०१ स्वाद्वीं त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
स्वा॒द्वीं त्वा॑ स्वा॒दुना॑ ती॒व्रां ती॒व्रेणा॒मृता॑म॒मृते॑न। मधु॑मतीं॒ मधु॑मता सृ॒जामि॒ सँसोमे॑न॒। सोमो॑ऽस्य॒श्विभ्यां॑ पच्यस्व॒ सर॑स्वत्यै पच्य॒स्वेन्द्रा॑य सु॒त्राम्णे॑ पच्यस्व ॥१ ॥
मूलम् ...{Loading}...
स्वा॒द्वीं त्वा॑ स्वा॒दुना॑ ती॒व्रां ती॒व्रेणा॒मृता॑म॒मृते॑न। मधु॑मतीं॒ मधु॑मता सृ॒जामि॒ सँसोमे॑न॒। सोमो॑ऽस्य॒श्विभ्यां॑ पच्यस्व॒ सर॑स्वत्यै पच्य॒स्वेन्द्रा॑य सु॒त्राम्णे॑ पच्यस्व ॥१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स्वा॒द्वीम्। त्वा॒। स्वा॒दुना॑। ती॒व्राम्। ती॒व्रेण॑। अ॒मृता॑म्। अ॒मृते॑न। मधु॑मती॒मिति॒ मधु॑ऽमतीम्। मधु॑म॒तेति॒ मधु॑ऽमता। सृ॒जा॒मि॒। सम्। सोमे॑न। सोमः॑। अ॒सि॒। अ॒श्विभ्या॒मित्य॒श्विऽभ्या॑म्। प॒च्य॒स्व॒। सर॑स्वत्यै। प॒च्य॒स्व॒। इन्द्रा॑य। सु॒त्राम्ण॒ इति॑ सु॒ऽत्राम्णे॑। प॒च्य॒स्व॒। १।
महीधरः
म० अथ सौत्रामणीमन्त्रास्त्रिभिरध्यायैः । ऋद्धिकामस्याग्निचितो मुखेतरच्छिद्रसोमवामिनो मुखेन सोमवामिनो राज्यच्युतनृपस्य पशुकामस्य च सौत्रामणीयागः । अन्तःपात्यस्थाने गोचर्मणि एतानि स्थापयेत् सोमसुराविक्रयिणः क्लीबाद्वा क्रीत्वा सीसेन शष्पं क्रीत्वा ऊर्णाभिस्तोक्मान् सूत्रेण लाजान् केनचिद्द्रव्येण नग्नहुम् । विरूढा व्रीहयः शष्पम् । विरूढा यवास्तोक्माः । भृष्टव्रीहयो लाजाः । सर्जत्वक्त्रिफलाशुण्ठीपुनर्नवाचतुर्जातकपिप्पलीगजपिप्पलीवंशावकाबृहच्छत्राचित्रकेन्द्रवारुण्यश्वगन्धाधान्यकयवानीजीरकद्वयहरिद्राद्वयविरूढयवव्रीहय एकीकृता नग्नहुः । शष्पतोक्मलाजनग्नहून्दक्षिणद्वारेणाग्निगृहं नीत्वा संचूर्ण्य दर्शपौर्णमासधर्मेण व्रीहिश्यामाकयोश्चरू बहुजले पक्त्वा शृतालम्भनानन्तरं तयोश्चर्वोर्निःस्रावमुष्णं पृथक् पात्रयोरादाय शष्पादिचतुर्णां चूर्णैः संसृज्य स्थापयेत् । द्वयं चूर्णाचामरूपं मासराख्यम् । ‘ओदनौ चूर्णमासरैः सᳪं᳭सृज्य स्वाद्वीं त्वाᳪं᳭शुनेति त्रिरात्रं निदधाति’ (का. १९ । १। २२ )। एवमाचामयोश्चूर्णसंसर्गे मासरत्वनिष्पादनानन्तरमोदनौ व्रीहिश्यामाकचरू चतुर्भिश्चूर्णैः संसृज्य स्वाद्वीं त्वेति मन्त्रेण अंशुनेति विंशाध्यायसप्तविंशया ऋचा चैकस्मिन्पात्रे चूर्णसंसृष्टावोदनौ मासराभ्यां संसृज्य त्रिरात्रं शालानैर्ऋतकोणे गर्तं कृत्वा तत्र स्थापयेत् । अयमर्थः । चरू उद्वास्य द्वयोः पृथगाचामग्रहणम् । ततः शष्पतोक्मलाजचूर्णानां पृथक् त्रिधा कृतानां तृतीयांशं द्वेधा कृत्वाचामयोः क्षिपेत् । ततो नग्नहुचूर्णं द्वेधा कृत्वैकमर्धं द्विधा विभज्याचामयोः क्षिपेत् । एवं चूर्णसंसृष्टाचामयोर्मासरसंज्ञा । ततः शष्पतोक्मलाजचूर्णानां द्वितीयं तृतीयांशं द्विधा कृत्वैकैकं भागमोदनयोः क्षिपेत् । नग्नहुचूर्णद्वितीयार्धं द्वेधा कृत्वौदनयोः क्षिपेत् । तत ओदनावेकपात्रे कृत्वा तत्राचामौ क्षिपेत् । ततः स्वाद्वीं त्वा अंशुनेति मन्त्राभ्यां चूर्णमासरैः सहौदनयोराड्वालनेन (?) संसर्गः कार्यः। ततस्त्रिरात्रनिधानम् । शष्पतोक्मलाजचूर्णतृतीयांशानां प्रतिदिनं सुरायां निवापार्थं रक्षणमिति सूत्रार्थः । स्वाद्वीं त्वा । सुरासोमदेवत्यानुष्टुप् । सुरारूपः सोमो देवता । सौत्रामणीमन्त्राणां प्रजापत्यश्विसरस्वत्य ऋषयः । अथ मन्त्रार्थः । हे सुरे, त्वा त्वां सोमेन संसृजामि संयोजयामि । ‘छन्दसि परेऽपि’ (पा. १।४। ८१) इति समुपसर्गस्य क्रियापदात्परप्रयोगः । कीदृशीं त्वाम् । स्वाद्वीं मिष्टां मिष्टरसाम् । तीव्रां तीव्रशब्दः कटुवचनः । कट्वीं शीघ्रमदजनिकामित्यर्थः । अमृताममृततुल्याम् । मधुमतीं मधुरस्वादोपेताम् । कीदृशेन सोमेन । स्वादुना मृष्टेन तीव्रेण कटुरसेन अमृतेन सुधातुल्येन । मधुमता मधुरस्वादेन । सोमोऽसि । चत्वारि यजूंषि सुरादेवत्यानि । पूर्व एव विनियोगः । सोमोऽसि दैव्युष्णिक अश्विभ्यां यजुर्गायत्री सरस्वत्यै यजुरुष्णिक् इन्द्राय यजुर्बृहती। हे सुरे, त्वं सोमसंसर्गात्सोमः असि अतस्त्वां वदामि अश्विभ्यामर्थाय पच्यस्व विपरिणम । पाको विपरिणामः । सरस्वत्यै सरस्वत्यर्थं पच्यस्व इन्द्राय च पच्यस्व । कीदृशायेन्द्राय । सुत्राम्णे सुष्ठु त्रायते रक्षतीति सुत्रामा तस्मै । त्रायतेः ‘आतो मनिन्-’ (पा० ३ । २ । ७४) इति मनिन् ॥ १॥
द्वितीया ।
अधिमन्त्रम् (VC)
- सोमो देवता
- प्रजापतिर्ऋषिः
- निचृतच्छक्वरी
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब उन्नीसवें अध्याय का आरम्भ है, इसके प्रथम मन्त्र में मनुष्यों को धर्म, अर्थ, काम और मोक्ष की सिद्धि के लिये क्या करना चाहिये, इस विषय का उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे वैद्यराज ! जो तू (सोमः) सोम के सदृश ऐश्वर्ययुक्त (असि) है, उस (त्वा) तुझ को ओषधियों की विद्या में (सम्, सृजामि) अच्छे प्रकार उत्तम शिक्षायुक्त करता हूँ, जैसे मैं जिस (स्वादुना) मधुर रसादि के साथ (स्वाद्वीम्) सुस्वादयुक्त (तीव्रेण) शीघ्रकारी तीक्ष्ण स्वभाव सहित (तीव्राम्) तीक्ष्ण स्वभावयुक्त को (अमृतेन) सर्वरोगापहारी गुण के साथ (अमृताम्) नाशरहित (मधुमता) स्वादिष्ट गुणयुक्त (सोमेन) सोमलता आदि से (मधुमतीम्) प्रशस्त मीठे गुणों से युक्त ओषधि को सम्यक् सिद्ध करता हूँ, वैसे तू इस को (अश्विभ्याम्) विद्यायुक्त स्त्री-पुरुषों सहित (पच्यस्व) पका (सरस्वत्यै) उत्तम शिक्षित वाणी से युक्त स्त्री के अर्थ (पच्यस्व) पका (सुत्राम्णे) सब को दुःख से अच्छे प्रकार बचानेवाले (इन्द्राय) ऐश्वर्ययुक्त पुरुष के लिये (पच्यस्व) पका ॥१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को योग्य है कि वैद्यकशास्त्र की रीति से अनेक मधुरादि प्रशंसित स्वादयुक्त अत्युत्तम औषधों को सिद्ध कर उनके सेवन से आरोग्य को प्राप्त होकर धर्मार्थ, काम, मोक्ष की सिद्धि के लिये निरन्तर प्रयत्न किया करें ॥१ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यैर्धर्मार्थकाममोक्षसिद्धये किं कर्त्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे वैद्य यस्त्वं ! सोमोऽसि तं त्वौषधीविद्यायां संसृजामि, यथाऽहं यां स्वादुना सह स्वाद्वीं तीव्रेण सह तीव्राममृतेन सहाऽमृतां मधुमता सोमेन सह मधुमतीमोषधीं संसृजामि, तथैतां त्वमश्विभ्यां पच्यस्व, सरस्वत्यै पच्यस्व, सुत्राम्ण इन्द्राय पच्यस्व ॥१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्वैद्यकशास्त्ररीत्याऽनेकानि मधुरादिप्रशस्तवादयुक्तान्यौषधानि निर्माय तत्सेवनेनारोग्यं सम्पाद्य धर्मार्थकाममोक्षसिद्धये सततं प्रयतितव्यम् ॥१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी वैद्यकशास्राप्रमाणे मधुर व उत्तम स्वाद अत्युत्तम औषधांचे सेवन करून आरोग्य प्राप्त करावे व धर्म, अर्थ, काम, मोक्ष यांची सिद्धी करण्यासाठी सतत प्रयत्न करावेत.
०२ परीतो षिञ्चता
विश्वास-प्रस्तुतिः ...{Loading}...
परी॒तो षि॑ञ्चता सु॒तँ सोमो॒ यऽउ॑त्त॒मँ ह॒विः। द॒ध॒न्वान् यो नर्यो॑ऽअ॒प्स्व᳙न्तरा सु॒षाव॒ सोम॒मद्रि॑भिः ॥२ ॥
मूलम् ...{Loading}...
परी॒तो षि॑ञ्चता सु॒तँ सोमो॒ यऽउ॑त्त॒मँ ह॒विः। द॒ध॒न्वान् यो नर्यो॑ऽअ॒प्स्व᳙न्तरा सु॒षाव॒ सोम॒मद्रि॑भिः ॥२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
परि॑। इ॒तः। सि॒ञ्च॒त॒। सु॒तम्। सोमः॑। यः। उ॒त्त॒ममित्यु॑त्ऽत॒मम्। ह॒विः। द॒ध॒न्वान्। यः। नर्य्यः॑। अ॒प्स्वित्य॒प्ऽसु। अ॒न्तः। आ। सु॒षाव॑। सु॒षावेति॑ सु॒ऽसाव॑। सोम॑म्। अद्रि॑भि॒रित्यद्रि॑ऽभिः। २।
महीधरः
म०. ‘एकस्याः पयस्यायाः कृतेनाश्विनेन परिषिञ्चति परीतो षिञ्चतेति शष्पचूर्णानि चावपति सारस्वतेन द्वयोः प्रातस्तोक्मचूर्णानि चैन्द्रेणोत्तमे तिसृणां लाजचूर्णानि च’ ( का० १९ । १ । २३-२८) । सायंहोमान्तेऽश्विभ्यामपाकरोमीति करेण गां स्पृष्ट्वा एकां तां दुग्ध्वा तत्पयसाध्वर्युः सुरां सिञ्चति परीत इति मन्त्रेण । रक्षितं शष्पचूर्णानां तृतीयांशं सुराभाण्डे क्षिपेत् । द्वितीयेऽह्नि निशान्ते सरस्वत्या अपाकरोमीति गावौ स्पृष्ट्वा दोहितेन तयोर्दुग्धेन तेनैव मन्त्रेण सुरां सिञ्चति तोक्मचूर्णतृतीयांशक्षेपश्च । तृतीयेऽह्नि रात्रौ इन्द्राय सुत्राम्णेऽपाकरोमीति तिस्रो गाः स्पृष्ट्वा ता दुग्ध्वैकीकृततत्पयसा सुरां सिञ्चति तेनैव मन्त्रेण तत्र लाजचूर्णतृतीयांशक्षेपश्चेति सूत्रार्थः । भरद्वाजदृष्टा सोमदेवत्या बृहती । हे ऋत्विजः, इतो गोः सकाशाद्गृहीतेन दुग्धेनेति शेषः । सुतमिभिषुतं सोमं परिस्रुद्रूपं परिषिञ्चत यूयम् । परि इतः सिञ्चतेति पदेषु सत्सु ‘ओकारमितः सिञ्चतौ सोपध’ (प्रातिशा० ३ । ३।९) इति सूत्रेण सविसर्गस्य तकारस्थाकारस्य ओकारः ‘अन्येषामपि दृश्यते’ (पा० ६ । ३ । १३७ ) इति सिञ्चतपदस्य संहितायां दीर्घः । तं कम् । यः सोम उत्तमं हविः सर्वेषां श्रेष्ठम् । यश्च नर्यः नरेभ्यो हितः सन् दधन्वान् यजमानं धारितवान् । ‘धन शब्दे’ क्वसुप्रत्ययः । अप्सु जलेषु अन्तर्मध्ये वर्तमानं यं सोममद्रिभिः ग्रावभिरध्वर्युः आसुषाव अभिषुतवान् । तं सोमं सुरारूपमापन्नं पयसा सिञ्चतेति संबन्धः ॥ २॥
तृतीया ।
अधिमन्त्रम् (VC)
- सोमो देवता
- भारद्वाज ऋषिः
- स्वराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य लोगो ! (यः) जो (उत्तमम्) उत्तम श्रेष्ठ (हविः) खाने योग्य अन्न (सोमः) प्रेरणा करनेहारा विद्वान् (इतः) प्राप्त होवे (यः) जो (नर्यः) मनुष्यों में उत्तम (दधन्वान्) धारण करता हुआ (अप्सु) जलों के (अन्तः) मध्य में (आसुषाव) सिद्ध करे, उस (अद्रिभिः) मेघों में (सुतम्) उत्पन्न हुए (सोमम्) ओषधिगण की तुम लोग (परिसिञ्चत) सब ओर से सींच के बढ़ाओ ॥२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को योग्य है कि उत्तम ओषधियों को जल में डाल, मन्थन कर, सार रस को निकाल, इससे यथायोग्य जाठराग्नि को सेवन करके बल और आरोग्यता को बढ़ाया करें ॥२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! य य उत्तमं हविः सोम इतः स्याद्, यो नर्यो दधन्वानप्स्वन्तरासुषाव तमद्रिभिः सुतं सोमं यूयं परिसिञ्चत ॥२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैरुत्तमा ओषधीर्जले संस्थाप्य मथित्वाऽऽसवं निस्सार्यानेन यथायोग्यं जाठराग्निं सेवित्वा बलारोग्ये वर्द्धनीये ॥२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी उत्तम औषध पाण्यात घालावे व घुसळून त्याचा रस काढावा व तो प्राशन करावा आणि जठराग्नी प्रदीप्त करून शक्ती व आरोग्य वाढवावे.
०३ वायोः पूतः
विश्वास-प्रस्तुतिः ...{Loading}...
वा॒योः पू॒तः प॒वित्रे॑ण प्र॒त्यङ् सोमो॒ऽअति॑द्रुतः। इन्द्र॑स्य॒ युज्यः॒ सखा॑। वा॒योः पू॒तः प॒वित्रे॑ण प्राङ् सोमो॒ऽअति॑द्रुतः। इन्द्र॑स्य॒ युज्यः॒ सखा॑ ॥३ ॥
मूलम् ...{Loading}...
वा॒योः पू॒तः प॒वित्रे॑ण प्र॒त्यङ् सोमो॒ऽअति॑द्रुतः। इन्द्र॑स्य॒ युज्यः॒ सखा॑। वा॒योः पू॒तः प॒वित्रे॑ण प्राङ् सोमो॒ऽअति॑द्रुतः। इन्द्र॑स्य॒ युज्यः॒ सखा॑ ॥३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वा॒योः। पू॒तः। प॒वित्रे॑ण। प्र॒त्यङ्। सोमः॑। अतिद्रु॑त॒ इत्यति॑ऽद्रुतः। इन्द्र॑स्य। युज्यः॑। सखा॑। वा॒योः। पू॒तः। प॒वित्रेण॑। प्राङ्। सोमः॑। अति॑द्रुत॒ इत्यति॑ऽद्रुतः। इन्द्र॑स्य। युज्यः॑। सखा॑। ३।
महीधरः
म० ‘सते पुनाति गोऽश्ववालवालेन पुनाति ते परिस्रुतमिति वायोः पूत इति सोमातिपूतस्य प्राङिति तद्वामिनः’ ( का० १९ । २ । ७-९)। वायोः पूत इति कण्डिकायां द्वे ऋचौ पुनाति त इति तृतीया तासां व्युत्क्रमेण विनियोगमाह । पूतां सुरामादाय गोऽश्वकेशनिर्मितेन वालेन पवित्रेण सते पलाशपात्रे पुनाति पुनाति त इति मन्त्रेण सतं वारणमिति केचित् । मुखेतरच्छिद्रसोमवामिनो यजमानस्य सौत्रामण्यां वायोः पूतः पवित्रेण प्रत्यङ्ङिति मन्त्रेण सते सुरां पुनाति मुखेन सोमवामिनस्तु वायोः पूतः पवित्रेण प्राङिति मन्त्रेण सते सुरां पुनातीत्यर्थः । ऋक्त्रयमाभूतिदृष्टं सोमदेवत्यं गायत्रम् । प्रत्यञ्चति अधो गच्छति प्रत्यङ् अधोमुखोऽतिद्रुतो गुदद्वारा गतः सोमः वायोः पवित्रेण उदरान्तर्वर्तिना पूतः शुद्धः । कीदृशः । इन्द्रस्य युज्यः सखा योगार्होऽगर्ह्यः सहायः । प्राञ्चत्यूर्ध्वं गच्छति प्राङ् मुखतोऽतिद्रुतो निर्गतः सोमो वायोः पवित्रेण हृदयान्तर्वर्तिना पूतः य इन्द्रस्य युज्यः योग्यः सखा ॥३॥
चतुर्थी।
अधिमन्त्रम् (VC)
- सोमो देवता
- आभूतिर्ऋषिः
- भुरिक् त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य लोगो ! जो (सोमः) सोमलतादि ओषधियों का गुण (प्राङ्) जो प्रकृष्टता से (अतिद्रुतः) शीघ्रगामी (वायोः) वायु से (पवित्रेण) शुद्ध करनेवाले कर्म से (पूतः) पवित्र (इन्द्रस्य) इन्द्रियों के अधिष्ठाता जीव का (युज्यः) योग्य (सखा) मित्र के समान रहता है और जो (सोमः) सिद्ध किया हुआ ओषधियों का रस (प्रत्यङ्) प्रत्यक्ष शरीरों से युक्त होके (अतिद्रुतः) अत्यन्त वेगवाला (वायोः) वायु से (पवित्रेण) पवित्रता कर के (पूतः) शुद्ध और (इन्द्रस्य) परमैश्वर्ययुक्त राजा का (युज्यः) अतियोग्य (सखा) मित्र के समान है, उसका तुम निरन्तर सेवन किया करो ॥३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो ओषधि शुद्ध स्थल, जल और वायु में उत्पन्न होती और पूर्व और पश्चात् होनेवाले रोगों का शीघ्र निवारण करती है, उनका मनुष्य लोग मित्र के समान सदा सेवन करें ॥३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यः सोमः प्राङतिद्रुतो वायोः पवित्रेण पूत इन्द्रस्य युज्यः सखेवास्ति, यश्च सोमः प्रत्यङ्ङतिद्रुतो वायोः पवित्रेण पूत इन्द्रस्य युज्यः सखेवास्ति, तं यूयं सततं सेवध्वम् ॥३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - या ओषधयः शुद्धे स्थले जले वायौ चोत्पद्यन्ते, पूर्वापरान् रोगान् शीघ्रं निस्सारयन्ति च, ता मनुष्यैर्मित्रवत् सदा सेवनीयाः ॥३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे औषध शुद्ध स्थळ, जल व वायूमध्ये उत्पन्न होते त्यामुळे ते जुन्या किंवा नव्या रोगांचे ताबडतोब निवारण करते. त्या औषधांचा (सोमवल्ली वगैरे) मित्राप्रमाणे माणसांनी स्वीकार केला पाहिजे.
०४ पुनाति ते
विश्वास-प्रस्तुतिः ...{Loading}...
पु॒नाति॑ ते परि॒स्रुतँ॒ सोमँ॒ सूर्य॑स्य दुहि॒ता। वारे॑ण॒ शश्व॑ता॒ तना॑ ॥४ ॥
मूलम् ...{Loading}...
पु॒नाति॑ ते परि॒स्रुतँ॒ सोमँ॒ सूर्य॑स्य दुहि॒ता। वारे॑ण॒ शश्व॑ता॒ तना॑ ॥४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पु॒नाति॑। ते॒। प॒रिस्रुत॒मिति॑ परि॒ऽस्रुत॑म्। सोम॑म्। सूर्य्य॑स्य। दु॒हि॒ता। वारे॑ण। शश्व॑ता तना॑। ४।
महीधरः
म० अध्वर्युर्यजमानं प्रत्याचष्टे हे यजमान, सूर्यस्य दुहिता पुत्री श्रद्धा ते तव परिस्रुतं सुरां सोमं च पुनाति शोधयति । ‘श्रद्धा वै सूर्यस्य दुहिता’ इति श्रुतिः । यद्वा लुप्तोपमानम् । ते तव परिस्रुतं सोममिव पुनाति सोमवत् पवित्रं करोति । यद्वा सोमं सोमरूपापन्नां परिस्रुतं श्रद्धा पुनाति । केन । वारेण वालेन रलयोरैक्यम् । गोऽश्ववालवालेन । कीदृशेन वारेण । शश्वता शाश्वतिकेन अनादिना । तथा तना । तनेति धननाम । तनेन धनेन धनरूपेण धनोत्पत्तिनिमित्तभूतेनेत्यर्थः ॥ ४ ॥
पञ्चमी।
अधिमन्त्रम् (VC)
- सोमो देवता
- आभूतिर्ऋषिः
- आर्षी गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य ! जो (तना) विस्तीर्ण प्रकाश से (सूर्यस्य) सूर्य की (दुहिता) कन्या के समान उषा (शश्वता) अनादिरूप (वारेण) ग्रहण करने योग्य स्वरूप से (ते) तेरे (परिस्रुतम्) सब ओर से प्राप्त (सोमम्) ओषधियों के रस को (पुनाति) पवित्र करती है, उसमें तू ओषधियों के रस का सेवन कर ॥४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य सूर्योदय से पूर्व शौचकर्म करके यथानुकूल ओषधि का सेवन करते हैं, वे रोगरहित होकर सुखी होते हैं ॥४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य ! या तना सूर्यस्य दुहितेवोषा शश्वता वारेण ते परिस्रुतं सोमं पुनाति, तस्या त्वमोषधिरसं सेवस्व ॥४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्याः सूर्योदयात् प्राक् शौचं विधाय यथानुकूलमौषधं सेवन्ते, तेऽरोगा भूत्वा सुखिनो जायन्ते ॥४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे सूर्योदयापूर्वी शौचकर्म करून यथानुकूल औषधांचे सेवन करतात ते रोगरहित होऊन सुखी बनतात.
०५ ब्रह्म क्षत्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्म॑ क्ष॒त्रं प॑वते॒ तेज॑ऽइन्द्रि॒यँ सुर॑या॒ सोमः॑ सु॒तऽआसु॑तो॒ मदा॑य। शु॒क्रेण॑ देव दे॒वताः॑ पिपृग्धि॒ रसे॒नान्नं॒ यज॑मानाय धेहि ॥५ ॥
मूलम् ...{Loading}...
ब्रह्म॑ क्ष॒त्रं प॑वते॒ तेज॑ऽइन्द्रि॒यँ सुर॑या॒ सोमः॑ सु॒तऽआसु॑तो॒ मदा॑य। शु॒क्रेण॑ देव दे॒वताः॑ पिपृग्धि॒ रसे॒नान्नं॒ यज॑मानाय धेहि ॥५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ब्रह्म॑। क्ष॒त्रम्। प॒व॒ते॒। तेजः॑। इ॒न्द्रि॒यम्। सुर॑या। सोमः॑। सु॒तः। आसु॑त॒ इत्याऽसु॑तः। मदा॑य। शु॒क्रेण। दे॒व॒। दे॒वताः॑। पि॒पृ॒ग्धि॒। रसे॑न। अन्न॑म्। यज॑मानाय। धे॒हि॒। ५।
महीधरः
म० ‘उत्तरस्यां पयो वैतसेऽजाविलोमपवित्रेण ब्रह्म क्षत्रमिति’ ( का० १९ । २ । १०) । अजमेषलोमकृतपवित्रेण वेतसपात्रे उत्तरदिशि पयः पुनाति ब्रह्म क्षत्रमिति मन्त्रेणेत्यर्थः। सुरासोमदेवत्या त्रिष्टुप् । आद्यो द्वादशकः द्वितीयत्रयोदशार्णः अन्यावेकादशार्णौ तेन त्र्यधिका । हे देव सोम, शुक्रेण . शुद्धेन वीर्येण त्वं देवताः अग्न्याद्याः पिपृग्धि प्रणीहि । पुनः रसेन घृतादिना सहितमन्नं यजमानाय धेहि देहि । यतः सोमो भवान् सुतोऽभिषुतः सन् ब्रह्म ब्राह्मणं क्षत्रं क्षत्रियं तेजः कान्तिमिन्द्रियसामर्थ्यं पवते जनयति । पवतिर्जननार्थः यज्ञादेव सर्वोत्पत्तेः सोमे उपचर्यते । आसुतः सुरया तीव्रीकृतः सन् भवान् मदाय च भवति । ईदृशसामर्थ्ययुक्तस्त्वं देवान् यजमानं चाभीष्टेन प्रीणीहीत्यर्थः ॥५॥
षष्ठी ।
अधिमन्त्रम् (VC)
- सोमो देवता
- आभूतिर्ऋषिः
- निचृज्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (देव) सुखदाता विद्वान् ! जो (शुक्रेण) शीघ्र शुद्ध करनेहारे व्यवहार से (मदाय) आनन्द के लिये (सुरया) उत्पन्न होती हुई क्रिया से (सुतः) उत्पादित (आसुतः) अच्छे प्रकार रोगनिवारण के निमित्त सेवित (सोमः) ओषधियों का रस (तेजः) प्रगल्भता (इन्द्रियम्) मन आदि इन्द्रियगण (ब्रह्म) ब्रह्मवित् कुल और (क्षत्रम्) न्यायकारी क्षत्रिय-कुल को (पवते) पवित्र करता है, उस (रसेन) रस से युक्त (अन्नम्) अन्न को (यजमानाय) धर्मात्मा जन के लिये (धेहि) धारण कर (देवताः) विद्वानों को (पिपृग्धि) प्रसन्न कर ॥५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस जगत् में किसी मनुष्य को योग्य नहीं है कि जो श्रेष्ठ रस के विना अन्न खावे, सदा विद्या शूरवीरता, बल और बुद्धि की वृद्धि के लिये महौषधियों के सारों को सेवन करना चाहिये ॥५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे देव विद्वन् ! यः शुक्रेण मदाय सुरया सुत आसुतः सोमस्तेज इन्द्रियं ब्रह्म क्षत्रं च पवते, तेन रसेनान्नं यजमानाय धेहि, देवताः पिपृग्धि ॥५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - नात्र केनचिन्मनुष्येण नीरसमन्नमत्तव्यम्, सदा विद्याशौर्यबलबुद्धिवर्द्धनाय महौषधिसारास्सेवनीयाः ॥५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या जगात कोणत्याही माणसाने निरस अन्न खाणे योग्य नाही म्हणून विद्या, शूरवीरता बल व बुद्धीची वाढ करण्यासाठी महा औषधांचे (रस) सेवन केले पाहिजे.
०६ कुविदङ्ग यवमन्तो
विश्वास-प्रस्तुतिः ...{Loading}...
कु॒विद॒ङ्ग यव॑मन्तो॒ यवं॑ चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑। इ॒हेहै॑षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नम॑ऽ उक्तिं॒ यज॑न्ति। उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्यां॑ त्वा॒ सर॑स्वत्यै॒ त्वेन्द्रा॑य त्वा सु॒त्राम्ण॑ऽए॒ष ते॒ योनि॒स्तेज॑से त्वा वी॒र्या᳖य त्वा॒ बला॑य त्वा ॥६ ॥
मूलम् ...{Loading}...
कु॒विद॒ङ्ग यव॑मन्तो॒ यवं॑ चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑। इ॒हेहै॑षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नम॑ऽ उक्तिं॒ यज॑न्ति। उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्यां॑ त्वा॒ सर॑स्वत्यै॒ त्वेन्द्रा॑य त्वा सु॒त्राम्ण॑ऽए॒ष ते॒ योनि॒स्तेज॑से त्वा वी॒र्या᳖य त्वा॒ बला॑य त्वा ॥६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
कु॒वित्। अ॒ङ्ग। यव॑मन्त॒ इति॒ यव॑ऽमन्तः। यव॑म्। चि॒त्। यथा॑। दान्ति॑। अ॒नु॒पू॒र्वमित्य॑नुऽपू॒र्वम्। वि॒यूयेति॑ वि॒ऽयूय॑। इ॒हेहेती॒हऽइ॒ह। ए॒षा॒म्। कृ॒णु॒हि॒। भोज॑नानि। ये। ब॒र्हिषः॑। नम॑उक्ति॒मिति॒ नमः॑ऽउक्तिम्। यज॑न्ति। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। अ॒श्विभ्या॒मित्य॒श्विऽभ्या॑म्। त्वा॒। सर॑स्वत्यै। त्वा॒। इन्द्रा॑य। त्वा॒। सु॒त्राम्ण॒ इति॑ सु॒ऽत्राम्णे॑। ए॒षः। ते॒। योनिः॑। तेज॑से। त्वा॒। वी॒र्या᳖य। त्वा॒। बला॑य। त्वा॒। ६।
महीधरः
म० ‘पयोग्रहान् गृह्णाति कुविदङ्गेति पृथगुपयामयोनी’ ( का० १९ । २ । १२-१३ ) । एवं सुरापयसोः पावनं कृत्वा कुविदङ्गेति मन्त्रेणैव त्रीन् पयोग्रहान् गृह्णाति । मन्त्रपाठे उपयामगृहीतोऽसि एष ते योनिरिति द्वे यजुषी सकृत्पठिते त्रिषु ग्रहेषु पृथग्भवतः । ततश्चैते मन्त्राः । कुविदङ्गेत्यृचं पठित्वा उपयामगृहीतोऽस्यश्विभ्यां त्वा । ऋग्व्याख्याता (१० । ३२)। हे पयोग्रह, त्वमुपयामेन पात्रेण गृहीतोऽसि । अश्विभ्यामर्थे त्वा त्वां गृह्णामि । सादयति एष ते योनिस्तेजसे त्वा । एष ते तव योनिः स्थानम् । योनिर्द्वयोरिति योनिशब्द उभयलिङ्गः। तेजसे तेजोर्थं त्वां सादयामि । द्वितीये पयोग्रहे कुविदिति पठित्वा उपयामगृहीतोऽसि सरस्वत्यै त्वा सरस्वत्यर्थं त्वां गृह्णामि । सादयति एष ते योनिर्वीर्याय त्वा वीर्यार्थं त्वां सादयामि । तृतीयपयोग्रहे कुविदित्यन्ते उपयामगृहीतोऽसीन्द्राय त्वा सुत्राम्णे सुष्ठु त्रायते रक्षतीति सुत्रामा तस्मै रक्षकायेन्द्राय त्वां गृह्णामि । सादयति एष ते योनिर्बलाय त्वा बलाय बलार्थं त्वां सादयामि । एतेषां क्रमादश्वत्थोदुम्बरन्यग्रोधपात्रैर्ग्रहणम् ॥ ६॥
सप्तमी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- आभूतिर्ऋषिः
- विराट् प्रकृतिः
- धैवतः
०७ नाना हि
विश्वास-प्रस्तुतिः ...{Loading}...
नाना॒ हि वां॑ दे॒वहि॑तँ॒ सद॑स्कृ॒तं मा सँसृ॑क्षाथां पर॒मे व्यो॑मन्। सुरा॒ त्वमसि॑ शु॒ष्मिणी॒ सोम॑ऽए॒ष मा मा॑ हिँसीः॒ स्वां योनि॑मावि॒शन्ती॑ ॥७ ॥
मूलम् ...{Loading}...
नाना॒ हि वां॑ दे॒वहि॑तँ॒ सद॑स्कृ॒तं मा सँसृ॑क्षाथां पर॒मे व्यो॑मन्। सुरा॒ त्वमसि॑ शु॒ष्मिणी॒ सोम॑ऽए॒ष मा मा॑ हिँसीः॒ स्वां योनि॑मावि॒शन्ती॑ ॥७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नाना॑। हि। वा॒म्। दे॒वहि॑त॒मिति॑ दे॒वऽहि॑तम्। सदः॑। कृ॒तम्। मा। सम्। सृ॒क्षा॒था॒म्। प॒र॒मे॒। व्यो॑म॒न्निति॒ विऽओ॑मन्। सुरा॑। त्वम्। असि॑। शु॒ष्मिणी॑। सोमः॑। ए॒षः। मा। मा॒। हिँ॒सीः॒। स्वाम्। योनि॑म्। आ॒वि॒शन्तीत्या॑ऽवि॒शन्ती॑। ७।
महीधरः
म० ‘स्थालीभिः सौरान्नाना हि वामिति व्यत्यासम्’ (का० १९ । २ । २०)। नाना हीति मन्त्रेण मृण्मयस्थालीभिस्त्रीन्सुराग्रहान्गृह्णाति । व्यत्यासमित्यर्थः । आदावाश्विनं पयोगृहं गृहीत्वासाद्याश्विनसुराग्रहस्य ग्रहणासादने । ततः सारस्वतौ पयोग्रहसुराग्रहौ । तत ऐन्द्रौ पयःसुराग्रहौ । क्रमेण वा उपयामयोनी । अत्रापि पृथक् प्रथमे नाना हीति पठित्वोपयामगृहीतोऽस्याश्विनं तेज इति ग्रहणमेष ते योनिर्मोदाय त्वेति सादनम् । द्वितीये नाना हीत्यन्ते उपयामगृहीतोऽसि सारस्वतं वीर्यमिति ग्रहणमेष ते योनिरानन्दाय त्वेति सादनम् तृतीये नायेत्यन्ते उपयामगृहीतोऽस्यैन्द्रं बलमिति ग्रहणमेष ते योनिर्महसे त्वेति सादनमिति सूत्रार्थः । सुरासोमदेवत्या जगती । हे सुरासोमौ, हि यस्मात्कारणाद्वां युवयोः नाना पृथक् सदः स्थानं कृतम् । सुरापयसोर्द्वे वेदी भवतः । । कीदृशं सदः । देवहितं देवानां हितं पथ्यम् । यद्वा देवैः हितं स्थापितम् । अतः कारणात् परमे उत्कृष्टे व्योमन् व्योम्नि व्योमवद्विशाले हवनस्थाने युवं मा संसृक्षाथां संसर्गं मा कुरुतम् । आहवनीये पयो हूयते दक्षिणाग्नौ सुरा हूयते अतो न संसर्गः । ‘सृज विसर्गे’ लुङ् । एवं द्वौ प्रत्युक्त्वा सुरामाह । हे सुरे, त्वं सुरा असि । कीदृशी । शुष्मिणी शुष्मं बलमस्या अस्तीति बलवती । अतस्त्वां पीत्वा मत्तो भवति । एष सोमः शान्तः अतः स्वां योनिमाविशन्ती प्रविशन्ती सती सोमं मा हिंसीः । अनुदात्तो माशब्दः पादपूरणः ॥ ७ ॥
अष्टमी।
अधिमन्त्रम् (VC)
- सोमो देवता
- आभूतिर्ऋषिः
- भुरिक् त्रिष्टुप्
- धैवतः
०८ उपयामगृहीतोऽस्याश्विनं तेजः
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒प॒या॒मगृ॑हीतोऽस्याश्वि॒नं तेजः॑ सारस्व॒तं वी॒र्य᳖मै॒न्द्रं बल॑म्। ए॒ष ते॒ योनि॒र्मोदा॑य त्वान॒न्दाय॑ त्वा॒ मह॑से त्वा ॥८ ॥
मूलम् ...{Loading}...
उ॒प॒या॒मगृ॑हीतोऽस्याश्वि॒नं तेजः॑ सारस्व॒तं वी॒र्य᳖मै॒न्द्रं बल॑म्। ए॒ष ते॒ योनि॒र्मोदा॑य त्वान॒न्दाय॑ त्वा॒ मह॑से त्वा ॥८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उ॒प॒या॒मगृ॑हीतः। अ॒सि॒। आ॒श्वि॒नम्। तेजः॑। सा॒र॒स्व॒तम्। वी॒र्य᳖म्। ऐ॒न्द्रम्। बल॑म्। ए॒षः। ते॒। योनिः॑। मोदा॑य। त्वा॒। आ॒न॒न्दायेत्या॑ऽऽन॒न्दाय॑। त्वा॒। मह॑से। त्वा॒। ८।
महीधरः
म० आश्विनं तेजः साक्षात्त्वमेव । सारस्वतं सरस्वतीसंबन्धि वीर्यं सामर्थ्यं च त्वम् । ऐन्द्रमिन्द्रसंबन्धि बलं च त्वमिति शेषः । सादयति । एष ते तव योनिः स्थानम् । मोदाय प्रमोदाय त्वा त्वां सादयामि । आनन्दाय हर्षाय त्वां सादयामि । महसे महत्त्वाय च सादयामि । प्रत्येकं मन्त्राः ॥ ८॥
नवमी।
अधिमन्त्रम् (VC)
- सोमो देवता
- आभूतिर्ऋषिः
- निचृत् पङ्क्तिः
- पञ्चमः
०९ तेजोऽसि तेजो
विश्वास-प्रस्तुतिः ...{Loading}...
तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि वी॒र्य᳖मसि वी॒र्यं᳙ मयि॑ धेहि॒ बल॑मसि॒ बलं॒ मयि॑ धे॒ह्योजो॒ऽस्योजो॒ मयि॑ धेहि म॒न्युर॑सि म॒न्युं मयि॑ धेहि॒ सहो॑ऽसि॒ सहो॒ मयि॑ धेहि ॥९ ॥
मूलम् ...{Loading}...
तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि वी॒र्य᳖मसि वी॒र्यं᳙ मयि॑ धेहि॒ बल॑मसि॒ बलं॒ मयि॑ धे॒ह्योजो॒ऽस्योजो॒ मयि॑ धेहि म॒न्युर॑सि म॒न्युं मयि॑ धेहि॒ सहो॑ऽसि॒ सहो॒ मयि॑ धेहि ॥९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
तेजः॑। अ॒सि॒। तेजः॑। मयि॑। धे॒हि॒। वी॒र्य᳖म्। अ॒सि॒। वी॒र्य᳖म्। मयि॑। धे॒हि॒। बल॑म्। अ॒सि॒। बल॑म्। मयि॑। धे॒हि॒। ओजः॑। अ॒सि॒। ओजः॑। मयि॑। धे॒हि॒। म॒न्युः। अ॒सि॒। म॒न्युम्। मयि॑। धे॒हि॒। सहः॑। अ॒सि॒। सहः॑। मयि॑। धे॒हि॒। ९।
महीधरः
म०. ‘गोधूमकुवलचूर्णानि चावपति तेजोऽसीति’ (का. १९ । २। १६ )। आश्विनग्रहणानन्तरं सादनात्प्राक् द्वे दर्भतृणे प्रागग्रे पात्रोपरि कृत्वा गोधूमकुवलयोश्चूर्णानि सहैव पयसि क्षिपति । कुवलं स्थूलं बदरीफलमित्यर्थः । त्रीणि यजूंषि पयोदेवत्यानि । आद्यं यजुर्बृहती । पयः, त्वं तेजोऽसि अतो मयि तेजो धेहि स्थापय । ‘यो यदात्मकः स तत्र नियुज्यत’ इति न्यायात् । ‘उपवाकबदरचूर्णानि च वीर्यमसीति’ (का. १९ । २। १७)। उपवाका इन्द्रयवाः । बदरं सूक्ष्मबदरीफलम् । तयोश्चूर्णानि सारस्वते पयोग्रहे निर्वपेदित्यर्थः । यजुः पङ्क्तिः । हे ग्रह, त्वं वीर्यमसि अतो मयि वीर्यं सामर्थ्यं धेहि । ‘यवकर्कन्धुचूर्णानि च बलमसीति’ ( का० १९ । २ । १९) । यवाः प्रसिद्धाः कर्कन्धुः अतिस्थूलं बदरम् तयोश्चूर्णान्यैन्द्रे पयोग्रहे क्षिपेदित्यर्थः । यजुः पङ्क्तिः । हे ग्रह, त्वं बलमसि अतो मयि विषये बलं धेहि । ‘सुराग्रहाञ्श्रीणात्योजोऽसीति वृकव्याघ्रसिᳪं᳭हलोमभिः प्रतिमन्त्रं मिश्रैरेके यथासंख्यम्’ (का. १९ । २॥ २२-२३ ) । वृकादीनां मिश्रैः केशैरोजोऽसीति प्रतिमन्त्रं सुराग्रहान्मिश्रयेत् ओजोऽसीत्याश्विनं मन्युरसीति सारस्वतं सहोऽसीत्यैन्द्रम् । एके वृकादिकेशैर्यथासंख्यं ग्रहं मिश्रयन्ति वृककेशैराश्विनं वैयाघ्रैः सारस्वतं सैंहरैन्द्रमिति सूत्रार्थः । त्रीणि यजूंषि सुरादेवत्यानि । हे सुरे, त्वमोजः असि अतो मयि विषये ओजः कान्तिं धेहि स्थापय । त्वं मन्युर्मानसं प्रज्वलनं कोपोऽसि मयि मन्युं धेहि । सहोऽसि मयि सहो बलं धेहि ॥९॥
दशमी।
अधिमन्त्रम् (VC)
- सोमो देवता
- आभूतिर्ऋषिः
- निचृच्छक्वरी
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सकल शुभगुणकर राजन् ! जो तेरे में (तेजः) तेज (असि) हैं, उस (तेजः) तेज को (मयि) मेरे में (धेहि) धारण कीजिये। जो तेरे में (वीर्यम्) पराक्रम (असि) है, उस (वीर्यम्) पराक्रम को (मयि) मुझ में (धेहि) धरिये। जो तेरे में (बलम्) बल (असि) है, उस (बलम्) बल को (मयि) मुझ में भी (धेहि) धरिये। जो तेरे में (ओजः) प्राण का सामर्थ्य (असि) है, उस (ओजः) सामर्थ्य को (मयि) मुझ में (धेहि) धरिये। जो तुझ में (मन्युः) दुष्टों पर क्रोध (असि) है, उस (मन्युम्) क्रोध को (मयि) मुझ में (धेहि) धरिये। जो तुझ में (सहः) सहनशीलता (असि) है, उस (सहः) सहनशीलता को (मयि) मुझ में भी (धेहि) धारण कीजिये ॥९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सब मनुष्यों के प्रति ईश्वर की यह आज्ञा है कि जिन शुभ गुण-कर्म-स्वभावों को विद्वान् लोग धारण करें, उनको औरों में भी धारण करावें और जैसे दुष्टाचारी मनुष्यों पर क्रोध करें, वैसे धार्मिक मनुष्यों में प्रीति भी निरन्तर किया करें ॥९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे शुभगुणकर राजन् ! यत्त्वयि तेजोऽ(स्य)स्ति तत्तेजो मयि धेहि, यत्त्वयि वीर्यमसि तद्वीर्यं मयि धेहि, यत्त्वयि बलमसि तद् बलं मयि धेहि, यत्त्वय्योजोऽसि तदोजो मयि धेहि, यस्त्वयि मन्युरसि तम्मन्युं मयि धेहि, यत्त्वयि सहोऽसि तत्सहो मयि धेहि ॥९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सर्वान् मनुष्यान् प्रतीयमीश्वरस्याज्ञास्ति यान् शुभगुणकर्मस्वभावान् विद्वांसो धरेयुस्तानन्येष्वपि धारयेयुर्यथा दुष्टाचाराणामुपरि क्रोधं कुर्युस्तथा धार्मिकेषु प्रीतिं सततं कुर्युः ॥९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सर्व माणसांना ईश्वराची ही आज्ञा आहे की, ज्या शुभ गुण, कर्म स्वभावाला विद्वान लोक धारण करतात तशी धारणा त्यांनी इतरांनाही करावयास लावावी व दुष्ट माणसांवर क्रोध करावा आणि धार्मिक माणसांवर प्रेम करावे.
१० या व्याघ्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
या व्या॒घ्रं विषू॑चिको॒भौ वृकं॑ च॒ रक्ष॑ति। श्ये॒नं प॑त॒त्रिणँ॑ सिँ॒हँ सेमं पा॒त्वँह॑सः ॥१० ॥
मूलम् ...{Loading}...
या व्या॒घ्रं विषू॑चिको॒भौ वृकं॑ च॒ रक्ष॑ति। श्ये॒नं प॑त॒त्रिणँ॑ सिँ॒हँ सेमं पा॒त्वँह॑सः ॥१० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
या। व्या॒घ्रम्। विषू॑चिका। उ॒भौ। वृक॑म्। च॒। रक्ष॑ति। श्ये॒नम्। प॒त॒त्रिण॑म्। सिँ॒हम्। सा। इ॒मम्। पा॒तु॒। अँह॑सः। १०।
महीधरः
म०. ‘दीक्षावत्पावयतोऽन्तःपात्ये श्येनपत्राभ्यां या व्याघ्रमिति’ ( का० १९ । २ । २६)। अध्वर्युप्रतिप्रस्थातारौ सहैवान्तःपात्येऽवस्थितं प्राङ्मुखं यजमानं श्येनपिच्छाभ्यां पावयतः दीक्षावदित्येकेन नाभेरूर्ध्वं प्रदक्षिणं द्वितीयेन सकृदवाङ् यद्वोभाभ्यां नाभेरूर्ध्वमधश्च द्विरिति सूत्रार्थः । हैमवर्चिदृष्टा विषूचिकादेवत्यानुष्टुप् । व्याध्यधिष्ठात्री देवतास्ति सा प्रार्थ्यते । विषु सर्वत्र अञ्चति गच्छति विषूची सैव विषूचिका रोगविशेषः । ‘केऽणः’ (पा० ७ । ४ । १३) इति ङीपो ह्रस्वः । या विषूचिका व्याघ्रं वृकमेनावुभौ द्वौ परिरक्षति पाति तथा श्येनं पतत्रिणं पक्षिणं सिंहं चोभौ रक्षति । नहि तेषामन्नपरिणामजनितो दोषः । सा विषूचिका इमं यजमानमंहसः व्याधिहेतुभूतात्पापात्पातु रक्षतु ॥ १० ॥
एकादशी।
अधिमन्त्रम् (VC)
- सोमो देवता
- हैमवर्चिर्ऋषिः
- आर्ष्युष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर स्त्री-पुरुष कैसे वर्त्तें, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (या) जो (विषूचिका) विविध अर्थों की सूचना करनेहारी राजा की राणी (व्याघ्रम्) जो कूद के मारता है उस बाघ और (वृकम्) बकरे आदि को मारनेहारा भेड़िया (उभौ) इन दिनों को (पतत्रिणम्) शीघ्र चलने के लिये बहुवेगवाले और (श्येनम्) शीघ्र धावन करके अन्य पक्षियों को मारनेहारे पक्षी (च) और (सिंहम्) हस्ति आदि को भी मारनेवाले दुष्ट पशु को मार के प्रजा को (रक्षति) रक्षा करती है (सा) सो राणी (इमम्) इस राजा को (अंहसः) अपराध से (पातु) रक्षा करे ॥१० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे शूरवीर राजा स्वयं व्याघ्रादि को मारने, न्याय से प्रजा की रक्षा करने और अपनी स्त्री को प्रसन्न करने को समर्थ होता है, वैसे ही राजा की राणी भी होवे। जैसे अच्छे प्रिय आचरण से राणी अपने पति राजा को प्रमाद से पृथक् करके प्रसन्न करती है, वैसे राजा भी अपनी स्त्री को सदा प्रसन्न करे ॥१० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स्त्रीपुरुषौ कथं वर्त्तेयातामित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - या विषूचिका व्याघ्रं वृकमुभौ पतत्रिणं श्येनं सिहं च दत्त्वा प्रजां रक्षति, सेमं राजानमंहसः पातु ॥१० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यथा शूरवीरो राजा स्वयं व्याघ्रादिकं हन्तुं न्यायेन प्रजां रक्षितुं स्वस्त्रियं प्रसादयितुं च शक्नोति, तथैव राज्ञी भवेत्। यथा सुप्रियाचारेण राज्ञी स्वपतिं प्रमादात् पृथक्कृत्य प्रसादयति, तथैव राजापि तां सदा प्रसादयेत् ॥१० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - शूर वीर राजा जसा स्वतः वाघ इत्यादी पशूंना मारून प्रजेचे रक्षण करतो. आपल्या शूरपणाने पत्नीला प्रसन्न करतो, तसेच राजाच्या राणीनेही प्रसन्नतेने वागावे. आपल्या प्रेमळ वर्तनाने पतीला तिने प्रमादापासून दूर ठेवावे व प्रसन्न करावे, तसेच राजानेही आपल्या पत्नीला सदैव प्रसन्न ठेवावे.
११ यदापिपेष मातरम्
विश्वास-प्रस्तुतिः ...{Loading}...
यदा॑पि॒पेष॑ मा॒तरं॑ पु॒त्रः प्रमु॑दितो॒ धय॑न्। ए॒तत्तद॑ग्नेऽअनृ॒णो भ॑वा॒म्यह॑तौ पि॒तरौ॒ मया॑। स॒म्पृच॑ स्थ॒ सं मा॑ भ॒द्रेण॑ पृङ्क्त वि॒पृच॑ स्थ॒ वि मा॑ पा॒प्मना॑ पृङ्क्त ॥११ ॥
मूलम् ...{Loading}...
यदा॑पि॒पेष॑ मा॒तरं॑ पु॒त्रः प्रमु॑दितो॒ धय॑न्। ए॒तत्तद॑ग्नेऽअनृ॒णो भ॑वा॒म्यह॑तौ पि॒तरौ॒ मया॑। स॒म्पृच॑ स्थ॒ सं मा॑ भ॒द्रेण॑ पृङ्क्त वि॒पृच॑ स्थ॒ वि मा॑ पा॒प्मना॑ पृङ्क्त ॥११ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यत्। आ॒पि॒पेषेत्या॑ऽपि॒पेष॑। मा॒तर॑म्। पु॒त्रः। प्रमु॑दित॒ इति॒ प्रऽमु॑दितः। धय॑न्। ए॒तत्। तत्। अ॒ग्ने॒। अ॒नृ॒णः। भ॒वा॒मि॒। अह॑तौ। पि॒तरौ॑। मया॑। स॒म्पृच॒ इति॒ स॒म्ऽपृचः॑। स्थ॒। सम्। मा॒। भ॒द्रेण॑। पृ॒ङ्क्त॒। वि॒पृच॒ इति॑ वि॒ऽपृचः॑। स्थ॒। वि। मा॒। पा॒प्मना॑। पृ॒ङ्क्त॒। ११।
महीधरः
म० ‘अग्निं प्रेक्षयति यदाऽऽपिपेषेति’ (का० १९ । २ । २७) । अग्निं प्रेक्षस्वेति प्रैषेणाध्वर्युर्यजमानमग्निं दर्शयति स प्रैषित औत्तरवेदिकमग्निमीक्षत इत्यर्थः । अग्निदेवत्या बृहती। पुत्रोऽहं प्रमुदितः प्रहृष्टो धयन् स्तनपानं कुर्वन्सन् यत् मातरं जननीमापिपेष पिष्टवान् पद्भ्यां पीडितवान् । पिषेर्लिट् उत्तमैकवचनम् । हे अग्ने, तत् एतत् त्वत्समक्षमहमनृणो भवामि ऋणत्रयरहितोऽस्मि । अतएव ब्रवीमि मया पितरौ मातापितरौ अहतौ न पीडितौ । यः पुत्रः प्रत्युपकर्तुमशक्तः स एव पित्रोर्हन्तेति भावः । ‘पयोग्रहसंमर्शनᳪं᳭ संपृच स्थेति’ ( का० १९ । २ । २८ ) यजमानः सहैव पयोग्रहाणां स्पर्शं करोतीत्यर्थः । पयोग्रहदेवत्यं यजुस्त्रिष्टुप् । हे पयोग्रहाः, यूयं संपृचः स्थ संपृञ्चन्ति संयोजयन्तीति संपृचः स्वत एव संयोजका भवत । अतो मा मां भद्रेण कल्याणेन संपृङ्क्त संसृजत । कल्याणयुक्तं मां कुरुतेत्यर्थः । संपूर्वात्पृचेः क्विप् । पृचे रौधादिकाल्लोट् संपृङ्क्तः । ‘विपृच स्थेति सौराणाम्’ ( का० १९ । २। २९)। यजमानं सौरग्रहान्संमृशतीत्यर्थः । हे सुराग्रहाः, यूयं विपृचः स्थ विपृञ्चन्तीति विपृचः वियोजका भवत । अतो मा मां पाप्मना कल्मषेण विपृङ्क्त निष्पापं कुरुतेत्यर्थः ॥ ११॥
द्वादशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- हैमवर्चिर्ऋषिः
- शक्वरी
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
सन्तानों को अपने माता-पिता के साथ कैसे वर्त्तना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्वन् ! (यत्) जो (प्रमुदितः) अत्यन्त आनन्दयुक्त (पुत्रः) पुत्र दुग्ध को (धयन्) पीता हुआ (मातरम्) माता को (आपिपेष) सब ओर से पीड़ित करता है, उस पुत्र से मैं (अनृणः) ऋणरहित (भवामि) होता हूँ, जिससे मेरे (पितरौ) माता-पिता (अहतौ) हननरहित और (मया) मुझ से (भद्रेण) कल्याण के साथ वर्त्तमान हों। हे मनुष्यो ! तुम (सम्पृचः) सत्यसम्बन्धी (स्थ) हो, (मा) मुझ को कल्याण के साथ (सम्, पृङ्क्त) संयुक्त करो और (पाप्मना) पाप से (विपृचः) पृथक् रहनेहारे (स्थ) हों, इसलिये (मा) मुझे भी इस पाप से (विपृङ्क्त) पृथक् कीजिये और (तदेतत्) परजन्म तथा इस जन्म के सुख को प्राप्त कीजिये ॥११ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे माता-पिता पुत्र का पालन करते हैं, वैसे पुत्र को माता-पिता की सेवा करनी चाहिये। सब मनुष्यों को इस जगत् में यह ध्यान देना चाहिये कि हम माता-पिता का यथावत् सेवन करके पितॄण से मुक्त होवें। जैसे विद्वान् धार्मिक माता-पिता अपने सन्तानों को पापरूप आचरण से पृथक् करके धर्माचरण में प्रवृत्त करें, वैसे सन्तान भी अपने माता-पिता को वर्त्ताव करावें ॥११ ॥
दयानन्द-सरस्वती (सं) - विषयः
सन्तानैः पितृभ्यां सह कथं वर्त्तितव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने विद्वन् ! यद्यः प्रमुदितः पुत्रो दुग्धं धयन् मातरमापिपेष, तेन पुत्रेणानृणो भवामि, यतो मे पितरावहतौ मया भद्रेण सह वर्त्तमानौ च स्याताम्। हे मनुष्याः। यूयं सम्पृचः स्थ, मा भद्रेण सम्पृङ्क्त पाप्मना विपृचः स्थ, माप्यैतेन विपृङ्क्त, तदेतत् सुखं प्रापयत ॥११ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यथा मातापितरौ पुत्रं पालयतस्तथा पुत्रेण मातापितरौ सेवनीयौ। सर्वैरत्रेदं ध्येयं वयं मातापितरौ सेवित्वा पितॄणान्मुक्ता भवेमेति। यथा विद्वांसौ धार्मिकौ पितरौ स्वापत्यानि पापाचरणाद् वियोज्य धर्माचरणे प्रवर्त्तयेयुस्तथा सन्ताना अपि पितॄन्नेवं वर्त्तयेरन् ॥११ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माता-पिता जसे पुत्राचे पालन करतात तसे पुत्रानेही माता व पिता यांची सेवा केली पाहिजे. या जगातील सर्व माणसांनी हे लक्षात ठेवले पाहिजे की, आपण माता व पिता यांची यथायोग्य सेवा करून पितॄणातून मुक्त व्हावे. ज्याप्रमाणे विद्वान धार्मिक माता-पिता आपल्या संतानांना पापरूपी आचरणापासून पृथक करून धर्माचरणात प्रवृत्त करतात तसे संतानानीही वागावे.
१२ देवा यज्ञमतन्वत
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वा य॒ज्ञम॑तन्वत भेष॒जं भि॒षजा॒श्विना॑। वा॒चा सर॑स्वती भि॒षगिन्द्रा॑येन्द्रि॒याणि॒ दध॑तः ॥१२ ॥
मूलम् ...{Loading}...
दे॒वा य॒ज्ञम॑तन्वत भेष॒जं भि॒षजा॒श्विना॑। वा॒चा सर॑स्वती भि॒षगिन्द्रा॑येन्द्रि॒याणि॒ दध॑तः ॥१२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दे॒वाः। य॒ज्ञम्। अ॒त॒न्व॒त॒। भे॒ष॒जम्। भि॒षजा॑। अ॒श्विना॑। वा॒चा। सर॑स्वती। भि॒षक्। इन्द्रा॑य। इ॒न्द्रि॒याणि॑। दध॑तः। १२।
महीधरः
म० देवा यज्ञमित्यादिकण्डिका विंशतिब्राह्मणरूपातो विनियोगाभावः । ब्राह्मणानुवाको विंशतिरनुष्टुभः सौत्रामण्याः सोमसाम्यप्रतिपादिकाः । अत्रेतिहासः । अनुपहूतसोमपानाद्भ्रष्टस्येन्द्रस्य वीर्यं नमुचिरसुरोऽपिबत् तत्र देवैरिन्द्रस्य भैषज्यं कृतम् तत्राश्विनौ सरस्वती च भिषजः सौत्रामणी त्वौषधम् । तथाच श्रुतिः ‘त्वष्टा हतपुत्रोऽभिचरणीयमपेन्द्रᳪं᳭ सोममाहरत्तस्येन्द्रो यज्ञवेशसं कृत्वा प्रसह्य सोममपिबत्स विष्वङ् व्यार्च्छत्तस्य मुखात्प्राणेभ्यः श्रीयशसान्यूर्ध्वान्युदक्रामंस्तानि पशून्प्राविशंस्तस्मात्पशवो यशो यशो ह भवति य एवं विद्वान्सौत्रामण्याभिषिच्यते ततोऽस्मा एतमश्विनौ च सरस्वती च यज्ञᳪं᳭ समभरन्सौत्रामणी भैषज्याय तयैनमभ्यषिञ्चंस्ततो वै स देवानाᳪं᳭ श्रेष्ठोऽभवच्छ्रेष्ठः स्वानां भवति य एतयाभिषिच्यते’ (१२ । ८।३।१) इति । देवा यज्ञं सौत्रामण्याख्यं भेषजमिन्द्रस्यौषधरूपमतन्वत विस्तारयामासुः । तदा अश्विना अश्विनौ भिषजा भिषजौ वैद्यौ आस्तामिति शेषः । सरस्वती च वाचा त्रयीलक्षणया भिषगासीत् । कीदृशाः सरस्वत्यश्विनाः । इन्द्राय इन्द्रियाणि वीर्याणि दधतः । इन्द्राय सामर्थ्यं ददत इत्यर्थः ॥ १२॥
त्रयोदशी ।
अधिमन्त्रम् (VC)
- विद्वांसो देवता
- हैमवर्चिर्ऋषिः
- भुरिगनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
माता-पिता और सन्तान परस्पर कैसे वर्त्तें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (इन्द्रियाणि) उत्तम प्रकार विषयग्राहक नेत्र आदि इन्दियों वा धनों को (दधतः) धारण करते हुए (भिषक्) चिकित्सा आदि वैद्यकशास्त्र के अङ्गों को जाननेहारी (सरस्वती) प्रशस्त वैद्यकशास्त्र के ज्ञान से युक्त विदुषी स्त्री और (भिषजा) आयुर्वेद के जाननेहारी (अश्विना) ओषधिविद्या में व्याप्तबुद्धिवाले दो उत्तम विद्वान् वैद्य ये तीनों और (देवाः) उत्तम ज्ञानीजन (वाचा) वाणी से (इन्द्राय) परमैश्वर्य्य के लिये (भेषजम्) रोगविनाशक औषधरूप (यज्ञम्) सुख देनेवाले यज्ञ को (अतन्वत) विस्तृत करें, वैसे ही तुम लोग भी करो ॥१२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जब तक मनुष्य लोग पथ्य ओषधि और ब्रह्मचर्य के सेवन से शरीर के आरोग्य, बल और बुद्धि को नहीं बढ़ाते, तब तक सब सुखों के प्राप्त होने को समर्थ नहीं होते ॥१२ ॥
दयानन्द-सरस्वती (सं) - विषयः
मातापित्रपत्यानि परस्परं कथं वर्त्तेरन्नित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथेन्द्रियाणि दधतो भिषक् सरस्वती भिषजाऽश्विना च देवा वाचेन्द्राय भेषजं यज्ञमतन्वत, तथैव यूयं कुरुत ॥१२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यावन्मनुष्याः पथ्यौषधिब्रह्मचर्य्यसेवनेन शरीरारोग्यबलबुद्धीर्न वर्द्धयन्ते, तावत् सर्वाणि सुखानि प्राप्तुं न शक्नुवन्ति ॥१२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जोपर्यंत माणसे पथ्य, औषध व ब्रह्मचर्याचे सेवन करून शरीराचे आरोग्य, बल व बुद्धीची वाढ करीत नाहीत तोपर्यंत ती सर्व सुख प्राप्त करण्यास समर्थ ठरू शकत नाहीत.
१३ दीक्षायै रूपम्
विश्वास-प्रस्तुतिः ...{Loading}...
दी॒क्षायै॑ रू॒पँ शष्पा॑णि प्राय॒णीय॑स्य॒ तोक्मा॑नि। क्र॒यस्य॑ रू॒पँ सोम॑स्य ला॒जाः सो॑माँ॒शवो॒ मधु॑ ॥१३ ॥
मूलम् ...{Loading}...
दी॒क्षायै॑ रू॒पँ शष्पा॑णि प्राय॒णीय॑स्य॒ तोक्मा॑नि। क्र॒यस्य॑ रू॒पँ सोम॑स्य ला॒जाः सो॑माँ॒शवो॒ मधु॑ ॥१३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दी॒क्षायै॑ रू॒पम्। शष्पा॑णि। प्रा॒य॒णीय॑स्य। प्रा॒य॒नीय॒स्येति॑ प्रऽअय॒नीय॑स्य। तोक्मा॑नि। क्र॒यस्य॑। रू॒पम्। सोम॑स्य। ला॒जाः। सो॒माँ॒शव॒ इति॑ सोमऽअँ॒शवः॑। मधु॑। १३।
महीधरः
म० इदानीं सौत्रामण्याः सोमसंपत्तिं निरूपयति । शष्पाणि नवप्ररूढव्रीहिरूपाणि पूर्वोक्तानि दीक्षायै । षष्ठ्यर्थे चतुर्थी । दीक्षाया दीक्षणीयेष्टे रूपम् । शष्पाणि दीक्षणीयात्वेन ध्येयानि । एवमग्रेऽपि । तोक्मानि नवप्ररूढयवाः प्रायणीयस्य प्रायणीयेष्टे रूपं ध्येयम् । सोमस्य क्रस्य रूपं लाजाः सोमक्रयोऽस्ति सोमे अत्र लाजास्तस्य रूपम् । लाजाः सोमक्रयरूपेण ध्येया इत्यर्थः । सोमक्रयस्येति समासे युक्ते तदभावः सोमक्रयपदयोर्व्यत्ययो रूपपदेन व्यवधानं च छान्दसम् । मधु सोमांशवः सोमखण्डास्तद्रूपेण ध्येयम् । यद्वा मधु मधुरस्वादा लाजा एव सोमांशवो ध्येयाः ॥ १३ ॥
चतुर्दशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- हैमवर्चिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
कैसे मनुष्य सुखी होते हैं, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (प्रायणीयस्य) जिस व्यवहार से उत्तम सुख को प्राप्त होते हैं, उसमें होनेवाले को (दीक्षायै) यज्ञ के नियम-रक्षा के लिये (रूपम्) सुन्दर रूप और (तोक्मानि) अपत्य (क्रयस्य) द्रव्यों के बेचने का (रूपम्) रूप (शष्पाणि) छाँट-फटक शुद्ध कर ग्रहण करने योग्य धान्य (सोमस्य) सोमलतादि के रस के सम्बन्धी (लाजाः) परिपक्व फूले हुए अन्न (सोमांशवः) सोम के विभाग और (मधु) सहत हैं, उनको तुम लोग विस्तृत करो ॥१३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में पूर्व मन्त्र से ‘अतन्वत’ इस क्रियापद की अनुवृत्ति आती है, जो मनुष्य यज्ञ के योग्य सन्तान और पदार्थों को सिद्ध करते हैं, वे इस संसार में सुख को प्राप्त होते हैं ॥१३ ॥
दयानन्द-सरस्वती (सं) - विषयः
कीदृशा जनाः सुखिनो भवन्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यानि प्रायणीयस्य दीक्षायै रूपं तोक्मानि क्रयस्य रूपं शष्पाणि सोमस्य लाजाः सोमांशवो मधु च सन्ति, तानि यूयमतन्वत ॥१३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रातन्वतेति क्रियापदं पूर्वमन्त्रादनुवर्त्तते। ये मनुष्या यज्ञाऽर्हाण्यपत्यानि वस्तूनि च सम्पादयन्ति, तेऽत्र सुखं लभन्ते ॥१३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात पूर्वीच्या मंत्रातील ‘अतन्वत’ या क्रियापदाची अनुवृत्ती झालेली आहे. जी माणसे यज्ञासाठी योग्य पदार्थ प्राप्त करतात, तसेच उत्तम संताने निर्माण करतात, ती या जगात सुख प्राप्त करू शकतात.
१४ आतिथ्यरूपं मासरम्
विश्वास-प्रस्तुतिः ...{Loading}...
आ॒ति॒थ्य॒रू॒पं मास॑रं महावी॒रस्य॑ न॒ग्नहुः॑। रू॒पमु॑प॒सदा॑मे॒तत्ति॒स्रो रात्रीः॒ सुरासु॑ता ॥१४ ॥
मूलम् ...{Loading}...
आ॒ति॒थ्य॒रू॒पं मास॑रं महावी॒रस्य॑ न॒ग्नहुः॑। रू॒पमु॑प॒सदा॑मे॒तत्ति॒स्रो रात्रीः॒ सुरासु॑ता ॥१४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ॒ति॒थ्य॒रू॒पमित्या॑तिथ्यऽरू॒पम्। मास॑रम्। म॒हा॒वी॒रस्येति॑ महाऽवी॒रस्य॑। न॒ग्नहुः॑। रू॒पम्। उ॒प॒सदा॒मित्यु॑प॒ऽसदा॑म्। ए॒तत्। ति॒स्रः। रात्रीः॑। सुरा॑। आसु॒तेत्याऽसु॑ता। १४।
महीधरः
म० किंच मासरमातिथ्यरूपमातिथ्येष्टेः स्वरूपं ध्येयम् । व्रीहिश्यामाकौदनाचामयोः शष्पतोक्मलाजनग्नचूर्णैः संसर्गो मासरं पूर्वमुक्तम् । सर्जत्वगादिषड्विंशतिवस्तून्येकीकृतानि नग्नहुः पूर्वोक्तः स महावीरस्य घर्मस्य रूपं ध्येयम् । याः तिस्रो रात्रीः ‘कालाध्वनोः-’ (पा० २।३ । ५) इति द्वितीया । त्रिरात्रपर्यन्तं सुरा आसुता अभिषुता पूर्वोक्तं सर्वमेकपात्रे कृत्वा स्वाद्वीं त्वेति मन्त्रेण यद्गर्ते त्रिरात्रं स्थापनम् । एतदुपसदामुपसत्संज्ञानामिष्टीनां रूपम् ॥ १४ ॥
पञ्चदशी ।
अधिमन्त्रम् (VC)
- आतिथ्यादयो लिङ्गोक्ता देवताः
- हैमवर्चिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
कैसे जन कीर्तिवाले होते हैं, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (मासरम्) जिससे अतिथिजन महीनों में रमण करते हैं, ऐसे (आतिथ्यरूपम्) अतिथियों का होना वा उनका सत्काररूप कर्म वा (महावीरस्य) बड़े वीर पुरुष का (नग्नहुः) जो नग्न अकिञ्चनों का धारण करता है, वह (रूपम्) रूप वा (उपसदाम्) गृहस्थादि के समीप में भोजनादि के अर्थ ठहरनेहारे अतिथियों का (तिस्रः) तीन (रात्रीः) रात्रियों में निवास कराना (एतत्) यह रूप वा (सुरा) सोमरस (आसुता) सब ओर से सिद्ध की हुई क्रिया है, उन सब का तुम लोग ग्रहण करो ॥१४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य धार्मिक, विद्वान् अतिथियों का सत्कार, सङ्ग और उपदेशों को और वीरों को मान्य तथा द्ररिद्रों को वस्त्रादि दान, अपने भृत्यों को निवास देना और सोमरस की सिद्धि को सदा करते हैं, वे कीर्तिमान् होते हैं ॥१४ ॥
दयानन्द-सरस्वती (सं) - विषयः
कीदृशा जना यशस्विनो भवन्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यानि मासरमातिथ्यरूपं महावीरस्य नग्नहू रूपमुपसदां तिस्रो रात्रीर्निवासनमेतद् रूपं सुता सुराऽऽसुता च सन्ति, तानि यूयं गृह्णीत ॥१४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्या धार्मिकाणां विदुषामतिथीनां सत्कारसङ्गोपदेशान् वीराणां च मान्यं दरिद्रेभ्यो वस्त्रादिदानं स्वभृत्यानामुत्तमं निवासदानं सोमरससिद्धिं च सततं कुर्वन्ति, ते यशस्विनो जायन्ते ॥१४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे धार्मिक विद्वान अतिथींचा सत्कार करतात. त्यांची संगत धरतात, त्यांच्या उपदेशांना आणि वीरांना मान्यता देतात, तसेच दरिद्री लोकांना वस्र वगैरेंचे दान करून आपल्या नोकरांच्या निवासस्थानांची सोय करतात, सोमरसाची सिद्धी प्राप्त करून घेतात, त्यांना कीर्ती प्राप्त होते.
१५ सोमस्य रूपम्
विश्वास-प्रस्तुतिः ...{Loading}...
सोम॑स्य रू॒पं क्री॒तस्य॑ परि॒स्रुत्परि॑षिच्यते। अ॒श्विभ्यां॑ दु॒ग्धं भे॑ष॒जमिन्द्रा॑यै॒न्द्रँ सर॑स्वत्या ॥१५ ॥
मूलम् ...{Loading}...
सोम॑स्य रू॒पं क्री॒तस्य॑ परि॒स्रुत्परि॑षिच्यते। अ॒श्विभ्यां॑ दु॒ग्धं भे॑ष॒जमिन्द्रा॑यै॒न्द्रँ सर॑स्वत्या ॥१५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सोम॑स्य। रू॒पम्। क्री॒तस्य॑। प॒रि॒स्रुदिति॑ परि॒ऽस्रुत्। परि॑। सि॒च्य॒ते॒। अ॒श्विभ्या॒मित्य॒श्विऽभ्या॑म्। दु॒ग्धम्। भे॒ष॒जम्। इन्द्रा॑य। ऐ॒न्द्रम्। सर॑स्वत्या। १५।
महीधरः
म० यत् अश्विभ्यां सरस्वत्या च ऐन्द्रमिन्द्रदेवत्यमिन्द्राय भेषजमिन्द्रार्थे औषधं दुग्धं पयः अश्विभ्यामपाकरोमीति दुग्धेनैकगोः पयसा सरस्वत्या अपाकरोमीति दुग्धेन गोद्वयपयसा इन्द्रायापाकरोमीति दुग्धेन गोत्रयपयसा दिनत्रये परिस्रुत् सुरा यत् परिषिच्यते तत् क्रीतस्य सोमस्य रूपं ज्ञातव्यम् । ‘एकस्याः पयसापाकृतेनाश्विनेन परिषिञ्चति सारस्वतेन द्वयोः प्रातः ऐन्द्रेणोत्तमे तिसृणामिति’ ( १९ । १ । २३ । २५ । २७) कात्यायनेन निर्दिष्टत्वादश्विभ्यां सरस्वत्या च दुग्धमिति निर्देशः ॥ १५॥
षोडशी।
अधिमन्त्रम् (VC)
- सोमो देवता
- हैमवर्चिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
कुमारी कन्याओं को क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्री लोगो ! जैसे (सरस्वत्या) विदुषी स्त्री से (क्रीतस्य) ग्रहण किए हुए (सोमस्य) सोमादि ओषधिगण का (परिस्रुत्) सब ओर से प्राप्त होनेवाला रस (रूपम्) सुस्वरूप और (अश्विभ्याम्) वैदिक विद्या में पूर्ण दो विद्वानों के लिये (दुग्धम्) दुहा हुआ (भेषजम्) औषधरूप दूध तथा (इन्द्राय) ऐश्वर्य चाहनेवाले के लिये (ऐन्द्रम्) विद्युत्सम्बन्धी विशेष ज्ञान (परिषिच्यते) सब ओर से सिद्ध किया जाता है, वैसे तुम भी आचरण करो ॥१५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। सब कुमारियों को योग्य है कि ब्रह्मचर्य से व्याकरण, धर्म्म, विद्या और आयुर्वेदादि को पढ़, स्वयंवर विवाह कर, ओषधियों को और औषधवत् अन्न और दाल कढ़ी आदि को अच्छा पका, उत्तम रसों से युक्त कर, पति आदि को भोजन करा तथा स्वयं भोजन करके बल, आरोग्य की सदा उन्नति किया करें ॥१५ ॥
दयानन्द-सरस्वती (सं) - विषयः
कुमारीभिः किं कर्त्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रियो ! यथा सरस्वत्या विदुष्या क्रीतस्य सोमस्य परिस्रुद् रूपमश्विभ्यां दुग्धं भेषजमिन्द्रायैन्द्रं परिषिच्यते, तथा यूयमप्याचरत ॥१५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। सर्वाभिः कुमारीभिर्ब्रह्मचर्य्येण व्याकरणधर्म्मविद्यायुर्वेदादीनधीत्य स्वयंवरविवाहं कृत्वा प्रशस्तान्यौषधान्यौषधवदन्नव्यञ्जनानि च परिपच्य सुरसैः संयोज्य पत्यादीन् सम्भोज्य स्वयं च भुक्त्वा बलारोग्योन्नतिः सततं कार्या ॥१५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. सर्व कुमारिकांनी ब्रह्मचर्य पाळून व्याकरण, धर्म, विद्या व आयुर्वेद इत्यादींचे अध्ययन करावे. स्वयवर विवाह करावा. औषधांचे यथावत सेवन करावे. अन्न, वरण, कढी इत्यादी रसयुक्त पदार्थ चांगल्याप्रकारे बनवावे. पतीचे भोजन झाल्यानंतर स्वतः जेवावे. आरोग्य व बल वाढवावे.
१६ आसन्दी रूपम्
विश्वास-प्रस्तुतिः ...{Loading}...
आ॒स॒न्दी रू॒पँ रा॑जास॒न्द्यै वेद्यै॑ कु॒म्भी सु॑रा॒धानी॑। अन्त॑रऽउत्तरवे॒द्या रू॒पं का॑रोत॒रो भि॒षक् ॥१६ ॥
मूलम् ...{Loading}...
आ॒स॒न्दी रू॒पँ रा॑जास॒न्द्यै वेद्यै॑ कु॒म्भी सु॑रा॒धानी॑। अन्त॑रऽउत्तरवे॒द्या रू॒पं का॑रोत॒रो भि॒षक् ॥१६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ॒स॒न्दीत्या॑ऽस॒न्दी। रू॒पम्। रा॒जा॒स॒न्द्या इति॑ राजऽआस॒न्द्यै। वेद्यै॑। कु॒म्भी। सु॒रा॒धानीति॑ सुरा॒ऽधानी॑। अन्त॑रः। उ॒त्त॒र॒वे॒द्या इत्यु॑त्तरऽवे॒द्याः। रू॒पम्। का॒रो॒त॒रः। भि॒षक्। १६।
महीधरः
म० राज्ञः सोमस्यासन्दी राजासन्दी तस्यै । चतुर्थी षष्ठ्यर्थे । आसन्दी यजमानाभिषेकायासन्दी मञ्चिका राजासन्द्याः सोमासन्द्या रूपं तत्त्वेन ध्येया । सुराधानी सुरा धीयते स्थाप्यते यस्यां सा सुराधानी कुम्भी वेद्यै वेद्याः सौमिक्या वेदेः रूपम् । अन्तरः वेदिद्वयमध्यभाग उत्तरवेद्याः रूपम् । कारोतरः सुरापावनचालनी इन्द्रस्य यजमानस्य च भिषक् ज्ञेयः ॥ १६ ॥
सप्तदशी॥
अधिमन्त्रम् (VC)
- यज्ञो देवता
- हैमवर्चिर्ऋषिः
- भुरिगनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्य को कैसे कार्य्य साधना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोगों को योग्य है कि यज्ञ के लिये (आसन्दी) जो सब ओर से सेवन की जाती है, वह (रूपम्) सुन्दर क्रिया (राजासन्द्यै) राजा लोग जिस में बैठते हैं, उस (वेद्यै) सुख-प्राप्ति करानेवाली वेदि के अर्थ (कुम्भी) धान्यादि पदार्थों का आधार (सुराधानी) जिसमें सोमरस धरा जाता है, वह गगरी (अन्तरः) जिससे जीवन होता है, यह अन्नादि पदार्थ (उत्तरवेद्याः) उत्तर की वेदी के (रूपम्) रूप को (कारोतरः) कर्मकारी और (भिषक्) वैद्य इन सब का संग्रह करो ॥१६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्य जिस-जिस कार्य के करने की इच्छा करे, उस-उस के समस्त साधनों का सञ्चय करे ॥१६ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्येण कथं कार्य्यं साध्यमित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! युष्माभिर्यज्ञायासन्दी रूपं राजासन्द्यै वेद्यै कुम्भी सुराधान्युत्तरवेद्या अन्तरो रूपं कारोतरो भिषक् चैतानि संग्राह्याणि ॥१६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यो यद्यत्कार्यं कर्त्तुमिच्छेत्, तस्य तस्य सकलसाधनानि सञ्चिनुयात् ॥१६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसे जे जे कार्य करू इच्छितात त्या त्या सर्व साधनांचा त्यांनी संग्रह करावा.
१७ वेद्या वेदिः
विश्वास-प्रस्तुतिः ...{Loading}...
वेद्या॒ वेदिः॒ समा॑प्यते ब॒र्हिषा॑ ब॒र्हिरि॑न्द्रि॒यम्। यूपे॑न॒ यूप॑ऽआप्यते॒ प्रणी॑तोऽअ॒ग्निर॒ग्निना॑ ॥१७ ॥
मूलम् ...{Loading}...
वेद्या॒ वेदिः॒ समा॑प्यते ब॒र्हिषा॑ ब॒र्हिरि॑न्द्रि॒यम्। यूपे॑न॒ यूप॑ऽआप्यते॒ प्रणी॑तोऽअ॒ग्निर॒ग्निना॑ ॥१७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वेद्या॑। वेदिः॑। सम्। आ॒प्य॒ते॒। ब॒र्हिषा॑। ब॒र्हिः। इ॒न्द्रि॒यम्। यूपे॑न। यूपः॑। आ॒प्य॒ते॒। प्रणी॑तः। प्रनी॑त इति॒ प्रऽनी॑तः। अ॒ग्निः। अ॒ग्निना॑। १७।
महीधरः
म०. वेद्यात्र वर्तमानया वेदिः सौमिकी समाप्यते सम्यक् प्राप्यते । तद्रूपा ध्येयेत्यर्थः । बर्हिषात्रत्येन बर्हिः सौमिकं समाप्यते । इन्द्रियं वीर्यं चेन्द्रियेणेति शेषः । समाप्यते । फलादाने सामर्थ्यं उभयोरप्यस्तीत्यर्थः । यूपेनात्रत्येन यूप आप्यते । अग्निनात्रत्येन प्रणीतोऽग्निः सौमिक आप्यते प्राप्यते ॥ १७ ॥
अष्टादशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- हैमवर्चिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
किन जनों के कार्य्य सिद्ध होते हैं, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे विद्वान् लोग (वेद्या) यज्ञ की सामग्री से (वेदिः) वेदि और (बर्हिषा) महान् पुरुषार्थ से (बर्हिः) बड़ा (इन्द्रियम्) धन (समाप्यते) अच्छे प्रकार प्राप्त किया जाता है, (यूपेन) मिले हुए वा पृथक्-पृथक् व्यवहार से (यूपः) मिला हुआ व्यवहार के यत्न का प्रकाश और (अग्निना) बिजुली आदि अग्नि से (प्रणीतः) अच्छे प्रकार सम्मिलित (अग्निः) अग्नि (आप्यते) प्राप्त कराया जाता है, वैसे ही तुम लोग भी साधनों से साधन मिला कर सब सुखों को प्राप्त होओ ॥१७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो मनुष्य उत्तम साधन से साध्य कार्य्य को सिद्ध करने की इच्छा करते हैं, वे ही साध्य की सिद्धि करनेवाले होते हैं ॥१७ ॥
दयानन्द-सरस्वती (सं) - विषयः
केषां कार्य्याणि सिध्यन्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा विद्वद्भिर्वेद्या वेदिर्बर्हिषा बर्हिरिन्द्रियं समाप्यते, यूपेन यूपोऽग्निना प्रणीतोऽग्निराप्यते, तथैव यूयं साधनैः साधनानि सम्मेल्य सर्वं सुखमाप्नुत ॥१७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये मनुष्याः साधकतमेन साधनेन साध्यं कार्य्यं साद्धुमिच्छन्ति, त एव सिद्धसाध्या जायन्ते ॥१७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जी माणसे उत्तम साधनांद्वारे साध्य प्राप्त करण्याची इच्छा बाळगतात. तीच ते साध्य प्राप्त करू शकतात.
१८ हविर्धानं यदश्विनाग्नीध्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
ह॒वि॒र्धानं॒ यद॒श्विनाग्नी॑ध्रं॒ यत्सर॑स्वती। इन्द्रा॑यै॒न्द्रँसद॑स्कृ॒तं प॑त्नी॒शालं॒ गार्ह॑पत्यः ॥१८ ॥
मूलम् ...{Loading}...
ह॒वि॒र्धानं॒ यद॒श्विनाग्नी॑ध्रं॒ यत्सर॑स्वती। इन्द्रा॑यै॒न्द्रँसद॑स्कृ॒तं प॑त्नी॒शालं॒ गार्ह॑पत्यः ॥१८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ह॒वि॒र्धान॒मिति॑ हविः॒ऽधान॑म्। यत्। अ॒श्विना॑। आग्नी॑ध्रम्। यत्। सर॑स्वती। इन्द्रा॑य। ऐ॒न्द्रम्। सदः॑। कृ॒तम्। प॒त्नी॒शाल॒मिति॑ पत्नी॒ऽशाल॑म्। गार्ह॑पत्य॒ इति॒ गार्ह॑ऽपत्यः। १८।
महीधरः
म० अत्र सौत्रामण्यां यत् अश्विना अश्विनौ देवते वर्तेते तेनाश्विसद्भावेन हविर्धानं सौमिकमाप्यत इत्यनुषङ्गः । अत्र यत्सरस्वती देवतास्ति तेन सरस्वतीसद्भावेन आग्नीध्रं सौमिकमाप्यते । सोमे ऐन्द्रमिन्द्रदेवत्यं सदः कृतमस्ति । ऐन्द्रं सदः । पत्न्याः शाला पत्नीशालम् ‘विभाषा सेनत्सुरा-’ (पा. २।४ । २५) इत्यादिना क्लीबत्वम् । गार्हपत्यश्चेति त्रयमिन्द्राय यद्धविः क्रियते तेनाप्यते । सौत्रामण्यामिन्द्राय यद्धविस्तत्सौमिकसदा पत्नीशालगार्हपत्यरूपेण ध्येयमित्यर्थः ॥१८॥
एकोनविंशी।
अधिमन्त्रम् (VC)
- गृहपतिर्देवता
- हैमवर्चिर्ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
स्त्री-पुरुषों को क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे गृहस्थ पुरुषो ! जैसे विद्वान् (अश्विना) स्त्री और पुरुष (यत्) जो (हविर्धानम्) देने वा लेने योग्य पदार्थों का धारण जिसमें किया जाता वह और (यत्) जो (सरस्वती) विदुषी स्त्री (आग्नीध्रम्) ऋत्विज् का शरण करती हुई तथा विद्वानों ने (इन्द्राय) ऐश्वर्य से सुख देनेहारे पति के लिये (ऐन्द्रम्) ऐश्वर्य के सम्बन्धी (सदः) जिसमें स्थित होते हैं, उस सभा और (पत्नीशालम्) पत्नी की शाला घर को (कृतम्) किया है, सो यह सब (गार्हपत्यः) गृहस्थ का संयोगी धर्म ही है, वैसे उस सब कर्त्तव्य को तुम भी करो ॥१८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे मनुष्यो ! जैसे ऋत्विज् लोग सामग्री का सञ्चय करके यज्ञ को शोभित करते हैं, वैसे प्रीतियुक्त स्त्री-पुरुष घर के कार्यों को नित्य सिद्ध किया करें ॥१८ ॥
दयानन्द-सरस्वती (सं) - विषयः
स्त्रीपुरुषाभ्यां किं कार्य्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे गृहस्था स्त्रीपुरुषाः ! यथा विद्वांसावश्विना यद्धविर्धानं कृतवन्तौ, यच्च सरस्वती आग्नीध्रं कृतवती, इन्द्रायैन्द्रं सदः पत्नीशालं च विद्वद्भिः कृतम्, तदिदं सर्वं गार्हपत्यो धर्म एवास्ति, तथा तत् सर्वं यूयमपि कुरुत ॥१८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः ! यथर्त्विजः सम्भारान् सञ्चित्य यज्ञमलङ्कुर्वन्ति, तथा प्रीतियुक्तौ स्त्रीपुरुषौ गृहकृत्यानि सततं साध्नुतम् ॥१८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे माणसांनो ! जसे ऋत्विज लोक सामग्रीचा संचय करून उत्तम यज्ञ करतात तसे प्रेमळ स्री-पुरुषांनी घरातील कार्य चांगल्याप्रकारे करावे.
१९ प्रैषेभिः प्रैषानाप्नोत्याप्रीभिराप्रीर्यज्ञस्य
विश्वास-प्रस्तुतिः ...{Loading}...
प्रै॒षेभिः॑ प्रै॒षाना॑प्नोत्या॒प्रीभि॑रा॒प्रीर्य॒ज्ञस्य॑। प्र॒या॒जेभि॑रनुया॒जान् व॑षट्का॒रेभि॒राहु॑तीः ॥१९ ॥
मूलम् ...{Loading}...
प्रै॒षेभिः॑ प्रै॒षाना॑प्नोत्या॒प्रीभि॑रा॒प्रीर्य॒ज्ञस्य॑। प्र॒या॒जेभि॑रनुया॒जान् व॑षट्का॒रेभि॒राहु॑तीः ॥१९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्रै॒षेभि॒रिति॑ प्रऽए॒षेभिः॑। प्रै॒षानिति॑ प्रऽए॒षान्। आ॒प्नो॒ति॒। आ॒प्रीभि॒रित्या॒ऽप्रीभिः॑। आ॒प्रीरित्या॒ऽप्रीः। य॒ज्ञस्य॑। प्र॒या॒जेभि॒रिति॑ प्रया॒जेभिः॑। अ॒नु॒या॒जानित्य॑नुऽया॒जान्। व॒ष॒ट्का॒रेभि॒रिति॑ वषट्ऽका॒रेभिः॑। आहु॑ती॒रित्याहु॑तीः। १९।
महीधरः
म० प्रैषेभिः प्रैषैः प्रैषानाप्नोति । आप्रीभिः प्रयाजयाज्याभिर्यक्षस्याप्रीराप्नोति । प्रयाजेभिरित्यादिवाक्यचतुष्टयस्योत्तरपदलोपश्छान्दसः । प्रयाजेभिः प्रयाजैः प्रयाजानाप्नोति
अनुयाजैरनुयाजानाप्नोति । वषट्कारेभिर्वषट्कारानाप्नोति । | आहुतिभिराहुतीराप्नोति । प्रैषादीनामुभयत्र सद्भावात् ॥१९॥
विंशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- हैमवर्चिर्ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
कैसा विद्वान् सुख को प्राप्त होता है, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो विद्वान् (प्रैषेभिः) भेजने रूप कर्मों से (प्रैषान्) भेजने योग्य भृत्यों को (आप्रीभिः) सब ओर से प्रसन्नता करनेहारी क्रियाओं से (आप्रीः) सर्वथा प्रीति उत्पन्न करनेहारी परिचारिका स्त्रियों को (प्रयाजेभिः) उत्तम यज्ञ के कर्मों से (अनुयाजान्) अनुकूल यज्ञ-पदार्थों को और (यज्ञस्य) यज्ञ की (वषट्कारेभिः) क्रियाओं से (आहुतीः) अग्नि में छोड़ने योग्य आहुतियों को (आप्नोति) प्राप्त होता है, वह सुखी रहता है ॥१९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो सुशिक्षित सेवकों तथा सेविकाओंवाला साधनों और उपसाधनों से युक्त श्रेष्ठ कार्यों को करता है, वह सब को सुखी करने में समर्थ होता है ॥१९ ॥
दयानन्द-सरस्वती (सं) - विषयः
कीदृशो विद्वान् सुखमाप्नोतीत्युच्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यो विद्वान् प्रैषेभिः प्रैषानाप्रीभिराप्रीः प्रयाजेभिरनुयाजान् यज्ञस्य वषट्कारेभिराहुतीश्चाप्नोति, स सुखी जायते ॥१९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यस्सुशिक्षितसेवकसेविका साधनोपसाधनयुक्तः श्रेष्ठानि कार्य्याणि करोति, स सर्वान् सुखयितुं शक्नोति ॥१९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्याचे सेवक व सेविका प्रशिक्षित असतात तो साधन व उपसाधनांनी श्रेष्ठ कार्य करू शकतो आणि सर्वांना सुखी करू शकतो.
२० पशुभिः पशूनाप्नोति
विश्वास-प्रस्तुतिः ...{Loading}...
प॒शुभिः॑ प॒शूना॑प्नोति पुरो॒डाशै॑र्ह॒वीँष्या। छन्दो॑भिः सामिधे॒नीर्या॒ज्या᳖भिर्वषट्का॒रान् ॥२० ॥
मूलम् ...{Loading}...
प॒शुभिः॑ प॒शूना॑प्नोति पुरो॒डाशै॑र्ह॒वीँष्या। छन्दो॑भिः सामिधे॒नीर्या॒ज्या᳖भिर्वषट्का॒रान् ॥२० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प॒शुभि॒रिति॑ प॒शुभिः॑। प॒शून्। आ॒प्नो॒ति॒। पु॒रो॒डाशैः॑। ह॒वीँषि॑। आ। छन्दो॑भि॒रिति॒ छन्दः॑ऽभिः। सा॒मि॒धे॒नीरिति॑ साम्ऽइधे॒नीः। या॒ज्या᳖भिः। व॒ष॒ट्का॒रानिति॑ वषट्ऽका॒रान्। २०।
महीधरः
म० पशुभिः कृत्वा पशूनाप्नोति । पुरोडाशैः पुरोडाशानापेनोति । हविर्भिरन्यैर्हवींषि आप्नोति। छन्दोभिश्छन्दांसि आप्नोति। सामिधेनीभिः सामिधेनीराप्नोति । याज्याभिर्याज्या आप्नोति । वषट्कारैर्वषट्कारानाप्नोति । पश्वादीनामुभयत्र सद्भावात् अत्राप्युत्तरार्धलोपः पूर्ववत् ॥ २० ॥
एकविंशी।
अधिमन्त्रम् (VC)
- यजमानो देवता
- हैमवर्चिर्ऋषिः
- भुरिगुष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे सद्गृहस्थ (पशुभिः) गवादि पशुओं से (पशून्) गवादि पशुओं को (पुरोडाशैः) पचन क्रियाओं से पके हुए उत्तम पदार्थों से (हवींषि) हवन करते योग्य उत्तम पदार्थों को (छन्दोभिः) गायत्री आदि छन्दों की विद्या से (सामिधेनीः) जिससे अग्नि प्रदीप्त हो, उस सुन्दर समिधाओं को (याज्याभिः) यज्ञ की क्रियाओं से (वषट्कारान्) जो धर्मयुक्त क्रिया को करते हैं, उनको (आ, आप्नोति) प्राप्त होता है, वैसे इनको तुम भी प्राप्त होओ ॥२० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो संसार में बहुत पशुवाला होम करके, हुतशेष का भोक्ता, वेदवित् और सत्यक्रिया का कर्त्ता मनुष्य होवे, सो प्रशंसा को प्राप्त होता है ॥२० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा सद्गृहस्थः पशुभिः पशून् पुरोडाशैर्हवींषि छन्दोभिस्सामिधेनीर्याज्याभिर्वषट्कारा-नाऽऽप्नोति तथैतान् यूयमाप्नुत ॥२० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। योऽत्र बहुपशुर्हविर्भुग्वेदवित्सत्क्रियो मनुष्यो भवेत्, स प्रशंसामाप्नोति ॥२० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जो या जगात गाई वगैरे पुष्कळ पशूंपासून प्राप्त होणाऱ्या पदार्थांचा तूप वगैरेंनी होम करून हुतशेषाचा (उरलेला भाग) भोक्ता, वेदज्ञ, सत्य कर्म करणारा माणूस बनतो तो प्रशंसनीय असतो.
२१ धानाः करम्भः
विश्वास-प्रस्तुतिः ...{Loading}...
धा॒नाः क॑र॒म्भः सक्त॑वः परीवा॒पः पयो॒ दधि॑। सोम॑स्य रू॒पँ ह॒विष॑ऽआ॒मिक्षा॒ वजि॑नं॒ मधु॑ ॥२१ ॥
मूलम् ...{Loading}...
धा॒नाः क॑र॒म्भः सक्त॑वः परीवा॒पः पयो॒ दधि॑। सोम॑स्य रू॒पँ ह॒विष॑ऽआ॒मिक्षा॒ वजि॑नं॒ मधु॑ ॥२१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
धा॒नाः। क॒र॒म्भः। सक्त॑वः। प॒री॒वा॒प इति॑ परि॑ऽवा॒पः। पयः॑। दधि॑। सोम॑स्य। रू॒पम्। ह॒विषः॑। आ॒मिक्षा॑। वाजि॑नम्। मधु॑। २१।
महीधरः
म० धानादयः सोमस्य रूपं ध्येयाः । धानाः भृष्टधान्यम् । | करम्भः उदमन्थः । सक्तवः प्रसिद्धाः । परीवापः हविष्पङ्क्तिः । ‘परिवापो जलस्थाने पर्युप्तपरिवारयोः’ इति कोशः । पयोदधनी प्रसिद्धे । एतानि सोमरूपम् । आमिक्षा पयस्या । मधु मधुरम् । वाजिनं च हविषो रूपम् । उष्णे दुग्धे दध्नि क्षिप्ते घनभाग आमिक्षा । शिष्टं वाजिनम् ॥ २१ ॥
द्वाविंशी।
अधिमन्त्रम् (VC)
- सोमो देवता
- हैमवर्चिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
कौन पदार्थ होम के योग्य हैं, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोग (हविषः) होम करने योग्य (सोमस्य) यन्त्र द्वारा खींचने योग्य ओषधिरूप रस के (रूपम्) रूप को (धानाः) भुने हुए अन्न (करम्भः) मथन का साधन (सक्तवः) सत्तू (परीवापः) सब ओर से बीज का बोना (पयः) दूध (दधि) दही (आमिक्षा) दही, दूध, मीठे का मिलाया हुआ (वाजिनम्) प्रशस्त अन्नों को सम्बन्धी सार वस्तु और (मधु) सहत के गुण को जानो ॥२१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो पदार्थ पुष्टिकारक, सुगन्धयुक्त, मधुर और रोगनाशक गुणयुक्त हैं, वे होम करने के योग्य हविः संज्ञक हैं ॥२१ ॥
दयानन्द-सरस्वती (सं) - विषयः
के पदार्था हविष्या इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यूयं हविषस्सोमस्य रूपं धानाः करम्भः सक्तवः परीवापः पयो दध्यामिक्षा वाजिनं मधु च विजानीत ॥२१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये पदार्थाः पुष्टिसुगन्धमधुररोगनाशकत्वगुणयुक्तास्सन्ति, ते हविःसंज्ञका सन्ति ॥२१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे पदार्थ पुष्टिकारक, सुगंधयुक्त मधुर व रोगनाशक गुणांनी युक्त असतात ते होम करण्यायोग्य (हविः संज्ञक) असतात.
२२ धानाना रूपम्
विश्वास-प्रस्तुतिः ...{Loading}...
धा॒नानाँ॑ रू॒पं कुव॑लं परीवा॒पस्य॑ गो॒धूमाः॑। सक्तू॑नाँ रू॒पं बदर॑मुप॒वाकाः॑ कर॒म्भस्य॑ ॥२२ ॥
मूलम् ...{Loading}...
धा॒नानाँ॑ रू॒पं कुव॑लं परीवा॒पस्य॑ गो॒धूमाः॑। सक्तू॑नाँ रू॒पं बदर॑मुप॒वाकाः॑ कर॒म्भस्य॑ ॥२२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
धा॒नाना॑म्। रू॒पम्। कुव॑लम्। प॒री॒वा॒पस्य॑। प॒री॒वा॒पस्येति॑ परिऽवा॒पस्य॑। गो॒धूमाः॑। सक्तू॑नाम्। रू॒पम्। बद॑रम्। उ॒प॒वाका॒ इत्यु॑प॒ऽवाकाः॑। क॒र॒म्भस्य॑। २२।
महीधरः
म० नन्वधस्तनमन्त्रे धानादीनां सोमरूपत्वमुक्तम् तेऽत्र कुत्र सन्तीति धानादिसोमहविषां सोमस्य संपत्तिं सौत्रामणीद्रव्यैराह । कुवलं कोमलं बदरीफलं धानानां पूर्वोक्तानां रूपं ध्येयम् । ‘कुवलं बदरीफले । मुक्ताफलोत्पलयोश्च’ इति कोशः। गोधूमाः परीवापस्य रूपम् । बदरं सर्वं बदरीफलं सक्तूनां रूपम् । उपवाका यवाः करम्भस्य रूपं ज्ञेयम् ॥ २२ ॥
त्रयोविंशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- हैमवर्चिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
कैसे मनुष्य नीरोग होते हैं, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोग (धानानाम्) भुँजे हुए जौ आदि अन्नों का (कुवलम्) कोमल बेर सा रूप (परीवापस्य) पिसान आदि का (गोधूमाः) गेहूँ (रूपम्) रूप (सक्तूनाम्) सत्तुओं का (बदरम्) बेरफल के समान रूप (करम्भस्य) दही मिले सत्तू का (उपवाकाः) समीप प्राप्त जौ (रूपम्) रूप है, ऐसा जाना करो ॥२२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य सब अन्नों का सुन्दर रूप करके भोजन करते और कराते हैं, वे आरोग्य को प्राप्त होते हैं ॥२२ ॥
दयानन्द-सरस्वती (सं) - विषयः
कीदृशा जना नीरोगा भवन्तीत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यूयं धानानां कुवलं रूपं परीवापस्य गोधूमा रूपं सक्तूनां बदरं रूपं करम्भस्योपवाका रूपमस्तीति विजानीत ॥२२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्याः सर्वेषामन्नानां सुरूपं कृत्वा भुञ्जते भोजयन्ति च त आरोग्यमाप्नुवन्ति ॥२२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे सर्व प्रकारचे अन्न चांगल्या प्रकारे संस्कारित करून भोजन करतात व इतरांनाही करावयास लावतात त्यांना आरोग्य प्राप्त होते.
२३ पयसो रूपम्
विश्वास-प्रस्तुतिः ...{Loading}...
पय॑सो रू॒पं यद्यवा॑ द॒ध्नो रू॒पं क॒र्कन्धू॑नि। सोम॑स्य रू॒पं वाजि॑नँ सौ॒म्यस्य॑ रू॒पमा॒मिक्षा॑ ॥२३ ॥
मूलम् ...{Loading}...
पय॑सो रू॒पं यद्यवा॑ द॒ध्नो रू॒पं क॒र्कन्धू॑नि। सोम॑स्य रू॒पं वाजि॑नँ सौ॒म्यस्य॑ रू॒पमा॒मिक्षा॑ ॥२३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पय॑सः। रू॒पम्। यत्। यवाः॑। द॒ध्नः। रू॒पम्। क॒र्कन्धू॑नि। सोम॑स्य। रू॒पम्। वाजि॑नम्। सौ॒म्यस्य॑। रू॒पम्। आ॒मिक्षा॑। २३।
महीधरः
म० यत् ये यवाः ते पयसो रूपम् । कर्कन्धूनि स्थूलबदराणि दध्नो रूपम् । वाजिनं सोमस्य रूपम् । आमिक्षा पयस्या सौम्यस्य चरोः रूपं ज्ञेयम् ॥ २३ ॥
चतुर्विंशी ।
अधिमन्त्रम् (VC)
- सोमो देवता
- हैमवर्चिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोग (यत्) जो (यवाः) यव हैं, उनको (पयसः) पानी वा दुग्ध के (रूपम्) रूप (कर्कन्धूनि) मोटे पके हुए बेरी के फलों के समान (दध्नः) दही के (रूपम्) स्वरूप (वाजिनम्) बहुत अन्न के सार के समान (सोमस्य) सोम ओषधि के (रूपम्) स्वरूप और (आमिक्षा) दूध, दही के संयोग से बने पदार्थ के समान (सौम्यस्य) सोमादि ओषधियों के सार होने के (रूपम्) स्वरूप को सिद्ध किया करो ॥२३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को चाहिये कि जिस-जिस अन्न का सुन्दररूप जिस प्रकार हो, उस-उस के रूप को उसी प्रकार सदा सिद्ध करें ॥२३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यद्यवास्ते पयसो रूपं कर्कन्धूनीव दध्नो रूपं वाजिनमिव सोमस्य रूपमामिक्षेव सौम्यस्य रूपं सम्पादयत ॥२३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैर्यस्य यस्यान्नस्य सुन्दरं रूपं यथा स्यात्तस्य तस्य रूपं तथा सदा सम्पादनीयम् ॥२३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. ज्या ज्या पदार्थांपासून जे जे उत्तम अन्न पदार्थ करता येतात त्या त्या प्रकारे ते तयार करावेत.
२४ आ श्रावयेति
विश्वास-प्रस्तुतिः ...{Loading}...
आ श्रा॑व॒येति॑ स्तो॒त्रियाः॑ प्रत्याश्रा॒वोऽअनु॑रूपः। यजेति॑ धाय्यारू॒पं प्र॑गा॒था ये॑यजाम॒हाः ॥२४ ॥
मूलम् ...{Loading}...
आ श्रा॑व॒येति॑ स्तो॒त्रियाः॑ प्रत्याश्रा॒वोऽअनु॑रूपः। यजेति॑ धाय्यारू॒पं प्र॑गा॒था ये॑यजाम॒हाः ॥२४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ। श्रा॒व॒य॒ इति॑। स्तो॒त्रियाः॑। प्र॒त्या॒श्रा॒व इति॑ प्रतिऽआश्रा॒वः। अनु॑रूप॒ इत्यनु॑ऽरूपः। यजा॒इति॑। धा॒य्या॒रू॒पमिति॑ धाय्याऽरू॒पम्। प्र॒गा॒था इति॑ प्रऽगा॒थाः। ये॒य॒जा॒म॒हा इति॑ येऽयजाम॒हाः। २४।
महीधरः
म० शस्त्रसंपत्तिमाह । आश्रावयेति शब्दः स्तोत्रियारूपो ज्ञेयः । स्तोत्रे प्रथमस्तृचोऽनुवाकः स्तोत्रियः । प्रत्याश्रावः अस्तु औषडिति शब्दः । अनुरूपः उत्तरस्तृचः तद्रूपः । यजेति शब्दो धाय्याया रूपम् । निष्केवल्ये स्तोत्रियानुरूपयोरनन्तरं धाय्या शस्यते सा यजेति शब्दो ज्ञेयः । येयजामहाः येयजामह इति शब्दः प्रगाथाः प्रगाथरूपत्वेन ध्येयः ॥ २४ ॥
पञ्चविंशी।
अधिमन्त्रम् (VC)
- विद्वान् देवता
- हैमवर्चिर्ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
कैसे विद्वान् होते हैं, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! तू विद्यार्थियों को विद्या (आ, श्रावय) सब प्रकार से सुना, जो (स्तोत्रियाः) स्तुति करने योग्य हैं, उनको (प्रत्याश्रावः) पीछे सुनाया जाता है और (अनुरूपः) अनुकूल जैसा यज्ञ है, वैसे (येयजामहाः) जो यज्ञ करते हैं (इति) इस प्रकार अर्थात् उन के समान (प्रगाथाः) जो अच्छे प्रकार गान किये जाते हैं, उनको (यजेति) सङ्गत कर, इस प्रकार (धाय्यारूपम्) धारण करने योग्य रूप को यथावत् जानें ॥२४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो परस्पर प्रीति से विद्या के विषयों को सुनते और सुनाते हैं, वे विद्वान् होते हैं ॥२४ ॥
दयानन्द-सरस्वती (सं) - विषयः
कथं विद्वांसो भवन्तीत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वंस्त्वं विद्यार्थिन आश्रावय। ये स्तोत्रियास्तान् प्रत्याश्रावोऽनुरूप इति येयजामहाः प्रगाथा इति यजेति धाय्यारूपं यथावत् जानीहि ॥२४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये परस्परं प्रीत्या विद्याविषयान् शृण्वन्ति श्रावयन्ति च, ते विद्वांसो जायन्ते ॥२४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे लोक परस्पर प्रेमाने विद्येचे श्रवण करतात व इतरांनाही ऐकवितात ते विद्वान असतात.
२५ अर्धऽऋचैरुक्थाना रूपम्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒र्ध॒ऽऋ॒चैरु॒क्थानाँ॑ रू॒पं प॒दैरा॑प्नोति नि॒विदः॑। प्र॒ण॒वैः श॒स्त्राणाँ॑ रू॒पं पय॑सा॒ सोम॑ऽआप्यते ॥२५ ॥
मूलम् ...{Loading}...
अ॒र्ध॒ऽऋ॒चैरु॒क्थानाँ॑ रू॒पं प॒दैरा॑प्नोति नि॒विदः॑। प्र॒ण॒वैः श॒स्त्राणाँ॑ रू॒पं पय॑सा॒ सोम॑ऽआप्यते ॥२५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒र्द्ध॒ऽऋ॒चैरित्य॑र्द्धऽऋ॒चैः। उ॒क्थाना॑म्। रू॒पम्। प॒दैः। आ॒प्नो॒ति॒। नि॒विद॒ इति॑ नि॒ऽविदः॑। प्र॒ण॒वैः। प्र॒न॒वैरिति॑ प्रऽन॒वैः। श॒स्त्राणा॑म्। रू॒पम्। पय॑सा। सोमः॑। आ॒प्य॒ते॒। २५।
महीधरः
म० ऋचामर्धानि अर्धऋचास्तैः ‘अर्धर्चादयः पुंसि च’ (पा० ७।४।३१) इति पुंस्त्वम् ‘ऋत्यकः’ (पा० ६ । १ । १२८) इति ऋकारस्य सन्ध्यभावः । अत्रत्यैरर्धर्चैरुक्थानां शस्त्रविशेषाणां रूपमाप्यते प्राप्यते । पदैर्निविदो न्यूङ्खानाप्नोति । प्रणवैः ओङ्कारैः शस्त्राणां रूपमाप्यते । पयसा दुग्धेन सोम आप्यते। अर्धर्चादय उक्थादयो ध्येयाः ॥ २५ ॥
षड्विंशी।
अधिमन्त्रम् (VC)
- सोमो देवता
- हैमवर्चिर्ऋषिः
- भुरिगनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अध्यापकों को कैसा होना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो विद्वान् (अर्द्धऽऋचैः) ऋचाओं के अर्ध भागों से (उक्थानाम्) कथन करने योग्य वैदिक स्तोत्रों का (रूपम्) स्वरूप (पदैः) सुबन्त-तिङन्त पदों और (प्रणवैः) ओंकारों से (शस्त्राणाम्) शस्त्रों का (रूपम्) स्वरूप और (निविदः) जो निश्चय से प्राप्त होते हैं, उनको (आप्नोति) प्राप्त होता है वा जिस विद्वान् से (पयसा) जल के साथ (सोमः) सोम ओषधि का रस (आप्यते) प्राप्त होता है, सो वेद का जाननेवाला कहाता है ॥२५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो विद्वान् के समीप वस के, पढ़ के, वेदस्थ पद-वाक्य-मन्त्र-विभागों के शब्द-अर्थ और सम्बन्धों का यथावद्विज्ञान करते हैं, वे इस संसार में अध्यापक होते हैं ॥२५ ॥
दयानन्द-सरस्वती (सं) - विषयः
कथमध्यापकैर्भवितव्यमित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यो विद्वानर्द्धऽऋचैरुक्थानां रूपं पदैः प्रणवैः शस्त्राणां रूपं निविदश्चाप्नोति, येन विदुषा पयसा सोम आप्यते, स वेदवित् कथ्यते ॥२५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये विदुषः सकाशादधीत्य वेदस्थानां पदवाक्यमन्त्रविभागशब्दार्थसम्बन्धानां यथार्थं विज्ञानं कुर्वन्ति, तेऽत्राऽध्यापका भवन्ति ॥२५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे विद्वानांजवळ राहून अध्ययन करतात व वेदातील पद, वाक्य, मंत्र विभागाचे शब्द अर्थ व संबंधाचे स्वरूप विशेष ज्ञानाने यथायोग्यरीत्या जाणतात ते अध्यापक म्हणून ओळखले जातात.
२६ अश्विभ्यां प्रातः
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒श्विभ्यां॑ प्रातः सव॒नमिन्द्रे॑णै॒न्द्रं माध्य॑न्दिनम्। वै॒श्व॒दे॒वँ सर॑स्वत्या तृ॒तीय॑मा॒प्तँ सव॑नम् ॥२६ ॥
मूलम् ...{Loading}...
अ॒श्विभ्यां॑ प्रातः सव॒नमिन्द्रे॑णै॒न्द्रं माध्य॑न्दिनम्। वै॒श्व॒दे॒वँ सर॑स्वत्या तृ॒तीय॑मा॒प्तँ सव॑नम् ॥२६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒श्विभ्या॒मित्य॒श्विऽभ्या॑म्। प्रा॒तः॒स॒व॒नमिति॑ प्रातःऽसव॒नम्। इन्द्रे॑ण। ऐ॒न्द्रम्। माध्य॑न्दिनम्। वै॒श्व॒दे॒वमिति॑ वैश्वऽदे॒वम्। सर॑स्वत्या। तृ॒तीय॑म्। आ॒प्तम्। सव॑नम्। २६।
महीधरः
म० सवनसंपत्तिमाह । अश्विभ्यां देवाभ्यां प्रातःसवनमाप्तं प्राप्तम् । इन्द्रेण देवेन ऐन्द्रमिन्द्रदेवत्यं माध्यन्दिनं सवनं प्राप्तम् । सरस्वत्या देवतया कृत्वा वैश्वदेवं विश्वदेवदेवत्यं तृतीयं सवनं प्राप्तम् ॥ २६ ॥
सप्तविंशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- हैमवर्चिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
सत्पुरुषों को कैसा होना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जिन मनुष्यों ने (अश्विभ्याम्) सूर्य्य-चन्द्रमा से प्रथम (प्रातःसवनम्) प्रातःकाल यज्ञक्रिया की प्रेरणा (इन्द्रेण) बिजुली से (ऐन्द्रम्) ऐश्वर्यकारक दूसरा (माध्यन्दिनम्) मध्याह्न में होने और (सवनम्) आरोग्यता करनेवाला होमादि कर्म और (सरस्वत्या) सत्यवाणी से (वैश्वदेवम्) सम्पूर्ण विद्वानों के सत्काररूप (तृतीयम्) तीसरा सवन अर्थात् सायङ्काल की क्रिया को यथावत् (आप्तम्) प्राप्त किया है, वे जगत् के उपकारक हैं ॥२६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो भूत, भविष्यत्, वर्त्तमान इन तीनों कालों में सब मनुष्यादि प्राणियों का हित करते हैं, वे जगत् में सत्पुरुष होते हैं ॥२६ ॥
दयानन्द-सरस्वती (सं) - विषयः
सत्पुरुषैः कथं भवितव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यैरश्विभ्यां प्रथमं सवनमिन्द्रेणैन्द्रं द्वितीयं माध्यन्दिनं सवनं सरस्वत्या वैश्वदेवं तृतीयं सवनमाप्तन्ते जगदुपकारकाः सन्ति ॥२६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये त्रिषु कालेषु सार्वजनिकहितमाचरन्ति, तेऽत्र सत्पुरुषास्सन्ति ॥२६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - भूत, भविष्य व वर्तमान या तीन कालात जे सर्व माणसांचे हित करतात ते या जगात सत्पुरुष म्हणून ओळखले जातात.
२७ वायव्यैर्वायव्यान्याप्नोति सतेन
विश्वास-प्रस्तुतिः ...{Loading}...
वा॒य॒व्यै᳖र्वाय॒व्या᳖न्याप्नोति॒ सते॑न द्रोणकल॒शम्। कु॒म्भीभ्या॑मम्भृ॒णौ सु॒ते स्था॒लीभि॑ स्था॒लीरा॑प्नोति ॥२७ ॥
मूलम् ...{Loading}...
वा॒य॒व्यै᳖र्वाय॒व्या᳖न्याप्नोति॒ सते॑न द्रोणकल॒शम्। कु॒म्भीभ्या॑मम्भृ॒णौ सु॒ते स्था॒लीभि॑ स्था॒लीरा॑प्नोति ॥२७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वा॒य॒व्यैः᳖ वा॒य॒व्या᳖नि। आ॒प्नो॒ति॒। सते॑न। द्रो॒ण॒क॒ल॒शमिति॑ द्रोणऽकल॒शम्। कु॒म्भीभ्या॑म्। अ॒म्भृ॒णौ। सु॒ते। स्था॒लीभिः॑। स्था॒लीः। आ॒प्नो॒ति॒। २७।
महीधरः
म० वायव्यानि सोमपात्राणि वायव्यैर्वायव्यानि पात्राणि आप्नोति । वैतसं पात्रं सतः तेन द्रोणकलशमाप्नोति । कुम्भी सुराधानी तद्द्वयमस्ति कुम्भीभ्यां शतच्छिद्राभ्यां सुराधानीभ्यामम्भृणौ पूतभृदाधवनीयौ सुतेऽभिषुते सोमे यौ स्तस्तावाप्नोति । स्थालीभिः कृत्वा स्थालीराप्नोति उभयत्र स्थालीसद्भावात् ॥ २७॥
अष्टाविंशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- हैमवर्चिर्ऋषिः
- भुरिगनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
विद्वान् को कैसा होना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो विद्वान् (वायव्यैः) वायु में होनेवाले गुणों वा वायु जिनका देवता दिव्यगुणोत्पादक है, उन पदार्थों से (वायव्यानि) वायु में होने वा वायु देवतावाले कर्मों को (सतेन) विभागयुक्त कर्म से (द्रोणकलशम्) द्रोणपरिमाण और कलश को (आप्नोति) प्राप्त होता है। (कुम्भीभ्याम्) धान्य और जल के पात्रों से (अम्भृणौ) जिनसे जल धारण किया जाता है, उन (सुते) सिद्ध किये हुए दो प्रकार के रसों को (स्थालीभिः) जिनमें पदार्थ धरते वा पकाते हैं, उन स्थालियों से (स्थालीः) स्थालियों को (आप्नोति) प्राप्त होता है, वही धनाढ्य होता है ॥२७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - कोई भी मनुष्य वायु के कर्मों को न जान कर इस के कारण के विना परिमाणविद्या को, इस विद्या के विना पाकविद्या को और इस के विना अन्न के संस्कार की क्रिया को प्राप्त नहीं हो सकता ॥२७ ॥
दयानन्द-सरस्वती (सं) - विषयः
विदुषां कथं भवितव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यो विद्वान् वायव्यैर्वायव्यानि सतेन द्रोणकलशमाप्नोति, कुम्भीभ्यामम्भृणौ सुते स्थालीभिः स्थालीराप्नोति, स आढ्यो जायते ॥२७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - कश्चिदपि मनुष्यो वायुकार्याण्यविदित्वैतत्कारणेन विना परिमाणविद्यामनया विना पाकविद्यां तामन्तरान्नसंस्कारक्रियाञ्च प्राप्तुन्न शक्नोति ॥२७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - कोणताही माणूस वायूचे कार्य न जाणता त्याच्या कारणाशिवाय परिणाम विद्या जाणू शकत नाही व या विद्येविना पाकविद्या व अन्नाच्या संस्काराची क्रिया त्याला प्राप्त होऊ शकत नाही.
२८ यजुर्भिराप्यन्ते ग्रहा
विश्वास-प्रस्तुतिः ...{Loading}...
यजु॑र्भिराप्यन्ते॒ ग्रहा॒ ग्रहै॒ स्तोमा॑श्च॒ विष्टु॑तीः। छन्दो॑भिरुक्थाश॒स्त्राणि॒ साम्ना॑वभृ॒थऽआ॑प्यते ॥२८ ॥
मूलम् ...{Loading}...
यजु॑र्भिराप्यन्ते॒ ग्रहा॒ ग्रहै॒ स्तोमा॑श्च॒ विष्टु॑तीः। छन्दो॑भिरुक्थाश॒स्त्राणि॒ साम्ना॑वभृ॒थऽआ॑प्यते ॥२८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यजु॑र्भिरिति॒ यजुः॑ऽभिः। आ॒प्य॒न्ते॒। ग्रहाः॑। ग्रहैः॑। स्तोमाः॑। च॒। विष्टु॑तीः। विस्तु॑तीरिति॒ विऽस्तु॑तीः। छन्दो॑भि॒रिति॒ छन्दः॑ऽभिः। उ॒क्था॒श॒स्त्राणि॑। उ॒क्थ॒श॒स्त्राणीत्यु॑क्थऽश॒स्त्राणि॑। साम्ना॑। अ॒व॒भृ॒थ इत्य॑वऽभृ॒थः। आ॒प्य॒ते॒। २८।
महीधरः
म० यजुर्भिः यजूंषि आप्यन्ते । ग्रहा ग्रहैराप्यन्ते स्तोमैः स्तोमा आप्यन्ते । विष्टुतिभिर्विविधस्तुतिभिर्विष्टुतीर्विष्टुतय आप्यन्ते । छन्दोभिरुक्थाशस्त्राणि उक्थानि शस्त्राणि चाप्यन्ते। साम्ना सामाप्यते । अवभृथेनावभृथ आप्यते ॥ २८ ॥
एकोनत्रिंशी ।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- हैमवर्चिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
सब लोग वेद का अभ्यास करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोगों को जिन (यजुर्भिः) यजुर्वेदोक्त विद्या के अवयवों से (ग्रहाः) जिससे समस्त क्रियाकाण्ड का ग्रहण किया जाता है, वे व्यवहार (ग्रहैः) ग्रहों से (स्तोमाः) पदार्थों के गुणों की प्रशंसा (च) और (विष्टुतीः) विविध स्तुतियाँ (छन्दोभिः) गायत्र्यादि छन्द वा विद्वान् और गुणों की स्तुति करनेवालों से (उक्थाशस्त्राणि) कथन करने योग्य वेद के स्तोत्र और शस्त्र (आप्यन्ते) प्राप्त होते हैं तथा (साम्ना) सामवेद से (अवभृथः) शोधन (आप्यते) प्राप्त होता है, उनका उपयोग यथावत् करना चाहिये ॥२८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - कोई भी मनुष्य वेदाभ्यास के विना सम्पूर्ण साङ्गोपाङ्ग वेदविद्याओं को प्राप्त होने योग्य नहीं होता ॥२८ ॥
दयानन्द-सरस्वती (सं) - विषयः
सर्वे वेदमभ्यस्येयुरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! युष्माभिर्यैर्यजुर्भिर्ग्रहा ग्रहैः स्तोमा विष्टुतीश्च छन्दोभिरुक्थाशस्त्राणि चाप्यन्ते, साम्नावभृथ आप्यते, तेषामुपयोगो यथावत् कर्त्तव्यः ॥२८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - कश्चिदपि मनुष्यो वेदाभ्यासेन विना अखिलाः साङ्गोपाङ्गविद्याः प्राप्तुं नार्हति ॥२८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - कोणताही माणूस वेदाभ्यासाशिवाय संपूर्ण वेदविद्या प्राप्त करण्यायोग्य बनू शकत नाही.
२९ इडाभिर्भक्षानाप्नोति सूक्तवाकेनाशिषः
विश्वास-प्रस्तुतिः ...{Loading}...
इडा॑भिर्भ॒क्षाना॑प्नोति सूक्तवा॒केना॒शिषः॑। श॒म्युना॑ पत्नीसंया॒जान्त्स॑मिष्टय॒जुषा॑ सँ॒स्थाम् ॥२९ ॥
मूलम् ...{Loading}...
इडा॑भिर्भ॒क्षाना॑प्नोति सूक्तवा॒केना॒शिषः॑। श॒म्युना॑ पत्नीसंया॒जान्त्स॑मिष्टय॒जुषा॑ सँ॒स्थाम् ॥२९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इडा॑भिः। भ॒क्षान्। आ॒प्नो॒ति॒। सू॒क्त॒वा॒केनेति॑ सूक्तऽवा॒केन॑। आ॒शिष॒ इत्या॒ऽशिषः॑। शं॒युनेति॑ श॒म्ऽयुना॑। प॒त्नी॒सं॒या॒जानिति॑ पत्नीऽसंया॒जान्। स॒मि॒ष्ट॒य॒जुषेति॑ समिष्टऽय॒जुषा॑। सँ॒स्थामिति॑ स॒म्ऽस्थाम्। २९।
महीधरः
म० इडाभिरिडामाप्नोति । भक्षैर्भक्षानाप्नोति । सूक्तवाकेन सूक्तवाकमाप्नोति । आशीर्भिराशिष आप्नोति । शंयुना होमविशेषेण शंयुमाप्नोति । पत्नीसंयाजैः पत्नीसंयाजानाप्नोति । समिष्टयजुषा समिष्टयजुराप्नोति । संस्थया संस्थामाप्नोति । इडादीनामुभयत्र सद्भावात् ॥ २९॥
त्रिंशी ।
अधिमन्त्रम् (VC)
- इडा देवता
- हैमवर्चिर्ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
गृहस्थ पुरुषों को क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो विद्वान् (इडाभिः) पृथिवियों से (भक्षान्) भक्षण करने योग्य अन्नादि पदार्थों को (सूक्तवाकेन) जो सुन्दरता से कहा जाय उस के कहने से (आशिषः) इच्छा-सिद्धियों को (शंयुना) जिस से सुख प्राप्त होता है, उससे (पत्नीसंयाजान्) जो पत्नी के साथ मिलते हैं, उनको (समिष्टयजुषा) अच्छे इष्टसिद्धि करनेवाले यजुर्वेद के कर्म से (संस्थाम्) अच्छे प्रकार रहने के स्थान को (आप्नोति) प्राप्त होता है, वह सुखी क्यों न होवे ॥२९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - गृहस्थ लोग वेदविज्ञान ही से पृथिवी के राज्य-भोग की इच्छा और उसकी सिद्धि को प्राप्त होवें ॥२९ ॥
दयानन्द-सरस्वती (सं) - विषयः
गृहस्थैः पुरुषैः किं कर्त्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यो विद्वान्निडाभिर्भक्षान् सूक्तवाकेनाशिषः शंयुना पत्नीसंयाजान् समिष्टयजुषा संस्थामाप्नोति, स सुखी कथं न स्यात् ॥२९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - गृहस्था वेदविज्ञानेनैव पृथिवीराज्यभोगेच्छां तत्सिद्धिसंस्थितिं चाप्नुवन्तु ॥२९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - गृहस्थाश्रमातील लोकांना पृथ्वीवरील राज्य भोगाची इच्छा व त्याची सिद्धी वेदविज्ञानानेच प्राप्त होते.
३० व्रतेन दीक्षामाप्नोति
विश्वास-प्रस्तुतिः ...{Loading}...
व्र॒तेन॑ दी॒क्षामा॑प्नोति दी॒क्षया॑प्नोति॒ दक्षि॑णाम्। दक्षि॑णा श्र॒द्धामा॑प्नोति श्र॒द्धया॑ स॒त्यमा॑प्यते ॥३० ॥
मूलम् ...{Loading}...
व्र॒तेन॑ दी॒क्षामा॑प्नोति दी॒क्षया॑प्नोति॒ दक्षि॑णाम्। दक्षि॑णा श्र॒द्धामा॑प्नोति श्र॒द्धया॑ स॒त्यमा॑प्यते ॥३० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
व्र॒तेन॑। दी॒क्षाम्। आ॒प्नो॒ति॒। दी॒क्षया॑। आ॒प्नो॒ति॒। दक्षि॑णाम्। दक्षि॑णा। श्र॒द्धाम्। आ॒प्नो॒ति॒। श्र॒द्धया॑। स॒त्यम्। आ॒प्य॒ते॒। ३०।
महीधरः
म० हुतोच्छिष्टभक्षश्चतूरात्रिमग्निहोत्रं जुहोतीति । व्रतेन दीक्षामाप्नोति । दीक्षया दक्षिणामाप्नोति । दक्षिणा विभक्तिलोपः । दक्षिणया श्रद्धामाप्नोति । श्रदिति सत्यनाम । श्रत् सत्यं धीयते यस्यां सा श्रद्धा आस्तिक्यबुद्धिः पुण्यवतां मनोविशेषः । श्रद्धया सत्यं ज्ञानमनन्तं ब्रह्माप्यते प्राप्यते । श्रद्धां विना ज्ञानाभावात् ॥३०॥
एकत्रिंशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- हैमवर्चिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को सत्य का ग्रहण और असत्य का त्याग करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो बालक कन्या वा पुरुष (व्रतेन) ब्रह्मचर्यादि नियमों से (दीक्षाम्) ब्रह्मचर्यादि सत्कर्मों के आरम्भरूप दीक्षा को (आप्नोति) प्राप्त होता है, (दीक्षया) उस दीक्षा से (दक्षिणाम्) प्रतिष्ठा और धन को (आप्नोति) प्राप्त होता है, (दक्षिणा) उस प्रतिष्ठा वा धनरूप से (श्रद्धाम्) सत्य के धारण में प्रीतिरूप श्रद्धा को (आप्नोति) प्राप्त होता है वा उस (श्रद्धया) श्रद्धा से जिसने (सत्यम्) नित्य पदार्थ वा व्यवहारों में उत्तम परमेश्वर वा धर्म की (आप्यते) प्राप्ति की है, वह सुखी होता है ॥३० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - कोई भी मनुष्य विद्या, अच्छी शिक्षा और श्रद्धा के विना सत्य व्यवहारों को प्राप्त होने और दुष्ट व्यवहारों के छोड़ने को समर्थ नहीं होता ॥३० ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यैः सत्यं ग्राह्यमसत्यञ्च त्याज्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यो बालकः कन्यका मनुष्यो वा व्रतेन दीक्षामाप्नोति, दीक्षया दक्षिणामाप्नोति, दक्षिणा श्रद्धामाप्नोति, तया श्रद्धया वा येन सत्यमाप्यते, स सुखी भवति ॥३० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - कश्चिदपि मनुष्यो विद्यासुशिक्षाश्रद्धाभिर्विना सत्यान् व्यवहारान् प्राप्तुमसत्याँश्च त्यक्तुं न शक्नोति ॥३० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - कोणताही माणूस विद्या, चांगले शिक्षण व श्रद्धा यांच्याशिवाय सत्य व्यवहार करू शकत नाही व दुष्ट व्यवहाराचा त्याग करू शकत नाही.
३१ एतावद् रूपम्
विश्वास-प्रस्तुतिः ...{Loading}...
ए॒ताव॑द् रू॒पं य॒ज्ञस्य॒ यद्दे॒वैर्ब्रह्म॑णा कृ॒तम्। तदे॒तत्सर्व॑माप्नोति य॒ज्ञे सौ॑त्राम॒णी सु॒ते ॥३१ ॥
मूलम् ...{Loading}...
ए॒ताव॑द् रू॒पं य॒ज्ञस्य॒ यद्दे॒वैर्ब्रह्म॑णा कृ॒तम्। तदे॒तत्सर्व॑माप्नोति य॒ज्ञे सौ॑त्राम॒णी सु॒ते ॥३१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ए॒ताव॑त्। रू॒पम्। य॒ज्ञस्य॑। यत्। दे॒वैः। ब्रह्म॑णा। कृ॒तम्। तत्। ए॒तत्। सर्व॑म्। आ॒प्नो॒ति॒। य॒ज्ञे। सौ॒त्रा॒म॒णी। सु॒ते। ३१।
महीधरः
म० यज्ञस्य सोमयज्ञस्य एतावत् एतत्परिमाणं रूपम् देवैर्ब्रह्मणा प्रजापतिना च यद्रूपं कृतं दृष्टम् । दर्शनकरणयोः को भेदः । सुप्तप्रतिबुद्धन्यायो दर्शनं । बुद्धिपूर्वं तु करणम् । सौत्रामणी । सप्तम्येकवचनस्य पूर्वसवर्णदीर्घः । सौत्रामणी सौत्रामण्यां यज्ञे सुते सुरासोमेऽभिषुते सति तदेतत्सोमयागरूपं सर्वमाप्नोति ॥ ३१॥
द्वात्रिंशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- हैमवर्चिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो मनुष्य (यत्) जिस (देवैः) विद्वानों और (ब्रह्मणा) परमेश्वर वा चार वेदों ने (यज्ञस्य) यज्ञ के (एतावत्) इतने (रूपम्) स्वरूप को (कृतम्) सिद्ध किया वा प्रकाशित किया है, (तत्) उस (एतत्) इस (सर्वम्) समस्त को (सौत्रामणी) जिसमें यज्ञोपवीतादि ग्रन्थियुक्त सूत्र धारण किये जाते हैं, उस (सुते) सिद्ध किये हुए (यज्ञे) यज्ञ में (आप्नोति) प्राप्त होता है, वह द्विज होने का आरम्भ करता है ॥३१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्वान् मनुष्यों को योग्य है कि जितना यज्ञ के अनुष्ठान का अनुसन्धान किया जाता है, उतना ही अनुष्ठान करके बड़े उत्तम यज्ञ के फल को प्राप्त होवें ॥३१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यः किं कुर्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यो मनुष्यो यद्देवैर्ब्रह्मणा यज्ञस्यैतावद् रूपं कृतं तदेतत् सर्वं सौत्रामणी सुते यज्ञ आप्नोति, स द्विजत्वारम्भं करोति ॥३१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - विद्वद्भिर्मनुष्यैर्यावद् यज्ञानुष्ठानानुसन्धानं क्रियेत तावदेवानुष्ठाय महोत्तमं यज्ञफलमाप्तव्यम् ॥३१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - विद्वान माणसांनी यज्ञाच्या विधीचे जितके अनुसंधान केले जाऊ शकते तितके अनुष्ठान करावे व बृहद् यज्ञाचे फळ प्राप्त करावे.
३२ सुरावन्तं बर्हिषदम्
विश्वास-प्रस्तुतिः ...{Loading}...
सुरा॑वन्तं बर्हि॒षदँ॑ सु॒वीरं॑ य॒ज्ञँ हि॑न्वन्ति महि॒षा नमो॑भिः। दधा॑नाः॒ सोमं॑ दि॒वि दे॒वता॑सु॒ मदे॒मेन्द्रं॒ यज॑मानाः स्व॒र्काः ॥३२ ॥
मूलम् ...{Loading}...
सुरा॑वन्तं बर्हि॒षदँ॑ सु॒वीरं॑ य॒ज्ञँ हि॑न्वन्ति महि॒षा नमो॑भिः। दधा॑नाः॒ सोमं॑ दि॒वि दे॒वता॑सु॒ मदे॒मेन्द्रं॒ यज॑मानाः स्व॒र्काः ॥३२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सुरा॑वन्त॒मिति॒ सुरा॑ऽवन्तम्। ब॒र्हि॒षद॑म्। ब॒र्हि॒षद॒मिति॑ बर्हि॒ऽसद॑म्। सु॒वीर॒मिति॑ सु॒ऽवीर॑म्। य॒ज्ञम्। हि॒न्व॒न्ति॒। म॒हि॒षाः। नमो॑भि॒रिति॒ नमः॑ऽभिः। दधा॑नाः। सोम॑म्। दि॒वि। दे॒वता॑सु। मदे॑म। इन्द्र॑म्। यज॑मानाः। स्व॒र्का इति॑ सुऽअ॒र्काः। ३२।
महीधरः
म० ‘सुरावन्तमिति जुहोति’ ( का० १९ । ३ । ८)। | अध्वर्युस्त्रीनपि पयोग्रहान्सहैव जुहोतीत्यर्थः । एवं सौत्रामण्याः सोमसंपत्तिमापाद्य प्रकृतमनुसरति । चतस्रस्त्रिष्टुभोऽश्विसरस्वतीन्द्रदेवत्याः । महिषा महान्तः ऋत्विजो यज्ञं सौत्रामणीसंज्ञं हिन्वन्ति वर्धयन्ति प्रापयन्ति वा । किंभूतं यज्ञम् । बर्हिषदं बर्हिषि सीदन्ति देवा यत्र स बर्हिषत्तम् । तथा सुरावन्तं सुरा विद्यते यत्र स सुरावान् तम् । ‘सुरावान्वा एष बर्हिषद्यज्ञो यत्सौत्रामणी’ ( १२ । ८।१।२) इति श्रुतेः । सुवीरं शोभना वीरा यत्र शोभनर्त्विजम् । कीदृशाः । महिषाः नमोभिरन्नैर्नमस्कारैर्वा सह दिवि स्वर्गे वर्तमानासु देवतासु सोमं दधानाः धारयन्तः । तत्र यज्ञे इन्द्रं यजमानाः यजन्तः सन्तो वयं मदेम हृष्येम । किंभूता वयम् । स्वर्काः शोभनोऽर्कोऽर्चनं मन्त्रा वा येषां ते स्वर्काः । यद्वा शोभनोऽर्कोऽन्नं येषां ते स्वर्का इति ‘अर्को वै देवानामन्नमन्नं यज्ञो यज्ञेनैवैनमन्नाद्येन समर्धयन्ति’ ( १२ । ८।१।२) इति श्रुतेः । ‘अर्को देवो भवति यदेनमर्चन्ति अर्को मन्त्रो भवति यदेनेनार्चन्ति अर्कमन्नं भवत्यर्चति भूतान्यर्को वृक्षो भवति संवृतः कटुकिम्न’ (निरु० ५।४) इति यास्कः । महिषशब्दो यद्यपि महन्नामसु पठितस्तथाप्यत्र ऋत्विग्वाचकः । ‘महिषा नमोभिरित्यृत्विजो वै महिषाः’ ( १२ । ८।१।२) इति श्रुतेः ॥ ३२॥
त्रयस्त्रिंशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- हैमवर्चिर्ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (महिषाः) महान् पूजनीय (स्वर्काः) उत्तम अन्न आदि पदार्थों से युक्त (यजमानाः) यज्ञ करनेवाले विद्वान् लोग (नमोभिः) अन्नादि से (सुरावन्तम्) उत्तम सोमरस युक्त (बर्हिषदम्) जो प्रशस्त आकाश में स्थिर होता उस (सुवीरम्) उत्तम शरीर तथा आत्मा के बल से युक्त वीरों की प्राप्ति करनेहारे (यज्ञम्) यज्ञ को (हिन्वन्ति) बढ़ाते हैं, वे और (दिवि) शुद्ध व्यवहारों में तथा (देवतासु) विद्वानों में (सोमम्) ऐश्वर्य्य और (इन्द्रम्) परमैश्वर्य्ययुक्त जन को (दधानाः) धारण करते हुए हम लोग (मदेम) आनन्दित हों ॥३२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य अन्नादि ऐश्वर्य का सञ्चय कर उससे विद्वानों को प्रसन्न और सत्य विद्याओं में शिक्षा ग्रहण करके सब के हितैषी हों, वे इस संसार में पुत्र-स्त्री के आनन्द को प्राप्त हों ॥३२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! ये महिषास्स्वर्कां यजमाना नमोभिः सुरावन्तं बर्हिषदं सुवीरं यज्ञं हिन्वन्ति, ते दिवि देवतासु सोममिन्द्रं दधानाः सन्तो वयञ्च मदेम ॥३२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्या अन्नाद्यैश्वर्य्यं सञ्चित्य तेन विदुषः सन्तोष्य सद्विद्यासु शिक्षाः संगृह्य सर्वहितैषिणः स्युस्तेऽत्र पुत्रकलत्रानन्दमाप्नुवन्तु ॥३२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे अन्न इत्यादींचा संचय करून विद्वानांना प्रसन्न करतात व सत्य विद्येचे शिक्षण घेऊन सर्वांचे हितकर्ते बनतात ते या संसारात पुत्र व स्रीसह आनंदात राहतात.
३३ यस्ते रसः
विश्वास-प्रस्तुतिः ...{Loading}...
यस्ते॒ रसः॒ सम्भृ॑त॒ऽओष॑धीषु॒ सोम॑स्य शुष्मः॒ सुर॑या सु॒तस्य॑। तेन॑ जिन्व॒ यज॑मानं॒ मदे॑न॒ सर॑स्वतीम॒श्विना॒विन्द्र॑म॒ग्निम् ॥३३ ॥
मूलम् ...{Loading}...
यस्ते॒ रसः॒ सम्भृ॑त॒ऽओष॑धीषु॒ सोम॑स्य शुष्मः॒ सुर॑या सु॒तस्य॑। तेन॑ जिन्व॒ यज॑मानं॒ मदे॑न॒ सर॑स्वतीम॒श्विना॒विन्द्र॑म॒ग्निम् ॥३३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यः। ते॒। रसः॑। सम्भृ॑त॒ इति॒ सम्ऽभृ॑तः। ओष॑धीषु। सोम॑स्य। शुष्मः॑। सुर॑या। सु॒तस्य॑। तेन॑। जि॒न्व॒। यज॑मानम्। मदे॑न। सर॑स्वतीम्। अ॒श्विनौ॑। इन्द्र॑म्। अ॒ग्निम्। ३३।
महीधरः
म० ‘पालाशैः सौरान्नमृण्मयमाहुतिमानशे’ ( का० १९ । ३।९) इति श्रुतेर्यस्त इति प्रतिप्रस्थाता पालाशोलूखलैः सुराग्रहान्दक्षिणेऽग्नौ यजति । मृण्मयपात्रमाहुतिं न व्याप्नोतीत्यर्थः । हे सुरे, ओषधीषु वर्तमानो यस्ते तव रसः संभृत एकीकृतः ‘अपां वा एष ओषधीनां च रसो यत्सुरा’ (१२ । ८।१।४) इति श्रुतेः । सुरया सह सुतस्य सोमस्य च यः शुष्मः यद्बलम् । मदयतीति मदस्तेन मदेन मदजनकेन तेन सुरारसेन सोमशुष्मेण च यजमानं सरस्वतीमश्विनौ इन्द्रमग्निं च जिन्व प्रीणीहि ॥ ३३ ॥
चतुस्त्रिंशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- हैमवर्चिर्ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
कैसे पुरुष धन्यवाद के योग्य हैं, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! (यः) जो (ते) आपका (ओषधीषु) सोमलतादि ओषधियों में वर्त्तमान (सुतस्य) सिद्ध किये हुए (सोमस्य) अंशुमान् आदि चौबीस प्रकार के भेदवाले सोम का (सुरया) उत्तम दानशील स्त्री ने (सम्भृतः) अच्छे प्रकार धारण किया हुआ (शुष्मः) बलकारी (रसः) रस है, (तेन) उस (मदेन) आनन्ददायक रस से (यजमानम्) सब को सुख देनेवाले यजमान (सरस्वतीम्) उत्तम विद्यायुक्त स्त्री (अश्विनौ) विद्याव्याप्त अध्यापक और उपदेशक (इन्द्रम्) ऐश्वर्ययुक्त सभा और सेना के पति (अग्निम्) पावक के समान शत्रु को जलानेहारे योद्धा को (जिन्व) प्रसन्न कीजिये ॥३३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो विद्वान् मनुष्य महौषधियों के सारों को आप सेवन कर अन्यों को सेवन कराके निरन्तर आनन्द बढ़ावें, वे धन्यवाद के योग्य हैं ॥३३ ॥
दयानन्द-सरस्वती (सं) - विषयः
किम्भूता जना धन्या इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यस्त ओषधीषु वर्त्तमानस्य सुतस्य सोमस्य सुरया सम्भृतः शुष्मो रसोऽस्ति, तेन मदेन यजमानं सरस्वतीमश्विनाविन्द्रमग्निञ्च जिन्व ॥३३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये विद्वांसो जना महौषधिसारं स्वयं संसेव्यान्यान् सेवयित्वा सततमानन्दं वर्द्धयेयुस्ते धन्याः सन्ति ॥३३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे विद्वान लोक महा औषधांचे सार स्वतः सेवन करतात व इतरांनाही सेवन करण्यास उद्युक्त करतात ते नेहमी आनंद वाढवित असतात आणि धन्यवादास पात्र ठरतात.
३४ यमश्विना नमुचेरासुरादधि
विश्वास-प्रस्तुतिः ...{Loading}...
यम॒श्विना॒ नमु॑चेरासु॒रादधि॒ सर॑स्व॒त्यसु॑नोदिन्द्रि॒याय॑। इ॒मं तँ शु॒क्रं मधु॑मन्त॒मिन्दुँ॒ सोमँ॒ राजा॑नमि॒ह भ॑क्षयामि ॥३४ ॥
मूलम् ...{Loading}...
यम॒श्विना॒ नमु॑चेरासु॒रादधि॒ सर॑स्व॒त्यसु॑नोदिन्द्रि॒याय॑। इ॒मं तँ शु॒क्रं मधु॑मन्त॒मिन्दुँ॒ सोमँ॒ राजा॑नमि॒ह भ॑क्षयामि ॥३४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यम्। अ॒श्विना॑। नमु॑चेः। आ॒सु॒रात्। अधि॑। सर॑स्वती। असु॑नोत्। इ॒न्द्रि॒याय॑। इ॒मम्। तम्। शु॒क्रम्। मधु॑मन्तम्। इन्दु॑म्। सोम॑म्। राजा॑नम्। इ॒ह। भ॒क्ष॒या॒मि॒। ३४।
महीधरः
म० ‘अध्वर्युः प्रतिप्रस्थाताग्नीद्यमश्विनेत्याश्विनं भक्षयन्ति द्विर्द्विरावर्तᳪं᳭ होतृब्रह्ममैत्रावरुणाः सारस्वतमाश्विनवदैन्द्रं यजमानः’ ( का० १९ । ३ । १०-१३) । त्रय आवृत्याश्विनं पयोग्रहं क्रमेण द्विर्द्विर्भक्षयन्ति सकृन्मन्त्रः । होत्रादयः सारस्वतं पयोग्रहमदन्ति यजमान ऐन्द्रं पयोग्रहमत्तीति सूत्रार्थः । नमुचिनेन्द्रस्य वीर्यं पीतम् तस्मिन् हते रुधिरमिश्रः सोमो जातस्तं देवाः पपुस्तदभिवादिन्येषा ऋक् । असुरस्यापत्यमासुरस्तस्मादसुरपुत्रान्नमुचेरधि सकाशाद् यं सोममाहरतामिति शेषः । ‘अश्विनौ ह्येनं नमुचेरध्याहरताम्’ ( १२ । ८ । १ । ३) इति श्रुतेः । सरस्वती च यं सोममश्विभ्यामानीतमसुनोदभ्यषुणोत् । किमर्थम् । इन्द्रियाय इन्द्रस्य वीर्याय भैषज्याय वा। तमश्व्याहृतं सरस्वतीसुतमिमं राजानमिह यज्ञेऽहं भक्षयामि । कीदृशं सोमम् । शुक्रं शुद्धं लोहितासंसृष्टमतएव मधुमन्तं रसवन्तमिन्दुम् । ‘इदि परमैश्वर्ये’ परमैश्वर्यप्रदम् ॥ ३४ ॥
पञ्चत्रिंशी।
अधिमन्त्रम् (VC)
- सोमो देवता
- हैमवर्चिर्ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
कैसे पुरुष सुखी होते हैं, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (इह) इस संसार में (इन्द्रियाय) धन और इन्द्रियबल के लिये (यम्) जिस (नमुचेः) जल को जो नहीं छोड़ता (आसुरात्) उस मेघ-व्यवहार से (अधि) अधिक (शुक्रम्) शीघ्र बलकारी (मधुमन्तम्) उत्तम मधुरादिगुणयुक्त (इन्दुम्) परमैश्वर्य्य करनेहारे (राजानम्) प्रकाशमान (सोमम्) पुरुषार्थ में प्रेरक सोम ओषधि को (सरस्वती) विदुषी स्त्री (असुनोत्) सिद्ध करती तथा (अश्विना) सभा और सेना के पति सिद्ध करते हैं, (तम्, इमम्) उस इस को मैं (भक्षयामि) भोग करता और भोगवाता हूँ ॥३४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य उत्तम अन्न रस के भोजन करनेहारे होते हैं, वे बलयुक्त इन्द्रियोंवाले होकर सदा आनन्द को भोगते हैं ॥३४ ॥
दयानन्द-सरस्वती (सं) - विषयः
कीदृशा जनाः सुखिनो भवन्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - मनुष्याः ! इहेन्द्रियाय यं नमुचेरासुरादधि शुक्रं मधुमन्तमिन्दुं राजानं सोमं सरस्वत्यसुनोदश्विना सुनुतां तमिममहं भक्षयामि ॥३४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्याः सारान्नरसभोजिनो भवन्ति, ते बलिष्ठेन्द्रियाः सन्तः सदानन्दं भुञ्जते ॥३४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे उत्तम अन्नरसाचे सेवन करतात त्यांची इंद्रिये बलवान बनतात व ती सदैव आनंदी असतात.
३५ यदत्र रिप्तम्
विश्वास-प्रस्तुतिः ...{Loading}...
यदत्र॑ रि॒प्तँ र॒सिनः॑ सु॒तस्य॒ यदिन्द्रो॒ऽअपि॑ब॒च्छची॑भिः। अ॒हं तद॑स्य॒ मन॑सा शि॒वेन॒ सोमँ॒ राजा॑नमि॒ह भ॑क्षयामि ॥३५ ॥
मूलम् ...{Loading}...
यदत्र॑ रि॒प्तँ र॒सिनः॑ सु॒तस्य॒ यदिन्द्रो॒ऽअपि॑ब॒च्छची॑भिः। अ॒हं तद॑स्य॒ मन॑सा शि॒वेन॒ सोमँ॒ राजा॑नमि॒ह भ॑क्षयामि ॥३५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यत्। अत्र॑। रि॒प्तम्। र॒सिनः॑। सु॒तस्य॑। यत्। इन्द्रः॑। अपि॑बत्। शची॑भिः। अ॒हम्। तत्। अ॒स्य॒। मन॑सा। शि॒वेन॑। सोम॑म्। राजा॑नम्। इ॒ह। भ॒क्ष॒या॒मि॒। ३५।
महीधरः
म० ‘यदत्रेति सौरान्भक्षयन्ति यथाभक्षितं प्राचीनावीतिनो दक्षिणतः’ ( का० १९ । ३ । १४ ) । अध्वर्य्वादय आश्विनं होत्रादयः सारस्वतं यजमान ऐन्द्रं सुराग्रहं यदत्रेति मन्त्रेण विहारदक्षिणे स्थिताः प्राचीनावीतिनो भक्षयन्ति आघ्राणमन्येन मूल्येन भक्षणमित्यर्थः । रसोऽस्त्यस्मिन्निति रसी तस्य रसिनो रसवतः सुतस्याभिषुतस्य सोमस्य यत् । सामान्ये नपुंसकत्वम् । यो भागः अत्र सुरायां रिप्तं लिप्तं सोमसंबन्धि यत् सुरायां लग्नम् । यच्च सुरालग्नं सोमांशं शचीभिः कर्मभिः शुद्धं कृत्वा इन्द्रः अपिबत् । सोमं राजानमिति द्वितीये षष्ठ्यर्थे अस्य विशेषणवात् । अस्य सोमस्य राज्ञः तत् तं सुरानिर्गतं सोमं शिवेन शुद्धेन मनसा इह यज्ञेऽहं भक्षयामि सुरासकाशाच्छुद्धं कृत्वा भक्षयामि । तथाच श्रुतिः ‘अहं तदस्य मनसा शिवेनेत्यशिव इव वा एष भक्षो यत्सुरा ब्राह्मणस्य शिवमेवैनमेतत्कृत्वात्मन्धत्ते’ (१२। ८ । १।५) इति ॥ ३५॥
षट्त्रिंशी।
अधिमन्त्रम् (VC)
- सोमो देवता
- हैमवर्चिर्ऋषिः
- विराट् त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को चाहिये कि सब को आनन्द करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य लोगो ! जैसे (अहम्) मैं (इह) इस संसार में (अस्य) इस (सुतस्य) सिद्ध किये हुए (रसिनः) प्रशंसित रसयुक्त पदार्थ का (यत्) जो भाग (अत्र) इस संसार ही में (रिप्तम्) लिप्त=प्राप्त है वा (इन्द्रः) सूर्य्य (शचीभिः) आकर्षणादि कर्मों के साथ (यत्) जो (अपिबत्) पीता है, (तत्) उसको और (राजानम्) प्रकाशमान (सोमम्) ओषधियों के रस को (शिवेन) कल्याणकारक (मनसा) मन से (भक्षयामि) भक्षण करता और पीता हूँ, वैसे तुम भी किया और पिया करो ॥३५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जैसे सूर्य अपनी किरणों से जलों का आकर्षण कर और वर्षा से सबको सुखी करता है, वैसे ही अनुकूल क्रियाओं से रसों का सेवन अच्छे प्रकार करके बल को बढ़ा कीर्ति से सब को तुम लोग आनन्दित करो ॥३५ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यैः सर्व आनन्दयितव्य इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथाहमिहास्य सुतस्य रसिनो यदत्र रिप्तमस्तीन्द्रश्शचीभिर्यदपिबत्, तद् राजानं सोमं च शिवेन मनसा भक्षयामि, तथा यूयमपि भक्षयत ॥३५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यथा सूर्यः स्वकिरणैर्जलान्याकृष्य वर्षित्वा सर्वान् सुखयति, तथैवानुकूलाभिः क्रियाभी रसान् संसेव्य बलमुन्नीय यशोवृष्ट्या सर्वान् यूयमानन्दयत ॥३५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! सूर्य जसा आपल्या किरणांद्वारे जल आकर्षित करून वर खेचतो व परत पर्जन्यरूपाने वर्षाव करून सर्वांना सुखी करतो, तसेच योग्य प्रक्रिया करून रसांचे सेवन करून चांगल्या प्रकारे बल वाढवा व कीर्ती प्राप्त करून सर्वांना आनंदित करा.
३६ पितृभ्यः स्वधायिभ्यः
विश्वास-प्रस्तुतिः ...{Loading}...
पि॒तृभ्यः॑ स्वधा॒यिभ्यः॑ स्व॒धा नमः॑ पिताम॒हेभ्यः॑ स्वधा॒यिभ्यः॑ स्व॒धा नमः॒ प्रपि॑तामहेभ्यः स्वधा॒यिभ्यः॑ स्व॒धा नमः॑। अक्ष॑न् पि॒तरोऽमी॑मदन्त पि॒तरोऽती॑तृपन्त पि॒तरः॒ पित॑रः॒ शुन्ध॑ध्वम् ॥३६ ॥
मूलम् ...{Loading}...
पि॒तृभ्यः॑ स्वधा॒यिभ्यः॑ स्व॒धा नमः॑ पिताम॒हेभ्यः॑ स्वधा॒यिभ्यः॑ स्व॒धा नमः॒ प्रपि॑तामहेभ्यः स्वधा॒यिभ्यः॑ स्व॒धा नमः॑। अक्ष॑न् पि॒तरोऽमी॑मदन्त पि॒तरोऽती॑तृपन्त पि॒तरः॒ पित॑रः॒ शुन्ध॑ध्वम् ॥३६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पि॒तृभ्य॒ इति॑ पि॒तृऽभ्यः॑। स्व॒धा॒यिभ्य॒ इति॑ स्वधा॒यिऽभ्यः॑। स्व॒धा। नमः॑। पि॒ता॒म॒हेभ्यः॑। स्व॒धा॒यिभ्य॒ इति॑ स्वधा॒यिऽभ्यः॑। स्व॒धा। नमः॑। प्रपि॑तामहेभ्य॒ इति॒ प्रऽपि॑तामहेभ्यः। स्व॒धा॒यिभ्य॒ इति॑ स्वधा॒यिऽभ्यः॑। स्व॒धा। नमः॑। अक्ष॑न्। पि॒तरः॑। अमी॑मदन्त। पि॒तरः॑। अती॑तृपन्त। पि॒तरः॑। पित॑रः। शुन्ध॑ध्वम्। ३६।
महीधरः
म० ‘अङ्गारेषु वा बहिष्परिधि दक्षिणतो जुहोत्याश्विनमुत्तरे मध्यमे सारस्वतमैन्द्रं दक्षिणे पितृभ्य इति प्रतिमन्त्रं’ (का० १९ । ३ । १७) सुराग्रहाणां भक्षणम् घ्राणम् अन्येन मूल्येन भूपालपानमिति पक्षत्रयमुक्तम् । चतुर्थमाह यद्वाहवनीयस्याङ्गारेषु परिधेर्बहिर्दक्षिणदिक्स्थेषु होमशेषान्सुराग्रहान्पितृभ्य इति प्रतिमन्त्रं जुहोति तदेवाह । उत्तरेऽङ्गारे आश्विनम् मध्यमे सारस्वतम् दक्षिणे ऐन्द्रं सुराग्रहं जुहोतीति सूत्रार्थः । अपसव्येन कर्म । सप्त यजूंषि पितृदेवत्यानि । पितृभ्यः स्वधासंज्ञकं नमोऽन्नमस्तु ‘स्वधा वै पितॄणामन्नम्’ इति श्रुतेः । यद्वा पितृभ्यः स्वधान्नमस्तु । तेभ्यो नमो नमस्कारश्चास्तु । कीदृशेभ्यः । स्वधायिभ्यः स्वधामन्नं प्रति यन्ति गच्छन्तीत्येवंशीलाः स्वधायिनस्तेभ्यः । ‘इण् गतौ’ इति धातोः ‘सुप्यजातौ णिनिस्ताच्छील्ये (पा० ३ । २ । ७८) इति णिनिप्रत्ययः। पितृभ्य इति बहुवचनं पितृव्याद्यपेक्षं पूजार्थं वा । एवं पितामहेभ्यः प्रपितामहेभ्य इति मन्त्रौ व्याख्येयौ । ‘अक्षन्पितर इति प्रक्षालनेनोपसिञ्चति’ ( का० १९ । ३ । १८) । सौरग्रहहोमपात्रक्षालनजलेन यथास्वमङ्गारान्सिञ्चति प्रतिमन्त्रम् । पितरः अक्षन्भक्षितवन्तः । ‘घस्लृ अदने’ लङि रूपम् । पितरोऽमीमदन्त ‘मद तृप्तौ तृप्ताः । अतीतृपन्त तर्पिता अस्माभिः पितरः । यद्वास्मानतीतृपन्त तर्पयन्ति तृप्ताः सन्तोऽभीष्टदानेन । ‘पितरः शुन्धध्वमिति जपति’ ( का० १९ । ३ । १९ ) हे पितरः, शुन्धध्वं शुद्धाः पाणिप्रक्षालनेन शुद्धा यूयं भवत ॥ ३६ ॥
सप्तत्रिंशी।
अधिमन्त्रम् (VC)
- पितरो देवताः
- प्रजापतिर्ऋषिः
- निचृदष्टिः
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
माता-पिता पुत्रादि को परस्पर कैसे वर्त्तना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हम पुत्र शिष्यादि मनुष्य (स्वधायिभ्यः) जिस स्वधा अन्न और जल को प्राप्त होने के स्वभाववाले (पितृभ्यः) ज्ञानियों को (स्वधा) अन्न देते और (नमः) सत्कार करते (स्वधायिभ्यः) बहुत अन्न को चाहनेवाले (पितामहेभ्यः) पिता के पिताओं को (स्वधा) सुन्दर अन्न देते तथा (नमः) सत्कार करते और (स्वधायिभ्यः) उत्तम अन्न के चाहनेवाले (प्रपितामहेभ्यः) पितामह के पिताओं को (स्वधा) अन्न देते और उनका (नमः) सत्कार करते हैं, वे हे (पितरः) पिता आदि ज्ञानियो ! आप लोग हमने अच्छे प्रकार बनाये हुये अन्न आदि का (अक्षन्) भोजन कीजिये। हे (पितरः) अध्यापक लोगो ! आप आनन्दित होके हम को (अमीमदन्त) आनन्दयुक्त कीजिये। हे (पितरः) उपदेशक लोगो ! आप तृप्त होकर हमको (अतीतृपन्त) तृप्त कीजिये। हे (पितरः) विद्वानो ! आप लोग शुद्ध होकर हमको (शुन्धध्वम्) शुद्ध कीजिये ॥३६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे पुत्र, शिष्य और पुत्रवधू आदि लोगो ! तुम उत्तम अन्नादि पदार्थों से पिता आदि वृद्धों का निरन्तर सत्कार किया करो तथा पितर लोग तुमको भी आनन्दित करें। जैसे माता-पितादि बाल्यावस्था में तुम्हारी सेवा करते हैं, वैसे ही तुम लोग वृद्धावस्था में उनकी सेवा यथावत् किया करो ॥३६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पित्रपत्यादिभिरितरेतरं कथं वर्त्तितव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - अस्माभिः पुत्रशिष्यादिमनुष्यैर्येभ्यः स्वधायिभ्यः पितृभ्यः स्वधा नमः स्वधायिभ्यः पितामहेभ्यः स्वधा नमः स्वधायिभ्यः प्रपितामहेभ्यः स्वधा नमः क्रियते। हे पितरस्ते भवन्तोऽस्मत्सुसंस्कृतान्यन्नादीन्यक्षन्। हे पितरो ! यूयमानन्दिता भूत्वाऽस्मानमीमदन्त। हे पितरो ! यूयं तृप्ता भूत्वास्मानतीतृपन्त। हे पितरो ! यूयं शुद्धा भूत्वाऽस्मान् शुन्धध्वम् ॥३६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे पुत्रशिष्यस्नुषादयो जनाः ! यूयमुत्तमैरन्नादिभिः पित्रादीन् वृद्धान् सततं सत्कुरुत, पितरो युष्मानप्यानन्दयेयुः। यथा मातापित्रादयो बाल्यावस्थायां युष्मान् सेवन्ते, तथैव यूयं वृद्धावस्थायां तेषां सेवां यथावत् कुरुत ॥३६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे पुत्र-शिष्य व पुत्रवधूंनो ! उत्तम अन्न वगैरे पदार्थांनी तुम्ही सतत पिता इत्यादी वृद्धांचा सत्कार करा. पितरांनीही तुम्हाला आनंदित करावे. माता व पिता बाल्यावस्थेत जशी तुमची सेवा करतात तशी तुम्हीही वृद्धावस्थेत त्यांची यथा योग्य सेवा करा.
३७ पुनन्तु मा
विश्वास-प्रस्तुतिः ...{Loading}...
पु॒नन्तु॑ मा पि॒तरः॑ सो॒म्यासः॑ पु॒नन्तु॑ मा पिताम॒हाः पु॒नन्तु॒ प्रपि॑तामहाः। प॒वित्रे॑ण श॒तायु॑षा। पु॒नन्तु॑ मा पिताम॒हाः पु॒नन्तु॒ प्रपि॑तामहाः। प॒वित्रे॑ण श॒तायु॑षा विश्व॒मायु॒र्व्य᳖श्नवै ॥३७ ॥
मूलम् ...{Loading}...
पु॒नन्तु॑ मा पि॒तरः॑ सो॒म्यासः॑ पु॒नन्तु॑ मा पिताम॒हाः पु॒नन्तु॒ प्रपि॑तामहाः। प॒वित्रे॑ण श॒तायु॑षा। पु॒नन्तु॑ मा पिताम॒हाः पु॒नन्तु॒ प्रपि॑तामहाः। प॒वित्रे॑ण श॒तायु॑षा विश्व॒मायु॒र्व्य᳖श्नवै ॥३७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पु॒नन्तु॑। मा॒। पि॒तरः॑। सो॒म्यासः॑। पु॒नन्तु॑। मा॒। पि॒ता॒म॒हाः। पु॒नन्तु॑। प्रपि॑तामहा॒ इति॒ प्रऽपि॑तामहाः। प॒वित्रे॑ण। श॒तायु॒षेति॑ श॒तऽआ॑युषा। पु॒नन्तु॑। मा॒। पि॒ता॒म॒हाः। पु॒नन्तु॑। प्रपि॑तामहा॒ इति॒ प्रऽपि॑तामहाः। प॒वित्रे॑ण। श॒तायु॒षेति॑ श॒तऽआ॑युषा। विश्व॑म्। आयुः॑। वि। अ॒श्न॒वै॒। ३७।
महीधरः
म० ‘कुम्भीमासज्य कुम्भवच्छतवितृष्णां वालपवित्रहिरण्यानन्तर्धाय नवर्चं वाचयति पुनन्तु मेति’ ( का० १९ । ३ । २०)। दक्षिणाहवनीयपार्श्वयोः स्तम्भद्वयोपरि दक्षिणाग्रं वंशं निधाय तत्रस्थे शिक्ये शतच्छिद्रां कुम्भीं निधाय कुम्भीतले वालादीनि निधाय तत्र सुराशेषं सिक्त्वाग्नेरुपरि स्रवन्त्यां सुरायां नवर्चं यजमानं वाचयेत् । वालो गोऽश्ववालकृतं सुरागलनम् । पवित्रमजाविलोमकृतं पयोगलनम् । हिरण्यं शतमानमितम् । प्रत्यृचं वाचनमिति सूत्रार्थः । द्वे पितृदेवत्येऽनुष्टुभौ । पितरो मा मां पुनन्तु शोधयन्तु । केन । पवित्रेण गोऽश्ववालकृतेन । कीदृशेन पवित्रेण । शतायुषा शतं शतवर्षमितमायुर्यस्मात्तच्छतायुस्तेन । येन पूतः शतायुर्भवतीत्यर्थः । पितामहाश्च मां पुनन्तु प्रपितामहाश्च मां पुनन्तु । कीदृशाः पित्रादयः । सोम्यासः सोम्याः सोमं संपादयन्ति सोम्याः । आदरार्थं पुनर्वचनम् । पितामहाः प्रपितामहाश्च मां पुनन्तु शतायुषा पवित्रेण । एवं पित्रादिभिः पूतोऽहं विश्वं सर्वमायुः व्यश्नवै व्याप्नवै प्राप्नुयाम् ‘अशूङ् व्याप्तौ’ लोट् ॥ ३७ ॥
अष्टत्रिंशी।
अधिमन्त्रम् (VC)
- सरस्वती देवता
- प्रजापतिर्ऋषिः
- भुरिगष्टिः
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (सोम्यासः) ऐश्वर्य से युक्त वा चन्द्रमा के तुल्य शान्त (पितरः) ज्ञान देने से पालक पितर लोग (पवित्रेण) शुद्ध (शतायुषा) सौ वर्ष की आयु से (मा) मुझ को (पुनन्तु) पवित्र करें, अति बुद्धिमान् चन्द्रमा के तुल्य आनन्दकर्त्ता (पितामहाः) पिताओं के पिता उस अतिशुद्ध सौ वर्षयुक्त आयु से (मा) मुझ को (पुनन्तु) पवित्र करें। ऐश्वर्यदाता चन्द्रमा के तुल्य शीतल स्वभाववाले (प्रपितामहाः) पितामहों के पिता लोग शुद्ध सौ वर्ष पर्य्यन्त जीवन से (मा) मुझ को (पुनन्तु) पवित्र करें। विद्यादि ऐश्वर्ययुक्त वा शान्तस्वभाव (पितामहाः) पिताओं के पिता (पवित्रेण) अतीव शुद्धानन्दयुक्त (शतायुषा) शत वर्ष पर्य्यन्त आयु से मुझ को (पुनन्तु) पवित्राचरणयुक्त करें। सुन्दर ऐश्वर्य के दाता वा शन्तियुक्त (प्रपितामहाः) पितामहों के पिता पवित्र धर्माचरणयुक्त सौ वर्ष पर्यन्त आयु से मुझ को (पुनन्तु) पवित्र करें, जिससे मैं (विश्वम्) सम्पूर्ण (आयुः) जीवन को (व्यश्नवै) प्राप्त होऊँ ॥३७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - पिता, पितामह और प्रपितामहों को योग्य है कि अपने कन्या और पुत्रों को ब्रह्मचर्य, अच्छी शिक्षा और धर्मोपदेश से संयुक्त करके विद्या और उत्तम शील से युक्त करें। सन्तानों को योग्य है कि पितादि की सेवा और अनुकूल आचरण से पिता आदि सभों की नित्य सेवा करें, ऐसे परस्पर उपकार से गृहाश्रम में आनन्द के साथ वर्त्तना चाहिये ॥३७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तदेवाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - सोम्यासः पितरः पवित्रेण शतायुषा मा पुनन्तु, सोम्यासः पितामहाः पवित्रेण शतायुषा मा पुनन्तु, सोम्यासः प्रपितामहाः पवित्रेण शतायुषा मा पुनन्तु, सोम्यासः पितामहाः पवित्रेण शतायुषा मा पुनन्तु, सोम्यासः प्रपितामहाः पवित्रेण शतायुषा मा पुनन्तु, यतोऽहं विश्वमायुर्व्यश्नवै प्राप्नुयाम् ॥३७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - पितृपितामहप्रपितामहैः स्वकन्याः पुत्रांश्च ब्रह्मचर्यसुशिक्षाधर्मोपदेशेन संयोज्य विद्यासुशीलयुक्ताः कार्याः सन्तानैः सेवानुकूलाचरणाभ्यां सर्वे नित्यं सेवनीयाः। एवं परस्परोपकारेण गृहाश्रमे आनन्देन वर्त्तितव्यम् ॥३७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - वडील, आजोबा, पणजोबा यांनी आपल्या मुला-मुलींना ब्रह्मचर्य, चांगले शिक्षण व धर्माचा उपदेश करून विद्या व शील यांनी युक्त करावे. संतानांनी पित्याच्या अनुकुल वागावे व त्यांची सेवा करावी. याप्रमाणे परस्पर उपकार करून गृहस्थाश्रमात आनंदाने राहावे.
३८ अग्नऽआयूषि पवसऽआ
विश्वास-प्रस्तुतिः ...{Loading}...
अग्न॒ऽआयूँ॑षि पवस॒ऽआ सु॒वोर्ज॒मिषं॑ च नः। आ॒रे बा॑धस्व दु॒च्छुना॑म् ॥३८ ॥
मूलम् ...{Loading}...
अग्न॒ऽआयूँ॑षि पवस॒ऽआ सु॒वोर्ज॒मिषं॑ च नः। आ॒रे बा॑धस्व दु॒च्छुना॑म् ॥३८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अग्ने॑। आयूँ॑षि। प॒व॒से॒। आ। सु॒व॒। ऊर्ज॑म्। इष॑म्। च॒। नः॒। आ॒रे। बा॒ध॒स्व॒। दु॒च्छुना॑म्। ३८।
महीधरः
म० प्रजापतिदृष्टाग्निदेवत्या गायत्री । हे अग्ने, त्वमायूंषि पवसे स्वत एवायुःप्रापकाणि कर्माणि पावयसे चेष्टयसे । अन्तर्भूतण्यन्तः । अतएव नोऽस्मदर्थमिषं ब्रीह्यादिधान्यमूर्जं दध्यादि च आसुव ज्ञापय देहीत्यर्थः । जीवनहेतुत्वात् । किंच आरे दूरेऽपि स्थितानां दुच्छुनां दुष्टाश्च ते श्वानश्च दुच्छ्वानः तेषाम् । कर्मणि षष्ठी । दुष्टान् शुनः सारमेयप्रायान्दुर्जनान्बाधस्व नाशयसि दुर्जने जीवनाशक्तेः ॥ ३८॥
एकोनचत्वारिंशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- वैखानस ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय का अगले मन्त्र में उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्वन् पिता, पितामह और प्रपितामह ! जो आप (नः) हमारे (आयूंषि) आयुर्दाओं को (पवसे) पवित्र करें, सो आप (ऊर्जम्) पराक्रम (च) और (इषम्) इच्छासिद्धि को (आ, सुव) चारों ओर से सिद्ध करिये और (आरे) दूर और निकट वसनेहारे (दुच्छुनाम्) दुष्ट कुत्तों के समान मनुष्यों के सङ्ग को (बाधस्व) छुड़ा दीजिये ॥३८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - पिता आदि लोग अपने सन्तानों में दीर्घ आयु, पराक्रम और शुभ इच्छा को धारण कराके अपने सन्तानों को दुष्टों के सङ्ग से रोक और श्रेष्ठों के सङ्ग में प्रवृत्त कराके धार्मिक चिरञ्जीवी करें, जिससे वे वृद्धावस्था में भी अप्रियाचरण कभी न करें ॥३८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! यस्त्वं न आयूंषि पवसे, स त्वमूर्ज्जमिषं चासुव, आरे दुच्छुनां सङ्गं बाधस्व ॥३८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - पित्रादयोऽपत्येषु दीर्घायुः पराक्रमशुभेच्छा धारयित्वा स्वसन्तानान् दुष्टानां सङ्गान्निवार्य श्रेष्ठानां सङ्गे प्रवर्त्य धार्मिकान् दीर्घायुषः कुर्वन्तु, यतस्ते वृद्धावस्थायामप्यप्रियाचरणं कदाचिन्न कुर्युः ॥२८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - पित्याने आपल्या संतानांमध्ये दीर्घायुष्य, पराक्रम व शुभेच्छा धारण होतील, अशी उपाययोजना करावी. आपल्यर संतानांनी दुष्टांची संगत सोडून श्रेष्ठांची संगत धरावी यासाठी त्यांना प्रवृत्त करावे. धार्मिक आणि आयुष्यमान बनण्यासाठी मदत करावी. ज्यामुळे वृद्धावस्थेतही त्यांनी अप्रिय आचरण करू नये.
३९ पुनन्तु मा
विश्वास-प्रस्तुतिः ...{Loading}...
पु॒नन्तु॑ मा देवज॒नाः पु॒नन्तु॒ मन॑सा॒ धियः॑। पु॒नन्तु॒ विश्वा॑ भू॒तानि॒ जात॑वेदः पुनी॒हि मा॑ ॥३९ ॥
मूलम् ...{Loading}...
पु॒नन्तु॑ मा देवज॒नाः पु॒नन्तु॒ मन॑सा॒ धियः॑। पु॒नन्तु॒ विश्वा॑ भू॒तानि॒ जात॑वेदः पुनी॒हि मा॑ ॥३९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पुनन्तु॑। मा॒। दे॒व॒ज॒ना इति॑ देवऽज॒नाः। पु॒नन्तु॑। मन॑सा। धियः॑। पु॒नन्तु॑। विश्वा॑। भू॒तानि॑। जात॑वेद॒ इति॒ जात॑ऽवेदः। पु॒नी॒हि। मा॒। ३९।
महीधरः
म० अनुष्टुप् देवजनधीविश्वभूतजातवेदोदेवत्या । देवजनाः देवानुगामिनो जना मां पुनन्तु । मनसा सह धियः बुद्धयः कर्माणि वा मां पुनन्तु । विश्वा विश्वानि सर्वाणि भूतानि मां पुनन्तु । हे जातवेदः, त्वमपि मां पुनीहि ॥ ३९ ॥
चत्वारिंशी।
अधिमन्त्रम् (VC)
- विद्वांसो देवता
- वैखानस ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय का अगले मन्त्र में उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (जातवेदः) उत्पन्न हुए जनों में ज्ञानी विद्वन् ! जैसे (देवजनाः) विद्वान् जन (मनसा) विज्ञान और प्रीति से (मा) मुझ को (पुनन्तु) पवित्र करें और हमारी (धियः) बुद्धियों को (पुनन्तु) पवित्र करें और (विश्वा) सम्पूर्ण (भूतानि) भूत=प्राणिमात्र मुझ को (पुनन्तु) पवित्र करें, वैसे आप (मा) मुझ को (पुनीहि) पवित्र कीजिये ॥३९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्वान् पुरुष और विदुषी स्त्रियों का मुख्य कर्त्तव्य यही है कि जो पुत्र और पुत्रियों को ब्रह्मचर्य और सुशिक्षा से विद्वान् और विदुषी, सुन्दर, शीलयुक्त निरन्तर किया करें ॥३९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे जातवेदो विद्वन् ! यथा देवजना मनसा मा पुनन्तु, मम धियश्च पुनन्तु, मम विश्वा भूतानि मा पुनन्तु, तथा त्वं मा पुनीहि ॥३९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - विदुषां विदुषीणां चेदमेव मुख्यं कृत्यमस्ति यत् पुत्राः पुत्र्यश्च ब्रह्मचर्यसुशिक्षाभ्यां विद्वांसः विदुष्यश्च सुशीलाः सततं सम्पादनीया इति ॥३९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - विद्वान पुरुष व विदुषी स्रियांचे हेच मुख्य कर्तव्य आहे की, मुला-मुलींना ब्रह्मचर्य पालन व उत्तम शिक्षण देऊन विद्वान आणि विदुषी करावे व चारित्रवान बनवावे.
४० पवित्रेण पुनीहि
विश्वास-प्रस्तुतिः ...{Loading}...
प॒वित्रे॑ण पुनीहि मा॑ शु॒क्रेण॑ देव॒ दीद्य॑त्। अग्ने॒ क्रत्वा॒ क्रतूँ॒२ऽरनु॑ ॥४० ॥
मूलम् ...{Loading}...
प॒वित्रे॑ण पुनीहि मा॑ शु॒क्रेण॑ देव॒ दीद्य॑त्। अग्ने॒ क्रत्वा॒ क्रतूँ॒२ऽरनु॑ ॥४० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प॒वित्रे॑ण। पु॒नी॒हि॒। मा॒। शु॒क्रेण॑। दे॒व॒। दीद्य॑त्। अग्ने॑। क्रत्वा॑। क्रतू॑न्। अनु॑। ४०।
महीधरः
म० अग्निदेवत्या गायत्री । हे अग्ने हे देव, शुक्रेण शुक्लेन शुद्धेन पवित्रेण मा मां पुनीहि । किंभूतस्त्वम् । दीद्यत् अतिदीव्यतीति दीद्यत् दीप्यमानः । दिवेर्यङ्लुगन्तं रूपम् । किंच हे अग्ने, क्रतूननु अस्माकं यज्ञाननुलक्ष्य क्रत्वा क्रतुना कर्मणा त्वं पुनीहि यज्ञे मां पुनीहि । यद्वा यज्ञान्पुनीहि सम्यक् कारयेत्यर्थः ॥ ४० ॥
एकचत्वारिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वैखानस ऋषिः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (दीद्यत्) प्रकाशमान (देव) विद्या के देनेहारे (अग्ने) विद्वन् ! आप (पवित्रेण) शुद्ध (शुक्रेण) वीर्य=पराक्रम से स्वयं पवित्र होकर (मा) मुझ को इससे (अनु, पुनीहि) पीछे पवित्र कर अपनी (क्रत्वा) बुद्धि वा कर्म से अपनी प्रज्ञा और कर्म को पवित्र करके हमारी (क्रतून्) बुद्धियों वा कर्मों को पुनः-पुनः पवित्र किया करो ॥४० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - पिता, अध्यापक और उपदेशक लोग स्वयं धार्मिक और विद्वान् होकर अपने सन्तानों को भी ऐसे ही धार्मिक योग्य विद्वान् करें ॥४० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे दीद्यद्देवाग्ने ! त्वं पवित्रेण शुक्रेण स्वयं पवित्रो भूत्वा मा माञ्चैतेनानु पुनीहि, स्वस्य क्रत्वा प्रज्ञया कर्मणा वा स्वां प्रज्ञा स्वं कर्म च पवित्रीकृत्यास्माकं क्रतूननु पुनीहि ॥४० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - पित्रध्यापकोपदेशकाः स्वयं धार्मिका विद्वांसो भूत्वा स्वसन्तानानपीदृशानेव योग्यान् धार्मिकान् विदुषः कुर्य्युः ॥४० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - पिता, अध्यापक, उपदेशक यांनी स्वतः धार्मिक व विद्वान बनून आपल्या संतानांनाही धार्मिक व योग्य विद्वान बनवावे.
४१ यत्ते पवित्रमर्चिष्यग्ने
विश्वास-प्रस्तुतिः ...{Loading}...
यत्ते॑ प॒वित्र॑म॒र्चिष्यग्ने॒ वित॑तमन्त॒रा। ब्रह्म॒ तेन॑ पुनातु मा ॥४१ ॥
मूलम् ...{Loading}...
यत्ते॑ प॒वित्र॑म॒र्चिष्यग्ने॒ वित॑तमन्त॒रा। ब्रह्म॒ तेन॑ पुनातु मा ॥४१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यत्। ते॒। प॒वित्र॑म्। अ॒र्चिषि॑। अग्ने॑। वित॑त॒मिति॒ विऽतत॑म्। अ॒न्त॒रा। ब्रह्म॑। तेन॑। पु॒ना॒तु॒। मा॒। ४१।
महीधरः
म० आग्नेयी गायत्री । तृतीयः. पादो ब्रह्मदेवत्यः । हे अग्ने, ते तव अर्चिषि ज्वालायामन्तरा मध्ये यत् ब्रह्म त्रयीरूपं परब्रह्मरूपं वा पवित्रं विततं विस्तृतं प्रसारितं तेन पवित्रेण मा मां भवान् पुनातु ॥४१॥
द्विचत्वारिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वैखानस ऋषिः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को कैसे शुद्ध होना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) स्वप्रकाशस्वरूप जगदीश्वर (ते) तेरे (अर्चिषि) सत्कार करने योग्य शुद्ध तेजःस्वरूप में (अन्तरा) सब से भिन्न (यत्) जो (विततम्) विस्तृत सब में व्याप्त (पवित्रम्) शुद्धस्वरूप (ब्रह्म) उत्तम वेद विद्या है, (तेन) उससे (मा) मुझ को आप (पुनातु) पवित्र कीजिये ॥४१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! तुम लोग जो देवों का देव, पवित्रों का पवित्र, व्याप्तों में व्याप्त अन्तर्यामी ईश्वर और उसकी विद्या वेद है, उसके अनुकूल आचरण से निरन्तर पवित्र हूजिये ॥४१ ॥
दयानन्द-सरस्वती (सं) - विषयः
जनैः कथं शुद्धैर्भवितव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! ते तवार्चिष्यन्तरा यत् विततं पवित्रं ब्रह्मास्ति, तेन मा मां भवान् पुनातु ॥४१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यूयं यो देवानां देवः पवित्राणां पवित्रो व्याप्तेषु व्याप्तोऽन्तर्यामीश्वरस्तद्विद्या वेदश्चाऽस्ति, तदनुकूलाचरणेन सततं पवित्रा भवत ॥४१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! जो देवांचा देव, पवित्रांमध्ये पवित्र, व्याप्तांमध्ये व्याप्त असा अंतर्यामी ईश्वर आहे. त्याची विद्या वेद असून, त्याप्रमाणे आचरण करून सदैव पवित्र बना.
४२ पवमानः सोऽअद्य
विश्वास-प्रस्तुतिः ...{Loading}...
पव॑मानः॒ सोऽअ॒द्य नः॑ प॒वित्रे॑ण॒ विच॑र्षणिः। यः पोता॒ स पु॑नातु मा ॥४२ ॥
मूलम् ...{Loading}...
पव॑मानः॒ सोऽअ॒द्य नः॑ प॒वित्रे॑ण॒ विच॑र्षणिः। यः पोता॒ स पु॑नातु मा ॥४२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पव॑मानः। सः। अ॒द्य। नः॒। प॒वित्रे॑ण। विच॑र्षणि॒रिति॒ विऽच॑र्षणिः। यः। पोता॑। सः। पु॒ना॒तु॒। मा॒। ४२।
महीधरः
म० सोमदेवत्या गायत्री । तृतीयः पादो वायुदेवत्यः। स पवमानः पवतेऽसौ पवमानः शोधकः सोमः अद्यास्मिन् दिने पवित्रेण नोऽस्मान् पुनातु । कीदृशः सोमः । विचर्षणिः विविधं चष्टे विचर्षणिः द्रष्टा कृताकृतज्ञः । यद्वा विशिष्टाः चर्षणयो मनुष्याः ऋत्विजो यस्य सः । किंच यः पोता पुनाति पवते वा पोता वायुः स मा मां पुनातु ॥ ४२ ॥
त्रिचत्वारिंशी।
अधिमन्त्रम् (VC)
- सोमो देवता
- वैखानस ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को पुत्रादि कैसे पवित्र करने चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यः) जो जगदीश्वर (नः) हमारे मध्य में (पवित्रेण) शुद्ध आचरण से (पवमानः) पवित्र (विचर्षणिः) विविध विद्याओं का दाता है, (सः) सो (अद्य) आज हमको पवित्र करनेवाला और हमारा उपदेशक है, (सः) सो (पोता) पवित्रस्वरूप परमात्मा (मा) मुझको (पुनातु) पवित्र करे ॥४२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्य लोग ईश्वर के समान धार्मिक होकर अपने सन्तानों को धर्मात्मा करें, ऐसे किये विना अन्य मनुष्यों को भी वे पवित्र नहीं कर सकते ॥४२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैः पुत्रादयः कथं पवित्राः करणीया इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यो नो मध्ये पवित्रेण पवमानो विचर्षणिरस्ति, सोऽद्यास्माकं पवित्रकर्त्तोपदेशकश्चास्ति, स पोता मा पुनातु ॥४२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्या ईश्वरवद्धार्मिका भूत्वा स्वसन्तानान् धर्मात्मनः कुर्युरीदृशानन्तराऽन्यानपि ते पवित्रयितुं न शक्नुवन्ति ॥४२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी ईश्वराप्रमाणे धार्मिक बनून आपल्या संतानांना धर्मात्मा बनवावे. त्याशिवाय इतर माणसांना ते पवित्र बनवू शकत नाहीत.
४३ उभाभ्यां देव
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒भाभ्यां॑ देव सवितः प॒वित्रे॑ण स॒वेन॑ च। मां पु॑नीहि वि॒श्वतः॑ ॥४३ ॥
मूलम् ...{Loading}...
उ॒भाभ्यां॑ देव सवितः प॒वित्रे॑ण स॒वेन॑ च। मां पु॑नीहि वि॒श्वतः॑ ॥४३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उ॒भाभ्या॑म्। दे॒व॒। स॒वि॒त॒रिति॑ सवितः। प॒वित्रे॑ण। स॒वेन॑। च॒। माम्। पु॒नी॒हि॒। वि॒श्वतः॑। ४३।
महीधरः
म० सवितृदेवत्या गायत्री । हे देव सवितः, उभाभ्यां कृत्वा विश्वतः सर्वतो मां पुनीहि । उभाभ्यां काभ्याम् । पवित्रेण अजाविलोमनिर्मितेन सवेनाभ्यनुज्ञया च त्वदाज्ञया यज्ञसिद्धिरित्यर्थः ॥ ४३ ॥
चतुश्चत्वारिंशी॥
अधिमन्त्रम् (VC)
- सविता देवता
- वैखानस ऋषिः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को अधर्म से कैसे डरना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (देव) सुख के देनेहारे (सवितः) सत्यकर्मों में प्रेरक जगदीश्वर आप (पवित्रेण) पवित्र वर्त्ताव (च) और (सवेन) सकलैश्वर्य्य तथा (उभाभ्याम्) विद्या और पुरुषार्थ से (विश्वतः) सब ओर से (माम्) मुझ को (पुनीहि) पवित्र कीजिये ॥४३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जो ईश्वर सब मनुष्यों को शुद्धि और धर्म को ग्रहण कराता है, उसी का आश्रय करके अधर्माचरण से सदा भय किया करो ॥४३ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यैरधर्मात् कथं भेत्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे देव सवितर्जगदीश्वर ! त्वं पवित्रेण सवेन चोभाभ्यां विश्वतो मां पुनीहि ॥४३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! य ईश्वरः सर्वान् शुद्धिं धर्मं च ग्राहयति, तमाश्रित्याऽधर्माचरणात् सदा भयं कुरुत ॥४३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! जो ईश्वर सर्व माणसांना पवित्र करतो व धर्मात प्रवृत्त करतो त्याचाच आश्रय घेऊन अधर्माचरणाचे सदैव भय बाळगावे.
४४ वैश्वदेवी पुनती
विश्वास-प्रस्तुतिः ...{Loading}...
वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्यागा॒द् यस्या॑मि॒मा ब॒ह्व्य᳖स्त॒न्वो᳖ वी॒तपृ॑ष्ठाः। तया॒ मद॑न्तः सध॒मादे॑षु व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ॥४४ ॥
मूलम् ...{Loading}...
वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्यागा॒द् यस्या॑मि॒मा ब॒ह्व्य᳖स्त॒न्वो᳖ वी॒तपृ॑ष्ठाः। तया॒ मद॑न्तः सध॒मादे॑षु व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ॥४४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वै॒श्व॒दे॒वीति॑ वैश्वऽदे॒वी। पु॒न॒ती। दे॒वी। आ। अ॒गा॒त्। यस्या॑म्। इ॒माः। ब॒ह्व्यः᳖। त॒न्वः᳖। वी॒तपृ॑ष्ठा॒ इति॑ वी॒तऽपृ॑ष्ठाः। तया॑। मद॑न्तः। स॒ध॒मादे॒ष्विति॑ सध॒ऽमादे॑षु। व॒यम्। स्या॒म॒। पत॑यः। र॒यी॒णाम्। ४४।
महीधरः
म० विश्वदेवदेवत्या त्रिष्टुप् । इयं प्रवह्लिका अज्ञाताभिधेया । ततः कांचिद्देवतामुद्दिश्य व्याख्यास्यामः । दक्षिणाग्नेरुपरि शतातृण्णा कुम्भी क्षरति तां सौत्रामणीं वा वाचं वा उखां वा। देवी द्योतमाना सुराकुम्भी आगता । कीदृशी । वैश्वदेवी विश्वेभ्यः सर्वेभ्यो हिता वैश्वदेवी विश्वेभ्यो देवेभ्य आगता वा । पुनती पावनं कुर्वती । यस्यां कुम्भ्यामिमाः प्रत्यक्षतो दृश्यमानाः बह्व्यो बहुसंख्याकाः तन्वः शरीरप्राया धाराः वर्तन्ते । कीदृश्यस्तन्वः । वीतपृष्ठाः वीतमिष्टं पृष्ठं स्वरूपं यासां ताः कामितशरीराः सुराधाराः सुरैः काम्यन्ते । तया कुम्भ्या सधमादेषु यज्ञस्थानेषु मदन्तो मोदमानाः सन्तो वयं रयीणां धनानां पतयः स्याम भवेम । सह माद्यन्ति देवा येषु ते सधमादाः ‘सध मादस्थयोश्छन्दसि’ (पा० ६ । ३।९६) इति सहस्य सधादेशः ॥ ४४ ॥
पञ्चचत्वारिंशी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- वैखानस ऋषिः
- विराट् त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
राजा को कैसे राज्य बढ़ाना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (वैश्वदेवी) सब विदुषी स्त्रियों में उत्तम (पुनती) सब की पवित्रता करती हुई (देवी) सकल विद्या और धर्म के आचरण से प्रकाशमान विद्याओं की पढ़ानेहारी ब्रह्मचारिणी कन्या हमको (आ, अगात्) प्राप्त होवे (यस्याम्) जिसके होने में (इमाः) ये (बह्व्यः) बहुत-सी (तन्वः) विस्तृत विद्यायुक्त (वीतपृष्ठाः) विविध प्रश्नों को जाननेहारी हों (तया) उससे अच्छी शिक्षा को प्राप्त भार्य्याओं को प्राप्त होकर (वयम्) हम लोग (सधमादेषु) समान स्थानों में (मदन्तः) आनन्दयुक्त हुए (रयीणाम्) धनादि ऐश्वर्यों के (पतयः) स्वामी (स्याम) होवें ॥४४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे राजा सब कन्याओं को पढ़ाने के लिये पूर्ण विद्यावाली स्त्रियों को नियुक्त करके सब बालिकाओं को पूर्णविद्या और सुशिक्षायुक्त करे, वैसे ही बालकों को भी किया करे। जब ये सब पूर्ण युवावस्थावाले हों, तभी स्वयंवर विवाह करावे, ऐसे राज्य की वृद्धि को सदा किया करे ॥४४ ॥
दयानन्द-सरस्वती (सं) - विषयः
कथं राज्ञा राज्यं वर्द्धनीयमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! या वैश्वदेवी पुनती देव्यध्यापिका ब्रह्मचारिणी कन्यास्मानागात्, यस्यां सत्यामिमां बह्व्यस्तन्वो वीतपृष्ठाः स्युस्तया सुशिक्षिता भार्य्याः प्राप्य वयं सधमादेषु मदन्तो रयीणां पतयः स्याम ॥४४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यथा राजा सर्वकन्याऽध्यापनाय पूर्णविद्यावतीः स्त्रीर्नियोज्य सर्वा बालिकाः पूर्णविद्यासुशिक्षायुक्ताः कुर्यात्, तथैव बालकानपि कुर्य्याद्, यदैते यौवनस्थाः स्युस्तदैव स्वयंवरं विवाहं कारयेदेवं राज्यवृद्धिं सदा कुर्य्यात् ॥४४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजाने सर्व मुलींना शिकविण्यासाठी पूर्ण विदुषी स्रियांना नियुक्त करून सर्व मुलींना पूर्ण विद्यायुक्त व सुशिक्षित करावे, तसे मुलांनाही करावे. जेव्हा त्यांना पूर्ण युवावस्था प्राप्त होईल तेव्हाच त्यांनी स्वयंवर विवाह करावा. याप्रमाणे सदैव राज्याची वृद्धी करावी.
४५ ये समानाः
विश्वास-प्रस्तुतिः ...{Loading}...
ये स॑मा॒नाः सम॑नसः पि॒तरो॑ यम॒राज्ये॑। तेषां॑ लो॒कः स्व॒धा नमो॑ य॒ज्ञो दे॒वेषु॑ कल्पताम् ॥४५ ॥
मूलम् ...{Loading}...
ये स॑मा॒नाः सम॑नसः पि॒तरो॑ यम॒राज्ये॑। तेषां॑ लो॒कः स्व॒धा नमो॑ य॒ज्ञो दे॒वेषु॑ कल्पताम् ॥४५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ये। स॒मा॒नाः। सम॑नस॒ इति॒ सऽम॑नसः। पि॒तरः॑। य॒म॒राज्य॒ इति॑ यम॒ऽराज्ये॑। तेषा॑म्। लो॒कः। स्व॒धा। नमः॑। य॒ज्ञः। दे॒वेषु॑। क॒ल्प॒ता॒म्। ४५।
महीधरः
म० ‘ये समाना इति यजमानो जुहोति’ ( का० १९ । ३ । २३ ) । सकृद्गृहीतमाज्यं दक्षिणेऽग्नौ प्राचीनावीती दक्षिणामुखो यजमानो जुह्वा जुहोतीत्यर्थः । द्वे अनुष्टुभौ । आद्या पितृदेवत्या । यमराज्ये यमस्य राज्यं यस्मिन् तत्र यमलोके ये पितरो वर्तन्ते ‘धर्मराजः पितृपतिः’ इत्यभिधानात् । कीदृशाः पितरः । समानाः जातिरूपादिभिस्तुल्याः । समनसः समानं मनो येषां ते तुल्यमनस्काः ‘समानस्य छन्दसि’ (पा. ६ । ३ । ८४ ) इति समानस्य सादेशः। तेषां पितॄणां लोकः। विभक्तिव्यत्ययः । लोके स्वधा नमः स्वधाशब्दोपलक्षितं | नमोऽन्नमस्तु । यद्वान्नं नमस्कारश्चास्तु । यज्ञस्तु देवेषु कल्पतां देवांस्तर्पयितुं समर्थो भवत्वित्यर्थः ॥ ४५ ॥
षट्चत्वारिंशी।
अधिमन्त्रम् (VC)
- पितरो देवताः
- वैखानस ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
कहाँ मनुष्य सुखपूर्वक निवास करते हैं, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ये) जो (समानाः) सदृश (समनसः) तुल्य विज्ञानयुक्त (पितरः) प्रजा के रक्षक लोग (यमराज्ये) यथावत् न्यायकारी सभाधीश राजा के राज्य में हैं, (तेषाम्) उनका (लोकः) सभा का दर्शन (स्वधा) अन्न (नमः) सत्कार और (यज्ञः) प्राप्त होने योग्य न्याय (देवेषु) विद्वानों में (कल्पताम्) समर्थ होवे ॥४५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जहाँ बहुदर्शी अन्नादि ऐश्वर्य से संयुक्त सज्जनों से सत्कार को प्राप्त एक धर्म ही में जिनकी निष्ठा है, उन विद्वानों की सभा सत्यन्याय को करती है, उसी राज्य में सब मनुष्य ऐश्वर्य्य और सुख में निवास करते हैं ॥४५ ॥
दयानन्द-सरस्वती (सं) - विषयः
कुत्र जनाः सुखं निवसन्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये समानाः समनसः पितरो यमराज्ये सन्ति, तेषां लोकः स्वधा नमो यज्ञश्च देवेषु कल्पताम् ॥४५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यत्र बहुदर्शिनामन्नाद्यैश्वर्ययुक्तानां सज्जनैः सत्कृतानां धर्मैकनिष्ठानां विदुषां सभा सत्यं न्यायं करोति, तत्रैव सर्वे मनुष्या ऐश्वर्ये सुखे च निवासं कुर्वन्ति ॥४५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जेथे बहुदर्शी अशा सज्जनांचा अन्नादी पदार्थांनी सत्कार होतो व ज्यांची एका धर्मात निष्ठा असते त्या विद्वानांची सभा खरा न्याय करते. त्याच राज्यात सर्व माणसांना ऐश्वर्य व सुख प्राप्त होते.
४६ ये समानाः
विश्वास-प्रस्तुतिः ...{Loading}...
ये स॑मा॒नाः सम॑नसो जी॒वा जी॒वेषु॑ माम॒काः। तेषाँ॒ श्रीर्मयि॑ कल्पता॒मस्मिल्ँ लो॒के श॒तँ समाः॑ ॥४६ ॥
मूलम् ...{Loading}...
ये स॑मा॒नाः सम॑नसो जी॒वा जी॒वेषु॑ माम॒काः। तेषाँ॒ श्रीर्मयि॑ कल्पता॒मस्मिल्ँ लो॒के श॒तँ समाः॑ ॥४६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ये। स॒मा॒नाः। सम॑नस॒ इति॒ सऽम॑नसः। जी॒वाः। जी॒वेषु॑। मा॒म॒काः। तेषा॑म्। श्रीः। मयि॑। क॒ल्प॒ता॒म्। अ॒स्मिन्। लो॒के। श॒तम्। समाः॑। ४६।
महीधरः
म०. ‘उत्तरे यज्ञोपवीत्युत्तरया’ (का० १९ । ३ । २४)। उत्तरे उत्तरवेद्याहवनीये कृतसव्यो यजमान उत्तरयाग्रिमया ऋचाज्यं जुहोतीत्यर्थः । यजमानाशीः श्रीदेवत्या । जीवन्तीति जीवास्तेषु जीवेषु प्राणिषु मध्ये ये समानाः समनसः समनस्काः मामका मदीया जीवाः प्राणिनः । सपिण्डाः ये मे ते मामकाः ‘तवकममकावेकवचने’ (पा० ४ । ३ । ३) इति अस्मदो ममकादेशः । अस्मिन् लोके भूलोके शतं समाः शतवर्षपर्यन्तं तेषां मामकानां जीवानां श्रीर्मयि कल्पतां तांस्त्यक्त्वा मयि कलृप्ता भवतु । मामाश्रयतामित्यर्थः । गोत्रिणो हि पापात्मानः सहजाः शत्रवोऽत एवं प्रार्थ्यते ॥ ४६॥
सप्तचत्वारिंशी।
अधिमन्त्रम् (VC)
- श्रीर्देवता
- वैखानस ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
माता-पिता और सन्तान आपस में कैसे वर्त्तें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ये) जो (अस्मिन्) इस (लोके) लोक में (जीवेषु) जीवते हुओं में (समानाः) समान गुण-कर्म-स्वभाववाले (समनसः) समान धर्म में मन रखनेहारे (मामकाः) मेरे (जीवाः) जीते हुए पिता आदि हैं, (तेषाम्) उन की (श्रीः) लक्ष्मी (मयि) मेरे समीप (शतम्) सौ (समाः) वर्षपर्यन्त (कल्पताम्) समर्थ होवे ॥४६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सन्तान लोग जब तक पिता आदि जीवें, तब तक उनकी सेवा किया करें। पुत्र लोग जब तक पिता आदि की सेवा करें, तब तक वे सत्कार के योग्य होवें और जो पिता आदि का धनादि वस्तु हो, वह पुत्रों और जो पुत्रों का हो वह पिता आदि का रहे ॥४६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पितृसन्तानाः परस्परं कथं वर्त्तेरन्नित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - येऽस्मिल्ँ लोके जीवेषु समानाः समनसो मामका जीवास्सन्ति, तेषां श्रीर्मयि शतं समाः कल्पताम् ॥४६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सन्ताना यावत् पितरो जीवेयुस्तावत् तान् सेवन्ताम्। पुत्रा यावत् पितृसेवकाः स्युस्तावत् ते सत्कर्त्तव्याः स्युर्यत् पितॄणां धनादिवस्तु तत्पुत्राणां यत्पुत्राणां तत्पितॄणाञ्चास्तु ॥४६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जिवंत असेपर्यंत पित्याची संतानांनी सेवा करावी. जोपर्यंत ते सेवा करतात तोपर्यंत ते मान देण्यायोग्य असतात. पित्याच्या धनावर पुत्राचा अधिकार असावा व जे पुत्रांचे असेल त्यात पित्याचाही भाग असावा.
४७ द्वे सृतीऽअशृणवम्
विश्वास-प्रस्तुतिः ...{Loading}...
द्वे सृ॒तीऽअ॑शृणवं पितॄ॒णाम॒हं दे॒वाना॑मु॒त मर्त्या॑नाम्। ताभ्या॑मि॒दं विश्व॒मेज॒त्समे॑ति॒ यद॑न्त॒रा पि॒तरं॑ मा॒तरं॑ च ॥४७ ॥
मूलम् ...{Loading}...
द्वे सृ॒तीऽअ॑शृणवं पितॄ॒णाम॒हं दे॒वाना॑मु॒त मर्त्या॑नाम्। ताभ्या॑मि॒दं विश्व॒मेज॒त्समे॑ति॒ यद॑न्त॒रा पि॒तरं॑ मा॒तरं॑ च ॥४७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
द्वेऽइति॒ द्वे। सृ॒तीऽइति॑ सृ॒ती। अ॒शृ॒ण॒व॒म्। पि॒तॄ॒णाम्। अ॒हम्। दे॒वाना॑म्। उ॒त। मर्त्या॑नाम्। ताभ्या॑म्। इ॒दम्। विश्व॑म्। एज॑त्। सम्। ए॒ति॒। यत्। अ॒न्त॒रा। पि॒तर॑म्। मा॒तर॑म्। च॒। ४७।
महीधरः
म० ‘अन्वारब्धेषु पयो जुहोति द्वे सृती इति’ (का० १९ । ३ । २५)। ऋत्विग्यजमानेषु कृतान्वारम्भेषु अध्वर्युः पयोजुहोतीत्यर्थः। देवयानपितृयाणमार्गदेवत्या त्रिष्टुप् । मर्त्यानां मरणधर्मिणां प्राणिनां द्वे सृती द्वौ मार्गौ अहमशृणवं श्रुतवानस्मि श्रुतितः । स एष देवयानो वा पितृयाणो वा पन्था’ इति श्रुतेः । के द्वे सृती अत आह । देवानां मार्ग एकः उतापि च पितॄणाम् देवमार्गः पितृमार्गश्चेति । पितरं मातरम् द्यौः पिता पृथिवी माता । ‘असौ वै पितेयं माता’ (१२ । ८ । १।२१) इति श्रुतेः । पितरं मातरं च अन्तरा भूलोकद्युलोकयोर्मध्ये तत् एजत् कम्पमानं क्रियावत् विश्वं सर्वमिदं ताभ्यां सृतिभ्यां देवयानपितृयाणाभ्यां समेति संगच्छते ताभ्यां सृतिभ्यां सुहुतमस्तु ॥ ४७ ॥
अष्टचत्वारिंशी।
अधिमन्त्रम् (VC)
- पितरो देवताः
- वैखानस ऋषिः
- स्वराट् पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
जीवों के दो मार्ग हैं, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (अहम्) मैं जो (पितॄणाम्) पिता आदि (मर्त्यानाम्) मनुष्यों (च) और (देवानाम्) विद्वानों की (द्वे) दो गतियों (सृती) जिनमें आते-जाते अर्थात् जन्म-मरण को प्राप्त होते हैं, उनको (अशृणवम्) सुनता हूँ (ताभ्याम्) उन दोनों गतियों से (इदम्) यह (विश्वम्) सब जगत् (एजत्) चलायमान हुआ (समेति) अच्छे प्रकार प्राप्त होता है (उत) और (यत्) जो (पितरम्) पिता और (मातरम्) माता से (अन्तरा) पृथक् होकर दूसरे शरीर से अन्य माता-पिता को प्राप्त होता है, सो यह तुम लोग जानो ॥४७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - दो ही जीवों की गति हैं−एक माता-पिता से जन्म को प्राप्त होकर संसार में विषय-सुख के भोगरूप और दूसरी विद्वानों के सङ्ग आदि से मुक्ति-सुख के भोगरूप है। इन दोनों गतियों के साथ ही सब प्राणी विचरते हैं ॥४७ ॥
दयानन्द-सरस्वती (सं) - विषयः
जीवानां द्वौ मार्गौ स्त इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! अहं ये पितॄणां मर्त्यानां देवानां च द्वे सृती अशृणवं शृणोमि, ताभ्यामिदं विश्वमेजत्समेत्युत यत् पितरं मातरमन्तरा शरीरान्तरेणान्यौ मातापितरौ प्राप्नोति, तदेतद् यूयं विजानीत ॥४७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - द्वे एव जीवानां गती वर्त्तेते, एका मातापितृभ्यां जन्म प्राप्य संसारे विषयसुखभोगरूपा, द्वितीया विद्वत्सङ्गादिना मुक्तिसुखभोगाख्याऽस्ति, आभ्यां सहैव सर्वे प्राणिनश्चरन्ति ॥४७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जीवाची गती दोन प्रकारची असते. एक माता व पिता यांच्या पोटी जन्म घेऊन सांसारिक विषयसुख भोगरूपी गती व दुसरी विद्वानांच्या संगतीने मुक्ती सुखरूपी गती. या दोन गतीमध्येच सर्व प्राणी फिरत असतात.
४८ इदं हविः
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒दँ ह॒विः प्र॒जन॑नं मेऽअस्तु॒ दश॑वीरँ॒ सर्व॑गणँ स्व॒स्तये॑। आ॒त्म॒सनि॑ प्रजा॒सनि॑ पशु॒सनि॑ लोक॒सन्य॑भय॒सनि॑। अ॒ग्निः प्र॒जां ब॑हु॒लां मे॑ करो॒त्वन्नं॒ पयो॒ रेतो॑ऽअ॒स्मासु॑ धत्त ॥४८ ॥
मूलम् ...{Loading}...
इ॒दँ ह॒विः प्र॒जन॑नं मेऽअस्तु॒ दश॑वीरँ॒ सर्व॑गणँ स्व॒स्तये॑। आ॒त्म॒सनि॑ प्रजा॒सनि॑ पशु॒सनि॑ लोक॒सन्य॑भय॒सनि॑। अ॒ग्निः प्र॒जां ब॑हु॒लां मे॑ करो॒त्वन्नं॒ पयो॒ रेतो॑ऽअ॒स्मासु॑ धत्त ॥४८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इ॒दम्। ह॒विः। प्र॒जन॑न॒मिति॒ प्र॒ऽजन॑नम्। मे॒। अ॒स्तु॒। दश॑वीर॒मिति॒ दश॑ऽवीरम्। सर्व॑ऽगणम्। स्व॒स्तये॑। आ॒त्म॒सनीत्या॑त्म॒ऽसनि॑। प्र॒जा॒सनीति॑ प्रजा॒ऽसनि॑। प॒शु॒सनीति॑ पशु॒ऽसनि॑। लो॒क॒सनीति॑ लोक॒ऽसनि॑। अ॒भ॒य॒सनीत्य॑भय॒ऽ सनि॑। अ॒ग्निः। प्र॒जामिति॑ प्र॒ऽजाम्। ब॒हु॒लाम्। मे॒। क॒रो॒तु॒। अन्न॑म्। पयः॑। रेतः॑। अ॒स्मासु॑। ध॒त्त॒। ४८।
महीधरः
म० सोमवतां बर्हिषदाममग्निष्वात्तानां च’ ( का० १९ ॥३ । २१)। उदीरतामित्यादित्रयोदशर्चोऽनुवाकः तत्र । उदीरताम् ( ४९ ) अङ्गिरसः (५०) ये नः (५१) इति ऋक्त्रयस्याग्निष्वात्ता (६१) नित्यन्त्यायाश्च विनियोगः कल्पकृतोक्तः। त्वं सोम (५२) इति तृचं सोमवताम् बर्हिषद (५५) इति तृचं बर्हिषदाम् आयन्तु न (५८) इति तृचमग्निष्वात्तानाम् पुनन्तु ( ३९) इति नवर्चवाचनानन्तरं त्वं सोमेत्यादि (६२) तन्वं कल्पयातीत्यन्तं नवर्चं प्रत्यृचमध्वर्युर्यजमानेन वाचयतीत्यर्थः । त्रयोदश शङ्खदृष्टाः पितृदेवत्याः । एकादशी अग्निष्वात्ताः पितरः (५९) इयं जगती अन्या द्वादश त्रिष्टुभः । अवरे अस्मिन् लोकेऽवस्थिताः पितरः उदीरताम् ऊर्ध्वं क्रमन्ताम् ऊर्ध्वलोकं गच्छन्तु । ‘ईर कम्पने’ अदादिः लोट् । परासः पराः परस्मिन् लोके स्थिताः पितर उदीरतां तस्मादपि स्थानात् परं स्थानं गच्छतु । उन्मध्यमाः मध्ये भवा मध्यमाः पितरः उदीरताम् । कीदृशाः पितरः । सोम्यासः सोमं संपादयन्ति ते सोम्याः। ये च असुं प्राणमीयुः वातात्मानो वातरूपं प्राप्तास्ते पितरो हवेषु आह्वानेषु नोऽस्मानवन्तु रक्षन्तु । कीदृशाः। अवृकाः नास्ति वृकः शत्रुर्येषां ते उदासीनाः ऋतज्ञाः सत्यज्ञा यज्ञज्ञा वा स्वाध्यायनिष्ठा वा ॥ ४९ ॥
पञ्चाशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वैखानस ऋषिः
- निचृदष्टिः
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
सन्तानों को क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अग्निः) अग्नि के समान प्रकाशमान पति (मे) मेरे लिये (बहुलाम्) बहुत सुख देनेवाली (प्रजाम्) प्रजा को (करोतु) करे, (मे) मेरा जो (इदम्) यह (प्रजननम्) उत्पत्ति करने का निमित्त (हविः) लेने-देने योग्य (दशवीरम्) दश सन्तानों का उत्पन्न करनेहारा (सर्वगणम्) सब समुदायों से सहित (आत्मसनि) जिससे आत्मा का सेवन (प्रजासनि) प्रजा का सेवन (पशुसनि) पशु का सेवन (लोकसनि) लोकों का अच्छे प्रकार सेवन और (अभयसनि) अभय का दानरूप कर्म होता है, उस सन्तान को करे। वह (स्वस्तये) सुख के लिये (अस्तु) होवे। हे माता-पिता आदि लोगो ! आप (अस्मासु) हमारे बीच में प्रजा (अन्नम्) अन्न (पयः) दूध और (रेतः) वीर्य को (धत्त) धारण करो ॥४८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो स्त्री-पुरुष पूर्ण ब्रह्मचर्य से सकल विद्या की शिक्षाओं का संग्रह कर, परस्पर प्रीति से स्वयंवर विवाह करके ऋतुगामी होकर विधिपूर्वक प्रजा की उत्पत्ति करते हैं, उनकी वह प्रजा शुभगुणयुक्त होकर माता-पिता आदि को निरन्तर सुखी करती है ॥४८ ॥
दयानन्द-सरस्वती (सं) - विषयः
सन्तानैः किं कर्त्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - अग्निर्मे बहुलां प्रजां करोतु मे यदिदं प्रजननं हविर्दशवीरं सर्वगणमात्मसनि प्रजासनि पशुसनि लोकसन्यभयसन्यपत्यं करोतु, तत् स्वस्तयेऽस्तु। हे मातापित्रादयो यूयमस्मासु प्रजामन्नं पयो रेतो धत्त ॥४८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये स्त्रीपुरुषाः पूर्णेन ब्रह्मचर्येण सर्वा विद्याशिक्षाः सङ्गृह्य परस्परं प्रीत्या स्वयंवरं विवाहं कृत्वा ऋतुगामिनो भूत्वा विधिवत् प्रजामुत्पादयन्ति, तेषां सा प्रजा शुभगुणयुक्ता भूत्वा पितॄन् सततं सुखयति ॥४८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे स्री-पुरुष पूर्ण ब्रह्मचर्य पालन करून संपूर्ण विद्यांचे शिक्षण घेतात व परस्पर प्रीतीने स्वयंवर विवाह करतात आणि ऋतुगामी बनून विधिपूर्वक संतती निर्माण करतात. त्यांची संतती शुभगुणयुक्त बनून माता व पित इत्यादींना सुखी करते.
४९ उदीरतामवरऽउत्परासऽउन्मध्यमाः पितरः
विश्वास-प्रस्तुतिः ...{Loading}...
उदी॑रता॒मव॑र॒ऽउत्परा॑स॒ऽउन्म॑ध्य॒माः पि॒तरः॑ सो॒म्यासः॑। असुं॒ यऽई॒युर॑वृ॒काऽऋ॑त॒ज्ञास्ते नो॑ऽवन्तु पि॒तरो॒ हवे॑षु ॥४९ ॥
मूलम् ...{Loading}...
उदी॑रता॒मव॑र॒ऽउत्परा॑स॒ऽउन्म॑ध्य॒माः पि॒तरः॑ सो॒म्यासः॑। असुं॒ यऽई॒युर॑वृ॒काऽऋ॑त॒ज्ञास्ते नो॑ऽवन्तु पि॒तरो॒ हवे॑षु ॥४९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उत्। ई॒र॒ता॒म्। अव॑रे। उत्। परा॑सः। उत्। म॒ध्य॒माः। पि॒तरः॑। सो॒म्यासः॑। असु॑म्। ये। ई॒युः। अ॒वृ॒काः। ऋ॒त॒ज्ञा इत्यृ॑त॒ऽज्ञाः। ते। नः॒। अ॒व॒न्तु॒। पि॒तरः॑। हवे॑षु। ४९।
महीधरः
म० ये नोऽस्माकं पितरः तेषां सुमतौ शोभनबुद्धौ वयं स्याम भवेम । अस्तेर्लिङ् तेऽस्मासु सुमतिं कुर्वन्त्वित्यर्थः । तेषां भद्रे कल्याणकारिणि सौमनसे शोभनमनस्त्वेऽपि वयं स्याम । सुमनसो भावः सौमनसम् । अस्मासु कल्याणं मनः कुर्वन्त्वित्यर्थः । कीदृशानां तेषाम् । यज्ञियानां यज्ञे हिता यज्ञियाः यज्ञसंपादिनः । कीदृशाः पितरः । अङ्गिरसः अङ्गिरसो बहून्यपत्यानि अङ्गिरसः बहुत्वे तद्धितलोपः । नवा नूतना ग्वा गतिर्येषां ते नवा नवनीया स्तोतव्या ग्वा येषामिति वा । अथर्वाणः अथर्वणो मुनेर्बहून्यपत्यानि । भृगवः भृगोरपत्यानि । सोम्यासः | ‘सोममर्हति यः’ (पा० ४ । ४ । १३७ ) इति यः सोमसंपादिनः ॥५०॥
एकपञ्चाशी।
अधिमन्त्रम् (VC)
- पितरो देवताः
- शङ्ख ऋषिः
- विराट् त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
पिता आदि को कैसे होकर क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (ये) जो (अवृकाः) चौर्यादि दोषरहित (ऋतज्ञाः) सत्य के जाननेहारे (पितरः) पिता आदि बड़े लोग (हवेषु) संग्रामादि व्यवहारों में (असुम्) प्राण को (उदीयुः) उत्तमता से प्राप्त हों, (ते) वे (नः) हमारी (उत्, अवन्तु) उत्कृष्टता से रक्षा करें और जो (सोम्यासः) शान्त्यादिगुणसम्पन्न (अवरे) प्रथम अवस्था युक्त (परासः) उत्कृष्ट अवस्थावाले (मध्यमाः) बीच के विद्वान् (पितरः) पिता आदि लोग हैं, वे हमको संग्रामादि कामों में (उदीरताम्) अच्छे प्रकार प्रेरणा करें ॥४९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो जीते हुए प्रथम-मध्यम और उत्तम, चोरी आदि दोषरहित, जानने के योग्य, विद्या को जाननेहारे, तत्त्वज्ञान को प्राप्त विद्वान् लोग हैं, वे विद्या के अभ्यास और उपदेश से सत्य धर्म के ग्रहण करानेहारे कर्म से बाल्यावस्था में विवाह का निषेध करके सब प्रजाओं को पालें ॥४९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पितृभिः किम्भूतैः किं कार्य्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! येऽवृका ऋतज्ञाः पितरो हवेष्वसुमुदीयुस्ते न उदवन्तु, ये सोम्यासोऽवरे परासो मध्यमाः पितरसन्ति, तेऽस्मान् हवेषूदीरताम् ॥४९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये जीवन्तो निकृष्टमध्यमोत्तमाः स्तेयादिदोषरहिता विदितवेदितव्या अधिगतयाथातथ्या विद्वांसस्सन्ति, ते विद्याभ्यासोपदेशाभ्यां सत्यधर्मग्राहकत्वेन बाल्यावस्थायां विवाहनिषेधेन सर्वाः प्रजाः पालयन्तु ॥४९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - चोरी वगैरे दोषांनी रहित असे अजिंक्य तत्त्वज्ञानी, विद्वान लोक प्रथम, मध्यम व उत्तम अशा तीन प्रकारचे असून, योग्य विद्या जाणणारे असतात. त्यांनी विद्याभ्यासाने व उपदेशाने सत्य धर्माचे ग्रहण करून बाल्यावस्थेतील विवाहाचा निषेध करावा व सर्व लोकांचे पालन करावे किंवा त्यांना योग्य मार्गदर्शन करावे.
५० अङ्गिरसो नः
विश्वास-प्रस्तुतिः ...{Loading}...
अङ्गि॑रसो नः पि॒तरो॒ नव॑ग्वा॒ऽअथ॑र्वाणो॒ भृग॑वः सो॒म्यासः॑। तेषां॑ व॒यँ सु॑म॒तौ य॒ज्ञिया॑ना॒मपि॑ भ॒द्रे सौमन॒से स्या॑म ॥५० ॥
मूलम् ...{Loading}...
अङ्गि॑रसो नः पि॒तरो॒ नव॑ग्वा॒ऽअथ॑र्वाणो॒ भृग॑वः सो॒म्यासः॑। तेषां॑ व॒यँ सु॑म॒तौ य॒ज्ञिया॑ना॒मपि॑ भ॒द्रे सौमन॒से स्या॑म ॥५० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अङ्गि॑रसः। नः॒। पि॒तरः॑। नव॑ग्वा॒ इति॒ नव॑ऽग्वाः। अथ॑र्वाणः। भृग॑वः। सो॒म्यासः॑। तेषा॑म्। व॒यम्। सु॒म॒ताविति॑ सुऽम॒तौ। य॒ज्ञिया॑नाम्। अपि॑। भ॒द्रे। सौ॒म॒न॒से। स्या॒म॒। ५०।
महीधरः
म० नोऽस्माकं ये पूर्वे पितरः सोमपीथं सोमपानमनूहिरे अनुवहन्तिस्म देवान् प्रापितवन्तः । कीदृशाः । सोम्यासः सोमसंपादिनः । वसिष्ठाः वसिष्ठस्य गोत्रापत्यानि । यमः तेभिः तैः पितृभिः संरराणः प्रीयमाणः सन् प्रतिकामं हवींषि अत्तु भक्षयतु । ‘रा दाने’ शानच्प्रत्ययः । कीदृशो यमः । उशन् वष्टि कामयत इत्युशन् कामयमानः । कीदृशैः तैः । उशद्भिः उशन्ति ते उशन्तः तैः कामयमानैः ‘वश कान्तौ शतृप्रत्ययः ॥५१॥
द्विपञ्चाशी।
अधिमन्त्रम् (VC)
- पितरो देवताः
- शङ्ख ऋषिः
- विराट् त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
माता-पिता और सन्तानों को परस्पर कैसे वर्त्तना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (नः) हमारे (अङ्गिरसः) सब विद्याओं के सिद्धान्तों को जानने और (नवग्वाः) नवीन ज्ञान के उपदेशों को करानेहारे (अथर्वाणः) अहिंसक (भृगवः) परिपक्वविज्ञानयुक्त (सोम्यासः) ऐश्वर्य पाने योग्य (पितरः) पितादि ज्ञानी लोग हैं, (तेषाम्) उन (यज्ञियानाम्) उत्तम व्यवहार करनेहारों की (सुमतौ) सुन्दर प्रज्ञा और (भद्रे) कल्याणकारक (सौमनसे) प्राप्त हुए श्रेष्ठ बोध में (वयम्) हम लोग प्रवृत्त (स्याम) होवें, वैसे तुम (अपि) भी होओ ॥५० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सन्तानों को योग्य है कि जो-जो पिता आदि बड़ों का धर्मयुक्त कर्म होवे, उस-उस का सेवन करें और जो-जो अधर्मयुक्त हो, उस-उस को छोड़ देवें, ऐसे ही पिता आदि बड़े लोग भी सन्तानों के अच्छे-अच्छे गुणों का ग्रहण और बुरों का त्याग करें ॥५० ॥
दयानन्द-सरस्वती (सं) - विषयः
पितृसन्तानैरितरेतरं कथं वर्त्तितव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! ये नोऽङ्गिरसो नवग्वा अथर्वाणो भृगवः सोम्यासः पितरः सन्ति, तेषां यज्ञियानां सुमतौ भद्रे सौमनसे वयं प्रवृत्तास्स्यामैवं यूयमपि भवत ॥५० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अपत्यैर्यद्यत् पितॄणां धर्म्यं कर्म तत्तत् सेवनीयं यद्यदधर्म्यं तत्तत् त्यक्तव्यं पितृभिरप्येवं समाचरणीयम् ॥५० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - संतानांनी पिता वगैरेंचे जे धर्मयुक्त कर्म असेल ते स्वीकारावे व जे अधर्मयुक्त असेल ते सोडून द्यावे, तसेच पिता वगैरे मोठ्या माणसांनी संतानांचे चांगले गुण स्वीकारावे व वाईटाचा त्याग करावा.
५१ ये नः
विश्वास-प्रस्तुतिः ...{Loading}...
ये नः॒ पूर्वे॑ पि॒तरः॑ सो॒म्यासो॑ऽनूहि॒रे सो॑मपी॒थं वसि॑ष्ठाः। तेभि॑र्य॒मः सँ॑ररा॒णो ह॒वीँष्यु॒शन्नु॒शद्भिः॑ प्रतिका॒म॑मत्तु ॥५१ ॥
मूलम् ...{Loading}...
ये नः॒ पूर्वे॑ पि॒तरः॑ सो॒म्यासो॑ऽनूहि॒रे सो॑मपी॒थं वसि॑ष्ठाः। तेभि॑र्य॒मः सँ॑ररा॒णो ह॒वीँष्यु॒शन्नु॒शद्भिः॑ प्रतिका॒म॑मत्तु ॥५१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ये। नः॒। पूर्वे॑। पि॒तरः॑। सो॒म्यासः॑। अ॒नू॒हि॒र इत्य॑नुऽऊहि॒रे। सो॒म॒पी॒थमिति॑। सोमऽपी॒थम्। वसि॑ष्ठाः। तेभिः॑। य॒मः। सँ॒र॒रा॒ण इति॑ सम्ऽररा॒णः। ह॒वीँषि॑। उ॒शन्। उ॒शद्भिरित्यु॒शत्ऽभिः॑। प्र॒ति॒का॒ममिति॑ प्रतिऽका॒मम्। अ॒त्तु॒। ५१।
महीधरः
म०. त्वं मनीषा मनीषया स्वप्रज्ञया रजिष्ठमृजुतमं देवयानं पन्थां पन्थानमनुनेषि अनुनयसि प्रापयसि । मनीषा तृतीयैकवचने पूर्वसवर्णदीर्घः । अत्यन्तमृजुः रजिष्ठः ‘अतिशायने तमबिष्ठनौ’ (पा० ५। ३।५५) “विभाषर्जोश्छन्दसि’ (पा. ६।४। १६२) इयृकारस्य र इष्ठादिषु । पन्थाम् ‘अयस्मयादीनि छन्दसि’ (पा० १ । ४ । २० ) इति सर्वनामस्थानेऽपि पदसंज्ञायां ‘नलोपः प्रातिपदिकान्तस्य’ (पा० ८ । २।७) इति नलोपे सवर्णदीर्घे पन्थानमिति रूपम् । अनुनेषि नयतेः शपि लुप्ते गुणे लटि रूपम् । कीदृशस्त्वम् । प्रचिकितः ‘कित ज्ञाने’ प्रकर्षेण चिकितः चेतनावान् विशिष्टचैतन्ययुतः । किंच हे इन्दो सोम, नोऽस्माकं पितरः तव प्रणीती प्रणीत्या प्रणयनेनाभ्यनुज्ञानेन देवेषु विषये रत्नं रमणीयं यज्ञफलमभजन्त सिषेविरे सोमयागेनैव स्वर्गाप्तेः । कीदृशाः पितरः । धीराः धीमन्तः यज्ञज्ञानवन्तः ॥ ५२ ॥
त्रिपञ्चाशी।
अधिमन्त्रम् (VC)
- पितरो देवताः
- शङ्ख ऋषिः
- भुरिक् पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ये) जो (नः) हमारे (सोम्यासः) शान्त्यादि गुणों के योग से योग्य (वसिष्ठाः) अत्यन्त धनी (पूर्वे) पूर्वज (पितरः) पालन करनेहारे ज्ञानी पिता आदि (सोमपीथम्) सोमपान को (अनूहिरे) प्राप्त होते और कराते हैं, (तेभिः) उन (उशद्भिः) हमारे पालन की कामना करनेहारे पितरों के साथ (हवींषि) लेने-देने योग्य पदार्थों की (उशन्) कामना करनेहारा (संरराणः) अच्छे प्रकार सुखों का दाता (यमः) न्याय और योगयुक्त सन्तान (प्रतिकामम्) प्रत्येक काम को (अत्तु) भोगे ॥५१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - पिता आदि पुत्रों के साथ और पुत्र पिता आदि के साथ सब सुख-दुःखों का भोग करें और सदा सुख की वृद्धि और दुःख का नाश किया करें ॥५१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये नः सोम्यासो वसिष्ठाः पूर्वे पितरः सोमपीथमनूहिरे, तेभिरुशद्भिः सह हवींष्युशन् संरराणो यमः प्रतिकाममत्तु ॥५१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - पितृभिः पुत्रैः सह पुत्रैः पितृभिः सह च सर्वे सुखदुःखभोगाः कार्य्याः, प्रतिक्षणं सुखं वर्द्धनीयं दुःखं च ह्रासनीयम् ॥५१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - पित्याने पुत्रांबरोबर व पुत्रांनी पित्याबरोबर त्यांच्या सुख-दुःखात सहभागी व्हावे व नेहमी सुख वाढवावे आणि दुःखांचा नाश करावा.
५२ त्वंसोम प्र
विश्वास-प्रस्तुतिः ...{Loading}...
त्वँसो॑म॒ प्र चि॑कितो मनी॒षा त्वँ रजि॑ष्ठ॒मनु॑ नेषि॒ पन्था॑म्। तव॒ प्रणी॑ती पि॒तरो॑ नऽइन्दो दे॒वेषु॒ रत्न॑मभजन्त॒ धीराः॑ ॥५२ ॥
मूलम् ...{Loading}...
त्वँसो॑म॒ प्र चि॑कितो मनी॒षा त्वँ रजि॑ष्ठ॒मनु॑ नेषि॒ पन्था॑म्। तव॒ प्रणी॑ती पि॒तरो॑ नऽइन्दो दे॒वेषु॒ रत्न॑मभजन्त॒ धीराः॑ ॥५२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
त्वम्। सो॒म॒। प्र। चि॒कि॒तः॒। म॒नी॒षा। त्वम्। रजि॑ष्ठम्। अनु॑। ने॒षि॒। पन्था॑म्। तव॑। प्रणी॑ती। प्रनी॒तीति॒ प्रऽनी॑ती। पि॒तरः॑। नः॒। इ॒न्दो॒ऽइति॑ इन्दो। दे॒वेषु॑। रत्न॑म्। अ॒भ॒ज॒न्त॒। धीराः॑। ५२।
महीधरः
म०. हे सोम, हे पवमान शोधक, नोऽस्माकं धीरा धीमन्तः पूर्वे पूर्वजाः पितरः हि यस्मात्कारणात् त्वया कृत्वा कर्माणि यज्ञादीनि चक्रुः अतः प्रार्थये त्वं परिधीनुपद्रवकारिणः अपोर्णुहि अपगमय । ‘ऊर्णुञ् आच्छादने’ लोट् । परिदधति सर्वत उपद्रवाय तिष्ठन्ति ते परिधयो यज्ञोपद्रावकाः । कीदृशस्त्वम् । वन्वन् वनुत इति वन्वन् अस्मत्कर्माणि संभजमानः । | तथाऽवातः नास्ति वातो यस्य । वात उपलक्षणं । वाताद्युपद्रवरहितः । किंच वीरेभिर्वीरैः अश्वैश्च सहितः सन्नोऽस्माकं मघवा धनवान् भव । मघं धनमस्यास्तीति मघवा । यो यस्य दाता | स तदीयधनवानिति लोकप्रसिद्धिः । भवेत्यस्य संहितायां दीर्घः । परिधीन् अपेत्यत्र ‘दीर्घादटि समानपादे’ (पा. ८। | ३ । ६) इति नकारस्य रुः ॥ ५३ ॥
चतुःपञ्चाशी।
अधिमन्त्रम् (VC)
- पितरो देवताः
- शङ्ख ऋषिः
- स्वराट् पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सोम) ऐश्वर्य्ययुक्त ! (प्र, चिकितः) विज्ञान को प्राप्त (त्वम्) तू (मनीषा) उत्तम प्रज्ञा से जिस (रजिष्ठम्) अतिशय कोमल सुखदायक (पन्थाम्) मार्ग को (नेषि) प्राप्त होता है, उसको (त्वम्) तू मुझ को भी (अनु) अनुकूलता से प्राप्त कर। हे (इन्दो) आनन्दकारक चन्द्रमा के तुल्य वर्त्तमान ! जो (तव) तेरी (प्रणीती) उत्तम नीति के साथ वर्त्तमान (धीराः) योगीराज (पितरः) पिता आदि ज्ञानी लोग (देवेषु) विद्वानों में (नः) हमारे लिये (रत्नम्) उत्तम धन का (अभजन्त) सेवन करते हैं, वे हम को नित्य सत्कार करने योग्य हों ॥५२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो सन्तान माता-पिता आदि के सेवक होते हुए विद्या और विनय से धर्म का अनुष्ठान करते हैं, वे अपने जन्म की सफलता करते हैं ॥५२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सोम ! प्रचिकितस्त्वं मनीषा यं रजिष्ठं पन्थां नेषि, तं त्वं मामनुनय। हे इन्दो ! ये तव प्रणीती धीराः पितरो देवेषु नो रत्नमभजन्त, तेऽस्माभिर्नित्यं सेवनीयाः सन्तु ॥५२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये सन्तानाः पितृसेवकाः सन्तो विद्याविनयाभ्यां धर्ममनुतिष्ठन्ति, ते स्वजन्मसाफल्यं कुर्वन्ति ॥५२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी संताने माता-पिता इत्यादींची सेवा करून विद्या व विनयाने धर्माचे अनुष्ठान करतात त्यांचा जन्म सफल होतो.
५३ त्वया हि
विश्वास-प्रस्तुतिः ...{Loading}...
त्वया॒ हि नः॑ पि॒तरः॑ सोम॒ पूर्वे॒ कर्मा॑णि च॒क्रुः प॑वमान॒ धीराः॑। व॒न्वन्नवा॑तः परि॒धीँ१ऽरपो॑र्णु वी॒रेभि॒रश्वै॑र्म॒घवा॑ भवा नः ॥५३ ॥
मूलम् ...{Loading}...
त्वया॒ हि नः॑ पि॒तरः॑ सोम॒ पूर्वे॒ कर्मा॑णि च॒क्रुः प॑वमान॒ धीराः॑। व॒न्वन्नवा॑तः परि॒धीँ१ऽरपो॑र्णु वी॒रेभि॒रश्वै॑र्म॒घवा॑ भवा नः ॥५३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
त्वया॑। हि। नः॒। पि॒तरः॑। सो॒म॒। पूर्वे॑। कर्मा॑णि। च॒क्रुः। प॒व॒मा॒न॒। धीराः॑। व॒न्वन्। अवा॑तः। प॒रि॒धीनिति॑ परि॒ऽधीन्। अप॑। ऊ॒र्णु॒। वी॒रेभिः॑। अश्वैः॑। म॒घवेति॑ म॒घऽवा॑। भ॒व॒। नः॒। ५३।
महीधरः
म० हे सोम, त्वं द्यावापृथिवी अन्वाततन्थ विस्तारितवान् ‘तनु विस्तारे’ लिट् ‘बभूथाततन्थ-(पा० ७ । २ । ६४) इत्यादिना निपातः । किंभूतस्त्वम् । पितृभिः संविदानः संवित्त इति संविदानः संवादं कुर्वाणः ‘समो गमि-’ (पा० १।३ २९ ) इत्यादिना अत्मनेपदित्वाच्छानच् । हे इन्दो, तस्मै ते तुभ्यं वयं हविषा विधेम हविर्दद्मः । विभक्तिव्यत्ययः विधतिर्दानार्थः । हविर्दानेन च वयं रयीणां धनानां पतयः स्याम भवेम ॥ ५४ ॥ सोमवतां पितॄणां षडृचः समाप्तः ।
पञ्चपञ्चाशी।
अधिमन्त्रम् (VC)
- पितरो देवताः
- शङ्ख ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी पूर्वोक्त विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (पवमान) पवित्रस्वरूप पवित्र कर्मकर्त्ता और पवित्र करनेहारे (सोम) ऐश्वर्य्ययुक्त सन्तान (त्वया) तेरे साथ (नः) हमारे (पूर्वे) पूर्वज (धीराः) बुद्धिमान् (पितरः) पिता आदि ज्ञानी लोग जिन धर्मयुक्त (कर्माणि) कर्मों को (चक्रुः) करनेवाले हुए, (हि) उन्हीं का सेवन हम लोग भी करें (अवातः) हिंसाकर्मरहित (वन्वन्) धर्म का सेवन करते हुए सन्तान तू (वीरेभिः) वीर पुरुष और (अश्वैः) घोड़े आदि के साथ (नः) हमारे शत्रुओं की (परिधीन्) परिधि अर्थात् जिनमें चारों ओर से पदार्थों को धारण किया जाय, उन मार्गों को (अपोर्णु) आच्छादन कर और हमारे मध्य में (मघवा) धनवान् (भव) हूजिये ॥५३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्य लोग अपने धार्मिक पिता आदि का अनुसरण कर और शत्रुओं को निवारण करके अपनी सेना के अङ्गों की प्रशंसा से युक्त हुए सुखी होवें ॥५३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे पवमान सोम ! त्वया सह नः पूर्वे धीराः पितरो यानि धर्म्याणि कर्माणि चक्रुस्तानि हि वयमप्यनुतिष्ठेम। अवातो वन्वन् त्वं वीरेभिरश्वैश्च सह नः शत्रून् परिधीनपोर्णु मघवा च भव ॥५३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्याः स्वेषां धार्मिकाणां पितॄणामनुकरणं कृत्वा शत्रून्निवार्य्य स्वसेनाङ्गप्रशंसायुक्तास्सन्तः सुखिनः स्युः ॥५३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी आपल्या धार्मिक पित्याचे अनुकरण करावे व शत्रूंचे निवारण करून सेनेची सर्व अंगे प्रशंसनीय व मजबूत करावीत आणि सुखी व्हावे.
५४ त्वं सोम
विश्वास-प्रस्तुतिः ...{Loading}...
त्वँ सो॑म पि॒तृभिः॑ संविदा॒नोऽनु॒ द्यावा॑पृथि॒वीऽआ त॑तन्थ। तस्मै॑ तऽइन्दो ह॒विषा॑ विधेम व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ॥५४ ॥
मूलम् ...{Loading}...
त्वँ सो॑म पि॒तृभिः॑ संविदा॒नोऽनु॒ द्यावा॑पृथि॒वीऽआ त॑तन्थ। तस्मै॑ तऽइन्दो ह॒विषा॑ विधेम व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ॥५४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
त्वम्। सो॒म॒। पि॒तृभि॒रिति॑ पि॒तृऽभिः॑। सं॒वि॒दा॒न इति॑ सम्ऽविदा॒नः। अनु॑। द्यावा॑पृथि॒वीऽइति॒ द्यावा॑पृथि॒वी। आ। त॒त॒न्थ॒। तस्मै॑। ते॒। इ॒न्दो॒ऽइति॑ इन्दो। ह॒विषा॑। वि॒धे॒म॒। व॒यम्। स्या॒म॒। पत॑यः। र॒यी॒णाम्। ५४।
महीधरः
म०. अतो बर्हिषदां पितॄणां तृचः । बर्हिषदः बर्हिषि दर्भे सीदन्तीति बर्हिषदः । पृषोदरादित्वादन्त्यलोपः । हे बर्हिषदः पितरः, ते यूयमूत्या अवनेन निमित्तेन अर्वागागत आगच्छत । किमर्थमिति चेत् । वो युष्माकमिमा इमानि हव्या हव्यानि वयं चकृम । करोतेर्लिट् । कृतवन्तः तानि यूयं जुषध्वं सेवध्वम् । अथानन्तरं शंतमेन सुखयितृतमेनावसान्नेन तर्पिताः सन्तो नोऽस्माकं शं सुखं रोगशमनं यो भयपृथक्करणमरपः पापाभावं च दधात धत्त स्थापयत ‘तप्तनव्-’ (पा० ७ । १। ४५) इति तबादेशात् । ‘श्नाभ्यस्तयोरातः’ (पा० ६ । ४ । ११२) इति आलोपाभावः । शं योः ‘शमनं च रोगाणां यावनं च भयानाम्’ इति । ‘यास्कः । ‘रपो रिप्रमिति पापनामनी भवतः ॥ ५५॥
षट्पञ्चाशी।
अधिमन्त्रम् (VC)
- सोमो देवता
- शङ्ख ऋषिः
- भुरिक् पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सोम) चन्द्रमा के सदृश आनन्दकारक उत्तम सन्तान ! (पितृभिः) ज्ञानयुक्त पितरों के साथ (संविदानः) प्रतिज्ञा करता हुआ जो (त्वम्) तू (अनु, द्यावापृथिवी) सूर्य और पृथिवी के मध्य में धर्मानुकूल आचरण से सुख का (आ, ततन्थ) विस्तार कर। हे (इन्दो) चन्द्रमा के समान प्रियदर्शन ! (तस्मै) उस (ते) तेरे लिये (वयम्) हम लोग (हविषा) लेने-देने योग्य व्यवहार से सुख का (विधेम) विधान करें, जिससे हम लोग (रयीणाम्) धनों के (पतयः) पालन करनेहारे स्वामी (स्याम) हों ॥५४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे सन्तानो ! तुम लोग जैसे चन्द्रलोक पृथिवी के चारों और भ्रमण करता हुआ सूर्य की परिक्रमा देता है, वैसे ही माता-पिता आदि के अनुचर होओ, जिससे तुम श्रीमन्त हो जाओ ॥५४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सोम सुसन्तान ! पितृभिः सह संविदानो यस्त्वमनु द्यावापृथिवी सुखमाततन्थ। हे इन्दो ! तस्मै ते वयं हविषा सुखं विधेम यतो रयीणां पतयः स्याम ॥५४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे सन्तानाः ! यूयं यथा चन्द्रलोकः पृथिवीमभितो भ्रमन् सन् सूर्यमनुभ्रमति, तथैव पित्रध्यापकादीननुचरत, यतो यूयं श्रीमन्तो भवत ॥५४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे संतानांनो ! चंद्र जसा पृथ्वीभोवती फिरत फिरत सूर्याभोवती प्रदक्षिणा करतो, तसेच तुम्ही माता व पिता यांचे अनुचर बना व ऐश्वर्यवान व्हा.
५५ बर्हिषदः पितरऽऊत्यर्वागिमा
विश्वास-प्रस्तुतिः ...{Loading}...
बर्हि॑षदः पितरऽऊ॒त्य᳙र्वागि॒मा वो॑ ह॒व्या च॑कृमा जु॒षध्व॑म्। तऽआग॒ताव॑सा॒ शन्त॑मे॒नाथा॑ नः॒ शंयोर॑र॒पो द॑धात ॥५५ ॥
मूलम् ...{Loading}...
बर्हि॑षदः पितरऽऊ॒त्य᳙र्वागि॒मा वो॑ ह॒व्या च॑कृमा जु॒षध्व॑म्। तऽआग॒ताव॑सा॒ शन्त॑मे॒नाथा॑ नः॒ शंयोर॑र॒पो द॑धात ॥५५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
बर्हि॑षदः। बर्हि॑सद॒ इति॒ बर्हिऽसदः। पि॒त॒रः॒। ऊ॒ती। अ॒र्वाक्। इ॒मा। वः॒। ह॒व्या। च॒कृ॒म॒। जु॒षध्व॑म्। ते। आ। ग॒त॒। अव॑सा। शन्त॑मे॒नेति॒ शम्ऽत॑मेन। अथ॑। नः॒। शम्। योः। अ॒र॒पः। द॒धा॒त॒। ५५।
महीधरः
म० अहं पितॄन् आ अवित्सि आभिमुख्येन वेद्मि विदितवान् । विदेर्लुङि आत्मनेपदे उत्तमैकवचनरूपम् । कीदृशान् पितॄन् । सुविदत्रान् सुष्ठु विशेषेण ददतीति सुविदत्राः तान् कल्याणदानान् । किंच वेवेष्टि विष्णुः तस्य विष्णोः व्यापनशीलस्य यज्ञस्य ‘यज्ञो वै विष्णुः’ (१।१।३ । १) इति श्रुतेः । तस्य नपातं विक्रमणं च वेद्मि । नास्ति पातो यत्र स नपातो देवयानपथः । यत्र गतानां पातो नास्ति विविधं क्रमणं गमनागमनं यत्र स विक्रमणः पितृयाणपथः । यत्र गतानां पुनर्भोगान्ते पतनम् यज्ञसंबन्धिनौ देवयानपितृयाणौ पन्थानौ वेद्मीत्यर्थः । उद्गामिनः पितॄंश्च । अतो ब्रवीमि ये बर्हिषदः पितरः स्वधया सवनीयलक्षणेनान्नेन सह सुतस्याभिषुतस्य सोमस्य पित्वः पानं भजन्त भजन्ते सेवन्ते । लङ् अडभाव आर्षः । ते इह यज्ञे आगमिष्ठाः आगच्छन्तु । लोडर्थे लुङ् पुरुषवचनव्यत्ययः ॥५६॥
सप्तपञ्चाशी।
अधिमन्त्रम् (VC)
- पितरो देवताः
- शङ्ख ऋषिः
- भुरिक् पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (बर्हिषदः) उत्तम सभा में बैठनेहारे (पितरः) न्याय से पालना करनेवाले पितर लोगो ! हम (अर्वाक्) पश्चात् जिन (वः) तुम्हारे लिये (ऊती) रक्षणादि क्रिया से (इमा) इन (हव्या) भोजन के योग्य पदार्थों का (चकृम) संस्कार करते हैं, उन का तुम लोग (जुषध्वम्) सेवन किया करो। वे आप लोग (शन्तमेन) अत्यन्त कल्याणकारक (अवसा) रक्षणादि कर्म के साथ (आ, गत) आवें। (अथ) इसके अनन्तर (नः) हमारे लिये (शम्) सुख तथा (अरपः) सत्याचरण को (दधात) धारण करें और दुःख को (योः) हम से पृथक् रक्खें ॥५५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जिन पितरों की सेवा सन्तान करें, वे अपने सन्तानों में अच्छी शिक्षा से सुशीलता को धारण करें ॥५५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे बर्हिषदः पितरः ! वयमर्वाग्येभ्यो व ऊतीमा हव्या चकृम, तानि यूयं जुषध्वम्, ते शन्तमेनावसा सहागत। अथ नः शमरपश्च दधात दुःखं च योः ॥५५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - येषां पितॄणां सेवां सन्तानाः कुर्युस्ते स्वापत्येषु सुशिक्षया सुशीलतां धारयेयुः ॥५५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - संतानांनी पित्याची (पितराची) सेवा करावी. पितरानीही आपल्या संतानांना चांगले शिक्षण देऊन सुशील बनवावे.
५६ आहं पितॄन्त्सुविदत्राँ२ऽअवित्सि
विश्वास-प्रस्तुतिः ...{Loading}...
आहं पि॒तॄन्त्सु॑वि॒दत्राँ॑२ऽअवित्सि॒ नपा॑तं च वि॒क्रम॑णं च॒ विष्णोः॑। ब॒र्हि॒षदो॒ ये स्व॒धया॑ सु॒तस्य॒ भज॑न्त पि॒त्वस्तऽइ॒हाग॑मिष्ठाः ॥५६ ॥
मूलम् ...{Loading}...
आहं पि॒तॄन्त्सु॑वि॒दत्राँ॑२ऽअवित्सि॒ नपा॑तं च वि॒क्रम॑णं च॒ विष्णोः॑। ब॒र्हि॒षदो॒ ये स्व॒धया॑ सु॒तस्य॒ भज॑न्त पि॒त्वस्तऽइ॒हाग॑मिष्ठाः ॥५६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ। अ॒हम्। पि॒तॄन्। सु॒वि॒दत्रा॒निति॑ सुऽवि॒दत्रा॑न्। अ॒वि॒त्सि॒। नपा॑तम्। च॒। वि॒क्रम॑ण॒मिति॑ वि॒ऽक्रम॑णम्। च॒। विष्णोः॑। ब॒र्हि॒षद॒ इति॑ बर्हि॒ऽसदः॑। ये। स्व॒धया॑। सु॒तस्य॑। भज॑न्त। पि॒त्वः। ते। इ॒ह। आग॑मिष्ठा॒ इत्याऽग॑मिष्ठाः। ५६।
महीधरः
म० हे पितरः, इह यज्ञे आगमन्तु आगच्छन्तु । व्यत्ययेन शपो लुक् । ते श्रुवन्तु अस्मद्वचः शृण्वन्तु । श्रुत्वा च अधिब्रुवन्तु पितृभिः पुत्राणां यद्वक्तव्यं तद्वदन्तु । ते अस्मानवन्तु । कीदृशाः पितरः । प्रियेषु अभिरुचितेषु हविःषु उपहूताः सोम्यासः सोम्याः । कीदृशेषु प्रियेषु । बर्हिष्येषु बर्हिषि भवानि बर्हिष्याणि तेषु बर्हिषि सादितेषु तथा निधिषु निधिभूतेषु निधिवत्स्थापनीयेषु ॥ ५७ ॥
अष्टपञ्चाशी।
अधिमन्त्रम् (VC)
- पितरो देवताः
- शङ्ख ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ये) जो (बर्हिषदः) उत्तम आसन में बैठने योग्य पितर लोग (इह) इस वर्त्तमान काल में (स्वधया) अन्नादि से तृप्त (सुतस्य) सिद्ध किये हुए (पित्वः) सुगन्धयुक्त पान का (च) भी (आ, भजन्त) सेवन करते हैं, (ते) वे (आगमिष्ठाः) हमारे पास आवें। जो इस संसार में (विष्णोः) व्यापक परमात्मा के (नपातम्) नाशरहित (विक्रमणम्) विविध सृष्टिक्रम को (च) भी जानते हैं, उस (सुविदत्रान्) उत्तम सुखादि के दान देनेहारे (पितॄन्) पितरों को (अहम्) मैं (अवित्सि) जानता हूँ ॥५६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो पितर लोग विद्या की उत्तम शिक्षा करते और कराते हैं, वे पुत्र और कन्याओं के सम्यक् सेवन करने योग्य हैं ॥५६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये बर्हिषदः पितर इह स्वधया सुतस्य पित्वश्चाभजन्त सेवन्ते, त आगमिष्ठा आगच्छन्तु, य इह विष्णोर्नपातं विक्रमणं च विदन्ति, तान् सुविदत्रान् पितॄनहमवित्सि ॥५६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये पितरो विद्यासुशिक्षां कुर्वन्ति कारयन्ति च, ते पुत्रैः कन्याभिश्च सम्यक् सेवनीयाः ॥५६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे पितर लोक आपल्या संतानांना विद्येचे उत्तम शिक्षण देतात व देववितात ते आपल्या संतानाकडून पूर्णपणे सेवा घेण्यास योग्य ठरतात.
५७ उपहूताः पितरः
विश्वास-प्रस्तुतिः ...{Loading}...
उप॑हूताः पि॒तरः॑ सो॒म्यासो॑ बर्हि॒ष्ये᳖षु नि॒धिषु॑ प्रि॒येषु॑। तऽआग॑मन्तु॒ तऽइ॒ह श्रु॑व॒न्त्वधि॑ ब्रुवन्तु॒ ते᳖ऽवन्त्व॒स्मान् ॥५७ ॥
मूलम् ...{Loading}...
उप॑हूताः पि॒तरः॑ सो॒म्यासो॑ बर्हि॒ष्ये᳖षु नि॒धिषु॑ प्रि॒येषु॑। तऽआग॑मन्तु॒ तऽइ॒ह श्रु॑व॒न्त्वधि॑ ब्रुवन्तु॒ ते᳖ऽवन्त्व॒स्मान् ॥५७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उप॑हूता॒ इत्यु॑पऽहूताः। पि॒तरः॑। सो॒म्यासः॑। ब॒र्हि॒ष्ये᳖षु। नि॒धिष्विति॑ नि॒ऽधिषु॑। प्रि॒येषु॑। ते। आ। ग॒म॒न्तु॒। ते। इ॒ह। श्रु॒व॒न्तु॒। अधि॑। ब्रु॒वन्तु॑। ते। अ॒व॒न्तु॒। अ॒स्मान्। ५७।
महीधरः
म० चतस्र ऋचोऽग्निष्वात्तानां पितॄणाम् । नोऽस्माकं पितरः देवयानैः पथिभिर्मागैः आयन्तु आगच्छन्तु । देवैः सह यान्ति पितरो येषु ते देवयाना मार्गाः तैः । कीदृशाः पितरः। सोम्यासः सोम्याः सोमपानार्हाः । अग्निष्वात्ताः अग्निना स्वात्ताः स्वादिताः अग्निर्यान् दहन् स्वादयति । श्रौतस्मार्तकर्मानुष्ठायिनः । येषां पुत्रादिभिरेतत्कर्मानुष्ठीयते । तदुक्तम् ‘पुत्रेण लोकान् जयति पौत्रेणानन्त्यमश्नुते । अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम्’ इति । किंच पितर आगत्यास्मिन् यज्ञे स्वधयान्नेन मदन्तः तृप्यन्तस्तुष्टाः सन्तो नोऽस्मानधिब्रुवन्तु अधिकान् वदन्तु । तद्वाक्यात्तथैव वयमधिकाः स्यामेत्यर्थः । ते पितरोऽस्मानवन्तु पालयन्तु ॥ ५८ ॥
एकोनषष्टी।
अधिमन्त्रम् (VC)
- पितरो देवता
- शङ्ख ऋषिः
- निचृत्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (सोम्यासः) ऐश्वर्य को प्राप्त होने के योग्य (पितरः) पितर लोग (बर्हिष्येषु) अत्युत्तम (प्रियेषु) प्रिय (निधिषु) रत्नादि से भरे हुए कोशों के निमित्त (उपहूताः) बुलाये हुए हैं (ते) वे (इह) इस हमारे समीप स्थान में (आ, गमन्तु) आवें, (ते) वे हमारे वचनों को (श्रुवन्तु) सुनें, वे (अस्मान्) हम को (अधि, ब्रुवन्तु) अधिक उपदेश से बोधयुक्त करें, (ते) वे हमारी (अवन्तु) रक्षा करें ॥५७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो विद्यार्थीजन अध्यापकों को बुला उनका सत्कार कर, उनसे विद्याग्रहण की इच्छा करें, उन विद्यार्थियों को वे अध्यापक भी प्रीतिपूर्वक पढ़ावें और सर्वथा विषयासक्ति आदि दुष्कर्मों से पृथक् रक्खें ॥५७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये सोम्यासः पितरो बर्हिष्येषु प्रियेषु निधिषूपहूतास्त इहागमन्तु, तेऽस्मद्वचांसि श्रुवन्तु, तेऽस्मानधिब्रुवन्तु, तेऽवन्तु ॥५७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये विद्यार्थिनोऽध्यापकानुपहूय सत्कृत्यैतेभ्यो विद्यां जिघृक्षेयुस्ताँस्ते प्रीत्याऽध्यापयेयुः, सर्वतो विषयासक्त्यादिभ्यो दुष्कर्मभ्यः पृथग्रक्षेयुश्च ॥५७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे विद्यार्थी अध्यापकांना आमंत्रित करून त्यांचा सत्कार करतात व त्यांच्याकडून विद्या प्राप्त करण्याची इच्छा दर्शवितात त्या विद्यार्थ्यांना अध्यापकांनी प्रेमाने शिकवावे व विषयासक्ती आणि दुष्कर्मे यांच्यापासून सर्वस्वी दूर ठेवावे.
५८ आ यन्तु
विश्वास-प्रस्तुतिः ...{Loading}...
आ य॑न्तु नः पि॒तरः॑ सो॒म्यासो॑
ऽग्निष्वा॒त्ताः प॒थिभि॑र् देव॒यानैः॑।
अ॒स्मिन् य॒ज्ञे स्व॒धया॒ मद॒न्तो
ऽधि॑ ब्रुवन्तु॒ ते᳖ऽवन्त्व् अ॒स्मान् ॥५८ ॥
मूलम् ...{Loading}...
आ य॑न्तु नः पि॒तरः॑ सो॒म्यासो॑ऽग्निष्वा॒त्ताः प॒थिभि॑र्देव॒यानैः॑। अ॒स्मिन् य॒ज्ञे स्व॒धया॒ मद॒न्तोऽधि॑ ब्रुवन्तु॒ ते᳖ऽवन्त्व॒स्मान् ॥५८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ। य॒न्तु॒। नः॒। पि॒तरः॑। सो॒म्यासः॑। अ॒ग्नि॒ष्वा॒त्ताः। अ॒ग्नि॒ष्वा॒त्ता इत्य॑ग्निऽस्वा॒त्ताः। प॒थिभि॒रिति॑ प॒थिऽभिः॑। दे॒व॒यानै॒रिति॑ देव॒ऽयानैः॑। अ॒स्मिन्। य॒ज्ञे। स्व॒धया॑। मद॑न्तः। अधि॑। ब्रु॒व॒न्तु॒। ते। अ॒व॒न्तु॒। अ॒स्मान्। ५८।
महीधरः
म० हे अग्निष्वात्ताः पितरः, इह यज्ञे यूयमागच्छत। आगत्य च सदःसदः प्रतिगृहं सदत उपविशत ‘नित्यवीप्सयोः’ (पा० ८।१।४) इति द्वित्वम् । कीदृशा यूयम् । सुप्रणीतयः शोभना प्रणीतिः प्रणयनं येषां ते । ततः सदस्युपविष्टाः सन्तः हवींषि अत्त भक्षयत । अत्तेर्लोट् संहितायां दीर्घः । कीदृशानि हवींषि । बर्हिषि दर्भे प्रयतानि नियमपूर्वकं स्थापितानि प्रकर्षेण यम्यन्ते नियम्यन्ते तानि प्रयतानि । अथानन्तरं तृप्ताः सन्तः सर्ववीरं रयिं दधातन स्थापयत सर्वे वीराः वा यत्र तम् । ‘निपातस्य च’ (पा० ६ । ३ । १३६) इति दीर्घोऽथशब्दस्य ‘तप्तनव्’ (पा. ७।१।४५) इति तनबादेशः ॥ ५९ ॥
षष्टी।
अधिमन्त्रम् (VC)
- पितरो देवताः
- शङ्ख ऋषिः
- विराट्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (सोम्यासः) चन्द्रमा के तुल्य शान्त शमदमादि गुणयुक्त (अग्निष्वात्ताः) अग्न्यादि पदार्थविद्या में निपुण (नः) हमारे (पितरः) अन्न और विद्या के दान से रक्षक जनक, अध्यापक और उपदेशक लोग हैं, (ते) वे (देवयानैः) आप्त लोगों के जाने-आने योग्य (पथिभिः) धर्मयुक्त मार्गों से (आ, यन्तु) आवें (अस्मिन्) इस (यज्ञे) पढ़ाने उपदेश करने रूप व्यवहार में वर्त्तमान होके (स्वधया) अन्नादि से (मदन्तः) आनन्द को प्राप्त हुए (अस्मान्) हम को (अधि, ब्रुवन्तु) अधिष्ठाता होकर उपदेश करें और पढ़ावें और हमारी (अवन्तु) सदा रक्षा करें ॥५८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्यार्थियों को योग्य है कि विद्या और आयु में वृद्ध विद्वानों से विद्या और रक्षा को प्राप्त होकर सत्यवादी निष्कपटी परोपकारी उपदेशकों के मार्ग से जा आ के सब की रक्षा करें ॥५८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये सोम्यासोऽग्निष्वात्ता नः पितरः सन्ति, ते देवयानैः पथिभिरायन्त्वस्मिन्यज्ञे वर्त्तमाना भूत्वा स्वधया मदन्तः सन्तोऽस्मानधिब्रुवन्त्वस्मानवन्तु ॥५८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - विद्यार्थिभिर्विद्यावयोवृद्धेभ्यो विद्यां रक्षां च प्राप्याप्तमार्गेण गत्वागत्य सर्वेषां रक्षा विधेया ॥५८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - विद्यार्थ्यांनी वयोवृद्ध विद्वानांकडून विद्या प्राप्त करावी व सर्व बाजूंनी सुरक्षित व्हावे. सत्यवादी, निष्कपटी, परोपकारी उपदेशकांच्या मार्गाचे अनुसरण करून सर्वांचे रक्षण करावे.
५९ अग्निष्वात्ताः पितरऽएह
विश्वास-प्रस्तुतिः ...{Loading}...
अग्नि॑ष्वात्ताः पितर॒ऽएह ग॑च्छत॒ सदः॑सदः सदत सुप्रणीतयः। अ॒त्ता ह॒वीँषि॒ प्रय॑तानि ब॒र्हिष्यथा॑ र॒यिँ सर्व॑वीरं दधातन ॥५९ ॥
मूलम् ...{Loading}...
अग्नि॑ष्वात्ताः पितर॒ऽएह ग॑च्छत॒ सदः॑सदः सदत सुप्रणीतयः। अ॒त्ता ह॒वीँषि॒ प्रय॑तानि ब॒र्हिष्यथा॑ र॒यिँ सर्व॑वीरं दधातन ॥५९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अग्नि॑ष्वात्ताः। अग्नि॑ष्वात्ता॒ इत्यग्नि॑ऽस्वात्ताः। पि॒त॒रः॒। आ। इ॒ह। ग॒च्छ॒त॒। सदः॑सद॒ इति॒ सदः॑ऽसदः। स॒द॒त॒। सु॒प्र॒णी॒त॒यः॒। सु॒प्र॒णी॒त॒य॒ इति॑ सुऽप्रनीतयः। अ॒त्त। ह॒वीँषि॑। प्रय॑ता॒नीति॒ प्रऽय॑तानि। ब॒र्हिषि॑। अथ॑। र॒यिम्। सर्व॑वीर॒मिति॒ सर्व॑ऽवीरम्। द॒धा॒त॒न॒। ५९।
महीधरः
म० ये पितरः अग्निष्वात्ताः अग्निना दग्धाः विधिवदौर्ध्वदेहिकं प्राप्ताः । ये चानग्निष्वात्ता न अग्निना खादिता अदग्धाः श्मशानकर्म न प्राप्ताः सन्तः दिवः स्वर्गस्य मध्ये स्वधयान्नेन स्वकर्मोपार्जितेन मादयन्ते तृप्यन्ति सुखं सेवन्ते । | स्वराट् स्वेनैव राजते स्वराट् यमः तेभ्यः पितृभ्योऽर्थे यथावशं वशोऽभिलाषः यथाकाममेतां मनुष्यसंबन्धिनीं तन्वं शरीरं कल्पयाति कल्पयतु । लेट् ‘लेटोऽडाटौ’ तेभ्यो नरशरीरं यमो ददात्वित्यर्थः । कीदृशीं तन्वम् । असुनीतिम् असून् प्राणान् नयति प्राप्नोत्यसुनीतिः प्राणयुक्ता चिरकालजीविनीत्यर्थः । ते यथा पुनः स्तम्भनं कुर्वन्ति ॥ ६० ॥
एकषष्टी।
अधिमन्त्रम् (VC)
- पितरो देवताः
- शङ्ख ऋषिः
- निचृज्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उक्त विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सुप्रणीतयः) अत्युत्तम न्यायधर्म से युक्त (अग्निष्वात्ताः) अग्न्यादि पदार्थविद्या में निपुण (पितरः) पालन करनेहारे पितरो ! आप लोग (इह) इस वर्त्तमान समय में विद्याप्रचार के लिये (आ, गच्छत) आओ (सदःसद) जहाँ-जहाँ बैठें, उस-उस घर में (सदत) स्थित होओ (प्रयतानि) अति विचार से सिद्ध किये हुए (हवींषि) भोजन के योग्य अन्नादि का (अत्त) भोग करो। (अथ) इसके पश्चात् (बर्हिषि) विद्याप्रचाररूप उत्तम व्यवहार में स्थित होकर हमारे लिये (सर्ववीरम्) सब वीर पुरुषों को प्राप्त करानेहारे (रयिम्) धन को (दधातन) धारण कीजिये ॥५९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो विद्वान् लोग उपदेश के लिये घर-घर के प्रति गमनागमन करके सत्यधर्म का प्रचार करते हैं, वे गृहस्थों में श्रद्धा से दिये हुए अन्नपानादि का सेवन करें। सब को शरीर और आत्मा के बल से योग्य पुरुषार्थी करके श्रीमान् करें ॥५९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सुप्रणीतयोऽग्निष्वात्ताः पितरो ! यूयमिहागच्छत सदःसदः सदत, प्रयतानि हवींष्यत्ताऽथ बर्हिषि स्थित्वाऽस्मदर्थं सर्ववीरं रयिं दधातन ॥५९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये विद्वांस उपदेशाय गृहङ्गृहं प्रति गत्वाऽऽगत्य च सत्यं धर्मं प्रचारयन्ति, ते गृहस्थैः श्रद्धया दत्तान्यन्नपानादीनि सेवन्ताम्, सर्वाञ्छरीरात्मबलयोग्यान् पुरुषार्थिनः कृत्वा श्रीमन्तः कुर्वन्तु ॥५९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे विद्वान लोक उपदेश करण्यासाठी घरोघरी जाऊन सत्य धर्माचा प्रचार करतात त्यांनी गृहस्थाश्रमी लोकांच्या अन्नाचा श्रद्धापूर्वक स्वीकार करावा व सर्वांचे शरीर व आत्मा यांचे बळ वाढवून योग्य पुरुषार्थी व धनवाद बनवावे.
६० येऽअग्निष्वात्ता येऽअनग्निष्वात्ता
विश्वास-प्रस्तुतिः ...{Loading}...
येऽअ॑ग्निष्वा॒त्ता येऽअन॑ग्निष्वात्ता॒ मध्ये॑ दि॒वः स्व॒धया॑ मा॒दय॑न्ते। तेभ्यः॑ स्व॒राडसु॑नीतिमे॒तां य॑थाव॒शं त॒न्वं᳖ कल्पयाति ॥६० ॥
मूलम् ...{Loading}...
येऽअ॑ग्निष्वा॒त्ता येऽअन॑ग्निष्वात्ता॒ मध्ये॑ दि॒वः स्व॒धया॑ मा॒दय॑न्ते। तेभ्यः॑ स्व॒राडसु॑नीतिमे॒तां य॑थाव॒शं त॒न्वं᳖ कल्पयाति ॥६० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ये। अ॒ग्नि॒ष्वा॒त्ताः। अ॒ग्नि॒ष्वा॒त्ता इत्य॑ग्निऽस्वा॒त्ताः। ये। अन॑ग्निष्वात्ताः। अन॑ग्निष्वात्ता॒ इत्यन॑ग्निऽस्वात्ताः। मध्ये॑। दि॒वः। स्व॒धया॑। मा॒दय॑न्ते। तेभ्यः॑। स्व॒राडिति॑ स्व॒ऽराट्। असु॑नीति॒मित्यसु॑ऽनीतिम्। ए॒ताम्। य॒था॒व॒शमिति॑ यथाऽव॒शम्। त॒न्व᳖म्। क॒ल्प॒या॒ति॒। ६०।
महीधरः
म० अग्निष्वात्तान् पितॄन् वयं हवामहे आह्वयामः । कीदृशान् । ऋतुमतः ऋतवो विद्यन्ते येषु ते ऋतुमन्तः तानृतुयुक्तानाह्वयामः । ये पितरो नाराशंसे चमसे सोमपीथं सोमपानमाशुः अश्नन्ति स्म ‘अश भोजने’ लिट् । ‘अथ यदि नाराशᳪं᳭सेषु सन्न’ इत्युपक्रम्य ‘पितृभ्यो नाराशᳪं᳭सेभ्यः स्वाहेति जुहुयात्’ (१२। ६।१।३३ ) इति श्रुत्या नाराशंसे चमसे पितॄणां भक्षः प्रतिपादितः । ते पितरो नोऽस्माकं सुहवाः स्वाह्वाना भवन्तु । अस्मदाहूताः शीघ्रमायान्त्वित्यर्थः । एवं पितृष्वाहूतेषु वयं रयीणां धनानां पतयः स्वामिनः स्याम भवेम ॥ ६१॥
द्विषष्टी।
अधिमन्त्रम् (VC)
- पितरो देवताः
- शङ्ख ऋषिः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को ईश्वर की प्रार्थना कैसे करनी चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ये) जो (अग्निष्वात्ताः) अच्छे प्रकार अग्निविद्या के ग्रहण करने तथा (ये) जो (अनग्निष्वात्ताः) अग्नि से भिन्न अन्य पदार्थविद्याओं को जाननेहारे वा ज्ञानी पितृलोग वा (दिवः) विज्ञानादि प्रकाश के (मध्ये) बीच (स्वधया) अपने पदार्थ के धारण करने रूप क्रिया से (मादयन्ते) आनन्द को प्राप्त होते हैं, (तेभ्यः) उन पितरों के लिये (स्वराट्) स्वयं प्रकाशमान परमात्मा (एताम्) इस (असुनीतिम्) प्राणों को प्राप्त होनेवाले (तन्वम्) शरीर को (यथावशम्) कामना के अनुकूल (कल्पयाति) समर्थ करे ॥६० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को परमेश्वर से ऐसी प्रार्थना करनी चाहिये कि हे परमेश्वर ! जो अग्नि आदि की पदार्थविद्या को यथार्थ जान के प्रवृत्त करते और जो ज्ञान में तत्पर विद्वान् अपने ही पदार्थ के भोग से सन्तुष्ट रहते हैं, उनके शरीरों को दीर्घायु कीजिये ॥६० ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यैरीश्वरः कथं प्रार्थनीय इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - येऽग्निष्वात्ता ये अनग्निष्वात्ता दिवो मध्ये स्वधया मादयन्ते, तेभ्यः स्वराडेतामसुनीतिं तन्वं यथावशं कल्पयाति ॥६० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे परमेश्वर ! येऽग्न्यादिपदार्थविद्यां विज्ञाय प्रवर्तयन्ति, ये च ज्ञाननिष्ठा विद्वांसः स्वेनैव पदार्थेन तुष्टा भवन्ति, तेषां शरीराणि दीर्घायूंषि सम्पादय इति प्रार्थनीयः ॥६० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी परमेश्वराजवळ अशी प्रार्थना केली पाहिजे, ‘‘हे परमेश्वरा ! जे ज्ञानी विद्वान अग्नी इत्यादी पदार्थ विद्या यथार्थपणे जाणतात व आपल्याजवळ असलेल्या पदार्थाच्या भोगाने संतुष्ट होतात त्यांना दीर्घायुष्य दे. ’’
६१ अग्निष्वात्तानृतुमतो हवामहे
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्नि॒ष्वा॒त्तानृ॑तु॒मतो॑ हवामहे नाराशँ॒से सो॑मपी॒थं यऽआ॒शुः। ते नो॒ विप्रा॑सः सु॒हवा॑ भवन्तु व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ॥६१ ॥
मूलम् ...{Loading}...
अ॒ग्नि॒ष्वा॒त्तानृ॑तु॒मतो॑ हवामहे नाराशँ॒से सो॑मपी॒थं यऽआ॒शुः। ते नो॒ विप्रा॑सः सु॒हवा॑ भवन्तु व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ॥६१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒ग्नि॒ष्वा॒त्तान्। अ॒ग्नि॒स्वा॒त्तानित्य॑ग्निऽस्वा॒त्तान्। ऋ॒तु॒मत॒ इत्यृ॑तु॒ऽमतः॑। ह॒वा॒म॒हे॒। ना॒रा॒शँ॒से। सो॒म॒पी॒थमिति॑ सोमऽपी॒थम्। ये। आ॒शुः। ते। नः॒। विप्रा॑सः। सु॒हवा॒ इति॑ सु॒ऽहवाः॑। भ॒व॒न्तु॒। व॒यम्। स्या॒म॒। पत॑यः। र॒यी॒णाम्। । ६१।
महीधरः
म० कात्यायनेन आच्या जान्वित्यनुवाकस्य विनियोगो नोक्तः । उदीरतामित्यनुवाकद्वयस्य श्राद्धेऽश्नत्सु द्विजेषु जपे विनियोगः । दशर्चोऽनुवाकः । आद्या नव पितृदेवत्याः । द्वे त्रिष्टुभौ । हे पितरः, विश्वे सर्वे सोमवन्तो बर्हिषदोऽग्निष्वात्ताश्च यूयमिमं यज्ञं सौत्रामणीमभिगृणीत अभिष्टुत । दक्षिणामन्त्रकालकर्तृहविर्यजमानोत्कर्षैः साध्वयं यज्ञ इति स्तुतिं कुरुतेत्यर्थः । किं कृत्वा । जान्वाच्य वामजानु पातयित्वा । तथा दक्षिणतो निषद्य दक्षिणाभिमुखा उपविश्य । स हि तेषां स्वभावः । अथैनं पितरः प्राचीनावीतिनः सव्यं जान्वाच्योपासीदन्’ इति श्रुतेः । किंच हे पितरः, केनचित् केनाप्यपराधेन नोऽस्मान् मा हिंसिष्ट हिंसां मा कुरुत । हिनस्तेर्लुङ् । यत् यस्मात् पुरुषता पुरुषस्य भावः पुरुषता विभक्तिलोपः । पुरुषभावेन चलचित्तत्वेन वो युष्माकमागोऽपराधं वयं कराम कुर्मः। करोतेः शपि लङि रूपम् अडभावः । यद्यप्यपराधिनो वयं तथापि मास्मान् वधिष्टेत्यर्थः ॥ ६२॥
त्रिषष्टी।
अधिमन्त्रम् (VC)
- पितरो देवता
- शङ्ख ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
माता-पिता और सन्तानों को परस्पर क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ये) जो (सोमपीथम्) सोम आदि उत्तम ओषधिरस को (आशुः) पीवें, जिन (ऋतुमतः) प्रशंसित वसन्तादि ऋतु में उत्तम कर्म करनेवाले (अग्निष्वात्तान्) अच्छे प्रकार अग्निविद्या को जाननेहारे पिता आदि ज्ञानियों को हम लोग (नाराशंसे) मनुष्यों के प्रशंसारूप सत्कार के व्यवहार में (हवामहे) बुलाते हैं, (ते) वे (विप्रासः) बुद्धिमान् लोग (नः) हमारे लिये (सुहवाः) अच्छे दान देनेहारे (भवन्तु) हों और (वयम्) हम उनकी कृपा से (रयीणाम्) धनों के (पतयः) स्वामी (स्याम) होवें ॥६१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सन्तान लोग पदार्थविद्या और देश, काल के जानने और प्रशंसित औषधियों के रस को सेवन करनेहारे, विद्या और अवस्था में वृद्ध पिता आदि को सत्कार के अर्थ बुला के, उनके सहाय से धनादि ऐश्वर्य्यवाले हों ॥६१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पितृसन्तानैरितेतरं किं कर्त्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये सोमपीथमाशुर्यानृतुमतोऽग्निष्वात्तान् पितॄन् वयं नराशंसे हवामहे, ते विप्रासो नः सुहवा भवन्तु, वयं च तत्कृपातो रयीणां पतयः स्याम ॥६१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सन्तानाः पदार्थविद्याविदो देशकालज्ञान् प्रशस्तौषधिरससेवकान् विद्यावयोवृद्धान् सत्कारार्थमाहूय तत्सहायेन धनाद्यैश्वर्य्यवन्तो भवन्तु ॥६१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - पदार्थविद्या व देशकाल परिस्थिती जाणून उत्तम औषधांच्या रसाचे सेवन करणारे व विद्यायुक्त आणि वयोवृद्ध असणारे पिता इत्यादींचा संतानांनी सत्कार करावा. त्यांना आमंत्रित करून त्यांच्या साह्याने धन वगैरे ऐश्वर्य प्राप्त करावे.
६२ आच्या जानु
विश्वास-प्रस्तुतिः ...{Loading}...
आच्या॒ जानु॑ दक्षिण॒तो नि॒षद्ये॒मं य॒ज्ञम॒भिगृ॑णीत॒ विश्वे॑। मा हिँ॑सिष्ट पितरः॒ केन॑ चिन्नो॒ यद्व॒ऽआगः॑ पुरु॒षता॒ करा॑म ॥६२ ॥
मूलम् ...{Loading}...
आच्या॒ जानु॑ दक्षिण॒तो नि॒षद्ये॒मं य॒ज्ञम॒भिगृ॑णीत॒ विश्वे॑। मा हिँ॑सिष्ट पितरः॒ केन॑ चिन्नो॒ यद्व॒ऽआगः॑ पुरु॒षता॒ करा॑म ॥६२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आच्येत्या॒ऽअच्य॑। जानु॑। द॒क्षि॒ण॒तः। नि॒षद्य॑। नि॒षद्येति॑ नि॒ऽसद्य॑। इ॒मम्। य॒ज्ञम्। अ॒भि। गृ॒णी॒त॒। विश्वे॑। मा। हिँ॒सि॒ष्ट॒। पि॒त॒रः॒। केन॑। चि॒त्। नः॒। यत्। वः॒। आगः॑। पु॒रु॒षता॑। करा॑म। ६२।
महीधरः
म०. हे पितरः, दाशुषे हविर्दत्तवते मर्त्याय मनुष्याय यजमानाय यूयं रयिं धनं धत्त दत्त । कीदृशा यूयम् । अरुणीनामरुणवर्णानामूर्णानामुपस्थे उपरिभागे आसीनासः आसीनाः उपविष्टाः । याभिः कुतपाः क्रियन्ते ता ऊर्णा अरुणा भवन्ति ‘कुतपं चासने दद्यात्’ इति स्मृतेः कुतपप्रियाः पितरः । यद्वा अरुणीनामरुणवर्णानां रश्मीनामुपस्थे उत्सङ्गे आसीनाः । आदित्यलोकस्था इत्यर्थः । किंच हे पितरः, पुत्रेभ्यो यजमानेभ्यः तस्य वस्वः वसुनो धनस्य प्रयच्छत दत्त । कर्मणि षष्ठी । यदभीष्टं धनं तद्दत्त । पितॄणां पुत्रा एव यजमानाः । ते यूयमिहास्मदीये यज्ञे ऊर्जं रसं दधात स्थापयत ॥ ६३॥
चतुःषष्टी।
अधिमन्त्रम् (VC)
- पितरो देवता
- शङ्ख ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (विश्वे) सब (पितरः) पितृलोगो ! तुम (केन, चित्) किसी हेतु से (नः) हमारी जो (पुरुषता) पुरुषार्थता है, उसको (मा, हिंसिष्ट) मत नष्ट करो, जिससे हम लोग सुख को (कराम) प्राप्त करें, (यत्) जो (वः) तुम्हारा (आगः) अपराध है, उसको हम छुड़ावें, तुम लोग (इमम्) इस (यज्ञम्) सत्कारक्रियारूप व्यवहार को (अभि, गृणीत) हमारे सन्मुख प्रशंसित करो, हम (जानु) जानु अवयव को (आच्य) नीचे टेक के (दक्षिणतः) तुम्हारे दक्षिण पार्श्व में (निषद्य) बैठ के तुम्हारा निरन्तर सत्कार करें ॥६२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जिनके पितृ लोग जब समीप आवें अथवा सन्तान लोग इन के समीप जावें, तब भूमि में घुटने टिका नमस्कार कर इनको प्रसन्न करें, पितर लोग भी आशीर्वाद, विद्या और अच्छी शिक्षा के उपदेश से अपने सन्तानों को प्रसन्न करके सदा रक्षा किया करें ॥६२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विश्वे पितरः ! यूयं केनचिद्धेतुना नो या पुरुषता तां मा हिंसिष्ट, यतो वयं सुखं कराम, यद्व आगस्तत् त्याजयेम, यूयमिमं यज्ञमभिगृणीत, वयमाच्य जानु दक्षिणतो निषद्य युष्मान् सततं सत्कुर्याम ॥६२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - येषां पितरो यदा सामीप्यमागच्छेयुः स्वयं वैतेषां निकटे समभिगच्छेयुस्तदा भूमौ जानुनी निपात्य नमस्कृत्यैतान् प्रसादयेयुः, पितरश्चाशीर्विद्यासुशिक्षोपदेशेन स्वसन्तानान् प्रसन्नान् कृत्वा सततं रक्षेयुः ॥६२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - पिता व पुत्र जेव्हा एकमेकांच्या जवळ येतील तेव्हा पुत्राने भूमीवर गुडघे टेकून नमस्कार करावा व त्यांना प्रसन्न करून घ्यावे. पितरांनीही त्यांना आशीर्वाद द्यावा व विद्या आणि चांगल्या उपदेशाने संतानांना प्रसन्न करून सदैव त्यांचे रक्षण करावे.
६३ आसीनासोऽअरुणीनामुपस्थे रयिम्
विश्वास-प्रस्तुतिः ...{Loading}...
आसी॑नासोऽअरु॒णीना॑मु॒पस्थे॑ र॒यिं ध॑त्त दा॒शुषे॒ मर्त्या॑य। पु॒त्रेभ्यः॑ पितर॒स्तस्य॒ वस्वः॒ प्रय॑च्छ॒त तऽइ॒होर्जं॑ दधात ॥६३ ॥
मूलम् ...{Loading}...
आसी॑नासोऽअरु॒णीना॑मु॒पस्थे॑ र॒यिं ध॑त्त दा॒शुषे॒ मर्त्या॑य। पु॒त्रेभ्यः॑ पितर॒स्तस्य॒ वस्वः॒ प्रय॑च्छ॒त तऽइ॒होर्जं॑ दधात ॥६३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आसी॑नासः। अ॒रु॒णीना॑म्। उ॒पस्थ॒ इत्यु॒पऽस्थे॑। र॒यिम्। ध॒त्त। दा॒शुषे॑। मर्त्या॑य। पु॒त्रेभ्यः॑। पि॒त॒रः॒। तस्य॑। वस्वः॑। प्र। य॒च्छ॒त॒। ते। इह। ऊर्ज्ज॑म्। द॒धा॒त॒। ६३।
महीधरः
म०. द्वे अनुष्टुभौ । कव्यं पितृभ्यो देयमन्नं वहतीति कव्यवाहनः ‘कव्यपुरीषपुरीष्येषु ञ्युट्’ (पा० ३।२।६५) इति ञ्युट्प्रत्ययः । हे कव्यवाहन हे अग्ने, त्वं चित् त्वमपि यं रयिं हविर्लक्षणं धनं मन्यसे उत्तम जानासि नोऽस्माकं तं रयिं देवत्रा देवेषु पनय देहि । पनतिर्दानकर्मा । ‘देवमनुष्यपुरुष’ (पा० ५। ४ । ५६) इत्यादिना सप्तम्यर्थे देवात् त्राप्रत्ययः । कीदृशं रयिम् । गीर्भिः वाग्भिः पुरोनुवाक्यायाज्यावषट्कारलक्षणाभिः श्रवाय्यं श्रोतुं योग्यम् ‘श्रुदक्षिस्पृहिगृहिदयिभ्य आय्यः’ ( उणा० ३ । ९५) इति शृणोतेराय्यप्रत्ययः । तथा युजं युज्यत इति युक् तम् ‘क्विप् च’ (पा० ३ । २ । ७६ ) इति क्विप्प्रत्ययः योग्यम् ॥ ६४ ॥
पञ्चषष्टी ।
अधिमन्त्रम् (VC)
- पितरो देवताः
- शङ्ख ऋषिः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (पितरः) पितृ लोगो ! तुम (इह) इस गृहाश्रम में (अरुणीनाम्) गौरवर्णयुक्त स्त्रियों के (उपस्थे) समीप में (आसीनासः) बैठे हुए (पुत्रेभ्यः) पुत्रों के और (दाशुषे) दाता (मर्त्याय) मनुष्य के लिये (रयिम्) धन को (धत्त) धरो, (तस्य) उस (वस्वः) धन के भागों को (प्र, यच्छत) दिया करो, जिससे (ते) वे स्त्री आदि सब लोग (ऊर्ज्जम्) पराक्रम को (दधात) धारण करें ॥६३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - वे ही वृद्ध हैं जो अपनी स्त्री ही के साथ प्रसन्न, अपनी पत्नियों का सत्कार करनेहारे, सन्तानों के लिये यथायोग्य दायभाग और सत्पात्रों को सदा दान देते हैं और वे सन्तानों को सत्कार करने योग्य होते हैं ॥६३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे पितरः ! यूयमिहारुणीनामुपस्थ आसीनासः सन्तः पुत्रेभ्यो दाशुषे मर्त्याय च रयिं धत्त, तस्य वस्वोंऽशान् प्रयच्छत, यतस्त ऊर्जं दधात ॥६३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - त एव वृद्धाः सन्ति ये स्वस्त्रीव्रताः स्वपत्नीनां सत्कर्त्तारोऽपत्येभ्यो यथायोग्यं दायं सत्पात्रेभ्यो दानं च सदा ददति, ते च सन्तानैर्माननीयाः सन्ति ॥६३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - तेच खरे वृद्ध असतात जे आपल्या पत्नीसमवेत प्रसन्न राहतात व पत्नींचा सत्कार करणाऱ्या संतानांना यथायोग्य पैतृक संपत्ती देतात आणि सत्पात्रांना दान देतात. तेच लोक संतानांनी सन्मान करण्यायोग्य असतात.
६४ यमग्ने कव्यवाहन
विश्वास-प्रस्तुतिः ...{Loading}...
यम॑ग्ने कव्यवाहन॒ त्वं चि॒न्मन्य॑से र॒यिम्। तन्नो॑ गी॒र्भिः श्र॒वाय्यं॑ देव॒त्रा प॑नया॒ युज॑म् ॥६४ ॥
मूलम् ...{Loading}...
यम॑ग्ने कव्यवाहन॒ त्वं चि॒न्मन्य॑से र॒यिम्। तन्नो॑ गी॒र्भिः श्र॒वाय्यं॑ देव॒त्रा प॑नया॒ युज॑म् ॥६४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यम्। अ॒ग्ने॒। क॒व्य॒वा॒ह॒नेति॑ कव्यऽवाहन। त्वम्। चित्। मन्य॑से। र॒यिम्। तम्। नः॒। गी॒र्भिरिति॑ गीः॒ऽभिः। श्र॒वाय्य॑म्। दे॒व॒त्रेति॑ देव॒ऽत्रा। प॒न॒य॒। युज॑म्। ६४।
महीधरः
म० यः कव्यवाहनोऽग्निः पितॄन्यक्षदिष्टवान् ‘लेटोऽडाटौ’ ‘सिब्बहुलं लेटि’ इतो लोपः । कीदृशान् पितॄन् । ऋतावृधः ऋतं सत्यं यज्ञं वा वर्धयन्ति ते ऋतावृधः । संहितायां दीर्घः। तान् । सोऽग्निरिदानीं देवेभ्यः पितृभ्यश्च हव्यानि हवींषि प्रवोचति प्रब्रवीतु । इमानि देवेभ्य इमानि पितृभ्य इति वदत्वित्यर्थः । इत् उ निपातौ पादपूरणौ । आकारः समुच्चयार्थः । व्यत्ययेन वचेः शपि ‘वच उम्’ (पा० ७ । ४ । २७) इति छान्दस उमागमः ॥ ६५ ॥
षट्षष्टी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- शङ्ख ऋषिः
- विराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (कव्यवाहन) बुद्धिमानों के समीप उत्तम पदार्थ पहुँचानेहारे (अग्ने) अग्नि के समान प्रकाशयुक्त ! (त्वम्) आप (गीर्भिः) कोमल वाणियों से (श्रवाय्यम्) सुनाने योग्य (देवत्रा) विद्वानों में (युजम्) युक्त करने योग्य (यम्) जिस (रयिम्) ऐश्वर्य्य को (मन्यसे) जानते हो, (तम्) उसको (चित्) भी (नः) हमारे लिये (पनय) कीजिये ॥६४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - पिता आदि ज्ञानी लोगों को चाहिये कि पुत्रों और सत्पात्रों से प्रशंसित धन का सञ्चय करें, उस धन से उत्तम विद्वानों को ग्रहण कर, उनको सत्यधर्म के उपदेशक बनाके विद्या और धर्म का प्रचार करें और करावें ॥६४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे कव्यवाहनाऽग्ने ! त्वं गीर्भिः श्रवाय्यं देवत्रा युजं यं रयिं मन्यसे तं चिन्नः पनय ॥६४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - पितृभिः पुत्रेभ्यस्सत्पात्रेभ्यश्च प्रशंसनीयं धनं सञ्चेयम्। तेनैतान् विदुषो गृहीत्वा सत्यधर्मोपदेशकान् कारयित्वा विद्याधर्मौ प्रचारणीयौ ॥६४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - पिता वगैरे ज्ञानी लोकांनी पुत्रांकडून व सत्पात्रांकडून धनाचा संचय करून त्या धनाने उत्तम विद्वानांना सत्य धर्माचे उपदेशक बनवून विद्या व धर्माचा प्रचार करावा व करवावा.
६५ योऽअग्निः कव्यवाहनः
विश्वास-प्रस्तुतिः ...{Loading}...
योऽअ॒ग्निः क॑व्य॒वाह॑नः पि॒तॄन् यक्ष॑दृता॒वृधः॑। प्रेदु॑ ह॒व्यानि॑ वोचति दे॒वेभ्य॑श्च पि॒तृभ्य॒ आ ॥६५ ॥
मूलम् ...{Loading}...
योऽअ॒ग्निः क॑व्य॒वाह॑नः पि॒तॄन् यक्ष॑दृता॒वृधः॑। प्रेदु॑ ह॒व्यानि॑ वोचति दे॒वेभ्य॑श्च पि॒तृभ्य॒ आ ॥६५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यः। अ॒ग्निः। क॒व्य॒वाह॑न॒ इति॑ कव्य॒ऽवाह॑नः। पि॒तॄन्। यक्ष॑त्। ऋ॒ता॒वृधः॑। ऋ॒त॒वृध॒ इत्यृ॑त॒ऽवृधः॑। प्र। इत्। ऊँ॒ऽइत्यूँ॑। ह॒व्यानि॑। वो॒च॒ति॒। दे॒वेभ्यः॑। च॒। पि॒तृभ्य॒ इति॑ पि॒तृऽभ्यः॑। आ। ६५।
महीधरः
म० चतस्रस्त्रिष्टुभः । हे कव्यवाहन, हे अग्ने, त्वं हव्यानि हवींषि सुरभीणि कृत्वी सुगन्धानि कृत्वा अवाट् वहसि स्म । वहेर्लुङि इडागमाभावे सिचो लोपे रूपमवाट् । ‘स्नात्व्यादयश्च’ ( पा० ७।१। ४९ ) इति कृत्वीति निपातः । कीदृशस्त्वम्। ईडितः स्तुतः देवैर्ऋत्विग्भिश्च । किंच हव्यानि ऊढ्वा स्वधया पितृमन्त्रेण पितृभ्यः त्वं प्रादाः दत्तवानसि । ददातेर्लुङि रूपम् । ते च पितरः अक्षन् भक्षयन्ति स्म । ‘घस्लृ अदने’ इत्यस्य रूपम् । हे देव, त्वमपि अद्धि हवींषि भक्षय । ‘अद भक्षणे’ लोट् । कीदृशानि हवींषि । प्रयता प्रयतानि शुद्धानि ॥६६॥
सप्तषष्टी ।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- शङ्ख ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यः) जो (कव्यवाहनः) विद्वानों के श्रेष्ठ कर्मों को प्राप्त करानेहारा (अग्निः) अग्नि के समान विद्याओं में प्रकाशमान विद्वान् (ऋतावृधः) वेदविद्या से वृद्ध (पितॄन्) पितरों का (यक्षत्) सत्कार करे, सो (इत्) ही (उ) अच्छे प्रकार (देवेभ्यः) विद्वानों (च) और (पितृभ्यः) पितरों के लिये (हव्यानि) ग्रहण करने योग्य विद्वानों का (प्रावोचति) अच्छे प्रकार सब ओर से उपदेश करता है ॥६५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो पूर्ण ब्रह्मचर्य से पूर्णविद्यावाले होते हैं, वे विद्वानों में विद्वान् और पितरों में पितर गिने जाते हैं ॥६५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यः कव्यवाहनोऽग्निर्विद्वान् ऋतावृधः पितॄन् यक्षत्, स इदु देवेभ्यः पितृभ्यश्च हव्यानि प्रावोचति ॥६५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये ब्रह्मचर्येण पूर्णविद्या भवन्ति, ते विद्वत्सु विद्वांसः पितृषु पितरश्च गण्यन्ते ॥६५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे पूर्ण ब्रह्मचर्याचे पालन करून संपूर्ण विद्या प्राप्त करतात ते विद्वानांमध्ये विद्वान व पितरांमध्ये पितर समजले जातात.
६६ त्वमग्नऽईडितः कव्यवाहनावाड्ढव्यानि
विश्वास-प्रस्तुतिः ...{Loading}...
त्वम॑ग्नऽईडि॒तः क॑व्यवाह॒नावा॑ड्ढ॒व्यानि॑ सुर॒भीणि॑ कृ॒त्वी। प्रादाः॑ पि॒तृभ्यः॑ स्व॒धया॒ तेऽअ॑क्षन्न॒द्धि त्वं दे॑व॒ प्रय॑ता ह॒वीँषि ॥६६ ॥
मूलम् ...{Loading}...
त्वम॑ग्नऽईडि॒तः क॑व्यवाह॒नावा॑ड्ढ॒व्यानि॑ सुर॒भीणि॑ कृ॒त्वी। प्रादाः॑ पि॒तृभ्यः॑ स्व॒धया॒ तेऽअ॑क्षन्न॒द्धि त्वं दे॑व॒ प्रय॑ता ह॒वीँषि ॥६६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
त्वम्। अ॒ग्ने॒। ई॒डि॒तः। क॒व्य॒वा॒ह॒नेति॑ कव्यऽवाहन। अवा॑ट्। ह॒व्यानि॑। सु॒र॒भीणि॑। कृ॒त्वी। प्र। अ॒दाः॒। पि॒तृभ्य॒ इति॑ पि॒तृऽभ्यः॑। स्व॒धया॑। ते। अ॒क्ष॒न्। अ॒द्धि। त्वम्। दे॒व॒। प्रय॒तेति॒ प्रऽय॑ता। ह॒वीँषि॑। ६६।
महीधरः
म० ये पितर इह लोके वर्तन्ते ये च इह लोके न सन्ति यांश्च पितॄन् वयं विद्म जानीमः । उ पादपूरणः । यांश्च पितॄन् वयं न प्रविद्म न प्रकर्षेण जानीमः । हे जातवेदः, ते पितरो यति यावन्तो वर्तन्ते तान् त्वं वेत्थ जानासि । या संख्या येषां ते यति ‘किमः संख्यापरिमाणे’ (पा० ५।२। ४१) इत्यादिना सूत्रेण यत्तद्भ्यामपि डतिरिति वार्तिकेन यच्छब्दात् डतिप्रत्ययः ‘डति च’ (पा. १।१।२५) इति तस्य षट्संज्ञत्वात् ‘षट्भ्यो लुक्’ (पा० ७ । १ । २२) इति जसो लुक् । यद्वा यतीन् शुचीन् नित्यनैमित्तिकानुष्ठानैर्निष्पापान ते तान् त्वं वेत्थ । यति विभक्तिलोपः । ते इत्यत्र व्यत्ययेन जस् । किंच स्वधाभिः पितॄणामन्नैः सुकृतं शोभनं कृतं यज्ञं त्वं जुषस्व सेवस्व॥६७ ॥
अष्टषष्टी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- शङ्ख ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (कव्यवाहन) कवियों के प्रगल्भतादि कर्मों को प्राप्त हुए (अग्ने) अग्नि के समान पवित्र विद्वन् ! पुत्र ! (ईडितः) प्रशंसित (त्वम्) तू (सुरभीणि) सुगन्धादि युक्त (हव्यानि) खाने के योग्य पदार्थ (कृत्वी) कर के (अवाट्) प्राप्त करता है, उनको (पितृभ्यः) पितरों के लिये (प्रादाः) दिया कर। (ते) वे पितर लोग (स्वधया) अन्नादि के साथ इन पदार्थों का (अक्षन्) भोग किया करें। हे (देव) विद्वन् दातः ! (त्वम्) तू (प्रयता) प्रयत्न से साधे हुए (हवींषि) खाने के योग्य अन्नों को (अद्धि) भोजन किया कर ॥६६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - पुत्रादि सब लोग अच्छे संस्कार किये हुए सुगन्धादि से युक्त अन्न-पानों से पितरों को भोजन कराके आप भी इन अन्नों का भोजन करें, यही पुत्रों की योग्यता है। जो अच्छे संस्कार किये हुए अन्न-पानों को करते हैं, वे रोगरहित होकर शतवर्ष पर्यन्त जीते हैं ॥६६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे कव्यवाहनाग्ने विद्वन् ! पुत्र ! ईडितस्त्वं सुरभीणि हव्यानि कृत्व्यवाट् तानि पितृभ्यः प्रादास्ते पितरः स्वधया सहैतान्यक्षन्। हे देव ! त्वं प्रयत हवींष्यद्धि ॥६६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - पुत्रादयः सर्वे सुसंस्कृतैः सुगन्धादियुक्तैरन्नपानैः पितॄन् भोजयित्वा स्वयमेतानि भुञ्जीरन्नियमेव पुत्राणां योग्यतास्ति। ये सुसंस्कृतान्नपाने कुर्वन्ति, तेऽरोगाः शतायुषो भवन्ति ॥६६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - उत्तम प्रक्रिया केलेले अन्न पुत्रांनी पितरांना खाऊ घालावे व स्वतःही खावे. हे त्यांचे पुत्रत्व होय. जे उत्तम अन्न खातात ते रोगरहित होऊन शंभर वर्षे जगतात.
६७ ये चेह
विश्वास-प्रस्तुतिः ...{Loading}...
ये चे॒ह पि॒तरो॒ ये च॒ नेह याँश्च॑ वि॒द्म याँ२ऽउ॑ च॒ न प्र॑वि॒द्म। त्वं वे॑त्थ॒ यति॒ ते जा॑तवेदः स्व॒धाभि॑र्य॒ज्ञँ सुकृ॑तं जुषस्व ॥६७ ॥
मूलम् ...{Loading}...
ये चे॒ह पि॒तरो॒ ये च॒ नेह याँश्च॑ वि॒द्म याँ२ऽउ॑ च॒ न प्र॑वि॒द्म। त्वं वे॑त्थ॒ यति॒ ते जा॑तवेदः स्व॒धाभि॑र्य॒ज्ञँ सुकृ॑तं जुषस्व ॥६७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ये। च॒। इ॒ह। पि॒तरः॑। ये। च॒। न। इ॒ह। यान्। च॒। वि॒द्म। यान्। ऊँ॒ऽइत्यूँ॑। च॒। न। प्र॒वि॒द्मेति॑ प्रऽवि॒द्म। त्वम्। वे॒त्थ॒। यति॑। ते। जा॒त॒वे॒द॒ इति॑ जातऽवेदः। स्व॒धाभिः॑। य॒ज्ञम्। सुकृ॑त॒मिति॒ सुऽकृ॑तम्। जु॒ष॒स्व॒। ६७।
महीधरः
म० ये पितरः पूर्वासः पूर्वे ईयुः स्वर्गं जग्मुः । ये च उपरासः उपराः उपरमन्ते विरमन्ति ते उपरा उपरतव्यापाराः कृतकृत्याः सन्त ईयुः परं ब्रह्म प्रापुः । ये च पार्थिवे रजसि पृथिव्यां भवं पार्थिवं रजो ज्योतिरग्निः तस्मिन्ना निषत्ताः आभिमुख्ये निषण्णाः ‘नसत्तनिषत्त-’ (पा. ८ । २ । ६१) इत्यादिना निष्ठायां निपातः । ये वा । वा समुच्चयार्थः । ये च नूनं निश्चितं विक्षु प्रजासु यजमानलक्षणासु निषण्णाः । कीशीषु विक्षु । सुवृजनासु शोभनं वृजनं बलं यासां ताः सुवृजनास्तासु धर्मरूपबलयुक्तासु । अद्यास्मिन् दिने तेभ्यश्चतुर्विधेभ्यः स्वर्गब्रह्माग्नियजमानस्थेभ्यः इदं नमोऽन्नमस्तु ॥ ६८ ॥
एकोनसप्ततितमी।
अधिमन्त्रम् (VC)
- पितरो देवता
- शङ्ख ऋषिः
- स्वराट्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (जातवेदः) नवीन तीक्ष्ण बुद्धिवाले विद्वन् ! (ये) जो (इह) यहाँ (च) ही (पितरः) पिता आदि ज्ञानी लोग हैं (च) और (ये) जो (इह) यहाँ (न) नहीं हैं (च) और हम (यान्) जिनको (विद्म) जानते (च) और (यान्) जिनको (न, प्रविद्म) नहीं जानते हैं, उन (यति) यावत् पितरों को (त्वम्) आप (वेत्थ) जानते हो (उ) और (ते) वे आप को भी जानते हैं, उनकी सेवारूप (सुकृतम्) पुण्यजनक (यज्ञम्) सत्काररूप व्यवहार को (स्वधाभिः) अन्नादि से (जुषस्व) सेवन करो ॥६७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जो प्रत्यक्ष वा जो अप्रत्यक्ष विद्वान् अध्यापक और उपदेशक हैं, उन सब को बुला अन्नादि से सदा सत्कार करो, जिससे आप भी सर्वत्र सत्कारयुक्त होओ ॥६७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे जातवेदः ! ये चेह पितरो ये चेह न सन्ति, वयं यांश्च विद्म यांश्च न प्रविद्म, तान् यति यावतस्त्वं वेत्थ, उ ते त्वां विदुस्तत् सेवामयं सुकृतं यज्ञं स्वधाभिर्जुषस्व ॥६७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! ये प्रत्यक्षा वा येऽप्रत्यक्षा विद्वांसोऽध्यापका उपदेशकाश्च सन्ति, तान् सर्वानाहूयाऽन्नादिभिस्सदा सत्कुरुत, येन स्वयं सर्वत्र सत्कृता भवत ॥६७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! जे प्रत्यक्ष व अप्रत्यक्ष विद्वान अध्यापक व उपदेशक असतात त्या सर्वांना आमंत्रण देऊन त्यांचा अन्न इत्यादींनी सत्कार करावा. त्यामुळे तुम्हीही सर्वत्र आदरास पात्र व्हाल.
६८ इदं पितृभ्यो
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒दं पि॒तृभ्यो॒ नमो॑ऽअस्त्व॒द्य ये पूर्वो॑सो॒ यऽउप॑रास ई॒युः। ये पार्थि॑वे॒ रज॒स्या निष॑त्ता॒ ये वा॑ नू॒नँ सु॑वृ॒जना॑सु वि॒क्षु ॥६८ ॥
मूलम् ...{Loading}...
इ॒दं पि॒तृभ्यो॒ नमो॑ऽअस्त्व॒द्य ये पूर्वो॑सो॒ यऽउप॑रास ई॒युः। ये पार्थि॑वे॒ रज॒स्या निष॑त्ता॒ ये वा॑ नू॒नँ सु॑वृ॒जना॑सु वि॒क्षु ॥६८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इ॒दम्। पि॒तृभ्य॒ इति॑ पि॒तृभ्यः॑ नमः॑। अ॒स्तु॒। अ॒द्य। ये। पूर्वा॑सः। ये। उप॑रासः। ई॒युः। ये। पार्थि॑वे। रज॑सि। आ। निष॑त्ताः। निस॑त्ता॒ इति॒ निऽस॑त्ताः। ये। वा॒। नू॒नम्। सु॒वृ॒जना॒स्विति॑ सुऽवृ॒जना॑सु। वि॒क्षु। ६८।
महीधरः
म० हे अग्ने, नोऽस्माकं पितरः अध अथानन्तरं देहयात्रोत्तरकालं यथा येन प्रकारेण शुचि । सुपो लोपः । इदेवार्थे । शुचिं निर्मलं दीधितिं रविमण्डलमेव अयन् प्राप्ताः । ‘अय गतौ’ लङ् अडभाव आर्षः । कीदृशाः पितरः । परासः परा उत्कृष्टाः प्रत्नासः प्रत्नाः पुराणाः ऋतं यज्ञमाशुषाणाः अश्नुवाना व्याप्नुवन्तः । एवंभूताः पितरः यथा देवयानं पन्थानं प्राप्ताः तथा वयमपि अरुणीः अरुणवर्णाः सूर्यदीधितिमपव्रन् अपवृणुमः । सूर्यरश्मीनपवृत्य देवयानमार्ग प्राप्नुम इत्यर्थः । ‘वृञ् वरणे’ विकरणव्यत्ययेन शपि लुप्ते लङि रूपम् । अडभावः । पुरुषव्यत्ययश्छान्दसः। कीदृशा वयम् । उक्थशासः यज्ञेषु उक्थानि शस्त्राणि शंसन्ति वदन्ति ते उक्थशसः । क्विप् संहितायां दीर्घः । तथा क्षामा क्षामां भूमिं भिन्दन्तः वेदिचात्वालयूपावटोपरवादिखननैर्विदारयन्तः । सर्वोपकरणैर्यज्ञं कुर्वन्त इत्यर्थः ॥ ६९ ॥
सप्ततितमी।
अधिमन्त्रम् (VC)
- पितरो देवताः
- शङ्ख ऋषिः
- स्वराट्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ये) जो पितर लोग (पूर्वासः) हम से विद्या वा अवस्था में वृद्ध हैं, (ये) जो (उपरासः) वानप्रस्थ वा संन्यासाश्रम को प्राप्त होके गृहाश्रम के विषयभोग से उदासीनचित्त हुए (ईयुः) प्राप्त हों, (ये) जो (पार्थिवे) पृथिवी पर विदित (रजसि) लोक में (आ, निषत्ताः) निवास किये हुए (वा) अथवा (ये) जो (नूनम्) निश्चय कर के (सुवृजनासु) अच्छी गतिवाली (विक्षु) प्रजाओं में प्रयत्न करते हैं, उन (पितृभ्यः) पितरों के लिये (अद्य) आज (इदम्) यह (नमः) सुसंस्कृत अन्न (अस्तु) प्राप्त हो ॥६८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस संसार में जो प्रजा के शोधनेवाले हमसे श्रेष्ठ विरक्ताश्रम अर्थात् संन्यासाश्रम को प्राप्त पिता आदि हैं, वे पुत्रादि मनुष्यों को सदा सेवने योग्य हैं, जो ऐसा न करें तो कितनी हानि हो ॥६८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये पितरः पूर्वासो य उपरास ईयुर्ये पार्थिवे रजस्या निषत्ता वा नूनं ये सुवृजनासु विक्षु प्रयतन्ते, तेभ्यः पितृभ्योऽद्येदं नमोऽस्तु ॥६८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अस्मिन् संसारे ये प्रजाशोधका अस्मत्तो वरा विरक्ताश्रमं प्राप्ताः पित्रादयस्सन्ति, ते पुत्रादिभिर्मनुष्यैः सदा सेवनीया नोचेत् कियती हानिः ॥६८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या जगात आपल्यापेक्षाही श्रेष्ठ व विरक्त, दोष दूर करणारे, शुद्धी करणारे सन्यासी पिता असतात त्यांचा पुत्रांनी सदैव मान ठेवावा. या योग्यतेचेच ते असतात व जे असे मान ठेवणारे नसतात त्यांची खूप हानी होते.
६९ अधा यथा
विश्वास-प्रस्तुतिः ...{Loading}...
अधा॒ यथा॑ नः पि॒तरः॒ परा॑सः प्र॒त्नासो॑ऽअग्नऽऋ॒तमा॑शुषा॒णाः। शुचीद॑य॒न् दीधि॑तिमुक्थ॒शासः॒ क्षामा॑ भि॒न्दन्तो॑ऽअरु॒णीरप॑ व्रन् ॥६९ ॥
मूलम् ...{Loading}...
अधा॒ यथा॑ नः पि॒तरः॒ परा॑सः प्र॒त्नासो॑ऽअग्नऽऋ॒तमा॑शुषा॒णाः। शुचीद॑य॒न् दीधि॑तिमुक्थ॒शासः॒ क्षामा॑ भि॒न्दन्तो॑ऽअरु॒णीरप॑ व्रन् ॥६९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अध॑। यथा॑। नः॒। पि॒तरः॑। परा॑सः। प्र॒त्नासः॑। अ॒ग्ने॒। ऋ॒तम्। आ॒शु॒षा॒णाः। शुचि॑। इत्। अ॒य॒न्। दीधि॑तिम्। उ॒क्थ॒शासः॑। उ॒क्थ॒शास॒ इत्यु॑क्थ॒ऽशसः॑। क्षामा॑। भि॒न्दन्तः॑। अ॒रु॒णीः। अप॑। व्र॒न्। ६९।
महीधरः
म० अनुष्टुप् । हे अग्ने, उशन्तः कामयमाना वयं तं त्वा निधीमहि स्थापयामः । कामयमाना एव वयं त्वां समिधीमहि संदीपयामः । त्वं च उशन् कामयमानः सन् उशतः कामयमानान् पितॄनावह आनय । किं कर्तुम् । हविषे अत्तवे हविः अत्तुं भक्षयितुम् । तुमर्थे तवेप्रत्ययः विभक्तिव्यत्ययः ॥ ७० ॥
एकसप्ततितमी।
अधिमन्त्रम् (VC)
- पितरो देवताः
- शङ्ख ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्वन् ! (यथा) जैसे (नः) हमारे (परासः) उत्तम (प्रत्नासः) प्राचीन (उक्थशासः) उत्तम शिक्षा करनेहारे (शुचि) पवित्र (ऋतम्) सत्य को (आशुषाणाः) अच्छे प्रकार प्राप्त हुए (पितरः) पिता आदि ज्ञानी जन (दीधितिम्) विद्या के प्रकाश (अरुणीः) सुशीलता से प्रकाशवाली स्त्रियों और (क्षामा) निवासभूमि को (अयन्) प्राप्त होते हैं, (अध) इस के अनन्तर अविद्या का (भिन्दन्तः) विदारण करते हुए (इत्) ही अन्धकाररूप आवरणों को (अप, व्रन्) दूर करते हैं, उनका तू वैसे सेवन कर ॥६९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जो पिता आदि विद्या को प्राप्त कराके अविद्या का निवारण करते हैं, वे इस संसार में सब लोगों से सत्कार करने योग्य हों ॥६९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने विद्वन् ! यथा नः परासः प्रत्नास उक्थशासः शुचि ऋतमाशुषाणाः पितरो दीधितिमरुणीः क्षामा चायन्नधाऽथाविद्यां भिन्दन्त इदावरणान्यपव्रँस्तांस्त्वं तथा सेवस्व ॥६९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। ये जनकादयो विद्यां प्रापय्याऽविद्यां निवर्तयन्ति, तेऽत्र सर्वैस्सत्कर्त्तव्याः सन्तु ॥६९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जे माता-पिता इत्यादी ज्ञानी लोक विद्या प्राप्त करून अविद्य नष्ट करतात. त्यांचा सर्वांनी सत्कार करावा असेच ते असतात.
७० उशन्तस्त्वा नि
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒शन्त॑स्त्वा॒ नि धी॑मह्यु॒शन्तः॒ समि॑धीमहि। उ॒शन्नु॑श॒तऽआ व॑ह पि॒तॄन् ह॒विषे॒ऽअत्त॑वे ॥७० ॥
मूलम् ...{Loading}...
उ॒शन्त॑स्त्वा॒ नि धी॑मह्यु॒शन्तः॒ समि॑धीमहि। उ॒शन्नु॑श॒तऽआ व॑ह पि॒तॄन् ह॒विषे॒ऽअत्त॑वे ॥७० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उ॒शन्तः॑। त्वा॒। नि। धी॒म॒हि॒। उ॒शन्तः॑। सम्। इ॒धी॒म॒हि॒। उ॒शन्। उ॒श॒तः। आ। व॒ह॒। पि॒तॄन्। ह॒विषे॑। अत्त॑वे। ७०।
महीधरः
म० इन्द्रो गायत्री अग्रिमानुवाकनिदानभूता । हे इन्द्र, यत् यदा त्वं विश्वाः स्पृधः सर्वान् संग्रामानजयो जितवानसि तदा अपां फेनेन जलडिण्डीरेण नमुचेरसुरस्य शिरः उदवर्तयः छिन्नवानसि । उत्पूर्वो वृतिः छेदार्थः ॥ ७ ॥
द्विसप्ततितमी॥
अधिमन्त्रम् (VC)
- पितरो देवताः
- शङ्ख ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्या की इच्छा करनेवाले अथवा पुत्र तेरी (उशन्तः) कामना करते हुए हम लोग (त्वा) तुझ को (नि, धीमहि) विद्या का निधिरूप बनावें (उशन्तः) कामना करते हुए हम तुझ को (समिधीमहि) अच्छे प्रकार विद्या से प्रकाशित करें, (उशन्) कामना करता हुआ तू (हविषे) भोजन करने योग्य पदार्थ के (अत्तवे) खाने को (उशतः) कामना करते हुए हम (पितॄन्) पितरों को (आ, वह) अच्छे प्रकार प्राप्त हों ॥७० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे विद्वान् लोग बुद्धिमान्, जितेन्द्रिय, कृतज्ञ, परिश्रमी, विचारशील विद्यार्थियों की नित्य कामना करें, वैसे विद्यार्थी लोग भी ऐसे उत्तम अध्यापक विद्वान् लोगों की सेवा करके विद्वान् होवें ॥७० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्यार्थिन् पुत्र वा ! त्वामुशन्तो वयं त्वा निधीमह्युशन्तः सन्तः समिधीमहि। उशंस्त्वं हविषेऽत्तवे उशतोऽस्मान् पितॄनावह ॥७० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यथा विद्वांसो धीमतो जितेन्द्रियान् कृतज्ञान् परिश्रमिणो विचारशीलान् विद्यार्थिनो नित्यं कामयेरँस्तथा विद्यार्थिनोऽपीदृशानध्यापकान् विदुषः संसेव्य विद्वांसो भवन्तु ॥७० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - विद्वान लोकांना जशी बुद्धिमान, जितेंद्रिय, कृतज्ञ, परिश्रमी, विचारशील विद्यार्थ्यांचीच सदैव आवड असते, तशी विद्यार्थ्यांनीही अशा अध्यापकांची सेवा करून विद्वान बनावे.
७१ अपां फेनेन
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒पां फेने॑न॒ नमु॑चेः॒ शिर॑ऽइ॒न्द्रोद॑वर्त्तयः। विश्वा॒ यदज॑यः॒ स्पृधः॑ ॥७१ ॥
मूलम् ...{Loading}...
अ॒पां फेने॑न॒ नमु॑चेः॒ शिर॑ऽइ॒न्द्रोद॑वर्त्तयः। विश्वा॒ यदज॑यः॒ स्पृधः॑ ॥७१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒पाम्। फेने॑न। नमु॑चेः। शिरः॑। इ॒न्द्र॒। उत्। अ॒व॒र्त्त॒यः॒। विश्वाः॑। यत्। अज॑यः। स्पृधः॑। ७१।
महीधरः
म० ‘सोमो राजेत्यनुवाकेन ग्रहानुपतिष्ठते युगपत्’ (का० १९ । २ । २४) अष्टर्चेनानुवाकेन समानकालमेव पयोग्रहान्सुराग्रहांश्चाध्वर्युरुपतिष्ठते । यद्वा चतुर्भिः पयोग्रहांश्चतुर्भिः सुराग्रहान् । ग्रहणानन्तरमेवोपस्थानं मन्त्रपाठक्रमादत्रालेखीत्यर्थः । अश्विसरस्वतीन्द्रदृष्टा अष्टौ ऋचः । आद्यास्तिस्रो महाबृहत्यः । यस्याश्चत्वारः पादा अष्टकाः पञ्चमो द्वादशकः सा महाबृहती। सोमो राजा सुतोऽभिषुतः सन् अमृतममृतरूपो रसरूपो भवति । स्थूलस्य सूक्ष्मतापादनममृतीभावः । यत ऋजीषेण ऋजीषं नीरसं सोमलताचूर्णम् तद्रूपेण मृत्युं स्थूलभावमजहाज्जहाति । ऋतेन अनेन सत्येन एतत् सत्यम् ज्ञातम् यत् अन्धसोऽन्नस्य सोमस्य विपानं विविच्य पानं शुक्रं शुक्लं शुद्धमतएव इन्द्रियं वीर्यप्रदं भूयात् पयश्चेन्द्रस्येदृशं भवतु ॥ कीदृशं इन्द्रियम् । वीर्यवत् अमृतमजरामरत्वप्रदं मधु मधुरं च । अपां फेनेनेत्यस्य मन्त्रस्यास्यष्टर्चानुवाकस्य च श्रुत्या संबन्ध उक्तः । ‘तस्य शीर्ष्णि छिन्ने लोहितमिश्रः सोमोऽतिष्ठत् तस्मादबीभत्सन्त त एतदन्धसो विपानमपश्यन् सोमो राजामृतᳪं᳭ सुत इति तेनैनᳪं᳭ स्वदयित्वात्मन्नदधत’ इति । यथा एककारणानि वस्तूनि विविच्यमानानि दृश्यन्ते यथाच पृथग्भूतानि संमृष्टानि पुनर्विविच्यन्ते एवमयमपि लोहितमिश्रः सोमो विविक्तः सोम एवेति सर्वानुवाकार्थः ॥ ७२॥
त्रिसप्ततितमी॥।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- शङ्ख ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब सेनापति कैसा हो, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) सूर्य्य के समान वर्त्तमान सेनापते ! जैसे सूर्य (अपाम्) जलों की (फेनेन) वृद्धि से (नमुचेः) अपने स्वरूप को न छोड़नेवाले मेघ के (शिरः) घनाकार बद्दलों को काटता है, वैसे ही तू अपनी सेनाओं को (उदवर्त्तयः) उत्कृष्टता को प्राप्त कर (यत्) जो (विश्वाः) सब (स्पृधः) स्पर्द्धा करनेहारी शत्रुओं की सेना हैं, उन को (अजयः) जीत ॥७१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे सूर्य से आच्छादित भी मेघ वारंवार उठता है, वैसे ही वे शत्रु भी वारंवार उत्थान करते हैं। वे जब तक अपने बल को न्यून और दूसरों का बल अधिक देखते हैं, तब तक शान्त रहते हैं ॥७१ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ सेनेशः कीदृशः स्यादित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे इन्द्र ! यथा सूर्योऽपां फेनेन नमुचेर्मेघस्य शिरश्छिनत्ति, तथैव त्वं स्वकीयाः सेना उदवर्त्तयो यद्या विश्वाः स्पृधः सन्ति, ता अजयः ॥७१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा सूर्येणाच्छादितोऽपि मेघः पुनः पुनरुत्तिष्ठति, तथैव ते शत्रवोऽपि पुनः पुनरुत्थानं कुर्वन्ति, ते यावत् स्वं बलं न्यूनं परेषामधिकं च पश्यन्ति, तावच्छान्ता वर्त्तन्ते ॥७१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. ज्याप्रमाणे सूर्याने आच्छादित केले तरी मेघ वारंवार आकाश व्यापतात. त्याप्रमाणे शत्रूही वारंवार डोके वर काढतो. जोपर्यंत त्यांचे बल कमी व दुसऱ्याचे बल जास्त असते तोपर्यंत ते शांत राहतात.
७२ सोमो राजामृतम्
विश्वास-प्रस्तुतिः ...{Loading}...
सोमो॒ राजा॒मृतँ॑ सु॒तऽऋ॒जी॒षेणा॑जहान्त्मृ॒त्युम्। ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पानँ॑ शु॒क्रमन्ध॑स॒ऽइन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑ ॥७२ ॥
मूलम् ...{Loading}...
सोमो॒ राजा॒मृतँ॑ सु॒तऽऋ॒जी॒षेणा॑जहान्त्मृ॒त्युम्। ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पानँ॑ शु॒क्रमन्ध॑स॒ऽइन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑ ॥७२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सोमः॑ राजा॑। अ॒मृत॑म्। सु॒तः। ऋ॒जी॒षेण॑। अ॒ज॒हा॒त्। मृ॒त्युम्। ऋ॒तेन॑। स॒त्यम्। इ॒न्द्रि॒यम्। वि॒पान॒मिति॑ वि॒ऽपान॑म्। शु॒क्रम्। अन्ध॑सः। इन्द्र॑स्य। इ॒न्द्रि॒यम्। इ॒दम्। पयः॑। अ॒मृत॑म्। मधु॑। ७२।
महीधरः
म० अङ्गिरसः अङ्गानां रसः प्राणो यथा क्रुङ् हंसो भूखा धिया प्रज्ञया अद्भ्यः सकाशात् क्षीरं दुग्धमपिबत् पिबति । संसृष्टाभ्यां क्षीरोदकाभ्यां क्षीरमेव हंसः पिबतीति जातिस्वभावः । अनेन सत्येनेदं सत्यं यदन्धसो विपानं शुक्रं भवतु । अथेन्द्रस्य पयो वीर्यममृतं भवतु ॥ ७३ ॥
चतुःसप्ततितमी।
अधिमन्त्रम् (VC)
- सोमो देवता
- शङ्ख ऋषिः
- भुरिक्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
कौन पुरुष मुक्ति को प्राप्त होते हैं, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (ऋतेन) सत्य ब्रह्म के साथ (अन्धसः) सुसंस्कृत अन्नादि के सम्बन्धी (सत्यम्) विद्यमान द्रव्यों में उत्तम पदार्थ (विपानम्) विविध पान करने के साधन (शुक्रम्) शीघ्र कार्य करानेहारे (इन्द्रियम्) धन (इन्द्रस्य) परम ऐश्वर्यवाले जीव के (इन्द्रियम्) श्रोत्र आदि इन्द्रिय (इदम्) जल (पयः) दुग्ध (अमृतम्) अमृतरूप ब्रह्म वा ओषधि के सार और (मधु) सहत का संग्रह करे, सो (अमृतम्) अमृतरूप आनन्द को प्राप्त हुआ (सुतः) संस्कारयुक्त (सोमः) ऐश्वर्यवान् प्रेरक (राजा) न्यायविद्या से प्रकाशमान राजा (ऋजीषेण) सरल भाव से (मृत्युम्) मृत्यु को (अजहात्) छोड़ देवे ॥७२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो उत्तम शील और विद्वानों के सङ्ग से सब शुभलक्षणों को प्राप्त होते हैं, वे मृत्यु के दुःख को छोड़कर मोक्षसुख को ग्रहण करते हैं ॥७२ ॥
दयानन्द-सरस्वती (सं) - विषयः
के मुक्तिमाप्नुवन्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - य ऋतेनान्धसः सत्यं विपानं शुक्रमिन्द्रियमिन्द्रस्येन्द्रियमिदम्पयोऽमृतं मधु च सङ्गृह्णीयात्, सोऽमृतं प्राप्तः सन् सुतस्सोमो राजर्जीषेण मृत्युमजहात् ॥७२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये सुशीलेन विद्वत्सङ्गात् सर्वाणि शुभलक्षणानि प्राप्नुवन्ति, ते मृत्युदुःखं हित्वा मोक्षसुखं गृह्णन्ति ॥७२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे चरित्रवान असतात व विद्वानांच्या संगतीने शुभलक्षणयुक्त होतात ते मृत्यूच्या दुःखापासून मुक्त होऊन मोक्षसुख प्राप्त करतात.
७३ अद्भ्यः क्षीरम्
विश्वास-प्रस्तुतिः ...{Loading}...
अद्भ्यः क्षी॒रं व्य॑पिब॒त् +++(→filter feeding)+++
क्रुङ्ङ्+++(=crane/flamingo)+++ आ॑ङ्गिर॒सो धि॒या।
ऋ॒तेन॑ स॒त्यम् इ॑न्द्रि॒यं वि॒पानँ॑ शु॒क्रम् अन्ध॑स॒ ऽइन्द्र॑स्येन्द्रि॒यम् इ॒दं पयो॒ऽमृतं॒ मधु॑ ॥७३ ॥
मूलम् ...{Loading}...
अद्भ्यः क्षी॒रं व्य॑पिब॒त् क्रुङ्ङा॑ङ्गिर॒सो धि॒या। ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पानँ॑शु॒क्रमन्ध॑स॒ऽइन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑ ॥७३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒द्भ्य इत्य॒त्ऽभ्यः। क्षी॒रम्। वि। अ॒पि॒ब॒त्। क्रुङ्। आ॒ङ्गि॒र॒सः। धि॒या। ऋ॒तेन॑। स॒त्यम्। इ॒न्द्रि॒यम्। वि॒पान॒मिति॑ वि॒ऽपान॑म्। शु॒क्रम्। अन्ध॑सः। इन्द्र॑स्य। इ॒न्द्रि॒यम्। इ॒दम्। पयः॑। अमृत॑म्। मधु॑। ७३।
महीधरः
म० हंसः आदित्यः अद्भ्यः सकाशात् छन्दसा वेदेन वेदरूपैः किरणैर्यथा सोमं व्यपिबत् पिबति सोमोदकाभ्यां रविः सोममेव पिबति । ऋतेनेत्युक्तम् । कीदृशो रविः । शुचिषत् शुचि निर्मले गगने सीदतीति शुचिषत् ॥ ७४ ॥
पञ्चसप्ततितमी।
अधिमन्त्रम् (VC)
- आङ्गिरसो देवताः
- शङ्ख ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
मानसतरङ्गिणीकृत्
H tradition holds that certain birds can separate milk from water. We believe it is an allusion to an early realization of filter feeding. The earliest reference to this is in the shuklayajurveda regarding a bird termed kru~N.
We believe (contra main-stream IEists) that its a an ortholog of Germanic krana, and Armenian krownk. The IEist might laryngeally bellow that it violates phonology, but we believe that rather than being dominated by phonology its form was driven by onomatopoeia. This is supported by such forms showing up in Dravidian, Harappan, and Uralic.
We translate it as the unrelated flamingo because of the suspicion that it might have been laterally expanded to apply to a filter-feeder that also produces milk. The way this metaphor is used for the kru~N is very similar to how it is used for the haMsa later.
दयानन्द-सरस्वती (हि) - विषयः
कौन पुरुष विज्ञान को प्राप्त होते हैं, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (आङ्गिरसः) अङ्गिरा विद्वान् से किया हुआ विद्वान् (धिया) कर्म के साथ (अद्भ्यः) जलों से (क्षीरम्) दूध को (क्रुङ्) क्रुञ्चा पक्षी के समान थोड़ा-थोड़ा करके (व्यपिबत्) पीवे, वह (ऋतेन) यथार्थ योगाभ्यास से (इन्द्रस्य) ऐश्वर्य्ययुक्त जीव के (अन्धसः) अन्नादि के योग से (इदम्) इस प्रत्यक्ष (सत्यम्) सत्य पदार्थों में अविनाशी (विपानम्) विविध शब्दार्थ सम्बन्धयुक्त (शुक्रम्) पवित्र (इन्द्रियम्) दिव्यवाणी और (पयः) उत्तम रस (अमृतम्) रोगनाशक ओषधि (मधु) मधुरता और (इन्द्रियम्) दिव्य श्रोत्र को प्राप्त होवे ॥७३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो सत्याचरणादि कर्मों करके वैद्यक शास्त्र के विधान से युक्ताहारविहार करते हैं, वे सत्य बोध और सत्य विज्ञान को प्राप्त होते हैं ॥७३ ॥
दयानन्द-सरस्वती (सं) - विषयः
के जना विज्ञानमाप्नुवन्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - य आङ्गिरसो धियाऽद्भ्यः क्षीरं क्रुङ् व्यपिबत्, स ऋतेनेन्द्रस्यान्धसः सकाशादिदं सत्यं विपानं शुक्रमिन्द्रियं पयोऽमृतं मध्विन्द्रियं च प्राप्नुयात् ॥७३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये सत्याऽऽचरणैर्वैद्यकशास्त्रविधानात् युक्ताहारविहारं कुर्वन्ति, ते सत्यं बोधं विज्ञानञ्च यान्ति ॥७३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जे सत्यचरण करून वैद्यकशस्रानुसार आहारविहार करतात त्यांना सत्याचा बोध होतो व सत्य विज्ञानाचे आकलन होते.
७४ सोममद्भ्यो व्यपिबच्छन्दसा
विश्वास-प्रस्तुतिः ...{Loading}...
सोम॑म॒द्भ्यो व्य॑पिब॒च्छन्द॑सा हँ॒सः शु॑चि॒षत्। ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पानँ॑ शु॒क्रमन्ध॑स॒ऽइन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑ ॥७४ ॥
मूलम् ...{Loading}...
सोम॑म॒द्भ्यो व्य॑पिब॒च्छन्द॑सा हँ॒सः शु॑चि॒षत्। ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पानँ॑ शु॒क्रमन्ध॑स॒ऽइन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑ ॥७४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सोम॑म्। अ॒द्भ्य इत्य॒त्ऽभ्यः। वि। अ॒पि॒ब॒त्। छन्द॑सा। हँ॒सः। शु॒चि॒षत्। शु॒चि॒सदिति॑ शुचि॒ऽसत्। ऋ॒तेन॑। स॒त्यम्। इ॒न्द्रि॒यम्। वि॒पान॒मिति॑ वि॒ऽपान॑म्। शु॒क्रम्। अन्ध॑सः। इन्द्र॑स्य। इ॒न्द्रि॒यम्। इ॒दम्। पयः॑। अ॒मृत॑म्। मधु॑। ७४।
महीधरः
म० अतिजगती द्वापञ्चाशदक्षरा । प्रजापतिः प्रथमशरीरी परिस्रुतोऽन्नात्सुरारूपादन्नात् रसं ब्रह्मणा गायत्रीलक्षणेन व्यपिबत् विविच्य पीतवान् । क्षत्रं च व्यपिबत् वशीचकार । क्षत्रियस्य पानं वशीकरणम् । पयः सोमं च व्यपिबत् । अनेन सत्येनेदं सत्यम् ॥ ७५ ॥
षट्सप्ततितमी।
अधिमन्त्रम् (VC)
- सोमो देवता
- शङ्ख ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (शुचिषत्) पवित्र विद्वानों में बैठता है (हंसः) दुःख का नाशक विवेकी जन (छन्दसा) स्वच्छन्दता क साथ (अद्भ्यः) उत्तम संस्कारयुक्त जलों से (सोमम्) सोमलतादि महौषधियों के सार रस को (व्यपिबत्) अच्छे प्रकार पीता है, सो (ऋतेन) सत्य वेदविज्ञान से (अन्धसः) उत्तम संस्कार किये हुए अन्न के दोषनिवर्तक (शुक्रम्) शुद्धि करनेहारे (विपानम्) विविध रक्षा से युक्त (सत्यम्) परमेश्वरादि सत्य पदार्थों में उत्तम (इन्द्रियम्) विज्ञान रूप (इन्द्रस्य) योगविद्या से उत्पन्न हुए परम ऐश्वर्य की प्राप्ति करानेहारे (इदम्) इस प्रत्यक्ष प्रतीति के आश्रय (पयः) उत्तम ज्ञान रसवाले (अमृतम्) मोक्ष (मधु) विद्यायुक्त (इन्द्रियम्) जीव ने सेवन किये हुए सुख को प्राप्त होने को योग्य होता है, वही अखिल आनन्द को पाता है ॥७४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो युक्ताहार-विहार करनेहारे वेदों को पढ़, योगाभ्यास कर, अविद्यादि क्लेशों को छुड़ा, योग की सिद्धियों को प्राप्त हो और उनके अभिमान को भी छोड़ के कैवल्य को प्राप्त होते हैं, वे ब्रह्मानन्द का भोग करते हैं ॥७४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यः शुचिषद्धंसो विवेकी जनश्छन्दसाऽद्भ्यः सोमं व्यपिबत्, स ऋतेनाऽन्धसो दोषनिवर्तकं शुक्रं विपानं सत्यमिन्द्रियमिन्द्रस्य प्रापकमिदं पयोऽमृतं मध्विन्द्रियं चाप्तुमर्हति, स एवाखिलानन्दं प्राप्नोति ॥७४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये युक्ताहारविहारा वेदानधीत्य योगमभ्यस्याऽविद्यादिक्लेशान्निवर्त्य योगसिद्धीः प्राप्य तदभिमानमपि विहाय कैवल्यमाप्नुवन्ति, ते ब्रह्मानन्दम्भुञ्जते ॥७४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे युक्त आहार-विहार करून वेदांचे अध्ययन करतात ते योगाभ्यास करून अविद्या इत्यादी क्लेशांना दूर करतात आणि योगसिद्धी प्राप्त करतात. अहंकाराला त्याग करून कैवल्य प्राप्त करून ब्रह्मानंद भोगतात.
७५ अन्नात् परिस्रुतो
विश्वास-प्रस्तुतिः ...{Loading}...
अन्ना॑त् परि॒स्रुतो॒ रसं॒ ब्रह्म॑णा॒ व्य᳖पिबत् क्ष॒त्रं पयः॒ सोमं॑ प्र॒जाप॑तिः। ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पानंँ शु॒क्रमन्ध॑स॒ऽइन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑ ॥७५ ॥
मूलम् ...{Loading}...
अन्ना॑त् परि॒स्रुतो॒ रसं॒ ब्रह्म॑णा॒ व्य᳖पिबत् क्ष॒त्रं पयः॒ सोमं॑ प्र॒जाप॑तिः। ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पानंँ शु॒क्रमन्ध॑स॒ऽइन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑ ॥७५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अन्ना॑त्। प॒रि॒स्रुत॒ इति॑ परि॒ऽस्रुतः॑। रस॑म्। ब्रह्म॑णा। वि। अ॒पि॒ब॒त्। क्ष॒त्रम्। पयः॑। सोम॑म्। प्र॒जाप॑ति॒रिति॑ प्र॒जाऽप॑तिः। ऋ॒तेन॑। स॒त्यम्। इ॒न्द्रि॒यम्। वि॒पान॒मिति॑ वि॒ऽपान॑म्। शु॒क्रम्। अन्ध॑सः। इन्द्र॑स्य। इ॒न्द्रि॒यम्। इ॒दम्। पयः॑। अ॒मृत॑म्। मधु॑। ७५।
महीधरः
म० अतिशक्कर्यौ द्वे षष्ठ्यक्षरातिशक्वरी । इन्द्रियं पुंप्रजननं शिश्नं योनिं स्त्रीप्रजननं प्रविशत् सत् रेतो वीर्यं विजहाति त्यजति । योनिप्रवेशादन्यत्र मूत्रं विजहाति । समानद्वारयोरपि रेतोमूत्रयोर्मूत्रस्थानादन्यत्र रेतोऽवतिष्ठते । जरायुणा गर्भवेष्टनेनावृतो गर्भः जन्मना कृत्वा उल्बं जरायुं जहाति । भिन्नस्था नानामेकद्वाराणामाद्यमुदाहरणम् । एकस्थानानामनेकद्वाराणां द्वितीयम् । ऋतेनेति व्याख्यातम् ॥ ७६ ॥
सप्तसप्ततितमी।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- शङ्ख ऋषिः
- भुरिगतिजगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
कैसे राज्य की उन्नति करनी चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (ब्रह्मणा) चारों वेद पढ़े हुए विद्वान् के साथ (प्रजापतिः) प्रजा का रक्षक सभाध्यक्ष राजा (परिस्रुतः) सब ओर से पके हुए (अन्नात्) जौ आदि अन्न से निकले (पयः) दुग्ध के तुल्य (सोमम्) ऐश्वर्ययुक्त (रसम्) साररूप रस और (क्षत्रम्) क्षत्रियकुल को (व्यपिबत्) ग्रहण करे, सो (ऋतेन) विद्या तथा विनय से युक्त न्याय से (अन्धसः) अन्धकाररूप अन्याय के निवारक (शुक्रम्) पराक्रम करनेहारे (विपानम्) विविध रक्षण के हेतु (सत्यम्) सत्य व्यवहारों में उत्तम (इन्द्रियम्) इन्द्र नामक परमात्मा ने दिये हुए (इन्द्रस्य) समग्र ऐश्वर्य के देनेहारे राज्य की प्राप्ति करानेहारे (इदम्) इस प्रत्यक्ष (पयः) पीने के योग्य (अमृतम्) अमृत के तुल्य सुखदायक रस और (मधु) मधुरादि गुणयुक्त (इन्द्रियम्) राजादि पुरुषों ने सेवे हुए न्यायाचरण को प्राप्त होवे, यह सदा सुखी होवे ॥७५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो विद्वानों की अनुमति से राज्य को बढ़ाने की इच्छा करते हैं, वे अन्याय की निवृत्ति करने और राज्य को बढ़ाने में समर्थ होते हैं ॥७५ ॥
दयानन्द-सरस्वती (सं) - विषयः
कथं राज्यमुन्नेयमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यो ब्रह्मणा सह प्रजापतिः परिस्रुतोऽन्नान्निःसृतं पयः सोमं रसं क्षत्रं च व्यपिबत्, स ऋतेनाऽन्धसो निवर्तकं शुक्रं विपानं सत्यमिन्द्रियमिन्द्रस्य प्रापकमिदं पयोऽमृतं मध्विन्द्रियं च प्राप्नुयात्, स सदा सुखी भवेत् ॥७५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये विद्वदनुमत्या राज्यं वर्द्धितुमिच्छन्ति, तेऽन्यायं निवर्तयितुं राज्यं वर्द्धयितुं च शक्नुवन्ति ॥७५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे (राजे) विद्वानांच्या मान्यतेने राज्याची वृद्धी करू इच्छितात. ते अन्याय नाहीसा करून राज्य वाढविण्यास समर्थ असतात.
७६ रेतो मूत्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
रेतो॒ मूत्रं॒ विज॑हाति॒ योनिं॑ प्रवि॒शदि॑न्द्रि॒यम्। गर्भो ज॒रायु॒णावृ॑त॒ऽउल्बं॑ जहाति॒ जन्म॑ना। ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पानँ॑ शु॒क्रमन्ध॑स॒ऽइन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑ ॥७६ ॥
मूलम् ...{Loading}...
रेतो॒ मूत्रं॒ विज॑हाति॒ योनिं॑ प्रवि॒शदि॑न्द्रि॒यम्। गर्भो ज॒रायु॒णावृ॑त॒ऽउल्बं॑ जहाति॒ जन्म॑ना। ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पानँ॑ शु॒क्रमन्ध॑स॒ऽइन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑ ॥७६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
रेतः॑। मूत्र॑म्। वि। ज॒हा॒ति॒। योनि॑म्। प्र॒वि॒शदिति॑ प्रऽवि॒शत्। इ॒न्द्रि॒यम्। गर्भः॑। ज॒रायु॑णा। आवृ॑त॒ इत्यावृ॑तः। उल्व॑म्। ज॒हा॒ति॒। जन्म॑ना। ऋ॒तेन॑। स॒त्यम्। इ॒न्द्रि॒यम्। वि॒पान॒मिति॑ वि॒ऽपान॑म्। शु॒क्रम्। अन्ध॑सः। इन्द्र॑स्य। इ॒न्द्रि॒यम्। इ॒दम्। पयः॑। अ॒मृत॑म्। मधु॑। ७६।
महीधरः
म० प्रजापतिः रूपे रूपवती मूर्तिमती सत्यानृते दृष्ट्वा व्याकरोत् । व्याकरणं पृथक्त्वं कृतवान् इदं सत्यमिदमनृतमिति पृथगवास्थापयत् । तदेवाह । अनृते अश्रद्धां नास्तिक्यमदधात् अस्थापयत् अनृतस्याश्रद्धानिमित्तत्वात् । सत्ये श्रद्धामदधात् सत्यस्य श्रद्धानिमित्तत्वात् । श्रद्धास्तिक्यबुद्धिः । अनेन ऋतेनेत्युक्तम् ॥ ७७ ॥
अष्टसप्ततितमी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- शङ्ख ऋषिः
- भुरिगतिशक्वरी
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
शरीर से वीर्य्य कैसे उत्पन्न होता है, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रियम्) पुरुष का लिङ्ग इन्द्रिय (योनिम्) स्त्री की योनि में (प्रविशत्) प्रवेश करता हुआ (रेतः) वीर्य को (वि, जहाति) विशेष कर छोड़ता है, इससे अलग (मूत्रम्) प्रस्राव को छोड़ता है, वह वीर्य (जरायुणा) जरायु से (आवृतः) ढका हुआ (गर्भः) गर्भरूप होकर जन्मता है, (जन्मना) जन्म से (उल्वम्) आवरण को (जहाति) छोड़ता है, वह (ऋतेन) बाहर के वायु से (अन्धसः) आवरण को निवृत्त करनेहारे (विपानम्) विविध पान के साधन (शुक्रम्) पवित्र (सत्यम्) वर्त्तमान में उत्तम (इन्द्रस्य) जीव के सम्बन्धी (इन्द्रियम्) धन को और (इदम्) इस (पयः) रस के तुल्य (अमृतम्) नाशरहित (मधु) प्रत्यक्षादि ज्ञान के साधन (इन्द्रियम्) चक्षुरादि इन्द्रिय को प्राप्त होता है ॥७६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - प्राणी जो कुछ खाता-पीता है, परम्परा से वीर्य होकर शरीर का कारण होता है। पुरुष का लिङ्ग इन्द्रिय स्त्री के संयोग से वीर्य छोड़ता और इससे अलग मूत्र को छोड़ता है, इससे जाना जाता है कि शरीर में मूत्र के स्थान से पृथक् स्थान में वीर्य रहता है, वह वीर्य्य जिस कारण सब अङ्गों की आकृति उसमें रहती है, इसी से जिसके शरीर से वीर्य उत्पन्न होता है, उसी की आकृतिवाला सन्तान होता है ॥७६ ॥
दयानन्द-सरस्वती (सं) - विषयः
शरीरात् कथं वीर्य्यमुत्पद्यत इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - इन्द्रियं योनिं प्रविशत् सद् रेतो विजहाति। अतोऽन्यत्र मूत्रं विजहाति तज्जरायुणावृतो गर्भो जायते जन्मनोल्वं जहाति, स ऋतेनान्धसो निवर्तकं विपानं शुक्रं सत्यमिन्द्रस्येन्द्रियमिदं पयोऽमृतं मध्विन्द्रियं चैति ॥७६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - प्राणिना यत् किञ्चिद् भुज्यते पीयते तत् परम्परया शुक्रं भूत्वा शरीरकारणं जायते, पुरुषस्योपस्थेन्द्रियं स्त्रीसंयोगेन शुक्रं मुञ्चति। अतोऽन्यत्र मूत्रं त्यजति, तेन ज्ञायते शरीरे मूत्रस्थानादन्यत्र रेतस्तिष्ठति तद्यस्मात् सर्वेभ्योऽङ्गेभ्य उत्पद्यते, तस्मात् सर्वाङ्गाकृतिर्वर्त्तते। अत एव यस्य शरीराद् वीर्यमुत्पद्यते, तदाकृतिरेव सन्तानो जायते ॥७६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - प्राणी जे खातो-पितो त्याचे (शेवटी) वीर्य बनते व वीर्य हे शरीराचे कारण असते. पुरुषाचे लिंग स्रीच्या योनीत वीर्य सोडते. मूत्रस्राव त्यापासून वेगळा असतो. यावरून हे कळून येते की, शरीरात मूत्रस्थानापेक्षा वेगळे असे वीर्याचे स्थान असते. शरीराच्या सर्व अवयवांतून वीर्य उत्पन्न होते. त्यामुळे सर्व अवयवांची आकृती त्यात असते. त्यामुळे ज्या शरीरापासून वीर्य उपत्पन्न होते त्याच आकृतीचे संतान उत्पन्न होते.
७७ दृष्ट्वा रूपे
विश्वास-प्रस्तुतिः ...{Loading}...
दृ॒ष्ट्वा रू॒पे व्याक॑रोत् सत्यानृ॒ते प्र॒जाप॑तिः। अश्र॑द्धा॒मनृ॒तेऽद॑धाच्छ्र॒द्धाँ स॒त्ये प्र॒जाप॑तिः। ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पानँ॑ शु॒क्रमन्ध॑स॒ऽइन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृ॒तं मधु॑ ॥७७ ॥
मूलम् ...{Loading}...
दृ॒ष्ट्वा रू॒पे व्याक॑रोत् सत्यानृ॒ते प्र॒जाप॑तिः। अश्र॑द्धा॒मनृ॒तेऽद॑धाच्छ्र॒द्धाँ स॒त्ये प्र॒जाप॑तिः। ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पानँ॑ शु॒क्रमन्ध॑स॒ऽइन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृ॒तं मधु॑ ॥७७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दृ॒ष्ट्वा। रू॒पेऽइति॑ रू॒पे। वि। आ। अ॒क॒रो॒त्। स॒त्या॒नृ॒ते इति॑ सत्यऽअनृ॒ते। प्र॒जाप॑ति॒रिति॑ प्र॒जाऽप॑तिः। अश्र॑द्धाम्। अनृ॑ते। अद॑धात्। श्र॒द्धाम्। स॒त्ये। प्र॒जाप॑ति॒रिति॑ प्र॒जाऽप॑तिः। ऋ॒तेन॑। स॒त्यम्। इ॒न्द्रि॒यम्। वि॒पान॒मिति॑ वि॒ऽपान॑म्। शु॒क्रम्। अन्ध॑सः। इन्द्र॑स्य। इ॒न्द्रि॒यम्। इ॒दम्। पयः॑। अ॒मृत॑म्। मधु॑। ७७।
महीधरः
म० महाबृहती । प्रजापतिः सुतासुतौ सुतासुतयोः रूपे वेदेन ज्ञानेन त्रय्या विद्यया वा व्यपिबत् विविच्य पीतवान् ॥ सुतः सोमः असुतः पयः परिस्रुच्च । ऋतेनेत्युक्तम् ॥ ७८ ॥
एकोनाशीतितमी।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- शङ्ख ऋषिः
- अतिशक्वरी
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब धर्म-अधर्म कैसे हैं, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (प्रजापतिः) प्रजा का रक्षक परमेश्वर (ऋतेन) यथार्थ अपने सत्य विज्ञान से (सत्यानृते) सत्य और झूठ जो (रूपे) निरूपण किये हुए हैं, उनको (दृष्ट्वा) ज्ञानदृष्टि से देखकर (व्याकरोत्) विविध प्रकार से उपदेश करता है। जो (अनृते) मिथ्याभाषणादि में (अश्रद्धाम्) अप्रीति को (अदधात्) धारण करता और (सत्ये) सत्य में (श्रद्धाम्) प्रीति को धारण कराता और जो (अन्धसः) अधर्माचरण के निवर्त्तक (शुक्रम्) शुद्धि करनेहारे (विपानम्) विविध रक्षा के साधन (सत्यम्) सत्यस्वरूप (इन्द्रियम्) चित्त को और जो (इन्द्रस्य) परमैश्वर्ययुक्त धर्म के प्रापक (इदम्) इस (पयः) अमृतरूप सुखदाता (अमृतम्) मृत्युरोगनिवारक (मधु) मानने योग्य (इन्द्रियम्) विज्ञान के साधन को धारण करे, वह (प्रजापतिः) परमेश्वर सब का उपासनीय देव है ॥७७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य ईश्वर के आज्ञा किये धर्म का आचरण करते और निषेध किये हुए अधर्म का सेवन नहीं करते हैं, वे सुख को प्राप्त होते हैं। जो ईश्वर धर्म-अधर्म को न जनावे तो धर्माऽधर्म्म के स्वरूप का ज्ञान किसी को भी नहीं हो। जो आत्मा के अनुकूल आचरण करते और प्रतिकूलाचरण को छोड़ देते हैं, वे धर्माधर्म के बोध से युक्त होते हैं, इतर जन नहीं ॥७७ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ धर्माधर्मौ कीदृशावित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यः प्रजापतिर्ऋतेन स्वकीयेन सत्येन विज्ञानेन सत्यानृते रूपे दृष्ट्वा व्याकरोत्, योऽनृतेऽश्रद्धामदधात् सत्ये श्रद्धां च यश्चाऽन्धसो निवर्तकं शुक्रं विपानं सत्यमिन्द्रियं यश्चेन्द्रस्य प्रापकमिदं पयोऽमृतं मध्विन्द्रियं चाऽदधात्, स एव प्रजापतिः सर्वैरुपासनीयः ॥७७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्याः ईश्वराज्ञापितं धर्ममाचरन्ति, अधर्मं न सेवन्ते, ते सुखं लभन्ते। यदीश्वरो धर्माऽधर्मौ न ज्ञापयेत्, तर्ह्येतयोः स्वरूपविज्ञानं कस्यापि न स्यात्। य आत्मानुकूलमाचरणं कुर्वन्ति, प्रतिकूलं च त्यजन्ति, ते हि धर्माऽधर्मबोधयुक्ता भवन्ति, नेतरे ॥७७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे ईश्वराच्या आज्ञेनुसार धर्माचरण करतात व निषेधात्मक असलेल्या अधर्माचे आचरण करत नाहीत ती सुखी होतात. ईश्वराने धर्म अधर्माचे जे ज्ञान दिलेले आहे ते न दिल्यास कुणालाही धर्माधर्माच्या स्वरूपाचे ज्ञान होणार नाही. जे आत्म्याच्या अनुकूल आचरण करतात व प्रतिकूल आचरण करत नाहीत त्यांनाच धर्माधर्माचा बोध येतो, इतरांना नाही.
७८ वेदेन रूपे
विश्वास-प्रस्तुतिः ...{Loading}...
वेदे॑न रू॒पे व्य॑पिबत् सुतासु॒तौ प्र॒जाप॑तिः। ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पानँ॑ शु॒क्रमन्ध॑स॒ऽइन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑ ॥७८ ॥
मूलम् ...{Loading}...
वेदे॑न रू॒पे व्य॑पिबत् सुतासु॒तौ प्र॒जाप॑तिः। ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पानँ॑ शु॒क्रमन्ध॑स॒ऽइन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑ ॥७८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वेदे॑न। रू॒पेऽइति॑ रू॒पे। वि। अ॒पि॒ब॒त्। सु॒ता॒सु॒तौ। प्र॒जाप॑ति॒रिति॒ प्र॒जाऽप॑तिः। ऋ॒तेन॑। स॒त्यम्। इ॒न्द्रि॒यम्। वि॒पान॒मिति॑ वि॒ऽपान॑म्। शु॒क्रम्। अन्ध॑सः। इन्द्र॑स्य। इ॒न्द्रि॒यम्। इ॒दम्। पयः॑। अ॒मृत॑म्। मधु॑। ७८।
महीधरः
म० अतिजगती । प्रजापतिः परिस्रुतः सुराया रसं दृष्ट्वा शुक्रेण शुद्धेन मन्त्रेण पयः सोमं च शुक्रं शुक्लं शुद्धं कृत्वा व्यपिबत् वियुज्य पीतवान् । ऋतेनेत्युक्तार्थम् ॥ ७९ ॥
अशीतितमी।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- शङ्ख ऋषिः
- भुरिक्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब वेद के जाननेवाले कैसे होते हैं, इस विषय का उपदेश अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (प्रजापतिः) प्रजा का पालन करनेवाला जीव (ऋतेन) सत्य विज्ञानयुक्त (वेदेन) ईश्वरप्रकाशित चारों वेदों से (सुतासुतौ) प्रेरित अप्रेरित धर्माधर्म्म (रूपे) स्वरूपों को (व्यपिबत्) ग्रहण करे सो (इन्द्रस्य) ऐश्वर्य्ययुक्त जीव के (अन्धसः) अन्नादि के (विपानम्) विविध पान के निमित्त (शुक्रम्) पराक्रम देनेहारे (सत्यम्) सत्यधर्माचरण में उत्तम (इन्द्रियम्) धन और (इदम्) जलादि (पयः) दुग्धादि (अमृतम्) मृत्युधर्मरहित विज्ञान (मधु) मधुरादि गुणयुक्त पदार्थ और (इन्द्रियम्) ईश्वर के दिये हुए ज्ञान को प्राप्त होवे ॥७८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - वेदों को जाननेवाले ही धर्माधर्म्म के जानने तथा धर्म के आचरण और अधर्म के त्याग से सुखी होने को समर्थ होते हैं ॥७८ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ वेदज्ञाः कीदृशा इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यः प्रजापतिर्ऋतेन वेदेन सुतासुतौ रूपे व्यपिबत्, स इन्द्रस्यान्धसो विपानं शुक्रं सत्यमिन्द्रियमिदं पयोऽमृतं मध्विन्द्रियं चाप्नुयात् ॥७८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - वेदविद एव धर्माधर्मौ ज्ञातुं धर्माचरणेनाऽधर्मत्यागेन च सुखिनो भवितुं शक्नुवन्ति ॥७८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - वेदांना जाणणारेच धर्माधर्माला जाणू शकतात. धर्माचे आचरण व अधर्माचा त्याग करून ते सुखी होऊ शकतात.
७९ दृष्ट्वा परिस्रुतो
विश्वास-प्रस्तुतिः ...{Loading}...
दृष्ट्वा प॑रि॒स्रुतो॒ रसँ॑ शु॒क्रेण॑ शु॒क्रं व्य॑पिब॒त् पयः॒ सोमं॑ प्र॒जाप॑तिः। ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पानँ॑ शु॒क्रमन्ध॑स॒ऽइन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑ ॥७९ ॥
मूलम् ...{Loading}...
दृष्ट्वा प॑रि॒स्रुतो॒ रसँ॑ शु॒क्रेण॑ शु॒क्रं व्य॑पिब॒त् पयः॒ सोमं॑ प्र॒जाप॑तिः। ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पानँ॑ शु॒क्रमन्ध॑स॒ऽइन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑ ॥७९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दृ॒ष्ट्वा। प॒रि॒स्रुत॒ इति॑ परि॒स्रुतः॑। रस॑म्। शु॒क्रेण॑। शु॒क्रम्। वि। अ॒पि॒ब॒त्। पयः॑। सोम॑म्। प्र॒जाप॑ति॒रिति॑ प्र॒जाऽप॑तिः। ऋ॒तेन॑। स॒त्यम्। इ॒न्द्रि॒यम्। वि॒पान॒मिति॑ वि॒ऽपान॑म्। शु॒क्रम्। अन्ध॑सः। इन्द्र॑स्य। इ॒न्द्रि॒यम्। इ॒दम्। पयः॑। अ॒मृत॑म्। मधु॑। ७९।
महीधरः
म० ‘खुरैर्वसाग्रहान्द्वात्रिᳪं᳭शतं जुहोति सीसेनेति प्रत्यृचम्’ | ( का० १९ । ४ । १२) । पञ्चपलो ग्रह इति परिशिष्टोक्तेः ऋषभखुराणां महत्त्वाच्चार्षभैः खुरैः पशूनां वसां गृहीत्वा सीसेनेति प्रतिमन्त्रं द्वात्रिंशत्संख्यान्सुराग्रहान् जुहोति । एकेन मन्त्रेण द्वयोर्होम इत्यर्थः । अश्विसरस्वतीन्द्रदेवत्याः षोडश जगत्यः । ‘जगतीभिर्जुहोति’ ( १२ । ८ । ३ । १३) इति श्रुतिबलाद्बह्वक्षरन्यूनानामपि कासांचिज्जगतीत्वमेव । दस्रादिभिर्यथा इन्द्रस्य भैषज्यं कृतं तदनेनानुवाकेन प्रतिपाद्यते । अश्विना अश्विनौ दस्रौ सविता सरस्वती वरुणश्च मनसा विचार्य यज्ञं सौत्रामणीं वयन्ति निष्पादयन्ति । केन । सीसेन ऊर्णासूत्रेण च सीसेन शष्पक्रयणादूर्णया तोक्मक्रयणात् ताभ्यां यज्ञनिष्पादनमित्यर्थः । तत्र दृष्टान्तः । सीसेन ऊर्णासूत्रेण च तन्त्रमिव यथा कश्चित्सीसेन धातुविशेषेण तन्त्रमङ्गदविशेषं वयति ऊर्णासूत्रेण च तन्त्रं पटं वयति तद्वत् ‘तन्त्रं राष्ट्रे च सिद्धान्ते परच्छन्दाप्रधानयोः । अङ्गदे कुटुम्बकृते तन्तुवाने परिच्छदे’ इति कोशात् । कीदृशा अश्व्यादयः । मनीषिणः | मेधाविनः । कवयः क्रान्तदर्शनाः । इन्द्रस्य रूपं भिषज्यन् भिषज्यन्तः ‘भिषज् रुग्जये’ कण्ड्वादित्वाद्यक् ततः शतृ प्रत्ययः । वचनव्यत्ययः । इन्द्रभैषज्याय यज्ञं वयन्तीत्यर्थः ॥ ८०॥
एकाशीतितमी।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- शङ्ख ऋषिः
- भुरिगतिजगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
कैसा जन बल बढ़ा सकता है, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (परिस्रुतः) सब ओर से प्राप्त (प्रजापतिः) प्रजा का स्वामी राजा आदि जन (ऋतेन) यथार्थ व्यवहार से (सत्यम्) वर्त्तमान उत्तम ओषधियों में उत्पन्न हुए रस को (दृष्ट्वा) विचारपूर्वक देख के (शुक्रेण) शुद्ध भाव से (शुक्रम्) शीघ्र सुख करनेवाले (पयः) पान करने योग्य (सोमम्) महौषधि के रस को तथा (रसम्) विद्या के आनन्दरूप रस को (व्यपिबत्) विशेष करके पीता वा ग्रहण करता है, वह (अन्धसः) शुद्ध अन्नादि के प्रापक (विपानम्) विशेष पान से युक्त (शुक्रम्) वीर्यवाले (इन्द्रियम्) विद्वान् ने सेवे हुए इन्द्रिय को और (इन्द्रस्य) परम ऐश्वर्ययुक्त पुरुष के (इदम्) इस (पयः) अच्छे रसवाले (अमृतम्) मृत्युकारक रोग के निवारक (मधु) मधुरादि गुणयुक्त और (इन्द्रियम्) ईश्वर के बनाये हुए धन को प्राप्त होवे ॥७९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो वैद्यक शास्त्र की रीति से उत्तम ओषधियों के रसों को बना, उचित समय जितना चाहिये उतना पीवे, वह रोगों से पृथक् होके शरीर और आत्मा के बल के बढ़ाने को समर्थ होता है ॥७९ ॥
दयानन्द-सरस्वती (सं) - विषयः
कीदृग्जनो बलमुन्नेतुं शक्नोतीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यः परिस्रुतः प्रजापतिर्ऋतेन सत्यं दृष्ट्वा शुक्रेण शुक्रं पयः सोमं रसं व्यपिबत्, सोऽन्धसः प्रापकं विपानं शुक्रमिन्द्रियमिन्द्रस्येदं पयोऽमृतं मध्विन्द्रियञ्च प्राप्नुयात् ॥७९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यो वैद्यकशास्त्ररीत्योत्तमानोषधीरसान्निर्माय यथाकालं यथायोग्यं पिबेत्, स रोगेभ्यः पृथग्भूत्वा शरीरात्मबलं वर्द्धयितुं शक्नुयात् ॥७९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जो वैद्यकशास्रानुसार उत्तम औषधांचे रस बनवून योग्य वेळी जेवढे आवश्यक असेल तेवढेच घेतो तो रोगापासून मुक्त होतो आणि शरीर व आत्मा यांचे बल वाढविण्यास समर्थ होतो.
८० सीसेन तन्त्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
सीसे॑न॒ तन्त्रं॒ मन॑सा मनी॒षिण॑ऽऊर्णासू॒त्रेण॑ क॒वयो॑ वयन्ति। अ॒श्विना॑ य॒ज्ञँ स॑वि॒ता सर॑स्व॒तीन्द्र॑स्य रू॒पं वरु॑णो भिष॒ज्यन् ॥८० ॥
मूलम् ...{Loading}...
सीसे॑न॒ तन्त्रं॒ मन॑सा मनी॒षिण॑ऽऊर्णासू॒त्रेण॑ क॒वयो॑ वयन्ति। अ॒श्विना॑ य॒ज्ञँ स॑वि॒ता सर॑स्व॒तीन्द्र॑स्य रू॒पं वरु॑णो भिष॒ज्यन् ॥८० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सीसे॑न। तन्त्र॑म्। मन॑सा। म॒नी॒षिणः॑। ऊ॒र्णा॒सू॒त्रेणेत्यू॑र्णाऽसू॒त्रेण॑। क॒वयः॑। व॒य॒न्ति॒। अ॒श्विना॑। य॒ज्ञम्। स॒वि॒ता। सर॑स्वती। इन्द्र॑स्य। रू॒पम्। वरु॑णः। भि॒ष॒ज्यन्। ८०।
महीधरः
म०. तिस्रो देवताः अश्विसरस्वत्यः संरराणाः सम्यक् रममाणाः सत्यः अस्येन्द्रस्य तदमृतममरणधर्मि रूपं शचीभिः कर्मभिः संदधुः कर्माङ्गैः संधानं चक्रुः । तदेवाह । लोमानि इन्द्ररोमाणि शष्पैर्विरूढव्रीहिभिः संदधुः । अस्येन्द्रस्य त्वक् त्वचं च तोक्मभिः विरूढयवैर्बहुधा संदधुर्लाजा न लाजाश्चास्य मांसं समभवत् । अध्यायसमाप्तिपर्यन्तं नकाराः सर्वे चकारार्थाः ॥ ८१ ॥
द्व्यशीतितमी।
अधिमन्त्रम् (VC)
- सविता देवता
- शङ्ख ऋषिः
- भुरिक्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
विद्वानों के तुल्य अन्यों को भी आचरण करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (कवयः) विद्वान् (मनीषिणः) बुद्धिमान् लोग (सीसेन) सीसे के पात्र के समान कोमल (ऊर्णासूत्रेण) ऊन के सूत्र से कम्बल के तुल्य प्रयोजनसाधक (मनसा) अन्तःकरण से (तन्त्रम्) कुटुम्ब के धारण के समान यन्त्रकलाओं को (वयन्ति) रचते हैं, जैसे (सविता) अनेक विद्या-व्यवहारों में प्रेरणा करनेहारा पुरुष और (सरस्वती) उत्तम विद्यायुक्त स्त्री तथा (अश्विना) विद्याओं में व्याप्त पढ़ाने और उपदेश करनेहारे दो पुरुष (यज्ञम्) संगति=मेल करने योग्य व्यवहार को करते हैं, जैसे (भिषज्यन्) चिकित्सा की इच्छा करता हुआ (वरुणः) श्रेष्ठ पुरुष (इन्द्रस्य) परम ऐश्वर्य के (रूपम्) स्वरूप का विधान करता है, वैसे तुम भी किया करो ॥८० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे विद्वान् लोग अनेक धातु और साधन विशेषों से वस्त्रादि को बना के अपने कुटुम्ब का पालन करते हैं तथा पदार्थों के मेलरूप यज्ञ को कर पथ्य ओषधिरूप पदार्थों को देके रोगों से छुड़ाते और शिल्प-क्रियाओं से प्रयोजनों को सिद्ध करते हैं, वैसे अन्य लोग भी किया करें ॥८० ॥
दयानन्द-सरस्वती (सं) - विषयः
विद्वद्वदन्यैराचरणीयमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा कवयो मनीषिणः सीसेनोर्णासूत्रेण मनसा तन्त्रं वयन्ति, यथा सविता सरस्वत्यश्विना च यज्ञं कुरुतो यथा भिषज्यन् वरुण इन्द्रस्य रूपं विदधाति, तथा यूयमप्याचरत ॥८० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा विद्वांसोऽनेकैर्धातुभिः साधनविशेषैर्वस्त्रादीनि निर्माय कुटुम्बं पालयन्ति, यज्ञं च कृत्वौषधानि च दत्त्वाऽरोगयन्ति, शिल्पक्रियाभिः प्रयोजनानि साध्नुवन्ति, तथाऽन्यैरप्यनुष्ठेयम् ॥८० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसे विद्वान लोक अनेक धातू व अनेक साधनांनी वस्रे तयार करून आपल्या कुटुंबाचे पालन करतात, पदार्थांचा मेळ करून औषध देऊन रोगांपासून सुटका करतात आणि शिल्प क्रियांच्या प्रयोजनांना सिद्ध करतात. त्याप्रमाणेच इतरांनीही करावे.
८१ तदस्य रूपममृतम्
विश्वास-प्रस्तुतिः ...{Loading}...
तद॑स्य रू॒पम॒मृतँ॒ शची॑भिस्ति॒स्रो द॑धु॒र्दे॒वताः॑ सँररा॒णाः। लोमा॑नि॒ शष्पै॑र्बहु॒धा न तोक्म॑भि॒स्त्वग॑स्य माँ॒सम॑भव॒न्न ला॒जाः ॥८१ ॥
मूलम् ...{Loading}...
तद॑स्य रू॒पम॒मृतँ॒ शची॑भिस्ति॒स्रो द॑धु॒र्दे॒वताः॑ सँररा॒णाः। लोमा॑नि॒ शष्पै॑र्बहु॒धा न तोक्म॑भि॒स्त्वग॑स्य माँ॒सम॑भव॒न्न ला॒जाः ॥८१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
तत्। अ॒स्य॒। रू॒पम्। अ॒मृत॑म्। शची॑भिः। ति॒स्रः। द॒धुः॒। दे॒वताः॑। सँ॒र॒रा॒णा इति॑ सम्ऽररा॒णाः। लोमा॑नि। शष्पैः॑। ब॒हु॒धा। न। तोक्म॑भि॒रिति॒ तोक्म॑ऽभिः। त्वक्। अ॒स्य॒। माँ॒सम्। अ॒भ॒व॒त्। न। ला॒जाः। ८१।
महीधरः
म० रुद्रवत् वर्तनिर्मार्गो ययोस्तौ रुद्रवर्तनी रुग्णवर्तनी वा। भिषजा भिषजौ वैद्यौ अश्विना अश्विनौ सरस्वती च तदन्तरं शरीरान्तर्वर्ति पेश इन्द्रस्य रूपम् वयति वयन्ति संबध्नन्ति वचनव्यत्ययः । तदेवाह । मासरैः शष्पादिचूर्णचरुनिःस्रावैः । अस्थि संबध्नन्ति । कारोतरेण गलनवाससा मज्जानं वयन्ति । कीदृशास्ते । गवां त्वचि चर्मणि दधतः सुरां स्थापयन्तः ॥ ८२॥
त्र्यशीतितमी।
अधिमन्त्रम् (VC)
- वरुणो देवता
- शङ्ख ऋषिः
- भुरिक्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
कौन पुरुष यज्ञ करने योग्य हैं, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (संरराणाः) अच्छे प्रकार देने (तिस्रः) पढ़ाने, पढ़ने और परीक्षा करनेहारे तीन (देवताः) विद्वान् लोग (शचीभिः) उत्तम प्रज्ञा और कर्मों के साथ (बहुधा) बहुत प्रकारों से जिस यज्ञ को और (शष्पैः) दीर्घ लोमों के साथ (लोमानि) लोमों को (दधुः) धारण करें और (तत्) उस (अस्य) इस यज्ञ के (अमृतम्) नाशरहित (रूपम्) रूप को तुम लोग जानो, यह (तोक्मभिः) बालकों से (न) नहीं अनुष्ठान करने योग्य और (अस्य) इस के मध्य (त्वक्) त्वचा (मांसम्) मांस और (लाजाः) भुँजा हुआ सूखा अन्न आदि होम करने योग्य (न, अभवत्) नहीं होता, इस को भी तुम जानो ॥८१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो बहुत काल पर्य्यन्त डाढ़ी-मूँछ धारणपूर्वक ब्रह्मचारी अथवा पूर्ण विद्यावाले जितेन्द्रिय भद्रजन हैं, वे ही यज धातु के अर्थ को जानने योग्य अर्थात् यज्ञ करने योग्य होते हैं, अन्य बालबुद्धि अविद्वान् नहीं हो सकते। वह हवनरूप ऐसा है कि जिसमें मांस, क्षार, खट्टे से भिन्न पदार्थ वा तीखा आदि गुणरहित; सुगन्धित पुष्ट, मिष्ट तथा रोगनाशकादि गुणों के सहित हों, वही हवन करने योग्य होवे ॥८१ ॥
दयानन्द-सरस्वती (सं) - विषयः
के यज्ञमर्हन्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यं संरराणास्तिस्रो देवताः शचीभिर्बहुधा यं यज्ञं शष्पैः सह लोमानि च दधुस्तदस्यामृतं रूपं यूयं विजानीत। अयं तोक्मभिर्नानुष्ठेयः, अस्य मध्ये त्वङ्मांसं लाजा वा हविर्नाभवदिति च वित्त ॥८१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये दीर्घसमयावधिजटिला ब्रह्मचारिणो वा पूर्णविद्या जितेन्द्रिया भद्रा जनाः सन्ति, त एव यजधातोरर्थं ज्ञातुमर्हन्ति, न बाला अविद्वांसो वा। स होमाख्यो यज्ञो यत्र मांसक्षाराम्लतिक्तगुणादिरहितम्, किन्तु सुगन्धिपुष्टमिष्टं रोगनाशकादिगुणसहितं हविः स्यात्, तदेव होतव्यं च स्यात् ॥८१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे पुष्कळ वर्षे दाढी मिशा धारण करून ब्रह्मचर्य पालन करतात, जितेंद्रिय व सज्जन असतात. तेच यज धातूचा अर्थ जाणू शकतात. अर्थात् यज्ञ करण्यास पात्र असतात. इतर बालबुद्धी अविद्वान माणसे जाणू शकत नाहीत. यज्ञात मांस, क्षारयुक्त व आंबट किंवा तिखट इत्यादी पदार्थ न घालता सुगंधित, पुष्टिकारक, मधुर व रोगनाशक गुणांनीयुक्त पदार्थच घालण्यायोग्य असतात.
८२ तदश्विना भिषजा
विश्वास-प्रस्तुतिः ...{Loading}...
तद॒श्विना॑ भि॒षजा॑ रु॒द्रव॑र्तनी॒ सर॑स्वती वयति॒ पेशो॒ऽअन्त॑रम्। अस्थि॑ म॒ज्जानं॒ मास॑रैः कारोत॒रेण॒ दध॑तो॒ गवां॑ त्व॒चि ॥८२ ॥
मूलम् ...{Loading}...
तद॒श्विना॑ भि॒षजा॑ रु॒द्रव॑र्तनी॒ सर॑स्वती वयति॒ पेशो॒ऽअन्त॑रम्। अस्थि॑ म॒ज्जानं॒ मास॑रैः कारोत॒रेण॒ दध॑तो॒ गवां॑ त्व॒चि ॥८२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
तत्। अ॒श्विना॑। भि॒षजा॑। रु॒द्रव॑र्त्तनी॒ इति॑ रु॒द्रऽव॑र्त्तनी। सर॑स्वती। व॒य॒ति॒। पेशः॑। अन्त॑रम्। अस्थि॑। म॒ज्जान॑म्। मास॑रैः। का॒रो॒त॒रेण॑। दध॑तः। गवा॑म्। त्व॒चि। ८२।
महीधरः
म०. नासत्याभ्यामश्विभ्यां सहिता सरस्वती वसु धनं दर्शतं दर्शनीयं वपुश्च वयति पटमिव सृजति । इन्द्रस्येति शेषः । कीदृशं वसु । पेशलं पेश इति हिरण्यरूपयोर्नाम । पेशं लाति गृह्णाति पेशलं हिरण्यवद्रूपवद्वा । मनसा विचार्येति शेषः । परिस्रुता परिस्रुतः सुरायाः रोहितं लोहितं रसं न रसं च वयति इन्द्रवपुषो रञ्जनाय । अतएव वेदेषु रोहित इन्द्रः पठ्यते । अथ तदा नग्नहुः किण्वः सुराकन्दः पूर्वोक्तः तसरं वयनसाधनं वेम न वेमा च भवति । तसरवेमानौ कुविन्दानां प्रसिद्धौ । कीदृशो नग्नहुः । धीरः धियमीरयति प्रेरयतीति धीरः । मादक इत्यर्थः । विवक्षातः कारकाणि भवन्तीति वचनान्नग्नहोः कर्तृत्वं विवक्षितम् ॥ ८३ ॥
चतुरशीतितमी।
अधिमन्त्रम् (VC)
- अश्विनौ देवते
- शङ्ख ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
विदुषी स्त्रियों को क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जिसको (सरस्वती) श्रेष्ठ ज्ञानयुक्त पत्नी (वयति) उत्पन्न करती है, (तत्) उस (पेशः) सुन्दर स्वरूप (अस्थि) हाड़ (मज्जानम्) मज्जा (अन्तरम्) अन्तःस्थ को (मासरैः) परिपक्व ओषधि के सारों से (कारोतरेण) जैसे कूप से सब कामों को वैसे (गवाम्) पृथिव्यादि की (त्वचि) त्वचारूप उपरि भाग में (रुद्रवर्तनी) प्राण के मार्ग के समान मार्ग से युक्त (भिषजा) वैद्यक विद्या के जाननेहारे (अश्विना) विद्याओं में पूर्ण दो पुरुष (दधतः) धारण करें ॥८२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे वैद्यक शास्त्र के जाननेहारे पति लोग शरीर को आरोग्य करके स्त्रियों को निरन्तर सुखी करें, वैसे ही विदुषी स्त्री लोग भी अपने पतियों को रोगरहित किया करें ॥८२ ॥
दयानन्द-सरस्वती (सं) - विषयः
विदुषीभिः किं कर्त्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यत् सरस्वती वयति तत्पेशोऽस्थि मज्जानमन्तरं मासरैः कारोतरेण गवां त्वचि रुद्रवर्त्तनी भिषजाऽश्विना दधतो दध्याताम् ॥८२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा वैद्यकशास्त्रविदः पतयः शरीरारोग्यादिकं विधाय स्त्रियः सततं सुखयेयुस्तथैव विदुष्यः स्त्रियः स्वपतीन् रोगरहितान् कुर्युः ॥८२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसे वैद्यकशास्र जाणणारे पती शरीर निरोगी करून स्रियांना सदैव सुखी करतात, तसेच विदुषी स्रियांनीही आपल्या पतींना रोगरहित करावे.
८३ सरस्वती मनसा
विश्वास-प्रस्तुतिः ...{Loading}...
सर॑स्वती॒ मन॑सा पेश॒लं वसु॒ नास॑त्याभ्यां वयति दर्श॒तं वपुः॑। रसं॑ परि॒स्रुता॒ न रोहि॑तं न॒ग्नहु॒र्धीर॒स्तस॑रं॒ न वेम॑ ॥८३ ॥
मूलम् ...{Loading}...
सर॑स्वती॒ मन॑सा पेश॒लं वसु॒ नास॑त्याभ्यां वयति दर्श॒तं वपुः॑। रसं॑ परि॒स्रुता॒ न रोहि॑तं न॒ग्नहु॒र्धीर॒स्तस॑रं॒ न वेम॑ ॥८३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सर॑स्वती। मन॑सा। पे॒श॒लम्। वसु॑। नास॑त्याभ्याम्। व॒य॒ति॒। द॒र्श॒तम्। वपुः॑। रस॑म्। प॒रि॒स्रुतेति॑ परि॒ऽस्रुता॑। न। रोहि॑तम्। न॒ग्नहुः॑। धीरः॑। तस॑रम्। न। वेम॑। ८३।
महीधरः
म० प्रकृतत्वादश्विनौ सरस्वती च पयसा दुग्धेन रेतो वीर्यं जनयन्त उदपादयन् । अडभाव आर्षः । इन्द्रस्येति शेषः। कीदृशं रेतः । शुक्रं शुक्लम् अमृतमनश्यत् । जनित्रं जनयतीति जनित्रं जयनशीलम् । आरात् समीपे स्थित्वा तत्प्रसिद्धमूवध्यं वातं नाडीगतं सब्वं च सुरया कृत्वा मूत्रात् मूत्रं चाजनयन्त । आमाशयगतमन्नमूवध्यम् पक्वाशयगतमन्नं सब्वम् । । कीदृशास्ते । अमतिं वध्यभावं दुर्मतिं दुर्बुद्धिं च बाधमाना निवर्तर्यन्तः सद्बुद्धिं ददत इत्यर्थः ॥ ८४ ॥
पञ्चाशीतितमी ।
अधिमन्त्रम् (VC)
- सरस्वती देवता
- शङ्ख ऋषिः
- भुरिक्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
विद्वानों के समान अन्यों को आचरण करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (सरस्वती) उत्तम विज्ञानयुक्त स्त्री (मनसा) विज्ञान से (वेम) उत्पत्ति के (न) समान जिस (पेशलम्) उत्तम अङ्गों से युक्त (दर्शतम्) देखने योग्य (वपुः) शरीर वा जल को तथा (तसरम्) दुःखों के क्षय करनेहारे (रोहितम्) प्रकट हुए (परिस्रुता) सब ओर से प्राप्त (रसम्) आनन्द को देनेहारे रस के (न) समान (वसु) द्रव्य को (वयति) बनाती है, जिन (नासत्याभ्याम्) असत्य व्यवहार से रहित माता-पिता दोनों से (नग्नहुः) शुद्ध को ग्रहण करनेहारा (धीरः) ध्यानवान् तेरा पति है, उन दोनों को हम लोग प्राप्त होवें ॥८३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे विद्वान् अध्यापक और उपदेशक सार-सार वस्तुओं का ग्रहण करते हैं, वैसे ही सब स्त्री-पुरुषों को ग्रहण करना योग्य है ॥८३ ॥
दयानन्द-सरस्वती (सं) - विषयः
विद्वद्वदितरैराचरणीयमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - सरस्वती मनसा वेम न यत् पेशलं दर्शतं वपुस्तसरं रोहितं परिस्रुता रसं न वसु वयति, नासत्याभ्यां नग्नहुर्धीरश्चाऽस्ति, तौ द्वौ वयं प्राप्नुयाम ॥८३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यथा विद्वांसावध्यापकोपदेशकौ सारं सारं वस्तु गृह्णन्ति, तथैव सर्वैः स्त्रीपुरुषैर्ग्राह्यम् ॥८३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्याप्रमाणे विद्वान, अध्यापक, उपदेशक वस्तूंचे मर्म जाणतात. त्याप्रमाणे सर्व स्री-पुरुषांनी वस्तूचे मर्म जाणून घ्यावे.
८४ पयसा शुक्रममृतम्
विश्वास-प्रस्तुतिः ...{Loading}...
पय॑सा शु॒क्रम॒मृतं॑ ज॒नित्रँ॒ सुर॑या॒ मूत्रा॑ज्जनयन्त॒ रेतः॑। अपाम॑तिं दुर्म॒तिं बाध॑माना॒ऽऊव॑ध्यं॒ वातँ॑ स॒ब्वं᳙ तदा॒रात् ॥८४ ॥
मूलम् ...{Loading}...
पय॑सा शु॒क्रम॒मृतं॑ ज॒नित्रँ॒ सुर॑या॒ मूत्रा॑ज्जनयन्त॒ रेतः॑। अपाम॑तिं दुर्म॒तिं बाध॑माना॒ऽऊव॑ध्यं॒ वातँ॑ स॒ब्वं᳙ तदा॒रात् ॥८४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पय॑सा। शु॒क्रम्। अ॒मृत॑म्। ज॒नित्र॑म्। सुर॑या। मूत्रा॑त्। ज॒न॒य॒न्त॒। रेतः॑। अप॑। अम॑तिम्। दु॒र्म॒तिमिति॑ दुःऽम॒तिम्। बाध॑मानाः। ऊव॑ध्यम्। वात॑म्। स॒ब्व᳙म्। तत्। आ॒रात्। ८४।
महीधरः
म०. सुष्ठु त्रायते रक्षति सुत्रामा इन्द्रः पुरोडाशदेवता । इन्द्रस्य हृदयेन हृदयं जजान जनयति । सविता च पुरोडाशेनेन्द्रस्य सत्यं जजान । वरुणो भिषज्यन् इन्द्रस्य चिकित्सां कुर्वन् सन् यकृत् कालखण्डं क्लोमानं गलनाडिकां च जजान । वायव्यैः सौमिकौरूर्ध्वपात्रैः मतस्ने हृदयोभयपार्श्वस्थे अस्थिनी पित्तं न पित्तं च मिनाति निर्मिमीते सृजतीत्यर्थः । सोमिकान्यौर्ध्वपात्राणि वायव्यसंज्ञानि ॥ ८५ ॥
षडशीतितमी।
अधिमन्त्रम् (VC)
- सोमो देवता
- शङ्ख ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अपने कुल को श्रेष्ठ करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो विद्वान् लोग (अमतिम्) नष्टबुद्धि (दुर्मतिम्) वा दुष्टबुद्धि को (अप, बाधमानाः) हटाते हुए जो (ऊवध्यम्) ऐसा है कि जिससे परिआं अंगुल आदि काटे जायें अर्थात् बहुत नाश करने का साधन (वातम्) प्राप्त (सब्वम्) सब पदार्थों में सम्बन्धवाला (पयसा) जल दुग्ध वा (सुरया) सोमलता आदि ओषधी के रस से उत्पन्न हुए (मूत्रात्) मूत्राधार इन्द्रिय से (जनित्रम्) सन्तानोत्पत्ति का निमित्त (अमृतम्) अल्पमृत्युरोगनिवारक (शुक्रम्) शुद्ध (रेतः) वीर्य है, (तत्) उस को (आरात्) समीप से (जनयन्त) उत्पन्न करते हैं, वे ही प्रजावाले होते हैं ॥८४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य दुर्गुण और दुष्ट सङ्गों को छोड़ कर व्यभिचार से दूर रहते हुए वीर्य को बढ़ा के सन्तानों को उत्पन्न करते हैं, वे अपने कुल को प्रशंसित करते हैं ॥८४ ॥
दयानन्द-सरस्वती (सं) - विषयः
स्वकुलं प्रशस्तं कर्त्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये विद्वांसोऽमतिं दुर्मतिमपबाधमानाः सन्तो यदूवध्यं वातं सब्वं पयसा सुरयोत्पन्नं मूत्रात् जनित्रममृतं शुक्रं रेतोऽसि तदाराज्जनयन्त, ते प्रजावन्तो भवन्ति ॥८४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये दुर्गुणान् दुष्टसङ्गास्त्यक्त्वा व्यभिचाराद् दूरे निवसन्तो वीर्यं वर्द्धयित्वा सन्तानानुत्पादयन्ति, ते स्वकुलं प्रशस्तं कुर्वन्ति ॥८४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे लोक दुर्गुण, दुष्ट संगत व व्यभिचार यांच्यापासून दूर राहतात आणि वीर्याची वृद्धी करून संतानोत्पत्ती करतात. त्यांचे कुल प्रशंसेस पात्र ठरते.
८५ इन्द्रः सुत्रामा
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रः॑ सु॒त्रामा॒ हृद॑येन स॒त्यं पु॑रो॒डशे॑न सवि॒ता ज॑जान। यकृ॑त् क्लो॒मानं॒ वरु॑णो भिष॒ज्यन् मत॑स्ने वाय॒व्यै᳙र्न मि॑नाति पि॒त्तम् ॥८५ ॥
मूलम् ...{Loading}...
इन्द्रः॑ सु॒त्रामा॒ हृद॑येन स॒त्यं पु॑रो॒डशे॑न सवि॒ता ज॑जान। यकृ॑त् क्लो॒मानं॒ वरु॑णो भिष॒ज्यन् मत॑स्ने वाय॒व्यै᳙र्न मि॑नाति पि॒त्तम् ॥८५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इन्द्रः॑। सु॒त्रामेति॑ सु॒ऽत्रामा॑। हृद॑येन। स॒त्यम्। पु॒रो॒डाशे॑न। स॒वि॒ता। ज॒जा॒न॒। यकृ॑त्। क्लो॒मान॑म्। वरु॑णः। भि॒ष॒ज्यन्। मत॑स्ने॒ इति॒ मत॑ऽस्ने। वा॒य॒व्यैः᳖। न। मि॒ना॒ति॒। पि॒त्तम्। ८५।
महीधरः
म०. स्थालीः स्थाल्यः आन्त्राणि अभवन् । कीदृश्यः स्थाल्यः । मधु पिन्वमानाः सिञ्चन्त्यः । पात्राणि गुदा गुदस्थानान्यभवन् । सुदुघा न धेनुः शोभनं दुग्धे सा सुदुघा दोग्ध्री च धेनुः आदित्येष्टेर्दक्षिणारूपा गुदा एवाभवत् । श्येनस्य पत्रं च प्लीहा हृदयवामभागस्थः शिथिलमांसपिण्डः गुल्मसंज्ञोऽभवत् । आसन्दी शचीभिर्नाभिरुदरं चाभवत् । कीदृश्यासन्दी । माता जननीस्थानीया आसंद्यामभिषिच्यतेतऽस्ततो जायत एव । नाश्चार्थाः ॥ ८६ ॥
सप्ताशीतितमी।
अधिमन्त्रम् (VC)
- सविता देवता
- शङ्ख ऋषिः
- भुरिक्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को रोग से पृथक् होना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (सुत्रामा) अच्छे प्रकार रोग से शरीर की रक्षा करनेहारा (सविता) प्रेरक (इन्द्रः) रोगनाशक (वरुणः) श्रेष्ठ विद्वान् (भिषज्यन्) चिकित्सा करता हुआ (हृदयेन) अपने आत्मा से (सत्यम्) यथार्थ भाव को (जजान) प्रसिद्ध करता और (पुरोडाशेन) अच्छे प्रकार संस्कार किये हुए अन्न और (वायव्यैः) पवनों में उत्तम अर्थात् सुख देनेवाले मार्गों से (यकृत्) जो हृदय से दाहिनी ओर में स्थित मांसपिंड (क्लोमानम्) कण्ठनाड़ी (मतस्ने) हृदय के दोनों ओर के हाड़ों और (पित्तम्) पित्त को (न, मिनाति) नष्ट नहीं करता, वैसे इन सबों की हिंसा तुम भी मत करो ॥८५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। सद्वैद्य लोग स्वयं रोगरहित होकर अन्यों के शरीर में हुए रोग को जानकर रोगरहित निरन्तर किया करें ॥८५ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यै रोगात् पृथक् भवितव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा सुत्रामा सवितेन्द्रो वरुणो विद्वान् भिषज्यन् सन् हृदयेन सत्यं जजान, पुरोडाशेन वायव्यैश्च यकृत् क्लोमानं मतस्ने पित्तं च न मिनाति, तथैतत्सर्वं यूयं मा हिंस्त ॥८५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। सद्वैद्याः स्वयमरोगा भूत्वान्येषां रोगं विज्ञायारोगान् सततं कुर्युः ॥८५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. उत्तम वैद्यांनी स्वतः रोगरहित व्हावे व इतरांच्या शरीरातील रोग जाणून त्यांना सदैव रोगरहित करावे.
८६ आन्त्राणि स्थालीर्मधु
विश्वास-प्रस्तुतिः ...{Loading}...
आ॒न्त्राणि॑ स्था॒लीर्मधु॒ पिन्व॑माना॒ गुदाः॒ पात्रा॑णि सु॒दुघा॒ न धे॒नुः। श्ये॒नस्य॒ पत्रं॒ न प्ली॒हा शची॑भिरास॒न्दी नाभि॑रु॒दरं॒ न मा॒ता ॥८६ ॥
मूलम् ...{Loading}...
आ॒न्त्राणि॑ स्था॒लीर्मधु॒ पिन्व॑माना॒ गुदाः॒ पात्रा॑णि सु॒दुघा॒ न धे॒नुः। श्ये॒नस्य॒ पत्रं॒ न प्ली॒हा शची॑भिरास॒न्दी नाभि॑रु॒दरं॒ न मा॒ता ॥८६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ॒न्त्राणि॑। स्था॒लीः। मधु॑। पिन्व॑मानाः। गुदाः॑। पात्रा॑णि। सु॒दुघेति॑ सु॒ऽदुघा॑। न। धे॒नुः। श्ये॒नस्य॑। पत्र॑म्। न। प्ली॒हा। शची॑भिः। आ॒स॒न्दीत्या॑ऽस॒न्दी। नाभिः॑। उ॒दर॑म्। न। मा॒ता। ८६।
महीधरः
म० कुम्भः सुराधानकुम्भः शचीमिः कर्मभिः कृत्वा वनिष्ठुः स्थूलान्त्रं जनिता जनयति । यस्मिन् कुम्भे योन्यां कुम्भरूपे योनौ स्थाने अग्रे प्रथममन्तर्मध्ये गर्भः सुरारूप उषितः । शतधार उत्सः कूपतुल्यः कुम्भः व्यक्तः स्पष्टः प्लाशिः शिश्नोऽभवत् । कुम्भी सुराधानी च पितृभ्यः स्वधां दुहे दुग्धे अन्नं पूरयति ‘लोपस्त आत्मनेपदेषु’ (पा० ७ । १। ४१) इति तलोपः ॥ ८७ ॥
अष्टाशीतितमी।
अधिमन्त्रम् (VC)
- सविता देवता
- शङ्ख ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - युक्तिवाले पुरुष को योग्य है कि (शचीभिः) उत्तम बुद्धि और कर्मों से (स्थालीः) दाल आदि पकाने के बर्त्तनों को अग्नि के ऊपर धर ओषधियों का पाक बना (मधु) उसमें सहत डाल भोजन करके (आन्त्राणि) उदरस्थ अन्न पकानेवाली नाडि़यों को (पिन्वमानाः) सेवन करते हुए प्रीति के हेतु (गुदाः) गुदेन्द्रियादि तथा (पात्राणि) जिनसे खाया-पिया जाय, उन पात्रों को (सुदुघा) दुग्धादि से कामना सिद्ध करनेवाली (धेनुः) गाय के (न) समान (प्लीहा) रक्तशोधक लोहू का पिण्ड (श्येनस्य) श्येन पक्षी के तथा (पत्रम्) पाँख के (न) समान (माता) और माता के (न) तुल्य (आसन्दी) सब ओर से रस प्राप्त करानेहारी (नाभिः) नाभि नाड़ी (उदरम्) उदर को पुष्ट करती है ॥८६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जो मनुष्य लोग उत्तम संस्कार किये हुए उत्तम अन्न और रसों से शरीर को रोगरहित करके प्रयत्न करते हैं, वे अभीष्ट सुख को प्राप्त होते हैं ॥८६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - युक्तिमता पुरुषेण शचीभिः स्थालीरग्नेरुपरि निधायौषधिपाकान् विधाय, तत्र मधु प्रक्षिप्य, भुक्त्वाऽऽन्त्राणि पिन्वमाना गुदाः पात्राणि भोजनार्थानि सुदुघा धेनुर्न प्लीहा श्येनस्य पत्रं न माता नासन्दी नाभिरुदरं पुष्येत् ॥८६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। ये मनुष्या उत्तमैः सुसंस्कृतैरन्नै रसैः शरीरमरोगीकृत्य प्रयतन्ते, तेऽभीष्टं सुखं लभन्ते ॥८६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालांकार आहे. जी माणसे उत्तम प्रकारे संस्कारित केलेले अन्न व रसांनी शरीर रोगरहित करण्याचा प्रयत्न करतात, ते इष्ट सुख प्राप्त करतात.
८७ कुम्भो वनिष्ठुर्जनिता
विश्वास-प्रस्तुतिः ...{Loading}...
कु॒म्भो व॑नि॒ष्ठुर्ज॑नि॒ता शची॑भि॒र्यस्मि॒न्नग्रे॒ योन्यां॒ गर्भो॑ऽअ॒न्तः। प्ला॒शिर्व्य॑क्तः श॒तधा॑र॒ऽउत्सो॑ दु॒हे न कु॒म्भी स्व॒धां पि॒तृभ्यः ॥८७ ॥
मूलम् ...{Loading}...
कु॒म्भो व॑नि॒ष्ठुर्ज॑नि॒ता शची॑भि॒र्यस्मि॒न्नग्रे॒ योन्यां॒ गर्भो॑ऽअ॒न्तः। प्ला॒शिर्व्य॑क्तः श॒तधा॑र॒ऽउत्सो॑ दु॒हे न कु॒म्भी स्व॒धां पि॒तृभ्यः ॥८७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
कु॒म्भः। व॒नि॒ष्ठुः। ज॒नि॒ता। शची॑भिः। यस्मि॑न्। अग्रे॑। योन्या॑म्। गर्भः॑। अ॒न्तरित्य॒न्तः। प्ला॒शिः। व्य॑क्त॒ इति॒ विऽअ॑क्तः। श॒तधा॑र॒ इति॑ श॒तऽधा॑रः। उत्सः॑। दु॒हे। न। कु॒म्भी। स्व॒धाम्। पि॒तृभ्य॒ इति॑ पि॒तृऽभ्यः॑। ८७।
महीधरः
म० अस्येन्द्रस्य सत् सतः पात्र विशेषो मुखमभूत् । सतशब्दस्यान्तलोपश्छान्दसः । सतेन इत् सतेनैवास्य शिरोऽभूत् । पवित्रं जिह्वाभवत्। अश्विना अश्विनौ सरस्वती च आसन् आस्येऽभवन् । चप्यं च पायुरिन्द्रियमभूत् । वालो सुरागलनवस्त्रमस्येन्द्रस्य भिषग्वैद्यो वस्तिर्गुदं शेपो लिङ्गं चाभूत् । वालेन त्रयं जातम् । कीदृशः शेपः । हरसा वीर्येण तरस्वी वेगवान् ॥ ८८ ॥
एकोननवतितमी।
अधिमन्त्रम् (VC)
- पितरो देवताः
- शङ्ख ऋषिः
- भुरिक्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
स्त्री-पुरुष कैसे हों, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (कुम्भः) कलश के समान वीर्यादि धातुओं से पूर्ण (वनिष्ठुः) सम विभाग हरनेहारा (जनिता) सन्तानों का उत्पादक (प्लाशिः) अच्छे प्रकार भोजन का करनेवाला (व्यक्तः) विविध पुष्टियों से प्रसिद्ध (शचीभिः) उत्तम कर्मों करके (शतधारः) सैकड़ों वाणियों से युक्त (उत्सः) जिससे गीला किया जाता है, उस कूप के समान (दुहे) पूर्त्ति करनेहारे व्यवहार में स्थित के (न) समान पुरुष और जो (कुम्भी) कुम्भी के सदृश स्त्री है, इन दोनों को योग्य है कि (पितृभ्यः) पितरों को (स्वधाम्) अन्न देवें और (यस्मिन्) जिस (अग्रे) नवीन (योन्याम्) गर्भाशय के (अन्तः) बीच (गर्भः) गर्भ धारण किया जाता, उसकी निरन्तर रक्षा करें ॥८७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। स्त्री और पुरुष वीर्यवाले पुरुषार्थी होकर अन्नादि से विद्वान् को प्रसन्न कर, धर्म से सन्तानों की उत्पत्ति करें ॥८७ ॥
दयानन्द-सरस्वती (सं) - विषयः
दम्पती कीदृशावित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यः कुम्भो वनिष्ठुर्जनिता प्लाशिर्व्यक्तः शचीभिः शतधार उत्सो दुहे न पुरुषो या च कुम्भीव स्त्री तौ पितृभ्यः स्वधां प्रदद्याताम्, यस्मिन्नग्रे योन्यामन्तर्गर्भो धीयते, तं सततं रक्षेताम् ॥८७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। स्त्रीपुरुषौ वीर्यवन्तौ पुरुषार्थिनौ भूत्वा अन्नादिभिर्विद्वांसं सन्तोष्य धर्मेण सन्तानोत्पत्तिं कुर्याताम् ॥८७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. स्री-पुरुषांनी वीर्यवान व पुरुषार्थी बनावे. अन्न वगैरेनी विद्वानांना प्रसन्न करून धर्माने संतान उत्पन्न करावीत.
८८ मुखं सदस्य
विश्वास-प्रस्तुतिः ...{Loading}...
मुखँ॒ सद॑स्य॒ शिर॒ऽइत् सते॑न जि॒ह्वा प॒वित्र॑म॒श्विना॒सन्त्सर॑स्वती। चप्यं॒ न पा॒युर्भि॒षग॑स्य॒ वालो॑ व॒स्तिर्न शेपो॒ हर॑सा तर॒स्वी ॥८८ ॥
मूलम् ...{Loading}...
मुखँ॒ सद॑स्य॒ शिर॒ऽइत् सते॑न जि॒ह्वा प॒वित्र॑म॒श्विना॒सन्त्सर॑स्वती। चप्यं॒ न पा॒युर्भि॒षग॑स्य॒ वालो॑ व॒स्तिर्न शेपो॒ हर॑सा तर॒स्वी ॥८८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मुख॑म्। सत्। अ॒स्य॒। शिरः॑। इत्। सते॑न। जि॒ह्वा। प॒वित्र॑म्। अ॒श्विना॑। आ॒सन्। सर॑स्वती। चप्य॑म्। न। पा॒युः। भि॒षक्। अ॒स्य॒। वालः॑। व॒स्तिः। न। शेपः॑। हर॑सा। त॒र॒स्वी। ८८।
महीधरः
म० अश्विभ्यामिन्द्रस्य चक्षुः क्रियते ग्रहाभ्यामश्विदेवत्याभ्यां चक्षुरेवामृतमनश्वरं क्रियते । शृतेन पक्वेन हविषा छागेन छागरूपेण पक्वहविषा तेजश्चक्षुःसंबन्धि क्रियते । गोधूमैः पक्ष्माणि नेत्रलोमानि क्रियन्ते । कुवलैर्बदरैः उतानि चक्षुर्निविष्टानि लोमानि क्रियन्ते । शुक्रं शुक्लमसितं कृष्णं च पेशः रूपं शुक्लकृष्णे नेत्रगते रूपे वसाते आच्छादयेते । कुर्वात इत्यर्थः । प्रकृतत्वादश्विनौ कर्तारौ ॥ ८९ ॥
नवतितमी । ।
अधिमन्त्रम् (VC)
- सरस्वती देवता
- शङ्ख ऋषिः
- स्वराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (जिह्वा) जिससे रस ग्रहण किया जाता है, वह (सरस्वती) वाणी के समान स्त्री (अस्य) इस पति के (सतेन) सुन्दर अवयवों से विभक्त शिर के साथ (शिरः) शिर करे तथा (आसन्) मुख के समीप (पवित्रम्) पवित्र (मुखम्) मुख करे। इसी प्रकार (अश्विना) गृहाश्रम के व्यवहार में व्याप्त स्त्री-पुरुष दोनों (इत्) ही वर्त्तें तथा जो (अस्य) इस रोग से (पायुः) रक्षक (भिषक्) वैद्य और (वालः) बालक के (न) समान (वस्तिः) वास करने का हेतु पुरुष (शेपः) उपस्थेन्द्रिय को (हरसा) बल से (तरस्वी) करनेहारा होता है, वह (चप्यम्) शान्ति करने के (न) समान (सत्) वर्त्तमान में सन्तानोत्पत्ति का हेतु होवे, उस सब को यथावत् करे ॥८८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - स्त्री-पुरुष गर्भाधान के समय में परस्पर मिल कर प्रेम से पूरित होकर मुख के साथ मुख, आँख के साथ आँख, मन के साथ मन, शरीर के साथ शरीर का अनुसंधान करके गर्भ को धारण करें, जिससे कुरूप वा वक्राङ्ग सन्तान न होवे ॥८८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा जिह्वा सरस्वती स्त्र्यस्य पत्युः सतेन शिरसा सह शिरः कुर्यादासन् पवित्रं मुखं कुर्यादेवमश्विना द्वाविद्वर्त्तेताम्, यदस्य पायुर्भिषग् वालो न वस्तिः शेपो हरसा तरस्वी भवति, स चप्यन्न सद् भवेत्, तत्सर्वं यथावत्कुर्यात् ॥८८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - स्त्रीपुरुषौ गर्भाधानसमये परस्पराङ्गव्यापिनौ भूत्वा मुखेन मुखं चक्षुषा चक्षुः मनसा मनः शरीरेण शरीरं चानुसंधाय गर्भं दध्याताम्, यतः कुरूपं वक्राङ्गं वाऽपत्यन्न स्यात् ॥८८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - स्री-पुरुषांनी गर्भाधानाच्या वेळी परस्पर प्रेमानेयुक्त होऊन मुखाबरोबर मुख, नेत्राबरोबर नेत्र, मनाबरोबर मन, शरीराबरोबर शरीर जुळवून गर्भधारणा करावी म्हणजे कुरूप किंवा वक्रांग संतान होणार नाही.
८९ अश्विभ्यां चक्षुरमृतम्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒श्विभ्यां॒ चक्षु॑र॒मृतं॒ ग्रहा॑भ्यां॒ छागे॑न॒ तेजो॑ ह॒विषा॑ शृ॒तेन॑। पक्ष्मा॑णि गो॒धूमैः॒ कुव॑लैरु॒तानि॒ पेशो॒ न शु॒क्रमसि॑तं वसाते ॥८९ ॥
मूलम् ...{Loading}...
अ॒श्विभ्यां॒ चक्षु॑र॒मृतं॒ ग्रहा॑भ्यां॒ छागे॑न॒ तेजो॑ ह॒विषा॑ शृ॒तेन॑। पक्ष्मा॑णि गो॒धूमैः॒ कुव॑लैरु॒तानि॒ पेशो॒ न शु॒क्रमसि॑तं वसाते ॥८९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒श्विभ्या॒मित्य॒श्विऽभ्या॑म्। चक्षुः॑। अ॒मृत॑म्। ग्रहा॑भ्याम्। छागे॑न। तेजः॑। ह॒विषा॑। शृ॒तेन॑। पक्ष्मा॑णि। गो॒धूमैः॑। कुव॑लैः। उ॒तानि॑। पेशः॑। न। शु॒क्रम्। असि॑तम्। व॒सा॒ते॒ऽइति॑ वसाते। ८९।
महीधरः
म० अविः सारस्वतो मेषश्च नसि इन्द्रस्य नासिकायां वीर्यायावस्थितः ग्रहाभ्यां सारस्वताभ्यां प्राणस्य प्राणवायोः पन्था मार्गोऽमृतः अनश्वरः क्रियते । सरस्वती उपवाकैर्यवाङ्कुरैः कृत्वा व्यानमिन्द्रस्य व्यानवायुं जजान जनयति । बर्हिर्बदरैः सह नस्यानि नासिकाभवानि लोमानि जजान ॥ ९० ॥
एकनवतितमी।
अधिमन्त्रम् (VC)
- अश्विनौ देवते
- शङ्ख ऋषिः
- भुरिक्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जैसे (ग्रहाभ्याम्) ग्रहण करनेहारे (अश्विभ्याम्) बहुभोजी स्त्री-पुरुषों के साथ कोई भी विदुषी स्त्री और विद्वान् पुरुष (उतानि) विने हुए विस्तृत वस्त्र और (पक्ष्माणि) ग्रहण किये हुए अन्य रेशम और द्विशाले आदि को (वसाते) ओढ़ें, पहनें वा जैसे आप भी (छागेन) अजा आदि के दूध के साथ और (शृतेन) पकाये हुए (हविषा) ग्रहण करने योग्य होम के पदार्थ के साथ (तेजः) प्रकाशयुक्त (अमृतम्) अमृतस्वरूप (चक्षुः) नेत्र को (कुवलैः) अच्छे शब्दों और (गोधूमैः) गेहूँ के साथ (शुक्रम्) शुद्ध (असितम्) काले (पेशः) रूप के (न) समान स्वीकार करें, वैसे अन्य गृहस्थ भी करें ॥८९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे क्रिया किये हुए स्त्री-पुरुष प्रियदर्शन, प्रियभोजनशील, पूर्णसामग्री को ग्रहण करनेहारे होते हैं, वैसे अन्य गृहस्थ भी होवें ॥८९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यथा ग्रहाभ्यामश्विभ्यां सह कौचिद्विद्वांसौ स्त्रीपुरुषावुतानि पक्ष्माणि वसाते, यथा वा भवन्तोऽपि छागेनाऽजादिदुग्धेन शृतेन हविषा सह तेजोऽमृतं चक्षुः कुवलैर्गोधूमैः शुक्रमसितं पेशो न स्वीक्रियेरंस्तथाऽन्ये गृहस्था अपि कुर्य्युः ॥८९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा कृतक्रियौ स्त्रीपुरुषौ प्रियदर्शनौ प्रियभोजिनौ गृहीतपूर्णसामग्रीकौ भवतस्तथान्ये गृहस्था अपि भवेयुः ॥८९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जसे क्रियाशील स्री-पुरुष सुंदर वस्रालंकारांनी दर्शनीय बनून उत्तम भोजन करून निरनिराळ्या प्रकारच्या वस्तूंचा संग्रह करतात तसे इतर गृहस्थांनीही करावे.
९० अविर्न मेषो
विश्वास-प्रस्तुतिः ...{Loading}...
अवि॒र्न मे॒षो न॒सि वी॒र्या᳖य प्रा॒णस्य॒ पन्था॑ऽअ॒मृतो॒ ग्रहा॑भ्याम्। सर॑स्वत्युप॒वाकै॑र्व्या॒नं नस्या॑नि ब॒र्हिर्बद॑रैर्जजान ॥९० ॥
मूलम् ...{Loading}...
अवि॒र्न मे॒षो न॒सि वी॒र्या᳖य प्रा॒णस्य॒ पन्था॑ऽअ॒मृतो॒ ग्रहा॑भ्याम्। सर॑स्वत्युप॒वाकै॑र्व्या॒नं नस्या॑नि ब॒र्हिर्बद॑रैर्जजान ॥९० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अविः॑। न। मे॒षः। न॒सि। वी॒र्या᳖य। प्रा॒णस्य॑। पन्थाः॑। अ॒मृतः॑। ग्रहा॑भ्याम्। सर॑स्वती। उ॒प॒वाकै॒रित्यु॑प॒ऽवाकैः॑। व्या॒नमिति॑ विऽआ॒नम्। नस्या॑नि। ब॒र्हिः। बद॑रैः। ज॒जा॒न॒। ९०।
महीधरः
म० ऋषभः बलाय सामर्थ्यायेन्द्रस्य रूपं चक्रे । ग्रहाभ्यामैन्द्राभ्याममृतं भूतभविष्यद्वर्तमानशब्दग्राहि श्रोत्रं श्रोत्रेन्द्रियं कर्णाभ्यामिन्द्रस्य कर्णयोश्चक्रे । कर्णशष्कुल्योः श्रोत्रेन्द्रियं स्थापितमित्यर्थः । यवा बर्हिश्च भ्रुवि भ्रुवोः केसराणि लोमान्यभवन् कर्कन्धु बदरं मुखात् सारघं मधु तत्तुल्यं लालाश्लेष्मादि जज्ञे । सरघा मधुमक्षिका तत्संबन्धि सारघम् । यथा मधु नानातरुभ्य आनीयते एवं लालादि सर्वाङ्गेभ्यो भवति इति लालादीनां मधुसाम्यम् ॥ ९१ ॥
द्विनवतितमी॥
अधिमन्त्रम् (VC)
- सरस्वती देवता
- शङ्ख ऋषिः
- भुरिक्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब योगी का कर्त्तव्य अगले मन्त्र में कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जैसे (ग्रहाभ्याम्) ग्रहण करनेहारों के साथ (सरस्वती) प्रशस्त विज्ञानयुक्त स्त्री (बदरैः) बेरों के समान (उपवाकैः) सामीप्यभाव किया जाय, जिनसे उन कर्मों से (जजान) उत्पत्ति करती है, वैसे जो (वीर्याय) वीर्य के लिये (नसि) नासिका में (प्राणस्य) प्राण का (अमृतः) नित्य (पन्थाः) मार्ग वा (मेषः) दूसरे से स्पर्द्धा करनेवाला और (अविः) जो रक्षा करता है, उसके (न) समान (व्यानम्) शरीर में व्याप्त वायु (नस्यानि) नासिका के हितकारक धातु और (बर्हिः) बढ़ानेहारा उपयुक्त किया जाता है ॥९० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे धार्मिक न्यायाधीश प्रजा की रक्षा करता है, वैसे ही प्राणायामादि से अच्छे प्रकार सिद्ध किये हुए प्राण योगी की सब दुःखों से रक्षा करते हैं। जैसे विदुषी माता विद्या और अच्छी शिक्षा से अपने सन्तानों बढ़ाती है, वैसे अनुष्ठान किये हुए योग के अङ्ग योगियों को बढ़ाते हैं ॥९० ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ योगिकृत्यमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यथा ग्रहाभ्यां सह सरस्वती बदरैरुपवाकैर्जजान, तथा वीर्याय नसि प्राणस्याऽमृतः पन्था अविर्न मेषो व्यानं नस्यानि बर्हिश्च उपयुज्यते ॥९० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा धार्मिको न्यायाधीशः प्रजा रक्षति, तथैव प्राणायामादिभिः संसाधिताः प्राणा योगिनं सर्वेभ्यो दुःखेभ्यस्त्रायन्ते, यथा विदुषी माता विद्यासुशिक्षाभ्यां स्वसन्तानान् वर्द्धयति, तथाऽनुष्ठितानि योगकर्माणि योगिनो वर्द्धयन्ति ॥९० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जसे धार्मिक न्यायाधीश प्रजेचे रक्षण करतो तसे प्राणायामाद्वारे प्राणही योग्याच्या दुःखाचे निवारण करतात. ज्याप्रमाणे विदुषी माता विद्या व चांगले संस्कार यांनी आपल्या संतानांना वाढवितात. त्याप्रमाणे अनुष्ठान केलेले योगी योगांगाने वाढतात.
९१ इन्द्रस्य रूपमृषभो
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र॑स्य रू॒पमृ॑ष॒भो बला॑य॒ कर्णा॑भ्याँ॒ श्रोत्र॑म॒मृतं॒ ग्रहा॑भ्याम्। यवा॒ न ब॒र्हिर्भ्रु॒वि केस॑राणि क॒र्कन्धु॑ जज्ञे॒ मधु॑ सार॒घं मुखा॑त् ॥९१ ॥
मूलम् ...{Loading}...
इन्द्र॑स्य रू॒पमृ॑ष॒भो बला॑य॒ कर्णा॑भ्याँ॒ श्रोत्र॑म॒मृतं॒ ग्रहा॑भ्याम्। यवा॒ न ब॒र्हिर्भ्रु॒वि केस॑राणि क॒र्कन्धु॑ जज्ञे॒ मधु॑ सार॒घं मुखा॑त् ॥९१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इन्द्र॑स्य। रू॒पम्। ऋ॒ष॒भः। बला॑य। कर्णा॑भ्याम्। श्रोत्र॑म्। अ॒मृत॑म्। ग्रहा॑भ्याम्। यवाः॑। न। ब॒र्हिः। भ्रु॒वि। केस॑राणि। क॒र्कन्धु॑। ज॒ज्ञे॒। मधु॑। सा॒र॒घम्। मुखा॑त्। ९१।
महीधरः
म० आत्मन् आत्मनि शरीरे उपस्थे गुह्ये च यानि लोमानि तानि वृकस्य लोमानि । लोमेति जातावेकवचनम् । मुखे यानि श्मश्रूणि तानि च व्याघ्रलोम । शीर्षन् शीर्ष्णि शिरसि च यशसे यशोर्थं ये केशाः या च श्रियै शोभायै शिखा या च त्विषिः कान्तिः यानि चेन्द्रियाणि तत्सर्वं सिंहस्य लोम ॥ ९२ ॥
त्रिनवतितमी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- शङ्ख ऋषिः
- भुरिक्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जैसे (ग्रहाभ्याम्) जिनसे ग्रहण करते हैं, उन व्यवहारों के साथ (ऋषभः) ज्ञानी पुरुष (बलाय) योग-सामर्थ्य के लिये (यवाः) यवों के (न) समान (कर्णाभ्याम्) कानों से (श्रोत्रम्) शब्दविषय को (अमृतम्) नीरोग जल को और (कर्कन्धु) जिससे कर्म को धारण करें, उसको (सारघम्) एक प्रकार के स्वाद से युक्त (मधु) सहत (बर्हिः) वृद्धिकारक व्यवहार और (भ्रुवि) नेत्र और ललाट के बीच में (केसराणि) विज्ञानों अर्थात् सुषुम्ना में प्राण वायु का निरोध कर ईश्वरविषयक विशेष ज्ञानों को (मुखात्) मुख से उत्पन्न करता है, वैसे वह सब (इन्द्रस्य) परमैश्वर्य्य का (रूपम्) स्वरूप (जज्ञे) उत्पन्न होता है ॥९१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। जैसे निवृत्ति मार्ग में परम योगी योगबल से सब सिद्धियों को प्राप्त होता है, वैसे ही अन्य गृहस्थ लोगों को भी प्रवृत्ति मार्ग में सब ऐश्वर्य्य को प्राप्त होना चाहिये ॥९१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यथा ग्रहाभ्यां सहर्षभो बलाय यवा न कर्णाभ्यां श्रोत्रममृतं कर्कन्धु सारघं मधु बर्हिर्भ्रुवि केसराणि मुखाद् जनयति, तथैतत् सर्वमिन्द्रस्य रूपं जज्ञे ॥९१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। यथा निवृत्तिमार्गे परमयोगी योगबलेन सर्वाः सिद्धीः प्राप्नोति, तथैवान्यैर्गृहस्थैरपि प्रवृत्तिमार्गे सर्वमैश्वर्य्यं प्राप्तव्यमिति ॥९१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहे. जसे परम योगी निवृत्ती मार्गात योगबलाने सिद्धी प्राप्त करतात, तसेच इतर लोकांनीही प्रवृत्तीमार्गात सर्व ऐश्वर्य प्राप्त करावे.
९२ आत्मन्नुपस्थे न
विश्वास-प्रस्तुतिः ...{Loading}...
आ॒त्मन्नु॒पस्थे॒ न वृक॑स्य॒ लोम॒ मुखे॒ श्मश्रू॑णि॒ न व्या॑घ्रलो॒म। केशा॒ न शी॒र्षन् यश॑से श्रि॒यै शिखा॑ सिँ॒हस्य॒ लोम॒ त्विषि॑रिन्द्रि॒याणि॑ ॥९२ ॥
मूलम् ...{Loading}...
आ॒त्मन्नु॒पस्थे॒ न वृक॑स्य॒ लोम॒ मुखे॒ श्मश्रू॑णि॒ न व्या॑घ्रलो॒म। केशा॒ न शी॒र्षन् यश॑से श्रि॒यै शिखा॑ सिँ॒हस्य॒ लोम॒ त्विषि॑रिन्द्रि॒याणि॑ ॥९२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ॒त्मन्। उ॒पस्थ॒ऽइत्यु॒पस्थे॑। न। वृक॑स्य। लोम॑। मुखे॑। श्मश्रू॑णि। न। व्या॒घ्र॒लो॒मेति॑ व्याघ्रऽलो॒म। केशाः॑। न। शी॒र्षन्। यश॑से। श्रि॒यै। शिखा॑। सिँ॒हस्य॑। लोम॑। त्विषिः॑। इ॒न्द्रि॒याणि॑। ९२।
महीधरः
म० भिषजा भिषजौ अश्विना अश्विनौ आत्मन् आत्मनि अङ्गान्यवयवान् समधातां समयोजयताम् । सरस्वती तन्त्रमात्मानमङ्गैः समधात्संदधे । कीदृशा अश्व्यादयः । इन्द्रस्य रूपमायुश्च चन्द्रेणाह्लादकेन ज्योतिर्ज्योतिषा सहामृतमनश्वरं दधानाः संपादयन्तः । कीदृशं रूपम् । शतमानं शतानामनेकेषां प्राणिनां मानं पूजा यस्मिन् तज्जगत्पूज्यमित्यर्थः ॥ ९३ ॥
चतुर्नवतितमी। ।
अधिमन्त्रम् (VC)
- आत्मा देवता
- शङ्ख ऋषिः
- त्रिष्टुप्
- धैवतः
९३ अङ्गान्यात्मन् भिषजा
विश्वास-प्रस्तुतिः ...{Loading}...
अङ्गा॑न्या॒त्मन् भि॒षजा॒ तद॒श्विना॒त्मान॒मङ्गैः॒ सम॑धा॒त् सर॑स्वती। इन्द्र॑स्य रू॒पँ श॒तमा॑न॒मायु॑श्च॒न्द्रेण॒ ज्योति॑र॒मृतं॒ दधा॑नाः ॥९३ ॥
मूलम् ...{Loading}...
अङ्गा॑न्या॒त्मन् भि॒षजा॒ तद॒श्विना॒त्मान॒मङ्गैः॒ सम॑धा॒त् सर॑स्वती। इन्द्र॑स्य रू॒पँ श॒तमा॑न॒मायु॑श्च॒न्द्रेण॒ ज्योति॑र॒मृतं॒ दधा॑नाः ॥९३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अङ्गा॑नि। आ॒त्मन्। भि॒षजा॑। तत्। अ॒श्विना॑। आ॒त्मान॑म्। अङ्गैः॑। सम्। अ॒धा॒त्। सर॑स्वती। इन्द्र॑स्य। रू॒पम्। श॒तमा॑न॒मिति॑ श॒तऽमा॑नम्। आयुः॑। च॒न्द्रे॑ण। ज्योतिः॑। अ॒मृत॑म्। दधा॑नाः। ९३।
महीधरः
म० सरस्वती अश्विभ्यां पत्नी अश्विनोः पत्नी भूत्वा योन्यामन्तर्योनिमध्ये गर्भमिन्द्रलक्षणं सुकृतं यथा तथा शोभनं कृतं बिभर्ति । अप्सु राजा अपामीश्वरो वरुणः अपां रसेन साम्ना उदकरसभूतेन साम्ना इन्द्रं श्रियै जनयन्सन् बिभर्तीत्यनुषङ्गः । नश्चार्थः ॥ ९४ ॥
पश्चनवतितमी।
इति माध्यन्दिनीयायां वाजसनेयसंहितायां ऊनविंशोऽध्यायः ॥ १९ ॥
अधिमन्त्रम् (VC)
- अश्विनौ देवते
- शङ्ख ऋषिः
- त्रिष्टुप्
- धैवतः
९४ सरस्वती योन्याम्
विश्वास-प्रस्तुतिः ...{Loading}...
सर॑स्वती॒ योन्यां॒ गर्भ॑म॒न्तर॒श्विभ्यां॒ पत्नी॒ सुकृ॑तं बिभर्ति। अ॒पाँ रसे॑न॒ वरु॑णो॒ न साम्नेन्द्रँ॑ श्रि॒यै ज॒नय॑न्न॒प्सु राजा॑ ॥९४ ॥
मूलम् ...{Loading}...
सर॑स्वती॒ योन्यां॒ गर्भ॑म॒न्तर॒श्विभ्यां॒ पत्नी॒ सुकृ॑तं बिभर्ति। अ॒पाँ रसे॑न॒ वरु॑णो॒ न साम्नेन्द्रँ॑ श्रि॒यै ज॒नय॑न्न॒प्सु राजा॑ ॥९४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सर॑स्वती। योन्या॑म्। गर्भ॑म्। अ॒न्तः। अ॒श्विभ्या॒मित्य॒श्विऽभ्या॑म्। पत्नी॑। सुकृ॑त॒मिति॒ सुऽकृ॑तम्। बि॒भ॒र्ति॒। अ॒पाम्। रसे॑न। वरु॑णः। न। साम्ना॑। इन्द्र॑म्। श्रि॒यै। ज॒नय॑न्। अ॒प्स्वित्य॒प्ऽसु। राजा॑। ९४।
महीधरः
म० भिषजा भिषग्भ्यामश्विभ्यां सरस्वत्या च इन्द्रियावत् इन्द्रियवत् वीर्यवत् पशूनां संबन्धि हविरादाय परिस्रुता पयसा च सह सारघं मधु चादाय इन्द्रार्थे तेजो दुग्धं स्रावितम् । सुतासुताभ्यां परिस्रुत्पयोभ्यां सकाशात् अमृतोऽमृतरूपः इन्दुरैश्वर्यप्रदः सोमश्च दुग्धः । एवं यैः सरस्वत्यश्विभिरिन्द्राय नानाद्रव्येभ्यो नानारसानादायोपकारः कृतः तेभ्यः सौत्रामणीद्रष्टृभ्यो नमः ॥ ९५ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे।
सुगदीन्द्राभिषेकान्तोऽध्यायो नवदशोऽगमत् ॥ १९ ॥
अधिमन्त्रम् (VC)
- सरस्वती देवता
- शङ्ख ऋषिः
- विराट्पङ्क्तिः
- पञ्चमः
९५ तेजः पशूना
विश्वास-प्रस्तुतिः ...{Loading}...
तेजः॑ पशू॒नाँ ह॒विरि॑न्द्रि॒याव॑त् परि॒स्रुता॒ पय॑सा सार॒घं मधु॑। अ॒श्विभ्यां॑ दु॒ग्धं भि॒षजा॒ सर॑स्वत्या सुतासु॒ताभ्या॑म॒मृतः॒ सोम॒ऽइन्दुः॑ ॥९५ ॥
मूलम् ...{Loading}...
तेजः॑ पशू॒नाँ ह॒विरि॑न्द्रि॒याव॑त् परि॒स्रुता॒ पय॑सा सार॒घं मधु॑। अ॒श्विभ्यां॑ दु॒ग्धं भि॒षजा॒ सर॑स्वत्या सुतासु॒ताभ्या॑म॒मृतः॒ सोम॒ऽइन्दुः॑ ॥९५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
तेजः॑। प॒शू॒नाम्। ह॒विः। इ॒न्द्रि॒याव॑त्। इ॒न्द्रि॒यव॒दिती॑न्द्रि॒यऽव॑त्। प॒रि॒स्रुतेति॑ प॒रि॒ऽस्रुता॑। पय॑सा। सा॒र॒घम्। मधु॑। अ॒श्विभ्या॒मित्य॒श्विऽभ्या॑म्। दु॒ग्धम्। भि॒षजा॑। सर॑स्वत्या। सु॒ता॒सु॒ताभ्या॒मिति॑ सुतासु॒ताभ्या॑म्। अ॒मृतः॑। सोमः॑। इन्दुः॑। ९५।
महीधरः
अधिमन्त्रम् (VC)
- अश्विनौ देवते
- शङ्ख ऋषिः
- निचृज्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जिन (सुतासुताभ्याम्) सिद्ध असिद्ध किये हुए (भिषजा) वैद्यक विद्या के जाननेहारे (अश्विभ्याम्) विद्या में व्याप्त दो विद्वान् (पशूनाम्) गवादि पशुओं के सम्बन्ध से (परिस्रुता) सब ओर से प्राप्त होनेवाले (पयसा) दूध से (तेजः) प्रकाशरूप (इन्द्रियावत्) कि जिसमें उत्तम इन्द्रिय होते हैं, उस (सारघम्) उत्तम स्वादयुक्त (मधु) मधुर (हविः) खाने-पीने योग्य (दुग्धम्) दुग्धादि पदार्थ और (सरस्वत्या) विदुषी स्त्री से (अमृतः) मृत्युधर्मरहित नित्य रहनेवाला (सोमः) ऐश्वर्य्य और (इन्दुः) उत्तम स्नेहयुक्त पदार्थ उत्पन्न किया जाता है, वे योगसिद्धि को प्राप्त होते हैं ॥९५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे गौ के चरानेवाले गोपाल लोग गौ आदि पशुओं की रक्षा करके दूध आदि से सन्तुष्ट होते हैं, वैसे ही मन आदि इन्द्रियों को दुष्टाचार से पृथक् संरक्षण करके योगी लोगों को आनन्दित होना चाहिये ॥९५ ॥ इस अध्याय में सोम आदि पदार्थों के गुण वर्णन करने से इस अध्याय के अर्थ की पूर्व अध्याय के अर्थ के साथ सङ्गति जाननी चाहिये ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्याणां श्रीयुतपरमविदुषां विरजानन्दसरस्वतीस्वामिनां शिष्येण श्रीमद्दयानदसरस्वतीस्वामिना विरचिते सुप्रमाणयुक्ते संस्कृतार्य्यभाषाभ्यां विभूषिते यजुर्वेदभाष्ये एकोनविंशोऽध्यायः समाप्तिमगमत् ॥१९॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! याभ्यां सुताऽसुताभ्यां भिषजाऽश्विभ्यां पशूनां परिस्रुता पयसा तेज इन्द्रियावत् सारघं मधु हविर्दुग्धं सरस्वत्यामृतः सोम इन्दुश्चोत्पाद्यते, तौ योगसिद्धिं प्राप्नुतः ॥९५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा गोपा गवादीन् पशून् संरक्ष्य दुग्धादिना संतुष्यन्ति, तथैव मनआदीन्द्रियाणि दुष्टाचारात् पृथक् संरक्ष्य योगिभिरानन्दितव्यमिति ॥९५ ॥ अत्र सोमादिपदार्थगुणवर्णनादेतदर्थस्य पूर्वाध्यायार्थेन सह सङ्गतिरस्तीति वेद्यम् ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. गुरे राखणारे गुराखी जसे गाईंचे रक्षण करून दुधाने संतुष्ट होतात. तसे योग्यांनी मन इत्यादी इंद्रियांना दुष्ट आचरणापासून पृथक ठेवून आनंदित राहावे.