒ पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥३८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
होता॑। य॒क्ष॒त्। सु॒रेत॑स॒मिति॑ सु॒ऽरेत॑सम्। ऋ॒ष॒भम्। नर्या॑पस॒मिति॒ नर्य॑ऽअपसम्। त्वष्टा॑रम्। इन्द्र॑म्। अ॒श्विना॑। भि॒षज॑म्। न। सर॑स्वतीम्। ओजः॑। न। जू॒तिः। इ॒न्द्रि॒यम्। वृकः॑। न। र॒भ॒सः। भि॒षक्। यशः॑ सुर॑या। भे॒ष॒जम्। श्रि॒या। न। मास॑रम्। पयः॑। सोमः॑। प॒रि॒स्रुतेति॑ परि॒ऽस्रुता॑। घृ॒तम्। मधु॑। व्यन्तु॑। आज्य॑स्य। होतः॑। यज॑। ३८।
महीधरः
म० दैव्यो होता वनस्पतिं प्रयाजदेवं व्याघ्रं विशेषेणाजिघ्रतीति व्याघ्रः । व्याघ्रमिव राजानं शतक्रतुमिन्द्रमश्विना अश्विनौ सरस्वती सरस्वतीं च नमसा अन्नेन यक्षत् यजतु । कीदृशं वनस्पतिम् । शमितारं पशूनां संस्कर्तारं यूपरूपेण । । भीमं भयंकरं मन्युं क्रोधात्मानम् । भिषक् वैद्यरूपा या सरस्वती इन्द्राय भामं क्रोधमिन्द्रियं वीर्यं च दुहे दोग्धि । ते वनस्पत्यादयः इज्यमानाः पयआदीनि पिबन्तु । हे होतर्यज ॥ ३९ ॥
चत्वारिंशी।
अधिमन्त्रम् (VC)
- अश्व्यादयो देवताः
- स्वस्त्यात्रेय ऋषिः
- भुरिक्कृतिः
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (होतः) लेने हारे जैसे (होता) ग्रहण करनेवाला (सुरेतसम्) अच्छे पराक्रमी (ऋषभम्) बैल और (नर्यापसम्) मनुष्यों में अच्छे कर्म करने तथा (त्वष्टारम्) दुःख काटनेवाले (इन्द्रम्) परमैश्वर्ययुक्त जन को (अश्विना) वायु और बिजुली वा (भिषजम्) उत्तम वैद्य के (न) समान (सरस्वतीम्) बहुत विज्ञानयुक्त वाणी को (ओजः) बल के (न) समान (यक्षत्) प्राप्त करे (भिषक्) वैद्य (वृकः) वज्र के (न) समान (जूतिः) वेग (इन्द्रियम्) मन (रभसः) वेग (यशः) धन वा अन्न को (सुरया) जल से (भेषजम्) औषध को (श्रिया) धन के (न) समान क्रिया से (मासरम्) अच्छे पके हुए अन्न को प्राप्त करें, वैसे (परिस्रुता) सब ओर से प्राप्त पुरुषार्थ से (पयः) पीने योग्य रस और (सोमः) ऐश्वर्य (घृतम्) घी और (मधु) सहत (व्यन्तु) प्राप्त होवें, उनके साथ वर्त्तमान तू (आज्यस्य) घी का (यज) हवन कर ॥३८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। जैसे विद्वान् लोग ब्रह्मचर्य, धर्म के आचरण, विद्या और सत्संगति आदि से सब सुख को प्राप्त होते हैं, वैसे मनुष्यों को चाहिये कि पुरुषार्थ से लक्ष्मी को प्राप्त होवें ॥३८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे होतस्त्वं यथा होता सुरेतसमृषभं नर्यापसं त्वष्टारमिन्द्रमश्विना भिषजं न सरस्वतीमोजो न यक्षद् भिषग् वृको न जूतिरिन्द्रियं रभसो यशः सुरया भेषजं श्रिया न क्रियया मासरं यक्षत्तया परिस्रुता पयः सोमो घृतं मधु च व्यन्तु तैः सह वर्त्तमानस्त्वमाज्यस्य यज ॥३८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। यथा विद्वांसो ब्रह्मचर्येण धर्माचरणेन विद्यया सत्सङ्गादिना चाऽखिलं सुखं प्राप्नुवन्ति, तथा मनुष्यैः पुरुषार्थेन लक्ष्मी प्राप्तव्या ॥३८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहे. जसे विद्वान लोक ब्रह्मचर्य, धमाचे आचरण, विद्या व सत्संग इत्यादींमुळे सुख प्राप्त करतात तसे सर्व माणसांनी पुरुषार्थांने लक्ष्मी प्राप्त करावी.
३९ होता यक्षद्
विश्वास-प्रस्तुतिः ...{Loading}...
होता॑ यक्ष॒द् वन॒स्पतिँ॑ शमि॒तारँ॑ श॒तक्र॑तुं भी॒मं न म॒न्युँ राजा॑नं व्या॒घ्रं नम॑सा॒श्विना॒ भामँ॒ सर॑स्वती भि॒षगिन्द्रा॑य दुहऽइन्द्रि॒यं पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥३९ ॥
मूलम् ...{Loading}...
होता॑ यक्ष॒द् वन॒स्पतिँ॑ शमि॒तारँ॑ श॒तक्र॑तुं भी॒मं न म॒न्युँ राजा॑नं व्या॒घ्रं नम॑सा॒श्विना॒ भामँ॒ सर॑स्वती भि॒षगिन्द्रा॑य दुहऽइन्द्रि॒यं पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥३९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
होता॑। य॒क्ष॒त्। वन॒स्पति॑म्। श॒मि॒तार॑म्। श॒तक्र॑तु॒मिति॑ श॒तऽक्र॑तुम्। भी॒मम्। न। म॒न्युम्। राजा॑नाम्। व्या॒घ्रम्। नम॑सा। अ॒श्विना। भाम॑म्। सर॑स्वती। भि॒षक्। इन्द्रा॑य। दु॒हे॒। इ॒न्द्रि॒यम्। पयः॑। सोमः॑। प॒रि॒स्रुतेति॑ परि॒ऽस्रुता॑। घृ॒तम्। मधु॑। व्यन्तु॑। आज्य॑स्य। होतः॑। यज॑। ३९।
महीधरः
म० होता अग्निं प्रयाजदेवमाहवनीयं वा यक्षत् यजतु । किंच आज्यस्य घृतस्य स्तोकानां विप्रुषां स्वाहा सुष्ठु आह शोभनं वदति । ‘द्व्यचोऽतस्तिङः’ ( पा० ६ । ३ । १३५ ) इति दीर्घः । ब्रुवो रूपम् । यजमान इति शेषः । यजमानो घृतबिन्दून् शोभनान्वदतीत्यर्थः । कर्मणि षष्ठी । मेदसां वपासंबन्धिनां पृथक् स्वाहा । वपासंबन्धिमेदांसि समीचीनानीति पृथग्वदति अश्विभ्यामश्विनोरर्थे छागं शोभनमाह । सरस्वत्यै मेषं शोभनमाह । इन्द्राय इन्द्रियं वीर्यप्रदमृषभं सु आह । कीदृशायेन्द्राय । सिंहाय सिंहतुल्याय हिनस्तीति सिंहस्तस्मै शत्रूणामभिभवित्रे । तथा सहसे बलात्मकाय । भेषजं हितकारिणमग्निं च सु आह । नश्चार्थः । इन्द्रियं वीर्यप्रदं च सोमं सु आह । एतावग्नीषोमावाज्यभागौ सु आहेत्यर्थः । सुष्ठु त्रायते सुत्रामा तं सुत्रामाणमिन्द्रं सवितारं भिषजां वैद्यानां पतिं वरुणं च सु आह । पशुपुरोडाशदेवताः सु आहेत्यर्थः । प्रियमिष्टं पाथोऽन्नमन्नभूतं भेषजं च पशुदेवतानां वनस्पतिं प्रयाजदेवं सु आह । नकारश्चार्थः। आज्यपा देवा आज्यपान् देवान् सु आह । ‘प्रयाजानुयाजा वै देवा आज्यपाः’ । स्वाहेतिक्रियाया यजमानः कर्ता । ‘देवा ह वा ऊचुर्हन्त विजितमेवानु सर्व यज्ञं सᳪं᳭स्थापय’ इत्युपक्रम्य ‘तत उत्तमे प्रयाजे स्वाहाकारेणैव यज्ञᳪं᳭समस्थापयन्’ इत्याहेति श्रुतेः समाप्तिवचनाः स्वाहाकाराः। भेषजमौषधभूतं जुषाणः सेवमानोऽग्निरश्विसरस्वतीन्द्राश्च दैव्येन होत्रेज्यमानाः पयआदीनि व्यन्तु । हे मनुष्यहोतः, त्वमपि यज ॥ ४० ॥
एकचत्वारिंशी।
अधिमन्त्रम् (VC)
- अश्व्यादयो देवताः
- स्वस्त्यात्रेय ऋषिः
- निचृदत्यष्टिः
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (होतः) लेने हारे जैसे (भिषक्) वैद्य (होता) वा लेने हारा (इन्द्राय) धन के लिए (वनस्पतिम्) किरणों को पालने और (शमितारम्) शान्ति देने हारे (शतक्रतुम्) अनन्त बुद्धि वा बहुत कर्मयुक्त जन को (भीमम्) भयकारक के (न) समान (मन्युम्) क्रोध को वा (नमसा) वज्र से (व्याघ्रम्) सिंह और (राजानम्) देदीप्यमान राजा को (यक्षत्) प्राप्त करे वा (सरस्वती) उत्तम विज्ञानवाली स्त्री और (अश्विना) सभा और सेनापति (भामम्) क्रोध को (दुहे) परिपूर्ण करे, वैसे (परिस्रुता) प्राप्त हुए पुरुषार्थ के साथ (इन्द्रियम्) धन (पयः) रस (सोमः) चन्द्र (घृतम्) घी (मधु) मधुर वस्तु (व्यन्तु) प्राप्त होवें, उनके साथ वर्त्तमान तू (आज्यस्य) घी का (यज) हवन कर ॥३९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। जो मनुष्य लोग विद्या से अग्नि, शान्ति से विद्वान्, पुरुषार्थ से बुद्धि और न्याय से राज्य को प्राप्त होके ऐश्वर्य को बढ़ाते हैं, वे इस जन्म और परजन्म के सुख को प्राप्त होते हैं ॥३९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे होतर्यथा भिषग्घोता इन्द्राय वनस्पतिमिव शमितारं शतक्रतुं भीमं न मन्युं नमसा व्याघ्रं न राजानं यक्षत्सरस्वत्यश्विना भामं दुहे तथा परिस्रुतेन्द्रियं पयः सोमो घृतं मधु व्यन्तु तैः सह वर्त्तमानस्त्वमाज्यस्य यज ॥३९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। ये मनुष्या विद्यया वह्निं शान्त्या विद्वांसं पुरुषार्थेन प्रज्ञां न्यायेन राज्यं च प्राप्यैश्वर्यं वर्द्धयन्ति त ऐहिकपारमार्थिके सुखे प्राप्नुवन्ति ॥३९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचक लुप्तोपमालंकार आहेत. जी माणसे विद्येच्या साह्याने अग्नी प्राप्त करतात, शांती देणाऱ्या विद्वानांना जवळ करतात, पुरुषार्थाने बुद्धीची वाढ करतात व न्यायाने राज्यप्राप्ती करुन ऐश्वर्य वाढवितात, ते या जन्मी व परजन्मी सुख प्राप्त करतात.
४० होता यक्षदग्नि
विश्वास-प्रस्तुतिः ...{Loading}...
होता॑ यक्षद॒ग्निँ स्वाहाज्य॑स्य स्तो॒कानाँ॒ स्वाहा॒ मेद॑सां॒ पृथ॒क्स्वाहा॒ छाग॑म॒श्विभ्याँ॒ स्वाहा॒॑ मे॒षँ सर॑स्वत्यै॒ स्वाह॑ऽऋष॒भमिन्द्रा॑य सिँ॒हाय॒ सह॑सऽइन्द्रि॒यँ स्वाहा॒ग्निं न भे॑ष॒जँ स्वाहा॒ सोम॑मिन्द्रि॒यँ स्वाहेन्द्रँ॑ सु॒त्रामा॑णँ सवि॒तारं॒ वरु॑णं भि॒षजां॒ पतिँ॒ स्वाहा॒ वनस्पतिं॑ प्रि॒यं पाथो॒ न भे॑ष॒जँ स्वाहा॑ दे॒वाऽआ॑ज्य॒पा जु॑षा॒णोऽअ॒ग्निर्भे॑ष॒जं पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥४० ॥
मूलम् ...{Loading}...
होता॑ यक्षद॒ग्निँ स्वाहाज्य॑स्य स्तो॒कानाँ॒ स्वाहा॒ मेद॑सां॒ पृथ॒क्स्वाहा॒ छाग॑म॒श्विभ्याँ॒ स्वाहा॒॑ मे॒षँ सर॑स्वत्यै॒ स्वाह॑ऽऋष॒भमिन्द्रा॑य सिँ॒हाय॒ सह॑सऽइन्द्रि॒यँ स्वाहा॒ग्निं न भे॑ष॒जँ स्वाहा॒ सोम॑मिन्द्रि॒यँ स्वाहेन्द्रँ॑ सु॒त्रामा॑णँ सवि॒तारं॒ वरु॑णं भि॒षजां॒ पतिँ॒ स्वाहा॒ वनस्पतिं॑ प्रि॒यं पाथो॒ न भे॑ष॒जँ स्वाहा॑ दे॒वाऽआ॑ज्य॒पा जु॑षा॒णोऽअ॒ग्निर्भे॑ष॒जं पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥४० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
होता॑। य॒क्ष॒त्। अ॒ग्निम्। स्वाहा॑। आज्य॑स्य। स्तो॒काना॑म्। स्वाहा॑। मेद॑साम्। पृथ॑क्। स्वाहा॑। छाग॑म्। अ॒श्विभ्या॒मित्य॒श्विऽभ्या॑म्। स्वाहा॑। मे॒षम्। सर॑स्वत्यै। स्वाहा॑। ऋ॒ष॒भम्। इन्द्रा॑य। सिँ॒हाय॑। सह॑से। इ॒न्द्रि॒यम्। स्वाहा॑। अ॒ग्निम्। न। भे॒ष॒जम्। स्वाहा॑। सोम॑म्। इ॒न्द्रि॒यम्। स्वाहा॑। इन्द्र॑म्। सु॒त्रामा॑ण॒मिति॑ सु॒ऽत्रामा॑णम्। स॒वि॒तार॑म्। वरु॑णम्। भि॒षजा॑म्। पति॑म्। स्वाहा॑। वन॒स्पति॑म्। प्रि॒यम्। पाथः॑। न। भे॒ष॒जम्। स्वाहा॑। दे॒वाः। आ॒ज्य॒पा इत्या॑ज्य॒ऽपाः। जु॒षा॒णः। अ॒ग्निः। भे॒ष॒जम्। पयः॑। सोमः॑ प॒रि॒स्रुतेति॑ परि॒ऽस्रुता॑। घृ॒तम्। मधु॑। व्यन्तु॑। आज्य॑स्य। होतः॑। यज॑। ४०।
महीधरः
म० होता यक्षदश्विनाविति त्रयो वपानां प्रैषा यथालिङ्गम्’ ( का० १९ । ६ । २२) । होता यक्षदश्विनौ छागस्य होता यक्षत्सरस्वतीम् होता यक्षदिन्द्रमृषभस्येति त्रयो वपात्रयस्य क्रमात् प्रैषा एककण्डिकायामिति सूत्रार्थः । सप्त लिङ्गोक्तदेवताः । तत्राद्यास्त्रयो वपानां प्रैषाः त्रयाणां प्राजापत्या पङ्क्तिश्छन्दः । द्वितीयस्य द्व्यधिका प्रथमतृतीययोरेकाधिका । दैव्यो होता अश्विनौ यक्षत् यजतु । इज्यमानौ तावश्विनौ छागस्य वपाया मेदसः हविर्जुषेतां सेवेताम् । मेद स्निग्धभागः । हे होतर्यज । होता सरस्वतीं यक्षत् । सा मेषस्य वपाया मेदसो हविर्जुषताम् । हे होतः, त्वं यज । होता इन्द्रं यक्षत् स इन्द्रः ऋषभस्य वपाया मेदसो हविर्जुषताम् । हे मनुष्यहोतः त्वमपि यज ॥ ४१ ॥
द्विचत्वारिंशी।
अधिमन्त्रम् (VC)
- अश्व्यादयो देवताः
- स्वस्त्यात्रेय ऋषिः
- निचृदत्यष्टिः
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (होतः) देने हारे जन ! जैसे (होता) ग्रहण करने हारा (आज्यस्य) प्राप्त होने योग्य घी की (स्वाहा) उत्तम क्रिया से वा (स्तोकानाम्) स्वल्प (मेदसाम्) स्निग्ध पदार्थों की (स्वाहा) अच्छे प्रकार रक्षण क्रिया से (अग्निम्) को (पृथक्) भिन्न-भिन्न (स्वाहा) उत्तम रीति से (अश्विभ्याम्) राज्य के स्वामी और पशु के पालन करनेवालों से (छागम्) दुःख के छेदन करने को (सरस्वत्यै) विज्ञानयुक्त वाणी के लिए (स्वाहा) उत्तम क्रिया से (मेषम्) सेचन करने हारे को (इन्द्राय) परमैश्वर्य के लिए (स्वाहा) परमोत्तम क्रिया से (ऋषभम्) श्रेष्ठ पुरुषार्थ को (सहसे) बल (सिंहाय) और जो शत्रुओं का हननकर्त्ता उस के लिए (स्वाहा) उत्तम वाणी से (इन्द्रियम्) धन को (स्वाहा) उत्तम क्रिया से (अग्निम्) पावक के (न) समान (भेषजम्) औषध (सोमम्) सोमलतादि ओषधिसमूह (इन्द्रियम्) वा मन आदि इन्द्रियों को (स्वाहा) शान्ति आदि क्रिया और विद्या से (सुत्रामाणम्) अच्छे प्रकार रक्षक (इन्द्रम्) सेनापति को (भिषजाम्) वैद्यों के (पतिम्) पालन करने हारे (सवितारम्) ऐश्वर्य के कर्त्ता (वरुणम्) श्रेष्ठ पुरुष को (स्वाहा) निदान आदि विद्या से (वनस्पतिम्) वनों के पालन करने हारे को (स्वाहा) उत्तम विद्या से (प्रियम्) प्रीति करने योग्य (पाथः) पालन करनेवाले अन्न के (न) समान (भेषजम्) उत्तम औषध को (यक्षत्) सङ्गत करे वा जैसे (आज्यपाः) विज्ञान के पालन करनेहारे (देवाः) विद्वान् लोग और (भेषजम्) चिकित्सा करने योग्य को (जुषाणः) सेवन करता हुआ (अग्निः) पावक के समान तेजस्वी जन सङ्गत करे, वैसे जो (परिस्रुता) चारों ओर से प्राप्त हुए रस के साथ (पयः) दूध (सोमः) औषधियों का समूह (घृतम्) घी (मधु) सहत (व्यन्तु) प्राप्त होवें, उन के साथ वर्त्तमान तू (आज्यस्य) घी का (यज) हवन किया कर ॥४० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। जो मनुष्य क्रिया, क्रियाकुशलता और प्रयत्न से अग्न्यादि विद्या को जान के गौ आदि पशुओं का अच्छे प्रकार पालन करके सब के उपकार को करते हैं, वे वैद्य के समान प्रजा के दुःख के नाशक होते हैं ॥४० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे होतर्यथा होताऽऽज्यस्य स्वाहा स्तोकानां मेदसां स्वाहाऽग्निं पृथक्स्वाहाश्विभ्यां छागं सरस्वत्यै स्वाहा मेषमिन्द्राय स्वाहर्षभं सहसे सिंहाय स्वाहेन्द्रियं स्वाहाग्निं न भेषजं सोममिन्द्रियं स्वाहा सुत्रामाणमिन्द्रं भिषजां पतिं सवितारं वरुणं स्वाहा वनस्पतिं स्वाहा प्रियं पाथो न भेषजं यक्षद् यथावाज्यपा देवा भेषजं जुषाणोऽग्निश्च यक्षत्तथा यानि परिस्रुता पयः सोमो घृतं मधु व्यन्तु तैः सह वर्त्तमानस्त्वमाज्यस्य यज ॥४० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। ये मनुष्या विद्याक्रियाकौशलयत्नैरग्न्यादिविद्यां विज्ञाय गवादीन् पशून् संपाल्य सर्वोपकारं कुर्वन्ति, ते वैद्यवत्प्रजादुःखध्वंसका जायन्ते ॥४० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहे. जी माणसे विद्या व कर्मकुशलतेद्वारे प्रयत्नपूर्वक अग्निविद्या जाणतात, तसेच गाई इत्यादी पशूंचे चांगल्याप्रकारे पालन करून सर्वांवर उपकार करतात ती वैद्याप्रमाणे प्रजेचे दुःख नाहीसे करतात.
४१ होता यक्षदश्विनौ
विश्वास-प्रस्तुतिः ...{Loading}...
होता॑ यक्षद॒श्विनौ॒ छाग॑स्य व॒पाया॒ मेद॑सो जु॒षेताँ॑ ह॒विर्होत॒र्यज॑। होता॑ यक्ष॒त्सर॑स्वतीं मे॒षस्य॑ व॒पाया॒ मेद॑सो जु॒षताँ॑ ह॒विर्होत॒र्यज॑। होता॑ यक्ष॒दिन्द्र॑मृष॒भस्य॑ व॒पाया॒ मेद॑सो जु॒षताँ॑ ह॒विर्होत॒र्यज॑ ॥४१ ॥
मूलम् ...{Loading}...
होता॑ यक्षद॒श्विनौ॒ छाग॑स्य व॒पाया॒ मेद॑सो जु॒षेताँ॑ ह॒विर्होत॒र्यज॑। होता॑ यक्ष॒त्सर॑स्वतीं मे॒षस्य॑ व॒पाया॒ मेद॑सो जु॒षताँ॑ ह॒विर्होत॒र्यज॑। होता॑ यक्ष॒दिन्द्र॑मृष॒भस्य॑ व॒पाया॒ मेद॑सो जु॒षताँ॑ ह॒विर्होत॒र्यज॑ ॥४१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
होता॑। य॒क्ष॒त्। अ॒श्विनौ॑। छाग॑स्य। व॒पायाः॑। मेद॑सः। जु॒षेता॑म्। ह॒विः। होतः॑। यज॑। होता॑। य॒क्ष॒त्सर॑स्वतीम्। मे॒षस्य॑। व॒पायाः॑। मेद॑सः। जु॒षता॑म्। ह॒विः। होतः॑। यज॑। होता॑। य॒क्ष॒त्। इन्द्र॑म्। ऋ॒ष॒भस्य॑। व॒पायाः॑। मेद॑सः। जु॒षता॑म्। ह॒विः। होतः॑। यज॑। ४१।
महीधरः
म० ‘ग्रहाणां चतुर्थः’ (का० १९ । ६ । २३)। होता यक्षदश्विनौ सरस्वतीमिन्द्रमिति चतुर्थो ग्रहाणां प्रैषः । होता यक्षदश्विनौ सरस्वतीं सुष्ठु रक्षितारमिन्द्रं च यक्षत् यजतु । एवं होतारमुक्त्वाध्वर्यूनाह । हे अध्वर्यवः, इमे सोमाः वो युष्माकं युष्माभिः सुता अभिषुताः । कीदृशाः सोमाः । छागैर्मेषैर्ऋषभैश्च सुरामाणः सुष्ठु रमयन्ति ते सुरामाणः रमणीयाः । रमतेरनण्प्रत्ययः । पशुभिः कृला रमणीयाः नौ चार्थौ । सुरावन्तः सुरामया वा । तथा शष्पैः तोक्मभिर्यवाङ्कुरैर्लाजैश्च महस्वन्तः तेजोयुताः । मदाः मदयन्ति तर्पयन्तीति मदाः । मासरेण पूर्वोक्तेन परिष्कृता अलंकृताः ‘संपर्युपेभ्यः-’ (पा० ६।१। १३७) इति सुट् । शुक्राः शोचिष्मन्तः । पयस्वन्तः पयसा युक्ताः अमृताः अमृतकल्पाः । प्रस्थिताः होमाभिमुखं चलिताः। मधुश्चुतः मधु श्चोतन्ते ते मधुस्राविणः । अश्विनौ सरस्वती सुत्रामा वृत्रहा वृत्रासुरहन्ता इन्द्रश्च तान् सोमान् जुषन्तां सेवन्ताम् । सोम्यं मधु पिबन्तु मदन्तु तृप्यतु व्यन्तु राजन्तां हविर्भक्षयन्तु वा । हे होतः, त्वमपि यज ॥ ४२ ॥
त्रिचत्वारिंशी।
अधिमन्त्रम् (VC)
- विद्वांसो देवता
- स्वस्त्यात्रेय ऋषिः
- अतिधृतिः
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (होतः) देने हारे ! तू जैसे (होता) और देने हारा (यक्षत्) अनेक प्रकार के व्यवहारों की सङ्गति करे (अश्विनौ) पशु पालने वा खेती करनेवाले (छागस्य) बकरा, गौ, भैंस आदि पशुसम्बन्धी वा (वपायाः) बीज बोने वा सूत के कपड़े आदि बनाने और (मेदसः) चिकने पदार्थ के (हविः) लेने-देने योग्य व्यवहार का (जुषेताम्) सेवन करें, वैसे (यज) व्यवहारों की सङ्गति कर। हे (होतः) देने हारे जन ! तू जैसे (होता) लेने हारा (मेषस्य) मेढ़ा के (वपायाः) बीज को बढ़ानेवाली क्रिया और (मेदसः) चिकने पदार्थ सम्बन्धी (हविः) अग्नि आदि में छोड़ने योग्य संस्कार किये हुए अन्न आदि पदार्थ और (सरस्वतीम्) विशेष ज्ञानवाली वाणी का (जुषताम्) सेवन करे (यक्षत्) वा उक्त पदार्थों का यथायोग्य मेल करें, वैसे (यज) सब पदार्थों का यथायोग्य मेल कर। हे (होतः) देने हारे ! तू जैसे (होता) लेने हारा (ऋषभस्य) बैल को (वपायाः) बढ़ानेवाली रीति और (मेदसः) चिकने पदार्थ सम्बन्धी (हविः) देने योग्य पदार्थ और (इन्द्रम्) परम ऐश्वर्य करनेवाले का (जुषताम्) सेवन करे वा यथायोग्य (यक्षत्) उक्त पदार्थों का मेल करे, वैसे (यज) यथायोग्य पदार्थों का मेल कर ॥४१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो मनुष्य पशुओं की संख्या और बल को बढ़ाते हैं, वे आप भी बलवान् होते और जो पशुओं से उत्पन्न हुए दूध और उस से उत्पन्न हुए घी का सेवन करते, वे कोमल स्वभाववाले हाते हैं और जो खेती करने आदि के लिए इन बैलों को युक्त करते हैं, वे धनधान्ययुक्त होते हैं ॥४१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे होतस्त्वं यथा होता यक्षदश्विनौ छागस्य वपाया मेदसो हविर्जुषेताम् तथा यज। हे होतस्त्वं यथा होता मेषस्य वपाया मेदसो हविः सरस्वतीञ्च जुषतां यक्षत्तथा यज। हे होतस्त्वं यथा होतर्षभस्य वपाया मेदसो हविरिन्द्रं च जुषतां यक्षत्तथा यज ॥४१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये मनुष्याः पशुसंख्यां बलं च वर्धयन्ति, ते स्वयमपि बलिष्ठा जायन्ते। ये पशुजं दुग्धं तज्जमाज्यं च स्निग्धं सेवन्ते, ते कोमलप्रकृतयो भवन्ति। ये कृषिकरणाद्यायैतान् वृषभान् युञ्जन्ति, ते धनधान्ययुक्ता जायन्ते ॥४१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जी माणसे पशूंची संख्या व बल वाढवितात ती स्वतः बलवान होतात व जी पशूंपासून उत्पन्न झालेले दूध व त्यापासून उत्पन्न झालेल्या तुपाचे सेवन करतात, ती कोमल स्वभावाची असतात व जी माणसे शेतीसाठी बैलांचा वापर करतात ती धनधान्यांनीयुक्त होतात.
४२ होता यक्षदश्विनौ
विश्वास-प्रस्तुतिः ...{Loading}...
होता॑ यक्षद॒श्विनौ॒ सर॑स्वती॒मिन्द्रँ॑ सु॒त्रामा॑णमि॒मे सोमाः॑ सु॒रामा॑ण॒श्छागै॒र्न मे॒षैर्ऋ॑ष॒भैः सु॒ताः शष्पै॒र्न तोक्म॑भिर्ला॒जैर्मह॑स्वन्तो॒ मदा॒ मास॑रेण॒ परि॑ष्कृताः शु॒क्राः पय॑स्वन्तो॒ऽमृताः॒ प्र॑स्थिता वो मधु॒श्चुत॒स्तान॒श्विना॒ सर॑स्व॒तीन्द्रः॑ सु॒त्रामा॑ वृत्र॒हा जु॒षन्ताँ॑ सो॒म्यं मधु॒ पिब॑न्तु॒ मद॑न्तु॒ व्यन्तु॒ होत॒र्यज॑ ॥४२ ॥
मूलम् ...{Loading}...
होता॑ यक्षद॒श्विनौ॒ सर॑स्वती॒मिन्द्रँ॑ सु॒त्रामा॑णमि॒मे सोमाः॑ सु॒रामा॑ण॒श्छागै॒र्न मे॒षैर्ऋ॑ष॒भैः सु॒ताः शष्पै॒र्न तोक्म॑भिर्ला॒जैर्मह॑स्वन्तो॒ मदा॒ मास॑रेण॒ परि॑ष्कृताः शु॒क्राः पय॑स्वन्तो॒ऽमृताः॒ प्र॑स्थिता वो मधु॒श्चुत॒स्तान॒श्विना॒ सर॑स्व॒तीन्द्रः॑ सु॒त्रामा॑ वृत्र॒हा जु॒षन्ताँ॑ सो॒म्यं मधु॒ पिब॑न्तु॒ मद॑न्तु॒ व्यन्तु॒ होत॒र्यज॑ ॥४२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
होता॑। य॒क्ष॒त्। अ॒श्विनौ॑। सर॑स्वतीम्। इन्द्र॑म्। सु॒त्रामा॑णमिति॑ सु॒ऽत्रामा॑णम्। इ॒मे। सोमाः॑। सु॒रामा॑णः। छागैः॑। न। मे॒षैः। ऋ॒ष॒भैः। सु॒ताः। शष्पैः॑। न। तोक्म॑भिरिति॒ तोक्म॑ऽभिः। ला॒जैः। मह॑स्वन्तः। मदाः॑। मास॑रेण। परि॑ष्कृताः। शु॒क्राः। पय॑स्वन्तः। अ॒मृताः॑। प्र॑स्थिता॒ इति॒ प्रऽस्थि॑ताः। वः॒। म॒धु॒श्चुत॒ इति॑ मधु॒ऽश्चुतः॑। तान्। अ॒श्विना॑। सर॑स्वती। इन्द्रः॑। सु॒त्रामा॑। वृ॒त्र॒हा। जु॒षन्ता॑म्। सो॒म्यम्। मधु॑। पिब॑न्तु। मद॑न्तु। व्यन्तु॑। होतः॑। यज॑। ४२।
महीधरः
म० ‘हविषामुत्तरे यथालिङ्गम्’ (का० १९ । ६ । २४)।’ चतुर्थात्प्रैषादग्रे पठ्यमाना ‘होता यक्षदश्विनौ छागस्य हविषः’ इत्याद्यास्त्रयो यथालिङ्गमाश्विनादिहविर्यागानां प्रैषा इत्यर्थः । दैव्यो होता अश्विनौ यक्षत् यजतु । ताविज्यमानावश्विनौ छागस्य हविषः छागसंबन्धि हविः आत्ताम् अभक्षयताम् । कर्मणि षष्ठी । किंच अद्य अस्मिन् दिने मध्यतः उदरमध्यादुद्भृतमुद्धृतं मेदो वपारूपं चात्ताम् । ‘हृग्रहोर्भश्छन्दसि’ । कथमुद्धृतं तत्राह । द्वेषोभ्यः द्विषन्तीति द्वेषांसि । द्वेषेरसुन्प्रत्ययः । यज्ञद्वेष्टॄणि असुररक्षांसि तेभ्यः उद्धृतम् । यावत्तानि पराभवायागच्छन्ति ततः पुरैवोद्धृतमित्यर्थः । तथा गृभः गृह्यते भक्ष्यार्थमिति गृप् तस्या गृभः इडायाः पुरा प्रथममुद्धृतम् । वपायामिडाप्रयोजनाभावात् । कीदृश्या गृभः । पौरुषेय्याः पुरुषार्थमियं पौरुषेयी ऋत्विगर्था तस्याः । तावश्विनौ नूनं निश्चितमङ्गानां घस्तामङ्गानि भक्षयताम् । ‘घस्लृ अदने’ विशेषणैर्विशेष्यस्याध्याहारः । कीदृशानामङ्गानाम् । घासे अज्राणाम् । एकपदं घासे ग्रासे अजराणां नवानां रुचिजनकानाम् । अन्यानि ग्रासेषूत्तरोत्तरमरुचिं जनयन्ति नेमानि । तथा यवसप्रथमानां यवसानामन्नानां मध्ये प्रथमानां मुख्यानां मांसत्वात् । ‘एतद्वै परममनाद्यं यन्माᳪं᳭सम्’ इति श्रुतेः । सुमत्क्षराणां सुमत् स्वयं क्षरन्ति तानि सुमत्क्षराणि तेषाम् । सुमदिति स्वयमित्यस्य पर्यायः। शतरुद्रियाणाम् । रुद्र इति स्तोतृनामसु पठितम् । रुद्रस्य स्तोतुरिमा रुद्रियाः स्तुतयः । शतमसंख्या रुद्रिया येषां तेषाम् । बहुमन्त्रैः स्तुतानामित्यर्थः । अग्निष्वात्तानाम् अग्निना स्वात्तानामास्वादितानाम् । पाककाले पूर्वमग्निना सुशृतानामित्यर्थः । पीवोपवसनानाम् । पीवस्शब्दोऽसुन्नन्तः स्थूलवाची । पीवसां स्थूलानामङ्गानामुप समीपे वसनं स्थितिर्येषां तानि पीवोपवसनानि तेषाम् । स्थूलाङ्गसमीपस्थितानां सूक्ष्माणामित्यर्थः । ‘उपवसने पीवः’ इति प्रातिशाख्यसूत्रेण उपवसने परे पीवसो विसर्गलोपः । किंच पार्श्वतः पार्श्वप्रदेशात् । श्रोणितः कटिप्रदेशात् । शितामतो बाहुप्रदेशात् । उत्सादतः उत्सादनमुत्सादः, छेदनप्रदेशः तस्मात् । एवमङ्गादङ्गात् एकपदम् ‘नित्यवीप्सयोः’ (पा० ८।१।४) इति द्वित्वम् । प्रसङ्गात् अवत्तानामवदान- : धर्मेण गृहीतानामङ्गावयवानामश्विनौ घस्ताम् तान् भक्षयतामिति पूर्वेण संबन्धः । एव एवमश्विना अश्विनौ हविर्जुषेतां सेवेताम् भक्षितावदानौ तौ करतः कुरुतः । तृप्तिमिति शेषः । विकरणव्यत्ययः। पुनर्वचनमादराय । हे मनुष्यहोतः, त्वमपि यज । शितामशब्देन बाहुयकृद्योनिमेदांस्युच्यन्ते ॥ ४३ ॥
चतुश्चत्वारिंशी।
अधिमन्त्रम् (VC)
- होत्रादयो देवताः
- स्वस्त्यात्रेय ऋषिः
- आर्च्युष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (होतः) लेने हारा जैसे (होता) देनेवाला (अश्विनौ) पढ़ाने और उपदेश करनेवाले पुरुषो ! (सरस्वतीम्) तथा विज्ञान की भरी हुई वाणी और (सुत्रामाणम्) प्रजाजनों की अच्छी रक्षा करने हारे (इन्द्रम्) परम ऐश्वर्ययुक्त राजा को (यक्षत्) प्राप्त हो वा (इमे) ये जो (सुरामाणः) अच्छे देने हारे (सोमाः) ऐश्वर्यवान् सभासद् (सुताः) जो कि अभिषेक पाये हुए हों वे (छागैः) विनाश करने योग्य पदार्थों वा बकरा आदि पशुओं (न) वैसे तथा (मेषैः) देखने योग्य पदार्थ वा मेंढ़ों (ऋषभैः) श्रेष्ठ पदार्थों वा बैलों और (शष्पैः) हिंसकों से जैसे (न) वैसे (तोक्मभिः) सन्तानों और (लाजैः) भुँजे अन्नों से (महस्वन्तः) जिन के सत्कार विद्यमान हों वे मनुष्य और (मदाः) आनन्द (मासरेण) पके हुए चावलों के साथ (परिष्कृताः) शोभायमान (शुक्राः) शुद्ध (पयस्वन्तः) प्रशंसित जल और दूध से युक्त (अमृताः) जिन में अमृत एक रस (मधुश्चुतः) जिन से मधुरादि गुण टपकते वा (प्रस्थिताः) एक स्थान से दूसरे स्थान को जाते हुए (वः) तुम्हारे लिए पदार्थ बनाए हैं (तान्) उनको प्राप्त होवे वा जैसे (अश्विना) सुन्दर सत्कार पाये हुए पुरुष (सरस्वती) प्रशंसित विद्यायुक्त स्त्री (सुत्रामा) अच्छी रक्षा करनेवाले (वृत्रहा) मेघ को छिन्न भिन्न करनेवाले सूर्य के समान (इन्द्रः) परम ऐश्वर्यवान् सज्जन (सोम्यम्) शीतलता गुण के योग्य (मधु) मीठेपन का (जुषन्ताम्) सेवन करें (पिबन्तु) पीवें (मदन्तु) हरखें और समस्त विद्याओं को (व्यन्तु) व्याप्त हों वैसे तू (यज) सब पदार्थों की यथायोग्य सङ्गति किया कर ॥४२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो संसार के पदार्थों की विद्या सत्य वाणी और भलीभाँति रक्षा करने हारे राजा को पाकर पशुओं के दूध आदि पदार्थों से पुष्ट होते हैं, वे अच्छे रसयुक्त, अच्छे संस्कार किये हुए अन्न आदि पदार्थ जो सुपरीक्षित हों, उन को युक्ति के साथ खा और रसों को पी धर्म, अर्थ, काम, मोक्ष के निमित्त अच्छा यत्न करते हैं, वे सदैव सुखी होते हैं ॥४२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे होतर्यथा होताऽश्विनौ सरस्वतीं सुत्रामाणमिन्द्रं यक्षद्य इमे सुरामाणः सोमाः सुताश्छागैर्न मेषैर्ऋषभैः शष्पैर्न तोक्मभिर्लाजैर्महस्वन्तो मदा मासरेण परिष्कृताः शुक्राः पयस्वन्तोऽमृता मधुश्चुतः प्रस्थिता वो निर्मितास्तान् यक्षद्यथाऽश्विना सरस्वती सुत्रामा वृत्रहेन्द्रश्च सोम्यं मधु जुषन्तां पिबन्तु मदन्तु सकला विद्या व्यन्तु तथा यज ॥४२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये सृष्टिपदार्थविद्यां सत्यां वाचं सुरक्षकं राजानं च प्राप्य पशूनां पयआदिभिः पुष्यन्ति ते सुरसान् सुसंस्कृतान्नादीन् सुपरीक्षितान् भोगान् युक्त्या भुक्त्वा रसान् पीत्वा धर्मार्थकाममोक्षार्थे प्रयतन्ते ते सदा सुखिनो भवन्ति ॥४२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जे लोक या जगातील पदार्थविद्या प्राप्त करून सत्यवचनाने रक्षणकर्त्या राजाचा आश्रय घेऊन पशूंचे दूध प्राशन करून पुष्ट होतात व संस्कारित केलेल अन्नपदार्थ खातात, तसेच रस प्राशन करून धर्म, अर्थ, काम, मोक्ष यांसाठी प्रयत्न करतात, ते सदैव सुखी होतात.
४३ होता यक्षदश्विनौ
विश्वास-प्रस्तुतिः ...{Loading}...
होता॑ यक्षद॒श्विनौ॒ छाग॑स्य ह॒विष॒ऽआत्ता॑म॒द्य म॑ध्य॒तो मेद॒ऽउद्भृ॑तं पु॒रा द्वेषो॑भ्यः पु॒रा पौरु॑षेय्या गृ॒भो घस्तां॑ नू॒नं घा॒सेऽअ॑ज्राणां॒ यव॑सप्रथमानाँ सु॒मत्क्ष॑राणाँ शतरु॒द्रिया॑णामग्निष्वा॒त्तानां॒ पीवो॑पवसनानां पार्श्व॒तः श्रो॑णि॒तः शि॑ताम॒तऽउ॑त्साद॒तोऽङ्गा॑दङ्गा॒दव॑त्तानां॒ कर॑तऽए॒वाश्विना॑ जु॒षेताँ॑ ह॒विर्होत॒र्यज॑ ॥४३ ॥
मूलम् ...{Loading}...
होता॑ यक्षद॒श्विनौ॒ छाग॑स्य ह॒विष॒ऽआत्ता॑म॒द्य म॑ध्य॒तो मेद॒ऽउद्भृ॑तं पु॒रा द्वेषो॑भ्यः पु॒रा पौरु॑षेय्या गृ॒भो घस्तां॑ नू॒नं घा॒सेऽअ॑ज्राणां॒ यव॑सप्रथमानाँ सु॒मत्क्ष॑राणाँ शतरु॒द्रिया॑णामग्निष्वा॒त्तानां॒ पीवो॑पवसनानां पार्श्व॒तः श्रो॑णि॒तः शि॑ताम॒तऽउ॑त्साद॒तोऽङ्गा॑दङ्गा॒दव॑त्तानां॒ कर॑तऽए॒वाश्विना॑ जु॒षेताँ॑ ह॒विर्होत॒र्यज॑ ॥४३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
हो॒ता। य॒क्ष॒त्। अ॒श्विनौ॑। छाग॑स्य। ह॒विषः॑। आत्ता॑म्। अ॒द्य। म॒ध्य॒तः। मेदः॑। उद्भृ॑त॒मित्युत्ऽभृ॑तम्। पु॒रा। द्वेषो॑भ्य॒ इति॒ द्वेषः॑ऽभ्यः। पु॒रा। पौरु॑षेय्याः। गृ॒भः। घस्ता॑म्। नू॒नम्। घा॒सेऽअ॑ज्राणा॒मिति॑ घा॒सेऽअ॑ज्राणाम्। यव॑सप्रथमाना॒मिति॒ यव॑सऽप्रथमानाम्। सु॒मत्क्ष॑राणा॒मिति॑ सु॒मत्ऽक्ष॑राणाम्। श॒त॒रु॒द्रिया॑णा॒मिति॑ शतऽरु॒द्रिया॑णाम्। अ॒ग्नि॒ष्वा॒त्ताना॑म्। अ॒ग्नि॒स्वा॒त्ताना॒मित्य॑ग्निऽस्वा॒त्ताना॑म्। पीवो॑पवसनाना॒मिति॒ पीवः॑ऽउपवसनानाम्। पा॒र्श्व॒तः श्रो॒णि॒तः। शि॒ता॒म॒तः। उ॒त्सा॒द॒त इत्यु॑त्ऽसाद॒तः। अङ्गा॑दङ्गा॒दित्यङ्गा॑त्ऽअङ्गात्। अव॑त्तानाम्। कर॑तः। एव। अ॒श्विना॑। जु॒षेता॑म्। ह॒विः। होतः॑। यज॑। ४३।
महीधरः
म० होता सरस्वतीं यक्षत् या सरस्वती मेषस्य हविषः हविः आवयत् अभक्षयत् । आङ्पूर्वस्य वेतेर्लङि रूपम् । यद्वा भक्षयतु । लेटि वाडागमे रूपम् । अद्य मध्यतो मेद इत्यादिव्याख्या पूर्ववत् । सा अङ्गानि घसत् । एवं सरस्वती हविर्जुषतां तृप्तिं च करदित्येकवचनानि । अन्यदुक्तम् ॥ ४४ ॥
पञ्चचत्वारिंशी।
अधिमन्त्रम् (VC)
- होत्रादयो देवताः
- स्वस्त्यात्रेय ऋषिः
- आद्यस्य याजुषी पङ्क्तिः, कृतिः
- पञ्चमः, षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (होतः) देने हारे ! जैसे (होता) लेनेवाला (अश्विनौ) पाने और उपदेश करनेवालों को (यक्षत्) सङ्गत करे और वे (अद्य) आज (छागस्य) बकरा आदि पशुओं के (मध्यतः) बीच से (हविषः) लेने योग्य पदार्थ का (मेदः) चिकना भाग अर्थात् घी दूध आदि (उद्भृतम्) उद्धार किया हुआ (आत्ताम्) लेवें वा जैसे (द्वेषोभ्यः) दुष्टों से (पुरा) प्रथम (गृभः) ग्रहण करने योग्य (पौरुषेय्याः) पुरुषों के समूह में उत्तम स्त्री के (पुरा) पहिले (नूनम्) निश्चय करके (घस्ताम्) खावें वा जैसे (यवसप्रथमानाम्) जो जिन का पहिला अन्न (घासेअज्राणाम्) जो खाने में आगे पहुँचाने योग्य (सुमत्क्षराणाम्) जिन के उत्तम-उत्तम आनन्दों का कंपन आगमन (शतरुद्रियाणाम्) दुष्टों को रुलाने हारे सैकड़ों रुद्र जिन के देवता (पीवोपवसनानाम्) वा जिन के मोटे-मोटे कपड़ों के ओढ़ने-पहिरने (अग्निष्वात्तानाम्) वा जिन्होंने भलीभाँति अग्निविद्या का ग्रहण किया हो, इन सब प्राणियों के (पार्श्वतः) पार्श्वभाग (श्रोणितः) कटिप्रदेश (शितामतः) तीक्ष्ण जिस में कच्चा अन्न उस प्रदेश (उत्सादतः) उपाड़ते हुए अङ्ग और (अङ्गादङ्गात्) प्रत्येक अङ्ग से व्यवहार वा (अवत्तानाम्) नमे हुए उत्तम अंगों (एव) ही के व्यवहार को (अश्विना) अच्छे वैद्य (करतः) करें और (हविः) उक्त पदार्थों से खाने योग्य पदार्थ का (जुषेताम्) सेवन करें, जैसे-वैसे (यज) सब पदार्थों वा व्यवहारों की सङ्गति किया कर ॥४३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो छेरी आदि पशुओं की रक्षा कर उनके दूध अदि का अच्छा-अच्छा संस्कार और भोजन कर वैरभावयुक्त पुरुषों को निवारण कर और अच्छे वैद्यों का सङ्ग करके उत्तम खाना, पहिरना करते हैं, वे प्रत्येक अङ्ग से रोगों को दूर कर सुखी होते हैं ॥४३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे होतर्यथा होताश्विनौ यक्षत्तौ चाद्य छागस्य मध्यतो हविषो मेद उद्भृतमात्तां यथा वा पुरा द्वेषोभ्यो गृभः पौरुषेय्याः पुरा नूनं घस्तां यथा वा यवसप्रथमानां घासेअज्राणां सुमत्क्षराणां शतरुद्रियाणां पीवोपवसनानामग्निष्वात्तानां पार्श्वतः श्रोणितः शितामत उत्सादतोऽङ्गादङ्गादवत्तानामेवाश्विना करतो हविर्जुषेतां तथा त्वं यज ॥४३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये छागादीनां रक्षां विधाय तेषां दुग्धादिकं सुसंस्कृत्य भुक्त्वा द्वेषादियुक्तान् पुरुषान्निवार्य सुवैद्यानां सङ्गं कृत्वा शोभनं भोजनाऽऽच्छादनं कुर्वन्ति, ते प्रत्यङ्गाद् रोगान्निवार्य सुखिनो भवन्ति ॥४३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे शेळी वगैरे पशूंचे रक्षण करून त्यांचे दूध संस्कारित करून भोजन करतात व वैर करणाऱ्या पुरुषांपासून दूर राहतात आणि चांगल्या वैद्याच्या सल्ल्याने भोजन व वस्रे वापरतात, ते रोगांचे दूर करून सर्व दृष्टीने सुखी होतात.
४४ होता यक्षत्सरस्वतीम्
विश्वास-प्रस्तुतिः ...{Loading}...
होता॑ यक्ष॒त्सर॑स्वतीं॑ मे॒षस्य॑ ह॒विष॒ऽआव॑यद॒द्य म॑ध्य॒तो मेदः॒ उद्भृ॑तं पु॒रा द्वेषो॑भ्यः पु॒रा पौरु॑षेय्या गृ॒भो घस॑न्नू॒नं घा॒सेऽअ॑ज्राणां॒ यव॑सप्रथमानाँ सु॒मत्क्ष॑राणाँ शतरु॒द्रिया॑णामग्निष्वा॒त्तानां॒ पीवो॑पवसनानां पार्श्व॒तः श्रो॑णि॒तः शि॑ताम॒तऽउ॑त्साद॒तोऽङ्गा॑दङ्गा॒दव॑त्तानां॒ कर॑दे॒वँ सर॑स्वती जु॒षताँ॑ ह॒विर्होत॒र्यज॑ ॥४४ ॥
मूलम् ...{Loading}...
होता॑ यक्ष॒त्सर॑स्वतीं॑ मे॒षस्य॑ ह॒विष॒ऽआव॑यद॒द्य म॑ध्य॒तो मेदः॒ उद्भृ॑तं पु॒रा द्वेषो॑भ्यः पु॒रा पौरु॑षेय्या गृ॒भो घस॑न्नू॒नं घा॒सेऽअ॑ज्राणां॒ यव॑सप्रथमानाँ सु॒मत्क्ष॑राणाँ शतरु॒द्रिया॑णामग्निष्वा॒त्तानां॒ पीवो॑पवसनानां पार्श्व॒तः श्रो॑णि॒तः शि॑ताम॒तऽउ॑त्साद॒तोऽङ्गा॑दङ्गा॒दव॑त्तानां॒ कर॑दे॒वँ सर॑स्वती जु॒षताँ॑ ह॒विर्होत॒र्यज॑ ॥४४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
होता॑। य॒क्ष॒त्। सर॑स्वतीम्। मे॒षस्य॑। ह॒विषः॑। आ। अ॒व॒य॒त्। अ॒द्य। म॒ध्य॒तः। मेदः॑। उद्भृ॑त॒मित्युत्ऽभृ॑तम्। पु॒रा। द्वेषो॑भ्य॒ इति॒ द्वेषः॑ऽभ्यः। पु॒रा। पौरु॑षेय्याः। गृ॒भः। घस॑त्। नू॒नम्। घा॒सेऽअ॑ज्राणा॒मिति॑ घा॒सेऽअ॑ज्राणाम्। यव॑सप्रथमाना॒मिति॒ यव॑सऽप्रथमानाम्। सु॒मत्क्ष॑राणा॒मिति॑ सु॒मत्ऽक्ष॑राणाम्। श॒त॒रु॒द्रिया॑णा॒मिति॑ शतऽरु॒द्रिया॑णाम्। अ॒ग्नि॒ष्वा॒त्ताना॑म्। अ॒ग्नि॒स्वा॒त्ताना॒मित्य॑ग्निऽस्वा॒त्ताना॑म्। पीवो॑पवसनाना॒मिति॒ पीवः॑ऽउपवसनानाम्। पा॒र्श्व॒तः श्रो॒णि॒तः। शि॒ता॒म॒तः। उ॒त्सा॒द॒त इत्यु॑त्ऽसाद॒तः। अङ्गा॑दङ्गा॒दित्यङ्गा॑त्ऽअङ्गात्। अव॑त्तानाम्। कर॑त्। ए॒वम्। सर॑स्वती। जु॒षता॑म्। ह॒विः। होतः॑। यज॑। ४४।
महीधरः
म० होता इन्द्रं यक्षत् । स इन्द्र ऋषभस्य हविष आवयत् भक्षयतु । एवमिन्द्रो हविर्जुषतामित्यन्तं पूर्ववत् ॥ ४५ ॥
षट्चत्वारिंशी।
अधिमन्त्रम् (VC)
- विद्वांसो देवता
- स्वस्त्यात्रेय ऋषिः
- याजुषी त्रिष्टुप्, कृतिः
- धैवतः, षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (होतः) लेने हारे ! जैसे (होता) देनेवाला (अद्य) आज (मेषस्य) उपदेश को पाये हुए मनुष्य के (शितामतः) खरे स्वभाव से (हविषः) देने योग्य पदार्थ के (मध्यतः) बीच में प्रसिद्ध व्यवहार से जो (मेदः) चिकना पदार्थ (उद्भृतम्) उद्धार किया अर्थात् निकाला उसको (सरस्वतीम्) और वाणी को (आ, अवयत्) प्राप्त होता तथा (यक्षत्) सत्कार करता और (द्वेषोभ्यः) शत्रुओं से (पुरा) पहिले तथा (गृभः) ग्रहण करने योग्य (पौरुषेय्याः) पुरुषसम्बन्धिनी स्त्री के (पुरा) प्रथम (नूनम्) निश्चय से (घसत्) खावे वा (घासेअज्राणाम्) जो भोजन करने में सुन्दर (यवसप्रथमानाम्) मिले न मिले हुए आदि (सुमत्क्षराणाम्) श्रेष्ठ आनन्द की वर्षा कराने और (पीवोपवसनानाम्) मोटे कपड़े पहरनेवाले तथा (अग्निष्वात्तानाम्) अग्निविद्या को भलीभाँति ग्रहण किये हुए और (शतरुद्रियाणाम्) बहुतों के बीच विद्वानों का अभिप्राय रखने हारों के (पार्श्वतः) समीप और (श्रोणितः) कटिभाग से (उत्सादतः) शरीर से जो त्याग उससे वा (अङ्गादङ्गात्) अङ्ग-अङ्ग से (अवत्तानाम्) ग्रहण किये हुए व्यवहारों की विद्या को (करत्) ग्रहण करे (एवम्) ऐसे (सरस्वती) पण्डिता स्त्री उस का (जुषताम्) सेवन करें, वैसे तू भी (हविः) ग्रहण करने योग्य व्यवहार की (यज) सङ्गति किया कर ॥४४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो मनुष्य सज्जनों के सङ्ग से दुष्टों का निवारण कर युक्त आहार-विहारों से आरोग्यपन को पाकर धर्म का सेवन करते, वे कृतकृत्य होते हैं ॥४४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे होतर्यथा होताऽद्य मेषस्य शितामतो हविषो मध्यतो यन्मेद उद्भृतं तत्सरस्वतीं चावयत्यक्षत्द्वेषोभ्यः पुरा गृभः पौरुषेय्याः पुरा नूनं घसद् घासेअज्राणां यवसप्रथमानां सुमत्क्षराणां पीवोपवसनानामग्निष्वात्तानां शतरुद्रियाणां पार्श्वतः श्रोणित उत्सादतोऽङ्गादङ्गादवत्तानां सकाशाद् विद्यां करदेवमेतत्सरस्वती जुषतां तथा त्वं च हविर्यज ॥४४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये मनुष्याः सज्जनसङ्गेन दुष्टान् निवार्य युक्ताहारविहाराभ्यामारोग्यं प्राप्य धर्मं सेवन्ते, ते कृतकृत्या जायन्ते ॥४४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जी माणसे सज्जनाच्या संगतीत राहून दुष्टांचा नाश करतात व युक्त आहार, विहाराने निरागी राहून धर्माचे पालन करतात ते धन्य होतात.
४५ होता यक्षदिन्द्रमृषभस्य
विश्वास-प्रस्तुतिः ...{Loading}...
होता॑ यक्ष॒दिन्द्र॑मृष॒भस्य॑ ह॒विष॒ऽआव॑यद॒द्य म॑ध्य॒तो मेद॒ऽउद्भृ॑तं पु॒रा द्वेषो॑भ्यः पु॒रा पौरु॑षेय्या गृ॒भो घस॑न्नू॒नं घा॒सेऽअ॑ज्राणां॒ यव॑सप्रथमानाँ सु॒मत्क्ष॑राणाँ शतरु॒द्रिया॑णामग्निष्वा॒त्तानां॒ पीवो॑पवसनानां पार्श्व॒तः श्रो॑णि॒तः शि॑ताम॒तऽउ॑त्साद॒तोऽङ्गा॑दङ्गा॒दव॑त्तानां॒ कर॑दे॒वमिन्द्रो॑ जु॒षताँ॑ ह॒विर्होत॒र्यज॑ ॥४५ ॥
मूलम् ...{Loading}...
होता॑ यक्ष॒दिन्द्र॑मृष॒भस्य॑ ह॒विष॒ऽआव॑यद॒द्य म॑ध्य॒तो मेद॒ऽउद्भृ॑तं पु॒रा द्वेषो॑भ्यः पु॒रा पौरु॑षेय्या गृ॒भो घस॑न्नू॒नं घा॒सेऽअ॑ज्राणां॒ यव॑सप्रथमानाँ सु॒मत्क्ष॑राणाँ शतरु॒द्रिया॑णामग्निष्वा॒त्तानां॒ पीवो॑पवसनानां पार्श्व॒तः श्रो॑णि॒तः शि॑ताम॒तऽउ॑त्साद॒तोऽङ्गा॑दङ्गा॒दव॑त्तानां॒ कर॑दे॒वमिन्द्रो॑ जु॒षताँ॑ ह॒विर्होत॒र्यज॑ ॥४५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
होता॑। य॒क्ष॒त्। इन्द्र॑म्। ऋ॒ष॒भस्य॑। ह॒विषः॑। आ। अ॒व॒य॒त्। अ॒द्य। म॒ध्य॒तः। मेदः॑। उद्भृ॑त॒मित्युत्ऽभृ॑तम्। पु॒रा। द्वेषो॑भ्य॒ इति॒ द्वेषः॑ऽभ्यः। पु॒रा। पौरु॑षेय्याः। गृ॒भः। घस॑त्। नू॒नम्। घा॒सेऽअ॑ज्राणा॒मिति॑ घा॒सेऽअ॑ज्राणाम्। यव॑सप्रथमाना॒मिति॒ यव॑सऽप्रथमानाम्। सु॒मत्क्ष॑राणा॒मिति॑ सु॒मत्ऽक्ष॑राणाम्। श॒त॒रु॒द्रिया॑णा॒मिति॑ शतऽरु॒द्रिया॑णाम्। अ॒ग्नि॒ष्वा॒त्ताना॑म्। अ॒ग्नि॒स्वा॒त्ताना॒मित्य॑ग्निऽस्वा॒त्ताना॑म्। पीवो॑पवसनाना॒मिति॒ पीवः॑ऽउपवसनानाम्। पा॒र्श्व॒तः श्रो॒णि॒तः। शि॒ता॒म॒तः। उ॒त्सा॒द॒त इत्यु॑त्ऽसाद॒तः। अङ्गा॑दङ्गा॒दित्यङ्गा॑त्ऽअङ्गात्। अव॑त्तानाम्। कर॑त्। ए॒वम्। इन्द्रः॑। जु॒षता॑म्। ह॒विः। होतः॑। यज॑। ४५।
महीधरः
म० ‘उत्तमौ वनस्पतिस्विष्टकृतोः’ ( का० १९ । ६ । २५)। अन्ते पठ्यमानौ होता यक्षद्वनस्पतिमभि होता यक्षदग्निं स्विष्टकृतमिति क्रमेण वनस्पतियागे स्विष्टकृद्यागे च प्रैषौ । यूपो देवता । दैव्यो होता वनस्पतिं यूपमभियक्षत् अभियजतु । हि यस्मात् वनस्पतिः रशनया रज्ज्वा कृत्वा अधित धृतवान् । पशुनिति शेषः । दधातेर्लुङि ‘स्थाध्वोरिच्च’ (पा० १।२। १७) इतीकारः । कीदृश्या रज्ज्वा । पिष्टतमया । पिष्टशब्दो रूपवाची । अत्यन्तं पिष्टा सुरूपा पिष्टतमा तया । रभिष्ठया रभते पशून्नियच्छतीति रब्धी तृच ङीप् । अत्यन्तं रब्धी रभिष्ठा तया । ‘तुश्छन्दसि’ (पा० ५। ३ । ५९ ) इतीष्ठनि तृचो लोपः । समर्थयेत्यर्थः । इदानीं वनस्पतिः प्रार्थ्यते ॥ यत्र अश्विनोः संबन्धिनः छागस्य हविषः छागरूपस्य हविषः प्रिया प्रियाणि इष्टानि धामानि स्थानानि वर्तन्त इति शेषः । एवमग्रेऽपि । यत्र सरस्वत्या मेषस्य मेषरूपस्य हविषः प्रियाणि धामानि यत्र इन्द्रस्य ऋषभस्य हविषः प्रियाणि धामानि एतेषां पशुदेवानां स्थानानि । यत्राग्नेः प्रियाणि धामानि यत्र करणस्य प्रियाणि धामानि एते पशुपुरोडाशदेवा यत्र सोमस्य प्रियाणि धामानि एतावाज्यभागौ । यत्र सुत्राम्ण इन्द्रस्य प्रियाणि धामानि । यत्र सवितुः प्रियाणि धामानि यत्र वनस्पतेः प्रियाणि पाथांसि अन्नानि । अथ यत्र आज्यपानां देवानां प्रयाजानुयाजानां प्रियाणि धामानि । यत्र होतुरग्नेः स्विष्टकृतः प्रियाणि धामानि । एताञ्छागादीन् पशून् रभीयस इव कृत्वी रभन्ते ते रब्धारः अत्यन्तं रब्धारो रभीयांसः सरभसांश्च कृत्वा इवश्चार्थः । प्रस्तुत्येव प्रकर्षेण स्तुत्वा च उपस्तुत्येव उप समीपे स्तुत्वा च । इवौ चार्थौ । तत्र तेषु पूर्वोक्तेषु स्थानेषु वनस्पतिर्देव उपावस्रक्षत् उपावसृजतु स्थापयतु । सृजेर्लुङि रूपं । लेटि वा ‘सिब्बहुलं लेटि’ (पा० ३ । १।३४) | इति सिप्प्रत्ययेऽडागमे च रूपम् । वनस्पतिर्देव एवं करत् करोतु । हविश्च जुषताम् । हे मनुष्यहोतः, त्वमपि यज ॥ ४६ ॥
सप्तचत्वारिंशी।
अधिमन्त्रम् (VC)
- यजमानर्त्विजो देवताः
- स्वस्त्यात्रेय ऋषिः
- भुरिक्प्राजापत्योष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (होतः) देने हारे ! जैसे (होता) लेने हारा पुरुष (घासेअज्राणाम्) भोजन करने में प्राप्त होने (यवसप्रथमानाम्) जौ आदि अन्न वा मिले हुए पदार्थों को विस्तार करने और (सुमत्क्षराणाम्) भलीभाँति प्रमाद का विनाश करनेवाले (अग्निष्वात्तनाम्) जाठराग्नि अर्थात् पेट में भीतर रहनेवाली आग से अन्न ग्रहण किये हुए (पीवोपवसनानाम्) मोटे-पोढ़े उड़ाने-ओढ़ने (शतरुद्रियाणाम्) और सैकड़ों दुष्टों को रुलाने हारे (अवत्तानाम्) उदारचित्त विद्वानों के (पार्श्वतः) और पास के अङ्ग वा (श्रोणितः) क्रम से वा (शितामतः) तीक्ष्णता के साथ जिससे रोग छिन्न-भिन्न हो गया हो, उस अङ्ग वा (उत्सादतः) त्यागमात्र वा (अङ्गादङ्गात्) प्रत्येक अङ्ग से (हविः) रोगविनाश करने हारी वस्तु और (इन्द्रम्) परमैश्वर्य को सिद्ध (करत्) करे और (इन्द्रः) परम ऐश्वर्यवाला राजा उस का (जुषताम्) सेवन करे तथा वह राजा जैसे (अद्य) आज (ऋषभस्य) उत्तम (हविषः) लेने योग्य पदार्थ के (मध्यतः) बीच में उत्पन्न हुआ (मेदः) चिकना पदार्थ (उद्भृतम्) जो कि उत्तमता से पुष्ट किया गया अर्थात् सम्हाला गया हो उस को (आ, अवयत्) व्याप्त हो सब ओर से प्राप्त हो (द्वेषोभ्यः) वैरियों से (पुरा) प्रथम (गृभः) ग्रहण करने योग्य (पौरुषेय्याः) पुरुषसम्बन्धिनी विद्या के सम्बन्ध से (पुरा) पहिले (नूनम्) निश्चय के साथ (यक्षत्) सत्कार करे वा (एवम्) इस प्रकार (घसत्) भोजन करे वैसे तू (यज) सब व्यवहारों की सङ्गति किया कर ॥४५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो मनुष्य विद्वानों के सङ्ग से दुष्टों को निवारण तथा श्रेष्ठ उत्तम जनों का सत्कार कर लेने योग्य पदार्थ को लेकर और दूसरों को ग्रहण करा सब की उन्नति करते हैं, वे सत्कार करने योग्य होते हैं ॥४५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे होतर्यथा होता घासेअज्राणां यवसप्रथमानां सुमत्क्षराणामग्निष्वात्तानां पीवोपवसनानां शतरुद्रियाणामवत्तानां पार्श्वतः श्रोणितः शितामत उत्सादतोऽङ्गादङ्गाद्धविरिन्द्रं च करदिन्द्रो जुषतां यथाऽद्यर्षभस्य हविषो मध्यतो मेद उद्भृतमावयत्द्वेषोभ्यः पुरा गृभः पौरुषेय्याः पुरा नूनं यक्षदेवं घसत्तथा त्वं यज ॥४५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये मनुष्या विदुषां सङ्गेन दुष्टान् निवार्य्य श्रेष्ठान् सत्कृत्य ग्रहीतव्यं गृहीत्वाऽन्यान् ग्राहयित्वा सर्वानुन्नयन्ति, ते पूज्या जायन्ते ॥४५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जी माणसे विद्वानांच्या संगतीने दुष्टांचा नाश व श्रेष्ठ लोकांचा सन्मान करण्यासाठी योग्य पदार्थांचे चयन करून इतरांनाही त्याप्रमाणे चयन करावयास लावून सर्वांची उन्नती करतात ते सन्माननीय ठरतात.
४६ होता यक्षद्
विश्वास-प्रस्तुतिः ...{Loading}...
होता॑ यक्ष॒द् वन॒स्पति॑म॒भि हि पि॒ष्टत॑मया॒ रभि॑ष्ठया रश॒नयाधि॑त। यत्रा॒श्विनो॒श्छाग॑स्य ह॒विषः॑ प्रि॒या धामा॑नि॒ यत्र॒ सर॑स्वत्या मे॒षस्य॑ ह॒विषः॑ प्रि॒या धामा॑नि॒ यत्रेन्द्र॑स्यऽऋष॒भस्य॑ ह॒विषः॑ प्रि॒या धामा॑नि॒ यत्रा॒ग्नेः प्रि॒या धामा॑नि॒ यत्र॒ सोम॑स्य प्रि॒या धामा॑नि॒ यत्रेन्द्र॑स्य सु॒त्राम्णः॑ प्रि॒या धामा॑नि॒ यत्र॑ सवि॒तुः प्रि॒या धामा॑नि॒ यत्र॒ वरु॑णस्य प्रि॒या धामा॑नि यत्र॒ वन॒स्पतेः॑ प्रि॒या पाथाँ॑सि॒ यत्र॑ दे॒वाना॑माज्य॒पानां॑ प्रि॒या धामा॑नि॒ यत्रा॒ग्नेर्होतुः॑ प्रि॒या धामा॑नि॒ तत्रै॒तान् प्र॒स्तुत्ये॑वोप॒स्तुत्ये॑वो॒पाव॑स्रक्ष॒द् रभी॑यसऽइव कृ॒त्वी कर॑दे॒वं दे॒वो वन॒स्पति॑र्जु॒षताँ॑ ह॒विर्होत॒र्यज॑ ॥४६ ॥
मूलम् ...{Loading}...
होता॑ यक्ष॒द् वन॒स्पति॑म॒भि हि पि॒ष्टत॑मया॒ रभि॑ष्ठया रश॒नयाधि॑त। यत्रा॒श्विनो॒श्छाग॑स्य ह॒विषः॑ प्रि॒या धामा॑नि॒ यत्र॒ सर॑स्वत्या मे॒षस्य॑ ह॒विषः॑ प्रि॒या धामा॑नि॒ यत्रेन्द्र॑स्यऽऋष॒भस्य॑ ह॒विषः॑ प्रि॒या धामा॑नि॒ यत्रा॒ग्नेः प्रि॒या धामा॑नि॒ यत्र॒ सोम॑स्य प्रि॒या धामा॑नि॒ यत्रेन्द्र॑स्य सु॒त्राम्णः॑ प्रि॒या धामा॑नि॒ यत्र॑ सवि॒तुः प्रि॒या धामा॑नि॒ यत्र॒ वरु॑णस्य प्रि॒या धामा॑नि यत्र॒ वन॒स्पतेः॑ प्रि॒या पाथाँ॑सि॒ यत्र॑ दे॒वाना॑माज्य॒पानां॑ प्रि॒या धामा॑नि॒ यत्रा॒ग्नेर्होतुः॑ प्रि॒या धामा॑नि॒ तत्रै॒तान् प्र॒स्तुत्ये॑वोप॒स्तुत्ये॑वो॒पाव॑स्रक्ष॒द् रभी॑यसऽइव कृ॒त्वी कर॑दे॒वं दे॒वो वन॒स्पति॑र्जु॒षताँ॑ ह॒विर्होत॒र्यज॑ ॥४६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
होता॑। य॒क्ष॒त्। वन॒स्पति॑म्। अ॒भि। हि। पि॒ष्टत॑म॒येति॑ पि॒ष्टऽत॑मया। रभि॑ष्ठया। र॒श॒नया॑। अधि॑त। यत्र॑। अ॒श्विनोः॑। छाग॑स्य। ह॒विषः॑। प्रि॒या। धामा॑नि। यत्र॑। सर॑स्वत्याः। मे॒षस्य॑। ह॒विषः। प्रि॒या। धामा॑नि। यत्र॑। इन्द्र॑स्य। ऋ॒ष॒भस्य॑। ह॒विषः॑। प्रि॒या। धामा॑नि। यत्र॑। अ॒ग्नेः। प्रि॒या। धामा॑नि। यत्र॑। सोम॑स्य। प्रि॒या। धामा॑नि। यत्र॑। इन्द्र॑स्य। सु॒त्राम्ण॒ इति॑ सु॒ऽत्राम्णः॑। प्रि॒या। धामा॑नि। यत्र॑। स॒वि॒तुः। प्रि॒या। धामा॑नि। यत्र॑। वरु॑णस्य। प्रि॒या। धामा॑नि। यत्र॑। वन॒स्पतेः॑। प्रि॒या। पाथाँ॑सि। यत्र॑। दे॒वाना॑म्। आ॒ज्य॒पाना॒मित्या॑ज्य॒ऽपाना॑म्। प्रि॒या। धामा॑नि। यत्र॑। अ॒ग्नेः। होतुः॑। प्रि॒या। धामा॑नि। तत्र॑। ए॒तान्। प्र॒स्तुत्ये॒वेति॑ प्र॒ऽस्तुत्य॑ऽइव। उ॒प॒स्तुत्ये॒वेत्यु॑प॒ऽस्तुत्य॑इव। उपाव॑स्रक्ष॒दित्यु॑प॒ऽअव॑स्रक्षत्। रभी॑यसऽइ॒वेति॒ रभी॑यसःइव। कृ॒त्वी। कर॑त्। ए॒वम्। देवः॑। वन॒स्पतिः॑। जु॒षता॑म्। ह॒विः। होतः॑। यज॑। ४६।
महीधरः
म० स्विष्टकृदग्निदेवता । होता स्विष्टकृतमग्निं यक्षत् यजतु । योऽग्निः स्विष्टकृत् अश्विनोः छागस्य हविषः संबन्धीनि प्रियाणि धामानि अयाट् अयाक्षीत् इष्टवान् । अवदानानि यजति स्मेत्यर्थः । एवमग्रेऽपि । सरस्वत्या मेषस्य हविषः प्रियाणि धामानि अवदानानि अयाट् इन्द्रस्य ऋषभस्य हविषः प्रियाणि धामानि अयाट् एताः प्रधानदेवताः अग्नेः प्रिया धामान्ययाट् सोमस्य प्रिया धामानि अयाट् एतावाज्यभागौ । सुष्ठु त्रायते सुत्राम्ण इन्द्रस्य प्रियाणि सवितुः प्रियाणि वरुणस्य प्रियाणि एताः पशुपुरोडाशदेवताः । वनस्पतेः प्रियाणि एतत्प्रधानाङ्गम् । आज्यपानां देवानां प्रियाणि एते प्रयाजानुयाजाः । होतुरग्नेः स्विष्टकृतः स्वस्यैव प्रियाणि धामानि यक्षत् इष्टवान् । स्वं महिमानं स्वां विभूतिं यक्षत् । किंच आ इज्याः समन्ताद् यष्टुं योग्या एज्याः यागार्हाः । इषः इच्छन्तीति इषः सकामाः प्रजाः आयजतां सम्यक् यजतु । वचनव्यत्ययः। प्रजा यागशीला यागयोग्याश्च भवन्त्वित्यर्थः । स जातवेदाः स्विष्टकृदग्निः अध्वरा अध्वरान्यज्ञान् कृणोतु करोतु । हविश्च जुषताम् । हे मनुष्यहोतः, त्वं यज । विभक्तेराकारः ॥ ४७ ॥
अष्टचत्वारिंशी।
अधिमन्त्रम् (VC)
- अश्व्यादयो देवताः
- स्वस्त्यात्रेय ऋषिः
- कृतिः
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (होतः) देनेहारे ! जैसे (होता) लेने हारा सत्पुरुष (पिष्टतमया) अति पिसी हुई (रभिष्ठया) अत्यन्त शीघ्रता से बढ़नेवाली वा जिस का बहुत प्रकार से प्रारम्भ होता है, उस वस्तु और (रशनया) रश्मि के साथ (यत्र) जहाँ (अश्विनोः) सूर्य्य और चन्द्रमा के सम्बन्ध से पालित (छागस्य) घास को छेदने-खाने हारे बकरा आदि पशु और (हविषः) देने योग्य पदार्थ सम्बन्धी (प्रिया) मनोहर (धामानि) उत्पन्न होने-ठहरने की जगह और नाम वा (यत्र) जहाँ (सरस्वत्याः) नदी (मेषस्य) मेंढ़ा और (हविषः) ग्रहण करने पदार्थ-सम्बन्धी (प्रिया) मनोहर (धामानि) जन्म, स्थान और नाम वा (यत्र) जहाँ (इन्द्रस्य) ऐश्वर्ययुक्त जन के (ऋषभस्य) प्राप्त होने और (हविषः) देने योग्य पदार्थ के (प्रिया) प्यारे मन के हरनेवाले (धामानि) जन्म, स्थान और नाम वा (यत्र) जहाँ (अग्नेः) प्रसिद्ध और बिजुलीरूप अग्नि के (प्रिया) मनोहर (धामानि) जन्म स्थान और नाम वा (यत्र) जहाँ (सोमस्य) ओषधियों के (प्रिया) मनोहर (धामानि) जन्म, स्थान और नाम वा (यत्र) जहाँ (सुत्राम्णः) भलीभाँति रक्षा करनेवाले (इन्द्रस्य) ऐश्वर्ययुक्त उत्तम पुरुष के (प्रिया) मनोहर (धामानि) जन्म, स्थान और नाम वा (यत्र) जहाँ (सवितुः) सब को प्रेरणा देने हारे पवन के (प्रिया) मनोहर (धामानि) उत्पन्न होने-ठहरने की जगह और नाम वा (यत्र) जहाँ (वरुणस्य) श्रेष्ठ पदार्थ के (प्रिया) मनोहर (धामानि) जन्म, स्थान और नाम वा (यत्र) जहाँ (वनस्पतेः) वट आदि वृक्षों के (प्रिया) उत्तम (पाथांसि) अन्न अर्थात् उन के पीने के जल वा (यत्र) जहाँ (आज्यपानाम्) गति अर्थात् अपनी कक्षा में घूमने से जीवों के पालनेवाले (देवानाम्) पृथिवी आदि दिव्य लोकों का (प्रिया) उत्तम (धामानि) उत्पन्न होना उनके ठहरने की जगह और नाम वा (यत्र) जहाँ (होतुः) उत्तम सुख देने और (अग्नेः) विद्या से प्रकाशमान होने हारे अग्नि के (प्रिया) मनोहर (धामानि) जन्म स्थान और नाम हैं, (तत्र) वहाँ (एतान्) इन उक्त पदार्थों की (प्रस्तुत्येव) प्रकरण से अर्थात् समय-समय से चाहना सी कर और (उपस्तुत्येव) उनकी समीप प्रशंसा सी करके (उपावस्रक्षत्) उनको गुण-कर्म-स्वभाव से यथायोग्य कामों में उपार्जन करे अर्थात् उक्त पदार्थों का संचय करे (रभीयस इव) बहुत प्रकार से अतीव आरम्भ के समान (कृत्वी) करके कार्य्यों के उपयोग में लावे (एवम्) और उस प्रकार (करत्) उनका व्यवहार करे वा जैसे (वनस्पतिः) सूर्य आदि लोकों की किरणों की पालना करने हारा और (देवः) दिव्यगुणयुक्त अग्नि (हविः) संस्कार किये अर्थात् उत्तमता से बनाये हुए पदार्थ का (जुषताम्) सेवन करे और (हि) निश्चय से (वनस्पतिम्) वट आदि वृक्षों को (अभि, यक्षत्) सब ओर से पहुँचे अर्थात् बिजुली रूप से प्राप्त हो और (अधित) उनका धारण करे, वैसे तू (यज) सब व्यवहारों की सङ्गति किया कर ॥४६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। जो मनुष्य ईश्वर के उत्पन्न किये हुए पदार्थों के गुण, कर्म और स्वभावों को जान कर इन को कार्य की सिद्धि के लिए भलीभाँति युक्त करें तो वे अपने चाहे हुए सुखों को प्राप्त होवें ॥४६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे होतर्यथा होता पिष्टतमया रभिष्ठया रशनया यत्राऽश्विनोश्छागस्य हविषः प्रिया धामानि यत्र सरस्वत्या मेषस्य हविषः प्रिया धामानि यत्रेन्द्रस्यर्षभस्य हविषः प्रिया धामानि यत्राग्नेः प्रिया धामानि यत्र सोमस्य प्रिया धामानि यत्र सुत्राम्ण इन्द्रस्य प्रिया धामानि यत्र सवितुः प्रिया धामानि यत्र वरुणस्य प्रिया धामानि यत्र वनस्पतेः प्रिया पाथांसि यत्राज्यपानां देवानां प्रिया धामानि यत्र होतुरग्नेः प्रिया धामानि सन्ति तत्रैतान् प्रस्तुत्येवोपस्तुत्येवोपावस्रक्षद् रभीयस इव कृत्वी कार्य्येषूपयुञ्जीतैवं करद्यथा वनस्पतिर्देवो हविर्जुषतां हि वनस्पतिमभियक्षदधित तथा त्वं यज ॥४६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। यदि मनुष्या ईश्वरेण सृष्टानां पदार्थानां गुणकर्मस्वभावान् विदित्वैतान् कार्य्यसिद्धये प्रयुञ्जीरँस्तर्हि स्वेष्टानि सुखानि लभेरन् ॥४६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जी माणसे ईश्वराने निर्माण केलेल्या पदार्थांचे गुण, कर्म, स्वभाव जाणून कार्यसिद्धीसाठी ते व्यवहारात आणतात त्यांनी इच्छित सुख प्राप्त होते.
४७ होता यक्षदग्निम्
विश्वास-प्रस्तुतिः ...{Loading}...
होता॑ यक्षद॒ग्निँ स्वि॑ष्ट॒कृत॒मया॑ड॒ग्नि॒र॒श्विनो॒श्छाग॑स्य ह॒विषः॑ प्रि॒या धामा॒न्यया॒ट्सर॑स्वत्या मे॒षस्य॑ ह॒विषः॑ प्रि॒या धामा॒न्यया॒डिन्द्र॑स्यऽऋष॒भस्य॑ ह॒विषः॑ प्रि॒या धामा॒न्यया॑ड॒ग्नेः प्रि॒या धामा॒न्यया॒ट्सोम॑स्य प्रि॒या धामा॒न्यया॒डिन्द्र॑स्य सु॒त्राम्णः॑ प्रि॒या धामा॒न्यया॑ट्सवि॒तुः प्रि॒या धामा॒न्यया॒ड् वरु॑णस्य प्रि॒या धामा॒न्यया॒ड् वन॒स्पतेः॑ प्रि॒या पाथाँ॒स्यया॑ड् दे॒वाना॑माज्य॒पानां॑ प्रि॒या धामा॑नि॒ यक्ष॑द॒ग्नेर्होतुः॑ प्रि॒या धामा॑नि॒ यक्ष॒त्स्वं म॑हि॒मान॒माय॑जता॒मेज्या॒ऽइषः॑ कृ॒णोतु॒ सोऽअ॑ध्व॒रा जा॒तवे॑दा जु॒षताँ॑ ह॒विर्होत॒र्यज॑ ॥४७ ॥
मूलम् ...{Loading}...
होता॑ यक्षद॒ग्निँ स्वि॑ष्ट॒कृत॒मया॑ड॒ग्नि॒र॒श्विनो॒श्छाग॑स्य ह॒विषः॑ प्रि॒या धामा॒न्यया॒ट्सर॑स्वत्या मे॒षस्य॑ ह॒विषः॑ प्रि॒या धामा॒न्यया॒डिन्द्र॑स्यऽऋष॒भस्य॑ ह॒विषः॑ प्रि॒या धामा॒न्यया॑ड॒ग्नेः प्रि॒या धामा॒न्यया॒ट्सोम॑स्य प्रि॒या धामा॒न्यया॒डिन्द्र॑स्य सु॒त्राम्णः॑ प्रि॒या धामा॒न्यया॑ट्सवि॒तुः प्रि॒या धामा॒न्यया॒ड् वरु॑णस्य प्रि॒या धामा॒न्यया॒ड् वन॒स्पतेः॑ प्रि॒या पाथाँ॒स्यया॑ड् दे॒वाना॑माज्य॒पानां॑ प्रि॒या धामा॑नि॒ यक्ष॑द॒ग्नेर्होतुः॑ प्रि॒या धामा॑नि॒ यक्ष॒त्स्वं म॑हि॒मान॒माय॑जता॒मेज्या॒ऽइषः॑ कृ॒णोतु॒ सोऽअ॑ध्व॒रा जा॒तवे॑दा जु॒षताँ॑ ह॒विर्होत॒र्यज॑ ॥४७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
होता॑। य॒क्ष॒त्। अ॒ग्निम्। स्वि॒ष्ट॒कृत॒मिति॑ स्विष्ट॒ऽकृत॑म्। अया॑ट्। अ॒ग्निः। अ॒श्विनोः॑। छाग॑स्य। ह॒विषः॑। प्रि॒या। धामा॑नि। अया॑ट्। सर॑स्वत्याः। मे॒षस्य॑। ह॒विषः॑। प्रि॒या। धामा॑नि। अया॑ट्। इन्द्र॑स्य। ऋ॒ष॒भस्य॑। ह॒विषः॑। प्रि॒या। धामा॑नि। अया॑ट्। अ॒ग्नेः। प्रि॒या। धामा॑नि। अया॑ट्। सोम॑स्य। प्रि॒या। धामा॑नि। अया॑ट्। इन्द्र॑स्य। सु॒त्राम्ण॒ इति॑ सु॒ऽत्राम्णः॑। प्रि॒या। धामा॑नि। अया॑ट्। स॒वि॒तुः प्रि॒या। धामा॑नि। अया॑ट्। वरु॑णस्य। प्रि॒या। धामा॑नि। अया॑ट्। वन॒स्पतेः॑। प्रि॒या। पाथाँ॑सि। अया॑ट्। दे॒वाना॑म्। आ॒ज्य॒पाना॒मित्या॑ज्य॒ऽपाना॑म्। प्रि॒या। धामा॑नि। यक्ष॑त्। अ॒ग्नेः। होतुः॑। प्रि॒या। धामा॑नि। य॒क्ष॒त्। स्वम्। म॒हि॒मान॑म्। आ। य॒ज॒ता॒म्। एज्या॒ इत्या॒ऽइज्याः॑। इषः॑। कृ॒णोतु॑। सः। अ॒ध्व॒रा। जा॒तवे॑दा॒ इति॑ जा॒तऽवे॑दाः। जु॒षता॑म्। ह॒विः। होतः॑। यज॑। ४७।
महीधरः
म० ‘अनुयाजप्रैषा देवं बर्हिरिति याज्याश्च’ ( का० १९ ।७।८-९) देवं बर्हिः सरस्वतीत्याद्या एकादश कण्डिकास्त्रिपशोरनुयाजानां प्रैषा याज्याश्च भवन्तीत्यर्थः । एकादशानुयाजप्रैषा अश्विसरस्वतीन्द्रदेवत्याः चतस्र आर्ष्यस्त्रिष्टुभः व्यवहितपदप्रायाः । शोभना देवा यस्य तत्सुदेवं यद्बर्हिः देवमनुयाजदेवता तेन बर्हिषा सरस्वती अश्विना अश्विनौ च इन्द्रे तेजो दधुः दधतु । कक्ष्योः इन्द्रनेत्रयोः चक्षुः इन्द्रियं च दधुः । नकारश्चार्थः । एवमग्रेऽपि । वसुवने वसुवननाय धनलाभाय वसुधेयस्य वसुनो धेयं वसुधेयं तस्य वसुनिधानाय च अश्विसरस्वतीन्द्रा व्यन्तु हविर्भक्षयन्तु । हे मनुष्यहोतः, त्वमपि यज । सप्तमीषष्ठ्यौ चतुर्थ्यर्थे ॥ ४८ ॥
एकोनपञ्चाशी।
अधिमन्त्रम् (VC)
- अश्व्यादयो देवताः
- स्वस्त्यात्रेय ऋषिः
- भुरिगाकृतिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (होतः) देने हारे ! जैसे (होता) लेने हारा (स्विष्टकृतम्) भलीभाँति चाहे हुए पदार्थ से प्रसिद्ध किये (अग्निम्) अग्नि को (यक्षत्) प्राप्त और (अयाट्) उस की प्रशंसा करे वा जैसे (अग्निः) प्रसिद्ध आग (अश्विनोः) पवन बिजुली (छागस्य) बकरा आदि पशु (हविषः) और लेने योग्य पदार्थ के (प्रिया) मनोहर (धामानि) जन्म, स्थान और नाम को (अयाट्) प्राप्त हो वा (सरस्वत्याः) वाणी (मेषस्य) सींचने वा दूसरे के जीतने की इच्छा करनेवाले प्राणी (हविषः) और ग्रहण करने योग्य पदार्थ के (प्रिया) प्यारे मनोहर (धामानि) जन्म, स्थान और नाम की (अयाट्) प्रशंसा करे वा (इन्द्रस्य) परमैश्वर्य्ययुक्त (ऋषभस्य) उत्तम गुण, कर्म और स्वभाववाले राजा और (हविषः) ग्रहण करने योग्य पदार्थ के (प्रिया) मनोहर (धामानि) जन्म, स्थान और नाम की (अयाट्) प्रशंसा करे वा (अग्नेः) बिजुली रूप अग्नि के (प्रिया) मनोहर (धामानि) जन्म, स्थान और नाम की (अयाट्) प्रशंसा करे वा (सोमस्य) ऐश्वर्य्य के (प्रिया) मनोहर (धामानि) जन्म, स्थान और नाम की (अयाट्) प्रशंसा करे वा (सुत्राम्णः) भलीभाँति रक्षा करनेवाले (इन्द्रस्य) सेनापति के (प्रिया) मनोहर (धामानि) जन्म, स्थान और नाम की (अयाट्) प्रशंसा करे वा (सवितुः) समस्त ऐश्वर्य्य के उत्पन्न करने हारे उत्तम पदार्थज्ञान के (प्रिया) मनोहर (धामानि) जन्म स्थान और नाम की (अयाट्) प्रशंसा करे वा (वरुणस्य) सब से उत्तम जन और जल के (प्रिया) मनोहर (धामानि) जन्म, स्थान और नाम की (अयाट्) प्रशंसा करे वा (वनस्पतेः) वट आदि वृक्षों के (प्रिया) तृप्ति करानेवाले (पाथांसि) फलों को (अयाट्) प्राप्त हो वा (आज्यपानाम्) जानने योग्य पदार्थ की रक्षा करने और रस पीनेवाले (देवानाम्) विद्वानों के (प्रिया) प्यारे मनोहर (धामानि) जन्म, स्थान और नाम का (यक्षत्) मिलाना व सराहना करे वा (होतुः) जलादिक ग्रहण करने और (अग्नेः) प्रकाश करनेवाले सूर्य्य के (प्रिया) मनोहर (धामानि) जन्म, स्थान और नाम की (यक्षत्) प्रशंसा करे (स्वम्) अपने (महिमानम्) बड़प्पन का (आ, यजताम्) ग्रहण करे वा जैसे (जातवेदाः) उत्तम बुद्धि को (एज्याः) अच्छे प्रकार सङ्ग योग्य उत्तम क्रियाओं और (इषः) चाहनाओं को (कृणोतु) करे (सः) वह (अध्वरा) न छोड़ने न विनाश करने योग्य यज्ञों का और (हविः) सङ्ग करने योग्य पदार्थ का (जुषताम्) सेवन करे, वैसे तू (यज) सब व्यवहारों की सङ्गति किया कर ॥४७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो मनुष्य अपने चाहे हुए को सिद्ध करनेवाले अग्नि आदि संसारस्थ पदार्थों को अच्छे प्रकार जानकर प्यारे मन से चाहे हुए सुखों को प्राप्त होते हैं, वे अपने बड़प्पन का विस्तार करते हैं ॥४७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे होतर्यथा होता स्विष्टकृतमग्निं यक्षद् यथाग्निरश्विनोश्छागस्य हविषः प्रिया धामान्ययाट्सरस्वत्या मेषस्य हविषः प्रिया धामान्ययाडिन्द्रस्यर्षभस्य हविषः प्रिया धामान्ययाडग्नेः प्रिया धामान्ययाट्सोमस्य प्रिया धामान्ययाट्सुत्राम्ण इन्द्रस्य प्रिया धामान्ययाट्सवितुः प्रिया धामान्ययाड् वरुणस्य प्रिया धामान्ययाड् वनस्पतेः प्रिया पाथांस्ययाडाज्यपानां देवानां प्रिया धामानि यक्षत् होतुरग्नेः प्रिया धामानि यक्षत्स्वं महिमानमायजतां यथा जातवेदा य एज्या इषः कृणोतु सोध्वरा हविश्च जुषतां तथा त्वं यज ॥४७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये स्वेष्टसाधकानग्न्यादीन् सृष्टिस्थान् पदार्थान् सम्यग्विज्ञाय प्रियाणि सुखान्याप्नुवन्ति, ते स्वं महिमानं प्रथन्ते ॥४७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जी माणसे इच्छित गोष्टी सिद्ध करणाऱ्या अग्नी वगैरे जगातील पदार्थांना चांगल्याप्रकारे जाणून मनोवांछित सुख प्राप्त करतात त्यांना मोठेपण प्राप्त होते.
४८ देवं बर्हिः
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वं ब॒र्हिः सर॑स्वती सुदे॒वमिन्द्रे॑ऽअ॒श्विना॑। तेजो॒ न चक्षु॑र॒क्ष्यो᳖र्ब॒र्हिषा॑ दधुरिन्द्रि॒यं वसु॒॑वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥४८ ॥
मूलम् ...{Loading}...
दे॒वं ब॒र्हिः सर॑स्वती सुदे॒वमिन्द्रे॑ऽअ॒श्विना॑। तेजो॒ न चक्षु॑र॒क्ष्यो᳖र्ब॒र्हिषा॑ दधुरिन्द्रि॒यं वसु॒॑वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥४८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दे॒वम्। ब॒र्हिः। सर॑स्वती। सु॒दे॒वमिति॑ सुऽदे॒वम्। इन्द्रे॑। अ॒श्विना॑। तेजः॑। न। चक्षुः॑। अ॒क्ष्योः᳖। ब॒र्हिषा॑। द॒धुः॒। इ॒न्द्रि॒यम्। व॒सु॒वन॒ इति॑ वसु॒ऽवने॑। व॒सु॒धेय॒स्येति॑ वसु॒ऽधेय॑स्य। व्य॒न्तु॒। यज॑। ४८।
महीधरः
म० उत्तरार्धे द्वार इति प्रथमा तृतीयार्था । या द्वारो देवीः यज्ञगृहद्वारो देव्योऽनुयाजदेवाः ताभिर्द्वार्भिः सह भिषजा अश्विना वैद्यावश्विनौ सरस्वती च इन्द्रे वीर्य बलं दधुः । नसि इन्द्रस्य नासिकायां प्राणमिन्द्रियं घ्राणेन्द्रियं च दधुः । वसु० व्याख्यातम् ॥ ४९ ॥
पञ्चाशी।
अधिमन्त्रम् (VC)
- सरस्वत्यादयो देवताः
- स्वस्त्यात्रेय ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब विद्वान् कैसे अपना वर्त्ताव वर्त्तें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! जैसे (सरस्वती) प्रशंसित विज्ञानयुक्त स्त्री (इन्द्रे) परमैश्वर्य के निमित्त (देवम्) दिव्य (सुदेवम्) सुन्दर विद्वान् पति की (बर्हिः) अन्तरिक्ष (अश्विना) पढ़ाने और उपदेश करनेवाले तथा (चक्षुः) आँख के (तेजः) तेज के (न) समान (यज) प्रशंसा वा सङ्गति करती है और जैसे विद्वान् जन (वसुधेयस्य) जिस में धन धारण करने योग्य हो, उस व्यवहार सम्बन्धी (वसुवने) धन की प्राप्ति कराने के लिए (अक्ष्योः) आँखों के (बर्हिषा) अन्तरिक्ष अवकाश से अर्थात् दृष्टि से देख के (इन्द्रियम्) उक्त धन को (दधुः) धारण करते और (व्यन्तु) प्राप्त होते हैं, वैसे इसको तू धारण कर ॥४८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। हे मनुष्यो ! जैसे विदुषी ब्रह्मचारिणी कुमारी कन्या अपने लिए मनोहर पति को पाकर आनन्द करती है, वैसे विद्या और संसार के पदार्थ का बोध पाकर तुम लोगों को भी आनन्दित होना चाहिए ॥४८ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ विद्वांसः कथं वर्त्तेरन्नित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यथा सरस्वतीन्द्रे देवं सुदेवं बर्हिरश्विना चक्षुस्तेजो न यज यथा च विद्वांसो वसुधेयस्य वसुवनेऽक्ष्योर्बर्हिषेन्द्रियं दधुर्व्यन्तु च तथैतत्त्वं धेहि प्राप्नुहि च ॥४८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। हे मनुष्याः ! यथा विदुषी ब्रह्मचारिणी कुमारी स्वार्थं हृद्यं पतिं प्राप्यानन्दति तथा विद्यासृष्टिपदार्थबोधं प्राप्य भवद्भिरप्यानन्दितव्यम् ॥४८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहे. हे माणसांनो ! जशी विदुषी ब्रह्मचारिणी कुमारी कन्या स्वतःसाठी सुंदर पती प्राप्त करून आनंदी होते. तसे विद्या व जगातील पदार्थांचा बोध करून घेऊन तुम्हीही आनंदित व्हा.
४९ देवीर्द्वारोऽअश्विना भिषजेन्द्रे
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वीर्द्वारो॑ऽअ॒श्विना॑ भि॒षजेन्द्रे॒ सर॑स्वती। प्रा॒णं न वी॒र्य्यं᳖ न॒सि द्वारो॑ दधुरिन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥४९ ॥
मूलम् ...{Loading}...
दे॒वीर्द्वारो॑ऽअ॒श्विना॑ भि॒षजेन्द्रे॒ सर॑स्वती। प्रा॒णं न वी॒र्य्यं᳖ न॒सि द्वारो॑ दधुरिन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥४९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दे॒वीः। द्वारः॑। अ॒श्विना॑। भि॒षजा॑। इन्द्रे॑। सर॑स्वती। प्रा॒णम्। न। वी॒र्य्य᳖म्। न॒सि। द्वारः॑। द॒धुः॒। इ॒न्द्रि॒यम्। व॒सु॒वन इति॑ वसु॒ऽवने॑। व॒सु॒धेय॒स्येति॑ वसु॒ऽधेय॑स्य। व्य॒न्तु॒। यज॑। ४९।
महीधरः
म० नक्तोषासाविति प्राप्ते छान्दस आदिपदलोपः । उषासा देवी नक्तोषसी अनुयाजदेव्यौ ताभ्यामुषाभ्यां नक्तोषोभ्यां सह अश्विनौ सुमात्रा शोभनरक्षणकर्त्री सरस्वती च इन्द्रे बलं दधुः आस्ये इन्द्रमुखे वाचमिन्द्रियं वागिन्द्रियं च दधुः । नश्चार्थः । वस्वित्युक्तम् ॥ ५० ॥
एकपञ्चाशी।
अधिमन्त्रम् (VC)
- अश्व्यादयो देवताः
- स्वस्त्यात्रेय ऋषिः
- ब्राह्म्युष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर विद्वानों का उपदेश कैसा होता है, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! जैसे (अश्विना) पवन और सूर्य्य वा (सरस्वती) विशेष ज्ञानवाली स्त्री और (भिषजा) वैद्य (इन्द्रे) ऐश्वर्य के निमित्त (देवीः) अतीव दीपते अर्थात् चमकाते हुए (द्वारः) पैठने और निकलने के अर्थ बने हुए द्वारों को प्राप्त होते हुए प्राणियों की (नसि) नासिका में (प्राणम्) जो श्वास आती उस के (न) समान (वीर्य्यम्) बल और (द्वारः) द्वारों अर्थात् शरीर के प्रसिद्ध नव छिद्रों को (दधुः) धारण करें (वसुवने) वा धन का सेवन करने के लिए (वसुधेयस्य) धनकोश के (इन्द्रियम्) धन को विद्वान् जन (व्यन्तु) प्राप्त हों, वैसे तू (यज) सब व्यवहारों की सङ्गति किया कर ॥४९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। जैसे सूर्य्य और चन्द्रमा का प्रकाश द्वारों से घर को पैठ घर के भीतर प्रकाश करता है, वैसे विद्वानों का उपदेश कानों में प्रविष्ट होकर भीतर मन में प्रकाश करता है, ऐसे जो विद्या के साथ अच्छा यत्न करते हैं, वे धनवान् होते हैं ॥४९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्विद्वदुपदेशः कीदृशो भवतीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यथाश्विना सरस्वती भिषजेन्द्रे देवीर्द्वारः प्राप्नुवतो नसि प्राणं न वीर्य्यं द्वारश्च दधुर्वसुवने वसुधेयस्येन्द्रियं विद्वांसो व्यन्तु तथा त्वं यज ॥४९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। यथा सूर्य्याचन्द्रप्रकाशो द्वारेभ्यो गृहं प्रविश्यान्तः प्रकाशते तथा विद्वदुपदेशः श्रोत्रान् प्रविश्य स्वान्ते प्रकाशते। एवं ये विद्यया प्रयतन्ते ते श्रीमन्तो जायन्ते ॥४९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहेत. जसे सूर्य व चंद्र यांचा प्रकाश दारातून घरात शिरतो, तसेच विद्वानांचा उपदेश कानाने ऐकून माणसांचे मन प्रकाशित होते. अशाप्रकारे जे विद्याप्राप्ती बरोबरच चांगल्याप्रकारे प्रयत्नही करतात ते धनवान होतात.
५० देवीऽउषासावश्विना सुत्रामेन्द्रे
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वीऽउ॒षासा॑व॒श्विना॑ सु॒त्रामेन्द्रे॒ सर॑स्वती। बलं॒ न वाच॑मा॒स्य᳖ऽउ॒षाभ्यां॑ दधुरिन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥५० ॥
मूलम् ...{Loading}...
दे॒वीऽउ॒षासा॑व॒श्विना॑ सु॒त्रामेन्द्रे॒ सर॑स्वती। बलं॒ न वाच॑मा॒स्य᳖ऽउ॒षाभ्यां॑ दधुरिन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥५० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दे॒वीऽइति॑ दे॒वी। उ॒षासौ॑। उषसा॒वित्यु॒षसौ॑। अ॒श्विना॑। सु॒त्रामेति॑ सु॒ऽत्रामा॑। इन्द्रे॑। सर॑स्वती। बल॑म्। न। वाच॑म्। आ॒स्ये᳖। उ॒षाभ्या॑म्। द॒धुः॒। इ॒न्द्रि॒यम्। व॒सु॒वन॒ इति॑ वसु॒ऽवने। व॒सु॒धेय॒स्येति॑ वसु॒ऽधेय॑स्य। व्य॒न्तु॒। यज॑। ५०।
महीधरः
म० ये जोष्ट्री जोषयित्र्यौ सुखस्य सेवयित्र्यौ देवी देव्यौ । अनुयाजदेव्यौ द्यावापृथिव्यौ अहोरात्रे वा । ‘शस्यं च समा चेति कात्थक्यः’ ( निरु० ९ । ४१ । ६ ) ताभ्यां जोष्ट्रीभ्यां सह सरस्वती अश्विना अश्विनौ च इन्द्रमवर्धयन् । कथमवर्धयन् तत्राह । इन्द्रे यशो दधुः । तत्कर्णयोश्च श्रोत्रमिन्द्रियं दधुः । वसु० व्याख्यातम् ॥ ५१॥
द्विपञ्चाशी।
अधिमन्त्रम् (VC)
- अश्व्यादयो देवताः
- स्वस्त्यात्रेय ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्य कैसे वर्त्तें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! जैसे (देवी) निरन्तर प्रकाश को प्राप्त (उषासौ) सायंकाल और प्रातःकाल की सन्धिवेला वा (सुत्रामा) भलीभाँति रक्षा करनेवाले (सरस्वती) विशेष ज्ञान की हेतु स्त्री (अश्विना) सूर्य और चन्द्रमा (वसुवने) धन की सेवा करनेवाले के लिए (वसुधेयस्य) जिस में धन धरा जाय उस व्यवहारसम्बन्धी (इन्द्रे) उत्तम ऐश्वर्य में (न) जैसे (बलम्) बल को वैसे (आस्ये) मुख में (वाचम्) वाणी को वा (उषाभ्याम्) सायंकाल और प्रातःकाल की वेला से (इन्द्रियम्) धन को (दधुः) धारण करें और सब को (व्यन्तु) प्राप्त हों, वैसे तू (यज) सब व्यवहारों की सङ्गति किया कर ॥५० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो पुरुषार्थी मनुष्य सूर्य-चन्द्रमा सायंकाल और प्रातःकाल की वेला के समान नियम के साथ उत्तम उत्तम यत्न करते हैं तथा सायंकाल और प्रातःकाल की वेला में सोने और आलस्य आदि को छोड़ ईश्वर का ध्यान करते हैं, वे बहुत धन को पाते हैं ॥५० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्याः कथं वर्त्तेरन्नित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यथा देवी उषासौ सुत्रामा सरस्वत्यश्विना वसुवने वसुधेयस्येन्द्रे बलं नास्ये वाचमुषाभ्यमिन्द्रियं च दधुः सर्वान् व्यन्तु च तथा त्वं यज ॥५० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये पुरुषार्थिनो मनुष्याः सूर्यचन्द्रसन्ध्यावन्नियमेन प्रयतन्ते, सन्धिवेलायां शयनाऽऽलस्यादिकं विहायेश्वरस्य ध्यानं कुर्वन्ति ते पुष्कलां श्रियं प्राप्नुवन्ति ॥५० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जी पुरुषार्थी माणसे सूर्य, चंद्र, प्रातःकाळी सायंकाळ या वेळेप्रमाणे नियमात राहून प्रयत्न करत असतात, तसेच सकाळी व संध्याकाळी निद्रा आणि आळस सोडून ईश्वराचे ध्यान करतात त्यांना खूप धन प्राप्त होते.
५१ देवी जोष्ट्री
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वी जोष्ट्री॒ सर॑स्वत्य॒श्विनेन्द्र॑मवर्धयन्। श्रोत्रं॑ न कर्ण॑यो॒र्यशो॒ जोष्ट्री॑भ्यां दधुरिन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥५१ ॥
मूलम् ...{Loading}...
दे॒वी जोष्ट्री॒ सर॑स्वत्य॒श्विनेन्द्र॑मवर्धयन्। श्रोत्रं॑ न कर्ण॑यो॒र्यशो॒ जोष्ट्री॑भ्यां दधुरिन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥५१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दे॒वीऽइति॑ दे॒वी। जोष्ट्री॒ऽइति॒। जोष्ट्री॑। सर॑स्वती। अ॒श्विना॑। इन्द्र॑म्। अ॒व॒र्ध॒य॒न्। श्रोत्र॑म्। न। कर्ण॑योः। यशः॑। जोष्ट्री॒भ्याम्। द॒धुः॒। इ॒न्द्रि॒यम्। व॒सु॒वन॒ इति॑ वसु॒ऽवने॑। व॒सु॒धेय॒स्येति॑ वसु॒ऽधेय॑स्य। व्य॒न्तु॒। यज॑। ५१।
महीधरः
म० उत्तरार्धे आहुतीशब्दस्तृतीयार्थः । जोष्ट्र्योरेव देवताविकल्पः । ये देवी ऊर्जाहुती ऊर्जा रसवती आहुतिराह्वानं होमो वा ययोस्ते ऊर्जाहुती । दुघे दुग्धस्ते दुघे कामपूरके । सुदुघे सुदोहने ताभ्यामाहुतिभ्यां सह सरस्वती भिषजावश्विनौ च इन्द्रे इन्द्रमवतः अवन्ति रक्षन्ति । वचनव्यत्ययः । कथं तदाह । ज्योतिः तेज इन्द्रे धत्तः दधति । स्तनयोः शुक्रमिन्द्रियं च धत्तः । वचनव्यत्ययः नश्चार्थः । व्याख्यातमन्यत् ॥ ५२॥
त्रिपञ्चाशी।
अधिमन्त्रम् (VC)
- अश्व्यादयो देवताः
- स्वस्त्यात्रेय ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्य कैसे होते हैं, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! जैसे (देवी) प्रकाश देनेवाली (जोष्ट्री) सेवने योग्य (सरस्वती) विशेष ज्ञान की निमित्त सायंकाल और प्रातःकाल की वेला तथा (अश्विना) पवन और बिजुलीरूप अग्नि (इन्द्रम्) सूर्य को (अवर्धयन्) बढ़ाते अर्थात् उन्नति देते हैं वा मनुष्य (जोष्ट्रीभ्याम्) संसार को सेवन करती हुई उक्त प्रातःकाल और सायंकाल की वेलाओं से (कर्णयोः) कानों में (यशः) कीर्ति को (श्रोत्रम्) जिस से वचन को सुनता है, उस कान के ही (न) समान (दधुः) धारण करते हैं वा (वसुधेयस्य) जिस में धन धरा जाय उस कोशसम्बन्धी (वसुवने) धन को सेवन करनेवाले (इन्द्रियम्) धन को (व्यन्तु) विशेषता से प्राप्त होते हैं, वैसे तू (यज) सब व्यवहारों की सङ्गति किया कर ॥५१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। जो सूर्य के कारणों को जानते हैं, वे यशस्वी होकर धनवान्, कान्तिमान् शोभायमान होते हैं ॥५१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्याः कीदृशा भवन्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यथा देवी जोष्ट्री सरस्वत्यश्विनेन्द्रमवर्धयन् मनुष्या वा जोष्ट्रीभ्यां कर्णयोर्यशः श्रोत्रं न दधुर्वसुधेयस्य वसुवन इन्द्रियं व्यन्तु तथा त्वं यज ॥५१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। ये सूर्यकारणानि विदन्ति ते यशस्विनो भूत्वा श्रीमन्तो भवन्ति ॥११ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहेत. जे विद्वान सूर्याचे कारण जाणतात ते यशस्वी होऊन धनवान, तेजस्वी व सुशोभित होतात.
५२ देवीऽऊर्जाहुती दुघे
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वीऽऊ॒र्जा॑हुती॒ दुघे॑ सु॒दुघेन्द्रे॒ सर॑स्वत्य॒श्विना॑ भि॒षजा॑वतः। शु॒क्रं न ज्योति॒ स्तन॑यो॒राहु॑ती धत्तऽइन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥५२ ॥
मूलम् ...{Loading}...
दे॒वीऽऊ॒र्जा॑हुती॒ दुघे॑ सु॒दुघेन्द्रे॒ सर॑स्वत्य॒श्विना॑ भि॒षजा॑वतः। शु॒क्रं न ज्योति॒ स्तन॑यो॒राहु॑ती धत्तऽइन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥५२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दे॒वी इति॑ दे॒वी। ऊ॒र्ज्जाहु॑ती॒ इत्यू॒र्जाऽआहु॑ती। दुघे॒ इति॒ दुघे॑। सु॒दुघेति॑ सु॒ऽदुघा। इन्द्रे॑। सर॑स्वती। अ॒श्विना॑। भि॒षजा॑। अ॒व॒तः॒। शु॒क्रम्। न। ज्योतिः॑। स्तन॑योः। आहु॑ती॒ इत्याऽहु॑ती। ध॒त्त॒। इ॒न्द्रि॒यम्। व॒सु॒वन॒ इति॑ वसु॒ऽवने॑। व॒सु॒धेय॒स्येति॑ वसु॒ऽधेय॑स्य। व्य॒न्तु॒। यज॑। ५२।
महीधरः
म० देवानां देवा देवौ यौ होतारौ अनुयाजदेवौ ताभ्यां होतृभ्यां सह वषट्कारैश्च सह भिषजौ अश्विनौ सरस्वती च इन्द्रमिन्द्रे त्विर्षि कान्तिं दधुः । हृदये मतिमिन्द्रियं बुद्धीन्द्रियं च दधुः । नश्चार्थः । वसु० उक्तम् ॥ ५३ ॥
चतुःपञ्चाशी।
अधिमन्त्रम् (VC)
- अश्व्यादयो देवताः
- स्वस्त्यात्रेय ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को कैसे अपना वर्त्ताव वर्त्तना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वानो ! तुम लोग जैसे (देवी) मनोहर (दुघे) उत्तमता पूरण करनेवाली प्रातः सायं वेला वा (इन्द्रे) परम ऐश्वर्य के निमित्तम (ऊर्ज्जाहुती) अन्न की आहुति (सरस्वती) विशेष ज्ञान कराने हारी स्त्री वा (सुदुघा) सुख पूरण करने हारे (भिषजा) अच्छे वैद्य (अश्विना) वा पढ़ाने और उपदेश करने हारे विद्वान् (शुक्रम्) शुद्ध जल के (न) समान (ज्योतिः) प्रकाश की (अवतः) रक्षा करते हैं, वैसे (स्तनयोः) शरीर में स्तनों की जो (आहुती) ग्रहण करने योग्य क्रिया है, उनको (धत्त) धारण करो और (वसुधेयस्य) जिस में धन धरा हुआ उस संसार के बीच (वसुवने) धन के सेवन करनेवाले के लिए (इन्द्रियम्) धन को धारण करो, जिससे उन उक्त पदार्थों को साधारण सब मनुष्य (व्यन्तु) प्राप्त हों। हे गुणों के ग्रहण करने हारे जन ! वैसे तू सब व्यवहारों की (यज) सङ्गति किया कर ॥५२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। जैसे अच्छे वैद्य अपने और दूसरों के शरीरों की रक्षा करके वृद्धि करते कराते हैं, वैसे सब को चाहिए कि धन की रक्षा करके उस की वृद्धि करें, जिससे इस संसार में अतुल सुख हो ॥५२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैः कथं वर्त्तितव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वांसो ! यूयं यथा देवी दुघे इन्द्र ऊर्जाहुती सरस्वती सुदुघा भिषजाऽश्विना च शुक्रं न ज्योतिरवतस्तया स्तनयोराहुती धत्त वसुधेयस्य वसुवन इन्द्रियं धत्त येनैतानि सर्वे व्यन्तु। हे गुणग्राहिन् ! तथा त्वं यज ॥५२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। यथा सद्वैद्याः स्वानि परेषां च शरीराणि रक्षयित्वा वर्द्धयन्ति तथा सर्वैर्धनं रक्षयित्वा वर्धनीयं येनाऽस्मिन् संसारेऽतुलं सुखं भूयात्॥५२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहेत. जसे चांगले वैद्य आपल्या व इतरांच्या शरीरांचे रक्षण करून त्यांची वृद्धी करवितात, तसेच सर्वांनी धनाचे रक्षण करून त्यात वाढ करावी. त्यामुळे या संसारात अत्यंत सुख प्राप्त होते.
५३ देवा देवानाम्
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वा दे॒वानां॑ भि॒षजा॒ होता॑रा॒विन्द्र॑म॒श्विना॑। व॒ष॒ट्का॒रैः सर॑स्वती॒ त्विषिं न हृद॑ये म॒तिँ होतृ॑भ्यां दधुरिन्द्रि॒यं व॒सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥५३ ॥
मूलम् ...{Loading}...
दे॒वा दे॒वानां॑ भि॒षजा॒ होता॑रा॒विन्द्र॑म॒श्विना॑। व॒ष॒ट्का॒रैः सर॑स्वती॒ त्विषिं न हृद॑ये म॒तिँ होतृ॑भ्यां दधुरिन्द्रि॒यं व॒सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥५३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दे॒वा। दे॒वाना॑म्। भि॒षजा॑। होता॑रौ। इन्द्र॑म्। अ॒श्विना॑। व॒ष॒ट्का॒रैरिति॑ वषट्ऽका॒रैः। सर॑स्वती। त्विषि॑म्। न। हृद॑ये। म॒तिम्। होतृ॑भ्या॒मिति॒ होतृ॑ऽभ्याम्। द॒धुः॒। इ॒न्द्रि॒यम्। व॒सु॒वन॒ इति॑ वसु॒ऽवने॑। व॒सु॒धेय॒स्येति॑ वसु॒ऽधेय॑स्य। व्य॒न्तु॒। यज॑। ५३।
महीधरः
म० यास्तिस्रो देव्यो भारती इडा सरस्वती तिस्रो देवीः । विभक्तिव्यत्ययः । ताभिस्तिसृभिः देवीभिः सह अश्विनौ सरस्वती इडा च इन्द्राय इन्द्रे नाभ्यां मध्ये च शूषं बलमिन्द्रियं च दधुः । नश्चार्थः । वसु० व्याख्यातम् ॥ ५४ ॥
पञ्चपञ्चाशी ।
अधिमन्त्रम् (VC)
- अश्व्यादयो देवताः
- स्वस्त्यात्रेय ऋषिः
- भुरिगतिजगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को कैसे वर्त्तना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वानो ! आप लोग जैसे (देवानाम्) सुख देने हारे विद्वानों के बीच (होतारौ) शरीर के सुख देनेवाले (देवा) वैद्यविद्या से प्रकाशमान (भिषजा) वैद्यजन (अश्विना) विद्या में रमते हुए (वषट्कारैः) श्रेष्ठ कामों से (इन्द्रम्) परमैश्वर्य्य को धारण करें (सरस्वती) प्रशंसित विद्या और अच्छी शिक्षायुक्त वाणीवाली स्त्री (त्विषिम्) प्रकाश के (न) समान (हृदये) अन्तःकरण में (मतिम्) बुद्धि को धारण करे, वैसे (होतृभ्याम्) देनेवालों के साथ उक्त सद्वैद्य और वाणीयुक्त स्त्री को वा (वसुधेयस्य) कोश के (वसुवने) धन को बाँटनेवाले के लिए (इन्द्रियम्) शुद्ध मन को (दधुः) धारण करें और (व्यन्तु) प्राप्त हों। हे जन ! वैसे तू भी (यज) सब व्यवहारों की सङ्गति किया कर ॥५३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। जैसे विद्वानों में विद्वान्, अच्छे वैद्य श्रेष्ठ क्रिया से सब को नीरोग कर कान्तिमान् धनवान् करते हैं वा जैसे विद्वानों की वाणी विद्यार्थियों के मन में उत्तम ज्ञान की उन्नति करती है, वैसे साधारण मनुष्यों को विद्या और धन इकट्ठे करने चाहिए ॥५३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैः कथं वर्त्तितव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वांसो ! भवन्तो यथा देवानां होतारौ देवा भिषजाऽश्विना वषट्कारैरिन्द्रं दध्यातां सरस्वती त्विषिं न हृदये मतिं दध्यात्तथा होतृभ्यां सहैता वसुधेयस्य वसुवन इन्द्रियं दधुर्व्यन्तु च। हे मनुष्य ! तथा त्वमपि यज ॥५३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। यथा विद्वत्सु विद्वांसौ सद्वैद्यौ सत्क्रियया सर्वानरोगीकृत्य श्रीमतः सम्पादयतो यथा वा विदुषां वाग्विद्यार्थिनां स्वान्ते प्रज्ञामुन्नयति तथाऽन्यैर्विद्याधने संचयनीये ॥५३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहेत. जसा विद्वानांमधील विद्वान व चांगले वैद्य श्रेष्ठ कर्म करून सर्वांना निरोगी, तेजस्वी व धनवान करतात किंवा जशी विद्वानांची वाणी विद्यार्थ्यांच्या मनाला उत्तम ज्ञानाने उन्नत करते तसे साधारण माणसांनीही विद्या व धन मिळवावे.
५४ देवीस्तिस्रस्तिस्रो देवीरश्विनेडा
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीर॒श्विनेडा॒ सर॑स्वती। शूषं॒ न मध्ये॒ नाभ्या॒मिन्द्रा॑य दधुरिन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥५४ ॥
मूलम् ...{Loading}...
दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीर॒श्विनेडा॒ सर॑स्वती। शूषं॒ न मध्ये॒ नाभ्या॒मिन्द्रा॑य दधुरिन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥५४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दे॒वीः। ति॒स्रः। ति॒स्रः। दे॒वीः। अ॒श्विना॑। इडा॑। सर॑स्वती। शूष॑म्। न। मध्ये॑। नाभ्या॑म्। इन्द्रा॑य। द॒धुः॒। इ॒न्द्रि॒यम्। व॒सु॒वन॒ इति॑ वसु॒ऽवने॑। व॒सु॒धेय॒स्येति॑ वसु॒ऽधेय॑स्य। व्य॒न्तु॒। यज॑। ५४।
महीधरः
म० ‘नरा अस्मिन्नासीनाः शंसन्ति’ (निरु०८।६) | इति यास्कोक्तेः नराशंसो देवोऽनुयाजरूपो यज्ञः रेतो वीर्यं रूपं सौन्दर्यममृतं जनित्रमुत्तमं जन्म इन्द्रियाणि च इन्द्राय दधद्दधातु । नश्चार्थः। कीदृशो नराशंसः । इन्द्रः इन्दतीतीन्द्र ऐश्वर्यवान् । ‘इदि परमैश्वर्ये’ । त्रिवरूथः त्रीणि वरूथानि गृहाणि सदोहविर्धानाग्नीध्राणि यस्य सः । तथा त्वष्टा । वक्षतिः करोतिकर्मा । जगतः कर्ता यज्ञादेव जगदुत्पत्तेः । यस्य नराशंसस्य रथः सरस्वत्या अश्विभ्यां च ईयते नीयते ऊह्यते । वसु० व्याख्यातम् ॥ ५५॥
षट्पञ्चाशी।
अधिमन्त्रम् (VC)
- अश्व्यादयो देवताः
- स्वस्त्यात्रेय ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर माता पिता अपने सन्तानों को कैसे करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्यार्थी ! जैसे (तिस्रः) माता, पढ़ाने और उपदेश करनेवाली ये तीन (देवीः) निरन्तर विद्या से दीपती हुई स्त्री (वसुधेयस्य) जिसमें धन धरने योग्य है, उस संसार के (मध्ये) बीच (वसुवने) उत्तम धन चाहनेवाले (इन्द्राय) जीव के लिये (तिस्रः) उत्तम, मध्यम, निकृष्ट तीन (देवीः) विद्या से प्रकाश को प्राप्त हुई कन्याओं को (दधुः) धारण करें वा (अश्विना) पढ़ाने और उपदेश करने हारे मनुष्य (इडा) स्तुति करने हारी स्त्री और (सरस्वती) प्रशंसित विज्ञानयुक्त स्त्री (नाभ्याम्) तोंदी में (शूषम्) बल वा सुख के (न) समान (इन्द्रियम्) मन को धारण करें वा जैसे ये सब उक्त पदार्थों को (व्यन्तु) प्राप्त हों, वैसे तू (यज) सब व्यवहारों की सङ्गति किया कर ॥५४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। जैसे माता, पढ़ाने और उपदेश करने हारी ये तीन पण्डिता स्त्री कुमारियों को पण्डिता कर उनको सुखी करती हैं, वैसे पिता, पढ़ाने और उपदेश करनेवाले विद्वान् कुमार विद्यार्थियों को विद्वान् कर उन्हें अच्छे सभ्य करें ॥५४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्जननीजनकाः स्वसन्तानान् कीदृशान् कुर्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्यार्थिन् ! यथा तिस्रो देवीर्वसुधेयस्य मध्ये वसुवन इन्द्राय तिस्रो देवीर्दधुर्ययाश्विनेडा सरस्वती च नाभ्यां शूषन्नेन्द्रियं दध्युर्यथैत एतानि व्यन्तु तथा त्वं यज ॥५४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। यथा जनन्यध्यापिकोपदेष्ट्री च तिस्रो विदुष्यः कुमारीर्विदुषीः कृत्वा सुखयन्ति, तथा जनकाध्यापकोपदेष्टारः कुमारान् विद्यार्थिनो विपश्चितः कृत्वा सुसभ्यान् कुर्य्युः ॥५४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहेत. जशी माता, अध्यापिका व उपदेशिका या तीन विदुषी स्रिया कुमारी मुलींना विदुषी करून त्यांना सुखी करतात तसे पिता, अध्यापक व उपदेशक यांनी विद्यार्थ्यांना विद्वान व सभ्य बनवावे.
५५ देवऽइन्द्रो नराशंसस्रिवरूथः
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वऽइन्द्रो॒ नरा॒शँस॑स्रिवरू॒थः सर॑स्वत्या॒श्विभ्या॑मीयते॒ रथः॑। रेतो॒ न रू॒पम॒मृतं॑ ज॒नित्र॒मिन्द्रा॑य॒ त्व॒ष्टा दध॑दिन्द्रि॒याणि॑ वसु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥५५ ॥
मूलम् ...{Loading}...
दे॒वऽइन्द्रो॒ नरा॒शँस॑स्रिवरू॒थः सर॑स्वत्या॒श्विभ्या॑मीयते॒ रथः॑। रेतो॒ न रू॒पम॒मृतं॑ ज॒नित्र॒मिन्द्रा॑य॒ त्व॒ष्टा दध॑दिन्द्रि॒याणि॑ वसु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥५५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दे॒वः। इन्द्रः॑। नरा॒शँसः॑। त्रि॒व॒रू॒थ इति॑ त्रिऽवरू॒थः। सर॑स्वत्या। अ॒श्विभ्या॒मित्य॒श्विऽभ्या॑म्। ई॒य॒ते॒। रथः॑। रेतः॑। न। रू॒पम्। अ॒मृत॑म्। ज॒नित्र॑म्। इन्द्रा॑य। त्वष्टा॑। दध॑त्। इ॒न्द्रि॒याणि॑। व॒सु॒वन॒ इति॑ वसु॒ऽवने॑। व॒सु॒धेय॒स्येति॑ वसु॒ऽधेय॑स्य। व्य॒न्तु॒। यज॑। ५५।
महीधरः
म० वनस्पतिर्देवो नोऽस्माकमोजः तेजः जूतिः जूतिं जवं वेगं भामं क्रोधमिन्द्रियाणि च दधत् दधातु । यो वनस्पतिर्यूपः इन्द्राय मधु मधुरं फलं पच्यते पचति फलति इन्द्राय फलं ददाति । नकारौ चार्थौ । कीदृशो वनस्पतिः । देवैर्हिरण्यपर्णः हिरण्यरूपाणि पर्णानि यस्य । देवा यस्य हिरण्मयानि पर्णानीत्यर्थः । अश्विभ्यां सरस्वत्या च सुपिप्पलः शोभनं पिप्पलं फलं यस्य सः । अश्विनौ सरस्वती च यस्य वनस्पतेः फलानीत्यर्थः । ऋषभः पूज्यः । ऋषभशब्दः पूजावचनः । वसु० व्याख्यातम् ॥५६॥
सप्तपञ्चाशी।
अधिमन्त्रम् (VC)
- अश्व्यादयो देवताः
- स्वस्त्यात्रेय ऋषिः
- स्वराट्शक्वरी
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! जैसे (त्रिवरूथः) तीन अर्थात् भूमि, भूमि के नीचे और अन्तरिक्ष में जिस के घर हैं, वह (इन्द्रः) परमैश्वर्य्यवान् (देवः) विद्वान् (सरस्वत्या) अच्छी शिक्षा की हुई वाणी से (नराशंसः) जो मनुष्यों को भलीभाँति शिक्षा देते हैं, उनको (अश्विभ्याम्) आग और पवन से जैसे (रथः) रमणीय रथ (ईयते) पहुँचाया जाता, वैसे अच्छे मार्ग में पहुँचाता है वा जैसे (त्वष्टा) दुःख का विनाश करने हारा (जनित्रम्) उत्तम सुख उत्पन्न करने हारे (अमृतम्) जल और (रेतः) वीर्य्य के (न) समान (रूपम्) रूप को तथा (वसुधेयस्य) संसार के बीच (वसुवने) धन की सेवा करनेवाले (इन्द्राय) जीव के लिए (इन्द्रियाणि) कान, आँख आदि इन्द्रियों को (दधत्) धारण करे वा जैसे उक्त पदार्थों को ये सब (व्यन्तु) प्राप्त हों, वैसे तू (यज) सब व्यवहारों की सङ्गति किया कर ॥५५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। हे मनुष्यो ! यदि तुम लोग धर्मसम्बन्धी व्यवहार से धन की इच्छा करो तो जल और आग से चलाये हुए रथ के समान शीघ्र सब सुखों को प्राप्त होओ ॥५५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यथा त्रिवरुथ इन्द्रो देवः सरस्वत्या नराशंसोऽश्विभ्यां रथ ईयत इव सन्मार्गे गमयति, यथा वा जनित्रममृतं रेतो न रूपं वसुधेयस्य वसुवन इन्द्रायेन्द्रियाणि त्वष्टा दधद्यथैत एतानि व्यन्तु तथा त्वं यज ॥५५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। हे मनुष्याः ! यदि यूयं धर्म्येण व्यवहारेण श्रियं संचिनुयात्, तर्हि जलाग्निभ्यां चालितो रथ इव सद्यः सर्वाणि सुखानि प्राप्नुयात्॥५५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहेत. हे माणसांनो ! जर तुम्ही धर्मयुक्त व्यवहराने धन प्राप्त कराल तर जल व अग्नीने चालणाऱ्या रथाप्रमाणे ताबडतोब सुख मिळवाल.
५६ देवो देवैर्वनस्पतिर्हिरण्यपर्णोऽअश्विभ्या
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वो दे॒वैर्वन॒स्पति॒र्हिर॑ण्यपर्णोऽअ॒श्विभ्याँ॒ सर॑स्वत्या सुपिप्प॒लऽइन्द्रा॑य पच्यते॒ मधु॑। ओजो॒ न जू॒ति॑र्ऋ॑ष॒भो न भामं॒ वन॒स्पति॑र्नो॒ दध॑दिन्द्रि॒याणि॑ वसु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥५६ ॥
मूलम् ...{Loading}...
दे॒वो दे॒वैर्वन॒स्पति॒र्हिर॑ण्यपर्णोऽअ॒श्विभ्याँ॒ सर॑स्वत्या सुपिप्प॒लऽइन्द्रा॑य पच्यते॒ मधु॑। ओजो॒ न जू॒ति॑र्ऋ॑ष॒भो न भामं॒ वन॒स्पति॑र्नो॒ दध॑दिन्द्रि॒याणि॑ वसु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥५६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दे॒वः। दे॒वैः। वन॒स्पतिः॑। हिर॑ण्यवर्ण॒ इति॒ हिर॑ण्यऽवर्णः। अ॒श्विभ्या॒मित्य॒श्विऽभ्या॑म्। सर॑स्वत्या। सु॒पि॒प्प॒ल इति॑ सुऽपिप्प॒लः। इन्द्रा॑य। प॒च्य॒ते॒। मधु॑। ओजः॑। न। जू॒तिः। ऋ॒ष॒भः। न। भाम॑म्। वन॒स्पतिः॑। नः॒। दध॑त्। इ॒न्द्रि॒याणि॑। व॒सु॒वन॒ इति॑ वसु॒ऽवने॑। व॒सु॒धेय॒स्येति॑ वसु॒ऽधेय॑स्य। व्य॒न्तु॒। यज॑। ५६।
महीधरः
म० हे इन्द्र, वारितीनां वारि जले इतिर्गतिर्यासां ता वारितयः तासां जलोद्भवानामोषधीनां संबन्धि बर्हिः ते तव सदः सदसि अध्वरे यज्ञे अश्विभ्यां सरस्वत्या च स्तीर्णमास्तृतम् । कीदृशं बर्हिः । देवं दीप्यमानम् । ऊर्णम्रदाः ऊर्णमिव म्रदीयः । छान्दस ईयोलोपः । अतएव स्योनं सुखरूपम् । किंच अश्विसरस्वत्यः बर्हिषा सह राजानं दीप्यमानं मन्युं क्रोधमिन्द्रियं च हे इन्द्र, त्वयि दधुः । किमर्थम् । ईशायै ऐश्वर्याय ईशनमीशा तस्यै ‘गुरोश्च हलः’ (पा० ३ । ३ । ३०३) इति स्त्र्यधिकारे ईशतेरप्रत्ययः स्त्रीत्वादाप् । वसु० व्याख्यातम् ॥ ५७ ॥
अष्टपश्चाशी।
अधिमन्त्रम् (VC)
- अश्व्यादयो देवताः
- स्वस्त्यात्रेय ऋषिः
- निचृदत्यष्टिः
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्य कैसे वर्त्तें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! जैसे (अश्विभ्याम्) जल और बिजुली रूप आग से (देवैः) प्रकाश करनेवाले गुणों के साथ (देवः) प्रकाशमान (हिरण्यवर्णः) तेजःस्वरूप (वनस्पतिः) किरणों की रक्षा करनेवाला सूर्यलोक वा (सरस्वत्या) बढ़ती हुई नीति के साथ (सुपिप्पलः) सुन्दर फलोंवाला पीपल आदि वृक्ष (इन्द्राय) प्राणी के लिए (मधु) मीठा फल जैसे (पच्यते) पके वैसे पकता और सिद्ध होता वा (जूतिः) वेग (ओजः) जल को (न) जैसे (भामम्) तथा क्रोध को (ऋषभः) बलवान् प्राणी के (न) समान (वनस्पतिः) वट वृक्ष आदि (वसुधेयस्य) सब के आधार संसार के बीच (नः) हम लोगों के लिए (वसुवने) वा धन चाहनेवाले के लिए (इन्द्रियाणि) धनों को (दधत्) धारण कर रहा है, जैसे इन सब उक्त पदार्थों को ये सब (व्यन्तु) व्याप्त हों, वैसे तू सब व्यवहारों की (यज) सङ्गति किया कर ॥५६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। हे मनुष्यो ! तुम जैसे सूर्य वर्षा से और नदी अपने जल से वृक्षों की भलीभाँति रक्षा कर सब ओर से मीठे-मीठे फलों को उत्पन्न कराती है, वैसे सब के अर्थ सब वस्तु उत्पन्न करो और जैसे धार्मिक राजा दुष्ट पर क्रोध करता, वैसे दुष्टों के प्रति अप्रीति कर अच्छे उत्तम जनों में प्रेम को धारण करो ॥५६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्याः कथं वर्त्तेरन्नित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यथाश्विभ्यां देवैः सह देवो हिरण्यवर्णो वनस्पतिः सरस्वत्या सुपिप्पला इन्द्राय मध्विव पच्यते जूतिरोजो न भाममृषभो न वनस्पतिर्वसुधेयस्य नो वसुवन इन्द्रियाणि दधद्यथैतानेतानि व्यन्तु तथा त्वं यज ॥५६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। हे मनुष्याः ! भवन्तो यथा सूर्यो वृष्ट्या नदी स्वजलेन च वृक्षान् संरक्ष्य मधुराणि फलानि जनयति तथा सर्वार्थं सर्वं वस्तु जनयन्तु यथा च धार्मिको राजा दुष्टाय क्रुध्यति तथा दुष्टान् प्रत्यप्रीतिं कृत्वा श्रेष्ठेषु प्रेम धरन्तु ॥५६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहेत. हे माणसांनो ! जसे सूर्य पर्जन्यरूपाने व नदी जलरूपाने वृक्षांचे रक्षण करतात व मधुर फळे उत्पन्न करतात. त्याप्रकारे तुम्हीही सर्वांसाठी सर्व वस्तू बनवा व जसा धार्मिक राजा दुष्टांवर क्रोध करतो तसे तुम्हीही दुष्टांवर क्रोध व उत्तम, श्रेष्ठ लोकांवर प्रेम करा.
५७ देवं बर्हिर्वारितीनामध्वरे
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वं ब॒र्हिर्वारि॑तीनामध्व॒रे स्ती॒र्णम॒श्विभ्या॒मूर्णम्रदाः॒ सर॑स्वत्या स्यो॒नमि॑न्द्र ते॒ सदः॑। ई॒शायै॑ म॒न्युँ राजा॑नं ब॒र्हिषा॑ दधुरिन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥५७ ॥
मूलम् ...{Loading}...
दे॒वं ब॒र्हिर्वारि॑तीनामध्व॒रे स्ती॒र्णम॒श्विभ्या॒मूर्णम्रदाः॒ सर॑स्वत्या स्यो॒नमि॑न्द्र ते॒ सदः॑। ई॒शायै॑ म॒न्युँ राजा॑नं ब॒र्हिषा॑ दधुरिन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥५७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दे॒वम्। ब॒र्हिः। वारि॑तीना॑म्। अ॒ध्व॒रे। स्ती॒र्णम्। अ॒श्विभ्या॒मित्य॒श्विऽभ्या॑म्। ऊर्ण॑म्रदा॒ऽइत्यूर्ण॑ऽम्रदाः। सर॑स्वत्या। स्यो॒नम्। इ॒न्द्र॒। ते॒। सदः॑। ई॒शायै॑। म॒न्युम्। राजा॑नम्। ब॒र्हिषा॑। द॒धुः॒। इ॒न्द्रि॒यम्। व॒सु॒वन इति॑ वसु॒ऽवने॑। व॒सु॒धेय॒स्येति॑ वसु॒ऽधेय॑स्य। व्य॒न्तु॒। यज॑। ५७।
महीधरः
म०. शोभनमिष्टं यागं करोतीति स्विष्टकृत् अग्निर्देवो यथायथं यथास्वं यो यथा यष्टव्यस्तथा देवान् वक्ष्यमाणान् यक्षत् इष्टवान् । कान् देवानत आह । होतारौ अयं चाग्निरसौ च मध्यमो वायुः होतृमैत्रावरुणौ वा इन्द्रम् अश्विना अश्विनौ च वाचा मन्त्रेण वाचं च यक्षत् सरखतीमग्निं सोमं च । किंच स्विष्टकृत् शोभनयज्ञकारी सुत्रामा शोभनरक्षकः । मनिन्प्रत्ययः । इन्द्रः स्विष्टः सुष्ठु इष्टः सविता वरुणो भिषगिष्टः वनस्पतिर्देवश्च इष्टः । आज्यपा देवाः प्रयाजानुयाजाः स्विष्टाः । अग्निरधिष्ठाता अग्निना भौमेन हविर्द्वारा सुष्ठु इष्टः । किंच होता दैव्यः स्विष्टकृत् होत्रे मानुषाय यशः इन्द्रियमूर्जमन्नमपचितिं पूजां स्वधां पित्रर्थमन्नं दधत् ददतु । नकारश्चार्थः । वसुवननाय वसुधनाय च देवा व्यन्तु हविरदन्तु । मनुष्यहोतर्यज ॥ ५८॥
एकोनषष्टी।
अधिमन्त्रम् (VC)
- अश्व्यादयो देवताः
- स्वस्त्यात्रेय ऋषिः
- अतिशक्वरी
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) अपने इन्द्रिय के स्वामी जीव ! जिस (ते) तेरा (सरस्वत्या) उत्तम वाणी के साथ (स्योनम्) सुख और (सदः) जिस में बैठते वह नाव आदि यान है और जैसे (ऊर्णम्रदाः) ढाँपनेवाले पदार्थों से शिल्प की वस्तुओं को मीजते हुए विद्वान् जन (अश्विभ्याम्) पवन और बिजुली से (अध्वरे) न विनाश करने योग्य शिल्पयज्ञ में (वारितीनाम्) जिन की जल में चाल है, उन पदार्थों के (स्तीर्णम्) ढाँपनेवाले (देवम्) दिव्य (बर्हिः) अन्तरिक्ष को वा (ईशायै) जिस क्रिया से ऐश्वर्य को मनुष्य प्राप्त होता, उस के लिए (मन्युम्) विचार अर्थात् सब पदार्थों के गुण-दोष और उन की क्रिया सोचने के (राजानम्) प्रकाशमान राजा के समान वा (बर्हिषा) अन्तरिक्ष से (वसुधेयस्य) पृथिवी आदि आधार के बीच (वसुवने) पृथिवी आदि लोकों की सेवा करनेहारे जीव के लिए (इन्द्रियम्) धन को (दधुः) धारण करें और इन को (व्यन्तु) प्राप्त हों, वैसे तू सब पदार्थों की (यज) सङ्गति किया कर ॥५७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। यदि मनुष्य आकाश के समान निष्कम्प निडर आनन्द देने हारे एकान्त स्थानयुक्त और जिनकी आज्ञा भङ्ग न हो ऐसे पुरुषार्थी हों, वे इस संसार के बीच धनवान् क्यों न हों? ॥५७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे इन्द्र ! यस्य ते सरस्वत्या सह स्योनं सदोऽस्ति यथोर्णम्रदा अश्विभ्यामध्वरे वारितीनां स्तीर्णं देवं बर्हिरीशायै मत्युं राजानमिव बर्हिषा वसुधेयस्य वसुवन इन्द्रियं दधुरेतानि व्यन्तु तथा त्वं यज ॥५७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। यदि मनुष्या आकाशवदक्षोभा आनन्दप्रदा एकान्तप्रासादा अभङ्गाज्ञाः पुरुषार्थिनोऽभविष्यँस्तर्ह्यस्य संसारस्य मध्ये श्रीमन्तः कुतो नाभविष्यन् ॥५७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहेत. जर माणसे आकाशाप्रमाणे स्थिर, निर्भय, आनंदी, एकांतवासी व ज्यांची कुणी अवज्ञा करणार नाही, असे पुरुषार्थी असतील तर या जगात ते धनवान का होणार नाहीत?
५८ देवोऽअग्निः स्विष्टकृद्देवान्
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वोऽअ॒ग्निः स्वि॑ष्ट॒कृद्दे॒वान् य॑क्षद् यथाय॒थँ होता॑रा॒विन्द्र॑म॒श्विना॑ वा॒चा वा॒चँ सर॑स्वतीम॒ग्निँ सोमँ॑ स्विष्ट॒कृत्स्वि॑ष्ट॒ऽइन्द्रः॑ सु॒त्रामा॑ सवि॒ता वरु॑णो भि॒षगि॒ष्टो दे॒वो वन॒स्पतिः॒ स्वि᳖ष्टा दे॒वाऽआ॑ज्य॒पाः स्वि॑ष्टोऽअ॒ग्निर॒ग्निना॒ होता॑ हो॒त्रे स्वि॑ष्ट॒कृद् यशो॒ न दध॑दिन्द्रि॒यमूर्ज॒मप॑चितिँ स्व॒धां व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥५८ ॥
मूलम् ...{Loading}...
दे॒वोऽअ॒ग्निः स्वि॑ष्ट॒कृद्दे॒वान् य॑क्षद् यथाय॒थँ होता॑रा॒विन्द्र॑म॒श्विना॑ वा॒चा वा॒चँ सर॑स्वतीम॒ग्निँ सोमँ॑ स्विष्ट॒कृत्स्वि॑ष्ट॒ऽइन्द्रः॑ सु॒त्रामा॑ सवि॒ता वरु॑णो भि॒षगि॒ष्टो दे॒वो वन॒स्पतिः॒ स्वि᳖ष्टा दे॒वाऽआ॑ज्य॒पाः स्वि॑ष्टोऽअ॒ग्निर॒ग्निना॒ होता॑ हो॒त्रे स्वि॑ष्ट॒कृद् यशो॒ न दध॑दिन्द्रि॒यमूर्ज॒मप॑चितिँ स्व॒धां व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥५८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दे॒वः। अ॒ग्निः। स्वि॒ष्ट॒कृदिति॑ स्विष्ट॒ऽकृत्। दे॒वान् य॒क्ष॒त्। य॒था॒य॒थमिति॑ यथाऽय॒थम्। होता॑रौ। इन्द्र॑म्। अ॒श्विना॑। वा॒चा। वाच॑म्। सर॑स्वतीम्। अ॒ग्निम्। सोम॑म्। स्वि॒ष्ट॒कृदिति॑ स्विष्ट॒ऽकृत्। स्वि॑ष्ट॒ इति॒ सुऽइ॑ष्टः। इन्द्रः॑। सु॒त्रामेति॑ सु॒ऽत्रामा॑। स॒वि॒ता। वरु॑णः। भि॒षक्। इ॒ष्टः। दे॒वः। वन॒स्पतिः॑। स्वि॑ष्टा॒ इति॒ सुऽइ॑ष्टाः। दे॒वाः। आ॒ज्य॒पा इत्या॑ज्य॒ऽपाः। स्वि॑ष्ट॒ इति॒ सुऽइ॑ष्टः। अ॒ग्निः। अ॒ग्निना॑। होता॑। हो॒त्रे। स्वि॒ष्ट॒कृदिति॑ स्विष्ट॒ऽकृत्। यशः॑। न। दध॑त्। इ॒न्द्रि॒यम्। ऊर्ज॑म्। अप॑चिति॒मित्यप॑ऽचितिम्। स्व॒धाम्। व॒सु॒वन॒ इति॑ वसु॒ऽवने॑। व॒सु॒धेय॒स्येति॑ वसु॒ऽधेय॑स्य। व्य॒न्तु॒। यज॑। ५८।
महीधरः
म० ‘अग्निमद्येति सूक्तवाकप्रैषः’ ( का० १९ । ७ । १०)। अग्निमद्य होतारमित्यादिः सूक्ता ब्रूहीत्यन्तः कण्डिकात्रयात्मकः सूक्तवाके प्रैषो भवति । लिङ्गोक्तदेवतः प्रैषः । प्रथमा अष्टिः द्वितीया धृतिः तृतीया विकृतिः । अयं यजमानोऽद्य अग्निं होतारमवृणीत वृतवान् । वृणातेर्लङ् । किं कुर्वन् । पक्तीः पक्तव्यानि हवींषि पचन् । सामान्येनोक्त्वा विशेषमाह । पुरोडाशान्पचन् अश्विभ्यामश्विनोरर्थे छागं बध्नन् । यूपे इति शेषः। सरस्वत्यै मेषं बध्नन् इन्द्राय ऋषभं च बध्नन् तथा अश्विभ्यां सरस्वत्यै सुत्राम्णे रक्षकाय इन्द्राय च सुरासोमान्सुन्वन् अग्निमवृणीत ॥ ५९॥
षष्टी।
अधिमन्त्रम् (VC)
- अश्व्यादयो देवताः
- स्वस्त्यात्रेय ऋषिः
- आद्यस्याऽत्यष्टिः
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! जैसे (वसुधेयस्य) संसार के बीच में (वसुवने) ऐश्वर्य को सेवनेवाले सज्जन मनुष्य के लिए (स्विष्टकृत्) सुन्दर चाहे हुए सुख का करने हारा (देवः) दिव्य सुन्दर (अग्निः) आग (देवान्) उत्तम गुण-कर्म-स्वभावोंवाले पृथिवी आदि को (यथायथम्) यथायोग्य (यक्षत्) प्राप्त हो वा जैसे (होतारा) पदार्थों के ग्रहण करने हारे (अश्विना) पवन और बिजुलीरूप अग्नि (इन्द्रम्) सूर्य (वाचा) वाणी से (सरस्वतीम्) विशेष ज्ञानयुक्त (वाचम्) वाणी से (अग्निम्) अग्नि (सोमम्) और चन्द्रमा को यथायोग्य चलाते हैं वा जैसे (स्विष्टकृत्) अच्छे सुख का करनेवाला (स्विष्टः) सुन्दर और सब का चाहा हुआ (सुत्रामा) भलीभाँति पालने हारा (इन्द्रः) परमैश्वर्ययुक्त राजा (सविता) सूर्य (वरुणः) जल का समुदाय (भिषक्) रोगों का विनाश करने हारा वैद्य (इष्टः) सङ्ग करने योग्य (देवः) दिव्यस्वभाववाला (वनस्पतिः) पीपल आदि (स्विष्टाः) सुन्दर चाहा हुआ सुख जिनसे होवे (आज्यपाः) पीने योग्य रस को पीने हारे (देवाः) दिव्यस्वरूप विद्वान् (अग्निना) बिजुली के साथ (स्विष्टः) (होता) देनेवाला कि जिससे सुन्दर चाहा हुआ काम हो (स्विष्टकृत्) उत्तम चाहे हुए काम को करनेवाला (अग्निः) अग्नि (होत्रे) देनेवाले के लिए (यशः) कीर्ति करने हारे धन के (न) समान (इन्द्रियम्) जीव के चिह्न कान आदि इन्द्रियाँ (ऊर्जम्) बल (अपचितिम्) सत्कार और (स्वधाम्) अन्न को (दधत्) प्रत्येक को धारण करे वा जैसे उन उक्त पदार्थों को ये सब (व्यन्तु) प्राप्त हों, वैसे तू (यज) सब व्यवहारों की सङ्गति किया कर ॥५८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। जो मनुष्य ईश्वर के बनाये हुए इस मन्त्र में कहे यज्ञ आदि पदार्थों को विद्या से उपयोग के लिए धारण करते हैं, वे सुन्दर चाहे हुए सुखों को पाते हैं ॥५८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यथा वसुधेयस्य वसुवने स्विष्टकृद्देवोऽग्निर्देवान् यथायथं यक्षद् यथा होतारावश्विनेन्द्रं वाचा सरस्वतीं वाचमग्निं सोमं च यथायथं गमयतो यथा स्विष्टकृत्स्विष्टः सुत्रामेन्द्रः सविता वरुणो भिषगिष्टो देवो वनस्पतिः स्विष्टा आज्यपा देवा अग्निना स्विष्टो होता स्विष्टकृदग्निर्होत्रे यशो नेन्द्रियमूर्जमपचितिं स्वधां यथायथं दधद् यथैतानेतानि व्यन्तु तथा यथायथं यज ॥५८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। ये मनुष्या ईश्वरनिर्मितानेतन्मन्त्रोक्तयज्ञादीन् पदार्थान् विद्ययोपयोगाय दधति, ते स्विष्टानि सुखानि लभन्ते ॥५८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहेत. जी माणसे ईश्वराने निर्माण केलेल्या, या मंत्रात सांगितल्याप्रमाणे (अग्नी, सूर्य, चंद्र, विद्यूत, वायू, जल, ज्ञानयुक्त वाणी, वैद्य, अन्न इत्यादी) यज्ञीय पदार्थांचा उपयोग करून घेतात ती इच्छित सुख प्राप्त करतात.
५९ अग्निमद्य होतारमवृणीतायम्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्निम॒द्य होता॑रमवृणीता॒यं यज॑मानः॒ पच॒न् पक्तीः॒ पच॑न् पुरो॒डाशा॑न् ब॒ध्नन्न॒श्विभ्यां॒ छागँ॒ सर॑स्वत्यै मे॒षमिन्द्रा॑यऽऋष॒भँ सु॒न्वन्न॒श्विभ्याँ॒ सर॑स्वत्या॒ऽइन्द्रा॑य सु॒त्राम्णे॑ सुरासो॒मान् ॥५९ ॥
मूलम् ...{Loading}...
अ॒ग्निम॒द्य होता॑रमवृणीता॒यं यज॑मानः॒ पच॒न् पक्तीः॒ पच॑न् पुरो॒डाशा॑न् ब॒ध्नन्न॒श्विभ्यां॒ छागँ॒ सर॑स्वत्यै मे॒षमिन्द्रा॑यऽऋष॒भँ सु॒न्वन्न॒श्विभ्याँ॒ सर॑स्वत्या॒ऽइन्द्रा॑य सु॒त्राम्णे॑ सुरासो॒मान् ॥५९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒ग्निम्। अ॒द्य। होता॑रम्। अ॒वृणी॒त॒। अ॒यम्। यज॑मानः। पच॑न्। पक्तीः॑। पच॑न्। पु॒रो॒डाशा॑न्। ब॒ध्नन्। अ॒श्विभ्या॒मित्य॒श्विऽभ्या॑म्। छाग॑म्। सर॑स्वत्यै। मे॒षम्। इन्द्रा॑य। ऋ॒ष॒भम्। सु॒न्वन्। अ॒श्विभ्या॒मित्य॒श्विऽभ्या॑म्। सर॑स्वत्यै। इन्द्रा॑य। सु॒त्राम्ण॒ इति सु॒ऽत्राम्णे॑। सु॒रा॒सो॒मानिति॑ सुराऽसो॒मान्। ५९।
महीधरः
म० अद्य वनस्पतिर्देवः छागेन कृत्वा अश्विभ्यां सूपस्था अभवत् सुष्ठु उपतिष्ठते सेवते सूपस्थाः । छागेनाश्विनोः सेवां चकारेत्यर्थः। मेषेण सरस्वत्यै सूपस्था अभवत्। ऋषभेण इन्द्राय सूपस्था अभवत् । वनस्पतिना छागमेषर्षभैरश्व्यादीनामुपस्थानं कृतं तत्कथं ज्ञायते तत्राह । अश्व्यादयो मेदस्तः मेदो वपामारभ्य तान् छागादीन् अक्षन् अभक्षयन् । पुनः पचता पच्यन्ते तानि पचता पचतानि पक्वानि अवदानानि प्रत्यगृभीषत प्रत्यगृह्णन् । पचतेः ‘मृदशियजिपर्विपच्यमितमिनमिहर्येभ्योऽतच’ (उणा० ३ । १०९) इत्यतच्प्रत्ययः । ‘भूतेऽपि दृश्यन्ते’ (पा० ३ । ३ । २) इति वचनाद्भूतेऽपि द्रष्टव्यः । विभक्तेराकारः । पुनस्ते पुरोडाशैरवीवृधन्त ऐधन्त । किंच अश्विना सरस्वती सुत्रामा इन्द्रश्च सुरासोमानपुः पीतवन्तः । पातेर्लङ् पिबादेशाभावश्छान्दसः । ररक्षुर्वा । सुराश्च सोमाश्च तान् सुरामयान् सोमान् वा ॥ ६०॥
एकषष्टी।
इति माध्यन्दिनीयायां वाजसनेयसंहितायामेकविंशोऽध्यायः॥ २१ ॥
अधिमन्त्रम् (VC)
- अग्न्यादयो देवताः
- स्वस्त्यात्रेय ऋषिः
- अष्टिः
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (अयम्) यह (पक्तीः) पचाने के प्रकारों को (पचन्) पचाता अर्थात् सिद्ध करता और (पुरोडाशान्) यज्ञ आदि कर्म में प्रसिद्ध पाकों को (पचन्) पचाता हुआ (यजमानः) यज्ञ करने हारा (होतारम्) सुखों के देनेवाले (अग्निम्) आग को (अवृणीत) स्वीकार वा जैसे (अश्विभ्याम्) प्राण और अपान के लिए (छागम्) छेरी (सरस्वत्यै) विशेष ज्ञानयुक्त वाणी के लिए (मेषम्) भेड़ और (इन्द्राय) परम ऐश्वर्य के लिए (ऋषभम्) बैल को (बध्नन्) बाँधते हुए वा (अश्विभ्याम्) प्राण, अपान (सरस्वत्यै) विशेष ज्ञानयुक्त वाणी और (सुत्राम्णे) भलीभाँति रक्षा करने हारे (इन्द्राय) राजा के लिए (सुरासोमान्) उत्तम रसयुक्त पदार्थों का (सुन्वन्) सार निकालते हैं, वैसे तुम (अद्य) आज करो ॥५९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे मनुष्यो ! जैसे पदार्थों को मिलाने हारे वैद्य अपान के लिए छेरी का दूध, वाणी बढ़ने के लिए भेड़ का दूध, ऐश्वर्य के बढ़ने के लिए बैल, रोग निवारण के लिए औषधियों के रसों को इकट्ठा और अच्छे संस्कार किये हुए अन्नों का भोजन कर उससे बलवान् होकर दुष्ट शत्रुओं को बाँधते हैं, वैसे वे परम ऐश्वर्य को प्राप्त होते हैं ॥५९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथाऽयं पक्तीः पचन् पुरोडाशान् पचन् यजमानो होतरमग्निमवृणीत यथाऽश्विभ्यां छागं सरस्वत्यै मेषमिन्द्रायर्षभं बध्नन्नश्विभ्यां सरस्वत्यै सुत्राम्ण इन्द्राय सुरासोमानसुन्वँस्तथा यूयमद्य कुरुत ॥५९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः ! यथा सङ्गन्तारो वैद्या अपानार्थं छागदुग्धं वाग्वृद्ध्यर्थमविपय ऐश्वर्य्याय गौः पयो रोगनिवारणायौषधिरसांश्च संपाद्य सुसंस्कृतान्यन्नानि भुक्त्वा बलवन्तो भूत्वा दुष्टान् शत्रून् बध्नन्ति ते परमैश्वर्यं लभन्ते ॥५९।
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे माणसांनो ! जसे पदार्थांचा संयोग करणारे वैद्य अपान वायूसाठी शेळीचे दूध, वाणी विकसित होण्यासाठी लांडगीचे दूध, ऐश्वर्य वाढविण्यासाठी गाईचे दूध व रोग निवारण करण्यासाठी औषधांचा रस एकत्र करून संस्कारित केलेल्या अन्नाचे भोजन करवितात व बलवान बनवून राजाला दुष्ट शत्रूंचे निवारण करावयास लावतात. तेथे परम ऐश्वर्य प्राप्त होऊ शकते.
६० सूपस्थाऽअद्य देवो
विश्वास-प्रस्तुतिः ...{Loading}...
सू॒प॒स्थाऽअ॒द्य दे॒वो वन॒स्पति॑रभवद॒श्विभ्यां॒ छागे॑न॒ सर॑स्वत्यै मे॒षेणेन्द्रा॑यऽऋष॒भेणाक्षँ॒स्तान् मे॑द॒स्तः प्रति॑ पच॒तागृ॑भीष॒तावी॑वृधन्त पुरो॒डाशै॒रपु॑र॒श्विना॒ सर॑स्व॒तीन्द्रः॑ सु॒त्रामा॑ सुरासो॒मान् ॥६० ॥
मूलम् ...{Loading}...
सू॒प॒स्थाऽअ॒द्य दे॒वो वन॒स्पति॑रभवद॒श्विभ्यां॒ छागे॑न॒ सर॑स्वत्यै मे॒षेणेन्द्रा॑यऽऋष॒भेणाक्षँ॒स्तान् मे॑द॒स्तः प्रति॑ पच॒तागृ॑भीष॒तावी॑वृधन्त पुरो॒डाशै॒रपु॑र॒श्विना॒ सर॑स्व॒तीन्द्रः॑ सु॒त्रामा॑ सुरासो॒मान् ॥६० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सू॒प॒स्था इति॑ सुऽउप॒स्थाः। अ॒द्य। दे॒वः। वन॒स्पतिः॑। अ॒भ॒व॒त्। अ॒श्विभ्या॒मित्य॒श्विऽभ्या॑म्। छागे॑न। सर॑स्वत्यै। मे॒षेण॑। इन्द्रा॑य। ऋ॒ष॒भेण॑। अक्ष॑न्। तान्। मे॒द॒स्तः। प्रति॑। प॒च॒ता। अगृ॑भीषत। अवी॑वृधन्त। पु॒रो॒डाशैः॑। अपुः॑। अ॒श्विना॑। सर॑स्वती। इन्द्रः॑। सु॒त्रामेति॑ सु॒ऽत्रामा॑। सु॒रा॒सो॒मानिति॑ सुराऽसो॒मान्। ६०।
महीधरः
म० दैव्यो होता अग्निरुच्यते । हे ऋषे मन्त्राणां द्रष्टः, हे आर्षेय, यजमानार्षेयैर्व्रियत इत्येवं संबोध्यते । हे ऋषीणां नपात् पुत्र, अयं यजमानः बहुभ्यः सङ्गतेभ्यः मिलितेभ्यो देवेभ्य इति हेतोरथ त्वामेव आ अवृणीत सम्यग् वृतवान् । ’ इति किम् । एषोऽग्निर्मे मह्यं देवेषु वारि वरीतुं योग्यं वारि वरणीयं वसु धनमायक्ष्यते आदास्यते । यजतेर्दानार्थाल्लृट् । मया देवेभ्यो दातुं ग्रहीष्यते इत्यर्थः । किंच हे देव अग्ने, या यानि ता तानि दानानि देवा अदुः दत्तवन्तः तानि दानानि अस्मै यजमानाय आशास्स्व च इच्छ । तानि यजमानाय दातव्यानीति इच्छेत्यर्थः । आगुरस्व च उद्यच्छ । ‘गुरी उद्यमे’ - तुदादिः । दानायोद्यमं कुरु । आकारौ चकारौ च भिन्नक्रमौ । हे होतः, त्वमिषितः प्रेषितोऽसि प्रेरितोऽसि । कथं तदाह । भद्रवाच्याय वक्तुं योग्यं वाच्यं भद्रं शुभं च तत् वाच्यं च भद्रवाच्यं तस्मै । भद्रं ब्रूहीति प्रेषितोऽसीत्यर्थः । किंच सूक्ता सूक्तानि त्वं ब्रूहि इति सूक्तवाकाय सूक्तवचनाय सूक्तानि वक्तुं मानुषः होता च प्रेषितोऽस्ति ॥ ६१॥
श्रीमन्महीधरकृते वेददीपे मनोहरे।
एकविंशोऽयमध्यायो याज्यादिप्रेषणान्तिमः ॥ २१ ॥
अधिमन्त्रम् (VC)
- लिङ्गोक्ता देवताः
- स्वस्त्यात्रेय ऋषिः
- धृतिः
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को क्या करके क्या करना चाहिए, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (अद्य) आज (सूपस्थाः) भलीभाँति समीप स्थिर होनेवाले और (देवः) दिव्य गुणवाला पुरुष (वनस्पतिः) वट वृक्ष आदि के समान जिस-जिस (अश्विभ्याम्) प्राण और अपान के लिए (छागेन) दुःख विनाश करनेवाले छेरी आदि पशु से (सरस्वत्यै) वाणी के लिए (मेषेण) मेंढ़ा से (इन्द्राय) परम ऐश्वर्य्य के लिए (ऋषभेण) बैल से (अक्षन्) भोग करें, उपयोग लें (तान्) उन (मेदस्तः) सुन्दर चिकने पशुओं के (प्रति) प्रति (पचता) पचाने योग्य वस्तुओं का (अगृभीषत) ग्रहण करें (पुरोडाशैः) प्रथम उत्तम संस्कार किये हुए विशेष अन्नों से (अवीवृधन्त) वृद्धि को प्राप्त हों (अश्विना) प्राण, अपान (सरस्वती) प्रशंसित वाणी (सुत्रामा) भलीभाँति रक्षा करनेहारा (इन्द्रः) परम ऐश्वर्य्यवान् राजा (सुरासोमान्) जो अर्क खींचने से उत्पन्न हों, उन औषधिरसों को (अपुः) पीवें, वैसे आप (अभवत्) होओ ॥६० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो मनुष्य छेरी आदि पशुओं के दूध आदि प्राण-अपान की रक्षा के लिए, चिकने और पके हुए पदार्थों का भोजन कर उत्तम रसों के पीके वृद्धि को पाते हैं, वे अच्छे सुख को प्राप्त होते हैं ॥६० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैः किं कृत्वा किं कर्त्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथाऽद्य सूपस्था देवो वनस्पतिरिव येन येनाश्विभ्यां छागेन सरस्वत्यै मेषेणेन्द्राय ऋषभेणाक्षँस्तान् मेदस्तः प्रतिपचतागृभीषत पुरोडाशैरवीवृधन्ताश्विना सरस्वती सुत्रामेन्द्रः सुरासोमानपुस्तथा भवानभवद्भवेत्॥६० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये मनुष्याश्छागादिदुग्धादिभिः प्राणाऽपानरक्षणाय स्निग्धान् पक्वान् पदार्थान् भुक्त्वोत्तमान् रसान् पीत्वा वर्धन्ते ते सुसुखं लभन्ते ॥६० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जी माणसे प्राण अपान यांच्या रक्षणासाठी शेळी इत्यादी पशूंचे दूध पितात, स्निग्ध व पक्व पदार्थांचे भोजन करतात आणि उत्तम रस प्राशन करतात, त्यांची वृद्धी होते व त्यांना सुख प्राप्त होते.
६१ त्वामद्यऽऋषऽआर्षेयऽऋषीणां नपादवृणीतायम्
विश्वास-प्रस्तुतिः ...{Loading}...
त्वाम॒द्यऽऋ॑षऽआर्षेयऽऋषीणां नपादवृणीता॒यं यज॑मानो ब॒हुभ्य॒ऽआ सङ्ग॑तेभ्यऽए॒ष मे॑ दे॒वेषु॒ वसु॒ वार्याय॑क्ष्यत॒ऽइति॒ ता या दे॒वा दे॑व॒ दाना॒न्यदु॒स्तान्य॑स्मा॒ऽआ च॒ शास्स्वा च॑ गुरस्वेषि॒तश्च॑ होत॒रसि॑ भद्र॒वाच्या॑य॒ प्रेषि॑तो॒ मानु॑षः सू॒क्तवा॒काय॑ सू॒क्ता ब्रू॑हि ॥६१ ॥
मूलम् ...{Loading}...
त्वाम॒द्यऽऋ॑षऽआर्षेयऽऋषीणां नपादवृणीता॒यं यज॑मानो ब॒हुभ्य॒ऽआ सङ्ग॑तेभ्यऽए॒ष मे॑ दे॒वेषु॒ वसु॒ वार्याय॑क्ष्यत॒ऽइति॒ ता या दे॒वा दे॑व॒ दाना॒न्यदु॒स्तान्य॑स्मा॒ऽआ च॒ शास्स्वा च॑ गुरस्वेषि॒तश्च॑ होत॒रसि॑ भद्र॒वाच्या॑य॒ प्रेषि॑तो॒ मानु॑षः सू॒क्तवा॒काय॑ सू॒क्ता ब्रू॑हि ॥६१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
त्वाम्। अ॒द्य। ऋ॒षे॒। आ॒र्षे॒य॒। ऋ॒षी॒णा॒म्। न॒पा॒त्। अ॒वृ॒णी॒त॒। अ॒य॒म्। यज॑मानः। ब॒हुभ्य॒ इति॑ ब॒हुऽभ्यः॑। आ। सङ्ग॑तेभ्यः॒ इति स्ऽग॑तेभ्यः। ए॒षः। मे॒। दे॒वेषु॑। वसु॑। वारि॑। आ। य॒क्ष्य॒ते॑। इति॑। ता। या। दे॒वाः। दे॒व॒। दाना॑नि। अदुः॑। तानि॑। अ॒स्मै॒। आ। च॒। शास्व॑। आ। च॒। गु॒र॒स्व॒। इ॒षि॒तः। च॒। होतः॑ असि॑। भ॒द्र॒वाच्यायेति॑ भद्र॒ऽवाच्या॑य। प्रेषि॑त॒ इति॒ प्रऽइ॑षितः। मानु॑षः। सू॒क्त॒वा॒का॒येति॑ सूक्तऽवा॒काय॑। सू॒क्तेति॑ सुऽउ॒क्ता। ब्रू॒हि॒। ६१।
महीधरः
अधिमन्त्रम् (VC)
- लिङ्गोक्ता देवताः
- स्वस्त्यात्रेय ऋषिः
- भुरिग्विकृतिः
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्य कैसे अपना वर्ताव वर्तें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (ऋषे) मन्त्रों के अर्थ जाननेवाले वा हे (आर्षेय) मन्त्रार्थ जाननेवालों में श्रेष्ठ पुरुष ! (ऋषीणाम्) मन्त्रों के अर्थ जाननेवालों के (नपात्) सन्तान (यजमानः) यज्ञ करनेवाला (अयम्) यह (अद्य) आज (बहुभ्यः) बहुत (सङ्गतेभ्यः) योग्य पुरुषों से (त्वाम्) तुझको (आ, अवृणीत) स्वीकार करे (एषः) यह (देवेषु) विद्वानों में (मे) मेरे (वसु) धन (च) और (वारि) जल को स्वीकार करे। हे (देव) विद्वन् ! जो (आयक्ष्यते) सब ओर से सङ्गत किया जाता (च) और (देवाः) विद्वान् जन (या) जिन (दानानि) देने योग्य पदार्थों को (अदुः) देते हैं (तानि) उन सबों को (अस्मै) इस यज्ञ करनेवाले के लिए (आ, शास्व) अच्छे प्रकार कहो और (प्रेषितः) पढ़ाया हुआ तू (आ, गुरस्व) अच्छे प्रकार उद्यम कर (च) और हे (होतः) देने हारे ! (इषितः) सब का चाहा हुआ (मानुषः) तू (भद्रवाच्याय) जिस के लिए अच्छा कहना होता और (सूक्तवाकाय) जिस के वचनों में अच्छे कथन अच्छे व्याख्यान हैं, उस भद्रपुरुष के लिए (सूक्ता) अच्छी बोलचाल (ब्रूहि) बोलो (इति) इस कारण कि उक्त प्रकार से (ता) उन उत्तम पदार्थों को पाये हुए (असि) होते हो ॥६१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य बहुत विद्वानों से अति उत्तम विद्वान् को स्वीकार कर वेदादि शास्त्रों की विद्या को पढ़कर महर्षि होवें, वे दूसरों को पढ़ा सकें और जो देनेवाले उद्यमी होवें, वे विद्या को स्वीकार कर जो अविद्वान् हैं, उन पर दया कर विद्याग्रहण के लिए रोष से उन मूर्खों को ताड़ना दें और उन्हें अच्छे सभ्य करें, वे इस संसार में सत्कार करने योग्य हैं ॥६१ ॥ इस अध्याय में वरुण अग्नि विद्वान् राजा प्रजा शिल्प अर्थात् कारीगरी वाणी घर अश्विन् शब्द के अर्थ ऋतु होता आदि पदार्थों के गुणों का वर्णन होने से इस अध्याय में कहे अर्थ का पिछले अध्याय में कहे अर्थ के साथ मेल है, यह जानना चाहिये ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्याणां श्रीमन्महाविदुषां विरजानन्दसरस्वतीस्वामिनां शिष्येण श्रीमत्परमहंसपरिव्राजकाचार्येण श्रीमद्दयानन्दसरस्वतीस्वामिना विरचिते संस्कृतार्य्यभाषाभ्यां विभूषिते यजुर्वेदभाष्ये एकविंशोऽध्यायः समाप्तिमगात् ॥२१॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्याः कथं वर्त्तेरन्नित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे ऋषे आर्षेय ! ऋषीणां नपाद् यजमानोऽयमद्य बहुभ्यः सङ्गतेभ्यस्त्वामावृणीतैष देवेषु मे वसु वारि चावृणीत। हे देव ! य आयक्ष्यते देवा या यानि दानान्यदुस्तानि चास्मै आशास्स्व प्रेषितः सन्नागुरस्व च। हे होतरिषितो मानुषो भद्रवाच्याय सूक्तवाकाय सूक्ता ब्रूहीति ता प्राप्तवांश्चासि ॥६१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्या बहूनां विदुषां सकाशाद् विद्वांसं वृत्वा वेदादिविद्या अधीत्य महर्षयो भवेयुस्तेऽन्यानध्यापयितुं शक्नुयुः। ये च दातार उद्यमिनः स्युस्ते विद्यां वृत्वा अविदुषामुपरि दयां कृत्वा विद्याग्रहणाय रोषेण संताड्यैतान् सुसभ्यान् कुर्युस्तेऽत्र सत्कर्त्तव्याः स्युरिति ॥६१ ॥ अत्र वरुणाग्निविद्वद्राजप्रजाशिल्पवाग्गृहाश्व्यृतुहोत्रादिगुणवर्णनादेतदध्यायोक्तार्थस्य पूर्वाध्यायोक्तार्थेन सह सङ्गतिरस्तीति वेद्यम् ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे अत्यंत विद्वानांमधून उत्तम विद्वानांचा स्वीकार करून वेद इत्यादी शास्रांचे अध्ययन करून महानऋषी बनतात ते इतरांना शिकवू शकतात. उद्यमी लोकांनी अविद्वानांवर दया करून विद्याग्रहण करण्यासाठी क्रोधपूर्वक त्यांना ताडना देऊन का होईना विद्या प्राप्त करावयास लावावी व सभ्य बनवावे. असे लोक या जगात सत्कार करण्यायोग्य असतात.