०१ वाजश्च मे
विश्वास-प्रस्तुतिः ...{Loading}...
वाज॑श्च मे प्रस॒वश्च॑ मे॒ प्रय॑तिश्च मे॒ प्रसि॑तिश्च मे धी॒तिश्च॑ मे॒ क्रतु॑श्च मे॒ स्व॑रश्च मे॒ श्लोक॑श्च मे॒ श्र॒वश्च॑ मे॒ श्रुति॑श्च मे॒ ज्योति॑श्च मे॒ स्व᳖श्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥१ ॥
मूलम् ...{Loading}...
वाज॑श्च मे प्रस॒वश्च॑ मे॒ प्रय॑तिश्च मे॒ प्रसि॑तिश्च मे धी॒तिश्च॑ मे॒ क्रतु॑श्च मे॒ स्व॑रश्च मे॒ श्लोक॑श्च मे॒ श्र॒वश्च॑ मे॒ श्रुति॑श्च मे॒ ज्योति॑श्च मे॒ स्व᳖श्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वाजः॑। च॒। मे॒। प्र॒स॒व इति॑ प्रऽस॒वः। च॒। मे॒। प्रय॑ति॒रिति॒ प्रऽय॑तिः। च॒। मे॒। प्रसि॑ति॒रिति॒ प्रऽसि॑तिः। च॒। मे॒। धी॒तिः। च॒। मे॒। क्रतुः॑। च॒। मे॒। स्वरः॑। च॒। मे॒। श्लोकः॑। च॒। मे॒। श्र॒वः। च॒। मे॒। श्रुतिः॑। च॒। मे॒। ज्योतिः॑। च॒। मे॒। स्व᳖रिति॒ स्वः᳖। च॒। मे॒। य॒ज्ञेन॑। कल्प॒न्ताम्। १।
महीधरः
म० सप्तदशेऽध्याये चित्यारोहणादिमन्त्रा उक्ताः । इदानीमष्टादशेऽध्याये वसोर्धारादिमन्त्रा उच्यन्ते । ‘वसोर्धारां जुहोत्यौदुम्बर्या पञ्चगृहीतᳪं᳭सन्ततं यजमानोऽरण्येऽनूच्येऽग्निप्राप्ते वाजश्च म इत्यष्टानुवाकेन’ ( का० १८ । ५। १)। अस्यार्थः । ततो यजमान आज्यं संस्कृत्यार्थपरिमाणया महत्यौदुम्बर्या स्रुचा महता स्रुवेण पञ्चवारं गृहीतमाज्यमरण्येऽनूच्ये पुरोडाशेऽधिकरणे तदुपरि संततमविच्छिन्नधारं यथा तथा वसोर्धारासंज्ञामाहुतिं जुहोति । घृतेऽग्निप्राप्ते सति वाजश्चेत्यादिहोममन्त्रारम्भः कार्योऽष्टाभिरनुवाकैर्वाजश्चेत्यादिवेट्स्वाहान्तैरेकोनत्रिंशत्कण्डिकात्मकैः । वाजश्च मे । चकाराः समुच्चयार्थाः । यज्ञेनानेन मया कृतेन वाजादयः पदार्थाः कल्पन्तां क्लृप्ताः संपन्ना भवन्तु । स यज्ञो वाजादीनां दातास्मभ्यं भवत्वित्यर्थः । ‘अथो इदं च मे देहीदं च मे’ (९।३।२।५) इति श्रुतेः । यद्वा वाजादयः पदार्था मे मम यज्ञेन कल्पन्ताम् । विभक्तिव्यत्ययः । यज्ञेऽग्निं तर्पयन्तु अभिषिञ्चन्तु वा । ‘अनेन च त्वा प्रीणाम्यनेन च वाभिषिञ्चामि’ (९ । ३ । २ । ५) इत्यादिश्रुतिः । द्वौ द्वौ कामावनुपक्षयाय संयुञ्ज्याच्चकारेण कन्याकुमाराविव । तथाच श्रुतिः ‘द्वौ द्वौ कामावभिरूपौ संयुनक्त्यव्यवच्छेदाय यथा व्योकसौ संयुञ्ज्यात्’ (९ । ३ । २ । ६) इति । अथ पदार्था व्याख्यायन्ते। वाजश्चेत्यादियजुषां देवा ऋषयः । अग्निर्देवता । छन्दांसि पिङ्गलोक्तान्यक्षरसंख्यया ज्ञेयानि । एतैर्यजुर्भिर्यजमानोऽग्नेः कामान् याचते वाजो मेऽस्त्वित्यादि । तत्रैकाधिकानि चतुःशतं यजूंषि कामास्तु पञ्चदशोत्तरं शतम् । तद्यथा । वाजश्चेत्याद्यासु ज्यैष्ठ्यं च मे, वसु च मे ( १४।१५) इति कण्डिकाद्वयवर्जितासु एकोनविंशतिकण्डिकासु त्रयोदश त्रयोदश यजूंषि सन्ति ज्यैष्ठ्यं च म इत्यस्यां ( ४ ) पञ्चदश वसु च म इत्यस्यां (१५) नव । अग्निश्च मे घर्मश्च म इत्यस्यां ( २२ ) द्वादश कामास्तु त्रयोदश अङ्गुलयः शक्वरयो दिशश्च म इत्येकं यजुः कामास्त्वत्र त्रयः । व्रतं च म इत्यस्यां (२३) षट् कामास्तु दशअहोरात्रे ऊर्वष्ठीवे बृहद्रथन्तरे च म इत्येकं यजुः षट् कामाः ॥ एका च म इत्यस्यां ( २४ ) त्रयस्त्रिंशत् । चतस्रश्च मे (२५) अत्र त्रयोविंशतिः । त्र्यविश्च मे ( २६ ) अत्रैकादश । पष्ठवाट् च मे (२७) इत्यत्र नव । वाजाय स्वाहेति ( २८ ) अत्र चतुर्दश । आयुर्यज्ञेनेति (२९) अत्रैकविंशतिः कल्पन्तामन्तानि १२ स्तोमश्चेति षट् १८ स्वर्देवाः १९ प्रजापतेः २० वेट्स्वाहा २१ । एवमेकाधिका चतुःशती । अथ यजुषामर्थाः । वाजोऽन्नम् । चशब्दाः समुच्चयार्थाः । प्रसवोऽन्नदानाभ्यनुज्ञा दीयतां भुज्यतामिति । प्रयतिः शुद्धिः । प्रसितिः बन्धनमन्नविषयौत्सुक्यम् । धीतिः ध्यानम् ‘ध्यै चिन्तायाम्’ छान्दसं संप्रसारणम् । क्रतुः संकल्पो यज्ञो वा । स्वरः साधुशब्दः । श्लोकः पद्यबन्धः स्तुतिर्वा । श्रवः वेदमन्त्राः श्रवणसामर्थ्यं वा । श्रुतिः ब्राह्मणं श्रवणसामर्थ्यं वा । ज्योतिः प्रकाशः । स्वः स्वर्गः एते मे मम यज्ञेन कल्पन्ताम् । कल्पन्तामिति कण्डिकान्तस्य समुदायापेक्षया बहुत्वम् । मेपदानामावृत्तिः प्रत्येकं प्राप्त्यर्था । एवं सर्वत्र ॥१॥
द्वितीया।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- देवा ऋषयः
- शक्वरी
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब अठारहवें अध्याय का आरम्भ है, उसके प्रथम मन्त्र में मनुष्यों को ईश्वर वा धर्मानुष्ठानादि से क्या-क्या सिद्ध करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (मे) मेरा (वाजः) अन्न (च) विशेष ज्ञान (मे) मेरा (प्रसवः) ऐश्वर्य्य (च) और उसके ढंग (मे) मेरा (प्रयतिः) जिस व्यवहार से अच्छा यत्न बनता है, सो (च) और उसके साधन (मे) मेरा (प्रसितिः) प्रबन्ध (च) और रक्षा (मे) मेरी (धीतिः) धारणा (च) और ध्यान (मे) मेरी (क्रतुः) श्रेष्ठ बुद्धि (च) उत्साह (मे) मेरी (स्वरः) स्वतन्त्रता (च) उत्तम तेज (मे) मेरी (श्लोकः) पदरचना करने हारी वाणी (च) कहना (मे) मेरा (श्रवः) सुनना (च) और सुनाना (मे) मेरी (श्रुतिः) जिससे समस्त विद्या सुनी जाती हैं, वह वेदविद्या (च) और उसके अनुकूल स्मृति अर्थात् धर्मशास्त्र (मे) मेरी (ज्योतिः) विद्या का प्रकाश होना (च) और दूसरे को विद्या का प्रकाश करना (मे) मेरा (स्वः) सुख (च) और अन्य का सुख (यज्ञेन) सेवन करने योग्य परमेश्वर वा जगत् के उपकारी व्यवहार से (कल्पन्ताम्) समर्थ होवें ॥१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! तुम को अन्न आदि पदार्थों से सब के सुख के लिये ईश्वर की उपासना और जगत् के उपकारक व्यवहार की सिद्धि करनी चाहिये, जिससे सब मनुष्यादिकों की उन्नति हो ॥१ ॥
दयानन्द-सरस्वती (सं) - विषयः
तत्रादौ मनुष्यैर्यज्ञेन किं किं साधनीयमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - मे वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रवश्च मे श्रुतिश्च मे ज्योतिश्च मे स्वश्च यज्ञेन कल्पन्ताम् ॥१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! युष्माभिरन्नाद्येन सर्वसुखाय यज्ञ उपासनीयः साधनीयश्च, यतः सर्वेषां मनुष्यादीनामुन्नतिर्भवेत् ॥१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! ईश्वराला स्मरून सर्वांच्या सुखासाठी अन्न इत्यादी पदार्थांनी जगावर उपकार करावे. ज्यामुळे सर्व माणसांची उन्नती होईल.
०२ प्राणश्च मेऽपानश्च
विश्वास-प्रस्तुतिः ...{Loading}...
प्रा॒णश्च॑ मेऽपा॒नश्च॑ मे व्या॒नश्च॒ मेऽसु॑श्च मे चि॒त्तं च॑ म॒ऽआधी॑तं च मे॒ वाक् च॑ मे॒ मन॑श्च मे॒ चक्षु॑श्च मे॒ श्रोत्रं॑ च मे॒ दक्ष॑श्च मे॒ बलं॑ च मे य॒ज्ञेन॑ कल्पन्ताम् ॥२ ॥
मूलम् ...{Loading}...
प्रा॒णश्च॑ मेऽपा॒नश्च॑ मे व्या॒नश्च॒ मेऽसु॑श्च मे चि॒त्तं च॑ म॒ऽआधी॑तं च मे॒ वाक् च॑ मे॒ मन॑श्च मे॒ चक्षु॑श्च मे॒ श्रोत्रं॑ च मे॒ दक्ष॑श्च मे॒ बलं॑ च मे य॒ज्ञेन॑ कल्पन्ताम् ॥२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्रा॒णः। च॒। मे॒। अ॒पा॒न इत्य॑पऽआ॒नः। च॒। मे॒। व्या॒न इति॑ विऽआ॒नः। च॒। मे॒। असुः॑। च॒। मे॒। चि॒त्तम्। च॒। मे॒। आधी॑त॒मित्याऽधी॑तम्। च॒। मे॒। वाक्। च॒। मे॒। मनः॑। च॒। मे॒। चक्षुः॑। च॒। मे॒। श्रोत्र॑म्। च॒। मे। दक्षः॑। च॒। मे॒। बलम्। च॒। मे॒। य॒ज्ञेन॑। क॒ल्प॒न्ता॒म्। २।
महीधरः
म० प्राणः ऊर्ध्वसंचारी शरीरवायुः । अपानः अधोवृत्तिर्वायुः । व्यानः सर्वशरीरचरः । असुः प्रवृत्तिमान् वायुः । चित्तं मानसः संकल्पः । आधीतं बाह्यविषयज्ञानम् । वाक् वागिन्द्रियम् । मनः प्रसिद्धम् । चक्षुरिन्द्रियम् । श्रोत्रं श्रवणेन्द्रियम् । दक्षः ज्ञानेन्द्रियकौशलम् । बलं कर्मेन्द्रियकौशलम् । एतानि यज्ञेन मे कल्पन्ताम् ॥ २॥
तृतीया।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- देवा ऋषयः
- भुरिगतिजगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (मे) मेरा (प्राणः) हृदयस्थ जीवनमूल (च) और कण्ठ देश में रहनेवाला पवन (मे) मेरा (अपानः) नाभि से नीचे को जाने (च) और नाभि में ठहरनेवाला पवन (मे) मेरा (व्यानः) शरीर की सन्धियों में व्याप्त (च) और धनञ्जय जो कि शरीर के रुधिर आदि को बढ़ाता है, वह पवन (मे) मेरा (असुः) नाग आदि प्राण का भेद (च) तथा अन्य पवन (मे) मेरी (चित्तम्) स्मृति अर्थात् सुधि रहनी (च) और बुद्धि (मे) मेरा (आधीतम्) अच्छे प्रकार किया हुआ निश्चित ज्ञान (च) और रक्षा किया हुआ विषय (मे) मेरी (वाक्) वाणी (च) और सुनना (मे) मेरी (मनः) संकल्प-विकल्प रूप अन्तःकरण की वृत्ति (च) अहङ्कारवृत्ति (मे) मेरा (चक्षुः) जिससे कि मैं देखता हूँ, वह नेत्र (च) और प्रत्यक्ष प्रमाण (मे) मेरा (श्रोत्रम्) जिससे कि मैं सुनता हूँ, वह कान (च) और प्रत्येक विषय पर वेद का प्रमाण (मे) मेरी (दक्षः) चतुराई (च) और तत्काल भान होना तथा (मे) मेरा (बलम्) बल (च) और पराक्रम ये सब (यज्ञेन) धर्म के अनुष्ठान से (कल्पन्ताम्) समर्थ हों ॥२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्य लोग साधनों के सहित अपने प्राण आदि पदार्थों को धर्म के आचरण करने में संयुक्त करें ॥२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - मे प्राणश्च मेऽपानश्च मे व्यानश्च मेऽसुश्च मे चित्तं म आधीतं च मे वाक् च मे मनश्च मे चक्षुश्च मे श्रोत्रं च मे दक्षश्च मे बलं च यज्ञेन कल्पन्तां समर्था भवन्तु ॥२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्याः ससाधनान् प्राणादीन् धर्मानुष्ठानाय नियोजयन्तु ॥२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी, सर्व साधनांसह (प्राण, अपान, व्यान इत्यादी तसेच चित्त, मन, वाणी, चक्षू, श्रोत्र इत्यादी) आपले प्राण वगैरे धर्माचरणात संयुक्त करावे.
०३ ओजश्च मे
विश्वास-प्रस्तुतिः ...{Loading}...
ओज॑श्च मे॒ सह॑श्च मऽआ॒त्मा च॑ मे त॒नूश्च॑ मे॒ शर्म॑ च मे॒ वर्म॑ च॒ मेऽङ्गा॑नि च॒ मेऽस्थी॑नि च मे॒ परूँ॑षि च मे॒ शरी॑राणि च म॒ऽआयु॑श्च मे ज॒रा च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ॥३ ॥
मूलम् ...{Loading}...
ओज॑श्च मे॒ सह॑श्च मऽआ॒त्मा च॑ मे त॒नूश्च॑ मे॒ शर्म॑ च मे॒ वर्म॑ च॒ मेऽङ्गा॑नि च॒ मेऽस्थी॑नि च मे॒ परूँ॑षि च मे॒ शरी॑राणि च म॒ऽआयु॑श्च मे ज॒रा च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ॥३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ओजः॑। च॒। मे॒। सहः॑। च॒। मे॒। आ॒त्मा। च॒। मे॒। त॒नूः। च॒। मे॒। शर्म॑। च॒। मे॒। वर्म॑। च॒। मे॒। अङ्गा॑नि। च॒। मे॒। अस्थी॑नि। च॒। मे॒। परूँ॑षि। च॒। मे॒। शरी॑राणि। च॒। मे॒। आयुः॑। च॒। मे॒। ज॒रा। च॒। मे॒। य॒ज्ञेन॑। क॒ल्प॒न्ता॒म्। ३।
महीधरः
म०. ओजो बलहेतुरष्टमो धातुः । सहः शारीरं बलं सपत्नाभिभवितृत्वं वा । आत्मा परमात्मा । तनू रम्यं वपुः । शर्म सुखम् । वर्म कवचम् । अङ्गानि हस्ताद्यवयवाः । अस्थीनि शरीरगतानि । परूंषि अङ्गुल्यादिपर्वाणि । शरीराणि पूर्वानुक्ताः शरीरावयवाः । आयुर्जीवनम् । जरा वार्धकान्तमायुः । एते यज्ञेन संपद्यन्ताम् ॥ ३॥
चतुर्थी।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- देवा ऋषयः
- भुरिक् शक्वरी
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (मे) मेरे (ओजः) शरीर का तेज (च) और मेरी सेना (मे) मेरे (सहः) शरीर का बल (च) तथा मन (मे) मेरा (आत्मा) स्वरूप और (च) मेरा सामर्थ्य (मे) मेरा (तनूः) शरीर (च) और सम्बन्धीजन (मे) मेरा (शर्म) घर (च) और घर के पदार्थ (मे) मेरी (वर्म) रक्षा जिससे हो, वह बख्तर (च) और शस्त्र-अस्त्र (मे) मेरे (अङ्गानि) शिर आदि अङ्ग (च) और अङ्गुलि आदि प्रत्यङ्ग (मे) मेरे (अस्थीनि) हाड़ (च) और भीतर के अङ्ग प्रत्यङ्ग अर्थात् हृदय मांस नसें आदि (मे) मेरे (परूँषि) मर्मस्थल (च) और जीवन के कारण (मे) मेरे (शरीराणि) सम्बन्धियों के शरीर (च) और अत्यन्त छोटे-छोटे देह के अङ्ग (मे) मेरी (आयुः) उमर (च) तथा जीवन के साधन अर्थात् जिनसे जीते हैं (मे) मेरा (जरा) बुढ़ापा (च) और जवानी ये सब पदार्थ (यज्ञेन) सत्कार के योग्य परमेश्वर से (कल्पन्ताम्) समर्थ होवें ॥३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजपुरुषों को चाहिये कि धार्मिक सज्जनों की रक्षा और दुष्टों को दण्ड देने के लिये बली सेना आदि जनों को प्रवृत्त करें ॥३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - मे ओजश्च मे सहश्च म आत्मा च मे तनूश्च मे शर्म च मे वर्म च मेऽङ्गानि च मेऽस्थीनि च मे परूँषि च मे शरीराणि च म आयुश्च मे जरा च यज्ञेन कल्पन्ताम् ॥३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - राजपुरुषैः सबलाः सेनादयो धार्मिकरक्षणाय दुष्टताडनाय च प्रवर्त्तनीयाः ॥३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राज पुरुषांनी धार्मिक सज्जनांचे रक्षण व दुष्टांना दंड देण्यासाठी शरीराचे सर्व अवयव (मन, मस्तक, हृदय, अस्थि, मर्मस्थळ, अंगप्रत्यंग) सुदृढ करून धार्मिक सज्जनांचे रक्षण व दुष्टांना दंड देण्यासाठी सेनेला बलवान बनवून तयार ठेवावे.
०४ ज्यैष्ठ्यं च
विश्वास-प्रस्तुतिः ...{Loading}...
ज्यैष्ठ्यं॑ च म॒ऽआधि॑पत्यं च मे म॒न्युश्च॑ मे॒ भाम॑श्च॒ मेऽम॑श्च॒ मेऽम्भ॑श्च मे जे॒मा च॑ मे महि॒मा च॑ मे वरि॒मा च॑ मे प्रथि॒मा च॑ मे वर्षि॒मा च॑ मे द्राघि॒मा च॑ मे वृ॒द्धं च॑ मे॒ वृद्धि॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥४ ॥
मूलम् ...{Loading}...
ज्यैष्ठ्यं॑ च म॒ऽआधि॑पत्यं च मे म॒न्युश्च॑ मे॒ भाम॑श्च॒ मेऽम॑श्च॒ मेऽम्भ॑श्च मे जे॒मा च॑ मे महि॒मा च॑ मे वरि॒मा च॑ मे प्रथि॒मा च॑ मे वर्षि॒मा च॑ मे द्राघि॒मा च॑ मे वृ॒द्धं च॑ मे॒ वृद्धि॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ज्यैष्ठ्य॑म्। च॒। मे॒। आधि॑पत्य॒मित्याधि॑ऽपत्यम्। च॒। मे॒। म॒न्युः। च॒। मे॒। भामः॑। च॒। मे॒। अमः॑। च॒। मे॒। अम्भः॑। च॒। मे॒। जे॒मा। च॒। मे॒। म॒हि॒मा। च॒। मे॒। व॒रि॒मा। च॒। मे॒। प्र॒थि॒मा। च॒। मे॒। व॒र्षि॒मा। च॒। मे॒। द्रा॒घि॒मा। च॒। मे॒। वृ॒द्धम्। च॒। मे॒। वृद्धिः॑। च॒। मे॒। य॒ज्ञेन॑। क॒ल्प॒न्ता॒म्। ४।
महीधरः
म० ज्येष्ठस्य भावो ज्यैष्ठ्यं प्रशस्तत्वम् । अधिपतेर्भाव आधिपत्यं स्वामित्वम् । मन्युः मानसः कोपः । भामोऽधिक्षेपादिलिङ्गको बाह्यः कोपः । न मीयत इत्यमः अपरिमेयत्वमन्यैरियत्तया परिच्छेत्तुमशक्यत्वम् । अम्भः शीतमधुरं जलम् । | जेमा जयस्य भावो जयसामर्थ्यम् । महतो भावो महिमा महत्त्वं संपत्त्यादिना । उरोर्भावो वरिमा प्रजादिविशालता । पृथोर्भावः प्रथिमा गृहक्षेत्रादिविस्तारः । वृद्धस्य भावो वर्षिमा दीर्घजीवित्वम् । दीर्घस्य भावो द्राघिमा अविच्छिन्नवंशत्वम् । वृद्धं प्रभूतमन्नधनादि । वृद्धिः विद्यादिगुणैरुत्कर्षः । एते मे कल्पन्ताम् ॥ ४ ॥
पञ्चमी।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- देवा ऋषयः
- निचृदत्यष्टिः
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (मे) मेरी (ज्यैष्ठ्यम्) प्रशंसा (च) और उत्तम पदार्थ (मे) मेरा (आधिपत्यम्) स्वामीपन (च) और स्वकीय द्रव्य (मे) मेरा (मन्युः) अभिमान (च) और शान्ति (मे) मेरा (भामः) क्रोध (च) और उत्तम शील (मे) मेरा (अमः) न्याय से पाये हुए गृहादि (च) और पाने योग्य पदार्थ (मे) मेरा (अम्भः) जल (च) और दूध, दही, घी आदि पदार्थ (मे) मेरा (जेमा) जीत का होना (च) और विजय (मे) मेरा (महिमा) बड़प्पन (च) प्रतिष्ठा (मे) मेरी (वरिमा) बड़ाई (च) और उत्तम वर्त्ताव (मे) मेरा (प्रथिमा) फैलाव (च) और फैले हुए पदार्थ (मे) मेरा (वर्षिमा) बुढ़ापा (च) और लड़काई (मे) मेरी (द्राघिमा) बढ़वार (च) और छुटाई (मे) मेरा (वृद्धम्) प्रभुता को पाया हुआ बहुत प्रकार का धन आदि पदार्थ (च) और थोड़ा पदार्थ तथा (मे) मेरा (वृद्धिः) जिस अच्छी क्रिया से वृद्धि को प्राप्त होते हैं, वह (च) और उससे उत्पन्न हुआ सुख उक्त समस्त पदार्थ (यज्ञेन) धर्म की रक्षा करने से (कल्पन्ताम्) समर्थित होवें ॥४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मित्रजनो ! तुम यज्ञ की सिद्धि और समस्त जगत् के हित के लिये प्रशंसित पदार्थों को संयुक्त करो ॥४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - मे ज्यैष्ठ्यं च म आधिपत्यं च मे मन्युश्च मे भामश्च मेऽमश्च मेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्षिमा च मे द्राघिमा च मे वृद्धं च मे वृद्धिश्च यज्ञेन कल्पन्ताम् ॥४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे सखायो जनाः ! यूयं यज्ञसिद्धये सर्वस्य जगतो हिताय च प्रशंसितानि वस्तूनि संयुङ्ग्ध्वम् ॥४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे मित्रांनो ! तुम्ही यज्ञाच्या सिद्धीसाठी व संपूर्ण जगाच्या हितासाठी चांगले पदार्थ एकत्रित करा.
०५ सत्यं च
विश्वास-प्रस्तुतिः ...{Loading}...
स॒त्यं च॑ मे श्र॒द्धा च॑ मे॒ जग॑च्च मे॒ धनं॑ च मे॒ विश्वं॑ च मे॒ मह॑श्च मे क्री॒डा च॑ मे॒ मोद॑श्च मे जा॒तं च॑ मे जनि॒ष्यमा॑णं च मे सू॒क्तं च॑ मे सुकृ॒तं च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ॥५ ॥
मूलम् ...{Loading}...
स॒त्यं च॑ मे श्र॒द्धा च॑ मे॒ जग॑च्च मे॒ धनं॑ च मे॒ विश्वं॑ च मे॒ मह॑श्च मे क्री॒डा च॑ मे॒ मोद॑श्च मे जा॒तं च॑ मे जनि॒ष्यमा॑णं च मे सू॒क्तं च॑ मे सुकृ॒तं च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ॥५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स॒त्यम्। च॒। मे॒। श्र॒द्धा। च॒। मे॒। जग॑त्। च॒। मे॒। धन॑म्। च॒। मे॒। विश्व॑म्। च॒। मे॒। महः॑। च॒। मे॒। क्री॒डा। च॒। मे॒। मोदः॑। च॒। मे॒। जा॒तम्। च॒। मे॒। ज॒नि॒ष्यमा॑णम्। च॒। मे॒। सू॒क्तमिति॑ सुऽउ॒क्तम्। च॒। मे॒। सु॒कृ॒तमिति॑ सुऽकृ॒तम्। च॒। मे॒। य॒ज्ञेन॑। क॒ल्प॒न्ता॒म्। ५।
महीधरः
म० सत्यं यथार्थभाषितम् । श्रद्धा परलोकविश्वासः । जगत् जङ्गमं गवादि । धनं कनकादि । विश्वं स्थावरम् । महो दीप्तिः । क्रीडा अक्षद्यूतादिः । मोदः क्रीडादर्शनजो हर्षः । जातं पुत्रोत्पन्नमपत्यम् । जनिष्यमाणं भविष्यदपत्यम् । सूक्तमृक्समूहः । सुकृतमृक्पाठजन्यं शुभादृष्टम् । एते मे कल्पन्ताम् ॥ ५॥
षष्ठी।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- देवा ऋषयः
- स्वराट् शक्वरी
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (मे) मेरा (सत्यम्) यथार्थ विषय (च) और सब का हित करना (मे) मेरी (श्रद्धा) अर्थात् जिससे सत्य को धारण करते हैं (च) और उक्त श्रद्धा की सिद्धि देनेवाले पदार्थ (मे) मेरा (जगत्) चेतन सन्तान आदि वर्ग (च) और उस में स्थिर हुए पदार्थ (मे) मेरा (धनम्) सुवर्ण आदि धन (च) और धान्य अर्थात् अनाज आदि (मे) मेरा (विश्वम्) सर्वस्व (च) और सबों पर उपकार (मे) मेरी (महः) बड़ाई से भरी हुई प्रशंसा करने योग्य वस्तु (च) और सत्कार (मे) मेरा (क्रीडा) खेलना विहार (च) और उसके पदार्थ (मे) मेरा (मोदः) हर्ष (च) और अति हर्ष (मे) मेरा (जातम्) उत्पन्न हुआ पदार्थ (च) तथा जो होता है (मे) मेरा (जनिष्यमाणम्) जो उत्पन्न होनेवाला (च) और जितना उससे सम्बन्ध रखनेवाला (मे) मेरा (सूक्तम्) अच्छे प्रकार कहा हुआ (च) और अच्छे प्रकार विचारा हुआ (मे) मेरा (सुकृतम्) उत्तमता से किया हुआ काम (च) और उसके साधन ये उक्त सब पदार्थ (यज्ञेन) सत्य और धर्म की उन्नति करने रूप उपदेश से (कल्पन्ताम्) समर्थ हों ॥५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य विद्या का पठन-पाठन, श्रवण और उपदेश करते वा कराते हैं, वे नित्य उन्नति को प्राप्त होते हैं ॥५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - मे सत्यं च मे श्रद्धा च मे जगच्च मे धनञ्च मे विश्वं च मे महश्च मे क्रीडा च मे मोदश्च मे जातञ्च मे जनिष्यमाणं च मे सूक्तं च मे सुकृतं च यज्ञेन कल्पन्ताम् ॥५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्या विद्याध्ययनाध्यापनश्रवणोपदेशान् कुर्वन्ति कारयन्ति च ते नित्यमुन्नता जायन्ते ॥५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे विद्येचे अध्ययन-अध्यापन, श्रवण व उपदेश करतात किंवा करवितात त्यांची (धन, धान्य, संतती व अनेक बाबतीत) सदैव उन्नती होते.
०६ ऋतं च
विश्वास-प्रस्तुतिः ...{Loading}...
ऋ॒तं च॑ मे॒ऽमृतं॑ च मेऽय॒क्ष्मं च॒ मेऽना॑मयच्च मे जी॒वातु॑श्च मे दीर्घायु॒त्वं च॑ मेऽनमि॒त्रं च॒ मेऽभ॑यं च मे सु॒खं च॑ मे॒ शय॑नं च मे सू॒षाश्च॑ मे सु॒दिनं॑ च मे य॒ज्ञेन॑ कल्पन्ताम् ॥६ ॥
मूलम् ...{Loading}...
ऋ॒तं च॑ मे॒ऽमृतं॑ च मेऽय॒क्ष्मं च॒ मेऽना॑मयच्च मे जी॒वातु॑श्च मे दीर्घायु॒त्वं च॑ मेऽनमि॒त्रं च॒ मेऽभ॑यं च मे सु॒खं च॑ मे॒ शय॑नं च मे सू॒षाश्च॑ मे सु॒दिनं॑ च मे य॒ज्ञेन॑ कल्पन्ताम् ॥६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ऋ॒तम्। च॒। मे॒। अ॒मृत॑म्। च॒। मे॒। अ॒य॒क्ष्मम्। च॒। मे॒। अना॑मयत्। च॒। मे॒। जी॒वातुः॑। च॒। मे॒। दी॒र्घा॒यु॒त्वमिति॑ दीर्घायु॒ऽत्वम्। च॒। मे॒। अ॒न॒मि॒त्रम्। च॒। मे॒। अभ॑यम्। च॒। मे॒। सु॒खमिति॑ सु॒ऽखम्। च॒। मे॒। शय॑नम्। च॒। सू॒षा इति॑ सुऽउ॒षाः। च॒। मे॒। सु॒दिन॒मिति॑ सु॒ऽदिन॑म्। च॒। मे॒। य॒ज्ञेन॑। क॒ल्प॒न्ता॒म्। ६।
महीधरः
म० ऋतं यज्ञादिकर्म । अमृतं तत्फलभूतं स्वर्गादि । यक्ष्मणोऽभावोऽयक्ष्मं धातुक्षयादिरोगाभावः । अनामयत् आमयति पीडयतीत्यामयत् न आमयत् अनामयत् सामान्यव्याध्यादिराहित्यम् । जीवयतीति जीवातुः व्याधिनाशकमौषधम् । दीर्घायुषो भावो दीर्घायुत्वं बहुकालमायुः । पृषोदरादित्वात्सलोपः आयुरुदन्तो वा । अमित्राणामभावोऽनमित्रं
शत्रुराहित्यम् । भयाभावोऽभयं भीतिराहित्यम् । सुखमानन्दः । शयनं संस्कृता शय्या । सूषाः शोभन उषाः स्नानसन्ध्यादियुक्तः प्रातःकालः । सुदिनं यज्ञदानाध्ययनादियुक्तं सर्वं दिनम् । एते मे यज्ञेन सिध्यन्तु ॥ ६ ॥
सप्तमी।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- देवा ऋषयः
- भुरिगतिशक्वरी
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (मे) मेरा (ऋतम्) यथार्थ विज्ञान (च) और उसकी सिद्धि करनेवाला पदार्थ (मे) मेरा (अमृतम्) आत्मस्वरूप वा यज्ञ से बचा हुआ अन्न (च) तथा पीने योग्य रस (मे) मेरा (अयक्ष्मम्) यक्ष्मा आदि रोगों से रहित शरीर आदि (च) और रोगविनाशक कर्म (मे) मेरा (अनामयत्) रोग आदि रहित आयु (च) और इसकी सिद्धि करनेवाली ओषधियाँ (मे) मेरा (जीवातुः) जिससे जीते हैं वा जो जिलाता है, वह व्यवहार (च) और पथ्य भोजन (मे) मेरा (दीर्घायुत्वम्) अधिक आयु का होना (च) ब्रह्मचर्य और इन्द्रियों को अपने वश में रखना आदि कर्म (मे) मेरा (अनमित्रम्) मित्र (च) और पक्षपात को छोड़ के काम (मे) मेरा (अभयम्) न डरपना (च) और शूरपन (मे) मेरा (सुखम्) अति उत्तम आनन्द (च) और इसको सिद्ध करनेवाला (मे) मेरा (शयनम्) सो जाना (च) और उस काम की सिद्धि करनेवाला पदार्थ (मे) मेरा (सूषाः) वह समय कि जिसमें अच्छी प्रातःकाल की वेला हो (च) और उक्त काम का सम्बन्ध करनेवाली क्रिया तथा (मे) मेरा (सुदिनम्) सुदिन (च) और उपयोगी कर्म ये सब (यज्ञेन) सत्य वचन बोलने आदि व्यवहारों से (कल्पन्ताम्) समर्थित होवें ॥६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य सत्यभाषण आदि कामों को करते हैं, वे सदा सुखी होते हैं ॥६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - मे ऋतं च मेऽमृतं च मेऽयक्ष्मं च मेऽनामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मेऽनमित्रं च मेऽभयं च मे सुखं च मे शयनं च मे सूषाश्च मे सुदिनं च यज्ञेन कल्पन्ताम् ॥६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्याः सत्यभाषणादीनि कर्माणि कुर्वन्ति, ते सर्वदा सुखिनो भवन्ति ॥६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे सत्य भाषण इत्यादी कर्म करतात ती नेहमी सुखी होतात.
०७ यन्ता च
विश्वास-प्रस्तुतिः ...{Loading}...
य॒न्ता च॑ मे ध॒र्त्ता च॑ मे॒ क्षेम॑श्च मे॒ धृति॑श्च मे॒ विश्वं॑ च मे॒ मह॑श्च मे सं॒विच्च॑ मे॒ ज्ञात्रं॑ च मे॒ सूश्च॑ मे प्र॒सूश्च॑ मे॒ सीरं॑ च मे॒ लय॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥७ ॥
मूलम् ...{Loading}...
य॒न्ता च॑ मे ध॒र्त्ता च॑ मे॒ क्षेम॑श्च मे॒ धृति॑श्च मे॒ विश्वं॑ च मे॒ मह॑श्च मे सं॒विच्च॑ मे॒ ज्ञात्रं॑ च मे॒ सूश्च॑ मे प्र॒सूश्च॑ मे॒ सीरं॑ च मे॒ लय॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
य॒न्ता। च॒। मे॒। ध॒र्त्ता। च॒। मे॒। क्षेमः॑। च॒। मे॒। धृतिः॑। च॒। मे॒। विश्व॑म्। च॒। मे॒। महः॑। च॒। मे॒। सं॒विदिति॑ स॒म्ऽवित्। च॒। मे॒। ज्ञात्र॑म्। च॒। मे॒। सूः। च॒। मे॒। प्र॒सूरिति॑ प्र॒ऽसूः। च॒। मे॒। सीर॑म्। च॒। मे॒। लयः॑। च॒। मे॒। य॒ज्ञेन॑। क॒ल्प॒न्ता॒म्। ७।
महीधरः
म० यन्ताश्वादेर्नियन्ता । धर्ता पोषकः पित्रादिः । क्षेमः विद्यमानधनस्य रक्षणशक्तिः । धृतिः धैर्यमापत्स्वपि स्थिरचित्तत्वम् । विश्वं सर्वानुकूल्यम् । महः पूजा । संविद् वेदशास्त्रादिज्ञानम् । ज्ञातुर्भावो ज्ञात्रम् विज्ञानसामर्थ्यम् । सूः पुत्रादिप्रेरणसामर्थ्यम् । प्रसूः पुत्रोत्पत्त्यादिसामर्थ्यम् । सीरं हलादिकृषिकृतधान्यनिष्पत्तिः। लयः कृषिप्रतिबन्धनिवृत्तिः॥७॥
अष्टमी।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- देवा ऋषयः
- भुरिगतिजगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (मे) मेरा (यन्ता) नियम करनेवाला (च) और नियमित पदार्थ (मे) मेरा (धर्त्ता) धारण करनेवाला (च) और धारण किया हुआ पदार्थ (मे) मेरी (क्षेमः) रक्षा (च) और रक्षा करनेवाला (मे) मेरी (धृतिः) धारणा (च) और सहनशीलता (मे) मेरे सम्बन्ध का (विश्वम्) जगत् (च) और उसके अनुकूल मर्यादा (मे) मेरा (महः) बड़ा कर्म (च) और बड़ा व्यवहार (मे) मेरी (संवित्) प्रतिज्ञा (च) और जाना हुआ विषय (मे) मेरा (ज्ञात्रम्) जिससे जानता हूँ, वह ज्ञान (च) और जानने योग्य पदार्थ (मे) मेरी (सूः) प्रेरणा करनेवाली चित्त की वृत्ति (च) और उत्पन्न हुआ पदार्थ (मे) मेरी (प्रसूः) जो उत्पत्ति करानेवाली वृत्ति (च) और उत्पत्ति का विषय (मे) मेरे (सीरम्) खेती की सिद्धि करानेवाले हल आदि (च) और खेती करनेवाले तथा (मे) मेरा (लयः) लय अर्थात् जिसमें एकता को प्राप्त होना हो, वह विषय (च) और जो मुझ में एकता को प्राप्त हुआ, वह विद्यादि गुण, ये उक्त सब (यज्ञेन) अच्छे नियमों के आचरण से (कल्पन्ताम्) समर्थ हों ॥७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो शम, दम आदि गुणों से युक्त अच्छे-अच्छे नियमों को भलीभाँति पालन करें, वे अपने चाहे हुए कामों को सिद्ध करावें ॥७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - मे यन्ता च मे धर्त्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे सूश्च मे प्रसूश्च मे सीरं च मे लयश्च यज्ञेन कल्पन्ताम् ॥७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये शमदमादिगुणान्विताः सुनियमान् पालयेयुस्ते स्वाभीष्टानि साधयेयुः ॥७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे शम, दम इत्यादी गुणांनी युक्त होऊन चांगल्या नियमांचे योग्यप्रकारे पालन करतात. ते आपले इच्छित कार्य सिद्ध करू शकतात.
०८ शं च
विश्वास-प्रस्तुतिः ...{Loading}...
शं च॑ मे॒ मय॑श्च मे प्रि॒यं च॑ मेऽनुका॒मश्च॑ मे॒ काम॑श्च मे सौमन॒सश्च॑ मे॒ भग॑श्च मे॒ द्रवि॑णं च मे भ॒द्रं च॑ मे॒ श्रेय॑श्च मे॒ वसी॑यश्च मे॒ यश॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥८ ॥
मूलम् ...{Loading}...
शं च॑ मे॒ मय॑श्च मे प्रि॒यं च॑ मेऽनुका॒मश्च॑ मे॒ काम॑श्च मे सौमन॒सश्च॑ मे॒ भग॑श्च मे॒ द्रवि॑णं च मे भ॒द्रं च॑ मे॒ श्रेय॑श्च मे॒ वसी॑यश्च मे॒ यश॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
शम्। च॒। मे॒। मयः॑। च॒। मे॒। प्रि॒यम्। च॒। मे॒। अ॒नु॒का॒म इत्य॑नुऽका॒मः। च॒। मे॒। कामः॑। च॒। मे॒। सौ॒म॒न॒सः। च॒। मे॒। भगः॑। च॒। मे॒। द्रवि॑णम्। च॒। मे॒। भ॒द्रम्। च॒। मे॒। श्रेयः॑। च॒। मे॒। वसी॑यः। च॒। मे॒। यशः॑। च॒। मे॒। य॒ज्ञेन॑। क॒ल्प॒न्ता॒म्। ८।
महीधरः
म० शमैहिकं सुखम् । मयः आमुष्मिकं सुखम् । प्रियं प्रीत्युत्पादकं वस्तु । अनुकाम्यत इत्यनुकामः अनुकूलयत्नसाध्यः पदार्थः । कामः विषयभोगजनितं सुखम् । सुमनसो भावः सौमनसः मनःस्वास्थ्यकरो बन्धुवर्गः । भगः सौभाग्यम् । द्रविणं धनम् । भद्रमैहिकं कल्याणम् । श्रेयः पारलौकिकम् । वसतीति वस्तृ अतिशयेन वस्तृ वसीयः ‘तुरिष्ठेमेयस्सु’ (पा० ६ । ४ । १५४ ) इति तृचो लोपः । निवासयोग्यो वसुमान् गृहादिः । यशः कीर्तिः । एते कल्पन्ताम् ॥४॥
नवमी।
अधिमन्त्रम् (VC)
- आत्मा देवता
- देवा ऋषयः
- स्वराट् शक्वरी
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (मे) मेरा (शम्) सर्व सुख (च) और सुख की सब सामग्री (मे) मेरा (मयः) प्रत्यक्ष आनन्द (च) और इसके साधन (मे) मेरा (प्रियम्) पियारा (च) और इसके साधन (मे) मेरी (अनुकामः) धर्म के अनुकूल कामना (च) और इसके साधन (मे) मेरा (कामः) काम अर्थात् जिससे वा जिसमें कामना करें (च) तथा (मे) मेरा (सौमनसः) चित्त का अच्छा होना (च) और इसके साधन (मे) मेरा (भगः) ऐश्वर्य्य का समूह (च) और इसके साधन (मे) मेरा (द्रविणम्) बल (च) और इसके साधन (मे) मेरा (भद्रम्) अति आनन्द देने योग्य सुख (च) और सुख के साधन (मे) मेरा (श्रेयः) मुक्ति सुख (च) और इसके साधन (मे) मेरा (वसीयः) अतिशय करके वसनेवाला (च) और इसकी सामग्री (मे) मेरी (यशः) कीर्ति (च) और इसके साधन (यज्ञेन) सुख की सिद्धि करनेवाले ईश्वर से (कल्पन्ताम्) समर्थ होवें ॥८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि जिस काम से सुख आदि की वृद्धि हो, उस काम का निरन्तर सेवन करें ॥८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - मे शं च मे मयश्च मे प्रियं च मेऽनुकामश्च मे कामश्च मे सौमनसश्च मे भगश्च मे द्रविणं च मे भद्रं च मे श्रेयश्च मे वसीयश्च मे यशश्च यज्ञेन कल्पन्ताम् ॥८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्येन कर्मणा सुखादयो वर्द्धेरंस्तदेव कर्म सततं सेवनीयम् ॥८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्या कामामुळे सुखाची वाढ होते ते काम माणसांनी सदैव करावे.
०९ ऊर्क् च
विश्वास-प्रस्तुतिः ...{Loading}...
ऊर्क् च॑ मे सू॒नृता॑ च मे॒ पय॑श्च मे॒ रस॑श्च मे घृ॒तं च॑ मे॒ मधु॑ च मे॒ सग्धि॑श्च मे॒ सपी॑तिश्च मे कृ॒षिश्च॑ मे॒ वृष्टि॑श्च मे॒ जैत्रं॑ च म॒ऽऔद्भि॑द्यं च मे य॒ज्ञेन॑ कल्पन्ताम् ॥९ ॥
मूलम् ...{Loading}...
ऊर्क् च॑ मे सू॒नृता॑ च मे॒ पय॑श्च मे॒ रस॑श्च मे घृ॒तं च॑ मे॒ मधु॑ च मे॒ सग्धि॑श्च मे॒ सपी॑तिश्च मे कृ॒षिश्च॑ मे॒ वृष्टि॑श्च मे॒ जैत्रं॑ च म॒ऽऔद्भि॑द्यं च मे य॒ज्ञेन॑ कल्पन्ताम् ॥९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ऊर्क्। च॒। मे॒। सू॒नृता॑। च॒। मे॒। पयः॑। च॒। मे॒। रसः॑। च॒। मे॒। घृ॒तम्। च॒। मे॒। मधु॑। च॒। मे॒। सग्धिः॑। च॒। मे॒। सपी॑ति॒रिति॒ सऽपी॑तिः। च॒। मे॒। कृ॒षिः। च॒। मे॒। वृष्टिः॑। च॒। मे॒। जैत्र॑म्। च॒। मे॒। औद्भि॑द्य॒मित्यौत्ऽभि॑द्यम्। च॒। मे॒। य॒ज्ञेन॑। क॒ल्प॒न्ता॒म्। ९।
महीधरः
म० ऊर्क् अन्नम् । सूनृता प्रिया सत्या वाक् । पयः दुग्धम् । रसः तत्रत्यः सारः । घृतमाज्यम् । मधु क्षौद्रम् । समाना ग्धिर्भोजनं सग्धिः । अदेः क्तिनि घस्लादेशः ‘घसिभसोर्हलि’ (पा० ६ । ४ । १००) इति घस उपधालोपे कृते ‘झलो झलि’ (पा० ८ । २ । २६ ) इति सलोपे कृते ‘झषस्तथोर्धोऽधः’ (पा० ८ । २ । ४० ) जश्त्वं । सग्धिः बन्धुभिः सह भोजनमित्यर्थः । सपीतिः बन्धुभिः सह पानम् । कृषिः तत्कृतधान्यसिद्धिः । वृष्टिः धान्यनिष्पादिकानुकूला । । जेतुर्भावो जैत्रम् जयसामर्थ्यम् । उद्भिदो भाव औद्भिद्यम् चूतादितरोरुत्पत्तिः । एते यज्ञेन कल्पन्ताम् ॥ ९॥
दशमी।
अधिमन्त्रम् (VC)
- आत्मा देवता
- देवा ऋषयः
- शक्वरी
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (मे) मेरा (ऊर्क्) अच्छा संस्कार किया अर्थात् बनाया हुआ अन्न (च) और सुगन्धि आदि पदार्थों से युक्त व्यञ्जन (मे) मेरा (सूनृता) प्रियवाणी (च) और सत्य वचन (मे) मेरा (पयः) दूध (च) और उत्तम पकाये ओषधि आदि पदार्थ (मे) मेरा (रसः) सब पदार्थों का सार (च) और बड़ी-बड़ी ओषधियों से निकाला हुआ रस (मे) मेरा (घृतम्) घी (च) और उसका संस्कार करने तपाने आदि से सिद्ध हुआ पक्वान्न (मे) मेरा (मधु) सहत (च) और खांड, गुड़ आदि (मे) मेरा (सग्धिः) एकसा भोजन (च) और उत्तम भोग साधन (मे) मेरी (सपीतिः) एकसा जिसमें जल का पान (च) और जो चूसने योग्य पदार्थ (मे) मेरा (कृषिः) भूमि की जुताई (च) और गेहूँ आदि अन्न (मे) मेरी (वृष्टिः) वर्षा (च) और होम की आहुतियों से पवन आदि की शुद्धि करना (मे) मेरा (जैत्रम्) जीतने का स्वभाव (च) और अच्छे शिक्षित सेना आदि जन तथा (मे) मेरे (औद्भिद्यम्) भूमि को तोड़-फोड़ के निकालनेवाले वृक्षों वा वनस्पतियों का होना (च) और फूल-फल ये सब पदार्थ (यज्ञेन) समस्त रस और पदार्थों की बढ़ती करनेवाले कर्म से (कल्पन्ताम्) समर्थ होवें ॥९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्य समस्त उत्तम रसयुक्त पदार्थों को इकट्ठा करके उनको समय-समय के अनुकूल होमादि उत्तम व्यवहारों में लगावें ॥९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - म ऊर्क् च मे सूनृता च मे पयश्च मे रसश्च मे घृतञ्च मे मधु च मे सग्धिश्च मे सपीतिश्च मे कृष्टिश्च मे वृष्टिश्च मे जैत्रञ्च म औद्भिद्यं च यज्ञेन कल्पन्ताम् ॥९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्याः सर्वानुत्तमरसयुक्तान् पदार्थान् सञ्चित्य तान् यथाकालं होमाद्युत्तमेषु व्यवहारेषु नियोजयेयुः ॥९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी उत्तम रसाळ पदार्थ एकत्र करून त्यांचा प्रसंगानुसार होम वगैरेमध्ये वापर करून उत्तम व्यवहार करावा.
१० रयिश्च मे
विश्वास-प्रस्तुतिः ...{Loading}...
र॒यिश्च॑ मे॒ राय॑श्च मे पु॒ष्टं च॑ मे॒ पुष्टि॑श्च मे वि॒भु च॑ मे प्र॒भु च॑ मे पू॒र्णं च॑ मे पू॒र्णत॑रं च मे॒ कुय॑वं च॒ मेऽक्षि॑तं च॒ मेऽन्नं॑ च॒ मेऽक्षु॑च्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥१० ॥
मूलम् ...{Loading}...
र॒यिश्च॑ मे॒ राय॑श्च मे पु॒ष्टं च॑ मे॒ पुष्टि॑श्च मे वि॒भु च॑ मे प्र॒भु च॑ मे पू॒र्णं च॑ मे पू॒र्णत॑रं च मे॒ कुय॑वं च॒ मेऽक्षि॑तं च॒ मेऽन्नं॑ च॒ मेऽक्षु॑च्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥१० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
र॒यिः। च॒। मे॒। रायः॑। च॒। मे॒। पु॒ष्टम्। च॒। मे॒। पुष्टिः॑। च॒। मे॒। वि॒भ्विति॑ वि॒ऽभु। च॒। मे॒। प्र॒भ्विति॑ प्र॒ऽभु। च॒। मे॒। पू॒र्णम्। च॒। मे॒। पू॒र्णत॑र॒मिति॑ पू॒र्णऽत॑रम्। च॒। मे॒। कुय॑वम्। च॒। मे॒। अक्षि॑तम्। च॒। मे॒। अन्न॑म्। च॒। मे॒। अक्षु॑त्। च॒। मे॒। य॒ज्ञेन॑। क॒ल्प॒न्ता॒म्। १०।
महीधरः
म० रयिः सुवर्णम् । रायो मुक्तादिमणयः । पुष्टं धनपोषः । पुष्टिः शरीरपोषकः । विभु व्याप्तिसामर्थ्यम् । प्रभु ऐश्वर्यम् । पूर्णं धनपुत्रादिबाहुल्यम् । अत्यन्तं पूर्णं पूर्णतरं गजतुरगादिबाहुल्यम् । कुयवं कुत्सितधान्यमपि । अक्षितं क्षयहीनं धान्यादि । अन्नमोदनादि । क्षुत् भुक्तान्नपरिपाकः । एते कल्पन्ताम् ॥ १०॥
एकादशी। ।
अधिमन्त्रम् (VC)
- आत्मा देवता
- देवा ऋषयः
- निचृच्छक्वरी
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (मे) मेरी (रयिः) विद्या की कान्ति (च) और पुरुषार्थ (मे) मेरे (रायः) प्रशंसित धन (च) और पक्वान्न आदि (मे) मेरे (पुष्टम्) पुष्ट पदार्थ (च) और आरोग्यपन (मे) मेरी (पुष्टिः) पुष्टि (च) और पथ्य भोजन (मे) मेरा (विभु) सब विषयों मे व्याप्त मन आदि (च) परमात्मा का ध्यान (मे) मेरा (प्रभु) समर्थ व्यवहार (च) और सब सामर्थ्य (मे) मेरा (पूर्णम्) पूर्ण काम का करना (च) और उस का साधन (मे) मेरे (पूर्णतरम्) आभूषण, गौ, भैंस, घोड़ा, छेरी तथा अन्न आदि पदार्थ (च) और सब का उपकार करना (मे) मेरा (कुयवम्) निन्दित यवों से न मिला हुआ अन्न (च) और धान चावल आदि अन्न (मे) मेरा (अक्षितम्) अक्षय पदार्थ (च) और तृप्ति (मे) मेरा (अन्नम्) खाने योग्य अन्न (च) और मसाला आदि तथा (मे) मेरी (अक्षुत्) क्षुधा की तृप्ति (च) और प्यास आदि की तृप्ति ये सब पदार्थ (यज्ञेन) प्रशंसित धनादि देनेवाले परमात्मा से (कल्पन्ताम्) समर्थ होवें ॥१० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को परम पुरुषार्थ और ईश्वर की भक्ति, प्रार्थना से विद्या आदि धन पाकर सब का उपकार सिद्ध करना चाहिये ॥१० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - मे रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभु च मे प्रभु च मे पूर्णं च मे पूर्णतरं च मे कुयवं च मेऽक्षितं च मेऽन्नं च मेऽक्षुच्च यज्ञेन कल्पन्ताम् ॥१० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैः परमपुरुषार्थेन जगदीश्वरभक्तिप्रार्थनाभ्यां च विद्यादिकं धनं लब्ध्वा सर्वोपकारः साधनीयः ॥१० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी परम पुरुषार्थ करावा. ईश्वरभक्ती व प्रार्थना करून विद्या इत्यादी धन प्राप्त करावे व सर्वांवर उपकार करावा.
११ वित्तं च
विश्वास-प्रस्तुतिः ...{Loading}...
वि॒त्तं च॑ मे॒ वेद्यं॑ च मे भू॒तं च॑ मे भवि॒ष्यच्च॑ मे सु॒गं च॑ मे सुप॒थ्यं᳖ च मऽऋ॒द्धं च॑ म॒ऽऋद्धि॑श्च म क्लृ॒प्तं च॑ मे॒ कॢप्ति॑श्च मे मति॒श्च मे सुम॒तिश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ॥११ ॥
मूलम् ...{Loading}...
वि॒त्तं च॑ मे॒ वेद्यं॑ च मे भू॒तं च॑ मे भवि॒ष्यच्च॑ मे सु॒गं च॑ मे सुप॒थ्यं᳖ च मऽऋ॒द्धं च॑ म॒ऽऋद्धि॑श्च म क्लृ॒प्तं च॑ मे॒ कॢप्ति॑श्च मे मति॒श्च मे सुम॒तिश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ॥११ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वि॒त्तम्। च॒। मे॒। वेद्य॑म्। च॒। मे॒। भू॒तम्। च॒। मे॒। भ॒वि॒ष्यत्। च॒। मे॒। सु॒गमिति॑ सु॒ऽगम्। च॒। मे॒। सु॒प॒थ्य᳖मिति॑ सुप॒थ्य᳖म्। च॒। मे॒। ऋ॒द्धम्। च॒। मे॒। ऋद्धिः॑। च॒। मे॒। क्लृ॒प्तम्। च॒। मे॒। कॢप्तिः॑। च॒। मे॒। म॒तिः। च॒। मे॒। सु॒म॒तिरिति॑ सुऽम॒तिः। च॒। मे॒। य॒ज्ञेन॑। क॒ल्प॒न्ता॒म्। ११।
महीधरः
म० ‘विद्लृ लाभे’ पूर्वलब्धं वित्तम् । वेद्यं लब्धव्यम् । भूतं पूर्वसिद्धं क्षेत्रादि । भविष्यत् संपत्स्यमानं क्षेत्रादि । सुखेन गम्यते यत्र तत् सुगम् ‘सुदुरोरधिकरणे’ (पा० ३ । २ । ४८) इति गमेर्डः । सुखगम्यो देशः । सुपथ्यं शोभनं हितम् । ऋद्धं समृद्धं यज्ञफलम् । ऋद्धिः यज्ञादिसमृद्धिः । क्लृप्तं कार्यक्षेमं द्रव्यादि । कॢप्तिः स्वकार्यसामर्थ्यम् । मतिः पदार्थमात्रनिश्चयः । सुमतिः दुर्घटकार्यादिषु निश्चयः । एते यज्ञेन कल्पन्ताम् ॥ ११॥
द्वादशी।
अधिमन्त्रम् (VC)
- श्रीमदात्मा देवता
- देवा ऋषयः
- भुरिक् शक्वरी
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (मे) मेरा (वित्तम्) विचारा हुआ विषय (च) और विचार (मे) मेरा (वेद्यम्) विचारने योग्य विषय (च) और विचारनेवाला (मे) मेरा (भूतम्) व्यतीत हुआ विषय (च) और वर्त्तमान (मे) मेरा (भविष्यत्) होनेवाला (च) और सब समय का उत्तम व्यवहार (मे) मेरा (सुगम्) सुगम मार्ग (च) और उचित कर्म (मे) मेरा (सुपथ्यम्) सुगम युक्ताहार-विहार का होना (च) और सब कामों में प्रथम कारण (मे) मेरा (ऋद्धम्) अच्छी वृद्धि को प्राप्त पदार्थ (च) और सिद्धि (मे) मेरी (ऋद्धिः) योग से पाई हुई अच्छी वृद्धि (च) और तुष्टि अर्थात् सन्तोष (मे) मेरा (क्लृप्तम्) सामर्थ्य को प्राप्त हुआ काम (च) और कल्पना (मे) मेरी (कॢप्तिः) सामर्थ्य की कल्पना (च) और तर्क (मे) मेरा (मतिः) विचार (च) और पदार्थ-पदार्थ का विचार करना (मे) मेरी (सुमतिः) उत्तम बुद्धि तथा (च) अच्छी निष्ठा ये सब (यज्ञेन) शम, दम आदि नियमों से युक्त योगाभ्यास से (कल्पन्ताम्) समर्थ हों ॥११ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो शम आदि नियमों से युक्त संयम को प्राप्त योग का अभ्यास करते और ऋद्धि-सिद्धि को प्राप्त हुए हैं, वे औरों को भी अच्छे प्रकार ऋद्धि-सिद्धि दे सकते हैं ॥११ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - मे वित्तं च मे वेद्यं च मे भूतं च मे भविष्यश्च मे सुगं च मे सुपथ्यं च म ऋद्धं च म ऋद्धिश्च मे क्लृप्तं च मे कॢप्तिश्च मे मतिश्च मे सुमतिश्च यज्ञेन कल्पन्ताम् ॥११ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये शमादियुक्ताः संयता योगमभ्यस्यन्त्यृद्धिसिद्धिसहिताश्च भवन्ति, तेऽन्यानपि समर्द्धयितुं शक्नुवन्ति ॥११ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे शम इत्यादी नियमांनीयुक्त होऊन संयमाने योगाचा अभ्यास करतात. त्यांना ऋद्धी सिद्धी प्राप्त होतात व इतरांनाही ते चांगल्याप्रकारे ऋद्धी सिद्धी प्राप्त करून देऊ शकतात.
१२ व्रीहयश्च मे
विश्वास-प्रस्तुतिः ...{Loading}...
व्री॒हय॑श्च मे॒ यवा॑श्च मे॒ माषा॑श्च मे॒ तिला॑श्च मे मु॒द्गाश्च॑ मे॒ खल्वा॑श्च मे प्रि॒यङ्ग॑वश्च॒ मेऽण॑वश्च मे श्या॒माका॑श्च मे नी॒वारा॑श्च मे गो॒धूमा॑श्च मे म॒सूरा॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥१२ ॥
मूलम् ...{Loading}...
व्री॒हय॑श्च मे॒ यवा॑श्च मे॒ माषा॑श्च मे॒ तिला॑श्च मे मु॒द्गाश्च॑ मे॒ खल्वा॑श्च मे प्रि॒यङ्ग॑वश्च॒ मेऽण॑वश्च मे श्या॒माका॑श्च मे नी॒वारा॑श्च मे गो॒धूमा॑श्च मे म॒सूरा॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥१२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
व्री॒हयः॑। च॒। मे॒। यवाः॑। च॒। मे॒। माषाः॑। च॒। मे॒। तिलाः॑। च॒। मे॒। मु॒द्गाः। च॒। मे॒। खल्वाः॑। च॒। मे॒। प्रि॒यङ्ग॑वः। च॒। मे॒। अण॑वः। च॒। मे॒। श्या॒माकाः॑। च॒। मे॒। नी॒वाराः॑। च॒। मे॒। गो॒धूमाः॑। च॒। मे॒। म॒सूराः॑। च॒। मे॒। य॒ज्ञेन॑। क॒ल्प॒न्ता॒म्। १२।
महीधरः
म० व्रीहियवमाषतिलमुद्गगोधूममसूराः प्रसिद्धाः । खल्वाः चणकाः लङ्गाश्च । प्रियङ्गवः कङ्गवः प्रसिद्धाः । अणवश्चीनकाः । श्यामाकास्तृणधान्यानि ग्राम्याणि कोद्रवत्वेन प्रसिद्धानि । नीवारास्तृणधान्यान्यारण्यानि । एते धान्यविशेषा मे यज्ञेन कल्पन्ताम् ॥ १२ ॥
त्रयोदशी।
अधिमन्त्रम् (VC)
- धान्यदा आत्मा देवता
- देवा ऋषयः
- भुरिगतिशक्वरी
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (मे) मेरे (व्रीहयः) चावल (च) और साठी के धान (मे) मेरे (यवाः) जौ (च) और अरहर (मे) मेरे (माषाः) उरद (च) और मटर (मे) मेरा (तिलाः) तिल (च) और नारियल (मे) मेरे (मुद्गाः) मूँग (च) और उसका बनाना (मे) मेरे (खल्वाः) चणे (च) और उनका सिद्ध करना (मे) मेरी (प्रियङ्गवः) कंगुनी (च) और उसका बनाना (मे) मेरे (अणवः) सूक्ष्म चावल (च) और उनका पाक (मे) मेरा (श्यामाकाः) समा (च) और मडुआ, पटेरा, चेना आदि छोटे अन्न (मे) मेरा (नीवाराः) पसाई के चावल जो कि विना बोए उत्पन्न होते हैं (च) और इनका पाक (मे) मेरे (गोधूमाः) गेहूँ (च) और उन को पकाना तथा (मे) मेरी (मसूराः) मसूर (च) और उनका सम्बन्धी अन्य अन्न ये सब (यज्ञेन) सब अन्नों के दाता परमेश्वर से (कल्पन्ताम्) समर्थ हों ॥१२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को योग्य है कि चावल आदि से अच्छे प्रकार संस्कार किये हुए भात आदि को बना अग्नि में होम करें तथा आप खावें, औरों को खवावें ॥१२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - मे व्रीहयश्च मे यवाश्च मे माषाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे प्रियङ्गवश्च मेऽणवश्च मे श्यामाकाश्च मे नीवाराश्च मे गोधूमाश्च मे मसूराश्च यज्ञेन कल्पन्ताम् ॥१२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्व्रीह्यादिभ्यः सुसंस्कृतानोदनादीन् संपाद्य तेऽग्नौ होतव्या भोक्तव्या, अन्ये भोजयितव्याश्च ॥१२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी चांगल्याप्रकारे संस्कारित केलेला भात इत्यादी पदार्थांची अग्नीमध्ये आहुती द्यावी. स्वतः खावेत व इतरांनाही खावू घालावेत.
१३ अश्मा च
विश्वास-प्रस्तुतिः ...{Loading}...
अश्मा॑ च मे॒ मृत्ति॑का च मे गि॒रय॑श्च मे॒ पर्व॑ताश्च मे॒ सिक॑ताश्च मे॒ वन॒स्पत॑यश्च मे॒ हिर॑ण्यं च॒ मेऽय॑श्च मे श्या॒मं च॑ मे लो॒हं च॑ मे॒ सीसं॑ च मे॒ त्रपु॑ च मे य॒ज्ञेन॑ कल्पन्ताम् ॥१३ ॥
मूलम् ...{Loading}...
अश्मा॑ च मे॒ मृत्ति॑का च मे गि॒रय॑श्च मे॒ पर्व॑ताश्च मे॒ सिक॑ताश्च मे॒ वन॒स्पत॑यश्च मे॒ हिर॑ण्यं च॒ मेऽय॑श्च मे श्या॒मं च॑ मे लो॒हं च॑ मे॒ सीसं॑ च मे॒ त्रपु॑ च मे य॒ज्ञेन॑ कल्पन्ताम् ॥१३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अश्मा॑। च॒। मे॒। मृत्ति॑का। च॒। मे॒। गि॒रयः॑। च॒। मे॒। पर्व॑ताः। च॒। मे॒। सिक॑ताः। च॒। मे॒। वन॒स्पत॑यः। च॒। मे॒। हिर॑ण्यम्। च॒। मे॒। अयः॑। च॒। मे॒। श्या॒मम्। च॒। मे॒। लो॒हम्। च॒। मे॒। सीस॑म्। च॒। मे॒। त्रपु॑। च॒। मे॒। य॒ज्ञेन॑। क॒ल्प॒न्ता॒म्। १३।
महीधरः
म० अश्मा पाषाणः । मृत्तिका प्रशस्ता मृत् ‘मृदस्तिकन्’ । गिरया क्षुद्रपर्वताः गोवर्धनार्बुदरैवतिकादयः । पर्वताः महान्तो मन्दरहिमाचलादयः। सिकताः शर्कराः। वनस्पतयः पुष्पं विना फलवन्तः पनसोदुम्बरादयः । हिरण्यं सुवर्णं रजतं वा ‘द्रविणाकुप्ययोश्च’ इत्यभिधानात् । अयो लोहम् । श्यामं ताम्रलोहं कांस्यं रजतं कनकं वा । ‘लोहं कालायसे सर्वतैजसे जोङ्गकेऽपि च’ इत्यभिधानात् । सीसं प्रसिद्धम् । त्रपु रङ्गम् । एते कार्यविशेषेषु मे कल्पन्ताम् ॥ १३ ॥
चतुर्दशी।
अधिमन्त्रम् (VC)
- रत्नवान् धनवानात्मा देवता
- देवा ऋषयः
- भुरिगतिशक्वरी
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (मे) मेरा (अश्मा) पत्थर (च) और हीरा आदि रत्न (मे) मेरी (मृत्तिका) अच्छी माटी (च) और साधारण माटी (मे) मेरे (गिरयः) मेघ (च) और अन्न आदि (मे) मेरे (पर्वताः) बड़े-छोटे पर्वत (च) और पर्वतों में होनेवाले पदार्थ (मे) मेरी (सिकताः) बड़ी बालू (च) और छोटी-छोटी बालू (मे) मेरे (वनस्पतयः) बड़ आदि वृक्ष (च) और आम आदि वृक्ष (मे) मेरा (हिरण्यम्) सब प्रकार का धन (च) तथा चाँदी आदि (मे) मेरा (अयः) लोहा (च) और शस्त्र (मे) मेरा (श्यामम्) नीलमणि वा लहसुनिया आदि (च) और चन्द्रकान्तमणि (मे) मेरा (लोहम्) सुवर्ण (च) तथा कान्तिसार आदि (मे) मेरा (सीसम्) सीसा (च) और लाख (मे) मेरा (त्रपु) जस्ता (च) और पीतल आदि ये सब (यज्ञेन) सङ्ग करने योग्य व्यवहार से (कल्पन्ताम्) समर्थ हों ॥१३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्य लोग पृथिवीस्थ पदार्थों को अच्छी परीक्षा से जान के इनसे रत्न और अच्छे-अच्छे धातुओं को पाकर सबके हित के लिये उपयोग में लावें ॥१३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - मेऽश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यं च मेऽयश्च मे श्यामं च मे लोहं च मे सीसं च मे त्रपु च यज्ञेन कल्पन्ताम् ॥१३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्याः पृथिवीस्थान् पदार्थान् सुपरीक्ष्यैभ्यो रत्नानि धातूंश्च प्राप्य सर्वहितायोपयुञ्जीरन् ॥१३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी पृथ्वीच्या गर्भातील पदार्थांची चांगली परीक्षा करावी व त्यातून रत्ने व चांगले धातू घ्यावेत आणि सर्वांच्या हितासाठी त्यांचा उपयोग करावा.
१४ अग्निश्च मऽआपश्च
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्निश्च॑ म॒ऽआप॑श्च मे वी॒रुध॑श्च म॒ऽओष॑धयश्च मे कृष्टप॒च्याश्च॑ मेऽकृष्टप॒च्याश्च॑ मे ग्रा॒म्याश्च॑ मे प॒शव॑ऽआर॒ण्याश्च॑ मे वि॒त्तञ्च॑ मे॒ वित्ति॑श्च मे भू॒तञ्च॑ मे॒ भूति॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥१४ ॥
मूलम् ...{Loading}...
अ॒ग्निश्च॑ म॒ऽआप॑श्च मे वी॒रुध॑श्च म॒ऽओष॑धयश्च मे कृष्टप॒च्याश्च॑ मेऽकृष्टप॒च्याश्च॑ मे ग्रा॒म्याश्च॑ मे प॒शव॑ऽआर॒ण्याश्च॑ मे वि॒त्तञ्च॑ मे॒ वित्ति॑श्च मे भू॒तञ्च॑ मे॒ भूति॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥१४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒ग्निः। च॒। मे॒। आपः॑। च॒। मे॒। वी॒रुधः॑। च॒। मे॒। ओष॑धयः। च॒। मे॒। कृ॒ष्ट॒प॒च्याः इति॑ कृष्टऽप॒च्याः। च॒। मे॒। अ॒कृ॒ष्ट॒प॒च्या इत्य॑कृष्टऽप॒च्याः। च॒। मे॒। ग्रा॒म्याः। च॒। मे॒। प॒शवः॑। आ॒र॒ण्याः। च॒। मे॒। वि॒त्तम्। च॒। मे॒। वित्तिः॑। च॒। मे॒। भू॒तम्। च॒। मे॒। भूतिः॑। च॒। मे॒। य॒ज्ञेन॑। क॒ल्प॒न्ता॒म्। १४।
महीधरः
म० अग्निः पृथिवीस्थो वह्निः । आपोन्तरिक्षस्थानि जलानि । वीरुधः गुल्माः । ओषधयः फलपाकान्ताः । कृष्टपच्याः कृष्टे पच्यन्त इति कृष्टपच्याः ‘राजसूयसूर्य-’ (पा. ३।१।११४ ) इत्यादिना क्यबन्तो निपातः । भूमिकर्षणबीजवापादिकर्मनिष्पाद्या ओषधयः । तद्विपरीता अकृष्टपच्याः स्वयमेवोत्पद्यमाना नीवारगवेधुकादयः । ग्राम्या ग्रामे भवाः पशवः गोऽश्वमहिषाजाविगर्दभोष्ट्रादयः । आरण्याः अरण्ये भवाः पशवः हस्तिसिंहशरभमृगगवयमर्कटादयः । वित्तं पूर्वलब्धम् । वित्तिः भाविलाभः । भूतं जातपुत्रादिकम् । भूतिरैश्वर्यं स्वार्जितम् । एतानि यज्ञेन मम संपद्यन्ताम् १४ ॥
पञ्चदशी।
अधिमन्त्रम् (VC)
- अग्न्यादियुक्ता आत्मा देवता
- देवा ऋषयः
- भुरिगष्टिः
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (मे) मेरा (अग्निः) अग्नि (च) और बिजुली आदि (मे) मेरे (आपः) जल (च) और जल में होनेवाले रत्न मोती आदि (मे) मेरे (वीरुधः) लता गुच्छा (च) और शाक आदि (मे) मेरी (ओषधयः) सोमलता आदि ओषधि (च) और फल-पुष्पादि (मे) मेरे (कृष्टपच्याः) खेतों में पकते हुए अन्न आदि (च) और उत्तम अन्न (मे) मेरे (अकृष्टपच्याः) जो जङ्गल में पकते हैं, वे अन्न (च) और जो पर्वत आदि स्थानों में पकने योग्य हैं, वे अन्न (मे) मेरे (ग्राम्याः) गाँव मे हुए गौ आदि (च) और नगर में ठहरे हुए तथा (मे) मेरे (आरण्याः) वन में होने हारे मृग आदि (च) और सिंह आदि (पशवः) पशु (मे) मेरा (वित्तम्) पाया हुआ पदार्थ (च) और सब धन (मे) मेरी (वित्तिः) प्राप्ति (च) और पाने योग्य (मे) मेरा (भूतम्) रूप (च) और नाना प्रकार का पदार्थ तथा (मे) मेरा (भूतिः) ऐश्वर्य (च) और उस का साधन ये सब पदार्थ (यज्ञेन) मेल करने योग्य शिल्प विद्या से (कल्पन्ताम्) समर्थ हों ॥१४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य अग्नि आदि की विद्या से सङ्गति करने योग्य शिल्पविद्या रूप यज्ञ को सिद्ध करते हैं, वे ऐश्वर्य को प्राप्त होते हैं ॥१४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - मेऽग्निश्च म आपश्च मे वीरुधश्च म ओषधयश्च मे कृष्टपच्याश्च मेऽकृष्टपच्याश्च मे ग्राम्याश्च म आरण्याश्च पशवो मे वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च यज्ञेन कल्पन्ताम् ॥१४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्याः पावकादिविद्यया सङ्गन्तव्यं शिल्पयज्ञं साध्नुवन्ति, त ऐश्वर्यं लभन्ते ॥१४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे अग्नी इत्यादी विद्येने शिल्पविद्यारूपी यज्ञ सिद्ध करतात. ती ऐश्वर्य भोगतात.
१५ वसु चे
विश्वास-प्रस्तुतिः ...{Loading}...
वसु॑ चे मे वस॒तिश्च॑ मे॒ कर्म॑ च मे॒ शक्ति॑श्च॒ मेऽर्थ॑श्च म॒ऽएम॑श्च मऽइ॒त्या च॑ मे॒ गति॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥१५ ॥
मूलम् ...{Loading}...
वसु॑ चे मे वस॒तिश्च॑ मे॒ कर्म॑ च मे॒ शक्ति॑श्च॒ मेऽर्थ॑श्च म॒ऽएम॑श्च मऽइ॒त्या च॑ मे॒ गति॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥१५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वसु॑। च॒। मे॒। व॒स॒तिः। च॒। मे॒। कर्म॑। च॒। मे॒। शक्तिः॑। च॒। मे॒। अर्थः॑। च॒। मे॒। एमः॑। च॒। मे॒। इ॒त्या। च॒। मे॒। गतिः॑। च॒। मे॒। य॒ज्ञेन॑। क॒ल्प॒न्ता॒म्। १५।
महीधरः
म०. वसु धनं गवादिकम् । वसतिर्वासस्थानं गृहम् । कर्माग्निहोत्रादि । शक्तिस्तदनुष्ठानसामर्थ्यम् । अर्थोऽभिलषितः पदार्थः । एमः ईयत इत्येमः एतेर्मप्रत्ययः प्राप्तव्योऽर्थः । इत्या भावे क्यप् । अयनमिष्टप्राप्त्युपायः । गतिरिष्टप्राप्तिः । एते कल्पन्ताम् ॥ १५ ॥
षोडशी।
अधिमन्त्रम् (VC)
- धनादियुक्ता आत्मा देवता
- देवा ऋषयः
- विराडार्षी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (मे) मेरा (वसु) वस्तु (च) और प्रिय पदार्थ वा पियारा काम (मे) मेरी (वसतिः) जिसमें वसते हैं, वह वस्ती (च) और भृत्य (मे) मेरा (कर्म) काम (च) और करनेवाला (मे) मेरा (शक्तिः) सामर्थ्य (च) और प्रेम (मे) मेरा (अर्थः) सब पदार्थों को इकट्ठा करना (च) और इकट्ठा करनेवाला (मे) मेरा (एमः) अच्छा यत्न (च) और बुद्धि (मे) मेरी (इत्या) वह रीति जिससे व्यवहारों को जानता हूँ (च) और युक्ति तथा (मे) मेरी (गतिः) चाल (च) और उछलना आदि क्रिया ये सब पदार्थ (यज्ञेन) पुरुषार्थ के अनुष्ठान से (कल्पन्ताम्) समर्थ होवें ॥१५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जो मनुष्य अपना समस्त सामर्थ्य आदि सबके हित के लिये ही करते हैं, वे ही प्रशंसायुक्त होते हैं ॥१५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मेऽर्थश्च म एमश्च म इत्या च मे गतिश्च यज्ञेन कल्पन्ताम् ॥१५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! ये जनाः सर्वं सामर्थ्यादिकं सर्वहितायैव कुर्वन्ति, त एव प्रशंसिता भवन्ति ॥१५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! जी माणसे आपले संपूर्ण सामर्थ्य सर्वांच्या हितासाठी वापरतात तीच प्रशंसा करण्यायोग्य असतात.
१६ अग्निश्च मऽइन्द्रश्च
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्निश्च॑ म॒ऽइन्द्र॑श्च मे॒ सोम॑श्च म॒ऽइ॒न्द्र॑श्च मे सवि॒ता च॑ म॒ऽइन्द्र॑श्च मे॒ सर॑स्वती च म॒ऽइन्द्र॑श्च मे पू॒षा च॑ म॒ऽइन्द्र॑श्च मे॒ बृह॒स्पति॑श्च म॒ऽइन्द्र॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥१६ ॥
मूलम् ...{Loading}...
अ॒ग्निश्च॑ म॒ऽइन्द्र॑श्च मे॒ सोम॑श्च म॒ऽइ॒न्द्र॑श्च मे सवि॒ता च॑ म॒ऽइन्द्र॑श्च मे॒ सर॑स्वती च म॒ऽइन्द्र॑श्च मे पू॒षा च॑ म॒ऽइन्द्र॑श्च मे॒ बृह॒स्पति॑श्च म॒ऽइन्द्र॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥१६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒ग्निः। च॒। मे॒। इन्द्रः॑। च॒। मे॒। सोमः॑। च॒। मे॒। इन्द्रः॑। च॒। मे॒। स॒वि॒ता। च॒। मे॒। इन्द्रः॑। च॒। मे॒। सर॑स्वती। च॒। मे॒। इन्द्रः॑। च॒। मे॒। पू॒षा। च॒। मे॒। इन्द्रः॑। च॒। मे॒। बृह॒स्पतिः॑। च॒। मे॒। इन्द्रः॑। च॒। मे॒। य॒ज्ञेन॑। क॒ल्प॒न्ता॒म्। १६।
महीधरः
म० ‘अथार्धेन्द्राणि जुहोति’ (९।३।२।९) अर्धस्येन्द्रदेवत्यत्वादर्धस्य नानादेवत्यत्वात् । अग्निसोमसवितृसरस्वतीपूषबृहस्पतयः प्रसिद्धाः । तैः समानभागत्वादिन्द्र एकैकया सह पठ्यते । यास्कोक्ता इन्द्रशब्दस्य नानार्थाः कार्याः । एवमग्रेऽपि कण्डिकाद्वये । एते कल्पन्ताम् ॥ १६ ॥
सप्तदशी।
अधिमन्त्रम् (VC)
- अग्नदिविद्याविदात्मा देवता
- देवा ऋषयः
- निचृदतिशक्वरी
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (मे) मेरा (अग्निः) प्रसिद्ध सूर्यरूप अग्नि (च) और पृथिवी पर मिलनेवाला भौतिक (मे) मेरा (इन्द्रः) बिजुलीरूप अग्नि (च) तथा पवन (मे) मेरा (सोमः) शन्तिगुणवाला पदार्थ वा मनुष्य (च) और वर्षा मेघ जल (मे) मेरा (इन्द्रः) अन्याय को दूर करनेवाला सभापति (च) और सभासद् (मे) मेरा (सविता) ऐश्वर्ययुक्त काम (च) और इसके साधन (मे) मेरा (इन्द्रः) समस्त अविद्या का नाश करनेवाला अध्यापक (च) और विद्यार्थी (मे) मेरा (सरस्वती) प्रशंसित बोध वा शिक्षा से भरी हुई वाणी (च) और सत्य बोलनेवाला (मे) मेरा (इन्द्रः) विद्यार्थी की जड़ता का विनाश करनेवाला उपदेशक (च) और सुननेवाले (मे) मेरा (पूषा) पुष्टि करनेवाला (च) और योग्य आहार=भोजन, विहार=सोना आदि (मे) मेरा जो (इन्द्रः) पुष्टि करने की विद्या में रम रहा है, वह (च) और वैद्य (मे) मेरा (बृहस्पतिः) बड़े-बड़े व्यवहारों की रक्षा करनेवाला (च) और राजा तथा (मे) मेरा (इन्द्रः) समस्त ऐश्वर्य का बढ़ानेवाला उद्योगी (च) और सेनापति ये सब (यज्ञेन) विद्या और ऐश्वर्य की उन्नति करने से (कल्पन्ताम्) समर्थ हों ॥१६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! तुम लोगों को अच्छे विचार से अपने सब पदार्थ उत्तमों का पालन करने और दुष्टों को शिक्षा देने के लिये निरन्तर युक्त करने चाहिये ॥१६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - मेऽग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च यज्ञेन कल्पन्ताम् ॥१६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! युष्माभिः सुविचारेण स्वकीयाः सर्वे पदार्थाः श्रेष्ठपालनाय दुष्टशिक्षणाय च सततं योजनीयाः ॥१६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! तुम्ही नेहमी चांगले विचार ठेवा व आपले सर्व पदार्थ उत्तमांचे पालन व दुष्टांना दंड देण्यासाठी उपयोगात आणा.
१७ मित्रश्च मऽइन्द्रश्च
विश्वास-प्रस्तुतिः ...{Loading}...
मि॒त्रश्च॑ म॒ऽइन्द्र॑श्च मे॒ वरु॑णश्च म॒ऽइन्द्र॑श्च मे धा॒ता च॑ म॒ऽइन्द्र॑श्च मे॒ त्वष्टा॑ च म॒ऽइन्द्र॑श्च मे म॒रुत॑श्च म॒ऽइन्द्र॑श्च मे विश्वे॑ च मे दे॒वाऽइन्द्र॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥१७ ॥
मूलम् ...{Loading}...
मि॒त्रश्च॑ म॒ऽइन्द्र॑श्च मे॒ वरु॑णश्च म॒ऽइन्द्र॑श्च मे धा॒ता च॑ म॒ऽइन्द्र॑श्च मे॒ त्वष्टा॑ च म॒ऽइन्द्र॑श्च मे म॒रुत॑श्च म॒ऽइन्द्र॑श्च मे विश्वे॑ च मे दे॒वाऽइन्द्र॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥१७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मि॒त्रः। च॒। मे॒। इन्द्रः॑। च॒। मे॒। वरु॑णः। च॒। मे। इन्द्रः॑। च॒। मे॒। धा॒ता। च॒। मे॒। इन्द्रः॑। च॒। मे॒। त्वष्टा॑। च॒। मे॒। इन्द्रः॑। च॒। मे॒। म॒रुतः। च॒। मे॒। इन्द्रः॑। च॒। मे॒। विश्वेः॑। च॒। मे॒। दे॒वाः। इन्द्रः॑। च॒। मे॒। य॒ज्ञेन॑। क॒ल्प॒न्ता॒म्। १७।
महीधरः
म० मित्रवरुणधातृत्वष्टृमरुद्विश्वेदेवाः प्रसिद्धाः । प्रत्येकमिन्द्रः । एते कल्पन्ताम् ॥ १७ ॥
अष्टादशी।
अधिमन्त्रम् (VC)
- मित्रश्वर्य्यसहित आत्मा देवता
- देवा ऋषयः
- स्वराट् शक्वरी
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (मे) मेरा (मित्रः) प्राण अर्थात् हृदय में रहनेवाला पवन (च) और समान नाभिस्थ पवन (मे) मेरा (इन्द्रः) बिजुलीरूप अग्नि (च) और तेज (मे) मेरा (वरुणः) उदान अर्थात् कण्ठ में रहनेवाला पवन (च) और समस्त शरीर में विचरने हारा पवन (मे) मेरा (इन्द्रः) सूर्य (च) और धारणाकर्षण (मे) मेरा (धाता) धारण करनेहारा (च) और धीरज (मे) मेरा (इन्द्रः) परम ऐश्वर्य का प्राप्त करानेवाला (च) और न्याययुक्त पुरुषार्थ (मे) मेरा (त्वष्टा) पदार्थों को छिन्न-भिन्न करनेवाला अग्नि (च) और शिल्प अर्थात् कारीगरी (मे) मेरा (इन्द्रः) शत्रुओं को विदीर्ण करनेहारा राजा (च) तथा कारीगरी (मे) मेरे (मरुतः) इस ब्रह्माण्ड में रहनेवाले अन्य पवन (च) और शरीर के धातु (मे) मेरी (इन्द्रः) सर्वत्र व्यापक बिजुली (च) और उसका काम (मे) मेरे (विश्वे) समस्त पदार्थ (च) और सर्वस्व (देवाः) उत्तम गुणयुक्त पृथिवी आदि (मे) मेरे लिये (इन्द्रः) परम ऐश्वर्य का दाता (च) और उसका उपयोग ये सब (यज्ञेन) पवन की विद्या के विधान करने से (कल्पन्ताम्) समर्थ होवें ॥१७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्य प्राण और बिजुली की विद्या को जान और इनकी सब जगह सब ओर से व्याप्ति को जानकर अपने बहुत [दीर्घ] जीवन को सिद्ध करें ॥१७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे धाता च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च देवा म इन्द्रश्च यज्ञेन कल्पन्ताम् ॥१७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्याः प्राणविद्युद्विद्यां विज्ञायैतयोः सर्वत्राभिव्याप्तिं च ज्ञात्वा दीर्घजीवनं सम्पादयेयुः ॥१७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी प्राण व विद्युत विद्या यांची सर्वत्र व्याप्ती जाणावी व दीर्घजीवी बनावे.
१८ पृथिवी च
विश्वास-प्रस्तुतिः ...{Loading}...
पृ॒थि॒वी च॑ म॒ऽइन्द्र॑श्च मे॒ऽन्तरि॑क्षं च म॒ऽइन्द्र॑श्च मे॒ द्यौश्च॑ म॒ऽइन्द्र॑श्च मे॒ समा॑श्च म॒ऽइन्द्र॑श्च मे॒ नक्ष॑त्राणि च म॒ऽइन्द्र॑श्च मे॒ दिश॑श्च म॒ऽइन्द्र॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥१८ ॥
मूलम् ...{Loading}...
पृ॒थि॒वी च॑ म॒ऽइन्द्र॑श्च मे॒ऽन्तरि॑क्षं च म॒ऽइन्द्र॑श्च मे॒ द्यौश्च॑ म॒ऽइन्द्र॑श्च मे॒ समा॑श्च म॒ऽइन्द्र॑श्च मे॒ नक्ष॑त्राणि च म॒ऽइन्द्र॑श्च मे॒ दिश॑श्च म॒ऽइन्द्र॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥१८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पृ॒थि॒वी। च॒। मे॒। इन्द्रः॑। च॒। मे॒। अ॒न्तरि॑क्षम्। च॒। मे॒। इन्द्रः॑। च॒। मे॒। द्यौः। च॒। मे॒। इन्द्रः॑। च॒। मे॒। समाः॑। च॒। मे॒। इन्द्रः॑। च॒। मे॒। नक्ष॑त्राणि। च॒। मे॒। इन्द्रः॑। च॒। मे॒। दिशः॑। च॒। मे॒। इन्द्रः॑। च॒। मे॒। य॒ज्ञेन॑। क॒ल्प॒न्ता॒म्। १८।
महीधरः
म० पृथिव्यन्तरिक्षादिवस्त्रैलोक्यम् । समा वर्षाधिष्ठात्र्यो देवताः । नक्षत्राणि अश्विन्यादीनि । दिशः प्रागाद्याः । एते कल्पन्ताम् ॥ १८ ॥
अदाभ्यग्रहः
अंशुग्रहः
उपांशुग्रहः
अन्तर्यामग्रहः
ऐन्द्रवायवग्रह। द्विदेवत्यग्रह १
ऐन्द्रवायव-मैत्रावरुणौ द्विदेवत्यग्रहौ
एकोनविंशी।
अधिमन्त्रम् (VC)
- राज्यैश्वर्यादियुक्तात्मा देवता
- देवा ऋषयः
- भुरिक् शक्वरी
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (मे) मेरी (पृथिवी) विस्तारयुक्त भूमि (च) और उसमें स्थित जो पदार्थ (मे) मेरी (इन्द्रः) बिजुलीरूप क्रिया (च) और बल देनेवाली व्यायाम आदि क्रिया (मे) मेरा (अन्तरिक्षम्) विनाशरहित आकाश (च) और आकाश में ठहरे हुए सब पदार्थ (मे) मेरा (इन्द्रः) समस्त ऐश्वर्य का आधार (च) और उस का करना (मे) मेरी (द्यौः) प्रकाश के काम करानेवाली विद्या (च) और उसके सिद्ध करानेवाले पदार्थ (मे) मेरा (इन्द्रः) सब पदार्थों को छिन्न-भिन्न करनेवाला सूर्य आदि (च) और छिन्न-भिन्न करने योग्य पदार्थ (मे) मेरी (समाः) वर्ष (च) और क्षण, पल, विपल, घटी, मुहूर्त, दिन आदि (मे) मेरा (इन्द्रः) समय के ज्ञान का निमित्त (च) और गणितविद्या (मे) मेरे (नक्षत्राणि) नक्षत्र अर्थात् जो कारण रूप से स्थिर रहते, किन्तु नष्ट नहीं होते, वे लोक (च) और उनके साथ सम्बन्ध रखनेवाले प्राणी आदि (मे) मेरी (इन्द्रः) लोक-लोकान्तरों में स्थित होनेवाली बिजुली (च) और बिजुली के संयोग करते हुए उन लोकों में रहनेवाले पदार्थ (मे) मेरी (दिशः) पूर्व आदि दिशा (च) और उनमें ठहरी हुई वस्तु तथा (मे) मेरा (इन्द्रः) दिशाओं के ज्ञान का देनेवाला (च) और ध्रुव का तारा ये सब पदार्थ (यज्ञेन) पृथिवी और समय के विशेष ज्ञान देनेवाले काम से (कल्पन्ताम्) समर्थ होवें ॥१८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्य लोग पृथिवी आदि पदार्थों और उनमें ठहरी हुई बिजुली आदि को जब तक नहीं जानते, तब तक ऐश्वर्य को नहीं प्राप्त होते ॥१८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षं च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे समाश्च म इन्द्रश्च मे नक्षत्राणि च म इन्द्रश्च मे दिशश्च म इन्द्रश्च यज्ञेन कल्पन्ताम् ॥१८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्या पृथिव्यादिपदार्थांस्तत्रस्थां विद्युतं च यावन्न जानन्ति, तावदैश्वर्यं नह्याप्नुवन्ति ॥१८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जोपर्यंत माणसे पृथ्वी व त्यात असलेली विद्युत वगैरेना जाणत नाहीत तोपर्यंत ऐश्वर्य प्राप्त करू शकत नाहीत.
१९ अंशुश्च मे
विश्वास-प्रस्तुतिः ...{Loading}...
अँ॒शुश्च॑ मे र॒श्मिश्च॒ मेऽदा॑भ्यश्च॒ मेऽधि॑पतिश्च मऽउपाँ॒शुश्च॑ मेऽन्तर्या॒मश्च॑ मऽऐन्द्रवाय॒वश्च॑ मे मैत्रावरु॒णश्च॑ मऽआश्वि॒नश्च॑ मे प्रतिप्र॒स्थान॑श्च मे शु॒क्रश्च॑ मे म॒न्थी च॑ मे य॒ज्ञेन॑ कल्पताम् ॥१९ ॥
मूलम् ...{Loading}...
अँ॒शुश्च॑ मे र॒श्मिश्च॒ मेऽदा॑भ्यश्च॒ मेऽधि॑पतिश्च मऽउपाँ॒शुश्च॑ मेऽन्तर्या॒मश्च॑ मऽऐन्द्रवाय॒वश्च॑ मे मैत्रावरु॒णश्च॑ मऽआश्वि॒नश्च॑ मे प्रतिप्र॒स्थान॑श्च मे शु॒क्रश्च॑ मे म॒न्थी च॑ मे य॒ज्ञेन॑ कल्पताम् ॥१९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अँ॒शुः। च॒। मे॒। र॒श्मिः। च॒। मे॒। अदा॑भ्यः। च॒। मे॒। अधि॑पति॒रित्यधि॑ऽपतिः। च॒। मे॒। उ॒पा॒अँ॒शुरित्यु॑पऽ अँ॒शुः। च॒। मे॒। अ॒न्त॒र्या॒म इत्य॑न्तःऽया॒मः। च॒। मे॒। ऐ॒न्द्र॒वा॒य॒वः। च॒। मे॒। मै॒त्रा॒व॒रु॒णः। च॒। मे॒। आ॒श्वि॒नः। च॒। मे॒। प्र॒ति॒प्र॒स्थान॒ इति॑ प्रतिऽप्र॒स्थानः॑। च॒। मे॒। शु॒क्रः। च॒। मे॒। म॒न्थी। च॒। मे॒। य॒ज्ञेन॑। क॒ल्प॒न्ता॒म्। १९।
महीधरः
म० ‘अथ ग्रहान् जुहोति’ ( ९ । ३ । २ । १० ) कण्डिकात्रये ग्रहहोममन्त्राः । अश्वादयः सोमग्रहविशेषाः सोमप्रकरणे प्रसिद्धाः । [८]अदाभ्यस्यैव गृह्यमाणत्वदशायां पृथक्कृत्य ग्रहणे रश्मिशब्देन निर्देशः । रश्मीनां तदग्रहणे साधनत्वात् | ‘अह्नो रूपे सूर्यस्य रश्मिषु’ ( ८ । ४८) इति मन्त्रलिङ्गात् । अधिपतिशब्देन निग्राह्यो विवक्षितः तस्य ज्येष्ठत्वादाधिपत्यम् ‘ज्येष्ठो वा एष ग्रहाणाम्’ इति श्रुतेः । प्रतिप्रस्थानशब्देन निग्राह्यो विवक्षितः द्विदेवत्यैः सह पाठात् । अन्ये प्रसिद्धाः ॥ १९ ॥
द्विदेवत्यग्रहाः(ऐन्द्रवायव-मैत्रावरुण-आश्विन्)
शुक्रामन्थिनौ ग्रहौ
आग्रयण स्थाली
हारियोजनग्रहः
विंशी।
अधिमन्त्रम् (VC)
- पदार्थविदात्मा देवता
- देवा ऋषयः
- निचृदत्यष्टिः
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (मे) मेरा (अंशु) व्याप्तिवाला सूर्य (च) और उसका प्रताप (मे) मेरा (रश्मिः) भोजन करने का व्यवहार (च) और अनेक प्रकार का भोजन (मे) मेरा (अदाभ्यः) विनाश रहित (च) और रक्षा करनेवाला (मे) मेरा (अधिपतिः) स्वामी (च) और जिसमें स्थिर हो वह स्थान (मे) मेरा (उपांशुः) मन में जप का करना (च) और एकान्त का विचार (मे) मेरा (अन्तर्यामः) मध्य में जानेवाला पवन (च) और बल (मे) मेरा (ऐन्द्रवायवः) बिजुली और पवन के साथ सम्बन्ध करनेवाला काम (च) और जल (मे) मेरा (मैत्रावरुणः) प्राण और उदान के साथ चलनेहारा वायु (च) और व्यान पवन (मे) मेरा (आश्विनः) सूर्य चन्द्रमा के बीच में रहनेवाला तेज (च) और प्रभाव (मे) मेरा (प्रतिस्थापनः) चलने-चलने के प्रति वर्त्ताव रखनेवाला (च) भ्रमण (मे) मेरा (शुक्रः) शुद्धस्वरूप (च) और वीर्य करनेवाला तथा (मे) मेरा (मन्थी) विलोने के स्वभाववाला (च) और दूध वा काष्ठ आदि ये सब पदार्थ (यज्ञेन) अग्नि के उपयोग से (कल्पन्ताम्) समर्थ हों ॥१९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य सूर्यप्रकाशादिकों से भी उपकारों को लेवें तो विद्वान् होकर क्रिया की चतुराई को क्यों न पावें ॥१९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - मेंऽशुश्च मे रश्मिश्च मेऽदाभ्यश्च मेऽधिपतिश्च म उपांशुश्च मेऽन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्थी च यज्ञेन कल्पन्ताम् ॥१९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदि मनुष्याः सूर्यप्रकाशदिभ्योऽप्युपकारं गृह्णीयुस्तर्हि विद्वांसो भूत्वा क्रियाकौशलं कुतो न प्राप्नुयुः ॥१९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे सूर्य प्रकाश इत्यादींचा उपयोग करून घेतात ती विद्वान बनतात अशी माणसे कर्म करण्यात चतुर का बरे होणार नाहीत? (अर्थात् ती निश्चितच चतुर बनतील) .
२० आग्रयणश्च मे
विश्वास-प्रस्तुतिः ...{Loading}...
आ॒ग्र॒य॒णश्च॑ मे वैश्वदे॒वश्च॑ मे ध्रु॒वश्च॑ मे वैश्वान॒रश्च॑ मऽऐन्द्रा॒ग्नश्च॑ मे म॒हावै॑श्वदेवश्च मे मरुत्व॒तीया॑श्च मे॒ निष्के॑वल्यश्च मे सावि॒त्रश्च॑ मे सारस्व॒तश्च॑ मे पात्नीव॒तश्च॑ मे हारियोज॒नश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ॥२० ॥
मूलम् ...{Loading}...
आ॒ग्र॒य॒णश्च॑ मे वैश्वदे॒वश्च॑ मे ध्रु॒वश्च॑ मे वैश्वान॒रश्च॑ मऽऐन्द्रा॒ग्नश्च॑ मे म॒हावै॑श्वदेवश्च मे मरुत्व॒तीया॑श्च मे॒ निष्के॑वल्यश्च मे सावि॒त्रश्च॑ मे सारस्व॒तश्च॑ मे पात्नीव॒तश्च॑ मे हारियोज॒नश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ॥२० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ॒ग्र॒य॒णः। च॒। मे॒। वै॒श्व॒दे॒व इति॑ वैश्वऽदे॒वः। च॒। मे॒। ध्रु॒वः। च॒। मे॒। वै॒श्वा॒न॒रः। च॒। मे॒। ऐ॒न्द्रा॒ग्नः। च॒। मे॒। म॒हावै॑श्वदेव॒ इति॑ म॒हाऽवै॑श्वदेवः। च॒। मे॒। म॒रु॒त्व॒तीयाः॑। च॒। मे॒। निष्के॑वल्यः। निःके॑वल्य॒ इति॒ निःऽके॑वल्यः। च॒। मे॒। सा॒वि॒त्रः। च॒। मे॒। सा॒र॒स्व॒तः। च॒। मे॒। पा॒त्नी॒व॒त इति॑ पात्नीऽव॒तः। च॒। मे॒। हा॒रि॒यो॒ज॒न इति॑ हारिऽयोज॒नः। च॒। मे॒। य॒ज्ञेन॑। क॒ल्प॒न्ता॒म्। २०।
महीधरः
म० आद्यो वैश्वदेवः प्रातःसवनगतः । महावैश्वदेवस्तु तृतीयसवनगतः । ध्रुवाख्यस्यैव ग्रहस्य श्रवणदशायां वैश्वानरसूक्तपाठात्तद्दशापन्नो [१२]ध्रुवो वैश्वानरशब्देनोच्यते । मरुत्वतीया इति बहुवचनं त्रित्वात् मरुत्वतीयो महामरुत्वतीयः कुण्ठमरुत्वतीयश्चेति । अभिषेचनीये सारस्वतीनामपां ग्रहणमेव सारस्वतो ग्रहः सारस्वतं ग्रहं गृह्णातीति तत्राम्नानात् ॥ २० ॥
एकविंशी।
अधिमन्त्रम् (VC)
- यज्ञानुष्ठानात्मा देवता
- देवा ऋषयः
- स्वराडतिधृतिः
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (मे) मेरा (आग्रयणः) अगहन आदि महीनों में सिद्ध हुआ यज्ञ (च) और इसकी सामग्री (मे) मेरा (वैश्वदेवः) समस्त विद्वानों से सम्बन्ध करनेवाला विचार (च) और इसका फल (मे) मेरा (ध्रुवः) निश्चल व्यवहार (च) और इसके साधन (मे) मेरा (वैश्वानरः) सब मनुष्यों का सत्कार (च) तथा सत्कार करनेवाला (मे) मेरा (ऐन्द्राग्नः) पवन और बिजुली से सिद्ध काम (च) और इसके साधन (मे) मेरा (महावैश्वदेवः) समस्त बड़े लोगों का यह व्यवहार (च) इनके साधन (मे) मेरे (मरुत्वतीयाः) पवनों का सम्बन्ध करनेहारे व्यवहार (च) तथा इनका फल (मे) मेरा (निष्केवल्यः) निरन्तर केवल सुख हो जिसमें वह काम (च) और इसके साधन (मे) मेरा (सावित्रः) सूर्य का यह प्रभाव (च) और इससे उपकार (मे) मेरा (सारस्वतः) वाणी सम्बन्धी व्यवहार (च) और इनका फल (मे) मेरा (पात्नीवतः) प्रशंसित यज्ञसम्बन्धिनी स्त्रीवाले का काम (च) इसके साधन (मे) मेरा (हारियोजनः) घोड़ों को रथ में जोड़नेवाले का यह आरम्भ (च) इसकी सामग्री (यज्ञेन) पदार्थों के मेल करने से (कल्पन्ताम्) समर्थ हों ॥२० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य कार्यकाल की क्रिया और विद्वानों के सङ्ग का आश्रय लेकर विवाहित स्त्री का नियम किये हों, वे पदार्थविद्या को क्यों न जानें ॥२० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च म ऐन्द्राग्नश्च मे महावैश्वदेवश्च मे मरुत्वतीयाश्च मे निष्केवल्यश्च मे सावित्रश्च मे सारस्वतश्च मे पात्नीवतश्च मे हारियोजनश्च यज्ञेन कल्पन्ताम् ॥२० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्यास्सामयिकीं क्रियां विद्वत्सङ्गं चाश्रित्य विवाहितस्त्रीव्रता भवेयुस्ते पदार्थविद्यां कुतो न जानीयुः ॥२० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे काळानुरूप क्रिया करून विद्वानांचा आश्रय घेतात व विवाहित स्रीशीच संग करण्याचा नियम बनवितात ती माणसे (वेगवेगळ्या) पदार्थविद्या का बरे जाणणार नाहीत?
२१ स्रुचश्च मे
विश्वास-प्रस्तुतिः ...{Loading}...
स्रुच॑श्च मे चम॒साश्च॑ मे वाय॒व्या᳖नि च मे द्रोणकल॒शश्च॑ मे॒ ग्रावा॑णश्च मेऽधि॒षव॑णे च मे पू॒त॒भृच्च॑ मऽआधव॒नीय॑श्च मे॒ वेदि॑श्च मे ब॒र्हिश्च॑ मेऽवभृ॒थश्च॑ मे स्वगाका॒रश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ॥२१ ॥
मूलम् ...{Loading}...
स्रुच॑श्च मे चम॒साश्च॑ मे वाय॒व्या᳖नि च मे द्रोणकल॒शश्च॑ मे॒ ग्रावा॑णश्च मेऽधि॒षव॑णे च मे पू॒त॒भृच्च॑ मऽआधव॒नीय॑श्च मे॒ वेदि॑श्च मे ब॒र्हिश्च॑ मेऽवभृ॒थश्च॑ मे स्वगाका॒रश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ॥२१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स्रुचः॑। च॒। मे॒। च॒म॒साः। च॒। मे॒। वा॒य॒व्या᳖नि। च॒। मे॒। द्रो॒ण॒क॒ल॒श इति॑ द्रोणऽकल॒शः। च॒। मे॒। ग्रावा॑णः। च॒। मे॒। अ॒धि॒षव॑णे। अ॒धि॒सव॑ने॒ इत्य॑धि॒ऽसव॑ने। च॒। मे॒। पू॒त॒भृदिति॑ पूत॒ऽभृत्। च॒। मे॒। आ॒ध॒व॒नीय॒ इत्या॑ऽधव॒नीयः॑। च॒। मे॒। वेदिः॑। च॒। मे॒। ब॒र्हिः। च॒। मे॒। अ॒व॒भृ॒थ इत्य॑वऽभृ॒थः। च॒। मे॒। स्व॒गा॒का॒र इति॑ स्वगाऽका॒रः च॒। मे॒। य॒ज्ञेन॑। क॒ल्प॒न्ता॒म्। २१।
महीधरः
म०. स्रुचो जुह्वादयः । चमसानि ग्रहपात्राणि । वायव्यानि पात्रविशेषाः । अधिषवणे काष्ठफलके । [१४]पूतभृदाधवनीयौ सोमपात्रविशेषौ । स्वगाकारः शम्युवाकः तेन यथास्वं देवतानां हविरङ्गीकारात् । प्रसिद्धमन्यत् । एते मम यज्ञेन निमित्तेन कल्पन्ताम् ॥ २१ ॥
चमसाः
ग्रावाणः
आधवनीय-पूतभृत
अवभृथः
द्वाविंशी।
अधिमन्त्रम् (VC)
- यज्ञाङ्गवानात्मा देवताः
- देवा ऋषयः
- विराड्धृतिः
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (मे) मेरे (स्रुचः) स्रुवा आदि (च) और उनकी शुद्धि (मे) मेरे (चमसाः) यज्ञ वा पाक बनाने के पात्र (च) और उनके पदार्थ (मे) मेरे (वायव्यानि) पवनों में अच्छे पदार्थ (च) और पवनों की शुद्धि करनेवाले काम (मे) मेरा (द्रोणकलशः) यज्ञ की क्रिया का कलश (च) और विशेष परिमाण (मे) मेरे (ग्रावाणः) शिलबट्टा आदि पत्थर (च) और उखली-मूसल (मे) मेरे (अधिवषणे) सोमवल्ली आदि ओषधि जिनसे कूटी पीसी जावे, वे साधन (च) और कूटना-पीसना (मे) मेरा (पूतभृत्) पवित्रता जिससे मिलती हो, वह सूप आदि (च) और बुहारी आदि (मे) मेरा (आधवनीयः) अच्छे प्रकार धोने आदि का पात्र (च) और नलिका आदि यन्त्र अर्थात् जिस नली नरकुल की चोगी आदि से तारागणों को देखते हैं, वह (मे) मेरी (वेदिः) होम करने की वेदि (च) और चौकाना आदि (मे) मेरा (बर्हिः) समीप में वृद्धि देनेवाला वा कुशसमूह (च) और जो यज्ञसमय के योग्य पदार्थ (मे) मेरा (अवभृथः) यज्ञसमाप्ति समय का स्नान (च) और चन्दन आदि का अनुलेपन करना तथा (मे) मेरा (स्वगाकारः) जिससे अपने पदार्थों को प्राप्त होते हैं, उस कर्म को जो करे वह (च) और पदार्थ को पवित्र करना ये सब (यज्ञेन) होम करने की क्रिया से (कल्पन्ताम्) समर्थ हों ॥२१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - वे ही मनुष्य यज्ञ करने को समर्थ होते हैं, जो साधन उपसाधनरूप यज्ञ के सिद्ध करने की सामग्री को पूरी करते हैं ॥२१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - मे स्रुचश्च मे चमसाश्च मे वायव्यानि च मे द्रोणकलश्च मे ग्रावाणश्च मेऽधिषवणे च मे पूतभृच्च म आधवनीयश्च मे वेदिश्च मे बर्हिश्च मेऽवभृथश्च मे स्वगाकारश्च यज्ञेन कल्पन्ताम् ॥२१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - त एव मनुष्या यज्ञं कर्त्तुं शक्नुवन्ति, ये साधनोपसाधनसामग्रीरलंकुर्वन्ति ॥२१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे साधन उपसाधनरूपी यज्ञ सिद्ध करण्याची सामुग्री बाळगतात तीच माणसे यज्ञ करण्यास समर्थ ठरतात.
२२ अग्निश्च मे
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्निश्च॑ मे घ॒र्मश्च॑ मे॒ऽर्कश्च॑ मे॒ सूर्य॑श्च मे प्रा॒णश्च॑ मेऽश्वमे॒धश्च॑ मे पृथि॒वी च॒ मेऽदि॑तिश्च मे॒ दिति॑श्च मे॒ द्यौश्च॑ मे॒ऽङ्गुल॑यः॒ शक्व॑रयो॒ दिश॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥२२ ॥
मूलम् ...{Loading}...
अ॒ग्निश्च॑ मे घ॒र्मश्च॑ मे॒ऽर्कश्च॑ मे॒ सूर्य॑श्च मे प्रा॒णश्च॑ मेऽश्वमे॒धश्च॑ मे पृथि॒वी च॒ मेऽदि॑तिश्च मे॒ दिति॑श्च मे॒ द्यौश्च॑ मे॒ऽङ्गुल॑यः॒ शक्व॑रयो॒ दिश॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥२२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒ग्निः। च॒। मे॒। घ॒र्मः। च॒। मे॒। अ॒र्कः। च॒। मे॒। सूर्यः। च॒। मे॒। प्रा॒णः। च॒। मे॒। अ॒श्व॒मे॒धः। च॒। मे॒। पृ॒थि॒वी। च॒। मे॒। अदि॑तिः। च॒। मे॒। दितिः॑। च॒। मे॒। द्यौः। च॒। मे॒। अ॒ङ्गुल॑यः। शक्व॑रयः। दिशः॑। च॒। मे॒। य॒ज्ञेन॑। क॒ल्प॒न्ता॒म्। २२।
महीधरः
म०. कण्डिकाद्वयेन यज्ञक्रतुहोमः । ‘अथैतान् यज्ञक्रतून जुहोत्यग्निश्च म इति’ ( ९ । ३ । ३ । १) इति श्रुतेः । अग्निः चीयमानो वह्निरग्निष्टोमो वा । घर्मः प्रवर्ग्यः । ‘इन्द्रायार्कवते पुरोडाशम्’ इति विहितो यागोऽर्कः । ‘सौर्यं चरुम्’ इति विहितः सूर्यः । प्राणो गवामयनम् । अश्वमेधः प्रसिद्धः। पृथिव्यदितिदिवो देवताविशेषाः । अङ्गुलयः विराट्पुरुषावयवाः शक्वरयः शक्तयः दिशः प्राच्याद्याः । एते यज्ञेन | कल्पन्ताम् ॥ २२ ॥
त्रयोविंशी।
अधिमन्त्रम् (VC)
- यज्ञवानात्मा देवता
- देवा ऋषयः
- भुरिक् शक्वरी
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (मे) मेरे (अग्निः) आग (च) और उस का काम में लाना (मे) मेरा (घर्मः) घाम (च) और शान्ति (मे) मेरी (अर्कः) सत्कार करने योग्य विशेष सामग्री (च) और उसकी शुद्धि करने का व्यवहार (मे) मेरा (सूर्यः) सूर्य (च) और जीविका का हेतु (मे) मेरा (प्राणः) जीवन का हेतु वायु (च) और बाहर का पवन (मे) मेरे (अश्वमेधः) राज्यदेश (च) और राजनीति (मे) मेरी (पृथिवी) भूमि (च) और इसमें स्थिर सब पदार्थ (मे) मेरी (अदितिः) अखण्ड नीति (च) और इन्द्रियों को वश में रखना (मे) मेरी (दितिः) खण्डित सामग्री (च) और अनित्य जीवन वा शरीर आदि (मे) मेरे (द्यौः) धर्म का प्रकाश (च) और दिन-रात (मे) मेरी (अङ्गुलयः) अंगुली (शक्वरयः) शक्ति (दिशः) पूर्व, उत्तर, पश्चिम, दक्षिण दिशा (च) और ईशान, वायव्य, नैर्ऋत्य, आग्नेय उपदिशा ये सब (यज्ञेन) मेल करने योग्य परमात्मा से (कल्पन्ताम्) समर्थ हों ॥२२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो प्राणियों के सुख के लिये यज्ञ का अनुष्ठान करते हैं, वे महाशय होते हैं, ऐसा जानना चाहिये ॥२२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - मेऽग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मेऽश्वमेधश्च मे पृथिवी च मेऽदितिश्च मे दितिश्च मे द्यौश्च मेऽङ्गुलयः शक्वरयो दिशश्च यज्ञेन कल्पन्ताम् ॥२२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये प्राणिसुखाय यज्ञमनुतिष्ठन्ति, ते महाशयाः सन्तीति वेद्यम् ॥२२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे प्राण्यांच्या सुखासाठी यज्ञाचे अनुष्ठान करतात ते थोर पुरुष असतात हे जाणले पाहिजे.
२३ व्रतं च
विश्वास-प्रस्तुतिः ...{Loading}...
व्र॒तं च॑ मऽऋ॒तव॑श्च मे॒ तप॑श्च मे संवत्स॒रश्च॑ मेऽहोरा॒त्रेऽऊ॑र्वष्ठी॒वे बृ॑हद्रथन्त॒रे च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ॥२३ ॥
मूलम् ...{Loading}...
व्र॒तं च॑ मऽऋ॒तव॑श्च मे॒ तप॑श्च मे संवत्स॒रश्च॑ मेऽहोरा॒त्रेऽऊ॑र्वष्ठी॒वे बृ॑हद्रथन्त॒रे च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ॥२३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
व्र॒तम्। च॒। मे॒। ऋ॒तवः॑। च॒। मे॒। तपः॑। च॒। मे॒। सं॒व॒त्स॒रः। च॒। मे॒। अ॒हो॒रा॒त्रे इत्य॑होरा॒त्रे। ऊ॒र्व॒ष्ठी॒वेऽइत्यू॑र्वष्ठी॒वे। बृ॒ह॒द्र॒थ॒न्त॒रे इति॑ बृहत्ऽरथन्त॒रे। च॒। मे॒। य॒ज्ञेन॑। क॒ल्प॒न्ता॒म्। २३।
महीधरः
म० व्रतं नियमः । ऋतवो वसन्तादयः । तपः कृच्छ्रचान्द्रायणादि । संवत्सरः प्रभवादि । अहश्च रात्रिश्चाहोरात्रे दिननिशे । ऊरू चाष्ठीवन्तौ जानुनी च ऊर्वष्ठीवे अवयवविशेषौ ‘अचतुर-’(पा० ५। ४ । ७७ ) इति निपातः । बृहद्रथन्तरे एतन्नामके सामनी । एतानि कल्पन्ताम् ॥ २३ ॥
चतुर्विंशी।
अधिमन्त्रम् (VC)
- कालविद्याविदात्मा देवता
- देवा ऋषयः
- पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (मे) मेरे (व्रतम्) सत्य आचरण के नियम की पालना (च) और सत्य कहना और सत्य उपदेश (मे) मेरे (ऋतवः) वसन्त आदि ऋतु (च) और उत्तरायण दक्षिणायन (मे) मेरा (तपः) प्राणायाम तथा धर्म का आचरण (च) शीत उष्ण आदि का सहना (मे) मेरा (संवत्सरः) साल (च) तथा कल्प, महाकल्प आदि (मे) मेरे (अहोरात्रे) दिन-रात (ऊर्वष्ठीवे) जङ्घा और घोंटू (बृहद्रथन्तरे) बड़ा पदार्थ, अत्यन्त सुन्दर रथ तथा (च) घोड़े वा बैल (यज्ञेन) धर्मज्ञान आदि के आचरण और कालचक्र के भ्रमण के अनुष्ठान से (कल्पन्ताम्) समर्थ हों ॥२३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो पुरुष नियम किये हुए समय में काम और निरन्तर धर्म का आचरण करते हैं, वे चाही हुई सिद्धि को पाते हैं ॥२३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - मे व्रतं च म ऋतवश्च मे तपश्च मे संवत्सरश्च मेऽहोरात्रे ऊर्वष्ठीवे बृहद्रथन्तरे च यज्ञेन कल्पन्ताम् ॥२३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये नियतसमये कार्याणि सततं धर्मं चाचरन्ति, तेऽभीष्टसिद्धिमाप्नुवन्ति ॥२३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे पुरुष नियमाने, वेळेवर काम करतात व सतत धर्माचे आचरण करतात ते स्वतःच्या इच्छेप्रमाणे सिद्धी प्राप्त करू शकतात.
२४ एका च
विश्वास-प्रस्तुतिः ...{Loading}...
एका॑ च मे ति॒स्रश्च॑ मे ति॒स्रश्च॑ मे॒ पञ्च॑ च मे॒ पञ्च॑ च मे स॒प्त च॑ मे स॒प्त च॑ मे॒ नव॑ च मे॒ नव॑ च म॒ऽएका॑दश च म॒ऽएका॑दश च मे॒ त्रयो॑दश च मे॒ त्रयो॑दश च मे॒ पञ्च॑दश च मे॒ पञ्च॑दश॒ च मे स॒प्तद॑श च मे स॒प्तद॑श च मे॒ नव॑दश च मे॒ नव॑दश च मऽएक॑विँशतिश्च म॒ऽएक॑विँशतिश्च मे॒ त्रयो॑विँशतिश्च मे त्रयो॑विँशतिश्च मे॒ पञ्च॑विँशतिश्च मे॒ पञ्च॑विँशतिश्च मे स॒प्तविँ॑शतिश्च मे स॒प्तविँ॑शतिश्च मे॒ नव॑विँशतिश्च मे॒ नव॑विँशतिश्च म॒ऽएक॑त्रिँशच्च म॒ऽएक॑त्रिँशच्च मे॒ त्रय॑स्त्रिँशच्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥२४ ॥
मूलम् ...{Loading}...
एका॑ च मे ति॒स्रश्च॑ मे ति॒स्रश्च॑ मे॒ पञ्च॑ च मे॒ पञ्च॑ च मे स॒प्त च॑ मे स॒प्त च॑ मे॒ नव॑ च मे॒ नव॑ च म॒ऽएका॑दश च म॒ऽएका॑दश च मे॒ त्रयो॑दश च मे॒ त्रयो॑दश च मे॒ पञ्च॑दश च मे॒ पञ्च॑दश॒ च मे स॒प्तद॑श च मे स॒प्तद॑श च मे॒ नव॑दश च मे॒ नव॑दश च मऽएक॑विँशतिश्च म॒ऽएक॑विँशतिश्च मे॒ त्रयो॑विँशतिश्च मे त्रयो॑विँशतिश्च मे॒ पञ्च॑विँशतिश्च मे॒ पञ्च॑विँशतिश्च मे स॒प्तविँ॑शतिश्च मे स॒प्तविँ॑शतिश्च मे॒ नव॑विँशतिश्च मे॒ नव॑विँशतिश्च म॒ऽएक॑त्रिँशच्च म॒ऽएक॑त्रिँशच्च मे॒ त्रय॑स्त्रिँशच्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥२४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
एका॑। च॒। मे॒। ति॒स्रः। च॒। मे॒। ति॒स्रः। च॒। मे॒। पञ्च॑। च॒। मे॒। पञ्च॑। च॒। मे॒। स॒प्त। च॒। मे॒। स॒प्त। च॒। मे। नव॑। च॒। मे॒। नव॑। च॒। मे॒। एका॑दश। च॒। मे॒। एका॑दश। च॒। मे॒। त्रयो॑द॒शेति॒ त्रयः॑ऽदश। च॒। मे॒। त्रयो॑द॒शेति॒ त्रयः॑ऽदशः। च॒। मे॒। पञ्च॑द॒शेति॒ पञ्च॑ऽदश। च॒। मे॒। पञ्च॑द॒शेति॒ पञ्च॑दश। च॒। मे॒। स॒प्तद॒शेति॒ स॒प्तऽद॑श। च॒। मे॒। स॒प्तद॒शेति॒ स॒प्तऽद॑श। च॒। मे॒ नव॑द॒शेति॒ नव॑ऽदश। च॒। मे॒। नव॑द॒शेति॒ नव॑ऽदश। च॒। मे॒। एक॑विँशति॒रित्येक॑ऽविँशतिः। च॒। मे॒। एक॑विँशति॒रित्येक॑ऽविँशतिः। च॒। मे॒। त्रयो॑विँशति॒रिति॒ त्रयः॑ऽविँशतिः। च॒। मे॒। त्रयो॑विँशति॒रिति॒ त्रयः॑ऽविँशतिः। च॒। मे॒। पञ्च॑विँशति॒रिति॒ पञ्च॑ऽविँशतिः। च॒। मे॒। पञ्च॑विऽँशतिरिति॒ पञ्च॑ऽविँशतिः। च॒। मे॒। स॒प्तविँ॑शति॒रिति॑ स॒प्तऽविँ॑शतिः। च॒। मे॒। स॒प्तविँ॑शति॒रिति॑ स॒प्तऽविँ॑शतिः। च॒। मे॒। नव॑विँशति॒रिति॒ नव॑ऽविँशतिः। च॒। मे॒। नव॑विँशति॒रिति॒ नव॑ऽविँशतिः। च॒। मे॒। एक॑त्रिँश॒दित्येक॑ऽत्रिँशत्। च॒। मे॒। एक॑त्रिँश॒दित्येक॑ऽत्रिँशत्। च॒। मे॒। त्रय॑स्त्रिँश॒दिति॒ त्रयः॑ऽत्रिँशत्। च॒। मे॒। य॒ज्ञेन॑। क॒ल्प॒न्ता॒म्। २४।
महीधरः
म० अयुग्मस्तोमहोमार्था मन्त्राः । ‘अथायुजस्तोमान् जुहोति’ (९ । ३ । २) इति श्रुतेः । एकामादाय द्वितीयां विहाय तृतीयामादाय चतुर्थं विहाय परित्यक्तसमसंख्याकेनात्तविषमसंख्याकेन मन्त्रेणायुग्मान्स्तोमाञ्जहुयादित्यर्थः । आदरातिशयद्योतनार्था सर्वत्र पुनरुक्तिः । अयुग्मस्तोमहोमैः सर्वकामावाप्तिः । तथाच श्रुतिः ‘एतद्वै देवाः सर्वान् कामानाप्त्वायुग्भिः स्तोमैः स्वर्गं लोकमायंस्तथैवैतद्यजमानः सर्वान्कामानाप्त्वायुग्भिः स्तोमैः स्वर्गं लोकमेति’ ( ९ । ३ । ३ । २) इत्यादि ॥ २४ ॥
पञ्चविंशी।
अधिमन्त्रम् (VC)
- विषमाङ्कगणितविद्याविदात्मा देवता
- देवा ऋषयः
- संकृतिः, विराट् संकृतिः
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब गणितविद्याया के मूल का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यज्ञेन) मेल करने अर्थात् योग करने से (मे) मेरी (एका) एक संख्या (च) और दो (मे) मेरी (तिस्रः) तीन संख्या (च) फिर (मे) मेरी (तिस्रः) तीन (च) और दो (मे) मेरी (पञ्च) पाँच (च) फिर (मे) मेरी (पञ्च) पाँच (च) और दो (मे) मेरी (सप्त) सात (च) फिर (मे) मेरी (सप्त) सात (च) और दो (मे) मेरी (नव) नौ (च) फिर (मे) मेरी (नव) नौ (च) और दो (मे) मेरी (एकादश) ग्यारह (च) फिर (मे) मेरी (मे) मेरी (एकादश) ग्यारह (च) और दो (मे) मेरी (त्रयोदश) तेरह (च) फिर (मे) मेरी (त्रयोदश) तेरह (च) और दो (मे) मेरी (पञ्चदश) पन्द्रह (च) फिर (मे) मेरी (पञ्चदश) पन्द्रह (च) और दो (मे) मेरी (सप्तदश) सत्रह (च) फिर (मे) मेरी (सप्तदश) सत्रह (च) और दो (मे) मेरी (नवदश) उन्नीस (च) फिर (नवदश) उन्नीस (च) और दो (मे) मेरी (एकविंशतिः) इक्कीस (च) फिर (मे) मेरी (एकविंशतिः) इक्कीस (च) और दो (मे) मेरी (त्रयोविंशतिः) तेईस (च) फिर (मे) मेरी (त्रयोविंशतिः) तेईस (च) और दो (मे) मेरी (पञ्चविंशतिः) पच्चीस (च) फिर (मे) मेरी (पञ्चविंशतिः) पच्चीस (च) और दो (मे) मेरी (सप्तविंशतिः) सत्ताईस (च) फिर (मे) मेरी (सप्तविंशतिः) सत्ताईस (च) और दो (मे) मेरी (नवविंशतिः) उनतीस (च) फिर (मे) मेरी (नवविंशतिः) उनतीस (च) और दो (मे) मेरी (एकत्रिंशत्) इकतीस (च) फिर (मे) मेरी (एकत्रिंशत्) इकतीस (च) और दो (मे) मेरी (त्रयस्त्रिंशत्) तेंतीस (च) और आगे भी इसी प्रकार संख्या (कल्पन्ताम्) समर्थ हों। यह एक योगपक्ष है ॥१ ॥२४ ॥ अब दूसरा पक्ष−(यज्ञेन) योग से विपरीत दानरूप वियोगमार्ग से विपरीत संगृहीत (च) और संख्या दो के वियोग अर्थात् अन्तर से [जैसे] (मे) मेरी (कल्पन्ताम्) समर्थ हों, वैसे (मे) मेरी (त्रयस्त्रिंशत्) तेंतीस संख्या (च) दो के देने अर्थात् वियोग से (मे) मेरी (एकत्रिंशत्) इकतीस (च) फिर (मे) मेरी (एकत्रिंशत्) इकतीस (च) दो के वियोग से (मे) मेरी (नवविंशतिः) उनतीस (च) फिर (मे) मेरी (नवविंशतिः) उनतीस (च) दो के वियोग से (मे) मेरी (सप्तविंशतिः) सत्ताईस समर्थ हों, ऐसे सब संख्याओं में जानना चाहिये ॥ यह वियोग से दूसरा पक्ष है ॥२ ॥२४ ॥ अब तीसरा (मे) मेरी (एका) एक संख्या (च) और (मे) मेरी (तिस्रः) तीन संख्या (च) परस्पर गुणी, (मे) मेरी (तिस्रः) तीन संख्या (च) और (मे) मेरी (पञ्च) पाँच संख्या (च) परस्पर गुणित, (मे) मेरी (पञ्च) पाँच संख्या (च) और (मे) मेरी (सप्त) सात संख्या (च) परस्पर गुणित, (मे) मेरी (सप्त) सात संख्या (च) और (मे) मेरी (नव) नव संख्या (च) परस्पर गुणित, (मे) मेरी (नव) नव संख्या (च) और (मे) मेरी (एकादश) ग्यारह संख्या (च) परस्पर गुणित, इस प्रकार अन्य संख्या (यज्ञेन) उक्त बार-बार योग अर्थात् गुणन से (कल्पन्ताम्) समर्थ हों। यह गुणन विषय से तीसरा पक्ष है ॥३ ॥२४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में (यज्ञेन) इस पद से जोड़ना-घटाना लिये जाते हैं, क्योंकि जो यज धातु का सङ्गतिकरण अर्थ है, उससे सङ्ग कर देना अर्थात् किसी संख्या को किसी संख्या से योग कर देना वा यज धातु का जो दान अर्थ है, उससे ऐसी सम्भावना करनी चाहिये कि किसी संख्या का दान अर्थात् व्यय करना निकाल-डालना यही अन्तर है। इस प्रकार गुणन, भाग, वर्ग, वर्गमूल, घन, घनमूल, भागजाति, प्रभागजाति आदि जो गणित के भेद हैं, वे योग और अन्तर से ही उत्पन्न होते हैं, क्योंकि किसी संख्या को किसी संख्या से एक बार मिला दे तो योग कहाता है, जैसे २+४=६ अर्थात् २ में ४ जोड़ें तो ६ होते हैं। ऐसे यदि अनेक वार संख्या में संख्या जोड़ें तो उसको गुणन कहते हैं, जैसे अर्थात् २*४=८, २ को ४ वार अलग अलग जोड़ें वा २ को ४ चार से गुणे तो ८ होते हैं। ऐसे ही ४ को ४ चौगुना कर दिया तो ४ का वर्ग १६ हुए, ऐसे ही अन्तर से भाग, वर्गमूल, घनमूल आदि निष्पन्न होते हैं अर्थात् किसी संख्या को जोड़ देवे वा किसी प्रकारान्तर से घटा देवे, इसी योग वा वियोग से बुद्धिमानों की यथामति कल्पना से व्यक्त, अव्यक्त, अङ्कगणित और बीजगणित आदि समस्त गणितक्रिया उत्पन्न होती हैं। इस कारण इस मन्त्र में दो के योग से उत्तरोत्तर संख्या वा दो के वियोग से पूर्व पूर्व संख्या अच्छे प्रकार दिखलाई हैं, वैसे गुणन का भी कुछ प्रकार दिखलाया है, यह जानना चाहिये ॥२४ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ गणितविद्याया मूलमुपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यज्ञेन सङ्गतिकरणेन म एका संख्या च-द्वे मे तिस्रः, च-पुनर्मे तिस्रश्च-द्वे मे पञ्च, च-पुनर्मे पञ्च च-द्वे मे सप्त, च-पुनर्मे सप्त च-द्वे मे नव, च-पुनर्मे नव च-द्वे म एकादश, च-पुनर्म एकादश च-द्वे मे त्रयोदश, च-पुनर्मे त्रयोदश च-द्वे मे पञ्चदश, च-पुनर्मे पञ्चदश च-द्वे मे सप्तदश, च-पुनर्मे सप्तदश च-द्वे मे नवदश, च-पुनर्मे नवदश च-द्वे म एकविंशतिः, च-पुनर्मे एकविंशतिश्च-द्वे मे त्रयोविंशतिः, च-पुनर्मे त्रयोविंशतिश्च-द्वे मे पञ्चविंशतिः, च-पुनर्मे पञ्चविंशतिश्च-द्वे मे सप्तविंशतिः, च-पुनर्मे सप्तविंशतिश्च-द्वे मे नवविंशतिः, च-पुनर्मे नवविंशतिश्च-द्वे म एकत्रिंशच्च, पुनर्म एकत्रिंशच्च-द्वे मे त्रयस्त्रिंशच्चादग्रेऽप्येवं संख्याः कल्पन्ताम् ॥ इत्येको योगपक्षः ॥१ ॥२४ ॥ अथ द्वितीयः पक्षः−यज्ञेन योगतो विपरीतेन दानरूपेण वियोगमार्गेण विपरीताः संगृहीताश्चान्यान्याः संख्या द्वयोर्वियोगेन यथा मे कल्पन्तां तथा मे त्रयस्त्रिंशच्च-द्वयोर्दानेन वियोगेन म एकत्रिंशत्, च-पुनर्मे ममैकत्रिंशच्च-द्वयोर्वियोगेन मे नवविंशतिः, च-पुनर्मे नवविंशतिश्च द्वयोर्वियोगेन मे सप्तविंशतिरेवं सर्वत्र ॥ इति वियोगेनान्तरेण द्वितीयः पक्षः ॥२ ॥२४ ॥ अथ तृतीयः—म एका च मे तिस्रश्च, मे तिस्रश्च मे पञ्च च, मे पञ्च च मे सप्त च, मे सप्त च मे नव च, मे नव च म एकादश चैवंविधाः संख्याः अग्रेऽपि यज्ञेन उक्तपुनःपुनर्योगेन गुणनेन कल्पन्तां समर्था भवन्तु ॥ इति गुणनविषये तृतीयः पक्षः ॥३ ॥२४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अस्मिन् मन्त्रे यज्ञेनेति पदेन योगवियोगौ गृह्येते कुतो यजधातोर्हि यः सङ्गतिकरणार्थस्तेन सङ्गतिकरणं कस्याश्चित् सङ्ख्यायाः कयाचिद्योगकरणं यश्च दानार्थस्तेनैवं सम्भाव्य कस्याश्चिद्दानं व्ययीकरणमिदमेवान्तरमेवं गुणनभागवर्गवर्गमूलघनघनमूलभागजातिप्रभागजातिप्रभृतयो ये गणितभेदाः सन्ति, ते योगवियोगाभ्यामेवोत्पद्यन्ते। कुतः काञ्चित् संख्यां कयाचित् संख्यया सकृत् संयोजयेत् स योगो भवति, यथा २+४=६ द्वयोर्मध्ये चत्वारो युक्ताः षट् संपद्यन्ते। इत्थमनेकवारं चेत् संख्यायां संख्यां योजयेत् तर्हि तद्गुणनमाहुः। यथा २*४=८ अर्थात् द्विरूपां संख्यां चतुर्वारं पृथक् पृथग् योजयेद्वा द्विरूपां संख्यां चतुर्भिर्गुणयेत् तदाष्टौ जायन्ते। एवं चत्वारश्चतुर्वारं युक्ता वा चतुर्भिर्गुणितास्तदा चतुर्णां वर्गः षोडश संपद्यन्ते, इत्थमन्तरेण भाग-वर्गमूल-घनमूलाद्याः क्रिया निष्पद्यन्ते अर्थात् यस्यां कस्याञ्चित् संख्यायां काञ्चित् संख्यां योजयेद्वा केनचित् प्रकारान्तरेण वियोजयेदित्यनेनैव योगेन वियोगेन वा बुद्धिमतां यथामतिकल्पनया व्यक्ताव्यक्ततराः सर्वा गणितक्रिया निष्पद्यन्तेऽतोऽत्र मन्त्रे द्वयोर्योगेनोत्तरोत्तरा द्वयोर्वियोगेन वा पूर्वा पूर्वा विषमसंख्या प्रदर्शिता तथा गुणनस्यापि कश्चित्प्रकारः प्रदर्शित इति वेदितव्यम् ॥२४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात (यज्ञेन) या पदाने बेरीज व वजाबाकी असा अर्थ घेतला जातो. कारण ‘यज’ धातूचा अर्थ संगतिकरण असा आहे. तेव्हा संगतिकरण करणे म्हणजे एखाद्या संख्येला दुसऱ्या संख्येत मिळविणे होय किंवा ‘यज’ धातूचा अर्थ दान असाही होतो. त्यावरून हे कळते की, एखाद्या संख्येचे दान करणे म्हणजे कमी, वजा करणे होय. याप्रमाणे गुणाकार, भागाकार, वर्ग, वर्गमूळ, घन, घनमूळ, भाग (जाती) , प्रभाग (प्रजाती) इत्यादी गणिताचे जे प्रकार आहेत ते बेरीज व वजाबाकीने उत्पन्न होतात. कारण एका संख्येत दुसरी संख्या मिळविल्यास होते जसे २ + ४ = ६ अर्थात् दोन (२) मध्ये चार (४) मिळविल्यास सहा (६) होतात. अशाप्रकारे अनेकवेळा एका संख्येत दुसरी मिळविल्यास गुणकार होतो. जसे २ेर्४ = ८ अर्थात् चार वेळा वेगवेगळी बेरीज किंवा २ ला ४ (चार) ने गुणल्यास ८ होतात. याप्रमाणे ४ च्या चौपट केले असता ४ चा वर्ग १६ होतो, तसेच वजा करण्याने भागाकार, वर्गमूळ, घनमूळ इत्यादी निष्पन्न होतात. तेव्हा एखाद्या संख्येत एखादी संख्या मिळविल्यास बेरीज किंवा कमी केल्यास वजाबाकी. याच बेरीज वजाबाकीने बुद्धिमान लोकांना त्यांच्या तर्कानुसार व्यक्त अव्यक्त अशा अंकगणित व बीजगणित इत्यादी सर्व गणिताच्या क्रिया उलगडतात. त्यामुळे या मंत्रात दोनच्या बेरजेने जास्त झालेली संख्या किंवा (२) दोनच्या वजाबाकीने कमी असलेली संख्या पूर्वीची संख्या चांगल्याप्रकारे दाखविलेली आहे, तसेच गुणाकाराचा काही प्रकारही दर्शविलेला आहे.
२५ चतस्रश्च मेऽष्टौ
विश्वास-प्रस्तुतिः ...{Loading}...
चत॑स्रश्च मे॒ऽष्टौ च॑ मे॒ऽष्टौ च॑ मे॒ द्वाद॑श च मे॒ द्वाद॑श च मे॒ षोड॑श च मे॒ षोड॑श च मे विँश॒तिश्च॑ मे विँश॒तिश्च॑ मे॒ चतु॑र्विँशतिश्च मे॒ चतु॑र्विँशतिश्च मे॒ऽष्टाविँ॑शतिश्च मे॒ऽष्टाविँ॑शतिश्च मे॒ द्वात्रिँ॑शच्च मे॒ द्वात्रिँ॑शच्च मे॒ षट्त्रिँ॑शच्च मे॒ षट्त्रिँ॑शच्च मे चत्वारिँ॒शच्च॑ मे चत्वारिँ॒शच्च मे॒ चतु॑श्चत्वारिँशच्च मे॒ चतु॑श्चत्वारिँशच्च मेऽष्टाच॑त्वारिँशच्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥२५ ॥
मूलम् ...{Loading}...
चत॑स्रश्च मे॒ऽष्टौ च॑ मे॒ऽष्टौ च॑ मे॒ द्वाद॑श च मे॒ द्वाद॑श च मे॒ षोड॑श च मे॒ षोड॑श च मे विँश॒तिश्च॑ मे विँश॒तिश्च॑ मे॒ चतु॑र्विँशतिश्च मे॒ चतु॑र्विँशतिश्च मे॒ऽष्टाविँ॑शतिश्च मे॒ऽष्टाविँ॑शतिश्च मे॒ द्वात्रिँ॑शच्च मे॒ द्वात्रिँ॑शच्च मे॒ षट्त्रिँ॑शच्च मे॒ षट्त्रिँ॑शच्च मे चत्वारिँ॒शच्च॑ मे चत्वारिँ॒शच्च मे॒ चतु॑श्चत्वारिँशच्च मे॒ चतु॑श्चत्वारिँशच्च मेऽष्टाच॑त्वारिँशच्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥२५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
चत॑स्रः। च॒। मे॒। अ॒ष्टौ। च॒। मे॒। अ॒ष्टौ। च॒। मे॒। द्वाद॑श। च॒। मे॒। द्वाद॑श। च॒। मे॒। षोड॑श। च॒। मे॒। षोड॑श। च॒। मे॒। विँ॒श॒तिः। च॒। मे॒। विँ॒श॒तिः। च॒। मे॒। चतु॑र्विँशति॒रिति॒ चतुः॑ऽविँशतिः। च॒। मे॒। चतु॑र्विँशति॒रिति॒ चतुः॑ऽविँशतिः। च॒। मे॒। अ॒ष्टाविँ॑शति॒रित्य॒ष्टाऽविँशतिः। च॒। मे॒। अ॒ष्टाविँ॑शति॒रित्य॒ष्टाऽविँ॑शतिः। च॒। मे॒। द्वात्रिँ॑शत्। च॒। मे॒। द्वात्रिँ॑शत्। च॒। मे॒। षट्त्रिँ॑श॒दिति॒ षट्ऽत्रिँ॑शत्। च॒। मे॒। षट्त्रिँ॑श॒दिति॒ षट्ऽत्रिँ॑शत्। च॒। मे॒। च॒त्वा॒रिँ॒शत्। च॒। मे॒। च॒त्वा॒रिँ॒शत्। च॒। मे॒। चतु॑श्चत्वारिँश॒दिति॒ चतुः॑ऽचत्वारिँशत्। च॒। मे॒। चतु॑श्चत्वारिँश॒दिति॒ चतुः॑ऽचत्वारिँशत्। च॒। मे॒। अ॒ष्टाच॑त्वारिँश॒दित्य॒ष्टाऽच॑त्वारिँशत्। च॒। मे॒। य॒ज्ञेन॑। क॒ल्प॒न्ता॒म्। २५।
महीधरः
म० एककण्डिकया युग्मस्तोमाञ्जुहोति । ‘अथ युग्मतो जुहोति चतस्रश्च म (माश. ९।३।३ । ४) इति । प्रथमं चतस्र इत्येतां संख्यामादाय चतुरुत्तरत्वेन स्थितान्युग्मान्स्तोमानष्टाचत्वारिंशत्पर्यन्ताञ्जुहुयादित्यर्थः । तत्फलं स्वर्गप्राप्तिः । एतद्वैछन्दाᳪं᳭ं᳭ स्यब्रुवन्यातयामा वा अयुजः स्तोमा युग्मभिर्वयᳪं᳭ं᳭ स्तोमैः स्वर्गं लोकमयामेति तथैतद्यजमानो युग्मभिः स्तोमैः स्वर्गं लोकमेति’ (९ । ३ । ३ । ५) इति श्रुतेः । पूर्वं पूर्वमुत्तरेण संबध्नाति वृक्षारोहणवत् । तथाच श्रुतिः ‘पूर्वंपूर्वमुत्तरेणोत्तरेण संयुनक्ति यथा वृक्षं रोहन्नुत्तरामुत्तराᳪं᳭ं᳭ शाखाᳪं᳭ं᳭ समालम्भयᳪं᳭ं᳭ रोहेत्तादृक्तत्’ (९।३।३ । ६) इति । अत्रोक्ता संख्या संख्येयनिष्ठा । एते यज्ञेन कल्पन्ताम् ॥२५॥
षड्विंशी।
अधिमन्त्रम् (VC)
- समाङ्कगणितविद्याविदात्मा देवता
- पूर्वदेवा ऋषयः
- भुरिक् पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब सम अङ्कों के गणित विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यज्ञेन) मेल करने अर्थात् योग करने में (मे) मेरी (चतस्रः) चार संख्या (च) और चारि संख्या (मे) मेरी (अष्टौ) आठ संख्या (च) फिर (मे) मेरी (अष्टौ) आठ संख्या (च) और चारि (मे) मेरी (द्वादश) बारह (च) फिर (मे) मेरी (द्वादश) बारह (च) और चारि (मे) मेरी (षोडश) सोलह (च) फिर (मे) मेरी (षोडश) सोलह (च) और चारि (मे) मेरी (विंशतिः) बीस (च) फिर (मे) मेरी (विंशतिः) बीस (च) और चारि (मे) मेरी (चतुर्विंशतिः) चौबीस (च) फिर (मे) मेरी (चतुर्विंशतिः) चौबीस (च) और चारि (मे) मेरी (अष्टाविंशतिः) अट्ठाईस (च) फिर (मे) मेरी (अष्टाविंशतिः) अट्ठाईस (च) और चारि (मे) मेरी (द्वात्रिंशत्) बत्तीस (च) फिर (मे) मेरी (द्वात्रिंशत्) बत्तीस (च) चारि (मे) मेरी (षट्त्रिंशत्) छत्तीस (च) फिर (मे) मेरी (षट्त्रिंशत्) छत्तीस (च) और चारि (मे) मेरी (चत्वारिंशत्) चालीस (च) फिर (मे) मेरी (चत्वारिंशत्) चालीस (च) और चारि (मे) मेरी (चतुश्चत्वारिंशत्) चवालीस (च) फिर (मे) मेरी (चतुश्चत्वारिंशत्) चवालीस (च) और चारि (मे) मेरी (अष्टाचत्वारिंशत्) अड़तालीस (च) आगे भी उक्तविधि से संख्या (कल्पन्ताम्) समर्थ हों, यह प्रथम योगपक्ष है ॥१ ॥२५ ॥ अब दूसरा−(यज्ञेन) योग से विपरीत दानरूप वियोगमार्ग से विपरीत संगृहीत (च) और संख्या चारि-चारि के वियोग से जैसे (मे) मेरी (कल्पन्ताम्) समर्थ हों वैसे (मे) मेरी (अष्टाचत्वारिंशत्) अड़तालीस (च) चारि के वियोग से (मे) मेरी (चतुश्चत्वारिंशत्) चवालीस (च) फिर (मे) मेरी (चतुश्चत्वारिंशत्) चवालीस (च) चारि के वियोग से (मे) मेरी (चत्वारिंशत्) चालीस (च) फिर (मे) मेरी (चत्वारिंशत्) चालीस (च) चारि के वियोग से (मे) मेरी (षट्त्रिंशत्) छत्तीस (च) फिर (मे) मेरी (षट्त्रिंशत्) छत्तीस (च) चारि के वियोग से (मे) मेरी (द्वात्रिंशत्) बत्तीस इस प्रकार सब संख्याओं में जानना चाहिये। यह वियोग से दूसरा पक्ष है ॥२ ॥२५ ॥ अब तीसरा पक्ष−(मे) मेरी (चतस्रः) चारि संख्या (च) और (मे) मेरी (अष्टौ) आठ (च) परस्पर गुणी, (मे) मेरी (अष्टौ) आठ (च) और (मे) मेरी (द्वादश) बारह (च) परस्पर गुणी, (मे) मेरी (द्वादश) बारह (च) और (मे) मेरी (षोडश) सोलह (च) परस्पर गुणी, (मे) मेरी (षोडश) सोलह (च) और (मे) मेरी (विंशतिः) बीस (च) परस्पर गुणी, इस प्रकार संख्या आगे भी (यज्ञेन) उक्त वार-वार गुणन से (कल्पन्ताम्) समर्थ हों। यह गुणनविषय से तीसरा पक्ष है ॥३ ॥२५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - पिछले मन्त्र में एक संख्या को लेकर दो के योग वियोग से विषम संख्या कही। इससे पूर्व मन्त्र में क्रम से आई हुई एक, दो, तीन संख्या को छोड़ इस मन्त्र में चारि के योग वा वियोग से चौथी संख्या को लेकर सम संख्या प्रतिपादन किई। इन दोनों मन्त्रों से विषम संख्या और सम संख्याओं का भेद जानके बुद्धि के अनुकूल कल्पना से सब गणित विद्या जाननी चाहिये ॥२५ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ समाङ्कगणितविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यज्ञेन सङ्गतिकरणेन मे चतस्रः—चतुःसंख्या च-चतस्रो मेऽष्टौ, च-पुनर्मे अष्टौ-च-चतस्रो मे द्वादश, च-पुनर्मे द्वादश च-चतस्रो मे षोडश, च-पुनर्मे षोडश च-चतस्रो मे विंशतिः, च-पुनर्मे विंशतिश्च-चतस्रो मे चतुर्विंशतिः, च-पुनर्मे चतुर्विंशतिश्च-चतस्रो मेऽष्टाविंशतिः, च-पुनर्मेऽष्टाविंशतिश्च-चतस्रो मे द्वात्रिंशत्, च-पुनर्मे द्वात्रिंशच्च-चतस्रो मे षट्त्रिंशच्च-पुनर्मे षट्त्रिंशच्च-चतस्रो मे चत्वारिंशत्, च-पुनर्मे चत्वारिंशच्च-चतस्रो मे चतुश्चत्वारिंशत्, च पुनर्मे चतुश्चत्वारिंशच्च-चतस्रो मेऽष्टाचत्वारिंशत् चादग्रेऽपि पूर्वोक्तविधिना संख्याः कल्पन्ताम् ॥ इत्येको योगपक्षः ॥१ ॥२५ ॥ अथ द्वितीयः—यज्ञेन योगतो विपरीतेन दानरूपेण वियोगमार्गेण विपरीताः संगृहीताश्चान्यान्या संख्या चतुर्णां वियोगेन यथा मे कल्पन्तां तथा मेऽष्टाचत्वारिंशच्च-चतुर्णां दानेन वियोगेन मे चतुश्चत्वारिंशत् च-पुनर्मे चतुश्चत्वारिंशच्च-चतुर्णां वियोगेन मे चत्वारिंशत् च-पुनर्मे चत्वारिंशच्च-चतुर्णां वियोगेन मे षट्त्रिंशत् च-पुनर्मे षट्त्रिंशच्च-चतुर्णां वियोगेन मे द्वात्रिंशदेवं सर्वत्र ॥ इति वियोगेन द्वितीयः पक्षः ॥२ ॥२५ ॥ अथ तृतीयः—मे चतस्रश्च मेऽष्टौ च, मेऽष्टौ च मे द्वादश च, मे द्वादश च मे षोडश च, मे षोडश च मे विंशतिश्चैवंविधाः संख्या अग्रेऽपि यज्ञेन उक्तपुनःपुनर्योगेन गुणनेन कल्पन्तां समर्था भवन्तु, इति गुणनविषयेण तृतीयः पक्षः ॥३ ॥२५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - पूर्वस्मिन्नेकां संख्यां संगृह्य द्वयोर्योगवियोगाभ्यां विषमाः संख्याः प्रतिपादिताः। अतः पूर्वत्र क्रमेणागतैकद्वित्रिसंख्या विहायात्र मन्त्रे चतसॄणां योगेन वियोगेन वा चतुःसंख्यामारभ्य समसंख्याः प्रतिपादिताः। अनेन मन्त्रद्वयेन विषमसंख्यानां समसंख्यानाञ्च भेदान् विज्ञाय यथाबुद्धिकल्पनया सर्वा गणितविद्या विज्ञातव्याः ॥२५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - मागच्या मंत्रात एक संख्या घेऊन दोनच्या बेरजेने व वजाबाकीने विषम संख्या दर्शविलेली आहे. यापूर्वीच्या मंत्रात क्रमाने आलेल्या एक, दोन, तीन संख्या सोडून या मंत्रात चारांची बेरीज किंवा वजाबाकीने चौथी संख्या घेऊन सम संख्या प्रतिपादित केलेली आहे. या दोन मंत्रांनी विषम किंवा सम संख्यांचे भेद जाणून बुद्धीच्या साह्याने तर्कपूर्ण रीतीने सर्व गणित विद्या जाणली पाहिजे.
२६ त्र्यविश्च मे
विश्वास-प्रस्तुतिः ...{Loading}...
त्र्यवि॑श्च मे त्र्य॒वी च॑ मे दित्य॒वाट् च॑ मे दित्यौ॒ही च॑ मे॒ पञ्चा॑विश्च मे पञ्चा॒वी च॑ मे त्रिव॒त्सश्च॑ मे त्रिव॒त्सा च॑ मे तुर्य॒वाट् च॑ मे तुर्यौ॒ही च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ॥२६ ॥
मूलम् ...{Loading}...
त्र्यवि॑श्च मे त्र्य॒वी च॑ मे दित्य॒वाट् च॑ मे दित्यौ॒ही च॑ मे॒ पञ्चा॑विश्च मे पञ्चा॒वी च॑ मे त्रिव॒त्सश्च॑ मे त्रिव॒त्सा च॑ मे तुर्य॒वाट् च॑ मे तुर्यौ॒ही च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ॥२६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
त्र्यवि॒रिति॑ त्रि॒ऽअविः॑। च॒। मे॒। त्र्य॒वीति॑ त्रिऽअ॒वी। च॒। मे॒। दि॒त्य॒वाडिति॑ दित्य॒ऽवाट्। च॒। मे॒। दि॒त्यौ॒ही। च॒। मे॒। पञ्चा॑वि॒रिति॒ पञ्च॑ऽअविः। च॒। मे॒। प॒ञ्चा॒विति॑ पञ्चऽअ॒वी। च॒। मे॒। त्रि॒व॒त्स इति॑ त्रिऽव॒त्सः। च॒। मे॒। त्रि॒व॒त्सेति॑ त्रिऽव॒त्सा। च॒। मे॒। तु॒र्य॒वाडिति॑ तुर्य॒ऽवाट्। च॒। मे॒। तु॒र्यौ॒ही। च॒। मे॒। य॒ज्ञेन॑। क॒ल्प॒न्ताम्। २६।
महीधरः
म० कण्डिकाद्वयं वयोहोमे विनियुक्तम् । तथाच श्रुतिः ‘अथ वयाᳪं᳭ं᳭ सि जुहोति त्र्यविश्च म इति पशवो वै वयाᳪं᳭ं᳭ सि पशुभिरेवैनमेतदन्नेन प्रीणात्यथो पशुभिरेवैनमेतदन्नेनाभिषिञ्चति’ (माश ९।३ । ३ । ७) इति । अविः षण्मासात्मकः काल: त्रयोऽवयो यस्य स त्र्यविः सार्धसंवत्सरो वृषः तादृशी गौस्त्र्यवी । द्विसंवत्सरो वृषा दित्यवाट् तादृशी गौर्दित्यौही। पञ्चावयो यस्य स पञ्चाविः सार्धद्विसंवत्सरो वृषः तादृशी गौः पञ्चावी। वत्सो वत्सरः त्रयो वत्सा यस्य स त्रिवत्सः त्रिवर्षो वृषः तादृशी गौस्त्रिवत्सा । तुर्यं वर्षं वहतीति तुर्यवाट् सार्धत्रिवर्षो वृषः तादृशी गौस्तुर्यौही । एते यज्ञेन कल्पन्ताम् ॥ २६ ॥
सप्तविंशी।
अधिमन्त्रम् (VC)
- पशुविद्याविदात्मा देवता
- देवा ऋषयः
- ब्राह्मी बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
अथ पशुपालन विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (मे) मेरा (त्र्यविः) तीन प्रकार का भेड़ोंवाला (च) और इससे भिन्न सामग्री (मे) मेरी (त्र्यवी) तीन प्रकार की भेड़ोंवाली स्त्री (च) और इनसे उत्पन्न हुए घृतादि (मे) मेरे (दित्यवाट्) खण्डित क्रियाओं में हुए विघ्नों को पृथक् करनेवाला (च) और इसके सम्बन्धी (मे) मेरी (दित्यौही) उन्हीं क्रियाओं को प्राप्त कराने हारी गाय आदि (च) और उसकी रक्षा (मे) मेरा (पञ्चाविः) पाँच प्रकार की भेड़ोंवाला (च) और उसके घृतादि (मे) मेरी (पञ्चावी) पाँच प्रकार की भेड़ोंवाली स्त्री (च) और (मे) मेरा (त्रिवत्सः) तीन बछड़ेवाला (च) और उसके बछड़े आदि (मे) मेरी (त्रिवत्सा) तीन बछड़ेवाली गौ (च) और उसके घृतादि (मे) मेरा (तुर्यवाट्) चौथे वर्ष को प्राप्त हुआ बैल आदि (च) और इसको काम में लाना (मे) मेरी (तुर्यौही) चौथे वर्ष को प्राप्त गौ (च) और इसको शिक्षा ये सब पदार्थ (यज्ञेन) पशुओं के पालन के विधान से (कल्पन्ताम्) समर्थ होवें ॥२६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में गौ और भेड़ के उपलक्षण से अन्य पशुओं का भी ग्रहण होता है। जो मनुष्य पशुओं को बढ़ाते हैं, वे इनके रसों से आढ्य होते हैं ॥२६ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ पशुपालनविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - मे त्र्यविश्च मे त्र्यवी च मे दित्यवाट् च मे दित्यौही च मे पञ्चाविश्च मे पञ्चावी च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाट् च मे तुर्यौही च यज्ञेन कल्पन्ताम् ॥२६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र गोजाविग्रहणमुपलक्षणार्थम्। ये मनुष्याः पशून् वर्द्धयन्ति ते रसाढ्या जायन्ते ॥२६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात गाई, बकरे, लांडगे यांच्या उपलक्षणाने इतर पशूंचेही आकलन होते. हे विधान पशूसंबंधी आहे हे समजले पाहिजे. जी माणसे पशूंचे पालन करतात. त्यांच्या दूध वगैरेने ती माणसे संपन्न होतात.
२७ पष्ठवाट् च
विश्वास-प्रस्तुतिः ...{Loading}...
प॒ष्ठ॒वाट् च॑ मे पष्ठौ॒ही च॑ मऽउ॒क्षा च॑ मे व॒शा च॑ मऽऋष॒भश्च॑ मे वे॒हच्च॑ मेऽन॒ड्वाँश्च॑ मे धेनु॒श्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ॥२७ ॥
मूलम् ...{Loading}...
प॒ष्ठ॒वाट् च॑ मे पष्ठौ॒ही च॑ मऽउ॒क्षा च॑ मे व॒शा च॑ मऽऋष॒भश्च॑ मे वे॒हच्च॑ मेऽन॒ड्वाँश्च॑ मे धेनु॒श्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ॥२७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प॒ष्ठ॒वाडिति॑ पष्ठ॒ऽवाट्। च॒। मे॒। प॒ष्ठौ॒ही। च॒। मे॒। उ॒क्षा। च॒। मे॒। व॒शा। च॒। मे॒। ऋ॒ष॒भः। च॒। मे॒। वे॒हत्। च॒। मे॒। अ॒न॒ड्वान्। च॒। मे॒। धे॒नुः। च॒। मे॒। य॒ज्ञेन॑। क॒ल्प॒न्ता॒म्। २७।
महीधरः
म० पष्ठं वर्षचतुष्कं वहतीति पष्ठवाट् चतुर्वर्षो वृषः तादृशी गौः पष्ठौही । उक्षा सेचनक्षमो वृषः । वशा वन्ध्या गौः । अतियुवा वृष ऋषभः । वेहद्गर्भघातिनी गौः । अनः शकटं वहतीत्यनड्वान् शकटवहनक्षमो वृषः । वहेः क्विपि | संप्रसारणमनसो डकारः ‘चतुरनडुहोरामुदात्तः’ (पा. ७ । | १।९०) इति आमागमः । धेनुर्नवप्रसूता गौः । एते मम यज्ञेन निमित्तेन कल्पन्तां स्वस्वव्यापारसमर्था भवन्तु । यद्वा एते यज्ञेन मम कल्पन्तां मह्यमुपभोगक्षमा भवन्त्वित्यर्थः । एवं पूर्वत्र ॥ २७ ॥
अष्टाविंशी।
अधिमन्त्रम् (VC)
- पशुपालनविद्याविदात्मा देवता
- देवा ऋषयः
- भुरिगार्षी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (मे) मेरे (पष्ठवाट्) पीठ से भार उठानेहारे हाथी, ऊँट आदि (च) और उनके सम्बन्धी (मे) मेरी (पष्ठौही) पीठ से भार उठाने हारी घोड़ी, ऊँटनी आदि (च) और उनसे उठाये गये पदार्थ (मे) मेरा (उक्षा) वीर्य सेचन में समर्थ वृषभ (च) और वीर्य धारण करनेवाली गौ आदि (मे) मेरी (वशा) वन्ध्या गौ (च) और वीर्यहीन बैल (मे) मेरा (ऋषभः) समर्थ बैल (च) और बलवती गौ (मे) मेरी (वेहत्) गर्भ गिरानेवाली (च) और सामर्थ्यहीन गौ (मे) मेरा (अनड्वान्) हल और गाड़ी आदि को चलाने में समर्थ बैल (च) और गाड़ीवान् आदि (मे) मेरी (धेनुः) नवीन व्यानी दूध देने हारी गाय (च) और उसको दोहनेवाला जन ये सब (यज्ञेन) पशुशिक्षारूप यज्ञकर्म से (कल्पन्ताम्) समर्थ होवें ॥२७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो पशुओं को अच्छी शिक्षा देके कार्यों में सयुक्त करते हैं, वे अपने प्रयोजन सिद्ध करके सुखी होते हैं ॥२७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - मे पष्टवाट् च मे पष्ठौही च म उक्षा च मे वशा च मे ऋषभश्च मे वेहच्च मेऽनड्वाँश्च मे धेनुश्च यज्ञेन कल्पन्ताम् ॥२७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये पशून् सुशिक्ष्य कार्येषु संयुञ्जते, ते सिद्धार्था जायन्ते ॥२७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे पशूंना चांगले शिक्षण देऊन त्यांच्याकडून काम करून घेतात ते आपले प्रयोजन सिद्ध करून सुखी होतात.
२८ वाजाय स्वाहा
विश्वास-प्रस्तुतिः ...{Loading}...
वाजा॑य॒ स्वाहा॑ प्रस॒वाय॒ स्वाहा॑पि॒जाय॒ स्वाहा॒ क्रत॑वे॒ स्वाहा॒ वस॑वे॒ स्वाहा॑ह॒र्पत॑ये॒ स्वाहाह्ने॑ मु॒ग्धाय॒ स्वाहा॑ मु॒ग्धाय॒ वैनँशि॒नाय॒ स्वाहा॑ विनँ॒शिन॑ऽआन्त्याय॒नाय॒ स्वाहान्त्या॑य भौव॒नाय॒ स्वाहा॒ भुव॑नस्य॒ पत॑ये॒ स्वाहाधि॑पतये॒ स्वाहा॑ प्र॒जाप॑तये॒ स्वाहा॑। इ॒यं ते॒ राण्मि॒त्राय॑ य॒न्तासि॒ यम॑नऽऊ॒र्जे त्वा॒ वृष्ट्यै॑ त्वा प्र॒जानां॒ त्वाधि॑पत्याय ॥२८ ॥
मूलम् ...{Loading}...
वाजा॑य॒ स्वाहा॑ प्रस॒वाय॒ स्वाहा॑पि॒जाय॒ स्वाहा॒ क्रत॑वे॒ स्वाहा॒ वस॑वे॒ स्वाहा॑ह॒र्पत॑ये॒ स्वाहाह्ने॑ मु॒ग्धाय॒ स्वाहा॑ मु॒ग्धाय॒ वैनँशि॒नाय॒ स्वाहा॑ विनँ॒शिन॑ऽआन्त्याय॒नाय॒ स्वाहान्त्या॑य भौव॒नाय॒ स्वाहा॒ भुव॑नस्य॒ पत॑ये॒ स्वाहाधि॑पतये॒ स्वाहा॑ प्र॒जाप॑तये॒ स्वाहा॑। इ॒यं ते॒ राण्मि॒त्राय॑ य॒न्तासि॒ यम॑नऽऊ॒र्जे त्वा॒ वृष्ट्यै॑ त्वा प्र॒जानां॒ त्वाधि॑पत्याय ॥२८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वाजा॑य। स्वाहा॑। प्र॒स॒वायेति॑ प्रऽस॒वाय॑। स्वाहा॑। अ॒पि॒जाय॑। स्वाहा॑। क्रत॑वे। स्वाहा॑। वस॑वे। स्वाहा॑। अ॒ह॒र्पत॑ये। स्वाहा॑। अह्ने॑। मु॒ग्धाय॑ स्वाहा॑। मु॒ग्धाय॑। वै॒नँ॒शि॒नाय॑। स्वाहा॑। वि॒नँ॒शिन॒ इति॑ विनँ॒शिने॑। आ॒न्त्या॒य॒नाय॑। स्वाहा॑। आन्त्या॑य। भौ॒व॒नाय॑। स्वाहा॑। भुव॑नस्य। पत॑ये। स्वाहा॑। अधि॑पतय॒ इत्यधि॑ऽपतये। स्वाहा॑। प्र॒जाप॑तय॒ इति॑ प्र॒जाऽप॑तये। स्वाहा॑। इ॒यम्। ते॒। राट्। मि॒त्राय॑। य॒न्ता। अ॒सि॒। यम॑नः। ऊ॒र्जे। त्वा॒। वृष्ट्यै॑। त्वा॒। प्र॒जाना॒मिति॑ प्र॒ऽजाना॑म्। त्वा॒। आधि॑पत्या॒येत्याधि॑ऽपत्याय। २८।
महीधरः
म० अथ नामग्राहहोमः । तथाच श्रुतिः ‘अथ नामग्राहं जुहोति वाजाय स्वाहेत्येतद्वै देवाः सर्वान्कामानाप्त्वाथैतमेव प्रत्यक्षमप्रीणंस्तथैवैतद्यजमानः सर्वान्कामानाप्त्वाथैतमेव प्रत्यक्षं प्रीणाति’ (९।३।३।८) इति । वाजोऽन्नं तस्मै स्वाहेति होममन्त्रः । वाजादीनि चैत्रादिमासानां नामानि तन्नाम गृहीत्वा होतव्यमित्यर्थः । अन्नप्राचुर्याच्चैत्रोऽन्नरूपः। प्रसवायानुज्ञारूपाय जलक्रीडादौ अभ्यनुज्ञादानात्प्रसवो वैशाखः । अपिजाय अप्सु जायत इत्यपिजः सप्तम्या अलुक् । जलक्रीडारतत्वादपिजो ज्यैष्ठः । क्रतवे यागरूपाय चातुर्मास्यादियागप्राचुर्यात्क्रतुराषाढः । वसवे वासयति वसुः चातुर्मास्ये यात्रानिषेधाद्वसुः श्रावणः । अहर्पतये दिनस्वामिने सूर्यरूपाय तापकरत्वाद्भाद्रपदस्याहर्पतिवम् । मुग्धायाह्ने तुषारादिना मोहरूपाय दिवसाय तुषारबाहुल्यान्मुग्धमह आश्विनः । अमुग्धाय वैनशिनाय विनश्यतीति विनंशी ‘मस्जिनशोर्झलि’ (पा. ७।१।६०) इति बाहुलकादझल्यपि नशेर्नुमागमः । विनंश्येव वैनंशिनः स्वार्थे अण् । अल्पघटिकावत्त्वेन विनाशशीलाय कार्तिकाय स्नाननियमादिना पापनाशकत्वादमुग्धाय मोहनिवर्तकाय कार्तिकाय । अविंशिने आन्त्यायनाय न विनश्यतीत्यविनंशी तस्मै विनाशरहिताय । अन्ते सर्वेषां नाशे भवमन्त्यं तदयनं चेत्यन्त्यायनं सत्र भव आन्त्यायनस्तस्मै सर्वनाशेऽप्यवशिष्टाय । अतएवाविनंशिने विष्णुरूपाय मार्गशीर्षाय । ‘मासानां मार्गशीर्षोऽहं’ (गीता० १० । ३५) इति स्मृतेः आन्त्याय भौवनाय । भुवनानामयं भौवनः अन्ते स्वरूपे भव आन्त्यस्तस्मै । लोकस्वरूपपुष्टिकरत्वात्तत्रभवत्वम् । जाठराग्नेर्दीप्तिकरत्वेन पुष्टिकरत्वं पौषस्य । भुवनस्य भूतजातस्य पतये पालकाय माघाय । स्नानादिना पुण्यजनकत्वेन पालकत्वं माघस्य । अधिपतये अधिकपालकाय फाल्गुनाय वर्षान्तत्वात् प्रजापतये। एवं द्वादशमासाधिष्ठात्रे प्रजापतिनामकाय देवाय । स्वाहेति होमार्थं सर्वत्र । हे अग्ने, इयं ते तव राट् इदं राज्यं यत्र यत्र यागाः क्रियन्ते तत्तवैव राज्यम् । किंच हे अग्ने, त्वं मित्रस्य सख्युर्यजमानस्य यन्ता नियामकोऽसि । षष्ठ्यर्थे चतुर्थी मित्रायेति । कीदृशस्त्वम् । यमनो यमयतीति यमनः अग्निष्टोमादिकर्मसु सर्वान्नियमयन् । अत ऊर्जे विशिष्टान्नरसाय त्वा त्वामभिषिच्चामीति शेषः । तथा वृष्ट्यै वर्षणाय त्वामभिषिञ्चामि । ‘अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः’ इति स्मृतेः । ततः प्रजानामाधिपत्याय प्रजास्वामित्वाप्त्यै त्वामभिषिञ्चामि वसोर्धारया । तथा च श्रुतिः ‘प्रजानामाधिपत्यायेत्यन्नं वा ऊर्गन्नं वृष्टिरन्नेनैवैनमेतत्प्रीणाति यद्वेवाहेयं ते राण्मित्राय यन्तासि यमन ऊर्जे त्वा वृष्ट्यै त्वा प्रजानां त्वाधिपत्यायेतीदं ते राज्यमभिषिक्तोऽसीत्येतन्मित्रस्य त्वं यन्तासि’ (९ । ३ । ३ । १०-११) इति ॥ २८॥
एकोनत्रिंशी।
अधिमन्त्रम् (VC)
- सङ्ग्रामादिविदात्मा देवता
- देवा ऋषयः
- भुरिगाकृतिः, आर्ची बृहती
- पञ्चमः, मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
अब कैसी वाणी का स्वीकार करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जिस विद्वान् में (वाजाय) सङ्ग्राम के लिये (स्वाहा) सत्यक्रिया (प्रसवाय) ऐश्वर्य वा सन्तानोत्पत्ति के अर्थ (स्वाहा) पुरुषार्थ बलयुक्त सत्य वाणी (अपिजाय) ग्रहण करने के अर्थ (स्वाहा) उत्तम क्रिया (क्रतवे) विज्ञान के लिये (स्वाहा) योगाभ्यासादि क्रिया (वसवे) निवास के लिये (स्वाहा) धनप्राप्ति कराने हारी क्रिया (अहर्पतये) दिनों के पालन करने के लिये (स्वाहा) कालविज्ञान को देने हारी क्रिया (अह्ने) दिन के लिये वा (मुग्धाय) मूढ़जन के लिये (स्वाहा) वैराग्ययुक्त क्रिया (मुग्धाय) मोह को प्राप्त हुए के लिये (वैनंशिनाय) विनाशी अर्थात् विनष्ट होनेहारे को जो बोध उसके लिये (स्वाहा) सत्य हितोपदेश करनेवाली वाणी (विनंशिने) विनाश होनेवाले स्वभाव के अर्थ वा (आन्त्यायनाय) अन्त में घर जिसका हो उसके लिये (स्वाहा) सत्य वाणी (आन्त्याय) नीच वर्ण में उत्पन्न हुए (भौवनाय) भुवन सम्बन्धी के लिये (स्वाहा) उत्तम उपदेश (भुवनस्य) जिस संसार में सब प्राणीमात्र होते हैं, उसके (पतये) स्वामी के अर्थ (स्वाहा) उत्तम वाणी (अधिपतये) पालनेवालों के अधिष्ठाता के अर्थ (स्वाहा) राजव्यवहार को जनाने हारी क्रिया तथा (प्रजापतये) प्रजा के पालन करनेवाले के अर्थ (स्वाहा) राजधर्म प्रकाश करनेहारी नीति स्वीकार की जाती है तथा जिस (ते) आप को (इयम्) यह (राट्) विशेष प्रकाशमान नीति है और जो (यमनः) अच्छे गुणों के ग्रहणकर्त्ता आप (मित्राय) मित्र के लिये (यन्ता) उचित सत्कार करनेहारे (असि) हैं, उन (त्वा) आप को (ऊर्जे) पराक्रम के लिये (त्वा) आपको (वृष्ट्यै) वर्षा के लिये और (त्वा) आपको (प्रजानाम्) पालन के योग्य प्रजाओं के (आधिपत्याय) अधिपति होने के लिये हम स्वीकार करते हैं ॥२८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य धर्मयुक्त वाणी और क्रिया से सहित वर्त्तमान रहते हैं, वे सुखों को प्राप्त होते हैं और जो जितेन्द्रिय होते हैं, वे राज्य के पालन में समर्थ होते हैं ॥२८ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ कीदृशी वाक् स्वीकार्य्येत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - येन विदुषा वाजाय स्वाहा प्रसवाय स्वाहाऽपिजाय स्वाहा क्रतवे स्वाहा वसवे स्वाहाऽहर्पतये स्वाहाऽह्ने मुग्धाय स्वाहा मुग्धाय वैनंशिनाय स्वाहा विनंशिन आन्त्यायनाय स्वाहाऽऽन्त्याय भौवनाय स्वाहा भुवनस्य पतये स्वाहाऽधिपतये स्वाहा प्रजापतये स्वाहा स्वीक्रियते यस्य ते तवेयं राडस्ति यो यमनस्त्वं मित्राय यन्तासि तं त्वा त्वामूर्जे त्वा वृष्ट्यै त्वा प्रजानामाधिपत्याय च वयं स्वीकुर्वीमहि ॥२८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्या धर्म्यवाक् क्रियाभ्यां सह प्रवर्त्तन्ते, ते सुखानि लभन्ते, ये जितेन्द्रियास्ते राज्यं रक्षितुं शक्नुवन्ति ॥२८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्या माणसांची वाणी धर्मयुक्त असून, जे क्रियाशील असतात ते सुखी होतात व जी माणसे जितेंद्रिय असतात ती राज्याचे पालन करण्यास समर्थ असतात.
२९ आयुर्यज्ञेन कल्पताम्
विश्वास-प्रस्तुतिः ...{Loading}...
आयु॑र्य॒ज्ञेन॑ कल्पतां प्रा॒णो य॒ज्ञेन॑ कल्पतां॒ चक्षु॑र्य॒ज्ञेन॑ कल्पताँ॒ श्रोत्रं॑ य॒ज्ञेन॑ कल्पतां॒ वाग्य॒ज्ञेन॑ कल्पतां॒ मनो॑ य॒ज्ञेन॑ कल्पतामा॒त्मा य॒ज्ञेन॑ कल्पतां ब्र॒ह्मा य॒ज्ञेन॑ कल्पतां॒ ज्योति॑र्य॒ज्ञेन॑ कल्पताँ॒ स्व᳖र्य॒ज्ञेन॑ कल्पतां पृ॒ष्ठं य॒ज्ञेन॑ कल्पतां य॒ज्ञो य॒ज्ञेन॑ कल्पताम्। स्तोम॑श्च॒ यजु॑श्च॒ऽऋक् च॒ साम॑ च बृ॒हच्च॑ रथन्त॒रञ्च॑। स्व॑र्देवाऽअगन्मा॒मृता॑ऽअभूम प्र॒जाप॑तेः प्र॒जाऽअ॑भूम॒ वेट् स्वाहा॑ ॥२९ ॥
मूलम् ...{Loading}...
आयु॑र्य॒ज्ञेन॑ कल्पतां प्रा॒णो य॒ज्ञेन॑ कल्पतां॒ चक्षु॑र्य॒ज्ञेन॑ कल्पताँ॒ श्रोत्रं॑ य॒ज्ञेन॑ कल्पतां॒ वाग्य॒ज्ञेन॑ कल्पतां॒ मनो॑ य॒ज्ञेन॑ कल्पतामा॒त्मा य॒ज्ञेन॑ कल्पतां ब्र॒ह्मा य॒ज्ञेन॑ कल्पतां॒ ज्योति॑र्य॒ज्ञेन॑ कल्पताँ॒ स्व᳖र्य॒ज्ञेन॑ कल्पतां पृ॒ष्ठं य॒ज्ञेन॑ कल्पतां य॒ज्ञो य॒ज्ञेन॑ कल्पताम्। स्तोम॑श्च॒ यजु॑श्च॒ऽऋक् च॒ साम॑ च बृ॒हच्च॑ रथन्त॒रञ्च॑। स्व॑र्देवाऽअगन्मा॒मृता॑ऽअभूम प्र॒जाप॑तेः प्र॒जाऽअ॑भूम॒ वेट् स्वाहा॑ ॥२९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आयुः॑। य॒ज्ञेन॑। क॒ल्प॒ता॒म्। प्रा॒णः। य॒ज्ञेन॑। क॒ल्प॒ता॒म्। चक्षुः॑। य॒ज्ञेन॑। क॒ल्प॒ता॒म्। श्रोत्र॑म्। य॒ज्ञेन॑। क॒ल्प॒ता॒म्। वाक्। य॒ज्ञेन॑। क॒ल्प॒ता॒म्। मनः॑। य॒ज्ञेन॑। क॒ल्प॒ता॒म्। आ॒त्मा। य॒ज्ञेन॑। क॒ल्प॒ता॒म्। ब्र॒ह्मा। य॒ज्ञेन॑। क॒ल्प॒ता॒म्। ज्योतिः॑। य॒ज्ञेन॑। क॒ल्प॒ता॒म्। स्वः᳖। य॒ज्ञेन॑। क॒ल्प॒ता॒म्। पृ॒ष्ठम्। य॒ज्ञेन॑। क॒ल्प॒ता॒म्। य॒ज्ञः। य॒ज्ञेन॑। क॒ल्प॒ता॒म्। स्तोमः॑। च॒। यजुः॑। च॒। ऋक्। च॒। साम॑। च॒। बृ॒हत्। च॒। र॒थ॒न्त॒रमिति॑ रथम्ऽत॒रम। च॒। स्वः᳖। दे॒वाः॒। अ॒ग॒न्म॒। अ॒मृताः॑। अ॒भू॒म॒। प्र॒जाप॑ते॒रिति॑ प्र॒जाऽप॑तेः। प्र॒जा इति॑ प्र॒ऽजाः। अ॒भू॒म॒। वेट्। स्वाहा॑। २९।
महीधरः
म० कल्पहोमः कल्पतामिति लिङ्गात् । ‘अथ कल्पाञ्जुहोति’ (९।३ । ३ । १२) इति श्रुतेः । यज्ञेन निमित्तेनायुर्जीवनकालः कल्पतां साध्यतां प्राप्यताम् । प्राणचक्षुःश्रोत्रवाङ्मनांसि मम यज्ञेन क्लृप्तानि भवन्तु । आत्मा देहः ‘आत्मेन्द्रियमनोयुक्तो भोक्तेत्याहुर्मनीषिणः’ इति स्मृतेः । ब्रह्मा वेदो यज्ञेन कल्पताम् । ज्योतिः स्वयंप्रकाशः परमात्मा यज्ञेन साध्यताम् । पुण्यकर्मानुष्ठानं परमात्मज्ञाने करणम् । ‘ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन’ (१४ । ७।२। २४ ) इति श्रुतेः । ‘कर्मणैव हि संसिद्धिमास्थिता जनकादयः’ (गीता० ३ । २०) इति स्मृतेश्च । स्वः स्वर्गः । पृष्ठं स्तोत्रं स्वर्गस्थानं वा कल्पताम् । यज्ञो यज्ञेनैव क्लृप्तो भवतु नाहं यज्ञक्लृप्तौ समर्थः । ‘यज्ञेन यज्ञमयजन्त’ देवाः (अ० १३ क. १६) इति श्रुतेः । किंच स्तोमयजुर्ऋक्सामबृहद्रथन्तराणि च यज्ञेन क्लृप्तानि भवन्त्वित्यनुषङ्गः । स्तोमस्त्रिवृत्पञ्चदशादिः यजुरनियतपादो मन्त्रः । ऋक् नियतपादा। साम गीतिप्रधानम् । बृहद्रथन्तरे तद्विशेषौ । वसोर्धारयैवमग्निमभिषिच्यात्मानं यजमानः प्रशंसति । वयं यजमाना देवा भूत्वा स्वः स्वर्गमगन्म गतवन्तः । गमेर्लङि शब्लोपे मस्य नत्वे रूपम् । गत्वा चामृता अमरणधर्मिणोऽभूम भूताः । भवतेर्लुङि रूपम् । ततः प्रजापतेर्हिरण्यगर्भस्य प्रजा अभूमेति फलवचनम् । अनेन वसोर्धारायाः सर्वकामप्राप्तिहेतुत्वमुक्तम् । वेट्स्वाहेति वसोर्धाराहोमार्थो मन्त्रः । वेडिति वषट्कारः । ‘वषट्कारो हैष परोऽक्षं यद्वेट्कारो वषट्कारेण वा वै स्वाहाकारेण वा देवेभ्योऽन्नं प्रदीयते’ (९ । ३ । ३ । १४ ) इति श्रुतेः ॥ २९ ॥
इति वसोर्धाराहोममन्त्राः समाप्ताः ॥
त्रिंशी।
अधिमन्त्रम् (VC)
- यज्ञानुष्ठातात्मा देवता
- देवा ऋषयः
- स्वराड्विकृतिः
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
अब क्या-क्या यज्ञ की सिद्धि के लिये युक्त करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य ! तेरे प्रजाजनों के स्वामी होने के लिये (आयुः) जिससे जीवन होता है, वह आयुर्दा (यज्ञेन) परमेश्वर और अच्छे महात्माओं के सत्कार से (कल्पताम्) समर्थ हो, (प्राणः) जीवन का हेतु प्राणवायु (यज्ञेन) सङ्ग करने से (कल्पताम्) समर्थ होवे, (चक्षुः) नेत्र (यज्ञेन) परमेश्वर वा विद्वान् के सत्कार से (कल्पताम्) समर्थ हों, (श्रोत्रम्) कान (यज्ञेन) ईश्वर वा विद्वान् के सत्कार से (कल्पताम्) समर्थ हों, (वाक्) वाणी (यज्ञेन) ईश्वर वा विद्वान् के सत्कार से (कल्पताम्) समर्थ हों (मनः) संकल्पविकल्प करनेवाला मन (यज्ञेन) ईश्वर वा विद्वान् के सत्कार (कल्पताम्) समर्थ हो, (आत्मा) जो कि शरीर इन्द्रिय तथा प्राण आदि पवनों को व्याप्त होता है, वह आत्मा (यज्ञेन) ईश्वर वा विद्वान् के सत्कार (कल्पताम्) समर्थ हो, (ब्रह्मा) चारों वेदों का जाननेवाला विद्वान् (यज्ञेन) ईश्वर वा विद्वान् के सत्कार से (कल्पताम्) समर्थ हो, (ज्योतिः) न्याय का प्रकाश (यज्ञेन) ईश्वर वा विद्वान् के सत्कार से (कल्पताम्) समर्थ हो, (स्वः) सुख (यज्ञेन) ईश्वर वा विद्वान् के सत्कार से (कल्पताम्) समर्थ हो, (पृष्ठम्) जानने की इच्छा (यज्ञेन) पठनरूप यज्ञ से (कल्पताम्) समर्थ हो, (यज्ञः) पाने योग्य धर्म (यज्ञेन) सत्यव्यवहार से (कल्पताम्) समर्थ हो, (स्तोमः) जिसमें स्तुति होती है, वह अथर्ववेद (च) और (यजुः) जिससे जीव सत्कार आदि करता है, वह यजुर्वेद (च) और (ऋक्) स्तुति का साधक ऋग्वेद (च) और (साम) सामवेद (च) और (बृहत्) अत्यन्त बड़ा वस्तु (च) और सामवेद का (रथन्तरम्) रथन्तर नामवाला स्तोत्र (च) भी ईश्वर वा विद्वा्न के सत्कार से समर्थ हो। हे (देवाः) विद्वानो ! जैसे हम लोग (अमृताः) जन्म-मरण के दुःख से रहित हुए (स्वः) मोक्षसुख को (अगन्म) प्राप्त हों तथा (प्रजापतेः) समस्त संसार के स्वामी जगदीश्वर की (प्रजाः) पालने योग्य प्रजा (अभूम) हों तथा (वेट्) उत्तम क्रिया और (स्वाहा) सत्यवाणी से युक्त (अभूम) हों, वैसे तुम भी होओ ॥२९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। यहाँ पूर्व मन्त्र से (ते, आधिपत्याय) इन दो पदों की अनुवृत्ति आती है। मनुष्य धार्मिक विद्वान् जनों के अनुकरण से यज्ञ के लिये सब समर्पण कर परमेश्वर और राजा को न्यायाधीश मान के न्यायपरायण होकर निरन्तर सुखी हों ॥२९ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ किं किं यज्ञसिद्धये नियोजनीयमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य ! ते तव प्रजानामाधिपत्यायायुर्यज्ञेन कल्पताम्, प्राणो यज्ञेन कल्पताम्, चक्षुर्यज्ञेन कल्पताम्, श्रोत्रं यज्ञेन कल्पताम्, वाग्यज्ञेन कल्पताम्, मनो यज्ञेन कल्पताम्, आत्मा यज्ञेन कल्पताम्, ब्रह्मा यज्ञेन कल्पताम्, ज्योतिर्यज्ञेन कल्पताम्, स्वर्यज्ञेन कल्पताम्, पृष्ठं यज्ञेन कल्पताम्, यज्ञो यज्ञेन कल्पताम्, स्तोमश्च यजुश्च ऋक् च साम च बृहच्च रथन्तरं च यज्ञेन कल्पताम्। हे देवा विद्वांसो यथा वयममृताः स्वरगन्म प्रजापतेः प्रजा अभूम वेट् स्वाहायुक्ताश्चाभूम, तथा यूयमपि भवत ॥२९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। पूर्वमन्त्रात् (ते, आधिपत्याय) इति पदद्वयमनुवर्त्तते। मनुष्या धार्मिकविद्वदनुकरणेन यज्ञाय सर्वं समर्प्य परमेश्वरं न्यायाधीशं राजानं च मत्वा सततं न्यायपरायणा भूत्वा सुखिनः स्युः ॥२९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. येथे पूर्वीच्या मंत्राने (ते, आधिपत्याय) या दोन पदांची अनुवृत्ती होते. माणसांनी धार्मिक विद्वान लोकांचे अनुकरण करून समर्पणवृत्तीने यज्ञ करावा. परमेश्वर व राजाला न्यायाधीश मानून न्यायपरायण बनावे व सदैव सुखी व्हावे.
३० वाजस्य नु
विश्वास-प्रस्तुतिः ...{Loading}...
वाज॑स्य॒ नु प्र॑स॒वे मा॒तरं॑ म॒हीमदि॑तिं॒ नाम॒ वच॑सा करामहे। यस्या॑मि॒दं विश्वं॒ भुव॑नमावि॒वेश॒ तस्यां॑ नो दे॒वः स॑वि॒ता धर्म॑ साविषत् ॥३० ॥
मूलम् ...{Loading}...
वाज॑स्य॒ नु प्र॑स॒वे मा॒तरं॑ म॒हीमदि॑तिं॒ नाम॒ वच॑सा करामहे। यस्या॑मि॒दं विश्वं॒ भुव॑नमावि॒वेश॒ तस्यां॑ नो दे॒वः स॑वि॒ता धर्म॑ साविषत् ॥३० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वाज॑स्य। नु। प्र॒स॒वे इति॑ प्रऽस॒वे। मा॒तर॑म्। म॒हीम्। अदि॑तिम्। नाम॑। वच॑सा। का॒रा॒म॒हे॒। यस्या॑म्। इ॒दम्। विश्व॑म्। भुव॑नम्। आ॒वि॒वेशेत्याऽवि॒वेश॑। तस्या॑म्। नः॒। दे॒वः। स॒वि॒ता। धर्म॑। सा॒वि॒ष॒त्। ३०।
महीधरः
म० ‘वपावत्संभृत्य चमसवत्स्रुवेण वाजपेयिकानि वाजस्येममिति आग्निकानि च वाजस्य न्विति’ (का० १८ । ५। ४।५)। क्षेत्रवपनवत्सर्वोषधमौदुम्बरे चमसे संभृत्य तस्मात्सर्वोषधाच्चमसवत्स्रुवेणेत्यौदुम्बरेण चतुष्कोणपुष्करेण स्रुवेण वाजस्येमं प्रसव इति सप्तमन्त्रैः ( ९ । २३-३०) सप्त वाजपेयसंबन्धीनि वाजप्रसवीयानि हुत्वा वाजस्य नु प्रसवे इत्यादिसप्तमन्त्रैः प्रतिमन्त्रमाग्निकानि सप्त वाजप्रसवीयानि । तस्मादेव सर्वोषधात्तेनैव स्रुवेण जुहोतीति सूत्रार्थः ॥ व्याख्याता ( अ० ९ । क० ५) ॥ ३० ॥
एकत्रिंशी।
अधिमन्त्रम् (VC)
- राज्यवानात्मा देवता
- देवा ऋषयः
- स्वराड् जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को कैसे किसकी उपासना करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (वाजस्य) विविध प्रकार के उत्तम अन्न के (प्रसवे) उत्पन्न करने में (नु) ही वर्त्तमान हम लोग (मातरम्) मान्य की हेतु (अदितिम्) कारणरूप से नित्य (महीम्) भूमि को (नाम) प्रसिद्धि में (वचसा) वाणी से (करामहे) युक्त करें (यस्याम्) जिस पृथिवी में (इदम्) यह प्रत्यक्ष (विश्वम्) समस्त (भुवनम्) स्थूल जगत् (आविवेश) व्याप्त है, (तस्याम्) उस पृथिवी में (सविता) समस्त ऐश्वर्ययुक्त (देवः) शुद्धस्वरूप ईश्वर (न) हमारी (धर्म) उत्तम कर्मों की धारणा को (साविषत्) उत्पन्न करे ॥३० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जिस जगदीश्वर ने सब का आधार जो भूमि बनाई, वह सब को धारण करती है, वही ईश्वर सब मनुष्यों को उपासना करने योग्य है ॥३० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्ममनुष्यैः कस्य कथमुपासना कार्येत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - वाजस्य प्रसवे नु वर्त्तमाना वयं मातरमदितिं महीं नाम वचसा करामहे, यस्यामिदं विश्वं भुवनमाविवेश, तस्यां सविता देवो नो धर्म साविषत् ॥३० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - येन जगदीश्वरेण सर्वस्याधिकरणं या भूमिर्निर्मिता सा सर्वं धरति, स एव सर्वैमनुष्यैरुपासनीयः ॥३० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्या ईश्वराने सर्वांचा आधार असलेली भूमी बनविलेली आहे ती सर्वांना धारण करते. तेव्हा तोच ईश्वर सर्वांनी उपासना करण्यायोग्य आहे.
३१ विश्वेऽअद्य मरुतो
विश्वास-प्रस्तुतिः ...{Loading}...
विश्वे॑ऽअ॒द्य म॒रुतो॒ विश्व॑ऽऊ॒ती विश्वे॑ भवन्त्व॒ग्नयः॒ समि॑द्धाः। विश्वे॑ नो दे॒वाऽअव॒साग॑मन्तु॒ विश्व॑मस्तु॒ द्रवि॑णं॒ वाजो॑ऽअ॒स्मे ॥३१ ॥
मूलम् ...{Loading}...
विश्वे॑ऽअ॒द्य म॒रुतो॒ विश्व॑ऽऊ॒ती विश्वे॑ भवन्त्व॒ग्नयः॒ समि॑द्धाः। विश्वे॑ नो दे॒वाऽअव॒साग॑मन्तु॒ विश्व॑मस्तु॒ द्रवि॑णं॒ वाजो॑ऽअ॒स्मे ॥३१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
विश्वे॑। अ॒द्य। म॒रुतः॑। विश्वे॑। ऊ॒ती। विश्वे॑। भ॒व॒न्तु॒। अ॒ग्नयः॑। समि॑द्धा॒ इति॒ सम्ऽइ॑द्धाः। विश्वे॑। नः॒। दे॒वाः। अ॒व॒सा। आ। ग॒म॒न्तु॒। विश्व॑म्। अ॒स्तु॒। द्रवि॑णम्। वाजः॑। अ॒स्मेऽइत्य॒स्मे। ३१।
महीधरः
म० लुशोधानाकदृष्टा वैश्वदेवी त्रिष्टुप् । अद्यास्मिन् दिने विश्वे सर्वे मरुतः सप्तकगणा आगमन्तु आगच्छन्तु । छत्वाभावे रूपम् । विश्वे अन्ये च सर्वे गणदेवता वसवो रुद्रा आदित्याश्च ऊती ऊत्या पूर्वसवर्णः । अनेन तर्पणेन निमित्तेनागमन्तु तृप्त्यर्थमागच्छन्त्वित्यर्थः । विश्वेदेवाः च गणदेवता नोऽस्माकमवसान्नेन हविषा निमित्तेन हविर्ग्रहणायागमन्तु । तदागमनेन च विश्वे सर्वेऽग्नयः गार्हपत्यादयः समिद्धाः सम्यग्दीप्ता भवन्तु तदर्थं होमेनेत्यर्थः । तेषां देवानां तुष्ट्या विश्वं सर्वं द्रविणं धनं गोभूहिरण्यादि वाजोऽन्नं चास्मेऽस्माकमस्तु । विभक्तेः शेआदेशः ॥ ३१ ॥
द्वात्रिंशी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- देवा ऋषयः
- निचृदार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब अगले मन्त्र में प्राणियों के कर्त्तव्य विषय को कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - इस पृथिवीं में (अद्य) आज (विश्वे) सब (मरुतः) पवन (विश्वे) सब प्राणी और पदार्थ (विश्वे) सब (समिद्धाः) अच्छे प्रकार लपट दे रहे हुए (अग्नयः) अग्नियों के समान मनुष्य लोग (नः) हमारी (ऊती) रक्षा आदि के साथ (भवन्तु) प्रसिद्ध हों, (विश्वे) सब (देवाः) विद्वान् लोग (अवसा) पालन आदि से सहित (आ, गमन्तु) आवें अर्थात् आकर हम लोगों की रक्षा करें, जिससे (अस्मे) हम लोगों के लिये (विश्वम्) समस्त (द्रविणम्) धन और (वाजः) अन्न (अस्तु) प्राप्त हो ॥३१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य आलस्य को छोड़ विद्वानों का सङ्ग कर इस पृथिवी में प्रयत्न करते हैं, वे समस्त अति उत्तम पदार्थों को पाते हैं ॥३१ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ प्राणिनां कर्त्तव्यमुपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - अस्यां पृथिव्यामद्य विश्वे मरुतो विश्वे प्राणिनः पदार्थाश्च विश्वे समिद्धा अन्य इव न ऊती भवन्तु, विश्वे देवा अवसाऽऽगमन्तु, यतोऽस्मे विश्वं द्रविणं वाजश्चास्तु ॥३१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्या आलस्यं विहाय विदुषः सङ्गत्य पृथिव्यां प्रयतन्ते, ते समग्रानुत्तमान् पदार्थान् प्राप्नुवन्ति ॥३१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या पृथ्वीवर आळस झटकून जी माणसे विद्वानांच्या संगतीने क्रियाशील बनतात. त्यांना सर्व उत्तम पदार्थ प्राप्त होतात.
३२ वाजो नः
विश्वास-प्रस्तुतिः ...{Loading}...
वाजो॑ नः स॒प्त प्र॒दिश॒श्चत॑स्रो वा परा॒वतः॑। वाजो॑ नो॒ विश्वै॑र्दे॒वैर्धन॑सातावि॒हाव॑तु ॥३२ ॥
मूलम् ...{Loading}...
वाजो॑ नः स॒प्त प्र॒दिश॒श्चत॑स्रो वा परा॒वतः॑। वाजो॑ नो॒ विश्वै॑र्दे॒वैर्धन॑सातावि॒हाव॑तु ॥३२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वाजः॑। नः॒। स॒प्त। प्र॒दिशः॒। इति॑ प्र॒दिशः॑। चत॑स्रः। वा॒। प॒रा॒वत॒ इति॑ परा॒ऽवतः॑। वाजः॑। नः॒। विश्वैः॑। दे॒वैः। धन॑साता॒विति॒ धन॑ऽसातौ। इ॒ह। अ॒व॒तु॒। ३२।
महीधरः
म० तिस्रोऽन्नदेवत्याः तत्राद्यानुष्टुप् द्वे त्रिष्टुभौ । नोऽस्माकं वाजोऽन्नं सप्त प्रदिशः भूरादिलोकत्रयं प्राच्यादिदिक्चतुष्कम् परावतः दूरस्थाश्चतस्रश्च महर्जनतपःसत्याख्याश्चापूरयत्विति शेषः । वाशब्दश्चार्थः । यद्वा अस्माकं वाजोऽन्नं सप्त प्रदिशश्चतस्रो महराद्याश्चावतु प्रीणातु । प्रशब्देन प्रकृष्टं लोकत्रयम् । दिशः प्राच्याद्याः । परावच्छब्दो दूरार्थः । महरादयो हि लोकत्रयमतीत्य वर्तन्ते । अस्मद्दत्तान्नेन सप्तलोका दिक्चतुष्कं च तृप्यत्वित्यर्थः । किंच धनसातौ ‘षण संभक्तौ क्तिन्नन्तो निपातः । धनस्य सातौ संभजनकाले प्राप्ते वाजोऽन्नं नोऽस्मान् विश्वैर्देवैः सहावतु पालयतु । इहास्मिन् लोके यज्ञे वा यदास्माकं धनेच्छा जायते तदा देवतर्पणक्षमं बह्वन्नमस्त्विति वाक्यार्थः ॥ ३२ ॥
त्रयस्त्रिंशी।
अधिमन्त्रम् (VC)
- अन्नवान् विद्वान् देवता
- देवा ऋषयः
- निचृदार्ष्यनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब विद्वान् और प्रजाजन कैसे वर्त्तें, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वानो ! जैसे (विश्वैः) सब (देवैः) विद्वानों के साथ (वाजः) अन्नादि (इह) इस लोक में (धनसातौ) धन के विभाग करने में (नः) हम लोगों को (अवतु) प्राप्त होवे (वा) अथवा (नः) हम लोगों का (वाजः) शास्त्रज्ञान और वेग (सप्त) सात (प्रदिशः) जिनका अच्छे प्रकार उपदेश किया जाय, उन लोक-लोकान्तरों वा (परावतः) दूर-दूर जो (चतस्रः) पूर्व आदि चार दिशा उनको पाले अर्थात् सब पदार्थों की रक्षा करे, वैसे इनकी रक्षा तुम भी निरन्तर किया करो ॥३२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि बहुत अन्न से अपनी रक्षा तथा इस पृथिवी पर सब दिशाओं में अच्छी कीर्त्ति हो, इस प्रकार सत्पुरुषों का सन्मान किया करें ॥३२ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ विद्वान् प्रजाश्च कथं वर्त्तेरन्नित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वांसो यथा विश्वैर्देवैः सह वर्त्तमानो वाज इह धनसातौ नोऽवतु वा, नो वाजः सप्त प्रदिशः परावतश्चतस्रो दिशोऽवतु, तथैता यूयं सततं रक्षत ॥३२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैः पुष्कलान्नेन स्वेषां पालनमस्यां पृथिव्यां सर्वासु दिक्षु सत्कीर्त्तिः स्यादिति सज्जना आदर्त्तव्याः ॥३२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - आपले रक्षण व्हावे म्हणून माणसांनी भरपूर अन्न प्राप्त करावे, तसेच या पृथ्वीवर सर्व दिशांना आपली कीर्ती पसरावी यासाठी सत्पुरुषांचा सन्मान करावा.
३३ वाजो नोऽअद्य
विश्वास-प्रस्तुतिः ...{Loading}...
वाजो॑ नोऽअ॒द्य प्र सु॑वाति॒ दानं॒ वाजो॑ दे॒वाँ२ऽऋ॒तुभिः॑ कल्पयाति। वाजो॒ हि मा सर्व॑वीरं ज॒जान॒ विश्वा॒ऽआशा॒ वाज॑पतिर्जयेयम् ॥३३ ॥
मूलम् ...{Loading}...
वाजो॑ नोऽअ॒द्य प्र सु॑वाति॒ दानं॒ वाजो॑ दे॒वाँ२ऽऋ॒तुभिः॑ कल्पयाति। वाजो॒ हि मा सर्व॑वीरं ज॒जान॒ विश्वा॒ऽआशा॒ वाज॑पतिर्जयेयम् ॥३३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वाजः॑। नः॒। अ॒द्य। प्र। सु॒वा॒ति॒। दान॑म्। वाजः॑। दे॒वान्। ऋ॒तुभि॒रित्यृ॒तुऽभिः॑। क॒ल्प॒या॒ति॒। वाजः॑। हि। मा। सर्व॑वीर॒मिति॒ सर्व॑ऽवीरम्। ज॒जान॑। विश्वाः॑। आशाः॑। वाज॑पति॒रिति॒ वाज॑ऽपतिः। ज॒ये॒य॒म्। ३३।
महीधरः
म० अद्यास्मिन्दिने वाजोऽन्नमन्नाधिष्ठात्री देवता नोऽस्मान् प्रसुवाति प्रेरयतु अनुजानातु । दानार्थमिति शेषः। अन्नदानेच्छास्माकं भवत्वित्यर्थः । वाजः ऋतुभिः कालैः सह देवान् कल्पयाति यथास्थानं कल्पयतु । ‘लेटोऽडाटौ’ यस्मिन् काले यो देवो यष्टव्यस्तं तत्र यजत्वित्यर्थः । हि चकारार्थः । वाजश्व मा मां सर्ववीरं सर्वे वीराः पुत्रपौत्रादयो यस्य स सर्ववीरस्तादृशं जजान जनयतु । ‘छन्दसि लुङ्लङ्लिटः’ पुत्रादियुतं मां करोत्वित्यर्थः । ततो वाजपतिः समृद्धान्नः सन्नहं विश्वा आशाः सर्वा दिशो जयेयम् । अन्नदानेन सर्वा दिशो वशीकुर्यामित्यर्थः ॥ ३३ ॥
चतुस्त्रिंशी।
उ० वाजः पुरस्तात् । वाजः अन्नं पुरस्तात् अस्त्विति वाक्यशेषः । उत मध्यतो नः अस्माकमस्तु वाजः । वाजश्च देवान्हविषा वर्धयाति वर्धयतु । अस्माकम् वाजश्च मां सर्ववीरं च करोतु । ततः सर्वा आशा दिशः वाजपतिः सन् भवेयम् । दिग्रूपतया व्यापकता प्रार्थ्यते ॥ ३४ ॥
अधिमन्त्रम् (VC)
- अन्नपतिर्देवता
- देवा ऋषयः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को क्या-क्या चाहने योग्य है, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (अद्य) आज जो (वाजः) अन्न (नः) हमारे लिये (दानम्) दान=दूसरे को देना (प्रसुवाति) चितावे और (वाजः) वेगरूप गुण (ऋतुभिः) वसन्त आदि ऋतुओं से (देवान्) अच्छे-अच्छे गुणों को (कल्पयाति) प्राप्त होने में समर्थ करे वा जो (हि) ही (वाजः) अन्न (सर्ववीरम्) सब वीर जिससे हों, ऐसे अति बलवान् (मा) मुझ को (जजान) प्रसिद्ध करे, उससे ही मैं (वाजपतिः) अन्नादि का अधिष्ठाता होकर (विश्वाः) समस्त (आशाः) दिशाओं को (जयेयम्) जीतूँ, वैसे तुम भी जीता करो ॥३३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जितने इस पृथिवी पर पदार्थ हैं, उन सबों में अन्न ही अत्यन्त प्रशंसा के योग्य है, क्योंकि अन्नवान् पुरुष सब जगह विजय को प्राप्त होता है ॥३३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैः किं किमभीप्सितव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! ययाऽद्य यद्वाजो नो दानं प्रसुवाति, वाज ऋतुभिर्देवान् कल्पयाति, यद्धि वाजः सर्ववीरं मा जजान, तेनाहं वाजपतिर्भूत्वा विश्वा आशा जयेयम्, तथा यूयमपि जयत ॥३३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यावन्तीह खलु वस्तूनि सन्ति, तावतामन्नमेव श्रेष्ठमस्ति, यतोऽन्नवान् सर्वत्र विजयी जायते ॥३३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - पृथ्वीवर जितके पदार्थ आहेत त्यापैकी अन्न हा अत्यंत उत्कृष्ट व प्रशंसनीय पदार्थ आहे. त्यामुळे ज्याच्याजवळ अन्न असते असा माणून सर्वत्र विजय प्राप्त करतो.
३४ वाजः पुरस्तादुत
विश्वास-प्रस्तुतिः ...{Loading}...
वाजः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नो॒ वाजो॑ दे॒वान् ह॒विषा॑ वर्द्धयाति। वाजो॒ हि मा॒ सर्व॑वीरं च॒कार॒ सर्वा॒ऽआशा॒ वाज॑पतिर्भवेयम् ॥३४ ॥
मूलम् ...{Loading}...
वाजः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नो॒ वाजो॑ दे॒वान् ह॒विषा॑ वर्द्धयाति। वाजो॒ हि मा॒ सर्व॑वीरं च॒कार॒ सर्वा॒ऽआशा॒ वाज॑पतिर्भवेयम् ॥३४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वाजः॑। पु॒रस्ता॑त्। उ॒त। म॒ध्य॒तः। नः॒। वाजः॑। दे॒वान्। ह॒विषा॑। व॒र्द्ध॒या॒ति॒। वाजः॑। हि। मा॒। सर्व॑वीर॒मिति॒ सर्व॑ऽवीरम्। च॒कार॑। सर्वाः॑। आशाः॑। वाज॑पति॒रिति॒ वाज॑ऽपतिः। भ॒वे॒य॒म्। ३४।
महीधरः
म० वाजोऽन्नं नोऽस्माकं पुरस्तादस्तु । उतापि च नोऽस्माकं मध्यतो गृहमध्ये च वाजोऽस्तु । नोऽस्माकं वाजो हविषां कृत्वा देवान्वर्धयाति वर्धयतु पुष्णातु । हि चार्थे । वाजो मा सर्ववीरं पुत्रादियुतं चकार करोतु । वाजपतिरन्नपालकः सन्नहं विश्वा आशाः सर्वा दिशो भवेयम् । दिग्रूपतया व्यापकता प्रार्थ्यते । यद्वा विश्वा आशा भवेयं प्राप्नुयाम् । वशीकुर्यामित्यर्थः । । भू प्राप्तौ ॥ ३४ ॥
पञ्चत्रिंशी।
अधिमन्त्रम् (VC)
- अन्नपतिर्देवता
- देवा ऋषयः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अन्न ही सब की रक्षा करता है, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (वाजः) अन्न (हविषा) देने-लेने और खाने से (पुरस्तात्) पहिले (उत) और (मध्यतः) बीच में (नः) लोगों को (वर्द्धयाति) बढ़ावे तथा जो (वाजः) अन्न (देवान्) दिव्यगुणों को बढ़ावे जो (हि) ही (वाजः) अन्न (मा) मुझ को (सर्ववीरम्) जिससे समस्त वीर पुरुष होते हैं, ऐसा (चकार) करता है, उससे मैं (वाजपतिः) अन्न आदि पदार्थों की रक्षा करनेवाला (भवेयम्) होऊँ और (सर्वाः) सब (आशाः) दिशाओं को जीतूँ ॥३४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अन्न ही सब प्राणियों को बढ़ाता है, अन्न से ही प्राणी सब दिशाओं में भ्रमते हैं, अन्न के विना कुछ भी नहीं कर सकते ॥३४ ॥
दयानन्द-सरस्वती (सं) - विषयः
अन्नमेव सर्वान् पालयतीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यद्वाजो हविषा पुरस्तादुत मध्यतो नो वर्द्धयाति, यद्वाजो देवाँश्च वर्द्धयाति, यद्धि वाजो मा सर्ववीरं चकार, तेनाहं वाजपतिर्भवेयम्, सर्वा आशा जयेयं च ॥३४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अन्नमेव सर्वान् प्राणिनो वर्द्धयति, अन्नेनैव प्राणिनः सर्वासु दिक्षु भ्रमन्ति, अनेन विना किमपि कर्तुं न शक्नुवन्ति ॥३४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - अन्नामुळेच सर्व प्राण्यांची वाढ होते. अन्नासाठीच सर्व प्राणी चहुकडे भ्रमंती करतात. अन्नाशिवाय ते काहीच करू शकत नाही.
३५ सं मा
विश्वास-प्रस्तुतिः ...{Loading}...
सं मा॑ सृजामि॒ पय॑सा पृथि॒व्याः सं मा॑ सृजाम्य॒द्भिरोष॑धीमिः। सो॒ऽहं वाजँ॑ सनेयमग्ने ॥३५ ॥
मूलम् ...{Loading}...
सं मा॑ सृजामि॒ पय॑सा पृथि॒व्याः सं मा॑ सृजाम्य॒द्भिरोष॑धीमिः। सो॒ऽहं वाजँ॑ सनेयमग्ने ॥३५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सम्। मा। सृ॒जा॒मि॒। पय॑सा। पृ॒थि॒व्याः। सम्। मा। सृ॒जा॒मि। अ॒द्भिरित्य॒त्ऽभिः। ओष॑धीभिः। सः। अ॒हम्। वाज॑म्। स॒ने॒य॒म्। अ॒ग्ने॒। ३५।
महीधरः
म०. द्वे विराजौ । दशकास्त्रयो विराडेकादशका वेत्युक्तेरेकादशाक्षरत्रिपादा विराट् । तृतीयो व्यूहेन दशकस्तेनैकोना। सोऽहमिति तच्छब्दश्रवणाद्यदोऽध्याहारः । हे अग्ने, योऽहं पृथिव्याः पयसा पृथिवीसंबन्धिरसेन मामात्मानं संसृजामि संयोजयामि । अद्भिरोषधीभिश्च मां संसृजामि । सोऽहं संसृष्टपयोऽबोषधिशरीरः सन् । वाजमन्नं सनेयं संभजेयम् । यद्वा व्यत्ययेनास्मच्छब्दस्य युष्मदादेशः । हे अग्ने, योऽहं त्वं पृथिव्याः पयसाद्भिरोषधीभिश्च त्वां संसृजामि होमेन सोऽहं वाजं सनेयम् ॥ ३५॥
षट्त्रिंशी।
अधिमन्त्रम् (VC)
- रसविद्याविद्विद्वान् देवता
- देवा ऋषयः
- विराडार्ष्यनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्य क्या करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) रसविद्या के जाननेहारे विद्वन् ! जो मैं (पृथिव्याः) पृथिवी के (पयसा) रस के साथ (मा) अपने को (संसृजामि) मिलाता हूँ वा (अद्भिः) अच्छे शुद्ध जल और (ओषधीभिः) सोमलता आदि ओषधियों के साथ (मा) अपने को (संसृजामि) मिलाता हूँ, (सः) सो (अहम्) मैं (वाजम्) अन्न का (सनेयम्) सेवन करूँ, इसी प्रकार तू आचरण कर ॥३५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे मनुष्यो ! जैसे मैं वैद्यक शास्त्र की रीति से अन्न और पान आदि को करके सुखी होता हूँ, वैसे तुम लोग भी प्रयत्न किया करो ॥३५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्याः किं कुर्य्युरित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने रसविद्याविद्विद्वन् ! योऽहं पृथिव्याः पयसा मा संसृजामि, अद्भिरोषधीभिः सह च मा संसृजामि, सोऽहं वाजं सनेयमेवं त्वमप्याचर ॥३५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः ! यथाऽहं वैद्यकशास्त्ररीत्याऽन्नपानादिकं कृत्वा सुखी भवामि, तथा यूयमपि प्रयतध्वम् ॥३५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे माणसांनो ! वैद्यकशास्रानुसार मी जसे अन्न, पाणी घेऊन सुखी होतो तसा प्रयत्न तुम्हीही करा.
३६ पयः पृथिव्याम्
विश्वास-प्रस्तुतिः ...{Loading}...
पयः॑ पृथि॒व्यां पय॒ऽओष॑धीषु॒ पयो॑ दि॒व्य᳙न्तरि॑क्षे॒ पयो॑ धाः। पय॑स्वतीः प्र॒दिशः॑ सन्तु॒ मह्य॑म् ॥३६ ॥
मूलम् ...{Loading}...
पयः॑ पृथि॒व्यां पय॒ऽओष॑धीषु॒ पयो॑ दि॒व्य᳙न्तरि॑क्षे॒ पयो॑ धाः। पय॑स्वतीः प्र॒दिशः॑ सन्तु॒ मह्य॑म् ॥३६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पयः॑। पृ॒थि॒व्याम्। पयः॑। ओष॑धीषु। पयः॑। दि॒वि। अ॒न्तरि॑क्षे। पयः॑। धाः॒। पय॑स्वतीः। प्र॒दिश॒ इति॑ प्र॒ऽदिशः॑। स॒न्तु॒। मह्य॑म्। ३६।
महीधरः
म० हे अग्ने, त्वं पृथिव्यां पयो रसं धाः धेहि स्थापय । दधातेर्लुङि मध्यमैकवचने रूपम् । ‘बहुलं छन्दस्यमाङ्योगेऽपि’ (पा० ६ । ४ । ७५) इत्यडभावः । ओषधीषु च पयो धाः। दिवि स्वर्गे च पयो धाः। अन्तरिक्षे च पयो धाः । किंच मह्यं मदर्थे प्रदिशः दिशो विदिशश्च पयस्वतीः पयस्वत्यो रसयुताः सन्तु । आहुतिपरिणामेन पृथिव्यादयो ममाभीष्टदा भवन्त्वित्यर्थः ॥ ३६ ॥
सप्तत्रिंशी।
अधिमन्त्रम् (VC)
- रसविद्विद्वान् देवता
- देवा ऋषयः
- आर्ष्यनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्य जल के रस को जाननेवाले हों, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् ! तू (पृथिव्याम्) पृथिवी पर जिस (पयः) जल वा दुग्ध आदि के रस (ओषधीषु) ओषधियों में जिस (पयः) रस (दिवि) शुद्ध निर्मल प्रकाश वा (अन्तरिक्षे) सूर्य और पृथिवी के बीच में जिस (पयः) रस को (धाः) धारण करता है, उस सब (पयः) जल वा दुग्ध के रस को मैं भी धारण करूँ, जो (प्रदिशः) दिशा-विदिशा (पयस्वतीः) बहुत रसवाली तेरे लिये (सन्तु) हों, वे (मह्यम्) मेरे लिये भी हों ॥३६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य बल आदि पदार्थों से युक्त पृथिवी आदि से उत्तम अन्न और रसों का संग्रह करके खाते और पीते हैं, वे नीरोग होकर सब विद्याओं में कार्य की सिद्धि कर तथा जा आ सकते और बहुत आयुवाले होते हैं ॥३६ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्या जलरसविदः स्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वंस्त्वं पृथिव्यां यत्पय ओषधीषु यत्पयो दिव्यन्तरिक्षे यत्पयो धास्तत्सर्वं पयोऽहमपि धरामि। याः प्रदिशः पयस्वतीस्तुभ्यं सन्तु, ता मह्यमपि भवन्तु ॥३६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्या जलादिसंयुक्तेभ्यः पृथिव्यादिभ्य उत्तमान्नान् रसांश्च संगृह्य खादन्ति पिबन्ति च, तेऽरोगा भूत्वा सर्वासु दिक्षु कार्यं साद्धुं गन्तुमागन्तुं वा शक्नुवन्ति, दीर्घायुषश्च जायन्ते ॥३६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे जलांनीयुक्त असलेल्या पृथ्वीवरील उत्तम अन्न व (जल, दुग्ध वगैरे) रसांचा संग्रह करून खान, पान करतात ती निरोगी बनतात. अशी माणसे दशदिशांना जाणे-येणे करून कार्य सिद्ध करू शकतात व दीर्घायू बनतात.
३७ देवस्य त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वस्य॑ त्वा सवि॒तुः प्रस॑वे᳙ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम्। सर॑स्वत्यै वा॒चो य॒न्तुर्य॒न्त्रेणा॒ग्नेः साम्रा॑ज्येना॒भिषि॑ञ्चामि ॥३७ ॥
मूलम् ...{Loading}...
दे॒वस्य॑ त्वा सवि॒तुः प्रस॑वे᳙ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम्। सर॑स्वत्यै वा॒चो य॒न्तुर्य॒न्त्रेणा॒ग्नेः साम्रा॑ज्येना॒भिषि॑ञ्चामि ॥३७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दे॒वस्य॑। त्वा॒। स॒वि॒तुः। प्र॒स॒वे इति॑ प्र॒ऽस॒वे। अ॒श्विनोः॑। बा॒हुभ्या॒मिति॑ बा॒हुऽभ्या॑म्। पू॒ष्णः। हस्ता॑भ्याम्। सर॑स्वत्यै। वा॒चः। य॒न्तुः। य॒न्त्रेण॑ अग्नेः॑। साम्रा॑ज्ये॒नेति॒ साम्ऽरा॑ज्येन। अ॒भिषि॑ञ्चामीत्य॒भिऽसि॑ञ्चामि। ३७।
महीधरः
म० ‘स्रुवं प्रास्य परिश्रित्स्पृक् कृष्णाजिनमास्तीर्य पुच्छादुत्तरᳪं᳭ शेषेऽपः कृत्वाभिषेकसामर्थ्यात् क्षीरोदके वा वाजपेयिकानीति श्रुतेस्तत्राभिषिच्यते ब्रह्मवर्चसकामश्चित्यन्वारब्धो देवस्य त्वेति’ (का. १८।५।६-९) । अस्यार्थः । कर्मापवर्गे औदुम्बरं चतुष्कोणं स्रुवमाहवनीये प्रक्षिप्याग्निपुच्छादुत्तरदिशि परिश्रित्संलग्नं प्राग्ग्रीवमुत्तरलोम कृष्णाजिनमास्तीर्य तत्र स्थितो ब्रह्मवर्चसकामो यजमानश्चयनकृतान्वारम्भोऽध्वर्युणा सर्वोषधशेषेणाभिषिच्यते । किं कृत्वा । सर्वौषधशेषेऽपो जलानि कृत्वा । अभिषेकस्यैव द्रव्यसाध्यत्वात् अयं पूर्वपक्षः । सिद्धान्तमाह क्षीरोदके वेति । वा पूर्वपक्षनिरासे । ‘शेषे जलसेको न यतस्तत्र क्षीरोदके विद्येते वाजपेयिकानि’ (९।३ । ४ । ७।) इति श्रुतेः । अत्र वाजपेयसंबन्धीनि वाजप्रसवीयानि श्रूयन्ते तत्रोदकक्षीरे स्त एव । औदुम्बरे पात्रेऽप आसिच्य पयश्चेत्युक्तेः (कात्या० १४ । ५। १६)। अतस्तस्मिन्मिश्रेणैवाभिषेको न जलसेक इत्यर्थः । देवस्य त्वा । व्याख्यातम् । सरस्वत्यै लिङ्गोक्तदेवतं यजुः । सरस्वत्यै षष्ठ्यर्थे | चतुर्थी । सरस्वतीसंबन्धिन्या वाचो वाण्या यन्तुर्नियन्तुः प्रजापतेः यन्त्रेण नियमेन अग्नेश्च साम्राज्येन चक्रवर्तित्वेन हे यजमान, त्वामभिषिञ्चामि । मत्कृताभिषेकेण वाक्सिद्धिरैश्वर्यं साम्राज्यं च तव संपद्यन्तामित्यर्थः ॥ ३७॥
अष्टत्रिंशी।
अधिमन्त्रम् (VC)
- सम्राड् राजा देवता
- देवा ऋषयः
- आर्षी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्य कैसे को राजा मानें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् राजन् ! जैसे मैं (त्वा) आप को (सवितुः) सकल ऐश्वर्य की प्राप्ति करानेहारा जो (देवस्य) आप ही प्रकाश को प्राप्त परमेश्वर उसके (प्रसवे) उत्पन्न किये हुए जगत् में (अश्विनोः) सूर्य और चन्द्रमा के प्रताप और शीतलपन के समान (बाहुभ्याम्) भुजाओं से (पूष्णः) पुष्टि करनेवाले प्राण के धारण और खींचने के समान (हस्ताभ्याम्) हाथों से (सरस्वत्यै) विज्ञानवाली (वाचः) वाणी के (यन्तुः) नियम करनेवाले (अग्नेः) बिजुली आदि अग्नि की (यन्त्रेण) कारीगरी से उत्पन्न किये हुए (साम्राज्येन) सब भूमि के राजपन से (अभिषिञ्चामि) अभिषेक करता हूँ, वैसे आप सुख से मेरा अभिषेक करें ॥३७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को चाहिये कि समस्त विद्या के जाननेहारे होके सूर्य आदि के गुण-कर्म सदृश स्वभाववाले पुरुष को राजा मानें ॥३७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्याः कीदृशं राजानं मन्येरन्नित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् राजन् ! यथाऽहं त्वा सवितुर्देवस्य प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां सरस्वत्यै वाचो यन्तुरग्नेर्यन्त्रेण साम्राज्येनाभिषिञ्चामि तथा भवान् सुखेन मामभिषिञ्चतु ॥३७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैः सर्वविद्याविद्भिर्भूत्वा त्वा सूर्यादिगुणकर्मसदृशस्वभावो राजा मन्तव्यः ॥३७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. माणसांनी सर्व विद्या जाणाव्या व सूर्याप्रमाणे तेजस्वी गुण, कर्म, स्वभाव असणाऱ्या पुरुषाला राजा बनवावे.
३८ ऋताषाडृतधामाग्निर्गन्धर्वस्तस्यौषधयोऽप्सरसो मुदो
विश्वास-प्रस्तुतिः ...{Loading}...
ऋ॒ता॒षाडृ॒तधा॑मा॒ग्निर्ग॑न्ध॒र्वस्तस्यौष॑धयोऽप्स॒रसो॒ मुदो॒ नाम॑। स न॑ऽइ॒दं ब्रह्म क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्यः॒ स्वाहा॑ ॥३८ ॥
मूलम् ...{Loading}...
ऋ॒ता॒षाडृ॒तधा॑मा॒ग्निर्ग॑न्ध॒र्वस्तस्यौष॑धयोऽप्स॒रसो॒ मुदो॒ नाम॑। स न॑ऽइ॒दं ब्रह्म क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्यः॒ स्वाहा॑ ॥३८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ऋ॒ता॒षा॒ट्। ऋ॒तधा॒मेत्यृ॒तऽधा॑मा। अ॒ग्निः। ग॒न्ध॒र्वः। तस्य॑। ओष॑धयः। अ॒प्स॒रसः॑। मुदः॑। नाम॑। सः। नः॒। इ॒दम्। ब्रह्म॑। क्ष॒त्रम्। पा॒तु॒। तस्मै॑। स्वाहा॑। वाट्। ताभ्यः॑। स्वाहा॑। ३८।
महीधरः
म० ‘द्वादशगृहीतं विग्राहं जुहोत्यृताषाडिति’ (का. १८ । ५ । १६) प्रतिस्वाहाकारᳪं᳭ राष्ट्रभृतो वाट्कारान्तः पूर्वः पूर्वो मन्त्रः । आज्याद्द्वादशगृहीतं गृहीत्वा विभज्य द्वादशांशं कृत्वा ऋतेत्यादिद्वादशमन्त्रैः प्रतिस्वाहाकारं राष्ट्रभृत्संज्ञा आहुतीर्जुहोति । व्यतिषक्तेषु द्वादशमन्त्रेषु पूर्वो मन्त्रः स्वाहावाडित्यन्तः उत्तरस्ताभ्यः स्वाहेत्यन्तः । ततो मन्त्रे यानि पुंलिङ्गानि स न इदं ब्रह्मेत्यादीनि तानि व्यवहितपठितान्यप्यपकृष्य पठित्वा पूर्वो मन्त्रः संपाद्यः । यानि च स्त्रीलिङ्गानि तस्यौषधयोऽप्सरस इत्यादीनि तान्युत्कृष्योत्तरो मन्त्रः संपाद्य इत्यर्थः । द्वादश यजूंषि गन्धर्वाप्सरोदेवत्यानि । तत्रायं विभागः । ऋताषाडृतधामाग्निर्गन्धर्वः स न इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाडिति वाडन्तः पूर्वः पूर्वो मन्त्रः। तस्यौषधयोऽप्सरसो मुदो नाम ताभ्यः स्वाहेति स्वाहान्त उत्तर उत्तरो मन्त्रः । पूर्वो गन्धर्वदेवत्यः उत्तरोऽप्सरोदेवत्यः । एवं पञ्चकण्डिकास्वप्यग्रे मन्त्रविभागो ज्ञेयः । तथाच श्रुतिः ‘पुᳪं᳭से पूर्वस्मै जुहोत्यथ स्त्रीभ्यः पुमाᳪं᳭सं वद्वीर्येणादधात्येकस्मा इव पुᳪं᳭से जुहोति बह्वीभ्य इव स्त्रीभ्यस्तस्मादप्येकस्य पुᳪं᳭सो बह्व्यो जाया भवन्त्युभाभ्यां वाट्कारेण च स्वाहाकारेण च पुᳪं᳭से जुहोति स्वाहाकारेणैव स्त्रीभ्यः पुमाᳪं᳭समेव तद्वीर्येणादधाति’ (९।४।१।६) इति । तथा चैवमृताषाट् संहितः सुषुम्णः इषिरः भुज्युः प्रजापतिरिति षण्णां पूर्वमन्त्राणामृताषाडित्यादिनामका गन्धर्वा देवताः । तस्यौषधयः तस्य मरीचयः तस्य नक्षत्राणि तस्यापः तस्य दक्षिणाः तस्य ऋक्सामानीति षष्णामुत्तरमन्त्राणामोषध्यादिनामका अप्सरसो देवताः । अथ मन्त्रार्थः । योऽग्निर्गन्धर्वः स नोऽस्माकमिदं ब्रह्म ब्राह्मणजातिमिदं क्षत्रं क्षत्रजातिं च पातु रक्षतु । कीदृशो गन्धर्वः । ऋताषाट् ऋतं सत्यं सहत इति ऋतषाट् सत्यं सहते असत्ये कुपितो भवतीत्यर्थः । ‘सहेः साडः सः’ (पा० ८।३। ५६) इति षत्वम् । पूर्वपदस्य छान्दसो दीर्घः । तथा ऋतधामा ऋतं सत्यमविनश्वरं धाम स्थानं यस्य ऋतधामा । य ईदृशोऽग्निः तस्मै अग्नये गन्धर्वाय स्वाहा वाट् वषट्कारेण सुहुतमस्त्वित्येको मन्त्रः । तस्याग्नेर्गन्धर्वस्यौषधयो व्रीह्याद्या नाम नाम्ना अप्सरसः स्त्रीत्वेन भोग्याः । कीदृश्य ओषधयः । मुदः मोदन्ते जना याभिस्ता मुदः ‘ओषधयो वै मुद ओषधीभिहींदᳪं᳭ सर्वं मोदते’ (९।४।१।७) इति श्रुतेः ओषधयोऽग्नेर्भोग्याः । तथाच श्रुतिः ‘अग्निर्ह गन्धर्व ओषधीभिरप्सरोभिर्मिथुनेन सहोच्चक्राम’ (९ । ४।१।७) इति । ताभ्य ओषधीभ्यः स्वाहा सुहुतमस्तु ॥ ३८ ॥
एकोनचत्वारिंशी।
अधिमन्त्रम् (VC)
- ऋतुविद्याविद्विद्वान् देवता
- देवा ऋषयः
- विराडार्षी
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर राजा क्या करे, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (ऋताषाट्) सत्य व्यवहार को सहनेवाला (ऋतधामा) जिसके ठहरने के लिये ठीक-ठीक स्थान है, वह (गन्धर्वः) पृथिवी को धारण करनेहारा (अग्निः) आग के समान है, वह (तस्य) उसकी (ओषधयः) ओषधि (अप्सरसः) जो कि जलों में दौड़ती हैं, वे (मुदः) जिनमें आनन्द होता है, ऐसे (नाम) नामवाली हैं (सः) वह (नः) हम लोगों के (इदम्) इस (ब्रह्म) ब्रह्म को जाननेवालों के कुल और (क्षत्रम्) राज्य वा क्षत्रियों के कुल की (पातु) रक्षा करे, (तस्मै) उसके लिये (स्वाहा) सत्य वाणी (वाट्) जिससे कि व्यवहारों को यथायोग्य वर्त्ताव में लाता है और (ताभ्यः) उक्त उन ओषधियों के लिये (स्वाहा) सत्य क्रिया हो ॥३८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य अग्नि के समान दुष्ट शत्रुओं के कुल को दुःखरूपी अग्नि में जलानेवाला और ओषधियों के समान आनन्द का करनेवाला हो, वही समस्त राज्य की रक्षा कर सकता है ॥३८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुना राजा किं कुर्य्यादित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! य ऋताषाडृतधामा गन्धर्वोऽग्निरिवास्ति, तस्यौषधयोऽप्सरसो मुदो नाम सन्ति, स न इदं ब्रह्म क्षत्रं च पातु, तस्मै स्वाहा वाट् ताभ्यः स्वाहाऽस्तु ॥३८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यो जनोऽग्निवच्छत्रुदाहक ओषधिवदानन्दकारी भवेत्, स एव सर्वं राज्यं रक्षितुं शक्नोति ॥३८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जो माणूस दुष्ट शत्रू कुलाला दुःखरूपी अग्नीत जाळणारा व औषधा प्रमाणे इतरांना आनंद देणारा असेल तोच संपूर्ण राज्याचे रक्षण करू शकतो.
३९ संहितो विश्वसामा
विश्वास-प्रस्तुतिः ...{Loading}...
सँ॒हि॒तो वि॒श्वसा॑मा॒ सूर्यो॑ गन्ध॒र्वस्तस्य॒ मरी॑चयोऽप्स॒रस॑ऽआ॒युवो॒ नाम॑। स न॑ऽइ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्यः॒ स्वाहा॑ ॥३९ ॥
मूलम् ...{Loading}...
सँ॒हि॒तो वि॒श्वसा॑मा॒ सूर्यो॑ गन्ध॒र्वस्तस्य॒ मरी॑चयोऽप्स॒रस॑ऽआ॒युवो॒ नाम॑। स न॑ऽइ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्यः॒ स्वाहा॑ ॥३९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सँ॒हि॒त इति॑ सम्ऽहि॒तः। वि॒श्वसा॒मेति॑ वि॒श्वऽसा॑मा। सूर्यः॑। ग॒न्धर्वः॒। तस्य॑। मरी॑चयः। अ॒प्स॒रसः॑। आ॒युवः॑। नाम॑। सः। नः॒। इ॒दम्। ब्रह्म॑। क्ष॒त्रम्। पा॒तु॒। तस्मै॑। स्वाहा॑। वाट्। ताभ्यः॑। स्वाहा॑। ३९।
महीधरः
म० यः सूर्यो गन्धर्वः स नोऽस्माकमिदं ब्रह्म क्षत्रं च पातु । कीदृशः । संहितः संदधात्यहोरात्रे इति संहितः ‘असौ वा आदित्यः सᳪं᳭हितः एष ह्यहोरात्रे संदधाति’ (९।४। १।८) इति श्रुतेः । विश्वसामा विश्वानि सर्वाणि सामानि प्रतिपादकत्वेन यस्य स विश्वसामा सर्वसामरूपो वा । ‘विश्वसामेत्येष ह्येव सर्वᳪं᳭साम’ (९ । ४ । १।८) इति श्रुतेः । ‘यदेतदर्चिर्दीप्यते तन्महाव्रतं तानि सामानी’ ति च । तस्मै सूर्याय स्वाहा वाट् । तस्य सूर्यस्य मरीचयो नामाप्सरसः तेजस्त्रसरेणवः ‘सूर्यो ह गन्धर्वो मरीचिभिरप्सरोभिर्मिथुनेन सहोच्चक्राम’ (९। ४ । १।८) इति श्रुतेः। कीदृश्यो मरीचयः । आयुवः आ समन्ताद्युवन्ति मिश्रीभवन्त्यायुवः । ‘आयुवाना इव हि मरीचयः प्लवन्ते’ (९।४।१।८) इति श्रुतेः। | ताभ्यो मरीचिभ्यः स्वाहा ॥ ३९ ॥
चत्वारिंशी।
अधिमन्त्रम् (VC)
- सूर्यो देवता
- देवा ऋषयः
- भुरिगार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! आप जो (संहितः) सब मूर्तिमान् वस्तु वा सत्पुरुषों के साथ मिला हुआ (सूर्यः) सूर्य (गन्धर्वः) पृथिवी को धारण करनेवाला है (तस्य) उसकी (मरीचयः) किरणें (अप्सरसः) जो अन्तरिक्ष में जाती हैं, वे (आयुवः) सब और से संयोग और वियोग करनेवाली (नाम) प्रसिद्ध हैं अर्थात् जल आदि पदार्थों का संयोग करती और छोड़ती हैं (ताभ्यः) उन अन्तरिक्ष में जाने-आनेवाली किरणों के लिये (विश्वसामा) जिसके समीप सामवेद विद्यमान वह आप (स्वाहा) उत्तम क्रिया से कार्य सिद्धि करो, जिससे वे यथायोग्य काम में आवें, जो आप (तस्मै) उस सूर्य के लिये (स्वाहा) सत्य क्रिया को अच्छे प्रकार युक्त करते हो, (सः) वह आप (नः) हमारे (इदम्) इस (ब्रह्म) विद्वानों और (क्षत्रम्) शूरवीरों के कुल तथा (वाट्) कामों के निर्वाह करने की (पातु) रक्षा करो ॥३९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्य सूर्य की किरणों का युक्ति के साथ सेवन कर, विद्या और शूरवीरता को बढ़ा के अपने प्रयोजन को सिद्ध करें ॥३९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! भवान् यः संहितो सूर्यो गन्धर्वोऽस्ति, तस्य मरीचयोऽप्सरस आयुवो नाम सन्ति, ताभ्यो विश्वसामा स्वाहा कार्यसिद्धिं करोतु, यस्त्वं तस्मै स्वाहा प्रयुङ्ऽक्षे, स भवान् न इदं ब्रह्म क्षत्रं च वाट् पातु ॥३९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्याः सूर्यकिरणान् युक्त्या सेवित्वा विद्याशौर्ये वर्द्धयित्वा स्वप्रयोजनं साधयेयुः ॥३९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी सूर्यकिरणांचे युक्तिपूर्वक सेवन करून विद्या व शूरवीरत्व यांची वाढ करावी व आपला हेतू साध्य करावा.
४० सुषुम्णः सूर्यरश्मिश्चन्द्रमा
विश्वास-प्रस्तुतिः ...{Loading}...
सु॒षु॒म्णः सूर्य॑रश्मिश्च॒न्द्रमा॑ गन्ध॒र्वस्तस्य॒ नक्ष॑त्राण्यप्स॒रसो॑ भे॒कुर॑यो॒ नाम॑। स न॑ऽइ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॑ स्वाहा॒ वाट् ताभ्यः॒ स्वाहा॑ ॥४० ॥
मूलम् ...{Loading}...
सु॒षु॒म्णः सूर्य॑रश्मिश्च॒न्द्रमा॑ गन्ध॒र्वस्तस्य॒ नक्ष॑त्राण्यप्स॒रसो॑ भे॒कुर॑यो॒ नाम॑। स न॑ऽइ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॑ स्वाहा॒ वाट् ताभ्यः॒ स्वाहा॑ ॥४० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सु॒षु॒म्णः। सु॒सु॒म्न इति॑ सुऽसु॒म्नः। सूर्य॑रश्मि॒रिति॒ सूर्य॑ऽरश्मिः। च॒न्द्रमाः॑। ग॒न्ध॒र्वः। तस्य॑। नक्ष॑त्राणि। अ॒प्स॒रसः॑। भे॒कुर॑यः। नाम॑। सः। नः॒। इ॒दम्। ब्रह्म॑। क्ष॒त्रम्। पा॒तु॒। तस्मै॑। स्वाहा॑। वाट्। ताभ्यः॑। स्वाहा॑। ४०।
महीधरः
म० यश्चन्द्रमा गन्धर्वः स नोऽस्माकमिदं ब्रह्म क्षत्रं च पातु । कीदृशः । सुषुम्णः शोभनं सुम्नं सुखं यस्मात् सुयज्ञियः | यज्ञद्वारा सुखप्रदः । याज्ञिकानां चन्द्रलोकाप्तेरुक्तत्वात् । तथाच सूर्यरश्मिः सूर्यस्येव रश्मयः किरणा यस्य । ‘सुषुम्ण इति सुयज्ञिय इत्येतत् सूर्यरश्मिरिति सूर्यस्येव हि चन्द्रमसो रश्मयः’ (९। ४ । १ । ९) इति श्रुतेः । तस्मै चन्द्रमसे स्वाहा वाट् । तस्य चन्द्रमसः नक्षत्राणि नाम अप्सरसः । कीदृश्यः । भेकुरयः भां कान्तिं कुर्वन्तीति भेकुरयः । पृषोदरादित्वात् साधुः । ‘चन्द्रमा ह गन्धर्वो नक्षत्रैरप्सरोभिर्मिथुनेन सहोच्चक्राम भेकुरयो नामेति भाकुरयो ह नामैते भाᳪं᳭ हि नक्षत्राणि कुर्वन्ति’ ( ९ । ४ । १।९) इति श्रुतेः । ताभ्यो नक्षत्राप्सरोभ्यः स्वाहा ॥ ४० ॥
एकचत्वारिंशी।
अधिमन्त्रम् (VC)
- चन्द्रमा देवता
- देवा ऋषयः
- निचृदार्षी जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को चन्द्र आदि लोकों से उपकार लेना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (सूर्य्यरश्मिः) सूर्य की किरणोंवाला (सुषुम्णः) जिससे उत्तम सुख होता और (गन्धर्वः) जो सूर्य की किरणों को धारण किये है, वह (चन्द्रमाः) सब को आनन्दयुक्त करनेवाला चन्द्रलोक है (तस्य) उसके जो (नक्षत्राणि) अश्विनी आदि नक्षत्र और (अप्सरसः) आकाश में विद्यमान किरणें (भेकुरयः) प्रकाश को करनेवाली (नाम) प्रसिद्ध हैं, वे चन्द्र की अप्सरा हैं (सः) वह जैसे (नः) हम लोगों के (इदम्) इस (ब्रह्म) पढ़ानेवाले ब्राह्मण और (क्षत्रम्) दुष्टों के नाश करनेहारे क्षत्रियकुल की (पातु) रक्षा करे (तस्मै) उक्त उस प्रकार के चन्द्रलोक के लिये (वाट्) कार्यनिर्वाहपूर्वक (स्वाहा) उत्तम क्रिया और (ताभ्यः) उन किरणों के लिये (स्वाहा) उत्तम क्रिया तुम लोगों को प्रयुक्त करनी चाहिये ॥४० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चन्द्र आदि लोकों से भी उनकी विद्या से सुख सिद्ध करना चाहिये ॥४० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैश्चन्द्रादिभ्य उपकारो ग्राह्य इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यः सूर्यरश्मिः सुषुम्णो गन्धर्वश्चन्द्रमा अस्ति, यास्तस्य नक्षत्राण्यप्सरसो भेकुरयो नाम सन्ति, स यथा न इदं ब्रह्म क्षत्रं पातु तथा विधाय तस्मै वाट् स्वाहा ताभ्यः स्वाहा युष्माभिः संप्रयोज्या ॥४० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैश्चन्द्रादिभ्योऽपि तद्विद्यया सुखं साधनीयम् ॥४० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सूर्यरश्मिपासून चंद्र तेज धारण करतो त्या चंद्रासंबंधीची विद्या जाणून माणसांनी त्यापासून सुख प्राप्त करावे.
४१ इषिरो विश्वव्यचा
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒षि॒रो वि॒श्वव्य॑चा॒ वातो॑ गन्ध॒र्वस्तस्यापो॑ऽअप्स॒रस॒ऽऊर्जो॒ नाम॑। स न॑ऽइ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्यः॒ स्वाहा॑ ॥४१ ॥
मूलम् ...{Loading}...
इ॒षि॒रो वि॒श्वव्य॑चा॒ वातो॑ गन्ध॒र्वस्तस्यापो॑ऽअप्स॒रस॒ऽऊर्जो॒ नाम॑। स न॑ऽइ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्यः॒ स्वाहा॑ ॥४१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इ॒षि॒रः। वि॒श्वव्य॑चाः। वातः॑। ग॒न्ध॒र्वः। तस्य॑। आपः॑। अ॒प्स॒रसः॑। ऊर्जः॑। नाम॑। सः। नः॒। इ॒दम्। ब्रह्म॑। क्ष॒त्रम्। पा॒तु॒। तस्मै॑। स्वाहा॑। वाट्। ताभ्यः॑। स्वाहा॑। ४१।
महीधरः
म० यो वातो वायुर्गन्धर्वः स न इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् सुहुतमस्तु । कीदृशो वातः । इषिरः ‘इष गतौ’ दिवादिः । इष्यति गच्छतीति इषिरः । औणादिक इरप्रत्ययः । शीघ्रगमनः । विश्वव्यचाः विश्वस्मिन् व्यचो गमनं यस्य स विश्वव्यचाः सर्वतोगमनः । ‘इषिर इति क्षिप्र इत्येतद्विश्वव्यचा इत्येष हीदᳪं᳭ सर्वं व्यचः करोति’ (९ । ४ । १। १०) इति श्रुतेः । तस्यापो नामाप्सरसः वातो ह गन्धर्वोऽद्भिरप्सरोभिर्मिथुनेन सहोच्चक्राम’ (९ । ४ । १ । १०) इति श्रुतेः । कीदृश्यः । ऊर्जः ऊर्जयन्ति जीवयन्ति धान्योत्पादनेनेत्यूर्जः । ‘आपो वा ऊर्जाऽद्भ्यो ह्यूर्ग् जायते’ (९ । ४ । १ । १०) इति श्रुतेः । ताभ्योऽद्भ्योऽप्सरोभ्यः स्वाहा ॥ ४१ ॥
द्विचत्वारिंशी।
अधिमन्त्रम् (VC)
- वातो देवता
- देवा ऋषयः
- ब्राह्म्युष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को पवन आदि से उपकार लेने चाहियें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (इषिरः) जिससे इच्छा करते वा (विश्वव्यचाः) जिसकी सब संसार में व्याप्ति है, वह (गन्धर्वः) पृथिवी और किरणों को धारण करता (वातः) सब जगह भ्रमण करनेवाला पवन है (तस्य) उसके जो (आपः) जल और प्राण, अपान, उदान, समान, व्यान आदि भाग हैं, वे (अप्सरसः) अन्तरिक्ष जल में जाने-आने और (ऊर्जः) बल-पराक्रम के देनेवाले (नाम) प्रसिद्ध हैं, जैसे (सः) वह (नः) हम लोगों के लिये (इदम्) इस (ब्रह्म) सत्य के उपदेश से सब की वृद्धि करनेवाले ब्राह्मणकुल तथा (क्षत्रम्) विद्या के बढ़ानेवाले राजकुल की (पातु) रक्षा करे, वैसे तुम लोग भी आचरण करो और (तस्मै) उक्त पवन के लिये (स्वाहा) उत्तम क्रिया की (वाट्) प्राप्ति तथा (ताभ्यः) उन जल आदि के लिये (स्वाहा) उत्तम क्रिया वा उत्तम वाणी को युक्त करो ॥४१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - शरीर में जितनी चेष्टा और बल-पराक्रम उत्पन्न होते हैं, वे सब पवन से होते हैं और पवन ही प्राणरूप और जल गन्धर्व अर्थात् सबको धारण करनेवाले हैं, यह मनुष्यों को जानना चाहिये ॥४१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैर्वातादिभ्य उपकारा ग्राह्या इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! य इषिरो विश्वव्यचा गन्धर्वो वातोऽस्ति, तस्य या आपोऽप्सरस ऊर्जो नाम वर्त्तन्ते, यथा स न इदं ब्रह्म क्षत्रं च पातु, तथा यूयमाचरत, तस्मै स्वाहा वाट् ताभ्यः स्वाहा संप्रयुङ्ग्ध्वम् ॥४१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - शरीरे यावन्तश्चेष्टाबलपराक्रमा जायन्ते, तावन्तो वायोः सकाशादेव जायन्ते, वायव एव प्राणरूपा गन्धर्वाः सर्वधराः सन्तीति मनुष्यैर्वेद्यम् ॥४१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - शरीराच्या जेवढ्या हालचाली होतात व बल व पराक्रम उत्पन्न होतो त्या सर्व वायूपासून उत्पन्न होतात. वायू प्राणरूप व जल गंधर्व अर्थात् सर्वांना धारण करणारे आहेत, हे माणसांनी जाणले पाहिजे.
४२ भुज्युः सुपर्णो
विश्वास-प्रस्तुतिः ...{Loading}...
भु॒ज्युः सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वस्तस्य॒ दक्षि॑णाऽअप्स॒रस॑ स्ता॒वा नाम॑। स न॑ऽइ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्यः॒ स्वाहा॑ ॥४२ ॥
मूलम् ...{Loading}...
भु॒ज्युः सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वस्तस्य॒ दक्षि॑णाऽअप्स॒रस॑ स्ता॒वा नाम॑। स न॑ऽइ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्यः॒ स्वाहा॑ ॥४२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
भु॒ज्युः। सु॒प॒र्ण इति॑ सुऽपर्णः॒। य॒ज्ञः। ग॒न्ध॒र्वः। तस्य॑। दक्षि॑णाः। अ॒प्स॒रसः॑। स्ता॒वाः। नाम॑। सः। नः॒। इ॒दम्। ब्रह्म॑। क्ष॒त्रम्। पा॒तु॒। तस्मै॑। स्वाहा॑। वाट्। ताभ्यः॑। स्वाहा॑। ४२।
महीधरः
म० यो यज्ञो गन्धर्वः स न इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् । कीदृशो यज्ञः । भुज्युः भुनक्ति पालयति भूतानीति भुज्युः । ‘यज्ञो हि सर्वाणि भूतानि भुनक्ति’ ( ९ । ४ । १। ११) इति श्रुतेः । सुपर्णः शोभनं पर्णं पतनं स्वर्गगमनं यस्य सः यज्ञे स्वर्गे गते यजमानो गच्छति । तस्य यज्ञस्य दक्षिणा नाम अप्सरसः । यज्ञो ह गन्धर्वो दक्षिणाभिरप्सरोभिर्मिथुनेन सहोच्चक्राम’ ( ९ । ४ । १ । ११) इति श्रुतेः। कीदृश्यः । स्तावाः स्तूयते यज्ञो यजमानश्च याभिस्ताः स्तावाः ‘दक्षिणाभिर्हि यज्ञः स्तूयतेऽथो यो वै कश्चन दक्षिणां ददाति स्तूयत एव सः’ (९। ४ । १ । ११) इति श्रुतेः । ताभ्यो दक्षिणाभ्यः स्वाहा ॥ ४२ ॥
त्रिचत्वारिंशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- देवा ऋषयः
- विराडार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्य लोग यज्ञ का अनुष्ठान करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (भुज्युः) सुखों के भोगने और (सुपर्णः) उत्तम-उत्तम पालना का हेतु (गन्धर्वः) वाणी को धारण करनेवाला (यज्ञः) सङ्गति करने योग्य यज्ञकर्म है (तस्य) उसकी (दक्षिणाः) जो सुपात्र अच्छे-अच्छे धर्मात्मा विद्वानों को दक्षिणा दी जाती हैं, वे (अप्सरसः) प्राणों में पहुँचनेवाली (स्तावाः) जिनकी प्रशंसा की जाती है, ऐसी (नाम) प्रसिद्ध हैं, (सः) वह जैसे (नः) हमारे लिये (इदम्) इस (ब्रह्म) विद्वान्, ब्राह्मण और (क्षत्रम्) चक्रवर्ती राजा की (पातु) रक्षा करे, वैसा तुम लोग भी अनुष्ठान करो। (तस्मै) उसके लिये (स्वाहा) उत्तम क्रिया की (वाट्) प्राप्ति (ताभ्यः) उक्त दक्षिणाओं के लिये (स्वाहा) उत्तम रीति से उत्तम क्रिया को संयुक्त करो ॥४२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य अग्निहोत्र आदि यज्ञों को प्रतिदिन करते हैं, वे समस्त संसार के सुखों को बढ़ाते हैं, यह जानना चाहिये ॥४२ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्या यज्ञानुष्ठानं कुर्वन्त्वित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यो भुज्युः सुपर्णो गन्धर्वो यज्ञोऽस्ति, तस्य या दक्षिणा अप्सरसः स्तावा नाम सन्ति, स यथा न इदं ब्रह्म क्षत्रं च पातु, तथा यूयमप्यनुतिष्ठत, तस्मै स्वाहा वाट् ताभ्यः स्वाहा च प्रयुङ्ग्ध्वम् ॥४२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्या अग्निहोत्रादियज्ञान् प्रत्यहं कुर्वन्ति, ते सर्वस्य संसारस्य सुखानि वर्द्धयन्तीति बोध्यम् ॥४२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे अग्रिहोत्र इत्यादी यज्ञ दररोज करतात ती जगाचे सर्व सुख वाढवितात हे जाणले पाहिजे.
४३ प्रजापतिर्विश्वकर्मा मनो
विश्वास-प्रस्तुतिः ...{Loading}...
प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ मनो॑ गन्ध॒र्वस्तस्य॑ऽऋ॒क्सा॒मान्य॑प्स॒रस॒ऽएष्ट॑यो॒ नाम॑। स न॑ऽइ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्यः॒ स्वाहा॑ ॥४३ ॥
मूलम् ...{Loading}...
प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ मनो॑ गन्ध॒र्वस्तस्य॑ऽऋ॒क्सा॒मान्य॑प्स॒रस॒ऽएष्ट॑यो॒ नाम॑। स न॑ऽइ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्यः॒ स्वाहा॑ ॥४३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्र॒जाप॑ति॒रिति॒ प्र॒जाऽप॑तिः। वि॒श्वक॒र्मेति॑ वि॒श्वऽक॑र्म्मा। मनः॑। ग॒न्ध॒र्वः। तस्य॑। ऋ॒क्सा॒मानीत्यृ॑क्ऽसा॒मानि॑। अ॒प्स॒रसः॑। एष्ट॑य॒ इत्याऽइ॑ष्टयः। नाम॑। सः। नः॒। इ॒दम्। ब्रह्म॑। क्ष॒त्रम्। पा॒तु॒। तस्मै॑। स्वाहा॑। वाट्। ताभ्यः॑। स्वाहा॑। ४३।
महीधरः
म० यो मनोरूपो गन्धर्वः स न इदं ब्रह्म क्षत्रं च पातु तस्मै मनसे गन्धर्वाय स्वाहा वाट् हविर्दत्तम् । कीदृशो गन्धर्वः । प्रजापतिः प्रजायाः पालकः । विश्वकर्मा विश्वं सर्वं करोतीति ‘अन्येभ्योऽपि दृश्यन्ते’ (पा० ३ । २ । ७५) इति | करोतेर्मनिन् । ‘स हीदᳪं᳭ सर्वमकरोत्’ (९ । ४।१।१२) इति श्रुतेः । तस्य मनसो गन्धर्वस्य ऋक्सामान्यपसरसः । नाम प्रसिद्धम् । कीदृश्यः । एष्टयः इष्यते काङ्क्ष्यतेऽभीष्टं याभिस्ता एष्टयः । ‘मनो ह गन्धर्व ऋक्सामैरप्सरोभिर्मिथुनेन सहोच्चक्रामेष्टयो नामेत्यृक्सामानि वा एष्टय ऋक्सामैर्ह्याशासत इति नोऽस्त्वित्थं नोऽस्तु’ (९ । ४ । १ । १२) इति श्रुतेः । ताभ्योऽप्सरोभ्यः स्वाहा सुहुतमस्तु ॥ ४३ ॥
चतुश्चत्वारिंशी॥
अधिमन्त्रम् (VC)
- विश्वकर्मा देवता
- देवा ऋषयः
- विराडार्षी जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्य कैसे हों, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम जो (विश्वकर्मा) समस्त कामों का हेतु और (प्रजापतिः) जो प्रजा का पालनेवाला स्वामी मनुष्य है, (तस्य) उसके (गन्धर्वः) जिससे वाणी आदि को धारण करता है (मनः) ज्ञान की सिद्धि करनेहारा मन (ऋक्सामानि) ऋग्वेद और सामवेद के मन्त्र (अप्सरसः) हृदयाकाश में व्याप्त प्राण आदि पदार्थों में जाती हुई क्रिया (एष्टयः) जिनसे विद्वानों का सत्कार, सत्य का सङ्ग और विद्या का दान होता है, ये सब (नाम) प्रसिद्ध हैं, जैसे (सः) वह (नः) हम लोगों के लिये (इदम्) इस (ब्रह्म) वेद और (क्षत्रम्) धनुर्वेद की (पातु) रक्षा करे, वैसे (तस्मै) उसके लिये (स्वाहा) सत्य वाणी (वाट्) धर्म की प्राप्ति और (ताभ्यः) उन उक्त पदार्थों के लिये (स्वाहा) सत्य क्रिया से उपकार को करो ॥४३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य पुरुषार्थी, विचारशील, वेदविद्या के जाननेवाले होते हैं, वे ही संसार के भूषण होते हैं ॥४३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्जनैः कथं भवितव्यमित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यूयं यो विश्वकर्मा प्रजापतिर्मनुष्योऽस्ति, तस्य मनो गन्धर्व ऋक्सामान्यप्सरस एष्टयो नाम सन्ति, यथा स न इदं ब्रह्म क्षत्रं च पातु, तस्मै स्वाहा सत्या वाणी वाट् धर्मप्रापणं ताभ्यः स्वाहा सत्यया क्रिययोपकारं च कुरुत ॥४३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्याः पुरुषार्थिनो मनस्विनो वेदविदो जायन्ते, त एव जगद्भूषणाः सन्तीति वेद्यम् ॥४३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे पुरुषार्थी, विचारशील, वेदविद्या जाणणारी असतात तीच जगाचे भूषण ठरतात.
४४ स नो
विश्वास-प्रस्तुतिः ...{Loading}...
स नो॑ भुवनस्य पते प्रजापते॒ यस्य॑ तऽउ॒परि॑ गृ॒हा यस्य॑ वे॒ह। अ॒स्मै ब्रह्म॑णे॒ऽस्मै क्ष॒त्राय॒ महि॒ शर्म॑ यच्छ॒ स्वाहा॑ ॥४४ ॥
मूलम् ...{Loading}...
स नो॑ भुवनस्य पते प्रजापते॒ यस्य॑ तऽउ॒परि॑ गृ॒हा यस्य॑ वे॒ह। अ॒स्मै ब्रह्म॑णे॒ऽस्मै क्ष॒त्राय॒ महि॒ शर्म॑ यच्छ॒ स्वाहा॑ ॥४४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सः। नः॒। भु॒व॒न॒स्य॒। प॒ते॒। प्र॒जा॒प॒त॒ इति॑ प्रजाऽपते। यस्य॑। ते॒। उ॒परि॑। गृ॒हा। यस्य॑। वा॒। इ॒ह। अ॒स्मै। ब्रह्म॑णे। अ॒स्मै। क्ष॒त्राय॑। महि॑। शर्म॑। य॒च्छ॒। स्वाहा॑। ४४।
महीधरः
म० ‘पञ्चगृहीतं च रथशिरस्यध्याहवनीयं ध्रियमाणे पञ्चकृत्वः स नो भुवनस्येति’ (का० १८ । ५। १७)। राष्ट्रभृद्धोमानन्तरं पूर्वसंस्कृतादेवाज्यात्पञ्च गृहीत्वाहवनीयोपरि प्रतिप्रस्थात्रादिना धार्यमाणे रथशिरसि तदाज्यं पञ्चधा विभज्य पञ्चकृत्वो जुहोति पञ्चवारं मन्त्र इति सूत्रार्थः । प्रजापतिदेवत्या प्रस्तारपङ्क्तिः । आद्यौ द्वादशकावन्त्यावष्टकौ सा प्रस्तारपङ्क्तिः । तृतीयोऽत्र नवकः । हे भुवनस्य पते पालक, हे प्रजापते, यस्य ते तवोपरि स्वर्गे गृहाः सन्ति । वाथवा यस्य त इह भूलोके गृहाः सन्ति स त्वं नोऽस्माकमस्मै ब्रह्मणे ब्राह्मणायास्मै क्षत्राय क्षत्रियाय च महि महत् शर्म सुखं यच्छ देहि । स्वाहा सुहुतमस्तु ॥ ४४ ॥
पञ्चचत्वारिंशी ।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- देवा ऋषयः
- भुरिगार्षी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (भुवनस्य) घर के (पते) स्वामी (प्रजापते) प्रजा की रक्षा करनेवाले पुरुष ! (इह) इस संसार में (यस्य) जिस (ते) तेरे (उपरि) अति उच्चता को देनेहारे उत्तम व्यवहार में (गृहाः) पदार्थों के ग्रहण करनेहारे गृहस्थ मनुष्य आदि (वा) वा (यस्य) जिसकी सब उत्तम क्रिया हैं (सः) सो तू (नः) हमारे (अस्मै) इस (ब्रह्मणे) वेद और ईश्वर के जाननेहारे मनुष्य तथा (अस्मै) इस (क्षत्राय) राजधर्म में निरन्तर स्थित क्षत्रिय के लिये (स्वाहा) सत्य क्रिया से (महि) बहुत (शर्म) घर और सुख को (यच्छ) दे ॥४४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य विद्वानों और क्षत्रियों के कुल को नित्य बढ़ाते हैं, वे अत्यन्त सुख को प्राप्त होते हैं ॥४४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे भुवनस्य पते प्रजापते ! इह यस्य ते तवोपरि गृहा वा यस्य सर्वाः शुभाः क्रियाः सन्ति, स त्वं नोऽस्मै ब्रह्मणेऽस्मै क्षत्राय स्वाहा महि शर्म यच्छ ॥४४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्या विद्वत्कुलं राजकुलं च नित्यं वर्द्धयन्ति, ते महत्सुखमाप्नुवन्ति ॥४४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे विद्वानांचे व क्षत्रियांचे कुल सदैव उन्नत करतात त्यांना अत्यंत सुख प्राप्त होते.
४५ समुद्रोऽसि नभस्वानार्द्रदानुः
विश्वास-प्रस्तुतिः ...{Loading}...
स॒मु॒द्रो᳖ऽसि॒ नभ॑स्वाना॒र्द्रदा॑नुः श॒म्भूर्म॑यो॒भूर॒भि मा॑ वाहि॒ स्वाहा॑ मा॒रु॒तो᳖ऽसि म॒रुतां॑ ग॒णः श॒म्भूर्म॑यो॒भूर॒भि मा॑ वाहि॒ स्वाहा॑ऽव॒स्यूर॑सि॒ दुव॑स्वाञ्छ॒म्भूर्म॑यो॒भूर॒भि मा॑ वाहि॒ स्वाहा॑ ॥४५ ॥
मूलम् ...{Loading}...
स॒मु॒द्रो᳖ऽसि॒ नभ॑स्वाना॒र्द्रदा॑नुः श॒म्भूर्म॑यो॒भूर॒भि मा॑ वाहि॒ स्वाहा॑ मा॒रु॒तो᳖ऽसि म॒रुतां॑ ग॒णः श॒म्भूर्म॑यो॒भूर॒भि मा॑ वाहि॒ स्वाहा॑ऽव॒स्यूर॑सि॒ दुव॑स्वाञ्छ॒म्भूर्म॑यो॒भूर॒भि मा॑ वाहि॒ स्वाहा॑ ॥४५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स॒मु॒द्रः। अ॒सि॒। नभ॑स्वान्। आ॒र्द्रदानु॒रित्या॒र्द्रऽदा॑नुः। श॒म्भूरिति॑ श॒म्ऽभूः। मयो॒भूरिति॑ मयः॒ऽभूः। अ॒भि। मा। वा॒हि॒। स्वाहा॑। मा॒रु॒तः। अ॒सि॒। म॒रुता॑म्। ग॒णः। श॒म्भूरिति॑ श॒म्ऽभूः। म॒यो॒भूरिति॑ मयः॒ऽभूः। अ॒भि। मा। वा॒हि॒। स्वाहा॑। अ॒व॒स्यूः। अ॒सि॒। दुव॑स्वान्। श॒म्भूरिति॑ श॒म्ऽभूः। म॒यो॒भूरिति॑ मयः॒ऽभूः। अ॒भि। मा। वा॒हि॒। स्वाहा॑। ४५।
महीधरः
म० ‘वातहोमाञ्जुहोत्यञ्जलिनाहृत्य बहिर्वेदेरधो दक्षिणतो धुर्युत्तरत उत्तरस्यां दक्षिणतो दक्षिणाप्रष्ठे समुद्रोऽसीति प्रतिमन्त्रम्’ ( का० १८।६।१)। रथहोमानन्तरं तं रथमग्नेरुत्तरतो वेदौ प्राङ्मुखमवस्थाप्य तस्य स्थानत्रये त्रीन् वायुहोमान् जुहोति प्रतिमन्त्रं मन्त्रत्रयेण । रथयुगदक्षिणधुरोऽधो प्रथमम् उत्तरधुरोऽधो द्वितीयम् युगमध्याधस्तृतीयम् । किं कृत्वा बहिर्वेदेरञ्जलिना वा तमानीयेति सूत्रार्थः । वायव्यानि त्रीणि यजूंषि । त्रिलोकस्थो वायुः स्तूयते । हे वायो, यस्त्वमीदृशोऽसि स त्वं मा मामभिवाहि मदभिमुखमागच्छ स्वाहा सुहुतं तेऽस्तु । ‘वा गतिगन्धनयोः’ लोट् मध्यमैकवचनम् । कीदृशः। समुद्रः सम्यक् उन्दति जलैः क्लिन्नो भवतीति समुद्रः । ‘उन्दी क्लेदे’ रक्प्रत्ययः । नभस्वान् नभांसि नक्षत्राणि विद्यन्ते यत्र सः । आर्द्रदानुः आर्द्रं वृष्ट्यवश्यायादिकं ददातीत्यार्द्रदानुः । शंभूः शमैहिकं सुखं भावयति प्रापयतीति शंभूः । मयोभूः मयः पारलौकिकं सुखं भावयतीति मयोभूः स्वर्लोकरूपोऽसि । ‘असौ वै लोकः समुद्रः’ ( ९ । ४ । २।५) इति श्रुतेः । स मामभिवाहि । मरुतां वातानामयं मारुतः । मरुतां शुक्रज्योतिःप्रभृतीनां गणः तन्निवासत्वात् । ‘अन्तरिक्षलोको वै मारुतः’ (९।४ । २।६) इति श्रुतेः । शंभूः मयोभूः त्वं मामभिवाहि पूर्ववत् । अव अवनं रक्षणं सीव्यतीत्यवस्यूः ‘षिवु तन्तुसन्ताने’ क्विप् ‘छ्वोः शूडनुनासिके च’ (पा० ६। ४ । १९ ) ऊठि कृते यणादेशः । ‘अयं वै लोकोऽवस्यूः’ ( ९ । ४ । २ । ७) इति श्रुतेः भूलोकरूपोऽसि । दुवस्वान्दुवोऽन्नं हविर्लक्षणं विद्यते यस्य सः शंभूरित्यादि पूर्ववत् ॥ ४५ ॥
षट्चत्वारिंशी।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- शुनःशेप ऋषिः
- अष्टिः
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! जो तू (नभस्वान्) जिसके समीप जल और (आर्द्रदानुः) शीतल गुणों का देनेवाला और (समुद्रः) जिसमें उलट-पलट जल गिरते उस समुद्र के समान (असि) है, वह (स्वाहा) सत्य क्रिया से (शम्भूः) उत्तम सुख और (मयोभूः) सामान्य सुख उत्पन्न करानेवाला होता हुआ (मा) मुझको (अभि, वाहि) सब ओर से प्राप्त हो तू (मारुतः) पवनों का सम्बन्धी जाननेहारा (मरुताम्) विद्वानों के (गणः) समूह के समान (असि) है, वह (स्वाहा) उत्तम क्रिया से (शम्भूः) विशेष परजन्म के सुख और (मयोभूः) इस जन्म में सामान्य सुख का उत्पन्न करनेवाला होता हुआ (मा) मुझ को (अभि, वाहि) सब ओर से प्राप्त हो, जो तू (दुवस्वान्) प्रशंसित सत्कार से युक्त (अवस्यूः) अपनी रक्षा चाहनेवाले के समान (असि) है, वह (स्वाहा) उत्तम क्रिया से (शम्भूः) विशेष सुख और (मयोभूः) सामान्य अपने सुख का उत्पन्न करनेहारा होता हुआ (मा) मुझ को (अभि, वाहि) सब ओर से प्राप्त हो ॥४५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो मनुष्य समुद्र के समान गम्भीर और रत्नों से युक्त, कोमल पवन के तुल्य बलवान्, विद्वानों के तुल्य परोपकारी और अपने आत्मा के तुल्य सब की रक्षा करते हैं, वे ही सब के कल्याण और सुखों को कर सकते हैं ॥४५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यस्त्वं नभस्वानार्द्रदानुः समुद्र इवासि स स्वाहा शंभूर्मयोभूः सन्माभिवाहि, यस्त्वं मारुतो मरुतां गण इवासि स स्वाहा शम्भूर्मयोभूस्सन्माभिवाहि, यस्त्वं दुवस्वानवस्यूरिवासि स तस्मात् स्वाहा शम्भूर्मयोभूः सन्माभिवाहि ॥४५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये मनुष्याः समुद्रवद्गम्भीरा रत्नाढ्या ऋजवो वायुवद् बलिष्ठा विद्वद्वत् परोपकारिणः स्वात्मवत् सर्वेषां रक्षकास्सन्ति, त एव सर्वेषां कल्याणं सुखं च कर्तुं शक्नुवन्ति ॥४५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोमालंकार आहे. जी माणसे समुद्राप्रमाणे गंभीर, रत्नासारखी गुणवान व मृदू अंतःकरणाची आणि वायूप्रमाणे बलवान, विद्वानांप्रमाणे परोपकारी व आपल्या आत्म्याप्रमाणे सर्वांचे रक्षण करणारी असतात ती सर्वांचे कल्याण करून सर्वांना सुखी करू शकतात.
४६ यास्ते अग्ने
विश्वास-प्रस्तुतिः ...{Loading}...
यास्ते॑ अग्ने॒ सूर्ये॒ रुचो॒ दिव॑मात॒न्वन्ति॑ र॒श्मिभिः॑। ताभि॑र्नोऽअ॒द्य सर्वा॑भी रु॒चे जना॑य नस्कृधि ॥४६ ॥
मूलम् ...{Loading}...
यास्ते॑ अग्ने॒ सूर्ये॒ रुचो॒ दिव॑मात॒न्वन्ति॑ र॒श्मिभिः॑। ताभि॑र्नोऽअ॒द्य सर्वा॑भी रु॒चे जना॑य नस्कृधि ॥४६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
याः। ते॒। अ॒ग्ने॒। सूर्ये॑। रुचः॑। दिव॑म्। आ॒त॒न्वन्तीत्या॑ऽत॒न्वन्ति॑। र॒श्मिभि॒रिति॑ र॒श्मिऽभिः॑। ताभिः॑। नः॒। अ॒द्य। सर्वा॑भिः। रु॒चे। जना॑य। नः॒। कृ॒धि॒। ४६।
महीधरः
म० ‘नव जुहोति यास्त इति प्रतिमन्त्रम्’ ( का० १८ । ६। ६) । अस्यार्थः । पूर्वसंस्कृताज्यात्सकृत्सकृदादाय नवाहुतीर्जुहोति यास्ते अग्ने, या वो देवाः रुचं नः तत्त्वा यामि एताश्चतस्रः स्वर्णेति कण्डिकायां पञ्चयजुर्भिः पञ्चेति नव । द्वे व्याख्याते ( १३ । २२-२३ ) ॥ ४६ ॥ ४७ ॥
सप्तचत्वारिंशी।
अष्टचत्वारिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- शुनःशेप ऋषिः
- भुरिगार्ष्युष्णिक्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर विद्वान् को क्या करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) परमेश्वर वा विद्वन् ! (याः) जो (सूर्ये) सूर्य वा प्राण में (रुचः) दीप्ति वा प्रीति हैं और जो (रश्मिभिः) अपनी किरणों से (दिवम्) प्रकाश को (आतन्वन्ति) सब ओर से फैलाती हैं, (ताभिः) उन (सर्वाभिः) सब (ते) अपनी दीप्ति वा प्रीतियों से (अद्य) आज (नः) हम लोगों को संयुक्त करो और (रुचे) प्रीति करनेहारे (जनाय) मनुष्य के अर्थ (नः) हम लोगों को (कृधि) नियत करो ॥४६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। जैसे परमेश्वर सूर्य आदि प्रकाश करनेहारे लोकों का भी प्रकाश करनेहारा है, वैसे सब शास्त्र को यथावत् कहनेवाला विद्वान् विद्वानों को भी विद्या देनेहारा होता है। जैसे ईश्वर इस संसार में सब प्राणियों की सत्य में रुचि और असत्य में अरुचि को उत्पन्न करता है, वैसा विद्वान् भी आचरण करे ॥४६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्विदुषा किं कर्त्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने विद्वन् ! याः सूर्ये रुचः सन्ति, या रश्मिभिर्दिवमातन्वन्ति, ताभिः सर्वाभिस्ते रुग्भिरद्य नः संयोजय, रुचे जनाय च नस्कृधि ॥४६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। यथा परमेश्वरः सूर्यादीनां प्रकाशकानामपि प्रकाशकोऽस्ति, तथाऽनूचानो विद्वान् विदुषामपि विद्याप्रदो भवति, यथेश्वरोऽत्र जगति सर्वेषां सत्ये रुचिमसत्येऽरुचिं जनयति, तथा विद्वानप्याचरेत् ॥४६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. जसा परमेश्वर सूर्य इत्यादी प्रकाशकांचा प्रकाशक आहे तसे सर्व शास्रे जाणणारा विद्वान, विद्वानांनाही विद्या देणारा असतो. ईश्वर ज्याप्रमाणे सर्व प्राण्यांमध्ये सत्याबद्दल प्रीती व असत्याबद्दल अप्रीती उत्पन्न करतो त्याप्रमाणे विद्वानांनीही आचरण करावे.
४७ या वो
विश्वास-प्रस्तुतिः ...{Loading}...
या वो॑ दे॒वाः सूर्ये॒ रुचो॒ गोष्वश्वे॑षु॒ या रुचः॑। इन्द्रा॑ग्नी॒ ताभिः॒ सर्वा॑भी॒ रुचं॑ नो धत्त बृहस्पते ॥४७ ॥
मूलम् ...{Loading}...
या वो॑ दे॒वाः सूर्ये॒ रुचो॒ गोष्वश्वे॑षु॒ या रुचः॑। इन्द्रा॑ग्नी॒ ताभिः॒ सर्वा॑भी॒ रुचं॑ नो धत्त बृहस्पते ॥४७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
याः। वः॒। दे॒वाः। सूर्य्ये॑। रुचः॑। गोषु॑। अश्वे॑षु। याः। रुचः॑। इन्द्रा॑ग्नी। ताभिः॑। सर्वा॑भिः। रुच॑म्। नः॒। ध॒त्त॒। बृ॒ह॒स्प॒ते॒। ४७।
महीधरः
म० अग्निदेवत्यानुष्टुप् प्रथमो नवकः । हे अग्ने, नोऽस्माकं ब्राह्मणेषु अस्मत्संबन्धिषु विप्रेषु रुचं दीप्तिं धेहि आरोपय । नोऽस्माकं राजसु क्षत्रियेषु रुचं कृधि कुरु ‘श्रुशृणु-’ (पा० ६ । ४ । १०२) इत्यादिना हेर्धित्वम् शपो लुक् । विश्येषु वैश्येषु शूद्रेषु चास्माकीनेषु रुचं कुरु । किंच मयि विषये रुचा सह रुचं धेहि । अविच्छिन्नां रुचं घेहीत्यर्थः । | यद्वा ब्राह्मणराजविट्शूद्रेषु या रुक् तां नोऽस्माकं धेहि देहि । शिष्टं पूर्ववत् ॥ ४८ ॥
एकोनपञ्चाशी।
अधिमन्त्रम् (VC)
- बृहस्पतिर्देवता
- शुनःशेप ऋषिः
- आर्ष्यनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (बृहस्पते) बड़े-बड़े पदार्थों की पालना करनेहारे ईश्वर और (देवाः) विद्वान् मनुष्यो ! (याः) जो (वः) तुम सबों की (सूर्य्ये) चराचर में व्याप्त परमेश्वर में अर्थात् ईश्वर की अपने में और तुम विद्वानों की ईश्वर में (रुचः) प्रीति हैं वा (याः) जो इन (गोषु) किरण, इन्द्रिय और दुग्ध देनेवाली गौ और (अश्वेषु) अग्नि तथा घोड़ा आदि में (रुचः) प्रीति हैं वा जो इन में (इन्द्राग्नी) प्रसिद्ध बिजुली और आग वर्त्तमान हैं, वे भी (ताभिः) उन (सर्वाभिः) सब प्रीतियों से (नः) हम लोगों में (रुचम्) प्रीति को (धत्त) स्थापन करो ॥४७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। जैसे परमेश्वर गौ आदि की रक्षा और पदार्थविद्या में सब मनुष्यों को प्रेरणा देता है, वैसे ही विद्वान् लोग भी आचरण किया करें ॥४७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे बृहस्पतेः। देवा या वस्सूर्ये रुचो या गोष्वश्वेषु रुचः सन्ति, या वैतेष्विन्द्राग्नी वर्त्तेते, तौ च ताभिस्सर्वाभी रुग्भिर्नो रुचं धत्त ॥४७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। यथा परमेश्वरो गवादिपालने पदार्थविद्यायां च सर्वान् मनुष्यान् प्रेरयति, तथैव विद्वांसोऽप्याचरेयुः ॥४७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. जसा परमेश्वर गाई, (किरणे, इंद्रिये) इत्यादींचे रक्षण करतो व सर्व माणसांना पदार्थ विद्या जाणून घेण्याची प्रेरणा देतो, तसेच विद्वान लोकांनी वागावे.
४८ रुचं नो
विश्वास-प्रस्तुतिः ...{Loading}...
रुचं॑ नो धेहि ब्राह्म॒णेषु॒ रुचँ॒ राज॑सु नस्कृधि। रुचं॒ विश्ये॑षु शू॒द्रेषु॒ मयि॑ धेहि रु॒चा रुच॑म् ॥४८ ॥
मूलम् ...{Loading}...
रुचं॑ नो धेहि ब्राह्म॒णेषु॒ रुचँ॒ राज॑सु नस्कृधि। रुचं॒ विश्ये॑षु शू॒द्रेषु॒ मयि॑ धेहि रु॒चा रुच॑म् ॥४८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
रुच॑म्। नः॒। धे॒हि॒। ब्रा॒ह्म॒णेषु॑। रुच॑म्। राज॒स्विति॒ राज॑ऽसु। नः॒। कृ॒धि॒। रुच॑म्। विश्ये॑षु। शू॒द्रेषु॑। मयि॑। धे॒हि॒। रु॒चा। रुच॑म्। ४८।
महीधरः
म० वरुणदेवत्या त्रिष्टुप् शुनःशेपदृष्टा । अत्र द्वौ तच्छन्दौ वर्तेते तत्रैकस्य यच्छब्दपरिणामः कार्यः । हे वरुण, यजमानः हविर्भिः दत्तैः यद्धनपुत्रादिकमाशास्ते इच्छति यत्कामस्तुभ्यं हविर्दत्ते तत् यजमानेष्टं त्वा त्वामहं यामि याचामि । तत् त्वया यजमानाय दीयतामित्यर्थः । यामीति यञ्चाकर्मसु पठितः । अथापि वर्णलोपो भवति तत्त्वा यामीति यास्कोक्तेराकारलोपः । कीदृशोऽहम् । ब्रह्मणा त्रयीलक्षणेन वेदेन वन्दमानः त्वां स्तुवानः । किंच हे उरुशंस, शंसनं शंसः स्तुतिः ‘शंसु स्तुतौ’ उरुर्महान् शंसः स्तुतिर्यस्य स उरुशंसः तत्संबुद्धौ हे बहुस्तुते, इहास्मिन् स्थाने अहेडमानः हेडते क्रुध्यति हेडमानः न हेडमानोऽहेडमानः अक्रुध्यन् सन् त्वं बोधि बुध्यस्व त्वम् । मत्प्रार्थनां जानीहीत्यर्थः । ‘हुझल्भ्यो हेर्धिः’ ‘वा छन्दसि’ (पा० ३ । ४ । ८८ ) इति हेरपित्त्वाद्गुणः धलोपश्छान्दसः । किंच नोऽस्माकमायुर्जीवनं मा प्रमोषीः मा चोरय ‘मुष स्तेये’ लुङ् ‘न माङयोगे’ (पा० ६ । ४ । ७४) इत्यडभावः । पूर्णमायुश्च देहीत्यर्थः ॥ ४९ ॥
पञ्चाशी।
अधिमन्त्रम् (VC)
- बृहस्पतिर्देवता
- शुनःशेप ऋषिः
- भुरिगार्ष्यनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे जगदीश्वर वा विद्वन् ! आप (नः) हम लोगों के (ब्राह्मणेषु) ब्रह्मवेत्ता विद्वानों में (रुचा) प्रीति से (रुचम्) प्रीति को (धेहि) धरो, स्थापन करो (नः) हम लोगों के (राजसु) राजपूत क्षत्रियों में प्रीति से (रुचम्) प्रीति को (कृधि) करो (विश्येषु) प्रजाजनों में हुए वैश्यों में तथा (शूद्रेषु) शूद्रों में प्रीति से (रुचम्) प्रीति को और (मयि) मुझ में भी प्रीति से (रुचम्) प्रीति को (धेहि) स्थापन करो ॥४८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। जैसे परमेश्वर पक्षपात को छोड़ ब्राह्मणादि वर्णों में समान प्रीति करता है, वैसे ही विद्वान् लोग भी समान प्रीति करें। जो ईश्वर के गुण, कर्म और स्वभाव से विरुद्ध वर्त्तमान हैं, वे सब नीच और तिरस्कार करने योग्य होते हैं ॥४८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे जगदीश्वर वा विद्वँस्त्वं नो ब्राह्मणेषु रुचा रुचं धेहि, नो राजसु रुचा रुचं कृधि, विश्येषु शूद्रेषु रुचा रुचं मयि च रुचा रुचं धेहि ॥४८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। यथा परमेश्वरः पक्षपातं विहाय ब्राह्मणादिवर्णेषु समानां प्रीतिं करोति, तथैव विद्वांसोऽपि तुल्यां प्रीतिं कुर्य्युः। ये हीश्वरगुणकर्मस्वभावाद् विरुद्धा वर्त्तन्ते, ते सर्वे नीचास्तिरस्करणीया भवन्ति ॥४८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. जसा परमेश्वर भेदभाव न करता ब्राह्मण वगैरे सर्वच वर्णाच्या लोकांना समान प्रेम करतो, तसेच विद्वान लोकांनीही सर्वांना समान प्रेम करावे. जे ईश्वराच्या गुण, कर्म, स्वभावाविरुद्ध वागतात ते सर्व नीच व तिरस्कार करण्यायोग्य असतात.
४९ तत्त्वा यामि
विश्वास-प्रस्तुतिः ...{Loading}...
तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा॑स्ते॒ यज॑मानो ह॒विर्भिः॑। अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शँस॒ मा न॒ऽआयुः॒ प्रमो॑षीः ॥४९ ॥
मूलम् ...{Loading}...
तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा॑स्ते॒ यज॑मानो ह॒विर्भिः॑। अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शँस॒ मा न॒ऽआयुः॒ प्रमो॑षीः ॥४९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
तत्। त्वा॒। या॒मि। ब्रह्म॑णा। वन्द॑मानः। तत्। आ। शा॒स्ते॒। यज॑मानः। ह॒विर्भि॒रिति ह॒विःऽभिः॑। अहे॑डमानः। व॒रु॒ण॒। इ॒ह। बो॒धि॒। उरु॑शँ॒सेत्युरु॑ऽशँस। मा। नः॒। आयुः॑। प्र। मो॒षीः॒। ४९।
महीधरः
म० पञ्च यजूंष्यग्निदेवत्यानि । सूर्याहर्देववाची स्वःशब्दः । न इवार्थे । अर्काश्वमेधसंततिसंज्ञाः पञ्चाहुतयः । तथाच श्रुतिः ‘अथार्काश्वमेधयोः सन्ततीर्जुहोति’ (९ । ४ । ३ । ८) इति । अस्यार्थः । अर्कोऽग्निः अश्वमेधो रविस्तयोः सन्ततयः सन्तन्वन्ति संयोजयन्तीति संततयस्ताः अग्न्यादित्यैक्यकारिका आहुतय इत्यर्थः । तथाच श्रुतिः ‘अग्निरर्कोऽसावादित्योऽश्वमेधस्तौ सृष्टौ नानैवास्तां तौ देवा एताभिराहुतिभिः समतन्वन्समदधुः’ (९ । ४ । ३ । १८) इति । तदनुसारेण व्याख्या यथा । न इवार्थे । स्वः न स्वरिव अहरिव दिनकरत्वात्सूर्यस्याहरुपमानम् । स्वरिव दिनमिव यो घर्मः आदित्यः तं स्वाहा अग्नौ जुहोमि तमग्नाविति शेषः पूरणीयः । आदित्यमग्नौ स्थापयामि । ‘असौ वा आदित्यो घर्मोऽमुं तदादित्यमस्मिन्नग्नौ प्रतिष्ठापयति’ ( ९ । ४ । ३ । १९) इति श्रुतेः। स्वरिव सूर्य इव योऽर्कोऽग्निस्तमादित्ये जुहोमि स्थापयामि। ‘अयमग्निरर्क इमं तदग्निममुष्मिन्नादित्ये प्रतिष्ठापयति’ (९। ४ । २ । २०) इति श्रुतेः । स्वरिव स्वर्देवः नकारो निश्चितार्थः । स्वर्न देव इव यः शुक्र आदित्यस्तमादित्ये एव जुहोमि स्थापयामि । ‘असौ वा आदित्यः शुक्रस्तं पुनरमुत्र दधाति’ (९। ४ । २ । २१ ) इति श्रुतेः । स्वः स्वर्गः स इव ज्योतिरग्निः स्वर्गप्रदत्वादग्नेः स्वर्गोपमानम् । तमग्निमग्नावेव जुहोमि स्थापयामि । ‘अयमग्निर्ज्योतिस्तं पुनरिह ददाति’ (९।४॥ ३ । २२) इति श्रुतेः । एवमग्निं सूर्ये सूर्यमग्नौ सूर्ये च सूर्यमग्नावग्निं च संधाय । किंबहुना तयोः संयोगं कृत्वा सूर्यमुत्तमं करोति स्वर्न सूर्यः स्वाहेति । स्वः न सर्वदेवरूप इव यः सूर्यस्तं स्वाहा उत्तमं करोमि । अव्ययानामनेकार्थत्वात् स्वाहाशब्द उत्तमार्थः । सर्वे देवाभिन्ना भ्रान्त्या भासन्ते वस्तुतः सूर्य एव नानारूपोऽस्तीतीवशब्दार्थः । ‘असौ वा आदित्यः सूर्योऽमुं तदादित्यमस्य सर्वस्योत्तमं दधाति तस्मादेषोऽस्य सर्वस्योत्तमः’ ( ९ । ४ । २ । २३ ) इति श्रुतेः । एवं पञ्चाहुतिभिरग्न्यर्कयोरैक्यं विधाय सर्वदेवेष्वर्कस्योत्तमत्वं कृतमिति भावः ॥५०॥
एकपञ्चाशी।
अधिमन्त्रम् (VC)
- बृहस्पतिर्देवता
- शुनःशेप ऋषिः
- निचृच्छक्वरी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को विद्वानों के तुल्य आचरण करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (उरुशंस) बहुतों की प्रशंसा करनेहारे (वरुण) श्रेष्ठ विद्वन् ! (ब्रह्मणा) वेद से (वन्दमानः) स्तुति करता हुआ (यजमानः) यज्ञ करनेवाला (अहेडमानः) सत्कार को प्राप्त हुआ पुरुष (हविर्भिः) होम करने के योग्य अच्छे बनाये हुए पदार्थों से जो (आ, शास्ते) आशा करते हैं, (तत्) उसको मैं (यामि) प्राप्त होऊँ तथा जिस उत्तम (आयुः) सौ वर्ष की आयुर्दा को (त्वा) तेरा आश्रय करके मैं प्राप्त होऊँ (तत्) उस को तू भी प्राप्त हो, तू (इह) इस संसार में उक्त आयुर्दा को (बोधि) जान और तू (नः) हमारी उस आयुर्दा को (मा, प्र, मोषीः) मत चोर ॥४९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सत्यवादी, शास्त्रवेत्ता, सज्जन, विद्वान् जो चाहे वही चाहना मनुष्यों को भी करनी चाहिये। किसी को किन्हीं विद्वानों का अनादर न करना चाहिये तथा स्त्री पुरुषों को ब्रह्मचर्यत्याग, अयोग्य आहार-विहार, व्यभिचार, अत्यन्त विषयासक्ति आदि खोटे कामों से आयुर्दा का नाश कभी न करना चाहिये ॥४९ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यैर्विद्वद्वदाचरणीयमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे उरुशंस वरुण ! ब्रह्मणा वन्दमानो यजमानोऽहेडमानो हविर्भिर्यदाशास्ते, तदहं यामि यदुत्तममायुस्त्वाश्रित्याहं यामि, तत्त्वमपि प्राप्नुहि, त्वमिह तद् बोधि त्वं नोऽस्माकं तदायुर्मा प्रमोषीः ॥४९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - आप्ता विद्वांसो यदिच्छेयुस्तदेव मनुष्यैरेषितव्यम्, न केनापि केषाञ्चिद् विदुषामनादरः कार्यः। न खलु स्त्रीपुरुषैरब्रह्मचर्य्यायुक्ताहारविहारव्यभिचारातिविषयासक्त्यादिभिरायुः कदापि ह्रसनीयम् ॥४९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सत्यवादी शास्रवेत्ते, सज्जम, विद्वान लोक जशी कामना करतात तशा प्रकारच्या कामना माणसांनी कराव्यात. कोणीही कोणत्याही विद्वानांचा अनादर करू नये व स्री-पुरुषांनी ब्रह्मचर्याचा त्याग, अयोगय आहार-विहार, व्यभिचार, अत्यंत, विषयासक्ती इत्यादी खोट्या कर्माने आयुष्याचा नाश कधीही करू नये.
५० स्वर्ण घर्मः
विश्वास-प्रस्तुतिः ...{Loading}...
स्व॒र्ण घ॒र्मः स्वाहा॑ स्व᳙र्णार्कः स्वाहा॑ स्व᳙र्ण शु॒क्रः स्वाहा॒ स्व᳙र्ण ज्योतिः॒ स्वाहा॒ स्व᳙र्ण सूर्यः॒ स्वाहा॑ ॥५० ॥
मूलम् ...{Loading}...
स्व॒र्ण घ॒र्मः स्वाहा॑ स्व᳙र्णार्कः स्वाहा॑ स्व᳙र्ण शु॒क्रः स्वाहा॒ स्व᳙र्ण ज्योतिः॒ स्वाहा॒ स्व᳙र्ण सूर्यः॒ स्वाहा॑ ॥५० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स्वः॑। न। घ॒र्मः। स्वाहा॑। स्वः॑। न। अ॒र्कः। स्वाहा॑। स्वः॑। न। शु॒क्रः। स्वाहा॑। स्वः॑। न। ज्योतिः॑। स्वाहा॑। स्वः॒। न। सूर्यः॑। स्वाहा॑। ५०।
महीधरः
म० ‘अग्नियोजनं प्रातरनुवाकमुपाकरिष्यन् परिधीनालभ्य यथापूर्वमग्निं युनज्मीति प्रत्यृचम्’ ( का. १८।६। १६) । अस्यार्थः । प्रातरनुवाकोपाकरणात्प्राक् यथापूर्वमित्युपधानक्रमेण ऋक्त्रयेण प्रत्येकं परिधीन् स्पृष्ट्वाग्नियोजनं करोतीति । अग्निदेवत्यास्तिस्रः द्वे त्रिष्टुभौ तृतीया पङ्क्तिः । शवसा बलेन घृतेनाज्येन चाहमग्निं युनज्मि संयोजयामि ‘युजिर्योगे’ ‘रुधादिभ्यः श्नम्’ । कीदृशमग्निम् । दिव्यं दिवि भवो दिव्यस्तम् । सुपर्णं शोभनं पर्णं पतनं यस्य तं सुगमनम् । वयसा धूमेन बृहन्तं वह्निर्धूमेन महान् भवति । ‘अग्नेर्वै धूमो जायते धूमादभ्रमभ्राद्वृष्टिः (५।३।५।१७) इति श्रुतेः। किंच तेन युक्तेनाग्निना ब्रध्नस्यादित्यस्य विष्टपं लोकं वयं गमेम गच्छेम । गमेराशीर्लिङि लिड्याशिष्यङ् (पा० ३।१। । ८६ ) इत्यङ्प्रत्यये उत्तमबहुचने रूपम् । विगतस्तापो दुःखं यस्य स विष्टपो लोकः । ततोऽधि उपरि ब्रध्नविष्टपोपरिष्टात् स्वो रुहाणाः स्वर्गं लोकमारोहन्तः सन्त उत्तमं नाकं दुःखरहितं श्रेष्ठं लोकं गमेमेत्यनुवर्तते । रोहतेः ‘बहुलं छन्दसि’ इति शपि लुप्ते शानचि रूपम् रुहाणा इति । नास्त्यकं दुःखं यत्र स नाकः ॥५१॥
द्विपञ्चाशी।
अधिमन्त्रम् (VC)
- सूर्यो देवता
- शुनःशेप ऋषिः
- भुरिगार्ष्युष्णिक्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
कैसे जन पदार्थों को शुद्ध करते हैं, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (स्वाहा) सत्य क्रिया से (स्वः) सुख के (न) समान (घर्मः) प्रताप (स्वाहा) सत्य क्रिया से (स्वः) सुख के (न) तुल्य (अर्कः) अग्नि (स्वाहा) सत्य क्रिया से (स्वः) सुख के (न) सदृश (शुक्रः) वायु (स्वाहा) सत्य क्रिया से (स्वः) सुख के (न) समान (ज्योतिः) बिजुली की चमक (स्वाहा) सत्य क्रिया से (स्वः) सुख के (न) समान (सूर्यः) सूर्य हो, वैसे तुम भी आचरण करो ॥५० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। यज्ञ के करनेवाले मनुष्य सुगन्धियुक्त आदि पदार्थों के होम से समस्त वायु आदि पदार्थों को शुद्ध कर सकते हैं, जिससे रोगक्षय होकर सब की बहुत आयुर्दा हो ॥५० ॥
दयानन्द-सरस्वती (सं) - विषयः
कीदृशा जनाः पदार्थान् शुन्धन्तीत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा स्वाहा स्वर्न घर्मः स्वाहा स्वर्नार्कः स्वाहा स्वर्न शुक्रः स्वाहा स्वर्न ज्योतिः स्वाहा स्वर्न सूर्यः स्यात्, तथा यूयमप्याचरत ॥५० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यज्ञकारिणो मनुष्याः सुगन्धाद्रिद्रव्यहोमैः सर्वान् वाय्वादिपदार्थान् शुद्धान् कर्त्तुं शक्नुवन्ति, येन रोगराहित्येन सर्वेषां दीर्घायुः स्यात् ॥५० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. यज्ञ करणारे लोक सुगंधियुक्त पदार्थांची आहुती देऊन होम करतात व संपूर्ण वायू इत्यादी पदार्थ शुद्ध करू शकतात, त्यामुळे रोगांचा नाश होऊन सर्वजण दीर्घायू बनू शकतात.
५१ अग्निं युनज्मि
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्निं यु॑नज्मि॒ शव॑सा घृ॒तेन॑ दि॒व्यँ सु॑प॒र्णं वय॑सा बृ॒हन्त॑म्। तेन॑ व॒यं ग॑मेम ब्र॒ध्नस्य॑ वि॒ष्टपँ॒ स्वो᳙ रुहा॑णा॒ऽअधि॒ नाक॑मुत्त॒मम् ॥५१ ॥
मूलम् ...{Loading}...
अ॒ग्निं यु॑नज्मि॒ शव॑सा घृ॒तेन॑ दि॒व्यँ सु॑प॒र्णं वय॑सा बृ॒हन्त॑म्। तेन॑ व॒यं ग॑मेम ब्र॒ध्नस्य॑ वि॒ष्टपँ॒ स्वो᳙ रुहा॑णा॒ऽअधि॒ नाक॑मुत्त॒मम् ॥५१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒ग्निम्। यु॒न॒ज्मि॒। शव॑सा। घृ॒तेन॑। दि॒व्यम्। सु॒प॒र्णमिति॑ सुऽप॒र्णम्। वय॑सा। बृ॒हन्त॑म्। तेन॑। व॒यम्। ग॒मे॒म॒। ब्र॒ध्नस्य॑। वि॒ष्टप॑म्। स्वः॑। रुहा॑णाः। अधि॑। नाक॑म्। उ॒त्त॒मम्। ५१।
महीधरः
म० हे अग्ने, यौ ते तवेमौ पक्षौ उत्तरदक्षिणौ । कीदृशौ। अजरौ नास्ति जरा ययोस्तौ सदा नवौ । पतत्रिणौ पतत्रं पतनं ययोरस्ति तौ उत्पतनशीलौ । याभ्यां पक्षाभ्यां रक्षांसि राक्षसान् त्वमपहंसि । उ एवेत्यर्थे । ताभ्यां पक्षाभ्यां वयं सुकृतां पुण्यकृतामेव लोकं पतेम उत्पतेम । यत्र सुकृतलोके प्रथमजाः प्रथमोत्पन्नाः पुराणाः पुरातना ऋषयो मुनयो जग्मुः ॥ ५२॥
त्रिपञ्चाशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- शुनःशेप ऋषिः
- स्वराडार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
कैसे नर सुखी होते हैं, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - मैं (वयसा) वायु की व्याप्ति से (बृहन्तम्) बड़े हुए (दिव्यम्) शुद्ध गुणों में प्रसिद्ध होनेवाले (सुपर्णम्) अच्छे प्रकार रक्षा करने में परिपूर्ण (अग्निम्) अग्नि को (शवसा) बलदायक (घृतेन) घी आदि सुगन्धित पदार्थों से (युनज्मि) युक्त करता हूँ (तेन) उससे (स्वः) सुख को (रुहाणाः) आरूढ़ हुए (वयम्) हम लोग (ब्रध्नस्य) बड़े से बड़े के (विष्टपम्) उस व्यवहार को कि जिससे सामान्य और विशेष भाव से प्रवेश हुए जीवों की पालना की जाती है और (उत्तमम्) उत्तम (नाकम्) दुःखरहित सुखस्वरूप स्थान है, उसको (अधि, गमेम) प्राप्त होते हैं ॥५१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य अच्छे बनाए हुए सुगन्धि आदि से युक्त पदार्थों को आग में छोड़ कर पवन आदि की शुद्धि से सब प्राणियों को सुख देते हैं, वे अत्यन्त सुख को प्राप्त होते हैं ॥५१ ॥
दयानन्द-सरस्वती (सं) - विषयः
कीदृशा नराः सुखिनो भवन्तीत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - अहं वयसा बृहन्तं दिव्यं सुपर्णमग्निं शवसा घृतेन युनज्मि, तेन स्वो रुहाणा वयं ब्रध्नस्य विष्टपमुत्तमं नाकमधिगमेम ॥५१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्या अग्नौ सुसंस्कृतानि सुगन्ध्यादियुक्तानि द्रव्याणि प्रक्षिप्य वाय्वादिशुद्धिद्वारा सर्वान् सुखयन्ति, तेऽत्युत्तमं सुखमाप्नुवन्ति ॥५१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे उत्तम रीतीने तयार केलेल्या सुगंधी पदार्थांना यज्ञाग्नीत अर्पण करून वायू वगैरे शुद्ध करतात. ते सर्व प्राण्यांना सुखी करतात व त्यांनाही अत्यंत सुख प्राप्त होते.
५२ इमौ ते
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒मौ ते॑ प॒क्षाव॒जरौ॑ पत॒त्त्रिणौ॒ याभ्याँ॒ रक्षाँ॑स्यप॒हँस्य॑ग्ने। ताभ्यां॑ पतेम सु॒कृता॑मु लो॒कं यत्र॒ऽऋष॑यो ज॒ग्मुः प्र॑थम॒जाः पु॑रा॒णाः ॥५२ ॥
मूलम् ...{Loading}...
इ॒मौ ते॑ प॒क्षाव॒जरौ॑ पत॒त्त्रिणौ॒ याभ्याँ॒ रक्षाँ॑स्यप॒हँस्य॑ग्ने। ताभ्यां॑ पतेम सु॒कृता॑मु लो॒कं यत्र॒ऽऋष॑यो ज॒ग्मुः प्र॑थम॒जाः पु॑रा॒णाः ॥५२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इ॒मौ। ते॒। प॒क्षौ। अ॒जरौ॑। प॒त॒त्रिणौ॑। याभ्या॑म्। रक्षाँ॑सि। अ॒प॒हँसीत्य॑प॒ऽहँसि॑। अ॒ग्ने॒। ताभ्या॑म्। प॒ते॒म॒। सु॒कृता॒मिति॑ सु॒ऽकृता॑म्। ऊ॒ऽइत्यँू॑। लो॒कम्। यत्र॑। ऋष॑यः। ज॒ग्मुः। प्र॒थ॒म॒जा इति॑ प्रथम॒ऽजाः। पु॒रा॒णाः। ५२।
महीधरः
म० हे अग्ने, यस्त्वमेतादृशस्तस्मै ते तुभ्यं नमोऽस्तु । त्वं मां मा हिंसीः हिंसां मा कुरु । कीदृशस्त्वम् । इन्दुः इन्दति ईष्टे इन्दुः ईश्वरः ‘इदि परमैश्वर्ये’ चन्द्रवदाह्लादको वा । दक्षः उत्साहवान् श्येनः श्येनपक्षिवदाकाशचारित्वाच्छयेनः । यद्वा शंसनीयगतिः । ऋतावा ऋतं सत्यं यज्ञ उदकं वास्यास्ति ऋतवा । संहितायां दीर्घः । हिरण्यपक्षः सुवर्णशकलैर्हिरण्यरूपौ पक्षौ यस्य । शकुनः पक्ष्याकारः । भुरण्युः बिभर्तीति भुरण्युः । भृञ औणादिकः कन्युप्रत्ययः । पोषकः । महान् प्रभावेण । ध्रुवः स्थिरः । सधस्थे ब्रह्मणा सह स्थाने आनिषत्तः आसमन्तान्निषण्णः । सह तिष्ठन्ति यत्रेति सधस्थं ‘सधमादस्थयोश्छन्दसि’ (पा० ६ । ३ । ९६) इति सधादेशः । ‘नसत्त-’ (पा० ८।२।६१) इत्यादिना निष्ठायां निपातः॥५३॥
चतुःपञ्चाशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- शुनःशेप ऋषिः
- विराडार्षी जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) अग्नि के समान प्रतापवाले विद्वन् ! (ते) आपके जो (इमौ) ये (पतत्रिणौ) उच्च श्रेणी को प्राप्त हुए (अजरौ) कभी नष्ट नहीं होते अजर-अमर (पक्षौ) कार्य्यकारण रूप समीप के पदार्थ हैं (याभ्याम्) जिनसे आप (रक्षांसि) दुष्ट प्राणियों वा दोषों को (अपहंसि) दूर बहा देते हैं, (ताभ्याम्) उनसे (उ) ही उस (सुकृताम्) सुकृती सज्जनों के (लोकम्) देखने योग्य आनन्द को हम लोग (पतेम) पहुँचें (यत्र) जिस आनन्द में (प्रथमजाः) सर्वव्याप्त परमेश्वर में प्रसिद्ध वा अतिविस्तारयुक्त वेद में प्रसिद्ध अर्थात् उसके जानने से कीर्ति पाये हुए (पुराणाः) पहिले पढ़ने के समय नवीन (ऋषयः) वेदार्थ जाननेवाले विद्वान् ऋषिजन (जग्मुः) पहुँचे ॥५२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे शास्त्रवेत्ता विद्वान् जन दोषों को खोके, धर्म आदि अच्छे गुणों का ग्रहण कर, ब्रह्म को प्राप्त होके, आनन्दयुक्त होते हैं, वैसे उनको पाकर मनुष्यों को भी सुखी होना चाहिये ॥५२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! ते याविमौ पतत्रिणावजरौ पक्षौ स्तो याभ्यां रक्षांस्यपहंसि, ताभ्यामु तं सुकृतां लोकं वयं पतेम, यत्र प्रथमजाः पुराणा ऋषयो जग्मुः ॥५२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथाप्ता विद्वांसो दोषान् हत्वा धर्मादिसद्गुणान् गृहीत्वा ब्रह्म प्राप्यानन्दन्ति, तथैतान् प्राप्य मनुष्यैरपि सुखयितव्यम् ॥५२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसे शास्रवेते विद्वान लोक दोष दूर करून धर्माचे, सद्गुणांचे ग्रहण करतात आणि बृह्मप्राप्ती करून आनंदाने राहतात तसे त्यांच्या संगतीने सर्व माणसांनी सुखी बनले पाहिजे.
५३ इन्दुर्दक्षः श्येनऽऋतावा
विश्वास-प्रस्तुतिः ...{Loading}...
इन्दु॒र्दक्षः॑ श्ये॒नऽऋ॒तावा॒ हिर॑ण्यपक्षः शकु॒नो भु॑र॒ण्युः। म॒हान्त्स॒धस्थे॑ ध्रु॒वऽआ निष॑त्तो॒ नम॑स्तेऽअस्तु॒ मा मा॑ हिँसीः ॥५३ ॥
मूलम् ...{Loading}...
इन्दु॒र्दक्षः॑ श्ये॒नऽऋ॒तावा॒ हिर॑ण्यपक्षः शकु॒नो भु॑र॒ण्युः। म॒हान्त्स॒धस्थे॑ ध्रु॒वऽआ निष॑त्तो॒ नम॑स्तेऽअस्तु॒ मा मा॑ हिँसीः ॥५३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इन्दुः॑। दक्षः॑। श्ये॒नः। ऋ॒तावे॑त्यृ॒तऽवा॑। हिर॑ण्यपक्ष॒ इति॒ हिर॑ण्यऽपक्षः। श॒कु॒नः। भु॒र॒ण्युः। म॒हान्। स॒धस्थ॒ इति॑ स॒धऽस्थे॑। ध्रु॒वः। आ। निष॑त्तः। निऽस॑त्त इति॒ निऽस॑त्तः। नमः॑। ते॒। अ॒स्तु॒। मा। मा॒। हिँ॒सीः॒। ५३।
महीधरः
म० ‘आग्निमारुतस्तोत्रस्य पुरस्ताद्विमोचनं परिधिसन्ध्योर्दिवो मूर्धेति प्रत्यृचम्’ ( का० १८ । ६ । १७)। यज्ञायज्ञियस्तोत्रप्रकरणात्प्राक् दिवो मूर्धेति ऋग्द्वयेन दक्षिणोत्तरयोः परिधिसन्ध्योरुपस्पृश्याग्निविमोचनं करोतीति सूत्रार्थः । आग्नेयी परोष्णिक् आद्यावष्टकौ तृतीयो द्वादशकः सा त्रिपादा परोष्णिक् । अत्राद्यो दशकः द्वितीयः सप्तकः तृतीयो द्वादशकस्तेनैकाधिका । हे अग्ने, यस्त्वमीदृशोऽसि तस्मै पथे मार्गाय स्वर्गमार्गरूपाय नमो नमस्कारोऽस्तु । अग्निमुखो हि देवयानपन्थाः श्रुतावुक्तः । कीदृशस्त्वम् । दिवो मूर्धा स्वर्लोकस्योत्तमाङ्गस्थानीयः । पृथिव्या नामिः मध्यस्थानीयः । नह्यतेऽनया सा नाभिः । नहति बध्नाति जीवनेनेति नाभिः | ‘नहो भश्च-’ ( उणा० ४ । १२७) इतीन्प्रत्ययो णिश्च भान्तादेशः नित्त्वादाद्युदात्तः ‘ञित्यादिर्नित्यम्’ (पा० ६।१। १९७ ) इत्युक्तेः । पृथ्वी लोकानां जीवनमग्निनिबन्धनमिति भावः । अपां जलानामोषधीनां व्रीह्यादीनां च ऊर्क् रसः सारः। विश्वायुः विश्वं सर्वमायुर्यस्य सः बहुजीवनः । यद्वा विश्वेषां सर्वेषां प्राणिनामायुर्जीवनम् । तदधिजीवनत्वात्तेषामिति भावः । | शर्म शरणभूतः सर्वेषाम् । सप्रथाः प्रथनं प्रथो विस्तारः प्रथसा सह वर्तमानः सप्रथाः तिर्यगूर्ध्वमधश्चानवच्छिन्नप्रभावः । ईदृशायाग्नये नमः ॥ ५४ ॥
पञ्चपञ्चाशी।
अधिमन्त्रम् (VC)
- इन्दुर्देवता
- शुनःशेप ऋषिः
- आर्षी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
विद्वानों को क्या करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! सभापति जो आप (इन्दुः) चन्द्रमा के समान शीतल स्वभाव सहित (दक्षः) बल चतुराई युक्त (श्येनः) बाज के समान पराक्रमी (ऋतावा) जिनका सत्य का सम्बन्ध विद्यमान है और (हिरण्यपक्षः) सुवर्ण के लाभवाले (शकुनः) शक्तिमान् (भुरण्युः) सब के पालनेहारे (महान्) सब से बड़े (सधस्थे) दूसरे के साथ स्थान में (आ, निषत्तः) निरन्तर स्थित (ध्रुवः) निश्चल हुए (मा) मुझे (मा) मत (हिंसीः) मारो, उन (ते) आपके लिये हमारा (नमः) सत्कार (अस्तु) प्राप्त हो ॥५३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। इस संसार में विद्वान् जन स्थिर होकर सब विद्यार्थियों को अच्छी शिक्षा से युक्त करें, जिससे वे हिंसा करनेहारे न होवें ॥५३ ॥
दयानन्द-सरस्वती (सं) - विषयः
विद्वद्भिः किं कार्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! सभेश यस्त्वमिन्दुर्दक्षः श्येन ऋतावा हिरण्यपक्षः शकुनो भुरण्युर्महान् सधस्थ आनिषत्तो ध्रुवः सन्मा मा हिंसीस्तस्मै तेऽस्माकं नमोऽस्तु ॥५३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। इह जगति विद्वांसः स्थिरा भूत्वा सर्वान् विद्यार्थिनः सुशिक्षितान् कुर्युर्यतस्ते हिंसका न भवेयुः ॥५३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. या जगात विद्वान लोकांनी स्थिर राहून सर्व विद्यार्थ्यांना चांगले शिक्षण द्यावे म्हणजे ते हिंसक बनणार नाहीत.
५४ दिवो मूर्द्धासि
विश्वास-प्रस्तुतिः ...{Loading}...
दि॒वो मू॒र्द्धासि॑ पृथि॒व्या नाभि॒रूर्ग॒पामोष॑धीनाम्। वि॒श्वायुः॒ शर्म॑ स॒प्रथा॒ नम॑स्प॒थे ॥५४ ॥
मूलम् ...{Loading}...
दि॒वो मू॒र्द्धासि॑ पृथि॒व्या नाभि॒रूर्ग॒पामोष॑धीनाम्। वि॒श्वायुः॒ शर्म॑ स॒प्रथा॒ नम॑स्प॒थे ॥५४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दि॒वः। मू॒र्द्धा। अ॒सि॒। पृ॒थि॒व्याः। नाभिः॑। ऊर्क्। अ॒पाम्। ओष॑धीनाम्। वि॒श्वायु॒रिति॑ वि॒श्वऽआ॑युः। शर्म॑। स॒प्रथा॒ इति॑ स॒ऽप्रथाः॑। नमः॑। प॒थे। ५४।
महीधरः
म०. आग्नेयी महापङ्क्तिर्जगती । आद्यो व्यूहेन षडक्षरः द्वितीयः सप्तकः तृतीयो दशकः चतुर्थोऽष्टकः पञ्चमो नवकः षष्ठो नवकः एवमष्टचत्वारिंशदर्णा महापङ्क्तिः । हे अग्ने, स त्वं नोऽस्मान् वृष्ट्या कृत्वा अव रक्ष । वृष्टिं कृत्वा पालयेत्यर्थः । किं कृत्वा । दिवो द्युलोकात् पर्जन्यात् मेघात् अन्तरिक्षादाकाशात् पृथिव्याः भूमेः सकाशाद्वान्यत्र वा यत्र जलं ततः प्रदेशाज्जलमादायेति शेषः । यस्त्वं श्रितः इन्द्रियाणि सुषुम्णां नाडीमाश्रितः सन् विश्वस्य मूर्धन् मूर्धनि शिरसि अधितिष्ठसि । मूर्धन्शब्दात् ‘सुपां सुलुक्’ (पा. ७ । १ । ३९ ) इति सप्तम्या लुक् । सर्वेषां मूर्ध्नि उपरि रविरूपेण दीप्यस इत्यर्थः । यस्य ते तव समुद्रे समुनत्त्याद्रींभवतीति समुद्रोऽन्तरिक्षं तत्र हृदयं मध्यभागः भुवि पादौ स्वर्लोके शिरोऽन्तरिक्षे मध्यभागः त्रिलोकव्यापीत्यर्थः । यस्य ते अप्सु जलेषु आयुः जीवनं जलाधीनं जीवनं तव जलायद्वृक्षा जायन्ते ततोऽग्निरित्यग्नेर्जलाधीनजीवनलम् । किं बहुना । हे अग्ने, अपो जलानि दत्त देहि । उदधिं भिन्त भिन्धि । उदकानि दधाति धीयन्ते वात्रेत्युदधिर्मेघः तं विदारय । मेघं भिन्धि जलं देहीत्यर्थः । ‘पेषंवासवाहनधिषुच’ (पा० ६ । ३ । ५८ ) इत्युदकस्योदादेशः। दत्त भिन्तेत्युभयत्र ‘व्यत्ययो बहुलम्’ ( पा० ३ । १।८५) इति वचनव्यत्ययः ॥ ५५॥
षट्पञ्चाशी।
अधिमन्त्रम् (VC)
- इन्दुर्देवता
- गालव ऋषिः
- भुरिगार्ष्युष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
कैसा मनुष्य दीर्घजीवी होता है? इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! जो आप (दिवः) प्रकाश अर्थात् प्रताप के (मूर्द्धा) शिर के समान (पृथिव्याः) पृथिवी के (नाभिः) बन्धन के समान (अपाम्) जलों और (ओषधीनाम्) ओषधियों के (ऊर्क्) रस के समान (विश्वायुः) पूर्ण सौ वर्ष जीनेवाले और (सप्रथाः) कीर्तियुक्त (असि) हैं, सो आप (पथे) सन्मार्ग के लिये (नमः) अन्न (शर्म) शरण और सुख को प्राप्त होओ ॥५४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो मनुष्य न्यायवान्, सहनशील, औषध का सेवन करने और आहार-विहार से यथायोग्य रहनेवाला, इन्द्रियों को वश में रखता है, वह सौ वर्ष की अवस्थावाला होता है ॥५४ ॥
दयानन्द-सरस्वती (सं) - विषयः
किं भूतो जनो दीर्घायुर्भवतीत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यस्त्वं दिवो मूर्द्धा पृथिव्या नाभिरपामोषधीनामूर्गिव विश्वायुः सप्रथा असि, स त्वं पथे नमः शर्म च प्राप्नुहि ॥५४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यो मनुष्यो न्यायवान् क्षमावान् औषधसेवी युक्ताहारविहारो जितेन्द्रियो भवति, स शतायुर्जायते ॥५४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जो माणूस न्यायी, सहनशील, औषधांचे सेवन करणारा, यथायोग्य आहार-विहार करणारा, इंद्रियांना ताब्यात ठेवणारा असतो तो शंभर वर्षे जगतो.
५५ विश्वस्य मूर्द्धन्नधि
विश्वास-प्रस्तुतिः ...{Loading}...
विश्व॑स्य मू॒र्द्धन्नधि॑ तिष्ठसि श्रि॒तः स॑मु॒द्रे ते॒ हृद॑यम॒प्स्वायुर॒॑पो द॑त्तोद॒धिं भि॑न्त। दि॒वस्प॒र्जन्या॑द॒न्तरि॑क्षात् पृथि॒व्यास्ततो॑ नो॒ वृष्ट्या॑व ॥५५ ॥
मूलम् ...{Loading}...
विश्व॑स्य मू॒र्द्धन्नधि॑ तिष्ठसि श्रि॒तः स॑मु॒द्रे ते॒ हृद॑यम॒प्स्वायुर॒॑पो द॑त्तोद॒धिं भि॑न्त। दि॒वस्प॒र्जन्या॑द॒न्तरि॑क्षात् पृथि॒व्यास्ततो॑ नो॒ वृष्ट्या॑व ॥५५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
विश्व॑स्य। मू॒र्द्धन्। अधि॑। ति॒ष्ठ॒सि॒। श्रि॒तः। स॒मु॒द्रे। ते॒। हृद॑यम्। अ॒प्सु। आयुः॑ अ॒पः। द॒त्त॒। उ॒द॒धिमित्यु॑द॒ऽधिम्। भि॒न्त॒। दि॒वः। प॒र्जन्या॑त्। अ॒न्तरि॑क्षात्। पृ॒थि॒व्याः। ततः॑। नः॒। वृष्ट्या॑। अ॒व॒। ५५।
महीधरः
म० ‘अध्वरसमिष्टयजुरन्त इष्टो यज्ञ इति प्रत्यृचमपरे’ (का० १८ । ६ । १९ ) । समिन्द्रेण इत्यादिनवानामध्वरसमिष्टयजुषा (८ । १५) होमान्त इष्टो यज्ञः इष्टो अग्निरिति द्वाभ्यामपरे आग्निके द्वे समिष्टयजुषी जुहोतीति सूत्रार्थः । यज्ञदेवत्या उष्णिग्गालवदृष्टा अष्टाविंशत्यक्षरत्वात् । अध्वर्युर्द्रव्यं प्रत्याह । हे द्रविण द्रव्य, तस्य यजमानस्य इह सदने त्वमागमेः आगच्छ । आङ्पूर्वाद्गमेश्छत्वाभावे लिङि मध्यमैकवचने रूपम् । कीदृशस्य यजमानस्य । नोऽस्माकमिष्टस्य वल्लभस्य प्रीतस्य अस्मासु स्निग्धस्य । तस्य कस्य । यस्य यजमानस्य यज्ञो भृगुभिः भृगुगोत्रैर्ब्राह्मणैः वसुभिर्वस्वादिदेवैश्च इष्टः संपादितः । कीदृक्षो यज्ञः । आशीर्दाः आशिषोऽभिलषितपदार्थान् ददातीत्याशीर्दाः क्विप् । विप्रैर्देवैर्यस्य यज्ञः कृतस्तस्य गृहे त्वं गमेः सर्वदा तिष्ठेत्यर्थः ॥ ५६ ॥
सप्तपञ्चाशी।
अधिमन्त्रम् (VC)
- इन्दुर्देवता
- गालव ऋषिः
- आर्षी जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को क्या करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! जो आप (विश्वस्य) सब संसार के (मूर्द्धन्) शिर पर (श्रितः) विराजमान सूर्य के समान (अधि, तिष्ठसि) अधिकार पाये हुए हैं, जिन (ते) आपका (समुद्रे) अन्तरिक्ष के तुल्य व्यापक परमेश्वर में (हृदयम्) मन (अप्सु) प्राणों में (आयुः) जीवन है, उन (अपः) प्राणों को (दत्त) देते हो, (उदधिम्) समुद्र का (भिन्त) भेदन करते हो, जिससे सूर्य (दिवः) प्रकाश (अन्तरिक्षात्) आकाश (पर्जन्यात्) मेघ और (पृथिव्याः) भूमि से (वृष्ट्या) वर्षा के योग से सब चराचर प्राणियों की रक्षा करता है, (ततः) इससे अर्थात् सूर्य के तुल्य (नः) हम लोगों की (अव) रक्षा करो ॥५५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो मनुष्य सूर्य के समान सुख वर्षाने और उत्तम आचरणों के करनेहारे हैं, वे सबको सुखी कर सकते हैं ॥५५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैः किं कर्त्तव्यमित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यस्त्वं विश्वस्य मूर्द्धन् श्रितः सूर्य इवाधितिष्ठसि, यस्य ते समुद्रे हृदयमप्स्वायुरस्ति, स त्वमपो दत्तोदधिं भिन्त, यतः सूर्यो दिवोऽन्तरिक्षात् पर्जन्यात् पृथिव्या वृष्ट्या सर्वानवति, ततो नोऽस्मानव ॥५५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये मनुष्याः सूर्यवत्सुखवर्षका उत्तमाचारिणो भवन्ति, ते सर्वान् सुखिनः कर्त्तुं शक्नुवन्ति ॥५५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जी माणसे सूर्याप्रमाणे वर्षाव करणारी व उत्तम आचरण करणारी असतात, ती सर्वांना सुखी करतात.
५६ इष्टो यज्ञो
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒ष्टो य॒ज्ञो भृगु॑भिराशी॒र्दा वसु॑भिः। तस्य॑ न इ॒ष्टस्य॑ प्री॒तस्य॒ द्रवि॑णे॒हाग॑मेः ॥५६ ॥
मूलम् ...{Loading}...
इ॒ष्टो य॒ज्ञो भृगु॑भिराशी॒र्दा वसु॑भिः। तस्य॑ न इ॒ष्टस्य॑ प्री॒तस्य॒ द्रवि॑णे॒हाग॑मेः ॥५६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इ॒ष्टः। य॒ज्ञः। भृगु॑भि॒रिति॒ भृगु॑ऽभिः। आ॒शी॒र्दा इत्या॑शीः॒ऽदा। वसु॑भि॒रिति॒ वसु॑ऽभिः। तस्य॑। नः। इ॒ष्टस्य॑। प्री॒तस्य॑। द्रवि॑ण। इ॒ह। आ। ग॒मेः। ५६।
महीधरः
म० अग्निदेवत्या गायत्री गालवदृष्टा । अग्निर्नोऽस्माकमिष्टमभिलषितं पिपर्तु पूरयतु । ददात्वित्यर्थः । नोऽस्मान् पालयत्विति वा । ‘पॄ पालनपूरणयोः’ लोट् ह्वादिवाद्द्वित्वम् । ‘अर्तिपिपर्त्योश्च’ (पा. ७ । ४ । ७७ ) इत्यभ्यासस्येत्वम् । कीदृशोऽग्निः । इष्टः कृतयागः । हविः विभक्तिव्यत्ययः। हविषा आहुतः समन्तात्तर्पितः । किंच इदं नमः हविः समिष्टयजुर्लक्षणं देवेभ्योऽर्थायास्तु । कीदृशम् । स्वगा स्वयं गमनशीलम् । विभक्तेराकारः ॥ ५७ ॥
अष्टपञ्चाशी ।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- गालव ऋषिः
- आर्ष्युष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! जो (भृगुभिः) परिपूर्ण विज्ञानवाले (वसुभिः) प्रथम कक्षा के विद्वानों के (आशीर्दाः) इच्छासिद्धि को देनेवाला (यज्ञः) यज्ञ (इष्टः) किया है, (तस्य) उस (इष्टस्य) किये हुए (प्रीतस्य) मनोहर यज्ञ के सकाश से (इह) इस संसार में आप (नः) हम लोगों के (द्रविण) धन को (आ, गमेः) प्राप्त हूजिये ॥५६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो विद्वानों के तुल्य अच्छा यत्न करते हैं, वे इस संसार में बहुत धन को प्राप्त होते हैं ॥५६२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यो वसुभिर्भृगुभिराशीर्दा यज्ञ इष्टस्तस्येष्टस्य प्रीतस्य यज्ञस्य सकाशादिह त्वन्नो द्रविण आ गमेः ॥५६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये विद्वद्वत् प्रयतन्ते, त इह पुष्कलां श्रियमाप्नुवन्ति ॥५६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे लोक विद्वानांप्रमाणे उत्तम प्रयत्न करतात ते या जगात पुष्कळ धन प्राप्त करतात.
५७ इष्टोऽअग्निराहुतः पिपर्त्तु
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒ष्टोऽअ॒ग्निराहु॑तः पिपर्त्तु नऽइ॒ष्टँ ह॒विः। स्व॒गेदं दे॒वेभ्यो॒ नमः॑ ॥५७ ॥
मूलम् ...{Loading}...
इ॒ष्टोऽअ॒ग्निराहु॑तः पिपर्त्तु नऽइ॒ष्टँ ह॒विः। स्व॒गेदं दे॒वेभ्यो॒ नमः॑ ॥५७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इ॒ष्टः। अ॒ग्निः। आहु॑त॒ इत्याहु॑तः। पि॒प॒र्त्तु॒। नः॒। इ॒ष्टम्। ह॒विः। स्व॒गेति॑ स्व॒ऽगा। इ॒दम्। दे॒वेभ्यः॑। नमः॑। ५७।
महीधरः
म० ‘हृदयशूलान्ते स्रुवाहुतीर्जुहोति यदाकूतादिति प्रत्यृचमष्टौ’ ( का० १८ । ६ । २२) । साग्निचित्ये मैत्रावरुण्यनूबन्ध्यावश्यमेका भवति तेन तस्या हृदयशूलसंबन्धिसमिधानान्ते कृते यदाकूतादिति प्रत्यृचमष्टौ स्रुवाहुतीर्जुहोतीति सूत्रार्थः । अष्टावृच अग्निदेवत्या विश्वकर्मदृष्टाः । आद्या जगती त्रयः पादा एकादशार्णाः चतुर्थश्चतुर्दशार्णः । हे ऋत्विजः, यूयं तदनु प्रेत प्रजापतिकृतं कर्मानुगच्छतानुसरत । प्रजापतिशरीरादुत्पन्नं यत्कर्म वैदिकं तत्कुरुतेत्यर्थः । तत्र कर्मणि कृते सति सुकृतां पुण्यवतां लोके । उ एवार्थे । स्वर्गमेव प्रेतेत्यनुषङ्गः । स्वर्गं गच्छत । प्रथमजाः पूर्वोत्पन्नाः पुराणाः पुरापि नवा अजरामरा ऋषयो यत्र लोके जग्मुः । तत्किं कर्म । यत्प्रजापतेराकूतादभिप्रायात् हृदो वा हृदश्च बुद्धेः मनसः संकल्पात्मकात् चक्षुषः । चक्षुरुपलक्षणम् । चक्षुरादीन्द्रियेभ्यश्च समसुस्रोत् संस्रुतं प्रसृतम् । ब्रह्मणा यत् सर्वात्मना सृष्टं कर्म तत् कृत्वा स्वर्लोकं गच्छतेत्यर्थः । कीदृशं कर्म । संभृतं संभारैः पुष्टं पूर्णसामग्रीकम् । मनःप्रवर्तक आत्मनो धर्म आकूतम् । समसुस्रोदिति ‘स्रु गतौ’ इत्यस्माल्लङ् ‘बहुलं छन्दसि’ (पा० २।४ । ७६) इति जुहोत्यादित्वाच्छ्लौ द्वित्वम् ॥ ५८ ॥
एकोनषष्टी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- गालव ऋषिः
- निचृदार्षी गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (हविः) संस्कार किये पदार्थों से (आहुतः) अच्छे प्रकार तृप्त वा हवन किया (इष्टः) सत्कार किया वा आहुतियों से बढ़ाया हुआ (अग्निः) यह सभा आदि का अध्यक्ष विद्वान् वा अग्नि (नः) हमारे (इष्टम्) सुख वा सुख के साधनों को (पिपर्त्तु) पूरा करे वा हमारी रक्षा करे (इदम्) यह (स्वगा) अपने को प्राप्त होनेवाला (नमः) अन्न वा सत्कार (देवेभ्यः) विद्वानों के लिये हो ॥५७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्य अग्नि में अच्छे संस्कार से बनाये हुए जिस पदार्थ का होम करते हैं, सो इस संसार में बहुत अन्न का उत्पन्न करनेवाला होता है, इस कारण उससे विद्वान् आदि सत्पुरुषों का सत्कार करना चाहिये ॥५७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हविराहुत इष्टोऽग्निर्न इष्टं पिपर्त्तु नः पिपर्त्तु वा इदं स्वगा नमो देवेभ्योऽस्तु ॥५७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैरग्नौ यत् सुसंस्कृतं द्रव्यं हूयते यदिह बह्वन्नकारि जायतेऽतस्तेन विद्वदादीनां सत्कारः कर्त्तव्यः ॥५७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसे अग्नीमध्ये ज्या उत्तम पदार्थांचा होम करतात. त्यामुळे जगात पुष्कळ अन्न उत्पन्न होते म्हणून अन्न इत्यादींनी विद्वान सत्पुरुषांचा सत्कार केला पाहिजे.
५८ यदाकूतात् समसुस्रोद्धृदो
विश्वास-प्रस्तुतिः ...{Loading}...
यदाकू॑तात् स॒मसु॑स्रोद्धृ॒दो वा॒ मन॑सो वा॒ सम्भृ॑तं॒ चक्षु॑षो वा। तद॑नु॒ प्रेत॑ सु॒कृता॑मु लो॒कं यत्र॒ऽऋष॑यो ज॒ग्मुः प्र॑थम॒जाः पु॑रा॒णाः ॥५८ ॥
मूलम् ...{Loading}...
यदाकू॑तात् स॒मसु॑स्रोद्धृ॒दो वा॒ मन॑सो वा॒ सम्भृ॑तं॒ चक्षु॑षो वा। तद॑नु॒ प्रेत॑ सु॒कृता॑मु लो॒कं यत्र॒ऽऋष॑यो ज॒ग्मुः प्र॑थम॒जाः पु॑रा॒णाः ॥५८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यत्। आकू॑ता॒दित्याऽकू॑तात्। स॒मसु॑स्रो॒दिति॑ स॒म्ऽअसु॑स्रोत्। हृ॒दः। वा॒। मन॑सः। वा॒। सम्भृ॑त॒मिति॒ सम्ऽभृ॑तम्। चक्षु॑षः। वा॒। तत्। अ॒नु॒प्रेतेत्य॑नु॒ऽप्रेत॑। सु॒कृता॒मिति॑ सु॒कृता॑म्। ऊ॒ऽइत्यूँ॑। लो॒कम्। यत्र॑। ऋष॑यः। ज॒ग्मुः। प्र॒थ॒म॒जाः। पु॒रा॒णाः। ५८।
महीधरः
म०. तिस्रस्त्रिष्टुभः । सह तिष्ठन्ति देवा यत्रेति सधस्थः स्वर्गः तं प्रार्थयते । हे सधस्थ, एतं यजमानं ते तव परिददामि । जातवेदा अग्निर्यं शेवधिं सुखनिधिमाहुतिपरिणामभूतमावहात् आवहति प्रापयति तं यज्ञफलभूतं च सुखनिधिं तव परिददामि । उभयं रक्षणार्थं तुभ्यं ददामीत्यर्थः । एवं यजमानं यज्ञं च स्वर्गे समर्प्य तत्स्थान् देवानर्थयते अन्विति । हे देवाः, यज्ञपतिर्यजमानो वो युष्मानन्वागन्ता कर्मसमाप्तौ भवतः प्रत्यागमिष्यति लुट् । अत्रास्मिन् परमे व्योमन् उत्कृष्टे व्योम्नि आकाशे स्वर्गाख्ये आगतं तं यजमानं यूयं जानीत । स्मेति पादपूरणः । स्वर्गागतः स भवद्भिः संभावनीय इत्यर्थः । आवहात् वहतेर्लेट् ‘इतश्च लोपः परस्मैपदेषु’ (पा० ३।४। ९७) इति तिप इलोपः ‘लेटोऽडाटौ’ (पा० ३ । ४ । ९४ ) इत्यडागमः । शेव इति सुखनाम । शेवं धीयतेऽस्मिन्निति शेवधिः ॥ ५९॥
षष्टी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- विश्वकर्मा ऋषिः
- निचृदार्षी जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
अब विद्वानों के विषय में सत्य का निर्णय, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सत्य-असत्य का ज्ञान चाहते हुए मनुष्यो ! तुम लोग (यत्) जो (आकूतात्) उत्साह (हृदः) आत्मा (वा) वा प्राण (मनसः) मन (वा) वा बुद्धि आदि तथा (चक्षुषः) नेत्रादि इन्द्रियों से उत्पन्न हुए प्रत्यक्षादि प्रमाणों से (वा) वा कान आदि इन्द्रियों से (सम्भृतम्) अच्छे प्रकार धारण किया अर्थात् निश्चय से ठीक जाना, सुना, देखा और अनुमान किया है, (तत्) वह (समसुस्रोत्) अच्छे प्रकार प्राप्त हो, इस कारण (प्रथमजाः) हम लोगों से पहिले उत्पन्न हुए (पुराणाः) हम से प्राचीन (ऋषयः) वेदविद्या के जाननेवाले परमयोगी ऋषिजन (यत्र) जहाँ (जग्मुः) पहुँचे, उस (सुकृताम्) सुकृति मोक्ष चाहते हुए सज्जनों के (उ) ही (लोकम्) प्रत्यक्ष सुखसमूह वा मोक्षपद को (अनुप्रेत) अनुकूलता से पहुँचो ॥५८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जब मनुष्य सत्य-असत्य के निर्णय के जानने की चाहना करें, तब जो-जो ईश्वर के गुण, कर्म और स्वभाव से तथा सृष्टिक्रम, प्रत्यक्ष आदि आठ प्रमाणों से, अच्छे-अच्छे सज्जनों के आचार से, आत्मा और मन के अनुकूल हो, वह सत्य और उससे भिन्न झूठ है, यह निश्चय करें। जो ऐसे परीक्षा करके धर्म का आचरण करते हैं, वे अत्यन्त सुख को प्राप्त होते हैं ॥५८ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ विद्वद्विषये सत्यनिर्णयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सत्यासत्यजिज्ञासवो जनाः ! यूयं यदाकूताद्धृदो वा मनसो वा चक्षुषो वा संभृतमस्ति, तत्समसुस्रोदतः प्रथमजाः पुराणा ऋषयो यत्र जग्मुस्तं सुकृतामु लोकमनुप्रेत ॥५८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदा मनुष्याः सत्यासत्यनिर्णयं जिज्ञासेयुस्तदा यद्यदीश्वरगुणकर्मस्वभावात् सृष्टिक्रमात् प्रत्यक्षादिप्रमाणेभ्य आप्ताचारादात्ममनोभ्यानुकूलं स्यात् तत्तत् सत्यमितरदसत्यमिति निश्चिनुयुर्य एवं धर्मं परीक्ष्याचरन्ति, तेऽतिसुखं प्राप्नुवन्ति ॥५८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जेव्हा माणसांना सत्य व असत्याचा निर्णय करण्याची इच्छा होते, तेव्हा ईश्वराचे गुण, कर्म, स्वभाव, सृष्टिक्रम, प्रत्यक्ष इत्यादी आठ प्रमाण, सज्जनांचे आचरण, आत्मा व मनाच्या अनुकूल असेल ते ते सत्य व त्याहून भिन्न असलेले असत्य हे निश्चयाने जाणावे. जे अशी परीक्षा करून धर्माचे आचरण करतात ते अत्यंत सुखी होतात.
५९ एतं सधस्थ
विश्वास-प्रस्तुतिः ...{Loading}...
ए॒तँ स॑धस्थ॒ परि॑ ते ददामि॒ यमा॒वहा॑च्छेव॒धिं जा॒तवे॑दाः। अ॒न्वा॒ग॒न्ता य॒ज्ञप॑तिर्वो॒ऽअत्र॒ तँ स्म॑ जानीत पर॒मे व्यो॑मन् ॥५९ ॥
मूलम् ...{Loading}...
ए॒तँ स॑धस्थ॒ परि॑ ते ददामि॒ यमा॒वहा॑च्छेव॒धिं जा॒तवे॑दाः। अ॒न्वा॒ग॒न्ता य॒ज्ञप॑तिर्वो॒ऽअत्र॒ तँ स्म॑ जानीत पर॒मे व्यो॑मन् ॥५९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ए॒तम्। स॒ध॒स्थेति॑ सधऽस्थ। परि॑। ते॒। द॒दा॒मि॒। यम्। आ॒वहादित्या॒ऽवहा॑त्। शे॒व॒धिमिति॑ शेव॒ऽधिम्। जा॒तवे॑दा॒ इति॑ जा॒तऽवे॑दाः। अ॒न्वा॒ग॒न्तेत्य॑नुऽआऽग॒न्ता। य॒ज्ञप॑ति॒रिति॑ य॒ज्ञऽप॑तिः। वः॒। अत्र॑। तम्। स्म॒। जा॒नी॒त॒। प॒र॒मे। व्यो॑म॒न्निति॒ विऽओ॑मन्। ५९।
महीधरः
म० सह तिष्ठन्ति सधस्थाः । परमे व्योमन् उत्कृष्टे स्वर्गभूते व्योम्नि सह स्थिता हे देवाः, एतं यजमानं जानीथ जानीत । लेटो मध्यमबहुवचने आडागमे रूपम् । किंच अस्य यजमानस्य रूपं विद वित्त जानीत प्रत्यभिज्ञानाय । वेत्तेर्विकरणव्यत्यये शः वचनव्यत्ययश्च । विदितरूपोऽयं यद्यदा देवयानैः पथिभिः स्वर्गमार्गैः आगच्छात् आगच्छति । इलोपाडागमौ । तदा इष्टापूर्ते श्रौतस्मातकर्मफले अस्मै यजमानायाविःकृणवाथ प्रकटीकुरुत दत्तेत्यर्थः । देवा यान्ति येषु ते देवयानाः ‘करणाधिकरणयोश्च’ (पा० ३ । ३ । ११७) इति | ल्युट । उपभोगस्थानभेदाद्बहुत्वं पूजार्थं वा । इष्टं च पूर्तं च इष्टापूर्ते देवसंबन्धिकर्मत्वात् देवताद्वन्द्वे च (पा० ६।३।२६) इति पूर्वपदस्यानङ् । आपूर्तं चेति वा । कृणवाथ ‘कृञ् कृतौ’ स्वादिः आडागमश्च ॥ ६० ॥
एकषष्टी।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- विश्वकर्मा ऋषिः
- निचृदार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे ईश्वर के ज्ञान चाहनेवाले मनुष्यो ! और हे (सधस्थ) समान स्थानवाले सज्जन ! (जातवेदाः) जिसको ज्ञान प्राप्त है, वह वेदार्थ को जाननेवाला (यज्ञपतिः) यज्ञ की पालना करनेवाले के समान वर्त्तमान पुरुष (यम्) जिस (शेवधिम्) सुखनिधि परमेश्वर को (आवहात्) अच्छे प्रकार प्राप्त होवे, (एतम्) इसको (अत्र) इस (परमे) परम उत्तम (व्योमन्) आकाश में व्याप्त परमात्मा को मैं (ते) तेरे लिये जैसे (परि, ददामि) सब प्रकार से देता हूँ, उपदेश करता हूँ, (अन्वागन्ता) धर्म्म के अनुकूल चलनेहारा मैं (वः) तुम सबों के लिये जिस परमेश्वर का (स्म) उपदेश करूँ, (तम्) उसको तुम (जानीत) जानो ॥५९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो मनुष्य विद्वानों के अनुकूल आचरण करते हैं, वे सर्वव्यापी अन्तर्यामी परमेश्वर के पाने को योग्य होते हैं ॥५९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे ईश्वरं जिज्ञासवो मनुष्याः ! हे सधस्थ ! च जातवेदा यज्ञपतिर्ये शेवधिमावहादेतमत्र परमे व्योमन् व्याप्तं परमात्मानमहं ते तथा परिदादाम्यन्वागन्ताऽहं यं वो युष्मभ्यमुपदिशामि स्म, तं यूयं विजानीत ॥५९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये मनुष्या विद्वनुकूलमाचरन्ति, ते सर्वव्यापिनमन्तर्यामिणमीश्वरं प्राप्तुमर्हन्ति ॥५९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जी माणसे विद्वानांच्या अनुकूल आचरण करतात ती सर्वव्यापी परमेश्वराला प्राप्त करण्यायोग्य बनतात.
६० एतं जानाथ
विश्वास-प्रस्तुतिः ...{Loading}...
ए॒तं जा॑नाथ पर॒मे व्यो॑म॒न् देवाः॑ सधस्था वि॒द रू॒पम॑स्य। यदा॑गच्छा॑त् प॒थिभि॑र्देव॒यानै॑रिष्टापू॒र्त्ते कृ॑णवाथा॒विर॑स्मै ॥६० ॥
मूलम् ...{Loading}...
ए॒तं जा॑नाथ पर॒मे व्यो॑म॒न् देवाः॑ सधस्था वि॒द रू॒पम॑स्य। यदा॑गच्छा॑त् प॒थिभि॑र्देव॒यानै॑रिष्टापू॒र्त्ते कृ॑णवाथा॒विर॑स्मै ॥६० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ए॒तम्। जा॒ना॒थ॒। प॒र॒मे। व्यो॑म॒न्निति॑ विऽओ॑मन्। देवाः॑। स॒ध॒स्था॒ इति॑ सधऽस्थाः। वि॒द॒। रू॒पम्। अ॒स्य॒। यत्। आ॒गच्छा॒दित्या॒ऽगच्छा॑त्। प॒थिभि॒रिति॒ प॒थिभिः॑। दे॒व॒यानै॒रिति॑ देव॒ऽयानैः॑। इ॒ष्टा॒पू॒र्त्त इती॑ष्टाऽपू॒र्त्ते। कृ॒ण॒वा॒थ॒। आ॒विः। अ॒स्मै॒। ६०।
महीधरः
म० उद्बुध्यस्व । त्रिष्टुप् । येन वहसि । अनुष्टुप् । एते द्वे व्याख्याते (अ० १५ । क० ५४-५५) ॥ ६१ ॥ ६२ ॥
द्विषष्टी।
त्रिषष्टी।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- विश्वकर्मर्षिः
- निचृदार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय का अगले मन्त्र में उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सधस्थाः) एक साथ स्थानवाले (देवाः) विद्वानो ! तुम (परमे) परम उत्तम (व्योमन्) आकाश में व्याप्त (एतम्) इस परमात्मा को (जानाथ) जानो और (अस्य) इसके व्यापक (रूपम्) सत्य चैतन्यमात्र आनन्दमय स्वरूप को (विद) जानो, (यत्) जिस सच्चिदानन्द-लक्षण परमेश्वर को (देवयानैः) धार्मिक विद्वानों के (पथिभिः) मार्गों से पुरुष (आगच्छात्) अच्छे प्रकार प्राप्त होवे, (अस्मै) इस परमेश्वर के लिये (इष्टापूर्त्ते) वेदोक्त यज्ञादि कर्म और उसके साधक स्मार्त्त कर्म को (आविः) प्रकाशित (कृणवाथ) किया करो ॥६० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सब मनुष्य विद्वानों के सङ्ग, योगाभ्यास और धर्म के आचरण से परमेश्वर को अवश्य जानें। ऐसा न करें तो यज्ञ आदि श्रौत स्मार्त्त कर्मों को नहीं सिद्ध करा सकें और न मुक्ति पा सकें ॥६० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्स एव विषय उपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सधस्था देवाः ! यूयं परमे व्योमन् व्याप्तमेतं जानाथास्य रूपं विद यद्देवयानैः पथिभिरागच्छादस्मै परमात्मने इष्टापूर्त्ते आविः कृणवाथ ॥६० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सर्वे मनुष्या विद्वत्सङ्गयोगाभ्यासधर्माचारैः परमेश्वरमवश्यं जानीयुर्नोचेदिष्टापूर्त्ते साधयितुं न शक्नुयुः, न च मुक्तिं प्राप्नुयुः ॥६० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सर्व माण्सांनी विद्वानांच्या संगतीने, योगाभ्यासाने, धर्माचरणाने परमेश्वराला अवश्य जाणावे. असे न केल्यास यज्ञ इत्यादी श्रौत स्मार्त्त कर्म ते सिद्ध करू शकत नाहीत किंवा मुक्ती प्राप्त करू शकत नाहीत.
६१ उद्बुध्यस्वाग्ने प्रति
विश्वास-प्रस्तुतिः ...{Loading}...
उद्बु॑ध्यस्वाग्ने॒ प्रति॑ जागृहि॒ त्वमि॑ष्टापू॒र्ते सँसृजेथाम॒यं च॑। अ॒स्मिन्त्स॒धस्थे॒ऽअध्युत्त॑रस्मि॒न् विश्वे॑ देवा॒ यज॑मानश्च सीदत ॥६१ ॥
मूलम् ...{Loading}...
उद्बु॑ध्यस्वाग्ने॒ प्रति॑ जागृहि॒ त्वमि॑ष्टापू॒र्ते सँसृजेथाम॒यं च॑। अ॒स्मिन्त्स॒धस्थे॒ऽअध्युत्त॑रस्मि॒न् विश्वे॑ देवा॒ यज॑मानश्च सीदत ॥६१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उत्। बु॒ध्य॒स्व॒। अ॒ग्ने॒। प्रति॑। जा॒गृहि॒। त्वम्। इ॒ष्टा॒पू॒र्त्ते इती॑ष्टाऽपू॒र्त्ते। सम्। सृ॒जे॒था॒म्। अ॒यम्। च॒। अ॒स्मिन्। स॒धस्थ॒ इति॑ स॒धऽस्थे॑। अधि॑। उत्त॑रस्मि॒न्नित्युत्ऽत॑रस्मिन्। विश्वे॑। दे॒वाः॒। यज॑मानः। च॒। सी॒द॒त॒। ६१।
महीधरः
म० तिस्रोऽनुष्टुभः । हे अग्ने, नोऽस्माकमिमं यज्ञं स्वः स्वर्गं नय । किं कर्तुम् । देवेषु गन्तवे देवान् प्रति गन्तुं प्राप्तुम् । तुमर्थे तवेन्प्रत्ययः नित्त्वादाद्युदात्तः । कीदृशम् । प्रस्तरेण स्रुगाधारभूतेन दर्भमुष्टिना परिधिना परिधिभिस्त्रिभिर्बाहुमात्रैः काष्ठैः स्रुचा जुह्वादिकया वेद्या मितया वेदेर्भूम्या वा बर्हिषा दर्भपूलकेन ऋचा ऋगादिभिर्मन्त्रैश्चोपलक्षितमिति शेषः ॥ ६३ ॥
चतुःषष्टी।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- गालव ऋषिः
- आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर वही विषय कहा जाता है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) अग्नि के समान वर्त्तमान ऋत्विक् पुरुष ! (त्वम्) तू (उद्, बुध्यस्व) उठ, प्रबोध को प्राप्त हो (प्रति, जागृहि) यजमान को अविद्यारूप निद्रा से छुड़ा के विद्या में चेतन कर, तू (च) और (अयम्) यह ब्रह्मविद्या का उपदेश करनेहारा यजमान दोनों (इष्टापूर्त्ते) यज्ञसिद्धि कर्म और उसकी सामग्री को (संसृजेथाम्) उत्पन्न करो। हे (विश्वे) समग्र (देवाः) विद्वानो ! (च) और (यजमानः) विद्या देने तथा यज्ञ करनेहारे यजमान ! तुम सब (अस्मिन्) इस (सधस्थे) एक साथ के स्थान में (उत्तरस्मिन्) उत्तम आसन पर (अधि, सीदत) बैठो ॥६१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो चैतन्य और बुद्धिमान् विद्यार्थी हों, वे पढ़ानेवालों को अच्छे प्रकार पढ़ाने चाहियें। जो विद्या की इच्छा से पढ़ानेहारों के अनुकूल आचरण करनेवाले हों और जो उनके अनुकूल पढ़ानेहारे हों, वे परस्पर प्रीति से निरन्तर विद्याओं की बढ़ती करें और जो इन पढ़ने-पढ़ाने हारों से पृथक् उत्तम विद्वान् हों, वे इन विद्यार्थियों की सदा परीक्षा किया करें, जिससे ये अध्यापक और विद्यार्थी लोग विद्याओं की बढ़ती करने में निरन्तर प्रयत्न किया करें, वैसे ऋत्विज्, यजमान और सभ्य परीक्षक विद्वान् लोग यज्ञ की उन्नति किया करें ॥६१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्स एव विषयः प्रोच्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! त्वमुद्बुध्यस्व प्रति जागृहि, त्वं चायं इष्टापूर्त्ते संसृजेथाम्। हे विश्वेदेवा ! कृतेष्टापूर्त्तो यजमानश्च यूयं सधस्थेऽस्मिन्नुत्तरस्मिन्नधि सीदत ॥६१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये सचेतना धीमन्तो विद्यार्थिनः स्युस्तेऽध्यापकैः सम्यगध्यापनीयाः स्युर्ये विद्याभीप्सवोऽध्यापकानुकूलाचरणाः स्युर्ये च तदधीना अध्यापकास्ते परस्परं प्रीत्या सततं विद्योन्नतिं कुर्युर्येऽतोऽन्ये प्रशस्ता विद्वांसः स्युस्त एतेषां सततं परीक्षां कुर्युर्यत एते विद्यावर्द्धने सततं प्रयतेरँस्तथार्त्विग्यजमानादयो भवेयुः ॥६१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे चैतन्ययुक्त तेजस्वी व बुद्धिमान विद्यार्थी असतील त्यांना अध्यापकांनी चांगल्या प्रकारे शिकवावे. जे विद्या शिकण्याच्या इच्छेने अध्यापकाच्या अनुकूल वागतात व जे अध्यापक त्यांच्या अनुकूल असतील त्यांनी परस्पर प्रेमाने सतत विद्येची वाढ करावी. जे या अध्ययन व अध्यापन करणाऱ्यापेक्षा वेगळे उत्तम विद्वान असतील त्यांनी या विद्यार्थ्याची सदैव परीक्षा घ्यावी म्हणजे हे अध्यापक व विद्यार्थी सतत विद्या वाढवितील. (ऋत्विकांनी यजमानाला अविद्येच्या निद्रेतून जागे करून विद्यारूपी जागृती करावी. ) ऋत्विक, यजमान् व सभ्य विद्वान परीक्षकांनी उत्तम सामग्रीने यज्ञ वृद्धिंगत करावा.
६२ येन वहसि
विश्वास-प्रस्तुतिः ...{Loading}...
येन॒ वह॑सि स॒हस्रं॒ येना॑ग्ने सर्ववेद॒सम्। तेने॒मं य॒ज्ञं नो॑ नय॒ स्व᳖र्दे॒वेषु॒ गन्त॑वे ॥६२ ॥
मूलम् ...{Loading}...
येन॒ वह॑सि स॒हस्रं॒ येना॑ग्ने सर्ववेद॒सम्। तेने॒मं य॒ज्ञं नो॑ नय॒ स्व᳖र्दे॒वेषु॒ गन्त॑वे ॥६२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
येन॑। वह॑सि। स॒हस्र॑म्। येन॑। अ॒ग्ने॒। स॒र्व॒वे॒द॒समिति॑ सर्वऽवेद॒सम्। तेन॑। इ॒मम्। य॒ज्ञम्। नः॒। न॒य॒। स्वः᳖। दे॒वेषु॑। गन्त॑वे। ६२।
महीधरः
म० वैश्वकर्मणः विश्वकर्मा प्रजापतिस्तदीयः विश्वकर्मैव वैश्वकर्मणः स्वार्थे तद्धितो वा । विश्वकर्मा अग्निः नोऽस्माकं तद्दानं स्वः स्वर्लोके देवेषु मध्ये दधत् दधातु स्थापयतु । फलभोगायेत्यर्थः । तत्किम् । यद्दत्तं भार्यापुत्रजामातृभगिनीतत्पत्यादिभ्यो दत्तम् । यच्च परादानं परोपकाराय दयादिनान्धकृपणेभ्यो दत्तम् । यच्च पूर्तं स्मृतिविहितं विप्रभोजनकूपारामादि । याश्च दक्षिणाः यज्ञसंबन्धिन्यः । यज्ञे गते यज्ञाङ्गत्वाद्यजमानः स्वर्गत एव ॥ ६४ ॥
पञ्चषष्टी।
अधिमन्त्रम् (VC)
- विश्वकर्माग्निर्वा देवता
- देवश्रवदेववातावृषी
- निचृदार्ष्यनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) पढ़ने वा पढ़ानेवाले पुरुष ! तू (येन) जिस पढ़ाने से (सहस्रम्) हजारों प्रकार के अतुल बोध को (सर्ववेदसम्) कि जिसमें सब वेद जाने जाते हैं, उसको (वहसि) प्राप्त होता और (येन) जिस पढ़ने से दूसरों को प्राप्त कराता है, (तेन) उससे (इमम्) इस (यज्ञम्) पढ़ने-पढ़ाने रूप यज्ञ को (नः) हम लोगों को (देवेषु) दिव्य गुण वा विद्वानों में (स्वर्गन्तवे) सुख के प्राप्त होने के लिये (नय) पहुँचा ॥६२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो धर्म के आचरण और निष्कपटता से विद्या देते और ग्रहण करते हैं, वे ही सुख के भागी होते हैं ॥६२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स एव विषयः प्रकाश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! त्वं येन सहस्रं सर्ववेदसं वहसि प्राप्नोषि, येन च प्रापयसि, तेनेमं यज्ञं नो देवेषु स्वर्गन्तवे नय ॥६२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये धर्माचरणनिष्कपटत्वाभ्यां विद्यां प्रयच्छन्ति गृह्णन्ति च, त एव सुखभागिनो भवन्ति ॥६२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे धर्माचरणाने व निष्कपट वृत्तीने विद्या शिकतात व शिकवितात तेच सुखाचे भागीदार असतात.
६३ प्रस्तरेण परिधिना
विश्वास-प्रस्तुतिः ...{Loading}...
प्र॒स्त॒रेण॑ परि॒धिना॑ स्रु॒चा वेद्या॑ च ब॒र्हिषा॑। ऋ॒चेमं य॒ज्ञं नो॑ नय॒ स्व᳖र्दे॒वेषु॒ गन्त॑वे ॥६३ ॥
मूलम् ...{Loading}...
प्र॒स्त॒रेण॑ परि॒धिना॑ स्रु॒चा वेद्या॑ च ब॒र्हिषा॑। ऋ॒चेमं य॒ज्ञं नो॑ नय॒ स्व᳖र्दे॒वेषु॒ गन्त॑वे ॥६३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्र॒स्त॒रेणेति॑ प्रऽस्त॒रेण॑। प॒रि॒धिनेति॑ परि॒ऽधिना॑। स्रु॒चा। वेद्या॑। च॒। ब॒र्हिषा॑। ऋ॒चा। इ॒मम्। य॒ज्ञम्। नः॒। न॒य॒। स्वः᳖। दे॒वेषु॑। गन्त॑वे। ६३।
महीधरः
म० वैश्वकर्मणः विश्वकर्माग्निस्तत् तत्र स्वः स्वर्गे देवेषु मध्ये नोऽस्मान् दधत् दधातु स्थापयतु । तत्र यत्र देशे मधोर्मधुनो घृतस्य च याश्चान्याः पयोदध्यादीनां धाराः प्रवाहा अनपेता न अपेता उपभुज्यमाना अप्यक्षीणा वर्तन्ते ॥६५॥
षट्षष्टी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- विश्वामित्र ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को क्रियायज्ञ कैसे सिद्ध करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! आप (वेद्या) जिसमें होम किया जाता है, उस वेदी तथा (स्रुचा) होमने का साधन (बर्हिषा) उत्तम क्रिया (प्रस्तेरण) आसन (परिधिना) जो सब ओर धारण किया जाय, उस यजुर्वेद (च) तथा (ऋचा) स्तुति वा ऋग्वेद आदि से (इमम्) इस पदार्थमय अर्थात् जिसमें उत्तम भोजनों के योग्य पदार्थ होमे जाते हैं, उस (यज्ञम्) अग्निहोत्र आदि यज्ञ को (देवेषु) दिव्य पदार्थ वा विद्वानों में (गन्तवे) प्राप्त होने के लिये (स्वः) संसारसम्बन्धी सुख (नः) हम लोगों को (नय) पहुँचाओ ॥६३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य धर्म से पाये हुए पदार्थों तथा वेद की रीति से साङ्गोपाङ्ग यज्ञ को सिद्ध करते हैं, वे सब प्राणियों के उपकारी होते हैं ॥६३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैः क्रियायज्ञः कथं साधनीय इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वंस्त्वं वेद्या स्रुचा बर्हिषा प्रस्तरेण परिधिनर्चा चेमं यज्ञं देवेषु गन्तवे स्वर्नो नय ॥६३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्या धर्मेण प्राप्तैर्द्रव्यैर्वेदरीत्या च साङ्गोपाङ्गं यज्ञं साध्नुवन्ति, ते सर्वप्राण्युपकारिणो भवन्ति ॥६३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे धर्माने प्राप्त झालेल्या पदार्थांनी व वैदिक रीतीने सांगोपांग यज्ञ संपन्न करतात ती सर्व प्राण्यांवर उपकार करतात.
६४ यद्दत्तं यत्परादानम्
विश्वास-प्रस्तुतिः ...{Loading}...
यद्द॒त्तं यत्प॑रा॒दानं॒ यत्पू॒र्त्तं याश्च॒ दक्षि॑णाः। तद॒ग्निर्वै॑श्वकर्म॒णः स्व॑र्दे॒वेषु॑ नो दधत् ॥६४ ॥
मूलम् ...{Loading}...
यद्द॒त्तं यत्प॑रा॒दानं॒ यत्पू॒र्त्तं याश्च॒ दक्षि॑णाः। तद॒ग्निर्वै॑श्वकर्म॒णः स्व॑र्दे॒वेषु॑ नो दधत् ॥६४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यत्। द॒त्तम्। यत्। प॒रा॒दान॒मिति॑ परा॒ऽदान॑म्। यत्। पू॒र्त्तम्। याः। च॒। दक्षि॑णाः। तत्। अ॒ग्निः। वै॒श्व॒क॒र्म॒ण इति॑ वैश्वऽकर्म॒णः। स्वः॑। दे॒वेषु॑। नः॒। द॒ध॒त्। ६४।
महीधरः
म० अग्न्यद्वैतवादिनी त्रिष्टुप् देवश्रवोदेववातदृष्टा यज्ञेऽविनियुक्ता । अग्निप्रकरणत्वाद् यजमान आत्मानमग्नित्वेन ध्यायति। जन्मना उत्पत्त्यैवाहमग्निरस्मि अग्निरूपोऽस्मि । नाम विभक्तिलोपः । नाम्ना हविः पुरोडाशादिकमप्यहमस्मि । कीदृशोऽहम् । जातं जातं विन्दत इति जातवेदाः । उत्पन्नस्य सर्वस्य स्वामीत्यर्थः । अर्कः अर्चनीयो यज्ञोऽप्यहमेव । त्रिधातुः त्रयो धातव ऋग्यजुःसामलक्षणा यस्य । रजसो विमानः रज उदकं तस्य निर्माता । विमिमीत इति विमानः । नन्द्यादित्वात्कर्तरि ल्युट् । अजस्रः न जसति क्षीयत इत्यजस्रः अनुपक्षीणः ‘जसु उपक्षये’ ‘नमिकम्पि-’(पा० ३।२।१६७) इत्यादिना रप्रत्ययः । घर्मः ‘घृ क्षरणदीप्त्योः’ जिघर्ति घर्मः औणादिको मप्रत्ययः । दीप्तः आदित्यरूपः क्षरणो मेघरूपो वा । एतादृशोऽग्निरहं यतस्ततो घृतं मे मम चक्षुर्नेत्रं । घृतहोमिनं पश्यामीति भावः । अमृतं हविर्मम आसन् आस्ये मुखे ‘पद्दन्न(पा० ६।१ । ६३ ) इत्यादिना आस्यशब्दस्यासन्नादेशः सप्तम्या लुक् । मन्मुखे हविर्जुह्वन्तममृतं करोमीति भावः । एवमात्मन्यन्यग्न्यद्वैतं संपाद्यम् ॥ ६६ ॥
सप्तषष्टी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- विश्वकर्मर्षिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे गृहस्थ विद्वन् ! आपने (यत्) जो (दत्तम्) अच्छे धर्मात्माओं को दिया वा (यत्) जो (परादानम्) और से लिया वा (यत्) जो (पूर्त्तम्) पूर्ण सामग्री (याश्च) और जो कर्म के अनुसार (दक्षिणाः) दक्षिणा दी जाती है, (तत्) उस सब (स्वः) इन्द्रियों के सुख को (वैश्वकर्मणः) जिसके समग्र कर्म विद्यमान हैं, उस (अग्निः) अग्नि के समान गृहस्थ विद्वान् आप (देवेषु) दिव्य धर्मसम्बन्धी व्यवहारों में (नः) हम लोगों को (दधत्) स्थापन करें ॥६४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो पुरुष और जो स्त्री गृहाश्रम किया चाहें, वे विवाह से पूर्व प्रगल्भता अर्थात् अपने में बल, पराक्रम, परिपूर्णता आदि सामग्री कर ही के युवावस्था में स्वयंवरविधि के अनुकूल विवाह कर धर्म से दान-आदान, मान-सन्मान आदि व्यवहारों को करें ॥६४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे गृहस्थ ! त्वया यद्दत्तं यत्परादानं यत्पूर्त्तं याश्च दक्षिणा दीयन्ते, तत्स्वश्च वैश्वकर्मणोऽग्निरिव भवान् देवेषु नो दधत् ॥६४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये याश्च गृहाश्रमं चिकीर्षेयुस्ते पुरुषास्ताः स्त्रियश्च विवाहात् प्राक् प्रागल्भ्यादिसामग्रीं कृत्वैव युवावस्थायां विवाहं कृत्वा धर्मेण दानादानमानादिव्यवहारं कुर्युः ॥६४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे पुरुष व ज्या स्रिया गृहस्थाश्रमात प्रवेश करू इच्छितात त्यांनी विवाहापूर्वीच प्रगल्भता अर्थात् बल, पराक्रम, परिपूर्णता इत्यादींनीयुक्त व्हावे. युवावस्थेमध्येच स्वयंवर पद्धतीनुसार विवाह करून धर्माने दान (देणे) आदान (घेणे) मान, सन्मान इत्यादी व्यवहार करावेत.
६५ यत्र धाराऽअनपेता
विश्वास-प्रस्तुतिः ...{Loading}...
यत्र॒ धारा॒ऽअन॑पेता॒ मधो॑र्घृ॒तस्य॑ च॒ याः। तद॒ग्निर्वै॑श्वकर्म॒णः स्व॑र्दे॒वेषु॑ नो दधत् ॥६५ ॥
मूलम् ...{Loading}...
यत्र॒ धारा॒ऽअन॑पेता॒ मधो॑र्घृ॒तस्य॑ च॒ याः। तद॒ग्निर्वै॑श्वकर्म॒णः स्व॑र्दे॒वेषु॑ नो दधत् ॥६५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यत्र॑। धाराः॑। अन॑पेता॒ इत्यन॑पऽइताः। मधोः॑। घृ॒तस्य॑। च॒। याः। तत्। अ॒ग्निः। वै॒श्व॒क॒र्म॒ण इति॑ वैश्वऽकर्म॒णः। स्वः॑। दे॒वेषु॑। नः॒। द॒ध॒त्। ६५।
महीधरः
म० ऋचः । आत्मदेवत्यं यजुः सप्तदशाक्षरम् । यज्ञेऽस्य विनियोगो नास्ति यजमानोऽनेनात्मनि वेदत्रयात्मकत्वं संपादयति । नाम नाम्नाहमृचोऽस्मि ऋग्वेदरूपोऽस्मि । यजूंषि नामास्मि यजुर्वेदरूपोऽस्मि । सामानि नामास्मि सामवेदो नाम्नास्मि। ‘चित्रोऽसीति चित्यनाम कृत्वोपतिष्ठते ये अग्नय इति’ ( का० १८ । २ । २३) । चित्यस्याग्नेः चित्रोऽसीति नाम विधाय तमुपतिष्ठते । कर्मशेषं समाप्येदमुपस्थानं कार्यमुपस्थानानन्तरं समारोपविधानादिति सूत्रार्थः । अग्निदेवत्यानुष्टुप् । अस्यां पृथिव्यामधि अस्याः पृथिव्याः उपरि ये अग्नयो वर्तन्ते । कीदृशाः । पाञ्चजन्याः पञ्चजना मनुष्यास्तेभ्यो हिताः पाञ्चजन्याः । यद्वा पञ्च जनाः समूहाः चितिरूपा येषां ते पञ्चजनास्त एव पाञ्चजन्याः । स्वार्थे तद्धितः । हे चित्याग्ने, तेषां पृथिवीस्थानाममीषां त्वमुत्तमोऽसि श्रेष्ठोऽसि । अतो नोऽस्मान् जीवातवे चिरंजीवनाय प्रसुव प्रेरय । चिरंजीवयेत्यर्थः । ‘जीवेरातुः’ ( उणा० १ । ७९) इत्यातुप्रत्ययः ‘व्यवहिताश्च’ (पा० १ । ४ । ८२) इति प्रेत्यस्य सुवेत्यनेन व्यवधानम् ॥ ६७॥
अष्टषष्टी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- विश्वकर्मर्षिः
- विराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को क्या करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यत्र) जिस यज्ञ में (मधोः) मधुरादि गुणयुक्त सुगन्धित द्रव्यों (च) और (घृतस्य) घृत के (याः) जिन (अनपेताः) संयुक्त (धाराः) प्रवाहों को विद्वान् लोग करते हैं, (तत्) उन धाराओं से (वैश्वकर्मणः) सब कर्म होने का निमित्त (अग्निः) अग्नि (नः) हमारे लिये (देवेषु) दिव्य व्यवहारों में (स्वः) सुख को (दधत्) धारण करता है ॥६५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य वेदि आदि को बना के सुगन्ध और मिष्टादियुक्त बहुत घृत को अग्नि में हवन करते हैं, वे सब रोगों का निवारण करके अतुल सुख को उत्पन्न करते हैं ॥६५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्याः किं कुर्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यत्र मधोर्घृतस्य च या अनपेता धारा विद्वद्भिः क्रियन्ते, तद्वैश्वकर्मणोऽग्निर्नो देवेषु स्वर्दधत् ॥६५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्या वेद्यादिकं निर्माय सुगन्धिमिष्टादियुक्तं बहुघृतमग्नौ जुह्वति, ते सर्वान् रोगान्निहत्यातुलं सुखं जनयन्ति ॥६५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे वेदी बनवून सुगंधी पदार्थ व मिष्टान्न आणि घृत अग्नीत घालून हवन करतात ती सर्व रोगांचे निवारण करून अत्यंत सुख उत्पन्न करतात.
६६ अग्निरस्मि जन्मना
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्निर॑स्मि॒ जन्म॑ना जा॒तवे॑दा घृ॒तं मे॒ चक्षु॑र॒मृतं॑ मऽआ॒सन्। अ॒र्कस्त्रि॒धातू॒ रज॑सो वि॒मानोऽज॑स्रो घ॒र्मो ह॒विर॑स्मि॒ नाम॑ ॥६६ ॥
मूलम् ...{Loading}...
अ॒ग्निर॑स्मि॒ जन्म॑ना जा॒तवे॑दा घृ॒तं मे॒ चक्षु॑र॒मृतं॑ मऽआ॒सन्। अ॒र्कस्त्रि॒धातू॒ रज॑सो वि॒मानोऽज॑स्रो घ॒र्मो ह॒विर॑स्मि॒ नाम॑ ॥६६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒ग्निः। अ॒स्मि॒। जन्म॑ना। जा॒तवे॑दा इति॑ जा॒तऽवे॑दाः। घृ॒तम्। में॒। चक्षुः॑। अ॒मृत॑म्। मे॒। आ॒सन्। अ॒र्कः। त्रि॒धातु॒रिति॑ त्रि॒ऽधातुः॑। रज॑सः। वि॒मान॒ इति॑ वि॒ऽमानः॑। अज॑स्रः। घ॒र्मः। ह॒विः। अ॒स्मि॒। नाम॑। ६६।
महीधरः
म०. ‘चितिं पुरीषवतीमुपतिष्ठते वार्त्रहत्यायेति सप्तभिरष्टाभिरेके दशभिर्वा’ ( का० १७ । ७ । १-२) । मृत्पूरणानन्तरमेतां चितिमुपतिष्ठते सप्तभिरष्टाभिरेकेषां मते दशर्ग्भिर्वेति सूत्रार्थः । आग्नेय्यः सप्त ऋच इन्द्रदृष्टाः। आद्ये द्वे वृत्रहेन्द्रदेवत्ये गायत्रीत्रिष्टुभौ विश्वामित्रेणापि दृष्टे। हे इन्द्र, वयं त्वा त्वामावर्तयामसि आवर्तयामः ‘इदन्तो मसि’ उपतिष्ठामहे । किमर्थम् । शवसे बलाय । त्वद्बलवृद्धय इत्यर्थः । कीदृशाय शवसे । वार्त्रहत्याय वृत्रस्य दैत्यस्य हत्यायां हनने कुशलं वार्त्रहत्ये वृत्रघातसमर्थमित्यर्थः । च पुनः पृतनाषाह्याय पृतना शत्रुसेना सह्यतेऽभिभूयते येन तत्पृतनासाह्यं तस्मै शत्रुसेनापराभवसमर्थायेत्यर्थः ॥ ६८ ॥
एकोनसप्ततितमी ।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- देवश्रवदेववातावृषी
- निचृत् त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
यज्ञ से क्या होता है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - मैं (जन्मना) जन्म से (जातवेदाः) उत्पन्न हुए पदार्थों में विद्यमान (अग्निः) अग्नि के समान (अस्मि) हूँ, जैसे अग्नि का (घृतम्) घृतादि (चक्षुः) प्रकाशक है, वैसे (मे) मेरे लिये हो। जैसे अग्नि में अच्छे प्रकार संस्कार किया (हविः) हवन करने योग्य द्रव्य होमा हुआ (अमृतम्) सर्वरोगनाशक आनन्दप्रद होता है, वैसे (मे) मेरे (आसन्) मुख में प्राप्त हो। जैसे (त्रिधातुः) सत्त्व, रज और तमोगुण तत्त्व जिसमें हैं, उस (रजसः) लोक-लोकान्तर को (विमानः) विमान यान के समान धारण करता (अजस्रः) निरन्तर गमनशील (घर्मः) प्रकाश के समान यज्ञ, जिससे सुगन्ध का ग्रहण होता है, (अर्कः) जो सत्कार का साधन जिसका (नाम) प्रसिद्ध होना अच्छे प्रकार शोधा हुआ हवन करने योग्य पदार्थ है, वैसे मैं (अस्मि) हूँ ॥६६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। अग्नि होम किये हुए पदार्थ को वायु में फैला कर दुर्गन्ध का निवारण, सुगन्ध की प्रकटता और रोगों को निर्मूल (नष्ट) करके सब प्राणियों को सुखी करता है, वैसे ही सब मनुष्यों को होना योग्य है ॥६६ ॥
दयानन्द-सरस्वती (सं) - विषयः
यज्ञेन किं जायत इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - अहं जन्मना जातवेदा अग्निरिवास्मि, यथाऽग्नेर्घृतं चक्षुरस्ति, तथा मेऽस्तु। यथा पावकं संस्कृतं हविर्हुतं सदमृतं जायते, तथा म आसन् मुखेऽस्तु। यथा त्रिधातू रजसो विमानोऽजस्रो घर्मोऽर्को यस्य नाम संशोधितं हविश्चास्ति तथाऽहमस्मि ॥६६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथाग्निर्हुतं हविर्वायौ प्रसार्य दुर्गन्धं निवार्य सुगन्धं प्रकटय्य रोगान् समूलघातं निहत्य सर्वान् प्राणिनः सुखयति, तथैव मनुष्यैर्भवितव्यम् ॥६६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. होमात टाकलेल्या पदार्थांना अग्नी वायूत पसरवितो व दुर्गंधाचे निवारण करून सुगंधाचा फैलाव व रोगांचे निर्मूलन करतो आणि सर्व प्राण्यांना सुखी करतो. तसे सर्व माणसांनी वागावे.
६७ ऋचो नामास्मि
विश्वास-प्रस्तुतिः ...{Loading}...
ऋचो॒ नामा॑स्मि॒ यजूँ॑षि॒ नामा॑स्मि॒ सामा॑नि॒ नामा॑स्मि। येऽअ॒ग्नयः॒ पाञ्च॑जन्याऽअ॒स्यां पृ॑थि॒व्यामधि॑। तेषा॑मसि॒ त्वमु॑त्त॒मः प्र नो॑ जी॒वात॑वे सुव ॥६७ ॥
मूलम् ...{Loading}...
ऋचो॒ नामा॑स्मि॒ यजूँ॑षि॒ नामा॑स्मि॒ सामा॑नि॒ नामा॑स्मि। येऽअ॒ग्नयः॒ पाञ्च॑जन्याऽअ॒स्यां पृ॑थि॒व्यामधि॑। तेषा॑मसि॒ त्वमु॑त्त॒मः प्र नो॑ जी॒वात॑वे सुव ॥६७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ऋचः॑। नाम॑। अ॒स्मि॒। यजूँ॑षि। नाम॑। अ॒स्मि॒। सामा॑नि। नाम॑। अ॒स्मि॒। ये॒। अ॒ग्नयः॑। पाञ्च॑जन्या॒ इति॒ पाञ्च॑जन्याः। अ॒स्याम्। पृ॒थि॒व्याम्। अधि॑। तेषा॑म्। अ॒सि॒। त्वम्। उ॒त्त॒म इत्यु॑त्ऽत॒मः। प्र। नः॒। जी॒वात॑वे। सु॒व॒। ६७।
महीधरः
म० हे पुरुहूत, पुरुभिर्बहुभिर्हूतोऽभिहूतः पुरुहूतः हे बहुभिराहूत, हे इन्द्र, त्वं सहदानुं शत्रुमहस्तं हस्तहीनं कृत्वा संपिणक् संपिण्ढि चूर्णय । सह इति बलनाम । सहो बलं ददाति सहदानुः पृषोदरादित्वात्सहःशब्दान्त्यलोपः नुप्रत्ययो ददातेः । अयमसमर्थोऽस्ति त्वं तु समर्थ इति यः शत्रुं प्रेर्य बलं ददाति स सहदानुः । यद्वा सह एकीभूय योद्धुर्मन्त्रं ददाति स सहदानुः शत्रुः । कीदृशम् । क्षियन्तं क्षियति वसतीति क्षियन् तम् ‘क्षि निवासगत्योः’ तुदादिः शतृप्रत्ययः । निकटे वसन्तम् । कुणारुं क्वणति दुर्वचो वदति कुणारुः तम् । ‘क्वण शब्दे’ औणादिक आरुप्रत्ययः धातोः संप्रसारणं च । ‘पिष्लृ संचूर्णने’ लङि मध्यमैकवचनं रुधादित्वात् श्नम् संपूर्वः अडभावस्त्वार्षः षस्य कुत्वमार्षम् । हे इन्द्र, वृत्रं दैत्यमपादं पादहीनं कृत्वा तवसा बलेन त्वमभिजघन्थ जहि सम्यक् मारय ‘छन्दसि लुङ्लङ्लिटः’ (पा० ३ । ४ । ६ ) इति लोडर्थे लिट् । कीदृशं वृत्रम् । वर्धमानं जगद् व्याप्नुवन्तम् । पियारुं सुराणां हन्तारम् । पियतिर्हिंसाकर्मा ॥ ६९ ॥
सप्ततितमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- देवश्रवदेववातावृषी
- आर्षी जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
अब ऋग्वेद आदि को पढ़के क्या करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! जो मैं (ऋचः) ऋचाओं की (नाम) प्रसिद्धिकर्त्ता (अस्मि) हूँ (यजूंषि) यजुर्वेद की (नाम) प्रख्यातिकर्ता (अस्मि) हूँ (सामानि) सामवेद के मन्त्रगान का (नाम) प्रकाशकर्त्ता (अस्मि) हूँ, उस मुझ से वेदविद्या का ग्रहण कर (ये) जो (अस्याम्) इस (पृथिव्याम्) पृथिवी में (पाञ्चजन्याः) मनुष्यों के हितकारी (अग्नयः) अग्नि (अधि) सर्वोपरि हैं, (तेषाम्) उनके मध्य (त्वम्) तू (उत्तमः) अत्युत्तम (असि) है सो तू (नः) हमारे (जीवातवे) जीवन के लिये सत्कर्मों में (प्र, सुव) प्रेरणा कर ॥६७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य ऋग्वेद को पढ़ते वे ऋग्वेदी, जो यजुर्वेद को पढ़ते वे यजुर्वेदी, जो सामवेद को पढ़ते वे सामवेदी और जो अथर्ववेद पढ़ते हैं वे अथर्ववेदी। जो दो वेदों को पढ़ते वे द्विवेदी, जो तीन वेदों को पढ़ते वे त्रिवेदी और जो चार वेदों को पढ़ते हैं वे चतुर्वेदी। जो किसी वेद को नहीं पढ़ते, वे किसी संज्ञा को प्राप्त नहीं होते। जो वेदवित् हों, वे अग्निहोत्रादि यज्ञों से सब मनुष्यों के हित को सिद्ध करें, जिससे उनकी उत्तम कीर्त्ति होवे और सब प्राणी दीर्घायु होवें ॥६७ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथर्गादिवेदाध्ययनेन किं कार्यमित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! योऽहमृचो नामास्मि, यजूंषि नामास्मि, सामानि नामास्मि, तस्मान्मत्तो वेदविद्यां गृहाण। येऽस्यां पृथिव्यां पाञ्चजन्या अग्नयोऽधिषन्ति, तेषां मध्ये त्वमुत्तमोऽसि, स त्वं नो जीवातवे शुभकर्मसु प्रसुव ॥६७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यो मनुष्य ऋग्वेदमधीते स ऋग्वेदी, यो यजुर्वेदमधीते स यजुर्वेदी, यः सामवेदमधीते स सामवेदी, योऽथर्ववेदं चाधीते सोऽथर्ववेदी। यो द्वौ वेदावधीते स द्विवेदी, यस्त्रीन् वेदानधीते स त्रिवेदी, यश्चतुरो वेदानधीते स चतुर्वेदी। यश्च कमपि वेदं नाऽधीते स कामपि संज्ञां न लभते। ये वेदविदस्तेऽग्निहोत्रादियज्ञैः सर्वहितं सम्पादयेयुर्यत उत्तमा कीर्त्तिः स्यात्, सर्वे प्राणिनो दीर्घायुषश्च भवेयुः ॥६७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे ऋग्वेदाचे अध्ययन करतात ते ऋग्वेदी होत व जे यजुर्वेदाचे अध्ययन करतात ते यजुर्वेदी होत, तसेच ते सामदेवाचे अध्ययन करतात ते सामदेवी होत, तसेच जे अथर्ववेदाचे अध्ययन करतात ते अथर्ववेदी होत. जे दोन वेदांचे अध्ययन करतात, ते द्विवेदी व जे तीन वेदांचे अध्ययन करतात ते त्रिवेदी होत. जे चार वेदांचे अध्ययन करतात ते चतुर्वेदी होत. जे कोणत्याही वेदाचे अध्ययन करीत नाहीत. त्यांना कोणतीही संज्ञा प्राप्त होत नाही. जे वेदांचे जाणते असतात त्यांनी अग्निहोत्र वगैरे यज्ञ करून सर्व मानवांचे हित करावे. म्हणजे त्यांची उत्तम कीर्ती पसरेल व सर्व प्राणी दीर्घायू होतील.
६८ वार्त्रहत्याय शवसे
विश्वास-प्रस्तुतिः ...{Loading}...
वार्त्र॑हत्याय॒ शव॑से पृतना॒षाह्या॑य च। इन्द्र॒ त्वाव॑र्तयामसि ॥६८ ॥
मूलम् ...{Loading}...
वार्त्र॑हत्याय॒ शव॑से पृतना॒षाह्या॑य च। इन्द्र॒ त्वाव॑र्तयामसि ॥६८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वार्त्र॑हत्या॒येति॒ वार्त्र॑ऽहत्याय। शव॑से। पृ॒त॒ना॒षाह्या॑य। पृ॒त॒ना॒सह्या॒येति॑ पृतना॒ऽसह्या॑य। च॒। इन्द्र॑। त्वा॒। आ। व॒र्त॒या॒म॒सि॒। ६८।
महीधरः
म० शासदृष्टानुष्टुप् । व्याख्याता (अ० ८। क० ४४) ॥७०॥
एकसप्ततितमी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- इन्द्र ऋषिः
- निचृद् गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
सेनाध्यक्ष कैसे विजयी हो, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) परमैश्वर्य्युक्त सेनापते ! जैसे हम लोग (वार्त्रहत्याय) विरुद्ध भाव से वर्त्तमान शत्रु के मारने में जो कुशल (शवसे) उत्तम बल (पृतनाषाह्याय) जिससे शत्रुसेना का बल सहन किया जाय उससे (च) और अन्य योग्य साधनों से युक्त (त्वा) तुझको (आ, वर्तयामासि) चारों ओर से यथायोग्य वर्त्ताया करें, वैसे तू यथायोग्य वर्त्ता कर ॥६८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो विद्वान्, जैसे सूर्य मेघ को वैसे, शत्रुओं के मारने को शूरवीरों की सेना का सत्कार करता है, वह सदा विजयी होता है ॥६८ ॥
दयानन्द-सरस्वती (सं) - विषयः
सेनाध्यक्षः कथं विजयी भवेदित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे इन्द्र ! यथा वयं वार्त्रहत्याय शवसे पृतनाषाह्याय तेनान्येन योग्यसाधनेन च त्वाऽऽवर्त्तयामसि तथा त्वं वर्त्तस्व ॥६८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यो विद्वान् सूर्य्यो मेघमिव शत्रून् हन्तुं शूरवीरसेनां सत्करोति, स सततं विजयी भवति ॥६८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. सूर्य जसे मेघांचे हनन करतो तसे जो विद्वान (सेनापती) शत्रूंना मारण्यासाठी शूरवीर सेनेचा सत्कार करतो तो सदैव विजयी होतो.
६९ सहदानुम्पुरुहूत क्षियन्तमहस्तमिन्द्र
विश्वास-प्रस्तुतिः ...{Loading}...
स॒हदा॑नुम्पुरुहूत क्षि॒यन्त॑मह॒स्तमि॑न्द्र॒ सम्पि॑ण॒क् कुणा॑रुम्। अ॒भि वृ॒त्रं वर्द्ध॑मानं॒ पिया॑रुम॒पाद॑मिन्द्र त॒वसा॑ जघन्थ ॥६९ ॥
मूलम् ...{Loading}...
स॒हदा॑नुम्पुरुहूत क्षि॒यन्त॑मह॒स्तमि॑न्द्र॒ सम्पि॑ण॒क् कुणा॑रुम्। अ॒भि वृ॒त्रं वर्द्ध॑मानं॒ पिया॑रुम॒पाद॑मिन्द्र त॒वसा॑ जघन्थ ॥६९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स॒हदा॑नु॒मिति॑ स॒हऽदा॑नुम्। पु॒रु॒हू॒तेति॑ पुरुऽहूत। क्षि॒यन्त॑म्। अ॒ह॒स्तम्। इ॒न्द्र॒। सम्। पि॒ण॒क्। कुणा॑रुम्। अ॒भि। वृ॒त्रम्। वर्द्ध॑मानम्। पिया॑रुम्। अ॒पाद॑म्। इ॒न्द्र॒। त॒वसा॑। ज॒घ॒न्थ॒। ६९।
महीधरः
म० जयदृष्टा त्रिष्टुप् हे इन्द्र, परस्याः परावतो दूरतराद्देशादाजगन्थ आगच्छ । परावच्छब्दो दूरवचनः । परस्या दूरदिशोऽपि परावतः दूरदेशादित्यर्थः । लोडर्थे लिट् । आगत्य च शत्रून् विताढि विशेषेण ताडय । मृधः संग्रामांश्च विनुदस्व विशेषेण प्रेरय दूरीकुरु । किं कृत्वा । पविं वज्रं संशाय तीक्ष्णीकृत्य ‘शो तनूकरणे’ ल्यप् । कीदृशं पविम् । सृकम् सरति शत्रुशरीरे गच्छतीति सृकः तम् । तिग्ममुत्साहवन्तम् ‘तिग्मं तेजतेरुत्साहकर्मणः’ ( निरु० १० । ६ ) इति यास्कः । क इव । मृगो न मृग इव । यथा मृगः सिंहो दूरादेत्य प्राणिनं हन्ति। कीदृशः । भीमः भयंकरः । कुचरः कुत्सितं चरति गच्छति कुचरः । गिरिष्ठाः गिरौ तिष्ठति गिरिष्ठाः पर्वताश्रयः । ताडयतिर्हिंसाकर्मा तस्य हौ परे ‘छन्दस्युभयथा-’ (पा० ३ ॥ ४ । ११७ ) इत्यार्धधातुकत्वे णिचो लोपः हुझल्भ्यो हेर्धिः ष्टुत्वम् ताढि ॥ ७१ ॥
द्विसप्ततितमी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- इन्द्रविश्वामित्रावृषी
- आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को कैसा होना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (पुरुहूत) बहुत विद्वानों से सत्कार को प्राप्त (इन्द्र) शत्रुओं को नष्ट करनेहारे सेनापति ! जैसे सूर्य (सहदानुम्) साथ देनेहारे (क्षियन्तम्) आकाश में निवास करने (कुणारुम्) शब्द करनेवाले (अहस्तम्) हस्त से रहित (पियारुम्) पान करनेहारे (अपादम्) पादेन्द्रियरहित (अभि) (वर्द्धमानम्) सब ओर से बढ़े हुए (वृत्रम्) मेघ को (सम्, पिणक्) अच्छे प्रकार चूर्णीभूत करता है, वैसे हे (इन्द्र) सभापति ! आप शत्रुओं को (तवसा) बल से (जघन्थ) मारा करो ॥६९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो मनुष्य सूर्य के समान प्रतापयुक्त होते हैं, वे शत्रुरहित होते हैं ॥६९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्जनैः कथम्भवितव्यमित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे पुरुहूतेन्द्र ! यथा सूर्यः सहदानुं क्षियन्तं कुणारुमहस्तं पियारुमपादमभिवर्द्धमानं वृत्रं सम्पिणक् तथा हे इन्द्र ! शत्रूँस्तवसा जघन्थ ॥६९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये मनुष्याः सूर्यवत्प्रतापिनो भवन्ति, तेऽजातशत्रवो जायन्ते ॥६९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जी माणसे सूर्याप्रमाणे पराक्रमी असतात ती शत्रूरहित असतात.
७० वि नऽइन्द्र
विश्वास-प्रस्तुतिः ...{Loading}...
वि न॑ऽइन्द्र॒ मृधो॑ जहि नी॒चा य॑च्छ पृतन्य॒तः। योऽअ॒स्माँ२ऽअ॑भि॒दास॒त्यध॑रं गमया॒ तमः॑ ॥७० ॥
मूलम् ...{Loading}...
वि न॑ऽइन्द्र॒ मृधो॑ जहि नी॒चा य॑च्छ पृतन्य॒तः। योऽअ॒स्माँ२ऽअ॑भि॒दास॒त्यध॑रं गमया॒ तमः॑ ॥७० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वि। नः॒। इ॒न्द्र॒। मृधः॑। ज॒हि॒। नी॒चा। य॒च्छ॒। पृ॒त॒न्य॒तः। यः। अ॒स्मा॒न्। अ॒भिदास॒तीत्य॑भि॒ऽदास॑ति। अध॑रम्। ग॒म॒य॒। तमः॑। ७०।
महीधरः
म० वैश्वानरदेवत्या गायत्री । वैश्वानरः अग्निर्नोऽस्माकं सुष्टुतीः शोभनाः स्तुतीरुप उपश्रोतुं परावतो दूरदेशादा प्रयातु आगच्छतु । किमर्थम् । नोऽस्माकमूतये रक्षणाय । अस्मान् रक्षितुमित्यर्थः ॥ ७२ ॥
त्रिसप्ततितमी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- शास ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब सेनापति कैसा हो, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) परम बलयुक्त सेना के पति ! तू (मृधः) सङ्ग्रामों को (वि, जहि) विशेष करके जीत (पृतन्यतः) सेनायुक्त (नः) हमारे शत्रुओं को (नीचा) नीच गति को (यच्छ) प्राप्त करा (यः) जो (अस्मान्) हम को (अभिदासति) नष्ट करने की इच्छा करता है, उसको (अधरम्) अधोगतिरूप (तमः) अन्धकार को (गमय) प्राप्त करा ॥७० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सेनापति को योग्य है कि सङ्ग्रामों को जीते, उस विजयकारक सङ्ग्राम से नीचकर्म करनेहारे का निरोध करे, राजप्रजा में विरोध करनेहारे को अत्यन्त दण्ड देवे ॥७० ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ सेनापतिः कीदृशो भवेदित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे इन्द्र सेनेश ! त्वं मृधो वि जहि पृतन्यतो नः शत्रून् नीचा यच्छ, योऽस्मानभिदासति तमधरं तमो गमय ॥७० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सेनेशेन सङ्ग्रामा जेतव्यास्तेन नीचकर्मकारिणां निग्रहः कर्त्तव्यो राजप्रजाविरोधकारयिता भृशं दण्डनीयश्च ॥७० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सेनापतीने लढाई जिंकून विजय प्राप्त करावा. नीच कर्म करणाऱ्या शत्रूंचा बंदोबस्त करावा, तसेच राजाने प्रजेतील विरोधकांना दंडित करावे.
७१ मृगो न
विश्वास-प्रस्तुतिः ...{Loading}...
मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः प॑रा॒वत॒ऽआ ज॑गन्था॒ पर॑स्याः। सृ॒कँ सँ॒शाय॑ प॒विमि॑न्द्र ति॒ग्मं वि शत्रू॑न् ताढि॒ वि मृधो॑ नुदस्व ॥७१ ॥
मूलम् ...{Loading}...
मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः प॑रा॒वत॒ऽआ ज॑गन्था॒ पर॑स्याः। सृ॒कँ सँ॒शाय॑ प॒विमि॑न्द्र ति॒ग्मं वि शत्रू॑न् ताढि॒ वि मृधो॑ नुदस्व ॥७१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मृ॒गः। न। भी॒मः। कु॒च॒र इति॑ कुऽच॒रः। गि॒रि॒ष्ठाः। गि॒रि॒स्था इति॑ गिरि॒ऽस्थाः। प॒रा॒वतः॑। आ। ज॒ग॒न्थ॒। पर॑स्याः। सृ॒कम्। सँ॒शायेति॑ स॒म्ऽशाय॑। प॒विम्। इ॒न्द्र॒। ति॒ग्मम्। वि। शत्रू॑न्। ता॒ढि॒। वि॒। मृधः॑। नु॒द॒स्व॒। ७१।
महीधरः
म० वैश्वानरदेवत्या त्रिष्टुप् कुत्सदृष्टा । वैश्वानरः सर्वनरेभ्यो हितोऽग्निर्दिवा दिवसे नोऽस्मान् पातु रक्षतु । स च नक्तं रात्रौ नः पातु सर्वदास्मान् रक्षत्वित्यर्थः । स कः । योऽग्निर्दिवि द्युलोके पृष्टः कोऽयमादित्यात्मना तपतीति मुमुक्षुभिः पृष्टः अन्तरिक्षे ‘यमेतमादित्ये पुरुषं वेदयन्ते स इन्द्रः स प्रजापतिस्तद्ब्रह्म’ इति श्रुतेः । यश्चाग्निः पृथिव्यामन्तरिक्षलोके पृष्टः कोऽयं विद्युदात्मना स्थित इति जलार्थिभिः पृष्टः । अन्तरिक्षनामसु पृथिवीति पठितम् । यश्च विश्वा ओषधीः सर्वा व्रीह्याद्योषधीः आविवेश प्रविष्टः सन् पृष्टः कोऽयं प्रजानां जीवनहेतुस्तापपाकप्रकाशैरुपकरोति यश्च सहसा बलेनाध्वर्युणा मध्यमानः सन् पृष्टः जनैः कोऽयं मथ्यत इति । सोऽयमग्निर्दिवा नक्तं रिषो वधात् पातु । रिषतिर्हिंसाकर्मा । मास्मान्नाशयत्वित्यर्थः ॥ ७३ ॥
चतुःसप्ततितमी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- जय ऋषिः
- आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
राजपुरुषों को कैसा होना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) सेनाओं के पति ! तू (कुचरः) कुटिल चाल चलता (गिरिष्ठाः) पर्वतों में रहता (भीमः) भयङ्कर (मृगः) सिंह के (न) समान (परावतः) दूरदेशस्थ शत्रुओं को (आ, जगन्थ) चारों ओर से घेरे (परस्याः) शत्रु की सेना पर (तिग्मम्) अति तीव्र (पविम्) दुष्टों को दण्ड से पवित्र करनेहारे (सृकम्) वज्र के तुल्य शस्त्र को (संशाय) सम्यक् तीव्र करके (शत्रून्) शत्रुओं को (वि, ताढि) ताड़ित कर और (मृधः) सङ्ग्रामों को (वि, नुदस्व) जीत कर अच्छे कर्मों में प्रेरित कर ॥७१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो सेना के पुरुष सिंह के समान पराक्रम कर तीक्ष्ण शस्त्रों से शत्रुओं के सेनाङ्गों का छेदन कर सङ्ग्रामों को जीतते हैं, वे अतुल प्रशंसा को प्राप्त होते हैं, इतर क्षुद्राशय मनुष्य विजयसुख को प्राप्त कभी नहीं हो सकते ॥७१ ॥
दयानन्द-सरस्वती (सं) - विषयः
राजजनैः कीदृशैर्भवितव्यमित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे इन्द्र ! त्वं कुचरो गिरिष्ठा भीमो मृगो न परावत आजगन्थ परस्यास्तिग्मं पविं सृकं संशाय शत्रून् विताढि मृधो विनुदस्व च ॥७१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये सेनापुरुषाः सिंहवत् पराक्रम्य तीक्ष्णैः शस्त्रैः शत्रुसेनाङ्गानि छित्त्वा सङ्ग्रामान् विजयन्ते, तेऽतुलां प्रशंसां प्राप्नुवन्ति, नेतरे क्षुद्राशया भीरवः ॥७१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्या सेनेतील पुरुष सिंहाप्रमाणे पराक्रम करून तीक्ष्ण शस्रांनी शत्रूसेनेला नष्टभ्रष्ट करून लढाई जिंकतात ते अत्यंत प्रशंसा करण्यायोग्य असतात. इतर क्षुद्र माणसे कधीच विजय प्राप्त करू शकत नाहीत.
७२ वैश्वानरो नऽऊतयऽआ
विश्वास-प्रस्तुतिः ...{Loading}...
वै॒श्वा॒न॒रो न॑ऽऊ॒तय॒ऽआ प्र या॑तु परा॒वतः॑। अ॒ग्निर्नः॑ सुष्टु॒तीरुप॑ ॥७२ ॥
मूलम् ...{Loading}...
वै॒श्वा॒न॒रो न॑ऽऊ॒तय॒ऽआ प्र या॑तु परा॒वतः॑। अ॒ग्निर्नः॑ सुष्टु॒तीरुप॑ ॥७२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वै॒श्वा॒न॒रः। नः॒। ऊ॒तये॑। आ। प्र। या॒तु॒। प॒रा॒वत॒ इति॑ परा॒ऽवतः॑। अ॒ग्निः। नः॒। सु॒ष्टु॒तीः। सु॒स्तु॒तीरिति॑ सुऽस्तु॒तीः। उप॑। ७२।
महीधरः
म० भरद्वाजदृष्टाग्नेयी कामवती त्रिष्टुप् । हे अग्ने, तव ऊती ऊत्या अवनेन पालनेन वयं तं काममभिलाषमश्याम प्राप्नुयाम यमिच्छाम इत्यर्थः। अशूङ् व्याप्तौ विकरणव्यत्ययेन लोटि श्यन्प्रत्ययः । रयिर्धनमस्यास्तीति रयिवान् तत्संबुद्धौ हे रयिवः धनवन् , सुवीरं रयिं वयमश्याम शोभना वीराः पुत्रा यत्र तं रयिं पुत्रसहितं धनं वयं प्राप्नुयाम । वाजयतिरर्चतिकर्मा । वाजयन्तो वह्निमर्चयन्तः सन्तो वयं वाजमन्नमभि अश्याम समन्तात् प्राप्नुयाम । हे अजर, नास्ति जरा यस्य सोऽजरः हे जरारहित, अजरमक्षीणं ते तव द्युम्नं यशो वयमश्याम । सर्वदा यशस्विनो भवामेत्यर्थः ॥ ७४ ॥
पञ्चसप्ततितमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- विश्वामित्र ऋषिः
- आर्षी गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सेना सभा के पति ! जैसे (वैश्वानरः) सम्पूर्ण नरों में विराजमान (अग्निः) सूर्यरूप अग्नि (परावतः) दूरदेशस्थ सब पदार्थों को प्राप्त होता है वैसे आप (ऊतये) रक्षादि के लिये (नः) हमारे समीप (आ, प्र, (यातु) अच्छे प्रकार प्राप्त हूजिये, जैसे बिजुली सब में व्यापक होकर समीपस्थ रहती है, वैसे (नः) हमारी (सुष्टुतीः) उत्तम स्तुतियों को (उप) अच्छे प्रकार सुनिये ॥७२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो पुरुष सूर्य्य के समान दूरस्थ होकर भी न्याय से सब व्यवहारों को प्रकाशित कर देता है और जैसे दूरस्थ सत्यगुणों से युक्त सत्पुरुष प्रशंसित होता है, वैसे ही राजपुरुषों को होना चाहिये ॥७२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सेनेश सभेश ! यथा वैश्वानरोऽग्निः सूर्यः परावतः सर्वान् पदार्थान् प्राप्नोति, तथा भवानूतये न आ प्र यातु। यथाऽग्निर्विद्युत्संहितास्ति, तथा त्वं नः सुष्टुतीरुपशृणु ॥७२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यः सूर्यवद् दूरस्थोऽपि न्यायेन सर्वान् पदार्थान् प्रकाशयति, यथा च दूरस्थोऽपि सद्गुणाढ्यो जनः प्रशस्यते, तथा राजपुरुषैर्भवितव्यम् ॥७२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जो पुरुष सूर्याप्रमाणे दूर राहूनही नियमाने सर्व व्यवहार न्यायाने पार पाडतो आणि सत्य गुणांनीयुक्त असलेला पुरुष दूर असला तरी प्रशंसनीय ठरतो, तसेच राजपुरुषांनीही वागावे.
७३ पृष्टो दिवि
विश्वास-प्रस्तुतिः ...{Loading}...
पृ॒ष्टो दि॒वि पृ॒ष्टोऽअ॒ग्निः पृ॑थि॒व्यां पृ॒ष्टो विश्वा॒ऽओष॑धी॒रावि॑वेश। वै॒श्वा॒न॒रः सह॑सा पृ॒ष्टोऽअ॒ग्निः स नो॒ दिवा॒ स रि॒षस्पा॑तु॒ नक्त॑म् ॥७३ ॥
मूलम् ...{Loading}...
पृ॒ष्टो दि॒वि पृ॒ष्टोऽअ॒ग्निः पृ॑थि॒व्यां पृ॒ष्टो विश्वा॒ऽओष॑धी॒रावि॑वेश। वै॒श्वा॒न॒रः सह॑सा पृ॒ष्टोऽअ॒ग्निः स नो॒ दिवा॒ स रि॒षस्पा॑तु॒ नक्त॑म् ॥७३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पृ॒ष्टः। दि॒वि। पृ॒ष्टः। अ॒ग्निः। पृ॒थि॒व्याम्। पृ॒ष्टः। विश्वाः॑। ओष॑धीः। आ। वि॒वे॒श॒। वै॒श्वा॒न॒रः। सह॑सा। पृ॒ष्टः। अ॒ग्निः। सः। नः॒। दिवा॑। सः। रि॒षः। पा॒तु॒। नक्त॑म्। ७३।
महीधरः
म० उत्कीलदृष्टाग्नेयी त्रिष्टुप् । हे अग्ने, हि यस्मात्कारणात् वयं ते तुभ्यमद्यास्मिन् दिने कामं हविः ररिम दद्मः । काम्यत इष्यत इति कामं हविः ररिम । ‘रा दाने’ लिट् ‘अन्येषामपि दृश्यते’ इति (पा० ६।३। १३७ ) ररिमेत्यस्य संहितायां दीर्घः । किं कृता । नमसा उपसद्य नमस्कारेणोपसङ्गम्य । नमस्कृत्य निकटमागत्य हविर्दद्म इत्यर्थः । कीदृशा वयम् । उत्तानहस्ताः उत्ताना हस्ता येषां ते अबद्धमुष्टिकाः त्यक्तकार्पण्या इत्यर्थः । तथा मनसा उपलक्षिताः सावधाना इत्यर्थः । कीदृशेन मनसा । यजिष्ठेन यजतीति यष्टृ अतिशयेन यष्टृ यजिष्ठं तेन । ‘तुरिष्ठेमेयःसु’ (पा. ६ । ४ । १५४ ) इति तृचो लोपः । यागतत्परेणेत्यर्थः । तथा अस्रेधता ‘स्रिध गतौ’ स्रेधति अन्यत्र गच्छति स्रेधत् न स्रेधदस्रेधत् तेन अनन्यगतेनेत्यर्थः । मन्मना मन्यते देवमहिमानं जानातीति मन्म तेन । मन्यतेर्मन् प्रत्ययः । देवतायाथात्म्यज्ञेनेत्यर्थः । यत एतादृशेन मनसा वयं हविः ररिम अतो हे अग्ने, विप्रो मेधावी त्वं देवान् यक्षि यज । मद्दत्तेन हविषा देवांस्तर्पयेत्यर्थः । यजतेः ‘बहुलं छन्दसि’ (पा० २ । ४ । ७३ ) इति शपि लुप्ते मध्यमैकवचने षत्वे ष्टुत्वे यक्षीति रूपम् । विप्रो अग्ने इत्यत्र ‘प्रकृत्यान्तःपादमव्यपर’ (पा० ६।१।१०५) इति प्रकृतिभावः ॥ ७५ ॥
षट्सप्ततितमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- कुत्स ऋषिः
- आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - मनुष्यों से कि जो (दिवि) प्रकाशस्वरूप सूर्य (पृष्टः) जानने के योग्य (अग्निः) अग्नि (पृथिव्याम्) पृथिवी में (पृष्टः) जानने को इष्ट अग्नि तथा जल और वायु में (पृष्टः) जानने के योग्य पावक (सहसा) बलादि गुणों से युक्त (वैश्वानरः) विश्व में प्रकाशमान (पृष्टः) जानने के योग्य (अग्निः) बिजुली रूप अग्नि (विश्वाः) समग्र (ओषधीः) ओषधियों में (आ, विवेश) प्रविष्ट हो रहा है (सः) सो अग्नि (दिवा) दिन और (सः) वह अग्नि (नक्तम्) रात्रि में जैसे रक्षा करता, वैसे सेना के पति आप (नः) हमको (रिषः) हिंसक जन से निरन्तर (पातु) रक्षा करें ॥७३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य आकाशस्थ सूर्य और पृथिवी में प्रकाशमान सब पदार्थों में व्यापक विद्युद्रूप अग्नि को विद्वानों से निश्चय कर कार्यों में संयुक्त करते हैं, वे शत्रुओं से निर्भय होते हैं ॥७३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - मनुष्यैर्यो दिवि पृष्टोऽग्निः पृथिव्यां पृष्टोऽग्निर्जले वायौ च पृष्टोऽग्निः सहसा वैश्वानरः पृष्टोऽग्निर्विश्वा ओषधीराविवेश, स दिवा स च नक्तं यथा पाति, तथा सेनेशो भवान्नोऽस्मान् रिषः सततं पातु ॥७३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्या आकाशस्थं सूर्यं पृथिवीस्थं ज्वलितं सर्वपदार्थव्यापिनं विद्युदग्निं च विद्वद्भ्यो निश्चित्य कार्येषु संयुञ्जते, ते शत्रुभ्यो निर्भया जायन्ते ॥७३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे आकाशातील सूर्य व पृथ्वीवरील सर्व पदार्थांत व्यापक असलेल्या विद्युतरूपी अग्नीला कार्यात युक्त करतात, ती शत्रूंपासून निर्भय होतात.
७४ अश्याम तम्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒श्याम॒ तं काम॑मग्ने॒ तवो॒तीऽअ॒श्याम॑ र॒यिँ र॑यिवः सु॒वीर॑म्। अ॒श्याम॒ वाज॑म॒भि वा॒ज॑यन्तो॒ऽश्याम॑ द्यु॒म्नम॑जरा॒जरं॑ ते ॥७४ ॥
मूलम् ...{Loading}...
अ॒श्याम॒ तं काम॑मग्ने॒ तवो॒तीऽअ॒श्याम॑ र॒यिँ र॑यिवः सु॒वीर॑म्। अ॒श्याम॒ वाज॑म॒भि वा॒ज॑यन्तो॒ऽश्याम॑ द्यु॒म्नम॑जरा॒जरं॑ ते ॥७४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒श्याम॑। तम्। काम॑म्। अ॒ग्ने॒। तव॑। ऊ॒ती। अ॒श्याम॑। र॒यिम्। र॒यि॒व॒ इति॑ रयिऽवः। सु॒वीर॒मिति॑ सु॒ऽवी॑रम्। अ॒श्याम॑। वाज॑म्। अ॒भि। वा॒जय॑न्तः। अ॒श्याम॑। द्यु॒म्न॑म्। अ॒ज॒र॒। अ॒जर॑म्। ते॒। ७४।
महीधरः
म०. विश्वदेवदेवत्यानुष्टुप् । एते देवा नोऽस्माकं यज्ञं प्रावन्तु प्रकर्षेण रक्षन्तु । अन्यूनातिरिक्तं कुर्वन्वित्यर्थः । अन्यूनातिरेक एव कर्मणो रक्षणम् । शुमे इष्टे स्थाने स्वर्गे च यज्ञं स्थापयन्त्विति शेषः । यद्वा शुभे स्थाने यज्ञ प्रावन्तु । एते के । अग्निः देव इति सर्वत्र संबन्धनीयम् । इन्द्रः । ब्रह्मा चतुर्मुखः । बृहस्पतिर्जीवः । विश्वे देवाश्च । धामानि स्थानानि छादयति आच्छादयति धामच्छत् । छादयतेः क्विपि णिलोपे धातोर्ह्रस्वः । धाम्नां छदनं न्यूनानां पूरणमतिरिक्तानां समीकरणम् । इदं सर्वेषां विशेषणम् । तथा सचेतसः चेतसा प्रज्ञया सहिताः सचेतसः । समानं चेतो येषामिति वा समानज्ञाना अग्न्यादयो मद्यज्ञं रक्षन्त्वित्यर्थः ॥ ७६ ॥
सप्तसप्ततितमी।
इति माध्यन्दिनीयायां वाजसनेयसंहितायां अष्टादशोऽध्यायः ॥ १८ ॥
अधिमन्त्रम् (VC)
- अग्निर्देवता
- भरद्वाज ऋषिः
- निचृत् त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब प्रजा और राजपुरुषों को परस्पर क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) युद्धविद्या के जाननेहारे सेनापति ! हम लोग (तव) तेरी (ऊती) रक्षा आदि की विद्या से (तम्) उस (कामम्) कामना को (अश्याम) प्राप्त हों। हे (रयिवः) प्रशस्त धनयुक्त ! (सुवीरम्) अच्छे वीर प्राप्त होते हैं, जिससे उस (रयिम्) धन को (अश्याम) प्राप्त हों, (वाजयन्तः) सङ्ग्राम करते-कराते हुए हम लोग (वाजम्) सङ्ग्राम में विजय को (अभ्यश्याम) अच्छे प्रकार प्राप्त हों। हे (अजर) वृद्धपन से रहित सेनापते ! हम लोग (ते) तेरे प्रताप से (अजरम्) अक्षय (द्युम्नम्) धन और कीर्ति को (अश्याम) प्राप्त हों ॥७४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - प्रजा के मनुष्यों को योग्य है कि राजपुरुषों की रक्षा से और राजपुरुष प्रजाजन की रक्षा से परस्पर सब इष्ट कामों को प्राप्त हों ॥७४ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ प्रजाराजजनैरितरेतरं किं कार्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! वयं तवोती तं काममश्याम। हे रयिवः ! सुवीरं रयिमश्याम, वाजयन्तो वयं वाजमभ्यश्याम। हे अजर ! तेऽजरं द्युम्नमश्याम ॥७४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - प्रजास्थैर्मनुष्यै राजपुरुषरक्षया राजपुरुषैः प्रजाजनरक्षणेन च परस्परं सर्वे कामाः प्राप्तव्याः ॥७४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - प्रजाजनांनी राजपुरुषांचे रक्षन करून व राजपुरुषांनी प्रजेचे रक्षण करून परस्पर इष्ट कार्य (अक्षय धन व कीर्ती) पूर्ण करावे.
७५ वयं तेऽअद्य
विश्वास-प्रस्तुतिः ...{Loading}...
व॒यं ते॑ऽअ॒द्य र॑रि॒मा हि काम॑मुत्ता॒नह॑स्ता॒ नम॑सोप॒सद्य॑। यजि॑ष्ठेन॒ मन॑सा यक्षि दे॒वानस्रे॑धता॒ मन्म॑ना॒ विप्रो॑ऽअग्ने ॥७५ ॥
मूलम् ...{Loading}...
व॒यं ते॑ऽअ॒द्य र॑रि॒मा हि काम॑मुत्ता॒नह॑स्ता॒ नम॑सोप॒सद्य॑। यजि॑ष्ठेन॒ मन॑सा यक्षि दे॒वानस्रे॑धता॒ मन्म॑ना॒ विप्रो॑ऽअग्ने ॥७५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
व॒यम्। ते॒। अ॒द्य। र॒रि॒म। हि। काम॑म्। उ॒त्ता॒नह॑स्ता॒ इत्यु॑त्ता॒नऽह॑स्ताः। नम॑सा। उ॒प॒सद्येत्यु॑प॒ऽसद्य॑। यजि॑ष्ठेन। मन॑सा। य॒क्षि॒। दे॒वान्। अस्रे॑धता। मन्म॑ना। विप्रः॑। अ॒ग्ने॒। ७५।
महीधरः
म०. ऋष्यादि प्रागुक्तम् । व्याख्याता च (अ० १३ । क. ५२)॥ ७७ ॥
महीधरकृते वेददीपेऽष्टादश ईरितः ।
वसोर्धारादिकोऽध्यायश्चित्युपस्थावसानकः ॥ १८ ॥
अधिमन्त्रम् (VC)
- अग्निर्देवता
- उत्कील ऋषिः
- आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
पुरुषार्थ से क्या सिद्ध करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्वन् ! (उत्तानहस्ताः) उत्कृष्टता से अभय देनेहारे हस्तयुक्त (वयम्) हम लोग (ते) आपके (नमसा) सत्कार से (उपसद्य) समीप प्राप्त होके (अद्य) आज ही (कामम्) कामना को (हि) निश्चय (ररिम) देते हैं, जैसे (विप्रः) बुद्धिमान् (अस्रेधता) इधर-उधर गमन अर्थात् चञ्चलतारहित स्थिर (मन्मना) बल और (यजिष्ठेन) अतिशय करके संयमयुक्त (मनसा) चित्त से (देवान्) विद्वानों और शुभ गुणों को प्राप्त होता है और जैसे तू (यक्षि) शुभ कर्मों में युक्त हो, हम भी वैसे ही सङ्गत होवें ॥७५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य पुरुषार्थ से पूर्ण कामनावाले हों, वे विद्वानों के सङ्ग से इस विषय को प्राप्त होने को समर्थ होवें ॥७५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुरुषार्थेन किं साध्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! उत्तानहस्ता वयं ते नमसोपसद्याद्य कामं हि ररिम, यथा विप्रोऽस्रेधता मन्मना यजिष्ठेन मनसा देवान् यजति संगच्छते, यथा च त्वं यक्षि, तथा वयमपि यजेम ॥७५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्याः पुरुषार्थेनालंकामाः स्युस्ते विद्वसङ्गेनैतत् प्राप्तुं शक्नुयुः ॥७५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे पुरुषार्थाने पूर्ण कामनायुक्त बनतात ती विद्वानांच्या संगतीने शुभ गुण कर्माचा स्वीकार करण्यास समर्थ ठरतात.
७६ धामच्छदग्निरिन्द्रो ब्रह्मा
विश्वास-प्रस्तुतिः ...{Loading}...
धा॒म॒च्छद॒ग्निरिन्द्रो॑ ब्र॒ह्मा दे॒वो बृह॒स्पतिः॑। सचे॑तसो॒ विश्वे॑ दे॒वा य॒ज्ञं प्राव॑न्तु नः शु॒भे ॥७६ ॥
मूलम् ...{Loading}...
धा॒म॒च्छद॒ग्निरिन्द्रो॑ ब्र॒ह्मा दे॒वो बृह॒स्पतिः॑। सचे॑तसो॒ विश्वे॑ दे॒वा य॒ज्ञं प्राव॑न्तु नः शु॒भे ॥७६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
धा॒म॒च्छदिति॑ धाम॒ऽछत्। अ॒ग्निः। इन्द्रः॑। ब्र॒ह्मा। दे॒वः। बृह॒स्पतिः॑। सचे॑तस॒ इति॑ सऽचे॑तसः। विश्वे॑। दे॒वाः। य॒ज्ञम्। प्र। अ॒व॒न्तु॒। नः॒। शु॒भे। ७६।
महीधरः
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- उत्कील ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब सब विद्वानों को जो करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (देवः) विद्वान् (धामच्छत्) जन्म, स्थान, नाम का विस्तार करनेहारे (अग्निः) पावक (इन्द्रः) विद्युत् के समान अमात्य और राजा (ब्रह्मा) चारों वेदों का जाननेहारा (बृहस्पतिः) वेदवाणी का पठन-पाठन से पालन करनेहारा (सचेतसः) विज्ञानवाले (विश्वे, देवाः) सब विद्वान् लोग (नः) हमारे (शुभे) कल्याण के लिये (यज्ञम्) विज्ञान योगरूपा क्रिया को (प्र, अवन्तु) अच्छे प्रकार कामना करें ॥७६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सब विद्वान् लोग सब मनुष्यादि प्राणियों के कल्याणर्थ निरन्तर सत्य उपदेश करें ॥७६ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ सर्वविद्वत्कर्त्तव्यमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! देवो धामच्छदग्निरिन्द्रो ब्रह्मा बृहस्पतिश्चेमे सचेतसो विश्वे देवाः नः शुभे यज्ञं प्रावन्तु ॥७६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सर्वे विद्वांसः सर्वेषां सुखाय सततं सत्योपदेशान् कुर्वन्तु ॥७६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सर्व विद्वान लोकांनी सर्व मानव प्राण्यांच्या कल्याणासाठी सदैव सत्याचा उपदेश करावा.
७७ त्वं यविष्ठ
विश्वास-प्रस्तुतिः ...{Loading}...
त्वं य॑विष्ठ दा॒शुषो॒ नॄँ पा॑हि शृणु॒धी गिरः॑। रक्षा॑ तो॒कमु॒त त्मना॑ ॥७७ ॥
मूलम् ...{Loading}...
त्वं य॑विष्ठ दा॒शुषो॒ नॄँ पा॑हि शृणु॒धी गिरः॑। रक्षा॑ तो॒कमु॒त त्मना॑ ॥७७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
त्वम्। य॒वि॒ष्ठ॒। दा॒शुषः॑। नॄन्। पा॒हि॒। शृ॒णु॒धि। गिरः॑। रक्ष॑। तो॒कम्। उ॒त। त्मना॑। ७७।
महीधरः
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- उशना ऋषिः
- निचृद् गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब सभापति तथा सेनापति के कर्त्तव्य को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (यविष्ठ) पूर्ण युवास्था को प्राप्त राजन् ! (त्वम्) तू (दाशुषः) विद्यादाता (नॄन्) मनुष्यों की (पाहि) रक्षा कर और इनकी (गिरः) विद्या शिक्षायुक्त वाणियों को (शृणुधि) सुन। जो वीर पुरुष युद्ध में मर जावे, उसके (तोकम्) छोटे सन्तानों की (उत) और स्त्री आदि की भी (त्मना) आत्मा से (रक्ष) रक्षा कर ॥७७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सभा और सेना के अधिष्ठाताओं को दो कर्म अवश्य कर्त्तव्य हैं, एक विद्वानों का पालन और उनके उपदेश का श्रवण, दूसरा युद्ध में मरे हुओं के सन्तान, स्त्री आदि का पालन। ऐसे आचरण करनेवाले पुरुष के सदैव विजय, धन और सुख की वृद्धि होती है ॥७७ ॥ इस अठारहवें अध्याय में गणितविद्या राजा प्रजा और पढ़ने पढ़ाने हारे पुरुषों के कर्म आदि के वर्णन से इस अध्याय में कहे हुए अर्थों की पूर्व अध्याय में कहे हुए अर्थों के साथ सङ्गति है, यह जानना चाहिये ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्याणां परमविदुषां श्रीविरजानन्दसरस्वतीस्वामिनां शिष्येण श्रीमत्परमहंसपरिव्राजकाचार्येण श्रीदयानदसरस्वतीस्वामिना निर्मिते संस्कृतार्य्यभाषाभ्यां समन्विते सुप्रमाणयुक्ते यजुर्वेदभाष्येऽष्टादशोऽध्यायः सम्पूर्णः ॥१८॥
दयानन्द-सरस्वती (सं) - विषयः
अथ सभेशसेनेशयोः कर्त्तव्यमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे यविष्ठ राजन् ! त्वं दाशुषो नॄन् पाह्येतेषां गिरः शृणुधि, यो वीरो युद्धे म्रियेत तस्य तोकं त्मना रक्षोतापि स्त्रियादिकं च ॥७७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सभेशसेनेशयोर्द्वे कर्मणी अवश्यं कर्त्तव्ये स्तः, एकं विदुषां पालनं तदुपदेशश्रवणञ्च, द्वितीयं युद्धे हतानामपत्यस्त्र्यादिपालनञ्चैवं समाचरतां पुरुषाणां सदैव विजयः श्रीः सुखानि च भवन्तीति विद्वद्भिर्ध्येयम् ॥७७ ॥ अत्र गणितविद्याराजप्रजापाठकपाठककर्मादिवर्णनादेतदध्यायोक्तार्थानां पूर्वाध्यायोक्तार्थैः सह सङ्गतिरस्तीति बोध्यम् ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सभा व सेनेच्या अधिष्ठात्यांनी दोन प्रकारची कर्तव्ये अवश्य पार पाडली पाहिजेत. एक म्हणजे विद्वानांचे पालन व त्यांच्या उपदेशाचे श्रवण. दुसरे युद्धात मृत्यू पावलेल्या व्यक्तींच्या स्री व पुत्रांचे पालन. अशा प्रकारचे आचरण करणाऱ्या माणसांना सदैव विजय धनाची प्राप्ती व सुखाची वृद्धी होते.