०१ क्षत्रस्य योनिरसि
विश्वास-प्रस्तुतिः ...{Loading}...
क्ष॒त्रस्य॒ योनि॑रसि क्ष॒त्रस्य॒ नाभि॑रसि। मा त्वा॑ हिँसी॒न्मा मा॑ हिँसीः ॥१ ॥
मूलम् ...{Loading}...
क्ष॒त्रस्य॒ योनि॑रसि क्ष॒त्रस्य॒ नाभि॑रसि। मा त्वा॑ हिँसी॒न्मा मा॑ हिँसीः ॥१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
क्ष॒त्रस्य॑। योनिः॑। अ॒सि॒। क्ष॒त्रस्य॑। नाभिः॑। अ॒सि॒। मा। त्वा॒। हिँ॒सी॒त्। मा। मा॒। हिँ॒सीः॒। १।
महीधरः
म० ‘सोमासन्दीवदासन्दीं जानुमात्रपदीं वेद्योर्निदधाति क्षत्रस्य योनिरिति’ ( का० १९ । ४ । ८) । जानुप्रमाणपादामासन्दीं वेद्योर्मध्ये निदधाति सोमासन्दीवदिति मुञ्जरज्जुव्युताम्। आसन्द्या द्वौ पादौ दक्षिणवेदौ द्वावुत्तरवेदौ यथा तथेति सूत्रार्थः । आसन्दीदेवताका द्विपदा गायत्री। हे आसन्दि, त्वं क्षत्रस्य योनिरुत्पत्तिस्थानमसि । आसन्द्यामभिषिक्तो गुणधर्मानर्हति राजेति भावः । क्षत्रस्य नाभिर्नहनं बन्धनं चासि ‘कृष्णाजिनमस्यामास्तृणाति मा त्वेति’ ( का० १९ । ४ । ८)। अस्यामासन्द्यां कृष्णाजिनं छादयेदित्यर्थः । यजुः कृष्णाजिनदेवत्यम् । प्राजापत्या गायत्री । यज्ञाध्यासेन कृष्णाजिनं प्रार्थ्यते । हे कृष्णाजिन, आसन्दी त्वा त्वां मा हिंसीः । त्वं च मा मां मा हिंसीः मा जहि । ‘यज्ञो वै कृष्णाजिनं यज्ञस्य चैवात्मनश्च हिंसायै’ (१२ । ८ । ३ । ९) इति श्रुतेः ॥ १॥
द्वितीया।
अधिमन्त्रम् (VC)
- सभेशो देवता
- प्रजापतिर्ऋषिः
- द्विपदा विराड्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब बीसवें अध्याय का आरम्भ है, इसके आदि से राजधर्म विषय का वर्णन करते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सभापते ! जिससे तू (क्षत्रस्य) राज्य का (योनिः) निमित्त (असि) है, (क्षत्रस्य) राजकुल का (नाभिः) नाभि के समान जीवन हेतु (असि) है, इससे (त्वा) तुझको कोई भी (मा, हिंसीत्) मत मारे, तू (मा) मुझे (मा, हिंसीः) मत मारे ॥१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - स्वामी और भृत्यजन परस्पर ऐसी प्रतिज्ञा करें कि राजपुरुष प्रजापुरुषों और प्रजापुरुष राजपुरुषों की निरन्तर रक्षा करें, जिससे सबके सुख की उन्नति होवे ॥१ ॥
दयानन्द-सरस्वती (सं) - विषयः
अस्यादितो राजधर्मविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सभेश ! यतस्त्वं क्षत्रस्य योनिरसि क्षत्रस्य नाभिरसि, तस्मात् त्वा कोऽपि मा हिंसीत्, त्वं मा मा हिंसीः ॥१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - स्वामी भृत्यजनाश्च परस्परमेवं प्रतिज्ञां कुर्यू राजजनाः प्रजाजनान् प्रजाजना राजजनाँश्च सततं रक्षेयुः, येन सर्वेषां सुखोन्नतिः स्यात् ॥१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजपुरुषांनी प्रजेचे रक्षण करावे व प्रजेने राजपुरुषांचे रक्षण करावे, अशी प्रतिज्ञा स्वामी व सेवक यांनी करावी म्हणजे सर्वांच्या सुखात वाढ होते.
०२ निषसाद धृतव्रतो
विश्वास-प्रस्तुतिः ...{Loading}...
निष॑साद धृ॒तव्र॑तो॒
वरु॑णः प॒स्त्या᳙स्वा।
साम्रा॑ज्याय सु॒क्रतुः॑।
मृ॒त्योः पा॑हि वि॒द्योत् पा॑हि ॥२ ॥
मूलम् ...{Loading}...
निष॑साद धृ॒तव्र॑तो॒ वरु॑णः प॒स्त्या᳙स्वा। साम्रा॑ज्याय सु॒क्रतुः॑। मृ॒त्योः पा॑हि वि॒द्योत् पा॑हि ॥२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नि। स॒सा॒द॒। धृ॒तव्र॑त॒ इति॑ धृ॒तऽव्र॑तः। वरु॑णः। प॒स्त्या᳙सु। आ। साम्रा॑ज्या॒येति॒ साम्ऽरा॑ज्याय। सु॒क्रतु॒रिति॑ सु॒ऽक्रतुः॑। मृ॒त्योः। पा॒हि॒। वि॒द्योत्। पा॒हि॒। २।
महीधरः
म० तस्मिन्नास्ते यजमानो निषसादेति’ (का० १९ । ४।९) । यजमानः कृष्णाजिने उपविशेत् । व्याख्याता (अ० १० क. २७) । ‘पादयो रुक्ममुपन्यस्यति राजतᳪं᳭ सव्ये मृत्योरिति सौवर्णᳪं᳭ शिरस्येके विद्योदिति’ ( का० १९ । ४।१०-११)। आसन्द्युपविष्टयजमानस्य पादयोरधो रुक्मौ मण्डलाकारौ भूषणविशेषौ न्यस्यति राजतं सव्ये मृत्योरिति मन्त्रेण सौवर्णं दधे विद्योदिति सौवर्णं रुक्मं शिरसीत्येके ऊचुरिति सूत्रार्थः । रुक्मदेवत्ये यजुषी दैव्यौ बृहत्यौ । हे रुक्म, मृत्योः अकालमरणान्मां पाहि रक्ष । हे सौवर्ण रुक्म विद्योत् विद्योतत इति विद्योत् । विच्प्रत्यये गुणः । विद्युत्पाताद्रक्षेत्यर्थः ॥२॥
तृतीया।
अधिमन्त्रम् (VC)
- सभेशो देवता
- प्रजापतिर्ऋषिः
- भुरिगुष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सभापति ! आप (सुक्रतुः) उत्तम बुद्धि और कर्मयुक्त (धृतव्रतः) सत्य का धारण करनेहारे (वरुणः) उत्तम स्वभावयुक्त होते हुए (साम्राज्याय) भूगोल मे चक्रवर्त्ती राज्य करने के लिये (पस्त्यासु) न्यायघरों में (आ, नि, षसाद) निरन्तर स्थित हूजिये तथा हम वीरों की (मृत्योः) मृत्यु से (पाहि) रक्षा कीजिये और (विद्योत्) प्रकाशमान अग्नि अस्त्रादि से (पाहि) रक्षा कीजिये ॥२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो धर्मयुक्त गुण-कर्म-स्वभाववाला न्यायाधीश सभापति होवे, सो चक्रवर्त्ती राज्य और प्रजा की रक्षा करने को समर्थ होता है, अन्य नहीं ॥२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सभेश ! भवान् सुक्रतुर्धृतव्रतो वरुणः सन् साम्राज्याय पस्त्यास्वा निषसाद। अस्मान् वीरान् मृत्योः पाहि विद्योत् पाहि ॥२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यो धर्म्यगुणकर्मस्वभावो न्यायाधीशः सभेशो भवेत्, स चक्रवर्त्तिराज्यं कर्त्तुं प्रजाश्च रक्षितुं शक्नोति, नेतरः ॥२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - धार्मिक गुण, कर्म, स्वभावाचा असा जो न्यायी राजा असतो तो प्रजेचे रक्षण करण्यास समर्थ असतो, अन्य नव्हे.
०३ देवस्य त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳙ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम्। अ॒श्विनो॒र्भैष॑ज्येन॒ तेज॑से ब्रह्मवर्च॒साया॒भि षि॑ञ्चामि॒ सर॑स्वत्यै॒ भैष॑ज्येन वी॒र्या᳖या॒न्नाद्याया॒भि षि॑ञ्चा॒मीन्द्र॑स्येन्द्रि॒येण॒ बला॑य श्रि॒यै यश॑से॒ऽभि षि॑ञ्चामि ॥३ ॥
मूलम् ...{Loading}...
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳙ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम्। अ॒श्विनो॒र्भैष॑ज्येन॒ तेज॑से ब्रह्मवर्च॒साया॒भि षि॑ञ्चामि॒ सर॑स्वत्यै॒ भैष॑ज्येन वी॒र्या᳖या॒न्नाद्याया॒भि षि॑ञ्चा॒मीन्द्र॑स्येन्द्रि॒येण॒ बला॑य श्रि॒यै यश॑से॒ऽभि षि॑ञ्चामि ॥३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दे॒वस्य॑। त्वा॒। स॒वि॒तुः। प्र॒स॒व इति॑ प्रऽस॒वे। अ॒श्विनोः॑। बा॒हुभ्या॒मिति॑ बा॒हुऽभ्या॑म्। पू॒ष्णः। हस्ता॑भ्याम्। अ॒श्विनोः॑। भैष॑ज्येन। तेज॑से। ब्र॒ह्म॒व॒र्च॒सायेति॑ ब्रह्मऽवर्च॒साय॑। अ॒भि। सि॒ञ्चा॒मि॒। सर॑स्वत्यै। भैष॑ज्येन। वी॒र्या᳖य। अ॒न्नाद्या॒येत्य॒न्नऽअद्या॑य। अ॒भि। सि॒ञ्चा॒मि॒। इन्द्र॑स्य। इ॒न्द्रि॒येण॑। बला॑य। श्रि॒यै। यश॑से। अ॒भि। सि॒ञ्चा॒मि॒। ३।
महीधरः
म० ‘सर्वसुरभ्युन्मृदितᳪं᳭ शेषैरभिषिञ्चत्या मुखादवस्रावयन् प्रतिदिशᳪं᳭ सर्वत्र सावित्रमश्विनोः सरस्वत्या इन्द्रस्येति प्रतिमन्त्रम्’ ( का० १९ । ४ । १४)। वेतसमात्रस्थापितैर्वसाग्रहशेषैः प्रतिदिशं स्थितोऽध्वर्युरा मुखादवस्रावयन्नासन्दीस्थं यजमानमभिषिञ्चति मन्त्रत्रयेण । कीदृशम् । सर्वैः सुरभिभिश्चन्दनकर्पूरकस्तूरीकेसरादिभिरुद्वर्तितम् । सावित्रं यजुर्देवस्य त्वेति सर्वत्र त्रिष्वपि मन्त्रेष्वन्वेति । चतुर्थोऽभिषेक उत्तरे स्थितस्त्रिभिर्मन्त्रैर्महाव्याहृतिभिरिन्द्रस्येति तृतीयमन्त्रेण वा. कुर्यादिति सूत्रार्थः । देवस्य त्वा । व्याख्यातम् । अश्विनोः । त्रीणि लिङ्गोक्तदेवतानि । आद्यं प्राजापत्या बृहती द्वे ऋग्गायत्र्यौ । हे यजमान, अश्विनोः भैषज्येन वैद्यकर्मणा त्वामभिषिञ्चामि । भिषजः कर्म भैषज्यम् । किमर्थं । तेजसे कान्त्यै ब्रह्मवर्चसाय । सर्वत्रास्खलितवेदवेदाङ्गजनिता कीर्तिर्ब्रह्मवर्चसम् । सरस्वत्यै भैषज्येन । षष्ठ्यर्थे चतुर्थी । सरस्वत्या भिषक्कर्मणा च भवन्तं देवमभिषिञ्चामि । किमर्थं । वीर्यायान्नाद्याय । वीर्यं सामर्थ्यं अन्नाद्यमन्नभक्षणसामर्थ्यं तस्मै । इन्द्रस्येन्द्रियेण इन्द्रियपाटवेन सामर्थ्येन च त्वामभिषिञ्चामि । किमर्थं बलाय सामर्थ्याय श्रियै सर्वसमृद्ध्यै यशसे कीर्त्यै ॥ ३ ॥
चतुर्थी।
अधिमन्त्रम् (VC)
- सभेशो देवता
- अश्विनावृषी
- निचृदतिधृतिः
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे शुभ लक्षणों से युक्त पुरुष ! (सवितुः) सकल ऐश्वर्य के अधिष्ठाता (देवस्य) सब ओर से प्रकाशमान जगदीश्वर के (प्रसवे) उत्पन्न किये हुए जगत् में (अश्विनोः) सम्पूर्ण विद्या में व्याप्त अध्यापक और उपदेशक के (बाहुभ्याम्) बल और पराक्रम से (पूष्णः) पूर्ण बलवाले वायुवत् वर्त्तमान पुरुष के (हस्ताभ्याम्) उत्साह और पुरुषार्थ से (अश्विनोः) वैद्यक विद्या में व्याप्त पढ़ाने और ओषधि करनेहारे के (भैषज्येन) वैद्यकपन से (तेजसे) प्रगल्भता के लिये (ब्रह्मवर्चसाय) वेदों के पढ़ने के लिये (त्वा) तुझ को राज प्रजाजन मैं (अभि, षिञ्चामि) अभिषेक करता हूँ (भैषज्येन) ओषधियों के भाव से (सरस्वत्यै) अच्छे प्रकार शिक्षा की हुई वाणी (वीर्याय) पराक्रम और (अन्नाद्याय) अन्नादि की प्राप्ति के लिये (अभि, षिञ्चामि) अभिषेक करता हूँ (इन्द्रस्य) परम ऐश्वर्य्यवाले के (इन्द्रियेण) धन से (बलाय) पुष्ट होने (श्रियै) सुशोभायुक्त राजलक्ष्मी और (यशसे) पुण्य कीर्ति के लिये (अभि, षिञ्चामि) अभिषेक करता हूँ ॥३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सब मनुष्यों को योग्य है कि इस जगत् में धर्मयुक्त कर्मों का प्रकाश करने के लिये शुभ गुण, कर्म और स्वभाववाले जन को राज्य पालन करने के लिये अधिकार देवें ॥३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे शुभलक्षणान्वित पुरुष ! सवितुर्देवस्येश्वरस्य प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामश्विनोर्भैषज्येन तेजसे ब्रह्मवर्चसाय त्वा राजप्रजाजनोऽहमभिषिञ्चामि भैषज्येन सरस्वत्यै वीर्य्यायान्नाद्यायाऽभिषिञ्चामीन्द्रस्येन्द्रियेण बलाय श्रियै यशसेऽभिषिञ्चामि ॥३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - जनैरत्र जगति धर्म्यकर्मप्रकाशकरणाय शुभगुणकर्मस्वभावो जनो राज्यपालनायाऽधिकर्त्तव्यः ॥३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सर्व माणसांनी या जगात धर्मयुक्त कर्माचा फैलाव व्हावा यासाठी शुभ गुण, कर्म, स्वभाव असणाऱ्या माणसांना राज्यपालनाचा अधिकार द्यावा.
०४ कोऽसि कतमोऽसि
विश्वास-प्रस्तुतिः ...{Loading}...
को॑ऽसि कत॒मो᳖ऽसि॒ कस्मै॑ त्वा॒ काय॑ त्वा। सुश्लो॑क॒ सुम॑ङ्गल॒ सत्य॑राजन् ॥४ ॥
मूलम् ...{Loading}...
को॑ऽसि कत॒मो᳖ऽसि॒ कस्मै॑ त्वा॒ काय॑ त्वा। सुश्लो॑क॒ सुम॑ङ्गल॒ सत्य॑राजन् ॥४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
कः। अ॒सि॒। क॒त॒मः। अ॒सि॒। कस्मै॑। त्वा॒। काय॑। त्वा॒। सुश्लो॒केति॒ सुऽश्लो॑क। सुम॑ङ्ग॒लेति॒ सुऽम॑ङ्गल। सत्य॑राज॒न्निति॒ सत्य॑ऽराजन्। ४।
महीधरः
म० ‘यजमानमालभते कोऽसीति । अध्वर्युर्यजमानं स्पृशति’ (का० १९ । ४ । १९)। प्राजापत्या गायत्री उष्णिग्गर्भा षट्सप्तैकादशोष्णिग्गर्भेति वचनात् । हे यजमान, त्वं कः प्रजापतिः असि । अत्यन्तं कः कतमः श्रेष्ठः प्रजापतिरसि । प्रजापतयो बहवः तत्रोत्तमोऽसि । कस्मै प्रजापतिपदप्राप्तये त्वामहममिषिक्तवानिति शेषः । काय प्रजापतिभवाय चाभिषिक्तवान् । ‘सुश्लोकेत्यालब्धो ह्वयति’ (का० १९ । ४ । २०)। अध्वर्युणा स्पृष्टो यजमानः सुश्लोकादिसंज्ञान्नरानाह्वयति । हे.सुश्लोक, एहीति शेषः । शोभनः श्लोकः कीर्तिर्यस्य । शोभनं मङ्गलमुदयो यस्य स सुमङ्गलः । हे सुमङ्गल, त्वमेहि । हे सत्यराजन्, एहि सत्योऽविनाशी राजा प्रभुर्यस्य सः ॥ ४ ॥
पञ्चमी।
अधिमन्त्रम् (VC)
- सभापतिर्देवता
- प्रजापतिर्ऋषिः
- निचृदार्षी गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सुश्लोक) उत्तम कीर्ति और सत्य बोलनेहारे (सुमङ्गल) प्रशस्त मङ्गलकारी कर्मों के अनुष्ठान करने और (सत्यराजन्) सत्यन्याय के प्रकाश करनेहारे ! जो तू (कः) सुखस्वरूप (असि) है, और (कतमः) अतिसुखकारी (असि) है, इससे (कस्मै) सुखस्वरूप परमेश्वर के लिये (त्वा) तुझको तथा (काय) परमेश्वर जिसका देवता उस मन्त्र के लिये (त्वा) तुझ को मैं अभिषेकयुक्त करता हूँ ॥४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में पूर्व मन्त्र से (अभि, षिञ्चामि) इन पदों की अनुवृत्ति आती है। जो सब मनुष्यों के मध्य में अतिप्रशंसनीय होवे, वह सभापतित्व के योग्य होता है ॥४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सुश्लोक सुमङ्गल सत्यराजन् ! यस्त्वं कोऽसि कतमोऽसि तस्मात् कस्मै त्वा काय त्वाऽहमभिषिञ्चामि ॥४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र पूर्वमन्त्रादभिषिञ्चामीत्यभिसम्बध्यते। यः सर्वेषां मनुष्याणां मध्येऽतिप्रशंसनीयो भवेत्, स सभेशत्वमर्हेत् ॥४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात पूर्वीच्या मंत्रातील (अभि, षिञ्चामि) या पदांची अनुवृत्ती झालेली आहे. जो सर्व माणसांत अतिप्रशंसनीय असेल तो राजा बनण्यायोग्य असतो.
०५ शिरो मे
विश्वास-प्रस्तुतिः ...{Loading}...
शिरो॑ मे॒ श्रीर्यशो॒ मुखं॒ त्विषिः॒ केशा॑श्च॒ श्मश्रू॑णि। राजा॑ मे प्रा॒णोऽअ॒मृतँ॑ स॒म्राट् चक्षु॑र्वि॒राट् श्रोत्र॑म् ॥५ ॥
मूलम् ...{Loading}...
शिरो॑ मे॒ श्रीर्यशो॒ मुखं॒ त्विषिः॒ केशा॑श्च॒ श्मश्रू॑णि। राजा॑ मे प्रा॒णोऽअ॒मृतँ॑ स॒म्राट् चक्षु॑र्वि॒राट् श्रोत्र॑म् ॥५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
शिरः॑। मे॒। श्रीः। यशः॑। मुख॑म्। त्विषिः॑। केशाः॑। च॒। श्मश्रू॑णि। राजा॑। मे॒। प्रा॒णः। अ॒मृत॑म्। स॒म्राडिति॑ स॒म्ऽराट्। चक्षुः॑। वि॒राडिति॑ वि॒ऽराट्। श्रोत्र॑म्। ५।
महीधरः
म० ‘अङ्गानि चालभते यथालिङ्गᳪं᳭ शिरो म इति प्रतिमन्त्रम्’ (का० १९ । ४ । २१)। यजमानो यथालिङ्गमङ्गान्यालभते । इन्द्रशरीरावयवदेवताकं पञ्चर्चम् । तत्र तृतीया गायत्री अन्त्या त्र्यवसाना महापङ्क्तिः तिस्रोऽनुष्टुभः । अभिषिक्तो यजमान इन्द्ररूप आत्मानं सर्वात्मकं पश्यन्नाह । हे मम शिरः, श्रीः शोभास्तु वर्तते वा । मे मुखं यशोऽस्तु । केशाः श्मश्रूणि मुखलोमानि च विषिर्दीप्तिरस्तु । राजा दीप्यमानो मे मम प्राणो मुखवायुरमृतमस्तु । चक्षुरिन्द्रियं सम्राट् अस्तु । सम्यक् राजते सम्राट् । श्रोत्रमिन्द्रियं विराट् विविधं राजमानमस्तु ॥५॥
षष्ठी।
अधिमन्त्रम् (VC)
- सभापतिर्देवता
- प्रजापतिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! राज्य में अभिषेक को प्राप्त हुए (मे) मेरी (श्रीः) शोभा और धन (शिरः) शिरस्थानी (यशः) सत्कीर्ति का कथन (मुखम्) मुखस्थानी (त्विषिः) न्याय के प्रकाश के समान (केशाः) केश (च) और (श्मश्रूणि) दाढ़ी-मूँछ (राजा) प्रकाशमान (मे) मेरा (प्राणः) प्राण आदि वायु (अमृतम्) मरणधर्मरहित चेतन ब्रह्म (सम्राट्) अच्छे प्रकार प्रकाशमान (चक्षुः) नेत्र (विराट्) विविध शास्त्रश्रवणयुक्त (श्रोत्रम्) कान है, ऐसा तुम लोग जानो ॥५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो राज्य में अभिषिक्त राजा होवे सो शिर आदि अवयवों को शुभ कर्मों में प्रेरित रक्खे ॥५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! राज्येऽभिषिक्तस्य मे मम श्रीः शिरो यशो मुखं त्विषिः केशाः श्मश्रूणि च राजा मे प्राणोऽमृतं सम्राट् चक्षुर्विराट् श्रोत्रं चास्त्येवं यूयं जानीत ॥५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यो राज्येऽभिषिक्तस्स्यात्, स शिरआद्यवयवान् शुभकर्मसु प्रेरयेत् ॥५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राज्याभिषिक्त राजाने आपल्या सर्व इंद्रियांना व प्राणाला शुभ कर्मात प्रेरित करावे.
०६ जिह्वा मे
विश्वास-प्रस्तुतिः ...{Loading}...
जि॒ह्वा मे॑ भ॒द्रं वाङ् महो॒ मनो॑ म॒न्युः स्व॒राड् भामः॑। मोदाः॑ प्रमो॒दा अ॒ङ्गुली॒रङ्गा॑नि मि॒त्रं मे॒ सहः॑ ॥६ ॥
मूलम् ...{Loading}...
जि॒ह्वा मे॑ भ॒द्रं वाङ् महो॒ मनो॑ म॒न्युः स्व॒राड् भामः॑। मोदाः॑ प्रमो॒दा अ॒ङ्गुली॒रङ्गा॑नि मि॒त्रं मे॒ सहः॑ ॥६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
जि॒ह्वा। मे॒। भ॒द्रम्। वाक्। महः॑। मनः॑। म॒न्युः। स्व॒राडिति॑ स्व॒ऽराट्। भामः॑। मोदाः॑। प्र॒मो॒दा इति॑ प्रऽमो॒दाः। अ॒ङ्गुलीः॑। अङ्गा॑नि। मि॒त्रम्। मे॒। सहः॑। ६।
महीधरः
म० मे जिह्वा रसनेन्द्रियं भद्रं कल्याणरूपमस्तु । वाक् वागिन्द्रियं महः मह्यते पूज्यते महः पूज्यमानास्तु । महतेरसुन्प्रत्ययः । मनो मन्युः क्रोधरूपमस्तु क्रोधफलं ददातु । भामः क्रोधः स्वराट् स्वेनैव राजमानोऽस्तु नतु कुतश्चित्प्रतिहन्यतामित्यर्थः । तदुक्तम् ‘शक्तिरहितोऽपि कुप्यति मानं चोद्वहति सेवकजनोऽपि । अर्थरहितोऽपि कामी जानाति विधिं विडम्बयितुम्’ इति । अङ्गुलयो मोदाः आनन्दरूपाः सन्तु । मोदन्ते ते मोदाः पचाद्यच् । अङ्गानि प्रमोदाः प्रकृष्टहर्षाः सन्तु । मे मम मित्रं सहः अस्तु । सहते अभिभवति शत्रुमिति सहः रिपुनाशकमस्तु ॥ ६ ॥
सप्तमी।
अधिमन्त्रम् (VC)
- सभापतिर्देवता
- प्रजापतिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (मे) मेरी (जिह्वा) जीभ (भद्रम्) कल्याणकारक अन्नादि के भोग करनेहारी (वाक्) जिससे बोला जाता है, वह वाणी (महः) बड़ी पूजनीय वेदशास्त्र के बोध से युक्त (मनः) विचार करनेवाला अन्तःकरण (मन्युः) दुष्टाचारी मनुष्यों पर क्रोध करनेहारा (स्वराट्) स्वयं प्रकाशमान बुद्धि (भामः) जिससे प्रकाश होता है (मोदाः) हर्ष, उत्साह (प्रमोदाः) प्रकृष्ट आनन्द के योग (अङ्गुलीः) अङ्गुलियाँ (अङ्गानि) और अन्य सब अङ्ग (मित्रम्) सखा और (सहः) सहन (मे) मेरे सहायक हों ॥६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो राजपुरुष ब्रह्मचर्य, जितेन्द्रियता और धर्माचरण से पथ्य आहार करने, सत्य वाणी बोलने, दुष्टों में क्रोध का प्रकाश करनेहारे, आनन्दित हो अन्यों को आनन्दित करते हुए, पुरुषार्थी, सब के मित्र और बलिष्ठ होवें, वे सर्वदा सुखी रहें ॥६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! मे जिह्वा भद्रं वाङ् महो मनो मन्युः स्वराड् भामो मोदाः प्रमोदा अङ्गुलीरङ्गानि मित्रं च सहो मे सहायो भवेत् ॥६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये राजजना ब्रह्मचर्य्यजितेन्द्रियत्वधर्म्माचरणैः पथ्याहाराः सत्यवाचो दुष्टेषु क्रोधाविष्कारा आनन्दन्तोऽन्यानानन्दयन्तः पुरुषार्थिनः सर्वसुहृदो बलिष्ठा भवेयुस्ते सर्वदा सुखिनः स्युः ॥६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे राजपुरुष ब्रह्मचर्य, जितेंद्रियता व धर्माचरणाने यथायोग्य आहार घेतात, त्यांची वाणी सत्य असून, जे दुष्टांवर क्रोध करतात. स्वतः आनंदात राहून इतरांना आनंदित करतात ते पुरुषार्थी, सर्वांचे मित्र व बलवान बनून नेहमी सुखी राहतात.
०७ बाहू मे
विश्वास-प्रस्तुतिः ...{Loading}...
बा॒हू मे॒ बल॑मिन्द्रि॒यँ हस्तौ॑ मे॒ कर्म॑ वी॒र्य᳖म्। आ॒त्मा क्ष॒त्रमुरो॒ मम॑ ॥७ ॥
मूलम् ...{Loading}...
बा॒हू मे॒ बल॑मिन्द्रि॒यँ हस्तौ॑ मे॒ कर्म॑ वी॒र्य᳖म्। आ॒त्मा क्ष॒त्रमुरो॒ मम॑ ॥७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
बा॒हूऽइति॑ बा॒हू। मे॒। बल॑म्। इ॒न्द्रि॒यम्। हस्तौ॑। मे॒। कर्म॑। वी॒र्य᳖म्। आ॒त्मा। क्ष॒त्रम्। उरः॑। मम॑। ७।
महीधरः
म० मे बाहू बलमस्तु बलवन्तौ स्तामित्यर्थः । इन्द्रियं च बलं स्वकार्यक्षममस्तु । मे हस्तौ कर्म चास्तु सत्कर्मकुशलौ सामर्थ्यवन्तौ च स्तामित्यर्थः । मम आत्मा अन्तरात्मा उरो हृदयं च क्षत्रं क्षतात्त्राणकरमस्तु ॥ ७ ॥
अष्टमी।
अधिमन्त्रम् (VC)
- राजा देवता
- प्रजापतिर्ऋषिः
- निचृद्गायत्री
- षड्जः
०८ पृष्ठीर्मे राष्ट्रमुदरमंसौ
विश्वास-प्रस्तुतिः ...{Loading}...
पृ॒ष्ठीर्मे॑ रा॒ष्ट्रमु॒दर॒मँसौ॑ ग्री॒वाश्च॒ श्रोणी॑। ऊ॒रूऽअ॑र॒त्नी जानु॑नी॒ विशो॒ मेऽङ्गा॑नि स॒र्वतः॑ ॥८ ॥
मूलम् ...{Loading}...
पृ॒ष्ठीर्मे॑ रा॒ष्ट्रमु॒दर॒मँसौ॑ ग्री॒वाश्च॒ श्रोणी॑। ऊ॒रूऽअ॑र॒त्नी जानु॑नी॒ विशो॒ मेऽङ्गा॑नि स॒र्वतः॑ ॥८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पृ॒ष्ठीः। मे॒। रा॒ष्ट्रम्। उ॒दर॑म्। अँसौ॑। ग्री॒वाः। च॒। श्रोणी॒ऽइति॒ श्रोणी॑। ऊ॒रूऽइत्यू॒रू। अ॒र॒त्नी। जानु॑नी॒ऽइति॒ जानु॑नी। विशः॑। मे॒। अङ्गा॑नि। स॒र्वतः॑। ८।
महीधरः
म० मे मम पृष्टीः पृष्ठप्रदेशो राष्ट्रं देशो देशवत्सर्वाधारमस्तु । मे मम उदरमंसौ स्कन्धौ ग्रीवाः कण्ठदेशाः श्रोणी कटिदेशौ ऊरू सक्थिनी अरत्नी हस्तदेशौ जानुनी च सर्वतोऽन्यान्यङ्गानि च विशः प्रजाः सन्तु प्रजावत् पोष्याः सन्तु ॥८॥
नवमी।
अधिमन्त्रम् (VC)
- सभापतिर्देवता
- प्रजापतिर्ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (मे) मेरा (राष्ट्रम्) राज्य (पृष्ठीः) पीठ (उदरम्) पेट (अंसौ) स्कन्ध (ग्रीवाः) कण्ठप्रदेश (श्रोणी) कटिप्रदेश (ऊरू) जङ्घा (अरत्नी) भुजाओं का मध्यप्रदेश और (जानुनी) गोड़ का मध्यप्रदेश तथा (सर्वतः) सब ओर से (च) और (अङ्गानि) अङ्ग (मे) मेरे (विशः) प्रजाजन हैं ॥८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो अपने अङ्गों के तुल्य प्रजा को जाने, वही राजा सर्वदा बढ़ता रहता है ॥८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! मे मम पृष्ठी राष्ट्रमुदरमंसौ ग्रीवाः श्रोणी ऊरू अरत्नी जानुनी सर्वतोऽन्यानि चाङ्गानि मे विशः सन्ति ॥८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यः स्वदेहाङ्गवत् प्रजाः जानीयात्, स एव राजा सर्वदा वर्द्धते ॥८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जो राजा प्रजेला स्वतःच्या शरीरावयवाप्रमाणे मानतो त्याच राजाची सदैव उन्नती होते.
०९ नाभिर्मे चित्तम्
विश्वास-प्रस्तुतिः ...{Loading}...
नाभि॑र्मे चि॒त्तं वि॒ज्ञानं॑ पा॒युर्मेऽप॑चितिर्भ॒सत्। आ॒न॒न्द॒न॒न्दावा॒ण्डौ मे॒ भगः॒ सौभा॑ग्यं॒ पसः॑। जङ्घा॑भ्यां प॒द्भ्यां धर्मो॑ऽस्मि वि॒शि राजा॒ प्रति॑ष्ठितः ॥९ ॥
मूलम् ...{Loading}...
नाभि॑र्मे चि॒त्तं वि॒ज्ञानं॑ पा॒युर्मेऽप॑चितिर्भ॒सत्। आ॒न॒न्द॒न॒न्दावा॒ण्डौ मे॒ भगः॒ सौभा॑ग्यं॒ पसः॑। जङ्घा॑भ्यां प॒द्भ्यां धर्मो॑ऽस्मि वि॒शि राजा॒ प्रति॑ष्ठितः ॥९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नाभिः॑। मे॒। चि॒त्तम्। वि॒ज्ञान॒मिति॑ वि॒ऽज्ञान॑म्। पा॒युः। मे॒। अप॑चिति॒रित्यप॑ऽचितिः। भ॒सत्। आ॒न॒न्द॒न॒न्दावित्या॑नन्दऽन॒न्दौ। आ॒ण्डौ। मे॒। भगः॑। सौभा॑ग्यम्। पसः॑। जङ्घा॑भ्याम्। प॒द्भ्यामिति॑ प॒त्ऽभ्याम्। धर्मः॑। अ॒स्मि॒। वि॒शि। राजा॑। प्रति॑ष्ठितः। प्रति॑स्थित॒ इति॒ प्रति॑ऽस्थितः। ९।
महीधरः
म० मे नाभिः चित्तं ज्ञानरूपमस्तु । पायुर्मे गुदेन्द्रियं विज्ञानं ज्ञानजनितसंस्काराधारमस्तु । भसत् स्त्रीप्रजननमपचितिः प्रजारूपमस्तु सुभगमस्तु । यजमानपत्नीविषयमेतत् । मे आण्डौ वृषणौ आनन्दनन्दौ स्तामानन्देन संभोगजनितसुखेन नन्दतस्तौ । तत्सुखभोक्तारौ भवतामित्यर्थः । ‘पसः पसतेः। स्पृशतिकर्मणः’ इति यास्कोक्तेः पसो लिङ्गं भगः सौभाग्यं चास्तु । भग ऐश्वर्यं सौभाग्यं संपत्तिः । सर्वदा भोगासक्तमस्त्वित्यर्थः । जङ्घाभ्यां पद्भ्यां चाहं धर्मोऽस्मि । उपलक्षणमेतत् सर्वाङ्गैर्धर्मरूपोऽस्मि । धर्मरूपत्वादेव विशि प्रजायां राजा प्रतिष्ठितोऽस्मि । धर्मप्रतिष्ठितो हि राजा भवति ॥ ९ ॥
दशमी।
अधिमन्त्रम् (VC)
- सभेशो देवता
- प्रजापतिर्ऋषिः
- निचृज्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (मे) मेरी (चित्तम्) स्मरण करनेहारी वृत्ति (नाभिः) मध्यप्रदेश (विज्ञानम्) विशेष वा अनेक ज्ञान (पायुः) मूलेन्द्रिय (मे) मेरी (अपचितिः) प्रजाजनक (भसत्) योनि (आण्डौ) अण्डे के आकार के वृषणावयव (आनन्दनन्दौ) संभोग के सुख से आनन्दकारक (मे) मेरा (भगः) ऐश्वर्य्य (पसः) लिङ्ग और (सौभाग्यम्) पुत्र-पौत्रादि युक्त होवे, इसी प्रकार मैं (जङ्घाभ्याम्) जङ्घा और (पद्भ्याम्) पगों के साथ (विशि) प्रजा में (प्रतिष्ठितः) प्रतिष्ठा को प्राप्त (धर्मः) पक्षपातरहित न्यायधर्म के समान (राजा) राजा (अस्मि) हूँ, जिससे तुम लोग मेरे अनुकूल रहो ॥९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो सब अङ्गों से शुभ कर्म करता है, सो धर्मात्मा होकर प्रजा में सत्कार के योग्य उत्तम प्रतिष्ठित राजा होवे ॥९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! मे चित्तं नाभिर्विज्ञानं पायुर्मेऽपचितिर्भसदाण्डावानन्दनन्दौ मे भगः पसः सौभाग्यं सौभाग्ययुक्तं स्यादेवमहं जङ्घाभ्यां पद्भ्यां सह विशि प्रतिष्ठितो धर्मो राजाऽस्मि, यस्माद्यूयं मदनुकूला भवत ॥९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यस्सर्वैरङ्गैः शुभं कर्माऽऽचरेत्, स धर्मात्मा सन् प्रजायां सुप्रतिष्ठितो राजा स्यात् ॥९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जो सर्वांगाने शुभ कर्म करतो तो धर्मात्मा बनून प्रजेमध्ये सत्कार करण्यायोग्य उत्तम व प्रतिष्ठित राजा बनतो.
१० प्रति क्षत्रे
विश्वास-प्रस्तुतिः ...{Loading}...
प्रति॑ क्ष॒त्रे प्रति॑ तिष्ठामि रा॒ष्ट्रे प्रत्यश्वे॑षु॒ प्रति॑ तिष्ठामि॒ गोषु॑। प्रत्यङ्गे॑षु॒ प्रति॑ तिष्ठाम्या॒त्मन् प्रति॑ प्रा॒णेषु॒ प्रति॑ तिष्ठामि पु॒ष्टे प्रति॒ द्यावा॑पृथि॒व्योः प्रति॑ तिष्ठामि य॒ज्ञे ॥१० ॥
मूलम् ...{Loading}...
प्रति॑ क्ष॒त्रे प्रति॑ तिष्ठामि रा॒ष्ट्रे प्रत्यश्वे॑षु॒ प्रति॑ तिष्ठामि॒ गोषु॑। प्रत्यङ्गे॑षु॒ प्रति॑ तिष्ठाम्या॒त्मन् प्रति॑ प्रा॒णेषु॒ प्रति॑ तिष्ठामि पु॒ष्टे प्रति॒ द्यावा॑पृथि॒व्योः प्रति॑ तिष्ठामि य॒ज्ञे ॥१० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्रति॑। क्ष॒त्रे। प्रति॑। ति॒ष्ठा॒मि॒। रा॒ष्ट्रे। प्रति॑। अश्वे॑षु। प्रति॑। ति॒ष्ठा॒मि॒। गोषु॑। प्रति॑। अङ्गे॑षु। प्रति॑। ति॒ष्ठा॒मि॒। आत्मन्। प्रति॑। प्रा॒णेषु॑। प्रति॑। ति॒ष्ठा॒मि॒। पु॒ष्टे। प्रति॑। द्यावा॑पृथि॒व्योः। प्रति॑। ति॒ष्ठा॒मि॒। य॒ज्ञे। १०।
महीधरः
म० ‘कृष्णाजिनेऽवरोहति प्रति क्षत्र इति’ ( का० १९ । ४ । २३ )। आसन्दीतो यजमानः कृष्णाजिनेऽवतरति । विश्वदेवदेवत्यं यजुः अतिशक्करी । अहं क्षत्रे प्रतितिष्ठामि क्षत्रियजातौ प्रतिष्ठायुक्तो भवामि । राष्ट्रे देशे अश्वेषु गोषु अङ्गेषु करपादाद्यवयवेषु आत्मन् आत्मनि चित्ते प्राणेषु पञ्चसु पुष्टे पुष्टौ समृद्धौ द्यावापृथिव्योः स्वर्गेहलोकयोः यज्ञे ज्योतिष्टोमादौ च प्रतितिष्ठामि । क्रियापदावृत्तिः फलातिशयद्योतनार्था । क्षत्रियदेशयोः प्रतिष्ठा वशीकरणम् गोऽश्वप्रतिष्ठा तत्प्राप्तिः प्राणाङ्गप्रतिष्ठा नीरोगत्वम् आत्मप्रतिष्ठा निराधित्वम् पुष्टप्रतिष्ठा धनसमृद्धिः द्यावापृथिव्योः प्रतिष्ठोभयलोककीर्तिः यज्ञे प्रतिष्ठा यज्ञकरणम् । वश्यविश्वः पशुमान्निराधिव्याधिः श्रीमान् यज्ञकर्ता च भवेयमिति भावः ॥ १० ॥
एकादशी।
अधिमन्त्रम् (VC)
- सभेशो देवता
- प्रजापतिर्ऋषिः
- स्वराट्शक्वरी
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - प्रजाजनों में प्रतिष्ठा को प्राप्त मैं राजा धर्मयुक्त व्यवहार से (क्षत्रे) क्षय से रक्षा करनेहारे क्षत्रियकुल में (प्रति) प्रतिष्ठा को प्राप्त होता हूँ, (राष्ट्रे) राज्य में (प्रति, तिष्ठामि) प्रतिष्ठा को प्राप्त होता हूँ, (अश्वेषु) घोड़े आदि वाहनों में (प्रति) प्रतिष्ठा को प्राप्त होता हूँ, (गोषु) गौ और पृथिवी आदि पदार्थों में (प्रति, तिष्ठामि) प्रतिष्ठित होता हूँ (अङ्गेषु) राज्य के अङ्गों में (प्रति) प्रतिष्ठित होता हूँ, (आत्मन्) आत्मा में (प्रति, तिष्ठामि) प्रतिष्ठित होता हूँ, (प्राणेषु) प्राणों में (प्रति) प्रतिष्ठित होता हूँ, (पुष्टे) पुष्टि करने में (प्रति, तिष्ठामि) प्रतिष्ठित होता हूँ, (द्यावापृथिव्योः) सूर्य-चन्द्र के समान न्याय-प्रकाश और पृथिवी में (प्रति) प्रतिष्ठित होता (यज्ञे) विद्वानों की सेवा संग और विद्यादानादि क्रिया में (प्रति, तिष्ठामि) प्रतिष्ठित होता हूँ ॥१० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो राजा प्रिय-अप्रिय को छोड़, न्यायधर्म से समस्त प्रजा का शासन, सब राजकर्मों में चाररूप आँखोंवाला अर्थात् राज्य के गुप्त हाल को देनेवाले दूत ही जिसके नेत्र के समान, वैसा ही मध्यस्थ वृत्ति से सब प्रजाओं का पालन कर कराके निरन्तर विद्या की शिक्षा को बढ़ावे, वही सब का पूज्य होवे ॥१० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - विशि प्रतिष्ठितो राजाऽहं धर्म्येण क्षत्रे प्रति तिष्ठामि, राष्ट्रे प्रति तिष्ठाम्यश्वेषु प्रति तिष्ठामि, गोषु प्रतितिष्ठाम्यङ्गेषु प्रति तिष्ठाम्यात्मन् प्रति तिष्ठामि, प्राणेषु प्रति तिष्ठामि, पुष्टे प्रति तिष्ठामि, द्यावापृथिव्योः प्रति तिष्ठामि, यज्ञे प्रति तिष्ठामि ॥१० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यो राजा प्रियाऽप्रिये विहाय न्यायधर्मेण प्रजाः प्रशास्य सर्वेषु राजकर्मसु चारचक्षुर्भूत्वा मध्यस्थया वृत्त्या सर्वाः प्रजाः पालयित्वा सततं विद्यासुशिक्षावर्धको भवेत्, स एव सर्वपूज्यो भवेत् ॥१० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जो राजा प्रिय, अप्रिय हा विचार न करता न्यायाने शासन चालविणारा, गुप्तहेररूपी नेत्रांच्या साह्याने राज्यकार्य करणारा, मध्यस्थ वृत्तीने प्रजेचे पालन करून सदैव विद्येचे संस्कार वाढविणारा असेल तोच सर्वांना पूजनीय वाटतो.
११ त्रया देवा
विश्वास-प्रस्तुतिः ...{Loading}...
त्र॒या दे॒वा एका॑दश त्रयस्त्रिँ॒शाः सु॒राध॑सः। बृह॒स्पति॑पुरोहिता दे॒वस्य॑ सवि॒तुः स॒वे। दे॒वा दे॒वैर॑वन्तु मा ॥११ ॥
मूलम् ...{Loading}...
त्र॒या दे॒वा एका॑दश त्रयस्त्रिँ॒शाः सु॒राध॑सः। बृह॒स्पति॑पुरोहिता दे॒वस्य॑ सवि॒तुः स॒वे। दे॒वा दे॒वैर॑वन्तु मा ॥११ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
त्र॒याः। दे॒वाः। एका॑दश। त्र॒य॒स्त्रिँ॒शा इति॑ त्रयःऽत्रिँ॒शाः। सु॒राध॑स॒ इति॑ सु॒ऽराध॑सः। बृह॒स्पति॑पुरोहिता॒ इति॒ बृह॒स्पति॑ऽपुरोहिताः। दे॒वस्य॑। स॒वि॒तुः। स॒वे। दे॒वाः। दे॒वैः। अ॒व॒न्तु॒। मा॒। ११।
महीधरः
म० ‘त्रया देवा इति शस्त्रान्ते जुहोति’ (का० १९ । ५। ८)। शस्त्रसमाप्तौ वषट्कृते त्रया इति कण्डिकाद्वयात्मकेन मन्त्रेण त्रयस्त्रिंशं वसाग्रहं जुहोति । त्र्यवसाना विश्वदेवदेवत्या पङ्क्तिः । एकादश देवा देवैः वक्ष्यमाणैः सह मा मामवन्तु रक्षन्तु । कीदृशाः । त्रयाः त्रयोऽवयवा येषां ते ‘संख्याया अवयवे तयप्’ (पा० ५। २। ४२) ‘द्वित्रिभ्यां तयस्यायज्वा’ (पा० ५। २ । ४३) इत्ययजादेशः । एकादश त्रिगुणा इत्यर्थः । ते च कतीति स्वयमेवाह त्रयस्त्रिंशाः तिसृभिरधिका त्रिंशत्संख्या येषां ते । त्रयस्त्रिंशत्संख्या इत्यर्थः । सुराधसः शोभनं राधो येषां ते । राध इति धननाम । ‘राध्नुवन्त्यनेन’ ( नि. ४ । ४ ) इति यास्कोक्तेः । तथा बृहस्पतिपुरोहिताः बृहस्पतिः पुरोहितो येषां ते । तथा सवितुः देवस्य सवे आज्ञायां वर्तमानाः । देवाः दीप्यमानाः ॥ ११ ॥
द्वादशी।
अधिमन्त्रम् (VC)
- उपदेशका देवताः
- प्रजापतिर्ऋषिः
- पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब उपदेशक विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (त्रयाः) तीन प्रकार के (देवाः) दिव्यगुणवाले (बृहस्पतिपुरोहिताः) जिनमें कि बड़ों का पालन करनेहारा सूर्य्य प्रथम धारण किया हुआ है, (सुराधसः) जिनसे अच्छे प्रकार कार्यों की सिद्धि होती वे (एकादश) ग्यारह (त्रयस्त्रिंशाः) तेंतीस दिव्यगुणवाले पदार्थ (सवितुः) सब जगत् की उत्पत्ति करनेहारे (देवस्य) प्रकाशमान ईश्वर के (सवे) परमैश्वर्य्ययुक्त उत्पन्न किये हुए जगत् में हैं, उन (देवैः) पृथिव्यादि तेंतीस पदार्थों से सहित (मा) मुझ को (देवाः) विद्वान् लोग (अवन्तु) रक्षा और बढ़ाया करें ॥११ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो पृथिवी, जल, तेज, वायु, आकाश, सूर्य्य, चन्द्र, नक्षत्र ये आठ और प्राण, अपान, व्यान, उदान, समान, नाग, कूर्म, कृकल, देवदत्त, धनञ्जय तथा ग्यारहवाँ जीवात्मा, बारह महीने, बिजुली और यज्ञ इन तेंतीस दिव्यगुणवाले पृथिव्यादि पदार्थों के गुण, कर्म और स्वभाव के उपदेश से सब मनुष्यों की उन्नति करते हैं, वे सर्वोपकारक होते हैं ॥११ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथोपदेशकविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये त्रया देवा बृहस्पतिपुरोहिताः सुराधस एकादश त्रयस्त्रिंशाः सवितुर्देवस्य सवे वर्त्तन्ते, तैर्देवैः सहितं मा देवा अवन्तु, उन्नतं सम्पादयन्तु ॥११ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये पृथिव्यप्तेजोवाय्वाकाशद्युचन्द्रनक्षत्राण्यष्टौ प्राणादयो दश वायव एकादशो जीवात्मा द्वादश मासा विद्युद्यज्ञश्चैतेषां दिव्यपृथिव्यादीनां पदार्थानां गुणकर्मस्वभावोपदेशेन सर्वान् मनुष्यानुत्कर्षयन्ति, ते सर्वोपकारका भवन्ति ॥११ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे विद्वान जल, तेज, वायू, आकाश, सूर्य, चंद्र नक्षत्र हे आठ (वसू) , प्राण, अपान, व्यान, उदान, समान, नाग, कूर्म, कृकल, देवदत्त, धनंजय व अकरावा जीवात्मा (रुद्र) , बारा महिने (आदित्य) , तसेच विद्युत व यज्ञ अशा तेहतीस देवता अर्थात पृथ्वी इत्यादी पदार्थांच्या गुण, कर्म, स्वभावाचा उपदेश करतात ते सर्व माणसांची उन्नती करण्यास साह्यभूत ठरून सर्वांवर उपकार करतात.
१२ प्रथमा द्वितीयैर्द्वितीयास्तृतीयैस्तृतीयाः
विश्वास-प्रस्तुतिः ...{Loading}...
प्र॒थ॒मा द्वि॒तीयै॑र्द्वि॒तीया॑स्तृ॒तीयै॑स्तृ॒तीयाः॑ स॒त्येन॑ स॒त्यं य॒ज्ञेन॑ य॒ज्ञो यजु॑र्भि॒र्यजूँ॑षि॒ साम॑भिः॒ सामा॑न्यृ॒ग्भिर्ऋचः॑। पुरोऽनुवा॒क्या᳖भिः पुरोऽनुवा॒क्या᳖ या॒ज्या᳖भिर्या॒ज्या᳖ वषट्का॒रैर्व॑षट्का॒राऽ आहु॑तिभि॒राहु॑तयो मे॒ कामा॒न्त्सम॑र्धयन्तु॒ भूः स्वाहा॑ ॥१२ ॥
मूलम् ...{Loading}...
प्र॒थ॒मा द्वि॒तीयै॑र्द्वि॒तीया॑स्तृ॒तीयै॑स्तृ॒तीयाः॑ स॒त्येन॑ स॒त्यं य॒ज्ञेन॑ य॒ज्ञो यजु॑र्भि॒र्यजूँ॑षि॒ साम॑भिः॒ सामा॑न्यृ॒ग्भिर्ऋचः॑। पुरोऽनुवा॒क्या᳖भिः पुरोऽनुवा॒क्या᳖ या॒ज्या᳖भिर्या॒ज्या᳖ वषट्का॒रैर्व॑षट्का॒राऽ आहु॑तिभि॒राहु॑तयो मे॒ कामा॒न्त्सम॑र्धयन्तु॒ भूः स्वाहा॑ ॥१२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्र॒थ॒मा। द्वि॒तीयैः॑। द्वि॒तीयाः॑। तृ॒तीयैः॑। तृ॒तीयाः॑। स॒त्येन॑। स॒त्यम्। य॒ज्ञेन॑। य॒ज्ञः। यजु॑र्भि॒रिति॒ यजुः॑ऽभिः। यजूँ॑षि। साम॑भि॒रिति॒ साम॑ऽभिः। सामा॑नि। ऋ॒ग्भिरित्यृ॒क्ऽभिः। ऋचः॑। पु॒रो॒नु॒वा॒क्या᳖भि॒रिति॑ पुरःऽअनुवा॒क्याभिः। पु॒रो॒नु॒वा॒क्या॒ इति॑ पुरःऽअनुवा॒क्याः। भिः᳖या॒ज्या। ᳖या॒ज्याः। व॒ष॒ट्का॒रैरिति॑ वषट्ऽका॒रैः। राःकाष॒ट्का॒रा इति॑ वषट्ऽव। आहु॑तिभि॒रित्याहु॑तिऽभिः। आहु॑तय॒ इत्याऽहु॑तयः। मे॒। कामा॑न्। सम्। अ॒र्ध॒य॒न्तु॒। भूः। स्वाहा॑। १२।
महीधरः
म० कथमवन्तु तत्राह । विश्वदेवदेवत्यमाशीर्लिङ्गं यजुः प्रकृतिश्छन्दः । प्रथमा देवा द्वितीयैः सहिता मामवन्तु द्वितीयास्तृतीयैः सहावन्तु तृतीयाः सत्येन सह सत्यं यज्ञेन सह यज्ञो यजुर्भिः सह यजूंषि सामभिः सह सामान्यृग्भिः सह ऋचः पुरोनुवाक्याभिः सह पुरोनुवाक्या याज्याभिः सह याज्या वषट्कारैः सह वषट्कारा आहुतिभिः सह एवं त्रिप्रकारैरेकादशसंख्यैर्देवैरुत्तरोत्तरं पालिता आहुतयो मे मम कामानभिलाषान् समर्धयन्तु पूरयन्तु । भूः भुवनं भूः हुतमिदं स्वाहा सुहुतमस्तु ॥ १२ ॥
त्रयोदशी ।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- प्रजापतिर्ऋषिः
- निचृत्प्रकृतिः
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् लोगो ! (प्रथमाः) आदि में कहे पृथिव्यादि आठ वसु (द्वितीयैः) दूसरे ग्यारह प्राण आदि रुद्रों के साथ (द्वितीयाः) दूसरे ग्यारह रुद्र (तृतीयैः) तीसरे महीनों के साथ (तृतीयाः) तीसरे महीने (सत्येन) नाशरहित कारण के सहित (सत्यम्) नित्यकारण (यज्ञेन) शिल्पविद्यारूप क्रिया के साथ (यज्ञः) शिल्पक्रिया आदि कर्म (यजुर्भिः) यजुर्वेदोक्त क्रियाओं से युक्त (यजूंषि) यजुर्वेदोक्त क्रिया (सामभिः) सामवेदोक्त विद्या के साथ (सामानि) सामवेदस्थ क्रिया आदि (ऋग्भिः) ऋग्वेदस्थ विद्या क्रियाओं के साथ (ऋचः) ऋग्वेदस्थ व्यवहार (पुरोनुवाक्याभिः) अथर्ववेदोक्त प्रकरणों के साथ (पुरोनुवाक्याः) अथर्ववेदस्थ व्यवहार (याज्याभिः) यज्ञ के सम्बन्ध में जो क्रिया है, उन के साथ (याज्याः) यज्ञक्रिया (वषट्कारैः) उत्तम कर्मों के साथ (वषट्काराः) उत्तम क्रिया (आहुतिभिः) होम क्रियाओं के साथ (आहुतयः) आहुतियाँ (स्वाहा) सत्य क्रियाओं के साथ ये सब (भूः) भूमि में (मे) मेरी (कामान्) इच्छाओं को (समर्धयन्तु) अच्छे प्रकार सिद्ध करें, वैसे मुझ को आप लोग बोध कराओ ॥१२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अध्यापक और उपदेशक प्रथम वेदों को पढ़ा, पृथिव्यादि पदार्थ विद्याओं को जना, कार्य-कारण के सम्बन्ध से उनके गुणों को साक्षात् कराके, हस्तक्रिया से सब मनुष्यों को कुशल अच्छे प्रकार किया करें ॥१२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वासः ! यथा प्रथमा द्वितीयैर्द्वितीयास्तृतीयैस्तृतीयाः सत्येन सत्यं यज्ञेन यज्ञो यजुर्भिर्यजूंषि सामभिः सामान्यृग्भिर्ऋचः पुरोऽनुवाक्याभिः पुरोनुवाक्या याज्याभिर्याज्या वषट्कारैर्वषट्कारा आहुतिभिराहुतयः स्वाहैते सर्वे भूर्मे कामान्त्समर्धयन्तु तथा मां भवन्तो बोधयन्तु ॥१२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अध्यापकोपदेशकाः पूर्वं वेदानध्याप्य पृथिव्यादिपदार्थविद्याः संज्ञाप्य कारणकार्यसम्बन्धेन तद्गुणान् साक्षात् कारयित्वा हस्तक्रियया सर्वान् जनान् कुशलान् सम्पादयेयुः ॥१२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - अध्यापक व उपदेशक यांनी प्रथम वेद वाचून पृथ्वी इत्यादींची पदार्थविद्या जाणावी. त्यानंतर कार्यकारण संबंधाने, क्रियात्मक रीतीने, प्रत्यक्ष व्यवहारात आणावे व सर्व माणसांना चांगल्या प्रकारे कुशल बनवावे.
१३ लोमानि प्रयतिर्मम
विश्वास-प्रस्तुतिः ...{Loading}...
लोमा॑नि॒ प्रय॑ति॒र्मम॒ त्वङ् म॒ऽआन॑ति॒राग॑तिः। माँ॒सं म॒ऽउप॑नति॒र्वस्वस्थि॑ म॒ज्जा म॒ऽआन॑तिः ॥१३ ॥
मूलम् ...{Loading}...
लोमा॑नि॒ प्रय॑ति॒र्मम॒ त्वङ् म॒ऽआन॑ति॒राग॑तिः। माँ॒सं म॒ऽउप॑नति॒र्वस्वस्थि॑ म॒ज्जा म॒ऽआन॑तिः ॥१३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
लोमा॑नि। प्रय॑ति॒रिति॒ प्रऽय॑तिः। मम॑। त्वक्। मे॒। आन॑ति॒रि॒त्याऽन॑तिः। आग॑ति॒रित्याऽग॑तिः। माँ॒सम्। मे॒। उप॑नति॒रित्युप॑ऽनतिः। वसु॑। अस्थि॑। म॒ज्जा। मे॒। आन॑ति॒रित्याऽन॑तिः। १३।
महीधरः
म० ‘प्रत्यक्षभक्षं यजमानो लोमानि प्रयतिरिति’ ( का. १९ । ५। १०)। यजमानो ग्रहशेषं प्रत्यक्षमुपहवपूर्वकं भक्षयति । लोमत्वगादिदेवतानुष्टुप् । मम लोमानि प्रयतिः प्रयतनं प्रयतिः प्रयत्नो वर्तते तथोद्यामी (?) यथा लोमस्वपि प्रयत्नः। मे मम त्वङ् आनतिः आगतिश्च आनमन्ति भूतानि यस्यां सा आनतिः। आगच्छन्ति भूतानि यां प्रति सा आगतिः । मदीयां त्वचं दृष्ट्वा भूतान्यागच्छन्ति नमन्ति चेत्यर्थः । मे मम मांसमुपनतिः उपनमन्ति भूतानि यत्र । ममास्थि वसु धनं धनरूपमेव । मे मज्जा आनतिः आनमन्ति भूतानि यत्र उपलक्षणमेतत् । मम सप्त धातवो जगद्वशीकरणसमर्था इत्यर्थः ॥ १३ ॥
चतुर्दशी।
अधिमन्त्रम् (VC)
- अध्यापकोपदेशकौ देवते
- प्रजापतिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे अध्यापक और उपदेशक लोगो ! जैसे (मम) मेरे (लोमानि) रोम वा (प्रयतिः) जिससे प्रयत्न करते हैं वा (मे) मेरी (त्वक्) त्वचा (आनतिः) वा जिससे सब ओर से नम्र होते हैं, (मांसस्) मांस वा (आगतिः) आगमन तथा (मे) मेरा (वसु) द्रव्य (उपनतिः) वा जिससे नम्र होते हैं (मे) मेरे (अस्थि) हाड़ और (मज्जा) हाड़ों के बीच का पदार्थ (आनतिः) वा अच्छे प्रकार नमन होता हो, वैसे तुम लोग प्रयत्न किया करो ॥१३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अध्यापक, उपदेशक लोगों को इस प्रकार प्रयत्न करना चाहिये कि जिससे सुशिक्षायुक्त सब पुरुष और सब कन्या सुन्दर अङ्ग और स्वभाववाले दृढ़, बलयुक्त, धार्मिक विद्याओं से युक्त होवें ॥१३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अध्यापकोपदेशकाः ! यथा मम लोमानि प्रयतिर्मे त्वगानतिर्मांसमागतिर्मे वसूपनतिर्मेऽस्थि मज्जा चानतिः स्यात् तथा यूयं प्रयतध्वम् ॥१३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अध्यापकोपदेशकैरेवं प्रयतितव्यं यतः सुशिक्षया युक्ताः सर्वे पुरुषाः सर्वाः कन्याश्च सुन्दराङ्गस्वभावा दृढबला धार्मिका विद्यायुक्ताः स्युरिति ॥१३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - अध्यापक व उपदेशक यांनी याप्रकारे प्रयत्न करावा की, ज्यामुळे सर्व पुरुष सुशिक्षित, मुली सुंदर अंगाच्या, स्वभावाने दृढ, बलवान व धार्मिक विद्यांनीयुक्त व्हाव्यात.
१४ यद्देवा देवहेडनम्
विश्वास-प्रस्तुतिः ...{Loading}...
यद्दे॑वा देव॒हेड॑नं॒ देवा॑सश्चकृ॒मा व॒यम्। अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ विश्वा॑न्मुञ्च॒त्वँह॑सः ॥१४ ॥
मूलम् ...{Loading}...
यद्दे॑वा देव॒हेड॑नं॒ देवा॑सश्चकृ॒मा व॒यम्। अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ विश्वा॑न्मुञ्च॒त्वँह॑सः ॥१४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यत्। दे॒वाः॒। दे॒व॒हेड॑न॒मिति॑ देव॒ऽहेड॑नम्। देवा॑सः। च॒कृ॒म। व॒यम्। अ॒ग्निः। मा॒। तस्मा॑त्। एन॑सः। विश्वा॑त्। मु॒ञ्च॒तु॒। अँह॑सः। १४।
महीधरः
म० इत उत्तरमवभृथः । ‘मासरकुम्भं प्लावयति यद्देवा इति’ ( १९ । ५ । १३) । अवभृथेष्टिं कृत्वा यद्देवा इत्यादिना वरुण नो मुञ्चेत्यन्तेन (१८) सार्धकण्डिकाचतुष्कात्मकेन मन्त्रेण मासरकुम्भं जले तारयति । अग्निवायुसूर्यदेवत्यास्तिस्रोऽनुष्टुभः कूष्माण्डीसंज्ञाः । दीव्यन्तीति देवाः दीप्यमाना हे देवासो देवाः, वयं यद्देवहेडनं देवानां हेडनमपराधं चकृम कृतवन्तः । करोतेर्लिट् संहितायां छान्दसो दीर्घः । अग्निस्तस्मादेनसः पापात् मा मां मुञ्चतु पृथक्करोतु । विश्वात् विश्वस्मात्सर्वस्मात् अंहसः विघ्नाच्च मुञ्चतु । ङसेः स्मादभाव आर्षः ॥ १४ ॥
पञ्चदशी ।
यदि दिवा यदि नक्तमेनाᳪं᳭सि चकृमा वयम् ।
वायुर्मा तस्मादेनसो विश्वान्मुञ्चत्वᳪं᳭हसः ॥ १५ ॥
अधिमन्त्रम् (VC)
- अग्निर्देवता
- प्रजापतिर्ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् ! (यत्) जो (वयम्) हम (देवाः) अध्यापक और उपदेशक, विद्वान् तथा अन्य (देवासः) विद्वान् लोग परस्पर (देवहेडनम्) विद्वानों का अनादर (चकृम) करें, (तस्मात्) उस (विश्वात्) समस्त (एनसः) अपराध और (अंहसः) दुष्ट व्यसन से (अग्निः) पावक के समान सब विद्याओं में प्रकाशमान आप (मा) मुझको (मुञ्चतु) पृथक् करो ॥१४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो कभी अकस्मात् भ्रान्ति से किसी विद्वान् का अनादर कोई करे तो उसी समय क्षमा करावे। जैसे अग्नि सब पदार्थों में प्रविष्ट हुआ सब को अपने स्वरूप में स्थिर करता है, वैसे विद्वान् को चाहिये कि सत्य के उपदेश से असत्याचरण से पृथक् और सत्याचार में प्रवृत्त करके सब को धार्मिक करें ॥१४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यद् वयं देवा अन्ये देवासश्च परस्परं देवहेडनं चकृम, तस्माद् विश्वादेनसोंऽहसश्चाग्निर्मा मुञ्चतु ॥१४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदि कदाचिदकस्माद् भ्रान्त्या कस्यापि विदुषोऽनादरं कश्चित् कुर्यात्, तर्हि तदैव क्षमां कारयेत्। यथाग्निः सर्वेषु प्रविष्टः सन् सर्वान् स्वस्वरूपस्थान् करोति, तथा विदुषा सत्योपदेशेनासत्याचाराद् वियोज्य सत्याचारे प्रवर्त्य सर्वे धार्मिकाः कार्य्याः ॥१४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जर एखाद्याने एखाद्या वेळी एखाद्या विद्वानाचा चुकून जरी अनादर केला तरी तात्काळ त्याला क्षमा मागावयास लावावे. जसा अग्नी सर्व पदार्थात प्रविष्ठ होऊन सर्वांना आपल्या स्वरूपात स्थिर करतो तसे विद्वानांनी सत्याच्या उपदेशाने असत्याचरणापासून पृथक व सत्याचरणात प्रवृत्त करून सर्वांना धार्मिक बनवावे.
१५ यदि दिवा
विश्वास-प्रस्तुतिः ...{Loading}...
यदि॒ दिवा॒ यदि॒ नक्त॒मेनाँ॑सि चकृ॒मा व॒यम्। वा॒युर्मा॒ तस्मा॒देन॑सो॒ विश्वा॑न्मुञ्च॒त्वँह॑सः ॥१५ ॥
मूलम् ...{Loading}...
यदि॒ दिवा॒ यदि॒ नक्त॒मेनाँ॑सि चकृ॒मा व॒यम्। वा॒युर्मा॒ तस्मा॒देन॑सो॒ विश्वा॑न्मुञ्च॒त्वँह॑सः ॥१५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यदि॑। दिवा॑। यदि॑। नक्त॑म्। एनाँ॑सि। च॒कृ॒म। व॒यम्। वा॒युः। मा॒। तस्मा॑त्। एन॑सः। विश्वा॑त्। मु॒ञ्च॒तु॒। अँह॑सः। १५।
महीधरः
म० यदि चेत् दिवा अहनि यदि नक्तं रात्रौ वयमेनांसि पापानि चकृम । वायुः तस्मादेनसः विश्वस्मादंहसश्च मां मुञ्चतु ॥ १५॥
षोडशी।
अधिमन्त्रम् (VC)
- वायुर्देवता
- प्रजापतिर्ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! (यदि) जो (दिवा) दिवस में (यदि) जो (नक्तम्) रात्रि में (एनांसि) अज्ञात अपराधों को (वयम्) हम लोग (चकृम) करें, (तस्मात्) उस (विश्वात्) समग्र (एनसः) अपराध और (अंहसः) दुष्ट व्यसन से (मा) मुझे (वायुः) वायु के समान वर्त्तमान आप्त (मुञ्चतु) पृथक् करे ॥१५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो दिवस और रात्रि में अज्ञान से पाप करें, उस पाप से भी सब शिष्यों को शिक्षक लोग पृथक् किया करें ॥१५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यदि दिवा यदि नक्तमेनांसि वयं चकृम, तस्माद् विश्वादेनसोंऽहसश्च मा वायुर्मुञ्चतु ॥१५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदहोरात्रे अज्ञानात् पापं कुर्य्युस्तस्मादपि पापात् सर्वान् शिष्यान् शिक्षकाः पृथक् कुर्वन्तु ॥१५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे शिष्य अज्ञानामुळे दिवसा व रात्री पाप करतात त्यांना शिक्षकांनी त्या पापांपासून दूर करावे.
१६ यदि जाग्रद्
विश्वास-प्रस्तुतिः ...{Loading}...
यदि॒ जाग्र॒द् यदि॒ स्वप्न॒ऽएनाँ॑सि चकृ॒मा व॒यम्। सूर्यो॑ मा॒ तस्मा॒देन॑सो॒ विश्वा॑न्मुञ्च॒त्वँह॑सः ॥१६ ॥
मूलम् ...{Loading}...
यदि॒ जाग्र॒द् यदि॒ स्वप्न॒ऽएनाँ॑सि चकृ॒मा व॒यम्। सूर्यो॑ मा॒ तस्मा॒देन॑सो॒ विश्वा॑न्मुञ्च॒त्वँह॑सः ॥१६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यदि॑। जाग्र॑त्। यदि॑। स्वप्ने॑। एनाँ॑सि। च॒कृ॒म। व॒यम्। सूर्यः॑। मा॒। तस्मा॑त्। एन॑सः। विश्वा॑त्। मु॒ञ्च॒तु॒। अँह॑सः। १६।
महीधरः
म० यदि जाग्रत् । सप्तम्या लुक् । यदि जाग्रति जाग्रदवस्थायाम् यदि स्वप्ने स्वप्नावस्थायामेनांसि वयं चक्रम सूर्यस्तस्मादेनसः विश्वादंहसश्च मां मुञ्चतु । श्रुत्या त्वन्यथा व्याख्यातम् । जाग्रति मनुष्ये यत्पापं कृतं स्वप्ने पितृषु यत्पापं कृतम् तस्मान्मा मुञ्चतु । ‘मनुष्या वै जागरितं पितरः सुप्तं मनुष्यकिल्बिषाच्चैवैनं पितृकिल्बिषाच्च मुञ्चन्ति’ ( १२ । ९ । २ । २) इति श्रुतेः ॥ १६ ॥
सप्तदशी।
अधिमन्त्रम् (VC)
- सूर्य्यो देवता
- प्रजापतिर्ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! (यदि) जो (जाग्रत्) जाग्रत् अवस्था और (यदि) जो (स्वप्ने) स्वप्नावस्था में (एनांसि) अपराधों को (वयम्) हम (चकृम) करें, (तस्मात्) उस (विश्वात्) समग्र (एनसः) पाप और (अंहसः) प्रमाद से (सूर्यः) सूर्य के समान वर्त्तमान आप (मा) मुझको (मुञ्चतु) पृथक् करें ॥१६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जिस किसी दुष्ट चेष्टा को मनुष्य लोग करें, विद्वान् लोग उस चेष्टा से उन सब को शीघ्र निवृत्त करें ॥१६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यदि जाग्रद् यदि स्वप्न एनांसि वयं चकृम, तस्माद् विश्वादेनसोंऽहसश्च सूर्य इव भवान् मा मुञ्चतु ॥१६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यां काञ्चिद् दुश्चेष्टां जनाः कुर्युर्विद्वांसस्तस्यास्तान् सर्वान् सद्यो निवारयेयुः ॥१६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे दुष्ट कृत्ये करतात त्यांना विद्वान लोकांनी त्यापासून दूर करावे.
१७ यद् ग्रामे
विश्वास-प्रस्तुतिः ...{Loading}...
यद् ग्रामे॒ यदर॑ण्ये॒ यत्स॒भायां॒ यदि॑न्द्रि॒ये। यच्छू॒द्रे यदर्ये॒ यदेन॑श्चकृ॒मा व॒यं यदेक॒स्याधि॒ धर्म॑णि॒ तस्या॑व॒यज॑नमसि ॥१७ ॥
मूलम् ...{Loading}...
यद् ग्रामे॒ यदर॑ण्ये॒ यत्स॒भायां॒ यदि॑न्द्रि॒ये। यच्छू॒द्रे यदर्ये॒ यदेन॑श्चकृ॒मा व॒यं यदेक॒स्याधि॒ धर्म॑णि॒ तस्या॑व॒यज॑नमसि ॥१७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यत्। ग्रामे। यत्। अर॑ण्ये। यत्। स॒भाया॑म्। यत्। इ॒न्द्रि॒ये। यत्। शू॒द्रे। यत्। अर्ये॑। यत्। एनः॑। च॒कृ॒म। व॒यम्। यत्। एक॑स्य। अधि॑। धर्म॑णि। तस्य॑। अ॒व॒यज॑न॒मित्य॑व॒ऽयज॑नम्। अ॒सि॒। १७।
महीधरः
म० लिङ्गोक्तदेवतं यजुः । ग्रामे अरण्ये वने सभायां पक्षपातादि यदेनः इन्द्रिये इन्द्रियविषये परापवादपरनारीदर्शनादि यत् देवविषये वा शूद्रे अर्ये वैश्ये। ‘अर्यः स्वामिवैश्ययोः’ (पा० ३ । १ । १०३) इति निपातः । यत् पापं वयं चकृम । आवयोः पत्नीयजमानयोरेकस्य अधिधर्मणि कर्मणि अधिकर्मविषये यदेनो धर्मलोपलक्षणम् । तस्यैनसः पापस्यावयजनं नाशनं त्वमसि । नाशकोऽसीत्यर्थः । कुम्भं प्रति वचनम् । अवपूर्वो यजिर्नाशनार्थः ॥ १७ ॥
अष्टादशी।
अधिमन्त्रम् (VC)
- लिङ्गोक्ता देवताः
- प्रजापतिर्ऋषिः
- भुरिक्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! (वयम्) हम लोग (यत्) जो (ग्रामे) गाँव में (यत्) जो (अरण्ये) जङ्गल में (यत्) जो (सभायाम्) सभा में (यत्) जो (इन्द्रिये) मन में (यत्) जो (शूद्रे) शूद्र में (यत्) जो (अर्ये) स्वामी वा वैश्य में (यत्) जो (एकस्य) एक के (अधि) ऊपर (धर्मणि) धर्म में तथा (यत्) जो और (एनः) अपराध (चकृम) करते हैं वा करनेवाले हैं (तस्य) उस सबका आप (अवयजनम्) छुड़ाने के साधन हैं, इससे महाशय (असि) हैं ॥१७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को योग्य है कि कभी कहीं पापाचरण न करें, जो कथंचित् करते बन पड़े तो उस सब को अपने कुटुम्ब और विद्वान् के सामने और राजसभा में सत्यता से कहें। जो पढ़ाने और उपदेश करनेहारे स्वयं धार्मिक होकर अन्य सब को धर्माचरण में युक्त करते हैं, उनसे अधिक मनुष्यों को सुभूषित करनेहारा दूसरा कौन है ॥१७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! वयं यद् ग्रामे यदरण्ये यत्सभायां यदिन्द्रिये यच्छूद्रे यदर्य्ये यदेकस्याधि धर्म्मणि यदेनश्चकृम, तस्य सर्वस्य त्वमवयजनमसि, तस्मान्महाशयोऽसि ॥१७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैः कदाचित् क्वापि पापाचरणं नैव कर्त्तव्यम्, यदि कथंचित् क्रियेत तर्हि तत्सर्वं स्वकुटुम्बविद्वत्सन्निधौ राजसभायां च सत्यं वाच्यम्। येऽध्यापकोपदेशकाः स्वयं धार्मिका भूत्वाऽन्यान् सम्पादयन्ति, तेभ्योऽधिकः को भूषकः परः ॥१७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी कधीही केव्हाही पापाचरण करून नये. जर एखाद्या वेळी हातून पाप घडले तर आपला परिवार, विद्वान व राज्यसभा यांच्यासमोर सत्य कबूल करावे. धार्मिक अध्यापक व उपदेशकांनी सर्वांना धर्माचरणात युक्त करावे. कारण माणसांना त्यांच्यापेक्षा सुसंस्कारित करणारे कोण बरे असू शकेल?
१८ यदापोऽअघ्न्या इति
विश्वास-प्रस्तुतिः ...{Loading}...
यदापो॑ऽअ॒घ्न्या इति॒ वरु॒णेति॒ शपा॑महे॒ ततो॑ वरुण नो मुञ्च। अव॑भृथ निचुम्पुण निचे॒रुर॑सि निचुम्पु॒णः। अव॑ दे॒वैर्दे॒वकृ॑त॒मेनो॑ऽय॒क्ष्यव॒ मर्त्यै॒र्मर्त्य॑कृतं पुरु॒राव्णो॑ देव रि॒षस्पा॑हि ॥१८ ॥
मूलम् ...{Loading}...
यदापो॑ऽअ॒घ्न्या इति॒ वरु॒णेति॒ शपा॑महे॒ ततो॑ वरुण नो मुञ्च। अव॑भृथ निचुम्पुण निचे॒रुर॑सि निचुम्पु॒णः। अव॑ दे॒वैर्दे॒वकृ॑त॒मेनो॑ऽय॒क्ष्यव॒ मर्त्यै॒र्मर्त्य॑कृतं पुरु॒राव्णो॑ देव रि॒षस्पा॑हि ॥१८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यत्। आपः॑। अ॒घ्न्याः। इति॑। वरु॑ण। इति॑। शपा॑महे। ततः॑। व॒रु॒ण॒। नः॒। मु॒ञ्च॒। अव॑भृ॒थेत्यव॑ऽभृथ। नि॒चि॒म्पु॒णेति॑ निऽचुम्पुण। नि॒चे॒रुरिति॑ निऽचे॒रुः। अ॒सि॒। नि॒चि॒म्पु॒ण इति॑ निऽचुम्पु॒णः। अव॑। दे॒वैः। दे॒वकृ॑त॒मिति॑ दे॒वऽकृ॑तम्। एनः॑। अ॒य॒क्षि॒। अव॑। मर्त्यैः॑। मर्त्य॑कृत॒मिति॒ मर्त्य॑ऽकृतम्। पु॒रु॒राव्ण॒ इति॑ पुरु॒ऽराव्णः॑। दे॒व॒। रि॒षः। पा॒हि॒। १८।
महीधरः
म० यदापः । व्याख्यातम् (अ० ६।क० २२ ) ‘पूर्ववन्मज्जनम्’ ( का. १९ । ५। १४)। पूर्ववदिति अवभृथेत्यादि ओषधीरुताप इत्यन्तेन (१९) सुराकुम्भस्य जले मज्जनम् । अवभृथ । व्याख्यातम् ( अ० ३ । क० ४८ । अ० ८ । क. २५) इयान्विशेषः । अयक्षि अवायक्षि नाशितवानस्मि यजेर्लुङ्गि तङि उत्तमैकवचने रूपम् । पूर्वत्र अयासिषमिति । सुमित्रिया न इत्यपोऽञ्जलिदानाय दुर्मित्रिया इति
द्वेष्यं परिषिञ्चति द्वौ विक्रमा उदङ्गत्वा’ ( का. १९ । ५। । १५)। यजमानोऽवभृथप्रदेशात् द्वौ विक्रमौ उदीच्यां गत्वा सुमित्रिया इति जलाञ्जलिमादाय यस्यां दिशि रिपुस्तां प्रति सिञ्चतीति सूत्रार्थः । सुमित्रिया नः । व्याख्यातम् ( अ० ६ । क० २२ ) ॥ १८ ॥ १९ ॥
एकोनविंशी। ।
अधिमन्त्रम् (VC)
- वरुणो देवता
- प्रजापतिर्ऋषिः
- भुरिगत्यष्टिः
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (वरुण) उत्तम प्राप्ति कराने और (देव) दिव्य बोध का देनेहारा तू (यत्) जो (आपः) प्राण (अघ्न्याः) मारने को अयोग्य गौवें (इति) इस प्रकार से वा हे (वरुण) सर्वोत्कृष्ट ! (इति) इस प्रकार से हम लोग (शपामहे) उलाहना देते हैं, (ततः) उस अविद्यादि क्लेश और अधर्माचरण से (नः) हम को (मुञ्च) अलग कर। हे (अवभृथ) ब्रह्मचर्य और विद्या से निष्णात (निचुम्पुण) मन्द गमन करनेहारे ! तू (निचेरुः) निश्चित आनन्द का देनेहारा और (निचुम्पुणः) निश्चित आनन्दयुक्त (असि) है, इस हेतु से (पुरुराव्णः) बहु दुःख देनेहारी (रिषः) हिंसा से (पाहि) रक्षा कर, (देवकृतम्) जो विद्वानों का किया (एनः) अपराध है, उसको (देवैः) विद्वानों के साथ (अवायक्षि) नाश करता है, जो (मर्त्यकृतम्) मनुष्यों का किया अपराध है, उसको (मर्त्यैः) मनुष्यों के साथ से (अव) छुड़ा देता है ॥१८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अध्यापक और उपदेशक मनुष्यों को शिष्यजन ऐसे सत्यवादी सिद्ध करने चाहियें कि जो इन को कहीं शपथ करना न पड़े। जो-जो मनुष्यों को श्रेष्ठ कर्म का आचरण करना हो, वह-वह सबको आचरण करना चाहिये और जो अधर्मरूप हो, वह किसी को कभी न करना चाहिये ॥१८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे वरुण देव ! यतस्त्वं यदापोऽघ्न्या इति वरुणेति वयं शपामहे ततो नो मुञ्च। हे अवभृथ निचुम्पुण ! त्वं निचेरुर्निचुम्पुणोऽसीति पुरुराव्णो रिषस्पाहि, यद्देवकृतमेनोऽस्ति तद् देवैरवायक्षि, यन्मर्त्यकृतमेनोऽस्ति तन्मर्त्यैः सहावायक्षि ॥१८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अध्यापकोपदेशकैः शिष्या ईदृशाः सत्यवादिनः सम्पादनीया यदेतैर्यद्यत् पापात्मकं तत्तत् कदाचित् केनचिन्नो अनुष्ठेयम् ॥१८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - अध्यापक व उपदेशकांनी आपल्या शिष्यांना अशाप्रकारे सत्यवादी बनवावे की, त्यांना (सत्याची) शपथ घेण्याची वेळ येता कामा नये. मानवासाठी जे श्रेष्ठ आचरण असेल त्याप्रमाणे सर्वांनी वागले पाहिजे व जे अधर्मरूपी आचरण असेल त्याचा त्याग केला पाहिजे.
१९ समुद्रे ते
विश्वास-प्रस्तुतिः ...{Loading}...
स॒मु॒द्रे ते॒ हृद॑यम॒प्स्व᳙न्तः सं त्वा॑ विश॒न्त्वोष॑धीरु॒तापः॑। सु॒मि॒त्रि॒या न॒ऽआप॒ऽओष॑धयः सन्तु दुर्मित्रि॒यास्तस्मै॑ सन्तु॒ यो᳙ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः ॥१९ ॥
मूलम् ...{Loading}...
स॒मु॒द्रे ते॒ हृद॑यम॒प्स्व᳙न्तः सं त्वा॑ विश॒न्त्वोष॑धीरु॒तापः॑। सु॒मि॒त्रि॒या न॒ऽआप॒ऽओष॑धयः सन्तु दुर्मित्रि॒यास्तस्मै॑ सन्तु॒ यो᳙ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः ॥१९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स॒मु॒द्रे। ते॒। हृद॑यम्। अ॒प्स्वित्य॒प्सु। अ॒न्तरित्य॒न्तः। सम्। त्वा॒। वि॒श॒न्तु॒। ओष॑धीः। उ॒त। आपः॑। सु॒मि॒त्रि॒या इति॑ सुऽमित्रि॒याः। नः॒। आपः॑। ओष॑धयः। स॒न्तु॒। दु॒र्मि॒त्रि॒या इति॑ दुःऽमित्रि॒याः। तस्मै॑। स॒न्तु॒। यः। अ॒स्मान्। द्वेष्टि॑। यम्। च॒। व॒यम्। द्वि॒ष्मः। १९।
महीधरः
म० ‘अवभृथवत्स्नात्वा वा सोपासनं द्रुपदादिवेति’ ( का. १९ । ५। १६)। जलस्थावेव जायापती सौमिकावभृथवत् स्नात्वा कर्मकाले धृतं वासोऽप्सु क्षिपतः अब्देवत्यानुष्टुप् । आपो जलानि एनसः पापात् मा मां शुन्धन्तु पुनन्तु पापात् पृथक् कुर्वन्तु । तत्र दृष्टान्तत्रयमाह द्रुपदादिवेति ‘पलाशीद्रुद्रुमागमाः’ इत्यभिधानोक्तेः ( अम० २ । ४ । ५) दुस्तरुः | तन्मयं पदं द्रुपदं पादुका तस्मान्मुमुचानः पृथग्भवन् यथा पादुकादोषैरसंबद्धो भवति । मुचेर्विकरणव्यत्ययेन शानचि जुहोत्यादित्वाद्द्वित्वे मुमुचान इति रूपम् । यथाच स्विन्नः स्वेदयुक्तः स्नातः सन् मलात् पृथग्भवति । आज्यमिव यथा पवित्रेण कम्बलमयेन पूतं गालितमाज्यं घृतं कीटेभ्यः पृथग्भवति । तथापो मां शुन्धन्तु ॥ २० ॥
एकविंशी ।
अधिमन्त्रम् (VC)
- आपो देवताः
- प्रजापतिर्ऋषिः
- निचृदतिजगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे शिष्य ! (ते) तेरा (हृदयम्) हृदय (समुद्रे) आकाशस्थ (अप्सु) प्राणों के (अन्तः) बीच में हो (त्वा) तुझ को (ओषधीः) ओषधियाँ (सम्, विशन्तु) अच्छे प्रकार प्राप्त हों (उत) और (आपः) प्राण वा जल अच्छे प्रकार प्रविष्ट हों, जिससे (नः) हमारे लिये (आपः) जल और (ओषधयः) ओषधि (सुमित्रियाः) उत्तम मित्र के समान सुखदायक (सन्तु) हों, (यः) जो (अस्मान्) हमारा (द्वेष्टि) द्वेष करे (यम्, च) और जिसका (वयम्) हम (द्विष्मः) द्वेष करें, (तस्मै) उसके लिये ये सब (दुर्मित्रियाः) शत्रुओं के समान (सन्तु) होवें ॥१९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अध्यापक लोगों को इस प्रकार करने की इच्छा करना चाहिये कि जिससे शिक्षा करने योग्य मनुष्य अवकाशसहित प्राण तथा ओषधियों की विद्या के जाननेहारे शीघ्र हों। ओषधि, जल और प्राण अच्छे प्रकार सेवा किये हुए मित्र के समान विद्वानों की पालना करें और अविद्वान् लोगों को शत्रु के समान पीड़ा देवें, उनका सेवन और उनका त्याग अवश्य करें ॥१९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे शिष्य ! ते हृदयं समुद्रे अप्स्वन्तरस्तु, त्वौषधीः संविशन्तूतापः संविशन्तु, यतो न आप ओषधयश्च सुमित्रियाः सन्तु, योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तस्मै दुर्मित्रियाः सन्तु ॥१९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अध्यापकैरेवं चिकीर्षितव्यं येन शिक्षणीया मनुष्या सावकाशाः प्राणौषधीविद्यावेत्तारः सद्यः स्युः। ओषधय आपः प्राणाश्च सम्यक् सेविता मित्रवद् विदुषः पालयेयुरविदुषश्च शत्रुवत् पीडयेयुस्तेषां सेवनं तेषां त्यागश्चावश्यं कर्त्तव्यः ॥१९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - अध्यापकांनी अशी इच्छा बाळगावी की, सुशिक्षित माणसांनी अवकाशासह प्राणविद्या व औषधांची विद्या ताबडतोब जाणावी. औषध, जल व प्राण यांच्याकडून मित्रांप्रमाणे सुखदायक बनून विद्वानांचे पालन व्हावे. अविद्वान लोकांना शत्रूप्रमाणे त्यांच्याकडून (औषध, जल व प्राण इत्यादींकडून) त्रास व्हावा.
२० द्रुपदादिव मुमुचानः
विश्वास-प्रस्तुतिः ...{Loading}...
द्रु॒प॒दादि॑व मुमुचा॒नः स्वि॒न्नः स्ना॒तो मला॑दिव। पू॒तं प॒वित्रे॑णे॒वाज्य॒मापः॑ शुन्धन्तु॒ मैन॑सः ॥२० ॥
मूलम् ...{Loading}...
द्रु॒प॒दादि॑व मुमुचा॒नः स्वि॒न्नः स्ना॒तो मला॑दिव। पू॒तं प॒वित्रे॑णे॒वाज्य॒मापः॑ शुन्धन्तु॒ मैन॑सः ॥२० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
द्रु॒प॒दादि॒वेति॑ द्रुप॒दात्ऽइ॑व। मु॒मु॒चा॒नः। स्वि॒न्नः। स्ना॒तः। मला॑दि॒वेति॒ मला॑त्ऽइव। पू॒तम्। प॒वित्रे॑णे॒वेति॑ प॒वित्रे॑णऽइव। आज्य॑म्। आपः॑। शु॒न्ध॒न्तु॒। मा॒। एन॑सः। २०।
महीधरः
म० ‘सोमवदुत्क्रमणमागमनं च’ (का० १९ । ५। १७)। सोमवदिति उद्वयमिति मन्त्रेण जलान्निष्क्रमणम् । ‘अपाम सोमममृता अभूम’ इति जपतां सर्वेषां त्रिपशुदेशमागमनमिति सूत्रार्थः । सूर्यदेवत्यानुष्टुप् प्रस्कण्वदृष्टा । वयं तमसः परि तमसः सकाशात् तमोबहुलादस्माल्लोकात् उदगन्म उद्गता निर्गताः । गमेर्लङि शपि लुप्ते मस्य नः । कीदृशा वयम् । उत्तरमुत्कृष्टतरं स्वः स्वर्गं पश्यन्तः ईक्षमाणाः । किंच देवत्रा देवलोके सूर्यं देवं पश्यन्तः सन्त उत्तमं ज्योतिर्ब्रह्मरूपमुदगन्म प्राप्ताः ॥२१॥
द्वाविंशी।
अधिमन्त्रम् (VC)
- आपो देवताः
- प्रजापतिर्ऋषिः
- भुरिगनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (आपः) प्राण वा जलों के समान निर्मल विद्वान् लोगो ! आप (द्रुपदादिव, मुमचानः) वृक्ष से जैसे फल, रस, पुष्प, पत्ता आदि अलग होते वा जैसे (स्विन्नः) स्वेदयुक्त मनुष्य (स्नातः) स्नान करके (मलादिव) मल से छूटता है, वैसे वा (पवित्रेणेव) जैसे पवित्र करनेवाले पदार्थ से (पूतम्) शुद्ध (आज्यम्) घृत होता है, वैसे (मा) मुझ को (एनसः) अपराध से पृथक् करके (शुन्धन्तु) शुद्ध करें ॥२० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। अध्यापक उपदेशक लोगों को योग्य है कि इस प्रकार सब को अच्छी शिक्षा से युक्त करें, जिससे वे शुद्ध आत्मा, नीरोग शरीर और धर्मयुक्त कर्म करनेवाले हों ॥२० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे आपो भवन्तः ! द्रुपदादिव मुमुचानः स्विन्नः स्नातो मलादिव पवित्रेणेव पूतमाज्यं भवति, मैनसः शुन्धन्तु ॥२० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। अध्यापकोपदेशकैरित्थं सर्वे सुशिक्षिताः कार्य्याः, येन ते पवित्रात्मारोगशरीर-धर्मयुक्तकर्माणः स्युः ॥२० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. (प्राण व जलाप्रमाणे निर्मळ) अध्यापक व उपदेशक यांनी अशा प्रकारे सर्वांना सुशिक्षित करावे की, ज्यामुळे त्यांचे आत्मे शुद्ध, शरीर निरोगी व कर्म धर्मयुक्त बनावे.
२१ उद्वयं तमसस्परि
विश्वास-प्रस्तुतिः ...{Loading}...
उद्व॒यं तम॑स॒स्परि॒ स्वः पश्य॑न्त॒ उत्त॑रम्। दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥२१ ॥
मूलम् ...{Loading}...
उद्व॒यं तम॑स॒स्परि॒ स्वः पश्य॑न्त॒ उत्त॑रम्। दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥२१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उत्। व॒यम्। तम॑सः। परि॑। स्वः᳙। पश्य॑न्तः। उत्त॑र॒मित्युत्ऽत॑रम्। दे॒वम्। दे॒व॒त्रेति॑ देव॒ऽत्रा। सूर्य॑म्। अग॑न्म। ज्योतिः॑। उ॒त्त॒ममित्यु॑त्ऽत॒मम्। २१।
महीधरः
म० ‘आहवनीयमुपतिष्ठत आपो अद्येति’ (का० १९ । ५।१८)। यजमान आहवनीयमुपतिष्ठते । अग्निदेवत्या पङ्क्तिः । हे अग्ने, तं मां वर्चसा ब्रह्मवर्चसेन प्रजया पुत्रादिकया धनेन सुवर्णादिकेन च त्वं संसृज संयोजय । योऽहमद्य अप अन्वचारिषम् अवभृथकर्मणा जलमनुचरितवानस्मि प्राप्तोऽस्मि । चरतेर्लुङ् । यश्चाहं रसेन जलेन समसृक्ष्महि संसृष्टोऽस्मि । सृजेर्लुङ् वचनव्यत्ययः । यश्चाहं पयस्वानुदकवान्सन् आगममागतवानस्मि । गमेर्लुङि ‘पुषादि-’ (पा० ३ । १। ५५) इति च्लेरङ् । तं मां वर्चआदिभिर्योजय ॥ २२ ॥
त्रयोविंशी।
अधिमन्त्रम् (VC)
- सूर्यो देवता
- प्रस्कण्व ऋषिः
- विराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब प्रकृत विषय में उपासना विषय कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (वयम्) हम लोग (तमसः) अन्धकार से परे (ज्योतिः) प्रकाशस्वरूप (सूर्यम्) सूर्यलोक वा चराचर के आत्मा परमेश्वर को (परि) सब ओर से (पश्यन्तः) देखते हुए (देवत्रा) दिव्यगुणवाले देवों में (देवम्) उत्तम सुख के देनेवाले (स्वः) सुखस्वरूप (उत्तरम्) सबसे सूक्ष्म (उत्तमम्) उत्कृष्ट स्वप्रकाशस्वरूप परमेश्वर को (उदगन्म) उत्तमता से प्राप्त हों, वैसे ही तुम लोग भी इसको प्राप्त होओ ॥२१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो सूर्य्य के समान स्वप्रकाश सब आत्माओं का प्रकाशक महादेव जगदीश्वर है, उसी की सब मनुष्य उपासना करें ॥२१ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ प्रकृतविषये उपासनाविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा वयं तमसः परं ज्योतिः सूर्यं परि पश्यन्तः सन्तो देवत्रा देवं स्वरुत्तरमुत्तमं ज्योतिः स्वप्रकाशं परमेश्वरमुदगन्म, तथैव यूयमप्येनं प्राप्नुत ॥२१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यः सूर्यवत् स्वप्रकाशः सर्वात्मनां प्रकाशको महादेवो जगदीश्वरोऽस्ति, तमेव सर्वे मनुष्या उपासीरन् ॥२१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जो सूर्याप्रमाणे स्वयंप्रकाशी, सर्व आत्म्यांचा प्रकाशक, महादेव, जगदीश्वर आहे. त्याचीच सर्व माणसांनी उपासना करावी.
२२ अपोऽअद्यान्वचारिषं रसेन
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒पोऽअ॒द्यान्व॑चारिषँ॒ रसे॑न॒ सम॑सृक्ष्महि। पय॑स्वाग्न॒ऽआग॑मं॒ तं मा॒ सँसृ॑ज॒ वर्च॑सा प्र॒जया॑ च॒ धने॑न च ॥२२ ॥
मूलम् ...{Loading}...
अ॒पोऽअ॒द्यान्व॑चारिषँ॒ रसे॑न॒ सम॑सृक्ष्महि। पय॑स्वाग्न॒ऽआग॑मं॒ तं मा॒ सँसृ॑ज॒ वर्च॑सा प्र॒जया॑ च॒ धने॑न च ॥२२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒पः। अ॒द्य। अनु॑। अ॒चा॒रि॒ष॒म्। रसे॑न। सम्। अ॒सृ॒क्ष्म॒हि॒। पय॑स्वान्। अ॒ग्ने॒। आ। अ॒ग॒म॒म्। तम्। मा॒। सम्। सृ॒ज॒। वर्च॑सा। प्र॒जयेति॑ प्र॒जया॑। च॒। धने॑न। च॒। २२।
महीधरः
म० ‘एधोऽसीति समिधमादायाहवनीयेऽभ्यादधाति समिदसीति’ ( का० १९ । ५। १९) । यजमानः एधोऽसीति मन्त्रेण समिधं गृहीत्वा समिदसीति मन्त्रेणाग्नौ दधाति । समिद्देवत्ये यजुषी । हे समित्त्वमेधः, एधयति दीपयतीति एधः दीपिकासि । वयं त्वत्प्रसादादेधिषीमहि धनादिभिर्वृद्धिं व्याप्नुयाम । एधतेराशीर्लिङ् । हे समित् , त्वं समिदसि समिन्धयति दीपयतीति समित् तेजश्चासि तत्संयोगेनाग्नेर्ज्वलनात् । अतो मयि विषये तेजो धेहि धारय । ‘जुहोति समाववर्तीति’ (का० १९ । ५। २०)। यजमानः सकृद्गृहीतमाज्यं कण्डिकाशेषेण जुहोति । समाववर्ति आग्नेयी गायत्री । वैश्वानरज्योतिरिति यजुः आग्नेयम् । पृथिवी समाववर्ति सम्यगावर्तते। विकरणव्यत्ययेन वृतेः शपः श्लुः । नश्यतीत्यर्थः । उषाः दिवसोऽपि समाववर्ति सूर्यः समाववर्ति । उ एवार्थे । विश्वमिदं जगत् समाववर्ति । अतोऽहं वैश्वानरज्योतिः भूयासम् । विश्वेभ्यो नरेभ्यो हितो वैश्वानरः परमात्मा तद्रूपं ज्योतिर्ब्रह्मैव भूयासम् । विभून्महतोऽपि कामान्मनोरथान् व्यश्नवै प्राप्नुयाम् । भूः स्वाहा भुवनं भूः सत्तामात्रं ब्रह्म तस्मै स्वाहा सुहुतमस्तु भूरित्यव्ययम् ॥ २३ ॥
चतुर्विंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- प्रजापतिर्ऋषिः
- पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर अध्यापक और उपदेशक विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) अग्नि के समान विद्वान् ! जो (पयस्वान्) प्रशंसित जल की विद्या से युक्त मैं तुझ को (आ, अगमम्) प्राप्त होऊँ वा (अद्य) आज (रसेन) मधुरादि रस से युक्त (अपः) जलों को (अन्वचारिषम्) अनुकूलता से पान करूँ, (तम्) उस (मा) मुझको (वर्चसा) साङ्गोपाङ्ग वेदाध्ययन (प्रजया) प्रजा (च) और (धनेन) धन से (च) भी (सम्, सृज) सम्यक् संयुक्त कर, जिससे ये लोग और मैं सब हम सुख के लिये (समसृक्ष्महि) संयुक्त होवें ॥२२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यदि विद्वान् लोग पढ़ाने और उपदेश करने से अन्य लोगों को विद्वान् करें तो वे भी नित्य अधिक विद्यावाले हों ॥२२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनरध्यापकोदेशकविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! यः पयस्वानहं त्वामागममद्य रसेन सहापोऽन्वचारिषम्, तं मा वर्चसा प्रजया च धनेन च संसृज, यत इमेऽहं च सर्वे वयं सुखाय समसृक्ष्महि ॥२२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदि विद्वांसोऽध्यापनोपदेशाभ्यामन्यान् विदुषः कुर्युस्तर्हि तेऽपि प्रत्यहमधिकविद्याः स्युः ॥२२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जर विद्वान लोकांनी आपल्या अध्यापनाने व उपदेशाने इतर लोकांना विद्वान केले तर तेही अधिक विद्वान होतील.
२३ एधोऽस्येधिषीमहि समिदसि
विश्वास-प्रस्तुतिः ...{Loading}...
एधो॑ऽस्येधिषी॒महि॑ स॒मिद॑सि॒ तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि। स॒माव॑वर्ति पृथि॒वी समु॒षाः समु॒ सूर्यः॑। समु॒ विश्व॑मि॒दं जग॑त्। वै॒श्वा॒न॒रज्यो॑तिर्भूयासं वि॒भून् कामा॒न् व्य᳖श्नवै॒ भूः स्वाहा॑ ॥२३ ॥
मूलम् ...{Loading}...
एधो॑ऽस्येधिषी॒महि॑ स॒मिद॑सि॒ तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि। स॒माव॑वर्ति पृथि॒वी समु॒षाः समु॒ सूर्यः॑। समु॒ विश्व॑मि॒दं जग॑त्। वै॒श्वा॒न॒रज्यो॑तिर्भूयासं वि॒भून् कामा॒न् व्य᳖श्नवै॒ भूः स्वाहा॑ ॥२३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
एधः॑। अ॒सि॒। ए॒धि॒षी॒महि॑। स॒मिदिति॑ स॒म्ऽइत्। अ॒सि॒। तेजः॑। अ॒सि॒। तेजः॑। मयि॑। धे॒हि॒। स॒माव॑व॒र्तीति॑ स॒म्ऽआव॑वर्ति। पृ॒थि॒वी। सम्। उ॒षाः। सम्। ऊँ॒ऽइत्यूँ॑। सूर्यः॑। सम्। ऊँ॒ऽइत्यूँ॑। विश्व॑म्। इ॒दम्। जग॑त्। वै॒श्वा॒न॒रज्यो॑ति॒रिति॑ वैश्वान॒रऽज्यो॑तिः। भू॒या॒स॒म्। वि॒भूनिति॑ वि॒ऽभून्। कामा॑न्। वि। अ॒श्न॒वै॒। भूः। स्वाहा॑। २३।
महीधरः
म० ‘अभ्यादधामीति प्रत्युचमाहवनीये तिस्रः समिधोऽभ्यादधाति’ ( का० १९ । १ । १२)। सौत्रामण्यादावादि त्येष्टिं समाप्य त्रिपश्वर्थमाहवनीयदक्षिणाग्नी विहृत्याग्न्यन्वाधानं ब्रह्मवरणं च कृत्वाहवनीये यजमानस्तिस्रः समिधः प्रत्यृचमादधाति । अग्निदेवत्यास्तिस्रोऽनुष्टुभः आश्वतराश्विदृष्टाः । हे अग्ने, व्रतपते व्रतस्य कर्मणः पालक, अहं समिधं त्वयि अभ्यादधामि जुहोमि तेन समिदाधानेन दीक्षितः सन्नहं व्रतं कर्म श्रद्धां विश्वासं चोपैमि उपगच्छामि । त्वा त्वामिन्धे दीपयामि ॥ २४ ॥
पञ्चविंशी।
अधिमन्त्रम् (VC)
- समिद्देवता
- प्रजापतिर्ऋषिः
- स्वराडतिशक्वरी
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब प्रकरणगत विषय में फिर उपासना विषय कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे जगदीश्वर ! आप (एधः) बढ़ानेहारे (असि) हैं, जैसे (समित्) अग्नि का प्रकाशक इन्धन है, वैसे मनुष्यों के आत्मा का प्रकाश करनेहारे (असि) हैं और (तेजः) तीव्रबुद्धिवाले (असि) हैं, इससे (तेजः) ज्ञान के प्रकाश को (मयि) मुझ में (धेहि) धारण कीजिये। जो आप सर्वत्र (समाववर्त्ति) अच्छे प्रकार व्याप्त हो जिन आपने (पृथिवी) भूमि और (उषाः) उषा (सम्) अच्छे प्रकार उत्पन्न की (सूर्य्यः) सूर्य्य (सम्) अच्छे प्रकार उत्पन्न किया (इदम्) यह (विश्वम्) सब (जगत्) जगत् (सम्) उत्पन्न किया (उ) उसी (वैश्वानरज्योतिः) विश्व के नायक प्रकाशस्वरूप ब्रह्म को प्राप्त होके लोग (एधिषीमहि) नित्य बढ़ा करें, जैसे मैं (स्वाहा) सत्यवाणी वा क्रिया से (भूः) सत्तावाली प्रकृति (विभून्) व्यापक पदार्थ और (कामान्) कामों को (व्यश्नवै) प्राप्त होऊँ और सुखी (भूयासम्) होऊँ (उ) और वैसे तुम भी सिद्धकाम और सुखी होओ ॥२३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जिस शुद्ध, सर्वत्र व्यापक, सब के प्रकाशक, जगत् के उत्पादन, धारण, पालन और प्रलय करनेहारे ब्रह्म की उपासना करके तुम लोग जैसे आनन्दित होते हो, वैसे इस को प्राप्त होके हम भी आनन्दित होवें; आकाश, काल और दिशाओं को भी व्यापक जानें ॥२३ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ प्रकृतविषये पुनरुपासनाविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे जगदीश्वर ! त्वमेधोऽसि समिदसि तेजोऽसि, तस्मात् तेजो मयि धेहि। यो भवान् सर्वत्र समाववर्त्ति येन भवता पृथिव्युषाश्च संसृष्टा सूर्यः संसृष्ट इदं विश्वं जगत् संसृष्टम्, तदु वैश्वानरज्योतिर्ब्रह्म प्राप्य वयमेधिषीमहि, यथाऽहं स्वाहाभूर्विभून् कामान् व्यश्नवै सुखी न भूयासमु तथैव यूयमपि सिद्धकामाः सुखिनः स्यात ॥२३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यच्छुद्धं सर्वत्र व्यापकं सर्वप्रकाशकं जगत्स्रष्टृधर्तृप्रलयकृद् ब्रह्मोपास्य यूयमानन्दिता यथा भवत, तथैतल्लब्ध्वा वयमप्यानन्दिता भवेमाऽऽकाशकालदिशोऽपि विभून् जानीयाम ॥२३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! ज्या शुद्ध, सर्वव्यापक, सर्वांचा प्रकाशक, जगाची निर्मिती, धारण, पालन व प्रलय करणाऱ्या ब्रह्माची उपासना करून तुम्ही आनंदी होता त्या ब्रह्माला प्राप्त करून आम्हीही आनंदी व्हावे. आकाश, दिशा व काळ हे व्यापक आहेत, हे जाणा.
२४ अभ्यादधामि समिधमग्ने
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒भ्याद॑धामि स॒मिध॒मग्ने॑ व्रतपते॒ त्वयि॑। व्र॒तं च॑ श्र॒द्धां चोपै॑मी॒न्धे त्वा॑ दीक्षि॒तोऽअ॒हम् ॥२४ ॥
मूलम् ...{Loading}...
अ॒भ्याद॑धामि स॒मिध॒मग्ने॑ व्रतपते॒ त्वयि॑। व्र॒तं च॑ श्र॒द्धां चोपै॑मी॒न्धे त्वा॑ दीक्षि॒तोऽअ॒हम् ॥२४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒भि। आ। द॒धा॒मि॒। स॒मिध॒मिति॑ स॒म्ऽइध॑म्। अग्ने॑। व्र॒त॒प॒त॒ इति॑ व्रतऽपते। त्वयि॑। व्र॒तम्। च॒। श्र॒द्धाम्। च॒। उप॑। ए॒मि॒। इ॒न्धे। त्वा॒। दी॒क्षि॒तः। अ॒हम्। २४।
महीधरः
म० पुण्यं पवित्रं लोकं प्रज्ञेषं जानीयाम् । लोकमप्राप्तानां तल्लोकज्ञानं न भवतीति स्वर्लोकगमनं प्रार्थ्यते । तं कम् । यत्र लोके ब्रह्म ब्राह्मणजातिः क्षत्रं क्षत्रियजातिश्च सहावियोगेन : चरतः तिष्ठत इत्यर्थः । कीदृशे ब्रह्मक्षत्रे । सम्यञ्चौ लिङ्गव्यत्ययः । समीची सम्यक् अञ्चतस्ते । तत्र चाग्निना सह देवाः संचरन्ति । सदा च विप्राः क्षत्रियाश्च यं गच्छन्ति तं देवलोकं प्राप्नुयामित्यर्थः ॥ २५ ॥
षड्विंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- अश्वतराश्विर्ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (व्रतपते) सत्यभाषणादि कर्मों के पालन करनेहारे (अग्ने) स्वप्रकाशस्वरूप जगदीश्वर ! (त्वयि) तुझमें स्थिर हो के (अहम्) मैं (समिधम्) अग्नि में समिधा के समान ध्यान को (अभ्यादधामि) धारण करता हूँ, जिससे (व्रतम्) सत्यभाषणादि व्यवहार (च) और (श्रद्धाम्) सत्य के धारण करनेवाले नियम को (च) भी (उपैमि) प्राप्त होता हूँ, (दीक्षितः) ब्रह्मचर्य्यादि दीक्षा को प्राप्त होकर विद्या को प्राप्त हुआ मैं (त्वा) तुझे (इन्धे) प्रकाशित करता हूँ ॥२४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य परमेश्वर के आज्ञा दिये हुए सत्यभाषणादि नियमों को धारण करते हैं, वे अतुल श्रद्धा को प्राप्त होकर धर्म, अर्थ, काम और मोक्ष की सिद्धि को करने में समर्थ होते हैं ॥२४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे व्रतपतेऽग्ने ! त्वयि स्थिरीभूयाहं समिधमिव ध्यानमभ्यादधामि, यतो व्रतं च श्रद्धां चोपैमि दीक्षितः संस्त्वा त्वामिन्धे ॥२४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्याः परमेश्वराज्ञप्तानि सत्यभाषणादीनि व्रतानि धरन्ति, तेऽतुलां श्रद्धां प्राप्य धर्माऽर्थकाम-मोक्षसिद्धिं कर्तुं शक्नुवन्ति ॥२४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे परमेश्वरी आज्ञेप्रमाणे सत्य भाषण इत्यादी नियमांचे पालन करतात ते सर्वांच्या श्रद्धेस पात्र ठरतात व धर्म, अर्थ, काम, मोक्ष यांची सिद्धी करण्यास समर्थ ठरतात.
२५ यत्र ब्रह्म
विश्वास-प्रस्तुतिः ...{Loading}...
यत्र॒ ब्रह्म॑ च क्ष॒त्रं च॑ स॒म्यञ्चौ॒ चर॑तः स॒ह। तं लो॒कं पुण्यं॒ प्रज्ञे॑षं॒ यत्र॑ दे॒वाः स॒हाग्निना॑ ॥२५ ॥
मूलम् ...{Loading}...
यत्र॒ ब्रह्म॑ च क्ष॒त्रं च॑ स॒म्यञ्चौ॒ चर॑तः स॒ह। तं लो॒कं पुण्यं॒ प्रज्ञे॑षं॒ यत्र॑ दे॒वाः स॒हाग्निना॑ ॥२५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यत्र॑। ब्रह्म॑। च॒। क्ष॒त्रम्। च॒। स॒म्यञ्चौ॑। चर॑तः। स॒ह। तम्। लो॒कम्। पुण्य॑म्। प्र। ज्ञे॒ष॒म्। यत्र॑। दे॒वाः। स॒ह। अ॒ग्निना॑। २५।
महीधरः
म० यत्र लोके इन्द्रश्च वायुश्च सम्यञ्चों सह चरतः । यत्र च सेदिः सदनं सेदिः ‘आदृगम-’ (पा० ३।२। १७१) इति चात्किप्रत्ययः लिड्वत्त्वादेवाभ्यासलोपौ । अन्नाप्राप्तिजनितं : दुःखं सेदिः स यत्र न विद्यते तं लोकं पुण्यं पवित्रं प्रज्ञेषं प्रजानीयाम् । जानातेः ‘सिब्बहुलं लेटि’ (पा० ३ । १॥ ३४) इति सिपीटि च रूपम् ॥ २६ ॥
सप्तविंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- अश्वतराश्विर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे मैं (यत्र) जिस परमात्मा में (ब्रह्म) ब्राह्मण अर्थात् विद्वानों का कुल (च) और (क्षत्रम्) विद्या, शौर्यादि गुणयुक्त क्षत्रियकुल ये दोनों (सह) साथ (सम्यञ्चौ) अच्छे प्रकार प्रीतियुक्त (च) तथा वैश्य आदि के कुल (चरतः) मिलकर व्यवहार करते हैं और (यत्र) जिस ब्रह्म में (देवाः) दिव्यगुणवाले पृथिव्यादि लोक वा विद्वान् जन (अग्निना) बिजुली रूप अग्नि के (सह) साथ वर्तते हैं, (तम्) उस (लोकम्) देखने के योग्य (पुण्यम्) सुखस्वरूप निष्पाप परमात्मा को (प्र, ज्ञेषम्) जानूँ, वैसे तुम लोग भी इस को जानो ॥२५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो ब्रह्म एक चेतनमात्र स्वरूप, सब का अधिकारी, पापरहित, ज्ञान से देखने योग्य, सर्वत्र व्याप्त, सब के साथ वर्त्तमान है, वही सब मनुष्यों का उपास्य देव है ॥२५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथाऽहं यत्र ब्रह्म च क्षत्रं सह सम्यञ्चौ च चरतो यत्र देवा अग्निना सह वर्त्तन्ते, तं लोकं पुण्यं प्रज्ञेषम्, तथा यूयमप्येतं विजानीत ॥२५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यद् ब्रह्मैकचेतनमात्रं सर्वेषामधिकारि निष्पापं ज्ञानेन द्रष्टुं योग्यं सर्वत्राऽभिव्याप्तं सहचरितं वर्तते, तदेव सर्वैरुपास्यम् ॥२५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जे ब्रह्म एक चेतनस्वरूप, सर्वांमध्ये अधिष्ठित, पापरहित, ज्ञानाने पाहण्यायोग्य, सर्वत्र व्याप्त, सर्वांमध्ये व्याप्त असते तेच सर्वांचे उपास्यदेव असते.
२६ यत्रेन्द्रश्च वायुश्च
विश्वास-प्रस्तुतिः ...{Loading}...
यत्रेन्द्र॑श्च वा॒युश्च॑ स॒म्यञ्चौ॒ चरतः स॒ह। तं लो॒कं पुण्यं॒ प्रज्ञे॑षं॒ यत्र॑ से॒दिर्न वि॒द्यते॑ ॥२६ ॥
मूलम् ...{Loading}...
यत्रेन्द्र॑श्च वा॒युश्च॑ स॒म्यञ्चौ॒ चरतः स॒ह। तं लो॒कं पुण्यं॒ प्रज्ञे॑षं॒ यत्र॑ से॒दिर्न वि॒द्यते॑ ॥२६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यत्र॑। इन्द्रः॑। च॒। वा॒युः। च॒। स॒म्यञ्चौ॑। चर॑तः। स॒ह। तम्। लो॒कम्। पुण्य॑म्। प्र। ज्ञे॒षम्। यत्र॑। से॒दिः। न। वि॒द्यते॑। २६।
महीधरः
म० सुरादेवत्यानुष्टुप् सुरासंसर्जने विनियुक्ता । तत्सूत्रं सौत्रामण्यारम्भे (का० १९ । १) लिखितम् । हे सुरे, ते तव अंशुः भागः सोमस्यांशुना भागेन सह पृच्यतां संयुज्यताम्॥ तव परुः पर्व सोमस्य परुषा पर्वणा सह पृच्यताम् । तव गन्धः अच्युतः अनश्वरो रसश्च सोममवतु आलिङ्गतु । किमर्थं । मदाय मत्ततायै । सुरायुक्तः सोमः पीतो मदजनको भवति अत उभयोर्योगोऽस्तु ॥२७॥
अष्टाविंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- अश्वतराश्विर्ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे मैं (यत्र) जिस ईश्वर में (इन्द्रः) सर्वव्याप्त बिजुली (च) और (वायुः) धनञ्जय आदि वायु (सह) साथ (सम्यञ्चौ) अच्छे प्रकार मिले हुए (चरतः) विचरते हैं (च) और (यत्र) जिस ब्रह्म में (सेदिः) नाश वा उत्पत्ति (न, विद्यते) नहीं विद्यमान है, (तम्) उस (पुण्यम्) पुण्य से उत्पन्न हुए ज्ञान से जानने योग्य (लोकम्) सबको देखनेहारे परमात्मा को (प्र, ज्ञेषम्) जानूँ, वैसे इसको तुम लोग भी जानो ॥२६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो कोई विद्वान् वायु बिजुली और आकाशादि की सीमा को जानना चाहे तो अन्त को प्राप्त नहीं होता। जिस ब्रह्म में ये सब आकाशादि विभु पदार्थ भी व्याप्य हैं, उस ब्रह्म के अन्त के जानने को कौन समर्थ हो सकता है ॥२६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्या ! यथाऽहं यत्रेन्द्रश्च वायुः सह सम्यञ्चौ चरतश्च, यत्र सेदिर्न विद्यते, तं पुण्यं लोकं प्रज्ञेषम्, तथैतं यूयं विजानीत ॥२६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यदि कश्चिद् विद्वान् वायुविद्युदाकाशादीनामियत्तां जिज्ञासेत, तर्ह्यन्तं न प्राप्नोति, यत्र चैते व्याप्याः सन्ति, तस्य ब्रह्मणोऽन्तं ज्ञातुं कः शक्नुयात् ॥२६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जे विद्वान वायू, विद्युत व आकाशाची सीमा जाणून घेऊ इच्छितात त्याचा अंत कुणालाही लागू शकत नाही. ज्या ब्रह्मात हे आकाश इत्यादी पदार्थही व्याप्त आहेत. त्या ब्रह्माचा अंत जाणण्यास कोण समर्थ असणार बरे !
२७ अंशुना ते
विश्वास-प्रस्तुतिः ...{Loading}...
अँ॒शुना॑ ते अँ॒शुः पृ॑च्यतां॒ परु॑षा॒ परुः॑। ग॒न्धस्ते॒ सोम॑मवतु॒ मदा॑य॒ रसो॒ऽअच्यु॑तः ॥२७ ॥
मूलम् ...{Loading}...
अँ॒शुना॑ ते अँ॒शुः पृ॑च्यतां॒ परु॑षा॒ परुः॑। ग॒न्धस्ते॒ सोम॑मवतु॒ मदा॑य॒ रसो॒ऽअच्यु॑तः ॥२७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अँ॒शुना॑। ते॒। अँ॒शुः। पृ॒च्य॒ता॒म्। परु॑षा। परुः॑। ग॒न्धः। ते॒। सोम॑म्। अ॒व॒तु॒। मदा॑य। रसः॑। अच्युतः॑। २७।
महीधरः
म०. सुरादेवत्येन्द्रदेवत्यावानुष्टुप् । पूतसुरादाने विनियोग उक्तः ( का० १९ । २ । ६)। बभ्र्वै बभ्रुवर्णायै तस्यै सुरायै । षष्ठ्यर्थे चतुर्थी । सुराया मदे स्थितः सुरया मत्तः इन्द्रः किंत्वः किंत्व इति वदति त्वं किम् कस्य त्वमित्याद्यन्यतिरस्कारकरं वचो वदति । यां सुरां सिञ्चन्ति पात्रे ऋत्विजः परिषिञ्चन्ति पयआदिभिः उत्सिञ्चन्ति । ग्रहैः गोवालपवित्र हिरण्यादिभिः पुनन्ति च ॥ २८॥
एकोनत्रिंशी ।
अधिमन्त्रम् (VC)
- सोमो देवता
- प्रजापतिर्ऋषिः
- विराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् ! (ते) तेरे (अंशुना) भाग से (अंशुः) भाग और (परुषा) मर्म से (परुः) मर्म (पृच्यताम्) मिले तथा (ते) तेरा (अच्युतः) नाशरहित (गन्धः) गन्ध और (रसः) रस पदार्थ सार (मदाय) आनन्द के लिये (सोमम्) ऐश्वर्य की (अवतु) रक्षा करे ॥२७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जब ध्यानावस्थित मनुष्य के मन के साथ इन्द्रियाँ और प्राण ब्रह्म में स्थिर होते हैं, तभी वह नित्य आनन्द को प्राप्त होता है ॥२७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! ते तवांऽशुनांऽशुः परुषा परुः पृच्यताम्, तेऽच्युतो गन्धो रसश्च मदाय सोममवतु ॥२७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदा ध्यानावस्थितस्य मनुष्यस्य मनसा सहेन्द्रियाणि प्राणाश्च ब्रह्मणि स्थिरा भवन्ति, तदा स नित्यमानन्दति ॥२७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जेव्हा ध्यानावस्थित अवस्थेत माणसाच्या मनाबरोबरच इंद्रिये व प्राण ब्रह्मात स्थित होतात तेव्हाच तो नित्य आनंद प्राप्त करू शकतो.
२८ सिञ्चन्ति परि
विश्वास-प्रस्तुतिः ...{Loading}...
सि॒ञ्चन्ति॒ परि॑ षिञ्च॒न्त्युत्सि॑ञ्चन्ति पु॒नन्ति॑ च। सुरा॑यै ब॒भ्र्वै मदे॑ कि॒न्त्वो व॑दति कि॒न्त्वः ॥२८ ॥
मूलम् ...{Loading}...
सि॒ञ्चन्ति॒ परि॑ षिञ्च॒न्त्युत्सि॑ञ्चन्ति पु॒नन्ति॑ च। सुरा॑यै ब॒भ्र्वै मदे॑ कि॒न्त्वो व॑दति कि॒न्त्वः ॥२८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सि॒ञ्चन्ति॒। परि॑। सि॒ञ्च॒न्ति॒। उत्। सि॒ञ्च॒न्ति॒। पु॒नन्ति॑। च॒। सुरा॑यै। ब॒भ्र्वै। मदे॑। कि॒न्त्वः। व॒द॒ति॒। कि॒न्त्वः। २८।
महीधरः
म० इन्द्रदेवत्या गायत्री विश्वामित्रदृष्टा स्मार्ते श्रवणाकर्मणि धानाहोमे विनियुक्ता प्रातःसवने पुरोडाशपुरोनुवाक्यापि । हे इन्द्र, त्वं प्रातःकाले नोऽस्माकं पुरोडाशं जुषस्व । कीदृशम् । धानावन्तं धाना विद्यन्ते यत्र तम् । करम्भिणं करम्भोऽस्यास्ति । अपूपवन्तमपूपाः सन्ति यत्र । उक्थिनमुक्थं शस्त्रं यत्र स्तुतियुक्तम् ॥ २९ ॥
त्रिंशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- प्रजापतिर्ऋषिः
- भुरिगुष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
अब विद्वानों के विषय में शरीरसम्बन्धी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (बभ्र्वै) बल के धारण करनेहारे (सुरायै) सोम वा (मदे) आनन्द के लिये महौषधियों के रस को (सिञ्चन्ति) जाठराग्नि में सींचते सेवन करते (परि, सिञ्चन्ति) सब ओर से पीते (उत्सिञ्चन्ति) उत्कृष्टता से ग्रहण करते (च) और (पुनन्ति) पवित्र होते हैं, वे शरीर और आत्मा के बल को प्राप्त होते हैं और जो (किन्त्वः) क्या वह (किन्त्वः) क्या और ऐसा (वदति) कहता है, वह कुछ भी नहीं पाता है ॥२८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो अन्नादि को पवित्र और संस्कार कर उत्तम रसों से युक्त करके युक्त आहार-विहार से खाते पीते हैं, वे बहुत सुख को प्राप्त होते हैं, जो मूढ़ता से ऐसा नहीं करता, वह बलबुद्धिहीन हो निरन्तर दुःख को भोगता है ॥२८ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ विद्वद्विषये शारीरिकविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये बभ्र्वै सुरायै मदे महौषधिरसं सिञ्चन्ति परिसिञ्चन्त्युत्सिञ्चन्ति पुनन्ति च, ते शरीरात्मबल-माप्नुवन्ति, यः किन्त्वः किन्त्वश्चेति वदति, स किञ्चिदपि नाप्नोति ॥२८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - येऽन्नादीनि पवित्रीकृत्य संस्कृत्योत्तमरसैः परिषिच्य युक्ताहारविहारेण भुञ्जते, ते बहुसुखं लभन्ते। यो मूढतयैवं नाचरति, स बलबुद्धिहीनः सततं दुःखं भुङ्क्ते ॥२८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे लोक अन्न संस्कारित करून शुद्ध करतात व रसयुक्त आहार, विहार करतात ते अत्यंत सुखी होतात. जे मूढ लोक असे करत नाहीत ते बल व बुद्धीने हीन बनून सतत दुःख भोगतात.
२९ धानावन्तं करम्भिणमपूपवन्तमुक्थिनम्
विश्वास-प्रस्तुतिः ...{Loading}...
धा॒नाव॑न्तं कर॒म्भिण॑मपू॒पव॑न्तमु॒क्थिन॑म्। इन्द्र॑ प्रा॒तर्जु॑षस्व नः ॥२९ ॥
मूलम् ...{Loading}...
धा॒नाव॑न्तं कर॒म्भिण॑मपू॒पव॑न्तमु॒क्थिन॑म्। इन्द्र॑ प्रा॒तर्जु॑षस्व नः ॥२९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
धा॒नाव॑न्त॒मिति॑ धा॒नाऽव॑न्तम्। क॒र॒म्भिण॑म्। अ॒पू॒पव॑न्त॒मित्य॑पू॒पऽव॑न्तम्। उ॒क्थिन॑म्। इन्द्र॑। प्रा॒तः। जु॒ष॒स्व॒। नः॒। २९।
महीधरः
म० ‘ऐन्द्र्यां बृहत्यां गायति’ (का० १९ । ५। २)। अध्वर्युप्रेषितो ब्रह्मा इन्द्रदेवतायां बृहत्यां साम गायति । इन्द्रदेवत्या बृहती नृमेधपुरुषमेधदृष्टा । हे मरुतः ऋत्विजः, इन्द्राय इन्द्रार्थं यूयं बृहत्साम गायत सामगानं कुरुत। कीदृशम् । बृहत् वृत्रहन्तमम् वृत्रं पापं प्रति अतिशयेन हन्ति गच्छति वृत्रमसुरं नाशयति वा । ‘नाद्धस्य’ (पा० ८।२। १७) इति नुम् । ऋतं यज्ञं वर्धयन्ति ऋतवृधः देवा ऋत्विजो वा । येन सामगानेन देवाय इन्द्राय ज्योतिः तेजः अजनयन्नुदपादयन् । कीदृशं ज्योतिः । देवं दीप्यमानम् । जागृवि जागर्तीति जागृवि जागरणशीलम् । अविनश्वरमित्यर्थः । सामगानेनेन्द्रस्तेजस्वी जात इत्यर्थः ॥ ३० ॥
एकत्रिंशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- विश्वामित्र ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) सुख की इच्छा करनेहारे विद्या और ऐश्वर्य्य से युक्त जन ! तू (नः) हमारे (धानावन्तम्) अच्छे प्रकार संस्कार किये हुए धान्य अन्नों से युक्त और (करम्भिणम्) अच्छी क्रिया से सिद्ध किये और (अपूपवन्तम्) सुन्दरता से संपादित किये हुए मालपुए आदि से युक्त तथा (उक्थिनम्) उत्तम वाक्य से उत्पन्न हुए बोध को सिद्ध करानेहारे और भक्ष्य आदि से युक्त भोजन-योग्य अन्न रसादि को (प्रातः) प्रातःकाल (जुषस्व) सेवन किया कर ॥२९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो विद्या के पढ़ाने और उपदेशों से सब को सुभूषित और विश्व का उद्धार करनेहारे विद्वान् जन अच्छे संस्कार किये हुए रसादि पदार्थों से युक्त अन्नादि को ठीक समय में भोजन करते हैं और जो उनको विद्या सुशिक्षा से युक्त वाणी का ग्रहण करावें, वे धन्यवाद के योग्य होते हैं ॥२९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे इन्द्र ! त्वं नो धानावन्तं करम्भिणमपूपवन्तमुक्थिनं भक्ष्याद्यन्वितं भोज्यमन्नरसादिकं प्रातर्जुषस्व ॥२९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये विद्याध्यापनोपदेशैः सर्वेषामलङ्कर्त्तारो विश्वोद्धारका विद्वांसो जनाः सुसंस्कृतै रसादिभिर्युक्तान्यन्नादीनि यथासमयं भुञ्जते, ये च तान् विद्यासुशिक्षायुक्तां वाचं ग्राहयेयुस्ते धन्यवादार्हा जायन्ते ॥२९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे विद्वान अध्यापन व उपदेश यांनी सर्वांना सुशोभित करतात ते विश्वाचा उद्धार करून संस्कार केलेल्या अन्नरसयुक्त पदार्थांचे वेळेवर भोजन करतात. जे त्यांना विद्या व प्रशिक्षित वाणीचा अंगीकार करावयास लावतात ते धन्यवादास पात्र ठरतात.
३० बृहदिन्द्राय गायत
विश्वास-प्रस्तुतिः ...{Loading}...
बृ॒हदिन्द्रा॑य गायत॒ मरु॑तो वृत्र॒हन्त॑मम्। येन॒ ज्योति॒रज॑नयन्नृता॒वृधो॑ दे॒वं दे॒वाय॒ जागृ॑वि ॥३० ॥
मूलम् ...{Loading}...
बृ॒हदिन्द्रा॑य गायत॒ मरु॑तो वृत्र॒हन्त॑मम्। येन॒ ज्योति॒रज॑नयन्नृता॒वृधो॑ दे॒वं दे॒वाय॒ जागृ॑वि ॥३० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
बृ॒हत्। इन्द्रा॑य। गा॒य॒त॒। मरु॑तः। वृ॒त्र॒हन्त॑म॒मिति॑ वृत्र॒हन्ऽत॑मम्। येन॑। ज्योतिः॑। अज॑नयन्। ऋ॒ता॒वृधः॑। ऋ॒त॒वृध॒ इत्यृ॑त॒ऽवृधः॑। दे॒वम्। दे॒वाय॑। जागृ॑वि। ३०।
महीधरः
म० ‘ब्रह्मानुमन्त्रणमध्वर्यो अद्रिभिरिति’ ( का० १९ । २। ११)। ब्रह्मा पयोऽनुमन्त्रयते । ऐन्द्री गायत्री । हे अध्वर्यो, त्वं सोमं पवित्रे कम्बलमये आनय सिञ्च । कीदृशम् । अद्रिभिर्ग्रावभिः सुतमभिषुतम् । ततः पुनाहि पुनीहि गालय । इत्वाभाव आर्षः। किमर्थम् । इन्द्राय पातवे इन्द्रस्य पानार्थम् । तुमर्थे तवेप्रत्ययः ॥ ३१ ॥
द्वात्रिंशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- नृमेधपुरुषमेधावृषी
- बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (मरुतः) विद्वान् लोगो ! (ऋतावृधः) सत्य के बढ़ानेहारे आप (येन) जिससे (देवाय) दिव्यगुणवाले (इन्द्राय) परमैश्वर्य्य से युक्त ईश्वर के लिये (देवम्) दिव्य सुख देनेवाले (जागृवि) जागरूक अर्थात् अतिप्रसिद्ध (ज्योतिः) तेज पराक्रम को (अजनयन्) उत्पन्न करें, उस (वृत्रहन्तमम्) अतिशय करके मेघहन्ता सूर्य्य के समान (बृहत्) बड़े सामगान को उक्त उस ईश्वर के लिये (गायत) गाओ ॥३० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को योग्य है कि सर्वदा युक्त, आहार और व्यवहार से शरीर और आत्मा के रोगों का निवारण कर पुरुषार्थ को बढ़ा के परमेश्वर का प्रतिपादन करनेहारे गान को किया करें ॥३० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मरुतः ! ऋतावृधो भवन्तो येन देवायेन्द्राय देवं जागृवि ज्योतिरजनयँस्तद् वृत्रहन्तमं बृहत् तस्मै गायत ॥३० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैः सदैव युक्ताहारविहारेण शरीरात्मरोगान् निवार्य पुरुषार्थमुन्नीय परमेश्वरप्रतिपादकं गानं कर्त्तव्यम् ॥३० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी नेहमी युक्त आहार, विहार करून शरीर व आत्म्याचे रोगनिवारण करून पुरुषार्थ वाढवावा व परमेश्वराचे प्रतिपादन करणारे गान गावे.
३१ अध्वर्योऽअद्रिभिः सुतम्
विश्वास-प्रस्तुतिः ...{Loading}...
अध्व॑र्यो॒ऽअद्रि॑भिः सु॒तँ सोमं॑ प॒वित्र॒ऽआ न॑य। पु॒नी॒हीन्द्रा॑य॒ पात॑वे ॥३१ ॥
मूलम् ...{Loading}...
अध्व॑र्यो॒ऽअद्रि॑भिः सु॒तँ सोमं॑ प॒वित्र॒ऽआ न॑य। पु॒नी॒हीन्द्रा॑य॒ पात॑वे ॥३१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अध्व॑र्यो॒ऽइत्यध्व॑र्यो। अद्रि॑भि॒रित्यद्रि॑ऽभिः। सु॒तम्। सोम॑म्। प॒वित्रे॑। आ। न॒य॒। पु॒नी॒हि। इन्द्रा॑य। पात॑वे। ३१।
महीधरः
म० ‘त्रयस्त्रिᳪं᳭शं वसाग्रहं गृह्णाति यो भूतानामिति’ (का. १९ । ४ । २४)। ‘प्रागभिषेकात्सीसेन तन्त्रमिति’ । (१९ । ८०) षोडशर्ग्भिर्द्वात्रिंशद्वसाग्रहाः तेषां संस्रवैर्यजमानाभिषेकः कृतः । ततोऽध्वर्युर्यो भूतानामिति सार्धकण्डिकात्मकेन मन्त्रेण त्रयस्त्रिंशं वसाग्रहमार्षभखुरेण गृह्णाति । आत्मवादिनीग्रहदेवत्या कौण्डिन्यदृष्टा पङ्क्तिः । यः परमात्मा भूतानां जराय्वादिभूतानां चतुर्विधानामधिपतिः अधिकं पालकः । यस्मिन् आत्मनि लोका भूरादयोऽधिश्रिताः आश्रिताः । लोका यदाधारा इत्यर्थः । महान् सर्वोत्कृष्टो यः महतः महत्तत्वप्रमुखस्य तत्त्वगणस्य ईशे ईष्टे नियन्ता वर्तते ‘लोपस्त आत्मनेपदेषु’ (पा. ७ । १ । ४१ ) इति तलोपे लटि तङि प्रथमैकवचने ईशे इति रूपम् । ‘अधीगर्थदयेशाम्’ (पा० २ । ३ । ५२) इति कर्मणि षष्ठी । हे ग्रह, अहं तेन परमात्मना कृत्वा त्वा त्वां गृह्णामि मयि परमात्मभावमापन्ने मयि विषये अहं त्वां गृह्णामि ॥ ३२ ॥
त्रयस्त्रिंशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- प्रजापतिर्ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर प्रकारान्तर से उक्त विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अध्वर्यो) यज्ञ को युक्त करनेहारे पुरुष ! तू (इन्द्राय) परमैश्वर्यवान् के लिये (पातवे) पीने को (अद्रिभिः) मेघों से (सुतम्) उत्पन्न हुए (सोमम्) सोमवल्ल्यादि ओषधियों के साररूप रस को (पवित्रे) शुद्ध व्यवहार में (आनय) ले आ, उससे तू (पुनीहि) पवित्र हो ॥३१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - वैद्यराजों को योग्य है कि शुद्ध देश में उत्पन्न हुई ओषधियों के सारों को बना, उस के दान से सब के रोगों की निवृत्ति निरन्तर करें ॥३१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः प्रकारान्तरेणोक्तविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अध्वर्यो ! त्वमिन्द्राय पातवे अद्रिभिः सुतं सोमं पवित्र आनय, तेन त्वं पुनीहि ॥३१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - वैद्यराजैः शुद्धदेशोत्पन्नौषधिसारान् निर्मायैतद्दानेन सर्वेषां रोगनिवृत्तिः सततं कार्या ॥३१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - वैद्यराजांनी पवित्रस्थानी उत्पन्न झालेल्या औषधांचा रस काढून तो इतरांना द्यावा व सदैव रोगांची निवृत्ती करावी.
३२ यो भूतानामधिपतिर्यस्मिल्ँ लोकाऽअधि
विश्वास-प्रस्तुतिः ...{Loading}...
यो भू॒ताना॒मधि॑पति॒र्यस्मिल्ँ॑लो॒काऽअधि॑ श्रि॒ताः। यऽईशे॑ मह॒तो म॒हाँस्तेन॑ गृह्णामि॒ त्वाम॒हं मयि॑ गृह्णामि॒ त्वाम॒हम् ॥३२ ॥
मूलम् ...{Loading}...
यो भू॒ताना॒मधि॑पति॒र्यस्मिल्ँ॑लो॒काऽअधि॑ श्रि॒ताः। यऽईशे॑ मह॒तो म॒हाँस्तेन॑ गृह्णामि॒ त्वाम॒हं मयि॑ गृह्णामि॒ त्वाम॒हम् ॥३२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यः। भू॒ताना॑म्। अधि॑पति॒रित्यधि॑ऽपतिः। यस्मि॑न्। लो॒काः। अधि॑। श्रि॒ताः। यः। ईशे॑। म॒ह॒तः। म॒हान्। तेन॑। गृ॒ह्णा॒मि॒। त्वाम्। अ॒हम्। मयि॑। गृ॒ह्णा॒मि॒। त्वाम्। अ॒हम्। ३२।
महीधरः
म० उपयाम० यजुः सामत्रिष्टुप् । व्याख्यातम् (अ० १० । क. २३ ) एष ते यजुः प्राजापत्या बृहती । सादने विनियोगः। ग्रहदेवते द्वे यजुषी॥३३॥
चतुस्त्रिंशी।
अधिमन्त्रम् (VC)
- परमात्मा देवता
- कौण्डिन्य ऋषिः
- पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर विद्वानों के विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सब के हित की इच्छा करनेहारे पुरुष ! (यः) जो (भूतानाम्) पृथिव्यादि तत्त्वों और उनसे उत्पन्न हुए कार्यरूप लोकों का (अधिपतिः) अधिष्ठाता (महतः) बड़े आकाशादि से (महान्) बड़ा है, (यः) जो (ईशे) सब का ईश्वर है, (यस्मिन्) जिसमें सब (लोकाः) लोक (अधिश्रिताः) अधिष्ठित आश्रित हैं, (तेन) उससे (त्वाम्) तुझ को (अहम्) मैं (गृह्णामि) ग्रहण करता हूँ (मयि) मुझ में (त्वाम्) तुझ को (अहम्) मैं (गृह्णामि) ग्रहण करता हूँ ॥३२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो उपासक अनन्त ब्रह्म में निष्ठा रखनेवाला ब्रह्म से भिन्न किसी वस्तु को उपास्य नहीं जानता, वही इस जगत् में विद्वान् माना जाना चाहिये ॥३२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्विद्वद्विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सर्वहितेच्छो ! यो भूतानामधिपतिर्महतो महानस्ति, य ईशे यस्मिन् सर्वे लोका अधिश्रितास्तेन त्वामहं गृह्णामि मयि त्वामहं गृह्णामि ॥३२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - य उपासकोऽनन्तब्रह्मनिष्ठो ब्रह्मभिन्नमुपास्यं किञ्चिद् वस्तु न जानाति, स एवात्र विद्वान् मन्तव्यः ॥३२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जो उपासक अनंत ब्रह्मामध्ये निष्ठा ठेवतो व ब्रह्माहून अन्य वस्तुल उपास्य मानत नाही त्यालाच या जगात विद्वान मानावे.
३३ उपयामगृहीतोस्यश्विभ्यां त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒प॒या॒मगृ॑हीतोस्य॒श्विभ्यां॑ त्वा॒ सर॑स्वत्यै॒ त्वेन्द्रा॑य त्वा सु॒त्राम्ण॑ऽए॒ष ते॒ योनि॑र॒श्विभ्यां॑ त्वा॒ सर॑स्वत्यै॒ त्वेन्द्रा॑य त्वा सु॒त्राम्णे॑ ॥३३ ॥
मूलम् ...{Loading}...
उ॒प॒या॒मगृ॑हीतोस्य॒श्विभ्यां॑ त्वा॒ सर॑स्वत्यै॒ त्वेन्द्रा॑य त्वा सु॒त्राम्ण॑ऽए॒ष ते॒ योनि॑र॒श्विभ्यां॑ त्वा॒ सर॑स्वत्यै॒ त्वेन्द्रा॑य त्वा सु॒त्राम्णे॑ ॥३३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। अ॒श्विभ्या॒मित्य॒श्विऽभ्या॑म्। त्वा॒। सर॑स्वत्यै। त्वा॒। इन्द्रा॑य। त्वा॒। सु॒त्राम्ण॒ इति॑ सु॒ऽत्राम्णे॑। ए॒षः। ते॒। योनिः॑। अ॒श्विभ्या॒मित्य॒श्विऽभ्या॑म्। त्वा॒। सर॑स्वत्यै। त्वा॒। इन्द्रा॑य। त्वा॒। सु॒त्राम्ण॒ इति॑ सु॒ऽत्राम्णे॑। ३३।
महीधरः
म० शेषमृत्विजः प्राणभक्षं भक्षयन्ति’ ( का० १९ । ५।९)। सहश(?)ग्रहहोमानन्तरं शेषमृत्विजः सर्वेऽवजिघ्रन्ति कण्डिकाद्वयेन । ग्रहदेवत्ये द्वे अनुष्टुबुपरिष्टाद्बृहत्यौ । हे ग्रह, त्वं मे प्राणपा असि । प्राणान् पाति रक्षति प्राणपाः । अपानपाः अपानस्य रक्षकोऽसि । चक्षुषी पातीति चक्षुष्पाः । मे मम श्रोत्रपाश्चासि श्रोत्रेन्द्रियं पासि । मे वाचो वागिन्द्रियस्य विश्वभेषजः विश्वं सर्वं भेषजमौषधं यस्मात्स वाचः औषधमुन्मार्गनिवृत्तिर्जपादौ प्रवृत्तिश्च तत्कर्ता । मनसो विलायकश्चासि विलाययति विषयेभ्यो निवर्त्यात्मनि स्थापयतीति विलायकः आत्मज्ञानप्रदोऽसीत्यर्थः । यद्वा ‘ली श्लेषणे’ विलाययति चक्षुरादिभिः सह श्लेषयति विलायकः । सर्वेन्द्रियैः सह मनः संयोजयसीत्यर्थः ॥ ३४ ॥
पञ्चत्रिंशी।
अधिमन्त्रम् (VC)
- सोमो देवता
- काक्षीवतसुकीर्त्तिर्ऋषिः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! जो तू (अश्विभ्याम्) पूर्ण विद्यावाले अध्यापक और उपदेशक से (उपयामगृहीतः) उत्तम नियमों के साथ ग्रहण किया हुआ (असि) है, जिस (ते) तेरा (एषः) यह (अश्विभ्याम्) अध्यापक और उपदेशक के साथ (योनिः) विद्यासम्बन्ध है, उस (त्वा) तुझ को (सरस्वत्यै) अच्छी शिक्षायुक्त वाणी के लिये (त्वा) तुझ को (इन्द्राय) उत्कृष्ट ऐश्वर्य्य के लिये और (त्वा) तुझ को (सुत्राम्णे) अच्छे प्रकार रक्षा करनेहारे के लिये मैं ग्रहण करता हूँ, (सरस्वत्यै) उत्तम गुणवाली विदुषी स्त्री के लिये (त्वा) तुझ को (इन्द्राय) परमोत्तम व्यवहार के लिये (त्वा) तुझ को और (सुत्राम्णे) उत्तम रक्षा के लिये (त्वा) तुझ को ग्रहण करता हूँ ॥३३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो विद्वानों से शिक्षा पाये हुए स्वयं उत्तम बुद्धिमान्, जितेन्द्रिय, अनेक विद्याओं से युक्त विद्वानों में प्रेम करनेहारा होवे, वही विद्या और धर्म की प्रवृत्ति के लिये अधिष्ठाता करने योग्य होवे ॥३३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यस्त्वमश्वियामुपयामगृहीतोऽसि, यस्य त एषोऽश्विभ्यां सह योनिरस्ति, तं त्वा सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्णे चाहं गृह्णामि, सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्णे त्वा गृह्णामि ॥३३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यो विद्वद्भिः शिक्षितः स्वयं सुप्रज्ञो जितेन्द्रियो विविधविद्यो विद्वत्प्रियः स्यात्, स एव विद्याधर्मप्रवृत्तयेऽधिष्ठाता कर्त्तव्यो भवेत् ॥३३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जो विद्वानांकडून शिक्षण घेतलेला, बुद्धिमान, जितेंद्रिय, अनेक विद्यांनीयुक्त असलेल्या विद्वानांना प्रेम करणारा असेल तोच विद्या व धर्माचा अधिष्ठाता बनण्यायोग्य असतो.
३४ प्राणपा मेऽअपानपाश्चक्षुष्पाः
विश्वास-प्रस्तुतिः ...{Loading}...
प्रा॒ण॒पा मे॑ऽअपान॒पाश्च॑क्षु॒ष्पाः श्रो॑त्र॒पाश्च॑ मे। वा॒चो मे॑ वि॒श्वभे॑षजो॒ मन॑सोऽसि वि॒लाय॑कः ॥३४ ॥
मूलम् ...{Loading}...
प्रा॒ण॒पा मे॑ऽअपान॒पाश्च॑क्षु॒ष्पाः श्रो॑त्र॒पाश्च॑ मे। वा॒चो मे॑ वि॒श्वभे॑षजो॒ मन॑सोऽसि वि॒लाय॑कः ॥३४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्रा॒ण॒पा इति॑ प्राण॒ऽपाः। मे॒। अ॒पा॒न॒पा इत्य॑पान॒ऽपाः। च॒क्षु॒ष्पाः। च॒क्षुः॒पा इति॑ चक्षुः॒ऽपाः। श्रो॒त्र॒पा इति॑ श्रोत्र॒ऽपाः। च॒। मे॒। वा॒चः। मे॒। वि॒श्वभे॑षज॒ इति॑ वि॒श्वऽभे॑षजः। मन॑सः। अ॒सि॒। वि॒लाय॑क॒ इति॑ वि॒ऽलाय॑कः। ३४।
महीधरः
म० हे ग्रह उपहूत, आज्ञप्तोऽहं ते तव त्वां भक्षयामि । कर्मणि षष्ठी । कीदृशस्य ते । अश्विनकृतस्य करोतिर्दर्शनार्थः । अश्विनावेवाश्विनौ स्वार्थेऽण् । वृद्ध्यभाव आर्षः । आश्विनाभ्यां कृतो दृष्टस्तस्य । सरस्वत्या कृतः सरस्वतिकृतः सरस्वत्या दृष्टस्तस्य ‘ड्यापोः संज्ञाच्छन्दसोर्बहुलम्’ (पा० ६ । ३ । ६३) इति सरस्वतीशब्दस्य ह्रस्वः । सुष्रु त्रायते रक्षति सुत्रामा तेनेन्द्रेण कृतस्य दृष्टस्य । उपहूतस्य ऋत्विग्भिः कृतोपहवस्य ॥ ३५॥
षट्त्रिंशी।
अधिमन्त्रम् (VC)
- लिङ्गोक्ता देवताः
- प्रजापतिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! जिससे तू (मे) मेरे (प्राणपाः) प्राण का रक्षक (अपानपाः) अपान का रक्षक (मे) मेरे (चक्षुष्पाः) नेत्रों का रक्षक (श्रोत्रपाः) श्रोत्रों का रक्षक (च) और (मे) मेरी (वाचः) वाणी का (विश्वभेषजः) सम्पूर्ण ओषधिरूप (मनसः) विज्ञान का सिद्ध करनेहारे मन का (विलायकः) विविध प्रकार से सम्बन्ध करनेवाला (असि) है, इस से तू हमारे पिता के समान सत्कार करने योग्य है ॥३४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को योग्य है कि जो बाल्यावस्था का आरम्भ कर विद्या और अच्छी शिक्षा से जितेन्द्रियपन, विद्या सत्पुरुषों के साथ प्रीति तथा धर्मात्मा और परोपकारीपन को ग्रहण कराते हैं, वे माता के समान और मित्र के समान जानने चाहियें ॥३४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यतस्त्वं मे प्राणपा अपानपा मे चक्षुष्पाः श्रोत्रपाश्च मे वाचो विश्वभेषजो मनसो विज्ञानसाधकस्य विलायकोऽसि, तस्मात् त्वं पितृवत् सत्कर्त्तव्योऽसि ॥३४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्ये बाल्याऽवस्थामारभ्य विद्यासुशिक्षाभ्यां जितेन्द्रियत्वं विद्यासत्पुरुषसङ्गप्रियत्वं धर्मात्मपरोपकारित्वं च ग्राहयन्ति ते मातृवत् मित्रवच्च विज्ञेयाः ॥३४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे विद्वान, माणसांना बाल्यावस्थेपासून विद्या व चांगले संस्कार देऊन जितेंद्रियता, सत्पुरुषांबरोरब प्रेम, धर्म व परोपकार शिकवितात ते आई, वडील व मित्राप्रमाणे जाणावे.
३५ अश्विनकृतस्य ते
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒श्विनकृ॑तस्य ते॒ सर॑स्वतिकृत॒स्येन्द्रे॑ण सु॒त्राम्णा॑ कृ॒तस्य॑। उप॑हूत॒ उप॑हूतस्य भक्षयामि ॥३५ ॥
मूलम् ...{Loading}...
अ॒श्विनकृ॑तस्य ते॒ सर॑स्वतिकृत॒स्येन्द्रे॑ण सु॒त्राम्णा॑ कृ॒तस्य॑। उप॑हूत॒ उप॑हूतस्य भक्षयामि ॥३५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒श्विन॑कृत॒स्येत्य॒श्विन॑ऽकृतस्य। ते॒। सर॑स्वतिकृत॒स्येति॒ सर॑स्वतिऽकृतस्य। इन्द्रे॑ण। सु॒त्राम्णेति॑ सु॒ऽत्राम्णा॑। कृ॒तस्य॑। उप॑हूत॒ इत्युप॑ऽहूतः। उप॑हूत॒स्येत्युप॑ऽहूतस्य। भ॒क्ष॒या॒मि॒। ३५।
महीधरः
म० आध्वर्यवं समाप्तम् । इतः सौत्रामणिकं होत्रमुच्यते । ‘समिद्ध इन्द्र इत्याप्रियः प्रथमस्य’ ( का० १९ । ६ । १२)। समिद्ध इत्याद्या एकादश ऋचः प्रथमस्यैन्द्रस्य पशोराप्रियः प्रयाजयाज्याः । आङ्गिरसदृष्टा एकादशाप्रियः त्रिष्टुभः तासां क्रमादेता देवता इध्मः .. तनूनपान्नराशंसो वा इडः बर्हिः द्वारः उषासानक्ता दैव्यौ होतारौ तिस्रो देव्यः त्वष्टा वनस्पतिः स्वाहाकृतयः एता देवताः । यथायोगमिन्द्रविशेषणत्वेन व्याख्येयाः । अनुवाकेनानेनेन्द्रः स्तूयते । इन्द्रो वृत्रं मेघं दैत्यं वा जघान हतवान् । दुरः द्वाराणि च विववार मेघस्य द्वाराणि स्रोतांसि विवृतान्यकरोत् । दैत्यपक्षे तत्पुरद्वाराणि शून्यान्यकरोत् । द्वारशब्दस्य संप्रसारणे दुर इति रूपम् । कीदृश इन्द्रः । | समिद्धः संदीप्तः उषसामनीके मुखे प्रातःकाले पुरोरुचा अग्रे प्रसरन्त्या दीप्त्या पूर्वकृत्पूर्वां दिशं करोतीति आदित्यात्मना पूर्वस्याः कर्ता । नाम्नो वृत्तिमात्रे पुंवद्भावः । त्रिभिर्देवैः | त्रिंशता च त्रयस्त्रिंशद्देवैः सह वावृधानः वर्धमानः । वृधेर्विकरणव्यत्ययेन शपः ‘तुजादीनां दीर्घोऽभ्यासस्य’ (पा० ६ ।१।७) इत्यभ्यासदीर्घः संहितायाम् । वज्रबाहुः वज्रं बाहौ यस्य वज्रपाणिः ॥ ३६ ॥
सप्तत्रिंशी।
अधिमन्त्रम् (VC)
- लिङ्गोक्ता देवताः
- प्रजापतिर्ऋषिः
- निचृदुपरिष्टाद्बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! (उपहूतः) बुलाया हुआ मैं (ते) तेरा (अश्विनकृतस्य) जो सद्गुणों को व्याप्त होते हैं, उनके लिये (सरस्वतिकृतस्य) विदुषी स्त्री के लिये (सुत्राम्णा) अच्छे प्रकार रक्षा करनेहारे (इन्द्रेण) विद्या और ऐश्वर्य से युक्त राजा के (कृतस्य) किये हुए (उपहूतस्य) समीप में लाये अन्नादि का (भक्षयामि) भक्षण करता हूँ ॥३५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को योग्य है कि विद्वान् और ऐश्वर्ययुक्त जनों ने अनुष्ठान किये हुए का अनुष्ठान करें और अच्छी शिक्षा किये हुए पाककर्त्ता के बनाये हुए अन्न को खावें और सत्कार करनेहारे का सत्कार किया करें ॥३५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन्नुपहूतोऽहं तेऽश्विनकृतस्य सरस्वतिकृतस्य सुत्राम्णेन्द्रेण कृतस्योपहूतस्यान्नादिकं भक्षयामि ॥३५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्विद्वदैश्वर्ययुक्तैर्जनैरनुष्ठितमनुष्ठेयम्। सुशिक्षितनिष्पादितमन्नमत्तव्यं सत्कर्त्तुः सत्कारश्च कार्यः ॥३५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी विद्वान व ऐश्वर्ययुक्त लोकांनी केलेल्या अनुष्ठानाप्रमाणे अनुष्ठान करावे उत्तम पाकशास्र जाणणाऱ्याने बनविलेले अन्न खावे व सत्कार करण्यायोग्य माणसांचा सत्कार करावा.
३६ समिद्धऽइन्द्रऽउषसामनीके पुरोरुचा
विश्वास-प्रस्तुतिः ...{Loading}...
समि॑द्ध॒ऽइन्द्र॑ऽउ॒षसा॒मनी॑के पुरो॒रुचा॑ पूर्व॒कृद्वा॑वृधा॒नः। त्रि॒भिर्दे॒वैस्त्रिँ॒शता॒ वज्र॑बाहुर्ज॒घान॑ वृ॒त्रं वि दुरो॑ ववार ॥३६ ॥
मूलम् ...{Loading}...
समि॑द्ध॒ऽइन्द्र॑ऽउ॒षसा॒मनी॑के पुरो॒रुचा॑ पूर्व॒कृद्वा॑वृधा॒नः। त्रि॒भिर्दे॒वैस्त्रिँ॒शता॒ वज्र॑बाहुर्ज॒घान॑ वृ॒त्रं वि दुरो॑ ववार ॥३६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
समि॑द्ध॒ इति॒ सम्ऽइ॑द्धः। इन्द्रः॑। उ॒षसा॑म्। अनी॑के। पु॒रो॒रुचेति॑ पुरः॒ऽरुचा॑। पू॒र्व॒कृदिति॑ पूर्व॒ऽकृत्। व॒वृ॒धा॒नऽइति॑ ववृधा॒नः। त्रि॒भिरिति॑ त्रि॒ऽभिः। दे॒वैः। त्रिँ॒शता॑। वज्र॑बाहुरिति॒ वज्र॑ऽबाहुः। ज॒घान॑। वृ॒त्रम्। वि। दुरः॑। व॒वा॒र॒। ३६।
महीधरः
म० एकस्यामृचि नराशंसतनूनपातौ । प्रचेताः प्रकृष्टं चेतो ज्ञानमस्य स प्रचेताः कर्मज्ञाता यजमानस्तमिन्द्रं प्रतियजति प्रत्यहं यजति । तं कम् । य ईदृशः नराशंसः नरैर्ऋत्विग्भिरा समन्तात् शस्यते शस्त्रैः स्तूयते स नराशंसः । यद्वा ‘नरा अस्मिन्नासीनाः शंसन्ति’ (निरु० ८ । ६) इति यास्कोक्तेर्नराशंसो यज्ञः तद्रूपस्तद्वान्वा । यज्ञस्य धाम :स्थानं प्रतिमिमानः मिमीते मिमानः प्रतिगणयन् । यज्ञस्थानानि जानन्नित्यर्थः । एकः-प्रतिमिमान इत्यनेन संबध्यतेऽपरो यजतीत्यनेन । तथा शूरः शौर्यवान् । तनूनपात् तनोति. विस्तारयति सृष्टिं तनूः प्रजापतिर्मरीचिस्तस्य नपात् पौत्रः। कश्यपात्मज इत्यर्थः । यद्वा तनूं शरीरं न पातयति रक्षति जाठराग्निरूपेणेति तनूनपात् अग्निस्तद्रूपः । यद्वा तनोति भोगानिति तनूः गौस्तस्या नपात् पौत्रं घृतम् । गोः पयो जायते । पयस आज्यमिति घृतरूपस्तद्वान् वा । गोभिर्वपावान् - पशुसंबन्धिनीभिर्वपावान् वपायुक्तः मधुना मधुस्वादोपेतेन घृतेन समञ्जन् हवींषि भक्षयन् हिरण्यैः पश्ववदानभूतैः । चन्द्री चन्द्रं सुवर्णमस्यास्तीति चन्द्री ॥ ३७॥
अष्टत्रिंशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- आङ्गिरस ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! (पूर्वकृत्) पूर्व करनेहारा (वावृधानः) बढ़ता हुआ (वज्रबाहुः) जिसके हाथ में वज्र है, वह (उषसाम्) प्रभात वेलाओं की (अनीके) सेना में जैसे (पुरोरुचा) प्रथम विथुरी हुई दीप्ति से (समिद्धः) प्रकाशित हुआ (इन्द्रः) सूर्य्य (त्रिभिः) तीन अधिक (त्रिंशता) तीस (देवैः) पृथिवी आदि दिव्य पदार्थों के साथ वर्त्तमान हुआ (वृत्रम्) मेघ को (जघान) मारता है, (दुरः) द्वारों को (वि, ववार) प्रकाशित करता है, वैसे अत्यन्त बलयुक्त योद्धाओं के साथ शत्रुओं को मार कर विद्या और धर्म के द्वारों को प्रकाशित कर ॥३६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। विद्वान् लोग सूर्य के समान विद्या धर्म के प्रकाशक हों, विद्वानों के साथ शान्ति, प्रीति से सत्य और असत्य के विवेक के लिये संवाद कर अच्छे प्रकार निश्चय करके सब मनुष्यों को संशयरहित करें ॥३६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! पूर्वकृद्वावृधानो वज्रबाहुः सन्नुषसामनीके यथा पुरोरुचा समिद्ध इन्द्रस्त्रिभिरधिकैः त्रिंशता देवैः सह वर्त्तमानः सन् वृत्रं जघान दुरो वि ववार तथातिबलैर्योद्धृभिः सह शत्रून् हत्वा विद्याधर्मद्वाराणि प्रकाशितानि कुरु ॥३६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। विद्वांसः सूर्यवद्विद्याधर्मप्रकाशकाः स्युर्विद्वद्भिः सह शान्त्या प्रीत्या सत्याऽसत्ययोर्विवेकाय संवादान् कृत्वा सुनिश्चित्य सर्वान्निःसंशयाञ्जनान् कुर्युः ॥३६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. विद्वान लोकांनी सूर्याप्रमाणे विद्या व धर्माचा प्रसार करावा. शांती व प्रेम यासाठी विद्वानांबरोबर सत्या-सत्याचा विवेकपूर्ण संवाद करावा व चांगल्याप्रकारे निश्चय करून सर्व माणसांना संशयरहित बनवावे.
३७ नराशंसः प्रति
विश्वास-प्रस्तुतिः ...{Loading}...
नरा॒शँसः॒ प्रति॒ शूरो॒ मिमा॑न॒स्तनू॒नपा॒त् प्रति॑ य॒ज्ञस्य॒ धाम॑। गोभि॑र्व॒पावा॒न् मधु॑ना सम॒ञ्जन् हिर॑ण्यैश्च॒न्द्री य॑जति॒ प्रचे॑ताः ॥३७ ॥
मूलम् ...{Loading}...
नरा॒शँसः॒ प्रति॒ शूरो॒ मिमा॑न॒स्तनू॒नपा॒त् प्रति॑ य॒ज्ञस्य॒ धाम॑। गोभि॑र्व॒पावा॒न् मधु॑ना सम॒ञ्जन् हिर॑ण्यैश्च॒न्द्री य॑जति॒ प्रचे॑ताः ॥३७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नरा॒शँसः॑। प्रति॑। शूरः॑। मिमा॑नः। तनू॒नपा॒दिति॒ तनू॒ऽनपा॑त्। प्रति॑। य॒ज्ञस्य॑। धाम॑। गोभिः॑। व॒पावा॒निति॑ व॒पाऽवा॑न्। मधु॑ना। स॒म॒ञ्जन्निति॑ सम्ऽअ॒ञ्जन्। हिर॑ण्यैः। च॒न्द्री। य॒ज॒ति॒। प्रचे॑ता॒ इति॒ प्रऽचे॑ताः। ३७।
महीधरः
म० एवंविध इन्द्र आयातु आगच्छतु । कीदृशः । देवैरीडितः पूजितः स्तुतः । हरिवान् हरी इन्द्राश्वौ अस्य स्त इति हरिवान् । अभिष्टिः अभि समन्तादिष्टिर्यागो यस्य । इलोपश्छान्दसः । यद्वा अभिस्तूयत इत्यभिष्टिः । स्तोतेरौणादिको डिप्रत्ययः । आजुह्वानः आहूयमान ऋत्विग्भिः हविषा निमित्तेन हविर् निमित्तं द्विजैराहूयमानः । शर्धमानः शर्ध इति बलनाम । अतिबलायमानः । पुरं रिपुनगरं दारयति पुरन्दरः । गोत्रभित् गां भूमिं वृष्ट्या त्रायन्ते गोत्रा मेघाः तान् वृष्ट्यर्थं भिनत्ति गोत्रभित्, गोत्रान् गिरीन् वा भिनत्ति । वज्रबाहुः वज्रधरः। नोऽस्माकं यज्ञमुपजुषाणः उपसेवमानः ॥ ३८ ॥
एकोनचत्वारिंशी।
अधिमन्त्रम् (VC)
- तनूनपाद्देवता देवता
- आङ्गिरस ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर प्रकारान्तर से विद्वानों के विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (नराशंसः) जो मनुष्यों से प्रशंसा किया जाता (यज्ञस्य) सत्य व्यवहार के (धाम) स्थान का और (प्रति, मिमानः) अनेक उत्तम पदार्थों का निर्माण करनेहारा (शूरः) सब ओर से निर्भय (तनूनपात्) जो शरीर का पात न करनेहारा (गोभिः) गाय और बैलों से (वपावान्) जिससे क्षेत्र बोये जाते हैं, उस प्रशंसित उत्तम क्रिया से युक्त (मधुना) मधुरादि रस से (समञ्जन्) प्रकट करता हुआ (हिरण्यैः) सुवर्णादि पदार्थों से (चन्द्री) बहुत सुवर्णवान् (प्रचेताः) उत्तम प्रज्ञायुक्त विद्वान् (प्रति, यजति) यज्ञ करता कराता है, सो हमारे आश्रय के योग्य है ॥३७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को योग्य है कि किसी निन्दित, भीरु, अपने शरीर के नाश करनेहारे, उद्यमहीन, आलसी, मूढ़ और दरिद्री का संग कभी न करें ॥३७ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ प्रकारान्तरेण विद्वद्विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यो नराशंसो यज्ञस्य धाम प्रति मिमानः शूरस्तनूनपाद् गोभिर्वपावान् मधुना समञ्जन् हिरण्यैश्चन्द्री प्रचेताः प्रति यजति, सोऽस्माभिराश्रयितव्यः ॥३७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैः कश्चिन्निन्दितो भीरुः स्वशरीरनाशक उद्यमहीनोऽलसो मूढो दरिद्रश्च नैव संगन्तव्यः ॥३७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी निंदित, भीरू व शरीराचा नाश करणारे उद्योगहीन, आळशी, मूढ व दरिद्री यांची संगत कधी धरता कामा नये.
३८ ईडितो देवैर्हरिवाँ२ऽअभिष्टिराजुह्वानो
विश्वास-प्रस्तुतिः ...{Loading}...
ई॒डि॒तो दे॒वैर्हरि॑वाँ२ऽअभि॒ष्टिरा॒जुह्वा॑नो ह॒विषा॒ शर्द्ध॑मानः। पु॒र॒न्द॒रो गो॑त्र॒भिद्वज्र॑बाहु॒राया॑तु य॒ज्ञमुप॑ नो जुषा॒णः ॥३८ ॥
मूलम् ...{Loading}...
ई॒डि॒तो दे॒वैर्हरि॑वाँ२ऽअभि॒ष्टिरा॒जुह्वा॑नो ह॒विषा॒ शर्द्ध॑मानः। पु॒र॒न्द॒रो गो॑त्र॒भिद्वज्र॑बाहु॒राया॑तु य॒ज्ञमुप॑ नो जुषा॒णः ॥३८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ई॒डि॒तः। दे॒वैः। हरि॑वा॒निति॒ हरि॑ऽवान्। अ॒भि॒ष्टिः। आ॒जुह्वा॑न॒ इत्या॒ऽजुह्वा॑नः। ह॒विषा॑। शर्द्ध॑मानः। पु॒र॒न्द॒र इति॑ पुरम्ऽद॒रः। गो॒त्र॒भिदिति॑ गोत्र॒ऽभित्। वज्र॑बाहु॒रिति॒ वज्र॑ऽबाहुः। आ। या॒तु॒। य॒ज्ञम्। उप॑। नः॒। जु॒षा॒णः। ३८।
महीधरः
म० इन्द्रो नोऽस्माकं प्राचीनं प्राग्भवं प्रदेशं सीदत् सीदतु आस्ताम् । ‘इतश्च लोपः-’ (पा० ३ । ४ । ९७ ) इति इलोपः । कीदृश इन्द्रः । हरिवान् हरी अश्वौ तद्युक्तः । पृथिव्याः प्रदिशा । द्वितीयार्थे षष्ठी । पृथिवीं देवयजनभूमिं प्रदिशन् उपदिशन् प्रदिशतीति प्रदिशन् ‘सुपां सुलुक्-’ (पा. ७।१।३९) इत्यादिना विभक्तेर्डादेशः । उरुप्रथाः । प्रथनं प्रथः ख्यातिः उरु विस्तीर्णं प्रथो यस्य स उरुप्रथाः। सजोषाः जोषणं जोषः असुन्प्रत्ययः । जोषसा प्रीत्या सहितः सजोषाः संतुष्टः । बर्हिर्जुषाणः सेवमानः । शानचि शपो लुक् । कीदृशं बर्हिः । प्रथमानं प्रथते तत् प्रथमानं विस्तीर्णम् स्योनं सुखरूपम् । आदित्यैः वसुभिः मरुद्भिश्च अक्तं म्रक्षितम् बर्हिरञ्जने मन्त्रे आदित्यादीनामुक्तत्वात्तैरक्तम् । ‘सं बर्हिरङ्क्ताᳪं᳭ हविषा घृतेन समादित्यैर्वसुभिः सं मरुद्भिः’ इत्युक्तेः ॥ ३९ ॥
चत्वारिंशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- आङ्गिरस ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! आप जैसे (हरिवान्) उत्तम घोड़ोंवाला (वज्रबाहुः) जिसकी भुजाओं में वज्र विद्यमान (पुरन्दरः) जो शत्रुओं के नगरों का विदीर्ण करनेहारा सेनापति (गोत्रभित्) मेघ को विदीर्ण करनेहारा सूर्य जैसे रसों का सेवन करे, वैसे अपनी सेना का सेवन करता है, वैसे (देवैः) विद्वानों से (ईडितः) प्रशंसित (अभिष्टिः) सब ओर से यज्ञ के करनेहारे (आजुह्वानः) विद्वानों ने सत्कारपूर्वक बुलाये हुए (हविषा) सद्विद्या के दान और ग्रहण से (शर्द्धमानः) सहन करते और (जुषाणः) प्रसन्न होते हुए आप (नः) हमारे (यज्ञम्) यज्ञ को (उप, आ, यातु) अच्छे प्रकार प्राप्त हूजिये ॥३८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे सेनापति सेना को और सूर्य मेघ को बढ़ाकर सब जगत् की रक्षा करता है, वैसे धार्मिक अध्यापकों को अध्ययन करनेहारों के साथ पढ़ना और पढ़ाना कर, विद्या से सब प्राणियों की रक्षा करनी चाहिये ॥३८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यथा हरिवान् वज्रबाहुः पुरन्दरः सेनेशो गोत्रभित् सूर्य्यो रसानिव स्वसेनां सेवते तथा देवैरीडितोऽभिष्टिराजुह्वानो हविषा शर्द्धमानो जुषाणो भवान्नो यज्ञमुपायातु ॥३८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा सेनापतिः सेनां सूर्यो मेघं च वर्द्धयित्वा सर्वं जगद्रक्षति, तथा धार्मिकैरध्यापकैरध्येतृभिः सहाऽध्यापनाध्ययने कृत्वा विद्यया सर्वप्राणिनो रक्षणीयाः ॥३८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसा सेनापती सेनेची व सूर्य मेघांची वृद्धी करून सर्व जगाचे रक्षण करतो तसे धार्मिक अध्यापकांनी अध्ययन, अध्यापन करून विद्येने सर्व प्राण्यांचे रक्षण केले पाहिजे.
३९ जुषाणो बर्हिर्हरिवान्नऽइन्द्रः
विश्वास-प्रस्तुतिः ...{Loading}...
जु॒षा॒णो ब॒र्हिर्हरि॑वान्न॒ऽइन्द्रः॑ प्रा॒चीनँ॑ सीदत् प्र॒दिशा॑ पृथि॒व्याः। उ॒रु॒प्रथाः॒ प्रथ॑मानँ स्यो॒नमा॑दि॒त्यैर॒क्तं वसु॑भिः स॒जोषाः॑ ॥३९ ॥
मूलम् ...{Loading}...
जु॒षा॒णो ब॒र्हिर्हरि॑वान्न॒ऽइन्द्रः॑ प्रा॒चीनँ॑ सीदत् प्र॒दिशा॑ पृथि॒व्याः। उ॒रु॒प्रथाः॒ प्रथ॑मानँ स्यो॒नमा॑दि॒त्यैर॒क्तं वसु॑भिः स॒जोषाः॑ ॥३९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
जु॒षा॒णः। ब॒र्हिः। हरि॑वा॒निति॒ हरि॑ऽवान्। नः॒। इन्द्रः॑। प्रा॒चीन॑म्। सी॒द॒त्। प्र॒दिशेति॑ प्र॒ऽदिशा॑। पृ॒थि॒व्याः। उ॒रु॒प्रथा॒ इत्यु॑रु॒ऽप्रथाः॑। प्रथ॑मानम्। स्यो॒नम्। आ॒दि॒त्यैः। अ॒क्तम्। वसु॑भि॒रिति॒ वसु॑ऽभिः। स॒जोषा॒ इति॑ स॒ऽजोषाः॑। ३९।
महीधरः
म० दुरो यज्ञगृहद्वार इन्द्रं यन्तु प्राप्नुवन्तु । कीदृशमिन्द्रम् । वृषाणं वर्षतीति वृषा तं वर्षितारम् । ‘इन्द्रः पृथिव्यै वर्षीयान्’ इत्युक्तेः । वीरं शूरम् । कीदृश्यो दुरः । कवष्यः ‘कु शब्दे’ कूयन्ते कुवन्ति शब्दयन्ति वा जना यासु ताः कवष्यः ससुषिराः सच्छिद्रे एव शब्दप्रसरात् । कौतेरौणादिकोऽषट्प्रत्ययः । तथा धावमानाः धावन्ते धावमानाः । आदरयुक्ता इत्यर्थः । तथोपमानं जनयः सुपत्नीः शोभनाः साध्व्यः पत्न्यो यज्ञैः सहाधिकारिण्यो जायाः स्त्रिय इव । लुप्तोपमानम् । ता | यथा धावमानाः यन्ति यान्ति तथा द्वार इन्द्रं यान्तु । किंच | इन्द्रं प्राप्य द्वारो देवीः देव्यः अभितः सर्वत्र विश्रयन्तां निवृत्ता भवन्तु । कीदृश्यो द्वारः । सुवीराः शोभना वीरा ऋत्विजो यासु ताः सुवीराः ऋत्विग्युक्ताः । महोभिस्तेजोभिरुत्सवैर्वा प्रथमानाः विस्तृता भवन्त्यः ॥ ४० ॥
एकचत्वारिंशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- आङ्गिरस ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! जैसे (बर्हिः) अन्तरिक्ष को (जुषाणः) सेवन करता हुआ (हरिवान्) जिस के हरणशील बहुत किरणें विद्यमान (उरुप्रथाः) बहुत विस्तार युक्त (आदित्यैः) महीनों और (वसुभिः) पृथिव्यादि लोकों के (सजोषाः) साथ वर्त्तमान (इन्द्रः) जलों का धारणकर्त्ता सूर्य्य (पृथिव्याः) पृथिवी से (प्रदिशा) उपदिशा के साथ (प्रथमानम्) विस्तीर्ण (अक्तम्) प्रसिद्ध (प्राचीनम्) पुरातन (स्योनम्) सुखकारक स्थान को (सीदत्) स्थित होता है, वैसे तू (नः) हमारे मध्य में हो ॥३९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को योग्य है कि रात-दिन प्रयत्न से आदित्य के तुल्य अविद्यारूपी अन्धकार का निवारण करके जगत् में बड़ा सुख प्राप्त करें। जैसे पृथिवी से सूर्य बड़ा है, वैसे अविद्वानों में विद्वान् को बड़ा जानें ॥३९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यथा बर्हिर्जुषाणो हरिवान् उरुप्रथा आदित्यैर्वसुभिः सजोषा इन्द्रः पृथिव्याः प्रदिशा प्रथमानमक्तं प्राचीनं स्योनं सीदत् तथा त्वं नोऽऽस्माकं मध्ये भव ॥३९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैरहर्निशं प्रयत्नादादित्यवदविद्यान्धकारं निवार्य जगति महत्सुखं कार्य्यम्। यथा पृथिव्याः सकाशात् सूर्यो महान् वर्तते, तथाऽविदुषां मध्ये विद्वानिति बोध्यम् ॥३९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी रात्रंदिवस प्रयत्न करून सूर्याप्रमाणे अविद्यारूपी अंधःकाराचे निवारण करून या जगात सुख प्राप्त करावे. जसा पृथ्वीपेक्षा सूर्य मोठा आहे, तसे अविद्वानांमध्ये विद्वान मोठा असतो हे जाणावे.
४० इन्द्रं दुरः
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रं॒ दुरः॑ कव॒ष्यो᳙ धाव॑माना॒ वृषा॑णं यन्तु॒ जन॑यः सु॒पत्नीः॑। द्वारो॑ दे॒वीर॒भितो॒ विश्र॑यन्ताँ सु॒वीरा॑ वी॒रं प्रथ॑माना॒ महो॑भिः ॥४० ॥
मूलम् ...{Loading}...
इन्द्रं॒ दुरः॑ कव॒ष्यो᳙ धाव॑माना॒ वृषा॑णं यन्तु॒ जन॑यः सु॒पत्नीः॑। द्वारो॑ दे॒वीर॒भितो॒ विश्र॑यन्ताँ सु॒वीरा॑ वी॒रं प्रथ॑माना॒ महो॑भिः ॥४० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इन्द्र॑म्। दुरः॑। क॒व॒ष्यः᳖। धाव॑मानाः। वृषा॑णम्। य॒न्तु॒। जन॑यः। सु॒पत्नी॒रिति॑ सु॒ऽपत्नीः॑। द्वारः॑। दे॒वीः। अ॒भितः॑। वि। श्र॒य॒न्ता॒म्। सु॒वीरा॒ इति॑ सु॒ऽवीराः॑। वी॒रम्। प्रथ॑मानाः। महो॑भि॒रिति॒ महः॑ऽभिः। ४०।
महीधरः
म० उषासानक्ता इन्द्रं यजतः सङ्गतं कुरुतः । इन्द्रेण सङ्गमं कुरुतः । यजिरत्र सङ्गतिकरणार्थः । उषा आदित्यप्रभा नक्ता रात्रिः उषाश्च नक्ता च उषासानक्ता । समासे उषःशब्दस्योषासादेशः । किंभूतमिन्द्रम् । बृहन्तं महान्तं शूरं विक्रान्तं देवानां देवं सर्वदेवपूज्यम् । कीदृश्यौ उषासानक्ता । बृहती बृहत्यौ पयस्वती उदकवत्यौ अवश्यायवत्यौ । सुदुघे शोभनं दुग्धः ते ‘दुहः कब्घश्च’ (पा० ३ । २ । ७०) इति कप् घादेशश्च । पेशसा विचित्ररूपेण संवयन्ती संग्रथयन्त्यौ इन्द्रं रूपेण योजयन्त्यौ । तत्र दृष्टान्तः । तन्तुमिव यथा पटार्थं ततं - विस्तीर्णं तन्तुं सूत्ररूपेण कश्चित् संवयति । तथा सुरुक्मौ शोभनं रुक्मं रोचनं कान्तिर्ययोस्ते सुरुक्मौ ॥ ४१॥
द्विचत्वारिंशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- आङ्गिरस ऋषिः
- भुरिक्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर प्रकारान्तर से उपदेश विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (कवष्यः) बोलने में चतुर (वृषाणम्) अति वीर्यवान् (इन्द्रम्) परमैश्वर्यवाले (वीरम्) वीर पुरुष के प्रति (धावमानाः) दौड़ती हुई (जनयः) सन्तानों को जननेवाली स्त्रियाँ (दुरः) द्वारों को (यन्तु) प्राप्त हों वा जैसे (प्रथमानाः) प्रख्यात (सुवीराः) अत्युत्तम वीर पुरुष (महोभिः) अच्छे पूजित गुणों से युक्त (द्वारः) द्वार के तुल्य वर्त्तमान (देवीः) विद्यादि गुणों से प्रकाशमान (सुपत्नीः) अच्छी स्त्रियों को (अभितः) सब ओर से (वि, श्रयन्ताम्) विशेष कर आश्रय करें, वैसे तुम भी किया करो ॥४० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जिस कुल वा देश में परस्पर प्रीति से स्वयंवर विवाह करते हैं, वहाँ मनुष्य सदा आनन्द में रहते हैं ॥४० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः प्रकारान्तरेणोपदेशविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा कवष्यो वृषाणं वीरमिन्द्रं धावमाना जनयो दुरो यन्तु, यथा प्रथमानाः सुवीरा महोभिर्द्वारो देवीः सुपत्नीरभितो विश्रयन्ताम्, तथा यूयमप्याचरत ॥४० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यत्र परस्परस्य प्रीत्या स्वयंवरं विवाहं कुर्वन्ति, तत्र मनुष्याः सदा नन्दन्ति ॥४० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. ज्या कुळात किंवा ज्या देशात परस्पर प्रेमाने स्वयंवर विवाह होतात तेथे माणसे नेहमी आनंदात राहतात.
४१ उषासानक्ता बृहती
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒षासा॒नक्ता॑ बृह॒ती बृ॒हन्तं॒ पय॑स्वती सु॒दुघे॒ शूर॒मिन्द्र॑म्। तन्तुं॑ त॒तं पेश॑सा सं॒वय॑न्ती दे॒वानां॑ दे॒वं य॑जतः सुरु॒क्मे ॥४१ ॥
मूलम् ...{Loading}...
उ॒षासा॒नक्ता॑ बृह॒ती बृ॒हन्तं॒ पय॑स्वती सु॒दुघे॒ शूर॒मिन्द्र॑म्। तन्तुं॑ त॒तं पेश॑सा सं॒वय॑न्ती दे॒वानां॑ दे॒वं य॑जतः सुरु॒क्मे ॥४१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उ॒षासा॒नक्ता॑। उ॒षसा॒नक्तेत्यु॒षसा॒ऽक्ता॑। बृ॒ह॒तीऽइति॑ बृह॒ती। बृ॒हन्त॑म्। पय॑स्वती॒ऽइति॒ पय॑स्वती। सु॒दुघे॒ऽइति॑ सु॒दुघे॑। शूर॑म्। इन्द्र॑म्। तन्तु॑म्। त॒तम्। पेश॑सा। सं॒वय॑न्ती॒ इति॑ स॒म्ऽवय॑न्ती। दे॒वाना॑म्। दे॒वम्। य॒ज॒तः॒। सु॒रु॒क्मे इति॑ सुऽरु॒क्मे। ४१।
महीधरः
म० अयं चाग्निरसौ च वायुर्मध्यमस्तौ देवानामिमौ दैव्यौ होतारौ वाय्वग्नी प्राचीनं प्राच्यां दिशि वर्तमानं ज्योतिराहवनीयाख्यं मधुना मधुरेण हविषा कृत्वा वृधातः वर्धयतः । वृधेः ‘लेटोऽडाटौ’ (पा० ३ । ४ । ९४) इत्याट् । कीदृशौ । होतारौ पुरुत्रा बहुधा मिमाना मिमानौ यज्ञं निर्मिमाणौ । मनुषः मानुषाद्धोतुः प्रथमा आद्यौ । मनुषः इति प्रथमा पञ्चम्यर्थे । सुवाचा सुवाचौ शोभना वाक् ययोस्तौ । यज्ञस्य मूर्धन् मूर्धनि प्रधानेऽङ्गे इन्द्रं दधाना स्थापयन्तौ । सर्वत्र प्रथमाद्विवचनस्याकारः ॥ ४२ ॥
त्रिचत्वारिंशी।
अधिमन्त्रम् (VC)
- उषासानक्ता देवते
- आङ्गिरस ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (पेशसा) रूप से (संवयन्ती) प्राप्त करनेहारे (पयस्वती) रात्रि के अन्धकार से युक्त (सुदुघे) अच्छे प्रकार पूर्ण करनेवाले (बृहती) बढ़ते हुए (सुरुक्मे) अच्छे प्रकाशवाले (उषासानक्ता) रात्रि और दिन (ततम्) विस्तारयुक्त (देवानाम्) पृथिव्यादिकों के (देवम्) प्रकाशक (बृहन्तम्) बड़े (इन्द्रम्) सूर्य्यमण्डल को (यजतः) संग करते हैं, वैसे ही (तन्तुम्) विस्तार करनेहारे (शूरम्) शूरवीर पुरुष को तुम लोग प्राप्त होओ ॥४१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे सब लोक सब से बड़े सूर्यलोक का आश्रय करते हैं, वैसे ही श्रेष्ठ पुरुष का आश्रय सब लोग करें ॥४१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा पेशसा संवयन्ती पयस्वती सुदुघे बृहती सुरुक्मे उषासानक्ता ततं देवानां देवं बृहन्तमिन्द्रं सूर्यं यजतस्तथैव तन्तुं शूरं पुरुषं यूयं सङ्गच्छध्वम् ॥४१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा सर्वे लोका अखिलेभ्यो बृहत्तमं सूर्यलोकमाश्रयन्ति, तथैव सर्वे श्रेष्ठतमं पुरुषमाश्रयन्तु ॥४१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. सर्व ग्रहगोल जसे सूर्याच्या आधाराने राहतात, तसेच सर्व लोकांनी श्रेष्ठ पुरुषांचा आधार घ्यावा.
४२ दैव्या मिमाना
विश्वास-प्रस्तुतिः ...{Loading}...
दैव्या॒ मिमा॑ना॒ मनु॑षः पुरु॒त्रा होता॑रा॒विन्द्रं॑ प्रथ॒मा सु॒वाचा॑। मू॒र्द्धन् य॒ज्ञस्य॒ मधु॑ना॒ दधा॑ना प्रा॒चीनं॒ ज्योति॑र्ह॒विषा॑ वृधातः ॥४२ ॥
मूलम् ...{Loading}...
दैव्या॒ मिमा॑ना॒ मनु॑षः पुरु॒त्रा होता॑रा॒विन्द्रं॑ प्रथ॒मा सु॒वाचा॑। मू॒र्द्धन् य॒ज्ञस्य॒ मधु॑ना॒ दधा॑ना प्रा॒चीनं॒ ज्योति॑र्ह॒विषा॑ वृधातः ॥४२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दैव्या॑। मिमा॑ना। मनु॑षः। पु॒रु॒त्रेति॑ पुरु॒ऽत्रा। होता॑रौ। इन्द्र॑म्। प्र॒थ॒मा। सु॒वाचेति॑ सु॒ऽवाचा॑। मू॒र्द्धन्। य॒ज्ञस्य॑। मधु॑ना। दधा॑ना। प्रा॒चीन॑म्। ज्योतिः॑। ह॒विषा॑। वृ॒धा॒तः॒। ४२।
महीधरः
म० सरस्वती इडा भारती तिस्रो देव्यः पयसा हविषा कृत्वा तन्तुं यज्ञमच्छिन्नं छेदेन विघ्नेन रहितं कुर्वन्विति शेषः। | वर्धमानाः पुष्टियुक्ताः । पत्नीः पत्न्यः साध्व्यो जनयो न जाया इव इन्द्रं जुषाणाः सेवमानाः । देवीः दीप्यमानाः विश्वस्मिन् सर्वत्र त्वरते तूर्णं गच्छति विश्वतूर्तिः सर्वगामिनीति द्वे विशेषणे तिसृणाम् ॥ ४३ ॥
चतुश्चत्वारिंशी।
अधिमन्त्रम् (VC)
- दैव्याध्यापकोपदेशकौ देवते
- आङ्गिरस ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (दैव्या) दिव्य पदार्थों और विद्वानों में हुए (मिमाना) निर्माण करनेहारे (होतारौ) दाता (सुवाचा) जिनकी सुशिक्षित वाणी वे विद्वान् (यज्ञस्य) संग करने योग्य व्यवहार के (मूर्द्धन्) ऊपर (प्रथमा) वर्त्तमान (पुरुत्रा) बहुत (मनुषः) मनुष्यों को (दधाना) धारण करते हुए (मधुना) मधुरादिगुणयुक्त (हविषा) होम करने योग्य पदार्थ से (प्राचीनम्) पुरातन (ज्योतिः) प्रकाश और (इन्द्रम्) परम ऐश्वर्य को (वृधातः) बढ़ाते हैं, वे सब मनुष्यों के सत्कार करने योग्य हैं ॥४२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो विद्वान् पढ़ाने और उपदेश से सब मनुष्यों को उन्नति देते हैं, वे सम्पूर्ण मनुष्यों को सुभूषित करनेहारे हैं ॥४२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यौ दैव्या मिमाना होतारौ सुवाचा यज्ञस्य मूर्द्धन् प्रथमा वर्त्तमानो पुरुत्रा मनुषो दधाना मधुना हविषा प्राचीनं ज्योतिरिन्द्रं वृधातस्तौ सर्वैर्मनुष्यैः सत्कर्तव्यौ ॥४२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये विद्वांसोऽध्यापनोपदेशाभ्यां सर्वान् मनुष्यानुन्नयन्ति, तेऽखिलजनसुभूषकाः सन्ति ॥४२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे विद्वान अध्ययन अध्यापनाने सर्व माणसांना उन्नत करतात ते संपूर्ण माणसांना सुशोभित करतात.
४३ तिस्रो देवीर्हविषा
विश्वास-प्रस्तुतिः ...{Loading}...
ति॒स्रो दे॒वीर्ह॒विषा॒ वर्द्ध॑माना॒ऽइन्द्रं॑ जुषा॒णा जन॑यो॒ न पत्नीः॑। अ॑च्छिन्नं॒ तन्तुं॒ पय॑सा॒ सर॑स्व॒तीडा॑ दे॒वी भार॑ती वि॒श्वतू॑र्त्तिः ॥४३ ॥
मूलम् ...{Loading}...
ति॒स्रो दे॒वीर्ह॒विषा॒ वर्द्ध॑माना॒ऽइन्द्रं॑ जुषा॒णा जन॑यो॒ न पत्नीः॑। अ॑च्छिन्नं॒ तन्तुं॒ पय॑सा॒ सर॑स्व॒तीडा॑ दे॒वी भार॑ती वि॒श्वतू॑र्त्तिः ॥४३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ति॒स्रः। दे॒वीः। ह॒विषा॑। वर्द्ध॑मानाः। इन्द्र॑म्। जु॒षा॒णाः। जन॑यः। न। पत्नीः॑। अच्छि॑न्नम्। तन्तु॑म्। पय॑सा। सर॑स्वती। इडा॑। दे॒वी। भार॑ती। वि॒श्वतू॑र्त्ति॒रिति॑ वि॒श्वऽतू॑र्त्तिः। ४३।
महीधरः
म० त्वष्टा यज्ञस्य मूर्धन् मूर्धनि शिरःस्थानीये आहवनीये देवान् समनक्तु भोजयतु । अन्तर्भूतण्यर्थोऽनक्तिरत्र भोजनार्थः । कीदृशस्त्वष्टा । यशसे यशस्विने वृष्णे सेक्त्रे इन्द्राय पुरूणि । वचनव्यत्ययः । पुरु बहु शुष्मं बलं दधत् धारयन् । तथा अपाकः इति प्रशस्यनाम । न विद्यते पाकः प्रशस्यो यस्मात्सोऽपाकः । ‘नञोऽस्त्यर्थानां बहुव्रीहिर्वाच्यो वाचोत्तरपदलोपश्च’ इति समासः । अचिष्टुः अञ्चनशीलः सर्वत्र गतः । वृषा वर्षिता वृषणमिन्द्रं यजन् पूजयन् । भूरिरेताः भूरि बहु रेतो वीर्यं यस्य सः। सर्वजनक इत्यर्थः । ‘त्वष्टा त्वक्षतेः करोत्यर्थस्य’ (निरु० ८ । १३) इति यास्कोक्तेः । ईदृशस्त्वष्टा देवान्भोजयत्वित्यर्थः ॥ ४४ ॥
पञ्चचत्वारिंशी।
अधिमन्त्रम् (VC)
- तिस्रो देव्यो देवताः
- आङ्गिरस ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (विश्वतूर्त्तिः) जगत् में शीघ्रता करनेहारी (देवी) प्रकाशमान (सरस्वती) उत्तम विज्ञानयुक्त वा (इडा) शुभगुणों से स्तुति करने योग्य तथा (भारती) धारण और पोषण करनेहारी ये (तिस्रः) तीन (देवीः) प्रकाशमान शक्तियाँ (पयसा) शब्द, अर्थ और सम्बन्ध रूप रस से (हविषा) देने-लेने के व्यवहार और प्राण से (वर्द्धमानाः) बढ़ती हुई (जनयः) सन्तानोत्पत्ति करनेहारी (पत्नीः) स्त्रियों के (न) समान (अच्छिन्नम्) छेद-भेदरहित (तन्तुम्) विस्तारयुक्त (इन्द्रम्) बिजुली का (जुषाणाः) सेवन करनेहारे हैं, उनका सेवन तुम लोग किया करो ॥४३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जो विद्वान् से युक्त वाणी, नाड़ी और धारण करनेवाली शक्ति ये तीन प्रकार की शक्तियाँ सर्वत्र व्याप्त, सर्वदा उत्पन्न हुई व्यवहार के हेतु हैं, उनको मनुष्य लोग व्यवहारों में यथावत् प्रयुक्त करें ॥४३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! या विश्वतूर्त्तिर्देवी सरस्वतीडा भारती च तिस्रो देवीर्देव्यः पयसा हविषा वर्द्धमाना जनयः पत्नीर्नेवाऽच्छिन्नं तन्तुमिन्द्रं जुषाणाः सन्ति, ता यूयं सेवध्वम् ॥४३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। या विद्वत्संयुक्ता वाङ्नाडीधारणशक्तयस्त्रिविधाः सर्वाभिव्याप्ताः सर्वदा प्रसूता व्यवहारहेतवः सन्ति, ता मनुष्यैर्व्यवहारेषु यथावत्संयोक्तव्याः ॥४३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. विद्वानांकडून युक्त असलेली वाणी, नाडी व धारण करणारी शक्ती अशा तीन प्रकारच्या शक्ती सर्वत्र व्याप्त असतात. त्या शक्ती सर्व व्यवहाराचे कारण असतात. त्यांचा माणसांनी व्यवहारात यथायोग्य उपयोग करून घ्यावा.
४४ त्वष्टा दधच्छुष्ममिन्द्राय
विश्वास-प्रस्तुतिः ...{Loading}...
त्वष्टा॒ दध॒च्छुष्म॒मिन्द्रा॑य॒ वृष्णे॑ऽपा॒कोऽचि॑ष्टुर्य॒शसे॑ पु॒रूणि॑। वृषा॒ यज॒न्वृष॑णं॒ भूरि॑रेता मू॒र्द्धन् य॒ज्ञस्य॒ सम॑नक्तु॒ दे॒वान् ॥४४ ॥
मूलम् ...{Loading}...
त्वष्टा॒ दध॒च्छुष्म॒मिन्द्रा॑य॒ वृष्णे॑ऽपा॒कोऽचि॑ष्टुर्य॒शसे॑ पु॒रूणि॑। वृषा॒ यज॒न्वृष॑णं॒ भूरि॑रेता मू॒र्द्धन् य॒ज्ञस्य॒ सम॑नक्तु॒ दे॒वान् ॥४४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
त्वष्टा॑। दध॑त्। शुष्म॑म्। इन्द्रा॑य। वृष्णे॑। अपा॑कः। अचि॑ष्टुः। य॒शसे॑। पु॒रूणि॑। वृषा॑। यज॑न्। वृष॑णम्। भूरि॑रेता॒ इति॒ भूरि॑ऽरेताः। मू॒र्द्धन्। य॒ज्ञस्य॑। सम्। अ॒न॒क्तु॒। दे॒वान्। ४४।
महीधरः
म० वनस्पतिर्यूपो देवो मधुना रसेन घृतेन च यज्ञं स्वदाति स्वदतु लेट् । आस्वादयतु समनक्तु वा । कीदृशो वनस्पतिः । अवसृष्टो न आज्ञप्त इव पाशैः कृत्वा । त्मन्या आत्मनि समञ्जन् अर्थात् पशुं संयोजयन् । आत्मन्शब्दस्य तृतीयाया यादेशः । ‘मन्त्रेष्वाड्यादेरात्मनः’ (पा० ६ । ४ । १४१) इति आलोपः । तत्र दृष्टान्तः । शमिता न शमिता इव । यथा शमिता पाशैः पशुमात्मनि संयोजयति तथा हव्यैरिन्द्रस्य जठरमुदरं पृणानः पूरयन् पृणीतेऽसौ पृणानः ॥ ४५ ॥
षट्चत्वारिंशी।
अधिमन्त्रम् (VC)
- त्वष्टा देवता
- आङ्गिरस ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर विद्वज्जन के विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! जैसे (त्वष्टा) विद्युत् के समान वर्त्तमान विद्वान् (वृषा) सेचनकर्त्ता (इन्द्राय) परमैश्वर्य और (वृष्णे) पराये सामर्थ्य को रोकनेहारे के लिये (शुष्मम्) बल को (अपाकः) अप्रशंसनीय (अचिष्टुः) प्राप्त होनेहारा (यशसे) कीर्ति के लिये (पुरूणि) बहुत पदार्थों को (दधत्) धारण करते हुए (भूरिरेताः) अत्यन्त पराक्रमी (वृषणम्) मेघ को (यजन्) संगत करता हुआ (यज्ञस्य) संगति से उत्पन्न हुए जगत् के (मूर्द्धन्) उत्तम भाग में (देवान्) विद्वानों की (समनक्तु) कामना करे, वैसे तू भी कर ॥४४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जब तक मनुष्य शुद्धान्तःकरण नहीं होवे, तब तक विद्वानों का संग, सत्यशास्त्र और प्राणायाम का अभ्यास किया करे, जिससे शीघ्र शुद्धान्तःकरणवान् हो ॥४४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्विद्वद्विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यथा त्वष्टा वृषेन्द्राय वृष्णे शुष्ममपाकोऽचिष्टुर्यशसे पुरूणि दधद् भूरिरेता वृषणं यजन् यज्ञस्य मूर्द्धन् देवान् समनक्तु तथा त्वमपि कुरु ॥४४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यावन् मनुष्यः शुद्धान्तःकरणो न भवेत्, तावद् विद्वत्सङ्गसत्यशास्त्रप्राणायामाभ्यासं च कुर्याद्, यतः शीघ्रं शुद्धान्तःकरणः स्यादिति ॥४४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जोपर्यंत मानवाचे अंतःकरण शुद्ध होत नाही, तोपर्यंत विद्वानांची संगत, सत्यशास्र व प्राणायाम यांचा अभ्यास करावा. त्यामुळे लवकरात लवकर अंतःकरण शुद्ध होईल.
४५ वनस्पतिरवसृष्टो न
विश्वास-प्रस्तुतिः ...{Loading}...
वन॒स्पति॒रव॑सृष्टो॒ न पाशै॒स्त्मन्या॑ सम॒ञ्जञ्छ॑मि॒ता न दे॒वः। इन्द्र॑स्य ह॒व्यैर्ज॒ठरं॑ पृणा॒नः स्वदा॑ति य॒ज्ञं मधु॑ना घृ॒तेन॑ ॥४५ ॥
मूलम् ...{Loading}...
वन॒स्पति॒रव॑सृष्टो॒ न पाशै॒स्त्मन्या॑ सम॒ञ्जञ्छ॑मि॒ता न दे॒वः। इन्द्र॑स्य ह॒व्यैर्ज॒ठरं॑ पृणा॒नः स्वदा॑ति य॒ज्ञं मधु॑ना घृ॒तेन॑ ॥४५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वन॒स्पतिः॑। अव॑सृष्ट॒ इत्य॒वऽसृ॑ष्टः। न। पाशैः॑। त्मन्या॑। स॒म॒ञ्जन्निति॑ सम्ऽअ॒ञ्जन्। श॒मि॒ता। न। दे॒वः। इन्द्र॑स्य। ह॒व्यैः। ज॒ठर॑म्। पृ॒णा॒नः। स्वदा॑ति। य॒ज्ञम्। मधु॑ना। घृ॒तेन॑। ४५।
महीधरः
म० इन्द्रः स्वाहा देवाः । नामैकदेशे नामग्रहणम् । स्वाहाकृतयो देवाश्च मादयन्तां तृप्यन्तु । ‘मद तृप्तौ’ चुरादिः। किमुद्दिश्य स्तोकानामिन्दुं प्रति स्तोका वपासंबन्धिनो घृतबिन्दवः तत्संबन्धी य इन्दुः सोमः तंप्रति तमुद्दिश्य वपास्तोकेषु सोमत्वमारोप्यते । वपास्तोकरूपं सोममुद्दिश्येन्द्रः स्वाहाकृतयश्च तृप्यन्तामित्यर्थः । कीदृश इन्द्रः । शूरः शौर्यवान् वृषायमाणः वृषवदाचरति वृषायते वृषायतेऽसौ वृषायमाणः । शत्रून्प्रति गर्जन्नित्यर्थः । वृषभः वर्षिता । तुराषाट् तूर्णं सहते शत्रूनभिभवतीति तुराषाट् । कीदृशाः स्वाहाकृतयः । घृतप्रुषा घृतबिन्दुनापि मनसा मोदमानाः मोदन्ते ते मोदमानाः संतुष्टाः। अमृताः अमरणधर्माणः । नास्ति मृतं मरणं येषां ते ॥ ४६ ॥
सप्तचत्वारिंशी।
अधिमन्त्रम् (VC)
- वनस्पतिर्देवता
- आङ्गिरस ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (पाशैः) दृढ़ बन्धनों से (वनस्पतिः) वृक्षसमूह का पालन करनेहारा (अवसृष्टः) आज्ञा दिये हुए पुरुष के (न) समान (त्मन्या) आत्मा के साथ (समञ्जन्) सम्पर्क करता हुआ (देवः) दिव्य सुख का देनेहारा (शमिता) यज्ञ के (न) समान (इन्द्रस्य) ऐश्वर्य्य के (जठरम्) उदर के समान कोश को (पृणानः) पूर्ण करता हुआ (हव्यैः) खाने के योग्य (मधुना) सहत और (घृतेन) घृत आदि पदार्थों से (यज्ञम्) अनुष्ठान करने योग्य यज्ञ को करता हुआ (स्वदाति) अच्छे प्रकार स्वाद लेवे, वह रोगरहित होवे ॥४५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे बड़ आदि वनस्पति बढ़कर फलों को देता है, जैसे बन्धनों से बँधा हुआ चोर पाप से निवृत्त होता है वा जैसे यज्ञ सब जगत् की रक्षा करता है, वैसे यज्ञकर्त्ता युक्त आहार-विहार करनेवाला मनुष्य जगत् का उपकारक होता है ॥४५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यः पाशैर्वनस्पतिरवसृष्टो न त्मन्या समञ्जन् देवः शमिता नेन्द्रस्य जठरं पृणानो हव्यैर्मधुना घृतेन च सह यज्ञं कुर्वन् स्वदाति स रोगहीनः स्यात् ॥४५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा वनस्पतिर्वर्द्धमानः सन् फलानि ददाति यथा पाशैद्धर्बद्धश्चोरः पापान्निवर्त्तते यथा वा यज्ञः सर्वं जगद्रक्षति, तथा यज्ञसेवी युक्ताऽहारविहारी जनो जगदुपकारको भवति ॥४५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जसे वड इत्यादी वनस्पतींची वाढ होऊन फळ प्राप्त होते व बंधन घातल्यामुळे चोर पापापासून दूर होतो. जसे यज्ञ सर्व जगाचे रक्षण करतो तसे युक्त आहार-विहार करणारा यज्ञकर्ता जगाला उपकारक ठरतो.
४६ स्तोकानामिन्दुं प्रति
विश्वास-प्रस्तुतिः ...{Loading}...
स्तो॒काना॒मिन्दुं॒ प्रति॒ शूर॒ऽइन्द्रो॑ वृषा॒यमा॑णो वृष॒भस्तु॑रा॒षाट्। घृ॒त॒प्रुषा॒ मन॑सा॒ मोद॑मानाः॒ स्वाहा॑ दे॒वाऽअ॒मृता॑ मादयन्ताम् ॥४६ ॥
मूलम् ...{Loading}...
स्तो॒काना॒मिन्दुं॒ प्रति॒ शूर॒ऽइन्द्रो॑ वृषा॒यमा॑णो वृष॒भस्तु॑रा॒षाट्। घृ॒त॒प्रुषा॒ मन॑सा॒ मोद॑मानाः॒ स्वाहा॑ दे॒वाऽअ॒मृता॑ मादयन्ताम् ॥४६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स्तो॒काना॑म्। इन्दु॑म्। प्रति॑। शूरः॑। इन्द्रः॑। वृ॒षा॒यमा॑णः। वृष॒यमा॑ण॒ इति॑ वृष॒यऽमा॑णः। वृ॒ष॒भः। तु॒रा॒षाट्। घृ॒त॒प्रुषेति॑ घृत॒ऽप्रुषा॑। मन॑सा। मोद॑मानाः। स्वाहा॑। दे॒वाः। अ॒मृताः॑। मा॒द॒य॒न्ता॒म्। ४६।
महीधरः
म० ‘याज्यानुवाक्याश्च’ (का० १९ । ६।१३। ) वपापुरोडाशपशुयागानां याज्यानुवाक्याः आयात्विन्द्र (४७) इति वपायाः पुरोनुवाक्या, आ न इन्द्रो दूरात् (४८) इति याज्या, आ न इन्द्रो हरिभिः (४९) इति पशुपुरोडाशस्य पुरोऽनुवाक्या, त्रातारमिन्द्रं (५०) इति याज्या, इन्द्रः सुत्रामा (५१) इति पशुयागे पुरोऽनुवाक्या, तस्य वयम् (५२) इति याज्येति सूत्रार्थः । सप्त त्रिष्टुभ इन्द्रदेवत्याः । इन्द्रो नोऽस्मानवसे अवितुं रक्षितुमुप आयातु समीपमागच्छतु । तुमर्थेऽवतेरसेन्प्रत्ययः । इहायातः सन् । सधमात् अस्तु सह देवैः सार्धं मादयति तृप्यतीति सहमात् सहभोजनकर्तास्तु । मादयतेः क्विप् । कीदृश इन्द्रः । शूरः विक्रान्तः । स्तुतोऽस्माभिः । | वावृधानः वर्धमानः । यस्येन्द्रस्य पूर्वीः तविषीः पूर्वाः तविष्यः पूर्वाणि कृतानि बलानि वृत्रवधादयः पराक्रमाः द्यौर्न स्वर्ग इव कथ्यन्ते । स्वर्गो यथा स्तूयते तथा यस्येन्द्रस्य बलानि स्तूयन्ते । तविषीति बलनाम ‘तवतेर्वृद्धिकर्मणः’ (निरु० ९। २५) इति यास्कः । यश्चेन्द्रः क्षत्रमस्मदीयं पुष्यात् पुष्यति ‘लेटोऽडाटौ’ । कीदृशं क्षत्रम् । अभिभूति अभिभवनशीलं शूरम् । स इन्द्र आयात्विति संबन्धः ॥ ४७ ॥
अष्टचत्वारिंशी।
अधिमन्त्रम् (VC)
- स्वाहाकृतयो देवताः
- आङ्गिरस ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जैसे (वृषायमाणः) बलिष्ठ होता हुआ (वृषभः) उत्तम (तुराषाट्) हिंसक शत्रुओं को सहनेहारा (शूरः) शूरवीर (इन्द्रः) ऐश्वर्यवाला (स्तोकानाम्) थोड़ों के (इन्दुम्) कोमल स्वभाववाले मनुष्य के (प्रति) प्रति आनन्दित होता है, वैसे (घृतप्रुषा) प्रकाश के सेवन करनेवाले (मनसा) विज्ञान से और (स्वाहा) सत्य क्रिया से (मोदमानाः) आनन्दित होते हुए (अमृताः) आत्मस्वरूप से मृत्युधर्मरहित (देवाः) विद्वान् लोग (मादयन्ताम्) आप तृप्त होकर हम को आनन्दित करें ॥४६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो मनुष्य अल्पगुणवाले भी मनुष्य को देखकर स्नेहयुक्त होते हैं, वे सब ओर से सब को सुखी कर देते हैं ॥४६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यथा वृषायमाणो वृषभस्तुराषाट् शूर इन्द्र स्तोकानामिन्दुं प्रत्याऽऽनन्दति तथा घृतप्रुषा मनसा स्वाहा च मोदमाना अमृता देवा मादयन्ताम् ॥४६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये जना अल्पगुणमपि जनं दृष्ट्वार्द्रचित्ता भवन्ति, ते सर्वतः सर्वान् सुखयन्ति ॥४६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जी माणसे न्यून गुण असणाऱ्या माणसांवर ही स्नेह करतात ती सर्व तऱ्हेने सर्वांना सुखी करतात.
४७ आयात्विन्द्रोऽवसऽउप नऽइह
विश्वास-प्रस्तुतिः ...{Loading}...
आया॒त्विन्द्रोऽव॑स॒ऽउप॑ नऽइ॒ह स्तु॒तः स॑ध॒माद॑स्तु॒ शूरः॑। वा॒वृ॒धा॒नस्तवि॑षी॒र्यस्य॑ पू॒र्वीर्द्यौर्न क्ष॒त्रम॒भिभू॑ति॒ पुष्या॑त् ॥४७ ॥
मूलम् ...{Loading}...
आया॒त्विन्द्रोऽव॑स॒ऽउप॑ नऽइ॒ह स्तु॒तः स॑ध॒माद॑स्तु॒ शूरः॑। वा॒वृ॒धा॒नस्तवि॑षी॒र्यस्य॑ पू॒र्वीर्द्यौर्न क्ष॒त्रम॒भिभू॑ति॒ पुष्या॑त् ॥४७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ। या॒तु॒। इन्द्रः॑। अव॑से। उप॑। नः॒। इ॒ह। स्तु॒तः। स॒ध॒मादिति॑ सध॒ऽमात्। अ॒स्तु॒। शूरः॑। वा॒वृ॒धा॒नः। व॒वृ॒धा॒नऽइति॑ ववृधा॒नः। तवि॑षीः। यस्य॑। पू॒र्वीः। द्यौः। न। क्ष॒त्रम्। अ॒भिभूतीत्य॒भिऽभू॑ति। पुष्या॑त्। ४७।
महीधरः
म० इन्द्रो नोऽस्माकं दूराद्दूरप्रदेशात् द्युलोकादेरपि आयासत् आयातु । यातेः ‘लेटोऽडाटौ’ (पा० ३ । ४ । ९४) इति अटि कृते ‘सिब्बहुलं लेटि’ (पा० ३।१।३४) इति सिप्प्रत्ययः । आसान्निकटप्रदेशादपि आयासत् । आसादित्यन्तिकनाम । दूरात्समीपाच्चागच्छत्वित्यर्थः । किं कर्तुम् । अवसे अवितुमस्माकं रक्षणं कर्तुम् । कीदृश इन्द्रः । अभिष्टिकृत् अभिष्टिमभिलाषं करोतीत्यभिष्टिकृत् मनोरथप्रदः । उग्रः उत्कृष्टः । ओजिष्ठेभिः तेजस्वितमैर्बलयुक्त इति शेषः । ओजो विद्यते येषां ते ओजस्विनः अत्यन्तमोजस्विन ओजिष्ठाः। विन्मतोर्लुक् तैः । नृपतिः नृणां पालकः । वज्रबाहुः वज्रं बाहौ यस्य सः । तथा सङ्गे समत्सु सङ्गः समदिति द्वे संग्रामनामनी । सङ्गे एकस्मिन् संग्रामे समत्सु बहुष्वपि संग्रामेषु युगपदुत्थितेषु सत्सु पृतन्यून् शत्रून् तुर्वणिः ‘तुर्व हिंसायां’ तुर्वतीति तुर्वणिः हन्ता । पृतनामिच्छन्ति पृतन्यन्ति ‘सुप आत्मनः क्यच्’ (३।१।८) इति क्यचि परे ‘कव्यध्वर-’ (पा० ७।४ । ३९) इत्यलोपः । ततः ‘क्याच्छन्दसि’ (पा० ३।२।१७०) इति उप्रत्ययः । संग्रामेच्छूनां हन्तेत्यर्थः ॥४८॥
एकोनपञ्चाशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- वामदेव ऋषिः
- भुरिक्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब राजधर्मविषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (इन्द्रः) परमैश्वर्य का धारण करनेहारा (इह) इस वर्त्तमान काल में (स्तुतः) प्रशंसा को प्राप्त हुआ (शूरः) निर्भय वीर पुरुष (पूर्वीः) पूर्व विद्वानों ने अच्छी शिक्षा से उत्तम की हुई (तविषीः) सेनाओं को (वावृधानः) अत्यन्त बढ़ानेहारा जन (यस्य) जिस का (अभिभूति) शत्रुओं का तिरस्कार करनेहारा (क्षत्रम्) राज्य (द्यौः) सूर्य के प्रकाश के (न) समान वर्त्तता है जो (नः) हम को (पुष्यात्) पुष्ट करे वह हमारे (अवसे) रक्षा आदि के लिये (उप, आ, यातु) समीप प्राप्त होवे और (सधमात्) समान स्थानवाला (अस्तु) होवे ॥४७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य सूर्य के समान न्याय और विद्या दोनों के प्रकाश करनेहारे, सत्कृत हर्ष और पुष्टि से युक्त सेनावाले, प्रजा की पुष्टि और दुष्टों का नाश करनेहारे हों, वे राज्याधिकारी होवें ॥४७ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ राजधर्मविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - य इन्द्र इह स्तुतः शूरः पूर्वीस्तविषीर्वावृधानो यस्याभिभूति क्षत्रं द्यौर्न वर्त्तते, यो नः पुष्यात् सोऽस्माकमवस उपायातु सधमादस्तु ॥४७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्याः सूर्यवत् न्यायविद्योभयप्रकाशकाः सत्कृतहृष्टपुष्टसेनाः प्रजापोषका दुष्टविनाशकाः स्युस्ते राज्याधिकारिणः सन्तु ॥४७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे सूर्यासारखी न्यायदक्ष व विद्येचा प्रसार, प्रचार करण्यास सक्षम असून, सुसज्जित सेनेने प्रजेचे रक्षण करतात आणि दुष्टांचा नायनाट करतात त्यांनीच राज्याधिकारी बनावे.
४८ आ नऽइन्द्रो
विश्वास-प्रस्तुतिः ...{Loading}...
आ न॒ऽइन्द्रो॑ दू॒रादा न॑ऽआ॒साद॑भिष्टि॒कृदव॑से यासदु॒ग्रः। ओजि॑ष्ठेभिर्नृ॒पति॒र्वज्र॑बाहुः स॒ङ्गे स॒मत्सु॑ तु॒र्वणिः॑ पृत॒न्यून् ॥४८ ॥
मूलम् ...{Loading}...
आ न॒ऽइन्द्रो॑ दू॒रादा न॑ऽआ॒साद॑भिष्टि॒कृदव॑से यासदु॒ग्रः। ओजि॑ष्ठेभिर्नृ॒पति॒र्वज्र॑बाहुः स॒ङ्गे स॒मत्सु॑ तु॒र्वणिः॑ पृत॒न्यून् ॥४८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ। नः॒। इन्द्रः॑। दू॒रात्। आ। नः॒। आ॒सात्। अ॒भि॒ष्टि॒कृदित्य॑भिष्टि॒ऽकृत्। अव॑से। या॒स॒त्। उ॒ग्रः। ओजि॑ष्ठेभिः। नृ॒पति॒रिति॑ नृ॒ऽपतिः॑। वज्र॑बाहु॒रिति॒ वज्र॑ऽबाहुः। स॒ङ्ग इति॑ स॒म्ऽगे। स॒मत्स्विति॑ स॒मत्ऽसु॑। तु॒र्वणिः॑। पृ॒त॒न्यून्। ४८।
महीधरः
म० अच्छाभेरर्थे । इन्द्रोऽर्वाचीनोऽभिमुखः सन् नोऽस्मानच्छ अस्मानभि आयातु । कैः हरिभिरश्वैः । किमर्थम् । अवसे अवनमवः असुन् तस्मै रक्षणाय राधसे धनाय च । आगत्य च वज्री इन्द्रो नोऽस्माकमिमं यज्ञमनु प्रति वाजसातौ अन्नसंभजने निमित्ते तिष्ठति तिष्ठतु लेट् । कीदृशः । मघवा मघं धनमस्यास्तीति धनवान् । विरप्शी विविधं रपति लपतीति विरप्शी महान् ॥ ४९ ॥
पञ्चाशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- वामदेव ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (अभिष्टिकृत्) सब ओर से इष्ट सुख करे (वज्रबाहुः) जिसकी वज्र के समान दृढ़ भुजा (नृपतिः) नरों का पालन करनेहारा (ओजिष्ठेभिः) अति बलवाले योद्धाओं से (उग्रः) दुष्टों पर क्रोध करने और (तुर्वणिः) शीघ्र शत्रुओं का मारनेहारा (इन्द्रः) शत्रुविदारक सेनापति (नः) हमारी (अवसे) रक्षादि के लिये (समत्सु) बहुत संग्रामों में (सङ्गे) प्रसंग में (दूरात्) दूर से और (आसात्) समीप से (आ, यासत्) आवे और (नः) हमारे (पृतन्यून्) सेना और संग्राम की इच्छा करनेहारों की (आ) सदा रक्षा और मान्य करे, वह हम लोगों का भी सदा माननीय होवे ॥४८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - वे ही पुरुष राज्य करने को योग्य होते हैं जो दूरस्थ और समीपस्थ सब मनुष्यादि प्रजाओं की यथावत् समीक्षण और दूत भेजने से रक्षा करते और शूरवीर का सत्कार भी निरन्तर करते हैं ॥४८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - योऽभिष्टिकृद्वज्रबाहुर्नृपतिरोजिष्ठेभिरुग्रस्तुर्वणिरिन्द्रो नोऽवसे समत्सु सङ्गे दूरादासादायासन्नोऽस्मान् पृतन्यून् सततमारक्षेन्मानयेच्च सोऽस्माऽभिरपि सदा माननीयः ॥४८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - त एव राज्यं कर्त्तुमर्हन्ति ये दूरस्थाः समीपस्थाः सर्वाः प्रजा अवेक्षणदूतप्रचाराभ्यां रक्षन्ति, शूरवीराणां सत्कारं च सततं कुर्वन्ति ॥४८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - दूर व जवळ राहणाऱ्या सर्व प्रजेचे यथायोग्य परीक्षण करून दूतांद्वारे माहिती प्राप्त करून जे सर्वांचे रक्षण करतात, तसेच शूरवीरांचा सतत सत्कार करतात तेच पुरुष राज्य करण्यायोग्य असतात.
४९ आ नऽइन्द्रो
विश्वास-प्रस्तुतिः ...{Loading}...
आ नऽइन्द्रो॒ हरि॑भिर्या॒त्वच्छा॑र्वाची॒नोऽव॑से॒ राध॑से च। तिष्ठा॑ति व॒ज्री म॒घवा॑ विर॒प्शीमं य॒ज्ञमनु॑ नो॒ वाज॑सातौ ॥४९ ॥
मूलम् ...{Loading}...
आ नऽइन्द्रो॒ हरि॑भिर्या॒त्वच्छा॑र्वाची॒नोऽव॑से॒ राध॑से च। तिष्ठा॑ति व॒ज्री म॒घवा॑ विर॒प्शीमं य॒ज्ञमनु॑ नो॒ वाज॑सातौ ॥४९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ। नः॒। इन्द्रः॑। हरि॑भि॒रिति॒ हरि॑ऽभिः। या॒तु॒। अच्छ॑। अ॒र्वा॒ची॒नः। अव॑से। राध॑से। च॒। तिष्ठा॑ति। व॒ज्री। म॒घवेति म॒घऽवा॑। वि॒र॒प्शीति॑ विऽर॒प्शी। इ॒मम्। य॒ज्ञम्। अनु॑। नः॒। वाज॑साता॒विति॒ वाज॑ऽसातौ। ४९।
महीधरः
म० गर्गदृष्टा । त्रातारं रक्षितारमिन्द्रम् । अवितारं प्रीणयितारमिन्द्रम् । हवे हवे आह्वाने आह्वाने यज्ञे वा । सुहवं सुखेन हूयते आहूयत इति सुहवम् शूरम् । शक्रम् शक्नोतीति शक्रस्तं समर्थम् । पुरुहूतं पुरुभिर्बहुभिर्हूयते पुरुहूतस्तं बहुभिराहूतम् । ईदृशमिन्द्रं ह्वयामि आह्वयामि । मघवा धनवानिन्द्र आहूतः सन्नोऽस्माकं स्वस्ति अविनाशं धातु दधातु करोतु । विकरणव्यत्ययः । इन्द्रशब्दावृत्तिरादरार्था ॥ ५० ॥
एकपञ्चाशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- वामदेव ऋषिः
- पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (मघवा) परम प्रशंसित धनयुक्त (विरप्शी) महान् (अर्वाचीनः) विद्यादि बल से सन्मुख जानेवाला (वज्री) प्रशंसित शस्त्रविद्या की शिक्षा पाये हुए (इन्द्रः) ऐश्वर्य का दाता सेनाधीश (हरिभिः) अच्छी शिक्षा किये हुए घोड़ों से (नः) हम लोगों की (अवसे) रक्षा आदि के लिये (च) और (राधसे) धन के लिये (वाजसातौ) संग्राम में (अनु, तिष्ठाति) अनुकूल स्थित हो, वह (नः) हमारे (इमम्) इस (यज्ञम्) सत्यन्याय पालन करने रूप राज्यव्यवहार को (अच्छ, आ, यातु) अच्छे प्रकार प्राप्त हो ॥४९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो युद्धविद्या में कुशल बड़े बलवान्, प्रजा और धन की वृद्धि करनेहारे, उत्तम शिक्षा युक्त, हाथी और घोड़ों से युक्त कल्याण ही के आचरण करनेहारे हों, वे ही राजपुरुष होवें ॥४९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यो मघवा विरप्श्यर्वाचीनो वज्रीन्द्रो हरिभिर्नोवसे राधसे च वाजसातौ तिष्ठाति, स न इमं यज्ञमच्छान्वायातु ॥४९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये युद्धविद्याकुशला महाबलिष्ठाः प्रजाधनवर्द्धकास्सुशिक्षिताऽश्वहस्त्यादियुक्ता मङ्गलकारिणस्स्युस्ते हि राजपुरुषास्सन्तु ॥४९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे युद्धात पारंगत असून, अत्यंत बलवान असतात. प्रजा व धन यांची वृद्धी करून प्रशिक्षित हत्ती व घोडे बाळगून असतात, तसेच ज्यांचे आचरण कल्याणकारक असते त्यांनीच राजपुरुष बनावे.
५० त्रातारमिन्द्रमवितारमिन्द्रं हवेहवे
विश्वास-प्रस्तुतिः ...{Loading}...
त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्रँ॒ हवे॑हवे सु॒हवँ॒ शूर॒मिन्द्र॑म्। ह्वया॑मि श॒क्रं पु॑रुहू॒तमिन्द्रँ॑ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विन्द्रः॑ ॥५० ॥
मूलम् ...{Loading}...
त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्रँ॒ हवे॑हवे सु॒हवँ॒ शूर॒मिन्द्र॑म्। ह्वया॑मि श॒क्रं पु॑रुहू॒तमिन्द्रँ॑ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विन्द्रः॑ ॥५० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
त्रा॒तार॑म्। इन्द्र॑म्। अ॒वि॒तार॑म्। इन्द्र॑म्। हवे॑हव॒ इति॒ हवे॑ऽहवे। सु॒हव॒मिति॑ सु॒ऽहव॑म्। शूर॑म्। इन्द्र॑म्। ह्वया॑मि। श॒क्रम्। पु॒रु॒हू॒तमिति॑ पुरुऽहू॒तम्। इन्द्र॑म्। स्व॒स्ति। नः॒। म॒घवेति॑ म॒घऽवा॑। धा॒तु॒। इन्द्रः॑। ५०।
महीधरः
म० इन्द्रः अवोभिरन्नैः सुमृडीकः शोभनसुखकारी भवतु । शोभनं मृडीकं सुखं यस्मात्स सुमृडीकः । कीदृश इन्द्रः । सुत्रामा सुष्ठु त्रायते रक्षति सुत्रामा ‘आतो मनिन्-’ (पा० | ३ । २ । ७४) इति मनिन् । स्ववान् स्वं धनमस्यास्तीति स्ववान् । ‘आतोऽटि नित्यम्’ (पा. ८।३।३) इत्यनुनासिकत्वम् । ‘दीर्घादटि समानपादे’ (पा० ८ । ३ । ९) इति नस्य रुः । विश्ववेदाः विश्वं सर्वं वेदो धनं यस्य सः । स चेन्द्रो द्वेषः दौर्भाग्यं बाधतां निवर्तयतु । अभयं च कृणोतु करोतु । किंच इन्द्रप्रसादाद्वयं सुवीर्यस्य धनस्य पतयः स्वामिनः स्याम भवेम । शोभनाश्च ते वीराश्च सुवीराः पुत्रादयः तेभ्यो हितं सुवीर्यं तस्य ॥५१॥
द्विपञ्चाशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- गर्ग ऋषिः
- विराट्त्रिष्टुप्
- धैवतः
५१ इन्द्रः सुत्रामा
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रः॑ सु॒त्रामा॒ स्ववाँ॒२ऽअवो॑भिः सुमृडी॒को भ॑वतु वि॒श्ववे॑दाः। बाध॑तां॒ द्वेषो॒ऽअभ॑यं कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥५१ ॥
मूलम् ...{Loading}...
इन्द्रः॑ सु॒त्रामा॒ स्ववाँ॒२ऽअवो॑भिः सुमृडी॒को भ॑वतु वि॒श्ववे॑दाः। बाध॑तां॒ द्वेषो॒ऽअभ॑यं कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥५१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इन्द्रः॑। सु॒त्रामेति॑ सु॒ऽत्रामा॑। स्ववा॒निति॒ स्वऽवा॑न्। अवो॑भि॒रित्यवः॑ऽभिः। सु॒मृ॒डी॒क इति॑ सुऽमृडी॒कः। भ॒व॒तु॒। वि॒श्ववे॑दा॒ इति॑ वि॒श्वऽवे॑दाः। बाध॑ताम्। द्वेषः॑। अभ॑यम्। कृ॒णो॒तु॒। सु॒वीर्य॒स्योति॑ सु॒ऽवीर्य॑स्य। पत॑यः। स्या॒म॒। ५१।
महीधरः
म० वयं तस्येन्द्रस्य सुमतौ शोभनबुद्धौ स्याम भवेम । भद्रे कल्याणरूपे । सौमनसे सुमनसो भावे शोभनमनस्कत्वेऽपि स्याम । इन्द्रोऽस्मासु सुमतिं मनश्च भद्रं करोत्वित्यर्थः । कीदृशस्येन्द्रस्य । यज्ञियस्य यज्ञाय हितो यज्ञियस्तस्य यज्ञसंपादिनः । सुत्रामा सुरक्षकः स्ववान् धनवान् स इन्द्रः अस्मे अस्मत्तः आराच्चित् दूरादपि वर्तमानं द्वेषो दौर्भाग्यं सनुतरन्तर्हितं कृत्वा युयोतु पृथक्करोतु । विकरणव्यत्ययः । सनुतरिति निर्णीतान्तर्हितनाम ॥ ५२ ॥
त्रिपञ्चाशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- गर्ग ऋषिः
- भुरिक्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर राज विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (सुत्रामा) अच्छे प्रकार रक्षा करनेहारा (स्ववान्) स्वकीय बहुत उत्तम जनों से युक्त (विश्ववेदाः) समग्र धनवान् (सुमृडीकः) अच्छा सुख करने और (इन्द्रः) ऐश्वर्य का बढ़ानेवाला राजा (अवोभिः) न्यायपूर्वक रक्षणादि से प्रजा की रक्षा करे, वह (द्वेषः) शत्रुओं को (बाधताम्) हटावे (अभयम्) सब को भयरहित (कृणोतु) करे और आप भी वैसा ही (भवतु) हो, जिससे हम लोग (सुवीर्यस्य) अच्छे पराक्रम के (पतयः) पालनेहारे (स्याम) हों ॥५१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो विद्या विनय से युक्त होके राजपुरुष प्रजा की रक्षा करनेहारे न हों तो सुख की वृद्धि भी न होवे ॥५१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुना राजविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यः सुत्रामा स्ववान् विश्ववेदाः सुमृडीको भवतु। इन्द्रोऽवोभिः प्रजा रक्षेत्, स द्वेषो बाधतामभयं कृणोतु, स्वयमपि तादृश एव भवतु, यतो वयं सुवीर्यस्य पतयः स्याम ॥५१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदि राजपुरुषा विद्याविनायाभ्यां युक्ता भूत्वा प्रजारक्षका नाभविष्यँस्तर्हि सुखवृद्धिरपि नाभविष्यत् ॥५१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - विद्या व विनय यांनी युक्त, प्रजेचे रक्षण करणारे राजपुरुष नसतील तर सुखाची वृद्धी कधीच होणार नाही.
५२ तस्य वयम्
विश्वास-प्रस्तुतिः ...{Loading}...
तस्य॑ व॒यँ सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म। स सु॒त्रामा॒ स्ववाँ॒२ऽइन्द्रो॑ऽअ॒स्मेऽआ॒राच्चि॒द् द्वेषः॑ सनु॒तर्यु॑योतु ॥५२ ॥
मूलम् ...{Loading}...
तस्य॑ व॒यँ सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म। स सु॒त्रामा॒ स्ववाँ॒२ऽइन्द्रो॑ऽअ॒स्मेऽआ॒राच्चि॒द् द्वेषः॑ सनु॒तर्यु॑योतु ॥५२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
तस्य॑। व॒यम्। सु॒म॒ताविति॑ सुऽम॒तौ। य॒ज्ञिय॑स्य। अपि॑। भ॒द्रे। सौ॒म॒न॒से। स्या॒म॒। सः। सु॒त्रामेति॑ सु॒ऽत्रामा॑। स्ववा॒निति॒ स्वऽवा॑न्। इन्द्रः॑। अ॒स्मेऽइत्य॒स्मे। आ॒रात्। चि॒त्। द्वेषः॑। स॒नु॒तः। यु॒यो॒तु॒। ५२।
महीधरः
म० विश्वामित्रदृष्टा वृहती । तृतीयो द्वादशार्णोऽन्ये त्रयोऽष्टार्णाः । आ मन्द्रैः एवेत् अनयोर्विनियोगाभावः । हे इन्द्र, त्वं हरिभिः अश्वैः आयाहि । कीदृशैः । मन्द्रैः गम्भीरनादैः मयूररोमभिः मयूरस्येव रोमाणि येषां ते मयूररोमाणस्तैः मयूरसमवर्णैः । किंच केचित् दुष्टा आगच्छन्तं त्वा त्वां मा नियमन् नियच्छन्तु मा निबध्नन्तु । तत्र दृष्टान्तः । पाशिनः पाशहस्ता व्याधाः विं पक्षिणमिव । यथा पाशिनः पक्षिणं बध्नन्ति तथा त्वां मा बध्नन्तु । अथ ये परिपन्थिनो भवेयुस्तानतीहि अतिक्रम्यागच्छ । किमिव । धन्व इव । धन्व निरुदकदेशः । यथा पान्थो मरुदेशमतिक्रम्य गच्छति तथा गच्छ ॥ ५३॥
चतुःपञ्चाशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- गर्ग ऋषिः
- भुरिक्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (सुत्रामा) अच्छे प्रकार से रक्षा करने और (स्ववान्) प्रशंसित अपना कुल रखनेहारा (इन्द्रः) पिता के समान वर्त्तमान सभा का अध्यक्ष (अस्मे) हमारे (द्वेषः) शत्रुओं को (आरात्) दूर और समीप से (चित्) भी (सनुतः) सब काल में (युयोतु) दूर करे, (तस्य) उस पूर्वोक्त (यज्ञियस्य) यज्ञ के अनुष्ठान करने योग्य राजा की (सुमतौ) सुन्दर मति में और (भद्रे) कल्याण करनेहारे (सौमनसे) सुन्दर मन में उत्पन्न हुए व्यवहार में (अपि) भी हम लोग राजा के अनुकूल बरतने हारे (स्याम) होवें और (सः) वह हमारा राजा और (वयम्) हम उसकी प्रजा अर्थात् उस के राज्य में रहनेवाले हों ॥५२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को उसकी सम्मति में स्थिर रहना उचित है, जो पक्षपातरहित और न्याय से प्रजापालन में तत्पर हो ॥५२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यस्सुत्रामा स्ववानिन्द्रः सभेशोऽस्मे द्वेष आराच्चित्सनुतर्युयोतु तस्य यज्ञियस्य सुमतौ भद्रे सौमनसेऽप्युकूलाः स्याम, सोऽस्माकं राजा वयं तस्य प्रजाश्च ॥५२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैस्तस्यैव सम्मतौ स्थातव्यं यः पक्षपातहीनो धार्मिकः न्यायेन प्रजापालनतत्परः स्यात् ॥५२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी त्या राजाला मान्यता द्यावी जो पक्षपातरहित असतो व न्यायाने प्रजापालन करण्यात तत्पर असतो.
५३ आ मन्द्रैरिन्द्र
विश्वास-प्रस्तुतिः ...{Loading}...
आ म॒न्द्रैरि॑न्द्र॒ हरि॑भिर्या॒हि म॒यूर॑रोमभिः। मा त्वा॒ के चि॒न्नि य॑म॒न् विं न पा॒शिनोऽति॒ धन्वे॑व॒ ताँ२ऽइ॑हि ॥५३ ॥
मूलम् ...{Loading}...
आ म॒न्द्रैरि॑न्द्र॒ हरि॑भिर्या॒हि म॒यूर॑रोमभिः। मा त्वा॒ के चि॒न्नि य॑म॒न् विं न पा॒शिनोऽति॒ धन्वे॑व॒ ताँ२ऽइ॑हि ॥५३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ। म॒न्द्रैः। इ॒न्द्र॒। हरि॑भि॒रिति॒ हरि॑ऽभिः। या॒हि। म॒यूर॑रोमभि॒रिति॑ म॒यूर॑रोमऽभिः। मा। त्वा॒। के। चि॒त्। नि। य॒म॒न्। विम्। न। पा॒शिनः॑। अ॒ति॒धन्वे॒वेत्य॑ति॒धन्व॑ऽइव। तान्। इ॒हि॒। ५३।
महीधरः
म० वसिष्ठदृष्टा इन्द्रदेवत्या त्रिष्टुप् । वसिष्ठाः वसिष्ठापत्यानि मुनयः अर्कैर्मन्त्रैः एव इत् एवमेव इन्द्रमभ्यर्चन्ति पूजयन्ति । कीदृशमिन्द्रम् । वृषणं वर्षितारम् । वज्रबाहुं वजं बाहौ यस्य तम् । स इन्द्रः स्तुतः सन् वीरवत् वीरा विद्यन्ते यत्र तत् पुत्रयुक्तम् । गोमत् गावो विद्यन्ते यत्र तत् गोसंयुक्तं धनम् नोऽस्मभ्यं धातु दधातु । विकरणव्यत्ययः । एवं पादत्रयेणेन्द्रं स्तुत्वा ऋत्विज आह । हे ऋत्विजः, यूयं स्वस्तिभिः | अविनाशैः सदा सर्वदा नोऽस्मान् पात रक्षत ॥ ५४॥
पञ्चपञ्चाशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- विश्वामित्र ऋषिः
- निचृद्बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) उत्तम ऐश्वर्य्य के बढ़ानेहारे सेनापति ! (मन्द्रैः) प्रशंसायुक्त (मयूररोमभिः) मोर के रोमों के सदृश रोमोंवाले (हरिभिः) घोड़ों से युक्त होके (तान्) उन शत्रुओं के जीतने को (याहि) जा, वहाँ (त्वा) तुझ को (पाशिनः) बहुत पाशों से युक्त व्याध लोग (विम्) पक्षी को बाँधने के (न) समान (केचित्) कोई भी (मा) मत (नियमन्) बाँधें, तू (अतिधन्वेव) बड़े धनुष्धारी के समान (आ, इहि) अच्छे प्रकार आओ ॥५३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार है। जब शत्रुओं के विजय को जावें, तब सब ओर से अपने बल की परीक्षा कर पूर्ण सामग्री से शत्रुओं के साथ युद्ध करके अपना विजय करें, जैसे शत्रु लोग अपने को वश न करें वैसा युद्धारम्भ करें ॥५३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे इन्द्र सेनेश ! त्वं मन्द्रैर्मयूररोमभिर्हरिभिस्तान् शत्रून् विजेतुं याहि, तत्र त्वा त्वां पाशिनो विन्न केचिन्मा नियमंस्त्वमतिधन्वेवैहि ॥५३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारः। यदा शूराः शत्रुविजयाय गच्छेयुस्तदा सर्वतो बलं समीक्ष्याऽलं सामग्र्या शत्रुभिस्सह युध्वा स्वविजयं कुर्युर्यथा शत्रवो वशं न कुर्युस्तथाऽनुतिष्ठन्तु ॥५३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. शत्रूवर विजय मिळवायचा असेल तर सर्व बाजूंनी आपल्या शक्तीची परीक्षा करून संपूर्ण शस्रास्रांसह शत्रूंबरोबर युद्ध करावे व विजय प्राप्त करावा. आपला पराभव होणार नाही या दृष्टीने युद्धारंभ करावा.
५४ एवेदिन्द्रं वृषणम्
विश्वास-प्रस्तुतिः ...{Loading}...
ए॒वेदिन्द्रं॒ वृष॑णं॒ वज्र॑बाहुं॒ वसि॑ष्ठासोऽअ॒भ्य᳖र्चन्त्य॒र्कैः। स नः॑ स्तु॒तो वी॒रव॑द्धातु॒ गोम॑द् यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥५४ ॥
मूलम् ...{Loading}...
ए॒वेदिन्द्रं॒ वृष॑णं॒ वज्र॑बाहुं॒ वसि॑ष्ठासोऽअ॒भ्य᳖र्चन्त्य॒र्कैः। स नः॑ स्तु॒तो वी॒रव॑द्धातु॒ गोम॑द् यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥५४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ए॒व। इत्। इन्द्र॑म्। वृष॑णम्। वज्र॑बाहु॒मिति॒ वज्र॑ऽबाहुम्। वसि॑ष्ठासः। अ॒भि। अ॒र्च॒न्ति॒। अ॒र्कैः। सः। नः॒। स्तु॒तः। वी॒रव॒दिति॑ वी॒रऽव॑त्। धा॒तु॒। गोम॒दिति॒ गोऽम॑त्। यू॒यम्। पा॒त॒। स्व॒स्तिभि॒रिति॑ स्व॒स्तिऽभिः॑। सदा॑। नः॒। ५४।
महीधरः
म० ‘आप्रियश्च समिद्धो अग्निरश्विनेति’ (का० १९ । ६ । १५)। समिद्ध इत्याद्या द्वादशानुष्टुभः चकारात्त्रिपशोः प्रयाजयाज्याः इति सूत्रार्थः । विदर्भिदृष्टा अश्विसरस्वतीन्द्रदेवत्या आप्रीसंज्ञा द्वादशानुष्टुभः । अश्विनावध्वर्यू देवानामिति तौ प्रति होता प्राह । हे अश्विना अश्विनौ, अग्निः समिद्धो दीप्तोऽस्ति हविर्दहनक्षमोऽस्ति । घर्मः प्रवर्ग्यः तप्तोऽस्ति । विराट् विविधं राजमानः सोमः सुतोऽभिषुतः । किंच धिनोति प्रीणाति धेनुः । औणादिको नुप्रत्ययो धिवेः वलोपो गुणश्च । प्रीणयित्री सरस्वती इह यज्ञे सोमं दुग्धे ‘दुह प्रपूरणे’ लटि तङि प्रथमैकवचने टेरेत्वे ‘लोपस्त आत्मनेपदेषु’ (पा० ७।१। ४१) इति तलोपे दुहे इति रूपम् । कीदृशं सोमम् । शुक्रं शुक्लं शुद्धम् इन्द्रियमिन्द्राय हितं बलकरम् । एतावता यज्ञसंपत्तिरस्ति । युवामागच्छतमिति भावः ॥ ५५ ॥
षट्पञ्चाशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- वसिष्ठ ऋषिः
- भुरिक्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (वसिष्ठासः) अतिशय वास करनेहारे ! जिस (वृषणम्) बलवान् (वज्रबाहुम्) शस्त्रधारी (इन्द्रम्) शत्रु के मारनेहारे को (अर्कैः) प्रशंसित कर्मों से विद्वान् लोग (अभ्यर्चन्ति) यथावत् सत्कार करते हैं (एव) उसी का (यूयम्) तुम लोग (इत्) भी सत्कार करो, (सः) सो (स्तुतः) स्तुति को प्राप्त होके (नः) हमको और (गोमत्) उत्तम गाय आदि पशुओं से युक्त (वीरवत्) शूरवीरों से युक्त राज्य को (धातु) धारण करे और तुम लोग (स्वस्तिभिः) सुखों से (नः) हमको (सदा) सब दिन (पात) सुरक्षित रक्खो ॥५४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे राजपुरुष प्रजा की रक्षा करें, वैसे राजपुरुषों की प्रजाजन भी रक्षा करें ॥५४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे वसिष्ठासः ! ये वृषणं वज्रबाहुमिन्द्रमर्कैर्विद्वांसोऽभ्यर्चन्ति, तमेव यूयमिदर्चत, स स्तुतो नो गोमत् वीरवद्राज्यं धातु, यूयं स्वस्तिभिर्नः सदा पात ॥५४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारः। यथा राजपुरुषा रक्षेयुस्तथैतान् प्रजाजना अपि रक्षन्तु ॥५४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जसे राजपुरुष प्रजेचे रक्षण करतात तसे प्रजेनेही राजपुरुषांचे रक्षण करावे.
५५ समिद्धोऽअग्निरश्विना तप्तो
विश्वास-प्रस्तुतिः ...{Loading}...
समि॑द्धोऽअ॒ग्निर॑श्विना त॒प्तो घ॒र्मो वि॒राट् सु॒तः। दु॒हे धे॒नुः सर॑स्वती॒ सोमँ॑ शु॒क्रमि॒हेन्द्रि॒यम् ॥५५ ॥
मूलम् ...{Loading}...
समि॑द्धोऽअ॒ग्निर॑श्विना त॒प्तो घ॒र्मो वि॒राट् सु॒तः। दु॒हे धे॒नुः सर॑स्वती॒ सोमँ॑ शु॒क्रमि॒हेन्द्रि॒यम् ॥५५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
समि॑द्ध॒ इति॒ सम्ऽइ॑द्धः। अ॒ग्निः। अ॒श्वि॒ना॒। त॒प्तः। घ॒र्मः। वि॒राडिति॑ वि॒ऽराट्। सु॒तः। दु॒हे। धे॒नुः। सर॑स्वती। सोम॑म्। शु॒क्रम्। इ॒ह। इ॒न्द्रि॒यम्। ५५।
महीधरः
म० उभा अश्विना उभौ अश्विनौ सरस्वती मध्वा मधुना रजांसि लोकान् दुहन्ति पूरयन्ति । पूर्वर्चो दुहे इतस्य वचनव्यत्ययेनेहानुषङ्गः । ‘लोका रजांस्युच्यन्ते’ (निरु० ४ । १९) इति यास्कोक्तेः रजःशब्दोऽत्र लोकवाची । कीदृशावश्विनौ । तनूपा तनूः शरीराणि पातस्तौ तनूपौ शरीराणां रक्षितारौ। भिषजा भिषजौ वैद्यौ । क्व सति । सुते सोमेऽभिषुते सति पूरयन्तीत्यर्थः । किंच अश्विसरस्वत्य इन्द्राय इन्द्रियं वीर्यं पथिभिर्यज्ञमार्गैः वहान् वहन्ति । ‘इतश्च लोपः परस्मैपदेषु’ (पा० ३ । ४ । ९७) इतीकारलोपे वहानिति रूपम् ॥ ५६ ॥
सप्तपश्चाशी।
अधिमन्त्रम् (VC)
- अश्विसरस्वतीन्द्रा देवताः
- विदर्भिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब स्त्री-पुरुषों का विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जैसे (इह) इस संसार में (धेनुः) दूधवाली गाय के समान (सरस्वती) शास्त्र विज्ञानयुक्त वाणी (शुक्रम्) शुद्ध (सोमम्) ऐश्वर्य और (इन्द्रियम्) धन को परिपूर्ण करती है, वैसे उसे मैं (दुहे) परिपूर्ण करूँ। हे (अश्विना) शुभगुणों में व्याप्त स्त्री पुरुषो ! (तप्तः) तपा और (विराट्) विविध प्रकार से प्रकाशमान (सुतः) प्रेरणा को प्राप्त (समिद्धः) प्रदीप्त (घर्मः) यज्ञ के समान संगतियुक्त (अग्निः) पावक जगत् की रक्षा करता है, वैसे मैं इस सब जगत् की रक्षा करूँ ॥५५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। इस संसार में तुल्य गुण-कर्म-स्वभाववाले स्त्री-पुरुष सूर्य के समान कीर्ति से प्रकाशमान पुरुषार्थी होके धर्म से ऐश्वर्य्य को निरन्तर संचित करें ॥५५ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ स्त्रीपुरुषयोर्विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यथेह धेनुस्सरस्वती शुक्रं सोममिन्द्रियं च दोग्धि, तथैतमहं दुहे, अश्विना तप्तो विराट् सुतः समिद्धो घर्मोऽग्निर्यथा विश्वं पाति, तथाहमेतत्सर्वं रक्षेयम् ॥५५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। अस्मिन् संसारे तुल्यगुणकर्मस्वभावौ स्त्रीपुरुषौ सूर्यवत्सत्कीर्तिप्रकाशमानौ पुरुषार्थिनौ भूत्वा धर्मेणैश्वर्यं सततं सञ्चिनुताम् ॥५५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. या जगात समान गुण, कर्म, स्वभावाच्या स्री-पुरुषांनी सूर्याप्रमाणे प्रकाशमान व्हावे व पुरुषार्थी व धर्मयुक्त बनून ऐश्वर्य मिळवावे.
५६ तनूपा भिषजा
विश्वास-प्रस्तुतिः ...{Loading}...
त॒नू॒पा भि॒षजा॑ सु॒ते᳙ऽश्विनो॒भा सर॑स्वती। मध्वा॒ रजाँ॑सीन्द्रि॒यमिन्द्रा॑य प॒थिभि॑र्वहान् ॥५६ ॥
मूलम् ...{Loading}...
त॒नू॒पा भि॒षजा॑ सु॒ते᳙ऽश्विनो॒भा सर॑स्वती। मध्वा॒ रजाँ॑सीन्द्रि॒यमिन्द्रा॑य प॒थिभि॑र्वहान् ॥५६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
त॒नू॒पेति॑ तनू॒ऽपा। भि॒षजा॑। सु॒ते। अ॒श्विना॑। उ॒भा। सर॑स्वती। मध्वा॑। रजाँ॑सि। इ॒न्द्रि॒यम्। इन्द्रा॑य। प॒थिभि॒रिति॑ प॒थिऽभिः॑। व॒हा॒न्। ५६।
महीधरः
म० सरस्वती नराशंसेन यज्ञेन सह इन्द्राय इन्द्रार्थमिन्दुं सोमं नग्नहुं सुराकन्दं च पूर्वोक्तमधात् धृतवती । किंच भिषजा अश्विना भिषजौ अश्विनौ सुते सोमेऽभिषुते सति मधु मधुरं भेषजमौषधमधातां धारितवन्तौ । अधातामित्येव क्रिया वचनव्यत्ययेन पूर्वार्धे योज्या ॥ ५७ ॥
अष्टपश्चाशी।
अधिमन्त्रम् (VC)
- अश्विसरस्वतीन्द्रा देवताः
- विदर्भिर्ऋषिः
- विराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब इस प्रकृत विषय में वैद्यविद्या के संचार को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! आप लोग जैसे (भिषजा) वैद्यकविद्या के जाननेहारे (तनूपा) शरीर के रक्षक (उभा) दोनों (अश्विना) शुभ गुण-कर्म-स्वभावों में व्याप्त स्त्री-पुरुष (सरस्वती) बहुत विज्ञानयुक्त वाणी (मध्वा) मीठे गुण से युक्त (सुते) उत्पन्न हुए इस जगत् में स्थित होके (पथिभिः) मार्गों से (इन्द्राय) राजा के लिये (रजांसि) लोकों और (इन्द्रियम्) धन को धारण करें, वैसे इनको (वहान्) प्राप्त हूजिये ॥५६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो स्त्री-पुरुष वैद्यकविद्या को न जानें तो रोगों के निवारण और शरीरादि की स्वस्थता को और धर्म व्यवहार में निरन्तर चलने को समर्थ नहीं होवें ॥५६ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ प्रकृतविषये वैद्यविद्यासंचरणमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा भिषजा तनूपोभाश्विना विद्यासुशिक्षितौ स्त्रीपुरुषौ सरस्वती च मध्वा सुतेऽस्मिन् जगति स्थित्वा पथिभिरिन्द्राय रजांसीन्द्रियं च दध्यातां तथैतद् वहान् ॥५६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यदि स्त्रीपुरुषा वैद्यकविद्यां न जानीयुस्तर्हि रोगान्निवृत्तिं स्वास्थ्यसम्पादनं च कर्त्तुं धर्मे व्यवहारे निरन्तरं चरितुं च न शक्नुयुः ॥५६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जे स्री-पुरुष वैद्यकशास्र जाणत नाहीत ते रोगांचे निवारण व शरीराची स्वच्छता आणि धर्मव्यवहाराचे पालन सतत करू शकत नाहीत.
५७ इन्द्रायेन्दुं सरस्वती
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रा॒येन्दुँ॒ सर॑स्वती॒ नरा॒शँसे॑न न॒ग्नहु॑म्। अधा॑ताम॒श्विना॒ मधु॑ भेष॒जं भि॒षजा॑ सु॒ते ॥५७ ॥
मूलम् ...{Loading}...
इन्द्रा॒येन्दुँ॒ सर॑स्वती॒ नरा॒शँसे॑न न॒ग्नहु॑म्। अधा॑ताम॒श्विना॒ मधु॑ भेष॒जं भि॒षजा॑ सु॒ते ॥५७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इन्द्रा॑य। इन्दु॑म्। सर॑स्वती। नरा॒शँसे॑न। न॒ग्नहु॑म्। अधा॑ताम्। अ॒श्विना॑। मधु॑। भे॒ष॒जम्। भि॒षजा॑। सु॒ते। ५७।
महीधरः
म०. आहूयते आजुह्वाना अर्थादिन्द्रमाह्वयन्ती सरस्वती अश्विना चेन्द्राय इन्द्रियाणि चक्षुरादीनि संदधुः । वीर्यं सामर्थ्यं च दधुः । इडाभिः पशुभिः सह इषमन्नं संदधुः । ‘पशवो वा इडा’ (१।८।१ । १२) इति श्रुतिः । ऊर्जं दध्यादि रयिं धनं च संदधुः । एतानि ददुरित्यर्थः ॥ ५८॥
एकोनषष्टी।
अधिमन्त्रम् (VC)
- अश्विसरस्वतीन्द्रा देवताः
- विदर्भिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब प्रधानता से वैद्यों के व्यवहार को कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अश्विना) वैद्यकविद्या में व्याप्त (भिषजा) उत्तम वैद्यजन (इन्द्राय) दुःखनाश के लिये (सुते) उत्पन्न हुए इस जगत् में (मधु) ज्ञानवर्द्धक कोमलतादि गुणयुक्त (भेषजम्) औषध को (अधाताम्) धारण करें और (नराशंसेन) मनुष्यों से स्तुति किये हुए वचन से (सरस्वती) प्रशस्तविद्यायुक्त वाणी (नग्नहुम्) आनन्द करानेवाले विषय को ग्रहण करनेवाले (इन्दुम्) ऐश्वर्य को धारण करें ॥५७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - वैद्य दो प्रकार के होते हैं−एक ज्वरादि शरीररोगों के नाशक चिकित्सा करनेहारे और दूसरे मन के रोग जो कि अविद्यादि मानस क्लेश हैं, उनके निवारण करनेहारे अध्यापक, उपदेशक हैं। जहाँ ये रहते हैं, वहाँ रोगों के विनाश से प्राणी लोग शरीर और मन के रोगों से छूटकर सुखी होते हैं ॥५७ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ प्राधान्येन भिषजां व्यवहारमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - अश्विना भिषजेन्द्राय सुते मधु भेषजमधाताम्। नराशंसेन सरस्वती नग्नहुमिन्दुमादधातु ॥५७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - वैद्या द्विधा एके ज्वरादिशरीररोगाऽपहारकाश्चिकित्सकाः। अपरे मानसाविद्यादिरोगविनाशका अध्यापकोपदेशकास्सन्ति, यत्रैते वर्तन्ते तत्र रोगाणां विनाशात् सर्वे प्राणिन आधिव्याधिमुक्ता भूत्वा सुखिनो भवन्ति ॥५७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - वैद्य दोन प्रकारचे असतात. एक शरीरज्वर वगैरे निवारण करणारे वैद्य व दुसरे अविद्या वगैरे मानसिक क्लेशामुळे होणाऱ्या रोगाचे निवारण करणारे अध्यापक व उपदेशक. जेथे हे असतात तेथे शरीर व मनाचे रोग नाहिसे होऊन प्राणी होतात.
५८ आजुह्वाना सरस्वतीन्द्रायेन्द्रियाणि
विश्वास-प्रस्तुतिः ...{Loading}...
आ॒जुह्वा॑ना॒ सर॑स्व॒तीन्द्रा॑येन्द्रि॒याणि॑ वी॒र्य᳖म्। इडा॑भिर॒श्विना॒विषँ॒ समूर्जँ॒ सँ र॒यिं द॑धुः ॥५८ ॥
मूलम् ...{Loading}...
आ॒जुह्वा॑ना॒ सर॑स्व॒तीन्द्रा॑येन्द्रि॒याणि॑ वी॒र्य᳖म्। इडा॑भिर॒श्विना॒विषँ॒ समूर्जँ॒ सँ र॒यिं द॑धुः ॥५८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ॒जुह्वा॒नेत्या॒ऽजुह्वा॑ना। सर॑स्वती। इन्द्रा॑य। इ॒न्द्रि॒याणि॑। वी॒र्य᳖म्। इडा॑भिः। अ॒श्विनौ॑। इष॑म्। सम्। ऊर्ज्ज॑म्। सम्। र॒यिम्। द॒धुः॒। ५८।
महीधरः
म० अश्विना अश्विनौ परिस्रुता सुरया सह सुतमभिषुतं शुक्रं शुद्धममलिनं सोमं नमुचेः असुरात्सकाशात् आहरताम् । सरस्वती च तमेव सोमं बर्हिषास्तरणार्थेन सह आभरत् आहरत् । किमर्थम् । इन्द्राय पातवे इन्द्रस्य पानार्थम् । तुमर्थे तवेप्रत्ययः ॥ ५९॥
षष्टी।
अधिमन्त्रम् (VC)
- अश्विसरस्वतीन्द्रा देवताः
- विदर्भिर्ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (आजुह्वाना) सब ओर से प्रशंसा की हुई (सरस्वती) उत्तम ज्ञानवती स्त्री (इन्द्राय) परमैश्वर्य्ययुक्त पति के लिये (इन्द्रियाणि) श्रोत्र आदि इन्द्रिय वा ऐश्वर्य्य उत्पन्न करनेहारे सुवर्ण आदि पदार्थों और (वीर्यम्) शरीर में बल के करनेहारे घृतादि का तथा (अश्विनौ) सूर्य-चन्द्र के सदृश वैद्यकविद्या के कार्य में प्रकाशमान वैद्यजन (इडाभिः) अति उत्तम औषधियों के साथ (इषम्) अन्न आदि पदार्थ (समूर्जम्) उत्तम पराक्रम और (रयिम्) उत्तम धर्मश्री को (संदधुः) सम्यक् धारण करें ॥५८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - वे ही उत्तम विद्यावान् हैं, जो मनुष्य के रोगों का नाश करके शरीर और आत्मा के बल को बढ़ाते हैं, वही पतिव्रता स्त्री जाननी चाहिये कि जो पति के सुख के लिये धन और घृत आदि वस्तु धर रखती है ॥५८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - आजुह्वाना सरस्वतीन्द्रायेन्द्रियाणि वीर्यं चाश्विनाविडाभिरोषधिभिरिषं समूर्जं रयिं च संदधुः ॥५८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - त एव विद्यावन्तः सन्ति ये मनुष्याणां रोगान् नाशयित्वा शरीरात्मबलमुन्नयन्ति। सैव पतिव्रता स्त्री ज्ञेया या पत्युः सुखाय धनघृतादि वस्तु स्थापयति ॥५८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांच्या रोगांचा नाश करून शरीर व आत्म्याचे बल वाढवितात तेच खरे विद्वान वैद्य असतात. जी पतीच्या सुखासाठी धन व घृत इत्यादी वस्तू संग्रहित करते तीच खरी पतिव्रता स्री होय.
५९ अश्विना नमुचेः
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒श्विना॒ नमु॑चेः सु॒तँ सोमँ॑ शु॒क्रं प॑रि॒स्रुता॑। सर॑स्वती॒ तमाभ॑रद् ब॒र्हिषेन्द्रा॑य॒ पात॑वे ॥५९ ॥
मूलम् ...{Loading}...
अ॒श्विना॒ नमु॑चेः सु॒तँ सोमँ॑ शु॒क्रं प॑रि॒स्रुता॑। सर॑स्वती॒ तमाभ॑रद् ब॒र्हिषेन्द्रा॑य॒ पात॑वे ॥५९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒श्विना॑। नमु॑चेः। सु॒तम्। सोम॑म्। शु॒क्रम्। प॒रि॒स्रुतेति॑ परि॒ऽस्रुता॑। सर॑स्वती। तम्। आ। अ॒भ॒र॒त्। ब॒र्हिषा॑। इन्द्रा॑य। पात॑वे। ५९।
महीधरः
म० अस्यामृचि त्रयो नकाराश्चकारार्थाः । अश्विभ्यां सहिता सरस्वती इन्द्रो न इन्द्रश्च उभे रोदसी द्यावापृथिव्यौ कामान् दुहे दुग्धे । द्विकर्मकः द्यावापृथिवीभ्यां सकाशात्कामान् दोग्धि दुरो दिशश्च सकाशात् दोग्धि । ‘अकथितं च’ (पा० १ । ४ । ५१) इति द्वारां दिशां रोदसोश्च कर्मत्वम् । कीदृश्यो द्वारः । कवष्यः ‘कुष निष्कर्षे’ । कुषिताः सच्छिद्राः । तथा व्यचस्वतीः व्यचनं व्यचोऽवकाशः तद्वत्यः ॥६०॥
एकषष्टी।
अधिमन्त्रम् (VC)
- अश्विसरस्वतीन्द्रा देवताः
- विदर्भिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (परिस्रुता) सब ओर से अच्छे चलन युक्त (अश्विना) शुभ गुण-कर्म-स्वभावों में व्याप्त (सरस्वती) प्रशंसायुक्त स्त्री तथा पुरुष (बर्हिषा) सुख बढ़ानेवाले कर्म्म से (इन्द्राय) परमैश्वर्य के सुख के लिये और (नमुचेः) जो नहीं छोड़ता, उस असाध्य रोग के दूर होने के लिये (शुक्रम्) वीर्यकारी (सुतम्) अच्छे सिद्ध किये (सोमम्) सोम आदि ओषधियों के समूह की (पातवे) रक्षा के लिये (तम्) उस रस को (आ, अभरत्) धारण करती और करता है, वे ही सर्वदा सुखी रहते हैं ॥५९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो अङ्ग-उपाङ्ग सहित वेदों को पढ़ के हस्तक्रिया जानते हैं, वे असाध्य रोगों को भी दूर करते हैं ॥५९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यौ परिस्रुताऽश्विना सरस्वती बर्हिषेन्द्राय नमुचेर्निवारणाय च शुक्र सुतं सोमं पातवे तमाभरत् समन्ताद् भरतः सदा तावेव सुखिनौ भवतः ॥५९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये साङ्गोपाङ्गान् वेदान् पठित्वा हस्तक्रियां विजानन्ति, तेऽसाध्यानपि रोगान्निवर्त्तयन्ति ॥५९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे लोक वेदवेदांगाचे अध्ययन करून (शस्रक्रिया) हस्तक्रिया जाणून घेतात तेच असाध्य रोगांना दूर करतात.
६० कवष्यो न
विश्वास-प्रस्तुतिः ...{Loading}...
क॒व॒ष्यो᳙ न व्यच॑स्वतीर॒श्विभ्यां॒ न दुरो॒ दिशः॑। इन्द्रो॒ न रोद॑सीऽउ॒भे दु॒हे कामा॒न्त्सर॑स्वती ॥६० ॥
मूलम् ...{Loading}...
क॒व॒ष्यो᳙ न व्यच॑स्वतीर॒श्विभ्यां॒ न दुरो॒ दिशः॑। इन्द्रो॒ न रोद॑सीऽउ॒भे दु॒हे कामा॒न्त्सर॑स्वती ॥६० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
क॒व॒ष्यः᳙। न। व्यच॑स्वतीः। अ॒श्विभ्या॒मित्य॒श्विऽभ्या॑म्। न। दुरः॑। दिशः॑। इन्द्रः॑। न। रोद॑सी॒ऽइति॒ रोद॑सी। उ॒भेऽइत्यु॒भे। दु॒हे। कामा॑न्। सर॑स्वती। ६०।
महीधरः
म० हे अश्विनौ, उषासा रविप्रभा नक्तं रात्रिश्च सरस्वत्या सह दिवा दिवसे सायंकाले च इन्द्रमिन्द्रियैः वीर्यैः सह समञ्जाते संयोजयतः । कीदृश्यौ ते। संजानाने संजानीतः ते संजानाने एकमती । सुपेशसा शोभनं पेशो रूपं ययोस्ते । शुक्ला उषाः कृष्णा रात्रिः ॥ ६१॥
द्विषष्टी।
अधिमन्त्रम् (VC)
- अश्विसरस्वतीन्द्रा देवताः
- विदर्भिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब विद्वद्विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (सरस्वती) अतिश्रेष्ठ ज्ञानवती मैं (इन्द्रः) बिजुली (अश्विभ्याम्) सूर्य और चन्द्रमा से (व्यचस्वतीः) व्याप्त होनेवाली (कवष्यः) अत्यन्त प्रशंसित (दिशः) दिशाओं को (न) जैसे तथा (दुरः) द्वारों को (न) जैसे वा (उभे) दोनों (रोदसी) आकाश और पृथिवी को जैसे (न) वैसे (कामान्) कामनाओं को (दुहे) पूर्ण करती हूँ ॥६० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे बिजुली सूर्य-चन्द्रमा से दिशाओं के और द्वारों के अन्धकार का नाश करती है वा जैसे पृथिवी और प्रकाश को धारण करती है, वैसे पण्डिता स्त्री पुरुषार्थ से अपनी इच्छा पूर्ण करे ॥६० ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ विद्वद्विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - सरस्वत्यहमिन्द्र अश्विभ्यां व्यचस्वतीः कवष्यो दिशो न दुरो न उभे रोदसी न वा कामान् दुहे ॥६० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथेन्द्रः सूर्याचन्द्रमोभ्यां दिशां द्वाराणां चान्धकारं विनाशयति, यथा वा भूमिप्रकाशौ धरति, तथा विदुषी पुरुषार्थेनेच्छाः प्रपूरयेत् ॥६० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. विद्युत जशी सूर्य चंद्राद्वारे सर्व दिशांचा व द्वारांचा अंधःकार नष्ट करते किंवा पृथ्वीला व प्रकाशाला जशी धारण करते तसे विदुषी स्रीने आपल्या पुरुषार्थाने कामना पूर्ण करतात.
६१ उषासानक्तमश्विना दिवेन्द्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒षासा॒नक्त॑मश्विना॒ दिवेन्द्रँ॑ सा॒यमि॑न्द्रि॒यैः। सं॒जा॒ना॒ने सु॒पेश॑सा॒ सम॑ञ्जाते॒ सर॑स्वत्या ॥६१ ॥
मूलम् ...{Loading}...
उ॒षासा॒नक्त॑मश्विना॒ दिवेन्द्रँ॑ सा॒यमि॑न्द्रि॒यैः। सं॒जा॒ना॒ने सु॒पेश॑सा॒ सम॑ञ्जाते॒ सर॑स्वत्या ॥६१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उ॒षासा॑। उ॒षसेत्यु॒षसा॑। नक्त॑म्। अ॒श्वि॒ना॒। दिवा॑। इन्द्र॑म्। सा॒यम्। इ॒न्द्रि॒यैः। स॒ञ्जा॒ना॒ने इति॑ सम्ऽजाना॒ने। सु॒पेश॒सेति॑ सु॒ऽपेश॑सा। सम्। अ॒ञ्जा॒ते॒ऽइत्य॑ञ्जाते। सर॑स्वत्या। ६१।
महीधरः
म०. हे अश्विना अश्विनौ, दिवा दिवसे नोऽस्मान् युवां पातं रक्षतम् । हे सरस्वति, नक्तं रात्रौ त्वं नः पाहि रक्ष । हे दैव्या होतारा देवसंबन्धिनौ होतारौ, भिषजा भिषजौ अश्विनौ सुते सोमेऽभिषुते सति सचा सह एकीभूय युवमिन्द्रं पातं रक्षतम् । सर्वत्र विभक्तेराकारः ॥ ६२॥
त्रिषष्टी।
अधिमन्त्रम् (VC)
- अश्विसरस्वतीन्द्रा देवताः
- विदर्भिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् लोगो ! जैसे (सुपेशसा) अच्छे रूपवाले (अश्विना) सूर्य और चन्द्रमा (सरस्वत्या) अच्छी उत्तम शिक्षा पाई हुई वाणी से (उषासा) प्रभात (नक्तम्) रात्रि (सायम्) संध्याकाल और (दिवा) दिन में (इन्द्रियैः) जीव के लक्षणों से (इन्द्रम्) बिजुली को (संजानाने) अच्छे प्रकार प्रकट करते हुए (समञ्जाते) प्रसिद्ध हैं, वैसे तुम भी प्रसिद्ध होओ ॥६१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे प्रातःसमय रात्रि को और संध्याकाल दिन को निवृत्त करता है, वैसे विद्वानों को चाहिये कि अविद्या और दुष्ट शिक्षा का निवारण करके सब लोगों को सब विद्याओं की शिक्षा में नियुक्त करें ॥६१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वांसः ! यथा सुपेशसाऽश्विना सरस्वत्योषासा नक्तं सायं च दिवेन्द्रियैरिन्द्रं च संजानाने समञ्जाते, तथा यूयमपि प्रसिध्यत ॥६१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथोषा रात्रिं सायं च दिनं निवर्त्तयति, तथा विद्वद्भिरविद्याकुशिक्षे निवार्य सर्वे विद्यासुशिक्षायुक्ताः सम्पादनीयाः ॥६१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसा प्रातःकाल रात्रीला नष्ट करतो व संध्याकाळ दिवस नष्ट करते तसे विद्वानांनी अविद्या, कुशिक्षण नष्ट करून सर्व लोकांना विद्येचे संस्कार द्यावेत.
६२ पातं नोऽअश्विना
विश्वास-प्रस्तुतिः ...{Loading}...
पा॒तं नो॑ऽअश्विना॒ दिवा॑ पा॒हि नक्तँ॑ सरस्वति। दैव्या॑ होतारा भिषजा पा॒तमिन्द्रँ॒ सचा॑ सु॒ते ॥६२ ॥
मूलम् ...{Loading}...
पा॒तं नो॑ऽअश्विना॒ दिवा॑ पा॒हि नक्तँ॑ सरस्वति। दैव्या॑ होतारा भिषजा पा॒तमिन्द्रँ॒ सचा॑ सु॒ते ॥६२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पा॒तम्। नः॒। अ॒श्वि॒ना॒। दिवा॑। पा॒हि। नक्त॑म्। स॒र॒स्व॒ति॒। दैव्या॑। हो॒ता॒रा॒। भि॒ष॒जा॒। पा॒तम्। इन्द्र॑म्। सचा॑। सु॒ते। ६२।
महीधरः
म० तिस्रो देव्यः अश्विना अश्विनौ च परिस्रुता सुरया सह सोममिन्द्राय सुषुवुरभिषुतवन्तः । काः तिस्रः । सरस्वती भारती इडा च । कीदृश्यः । त्रेधा स्थिता इति शेषः । सरस्वती मध्यस्थाना भारती द्युस्थाना इडा पृथिवीस्थाना । कीदृशं सोमम् । तीव्रं पटुत्वकरम् । मदं मदजनकम् ॥ ६३ ॥
चतुःषष्टी।
अधिमन्त्रम् (VC)
- अश्विसरस्वतीन्द्रा देवताः
- विदर्भिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब विद्वद्विषय में सामयिक रक्षा विषय और भैषज्यादि विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (दैव्या) दिव्य गुणयुक्त (अश्विना) पढ़ाने और उपदेश करनेवालो ! तुम लोग (दिवा) दिन में (नक्तम्) रात्रि में (नः) हमारी (पातम्) रक्षा करो। हे (सरस्वति) बहुत विद्याओं से युक्त माता ! तू हमारी (पाहि) रक्षा कर। हे (होतारा) सब लोगों को सुख देनेवाले (सचा) अच्छे मिले हुए (भिषजा) वैद्य लोगो ! तुम (सुते) उत्पन्न हुए इस जगत् में (इन्द्रम्) ऐश्वर्य्य देनेवाले सोमलता के रस की (पातम्) रक्षा करो ॥६२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे अच्छे वैद्य रोग मिटानेवाली बहुत ओषधियों को जानते हैं, वैसे अध्यापक और उपदेशक और माता-पिता अविद्यारूप रोगों को दूर करनेवाले उपायों को जानें ॥६२ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ विद्वद्विषये सामयिकं रक्षादिविषयं भैषज्यादिविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे दैव्याऽश्विना युवां दिवा नक्तं नः पातम्। हे सरस्वति नः पाहि। हे होतारा सचा भिषजा सुत इन्द्र पातम् ॥६२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यथा सद्वैद्या रोगनिवारकान्यौषधानि जानन्ति तथाऽध्यापकोपदेशकौ मातापितरौ चाऽविद्यारोगनिवारकानुपायाञ्जानन्तु ॥६२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्याप्रमाणे चांगले वैद्य रोग नाहिसे करणारे औषध जाणतात. त्याप्रमाणे अध्यापक व उपदेशक आणि माता-पिता इत्यादींनी अविद्यारूपी रोग दूर करण्याचे उपाय योजावेत.
६३ तिस्रस्त्रेधा सरस्वत्यश्विना
विश्वास-प्रस्तुतिः ...{Loading}...
ति॒स्रस्त्रे॒धा सर॑स्वत्य॒श्विना॒ भार॒तीडा॑। ती॒व्रं प॑रि॒स्रुता॒ सोम॒मिन्द्रा॑य सुषुवु॒र्मद॑म् ॥६३ ॥
मूलम् ...{Loading}...
ति॒स्रस्त्रे॒धा सर॑स्वत्य॒श्विना॒ भार॒तीडा॑। ती॒व्रं प॑रि॒स्रुता॒ सोम॒मिन्द्रा॑य सुषुवु॒र्मद॑म् ॥६३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ति॒स्रः। त्रे॒धा। सर॑स्वती। अ॒श्विना॑। भार॑ती। इडा॑। ती॒व्रम्। प॒रि॒स्रुतेति॑ परि॒ऽस्रुता॑। सोम॑म्। इन्द्रा॑य। सु॒षु॒वुः॒। सु॒सु॒वु॒रिति॑ सुसुवुः। मद॑म्। ६३।
महीधरः
म० अश्विना नोऽस्माकं सरस्वती त्वष्टा प्रयाजदेवता च सुते सोमेऽभिषुते सति इन्द्रे एतानि वस्तूनि अधुः स्थापयामासुः । दधातेर्लुङ् । कानीत्यत आह । भेषजमौषधं मधु मधुरूपं भेषजं च यशः कीर्तिं श्रियं लक्ष्मीं रूपं रूपं नानाविधं रूपं च । ‘नित्यवीप्सयोः’ (पा. ८।१।४) इति रूपशब्दस्य द्वित्वम् ॥ ६४ ॥
पञ्चषष्टी।
अधिमन्त्रम् (VC)
- अश्विसरस्वतीन्द्रा देवताः
- विदर्भिर्ऋषिः
- विराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर भैषज्यादि विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (सरस्वती) अच्छे प्रकार शिक्षा पाई हुई वाणी (भारती) धारण करनेहारी माता और (इडा) स्तुति के योग्य उपदेश करनेहारी ये (तिस्रः) तीन और (अश्विना) अच्छे दो वैद्य (इन्द्राय) ऐश्वर्य के लिये (परिस्रुता) सब ओर से झरने के साथ (तीव्रम्) तीव्रगुणस्वभाववाले (मदम्) हर्षकर्त्ता (सोमम्) ओषधि के रस वा प्रेरणा नाम के व्यवहार को (त्रेधा) तीन प्रकार से (सुषुवुः) उत्पन्न करें, वैसे तुम भी इसकी सिद्धि अच्छे प्रकार करो ॥६३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि सोम आदि ओषधियों के रस को सिद्ध कर उसको पीके शरीर का आरोग्य करके उत्तम वाणी, शुद्ध बुद्धि और यथार्थ वक्तृत्व शक्ति की उन्नति करें ॥६३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्भैषज्यादिविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा सरस्वती भारतीडा च तिस्रोऽश्विना चेन्द्राय परिस्रुता तीव्रं मदं सोमं त्रेधा सुषुवुस्तथा यूयमप्येनं सुषुनोत ॥६३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैः सोमाद्योषधिरसं निर्माय पीत्वाऽऽरोग्यं कृत्वा वाचं धियं वक्तृत्वं चोन्नेनयम् ॥६३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी ‘सोम’ इत्यादी औषधांचा रस तयार करून तो प्यावा व शरीर निरोगी करावे. उत्तम वाणी, शुद्ध बुद्धी व यथार्थ वक्तृत्वशक्तीची वाढ करावी.
६४ अश्विना भेषजम्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒श्विना॑ भेष॒जं मधु॑ भेष॒जं नः॒ सर॑स्वती। इन्द्रे॒ त्वष्टा॒ यशः श्रियँ॑ रू॒पँरू॑पमधुः सु॒ते ॥६४ ॥
मूलम् ...{Loading}...
अ॒श्विना॑ भेष॒जं मधु॑ भेष॒जं नः॒ सर॑स्वती। इन्द्रे॒ त्वष्टा॒ यशः श्रियँ॑ रू॒पँरू॑पमधुः सु॒ते ॥६४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒श्विना॑। भे॒ष॒जम्। मधु॑। भे॒ष॒जम्। नः॒। सर॑स्वती। इन्द्रेः॑। त्वष्टा॑। यशः॑। श्रिय॑म्। रू॒पँरूप॒मिति॑ रू॒पम्ऽरू॑पम्। अ॒धुः॒। सु॒ते। ६४।
महीधरः
म० वनस्पतिः प्रयाजदेवः शशमानः स्तुवन् सन् ऋतुथा ऋतौ ऋतौ काले काले परिस्रुता सुरया सह कीलालमन्नरसमिन्द्रः इन्द्राय इन्द्रार्थं दुहे दुग्धे । ‘सुपां सुलुक्’ (पा० | ७।१।३९) इत्यादिना चतुर्थ्येकवचनस्य सुआदेशे इन्द्र इति ‘लोपस्त आत्मनेपदेषु’ (पा० ७ । । । ४१) इति तलोपे दुहे इति रूपम् । किंच सरस्वती अश्विभ्यां सहिता धेनुर्भूत्वा इन्द्राय मधु दुहे दुग्धे ॥ ६५ ॥
षट्षष्टी।
अधिमन्त्रम् (VC)
- अश्विसरस्वतीन्द्रा देवताः
- विदर्भिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (नः) हमारे लिये (अश्विना) विद्या सिखानेवाले अध्यापकोपदेशक (सरस्वती) विदुषी शिक्षा पाई हुई माता और (त्वष्टा) सूक्ष्मता करनेवाला ये विद्वान् लोग (सुते) उत्पन्न हुए (इन्द्रे) परमैश्वर्य्य में (भेषजम्) सामान्य और (मधु, भेषजम्) मधुरादि गुणयुक्त औषध (यशः) कीर्त्ति (श्रियम्) लक्ष्मी और (रूपं रूपम्) रूप रूप को (अधुः) धारण करने को समर्थ होवें ॥६४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जब मनुष्य लोग ऐश्वर्य को प्राप्त होवें, तब इन उत्तम ओषधियों, कीर्त्ति और उत्तम शोभा को सिद्ध करें ॥६४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - नोऽश्विना सरस्वती त्वष्टा च विद्वांसः सुत इन्द्रे भेषजं मधु भेषजं यशः श्रियं रूपंरूपं चाऽधुः ॥६४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदा मनुष्या ऐश्वर्यं प्राप्नुयुस्तदैतान्युत्तमान्यौषधानि यशः सुशोभां च निष्पादयितुं शक्नुयुः ॥६४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जेव्हा माणसांना ऐश्वर्य प्राप्त होते तेव्हा उत्तम औषधे बाळगावी. कीर्ती व लक्ष्मी प्राप्त करावी.
६५ ऋतुथेन्द्रो वनस्पतिः
विश्वास-प्रस्तुतिः ...{Loading}...
ऋ॒तु॒थेन्द्रो॒ वन॒स्पतिः॑ शशमा॒नः प॑रि॒स्रुता॑। की॒लाल॑म॒श्विम्यां॒ मधु॑ दु॒हे धे॒नुः सर॑स्वती ॥६५ ॥
मूलम् ...{Loading}...
ऋ॒तु॒थेन्द्रो॒ वन॒स्पतिः॑ शशमा॒नः प॑रि॒स्रुता॑। की॒लाल॑म॒श्विम्यां॒ मधु॑ दु॒हे धे॒नुः सर॑स्वती ॥६५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ऋ॒तु॒थेत्यृ॑तु॒ऽथा। इन्द्रः॑। वन॒स्पतिः॑। श॒श॒मा॒नः। प॒रि॒स्रुतेति॑ परि॒ऽस्रुता॑। की॒लाल॑म्। अ॒श्विभ्या॒मित्य॒श्विऽभ्या॑म्। मधु॑। दु॒हे। धे॒नुः। सर॑स्वती। ६५।
महीधरः
म० हे अश्विना अश्विनौ, मासरेण परिस्रुता सह गोभिर्न गोप्रभृतिपशुभिश्च सह । नश्चार्थे । सुतमभिषुतं सोमं मधु च इन्द्रे युवां समधातमारोपयतम् । संपूर्वाद्दधातेर्लुङि मध्यमद्विवचनम्। हे स्वाहाकृतयः प्रयाजदेवाः, यूयं सरस्वत्या सह इन्द्रे सुतं मधु समधातेति वचनव्यत्ययः ॥ ६६ ॥
सप्तषष्टी।
अधिमन्त्रम् (VC)
- अश्विसरस्वतीन्द्रा देवताः
- विदर्भिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जैसे (धेनुः) दूध देनेवाली गौ के समान (सरस्वती) अच्छी उत्तम शिक्षा से युक्त वाणी (परिस्रुता) सब ओर से भरनेवाली जलादि पदार्थ के साथ (ऋतुथा) ऋतुओं के प्रकारों से और (शशमानः) बढ़ता हुआ (इन्द्रः) ऐश्वर्य करनेहारा (वनस्पतिः) वट आदि वृक्ष (मधु) मधुर आदि रस और (कीलालम्) अन्न को (अश्विभ्याम्) वैद्यों से कामनाओं को पूर्ण करता है, वैसे मैं (दुहे) पूर्ण करूँ ॥६५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे अच्छे वैद्यजन उत्तम-उत्तम वनस्पतियों से सारग्रहण के लिये प्रयत्न करते हैं, वैसे सब को प्रयत्न करना चाहिये ॥६५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यथा धेनुः सरस्वती परिस्रुता सहर्तुथा शशमान इन्द्रो वनस्पतिर्मधु कीलालमश्विभ्यां च कामान् दोग्धि, तथाऽहं दुहे ॥६५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा सद्वैद्याः शुद्धेभ्यो वनस्पतिभ्यः सारग्रहणाय प्रयतन्ते, तथा सर्वैः प्रयतितव्यम् ॥६५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसे चांगले उत्तम वनस्पतीद्वारे रस प्राप्त करतात तसा सर्वांनी प्रयत्न केला पाहिजे.
६६ गोभिर्न सोममश्विना
विश्वास-प्रस्तुतिः ...{Loading}...
गोभि॒र्न सोम॑मश्विना॒ मास॑रेण परि॒स्रुता॑। सम॑धातँ॒ सर॑स्वत्या॒ स्वाहेन्द्रे॑ सु॒तं मधु॑ ॥६६ ॥
मूलम् ...{Loading}...
गोभि॒र्न सोम॑मश्विना॒ मास॑रेण परि॒स्रुता॑। सम॑धातँ॒ सर॑स्वत्या॒ स्वाहेन्द्रे॑ सु॒तं मधु॑ ॥६६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
गोभिः॑। न। सोम॑म्। अ॒श्वि॒ना॒। मास॑रेण। प॒रि॒स्रुतेति॑ परि॒ऽस्रुता॑। सम्। अ॒धा॒त॒म्। सर॑स्वत्या। स्वाहा॑। इन्द्रे॑। सु॒तम्। मधु॑। ६६।
महीधरः
म० अश्विना हविरिति तिस्रो वपानां याज्यानुवाक्याः प्रथमामनूच्य द्वितीया याज्या द्वितीयामनूच्य तृतीया याज्या तृतीयामनूच्य प्रथमा याज्या । अश्विनेत्याद्यास्तिस्रस्तिसृणां वपानां क्रमाद्याज्यापुरोनुवाक्याः । तत्प्रकारमाह । आश्विनवपायागे अश्विना (६७) इति अनुवाक्या यमश्विना (६८) इति याज्या, सारस्वतवपायागे यमश्विना (६८) इति अनुवाक्या तमिन्द्रम् ( ६९) इति याज्या, ऐन्द्रवपायागे तमिन्द्रम् (६९) इति अनुवाक्या अश्विना (६७) इति याज्येति सूत्रार्थः । अश्विसरस्वतीन्द्रदेवत्यास्तिस्रोऽनुष्टुभः । अश्विना अश्विनौ सरखती च धिया बुद्ध्या कृत्वा नमुचेर्नमुचिसंज्ञात् आसुरात् दैत्यात् इन्द्रायेन्द्रार्थमेतानि वस्तूनि आजभ्रिरे आजह्रिरे । कानीत्यत आह । हविः शुक्रं शुद्धममलिनं हविः इन्द्रियं वीर्यं मघं महनीयं वसु धनं च ॥ ६७ ॥
अष्टषष्टी।
अधिमन्त्रम् (VC)
- अश्विसरस्वतीन्द्रा देवताः
- विदर्भिर्ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अश्विना) अच्छी शिक्षा पाये हुए वैद्यो ! (मासरेण) प्रमाणयुक्त मांड (परिस्रुता) सब ओर से मधुर आदि रस से युक्त (सरस्वत्या) अच्छी शिक्षा और ज्ञान से युक्त वाणी से और (स्वाहा) सत्यक्रिया से तथा (इन्द्रे) परमैश्वर्य्य के होते (गोभिः) गौओं से दुग्ध आदि पदार्थों को जैसे (न) वैसे (मधु) मधुर आदि गुणों से युक्त (सुतम्) सिद्ध किये (सोमम्) ओषधियों के रस को तुम (समधातम्) अच्छे प्रकार धारण करो ॥६६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। वैद्य लोग उत्तम हस्तक्रिया से सब ओषधियों के रस को ग्रहण करें ॥६६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अश्विना ! परिस्रुता मासरेण सरस्वत्या स्वाहेन्द्रे गोभिर्दुग्धादि न सुतं मधु सोमं युवां समधातम् ॥६६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। वैद्याः श्रेष्ठया हस्तक्रियया सर्वौषधिरसं संगृह्णीयुः ॥६६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. वैद्यांनी अत्यंत कौशल्याने सर्व औषधांचे रस तयार करावेत.
६७ अश्विना हविरिन्द्रियम्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒श्विना॑ ह॒विरि॑न्द्रि॒यं नमु॑चेर्धि॒या सर॑स्वती। आ शु॒क्रमा॑सु॒राद्वसु॑ म॒घमिन्द्रा॒॑य जभ्रिरे ॥६७ ॥
मूलम् ...{Loading}...
अ॒श्विना॑ ह॒विरि॑न्द्रि॒यं नमु॑चेर्धि॒या सर॑स्वती। आ शु॒क्रमा॑सु॒राद्वसु॑ म॒घमिन्द्रा॒॑य जभ्रिरे ॥६७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒श्विना॑। ह॒विः। इ॒न्द्रि॒यम्। नमु॑चेः। धि॒या। सर॑स्वती। आ। शु॒क्रम्। आ॒सु॒रात्। वसु॑। म॒घम्। इन्द्रा॑य। ज॒भ्रि॒रे॒। ६७।
महीधरः
म० अश्विनौ सरस्वती च हविषा कृत्वा यमिन्द्रमवर्धयन् । स इन्द्रो नमुचावासुरे सचा नमुचिना असुरेण सह मघं महनीयं बलं मघं बिभेद विदारितवान् । सचेत्यव्ययं सहार्थे । तद्योगे नमुचावासुरे इति तृतीयार्थे सप्तमी । ‘वृणोतेर्बले’ (निरु० ६ । २) इति यास्कः । नमुचिं विदार्य वृष्टिं कारितवानित्यर्थः ॥ ६८॥
एकोनसप्ततितमी।
अधिमन्त्रम् (VC)
- अश्विसरस्वतीन्द्रा देवताः
- विदर्भिर्ऋषिः
- भुरिगनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अश्विना) अच्छे वैद्य और (सरस्वती) अच्छी शिक्षायुक्त स्त्री (धिया) बुद्धि से (नमुचेः) नाशरहित कारण से उत्पन्न हुए कार्य से (हविः) ग्रहण करने योग्य (इन्द्रियम्) मन को (आसुरात्) मेघ से (शुक्रम्) पराक्रम और (मघम्) पूज्य (वसु) धन को (इन्द्राय) ऐश्वर्य के लिये (आजभ्रिरे) धारण करें ॥६७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - स्त्री और पुरुषों को चाहिये कि ऐश्वर्य से सुख की प्राप्ति के लिये ओषधियों का सेवन करें ॥६७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - अश्विना सरस्वती च धिया नमुचेर्हविरिन्द्रियमासुराच्छुक्रं मघं वस्विन्द्रायाजभ्रिरे ॥६७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - स्त्रीपुरुषैरैश्वर्यसुखप्राप्तय औषधानि संसेव्यानि ॥६७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - स्री-पुरुषांनी ऐश्वर्यप्राप्ती व सुखाची प्राप्ती व्हावी यासाठी औषधांचे सेवन करावे.
६८ यमश्विना सरस्वती
विश्वास-प्रस्तुतिः ...{Loading}...
यम॒श्विना॒ सर॑स्वती ह॒विषेन्द्र॒मव॑र्द्धयन्। स बि॑भेद ब॒लं म॒घं नमु॑चावासु॒रे सचा॑ ॥६८ ॥
मूलम् ...{Loading}...
यम॒श्विना॒ सर॑स्वती ह॒विषेन्द्र॒मव॑र्द्धयन्। स बि॑भेद ब॒लं म॒घं नमु॑चावासु॒रे सचा॑ ॥६८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यम्। अ॒श्विना॑। सर॑स्वती। ह॒विषा॑। इन्द्र॑म्। अव॑र्द्धयन्। सः। बि॒भे॒द॒। ब॒लम्। म॒घम्। नमु॑चौ। आ॒सु॒रे। सचा॑। ६८।
महीधरः
म० पशवः कर्माङ्गभूता गोमेषाजाः उभा अश्विना उभौ अश्विनौ सरस्वती च सचा सहभूताः सन्तः यज्ञे हविषा इन्द्रियैः वीर्यैश्च दधानाः पुष्णन्तः सन्तः तमिन्द्रमभ्यनूषत अवर्धयन् अस्तुवन् वा ‘णू स्तवने’ ॥ ६९ ॥
सप्ततितमी।
अधिमन्त्रम् (VC)
- अश्विसरस्वतीन्द्रा देवताः
- विदर्भिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (सचा) संयोग किये हुए (अश्विना) अध्यापक और उपदेशक तथा (सरस्वती) विदुषी स्त्री (नमुचौ) नाशरहित कारण से उत्पन्न (आसुरे) मेघ में होने के निमित्त घर में (हविषा) अच्छी बनाई हुई होम की सामग्री से (यम्) जिस (इन्द्रम्) ऐश्वर्य को (अवर्द्धयन्) बढ़ाते (सः) वह (मघम्) परमपूज्य (बलम्) बल का (बिभेद) भेदन करे ॥६८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो ओषधियों के रस को कर्त्तव्यता के गुणों से उत्तम करे, वह रोग का नाश करनेहारा होवे ॥६८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - स्रुचाऽश्विना सरस्वती च नमुचावासुरे हविषा यमिन्द्रमवर्द्धयन्, स मघं बलं बिभेद ॥६८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यद्योषधिरसं क्रियागुणैरुत्तमं कुर्युस्तर्हि स रोगहन्ता स्यात् ॥६८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जो कर्तव्य समजून उत्तम रीतीने औषधांचा रस तयार करतो तो रोगांचा नाश करतो.
६९ तमिन्द्रं पशवः
विश्वास-प्रस्तुतिः ...{Loading}...
तमिन्द्रं॑ प॒शवः॒ सचा॒श्विनो॒भा सर॑स्वती। दधा॑ना अ॒भ्य᳖नूषत ह॒विषा॑ य॒ज्ञऽइ॑न्द्रि॒यैः ॥६९ ॥
मूलम् ...{Loading}...
तमिन्द्रं॑ प॒शवः॒ सचा॒श्विनो॒भा सर॑स्वती। दधा॑ना अ॒भ्य᳖नूषत ह॒विषा॑ य॒ज्ञऽइ॑न्द्रि॒यैः ॥६९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
तम्। इन्द्र॑म्। प॒श॑वः। सचा॑। अ॒श्विना॑। उ॒भा। सर॑स्वती। दधा॑नाः। अ॒भि। अ॒नू॒ष॒त॒। ह॒विषा॑। य॒ज्ञे। इ॒न्द्रि॒यैः। ६९।
महीधरः
म० ‘य इन्द्र इति पुरोडाशानां पूर्ववत्’ (का० १९ । ६।१८) य इन्द्र इति तिस्रस्त्रयाणां पशुपुरोडाशानां याज्यानुवाक्याः पूर्ववत्’ य इन्द्रे (७०) सविता (७१) इत्यैन्द्रस्यानुवाक्यायाज्ये, सविता (७१) वरुणः क्षत्रम् (७२) इति सावित्रस्य ते । वरुणः क्षत्रम् (७२) य इन्द्रे (७०) इति वारुणस्येति सूत्रार्थः । प्रत्येकमिन्द्रसवितृवरुणदेवत्यास्तिस्रोऽनुष्टुभः । सविता वरुणो भग इति ये त्रयो देवाः इन्द्रे इन्द्रियं वीर्यं दधुः स्थापयामासुः । हविष्पतिः हविषां स्वामी सुत्रामा | शोभनत्राणकर इन्द्रो यजमानाय । कर्मणि चतुर्थी । यजमानं सश्चत सेवताम् । इष्टदानेन यजमानं सुखयत्वित्यर्थः । षच | सेवने’ लोडर्थे लङ् । अडभाव आर्षः ॥ ७० ॥
एकसप्ततितमी।
अधिमन्त्रम् (VC)
- अश्विसरस्वतीन्द्रा देवताः
- विदर्भिर्ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब विद्वानों के विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य लोगो ! (सचा) विद्या से युक्त (अश्विना) वैद्यकविद्या में चतुर अध्यापक और उपदेशक (उभा) दोनों (इन्द्रियैः) धनों से जिस (इन्द्रम्) बल आदि गुणों के धारण करनेहारे सोम को धारण करें, (तम्) उसको (सरस्वती) सत्य विज्ञान से युक्त स्त्री धारण करे और जिसको (पशवः) गौ आदि पशु धारण करें, उसको (हविषा) सामग्री से (दधानाः) धारण करते हुए जन (यज्ञे) यज्ञ में (अभ्यनूषत) सब ओर से प्रशंसा करें ॥६९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो लोग धर्म्म के आचरण से धन के साथ धन को बढ़ाते हैं, वे प्रशंसा को प्राप्त होते हैं ॥६९ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ विद्वद्विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! सचाश्विनोभा इन्द्रियैर्यमिन्द्रं दध्याताम्, तं सरस्वती दध्यात्, यं च पशवो दध्युस्तं हविषा दधानाः सन्तो यज्ञेऽभ्यनूषत ॥६९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये धर्माचरणाद् धनेन धनं वर्द्धयन्ति, ते प्रशंसां प्राप्नुवन्ति ॥६९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे लोक धर्मपूर्वक आचरण करून धनाची सतत वृद्धी करतात ते प्रशंसेस पात्र ठरतात.
७० यऽइन्द्रऽइन्द्रियं दधुः
विश्वास-प्रस्तुतिः ...{Loading}...
यऽइन्द्र॑ऽइन्द्रि॒यं द॒धुः स॑वि॒ता वरु॑णो॒ भगः॑। स सु॒त्रामा॑ ह॒विष्प॑ति॒र्यज॑मानाय सश्चत ॥७० ॥
मूलम् ...{Loading}...
यऽइन्द्र॑ऽइन्द्रि॒यं द॒धुः स॑वि॒ता वरु॑णो॒ भगः॑। स सु॒त्रामा॑ ह॒विष्प॑ति॒र्यज॑मानाय सश्चत ॥७० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ये। इन्द्रे॑। इ॒न्द्रि॒यम्। द॒धुः। स॒वि॒ता। वरु॑णः। भगः॑। सः। सु॒त्रामेति॑ सु॒ऽत्रामा॑। ह॒विष्प॑तिः। ह॒विःप॑ति॒रिति॑ ह॒विःऽप॑तिः। यज॑मानाय। स॒श्च॒त॒। ७०।
महीधरः
म० सुत्रामा इन्द्रो नमुचेरसुरात्सकाशात् यद्वसु धनं बलमिन्द्रियं वीर्यं च आदत्त जग्राह । सविता वरुणो भगश्च पशुपुरोडाशमन्त्रदेवास्तत् नमुचेरानीतं वस्वादिकं यजमानाय दधत् दधातु । ददत्वित्यर्थः । कीदृशाय यजमानाय । दाशुषे दाशति ददातीति दाश्वान् तस्मै हवींषि दत्तवते ‘दाश्वान्साह्वान्-’ (पा. ६ । १ । १२) इत्यादिना क्वसन्तो निपातः ॥ ७१ ॥
द्विसप्ततितमी।
अधिमन्त्रम् (VC)
- इन्द्रसवितृवरुणा देवताः
- विदर्भिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! (ये) जो लोग (इन्द्रे) ऐश्वर्य्य में (इन्द्रियम्) धन को (दधुः) धारण करें, वे सुखी होवें। इस कारण जो (भगः) सेवा करने के योग्य (वरुणः) श्रेष्ठ (सविता) ऐश्वर्य की इच्छा से युक्त (सुत्रामा) अच्छे प्रकार रक्षक (हविष्पतिः) होम करने योग्य पदार्थों की रक्षा करेनहारा मनुष्य (यजमानाय) यज्ञ करनेहारे के लिये धन को (सश्चत) सेवे, (सः) वह प्रतिष्ठा को प्राप्त होवे ॥७० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे पुरोहित यजमान के ऐश्वर्य को बढ़ाता है, वैसे यजमान भी पुरोहित के धन को बढ़ावे ॥७० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! य इन्द्र इन्द्रियं दधुस्ते सुखिनः स्युरतो यो भगो वरुणः सविता सुत्रामा हविष्पतिर्जनो यजमानायेन्द्रियं सश्चत सेवते स प्रतिष्ठां प्राप्नुयात् ॥७० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यथा पुरोहितो यजमानस्यैश्वर्र्यं वर्द्धयति, तथा यजमानोऽपि पुरोहितस्य धनं वर्द्धयेत् ॥७० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जसा पुरोहित यजमानाचे ऐश्वर्य वाढवितो तसे यजमानानेही पुरोहिताचे धन वाढवावे.
७१ सविता वरुणो
विश्वास-प्रस्तुतिः ...{Loading}...
स॒वि॒ता वरु॑णो॒ दध॒द् यज॑मानाय दा॒शुषे॑। आद॑त्त॒ नमु॑चे॒र्वसु॑ सु॒त्रामा॒ बल॑मिन्द्रि॒यम् ॥७१ ॥
मूलम् ...{Loading}...
स॒वि॒ता वरु॑णो॒ दध॒द् यज॑मानाय दा॒शुषे॑। आद॑त्त॒ नमु॑चे॒र्वसु॑ सु॒त्रामा॒ बल॑मिन्द्रि॒यम् ॥७१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स॒वि॒ता। वरु॑णः। दध॑त्। यज॑मानाय। दा॒शुषे। आ। अ॒द॒त्त॒। नमुचेः। वसु॑। सु॒त्रामेति॑ सु॒ऽत्रामा॑। बल॑म्। इ॒न्द्रि॒यम्। ७१।
महीधरः
म० वरुणः सविता सुत्रामा इन्द्रश्च यज्ञं सौत्रामणीमाशत भक्षितवन्तः व्याप्तवन्तो वा । ‘अश भोजने’ ‘अशूङ् व्याप्तौ’ वा । उभयोर्विकरणव्यत्ययः । कीदृशास्ते । क्षत्रं क्षतात् त्राण
सामर्थ्यमिन्द्रियं वीर्यं भगेन भाग्येन सह श्रियं लक्ष्मीं यशसा सह बलं च दधानाः यजमाने स्थापयन्तः । तत्र वरुणः क्षत्रमिन्द्रियं च दधाति सविता भगं प्रियं सुत्रामा यशो बलं चेति विभागः ॥७२॥
त्रिसप्ततितमी।
अधिमन्त्रम् (VC)
- इन्द्रसवितृवरुणा देवताः
- विदर्भिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (वरुणः) उत्तम (सविता) प्रेरक और (सुत्रामा) अच्छे प्रकार रक्षा करनेहारा जन (दाशुषे) देनेवाले (यजमानाय) यजमान के लिये (वसु) द्रव्य को (दधत्) धारण करता हुआ (नमुचेः) धर्म को नहीं छोड़नेवाले के (बलम्) बल और (इन्द्रियम्) अच्छी शिक्षा से युक्त मन का (आ, अदत्त) अच्छे प्रकार ग्रहण करे ॥७१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - देनेवाले पुरुष की अच्छे प्रकार सेवा करके उससे अच्छे पदार्थों को प्राप्त होकर जो सब के बल को बढ़ाता है, वह बलवान् होता है ॥७१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - वरुणस्सविता सुत्रामा दाशुषे यजमानाय वसु दधत् सन् नमुचेर्बलमिन्द्रियमादत्त ॥७१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - दातारं संसेव्य ततः पदार्थान् प्राप्य यः सर्वस्य बलं वर्द्धयति, स बलवाञ्जायते ॥७१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - दानी यजमानाचा जो चांगल्याप्रकारे प्रेरक व रक्षक असतो, तसेच त्यांच्याकडून निरनिराळे पदार्थ प्राप्त करून सर्वांचे बल वाढवितो तो बलवान असतो.
७२ वरुणः क्षत्रमिन्द्रियम्
विश्वास-प्रस्तुतिः ...{Loading}...
व॑रुणः क्ष॒त्रमि॑न्द्रि॒यं भगे॑न सवि॒ता श्रिय॑म्। सु॒त्रामा॒ यश॑सा॒ बलं॒ दधा॑ना य॒ज्ञमा॑शत ॥७२ ॥
मूलम् ...{Loading}...
व॑रुणः क्ष॒त्रमि॑न्द्रि॒यं भगे॑न सवि॒ता श्रिय॑म्। सु॒त्रामा॒ यश॑सा॒ बलं॒ दधा॑ना य॒ज्ञमा॑शत ॥७२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वरु॑णः। क्ष॒त्रम्। इ॒न्द्रि॒यम्। भगे॑न। स॒वि॒ता। श्रिय॑म्। सु॒त्रामेति॑ सु॒ऽत्रामा॑। यश॑सा। बल॑म्। दधा॑नाः। य॒ज्ञम्। आ॒श॒त॒। ७२।
महीधरः
म० ‘अश्विना गोभिरिति च हविषाम्’ ( का० १९ । ६ । १९)। अश्विना गोभिरिति तिस्रो हविषां याज्यानुवाक्याः चात् पूर्ववत् अश्विना ( ७३ ) ता नासत्या ( ७४ ) इत्याश्विनपशुयागे पुरोऽनुवाक्यायाज्ये, ता नासत्या (७४) ता भिषजा (७५) इति सारस्वते, ता भिषजा (७५) अश्विना ( ७३ ) इत्यैन्द्रे इति सूत्रार्थः । अश्विसरस्वतीन्द्रदेवत्यास्तिस्रोऽनुष्टुभः । अश्विनौ सरस्वती च एतैः पदार्थैः इन्द्रं यजमानं चावर्धयन् । कैस्तत्राह । गोभिर्गोप्रभृतिपशुभिः इन्द्रियम् । विभक्तिव्यत्ययः। इन्द्रियेण इन्द्रियपाटवेन अश्वेभिः अश्वैः दक्षिणारूपैः वीर्यं बलं वीर्येण मनःसामर्थ्येन बलेन शरीरदार्ढ्येन हविषा पशुपुरोडाशेन च । इन्द्रस्य वर्धनं तृप्तिः यजमानस्य वर्धनं धनपुत्रपश्वादिपुष्टिः ॥ ७३ ॥
चतुःसप्ततितमी।
अधिमन्त्रम् (VC)
- इन्द्रसवितृवरुणा देवताः
- विदर्भिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (वरुणः) उत्तम पुरुष (सविता) ऐश्वर्योत्पादक (सुत्रामा) अच्छे प्रकार रक्षा करनेहारा सभा का अध्यक्ष (भगेन) ऐश्वर्य्य के साथ वर्त्तमान (क्षत्रम्) राज्य और (इन्द्रियम्) मन आदि (श्रियम्) राज्यलक्ष्मी और (यज्ञम्) यज्ञ को प्राप्त होता है, वैसे (यशसा) कीर्ति के साथ (बलम्) बल को (दधानाः) धारण करते हुए तुम (आशत) प्राप्त होओ ॥७२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। ऐश्वर्य्य के विना राज्य, राज्य के विना राज्यलक्ष्मी और राज्यलक्ष्मी के विना भोग प्राप्त नहीं होते, इसलिये नित्य पुरुषार्थ करना चाहिये ॥७२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा वरुणः सविता सुत्रामा सूद्योगी सभेशो भगेन सह वर्त्तमानं क्षत्रमिन्द्रियं श्रियं यज्ञं च प्राप्नोति, तथा यशसा बलं दधानाः सन्तो यूयमाशत ॥७२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ऐश्वर्येण विना राज्यं राज्येन विना श्रीः श्रिया विनोपभोगाश्च न प्राप्यन्ते, तस्मान्नित्यं पुरुषार्थेन वर्त्तितव्यम् ॥७२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. ऐश्वर्य मिळविल्याशिवाय राज्य मिळू शकत नाही. राज्याशिवाय लक्ष्मी मिळू शकत नाही. लक्ष्मीशिवाय भोग प्राप्त होऊ शकत नाहीत त्यासाठी नेहमी पुरुषार्थ करावा.
७३ अश्विना गोभिरिन्द्रियमश्वेभिर्वीर्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒श्विना॒ गोभि॑रिन्द्रि॒यमश्वे॑भिर्वी॒र्यं᳙ बल॑म्। ह॒विषेन्द्रँ॒ सर॑स्वती॒ यज॑मानमवर्द्धयन् ॥७३ ॥
मूलम् ...{Loading}...
अ॒श्विना॒ गोभि॑रिन्द्रि॒यमश्वे॑भिर्वी॒र्यं᳙ बल॑म्। ह॒विषेन्द्रँ॒ सर॑स्वती॒ यज॑मानमवर्द्धयन् ॥७३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒श्विना॑। गोभिः॑। इ॒न्द्रि॒यम्। अश्वे॑भिः। वी॒र्य्य᳙म्। बल॑म्। ह॒विषा॑। इन्द्र॑म्। सर॑स्वती। यज॑मानम्। अ॒व॒र्द्ध॒य॒न्। ७३।
महीधरः
म० ता तौ नासत्या नासत्यौ अश्विनौ सरस्वती च कर्मसु सौत्रामण्यादियागेषु नोऽस्मानवत अवन्तु रक्षन्तु । पुरुषव्यत्ययः । हे इन्द्र, त्वमपि नोऽस्मान् कर्मसु अव । वचनव्यत्ययः । कीदृशौ नासत्यौ । हिरण्यवर्तनी हिरण्येनोपलक्षिता वर्तनिर्मार्गो ययोस्तौ । यत्र पथि गच्छतस्तत्र सुवर्णमेव संपद्यत इत्यर्थः । सुपेशसा शोभनं पेशो रूपं ययोस्तौ सुन्दरौ । | नरा नरौ नरगुणयुक्तौ नराकारौ च । कीदृशी सरस्वती । हविष्मती हविर्विद्यते यस्याः सा ॥ ७४ ॥
पञ्चसप्ततितमी।
अधिमन्त्रम् (VC)
- अश्विसरस्वतीन्द्रा देवताः
- विदर्भिर्ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अश्विना) अध्यापक, उपदेशक और (सरस्वती) सुशिक्षायुक्त विदुषी स्त्री (गोभिः) अच्छे प्रकार शिक्षायुक्त वाणी वा पृथिवी और गौओं तथा (अश्वेभिः) अच्छे प्रकार शिक्षा पाये हुए घोड़ों और (हविषा) अङ्गीकार किये हुए पुरुषार्थ से (इन्द्रियम्) धन (वीर्यम्) पराक्रम (बलम्) बल और (इन्द्रम्) ऐश्वर्ययुक्त (यजमानम्) सत्य अनुष्ठानरूप यज्ञ करनेहारे को (अवर्द्धयन्) बढ़ावें ॥७३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो लोग जिनके समीप रहें उनको योग्य है कि वे उनको सब अच्छे गुण कर्मों और ऐश्वर्य आदि से उन्नति को प्राप्त करें ॥७३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - अश्विना सरस्वती च गोभिरश्वेभिर्हविषेन्द्रियं वीर्यं बलमिन्द्रं यजमानमवर्द्धयन् ॥७३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये येषां समीपे निवसेयुस्तेषां योग्यतास्ति, ते तान् सर्वैः शुभगुणकर्मभिरैश्वर्यादिना च समुन्नयेयुः ॥७३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे लोक ज्या व्यक्तीजवळ राहतात. त्यांनी त्या लोकांना चांगले गुण, कर्म, स्वभाव व ऐश्वर्य इत्यादींनी उन्नत करावे.
७४ ता नासत्या
विश्वास-प्रस्तुतिः ...{Loading}...
ता नास॑त्या सु॒पेश॑सा॒ हिर॑ण्यवर्त्तनी॒ नरा॑। सर॑स्वती ह॒विष्म॒तीन्द्र॒ कर्म॑सु नोऽवत ॥७४ ॥
मूलम् ...{Loading}...
ता नास॑त्या सु॒पेश॑सा॒ हिर॑ण्यवर्त्तनी॒ नरा॑। सर॑स्वती ह॒विष्म॒तीन्द्र॒ कर्म॑सु नोऽवत ॥७४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ता। नास॑त्या। सु॒पेश॒सेति॑ सु॒ऽपेश॑सा। हिर॑ण्यवर्त्तनी॒ इति॒ हिर॑ण्यऽवर्त्तनी। नरा॑। सर॑स्वती। ह॒विष्म॑ती। इन्द्र॑। कर्म॒स्विति॒ कर्म॑ऽसु। नः॒। अ॒व॒त॒। ७४।
महीधरः
म० ता तौ प्रसिद्धौ भिषजा भिषजौ वैद्यौ अश्विनौ सा प्रसिद्धा सरस्वती च स प्रसिद्धो वृत्रहा इन्द्रः कल्पान्तरप्रभवः इन्द्राय एतत्कल्पप्रभवाय इन्द्रियं वीर्यं दधुः । यद्वा इन्द्र एव दातृपात्ररूपेण बहुधा भवति देवानामचिन्त्यशक्तित्वात् । कीदृशौ भिषजौ । सुकर्मणा सुकर्माणौ शोभनं कर्म ययोस्तौ । कीदृशी सरस्वती । सुदुघा सुष्ठु दुग्धे सा सुदुघा साधुदोहना। कीदृशो वृत्रहा । शतक्रतुः शतं क्रतवः कर्माणि यस्य । बहुकर्मकर्ता ॥ ७५॥
षट्सप्ततितमी।
अधिमन्त्रम् (VC)
- अश्विसरस्वतीन्द्रा देवताः
- विदर्भिर्ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) ऐश्वर्यवाले विद्वन् ! (ता) वे (नासत्या) असत्य आचरण से रहित (सुपेशसा) अच्छे रूप युक्त (हिरण्यवर्त्तनी) सुवर्ण का वर्त्ताव करनेहारी (नरा) सर्वगुणप्रापक पढ़ाने और उपदेश करनेवाली (हविष्मती) उत्तम ग्रहण करने योग्य पदार्थ जिसके विद्यमान वह (सरस्वती) विदुषी स्त्री और आप (कर्मसु) कर्मों में (नः) हमारी (अवत) रक्षा करो ॥७४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे विद्वान् पुरुष पढ़ाने और उपदेश से सब को दुष्ट कर्मों से दूर करके अच्छे कर्मों में प्रवृत्त कर रक्षा करते हैं, वैसे ही ये सब के रक्षा करने योग्य हैं ॥७४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे इन्द्र ! विद्वंस्ता नासत्या सुपेशसा हिरण्यवर्त्तनी नराऽध्यापकोपदेशकौ हविष्मती सरस्वती स्त्री त्वं च कर्मसु नोऽवत ॥७४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यथा विद्वांसोऽध्यापनोपदेशैः सर्वान् दुष्टकर्मभ्यो निवर्त्य श्रेष्ठेषु कर्मसु प्रवर्त्य रक्षन्ति, तथैवैते सर्वै रक्षणीयाः ॥७४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - विद्वान पुरुष अध्ययन व उपदेश करून सर्वांना दुष्ट कर्मापासून दूर ठेवतात व चांगल्या कामास प्रवृत्त करून त्यांचे रक्षण करतात. सर्वांचे रक्षण करण्याची त्यांची योग्यता असते.
७५ ता भिषजा
विश्वास-प्रस्तुतिः ...{Loading}...
ता भि॒षजा॑ सु॒कर्म॑णा॒ सा सु॒दुघा॒ सर॑स्वती। स वृ॑त्र॒हा श॒तक्र॑तु॒रिन्द्रा॑य दधुरिन्द्रि॒यम् ॥७५ ॥
मूलम् ...{Loading}...
ता भि॒षजा॑ सु॒कर्म॑णा॒ सा सु॒दुघा॒ सर॑स्वती। स वृ॑त्र॒हा श॒तक्र॑तु॒रिन्द्रा॑य दधुरिन्द्रि॒यम् ॥७५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ता। भि॒षजा॑। सु॒कर्म॒णेति॑ सु॒ऽकर्म॑णा। सा। सु॒दुघेति॑ सु॒ऽदुघा॑। सर॑स्वती। सः। वृ॒त्र॒हेति॑ वृत्र॒ऽहा। श॒तक्र॑तुः। इन्द्रा॑य। द॒धुः॒। इ॒न्द्रि॒यम्। ७५।
महीधरः
म० ‘ग्रहाणां युवᳪं᳭ सुरामं पुत्रमिवेति’ ( का० १९ । ६ । २० )। त्रयाणां पयोग्रहाणां सुराग्रहाणां च युवमिति पुरोनुवाक्या पुत्रमिवेति याज्येति सूत्रार्थः । द्वे अश्विसरस्वतीन्द्रदेवत्येऽनुष्टुप्त्रिष्टुभौ । हे अश्विनौ, हे सरस्वति, युवं यूयं वचनव्यत्ययः । नमुचावासुरे दैत्ये वर्तमानं सुरामं सुरामयं ग्रहं सचा सह विपिपाना विविध पिबन्तः सन्तः कर्मस्विन्द्रमावत आसमन्ताद्रक्षत । पिपाना अत्र विकरणव्यत्ययः ॥ ७६ ॥
सप्तसप्ततितमी।
अधिमन्त्रम् (VC)
- अश्विसरस्वतीन्द्रा देवताः
- विदर्भिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य लोगो ! जैसे (ता) वे (भिषजा) शरीर और आत्मा के रोगों के निवारण करनेहारे (सुकर्मणा) अच्छी धर्मयुक्त क्रिया से युक्त दो वैद्य (सा) वह (सुदुघा) अच्छे प्रकार इच्छा को पूरण करनेहारी (सरस्वती) पूर्ण विद्या से युक्त स्त्री और (सः) वह (वृत्रहा) जो मेघ का नाश करता है, उस सूर्य के समान (शतक्रतुः) अत्यन्त बुद्धिमान् (इन्द्राय) ऐश्वर्य्य के लिये (इन्द्रियम्) धन को (दधुः) धारण करें, वैसे तुम आचरण करो ॥७५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जगत् में जैसे विद्वान् लोग उत्तम आचरणवाले पुरुष के समान प्रयत्न करके विद्या और धन को बढ़ाते हैं, वैसे सब मनुष्य करें ॥७५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्या ! यथा ता भिषजा सुकर्मणा सा सुदुघा सरस्वती स वृत्रहेव शतक्रतुश्चेन्द्रायेन्द्रियं दधुस्तथा यूयमप्याचरत ॥७५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। अस्मिञ्जगति यथा विद्वांसः श्रेष्ठाचारिवत् प्रयत्य विद्याधने समुन्नयन्ति, तथा सर्वे मनुष्याः कुर्य्युः ॥७५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. या जगात जसे विद्वान लोक सदाचरण्ी पुरुषाप्रमाणे प्रयत्नपूर्वक विद्या व धन वाढवितात तसे सर्व माणसांनी वागावे.
७६ युवं सुराममश्विना
विश्वास-प्रस्तुतिः ...{Loading}...
यु॒वँ सु॒राम॑मश्विना॒ नमु॑चावासु॒रे सचा॑। वि॒पि॒पा॒नाः सर॑स्व॒तीन्द्रं॒ कर्म॑स्वावत ॥७६ ॥
मूलम् ...{Loading}...
यु॒वँ सु॒राम॑मश्विना॒ नमु॑चावासु॒रे सचा॑। वि॒पि॒पा॒नाः सर॑स्व॒तीन्द्रं॒ कर्म॑स्वावत ॥७६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यु॒वम्। सु॒राम॑म्। अ॒श्वि॒ना॒। नमु॑चौ। आ॒सु॒रे। सचा॑। वि॒पि॒पा॒ना इति॑ विऽपिपा॒नाः। स॒र॒स्व॒ति। इन्द्र॑म्। कर्म्म॒स्विति॒ कर्म॑ऽसु। आ॒व॒त॒। ७६।
महीधरः
म० इयं व्याख्याता दशमेऽध्याये । (अ० १० । क० : ३४) ॥ ७७ ॥
अष्टसप्ततितमी।
अधिमन्त्रम् (VC)
- अश्विसरस्वतीन्द्रा देवता
- विदर्भिर्ऋषिः
- विराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर प्रकारान्तर से विद्वानों के विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अश्विना) पालन आदि कर्म करनेहारे अध्यापक और उपदेशक ! (सचा) मिले हुए (युवम्) तुम दोनों और हे (सरस्वति) अतिश्रेष्ठ विज्ञानवाली प्रजा तू जैसे (नमुचौ) प्रवाह से नित्यरूप (आसुरे) मेघ में और (कर्मसु) कर्मों में (सुरामम्) अतिसुन्दर (इन्द्रम्) परमैश्वर्य का (आवत) पालन करते हो, वैसे (विपिपानाः) नाना प्रकार से रक्षा करनेहारे होते हुए आचरण करो ॥७६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो लोग पुरुषार्थ से बड़े ऐश्वर्य को प्राप्त होकर धन की रक्षा करके आनन्द को भोगते हैं, वे सदा ही बढ़ते हैं ॥७६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः प्रकारान्तरेण विद्वद्विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अश्विना ! सचा युवं हे सरस्वती त्वं च यथा नमुचावासुरे कर्मसु सुराममिन्द्रमावत तथा विपिपाना अप्याचरत ॥७६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये पुरुषार्थेन महदैश्वर्यं प्राप्य धनं सुरक्ष्याऽनन्दं भुञ्जते, ते सदैव वर्द्धन्ते ॥७६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे लोक पुरुषार्थाने ऐश्वर्य प्राप्त करून धनाचे रक्षण करतात ते आनंद उपभोगतात व त्यांची भरभराट होते.
७७ पुत्रमिव पितरावश्विनोभेन्द्रावथुः
विश्वास-प्रस्तुतिः ...{Loading}...
पु॒त्रमि॑व पि॒तरा॑व॒श्विनो॒भेन्द्रा॒वथुः॒ काव्यै॑र्दँ॒सना॑भिः। यत्सु॒रामं॒ व्यपि॑बः॒ शची॑भिः॒ सर॑स्वती त्वा मघवन्नभिष्णक् ॥७७ ॥
मूलम् ...{Loading}...
पु॒त्रमि॑व पि॒तरा॑व॒श्विनो॒भेन्द्रा॒वथुः॒ काव्यै॑र्दँ॒सना॑भिः। यत्सु॒रामं॒ व्यपि॑बः॒ शची॑भिः॒ सर॑स्वती त्वा मघवन्नभिष्णक् ॥७७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पु॒त्रमि॒वेति॑ पु॒त्रम्ऽइ॑व। पि॒तरौ॑। अ॒श्विना॑। उ॒भा। इन्द्र॑। आ॒वथुः॑। काव्यैः॑। दँ॒सना॑भिः। यत्। सु॒राम॑म्। वि। अपि॑बः। शची॑भिः। सर॑स्वती। त्वा॒। म॒घ॒व॒न्निति॑ मघऽवन्। अ॒भि॒ष्ण॒क्। ७७।
महीधरः
म० ‘पशुस्विष्टकृतो यस्मिन्नश्वासोऽहाव्यग्न इति’ ( का० १९ । ६ । २१)। पशोः संबन्धिनि स्विष्टकृद्यागे यस्मिन्नश्वास इति पुरोनुवाक्या अहाव्यग्न इति याज्या द्वे अग्निदेवत्ये. जगतीत्रिष्टुभौ । हे अध्वर्यो, तस्मै अग्नये हृदा सह मतिं वुद्धिं चारुं समीचीनां जनय । अग्न्यर्थं मनोवुद्धी शुद्धे कुरु इत्यर्थः । कीदृशायाग्नये । कीलालपे कीलालमन्नरसं पिबतीति कीलालपास्तस्मै । सोमपृष्ठाय सोमः पृष्ठे यस्य तस्मै । यस्य पृष्ठे सोमाहुतयो हूयन्त इत्यर्थः । वेधसे विदधाति शुभं करोति वेधाः तस्मै शुभमतिकर्त्रे । तस्मै कस्मै । यस्मिन्नग्नौ एते पशवः अवसृष्टाः अवदायावदाय चतुरवत्तेन निक्षिप्ताः । तथा आहुताः आदायादाय हुताः । के पशवः । अश्वासः अश्वाः ऋषभासः ऋषभाः उक्षणः उक्षाणः सेचनसमर्था वृषाः । ‘वा षपूर्वस्य निगमे’ (पा० ६ । ४ । ९) इति उपधादीर्घाभावः । वशाः वन्ध्याः । मेषाः अजाः । यस्मिन्नेते पशवो हुतास्तस्मै मनःशुद्धिं कुर्विति होतुर्वाक्यम् ॥ ७८ ॥
एकोनाशीतितमी।
अधिमन्त्रम् (VC)
- अश्विसरस्वतीन्द्रा देवताः
- विदर्भिर्ऋषिः
- भुरिक्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर प्रकारान्तर से विद्वानों के विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (मघवन्) उत्तमधन (इन्द्र) विद्या और ऐश्वर्य्ययुक्त विद्वन् ! तू (शचीभिः) बुद्धियों के साथ (यत्) जिससे (सुरामम्) अति रमणीय महौषधि के रस को (व्यपिबः) पीता है, इससे (सरस्वती) उत्तम शिक्षावती स्त्री (त्वा) तुझ को (अभिष्णक्) समीप सेवन करे, (उभा) दोनों (अश्विना) अध्यापक और उपदेशक (काव्यैः) कवियों के किये हुए (दंसनाभिः) कर्मों से जैसे (पितरौ) माता-पिता (पुत्रमिव) पुत्र का पालन करते हैं, वैसे तेरी (आवथुः) रक्षा करें ॥७७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे माता-पिता अपने सन्तानों की रक्षा करके सदा बढ़ावें, वैसे अध्यापक और उपदेशक शिष्य की रक्षा करके विद्या से बढ़ावें ॥७७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः प्रकारान्तरेण विद्वद्विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मघवन्निन्द्र ! त्वं शचीभिर्यत् सुरामं व्यपिबस्तत् सरस्वती त्वाभिष्णगुभाश्विना काव्यैर्दंसनाभिः पितरौ पुत्रमिव त्वामावथुः ॥७७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा मातापितरौ स्वसन्तानान् रक्षित्वा नित्यमुन्नयेताम्, तथाऽध्यापकोपदेशकाः शिष्यान् सुरक्ष्य विद्यया वर्द्धयेयुः ॥७७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जसे आई-वडील आपल्या मुलांचे रक्षण करून त्यांची नेहमी उन्नती करतात तसे अध्यापकांनी व उपदेशकांनी शिष्यांचे रक्षण करून विद्या वाढवावी.
७८ यस्मिन्नश्वासऽऋषभासऽउक्षणो वशा
विश्वास-प्रस्तुतिः ...{Loading}...
यस्मि॒न्नश्वा॑सऽऋष॒भास॑ऽउ॒क्षणो॑ व॒शा मे॒षाऽअ॑वसृ॒ष्टास॒ऽआहु॑ताः। की॒ला॒ल॒पे सोम॑पृष्ठाय वे॒धसे॑ हृ॒दा म॒तिं ज॑नय॒ चारु॑म॒ग्नये॑ ॥७८ ॥
मूलम् ...{Loading}...
यस्मि॒न्नश्वा॑सऽऋष॒भास॑ऽउ॒क्षणो॑ व॒शा मे॒षाऽअ॑वसृ॒ष्टास॒ऽआहु॑ताः। की॒ला॒ल॒पे सोम॑पृष्ठाय वे॒धसे॑ हृ॒दा म॒तिं ज॑नय॒ चारु॑म॒ग्नये॑ ॥७८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यस्मि॑न्। अश्वा॑सः। ऋ॒ष॒भासः॑। उ॒क्षणः॑। व॒शाः। मे॒षाः। अ॒व॒सृ॒ष्टास॒ इत्य॑वऽसृ॒ष्टासः॑। आहु॑ता॒ इत्याऽहु॑ताः। की॒ला॒ल॒प इति॑ कीलाल॒ऽपे। सोम॑पृष्ठा॒येति॒ सोम॑ऽपृष्ठाय। वे॒धसे॑। हृ॒दा। म॒तिम्। ज॒न॒य॒। चारु॑म्। अ॒ग्नये॑। ७८।
महीधरः
म० हे अग्ने, ते तवास्ये हविरहावि हुतम् सर्वतः । जुहोतेः कर्मणि लुङ् । सन्ततहोमे दृष्टान्तः । स्रुचि घृतमिव । | यथा स्रुचि घृतं सर्वदा स्थितम् चम्वि चम्वामधिषवणचर्मणि सोम इव । तत्र यथा सोमः सर्वदा स्थितस्तद्वन्नित्यं मया तवास्ये हविर्हुतम् । हे अग्ने, सः त्वमस्मे अस्मासु एतानि वस्तूनि धेहि स्थापय । कानि । वाजसनिं वाजस्य अन्नस्य सनिं भोगम्। रयिं धनम्। कीदृशम्। सुवीरं शोभना वीराः पुत्रा यत्र तं सुपुत्रयुक्तं धनमित्यर्थः । प्रशस्तं सर्वलोकस्तुतं बृहन्तं महान्तं यशसं यशश्च । पुंस्त्वमार्षम् । सर्वलोकप्रसिद्धं यशो देहीत्यर्थः । ‘यशो वै सोमो राजा’ इति श्रुतेः । यशसं सोममिति वा ॥ ७९ ॥
अशीतितमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- विदर्भिर्ऋषिः
- जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! (अश्वासः) घोड़े और (ऋषभासः) उत्तम बैल तथा (उक्षणः) अतिबली वीर्य के सेचन करनेहारे बैल (वशाः) वन्ध्या गायें और (मेषाः) मेढ़ा (अवसृष्टासः) अच्छे प्रकार शिक्षा पाये और (आहुताः) सब ओर से ग्रहण किये हुए (यस्मिन्) जिस व्यवहार में काम करनेहारे हों। उसमें तू (हृदा) अन्तःकरण से (सोमपृष्ठाय) सोमविद्या को पूछने और (कीलालपे) उत्तम अन्न के रस को पीनेहारे (वेधसे) बुद्धिमान् (अग्नये) अग्नि के समान प्रकाशमान जन के लिये (चारुम्) अति उत्तम (मतिम्) बुद्धि को (जनय) प्रकट कर ॥७८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - पशु भी सुशिक्षा पाये हुए उत्तम कार्य सिद्ध करते हैं, क्या फिर विद्या की शिक्षा से युक्त मनुष्य लोग सब उत्तम कार्य सिद्ध नहीं कर सकते? ॥७८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! अश्वास ऋषभास उक्षणो वशा मेषा अवसृष्टास आहुतास्सन्तो यस्मिन् कार्यकरा स्युस्तस्मिँस्त्वं हृदा सोमपृष्ठाय कीलालपे वेधसेऽग्नये चारु मतिं जनय ॥७८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - पशवोऽपि सुशिक्षितास्सन्त उत्तमानि कार्य्याणि कुर्वन्ति, किं पुनर्विद्याशिक्षायुक्ता जनाः सर्वाण्युत्तमानि कार्याणि साद्धुं न शक्नुवन्ति? ॥७८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - प्रशिक्षित पशूही उत्तम कार्य करतात तेव्हा विद्या प्राप्त केलेली सुशिक्षित माणसे उत्तम कार्य करु शकणार नाहीत काय ?
७९ अहाव्यग्ने हविरास्ये
विश्वास-प्रस्तुतिः ...{Loading}...
अहा॑व्यग्ने ह॒विरा॒स्ये᳖ ते स्रु॒ची᳖व घृ॒तं च॒म्वी᳖व॒ सोमः॑। वा॒ज॒सनिँ॑ र॒यिम॒स्मे सु॒वीरं॑ प्रश॒स्तं धे॑हि य॒शसं॑ बृ॒हन्त॑म् ॥७९ ॥
मूलम् ...{Loading}...
अहा॑व्यग्ने ह॒विरा॒स्ये᳖ ते स्रु॒ची᳖व घृ॒तं च॒म्वी᳖व॒ सोमः॑। वा॒ज॒सनिँ॑ र॒यिम॒स्मे सु॒वीरं॑ प्रश॒स्तं धे॑हि य॒शसं॑ बृ॒हन्त॑म् ॥७९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अहा॑वि। अ॒ग्ने॒। ह॒विः। आ॒स्ये᳖। ते॒। स्रु॒ची᳖वेति॑ स्रु॒चिऽइ॑व। घृ॒तम्। च॒म्वी᳖वेति॑ च॒म्वी᳖ऽइव। सोमः॑। वा॒ज॒सनि॒मिति॑ वाज॒ऽसनि॑म्। र॒यिम्। अ॒स्मे इत्य॒स्मे। सु॒वीर॒मिति॑ सु॒ऽवीर॑म्। प्र॒श॒स्तमिति॑ प्रश॒स्तम्। धे॒हि॒। य॒शस॑म्। बृ॒हन्त॑म्। ७९।
महीधरः
म० ‘प्रतिगरिष्यत्युपविष्टेऽध्वर्यो शोᳪं᳭सावेत्याहूयाश्विना तेजसेत्यनुवाकᳪं᳭ शᳪं᳭सति’ (का० १९ । ७।१॥ त्रयस्त्रिंशवसाग्रहसादनानन्तरमध्वर्योः होतुः पुरस्तात् प्रतिगरार्थमुपवेशनमुक्तम् तदाह प्रतिगरिष्यत्यध्वर्यो पुर उपविष्टे सत्यध्वर्यो शोᳪं᳭सावो ३ मित्याहूयाश्विना तेजसा चक्षुरित्येकादशर्चमनुवाकं शस्त्रं शंसति । प्रथमान्त्ये ऋचौ त्रिः शंसनीये मध्यस्थानां त्रयाणां तृचानामादिष्वाहावः कार्य इति सूत्रार्थः । अश्विसरस्वतीन्द्रदेवत्यानुष्टुप् । आद्यः पादोऽष्टार्णः द्वितीयो निवार्णः तृतीयः षडर्णः चतुर्थोऽष्टार्णः । अश्विनौ तेजसा सह चक्षुरिन्द्रियमिन्द्राय दधुः दधतुः । सरस्वती प्राणेन सह वीर्यमिन्द्राय दधौ ददौ । इन्द्रः कल्पान्तरीणः वाचं बलेन च सह इन्द्रायैतत्कल्पोत्थाय इन्द्रियं सामर्थ्यं ददौ । एवमश्विसरस्वतीन्द्रा इन्द्राय तेजआदि दधुरित्यर्थः । सर्वापेक्षया दधुरिति बहुवचनम् ॥८०॥
एकाशीतितमी। |
अधिमन्त्रम् (VC)
- अग्निर्देवता
- विदर्भिर्ऋषिः
- भुरिक्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) उत्तम विद्यायुक्त पुरुष ! जिस तूने (सोमः) ऐश्वर्ययुक्त (हविः) होम करने योग्य वस्तु (ते) तेरे (आस्ये) मुख में (घृतम्) (स्रुचीव) जैसे घृत स्रुच् के मुख में और (चम्वीव) जैसे यज्ञ के पात्र में होम के योग्य वस्तु वैसे (अहावि) होमा है, वह तू (अस्मे) हम लोगों में (प्रशस्तम्) बहुत उत्तम (सुवीरम्) अच्छे वीर पुरुषों के उपयोगी और (वाजसनिम्) अन्न, विज्ञान आदि गुणों का विभाग (यशसम्) कीर्त्ति करनेहारी (बृहन्तम्) बड़ी (रयिम्) राज्यलक्ष्मी को (धेहि) धारण कर ॥७९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। गृहस्थ पुरुषों को चाहिये कि उन्हीं का भोजन आदि से सत्कार करें, जो लोग पढ़ाना, उपदेश और अच्छे कर्मों के अनुष्ठान से जगत् में बल, पराक्रम, यश, धन और विज्ञान को बढ़ावें ॥७९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने विद्वन् ! येन त्वया सोमो हविस्त आस्ये घृतं स्रुचीव चम्वीव हविरहावि, स त्वमस्मे प्रशस्तं सुवीरं वाजसनिं यशसं बृहन्तं रयिं धेहि ॥७९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। गृहस्थैस्तेषामेव भोजनादिना सत्कारः कर्त्तव्यो येऽध्यापनोदेशसुकर्मानुष्ठानैर्जगति बलवीर्यकीर्त्तिधनविज्ञानानि वर्द्धयेयुः ॥७९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. गृहस्थांनी अशा लोकांचाच सन्मान करावा व त्यांना भोजन द्यावे, जे लोक अध्यापन व उपदेश आणि चांगल्या कर्माचे अनुष्ठान करून जगात बल, पराक्रम, यश, धन व विज्ञान यांची वृद्धी करतात.
८० अश्विना तेजसा
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒श्विना॒ तेज॑सा॒ चक्षुः॑ प्रा॒णेन॒ सर॑स्वती वी॒र्य᳖म्। वा॒चेन्द्रो॒ बले॒नेन्द्रा॑य दधुरिन्द्रि॒यम् ॥८० ॥
मूलम् ...{Loading}...
अ॒श्विना॒ तेज॑सा॒ चक्षुः॑ प्रा॒णेन॒ सर॑स्वती वी॒र्य᳖म्। वा॒चेन्द्रो॒ बले॒नेन्द्रा॑य दधुरिन्द्रि॒यम् ॥८० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒श्विना॑। तेज॑सा। चक्षुः॑। प्रा॒णेन॑। सर॑स्वती। वी॒र्य᳖म्। वा॒चा। इन्द्रः॑। बले॑न। इन्द्रा॑य। द॒धुः॒। इ॒न्द्रि॒यम्। ८०।
महीधरः
म० गृत्समददृष्टा अश्विदेवत्यास्तिस्रो गायत्र्यः । आद्या पादनिचृद्गायत्री ‘त्रयः सप्तकाः पादनिचृत्’ इति वचनात् । उ सु निपातौ पादपूरणौ । ‘इकः सुञि’ (पा० ६ । ३ । १३४) इति वाते परे उ इत्यस्य संहितायां दीर्घः ‘सुञ्’ (पा० ८ । ३ । १०७) इति सूत्रेण सु इत्यस्य षत्वम् ‘पूर्वपदात्’ (पा० ८।३ । १०६) इति नासत्यशब्दनकारस्य णत्वम् । हे नासत्या नासत्यौ, हे अश्विनौ, हे रुद्रा रुद्रौ, शत्रूणां रोदयितारौ, वर्तिः विभक्तिव्यत्ययः । वर्त्या मार्गेण युवां नृपाय्यं यज्ञं प्रति यातं गच्छतम् । नृभिः पीयते सोमो यस्मिन् स नृपाय्यः ‘क्रतौ कुण्डपाय्यसंचाय्यौ’ (पा० ३ । १ । १३०) इत्यत्र कुण्डशब्द उपलक्षकः। नृशब्देऽपि तृतीयान्ते उपपदे पिबतेर्धातोरधिकरणे यत्प्रत्ययो युगागमश्च निपात्यते । किं कृत्वा । गोमत् गावो विद्यन्ते यस्मिन् गोमत् । अश्वावत् अश्वा विद्यन्ते यस्य तदश्ववत् । ‘मन्त्रे सोमाश्व-’ (पा० ६।३ । १३१) इत्यादिना अश्वशब्दस्य दीर्घः । गोयुक्तमश्वयुक्तं च धनमादाय यज्ञं गच्छतमित्यर्थः ॥ ८१॥
द्व्यशीतितमी।
अधिमन्त्रम् (VC)
- अश्विसरस्वतीन्द्रा देवताः
- विदर्भिर्ऋषिः
- विराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (सरस्वती) विद्यावती स्त्री (अश्विना) अध्यापक और उपदेशक और (इन्द्रः) सभा का अधिष्ठाता (इन्द्राय) जीव के लिये (प्राणेन) जीवन के साथ (वीर्यम्) पराक्रम और (तेजसा) प्रकाश से (चक्षुः) प्रत्यक्ष नेत्र (वाचा) वाणी और (बलेन) बल से (इन्द्रियम्) जीव के चिह्न को (दधुः) धारण करें, वैसे तुम भी धारण करो ॥८० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्य लोग जैसे-जैसे विद्वानों के सङ्ग से विद्या को बढ़ावें, वैसे-वैसे विज्ञान में रुचिवाले होवें ॥८० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा सरस्वती अश्विनेन्द्रश्चेन्द्राय प्राणेन वीर्यं तेजसा चक्षुर्वाचा बलेनेन्द्रियं दधुस्तथा धरन्तु ॥८० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्या यथा यथा विद्वत्सङ्गेन विद्यां वर्द्धयेयुस्तथा तथा विज्ञानरुचयः स्युः ॥८० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. माणसे विद्वानांच्या संगतीने जशी विद्यावृद्धी करतात. तशी त्यांनी विज्ञानातही रुची वाढवावी.
८१ गोमदू षु
विश्वास-प्रस्तुतिः ...{Loading}...
गोम॑दू॒ षु णा॑स॒त्याश्वा॑वद्यातमश्विना। व॒र्त्ती रु॑द्रा नृ॒पाय्य॑म् ॥८१ ॥
मूलम् ...{Loading}...
गोम॑दू॒ षु णा॑स॒त्याश्वा॑वद्यातमश्विना। व॒र्त्ती रु॑द्रा नृ॒पाय्य॑म् ॥८१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
गोम॒दिति॒ गोऽम॑त्। ऊँ॒ऽइत्यूँ॑। सु। ना॒स॒त्या॒। अश्वा॑वत्। अश्व॑व॒दिति॒ अश्व॑ऽवत्। या॒त॒म्। अ॒श्वि॒ना॒। व॒र्त्तिः। रु॒द्रा॒। नृ॒पाय्य॒मिति॑ नृ॒ऽपाय्य॑म्। ८१।
महीधरः
म० हे वृषण्वसू, वृषा वृष्टिरेव वसु धनं ययोस्तौ । यद्वा वृष्ट्या वासयतो लोकं स्थापयतस्तौ वृषण्वसू हे अश्विनौ, दुःशंसो दुष्टमपवादं शंसति कथयति दुःशंसोऽपवदिता रिपुः शत्रुः मर्त्यः मनुष्यः परः असंबद्धः अन्तरः संबद्धः स्वकीयोऽपि ईदृशो मर्त्यो यत् यमिन्द्रं न आदधर्षीत् न आधृष्णुयात् न पराभूयात् । स्वजनोऽस्वजनोऽपि रिपुः पिशुनोऽपि यमिन्द्रं पराभवितुं न शक्त इत्यर्थः । ‘ञिधृषा प्रागल्भ्ये’ अस्माद्धातोर्यङ्लुगन्ताच्छतृप्रत्ययः॥ ८२ ॥
त्र्यशीतितमी।
अधिमन्त्रम् (VC)
- अश्विनौ देवते
- गृत्समद ऋषिः
- आर्च्युष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
अब विद्वानों के विषय में पशु आदिकों से पालना विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (नासत्या) सत्य व्यवहार से युक्त (रुद्रा) दुष्टों को रोदन करानेहारे (अश्विना) विद्या से बढ़े हुए लोगो तुम जैसे (गोमत्) गौ जिसमें विद्यमान उस (वर्त्तिः) वर्त्तमान मार्ग (उ) और (अश्वावत्) उत्तम घोड़ों से युक्त (नृपाय्यम्) मनुष्यों के मान को (सुयातम्) अच्छे प्रकार प्राप्त होओ, वैसे हम लोग भी प्राप्त होवें ॥८१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। गाय, घोड़ा, हाथी आदि पालन किये पशुओं से अपनी और दूसरे की मनुष्यों को पालना करनी चाहिये ॥८१ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ विद्वद्विषये पश्वादिभिः पालनाविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे नासत्या रुद्राश्विना यथा युवां गोमद्वर्त्तिरु अश्वावन्नृपाय्यं सुयातम्, तथा वयमपि प्राप्नुयाम ॥८१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। गोऽश्वहस्तिप्रभृतिभिः पालितैः पशुभिः स्वकीयमन्यदीयं च पालनं मनुष्यैः कार्य्यम् ॥८१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. गाय, घोडा, हत्ती इत्यादी पाळीव पशूंद्वारे आपले व इतरांचे पालन केले पाहिजे.
८२ न यत्परो
विश्वास-प्रस्तुतिः ...{Loading}...
न यत्परो॒ नान्त॑रऽआद॒धर्ष॑द् वृषण्वसू। दुः॒शँसो॒ मर्त्यो॑ रि॒पुः ॥८२ ॥
मूलम् ...{Loading}...
न यत्परो॒ नान्त॑रऽआद॒धर्ष॑द् वृषण्वसू। दुः॒शँसो॒ मर्त्यो॑ रि॒पुः ॥८२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
न। यत्। परः॑। न। अन्त॑रः। आ॒द॒धर्ष॒दित्या॑ऽद॒धर्ष॑त्। वृ॒ष॒ण्व॒ऽसू॒इति॑ वृषण्ऽवसू। दुः॒शँस॒ इति॑ दुः॒ऽशँसः॑। मर्त्यः॑। रि॒पुः। ८२।
महीधरः
म० हे धिष्ण्या धिष्ण्यौ धिष्ण्याग्निरूपौ धातारौ वा हे अश्विनौ, युवां नोऽस्माकं रयिं धनमावोढमावहतम् । आनयतमित्यर्थः । वहतेर्लुङि परस्मैपदे मध्यमद्विवचनम् । कीदृशं रयिम् । पिशङ्गसंदृशं पिशङ्गं पीतं सम्यक् दृश्यते तत् पिशङ्गसंदृशम् पीतवर्णं सुवर्णमित्यर्थः । तथा वरिवोविदं वरिवो धनं विन्दति प्राप्नोति वरिवोविदस्तम् ‘विद्लृ लाभे’ ‘इगुपध-’ (पा० ३ । १ । १३२ ) इति कः । यच्च धनं धनान्तरहेतुभूतं भवतीत्यर्थः ॥ ८३॥
चतुरशीतितमी।
अधिमन्त्रम् (VC)
- अश्विनौ देवते
- गृत्समद ऋषिः
- विराड्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब राजधर्म विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (वृषण्वसू) श्रेष्ठों को वास करानेहारे सभा और सेना के पति ! तुम (यत्) जिससे (दुःशंसः) दुःख से स्तुति करने योग्य (परः) अन्य (मर्त्यः) मनुष्य (रिपुः) शत्रु (न) न हो और (न) न (अन्तरः) मध्यस्थ हो कि जो हम को (आदधर्षत्) सब ओर से धर्षण करे, उसको अच्छे यत्न से वश में करो ॥८२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजपुरुषों को चाहिये कि जो अति बलवान्, अत्यन्त दुष्ट शत्रु होवे, उसको बड़े यत्न से जीतें ॥८२ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ राजधर्मविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे वृषण्वसू सभासेनेशौ ! युवां यद् यस्माद् दुःशंसः परो मर्त्यो रिपुर्न स्यात्, नान्तरश्च योऽस्मानादधर्षत्, तं प्रयत्नतो वशं नयतम् ॥८२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - राजपुरुषैर्यः प्रबलो दुष्टतमः शत्रुर्भवेत् स प्रयत्नेन विजेतव्यः ॥८२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजपुरुषांनी अति बलवान व अत्यंत दुष्ट शत्रूंना प्रयत्नपूर्वक जिंकावे.
८३ ता नऽआ
विश्वास-प्रस्तुतिः ...{Loading}...
ता न॒ऽआ वो॑ढमश्विना र॒यिं पि॒शङ्ग॑सन्दृशम्। धिष्ण्या॑ वरिवो॒विद॑म् ॥८३ ॥
मूलम् ...{Loading}...
ता न॒ऽआ वो॑ढमश्विना र॒यिं पि॒शङ्ग॑सन्दृशम्। धिष्ण्या॑ वरिवो॒विद॑म् ॥८३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ता। नः॒। आ। वो॒ढ॒म्। अ॒श्वि॒ना॒। र॒यिम्। पि॒शङ्ग॑सन्दृश॒मिति॑ पि॒शङ्ग॑ऽसंदृशम्। धिष्ण्या॑। व॒रि॒वो॒विद॒मिति॑ वरिवः॒ऽविद॑म्। ८३।
महीधरः
म० मधुच्छन्दोदृष्टाः सरस्वतीदेवत्यास्तिस्रो गायत्र्यः । सरस्वती नोऽस्माकं यज्ञं वष्टु कामयताम् । ‘वश कान्तौ’ यो यदिच्छति स तत् प्रति गच्छति । अस्मद्यज्ञं प्रत्यागच्छत्वित्यर्थः। कीदृशी सरस्वती । पावका पावयित्री पवनं पावः शोधनं घञ् । पावं कायति कथयति पावका ‘आतोऽनुपसर्गे कः’ (पा. ३।२।३ ) वाजेभिर्वाजैः अन्नैः । वाजिनीवती वाजा अन्नानि विद्यन्ते यस्यां सा वाजिनी यज्ञक्रिया । वाजिनी विद्यते यस्याः सा वाजिनीवती यज्ञक्रियाधिष्ठात्री । धियावसुः धिया कर्मणा | वसु धनं यस्याः सा धियावसुः । छान्दसस्तृतीयाया अलुक् ॥८४॥
पञ्चाशीतितमी ।
अधिमन्त्रम् (VC)
- अश्विनौ देवते
- गृत्समद ऋषिः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अश्विना) सभा और सेना के पालनेहारो ! (धिष्ण्या) जो बुद्धि के साथ वर्त्तमान (ता) वे तुम (नः) हम को (वरिवोविदम्) जिससे सेवन को प्राप्त हों और (पिशङ्गसंदृशम्) जो सुवर्ण के समान देखने में आता है, उस (रयिम्) धन को (आ, वोढम्) सब ओर से प्राप्त करो ॥८३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सभापति और सेनापतियों को चाहिये कि राज्य के सुख के लिये सब ऐश्वर्य सिद्ध करें, जिससे सत्यधर्म का आचरण बढ़े ॥८३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हेऽश्विना धिष्ण्या ता युवां नो वरिवोविदं पिशङ्गसंदृशं रयिमावोढम् ॥८३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सभासेनेशै राज्यसुखाय सर्वमैश्वर्य्यं सम्पादनीयम्, येन सत्यधर्माचरणं वर्द्धेत ॥८३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजा व सेनापती यांनी राज्याच्या सुखासाठी सर्व ऐश्वर्य प्राप्त करावे. म्हणजे सर्वांकडून सत्यधर्माचे पालन होण्यास मदत होईल.
८४ पावका नः
विश्वास-प्रस्तुतिः ...{Loading}...
पा॒व॒का नः॒ सर॑स्वती॒ वाजे॑भिर्वा॒जिनी॑वती। य॒ज्ञं व॑ष्टु धि॒याव॑सुः ॥८४ ॥
मूलम् ...{Loading}...
पा॒व॒का नः॒ सर॑स्वती॒ वाजे॑भिर्वा॒जिनी॑वती। य॒ज्ञं व॑ष्टु धि॒याव॑सुः ॥८४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पा॒व॒का। नः॒। सर॑स्वती। वाजे॑भिः। वा॒जिनी॑व॒तीति॑ वा॒जिनी॑ऽवती। य॒ज्ञम्। व॒ष्टु॒। धि॒याव॑सु॒रिति॑ धि॒याऽव॑सुः। ८४।
महीधरः
म० सरस्वती यज्ञं दधे धारयती । कीदृशी । सूनृतानां प्रियं सत्यं सूनृतम् । प्रियसत्यवचनानां वेदत्रयीशब्दानां चोदयित्री प्रेरयित्री ‘चुद प्रेरणे’ णिजन्तात्तृच् ततो ङीप् । सुमतीनां शोभनानां बुद्धीनां चेतन्ती चेतयन्ती प्रकटयन्ती । सुमतिदात्रीत्यर्थः । ‘छन्दस्युभयथा’ (पा० ३ । ४ । ११७) इति शपोऽप्यार्धधातुकत्वाण्णिचो लोपः ॥ ८५ ॥
षडशीतितमी ।
अधिमन्त्रम् (VC)
- सरस्वती देवता
- मधुच्छन्दा ऋषिः
- गायत्री
- षड्जः
८५ चोदयित्री सूनृतानाम्
विश्वास-प्रस्तुतिः ...{Loading}...
चो॒द॒यि॒त्री सू॒नृता॑नां॒ चेत॑न्ती सुमती॒नाम्। य॒ज्ञं द॑धे॒ सर॑स्वती ॥८५ ॥
मूलम् ...{Loading}...
चो॒द॒यि॒त्री सू॒नृता॑नां॒ चेत॑न्ती सुमती॒नाम्। य॒ज्ञं द॑धे॒ सर॑स्वती ॥८५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
चो॒द॒यि॒त्री। सू॒नृता॑नाम्। चेत॑न्ती। सु॒म॒ती॒नामिति॑ सुऽमती॒नाम्। य॒ज्ञम्। द॒धे॒। सर॑स्वती। ८५।
महीधरः
म० सरस्वती केतुना कर्मणा प्रज्ञया वा महो महत् अर्णः उदकं प्रचेतयति प्रज्ञापयति प्रेरयति । सर्वस्यां भूमौ वृष्टिं कारयतीत्यर्थः । किंच विश्वाः सर्वाः धियः सर्वप्राणिस्था बुद्धीः विराजति विराजयति दीपयति सर्वजन्तुबुद्धीः प्रकाशयति तां स्तुमः ॥८६॥
सप्ताशीतितमी।
अधिमन्त्रम् (VC)
- सरस्वती देवता
- मधुच्छन्दा ऋषिः
- निचृद्गायत्री
- षड्जः
८६ महोऽअर्णः सरस्वती
विश्वास-प्रस्तुतिः ...{Loading}...
म॒होऽअर्णः॒ सर॑स्वती॒ प्र चे॑तयति के॒तुना॑। धियो॒ विश्वा॒ वि रा॑जति ॥८६ ॥
मूलम् ...{Loading}...
म॒होऽअर्णः॒ सर॑स्वती॒ प्र चे॑तयति के॒तुना॑। धियो॒ विश्वा॒ वि रा॑जति ॥८६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
म॒हः। अर्णः॑। सर॑स्वती। प्र। चे॒त॒य॒ति॒। के॒तुना॑। धियः॑। विश्वा॑। वि। रा॒ज॒ति॒। ८६।
महीधरः
म० मधुच्छन्दोदृष्टा इन्द्रदेवत्यास्तिस्रो गायत्र्यः। चित्रा नानाविधा भानवो दीप्तयो यस्य स चित्रभानुः । हे चित्रभानो इन्द्र, त्वमायाहि आगच्छ । किमिति । इमे सोमाः सुताः अभिषुताः । कीदृशा इमे । त्वायवः त्वां कामयन्ते त्वायवः ‘सुपः आत्मनः क्यच्’ (पा० ३ । १।८) ‘क्याच्छन्दसि’ (पा० ३।२।१७०) इत्युप्रत्ययः । तथा अण्वीभिः अण्वीत्यङ्गुलिनाम । अङ्गुलीभिः तना दशापवित्रेण च पूतासः पूताः शोधिताः । तनाशब्दो दशापवित्रवाची । तृतीयैकवचनस्य पूर्वसवर्णः । शोधिताः सुताः सोमा इन्द्रोऽस्मान् पिबत्विति कामयन्ते अतोऽत्रायाहीत्यर्थः ॥ ८७ ॥
अष्टाशीतितमी।
अधिमन्त्रम् (VC)
- सरस्वती देवता
- मधुच्छन्दा ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्री लोगो ! जैसे (सरस्वती) वाणी (केतुना) उत्तम ज्ञान से (महः) बड़े (अर्णः) आकाश में स्थित शब्दरूप समुद्र को (प्रचेतयति) उत्तम प्रकार से जतलाती है और (विश्वाः) सब (धियः) बुद्धियों को (वि, राजति) नाना प्रकार से प्रकाशित करती है, वैसे विद्याओं में तुम प्रवृत्त होओ ॥८६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। कन्याओं को चाहिये कि ब्रह्मचर्य्य से विद्या और सुशिक्षा को समग्र ग्रहण करके अपनी बुद्धियों को बढ़ावें ॥८६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रियो ! यथा सरस्वती केतुना महो अर्णः प्रचेतयति, विश्वा धियो विराजति, तथा विद्यासु यूयं प्रवृत्ता भवत ॥८६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। कन्याभिर्ब्रह्मचर्येण विद्यासुशिक्षे पूर्णे संगृह्य बुद्धयो वद्धर्यितव्याः ॥८६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. मुलींनी ब्रह्मचर्यपूर्वक विद्या व चांगले शिक्षण सम्यक रीतीने ग्रहण करून आपली बुद्धी वाढवावी.
८७ इन्द्रायाहि चित्रभानो
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्राया॑हि चित्रभानो सु॒ताऽइ॒मे त्वा॒यवः॑। अण्वी॑भि॒स्तना॑ पू॒तासः॑ ॥८७ ॥
मूलम् ...{Loading}...
इन्द्राया॑हि चित्रभानो सु॒ताऽइ॒मे त्वा॒यवः॑। अण्वी॑भि॒स्तना॑ पू॒तासः॑ ॥८७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इन्द्र॑। आ। या॒हि॒। चि॒त्र॒भा॒नो॒ इति॑ चित्रऽभानो। सु॒ताः। इ॒मे। त्वा॒यव॒ इति॑ त्वा॒ऽयवः॑। अण्वी॑भिः। तना॑। पू॒तासः॑। ८७।
महीधरः
म० हे इन्द्र, धिया स्वबुद्ध्या इषितः प्रेरितः सन्नायाहि । अनन्यप्रेरित आगच्छेत्यर्थः । कीदृशस्त्वम्। विप्रजूतः ‘जु गतौ’ । विप्रैर्मेधाविभिरनुगतः सेवितः । किमित्यागन्तव्यमिति चेत् सुतावतः । छान्दसो दीर्घः । सुतवतः सोममभिषुतवतो यजमानस्य ब्रह्माणि हवींषि उप हविषां समीपे वाघतः ऋत्विजो वर्तन्त इति शेषः । वाघत इति ऋत्विङ्नामसु पठितम् । ऋत्विजो हविरादाय स्थिता वर्तन्त इत्यायाहीत्यर्थः ॥ ८८ ॥
एकोननवतितमी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- मधुच्छन्दा ऋषिः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब सामान्य उपदेश विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (चित्रभानो) चित्र-विचित्र विद्याप्रकाशोंवाले (इन्द्र) सभापति ! आप जो (इमे) ये (अण्वीभिः) अङ्गुलियों से (सुताः) सिद्ध किये (तना) विस्तारयुक्त गुण से (पूतासः) पवित्र (त्वायवः) जो तुमको मिलते हैं, उन पदार्थों को (आ, याहि) प्राप्त हूजिये ॥८७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्य लोग अच्छी क्रिया से पदार्थों को अच्छे प्रकार शुद्ध करके भोजनादि करें ॥८७ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ सामान्योपदेशविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे चित्रभानो इन्द्र ! त्वं य इमे अण्वीभिस्सुतास्तना पूतासस्त्वायवः पदार्थाः सन्ति, तानायाहि ॥८७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्याः सत्क्रियया पदार्थान् संशोध्य भुञ्जताम् ॥८७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी पदार्थांवर चांगली प्रक्रिया करून शुद्ध करावे व नंतर भोजन करावे.
८८ इन्द्रायाहि धियेषितो
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्राया॑हि धि॒येषि॒तो विप्र॑जूतः सु॒ताव॑तः। उप॒ ब्रह्मा॑णि वा॒घतः॑ ॥८८ ॥
मूलम् ...{Loading}...
इन्द्राया॑हि धि॒येषि॒तो विप्र॑जूतः सु॒ताव॑तः। उप॒ ब्रह्मा॑णि वा॒घतः॑ ॥८८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इन्द्र॑। आ। या॒हि॒। धि॒या। इ॒षि॒तः। विप्र॑जूत॒ इति॒ विप्र॑ऽजूतः। सु॒ताव॑तः। सु॒तव॑त॒ इति॑ सु॒तऽव॑तः। उप॑। ब्रह्मा॑णि। वा॒घतः॑। ८८।
महीधरः
म० हरी अश्वौ विद्यते यस्य स हरिवान् ‘मतुवसो रु संबुद्धौ छन्दसि’ (पा० ८।३ । १) इति रुत्वम् । हे हरिवः, अश्ववन् हे इन्द्र, तूतुजानः त्वरमाणः सन् त्वं ब्रह्माणि हवींषि उप हवींषि प्रति आयाहि । तूतुजान इति क्षिप्रनाम । आगत्य सुते सोमेऽभिषुते सति नोऽस्माकं चनः अन्नं सोमरूपं हविः दधिष्व उदरे धारय । ‘धि धारणे’ व्यत्ययेन शपो लुकि द्वित्वं जुहोत्यादित्वादभ्यासस्यात्वं छान्दसम् । चन इत्यन्ननाम ८९
नवतितमी ।
इति माध्यन्दिनीयायां वाजसनेयसंहितायां विंशोऽध्यायः ॥ २० ॥
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- मधुच्छन्दा ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर विद्वद्विषय अगले मन्त्र में कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) विद्या और ऐश्वर्य से युक्त (इषितः) प्रेरित और (विप्रजूतः) बुद्धिमानों से शिक्षा पाके वेगयुक्त (वाघतः) शिक्षा पाई हुई वाणी से जाननेहारा तू (धिया) सम्यक् बुद्धि से (सुतावतः) सिद्ध किये (ब्रह्माणि) अन्न और धनों को (उप, आ याहि) सब प्रकार से समीप प्राप्त हो ॥८८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्वान् लोग जिज्ञासावाले पुरुषों से मिलके उन में विद्या के निधि को स्थापित करें ॥८८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्विद्वद्विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे इन्द्र ! इषितो विप्रजूतो वाघतस्त्वं धिया सुतावतो ब्रह्माण्युपायाहि ॥८८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - विद्वांसो जिज्ञासून् जनान् संगत्यैतेषु विद्याकोशं स्थापयन्तु ॥८८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - विद्वान लोकांनी जिज्ञासू लोकांबरोबर संघटन करून विद्यारूपी संपत्तीचा निधी स्थापन करावा.
८९ इन्द्रायाहि तूतुजानऽउप
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्राया॑हि॒ तूतु॑जान॒ऽउप॒ ब्रह्मा॑णि हरिवः। सु॒ते द॑धिष्व न॒श्चनः॑ ॥८९ ॥
मूलम् ...{Loading}...
इन्द्राया॑हि॒ तूतु॑जान॒ऽउप॒ ब्रह्मा॑णि हरिवः। सु॒ते द॑धिष्व न॒श्चनः॑ ॥८९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इन्द्र॑। आ। या॒हि॒। तूतु॑जानः। उप॑। ब्रह्मा॑णि। ह॒रि॒व॒ इति॑ हरिऽवः। सु॒ते। द॒धि॒ष्व॒। नः॒॑। चनः॑। ८९।
महीधरः
म० अश्विसरस्वतीन्द्रदेवत्यानुष्टुप् । अश्विना अश्विनौ मधु मधुरस्वादं सोमं पिबतां भक्षयताम् । कीदृशौ अश्विनौ । सरस्वत्या सजोषसा सजोषसौ । जोषः प्रीतिः असुन् । समानं जोषः प्रीतिर्ययोस्तौ । सरस्वत्या सह प्रीतिमन्तावित्यर्थः । किंच सुष्ठु त्रायते रक्षति सुत्रामा वृत्रं हतवान् वृत्रहा ईदृश इन्द्रः अश्विनौ सरस्वती च मधु मधुरं सोम्यं सोममयं हविर्जुषन्तां सेवन्ताम् । ‘मये च’ (पा० ४ । ४ । १३८) इति सोमशब्दान्मयडर्थे यप्रत्ययः । सोममयं सोम्यम् ॥ ९० ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
सेकासन्द्यादिहोत्रान्तो विंशोऽध्यायो निरूपितः ॥२०॥
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- मधुच्छन्दा ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (हरिवः) अच्छे उत्तम घोड़ोंवाले (इन्द्र) विद्या और ऐश्वर्य के बढ़ानेहारे विद्वन् ! आप (उपायाहि) निकट आइये (तूतुजानः) शीघ्र कार्य्यकारी होके (नः) हमारे लिये (सुते) उत्पन्न हुए व्यवहार में (ब्रह्माणि) धर्मयुक्त कर्म से प्राप्त होने योग्य धन और (चनः) भोग के योग्य अन्न को (दधिष्व) धारण कीजिये ॥८९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्या और धर्म बढ़ाने के लिए किसी को आलस्य न करना चाहिये ॥८९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे हरिव इन्द्र ! त्वमुपायाहि तूतुजानो नः सुते ब्रह्माणि चनश्च दधिष्व ॥८९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - विद्याधर्मवृद्धये केनाप्यालस्यं न कार्यम् ॥८९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - विद्या व धर्म वाढविण्यासाठी कुणीही आळस करता कामा नये.
९० अश्विना पिबताम्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒श्विना॑ पिबतां॒ मधु॒ सर॑स्वत्या स॒जोष॑सा। इन्द्रः॑ सु॒त्रामा॑ वृत्र॒हा जु॒षन्ताँ॑ सो॒म्यं मधु॑ ॥९० ॥
मूलम् ...{Loading}...
अ॒श्विना॑ पिबतां॒ मधु॒ सर॑स्वत्या स॒जोष॑सा। इन्द्रः॑ सु॒त्रामा॑ वृत्र॒हा जु॒षन्ताँ॑ सो॒म्यं मधु॑ ॥९० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒श्विना॑। पि॒ब॒ता॒म्। मधु॑। सर॑स्वत्या। स॒जोष॒सेति स॒ऽजोष॑सा। इन्द्रः॑। सु॒त्रामेति॑ सु॒ऽत्रामा॑। वृ॒त्र॒हेति॑ वृत्र॒ऽहा। जु॒षन्ता॑म्। सो॒म्यम्। मधु॑। ९०।
महीधरः
अधिमन्त्रम् (VC)
- अश्विसरस्वतीन्द्रा देवताः
- मधुच्छन्दा ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (सजोषसा) समान सेवन करनेहारे (अश्विना) अध्यापक और उपदेशक (सरस्वत्या) अच्छे प्रकार संस्कार पाई हुई वाणी से (मधु) मधुर आदि गुण युक्त विज्ञान को (पिबताम्) पान करें और जैसे (इन्द्रः) ऐश्वर्यवान् (सुत्रामा) अच्छे प्रकार रक्षा करनेहारा (वृत्रहा) सूर्य के समान वर्त्ताव वर्त्तनेवाला (सोम्यम्) सोमलता आदि ओषधिगण में हुए (मधु) मधुरादि गुण युक्त अन्न का (जुषन्ताम्) सेवन करें, वैसे तुम लोगों को भी करना चाहिये ॥९० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अध्यापक और उपदेशक अपने जैसे सब लोगों के विद्या और सुख बढ़ाने की इच्छा करें, जिससे सब सुखी हों ॥९० ॥ इस अध्याय में राज प्रजा, धर्म के अङ्ग और अङ्गि, गृहाश्रम का व्यवहार, ब्राह्मण, क्षत्रिय, सत्यव्रत, देवों के गुण, प्रजा के पालक, अभय, परस्पर सम्मति, स्त्रियों के गुण धन आदि पदार्थों की वृद्ध्यादि का वर्णन होने से इस अध्याय के अर्थ की इससे प्रथम अध्याय में कहे अर्थ के साथ सङ्गति है, ऐसा जानना चाहिये ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्याणां परमविदुषां श्रीयुतविरजानन्दसरस्वतीस्वामिनां शिष्येण परमहंसपरिव्राजकाचार्येण श्रीमद्दयानदसरस्वतीस्वामिना निर्मिते सुप्रमाणयुक्ते संस्कृतार्य्यभाषाभ्यां विभूषिते यजुर्वेदभाष्ये विंशतितमोऽध्यायः पूर्त्तिमगात् ॥४॥ समाप्ता चेयं पूर्वविंशतिः ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा सजोषसाऽश्विना सरस्वत्या मधु पिबताम्, यथा चेन्द्रः सुत्रामा वृत्रहा च सोम्यं मधु जुषन्तां तथा युष्माभिरप्यनुष्ठेयम् ॥९० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अध्यापकोपदेशकाः स्वात्मवत्सर्वेषां विद्यासुखं वर्द्धयितुमिच्छेयुर्यतः सर्वे सुखिनः स्युः ॥९० ॥ अत्र राजप्रजाधर्माङ्गाङ्गिगृहाश्रमव्यवहारब्रह्मक्षत्रसत्यव्रतदेवगुणप्रजारक्षकाऽभयपरस्परसम्मतिस्त्रीगुण-धनादिवृद्ध्यादिवर्णनादेतदर्थस्य पूर्वाध्यायोक्तार्थेन सह सङ्गतिरस्तीति बोध्यम् ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - अध्यापक व उपदेशक यांनी स्वतःप्रमाणेच सर्व माणसांना विद्या व सुख मिळावे, अशी इच्छा बाळगावी त्यामुळे सर्वजण सुखी होतील.