०१ अश्मन्नूर्जं पर्वते
विश्वास-प्रस्तुतिः ...{Loading}...
अश्म॒न्नूर्जं॒ पर्व॑ते शिश्रिया॒णाम॒द्भ्यऽओष॑धीभ्यो॒ वन॒स्पति॑भ्यो॒ऽअधि॒ सम्भृ॑तं॒ पयः॑। तां न॒ऽइष॒मूर्जं॑ धत्त मरुतः सँररा॒णाऽअश्मँ॑स्ते॒ क्षुन् मयि॑ त॒ऽऊर्ग्यं॑ द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु ॥१ ॥
मूलम् ...{Loading}...
अश्म॒न्नूर्जं॒ पर्व॑ते शिश्रिया॒णाम॒द्भ्यऽओष॑धीभ्यो॒ वन॒स्पति॑भ्यो॒ऽअधि॒ सम्भृ॑तं॒ पयः॑। तां न॒ऽइष॒मूर्जं॑ धत्त मरुतः सँररा॒णाऽअश्मँ॑स्ते॒ क्षुन् मयि॑ त॒ऽऊर्ग्यं॑ द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु ॥१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अश्म॑न्। ऊर्ज॑म्। पर्व॑ते। शि॒श्रि॒या॒णाम्। अ॒द्भ्य इत्य॒त्ऽभ्यः। ओष॑धीभ्यः। वन॒स्पति॑भ्य इति॒ वन॒स्पति॑ऽभ्यः अधि॑। सम्भृ॑त॒मिति॒ सम्ऽभृ॑तम्। पयः॑। ताम्। नः॒। इष॑म्। ऊर्ज॑म्। ध॒त्त॒। म॒रु॒तः॒। सँ॒र॒रा॒णा इति॑ सम्ऽरराणाः। अश्म॑न्। ते॒। क्षुत्। मयि॑। ते॒। ऊर्क्। यम्। द्वि॒ष्मः। तम्। ते॒। शुक्। ऋ॒च्छ॒तु॒। १।
महीधरः
म० षोडशेऽध्याये शतरुद्रियहोम उक्तः । सप्तदशे चित्यपरिषेकादिमन्त्रा उच्यन्ते ‘चित्यं परिषिञ्चत्यग्नीद्दक्षिणे निकक्षेऽद्रिं कृत्वाश्मन्नूर्जमित्यद्रेरधि’ ( का० १८ । २।१) । पक्षस्यापरसन्धिः कक्षस्तस्य समीपं निकक्षं दक्षिणपक्षापरसन्धिसमीप आत्मभागेऽश्मानं निधायोदकुम्भमादायाद्रेरारभ्य सपक्षपुच्छमग्निं प्रदक्षिणं जलधारया समन्तादग्नीत्सिञ्चतीत्यर्थः । यजुर्मरुद्देवत्यम् आर्षी त्रिष्टुप् । हे मरुतः, तां प्रसिद्धामिषमन्नमूर्जं रसं च नोऽस्मभ्यं धत्त दत्त यूयम् । किंभूता यूयम् । संरराणाः सम्यक् रान्ति ददति ते संरराणाः सम्यग्दातारः । ‘रा दाने’ ‘बहुलं छन्दसि’ ( पा० २ । ४ । ७६ ) इति जुहोत्यादिभ्यः श्लुः द्वित्वं च शानचि परे । कीदृशीमिषमूर्जम् । अश्मन् अश्मनि पाषाणे पर्वते विन्ध्यहिमवदादौ शिश्रियाणां श्रयतीति शिश्रियाणा ताम् । श्रयतेः शानचि जुहोत्यादित्वाद्द्वित्वम् । तथा ऊर्ज सारभूतां बलहेतुम् । यद्वा पर्वाणि विद्यन्ते यस्मिन् स पर्वतः पर्वमरुद्भ्यां तप्प्रत्ययः । अश्नातीत्यश्मा ‘अन्येभ्योऽपि दृश्यते’ ( पा० ३ । २ । ७५) इति अश्नातेर्मनिन् अशनवति पर्ववति मेघे ऊर्जं जलं शिश्रियाणामाश्रितां वृष्टिसंपाद्यामित्यर्थः । तथा अद्भ्यः जलेभ्य ओषधिभ्यो यवादिभ्यो वनस्पतिभ्योऽश्वत्थादिभ्यः सकाशादधिसंभृतमधिकं संपादितं गोद्वारेण पयो दुग्धं च शिश्रियाणाम् गौरपः पीत्वौषधिवनस्पतीन् भक्षयित्वा पयो दोग्धि । तां द्विरूपां मेघोत्थजलरूपां गोसमुत्थां पयोरूपां चेषमूर्जं दत्तेत्यर्थः । ‘मरुतो वै वर्षस्येशते’ ( ९।१।२ । ५) इति श्रुतेः । ‘अश्मंस्ते क्षुदित्यद्रौ कुम्भं कृत्वा मयि त ऊर्गित्यादायैवं द्विरपरम्’ ( का० १८ । २ । २)। सेकान्तेऽश्मनि कुम्भमश्मंस्ते क्षुदिति निधाय मयि त इति पुनरादाय पुनर्द्विवारं परिषिञ्चेदित्यर्थः । अश्मा देवता दैवी बृहती । अश्नातीत्यश्मा । हे अश्मन् सर्वभक्षक अग्ने, ते तव क्षुत् क्षुधा अस्तु बहुहविषां भोज्यत्वात् ( का० १८ । २ । ३ ) । कुम्भमादत्ते । आशीर्दवता दैवी बृहती । हे अश्मन् , ते तव ऊर्क् सारभागो मयि अस्त्विति शेषः । ‘कुम्भेऽद्रिं कृत्वा दक्षिणस्यां वेदिश्रोणौ प्राङ् तिष्ठन् दक्षिणस्यां निरस्यति यं द्विष्म इति’ ( का० १८ । २ । ४ ) । तं पाषाणं कुम्भे कृत्वा दक्षिणवेदिश्रोणौ पूर्वामुखस्तिष्ठन् दक्षिणस्यां दिशि साश्मानं घटं निरस्यतीत्यर्थः । यजुर्बृहती शुक् देवता । हे अग्ने, ते तव शुक् शोकस्तं नरमृच्छतु गच्छतु । तं कम् । वयं यं नरं द्विष्मः अस्मद्द्वेषविषयं तव शोको गच्छतु ॥ १ ॥
द्वितीया ।
अधिमन्त्रम् (VC)
- मरुतो देवताः
- मेधातिथिर्ऋषिः
- भुरिगतिशक्वरी
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब सत्रहवें अध्याय का आरम्भ किया जाता है ॥ इसके पहिले मन्त्र में वर्षा की विद्या का उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (संरराणाः) सम्यक् दानशील (मरुतः) वायुओं के तुल्य क्रिया करने में कुशल मनुष्यो ! तुम लोग (पर्वते) पहाड़ के समान आकारवाले (अश्मन्) मेघ के (शिश्रियाणाम्) अवयवों में स्थिर बिजुली तथा (ऊर्जम्) पराक्रम और अन्न को (नः) हमारे लिये (अधि, धत्त) अधिकता से धारण करो और (अद्भ्यः) जलाशयों (ओषधिभ्यः) जौ आदि ओषधियों और (वनस्पतिभ्यः) पीपल आदि वनस्पतियों से (सम्भृतम्) सम्यक् धारण किये (पयः) रसयुक्त जल (इषम्) अन्न (ऊर्जम्) पराक्रम और (ताम्) उस पूर्वोक्त विद्युत् को धारण करो। हे मनुष्य ! जो (ते) तेरा (अश्मन्) मेघविषय में (ऊर्क्) रस वा पराक्रम है, सो (मयि) मुझ में तथा जो (ते) तेरी (क्षुत्) भूख है, वह मुझ में भी हो अर्थात् समान सुख-दुःख मान के हम लोग एक दूसरे के सहायक हों और (यम्) जिस दुष्ट को हम लोग (द्विष्मः) द्वेष करें (तम्) उसको (ते) तेरा (शुक्) शोक (ऋच्छतु) प्राप्त हो ॥१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि जैसे सूर्य्य जलाशय और ओषध्यादि से रस का हरण कर मेघमण्डल में स्थापित करके पुनः वर्षाता है, उससे अन्नादि पदार्थ होते हैं, उसके भोजन से क्षुधा की निवृत्ति, क्षुधा की निवृत्ति से बल की बढ़ती, उससे दुष्टों की निवृत्ति और दुष्टों की निवृत्ति से सज्जनों के शोक का नाश होता है, वैसे अपने समान दूसरों का सुख-दुःख मान, सब के मित्र होके, एक-दूसरे के दुःख का विनाश करके, सुख की निरन्तर उन्नति करें ॥१ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ वृष्टिविद्योपदिश्यते
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे संरराणा मरुतः ! यूयं पर्वतेऽश्मन् शिश्रियाणामूर्जं नोऽधिधत्त, अद्भ्य ओषधीभ्यो वनस्पतिभ्यः सम्भृतं पय इषमूर्जं च ताश्च धत्त। हे मनुष्य ! तेऽश्मन्नूर्ग् वर्त्तते, सा मय्यस्तु, या ते क्षुत् सा मयि भवतु, यं वयं द्विष्मस्तं ते शुगृच्छतु ॥१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्यथा सूर्यो जलाशयौषध्यादिभ्यो रसं हृत्वा मेघमण्डले संस्थाप्य पुनर्वर्षयति, ततोऽन्नादिकं जायते, तदशनेन क्षुन्निवृत्त्या बलोन्नतिस्तया दुष्टानां निवृत्तिरेतया सज्जनानां शोकनाशो भवति, तथा समानसुखदुःखसेवनाः सुहृदो भूत्वा परस्परेषां दुःखं विनाश्य सुखं सततमुन्नेयम् ॥१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सूर्य जसा जलाशय वृक्ष यांचा रस शोषून त्यापासून मेघांची निर्मिती करतो व पुन्हा पर्जन्यरूपाने बरसतो. त्यामुळे अन्न इत्यादी पदार्थ उत्पन्न होतात. त्या अन्नाने क्षुधानिवृत्ती होते. क्षुधानिवृत्ती झाल्यामुळे बल वाढते व बलामुळे दुष्टांचा नाश होतो, त्यामुळे सज्जनांचे दुःख नाहीसे होते. त्यामुळे आपल्यासारखेच दुसऱ्यांचेही सुख-दुःख असते हे मानले पाहिजे. सर्वांनी एकमेकांचे मित्र बनून परस्परांच्या दुःखाचा नाश केला पाहिजे व सतत सुख वाढवीत राहिले पाहिजे.
०२ इमा मेऽअग्नऽइष्टका
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒मा मे॑ऽअग्न॒ऽइष्ट॑का धे॒नवः॑ स॒न्त्वेका॑ च॒ दश॑ च॒ दश॑ च श॒तं च॑ श॒तं च॑ स॒हस्रं॑ च स॒हस्रं॑ चा॒युतं॑ चा॒युतं॑ च नि॒युतं॑ च नि॒युतं॑ च प्र॒युतं॒ चार्बु॑दं च॒ न्य᳖र्बुदं च समु॒द्रश्च॒ मध्यं॒ चान्त॑श्च परा॒र्द्धश्चै॒ता मे॑ऽअग्न॒ऽइष्ट॑का धे॒नवः॑ सन्त्व॒मु॒त्रा॒मुष्मिल्ँ॑लो॒के ॥२ ॥
मूलम् ...{Loading}...
इ॒मा मे॑ऽअग्न॒ऽइष्ट॑का धे॒नवः॑ स॒न्त्वेका॑ च॒ दश॑ च॒ दश॑ च श॒तं च॑ श॒तं च॑ स॒हस्रं॑ च स॒हस्रं॑ चा॒युतं॑ चा॒युतं॑ च नि॒युतं॑ च नि॒युतं॑ च प्र॒युतं॒ चार्बु॑दं च॒ न्य᳖र्बुदं च समु॒द्रश्च॒ मध्यं॒ चान्त॑श्च परा॒र्द्धश्चै॒ता मे॑ऽअग्न॒ऽइष्ट॑का धे॒नवः॑ सन्त्व॒मु॒त्रा॒मुष्मिल्ँ॑लो॒के ॥२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इ॒माः। मे॒। अ॒ग्ने॒। इष्ट॑काः। धेनवः॑। स॒न्तु॒। एका॑। च॒। दश॑। च॒। दश॑। च॒। श॒तम्। च॒। श॒तम्। च॒। स॒हस्र॑म्। च॒। स॒हस्र॑म्। च॒। अ॒युत॑म्। च॒। अ॒युत॑म्। च॒। नि॒युत॒मिति॑ नि॒ऽयुत॑म्। च॒। नि॒युत॒मिति॑ नि॒ऽयुत॑म्। च॒। प्र॒युत॒मिति॑ प्र॒ऽयुत॑म्। च॒। अर्बु॑दम्। च॒। न्य॑र्बुद॒मिति॒ निऽअ॑र्बुदम्। च॒। स॒मु॒द्रः। च॒। मध्य॑म्। च॒। अन्तः॑। च॒। प॒रा॒र्द्धः। च॒। ए॒ताः। मे॒। अ॒ग्ने॒। इष्ट॑काः। धे॒नवः॑। स॒न्तु॒। अ॒मुत्र॑। अमुष्मि॑न्। लो॒के। २।
महीधरः
म० ‘अनपेक्षमेत्योदङ् प्राङ् तिष्ठन्नात्मन उपरि प्रापणान्ते जपतीमा म इति’ ( का० १८ । २ । ९)। कुम्भनिरसनानन्तरमपश्यन्नेत्य दक्षिणवेदिश्रोणिसमीपे ईशानाभिमुखस्तिष्ठन्नात्मन उपरि हस्तौ प्रसार्य यावत्स्प्रष्टुं शक्नोति तावत् स्पृष्ट्वेमा म इति कण्डिकाद्वयं स्वरेण जपतीत्यर्थः । विकृतिरग्निदेवत्या । हे अग्ने, या इष्टकाः पञ्चसु चितिषूपहिताः इमा इष्टकाः मे मह्यं मदर्थं धेनवोऽभिमतफलदोग्ध्र्यः सन्तु त्वत्प्रसादात् । अस्मिन् लोके इति शेषः । तासां संख्यामाह-एकेत्यादि । अत्रैकादिपरार्धपर्यन्तैः शब्दैरुत्तरोत्तरं दशदशगुणिता संख्योच्यते । एका एकत्वसंख्याविशिष्टा सा दशगुणिता । दशसंख्यामापद्यते । सा दशगुणिता शतं भवति । | पूर्वसंख्यासहितोत्तरसंख्याग्रहणमाधिक्याय । शतं दशगुणितं सहस्रं भवति सहस्रं दशगुणितमयुतं भवति अयुतं दशगुणितं नियुतं भवति नियुतं लक्षम् नियुतं दशगुणितं प्रयुतं भवति प्रयुतं लक्षदशकं । प्रयुतग्रहणं कोटेरुपलक्षकम् । प्रयुतं दशगुणं कोटिः । कोटिर्दशगुण अर्बुदम् । अर्बुदं दशगुणं न्यर्बुदम् । न्यर्बुदशब्देनाब्जसंख्या ज्ञेया । एतेषां ग्रहणमब्जसमुद्रान्तर्वर्तिनीनां खर्व निखर्वमहापद्मशङ्कुसंज्ञानां संख्यानामुपलक्षकम् । तेनाब्जं दशगुणं खर्व । खर्व दशगुणं निखर्वं । निखर्वं दशगुणं महापद्मं । महापद्मं दशगुणं शङ्कुः । शङ्कुर्दशगुणः समुद्रः। समुद्रो दशगुणो मध्यं मध्यं दशगुणमन्तः अन्तः दशगुणः परार्धः । चकारा इतरेतरसमुच्चयार्थाः । एवमेकाद्यष्टादशसंख्यासंज्ञासंमिता इष्टका एता हे अग्ने, मे धेनवः सन्त्विति पूर्वोक्तस्य निगमनम् । एतद्धेनुभवनं कुत्रार्थ्यते तदाह । अमुत्र अन्यजन्मनि तथान्यस्मिन् लोके स्वर्गे सर्वत्र इष्टदाः सन्त्वित्यर्थः । यद्यपि नियतसंख्ययेष्टकाश्चीयन्ते तथापि मन्त्रसामर्थ्याद्वर्धमाना एकादिपरार्धान्तसंख्या भवन्तीति भावः ॥ २॥
तृतीया।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- मेधातिथिर्ऋषिः
- निचृद्विकृतिः
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
अब इष्टका आदि के दृष्टान्त से गणितविद्या का उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्वन् ! जैसे (मे) मेरी (इमाः) ये (इष्टकाः) इष्ट सुख को सिद्ध करनेहारी यज्ञ की सामग्री (धेनवः) दुग्ध देनेवाली गौओं के समान (सन्तु) होवें, आप के लिये भी वैसी हों। जो (एका) एक (च) दशगुणा (दश) दश (च) और (दश) दश (च) दश गुणा (शतम्) सौ (च) और (शतम्) सौ (च) दशगुणा (सहस्रम्) हजार (च) और (सहस्रम्) हजार (च) दश गुणा (अयुतम्) दश हजार (च) और (अयुतम्) दश हजार (च) दश गुणा (नियुतम्) लाख (च) और (नियुतम्) लाख (च) दश गुणा (प्रयुतम्) दश लाख (च) इसका दश गुणा क्रोड़, इसका दश गुणा (अर्बुदम्) दशक्रोड़ इस का दश गुणा (न्यर्बुदम्) अर्ब (च) इसका दश गुणा खर्ब, इसका दश गुणा निखर्ब, इसका दश गुणा महापद्म, इसका दश गुणा शङ्कु, इसका दश गुणा (समुद्रः) समुद्र (च) इसका दश गुणा (मध्यम्) मध्य (च) इसका दश गुणा (अन्तः) अन्त और (च) इसका दश गुणा (परार्द्धः) परार्द्ध (एताः) ये (मे) मेरी (अग्ने) हे विद्वन् ! (इष्टकाः) वेदी की र्इंटें (धेनवः) गौओं के तुल्य (अमुष्मिन्) परोक्ष (लोके) देखने योग्य (अमुत्र) अगले जन्म में (सन्तु) हों, वैसा प्रयत्न कीजिये ॥२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे अच्छे प्रकार सेवन की हुई गौ दुग्ध आदि के दान से सब को प्रसन्न करती हैं, वैसे ही वेदी में चयन की हुई ईटें वर्षा की हेतु हो के वर्षादि के द्वारा सब को सुखी करती हैं। मनुष्यों को चाहिये कि एक संख्या को दशवार गुणने से दश (१०), दश को दश बार गुणने से सौ (१००), उसको दश बार गुणने से हजार (१०००), उसको दश बार गुणने से दस हजार (१०, ०००), उसको दश वार गुणने से लाख (१, ००, ०००), उसको दश बार गुणने से दश लाख (१०, ००, ०००), इसको दश वार गुणने से क्रोड (१, ००, ००, ०००), इसको दश वार गुणने से दश क्रोड़ (१०, ००, ००, ०००), इसको दश वार गुणने से अर्ब (१, ००, ००, ००, ०००), इसको दश वार गुणने से दश अर्ब (१०, ००, ००, ००, ०००), इसको दश वार गुणने से खर्ब (१, ००, ००, ००, ००, ०००), इसको दश वार गुणने से दश खर्ब (१०, ००, ००, ००, ००, ०००), इसको दश वार गुणने से नील (१, ००, ००, ००, ००, ००, ०००), इसको दश वार गुणने से दश नील (१०, ००, ००, ००, ००, ००, ०००), इसको दश वार गुणने से पद्म (१, ००, ००, ००, ००, ००, ००, ०००), इसको दश वार गुणने से दश पद्म (१०, ००, ००, ००, ००, ००, ००, ०००), इसको दश वार गुणने से एक शङ्ख (१, ००, ००, ००, ००, ००, ००, ००, ०००), इसको दश वार गुणने से दश शङ्ख (१०, ००, ००, ००, ००, ००, ००, ००, ०००) इन संख्याओं की संज्ञा पड़ती हैं। ये इतनी संख्या तो कहीं, परन्तु अनेक चकारों के होने से और भी अङ्कगणित, बीजगणित और रेखागणित आदि की संख्याओं को यथावत् समझें। जैसे भूलोक में ये संख्या हैं, वैसे अन्य लोकों में भी हैं, जैसे यहां इन संख्याओं से गणना की और कारीगरों से चिनी हुई ईटें घर के आकार हो शीत, उष्ण, वर्षा और वायु आदि से मनुष्यादि की रक्षा कर आनन्दित करती हैं, वैसे ही अग्नि में छोड़ी हुई आहुतियाँ जल, वायु और ओषधियों के साथ मिल के सब को आनन्दित करती हैं ॥२ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथेष्टकादिचयनदृष्टान्तेन गणितविद्योपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने विद्वन् ! या मे ममेमा इष्टका धेनव इव सन्तु तास्तवापि भवन्तु, या एका च दश च दश च शतं च शतं च सहस्रं च सहस्रं चायुतं चायुतं च नियुतं च नियुतं च प्रयुतं चार्बुदं च न्यर्बुदं च समुद्रश्च मध्यं चान्तश्च परार्द्धश्चैता मे अग्न इष्टका धेनव इवामुत्रामुष्मिंल्लोकेऽस्मिन् परजन्मनि वा सन्तु ॥२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यथा सुसेविता गावो दुग्धादिदानेन सर्वान् सन्तोषयन्ति, तथैव वेद्यां सञ्चिता इष्टका वृष्टिहेतुका भूत्वा वृष्ट्यादिद्वारा सर्वानानन्दयन्ति। मनुष्यैरेका संख्या दशवारं गुणिता सती दशसंज्ञां लभते, दश दशवारं संख्याताः शतम्, शतं दशवारं संख्यातं सहस्रम्, सहस्रं दशवारं संख्यातमयुतम्, अयुतं दशवारं संख्यातं नियुतम्, नियुतं दशवारं संख्यातं प्रयुतम्, प्रयुतं दशवारं संख्यातं कोटिः, कोटिर्दशवारं संख्याता दश कोट्यः, ता दशवारं संख्याताः खर्बः, खर्बो दशवारं संख्यातो निखर्बः, निखर्बो दशवारं संख्यातो महापद्मः, महापद्मो दशवारं संख्यातः शुङ्कुः, शङ्कुदशवारं संख्यातः समुद्रः, समुद्रो दशवारं संख्यातो मध्यम्, मध्यं दशवारं संख्यातमन्तरन्तो दशवारं संख्यातः परार्द्धः। एताः संख्या उक्ता उक्तैरनेकैश्चकारैरन्या अपि अङ्कबीजरेखाप्रभृतयो यथावद् विज्ञेया। यथास्मिंल्लोक इमाः संख्या सन्ति, तथान्येष्वपि लोकेषु वर्त्तन्ते, यथात्रैतत्संख्याभिः संख्याता इष्टका सुशिल्पिभिश्चिता गृहाकारा भूत्वा शीतोष्णवर्षावाय्वादिभ्यो मनुष्यान् रक्षित्वाऽऽनन्दयन्ति, तथैवाहुतयो जलवाय्वोषधीभिः संहत्य सर्वान् प्राणिन आनन्दयन्ति ॥२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्याप्रमाणे उत्तम गाई आपल्या दुधाने सर्वांना प्रसन्न करतात त्याप्रमाणे यज्ञवेदीत रचलेल्या विटा पावसाचे निमित्त बनून सर्वांना सुखी करतात. माणसाने हे जाणावे की एक (१) या संख्येला दहाने गुणल्यास दहा (१०) व दहाला दहाने गुणल्यास (१००) शंभर व त्याला दहाने गुणल्यास हजार (१०००) , त्याला दहाने गुणल्यास दहा हजार (१००००) , त्याला दहाने गुणल्यास एक लाख (१०००००) त्याला दहाने गुणल्यास दहा लाख (१००००००) , त्याला दहाने गुणल्यास एक कोटी (१००००००००) , त्याला दहाने गुणल्यास अर्व (१०००००००००) त्याला दहाने गुणल्यास दहा अर्व (१००००००००००) , त्याला दहाने गुणल्यास खर्व (१०००००००००००) , त्याला दहाने गुणल्यास दहा खर्व (१००००००००००००) , त्याला दहाने गुणल्यास नील (१०००००००००००००) , त्याला दहाने गुणल्यास दहा नील (१००००००००००००००) , त्याला दहाने गुणल्यास पद्म (१०००००००००००००००) , त्याला दहाने गुणल्यास एक शंख (१०००००००००००००००००) , त्याला दहाने गुणल्यास (१००००००००००००००००००) अशा या संख्या होत. या एवढ्या संख्यांना अनेक चकारांमुळे अंकगणित, बीजगणित, रेखागणित इत्यादी संख्या यथायोग्य पद्धतीने समजून घ्याव्यात. या भूलोकावर जशा संख्या आहेत तशा अन्य गोलांवरही आहेत. या संख्यांची गणना करूनच चांगले कारागीर विटांनी घरे बांधतात व त्यामुळे थंडी, गरमी, पाऊस व वारा यांच्यापासून माणसांचे रक्षण होते व ते आनंदी बनतात. तसे अग्नीत टाकलेल्या आहुती जल, वायू, वृक्ष यांच्यात मिसळून सर्वांना आनंदी करतात.
०३ ऋतव स्थऽऋतावृधऽऋतुष्ठा
विश्वास-प्रस्तुतिः ...{Loading}...
ऋ॒तव॑ स्थऽऋता॒वृध॑ऽऋतु॒ष्ठा स्थ॑ऽऋता॒वृधः॑। घृ॒त॒श्च्युतो॑ मधु॒श्च्युतो॑ वि॒राजो॒ नाम॑ काम॒दुघा॒ऽअक्षी॑यमाणाः ॥३ ॥
मूलम् ...{Loading}...
ऋ॒तव॑ स्थऽऋता॒वृध॑ऽऋतु॒ष्ठा स्थ॑ऽऋता॒वृधः॑। घृ॒त॒श्च्युतो॑ मधु॒श्च्युतो॑ वि॒राजो॒ नाम॑ काम॒दुघा॒ऽअक्षी॑यमाणाः ॥३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ऋ॒तवः॑। स्थ॒। ऋ॒ता॒वृधः॑। ऋ॒त॒वृध॒ इत्यृ॑त॒ऽवृधः॑। ऋ॒तु॒ष्ठाः। ऋ॒तु॒स्था इत्यृ॑तु॒ऽस्थाः। स्थ॒। ऋ॒ता॒वृधः॑। ऋ॒त॒वृध॒ इत्यृ॑त॒ऽवृधः॑। घृ॒त॒श्च्युत॒ इति॑ घृत॒ऽश्च्युतः॑। म॒धु॒श्च्युत॒ इति॑ मधु॒ऽश्च्युतः॑। वि॒राज॒ इति॑ वि॒ऽराजः॑। नाम॑। का॒म॒दुघा॒ इति॑ काम॒दुघा॑। अक्षी॑यमाणाः। ३।
महीधरः
म० बृहती पङ्क्तिर्वा अष्टत्रिंशदक्षरत्वाद्विकल्पः । अग्निदेवत्या इष्टकादेवत्या वा । हे इष्टकाः, या यूयमेवंविधाः स्थ भवथ ता मे धेनवः सन्त्विति पूर्वेण संबन्धः । कीदृश्यः । ऋतवः वसन्तादिरूपाः । ऋतावृधः ऋतं सत्यं यज्ञं वा वर्धयन्ति ऋतवृधः । संहितायां पूर्वपददीर्घः । ऋतुष्ठाः ऋतुषु वसन्तादिषु तिष्ठन्ति तान् । स्थशब्दस्य पुनररुक्तिः पादपूरणाय। ऋतावृध इति पुनर्वचनमादरार्थम् । घृतश्च्युतः ‘श्च्युतिर् क्षरणे’ घृतं श्च्योतन्ति ता घृतश्च्युतः घृतस्राविण्यः । मधुश्च्युतः मधुश्च्योतन्ति ता मधुस्राविण्यः । नामेति प्रसिद्धौ । विराजः विशेषेण राजन्ते दीप्यन्ते ता विराजः । दशलोकंपृणाभिप्रायमेतत् । कामदुघाः यत्काम्यं तस्य दोग्ध्र्यः पूरयित्र्यः ‘दुहः कब्घश्च’ ( पा० ३ । २ । ७० ) इति कप् । अक्षीयमाणाः न क्षीयन्ते ताः क्षयरहिताः ॥ ३ ॥
चतुर्थी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- मेधातिथिर्ऋषिः
- विराडार्षी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
स्त्री लोग पति आदि के साथ कैसे वर्त्तें, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रियो ! जो तुम लोग (ऋतवः) वसन्तादि ऋतुओं के समान (स्थ) हो तथा जो (ऋतावृधः) उदक से नदियों के तुल्य सत्य के साथ उन्नति को प्राप्त होने वा (ऋतुष्ठाः) वसन्तादि ऋतुओं में स्थित होने और (ऋतावृधः) सत्य को बढ़ानेवाली (स्थ) हो और जो तुम (घृतश्च्युतः) जिनसे घी निकले उन (मधुश्च्युतः) मधुर रस से प्राप्त हुई (अक्षीयमाणाः) रक्षा करने योग्य (विराजः) विविध प्रकार के गुणों से प्रकाशमान तथा (कामदुघाः) कामनाओं को पूरण करनेहारी (नाम) प्रसिद्ध गौओं के सदृश होवे, तुम लोग हम लोगों को सुखी करो ॥३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे ऋतु और गौ अपने-अपने समय पर अनुकूलता से सब प्राणियों को सुखी करती हैं, वैसे ही अच्छी स्त्रियाँ सब समय में अपने पति आदि सब पुरुषों को तृप्त कर आनन्दित करें ॥३ ॥
दयानन्द-सरस्वती (सं) - विषयः
स्त्रियः पत्यादिभिः सह कथं वर्त्तेरन्नित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रियः ! या यूयं ऋतवः स्थ, या ऋतावृध ऋतुष्ठा ऋतावृधः स्थ, याश्च यूयं घृतश्च्युतो मधुश्च्युतोऽक्षीयमाणा विराजः कामदुघा नाम धेनव इव स्थ, ता अस्मान् सुखयत ॥३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा ऋतवो गावश्च स्वस्वसमयानुकूलतया सर्वान् प्राणिनः सुखयन्ति, तथैव सत्यस्त्रियः प्रतिसमयं स्वपत्यादीन् सर्वान् संतर्प्यानन्दयन्तु ॥३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसे ऋतू व गाई काळानुसार सर्व प्राण्यांना सुखी करतात तसे चांगल्या स्त्रियांनी सर्वकाळी आपल्या पतींना तृप्त करून आनंदित करावे.
०४ समुद्रस्य त्वावकयाग्ने
विश्वास-प्रस्तुतिः ...{Loading}...
स॒मु॒द्रस्य॒ त्वाव॑क॒याग्ने॒ परि॑व्ययामसि। पा॒व॒कोऽअ॒स्मभ्यँ॑ शि॒वो भ॑व ॥४ ॥
मूलम् ...{Loading}...
स॒मु॒द्रस्य॒ त्वाव॑क॒याग्ने॒ परि॑व्ययामसि। पा॒व॒कोऽअ॒स्मभ्यँ॑ शि॒वो भ॑व ॥४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स॒मु॒द्रस्य॑। त्वा॒। अव॑कया। अग्ने॑। परि॑। व्य॒या॒म॒सि॒। पा॒व॒कः। अ॒स्मभ्य॑म्। शि॒वः। भ॒व॒। ४।
महीधरः
म० मण्डूकावकावेतसशाखा वेणौ बद्धावकर्षति मन्कृष्टवत्समुद्रस्य त्वेति प्रत्यृचम्’ ( का० १८ । २ । १०)। मण्डूकिशैवलवेतसतरुशाखा वंशे बद्ध्वा तं हस्तेनादायाग्निक्षेत्रं प्रत्यृचं कर्षति तेनेत्यर्थः । आद्याया दक्षिणश्रोणेरारभ्य दक्षिणांसं यावत्कर्षति । द्वे गायत्र्यावग्निदेवत्ये अन्त्यो दशकः । हे अग्ने, समुद्रस्य समुन्दति क्लिन्नं करोति समुद्रो जलं तस्यावकया शेवालेन । त्वा त्वां परिव्ययामसि परितो वेष्टयामः । इदन्तो मसि । उपरिभागे सर्वत्र विकर्षाम इत्यर्थः । त्वं चास्मभ्यं पावकः शोधकः शिवः शान्तश्च भव ॥ ४ ॥
पञ्चमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- मेधातिथिर्ऋषिः
- भुरिगार्षी गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
सभापति को क्या करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) अग्नि के तुल्य तेजस्वी सभापते ! जैसे हम लोग (समुद्रस्य) आकाश के बीच (अवकया) जिससे रक्षा करते हैं, उस क्रिया के साथ वर्त्तमान (त्वा) आपको (परि, व्ययामसि) सब ओर से प्राप्त होते हैं, वैसे (पावकः) पवित्रकर्त्ता आप (अस्मभ्यम्) हमारे लिये (शिवः) मङ्गलकारी (भव) हूजिये ॥४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे मनुष्य लोग समुद्र के जीवों की रक्षा कर सुखी करते हैं, वैसे धर्मात्मा रक्षक सभापति अपनी प्रजाओं की रक्षा कर निरन्तर सुखी करें ॥४ ॥
दयानन्द-सरस्वती (सं) - विषयः
सभापतिना किं कार्यमित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! यथा वयं समुद्रस्यावकया सह वर्त्तमानं त्वा परिव्ययामसि, तथा पावकस्त्वमस्मभ्यं शिवो भव ॥४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा मनुष्याः समुद्रस्थान् जन्तून् रक्षित्वा सुखयन्ति, तथा धार्मिको रक्षकः सभेशः स्वकीयाः प्रजाः संरक्ष्य सततं सुखयेत् ॥४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. माणसे जसे समुद्रातील जीवांचे रक्षण करून त्यांना सुखी करतात, तसेच धर्मात्मा रक्षक राजाने आपल्या प्रजेचे रक्षण करून त्यांना सदैव सुखी ठेवावे.
०५ हिमस्य त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
हि॒मस्य॑ त्वा ज॒रायु॒णाग्ने॒ परि॑व्ययामसि। पा॒व॒कोऽअ॒स्मभ्यँ॑ शि॒वो भ॑व ॥५ ॥
मूलम् ...{Loading}...
हि॒मस्य॑ त्वा ज॒रायु॒णाग्ने॒ परि॑व्ययामसि। पा॒व॒कोऽअ॒स्मभ्यँ॑ शि॒वो भ॑व ॥५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
हि॒मस्य॑। त्वा॒। ज॒रायु॑णा। अग्ने॑। परि॑। व्य॒या॒म॒सि॒। पा॒व॒कः। अ॒स्मभ्य॑म्। शि॒वः। भ॒व॒। ५।
महीधरः
म० दक्षिणश्रोण्याद्युत्तरश्रोण्यन्तं कर्षति । हिमस्य शैत्यस्य . जरायुवदुत्पत्तिस्थानीयेन शेवालेन हे अग्ने, त्वा त्वां परिव्ययामसि संवरणं कुर्मः । त्वमस्मभ्यं पावकः शिवश्चेत्युक्तम् ॥ ५॥
षष्ठी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- मेधातिथिर्ऋषिः
- भुरिगार्षी गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) अग्नि के तुल्य तेजस्विन् सभापते ! हम लोग (हिमस्य) शीतल को (जरायुणा) जीर्ण करनेवाले वस्त्र वा अग्नि से (त्वा) आपको (परि, व्ययामसि) सब प्रकार आच्छादित करते हैं, वैसे (पावकः) पवित्रस्वरूप आप (अस्मभ्यम्) हमारे लिये (शिवः) मङ्गलमय (भव) हूजिये ॥५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे सभापते ! जैसे अग्नि वा वस्त्र शीत से पीडि़त प्राणियों को जाड़े से छुड़ा के प्रसन्न करता है, वैसे ही आप का आश्रय किये हुए हम लोग दुःख से छूटे हुए सुख सेवनेवाले होवें ॥५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तेवाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने सभेश ! वयं हिमस्य जरायुणा त्वा परिव्ययामसि, पावकस्त्वमस्मभ्यं शिवो भव ॥५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे सभेश ! यथाग्निर्वस्त्रं वा शीतातुरान् प्राणिनः शैत्याद् वियोज्य प्रसादयति, तथैव त्वदाश्रिता वयं दुःखान्मुक्ताः सन्तः सुखभाजिनः स्याम ॥५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे राजा ! जसा अग्नी किंवा वस्त्र थंडीने कुडकुडणाऱ्या प्राण्यांचा बचाव करून सुखी करतात तसे तुझ्या आश्रयाने आम्ही सुखी व्हावे, दुःखी होता कामा नये.
०६ उप ज्मन्नुप
विश्वास-प्रस्तुतिः ...{Loading}...
उप॒ ज्मन्नुप॑ वेत॒सेऽव॑तर न॒दीष्वा। अग्ने॑ पि॒त्तम॒पाम॑सि॒ मण्डू॑कि॒ ताभि॒राग॑हि॒ सेमं नो॑ य॒ज्ञं पा॑व॒कव॑र्णँ शि॒वं कृ॑धि ॥६ ॥
मूलम् ...{Loading}...
उप॒ ज्मन्नुप॑ वेत॒सेऽव॑तर न॒दीष्वा। अग्ने॑ पि॒त्तम॒पाम॑सि॒ मण्डू॑कि॒ ताभि॒राग॑हि॒ सेमं नो॑ य॒ज्ञं पा॑व॒कव॑र्णँ शि॒वं कृ॑धि ॥६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उप॑। ज्मन्। उप॑। वे॒त॒से। अव॑। त॒र॒। न॒दीषु॑। आ। अग्ने॑। पि॒त्तम्। अ॒पाम्। अ॒सि॒। मण्डू॑कि। ताभिः॑। आ। ग॒हि॒। सा। इ॒मम्। नः॒। य॒ज्ञम्। पा॒व॒कव॑र्ण॒मिति॑ पाव॒कऽव॑र्णम्। शि॒वम्। कृ॒धि॒। ६।
महीधरः
म० उत्तरश्रोणेरुत्तरांसपर्यन्तं कर्षति । जगती त्रिष्टुप् वा चतुश्चत्वारिंशदक्षरत्वात्त्रिष्टुबेव । नदीषु आ सा इममिति व्यूहद्वयेन द्व्यूना जगती भवति । हे अग्ने, ज्मन् ज्मा पृथिवी सप्तम्या लुक् ज्मनि पृथिव्यामुपावतर आगच्छ । तथा वेतसे वञ्जुलशाखायामुपावतर नदीषु आ । आ उपसर्गोऽध्यर्थे । नदीष्वधि अवकासु उपावतर । नदीशब्देन लक्षणयावका उच्यन्ते। तत्प्रभवत्वात् । मण्डूक्यवकावेतसशाखाः कर्षणार्थं वेणौ बद्धाः सन्ति तदयं मन्त्रो वदति । कस्मात्त्वमेवमस्माभिः प्रार्थ्यसे इत्यत आह । हे अग्ने, त्वमपां पित्तं तेजोऽसि । यो यस्यावयवः स तं न हिनस्ति तद्धर्मा च भवति । एवमग्निं संबोध्य मण्डूकीमाह । हे मण्डूकि, मण्डूको भेकस्तस्य स्त्री मण्डूकी तत्संबुद्धौ - हे मण्डूकि, ताभिः पूर्वोक्ताभिरद्भिः सह आगहि आगच्छ । शपि लोपे मलोपः । यासामग्निः पित्तं यत्र त्वमुत्पन्ना या त्वमग्नेः शान्त्यै इतस्ततो नीयसे सा त्वमिमं यज्ञमस्माभिः क्रियमाणं चयनलक्षणं पावकवर्णमग्निसमानतेजसं शिवं फल-प्रदत्वेन शान्तं च कृधि कुरु ॥ ६ ॥
सप्तमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- मेधातिथिर्ऋषिः
- आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब स्त्री-पुरुष आपस में कैसे वर्त्तें, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) अग्नि के तुल्य तेजस्विनी विदुषि (मण्डूकि) अच्छे प्रकार अलङ्कारों से शोभित विदुषि स्त्रि ! तू (ज्मन्) पृथिवी पर (नदीषु) नदियों तथा (वेतसे) पदार्थों के विस्तार में (अव, तर) पार हो, जैसे अग्नि (अपाम्) प्राण वा जलों के (पित्तम्) तेज का रूप (असि) है, वैसे तू (ताभिः) उन जल वा प्राणों के साथ (उप, आ, गहि) हमको समीप प्राप्त हो (सा) सो तू (नः) हमारे (इमम्) इस (पावकवर्णम्) अग्नि के तुल्य प्रकाशमान (यज्ञम्) गृहाश्रमरूप यज्ञ को (शिवम्) कल्याणकारी (उप, आ, कृधि) अच्छे प्रकार कर ॥६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। स्त्री और पुरुष गृहाश्रम में प्रयत्न के साथ सब कार्य्यों को सिद्ध कर शुद्ध आचरण के सहित कल्याण को प्राप्त हों ॥६ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ दम्पती कथं वर्त्तेयातामित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने वह्निरिव विदुषि मण्डूकि स्त्रि ! त्वं ज्मन् नदीषु वेतसेऽवतर, यथाऽग्निरपां पित्तमसि, तथा त्वं ताभिरुपागहि, सा त्वं न इमं पावकवर्णं यज्ञं शिवमुपाकृधि ॥६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। स्त्रीपुरुषौ गृहाश्रमे प्रयत्नेन सर्वाणि कार्याणि संसाध्य शुद्धाचरणेन कल्याणं प्राप्नुयाताम् ॥६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. स्त्री-पुरुषांनी गृहस्थाश्रमातील सर्व कामे प्रयत्नपूर्वक पूर्ण करावीत व शुद्ध आचरणाने वागावे आणि आपले कल्याण करून घ्यावे.
०७ अपामिदं न्ययनम्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒पामि॒दं न्यय॑नँ समु॒द्रस्य॑ नि॒वेश॑नम्। अ॒न्याँस्ते॑ऽअ॒स्मत्त॑पन्तु हे॒तयः॑ पाव॒कोऽअ॒स्मभ्यँ॑ शि॒वो भ॑व ॥७ ॥
मूलम् ...{Loading}...
अ॒पामि॒दं न्यय॑नँ समु॒द्रस्य॑ नि॒वेश॑नम्। अ॒न्याँस्ते॑ऽअ॒स्मत्त॑पन्तु हे॒तयः॑ पाव॒कोऽअ॒स्मभ्यँ॑ शि॒वो भ॑व ॥७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒पाम्। इ॒दम्। न्यय॑न॒मिति॑ नि॒ऽअय॑नम्। स॒मु॒द्रस्य॑। नि॒वेश॑न॒मिति॑ नि॒ऽवेश॑नम्। अ॒न्यान्। ते॒। अ॒स्मत्। त॒प॒न्तु॒। हे॒तयः॑। पा॒व॒कः। अ॒स्मभ्य॑म्। शि॒वः। भ॒व॒। ७।
महीधरः
म० उत्तरांसाद्दक्षिणांसं कृषति । आग्नेयी बृहती । इदं चित्याग्निस्थानं मण्डूक्यवकावेतसलक्षणं वा अपां न्ययनम् । नितरामीयते प्राप्यते येन तन्न्ययनम् उदकप्राप्तिसाधनम् । यागद्वारा ह्यापः प्राप्यन्ते । अपां बाहुल्यात्समुद्रस्य निवेशनम् निविशन्त्यस्मिन्निति निवेशनं गृहस्थानीयम् तद्रूप हे अग्ने, ते तव हेतयो ज्वाला अस्मत्सकाशादन्यान् अस्मद्विरोधिनः पुरुषान् तपन्तु क्लेशयन्तु । अस्मभ्यमस्मदर्थं पावकः शोधकः शिवः शान्तश्च भव ॥७॥
अष्टमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- मेधातिथिर्ऋषिः
- आर्षी बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
गृहस्थ को क्या करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् पुरुष ! जो (इदम्) यह आकाश (अपाम्) जलों वा प्राणों का (न्ययनम्) निश्चित स्थान है, उस आकाशस्थ (समुद्रस्य) समुद्र की (निवेशनम्) स्थिति के तुल्य गृहाश्रम को प्राप्त होके (पावकः) पवित्र कर्म करनेहारे होते हुए आप (अस्मभ्यम्) हमारे लिये (शिवः) मङ्गलकारी (भव) हूजिये, (ते) आपके (हेतयः) वज्र वा उन्नति (अस्मत्) हम लोगों से (अन्यान्) अन्य दुष्टों को (तपन्तु) दुःखी करें ॥७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्य लोग जैसे जलों का आधार समुद्र, सागर का आधार भूमि, उसका आधार आकाश है, वैसे गृहस्थी के पदार्थों के आधार घर को बना और मङ्गलरूप आचरण करके श्रेष्ठों की रक्षा तथा डाकुओं को पीड़ा दिया करें ॥७ ॥
दयानन्द-सरस्वती (सं) - विषयः
गृहस्थेन किं कार्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यदिदमपां न्ययनमस्ति, तस्य समुद्रस्य निवेशनमिव गृहाश्रमं प्राप्य पावकः संस्त्वमस्मभ्यं शिवो भव, ते हेतयोऽस्मदन्यांस्तपन्तु ॥७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्या यथाऽपामाधारः सागरः समुद्रस्याधिष्ठानं भूमिर्भूमेरधिष्ठानमन्तरिक्षं तथा गार्हपत्यपदार्थानामाधारं गृहं निर्माय मङ्गलमाचर्य श्रेष्ठपालनं दस्युताडनञ्च कुर्वन्तु ॥७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. ज्याप्रमाणे जलाचा आधार समुद्र, समुद्राचा आधार भूमी, भूमीचा आधार आकाश असते त्याप्रमाणे माणसांनी गृहस्थाश्रमातील सर्व वस्तू ज्याच्या आश्रयाने टिकतात असे घर बांधून उत्तम आचरण करावे व श्रेष्ठांचे रक्षण आणि दुष्टांचे दमन कावे.
०८ अग्ने पावक
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने॑ पावक रो॒चिषा॑ म॒न्द्रया॑ देव जि॒ह्वया॑। आ दे॒वान् व॑क्षि॒ यक्षि॑ च ॥८ ॥
मूलम् ...{Loading}...
अग्ने॑ पावक रो॒चिषा॑ म॒न्द्रया॑ देव जि॒ह्वया॑। आ दे॒वान् व॑क्षि॒ यक्षि॑ च ॥८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अग्ने॑। पा॒व॒क॒। रो॒चिषा॑। म॒न्द्रया॑। दे॒व॒। जि॒ह्वया॑। आ। दे॒वान्। व॒क्षि॒। यक्षि॑। च॒। ८।
महीधरः
म० ‘पक्षपुच्छानि चाभ्यात्ममग्ने पावक रोचिषेति’ ( का. १८ । २ । ११)। पक्षपुच्छानि प्रान्तादारभ्याभ्यात्ममात्मसंमुखं सन्धिपर्यन्तं कर्षति प्रत्यृचमग्ने इति दक्षिणं पक्षं स न इति पुच्छं पावकयेत्युत्तरं पक्षमित्यर्थः । आग्नेयी गायत्री वसूयुदृष्टा । हे अग्ने, हे पावक शोधक, हे देव, रोचिषा रोचनेन ज्वालासमूहेनाहवनीयात्मना स्थित इति शेषः । मन्द्रया मदनीयया जिह्वया होतृवाग्रूपेणावस्थित इति शेषः । देवानावक्षि आवह यक्षि यज च । द्वावग्नेरधिकारौ हौत्रमाहवनीयरूपेण हविर्ग्रहणं चात एव स्तूयते। वहतेर्यजेश्च लोण्मध्यमैकवचने शपि लुप्ते ढत्वगत्वादिके कृते वक्षि यक्षीति रूपम् ॥८॥
नवमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वसुयुर्ऋषिः
- आर्षी गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
आप्त विद्वानों को क्या करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (पावक) मनुष्यों के हृदयों को शुद्ध करनेवाले (देव) सुन्दर (अग्ने) विद्या का प्रकाश वा उपदेश करनेहारे पुरुष ! आप (मन्द्रया) आनन्द को सिद्ध करनेहारी (जिह्वया) सत्य प्रिय वाणी वा (रोचिषा) प्रकाश से (देवान्) विद्वान् वा दिव्य गुणों को (आ, वक्षि) उपदेश करते (च) और (यक्षि) समागम करते हो ॥८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे सूर्य अपने प्रकाश से सब जगत् को प्रसन्न करता है, वैसे आप्त उपदेशक विद्वान् सब प्राणियों को प्रसन्न करें ॥८ ॥
दयानन्द-सरस्वती (सं) - विषयः
आप्तैर्विद्वद्भिः किं कार्य्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे पावक देवाग्ने ! त्वं मन्द्रया जिह्वया रोचिषा देवानावक्षि यक्षि च ॥८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यथा सूर्यः स्वप्रकाशेन सर्वं जगद् रोचयति, तथैवाप्तोपदेशकाः सर्वाञ्जनान् प्रीणीयुः ॥८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जसा सूर्य आपल्या प्रकाशाने सर्व जगाला प्रसन्न करतो तसे आप्त, उपदेशक व विद्वान यांनी सर्व प्राण्यांना प्रसन्न करावे.
०९ स नः
विश्वास-प्रस्तुतिः ...{Loading}...
स नः॑ पावक दीदि॒वोऽग्ने दे॒वाँ२ऽइ॒हा व॑ह। उप॑ य॒ज्ञँ ह॒विश्च॑ नः ॥९ ॥
मूलम् ...{Loading}...
स नः॑ पावक दीदि॒वोऽग्ने दे॒वाँ२ऽइ॒हा व॑ह। उप॑ य॒ज्ञँ ह॒विश्च॑ नः ॥९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सः नः॒। पा॒व॒क॒। दी॒दि॒व इति॑ दीदि॒ऽवः। अग्ने॑। दे॒वान्। इ॒ह। आ। व॒ह॒। उप॑। य॒ज्ञम्। ह॒विः। च॒। नः॒। ९।
महीधरः
म० गायत्र्याग्नेयी मेधातिथिदृष्टा । हे पावक पावयितः, हे दीदिवः, दिदेवेति दीदिवान् तत्संबुद्धौ हे दीदिवः दीप्तिमन् , ‘दिवु क्रीडादिषु’ क्वसुप्रत्ययः द्वित्वम् ‘तुजादीनाम्’ (पा. ६।१।७) इत्यभ्यासदीर्घः ‘लोपो व्योर्वलि’ ( पा० ६ । १।६६) इति वलोपः । हे अग्ने, देवानिह नोंऽस्माकं यज्ञे आवह आनय । यज्ञमुप यज्ञसमीपे नोऽस्माकं हविश्च देवानावह प्रापय ॥९॥
दशमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- मेधातिथिर्ऋषिः
- निचृदार्षी गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (पावक) पवित्र (दीदिवः) तेजस्विन् वा शत्रुदाहक (अग्ने) सत्यासत्य का विभाग करनेहारे विद्वन् ! (सः) पूर्वोक्त गुणवाले आप जैसे यह अग्नि (नः) हमारे लिये अच्छे गुणोंवाले (हविः) हवन किये सुगन्धित द्रव्य को प्राप्त करता है, वैसे (इह) इस संसार में (यज्ञम्) गृहाश्रम (च) और (देवान्) विद्वानों को (नः) हम लोगों के लिये (उप, आ, वह) अच्छे प्रकार समीप प्राप्त करें ॥९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे यह अग्नि अपने सूर्य्यादि रूप से सब पदार्थों से रस को ऊपर ले जा और वर्षा के उत्तम सुखों को प्रकट करता है, वैसे ही विद्वान् लोग विद्यारूप रस को उन्नति दे के सब सुखों का उत्पन्न करें ॥९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तदेवाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे पावक दीदिवोऽग्ने ! स त्वं यथाऽयमग्निर्नो हविरावहति, तथेह यज्ञं देवांश्च न उपावह ॥९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा सूर्य्यादिरूपेणायमग्निः सर्वेभ्यो रसमूर्ध्वं नीत्वा वर्षयित्वा दिव्यानि सुखानि जनयति, तथैव विद्वांसो विद्यारसमुन्नतं कृत्वा सर्वाणि सुखानि जनयेयुः ॥९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसा अग्नी आपल्या सूर्यरूपाने सर्व पदार्थांचा रस वर ओढून घेतो व जलाचा वर्षाव करून उत्तम सुख देतो तसे विद्वानांनी विद्यारूपी रसाची वाढ करून सुख निर्माण करावे.
१० पावकया यश्चितयन्त्या
विश्वास-प्रस्तुतिः ...{Loading}...
पा॒व॒कया॒ यश्चि॒तय॑न्त्या कृ॒पा क्षाम॑न् रुरु॒चऽउ॒षसो॒ न भा॒नुना॑। तूर्व॒न् न याम॒न्नेत॑शस्य॒ नू रण॒ऽआ यो घृ॒णे न त॑तृषा॒णोऽअ॒जरः॑ ॥१० ॥
मूलम् ...{Loading}...
पा॒व॒कया॒ यश्चि॒तय॑न्त्या कृ॒पा क्षाम॑न् रुरु॒चऽउ॒षसो॒ न भा॒नुना॑। तूर्व॒न् न याम॒न्नेत॑शस्य॒ नू रण॒ऽआ यो घृ॒णे न त॑तृषा॒णोऽअ॒जरः॑ ॥१० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पा॒व॒कया॑। यः। चि॒तय॑न्त्या। कृ॒पा। क्षाम॑न्। रु॒रु॒चे। उ॒षसः॑। न। भा॒नुना॑। तूर्व॑न्। न। याम॑न्। एत॑शस्य। नु। रणे॑। आ। यः। घृ॒णे। न। त॒तृ॒षा॒णः। अ॒जरः॑। १०।
महीधरः
म० जगती भरद्वाजदृष्टा । योऽग्निः क्षामन् क्षाम्णि पृथिव्यां रुरुचे रोचते शोभते । कया कृपा ‘कृपू सामर्थ्ये’ कल्पनं कृप् क्विप् । तया कल्पनया सामर्थ्येन दीप्त्या वा । क्षामेति पृथिवीनाम । किंभूतया कृपा । पावकया पावयतीति पावका तया पावयित्र्या । चितयन्त्या चेतयन्त्या । यद्वा चितं करोति चितयन्ती तया दृढचयकारिण्या । रोचने दृष्टान्तः। उषसो न भानुना । न इवार्थे । यथा उषसः कालाः भानुना स्वप्रकाशेन रोचन्ते तद्वत् । किंच यश्चाग्निः घृणिः । घृणिरिति दीप्तिनाम । ‘सुपां सुलुक्’ (पा० ८।१।३९) इति विभक्तेः शे आदेशः । घृणिना दीप्त्या आ समन्तात् । नु निश्चितं रुरुचे इत्यनुषङ्गो नकारश्चार्थः । किं कुर्वन् । एतशस्य एतीत्येतशः गमनकुशलस्याश्वस्य यामन् यामनि नियामके रणे युद्धे तूर्वन् ‘तूर्व हिंसायां’ परबलानि हिंसन् । न इवार्थे । शत्रून् हिंसन्निव रोचते । यद्वा यामन्शब्दः कर्मवाचकः । नु अनर्थकम् । यामनि कर्मणि तूर्वन्न त्वरमाण इव एतशस्याश्वस्य रणे रमणीये पदे आहितोऽध्वर्युणा । तथा ततृषाणः तृष्यतीति ततृषाणः ‘ञितृषा पिपासायाम्’ ‘बहुलं छन्दसि’ (पा० २ । ४ । ७६ ) इति ह्वादित्वाच्छानचि श्लुद्वित्वे पूर्णाहुतिं पिपासुः । अजरः जरारहितः । य ईदृशोऽग्निस्तं कृषाम इत्यर्थः ॥ १० ॥
एकादशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- भारद्वाज ऋषिः
- निचृदार्षी
- निषादः
११ नमस्ते हरसे
विश्वास-प्रस्तुतिः ...{Loading}...
नम॑स्ते॒ हर॑से शो॒चिषे॒ नम॑स्तेऽअस्त्व॒र्चिषे॑। अ॒न्याँस्ते॑ अ॒स्मत्त॑पन्तु हे॒तयः॑ पाव॒कोऽअ॒स्मभ्यँ॑ शि॒वो भ॑व ॥११ ॥
मूलम् ...{Loading}...
नम॑स्ते॒ हर॑से शो॒चिषे॒ नम॑स्तेऽअस्त्व॒र्चिषे॑। अ॒न्याँस्ते॑ अ॒स्मत्त॑पन्तु हे॒तयः॑ पाव॒कोऽअ॒स्मभ्यँ॑ शि॒वो भ॑व ॥११ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नमः॑। ते॒। हर॑से। शो॒चिषे॑। नमः॑। ते॒। अ॒स्तु॒। अ॒र्चिषे॑। अ॒न्यान्। ते॒। अ॒स्मत्। त॒प॒न्तु॒। हे॒तयः॑। पा॒व॒कः। अ॒स्मभ्य॑म्। शि॒वः। भ॒व॒। ११।
महीधरः
म० ‘उभयमादाय चित्यारोहणं नमस्त इति’ ( का. १८।३ । ५)। हिरण्यशकलसहितं स्रुक्स्थमाज्यं दधिमधुघृतकुशमुष्टियुता पात्री एतद्द्वयमादायाध्वर्युश्चित्याग्निमारोहति । ब्रह्मयजमानौ तु अग्नेर्दक्षिणत उपविशत इत्यर्थः । आग्नेयी बृहती लोपामुद्रादृष्टा । हे अग्ने, ते तव शोचिषे शोचनहेतवे तेजसे नमोऽस्तु । कीदृशाय शोचिषे । हरसे हरति सर्वरसानिति हरः तस्मै । हरतेरसुन्प्रत्ययः । ते तव अर्चिषे पदार्थप्रकाशकाय तेजसे नमोस्तु । अन्यदुक्तम् ॥ ११ ॥
द्वादशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- लोपामुद्रा ऋषिः
- भुरिगार्षी बृहती
- मध्यमः
१२ नृषदे वेडप्सुषदे
विश्वास-प्रस्तुतिः ...{Loading}...
नृ॒षदे॒ वेड॑प्सु॒षदे॒ वेड् ब॑र्हि॒षदे॒ वेड् व॑न॒सदे॒ वेट् स्व॒र्विदे॒ वेट् ॥१२ ॥
मूलम् ...{Loading}...
नृ॒षदे॒ वेड॑प्सु॒षदे॒ वेड् ब॑र्हि॒षदे॒ वेड् व॑न॒सदे॒ वेट् स्व॒र्विदे॒ वेट् ॥१२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नृ॒षदे॑। नृ॒सद॒ इति॑ नृ॒ऽसदे॑। वेट्। अ॒प्सु॒षदे॑। अ॒प्सु॒सद॒ इत्य॑प्सु॒ऽसदे॑। वेट्। ब॒र्हि॒षदे॑। ब॒र्हि॒सद इति॑ बर्हि॒ऽसदे॑। वेट्। व॒न॒सद॒ इति॑ वन॒ऽसदे॑। वेट्। स्व॒र्विद॒ इति॑ स्वः॒ऽविदे॑। वेट्। १२।
महीधरः
म०. ‘स्वयमातृण्णायां पञ्चगृहीतं जुहोति नाभिवद्धिरण्यादर्शनं च नृषदेवेडिति प्रतिमन्त्रम्’ ( का० १८ । ३ । ६।)। आरुह्य स्वयमातृण्णायां पञ्चगृहीतं जुहोति पञ्चमन्त्रैः नाभिवदिति दक्षिणांसश्रोणिद्वयोत्तरांसमध्येषु तत्र हिरण्यं पश्यन्निस्यस्ति तदत्र नेत्यर्थः । पञ्चाग्नेयानि यजूंषि दैवी बृहती दैव्यः पङ्क्तयः अन्त्या दैवी बृहती । नृषु मनुष्येषु जठराग्निरूपेण तिष्ठतीति नृषत् प्राणस्तस्मै वेट् हविर्दत्तम् । वेट्शब्दः स्वाहाकारार्थः । ‘प्रत्यक्षं वै तद्यत् स्वाहाकारः प्रत्यक्षᳪं᳭ सोत्तरवेदिर्वेट्कारेणेमां परोक्षं वै तद्यद्वेट्कारः’ (९।२। १ । ७) इति श्रुतेः । तथा नृषदे वेडिति । ‘प्राणो वै नृषन्मनुष्या नरस्तद्योऽयं मनुष्येषु प्राणोऽग्निस्तमेतत्प्रीणाति’ (९ । २ । १ । ८) इति । अप्सु उदकेषु और्वरूपेण सीदतीत्यप्सुषत् । ‘योऽप्स्वग्निस्तमेतत्प्रीणाति’ (८) इति श्रुतेः । बर्हिषि यज्ञे आहवनीयादिरूपेण सीदतीति बर्हिषत् , बर्हिःषु ओषधीषु तिष्ठतीति वा तस्मै वेडस्तु । ‘बर्हिषदे वेडिति य ओषधीष्वग्निस्तमेतत् प्रीणाति’ (८) इति श्रुतेः । वनं वृक्षसमूहस्तत्र दावाग्निरूपेण सीदतीति वनसत्तस्मै वेट् । ‘वनसदे वेडिति यो वनस्पतिष्वग्निस्तमे०’ (८) स्वः स्वर्गे आदित्यरूपेण विद्यते स्वर्वित् विद्यतिः सीदत्यर्थः । यद्वा स्वरादित्यं विन्दते स्वर्वित्तस्मै वषडस्तु ॥ १२ ॥
त्रयोदशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- लोपामुद्रा ऋषिः
- निचृद् गायत्री
- षड्जः
१३ ये देवा
विश्वास-प्रस्तुतिः ...{Loading}...
ये दे॒वा दे॒वानां॑ य॒ज्ञिया॑ य॒ज्ञिया॑नाँ संवत्स॒रीण॒मुप॑ भा॒गमास॑ते। अ॒हु॒तादो॑ ह॒विषो॑ य॒ज्ञेऽअ॒स्मिन्त्स्व॒यं पि॑बन्तु॒ मधु॑नो घृ॒तस्य॑ ॥१३ ॥
मूलम् ...{Loading}...
ये दे॒वा दे॒वानां॑ य॒ज्ञिया॑ य॒ज्ञिया॑नाँ संवत्स॒रीण॒मुप॑ भा॒गमास॑ते। अ॒हु॒तादो॑ ह॒विषो॑ य॒ज्ञेऽअ॒स्मिन्त्स्व॒यं पि॑बन्तु॒ मधु॑नो घृ॒तस्य॑ ॥१३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ये। दे॒वाः। दे॒वाना॑म्। य॒ज्ञियाः॑। य॒ज्ञिया॑नाम्। सं॒व॒त्स॒रीण॑म्। उप॑। भा॒गम्। आस॑ते। अ॒हु॒ताद॒ इत्य॑हुत॒ऽअदः॑। ह॒विषः॑। य॒ज्ञे। अ॒स्मिन्। स्व॒यम्। पि॒ब॒न्तु॒। मधु॑नः। घृ॒तस्य॑। १३।
महीधरः
म० ‘समासिक्तान् कुशैः प्रोक्षति सपरिश्रित्कं बाह्येन च ये देवा इति’ (का० १८ । ३ । ७)। पात्र्यां सिक्तान् दधिमधुघृतान् कुशैः परिश्रित्सहितं सपक्षपुच्छमग्निं मध्ये बहिश्च प्रोक्षति ऋग्द्वयेनेत्यर्थः । जगत्यौ प्राणदेवत्ये । ते प्राणरूपा देवाः, अस्मिन् यज्ञे चयनलक्षणे मधुनो घृतस्य अर्थाद्दध्नश्च हविषो मधुघृतदधिरूपस्य हविषो भागं स्वयं पिबन्तु । स्वाहाकारसमर्पणेन विना स्वयमेव स्वीकुर्वन्त्वित्यर्थः । कीदृशास्ते । अहुतादः अहुतमदन्ति ते अहुतादः । अन्ये देवा अग्निहुतामाहुतिमदन्ति प्राणास्तु साक्षादन्नमदन्ति अत एवाहुतादः । ते के । संवत्सरीणं भागमुपासते संवत्सरेण निर्वृत्तः संवत्सरीणः ‘संपरिपूर्वात् ख च’ ( पा० ५। १ । ९२ ) इति संपूर्वाद्वत्सरान्निवृत्तार्थे खप्रत्ययः । संवत्सरं हि भूत्वाग्निश्चीयते इत्यभिप्रायः । कीदृशाः । यज्ञियानां यज्ञार्हाणां देवानां मध्ये यज्ञियाः यज्ञयोग्याः देवाः दीप्यमानाः । द्विविधा देवाः हविर्भुज इन्द्रवरुणादयः शरीरनिर्वाहकाः प्राणापानादयश्च । दीव्यन्तीति व्युत्पत्त्या उभयेऽप्येते यज्ञियाः तत्रेन्द्रादयो यज्ञे पूज्यवाद् यज्ञियाः प्राणादयस्तु यज्ञेन पूजकत्वाद्यज्ञियाः ॥१३॥
चतुर्दशी।
अधिमन्त्रम् (VC)
- प्राणो देवता
- लोपामुद्रा ऋषिः
- निचृदार्षी जगती
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब संन्यासियों को क्या करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ये) जो (देवानाम्) विद्वानों में (अहुतादः) बिना हवन किये हुए पदार्थ का भोजन करनेहारे (देवाः) विद्वान् (यज्ञियानाम्) वा यज्ञ करने में कुशल पुरुषों में (यज्ञियाः) योगाभ्यासादि यज्ञ के योग्य विद्वान् लोग (संवत्सरीणम्) वर्ष भर पुष्ट किये (भागम्) सेवने योग्य उत्तम परमात्मा की (उपासते) उपासना करते हैं, वे (अस्मिन्) इस (यज्ञे) समागमरूप यज्ञ में (मधुनः) शहत (घृतस्य) जल और (हविषः) हवन के योग्य पदार्थों के भाग को (स्वयम्) अपने आप (पिबन्तु) सेवन करें ॥१३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो विद्वान् लोग इस संसार में अग्निक्रिया से रहित अर्थात् आहवनीय, गार्हपत्य और दक्षिणाग्नि सम्बन्धी बाह्य कर्मों को छोड़ के आभ्यन्तर अग्नि को धारण करनेवाले संन्यासी हैं, वे होम को नहीं किये भोजन करते हुए सर्वत्र विचर के सब मनुष्यों को वेदार्थ का उपदेश किया करें ॥१३ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ संन्यासिभिः किं कार्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये देवानां मध्येऽहुतादो देवा यज्ञियानां मध्ये यज्ञिया विद्वांसः संवत्सरीणं भागमुपासते, तेऽस्मिन् यज्ञे मधुनो घृतस्य हविषो भागं स्वयं पिबन्तु ॥१३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - येऽस्मिन् संसारे अनग्नयोऽर्थादाहवनीयगार्हपत्यदक्षिणाग्निसम्बन्धिबाह्यकर्माणि विहायान्तरग्नयः संन्यासिनः सन्ति, ते होममकुर्वन्तो भुञ्जानाः सर्वत्र विहृत्य सर्वान् जनान् वेदार्थान् बोधयेयुः ॥१३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे विद्वान या संसारात अग्निहोत्र करत नाहीत अर्थात गार्हपत्य व दक्षिणाग्नीसंबंधी बाह्य कर्म सोडून आभ्यंतर अग्नी धारण करतात ते संन्याशी होत. (हवन न करताही भोजन करून) त्यांनी सर्वत्र संचार करून सर्व माणसांना वेदाचा उपदेश करावा.
१४ ये देवा
विश्वास-प्रस्तुतिः ...{Loading}...
ये दे॒वा दे॒वेष्वधि॑ देव॒त्वमाय॒न् ये ब्रह्म॑णः पुरऽए॒तारो॑ऽअ॒स्य। येभ्यो॒ नऽऋ॒ते पव॑ते॒ धाम॒ किञ्च॒न न ते दि॒वो न पृ॑थि॒व्याऽअधि॒ स्नुषु॑ ॥१४ ॥
मूलम् ...{Loading}...
ये दे॒वा दे॒वेष्वधि॑ देव॒त्वमाय॒न् ये ब्रह्म॑णः पुरऽए॒तारो॑ऽअ॒स्य। येभ्यो॒ नऽऋ॒ते पव॑ते॒ धाम॒ किञ्च॒न न ते दि॒वो न पृ॑थि॒व्याऽअधि॒ स्नुषु॑ ॥१४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ये। दे॒वाः। दे॒वेषु॑। अधि॑। दे॒व॒त्वमिति॑ देव॒ऽत्वम्। आय॑न्। ये। ब्रह्म॑णः। पु॒र॒ऽए॒तार॒ इति॑ पुरःऽए॒तारः॑। अ॒स्य। येभ्यः॑। न। ऋ॒ते। पव॑ते। धाम॑। किम्। च॒न। न। ते। दि॒वः। न। पृ॒थि॒व्याः। अधि॑। स्नुषु॑। १४।
महीधरः
म० ये देवाः प्राणा देवेष्विन्द्रादिषु अधिष्ठातृत्वेन देवत्वमायन् प्राप्ताः इन्द्रादीनामपि प्राणा देवाः । ये अस्य ब्रह्मणः जीवस्य पुरएतारः पुरोऽग्रे यन्तीति पुरएतारः ‘इण् गतौ’ इत्यस्मात् ‘ण्वुल्तृचौ’ (पा. ३ । १ । १३३ ) इति तृच्प्रत्ययः । ‘प्राणा हि प्राणिनां पुरःसराः अयमग्निर्ब्रह्म तस्मै ते पुरएतारः’ ( ९ । २ । १५) इति श्रुतेः । प्राणैर्विना चीयमानोऽग्निर्निर्वोढुं न शक्यते । किंच येभ्य ऋते यान् प्राणान् विना किंचन धाम किमपि शरीरं न पवते ‘पवङ् गतौ’ न चेष्टते । इत्थंभूता ये प्राणा देवास्ते पुनः क्वासते तत्राह । न त इति । ते प्राणरूपा देवाः न दिवः । षष्ठ्यौ सप्तम्यर्थे । दिवि स्वर्गे न सन्ति । पृथिव्याः पृथिव्यां भूमावपि न नैव । ‘ते दिवि न पृथिव्यां यदेव प्राणभृत्तस्मिंस्ते’ (माश ९ । २ । १।१।१५) इति श्रुतेः । यद्वा दिवः प्रदेशेषु न पृथिव्याः प्रदेशेषु न किं तर्हि स्नुषु अधि ‘स्नु प्रक्षरणे’ नुवन्ति क्षरन्ति स्नूनि स्रोतांसि चक्षुरादीनि प्राणायतनानि तेषु अधिश्रित्य वर्तन्ते तेषूपलभ्यन्ते तेषां स विशिष्टः प्रदेशः ॥ १४ ॥
पञ्चदशी।
अधिमन्त्रम् (VC)
- प्राणो देवता
- लोपामुद्रा ऋषिः
- आर्षी जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
अब उत्तम विद्वान् लोग कैसे होते हैं, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ये) जो (देवाः) पूर्ण विद्वान् (देवेषु, अधि) विद्वानों में सब से उत्तम कक्षा में विराजमान (देवत्वम्) अपने गुण, कर्म और स्वभाव को (आयन्) प्राप्त होते हैं और (ये) जो (अस्य) इस (ब्रह्मणः) परमेश्वर को (पुरएतारः) पहिले प्राप्त होनेवाले हैं, (येभ्यः) जिनके (ऋते) विना (किम्) (चन) कोई भी (धाम) सुख का स्थान (न) नहीं (पवते) पवित्र होता (ते) वे विद्वान् लोग (न) न (दिवः) सूर्य्यलोक के प्रदेशों और (न) न (पृथिव्याः) पृथिवी के (अधि, स्नुषु) किसी भाग में अधिक वसते हैं ॥१४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो इस जगत् में उत्तम विद्वान् योगीराज यथार्थता से परमेश्वर को जानते हैं, वे सम्पूर्ण प्राणियों को शुद्ध करने और जीवन्मुक्तिदशा में परोपकार करते हुए विदेहमुक्ति अवस्था में न सूर्य्यलोक और न पृथिवी पर नियम से वसते हैं, किन्तु ईश्वर में स्थिर हो के अव्याहतगति से सर्वत्र विचरा करते हैं ॥१४ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथोत्तमा विद्वांसः कीदृशा भवन्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये देवा देवेष्वधि देवत्वमायन्, येऽस्य ब्रह्मणः पुरएतारः सन्ति, येभ्य ऋते किं चन धाम न पवते, ते न दिवः स्नुषु न च पृथिव्या अधि स्नुष्वायन् नाधिवसन्तीति यावत् ॥१४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - येऽत्र जगति विद्वत्तमा योगाधिराजा याथातथ्येन परमेश्वरं जानन्ति, ते निखिलजनशोधकाः सन्तो जीवन्मुक्तिदशायां परोपकारमाचरन्तो विदेहमुक्तदशायां न सूर्यलोके न च पृथिव्यां नियतं वसन्ति, किन्तु ब्रह्मणि स्थित्वाऽव्याहतगत्या सर्वत्राभिविहरन्ति ॥१४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या जगात जे उत्तम विद्वान आणि योगी असतात ते यथार्थपणे परमेश्वराला जाणतात. ते संपूर्ण प्राण्यांना व स्थानांना पवित्र करून जीवनमुक्त अवस्थेमध्ये परोपकार करतात व विदेहमुक्त अवस्थेमध्ये सूर्यलोक व पृथ्वीलोकावर वस्ती करत नाहीत तर ईश्वरामध्ये स्थिर हेऊन अव्याहत गतीने सर्वत्र संचार करतात.
१५ प्राणदाऽअपानदा व्यानदा
विश्वास-प्रस्तुतिः ...{Loading}...
प्रा॒ण॒दाऽअ॑पान॒दा व्या॑न॒दा व॑र्चो॒दा व॑रिवो॒दाः। अन्याँ॒स्ते॑ऽअ॒स्मत्त॑पन्तु हे॒तयः॑ पाव॒कोऽअ॒स्मभ्यँ॑ शि॒वो भ॑व ॥१५ ॥
मूलम् ...{Loading}...
प्रा॒ण॒दाऽअ॑पान॒दा व्या॑न॒दा व॑र्चो॒दा व॑रिवो॒दाः। अन्याँ॒स्ते॑ऽअ॒स्मत्त॑पन्तु हे॒तयः॑ पाव॒कोऽअ॒स्मभ्यँ॑ शि॒वो भ॑व ॥१५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्रा॒ण॒दा इति॑ प्राण॒ऽदाः। अ॒पा॒न॒दा इत्य॑पान॒ऽदाः। व्या॒न॒दा इति॑ व्यान॒ऽदाः। व॒र्चो॒दा इति॑ वर्चः॒ऽदाः। व॒रि॒वो॒दा इति॑ वरिवः॒ऽदाः। अ॒न्यान्। ते॒। अ॒स्मत्। त॒प॒न्तु॒। हे॒तयः॑। पा॒व॒कः। अ॒स्मभ्य॑म्। शि॒वः। भ॒व॒। १५।
महीधरः
म० ‘प्राणदा इत्यवरोहति’ ( का० १८ । ३ । ८) । प्रोक्षणानन्तरमग्नेरवतरतीत्यर्थः । अग्निदेवत्या बृहती पतिर्वा ; अष्टत्रिंशदक्षरत्वाद्विकल्पः । हे अग्ने, ते तव हेतयो ज्वाला अस्मदन्यान् तपन्तु । त्वं चास्माकं पावकः शिवश्च भव । कीदृशस्त्वं । प्राणदाः प्राणान् यजमानाय ददातीति प्राणदाः । अपानं ददातीत्यपानदाः । व्यानं सर्वशरीरसंचारिवायुं ददातीति व्यानदाः । वर्चो बलं ददातीति वर्चोदाः । वरिवो धनं ददातीति वरिवोदाः ॥ १५॥
षोडशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- लोपामुद्रा ऋषिः
- विराडार्षी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
विद्वान् और राजा कैसे हों, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् राजन् ! (ते) आपकी जो उन्नति वा शस्त्रादि (अस्मभ्यम्) हम लोगों के लिये (प्राणदाः) जीवन तथा बल को देने वा (अपानदाः) दुःख दूर करने के साधन को देने वा (व्यानदाः) व्याप्ति और विज्ञान को देने (वर्चोदाः) सब विद्याओं के पढ़ने का हेतु को देने और (वरिवोदाः) सत्य धर्म्म और विद्वानों की सेवा को व्याप्त करानेवाली (हेतयः) वज्रादि शस्त्रों की उन्नतियाँ (अस्मत्) हमसे (अन्यान्) अन्य दुष्ट शत्रुओं को (तपन्तु) दुःखी करें, उनके सहित (पावकः) शुद्धि का प्रचार करते हुए आप हम लोगों के लिये (शिवः) मङ्गलकारी (भव) हूजिये ॥१५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - वही राजा है जो न्याय को बढ़ानेवाला हो, और वही विद्वान् है जो विद्या से न्याय को जाननेवाला हो, और वह राजा नहीं जो कि प्रजा को पीड़ा दे, और वह विद्वान् भी नहीं जो दूसरों को विद्वान् न करे, और वे प्रजाजन भी नहीं जो नीतियुक्त राजा की सेवा न करें ॥१५ ॥
दयानन्द-सरस्वती (सं) - विषयः
विद्वद्राजानौ कीदृशौ स्यातामित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् राजन् ! ते तव या अस्मभ्यं प्राणदा अपानदा व्यानदा वर्चोदा वरिवोदा हेतयो भूत्वाऽस्मदन्यांस्तपन्तु ताभिः पावकः संस्त्वमस्मभ्यं शिवो भव ॥१५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - स एव राजा यो न्यायस्य वर्द्धकः स्यात्, स एव विद्वान् यो विद्यया न्यायस्य विज्ञापको भवेत्, न स राजा यः प्रजा पीडयेत्, न स विद्वान् योऽन्यान् विदुषो न कुर्यात्, न ताः प्रजा या नीतिज्ञं न सेवेरन् ॥१५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जो न्यायी असतो तोच खरा राजा होय. जो विद्या जाणून घेऊन न्यायनिवाडा करतो तोच खरा विद्वान होय. जो प्रजेला त्रास देतो तो राजा नव्हे व जो इतरांना विद्वान करीत नाही तो विद्वान नव्हे आणि जे नीतिमान राजाला सहकार्य करत नाहीत ते प्रजानन नव्हेत.
१६ अग्निस्तिग्मेन शोचिषा
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॒ यास॒द्विश्वं॒ न्य᳙त्रिण॑म्। अ॒ग्निर्नो॑ वनते र॒यिम् ॥१६ ॥
मूलम् ...{Loading}...
अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॒ यास॒द्विश्वं॒ न्य᳙त्रिण॑म्। अ॒ग्निर्नो॑ वनते र॒यिम् ॥१६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒ग्निः ति॒ग्मेन॑। शो॒चिषा॑। यास॑त्। विश्व॑म्। नि। अ॒त्रिण॑म्। अ॒ग्निः। नः॒। व॒न॒ते॒। र॒यिम्। १६।
महीधरः
म० ‘पञ्चगृहीतं जुहोत्यग्निस्तिग्मेनेत्यृचा’ ( का० १८ । ३ । १२ )। शालायामागत्य पञ्चगृहीतमाज्यं शालाद्वार्येऽग्नौ जुहोति । आग्नेयी गायत्री भरद्वाजदृष्टा । अग्निः विश्वं सर्वमत्त्रिणं राक्षसं नियासत् नितरां क्षीणं करोतु ‘यास उपक्षये’ लेट् ‘इतश्च लोपः परस्मैपदेषु’ (पा० ३ । ४ । ९७ ) इतीकारलोपः । अत्र अदनं भक्षणमस्यास्तीत्यत्त्री भक्षकस्तम् । केन तिग्मेन शोचिषा तीक्ष्णेन तेजसा ‘तिग्मं तेजतेरुत्साहकर्मणः’ ! ( निरु० १० । ६ ) इति यास्कः । किंच अग्निर्नोऽस्मभ्यं रयिं धनं वनते ददातु । वनतिर्दानार्थः ॥ १६ ॥
सप्तदशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- भारद्वाज ऋषिः
- निचृदार्षी गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
विद्वान् कैसा हो, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् पुरुष ! जैसे (अग्निः) अग्नि (तिग्मेन) तीव्र (शोचिषा) प्रकाश से (अत्रिणम्) भोगने योग्य (विश्वम्) सबको (यासत्) प्राप्त होता है कि जैसे (अग्निः) विद्युत् अग्नि (नः) हमारे लिये (रयिम्) धन को (नि, वनते) निरन्तर विभागकर्त्ता है, वैसे हमारे लिये आप भी हूजिये ॥१६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। विद्वानों को चाहिये कि जैसे अग्नि अपने तेज से सूखे गीले सब तृणादि को जला देता है, वैसे हमारे सब दोषों को भस्म कर गुणों को प्राप्त करें। जैसे बिजुली सब पदार्थों का सेवन करती है, वैसे हम को सब विद्या का सेवन करा के अविद्या से पृथक् किया करें ॥१६ ॥
दयानन्द-सरस्वती (सं) - विषयः
विद्वान् कीदृशो भवेदित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यथाऽग्निस्तिग्मेन शोचिषा विश्वमत्रिणं यासत्, यथाग्निर्विद्युन्नो रयिं निवनते, तथा त्वमस्मदर्थं भव ॥१६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। विद्वद्भिर्यथा पावकः स्वतेजसा शुष्कमशुष्कं तृणादिकं दहति, तथाऽस्माकं सर्वान् दोषान् दग्ध्वा गुणाः प्रापणीयाः। यथा विद्युत् सर्वान् पदार्थान् सेवते, तथास्मभ्यं सर्वा विद्यां सेवयित्वा वयमविद्यायाः पृथक्करणीयाः ॥१६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. अग्नी जसा आपल्या तीव्र तेजाने ओले व सुकलेले तृण वगैरेंना जाळतो तसे विद्वानांनी आमच्या सर्व दोषांना भस्म करून गुण प्रकट करावेत. जशी विद्युत सर्व पदार्थांत व्याप्त असते तसे विद्वानांनी आम्हा सर्वांना विद्या शिकवून अविद्या दूर करावी व सर्वांना विद्वान करावे.
१७ यऽइमा विश्वा
विश्वास-प्रस्तुतिः ...{Loading}...
यऽइ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒दृषि॒र्होता॒ न्यसी॑दत् पि॒ता नः॑। सऽआ॒शिषा॒ द्रवि॑णमि॒च्छमा॑नः प्रथम॒च्छदव॑राँ॒२ऽआवि॑वेश ॥१७ ॥
मूलम् ...{Loading}...
यऽइ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒दृषि॒र्होता॒ न्यसी॑दत् पि॒ता नः॑। सऽआ॒शिषा॒ द्रवि॑णमि॒च्छमा॑नः प्रथम॒च्छदव॑राँ॒२ऽआवि॑वेश ॥१७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यः। इ॒मा। विश्वा॑। भुव॑नानि। जुह्व॑त्। ऋषिः॑। होता॑। नि। असी॑दत्। पि॒ता। नः॒। सः। आ॒शिषेत्या॒ऽशिषा॑। द्रवि॑णम्। इ॒च्छमा॑नः। प्र॒थ॒म॒च्छदिति॑ प्रथम॒ऽछत्। अव॑रान्। आ। वि॒वे॒श॒। १७।
महीधरः
म० ‘षोडशगृहीतार्धमनुवाकशेषेण’ ( का० १८ । ३ । १२ ) । पञ्चगृहीतहोमानन्तरं षोडशगृहीतमाज्यं जुह्वां कृत्वा तस्यार्धमनुवाकशेषेण शालाद्वार्ये एव जुहोति । अनुवाकशेषश्च य इमा विश्वेत्यारभ्य विहव्यो यथासदित्यन्तोऽष्टर्च इत्यर्थः । भुवनपुत्र विश्वकर्मदृष्टा विश्वकर्मदेवत्याः षोडश त्रिष्टुभः । प्रजाः संहरन्तं सृजन्तं विश्वकर्माणं पश्यन्नृषिः कथयति । यो विश्वकर्मा इमा इमानि विश्वा विश्वानि सर्वाणि भुवनानि भूतजातानि जुह्वत् संहरन्सन् न्यसीदत् निषण्णः स्वयं स्थितवान् । कीदृशः । ऋषिः अतीन्द्रियद्रष्टा सर्वज्ञः । होता संहाररूपस्य होमस्य कर्ता । नोऽस्माकं प्राणिनां पिता जनकः । प्रलयकाले सर्वलोकान् संहृत्य यः परमेश्वरः स्वयमेक एवासीदित्यर्थः । तथा चोपनिषदः ‘आत्मा वा इदमेक एवासीदित्यर्थः। तथा चोपनिषदः आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किंचन मिषत् सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ इत्याद्याः । स तादृशः परमेश्वरः आशिषाभिलाषेण ‘बहुः स्यां प्रजायेय’ इत्येवंरूपेण पुनःसिसृक्षारूपेण द्रविणमिच्छमानः जगद्रूपं धनमपेक्षमाणः अवरानभिव्यक्तोपाधीनाविवेश जीवरूपेण प्रविष्टः । कीदृशः । प्रथमच्छत् प्रथममेकमद्वितीयं स्वरूपं छादयतीति प्रथमच्छत् । छादयतेः क्विपि ह्रस्वः । उत्कृष्टं रूपमावृण्वन्सन् प्रविष्टः । इच्छमान इतीषेरात्मनेपदमार्षम् । ‘सोऽकामयत बहुःस्यां प्रजायेय स तपोऽतप्यत स तपस्तप्त्वा इदᳪं᳭ सर्वमसृजत यदिदं किंच तत्सृष्ट्वा तदेवानुप्राविशत्’ इत्यादिश्रुतेः ॥ १७ ॥
अष्टादशी।
अधिमन्त्रम् (VC)
- विश्वकर्मा देवता
- भुवनपुत्रो विश्वकर्मा ऋषिः
- निचृदार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब ईश्वर कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (यः) जो (ऋषिः) ज्ञानस्वरूप (होता) सब पदार्थों को देने वा ग्रहण करनेहारा (नः) हम लोगों का (पिता) रक्षक परमेश्वर (इमा) इन (विश्वा) सब (भुवनानि) लोकों को व्याप्त होके (न्यसीदत्) निरन्तर स्थित है और जो सब लोकों का (जुह्वत्) धारणकर्त्ता है (सः) वह (आशिषा) आशीर्वाद से हमारे लिये (द्रविणम्) धन को (इच्छमानः) चाहता और (प्रथमच्छत्) विस्तृत पदार्थों को आच्छादित करता हुआ (अवरान्) पूर्ण आकाशादि को (आविवेश) अच्छे प्रकार व्याप्त हो रहा है, यह तुम जानो ॥१७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सब मनुष्य लोग जो सब जगत् को रचने, धारण करने, पालने तथा विनाश करने और सब जीवों के लिये सब पदार्थों को देनेवाला परमेश्वर अपनी व्याप्ति से आकाशादि में व्याप्त हो रहा है, उसी की उपासना करें ॥१७ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथेश्वरः कीदृशोऽस्तीत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! य ऋषिर्होता नः पिता परमेश्वर इमा विश्वा भुवनानि न्यसीदत्, सर्वाल्ँ लोकान् जुह्वत्, स आशिषा द्रविणमिच्छमानः प्रथमच्छदवरानाविवेशेति यूयं विजानीत ॥१७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सर्वे मनुष्याः यः सकलस्य जगतो रचको धारकः पालको विनाशकः सर्वेभ्यो जीवेभ्यः सर्ववस्तुप्रदः परमेश्वरः स्वव्याप्त्याकाशादिषु प्रविष्टोऽस्ति, तमेव सततमुपासीरन् ॥१७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सर्व जगाचा निर्माणकर्ता, धारणकर्ता, पालकनकर्ता, संहारकर्ता व सगळ्या जीवांना सर्व पदार्थ देणारा असा दाता परमेश्वरच आहे. त्याने सर्व आकाश इत्यादी व्यापलेले आहे. त्याचीच माणसांनी उपासना करावी.
१८ किस्विदासीदधिष्ठानमारम्भणं कतमत्
विश्वास-प्रस्तुतिः ...{Loading}...
किँस्वि॑दासीदधि॒ष्ठान॑मा॒रम्भ॑णं कत॒मत् स्वि॑त् क॒थासी॑त्। यतो॒ भूमिं॑ ज॒नय॑न् वि॒श्वक॑र्मा॒ वि द्यामौर्णोन्महि॒ना वि॒श्वच॑क्षाः ॥१८ ॥
मूलम् ...{Loading}...
किँस्वि॑दासीदधि॒ष्ठान॑मा॒रम्भ॑णं कत॒मत् स्वि॑त् क॒थासी॑त्। यतो॒ भूमिं॑ ज॒नय॑न् वि॒श्वक॑र्मा॒ वि द्यामौर्णोन्महि॒ना वि॒श्वच॑क्षाः ॥१८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
किम्। स्वि॒त्। आ॒सी॒त्। अ॒धि॒ष्ठान॑म्। अ॒धि॒स्थान॒मित्य॑धि॒ऽस्थान॑म्। आ॒रम्भ॑ण॒मित्या॒ऽरम्भ॑णम्। क॒त॒मत्। स्वि॒त्। क॒था। आ॒सी॒त्। यतः॑। भूमि॑म्। ज॒नय॑न्। वि॒श्वक॒र्मेति॑ वि॒श्वऽक॑र्मा। वि। द्याम्। और्णो॑त्। म॒हि॒ना। वि॒श्वच॑क्षा॒ इति॑ वि॒श्वऽच॑क्षाः। १८।
महीधरः
म० अथेश्वरो यथा जगत्सृजति तत्प्रश्नोत्तराभ्यामाह । लोके हि घटादिचिकीर्षुः कुलालो गृहादिकं स्थानमधिष्ठाय मृद्रूपेणारम्भकद्रव्येण च चक्राद्युपकरणैर्घटादि निष्पादयति ईश्वरस्य तदाक्षिप्यते । स्विदिति वितर्के । द्यावाभूमी सृजतो विश्वकर्मणोऽधिष्ठानं किमासीत् । अधितिष्ठत्यस्मिन्नित्यधिष्ठानं निवासस्थानम् । अद्यतना निरधिष्ठानाः किमपि न कुर्वन्ति । स्विदिति वितर्के । आरम्भणं कतमत् किमासीत् । आरभ्यतेऽनेनेत्यारम्भणमुपादानकारणं मृदिव घटानाम् । कथा क्रिया च किंप्रकारासीत् निमित्तकारणमपि किमासीदित्यर्थः । ‘था हेतौ च छन्दसि’ (पा० ५। ३ । २६) इति किमः थाप्रत्ययः । दण्डचक्रसलिलसूत्रादिभिर्घटादयो निष्पद्यन्ते तत्स्थानीयं किमासीत् । यतो यस्मिन् काले विश्वकर्मा भूमिं द्यां स्वर्गं च जनयन् सन् महिना महिम्ना स्वसामर्थ्येन वि और्णोत् सृष्टे द्यावापृथिवी आच्छादितवान् । ‘ऊर्णुञ् आच्छादने’ लङ् उपसर्गव्यवधानमार्षम् ‘व्यवहिताश्च’ (पा. १।४ । ८२) इति वचनात् । कीदृशः। विश्वचक्षाः विश्वं चष्टे स विश्वचक्षाः सर्वद्रष्टा अतीतानागतवर्तमानकालानां युगपद्द्रष्टा अनन्यशक्तिरित्यर्थः ॥ १८॥
एकोनविंशी।
अधिमन्त्रम् (VC)
- विश्वकर्मा देवता
- भुवनपुत्रो विश्वकर्मा ऋषिः
- भुरिगार्षी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् पुरुष ! इस जगत् का (अधिष्ठानम्) आधार (किं, स्वित्) क्या आश्चर्यरूप (आसीत्) है, तथा (आरम्भणम्) इस कार्य-जगत् की रचना का आरम्भ कारण (कतमत्) बहुत उपादानों में क्या और वह (कथा) किस प्रकार से (स्वित्) तर्क के साथ (आसीत्) है कि (यतः) जिससे (विश्वकर्मा) सब सत्कर्मोंवाला (विश्वचक्षाः) सब जगत् का द्रष्टा जगदीश्वर (भूमिम्) पृथिवी और (द्याम्) सूर्यादि लोक को (जनयन्) उत्पन्न करता हुआ (महिना) अपनी महिमा से (व्यौर्णोत्) विविध प्रकार से आच्छादित करता है ॥१८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! तुम को यह जगत् कहाँ वसता? क्या इसका कारण? और किसलिये उत्पन्न होता है? इन प्रश्नों का उत्तर यह है कि जो जगदीश्वर कार्य-जगत् को उत्पन्न तथा अपनी व्याप्ति से सब का आच्छादन करके सर्वज्ञता से सबको देखता है, वह इस जगत् का आधार और निमित्तकारण है। वह सर्वशक्तिमान् रचना आदि के सामर्थ्य से युक्त है, जीवों को पाप-पुण्य का फल देने भोगवाने के लिये इस संसार को रचा है, ऐसा जानना चाहिये ॥१८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तदेवाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन्नस्य जगतोऽधिष्ठानं किं स्विदासीत्? आरम्भणं कतमत्? कथा स्विदासीत्? यतो विश्वकर्मा विश्वचक्षा जगदीश्वरो भूमिं द्यां च जनयन् महिना व्यौर्णोत् ॥१८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे जनाः ! युष्माभिरिदं जगत् क्व वसति? किमारम्भणं चास्य? किमर्थं जायते? इत्यादि-प्रश्नानामिदमुत्तरम्। यो जगदीश्वरः कार्य्याख्यं जगदुत्पाद्य स्वव्याप्त्या सर्वमाच्छाद्य सर्वज्ञतया सर्वं पश्यति, सोऽधिष्ठानमारम्भणं चास्ति, सर्वशक्तिमान् रचनादिसामर्थ्ययुक्तोऽस्ति, जीवेभ्यः पापपुण्यफलदानाय भोजयितुं सर्वं रचितवानिति वेद्यम् ॥१८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! हे जग कुठे वसलेले आहे हे तुम्हाला माहीत आहे काय? हे कशासाठी उत्पन्न झालेले आहे? त्याचे कारण काय? या प्रश्नांची उत्तरे अशी की, जो जगदीश्वर सृष्टी उत्पन्न करतो, सर्वत्र व्याप्त असतो व सगळीकडे त्याचे आच्छादन असते. तो सर्वज्ञ असून सर्वांना पाहतो. तो सर्व जगाचा आधार आणि निमित्त कारण आहे. तो सर्वशक्तिमान असून, त्याच्यात सृष्टी रचना करण्याचे सामर्थ्य आहे. जीवांच्या पापपुण्याचे फळ देण्यासाठी त्याने या जगाची निर्मिती केलेली आहे. या जगाला त्यानेच उत्पन्न केलेले आहे. हे जाणले पाहिजे.
१९ विश्वतश्चक्षुरुत विश्वतोमुखो
विश्वास-प्रस्तुतिः ...{Loading}...
वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑बाहुरु॒त वि॒श्वत॑स्पात्। सं बा॒हुभ्यां॒ धम॑ति॒ सं पत॑त्रै॒र्द्यावा॒भूमी॑ ज॒नय॑न् दे॒वऽएकः॑ ॥१९ ॥
मूलम् ...{Loading}...
वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑बाहुरु॒त वि॒श्वत॑स्पात्। सं बा॒हुभ्यां॒ धम॑ति॒ सं पत॑त्रै॒र्द्यावा॒भूमी॑ ज॒नय॑न् दे॒वऽएकः॑ ॥१९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वि॒श्वत॑श्चक्षु॒रिति॑ वि॒श्वतः॑ऽचक्षुः। उ॒त। वि॒श्वतो॑मुख॒ इति॑ वि॒श्वतः॑ऽमुखः। वि॒श्वतो॑बाहु॒रिति॑ वि॒श्वतः॑ऽबाहुः। उ॒त। वि॒श्वत॑स्पात्। वि॒श्वतः॑ऽपा॒दिति॑ वि॒श्वतः॑ऽपात्। सम्। बा॒हुभ्या॒मिति॑ बा॒हुऽभ्या॑म्। धम॑ति। सम्। पत॑त्रैः। द्यावा॒भूमी॒ इति॒ द्यावा॒भूमी॑। ज॒नय॑न्। दे॒वः। एकः॑। १९।
महीधरः
म० उत्तरमाह । एकोऽसहायो देवः विश्वकर्मा द्यावाभूमी जनयन्सन् बाहुभ्यां बाहुस्थानीयाभ्यां धर्माधर्माभ्यां संधमति । धमतिर्गत्यर्थः । संगच्छते संयोगं प्राप्नोति पतत्रैः पतनशीलैः अनित्यैः पञ्चभूतैश्च संगच्छते धर्माधर्मरूपैर्निमित्तैः पञ्चभूतरूपैरुपादानैश्च । साधनान्तरं विनैव सर्वं सृजतीत्यर्थः । यद्वा धर्माधर्माभ्यां भूतैश्च संधमति संगमयति जीवान् । णिजन्तत्वं ज्ञेयम् । कीदृशः । विश्वतश्चक्षुः विश्वतः सर्वतश्चक्षूंषि यस्य सः । विश्वतोमुखः विश्वतो मुखानि यस्य । विश्वतोबाहुः विश्वतो बाहवो भुजा यस्य । उतापि च विश्वतः पादा यस्य सः। ‘पादस्य लोपोऽहस्त्यादिभ्यः’ (पा० ५। ४ । १३८ ) इति पादस्यान्त्यलोपः । परमेश्वरस्य सर्वप्राण्यात्मकवाद्यस्य यस्य प्राणिनो ये चक्षुरादयस्ते तदुपाधिकस्य परमेश्वरस्यैवेति सर्वत्र चक्षुरादयः संपद्यन्त इत्यर्थः ॥ १९॥
विंशी।
अधिमन्त्रम् (VC)
- विश्वकर्मा देवता
- भुवनपुत्रो विश्वकर्मा ऋषिः
- भुरिगार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोग जो (विश्वतश्चक्षुः) सब संसार को देखने (उत) और (विश्वतोमुखः) सब ओर से सब का उपदेश करनेहारा (विश्वतोबाहुः) सब प्रकार से अनन्त बल तथा पराक्रम से युक्त (उत) और (विश्वतस्पात्) सर्वत्र व्याप्तिवाला (एकः) अद्वितीय सहायरहित (देवः) अपने आप प्रकाशस्वरूप (पतत्रैः) क्रियाशील परमाणु आदि से (द्यावाभूमी) सूर्य्य और पृथिवी लोक को (सम्, जनयन्) कार्य्यरूप प्रकट करता हुआ (बाहुभ्याम्) अनन्त बल पराक्रम से सब जगत् को (सम्, धमति) सम्यक् प्राप्त हो रहा है, उसी परमेश्वर को अपना सब ओर से रक्षक उपास्यदेव जानो ॥१९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो सूक्ष्म से सूक्ष्म, बड़े से बड़ा, निराकार, अनन्त सामर्थ्यवाला, सर्वत्र अभिव्याप्त, प्रकाशस्वरूप, अद्वितीय परमात्मा है, वही अति सूक्ष्म कारण से स्थूल कार्यरूप जगत् के रचने और विनाश करने को समर्थ है। जो पुरुष इसको छोड़ अन्य की उपासना करता है, उससे अन्य जगत् में भाग्यहीन कौन पुरुष है? ॥१९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तदेवाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यूयं यो विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पादेको देवः पतत्रैर्द्यावाभूमी संजनयन् सन् बाहुभ्यां सर्वं जगत् संधमति, तमेवेष्टमुपास्यमभिरक्षकं परमेश्वरं जानीत ॥१९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यस्सूक्ष्मात् सूक्ष्मो महतो महान् निराकारोऽनन्तसामर्थ्यः सर्वत्राभिव्याप्तो देवोऽद्वितीयः परमात्माऽस्ति, स एवातिसूक्ष्मात् कारणात् स्थूलं कार्यं रचयितुं विनाशयितुं वा समर्थो वर्त्तते। य एतस्योपासनं विहायान्यमुपास्ते कस्तस्मादन्यो जगति दुर्भगोऽस्ति ॥१९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जो सूक्ष्माहून सूक्ष्म, मोठ्यात मोठा, निराकार, अनंत सामर्थ्यवान, सर्वत्र व्याप्त, प्रकाशस्वरूप, अद्वितीय असा परमेश्वरच अत्यंत सूक्ष्म कारणाने स्थूल कार्यरूप जग उत्पन्न करतो व त्याचा विनाश करण्यचे सामर्थ्यही त्याच्यामध्ये असते. जो मनुष्य त्याला सोडून इतरांची उपासना करतो त्याच्यापेक्षा दुर्दैवी या जगात कोण असू शकेल?
२० किस्विद्वनं कऽउ
विश्वास-प्रस्तुतिः ...{Loading}...
किँस्वि॒द्वनं॒ कऽउ॒ स वृ॒क्षऽआ॑स॒ यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः। मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒ तद्यद॒ध्यति॑ष्ठ॒द् भुव॑नानि धा॒रय॑न् ॥२० ॥
मूलम् ...{Loading}...
किँस्वि॒द्वनं॒ कऽउ॒ स वृ॒क्षऽआ॑स॒ यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः। मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒ तद्यद॒ध्यति॑ष्ठ॒द् भुव॑नानि धा॒रय॑न् ॥२० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
किम्। स्वि॒त्। वन॑म्। कः। ऊँ॒ऽइत्यूँ॑। सः। वृ॒क्षः। आ॒स॒। यतः॑। द्यावा॑पृथि॒वी इति॒ द्यावा॑पृथि॒वी। नि॒ष्ट॒त॒क्षुः। नि॒स्त॒त॒क्षुरिति॑ निःऽतत॒क्षुः। मनी॑षिणः। मन॑सा। पृ॒च्छत॑। इत्। ऊँ॒ऽइत्यूँ॑। तत्। यत्। अ॒ध्यति॑ष्ठ॒दित्य॑धि॒ऽअति॑ष्ठत्। भुव॑नानि। धा॒रय॑न्। २०।
महीधरः
म० पुनरपि प्रश्नः । स्विदिति वितर्के । तद्वनं किमास बभूव । उ अपिच स वृक्षः कः आस । यतो वनाद्वृक्षाच्च विश्वकर्मा द्यावापृथिवी निष्टतक्षुः निस्ततक्ष निस्तक्ष्यालंकृतवान् । वचनव्यत्ययः । नहि तादृशं वनं वृक्षो वा संभवति । लोके हि गृहादिनिर्माणमिच्छन् कस्मिंश्चिद्वने कंचिद्वृक्षं छित्त्वा तक्षणादिना स्तम्भादिकं करोति इह तन्नास्तीत्यर्थः । किंच हे मनीषिणः विद्वांसः, मनसा पर्यालोच्य तत् इत् उ तदपि यूयं पृच्छत । तत्किम् । भुवनानि धारयन् सन् विश्वकर्मा यदध्यतिष्ठत् यत् स्थानमधिष्ठितवान् तदपि पृच्छत । कुम्भकारादिर्गृहादिकमधिष्ठाय घटादि करोति तदधिष्ठानमपि पृच्छत ऊर्णनाभिवदयमात्मारम्भण इति भावः ॥२०॥
एकविंशी।
अधिमन्त्रम् (VC)
- विश्वकर्मा देवता
- भुवनपुत्रो विश्वकर्मा ऋषिः
- स्वराडार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - प्रश्न−हे (मनीषिणः) मन का निग्रह करनेवाले योगीजनो ! तुम लोग (मनसा) विज्ञान के साथ विद्वानों के प्रति (किं, स्वित्) क्या (वनम्) सेवने योग्य कारणरूप वन तथा (कः) कौन (उ) वितर्क के साथ (सः) वह (वृक्षः) छिद्यमान अनित्य कार्यरूप संसार (आस) है, ऐसा (पृच्छत) पूछो कि (यतः) जिससे (द्यावापृथिवी) विस्तारयुक्त सूर्य्य और भूमि आदि लोकों को किसने (निष्टतक्षुः) भिन्न-भिन्न बनाया है? उत्तर−(यत्) जो (भुवनानि) प्राणियों के रहने के स्थान लोक-लोकान्तरों को (धारयन्) वायु, विद्युत् और सूर्य्यादि से धारण करता हुआ (अध्यतिष्ठत्) अधिष्ठाता है, (तत्) (इत्) उसी (उ) प्रसिद्ध ब्रह्म को इस सब का कर्त्ता जानो ॥२० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र के तीन पादों से प्रश्न और अन्त्य के एक पाद से उत्तर दिया है। वृक्ष शब्द से कार्य और वन शब्द से कारण का ग्रहण है। जैसे सब पदार्थों को पृथिवी, पृथिवी को सूर्य्य, सूर्य को विद्युत् और बिजुली को वायु धारण करता है, वैसे ही इन सब को ईश्वर धारण करता है ॥२० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तदेवाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनीषिणः ! यूयं मनसा विदुषः प्रति किं स्विद्वनं क उ स वृक्ष आसेति पृच्छत, यतो द्यावापृथिवी को निष्टतक्षुः। यद्यो भुवनानि धारयन्नध्यतिष्ठत् तदिदु ब्रह्म विजानीतेत्युत्तरम् ॥२० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र पादत्रयेण प्रश्नः पादैकेनोत्तरम्। वृक्षशब्देन कार्यं वनशब्देन कारणं चोच्यते, यथा सर्ववस्तूनि पृथिवी, पृथिवीं सूर्यः, सूर्यं विद्युद्, विद्युतं वायुश्च धरति, तथैवैतान् जगदीश्वरो दधाति ॥२० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात तीन पादांमध्ये प्रश्न व शेवटच्या एका पादामध्ये उत्तर दिलेले आहे. वृक्ष शब्दाचा अर्थ कार्य व वन शब्दाचा अर्थ कारण असा आहे. जसे सर्व पदार्थांना पृथ्वी, पृथ्वीला सूर्य, सूर्याला विद्युत व विद्युतला वायू धारण करतो तसे या सर्वांना ईश्वर धारण करतो.
२१ या ते
विश्वास-प्रस्तुतिः ...{Loading}...
या ते॒ धामा॑नि पर॒माणि॒ याऽव॒मा या म॑ध्य॒मा वि॑श्वकर्मन्नु॒तेमा। शिक्षा॒ सखि॑भ्यो ह॒विषि॑ स्वधावः स्व॒यं य॑जस्व त॒न्वं᳖ वृधा॒नः ॥२१ ॥
मूलम् ...{Loading}...
या ते॒ धामा॑नि पर॒माणि॒ याऽव॒मा या म॑ध्य॒मा वि॑श्वकर्मन्नु॒तेमा। शिक्षा॒ सखि॑भ्यो ह॒विषि॑ स्वधावः स्व॒यं य॑जस्व त॒न्वं᳖ वृधा॒नः ॥२१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
या। ते॒। धामा॑नि। प॒र॒माणि॑। या। अ॒व॒मा। या। म॒ध्य॒मा। वि॒श्व॒क॒र्म॒न्निति॑ विश्वऽकर्मन्। उ॒त। इ॒मा। शिक्ष॑। सखि॑भ्य॒ इति॒ सखि॑ऽभ्यः। ह॒विषि॑। स्व॒धा॒व॒ इति॑ स्वधाऽवः। स्व॒यम्। य॒ज॒स्व॒। त॒न्व᳖म्। वृ॒धा॒नः। २१।
महीधरः
म० हे विश्वकर्मन्, हे स्वधावः, स्वधान्नमस्यास्तीति स्वधावान् तत्संबुद्धौ हे स्वधावः, ‘मतुवसो रुः संबुद्धौ छन्दसि’ (८।३।१) इति रुः । हे हविर्लक्षणान्नवन् , ते तव यानि परमाणि उत्कृष्टानि धामानि, या यानि अवमा अवमानि कनीयांसि धामानि, उतापि च या यानि मध्यमा धामानि इमा इमानि पूर्वोक्तानि त्रिविधानि धामानि सखिभ्यो यजमानेभ्यः शिक्ष देहि । ‘द्व्यचोऽतस्तिङः’ (पा० ६ । ३ । १३५) इति संहितायां शिक्षपदस्य दीर्घः । क उपकार इति चेत् हविषि यजमानसंबन्धिन्युपस्थिते सति तन्वं स्वशरीरं वृधानः वर्धयन् सन् स्वयं यजस्व । वयं यजाम इति कथं वक्तुं शक्यम् । मनुष्यः कस्त्वां यष्टुं समर्थोऽत एवं ब्रवीमि स्वयं यजस्व । वर्धतेः शानचि व्यत्ययेन शपो लुक् । वृधानः तन्वमित्यत्र ‘वा छन्दसि’ (पा० ६ । १ । १०६) इति पूर्वरूपाभावे यणादेशः ॥२१॥
द्वाविंशी।
अधिमन्त्रम् (VC)
- विश्वकर्मा देवता
- भुवनपुत्रो विश्वकर्मा ऋषिः
- आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (स्वधावः) बहुत अन्न से युक्त (विश्वकर्मन्) सब उत्तम कर्म करनेवाले जगदीश्वर ! (ते) आप की सृष्टि में (या) जो (परमाणि) उत्तम (या) जो (अवमा) निकृष्ट (या) जो (मध्यमा) मध्यकक्षा के (धामानि) सब पदार्थों के आधारभूत जन्मस्थान तथा नाम हैं (इमा) इन सब को (हविषि) देने-लेने योग्य व्यवहार में (स्वयम्) आप (यजस्व) सङ्गत कीजिये (उत) और हमारे (तन्वम्) शरीर की (वृधानः) उन्नति करते हुए (सखिभ्यः) आपकी आज्ञापालक हम मित्रों के लिये (शिक्ष) शुभगुणों का उपदेश कीजिये ॥२१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे इस संसार में ईश्वर ने निकृष्ट, मध्यम और उत्तम वस्तु तथा स्थान रचे हैं, वैसे ही सभापति आदि को चाहिये कि तीन प्रकार के स्थान रच, वस्तुओं को प्राप्त हो, ब्रह्मचर्य से शरीर का बल बढ़ा और मित्रों को अच्छी शिक्षा देके ऐश्वर्ययुक्त होवें ॥२१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्वधावो विश्वकर्मन् जगदीश्वर ! ते सृष्टौ या परमाणि याऽवमा या मध्यमा धामानि सन्ति, तानीमा हविषि स्वयं यजस्व। उताप्यस्माकं तन्वं वृधानोऽस्मभ्यं सखिभ्यः शिक्ष ॥२१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यथेहेश्वरेण निकृष्टमध्यमोत्तमानि वस्तूनि स्थानानि च रचितानि, तथैव सभापत्यादिभिस्त्रिविधानि स्थानानि रचयित्वा वस्तूनि प्राप्य ब्रह्मचर्येण शरीरबलं वर्धयित्वा मित्राणि सुशिक्ष्यैश्वर्ययुक्तैर्भवितव्यम् ॥२१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या जगात ईश्वराने जशी निकृष्ट, मध्यम, उत्तम वस्तू व स्थाने निर्माण केलेली आहेत तशी राजाने तीन प्रकारची स्थाने निर्माण करून वस्तू प्राप्त कराव्यात. ब्रह्मचर्याने शरीराचे बल वाढवावे व मित्रांना चांगले शिक्षण देऊन ऐश्वर्यसंपन्न करावे.
२२ विश्वकर्मन् हविषा
विश्वास-प्रस्तुतिः ...{Loading}...
विश्व॑कर्मन् ह॒विषा॑ वावृधा॒नः स्व॒यं य॑जस्व पृथि॒वीमु॒त द्याम्। मुह्य॑न्त्व॒न्येऽअ॒भितः॑ स॒पत्ना॑ऽइ॒हास्माकं॑ म॒घवा॑ सू॒रिर॑स्तु ॥२२ ॥
मूलम् ...{Loading}...
विश्व॑कर्मन् ह॒विषा॑ वावृधा॒नः स्व॒यं य॑जस्व पृथि॒वीमु॒त द्याम्। मुह्य॑न्त्व॒न्येऽअ॒भितः॑ स॒पत्ना॑ऽइ॒हास्माकं॑ म॒घवा॑ सू॒रिर॑स्तु ॥२२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
विश्व॑कर्म॒न्निति॒ विश्व॑ऽकर्मन्। ह॒विषा॑। वा॒वृ॒धा॒नः। व॒वृ॒धा॒न इति॑ ववृधा॒नः। स्व॒यम्। य॒ज॒स्व॒। पृ॒थि॒वीम्। उ॒त। द्याम्। मुह्य॑न्तु। अ॒न्ये। अ॒भितः॑। स॒पत्ना॒ इति॑ स॒ऽपत्नाः॑। इ॒ह। अ॒स्माक॑म्। म॒घवेति॑ म॒घऽवा॑। सू॒रिः। अ॒स्तु॒। २२।
महीधरः
म० हे विश्वकर्मन् , हविषा मद्दत्तेन वावृधानः वर्धमानो जातहर्षः सन् मम यज्ञे पृथिवीं पृथिव्याश्रितानि भूतानि उतापि च द्यां द्युलोकाश्रितानि भूतानि स्वयं यजस्व मदनुग्रहाय । किंच त्वत्प्रसादादन्येऽभितः स्थिताः सपत्नाः शत्रवो मुह्यन्तु मोहं प्राप्नुवन्तु । किंच इह यज्ञे मघवा इन्द्रोऽस्माकं सूरिः पण्डित आत्मज्ञानोपदेशकोऽस्तु ॥ २२ ॥
त्रयोविंशी।
अधिमन्त्रम् (VC)
- विश्वकर्मा देवता
- भुवनपुत्रो विश्वकर्मा ऋषिः
- निचृदार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (विश्वकर्मन्) सम्पूर्ण उत्तम कर्म करनेहारे सभापति ! (हविषा) उत्तम गुणों के ग्रहण से (वावृधानः) उन्नति को प्राप्त हुआ जैसे ईश्वर (पृथिवीम्) भूमि (उत) और (द्याम्) सूर्यादि लोक को सङ्गत करता है, वैसे आप (स्वयम्) आप ही (यजस्व) सब से समागम कीजिये। (इह) इस जगत् में (मघवा) प्रशंसित धनवान् पुरुष (सूरिः) विद्वान् (अस्तु) हो, जिससे (अस्माकम्) हमारे (अन्ये) और (सपत्नाः) शत्रुजन (अभितः) सब ओर से (मुह्यन्तु) मोह को प्राप्त हों ॥२२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो मनुष्य ईश्वर ने जिस प्रयोजन के लिये जो पदार्थ रचा है, उसको वैसा जान के उपकार लेते हैं, उनकी दरिद्रता और आलस्यादि दोषों का नाश होने से शत्रुओं का प्रलय होता और वे आप भी विद्वान् हो जाते हैं ॥२२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विश्वकर्मन् ! हविषा वावृधानः सन् यथेश्वरः पृथिवीमुत द्यां संगमयति, तथा त्वं स्वयं यजस्वेह मघवा सूरिरस्तु, यतोऽस्माकमन्ये सपत्ना अभितो मुह्यन्तु ॥२२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये मनुष्या ईश्वरेण यस्मै प्रयोजनाय यद्वस्तु रचितं तत्तथा विज्ञायोपकुर्वन्ति, तेषां दारिद्र्यालस्यादिदोषक्षयाच्छत्रवः प्रलीयन्ते, ते स्वयं च विद्वांसो जायन्ते ॥२२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. ईश्वराने ज्या प्रयोजनासाठी जे पदार्थ निर्माण केलेले आहेत त्यांना यथार्थपणे जाणून जी माणसे त्यांचा लाभ करून घेतात त्यांचे दारिद्र्य व आळस नष्ट होतो आणि त्यांच्या शत्रूंचाही नाश होतो व ती माणसे स्वतःही विद्वान बनतात.
२३ वाचस्पतिं विश्वकर्माणमूतये
विश्वास-प्रस्तुतिः ...{Loading}...
वा॒चस्पतिं॑ वि॒श्वक॑र्माणमू॒तये॑ मनो॒जुवं॒ वाजे॑ऽअ॒द्या हु॑वेम। स नो॒ विश्वा॑नि॒ हव॑नानि जोषद् वि॒श्वश॑म्भू॒रव॑से सा॒धुक॑र्मा ॥२३ ॥
मूलम् ...{Loading}...
वा॒चस्पतिं॑ वि॒श्वक॑र्माणमू॒तये॑ मनो॒जुवं॒ वाजे॑ऽअ॒द्या हु॑वेम। स नो॒ विश्वा॑नि॒ हव॑नानि जोषद् वि॒श्वश॑म्भू॒रव॑से सा॒धुक॑र्मा ॥२३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वा॒चः। पति॑म्। वि॒श्वक॑र्माण॒मिति॑ वि॒श्वऽक॑र्माणम्। ऊ॒तये॑। म॒नो॒जुव॒मिति॑ मनः॒ऽजुव॑म्। वाजे॑। अ॒द्य। हु॒वे॒म॒। सः। नः॒। विश्वा॑नि। हव॑नानि। जो॒ष॒त्। वि॒श्वश॑म्भू॒रिति॑ वि॒श्वऽश॑म्भूः। अव॑से। सा॒धुक॒र्मेति॑ सा॒धुऽक॑र्मा। २३।
महीधरः
म०. द्वे ऋचौ व्याख्याते (अध्या० ८ क० ४५ । ४६) ॥ २३ ॥ २४ ॥
चतुर्विंशी।
अधिमन्त्रम् (VC)
- विश्वकर्मा देवता
- भुवनपुत्रो विश्वकर्मा ऋषिः
- भुरिगार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
कैसा पुरुष राज्य के अधिकार पर नियुक्त करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! हम लोग (ऊतये) रक्षा आदि के लिये जिस (वाचस्पतिम्) वेदवाणी के रक्षक (मनोजुवम्) मन के समान वेगवान् (विश्वकर्माणम्) सब कर्मों में कुशल महात्मा पुरुष को (वाजे) संग्राम आदि कर्म में (हुवेम) बुलावें (सः) वह (विश्वशम्भूः) सब के लिये सुखप्रापक (साधुकर्मा) धर्मयुक्त कर्मों का सेवन करनेहारा विद्वान् (नः) हमारी (अवसे) रक्षा आदि के लिये (अद्य) आज (विश्वानि) सब (हवनानि) ग्रहण करने योग्य कर्मों को (जोषत्) सेवन करे ॥२३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि जिसने ब्रह्मचर्य नियम के साथ सब विद्या पढ़ी हों, जो धर्मात्मा आलस्य और पक्षपात को छोड़ के उत्तम कर्मों का सेवन करता तथा शरीर और आत्मा के बल से पूरा हो, उसको सब प्रजा की रक्षा करने में अधिपति राजा बनावें ॥२३ ॥
दयानन्द-सरस्वती (सं) - विषयः
किंभूतो जनो राज्याधिकारे नियोज्य इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! वयमूतये यं वाचस्पतिं मनोजुवं विश्वकर्माणं महात्मानं वाजे हुवेम, स विश्वशम्भूः साधुकर्मा नोवसेऽद्य विश्वानि हवनानि जोषज्जुषताम् ॥२३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्येन ब्रह्मचर्येणाखिला विद्याधीता यो धार्मिकोऽनलसो भूत्वा पक्षपातं विहायोत्तमानि कर्माणि सेवते, पूर्णशरीरात्मबलः स सर्वस्याः प्रजाया रक्षणे सर्वाधिपती राजा विधेयः ॥२३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्याने ब्रह्मचर्यपूर्वक विद्या प्राप्त केलेली आहे व जो धर्मात्मा असून आळस, पक्षपात सोडून उत्तम कर्म करतो, तसेच ज्याचे शरीर व आत्मा बलवान असतो आणि प्रजेचे रक्षण करण्यास जो पदार्थ असतो अशा व्यक्तीला माणसांनी राजा बनवावे.
२४ विश्वकर्मन् हविषा
विश्वास-प्रस्तुतिः ...{Loading}...
विश्व॑कर्मन् ह॒विषा॒ वर्द्ध॑नेन त्रा॒तार॒मिन्द्र॑मकृणोरव॒ध्यम्। तस्मै॒ विशः॒ सम॑नमन्त पू॒र्वीर॒यमु॒ग्रो वि॒हव्यो॒ यथास॑त् ॥२४ ॥
मूलम् ...{Loading}...
विश्व॑कर्मन् ह॒विषा॒ वर्द्ध॑नेन त्रा॒तार॒मिन्द्र॑मकृणोरव॒ध्यम्। तस्मै॒ विशः॒ सम॑नमन्त पू॒र्वीर॒यमु॒ग्रो वि॒हव्यो॒ यथास॑त् ॥२४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
विश्व॑कर्म॒न्निति॒ विश्व॑ऽकर्मन्। ह॒विषा॑। वर्द्ध॑नेन। त्रा॒तार॑म्। इन्द्र॑म्। अ॒कृ॒णोः॒। अ॒व॒ध्यम्। तस्मै॑। विशः॑। सम्। अ॒न॒म॒न्त॒। पू॒र्वीः। अ॒यम्। उ॒ग्रः। वि॒हव्य॒ इति॑ वि॒ऽहव्यः॑। यथा॑। अस॑त्। २४।
महीधरः
म० ‘चक्षुषः पितेत्यपरमनुवाकेन’ (का. १८ । ३ । १३)। अष्टर्चेन षोडशगृहीतस्यापरमर्धं जुहोतीत्यर्थः । यदा इत् यदैव पूर्वे वसिष्ठादयो मुनयः अन्ताः । विभक्तिव्यत्ययः अन्तान् द्यावाभूम्योरन्तप्रदेशानददृहन्त दृढीकृतवन्तः । दृंहते रूपम् । आत् इत् आत् अनन्तरवाची इदेवार्थे । अनन्तरमेव द्यावाभूमिदार्ढ्यानन्तरमेव द्यावापृथिवी द्यावापृथिव्यौ अप्रथेतां पृथू अभूताम् । तदा द्यावापृथिवीप्रथनानन्तरं चक्षुषः पिता चक्षुरादीन्द्रियाणां पालको विश्वकर्मा मनसा धीरः सन् हि निश्चितमेने एते द्यावापृथिव्यौ प्रति घृतमुदकमजनदजनयत् । ‘छन्दस्युभयथा’ (पा० ३ । ४ । ११७) इत्यार्धधातुकत्वाच्छपि णिचो लोपः । रोदस्योर्दार्ढ्ये वृष्टिं कुरुत इत्यर्थः । किं कुर्वन् । नम्नमाने नममाने द्यावापृथिव्यौ स्तम्भयन्निति शेषः । जगदनुग्रहाय रोदसी स्तम्भयन्नित्यर्थः । नमतेः शानचि नुगागमश्छान्दसः ॥ २५ ॥
षड्विंशी।
अधिमन्त्रम् (VC)
- विश्वकर्मा देवता
- भुवनपुत्रो विश्वकर्मा ऋषिः
- निचृदार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को कैसा पुरुष राजा मानना चाहिये, इस विषय का उपदेश अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (विश्वकर्मन्) सम्पूर्ण शुभकर्मों के सेवन करनेहारे सब सभाओं के पति राजा ! आप (हविषा) ग्रहण करने योग्य (वर्द्धनेन) वृद्धि से जिस (अवध्यम्) मारने के अयोग्य (त्रातारम्) रक्षक (इन्द्रम्) उत्तम सम्पत्तिवाले पुरुष को राजकार्य में सम्मतिदाता मन्त्री (अकृणोः) करो, (तस्मै) उसके लिये (पूर्वीः) पहिले न्यायाधीशों ने प्राप्त कराई (विशः) प्रजाओं को (समनमन्त) अच्छे प्रकार नम्र करो, (यथा) जैसे (अयम्) यह मन्त्री (उग्रः) मारने में तीक्ष्ण (विहव्यः) विविध प्रकार के साधनों से स्वीकार करने योग्य (असत्) होवे, वैसा कीजिये ॥२४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। सब सभाओं के अधिष्ठाता के सहित सब सभासद् उस पुरुष को राज्य का अधिकार देवें कि जो पक्षपाती न हो। जो पिता के समान प्रजाओं की रक्षा न करें, उनको प्रजा लोग भी कभी न मानें और जो पुत्र के तुल्य प्रजा की न्याय से रक्षा करें, उनके अनुकूल प्रजा निरन्तर हों ॥२४ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यैः कीदृशो राजा मन्तव्य इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विश्वकर्मन् सर्वसभेश ! त्वं हविषा वर्द्धनेन यमवध्यं त्रातारमिन्द्रं राजकार्ये सम्मतिप्रदं मन्त्रिणमकृणोस्तस्मै पूर्वीर्विशः समनमन्त यथाऽयमुग्रो विहव्योऽसत् तथा विधेहि ॥२४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। सर्वसभाधिष्ठात्रा सहिताः सभासदस्तस्मै राज्याधिकारं दद्युर्यः पक्षपाती न स्यात्। पितृवत् प्रजा न पालयेयुस्ते प्रजाभिर्नो मन्तव्या, ये च पुत्रमिव न्यायेन प्रजा पालयेयुस्तदनुकूलास्सततं स्युः ॥२४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. सभेचे सर्व अधिष्ठाते व सभासद यांनी अशा पुरुषाला राज्याधिकार द्यावा जो पक्षपात न करता पित्याप्रमाणे प्रजेचे न्यायाने रक्षण करतो. अशा राजाला प्रजेने सदैव अनुकूल असावे. याविरुद्ध जो पित्याप्रमाणे प्रजेचे रक्षण करणारा नसेल तर प्रजेने त्याला कधीही राजा मानू नये.
२५ चक्षुषः पिता
विश्वास-प्रस्तुतिः ...{Loading}...
चक्षु॑षः पि॒ता मन॑सा॒ हि धीरो॑ घृ॒तमे॑नेऽअजन॒न्नम्न॑माने। य॒देदन्ता॒ऽअद॑दृहन्त॒ पूर्व॒ऽआदिद् द्यावा॑पृथि॒वीऽअ॑प्रथेताम् ॥२५ ॥
मूलम् ...{Loading}...
चक्षु॑षः पि॒ता मन॑सा॒ हि धीरो॑ घृ॒तमे॑नेऽअजन॒न्नम्न॑माने। य॒देदन्ता॒ऽअद॑दृहन्त॒ पूर्व॒ऽआदिद् द्यावा॑पृथि॒वीऽअ॑प्रथेताम् ॥२५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
चक्षु॑षः। पि॒ता। मन॑सा। हि। धीरः॑। घृ॒तम्। ए॒न॒ऽइत्ये॑ने। अ॒ज॒न॒त्। नम्न॑माने॒ऽइति॒ नम्न॑माने। य॒दा। इत्। अन्ताः॑। अद॑दृहन्त। पूर्वें॑। आत्। इत्। द्यावा॑पृथि॒वी। अ॒प्र॒थे॒ता॒म्। २५।
महीधरः
म० यत्र यस्मिन् लोके सप्तऋषीन् सप्त च ते ऋषयश्च सप्तऋषयः ‘ऋत्यकः’ (पा० ६। १ । १२८) इति सन्ध्यभावः । तान् परः विभक्तेः सुः । परेण विश्वकर्मणा सह एकमाहुः एकीभूतान् बुधा वदन्ति । यत्र लोके सप्तर्षयो विश्वकर्मणा सहैकत्वं प्राप्ताः तत्र लोके तेषां पुंसामिष्टानि अभिलषितानि वस्तूनि इषा अन्नेन आहुतिरसभूतेन सह संमदन्ति संमोदन्ते सम्यक् मोदयुक्तानि पुष्टानि भवन्ति । ते विश्वकर्मलोके इष्टभोगान् प्राप्नुवन्तीत्यर्थः । तेषां केषाम् । | विश्वकर्मा येषां संदृक् सम्यक् पश्यतीति संदृक् सम्यग्द्रष्टा । विश्वकर्मदृष्टाः सुखिनो भवन्त्वित्यर्थः । कीदृशो विश्वकर्मा । विमनाः विशिष्टं मनो यस्य स तथा विभूतमनाः । सर्वकर्मज्ञ इत्यर्थः । आत् अपिच विहायाः नभोवद्व्यापकः । यद्वा विशेषेण जहाति त्यजति विहायाः संहर्ता । धाता धारयिता पोष्टा स्थितिकर्ता । विधाता उत्पादकः । उत अपि परमः सर्वेभ्य उत्कृष्टः । विभक्तेराकारः । एवंविधो विश्वकर्मा येषां द्रष्टा ते मुच्यन्ते भक्तानेव पश्यति तस्माद्भक्तिः कार्येत्यर्थः ॥ २६ ॥
सप्तविंशी।
अधिमन्त्रम् (VC)
- विश्वकर्मा देवता
- भुवनपुत्रो विश्वकर्मा ऋषिः
- आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे प्रजा के पुरुषो ! आप लोग जो (चक्षुषः) न्याय दिखानेवाले उपदेशक का (पिता) रक्षक (मनसा) योगाभ्यास से शान्त अन्तःकरण (हि) ही से (धीरः) धीरजवान् (घृतम्) घी को (अजनत्) प्रकट करता है, उसको अधिकार देके (एने) राजा और प्रजा के दल (नम्नमाने) नम्न के तुल्य आचरण करते हुए (पूर्वे) पहिले से वर्त्तमान (द्यावापृथिवी) प्रकाश और पृथिवी के समान मिले हुए जैसे (अप्रथेताम्) प्रख्यात होवे, वैसे (इत्) ही (यदा) जब (अन्ताः) अन्त्य के अवयवों के तुल्य (अददृहन्त) वृद्धि को प्राप्त हों, तब (आत्) उसके पश्चात् (इत्) ही स्थिरराज्यवाले होओ ॥२५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जब मनुष्य राज और प्रजा के व्यवहार में एकसम्मति होकर सदा प्रयत्न करें, तभी सूर्य और पृथिवी के तुल्य स्थिर सुखवाले होवें ॥२५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे प्रजाजनाः ! भवन्तो यश्चक्षुषः पिता मनसा हि धीरो घृतमजनत्, तमधिकृत्य एने नम्नमाने पूर्वे द्यावापृथिवी अप्रथेतामिव यदेदन्ता इवाददृहन्त, तथाऽऽदित् स्थिरराज्या भवेयुः ॥२५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यदा मनुष्या राजप्रजाव्यवहार एकसम्मतयो भूत्वा सदैव प्रयतेरंस्तदा सूर्यपृथिवीवत् स्थिरसुखा भवेयुः ॥२५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जेव्हा राजा व प्रजा यांच्या व्यवहारात एकवाक्यता असते व प्रयत्नशीलता असते तेव्हा सूर्य व पृथ्वीप्रमाणे त्यांना स्थिर सुख प्राप्त होते हे माणसांनी जाणावे.
२६ विश्वकर्म्मा विमनाऽआद्विहाया
विश्वास-प्रस्तुतिः ...{Loading}...
वि॒श्वक॑र्म्मा॒ विम॑ना॒ऽआद्विहा॑या धा॒ता वि॑धा॒ता प॑र॒मोत स॒न्दृक्। तेषा॑मि॒ष्टानि॒ समि॒षा म॑दन्ति॒ यत्रा॑ सप्तऽऋ॒षीन् प॒रऽएक॑मा॒हुः ॥२६ ॥
मूलम् ...{Loading}...
वि॒श्वक॑र्म्मा॒ विम॑ना॒ऽआद्विहा॑या धा॒ता वि॑धा॒ता प॑र॒मोत स॒न्दृक्। तेषा॑मि॒ष्टानि॒ समि॒षा म॑दन्ति॒ यत्रा॑ सप्तऽऋ॒षीन् प॒रऽएक॑मा॒हुः ॥२६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वि॒श्वक॒र्मेति॑ वि॒श्वऽक॑र्मा। विम॑ना॒ इति॒ विऽम॑नाः। आत्। विहा॑या॒ इति॒ विऽहा॑याः। धा॒ता। वि॒धा॒तेति॑ विऽधा॒ता। प॒र॒मा। उ॒त। स॒न्दृगिति॑ स॒म्ऽदृक्। तेषा॑म्। इ॒ष्टानि॑। सम्। इ॒षा। म॒द॒न्ति॒। यत्र॑। स॒प्त॒ऋ॒षीनिति॑ सप्तऽऋ॒षीन्। प॒रः। एक॑म्। आ॒हुः। २६।
महीधरः
म० यो विश्वकर्मा नोऽस्माकं पिता पालकः जनिता जनयिता उत्पादकः । ‘जनिता मन्त्रे’ (पा० ६ । ४ । ५३) इति निपातः । यो विधाता विशेषेण धारकः सेतुः यश्च विश्वा विश्वानि सर्वाणि धामानि स्थानानि भुवनानि भूतजातानि च वेद जानाति । यश्च एकोऽद्वितीय एव सन् देवानां बहूनां नामधाः नामानि दधाति करोतीति नामधाः । नाम च पितैव करोति । तस्मादन्या अन्यानि भुवना भुवनानि भूतजातानि संप्रश्नं सम्यक् प्रश्नो यस्यां क्रियायां यथा तथा तं विश्वकर्माणं यन्ति गच्छन्ति प्रलयकाले एकत्वं प्राप्नुवन्ति । यद्वा संप्रश्नं सम्यक् प्रष्टुं स्वाधिकारप्रश्नं कर्तुं भुवनानि यं यन्ति स एव स्वाधिकारेषु नियुङ्क्त इति भावः ॥ २७ ॥
अष्टाविंशी।
अधिमन्त्रम् (VC)
- विश्वकर्मा देवता
- भुवनपुत्रो विश्वकर्मा ऋषिः
- भुरिगार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब परमेश्वर कैसा है, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (विश्वकर्मा) जिसका समस्त जगत् का बनाना क्रियमाण काम और जो (विमनाः) अनेक प्रकार के विज्ञान से युक्त (विहायाः) विविध प्रकार के पदार्थों में व्याप्त (धाता) सब का धारण-पोषण करने (विधाता) और रचनेवाला (सन्दृक्) अच्छे प्रकार सब को देखता (परः) और सब से उत्तम है तथा जिसको (एकम्) अद्वितीय (आहुः) कहते अर्थात् जिसमें दूसरा कहने में नहीं आता (आत्) और (यत्र) जिसमें (सप्तऋषीन्) पाँच प्राण, सूत्रात्मा और धनञ्जय इन सात को प्राप्त होकर (इषा) इच्छा से जीव (सं, मदन्ति) अच्छे प्रकार आनन्द को प्राप्त होते (उत) और जो (तेषाम्) उन जीवों के (परमा) उत्तम (इष्टानि) सुखसिद्ध करनेवाले कामों को सिद्ध करता है, उस परमेश्वर की तुम लोग उपासना करो ॥२६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि सब जगत् का बनाने, धारण, पालन और नाश करनेहारा एक अर्थात् जिसका दूसरा कोई सहायक नहीं हो सकता, उसी परमेश्वर की उपासना अपने चाहे हुए काम के सिद्ध करने के लिये करना चाहिये ॥२६ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ परमेश्वरः कीदृशोऽस्तीत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! विश्वकर्मा यो विमना विहाया धाता विधाता संदृक् परोऽस्ति, यमेकमाहुराद् यत्र सप्तऋषीन् प्राप्येषा जीवाः संमदन्त्युत यस्तेषां परमेष्टानि साध्नोति तं परमेश्वरं यूयमुपाध्वम् ॥२६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैः सर्वस्य जगतः स्रष्टा धर्त्ता पालको नाशकोऽद्वितीयः परमेश्वर एवेष्टसाधनायोपासनीयः ॥२६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्याला कुणाच्या साह्याची आवश्यकता नसते व जो सर्व जगाचे धारण, पालन, संहार करतो अशा परमेश्वराची आपण आपले कार्य सिद्ध होण्यासाठी उपासना केली पाहिजे.
२७ यो नः
विश्वास-प्रस्तुतिः ...{Loading}...
यो नः॑ पि॒ता ज॑नि॒ता यो वि॑धा॒ता धामा॑नि॒ वेद॒ भुव॑नानि॒ विश्वा॑। यो दे॒वानां॑ नाम॒धाऽएक॑ऽए॒व तँ स॑म्प्र॒श्नं भुव॑ना यन्त्य॒न्या ॥२७ ॥
मूलम् ...{Loading}...
यो नः॑ पि॒ता ज॑नि॒ता यो वि॑धा॒ता धामा॑नि॒ वेद॒ भुव॑नानि॒ विश्वा॑। यो दे॒वानां॑ नाम॒धाऽएक॑ऽए॒व तँ स॑म्प्र॒श्नं भुव॑ना यन्त्य॒न्या ॥२७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यः। नः॒। पि॒ता। ज॒नि॒ता। यः। वि॒धा॒तेति॑ विऽधा॒ता। धामा॑नि। वेद॑। भुव॑नानि। विश्वा॑। यः। दे॒वाना॑म्। ना॒म॒धा इति॑ नाम॒ऽधाः। एकः॑। ए॒व। तम्। स॒म्प्र॒श्नमिति॑ सम्ऽप्र॒श्नम्। भुव॑ना। य॒न्ति॒। अ॒न्या। २७।
महीधरः
म० ते पूर्वे ऋषयो विश्वकर्मसृष्टा वसिष्ठाद्या अस्मै भूतग्रामाय द्रविणं धनं जललक्षणं समायजन्त सम्यक् आभिमुख्येन ददुः द्रविणं भोगजातं वा । यजतिर्दानार्थः । कथं दुदुः। न भूना न भूम्ना न बाहुल्येन । मलोपश्छान्दसः । किंतु युक्त्या कामवर्षित्वेनेत्यर्थः । कीदृशाः । जरितारः स्तोतारः । ते के । ये ऋषय इमानि भूतानि समकृण्वन् । स्वादेः करोतेर्लङ् । ये वसिष्ठादयस्तानि सृजन्ति त एव उदकदानेन जीवयन्तीत्यर्थः । कीदृशाः । असूर्ते असुभिः सप्तदशावयवैर्लिङ्गशरीरैरीरिता असूर्ताः । असुपूर्वस्य ‘ईर गतौ’ इत्यस्य छान्दस इडभावो निष्ठायाम् ईकारस्य पूर्वसवर्णदीर्घः जस एकारः । तथा रजसि अन्तरिक्षलोके निषत्ते निषत्ताः निषण्णाः स्थिताः जस एकारः । ‘लोका रजांस्युच्यन्ते’ (निरु० ४ । १९) इति यास्कः । कीदृशे रजसि । सूर्ते सुष्ठु ईरिते प्रेरिते विस्तीर्णे । सुपूर्वस्य ईरधातोर्निष्ठायां पूर्ववत् । ‘नसत्तनिषत्त-’ (पा० ८ । २।६१) इत्यादिना निपातः ॥ २८ ॥
एकोनत्रिंशी।
अधिमन्त्रम् (VC)
- विश्वकर्मा देवता
- भुवनपुत्रो विश्वकर्मा ऋषिः
- निचृदार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (यः) जो (नः) हमारा (पिता) पालन और (जनिता) सब पदार्थों का उत्पादन करनेहारा तथा (यः) जो (विधाता) कर्मों के अनुसार फल देने तथा जगत् का निर्माण करनेवाला (विश्वा) समस्त (भुवनानि) लोकों और (धामानि) जन्म, स्थान वा नाम को (वेद) जानता (यः) जो (देवानाम्) विद्वानों वा पृथिवी आदि पदार्थों का (नामधाः) अपनी विद्या से नाम धरनेवाला (एकः) एक अर्थात् असहाय (एव) ही है, जिसको (अन्या) और (भुवना) लोकस्थ पदार्थ (यन्ति) प्राप्त होते जाते हैं, (सम्प्रश्नम्) जिसके निमित्त अच्छे प्रकार पूछना हो, (तम्) उसको तुम लोग जानो ॥२७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो पिता के तुल्य समस्त विश्व का पालने और सब को जाननेहारा एक परमेश्वर है, उसके और उसकी सृष्टि के विज्ञान से ही सब मनुष्य परस्पर मिल के प्रश्न और उत्तर करें ॥२७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यो नः पिता जनिता यो विधाता विश्वा भुवनानि धामानि वेद। यो देवानां नामधा एक एवास्ति, यमन्या भुवना यन्ति, सम्प्रश्नं तं यूयं जानीत ॥२७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यः सर्वस्य विश्वस्य पितृवत् पालकः सर्वज्ञोऽद्वितीयः परमेश्वरो वर्त्तते, तस्य तत्सृष्टेश्च विज्ञानेनैव सर्वे मनुष्याः परस्परं मिलित्वा प्रश्नोत्तराणि कुर्वन्तु ॥२७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जो पित्याप्रमाणे सर्व विश्वाचा पालनकर्ता व सर्वांचा ज्ञाता आहे अशा परमेश्वराला त्याने निर्माण केलेल्या सृष्टिविज्ञानाच्या आधारेच सर्व माणसांनी परस्परांशी संवाद (प्रश्नोत्तर) करून जाणून घ्यावे.
२८ तऽआयजन्त द्रविणम्
विश्वास-प्रस्तुतिः ...{Loading}...
तऽआय॑जन्त॒ द्रवि॑णँ॒ सम॑स्मा॒ऽऋष॑यः॒ पूर्वे॑ जरि॒तारो॒ न भू॒ना। अ॒सूर्त्ते॒ सूर्त्ते॒ रज॑सि निष॒त्ते ये भू॒तानि॑ स॒मकृ॒॑ण्वन्नि॒मानि॑ ॥२८ ॥
मूलम् ...{Loading}...
तऽआय॑जन्त॒ द्रवि॑णँ॒ सम॑स्मा॒ऽऋष॑यः॒ पूर्वे॑ जरि॒तारो॒ न भू॒ना। अ॒सूर्त्ते॒ सूर्त्ते॒ रज॑सि निष॒त्ते ये भू॒तानि॑ स॒मकृ॒॑ण्वन्नि॒मानि॑ ॥२८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ते। आ। अ॒य॒ज॒न्त॒। द्रवि॑णम्। सम्। अ॒स्मै॒। ऋष॑यः। पूर्वे॑। ज॒रि॒तारः॑। न। भू॒ना। अ॒सूर्त्ते॑। सूर्त्ते॑। रज॑सि। नि॒ष॒त्ते। नि॒स॒त्त इति॑ निऽस॒त्ते। ये। भू॒तानि॑। स॒मकृ॑ण्व॒न्निति॑ स॒म्ऽअकृ॑ण्वन्। इमानि॑। २८।
महीधरः
म० प्रश्नोत्तररूपा मन्त्राः । ब्रह्मविषयप्रश्नः । विभक्तिव्यत्ययबाहुल्यमत्र मन्त्रे । यत् अस्ति हृदीति शेषः । यदीश्वरतत्त्वं हृत्पुण्डरीके अस्ति तत् दिवा परः द्युलोकादपि दूरे तिष्ठति दिवो दुर्ज्ञेयत्वात् । परस्शब्दः सान्तो दूरवाची । एना पृथिव्या अस्याः पृथिव्याः परः पृथिव्या अपि दूरे । देवेभिरसुरैः देवेभ्योऽसुरेभ्यश्च परो दूरे । दूरत्वं विलक्षणत्वम् । सर्वजगद्विलक्षणत्वाद्गुरुशास्त्रविमुखैर्न ज्ञायत इत्यर्थः । किंच स्विदिति वितर्के । आपः प्रथमं कं गर्भं दध्रे दधिरे अधारयन् । धाञो लिटि तङि प्रथमबहुवचनस्य ‘लिटस्तझयोरे शिरेच्’ इति (पा० ३ । ४ । ८१) इतीरेचि कृते तस्य ‘इरयो रे’ (पा० ६ । ४ । ७६) इति रे आदेशे तस्य स्थानिवत्त्वात् ‘आतो लोप इटि च’ (पा० ६ । ४ । ६४) | इत्यालोपे दध्रे इति रूपम् । पूर्वे देवाः प्रथमोत्पन्ना देवाः वसिष्ठादयो यत्र गर्भे समपश्यन्त ददृशुः जगदिति शेषः । यदा स्थूलोऽप्ययं जगदाधारो गर्भरूपो न ज्ञायते तदात्यन्तसूक्ष्मं तत्त्वं न ज्ञायत इति किमु वक्तव्यमिति भावः ॥ २९ ॥
त्रिंशी।
अधिमन्त्रम् (VC)
- विश्वकर्मा देवता
- भुवनपुत्रो विश्वकर्मा ऋषिः
- भुरिगार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ये) जो (पूर्वे) पूर्ण विद्या से सब की पुष्टि (जरितारः) और स्तुति करनेवाले के (न) समान (ऋषयः) वेदार्थ के जाननेवाले (भूना) बहुत से (असूर्त्ते) परोक्ष अर्थात् अप्राप्त हुए वा (सूर्त्ते) प्रत्यक्ष अर्थात् पाये हुए (निषत्ते) स्थित वा स्थापित किये हुए (रजसि) लोक में (इमानि) इन प्रत्यक्ष (भूतानि) प्राणियों को (समकृण्वन्) अच्छे प्रकार शिक्षित करते हैं, (ते) वे (अस्मै) इस ईश्वर की आज्ञा पालने के लिये (द्रविणम्) धन को (सम्, आ, अयजन्त) अच्छे प्रकार संगत करें ॥२८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे विद्वान् लोग इस जगत् में परमात्मा की आज्ञा पालने के लिये सृष्टिक्रम से तत्त्वों को जानते हैं, वैसे ही अन्य लोग आचरण करें। जैसे धार्मिक जन धर्म के आचरण से धन को इकट्ठा करते हैं, वैसे ही सब लोग उपार्जन करें ॥२८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये पूर्वे जरितारो न ऋषयो भूनाऽसूर्त्ते सूर्त्ते निषत्ते रजसीमानि भूतानि साक्षात् समकृण्वन्, तेऽस्मै द्रविणं समायजन्त ॥२८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा विद्वांसोऽत्र जगति परेशाज्ञापालनाय सृष्ट्यनुक्रमेण तत्त्वं जानन्ति, तथैवान्य आचरन्तु। यथा धार्मिका धनमुपार्जन्ति, तथैव सर्व उपार्जन्तु ॥२८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जसे विद्वान लोक या जगात परमेश्वराची आज्ञा पाळण्यासाठी सृष्टिक्रमाचे तत्त्व जाणतात, तसेच इतरांनीही जाणून त्याप्रमाणे वागावे. जसे धार्मिक लोक धर्माचरणाने द्रव्य प्राप्त करतात, तसेच इतरांनीही करावे.
२९ परो दिवा
विश्वास-प्रस्तुतिः ...{Loading}...
प॒रो दि॒वा प॒रऽए॒ना पृ॑थि॒व्या प॒रो दे॒वेभि॒रसु॑रै॒र्यदस्ति॑। कँस्वि॒द् गर्भं॑ प्रथ॒मं द॑ध्र॒ऽआपो॒ यत्र॑ दे॒वाः स॒मप॑श्यन्त॒ पूर्वे॑ ॥२९ ॥
मूलम् ...{Loading}...
प॒रो दि॒वा प॒रऽए॒ना पृ॑थि॒व्या प॒रो दे॒वेभि॒रसु॑रै॒र्यदस्ति॑। कँस्वि॒द् गर्भं॑ प्रथ॒मं द॑ध्र॒ऽआपो॒ यत्र॑ दे॒वाः स॒मप॑श्यन्त॒ पूर्वे॑ ॥२९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प॒रः। दि॒वा। प॒रः। ए॒ना। पृ॒थि॒व्या। प॒रः। दे॒वेभिः॑। असु॑रैः। यत्। अस्ति॑। कम्। स्वि॒त्। गर्भ॑म्। प्र॒थ॒मम्। द॒ध्रे॒। आपः॑। यत्र॑। दे॒वाः। स॒मप॑श्य॒न्तेति॑ स॒म्ऽअप॑श्यन्त। पूर्वे॑। २९।
महीधरः
म० प्रत्युत्तरमाह । आपः प्रथमं तमित् तमेव गर्भं दध्रे | दधिरे । यत्र कारणभूते गर्भे विश्वे सर्वे देवाः समगच्छन्त सङ्गताः संभूय वर्तन्ते । ननु तस्य गर्भस्य को वाधारस्तत्राह । | अजस्य जन्मरहितस्य परमेश्वरस्य नाभावधि नाभिस्थानीयस्य स्वरूपस्य मध्ये एकमविभक्तमनन्यभूतं किंचिद्बीजं गर्भरूपमर्पितं स्थापितं । यस्मिन् बीजे विश्वानि सर्वाणि भुवनानि भूतजातानि तस्थुः स्थितानि तद्बीजमर्पितम् । तथाच स्मृतिः ‘अप एव ससर्जादौ तासु बीजमवासृजत् । तदण्डमभवद्धैमं सूर्यकोटिसमप्रभम्’ ( मनु० १।८।९) इति । स एव सर्वाश्रयो न तु तस्याप्यन्य आश्रय इति भावः ॥ ३० ॥
एकत्रिंशी।
अधिमन्त्रम् (VC)
- विश्वकर्मा देवता
- भुवनपुत्रो विश्वकर्मा ऋषिः
- आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (एना) इस (दिवा) सूर्य्य आदि लोकों से (परः) परे अर्थात् अत्युत्तम (पृथिव्या) पृथिवी आदि लोकों से (परः) परे (देवेभिः) विद्वान् वा दिव्य प्रकाशित प्रजाओं और (असुरैः) अविद्वान् तथा कालरूप प्रजाओं से (परः) परे (अस्ति) है, (यत्र) जिसमें (आपः) प्राण (कम्, स्वित्) किसी (प्रथमम्) विस्तृत (गर्भम्) ग्रहण करने योग्य पदार्थ को (दध्रे) धारण करते हुए वा (यत्) जिसको (पूर्वे) पूर्णविद्या के अध्ययन करनेवाले (देवाः) विद्वान् लोग (समपश्यन्त) अच्छे प्रकार ज्ञानचक्षु से देखते हैं, वह ब्रह्म है, यह तुम लोग जानो ॥२९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि जो सब से सूक्ष्म, बड़ा, अतिश्रेष्ठ, सब का धारणकर्त्ता, विद्वानों का विषय अर्थात् समस्त विद्याओं का समाधानरूप अनादि और चेतनमात्र है, वही ब्रह्म उपासना करने के योग्य है, अन्य नहीं ॥२९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! य एना दिवा परः पृथिव्या परो देवेभिरसुरैः परोऽस्ति, यत्रापः कं स्वित् प्रथमं गर्भं दध्रे, यत्पूर्वे देवाः समपश्यन्त, तद्ब्रह्मेति यूयं विजानीत ॥२९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्यत् सर्वेभ्यः सूक्ष्मं महत् परं सर्वधर्तृविद्वद्विषयमनादिचेतनमस्ति, तदेव ब्रह्मोपासनीयं नेतरत् ॥२९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सर्वात सूक्ष्म व स्थूल, अतिश्रेष्ठ, सर्वांचा धारणकर्ता, सर्व विद्वानांचा विषय अर्थात् सर्व विद्यांचे निराकरण ज्याच्या ठायी आढळते असा अनादी व चेतन असा एकच ब्रह्म उपासना करण्यायोग्य आहे, अन्य नव्हे. हे माणसांनी जाणावे.
३० तमिद् गर्भम्
विश्वास-प्रस्तुतिः ...{Loading}...
तमिद् गर्भं॑ प्रथ॒मं द॑ध्र॒ऽआपो॒ यत्र॑ दे॒वाः स॒मग॑च्छन्त॒ विश्वे॑। अ॒जस्य॒ नाभा॒वध्येक॒मर्पि॑तं॒ यस्मि॒न् विश्वा॑नि॒ भुव॑नानि त॒स्थुः ॥३० ॥
मूलम् ...{Loading}...
तमिद् गर्भं॑ प्रथ॒मं द॑ध्र॒ऽआपो॒ यत्र॑ दे॒वाः स॒मग॑च्छन्त॒ विश्वे॑। अ॒जस्य॒ नाभा॒वध्येक॒मर्पि॑तं॒ यस्मि॒न् विश्वा॑नि॒ भुव॑नानि त॒स्थुः ॥३० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
तम्। इत्। गर्भ॑म्। प्र॒थ॒मम्। द॒ध्रे॒। आपः॑। यत्र॑। दे॒वाः। स॒मग॑च्छ॒न्तेति॑ सम्ऽअग॑च्छन्त। विश्वे॑। अ॒जस्य॑। नाभौ॑। अधि॑। एक॑म्। अर्पि॑तम्। यस्मि॑न्। विश्वा॑नि। भुव॑नानि। त॒स्थुः। ३०।
महीधरः
म० इदानीमुपदिशति । यो विश्वकर्मा इमा इमानि भूतजातानि जजान उत्पादितवान् तं विश्वकर्माणं हे जीवाः, यूयं न विदाथ न जानीथ । ‘लेटोऽडाटो’ (पा० ३ । ४ । ९४) इत्याडागमः । ननु देवदत्तोऽहं यज्ञदत्तोऽहमिति वयमात्मानं जानीम इति चेत् न । न ह्यहंप्रत्ययगम्यं जैवं रूपं परमेश्वरतत्त्वं किंतु युष्माकमहंप्रत्ययगम्यानां जीवानामन्तरमभ्यन्तरं वास्तवस्वरूपमन्यत् अहंप्रत्ययादतिरिक्तं सर्वावदानं वेद्यमीश्वरतत्त्वं बभूव भवति विद्यते । जीवरूपवत्तदपि कुतो न विद्म इति चेत् भवन्त ईदृशाः चरन्ति प्रवर्तन्तेऽतो न जानीथ । कीदृशाः । नीहारेण प्रावृताः नीहारसदृशेनाज्ञानेनावृतत्वान्न जानीथ यथा नीहारो नात्यन्तमसन् दृष्टेरावरकत्वात् नाप्यत्यन्तं सन् काष्ठाश्मादिवद्रोधयितुमयोग्यत्वात् एवमज्ञानमपि नात्यन्तमसत् ईश्वरतत्त्वावरकत्वात् नापि सत् बोधमात्रनिवर्त्यत्वात् ईदृशेनानिर्वचनीयेनाज्ञानेन भवन्तः सर्वे जीवाः प्रावृताः। न केवलं नीहारेण जल्प्या च प्रावृताः । जल्पनं जल्पिस्तया देवोऽहं नरोऽहं ममेदं गृहं क्षेत्रमित्याद्यनृतजल्पनेन व्याप्ताश्च । किंच असुतृपः असुषु असून् वा तृप्यन्ति असुतृपः केनापि प्रकारेण प्राणान् भूत्वा तावतैव तृप्यन्ति नतु परमेश्वरतत्त्वं विचारयितुं प्रवर्तन्ते । न केवलमैहिकभोगेन तृप्तिः किंतु उक्थशासः परलोकभोगान् संपादयितुं यज्ञेषु उक्थानि शंसन्ति उक्थशासः शस्त्रस्तोतारः । शसेः क्विपि ‘अनिदिताम्’ (पा० ६ । ४ । २४) इति नलोपः । संहितायां दीर्घः । ऐहिकामुष्मिकभोगप्रवृत्तानामज्ञानमिथ्याज्ञानपराधीनानां भवतां नास्ति तत्त्वज्ञानमित्यर्थः ॥ ३१ ॥
द्वात्रिंशी।
अधिमन्त्रम् (VC)
- विश्वकर्मा देवता
- भुवनपुत्रो विश्वकर्मा ऋषिः
- आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (यत्र) जिस ब्रह्म में (आपः) कारणमात्र प्राण वा जीव (प्रथमम्) विस्तारयुक्त अनादि (गर्भम्) सब लोकों की उत्पत्ति का स्थान प्रकृति को (दध्रे) धारण करते हुए वा जिसमें (विश्वे) सब (देवाः) दिव्य आत्मा और अन्तःकरणयुक्त योगीजन (समगच्छन्त) प्राप्त होते हैं, वा जो (अजस्य) अनुत्पन्न अनादि जीव वा अव्यक्त कारणसमूह के (नाभौ) मध्य में (अधि) अधिष्ठातृपन से सब के ऊपर विराजमान (एकम्) आप ही सिद्ध (अर्पितम्) स्थित (यस्मिन्) जिस में (विश्वानि) समस्त (भुवनानि) लोकोत्पन्न द्रव्य (तस्थुः) स्थिर होते हैं, तुम लोग (तमित्) उसी को परमात्मा जानो ॥३० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि जो जगत् का आधार, योगियों को प्राप्त होने योग्य, अन्तर्यामी, आप अपना आधार, सब में व्याप्त है, उसी का सेवन सब लोग करें ॥३० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यत्रापः प्रथमं गर्भं दध्रे, यस्मिन् विश्वे देवाः समगच्छन्त, यदजस्य नाभावध्येकमर्पितं यस्मिन् विश्वानि भुवनानि तस्थुस्तमिदेव परमात्मानं यूयं बुध्यध्वम् ॥३० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्यो जगत् आधारो योगिभिर्गम्योऽन्तर्यामी स्वयं स्वाधारः सर्वत्र व्याप्तोऽस्ति, स एव सर्वैः सेवनीयः ॥३० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जो जगाचा आधार, योग्यांना प्राप्त होण्यायोग्य, अन्तर्यामी व स्वयंसिद्ध असून सर्वांमध्ये व्याप्त आहे अशा परमेश्वराचा आधार सर्व माणसांनी घ्यावा.
३१ न तम्
विश्वास-प्रस्तुतिः ...{Loading}...
न तं वि॑दाथ॒ यऽइ॒मा ज॒जाना॒न्यद्यु॒ष्माक॒मन्त॑रं बभूव। नी॒हा॒रेण॒ प्रावृ॑ता॒ जल्प्या॑ चासु॒तृप॑ऽउक्थ॒शास॑श्चरन्ति ॥३१ ॥
मूलम् ...{Loading}...
न तं वि॑दाथ॒ यऽइ॒मा ज॒जाना॒न्यद्यु॒ष्माक॒मन्त॑रं बभूव। नी॒हा॒रेण॒ प्रावृ॑ता॒ जल्प्या॑ चासु॒तृप॑ऽउक्थ॒शास॑श्चरन्ति ॥३१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
न। तम्। वि॒दा॒थ॒। यः। इ॒मा। ज॒जान॑। अ॒न्यत्। यु॒ष्माक॑म्। अन्तर॑म्। ब॒भू॒व॒। नी॒हा॒रेण॑। प्रावृ॑ताः। जल्प्या॑। च॒। अ॒सु॒तृप॒ इत्य॑सु॒ऽतृपः॑। उ॒क्थ॒शासः॑। उ॒क्थ॒शस॒ इत्यु॑क्थ॒ऽशसः॑। च॒र॒न्ति॒। ३१।
महीधरः
म०. ब्रह्माण्डमध्यगतानामुत्पत्तिरुच्यते । ब्रह्माण्डमध्ये प्रथमं विश्वकर्मा देवतिर्यगादिजगद्भेदकर्ता सत्यलोकवासी चतुर्मुखो देवः अजनिष्ट आदित्यान्तरपुरुषरूपेण जातः । आत् इत् अनन्तरमेव तदपेक्षया द्वितीयो गन्धर्वः अभवत् उत्पन्नः। गां वाचं पृथिवीं वा धरति गन्धर्वोऽग्निः । गानाद्वा गन्धर्वः ‘अथो एवाहुरग्निरेवास्यै पृथिव्यै पृष्ठे सर्वः कृत्स्नो मन्यमानोऽगायत्’ इत्यादिश्रुतेः । पिता पालयिता ओषधीनां जनिता उत्पादकः पर्जन्यः । पूर्वोक्तद्वयापेक्षया तृतीयोऽभवत् । स पर्जन्य उत्पन्नः सन्नपामाहुतिपरिणामभूतानां गर्भं व्यदधात् धारयति करोति वा । कीदृशं गर्भं । पुरुत्रा पुरून् बहून् त्रायते रक्षति पुरुत्राः बहूनां रक्षकम् । विभक्तराकारः। बहुप्रकारं वा। वैश्वकर्मणहोमः समाप्तः ॥ ३२ ॥
त्रयस्त्रिंशी।
अधिमन्त्रम् (VC)
- विश्वकर्मा देवता
- भुवनपुत्रो विश्वकर्मा ऋषिः
- भुरिगार्षी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे ब्रह्म के न जाननेवाले पुरुष (नीहारेण) धूम के आकार कुहर के समान अज्ञानरूप अन्धकार से (प्रावृताः) अच्छे प्रकार ढके हुए (जल्प्या) थोड़े सत्य-असत्य वादानुवाद में स्थिर रहनेवाले (असुतृपः) प्राणपोषक (च) और (उक्थशासः) योगाभ्यास को छोड़ शब्द-अर्थ के सम्बन्ध के खण्डन-मण्डन में रमण करते हुए (चरन्ति) विचरते हैं, वैसे तुम लोग (तम्) उस परमात्मा को (न) नहीं (विदाथ) जानते हो (यः) जो (इमा) इन प्रजाओं को (जजान) उत्पन्न करता और जो ब्रह्म (युष्माकम्) तुम अधर्मी अज्ञानियों के सकाश से (अन्यत्) अर्थात् कार्य्यकारणरूप जगत् और जीवों से भिन्न (अन्तरम्) तथा सबों में स्थित भी दूरस्थ (बभूव) होता है, उस अतिसूक्ष्म आत्मा अर्थात् परमात्मा को नहीं जानते हो ॥३१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो पुरुष ब्रह्मचर्य्य आदि व्रत, आचार, विद्या, योगाभ्यास, धर्म के अनुष्ठान, सत्सङ्ग और पुरुषार्थ से रहित हैं, वे अज्ञानरूप अन्धकार में दबे हुए, ब्रह्म को नहीं जान सकते। जो ब्रह्म जीवों से पृथक्, अन्तर्यामी, सब का नियन्ता और सर्वत्र व्याप्त है, उसके जानने को जिनका आत्मा पवित्र है, वे ही योग्य होते हैं, अन्य नहीं ॥३१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथाऽब्रह्मविदो जना नीहारेण चाज्ञाने प्रावृता जल्प्या असुतृपश्चोक्थशासश्चरन्ति, तथाभूतां यूयं तं न विदाथ य इमा जजान। यद् ब्रह्म युष्माकं सकाशादन्यदन्तरं बभूव, तदतिसूक्ष्ममात्मन आत्मभूतं न विदाथ ॥३१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये ब्रह्मचर्य्यादिव्रताचारविद्यायोगाभ्यासधर्मानुष्ठानसत्सङ्गपुरुषार्थरहितास्तेऽज्ञानान्धकारावृताः सन्तो ब्रह्म ज्ञातुं न शक्नुवन्ति। यद् ब्रह्म जीवादिभ्यो भिन्नमन्तर्यामिसकलनियन्तृ सर्वत्र व्याप्तमस्ति, तज्ज्ञातुं पवित्रात्मान एवार्हन्ति नेतरे ॥३१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे पुरुष ब्रह्मचर्य, विद्या, योगाभ्यासरहित आहेत, तसेच धर्माचे अनुष्ठान, सत्संग व पुरुषार्थ करत नाहीत ते अज्ञानरूपी अंधकारात बुडालेले असतात. असे लोक ब्रह्माला जाणू शकत नाहीत. जो ब्रह्म सर्वांचा नियंता, सर्वत्र व्यापक, अंतर्यामी असून जीवांहून भिन्न असतो त्याला पवित्र आत्मेच जाणू शकतात. इतर लोक जाणू शकत नाहीत.
३२ विश्वकर्मा ह्यजनिष्ट
विश्वास-प्रस्तुतिः ...{Loading}...
वि॒श्वक॑र्मा॒ ह्यज॑निष्ट दे॒वऽआदिद् ग॑न्ध॒र्वोऽअ॑भवद् द्वि॒तीयः॑। तृ॒तीयः॑ पि॒ता ज॑नि॒तौष॑धीनाम॒पां गर्भं॒ व्य᳖दधात् पुरु॒त्रा ॥३२ ॥
मूलम् ...{Loading}...
वि॒श्वक॑र्मा॒ ह्यज॑निष्ट दे॒वऽआदिद् ग॑न्ध॒र्वोऽअ॑भवद् द्वि॒तीयः॑। तृ॒तीयः॑ पि॒ता ज॑नि॒तौष॑धीनाम॒पां गर्भं॒ व्य᳖दधात् पुरु॒त्रा ॥३२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वि॒श्वऽक॑र्मा। हि। अज॑निष्ट। दे॒वः। आत्। इत्। ग॒न्ध॒र्वः। अ॒भ॒व॒त्। द्वि॒तीयः॑। तृ॒तीयः॑। पि॒ताः। ज॒नि॒ता। ओष॑धीनाम्। अ॒पाम्। गर्भ॑म्। वि। अ॒द॒धा॒त्। पु॒रु॒त्रेति॑ पुरु॒ऽत्रा। ३२।
महीधरः
म० ‘आहवनीये प्रणीयमानेऽप्रतिरथस्स द्वादश ब्रुवन्नग्नौ सर्वत्रैके’ (का० ११ । १।९। १०)। अग्नौ चयने इध्ममादीप्याहवनीये चित्यां प्रति नीयमाने ब्रह्माप्रतिरथसूक्तस्य द्वादश ऋचो जपन् दक्षिणतोऽनुगच्छतीति सूत्रार्थः । अप्रतिरथदृष्टा इन्द्रदेवत्या द्वादश त्रिष्टुभः । इन्द्रः शतं सेनाः शतसंख्याकाः शत्रुसेनाः साकं सहैव एकप्रयत्नेनैवाजयत् जयति । कीदृश इन्द्रः । आशुः अश्नुते व्याप्नोति आशुः शीघ्रगामी उण्प्रत्ययः । शिशानः ‘शो तनूकरणे’ ‘बहुलं छन्दसि’ (पा० २। ४ । ७६) इति जुहोत्यादित्वाच्छानचि द्वित्वम् । श्यति वज्रं तीक्ष्णीकरोति शिशानः । वृषभो न वृषभ इव भीमः भयंकरः । घनाघनः शत्रूणामतिशयेन घातकः हन हनेति वक्ता वा वृष्टिकर्तृमेघरूपो वा । ‘वर्षुकाब्दो घनाघनः’ इत्यभिधानात् । चर्षणीनां मनुष्याणां क्षोभणः क्षोभयतीति क्षोभणः क्षोभहेतुः चातकः । संक्रन्दनः सम्यक् क्रन्दनं परभयहेतुर्ध्वनिर्यस्य । यद्वा समाह्वाता शत्रूणाम् । अनिमिषः नास्ति निमेषो यस्य सः देवत्वात् । यद्वा कदाचिदपि निमेषं न करोति । अत्यन्तसावधान इत्यर्थः । एकवीरः एकश्चासौ वीरश्च अन्यनिरपेक्षं शत्रूनेक एव जेतुं समर्थः ॥ ३३ ॥
चतुस्त्रिंशी।
अधिमन्त्रम् (VC)
- विश्वकर्मा देवता
- भुवनपुत्रो विश्वकर्मा ऋषिः
- स्वराडार्षी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! इस जगत् में (विश्वकर्मा) जिस के समस्त शुभ काम हैं, वह (देवः) दिव्यस्वरूप वायु प्रथम (इत्) ही (अभवत्) होता है, (आत्) इसके अन्तर (गन्धर्वः) जो पृथिवी को धारण करता है, वह सूर्य वा सूत्रात्मा वायु (अजनिष्ट) उत्पन्न और (ओषधीनाम्) यव आदि ओषधियों (अपाम्) जलों और प्राणों का (पिता) पालन करनेहारा (हि) ही (द्वितीयः) दूसरा अर्थात् धनञ्जय तथा जो प्राणों के (गर्भम्) गर्भ अर्थात् धारण को (व्यदधात्) विधान करता है, वह (पुरुत्रा) बहुतों का रक्षक (जनिता) जलों का धारण करनेहारा मेघ (तृतीयः) तीसरा उत्पन्न होता है, इस विषय को आप लोग जानो ॥३२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सब मनुष्यों को योग्य है कि इस संसार में सब कामों के सेवन करनेहारे जीव पहिले, बिजुली, अग्नि, वायु और सूर्य पृथिवी आदि लोकों के धारण करनेहारे हैं, वे दूसरे और मेघ आदि तीसरे हैं, उनमें पहिले जीव अज अर्थात् उत्पन्न नहीं होते और दूसरे, तीसरे उत्पन्न हुए हैं, परन्तु वे भी कारणरूप से नित्य हैं, ऐसा जानें ॥३२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! अत्र जगति विश्वकर्मा देवो वायुरादिम इदभवदादनन्तरं गन्धर्वोऽजनिष्टौषधीनामपां पिता हि द्वितीयो यो गर्भं व्यदधात्, स पुरुत्रा जनिता पर्जन्यः तृतीयोऽभवदिति भवन्तो विदन्तु ॥३२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सर्वैमनुष्यैरिह सकलकर्मसेवका जीवाः प्रथमा विद्युदग्निसूर्यवायवः पृथिव्यादिधारका द्वितीयास्तृतीयाः पर्जन्यादयस्तेषां जीवा अजा अन्ये सर्वे जातास्तेऽपि कारणरूपेण नित्याश्चेति वेद्यम् ॥३२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या जगात सर्वात प्रथम कर्म करणारे जीव, द्वितीय सूर्य, वायू, विद्युत व अग्नी होत व तृतीय मेघ इत्यादी होत. त्यापैकी जीव उत्पन्न होत नाहीत. दुसरे, तिसरे उत्पन्न झालेले आहेत, तेही कारणरूपाने नित्य आहेत हे माणसांनी जाणावे.
३३ आशुः शिशानो
विश्वास-प्रस्तुतिः ...{Loading}...
आ॒शुः शिशा॑नो वृष॒भो न भी॒मो घ॑नाघ॒नः क्षोभ॑णश्चर्षणी॒नाम्। सं॒क्रन्द॑नोऽनिमि॒षऽए॑कवी॒रः श॒तँ सेना॑ऽअजयत् सा॒कमिन्द्रः॑ ॥३३ ॥
मूलम् ...{Loading}...
आ॒शुः शिशा॑नो वृष॒भो न भी॒मो घ॑नाघ॒नः क्षोभ॑णश्चर्षणी॒नाम्। सं॒क्रन्द॑नोऽनिमि॒षऽए॑कवी॒रः श॒तँ सेना॑ऽअजयत् सा॒कमिन्द्रः॑ ॥३३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ॒शुः। शिशा॑नः। वृ॒ष॒भः। न। भी॒मः। घ॒ना॒घ॒नः। क्षोभ॑णः। च॒र्ष॒णी॒नाम्। सं॒क्रन्द॑न॒ इति॑ स॒म्ऽक्रन्द॑नः। अ॒नि॒मि॒ष इत्य॑निऽमिषः। ए॒क॒वी॒र इत्ये॑कऽवी॒रः। श॒तम्। सेनाः॑। अ॒ज॒य॒त्। सा॒कम्। इन्द्रः॑। ३३।
महीधरः
म० युध्यन्ते ते युधः क्विप् पादादावामन्त्रितस्येति आद्युदात्तः । हे युधो नरो योद्धारो मनुष्याः, इन्द्रेण कृत्वा यूयं तत् परबलं जयत वशीकुरुत । वशीकृत्य च तत् सहध्वम् अभिभवत । विनाशयतेत्यर्थः । कीदृशेनेन्द्रेण । संक्रन्दनेन शब्दकारिणा । अनिमिषेण एकचित्तेन । जिष्णुना जयनशीलेन । युत्कारेण युधं करोतीति युत्कारस्तेन । कर्मण्यण् युद्धकारिणा । दुश्चयवनेन दुःखेन च्यावयितुं शक्यः दुश्चयवनस्तेन अजय्येन धृष्णुना प्रगल्भेन भीतिरहितेन इषुहस्तेन इषवो हस्ते यस्य तेन वारुणाद्यायुधोपेतेन । वृष्णा वर्षतीति वृषा तेन कामानां वर्षकेण ॥ ३४ ॥
पञ्चविंशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- अप्रतिरथ ऋषिः
- आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब सेनापति के कृत्य का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् मनुष्यो ! तुम लोग जो (चर्षणीनाम्) सब मनुष्यों वा उन की सम्बन्धिनी सेनाओं में (आशुः) शीघ्रकारी (शिशानः) पदार्थों को सूक्ष्म करनेवाला (वृषभः) बलवान् बैल के (न) समान (भीमः) भयंकर (घनाघनः) अत्यन्त आवश्यकता के साथ शत्रुओं का नाश करने (क्षोभणः) उन को कंपाने (संक्रन्दनः) अच्छे प्रकार शत्रुओं को रुलाने और (अनिमिषः) रात्रि-दिन प्रयत्न करनेहारा (एकवीरः) अकेला वीर (इन्द्रः) शत्रुओं को विदीर्ण करनेवाला सेना का अधिपति पुरुष हम लोगों के (साकम्) साथ (शतम्) अनेकों (सेनाः) उन सेनाओं को जिनसे शत्रुओं को बाँधते हैं, (अजयत्) जीतता है, उसी को सेनाधीश करो ॥३३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि जो धनुर्वेद और ऋग्वेदादि शास्त्रों का जाननेवाला, निर्भय, सब विद्याओं में कुशल, अति बलवान्, धार्मिक, अपने स्वामी के राज्य में प्रीति करनेवाला, जितेन्द्रिय, शत्रुओं का जीतनेहारा तथा अपनी सेना को सिखाने और युद्ध कराने में कुशल वीर पुरुष हो, उसको सेनापति के अधिकार पर नियुक्त करें ॥३३ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ सेनापतिकृत्यमुपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वांसो मनुष्या ! यूयं यश्चर्षणीनामाशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणः संक्रन्दनोऽनिमिष एकवीर इन्द्रोऽस्माभिः साकं शतं सेना अजयत्, तमेव सेनाधीशं कुरुत ॥३३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्या धनुर्वेदविदृगादिविन्निर्भयस्सर्वविद्यो बलिष्ठो धार्म्मिकः स्वराज्यानुरागी जितेन्द्रियोऽरीणां विजेता स्वसेनायाः शिक्षणे योधने च कुशलो वीरो भवेत्, स सेनाधीशाधिकारे स्थापनीयः ॥३३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जो धनुर्वेद व ऋग्वेद इत्यादी शास्त्रांचा जाणकार, निर्भय व बलवान आणि जितेन्द्रिय, सर्व विद्यांमध्ये कुशल असून धार्मिक व स्वामिभक्त, शत्रूंना जिंकणारा, आपल्या सेनेला प्रशिक्षित करणारा व युद्ध करण्यात कुशल असा वीर पुरुष असेल तर त्याला सर्व माणसांनी सेनापती नेमावे.
३४ सङ्क्रन्दनेनानिमिषेण जिष्णुना
विश्वास-प्रस्तुतिः ...{Loading}...
सं॒क्रन्द॑नेनानिमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्यव॒नेन धृ॒ष्णुना॑। तदिन्द्रे॑ण जयत॒ तत्स॑हध्वं॒ युधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा॑ ॥३४ ॥
मूलम् ...{Loading}...
सं॒क्रन्द॑नेनानिमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्यव॒नेन धृ॒ष्णुना॑। तदिन्द्रे॑ण जयत॒ तत्स॑हध्वं॒ युधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा॑ ॥३४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सं॒क्रन्द॑ने॒नेति॑ स॒म्ऽक्रन्द॑नेन। अ॒निमि॒षेणेत्य॑निऽमि॒षेण॑। जि॒ष्णुना॑। यु॒त्का॒रेणेति॑ युत्ऽका॒रेण॑। दु॒श्च्य॒व॒नेनेति॑ दुःऽच्यव॒नेन॑। धृ॒ष्णुना॑। तत्। इन्द्रे॑ण। ज॒य॒त॒। तत्। स॒ह॒ध्व॒म्। युधः॑। नरः॑। इषु॑हस्ते॒नेतीषु॑ऽहस्तेन। वृष्णा॑। ३४।
महीधरः
म० स इन्द्रोऽस्मानवत्विति शेषः । संस्रष्टा ‘ण्वुल्तृचौ-’ (पा. ३ । १ । १३३) इति तृच्प्रत्ययः । युद्धाय संसर्गकर्ता । वशी वशयति रिपूनिति वशी। यद्वा कान्तः जनप्रियः स्वतन्त्रो वा निगृहीतारिषड्वर्गो वा ईश्वरो वा । गणेन रिपुसमूहेनापि सह युधः युध्यतेऽसौ युधः युद्धकर्ता ‘इगुपधज्ञा’ (पा० ३। १ । १३५) इति कप्रत्ययः । संसृष्टजित् संसृष्टान् युद्धाय सङ्गतान् रिपून् जयति संसृष्टजित् । सोमपाः । सोमं पिबतीति यजमानानां यागेषु सोमपानकर्ता । बाहुशर्धी बाह्वोः शर्धो बलमस्यास्तीति बाहुशर्धी बाहुबलोपेतः । संयोगिनिरपेक्ष इत्यर्थः । शर्ध इति बलनाम । उग्रधन्वा | उग्रमुत्कृष्टं धनुर्यस्य सः । ‘धनुषश्च’ (पा० ५। ४ । १३१) इत्यनङादेशः । प्रतिहिताभिरस्ता स्वेन धनुषा प्रेरिताभिरिषुभिरस्ता क्षेप्ता ‘असु क्षेपणे’ तृन् आद्युदात्तत्वात् अस्यतीत्येवंशीलः रिपुनाशयितेत्यर्थः । सशब्दावृत्तिः पादपूरणार्था ॥३५॥
षट्त्रिंशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- अप्रतिरथ ऋषिः
- स्वराडार्षी त्रिष्टुप्
- धैवतः
३५ सऽइषुहस्तैः स
विश्वास-प्रस्तुतिः ...{Loading}...
सऽइषु॑हस्तैः॒ स नि॑ष॒ङ्गिभि॑र्व॒शी सँस्र॑ष्टा॒ स युध॒ऽइन्द्रो॑ ग॒णेन॑। सँ॒सृ॒ष्ट॒जित् सो॑म॒पा बा॑हुश॒र्ध्युग्र᳙ध॑न्वा॒ प्रति॑हिताभि॒रस्ता॑ ॥३५ ॥
मूलम् ...{Loading}...
सऽइषु॑हस्तैः॒ स नि॑ष॒ङ्गिभि॑र्व॒शी सँस्र॑ष्टा॒ स युध॒ऽइन्द्रो॑ ग॒णेन॑। सँ॒सृ॒ष्ट॒जित् सो॑म॒पा बा॑हुश॒र्ध्युग्र᳙ध॑न्वा॒ प्रति॑हिताभि॒रस्ता॑ ॥३५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सः। इषु॑हस्तै॒रितीषु॑ऽहस्तैः। सः। नि॒ष॒ङ्गिभि॒रिति॑ निष॒ङ्गिऽभिः॑। व॒शी। सँस्र॒ष्टेति॒ सम्ऽस्र॑ष्टा। सः। युधः॑। इन्द्रः॑। ग॒णेन॑। सँ॒सृ॒ष्ट॒जिदिति॑ सँसृष्ट॒ऽजित्। सो॒म॒पा इति॑ सोम॒ऽपाः। बा॒हु॒श॒र्द्धीति॑ बाहुऽशर्द्धी। उ॒ग्रध॒न्वेत्यु॒ग्रऽध॑न्वा। प्रति॑हिताभि॒रिति॒ प्रति॑ऽहिताभिः। अस्ता॑। ३५।
महीधरः
म० बृहस्पतिरिन्द्रः वाग्वै बृहती तस्या एष पतिः व्याकरणकर्तृत्वादिन्द्रस्य वाक्पतित्वमिन्द्रस्य पुरोहितत्वेन वा बृहस्पतिरेव स्तूयते । हे बृहस्पते, त्वं रथेन परिदीय सर्वतो गच्छ । दीयतिर्गत्यर्थः । गत्वा चास्माकं रथानामस्मदीयस्यन्दनानामविता रक्षक एधि भव । कीदृशस्त्वम् । रक्षोहा रक्षांसि हन्तीति रक्षोहा क्विप् रक्षसां हन्ता । अमित्रान् शत्रूनपबाधमानः पीडयन् । सेनाः परकीयाः प्रभञ्जन् प्रकर्षेण भग्नाः कुर्वन् । युधा युद्धेन प्रमृणो जयन् । मृणतिर्हिँसाकर्मा । तस्य क्विपि - द्वितीयाबहुवचनम् । प्रमृणो हिंसकान् जयन् पराभवन् ॥३६॥
सप्तत्रिंशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- अप्रतिरथ ऋषिः
- आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (सः) वह सेनापति (इषुहस्तैः) शस्त्रों को हाथों में रखनेहारे और अच्छे सिखाये हुए बलवान् (निषङ्गिभिः) जिनके भुशुण्डी=बन्दूक, शतघ्नी=तोप और आग्नेय आदि बहुत अस्त्र विद्यमान हैं, उन भृत्यों के साथ वर्त्तमान (सः) वह (संस्रष्टा) श्रेष्ठ मनुष्यों तथा शस्त्र और अस्त्रों का सम्बन्ध करनेवाला (वशी) अपने इन्द्रिय और अन्तःकरण को जीते हुए जो (संसृष्टजित्) प्राप्त शत्रुओं को जीतता (सोमपाः) बलिष्ठ ओषधियों के रस को पीता (बाहुशर्द्धी) भुजाओं में जिसके बल विद्यमान हो और (उग्रधन्वा) जिसका तीक्ष्ण धनुष् है, (सः) वह (युधः) युद्धशील (अस्ता) शस्त्र और अस्त्रों को अच्छे प्रकार फेंकने तथा (इन्द्रः) शत्रुओं को मारनेवाला और (गणेन) अच्छे सीखे हुए भृत्यों वा सेनावीरों ने (प्रतिहिताभिः) प्रत्यक्षता से स्वीकार की हुई सेना के साथ वर्त्तमान होता हुआ जनों को जीते ॥३५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सब का ईश राजा वा सब सेनाओं का अधिपति अच्छे सीखे हुए वीर भृत्यों की सेना के साथ वर्त्तमान दुःख से जीतने योग्य शत्रुओं को भी जीत सके, वैसे सब को करना चाहिये ॥३५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - स सेनापतिरिषुहस्तैर्निषङ्गिभिः सह वर्त्तमानः स संस्रष्टा वशी संसृष्टजित् सोमपा बाहुशर्द्ध्युग्रधन्वा स युधोऽस्तेन्द्रो गणेन प्रतिहिताभिश्च सह वर्त्तमानः सन् शत्रूञ्जयतु ॥३५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सर्वेशो राजा सर्वसेनाधिपतिर्वा सुशिक्षितवीरभृत्यसेनया सह वर्त्तमानो दुर्जयानपि शत्रूञ्जेतुं यथा शक्नुयात्, तथा सर्वैर्विधेयमिति ॥३५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजा किंवा सेनापती यांनी दुःख नाहीसे करण्यासाठी अस्त्र शस्त्रांनी युक्त अशा वीरांच्या प्रशिक्षित सेनेसह शत्रूला जिंकण्यासाठी सुसज्ज राहिले पाहिजे.
३६ बृहस्पते परि
विश्वास-प्रस्तुतिः ...{Loading}...
बृह॑स्पते॒ परि॑ दीया॒ रथे॑न रक्षो॒हामित्राँ॑२ऽ अप॒बाध॑मानः। प्र॒भ॒ञ्जन्त्सेनाः॑ प्रमृ॒णो यु॒धा जय॑न्न॒स्माक॑मेद्ध्यवि॒ता र॒था॑नाम् ॥३६ ॥
मूलम् ...{Loading}...
बृह॑स्पते॒ परि॑ दीया॒ रथे॑न रक्षो॒हामित्राँ॑२ऽ अप॒बाध॑मानः। प्र॒भ॒ञ्जन्त्सेनाः॑ प्रमृ॒णो यु॒धा जय॑न्न॒स्माक॑मेद्ध्यवि॒ता र॒था॑नाम् ॥३६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
बृह॑स्पते। परि॑। दी॒य॒। रथे॑न। र॒क्षा॒हेति॑ रक्षः॒ऽहा। अ॒मित्रा॑न्। अ॒प॒बाध॑मान॒ इत्य॑प॒ऽबाध॑मानः। प्र॒भ॒ञ्जन्निति॑ प्रऽभ॒ञ्जन्। सेनाः॑। प्र॒मृ॒ण इति॑ प्रऽमृ॒णः। यु॒धा। जय॑न्। अ॒स्माक॑म्। ए॒धि। अ॒विता। रथा॑नाम्। ३६।
महीधरः
म०. हे इन्द्र, त्वं जैत्रं जयनशीलं रथमातिष्ठ आरोह । कीदृशस्त्वम् । बलविज्ञायः बलं परकीयं विशेषेण जानाति बलविज्ञायः कर्मण्यण् ‘आतो युक् चिण्कृतोः’ (पा. ७ । ३ । ३३ ) यद्वा बलेन कृत्वा विज्ञायते करणे घञ् । स्थविरः पुरातनः सर्वानुशासकः । प्रवीरः प्रकृष्टो वीरः शूरः । सहस्वान् सहो बलमस्यास्तीति सहस्वान् । वाजोऽस्यास्तीति वाजी अन्नवान् । सहमानः शत्रूनभिभवन् । उग्रः युद्धेषु क्रूरः अभिवीरः अभितो वीराः शूराः यस्य सः। अभिसत्वा । अभितः सत्वानः परिचारकाः प्राणिनो यस्य सोऽभिसत्वा । सहसो बलाज्जातः सहोजाः । न ह्यन्यस्माज्जात ईदृग्बलः स्यात् । गां स्तुतिगिरं वेत्ति गोवित् ॥ ३७॥
अष्टत्रिंशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- अप्रतिरथ ऋषिः
- आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (बृहस्पते) धार्मिकों वृद्धों वा सेनाओं के रक्षक जन ! (रक्षोहा) जो दुष्टों को मारने (अमित्रान्) शत्रुओं को (अपबाधमानः) दूर करने (प्रमृणः) अच्छे प्रकार मारने और (सेनाः) उनकी सेनाओं को (प्रभञ्जन्) भग्न करनेवाला तू (रथेन) रथसमूह से (युधा) युद्ध में शत्रुओं को (परि, दीया) सब ओर से काटता है, सो (जयन्) उत्कर्ष अर्थात् जय को प्राप्त होता हुआ (अस्माकम्) हम लोगों के (रथानाम्) रथों की (अविता) रक्षा करनेवाला (एधि) हो ॥३६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजा सेनापति और अपनी सेना को उत्साह कराता तथा शत्रुसेना को मारता हुआ धर्मात्मा प्रजाजनों की निरन्तर उन्नति करे ॥३६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे बृहस्पते ! यो रक्षोहाऽमित्रानपबाधमानः प्रमृणः सेनाः प्रभञ्जँस्त्वं रथेन युधा शत्रून् परिदीया, स जयन्नस्माकं रथानामवितैधि ॥३६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - राजा सेनापतिं स्वसेनां च वर्द्धयन् शत्रुसेनां हिंसन् धार्मिकीं प्रजां सततमुन्नयेत् ॥३६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजा व सेनापती यांनी आपल्या सेनेचा उत्साह वाढवावा व शत्रू सेनेचा संहार करून धार्मिक प्रजाजनांची सतत उन्नती करावी.
३७ बलविज्ञायः स्थविरः
विश्वास-प्रस्तुतिः ...{Loading}...
ब॒ल॒वि॒ज्ञा॒यः स्थवि॑रः॒ प्रवी॑रः॒ सह॑स्वान् वा॒जी सह॑मानऽउ॒ग्रः। अ॒भिवी॑रोऽअ॒भिस॑त्वा सहो॒जा जैत्र॑मिन्द्र॒ रथ॒माति॑ष्ठ गो॒वित् ॥३७ ॥
मूलम् ...{Loading}...
ब॒ल॒वि॒ज्ञा॒यः स्थवि॑रः॒ प्रवी॑रः॒ सह॑स्वान् वा॒जी सह॑मानऽउ॒ग्रः। अ॒भिवी॑रोऽअ॒भिस॑त्वा सहो॒जा जैत्र॑मिन्द्र॒ रथ॒माति॑ष्ठ गो॒वित् ॥३७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ब॒ल॒वि॒ज्ञा॒य इति॑ बलऽविज्ञा॒यः। स्थवि॑रः। प्रवी॑र॒ इति॒ प्रऽवी॑रः। सह॑स्वान्। वा॒जी। सह॑मानः। उ॒ग्रः। अ॒भिवी॑र॒ इत्य॒भिऽवी॑रः। अ॒भिस॒त्वेत्य॒भिऽस॑त्वा। स॒हो॒जा इति॑ सहः॒ऽजाः। जैत्र॑म्। इ॒न्द्र॒। रथ॑म्। आ। ति॒ष्ठ॒। गो॒विदिति॑ गो॒ऽवित्। ३७।
महीधरः
म०. हे सजाताः समानं जातं जन्म येषां ते समानजन्मानः सखायो देवाः, इममिन्द्रमनु वीरयध्वम् ‘शूर वीर विक्रान्तौ’ अदन्तश्चुरादिः लोट् । वीरकर्म कुर्वाणमनुगम्य वीरकर्मणा प्रोत्साहयत अनु संरभध्वम् । संरम्भं वेगं कुर्वाणमनु संरम्भं कुरुत । कीदृशमिन्द्रम् । गोत्रभिदं गोत्रमसुरकुलं भिनत्ति गोत्रभित्तम् । यद्वा गा अपः त्रायते गोत्रो मेघः तस्य भेत्तारम् । गोविदम् गां वाचं वेत्तीति गोवित् तम् पण्डितम् । वज्रबाहुं वज्रं बाहौ यस्य तम् । अज्म संग्रामं जयन्तम् । | अज्मेति युद्धनाम । अजतेर्गत्यर्थस्य । ओजसा बलेन प्रमृणन्तं शत्रून्हिंसन्तम् । मृणतिर्हिंसाकर्मा ॥ ३८ ॥
एकोनचत्वारिंशी। ।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- अप्रतिरथ ऋषिः
- आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) युद्ध की उत्तम सामग्री युक्त सेनापति ! (बलविज्ञायः) जो अपनी सेना को बली करना जानता (स्थविरः) वृद्ध (प्रवीरः) उत्तम वीर (सहस्वान्) अत्यन्त बलवान् (वाजी) जिसको प्रशंसित शास्त्रबोध है, (सहमानः) जो सुख और दुःख को सहने तथा (उग्रः) दुष्टों के मारने में तीव्र तेजवाला (अभिवीरः) जिस के अभीष्ट अर्थात् तत्काल चाहे हुए काम के करनेवाले वा (अभिसत्वा) सब ओर से युद्धविद्या में कुशल रक्षा करनेहारे वीर हैं, (सहोजाः) बल से प्रसिद्ध (गोवित्) वाणी, गौओं वा पृथिवी को प्राप्त होता हुआ, ऐसा तू युद्ध के लिये (जैत्रम्) जीतनेवाले वीरों से घेरे हुए (रथम्) पृथिवी, समुद्र और आकाश में चलनेवाले रथ को (आ, तिष्ठ) आकर स्थित हो अर्थात् उसमें बैठ ॥३७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सेनापति वा सेना के वीर जब शत्रुओं से युद्ध की इच्छा करें, तब परस्पर सब ओर से रक्षा और रक्षा के साधनों को संग्रह कर विचार और उत्साह के साथ वर्त्तमान आलस्यरहित होते हुए शत्रुओं को जीतने में तत्पर हों ॥३७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे इन्द्र सेनापते ! बलविज्ञायः स्थविरः प्रवीरः सहस्वान् वाजी सहमान उग्रोऽभिवीरोऽभिसत्वा सहोजा गोवित् संस्त्वं युद्धाय जैत्रं रथमातिष्ठ ॥३७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सेनापतिः सेनावीरा वा यदा शत्रुभिः योद्धुमिच्छेयुस्तदा परस्परं सर्वतो रक्षां रक्षासाधनानि वा संगृह्य बुद्ध्युत्साहेन सह वर्त्तमाना अनलसाः सन्तः शत्रुविजयतत्परा भवेयुः ॥३७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सेनापती किंवा सेनेचे वीर यांना जेव्हा शत्रूंबरोबर युद्ध करावयाचे असेल तेव्हा त्यांनी सर्व बाजूंनी संरक्षणाची व्यवस्था करावी, तसेच रक्षण करणाऱ्या साधनांचा संग्रह करावा. आळस सोडून द्यावा व विचारपूर्वक उत्साहाने शत्रूंना जिंकण्यासाठी आणि विजय प्राप्त करण्यासाठी तत्पर असावे.
३८ गोत्रभिदं गोविदम्
विश्वास-प्रस्तुतिः ...{Loading}...
गो॒त्र॒भिदं॑ गो॒विदं॒ वज्र॑बाहुं॒ जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा। इ॒मँ स॑जाता॒ऽअनु॑ वीरयध्व॒मिन्द्रँ॑ सखायो॒ऽअनु॒ सँर॑भध्वम् ॥३८ ॥
मूलम् ...{Loading}...
गो॒त्र॒भिदं॑ गो॒विदं॒ वज्र॑बाहुं॒ जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा। इ॒मँ स॑जाता॒ऽअनु॑ वीरयध्व॒मिन्द्रँ॑ सखायो॒ऽअनु॒ सँर॑भध्वम् ॥३८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
गो॒त्र॒भिद॒मिति॑ गोत्र॒ऽभिद॑म्। गो॒विद॒मिति॑ गो॒ऽविद॑म्। वज्र॑बाहु॒मिति॒ वज्र॑ऽबाहुम्। जय॑न्तम्। अज्म॑। प्र॒मृ॒णन्त॒मिति॑ प्रऽमृ॒णन्त॑म्। ओज॑सा। इ॒मम्। स॒जा॒ता॒ इति॑ सऽजाताः। अनु॑। वी॒र॒य॒ध्व॒म्। इन्द्र॑म्। स॒खा॒यः॒। अनु॑। सम्। र॒भ॒ध्व॒म्। ३८।
महीधरः
म० इन्द्रः युत्सु युद्धेषु अस्माकं सेनाः प्रावतु प्रकर्षण | रक्षतु ‘छन्दसि परेऽपि’ (पा० १ । ४ । ८१) इत्युपसर्गस्य | क्रियापदात् परप्रयोगः । कीदृश इन्द्रः । गोत्राणि असुरकुलानि मेघवृन्दानि वा अभिगाहमानः सर्वतो विलोडयन् । अदयः | दयारहितः । वीरः विक्रान्तः । शतमन्युः शतमसंख्यो मन्युः क्रोधो यस्य शतयज्ञो वा । दुश्य््वनः अप्रच्याव्यः । पृतनां संग्रामं सहते अभिभवतीति पृतनाषाट् । अयुध्यः योद्धुमशक्यः । नास्ति युध्यः प्रतियोधास्येति वा ॥ ३९ ॥
चत्वारिंशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- अप्रतिरथ ऋषिः
- भुरिगार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सजाताः) एकदेश में उत्पन्न (सखायः) परस्पर सहाय करनेवाले मित्रो ! तुम लोग (ओजसा) अपने शरीर और बुद्धि वा बल वा सेनाजनों से (गोत्रभिदम्) जो कि शत्रुओं के गोत्रों अर्थात् समुदायों को छिन्न-भिन्न करता, उनकी जड़ काटता (गोविदम्) शत्रुओं की भूमि को ले लेता (वज्रबाहुम्) अपनी भुजाओं में शस्त्रों को रखता (प्रमृणन्तम्) अच्छे प्रकार शत्रुओं को मारता (अज्म) जिससे वा जिसमें शत्रुजनों को पटकते हैं, उस संग्राम में (जयन्तम्) वैरियों को जीत लेता और (इमम्) उनको (इन्द्रम्) विदीर्ण करता है, इस सेनापति को (अनु, वीरयध्वम्) प्रोत्साहित करो और (अनु, संरभध्वम्) अच्छे प्रकार युद्ध का आरम्भ करो ॥३८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सेनापति आदि तथा सेना के भृत्य परस्पर मित्र होकर एक-दूसरे का अनुमोदन करा युद्ध का आरम्भ और विजय कर शत्रुओं के राज्य को पा और न्याय से प्रजा को पालन करके निरन्तर सुखी हों ॥३८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सजाताः सखायः ! यूयमोजसा गोत्रभिदं गोविदं वज्रबाहुं प्रमृणन्तमज्म जयन्तेममिन्द्रं सेनापतिमनुवीरयध्वमनुसंरभध्वं च ॥३८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सेनापतयो भृत्याश्च परस्परं सुहृदो भूत्वाऽन्योन्यमनुमोद्य युद्धारम्भविजयौ कृत्वा शत्रुराज्यं लब्ध्वा न्यायेन प्रजाः पालयित्वा सततं सुखिनः स्युः ॥३८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सेनापती व सैनिक यांनी परस्पर मित्र बनून एकमेकांच्या संमतीने युद्धाचा आरंभ करावा व विजय प्राप्त करावा. शत्रूंचे राज्य जिंकून न्यायाने प्रजेचे पालन करावे व सुखी व्हावे.
३९ अभि गोत्राणि
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानोऽद॒यो वी॒रः श॒तम॑न्यु॒रिन्द्रः॑। दु॒श्च्य॒व॒नः पृ॑तना॒षाड॑यु॒ध्यो᳙ऽअ॒स्माकँ॒ सेना॑ अवतु॒ प्र यु॒त्सु ॥३९ ॥
मूलम् ...{Loading}...
अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानोऽद॒यो वी॒रः श॒तम॑न्यु॒रिन्द्रः॑। दु॒श्च्य॒व॒नः पृ॑तना॒षाड॑यु॒ध्यो᳙ऽअ॒स्माकँ॒ सेना॑ अवतु॒ प्र यु॒त्सु ॥३९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒भि। गो॒त्राणि॑। सह॑सा। गाह॑मानः। अ॒द॒यः। वी॒रः। श॒तम॑न्यु॒रिति॑ श॒तऽम॑न्युः। इन्द्रः॑। दु॒श्च्य॒व॒न इति॑ दुःऽच्यव॒नः। पृ॒त॒ना॒ऽषाट्। अ॒यु॒ध्यः᳙। अ॒स्माक॑म्। सेनाः॑। अ॒व॒तु॒। प्र। यु॒त्स्विति॑ यु॒त्सु। ३९।
महीधरः
म० इन्द्रः बृहस्पतिश्च आसां देवसेनानां नेता प्रणेता भवत्विति शेषः । यज्ञः यज्ञपुरुषो विष्णुर्दक्षिणा दक्षिणत एतु गच्छतु । दक्षिणादाच्प्रत्ययः । सोमः परोऽग्रे एतु । मरुतो गणदेवा अग्रं सेनाग्रभागं यन्तु गच्छन्तु । कीदृशीनां देवसेनानाम् । अभिभञ्जतीनां ‘भञ्जो आमर्दने’ शत्रून्मर्दयन्तीनाम् । तथा जयन्तीनां विजयमानानाम् ॥ ४०॥
एकचत्वारिंशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- अप्रतिरथ ऋषिः
- निचृदार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वानो ! जो (युत्सु) जिनसे अनेक पदार्थों का मेल अमेल करें, उन युद्धों में (सहसा) बल से (गोत्राणि) शत्रुओं के कुलों को (प्र, गाहमानः) अच्छे यत्न से गाहता हुआ (अदयः) निर्दय (शतमन्युः) जिसको सैकड़ों प्रकार का क्रोध विद्यमान है, (दुश्च्यवनः) जो दुःख से शत्रुओं के गिराने योग्य (पृतनाषाट्) शत्रु की सेना को सहता है, (अयुध्यः) और जो शत्रुओं के युद्ध करने योग्य नहीं है, (वीरः) तथा शत्रुओं की विदीर्ण करता है, वह (अस्माकम्) हमारी (सेनाः) सेनाओं को (अभि, अवतु) सब ओर से पाले और (इन्द्रः) सेनाधिपति हो, ऐसी आज्ञा तुम देओ ॥३९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो धार्मिक जनों में करुणा करनेवाला, दुष्टों में दयारहित और सब ओर से सब की रक्षा करनेवाला मनुष्य हो, वही सेना के पालने में अधिकारी करने योग्य है ॥३९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वांसः ! यो युत्सु सहसा गोत्राणि प्रगाहमानोऽदयः शतमन्युर्दुश्च्यवनः पृतनाषाडयुध्यो वीरोऽस्माकं सेना अभ्यवतु, स इन्द्रः सेनापतिर्भवत्वित्याज्ञापयत ॥३९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - धार्मिकेषु करुणाकरः दुष्टेषु निर्दयः सर्वाभिरक्षको नरो भवेत्, स एव सेनापालनेऽधिकर्त्तव्यः ॥३९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जो धार्मिक लोकांशी दयाळूपणाने व दुष्टांशी निर्दयपणे वागतो अशा प्रकारे सर्व तऱ्हेने सर्वांचे रक्षण करणाऱ्या माणसाला सेनाधिकारी बनविणे योग्य होय.
४० इन्द्रऽआसां नेता
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र॑ऽआसां ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒रऽए॑तु॒ सोमः॑। दे॒व॒से॒नाना॑मभिभञ्जती॒नां जय॑न्तीनां म॒रुतो॑ य॒न्त्वग्र॑म् ॥४० ॥
मूलम् ...{Loading}...
इन्द्र॑ऽआसां ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒रऽए॑तु॒ सोमः॑। दे॒व॒से॒नाना॑मभिभञ्जती॒नां जय॑न्तीनां म॒रुतो॑ य॒न्त्वग्र॑म् ॥४० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इन्द्रः॑। आ॒सा॒म्। ने॒ता। बृह॒स्पतिः॑। दक्षि॑णा। य॒ज्ञः। पु॒रः। ए॒तु॒। सोमः॑। दे॒व॒से॒नाना॒मिति॑ देवऽसे॒नाना॑म्। अ॒भि॒भ॒ञ्ज॒ती॒नामित्य॑भिऽभञ्जती॒नाम्। जय॑न्तीनाम्। म॒रुतः॑। य॒न्तु॒। अग्र॑म्। ४०।
महीधरः
म०. वृष्णः कामवर्षितुरिन्द्रस्य राज्ञो वरुणस्यादित्यानां द्वादशानां मरुतां चैषां देवानामुग्रमुत्कृष्टं शर्धो बलं गजतुरगरथपत्त्यात्मकसैन्यं घोषो जितं जितमिति शब्दश्च उदस्थात् उत्थितः । जितं जितमिति वददिन्द्रादिसैन्यमुत्थितमित्यर्थः । कीदृशानां देवानाम् । महामनसां महन्मनो येषां ते महामनसस्तेषां युद्धे स्थिरचित्तानाम् । तथा भुवनच्यवानां भुवनं लोकं च्यावयन्ति ते भुवनच्यवास्तेषां भुवनच्यावनसमर्थानाम् । जयतां विजयमानानाम् ॥ ४१ ॥
द्विचत्वारिंशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- अप्रतिरथ ऋषिः
- विराडार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - युद्ध में (अभिभञ्जतीनाम्) शत्रुओं की सेनाओं को सब ओर से मारती (जयन्तीनाम्) और शत्रुओं को जीतने से उत्साह को प्राप्त होती हुई (आसाम्) इन (देवसेनानाम्) विद्वानों की सेनाओं का (नेता) नायक (इन्द्रः) उत्तम ऐश्वर्यवाला शिक्षक सेनापति पीछे (यज्ञः) सब को मिलनेवाला (पुरः) प्रथम (बृहस्पतिः) सब अधिकारियों का अधिपति (दक्षिणा) दाहिनी ओर और (सोमः) सेना को प्रेरणा अर्थात् उत्साह देनेवाला बार्इं ओर (एतु) चले तथा (मरुतः) पवनों के समान वेगवाले बली शूरवीर (अग्रम्) आगे को (यन्तु) जावें ॥४० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जब राजपुरुष शत्रुओं के साथ युद्ध किया चाहें, तब सब दिशाओं में अध्यक्ष तथा शूरवीरों को आगे और डरपनेवालों को बीच में ठीक स्थापन कर भोजन, आच्छादन, वाहन, अस्त्र और शस्त्रों के योग से युद्ध करें और वहाँ विद्वानों की सेना के आधीन मूर्खों की सेना करनी चाहिये। उन सेनाओं को विद्वान् लोग अच्छे उपदेश से उत्साह देवें और सेनाध्यक्षादि पद्मव्यूह आदि बाँध के युद्ध करावें ॥४० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - युद्धेऽभिभञ्जतीनां जयन्तीनामासां देवसेनानां नेतेन्द्रः पश्चाद् यज्ञः पुरो बृहस्पतिर्दक्षिणा सोम उत्तरस्यां चैतु मरुतोऽग्रं यन्तु ॥४० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदा राजपुरुषाः शत्रुभिर्युयुत्सेयुस्तदा सर्वासु दिक्ष्वध्यक्षान् शूरवीरानग्रतो भीरूनन्तःसंस्थाप्य भोजनाच्छादनवाहनास्त्रशस्त्रयोगेन युध्येरन्। तत्र विद्वत्सेनाधीना मूर्खसेनाः कार्याः। ता विद्वांसो वक्तृत्वेनोत्साहयेयुरध्यक्षाश्च पद्मव्यूहादिभिर्योधयेयुः ॥४० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जेव्हा राजपुरुषांना शत्रूंबरोबर युद्ध करावयाचे असेल तेव्हा त्यांनी सर्व दिशांना प्रथम सेनानायक ठेवावेत. त्यानंतर शूर वीर नियुक्त करावेत, भित्र्या लोकांना मध्यभागी नियुक्त करावे. भोजन, वस्त्र, वाहन यांची व्यवस्था करून अस्त्रशस्त्रांच्या साह्याने युद्ध करावे. शूर व बुद्धिमान माणसांच्या आधीन मूर्खांची सेना ठेवावी. विद्वान लोकांनी चांगला उपदेश करून सेनेला उत्साहित करावे. सेनाध्यक्ष इत्यादींनी पद्मव्यूह इत्यादींची रचना करून युद्ध करावे.
४१ इन्द्रस्य वृष्णो
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र॑स्य॒ वृष्णो॒ व॑रुणस्य॒ राज्ञ॑ऽआदि॒त्यानां॑ म॒रुताँ॒ शर्द्ध॑ऽउ॒ग्रम्। म॒हाम॑नसां भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒मुद॑स्थात् ॥४१ ॥
मूलम् ...{Loading}...
इन्द्र॑स्य॒ वृष्णो॒ व॑रुणस्य॒ राज्ञ॑ऽआदि॒त्यानां॑ म॒रुताँ॒ शर्द्ध॑ऽउ॒ग्रम्। म॒हाम॑नसां भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒मुद॑स्थात् ॥४१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इन्द्र॑स्य। वृष्णः॑। वरु॑णस्य। राज्ञः॑। आ॒दि॒त्याना॑म्। म॒रुता॑म्। शर्द्धः॑। उ॒ग्रम्। म॒हाम॑नसा॒मिति॑ म॒हाऽम॑नसाम्। भु॒व॒न॒च्य॒वाना॒मिति॑ भुवनऽच्य॒वाना॑म्। घोषः॑। दे॒वाना॑म्। जय॑ताम्। उत्। अ॒स्था॒त्। ४१।
महीधरः
म० हे मघवन् धनवन्निन्द्र, आयुधानि उद्धर्षय उद्भूतहर्षाणि कुरु । मामकानां मदीयानां सत्वनां प्राणिनां मनांसि च उद्धर्षय हर्षयुक्तान् कुरु । हे वृत्रहन् वैरिघातिन् , वाजिनामश्वानां वाजिनानि शीघ्रगमनानि उद्धर्षय उत्कृष्टानि कुरु । किंच जयतां विजयमानानां रथानां घोषाः शब्दा उद्यन्तु उद्गच्छन्तु रथाः । सशब्दाः प्रसरन्तु ॥ ४२ ॥
त्रिचत्वारिंशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- अप्रतिरथ ऋषिः
- आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (वृष्णः) वीर्य्यवान् (इन्द्रस्य) सेनापति (वरुणस्य) सब से उत्तम (राज्ञः) न्याय और विनय आदि गुणों से प्रकाशमान सब के अधिपति राजा के (भुवनच्यवानाम्) जो उत्तम घरों को प्राप्त होते (महामनसाम्) बड़े-बड़े विचारवाले वा (जयताम्) शत्रुओं के जीतने को समर्थ (आदित्यानाम्) जिन्होंने ४८ वर्ष तक ब्रह्मचर्य्य किया हो, (मरुताम्) और जो पूर्ण विद्या बल युक्त हैं, उन (देवानाम्) विद्वान् पुरुषों का (उग्रम्) जो शत्रुओं को असह्य (शर्द्धः) बल (घोषः) शूरता और उत्साह उत्पन्न करनेवाला विचित्र बाजों का स्वरालाप शब्द है, वह युद्ध के आरम्भ से पहिले (उदस्थात्) उठे ॥४१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सेनाध्यक्षों को चाहिये कि शिक्षा और युद्ध के समय मनोहर वीरभाव को उत्पन्न करनेवाले अच्छे बाजों के बजाए हुए शब्दों से वीरों को हर्षित करावें तथा जो बहुत काल पर्यन्त ब्रह्मचर्य और अधिक विद्या से शरीर और आत्मबलयुक्त हैं, वे ही योद्धाओं की सेनाओं के अधिकारी करने योग्य है ॥४१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - वृष्ण इन्द्रस्य वरुणस्य राज्ञो भुवनच्यवानां महामनसां जयतामादित्यानां मरुतां देवानामुग्रं शर्द्धो घोषो युद्धारम्भात् पूर्वमुदस्थात् ॥४१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सेनाध्यक्षैः शिक्षासमये युद्धसमये च मनोहरैर्निर्भयादिभावजनकैः शब्दितैर्वादित्रैर्वीरा हर्षणीयाः। ये दीर्घब्रह्मचर्येणाधिकविद्यया शरीरात्मबलास्त एव युद्धसेनास्वधिकर्त्तव्याः ॥४१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सेनाध्यक्षांनी प्रशिक्षणाच्या वेळी व युद्धाच्या वेळी मनोहर वीरभाव उत्पन्न करणारी चांगली वाद्ये वाजवून वीररसांनी ओतप्रोत अशा शब्दांनी सेनेला आनंदित करावे. ज्यांनी पुष्कळ वर्षे ब्रह्मचर्याचे पालन केलेले आहे व विद्येने ज्यांचे शरीर आणि आत्मबल प्रबळ झालेले आहे अशा योद्ध्यांना सेनाधिकारी बनवावे.
४२ उद्धर्षय मघवन्नायुधान्युत्सत्वनाम्
विश्वास-प्रस्तुतिः ...{Loading}...
उद्ध॑र्षय मघव॒न्नायु॑धा॒न्युत्सत्व॑नां माम॒कानां॒ मनाँ॑सि। उद् वृ॑त्रहन् वा॒जिनां॒ वाजि॑ना॒न्युद्रथा॑नां॒ जय॑तां यन्तु॒ घोषाः॑ ॥४२ ॥
मूलम् ...{Loading}...
उद्ध॑र्षय मघव॒न्नायु॑धा॒न्युत्सत्व॑नां माम॒कानां॒ मनाँ॑सि। उद् वृ॑त्रहन् वा॒जिनां॒ वाजि॑ना॒न्युद्रथा॑नां॒ जय॑तां यन्तु॒ घोषाः॑ ॥४२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उत्। ह॒र्ष॒य॒। म॒घ॒व॒न्निति॑ मघऽवन्। आयु॑धानि। उत्। सत्व॑नाम्। मा॒म॒काना॑म्। मनाँ॑सि। उत्। वृ॒त्र॒ह॒न्निति॑ वृत्रऽहन्। वा॒जिना॑म्। वाजि॑नानि। उत्। रथा॑नाम्। जय॑ताम्। य॒न्तु॒। घोषाः॑। ४२।
महीधरः
म०. ध्वजेषु समृतेषु ‘ऋ गतौ’ सङ्गतेषु शत्रुध्वजैः संयुक्तेषु सत्सु इन्द्रः अस्माकं रक्षिता भवत्विति शेषः । तदा नोऽस्माकं या इषवोऽस्मदीयैः प्रयुक्तास्ता जयन्तु परसैन्यानि घ्नन्तु । अस्माकं ये वीराः शूरास्ते उत्तरे परकीयभटेभ्य उत्कृष्टा भवन्तु । उ अपिच हे देवाः, हवेषु अस्मान् यूयमवत रक्षत ‘अन्येषामपि दृश्यते’ (पा० ६ । ३ । १३७) इति | दीर्घः ॥ ४३ ॥
चतुश्चत्वारिंशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- अप्रतिरथ ऋषिः
- विराडार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - सेना के पुरुष अपने स्वामी से ऐसे कहें कि हे (वृत्रहन्) मेघ को सूर्य के समान शत्रुओं को छिन्न-भिन्न करनेवाले (मघवन्) प्रशंसित धनयुक्त सेनापति ! आप (मामकानाम्) हम लोगों के (सत्वनाम्) सेनास्थ वीर पुरुषों के (आयुधानि) जिनसे अच्छे प्रकार युद्ध करते हैं, उन शस्त्रों का (उद्धर्षय) उत्कर्ष कीजिए। हमारे सेनास्थ जनों के (मनांसि) मनों को (उत्) उत्तम हर्षयुक्त कीजिए। हमारे (वाजिनाम्) घोड़ों की (वाजिनानि) शीघ्र चालों को (उत्) बढ़ाइये तथा आपकी कृपा से हमारे (जयताम्) विजय करानेवाले (रथानाम्) रथों के (घोषाः) शब्द (उद्यन्तु) उठें ॥४२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सेनापति और शिक्षक जनों को चाहिये कि योद्धाओं के चित्तों को नित्य हर्षित करें और सेना के अङ्गों को अच्छे प्रकार उन्नति देकर शत्रुओं को जीतें ॥४२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - सेनास्था जनाः स्वाधीशमेवं ब्रुयुः—हे वृत्रहन् ! मघवँस्त्वं मामकानां सत्वनामायुधान्युद्धर्षय। मामकानां सत्वनां मनांस्युद्धर्षय। मामकानां वाजिनां वाजिनान्युद्धर्षय भवत्कृपातो मामकानां जयतां रथानां घोषा उद्यन्तु ॥४२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सेनापतिभिः शिक्षकैश्च योद्धॄणां चित्तानि नित्यं हर्षणीयानि। सेनाङ्गानानि सम्यगुन्नीय शत्रवो जेतव्याश्च ॥४२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सेनापती वगैरेंनी योद्ध्यांचे चित्त सदैव आनंदित करावे व सेनेचे प्रत्येक अंग प्रबळ करून शत्रूंना जिंकावे.
४३ अस्माकमिन्द्रः समृतेषु
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒स्माक॒मिन्द्रः॒ समृ॑तेषु ध्व॒जेष्व॒स्माकं॒ याऽइष॑व॒स्ता ज॑यन्तु। अ॒स्माकं॑ वी॒राऽउत्त॑रे भवन्त्व॒स्माँ२ऽउ॑ देवाऽअवता॒ हवे॑षु ॥४३ ॥
मूलम् ...{Loading}...
अ॒स्माक॒मिन्द्रः॒ समृ॑तेषु ध्व॒जेष्व॒स्माकं॒ याऽइष॑व॒स्ता ज॑यन्तु। अ॒स्माकं॑ वी॒राऽउत्त॑रे भवन्त्व॒स्माँ२ऽउ॑ देवाऽअवता॒ हवे॑षु ॥४३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒स्माक॑म्। इन्द्रः॑। समृ॑ते॒ष्विति॒ सम्ऽऋ॑तेषु। ध्व॒जेषु॑। अ॒स्माक॑म्। याः। इष॑वः। ताः। ज॒य॒न्तु॒। अ॒स्माक॑म्। वी॒राः। उत्त॑र॒ इत्युत्ऽत॑रे। भ॒व॒न्तु॒। अ॒स्मान्। ऊँ॒ऽइत्यूँ॑। दे॒वाः॒। अ॒व॒त॒। हवे॑षु। ४३।
महीधरः
म० अप्वा देवता सा व्याधिर्भयं वा यस्मादेतया विद्धोऽपचीयते तस्मादप्वा । अपपूर्वाद्वातेरन्तर्भूतण्यर्थात् ‘अन्येभ्योऽपि दृश्यते’ (पा० ३ । २ । १०१) इति डप्रत्ययः । अपशब्दान्त्याकारलोपश्छान्दसः ततष्टाप् । अपवति अपगमयति सुखं प्राणांश्चेत्यप्वा । ‘ऐन्द्र्योऽभिरूपा द्वादश भवन्ति’ (९ । २।३। ६) इति श्रुतेरियमपीन्द्रसेनासंबन्धिनी । हे अप्वे, अमीषां शत्रूणां चित्तं चित्तानि प्रतिलोभयन्ती मोहयन्ती अङ्गानि शत्रुगात्राणि गृह्णाना ततः परेहि अङ्गान्यादाय परागच्छ । पुनरन्यान् रिपून् गृहीतुमभि शत्रुसङ्घं प्रेहि प्र. गच्छ । तेषां हृत्सु हृदयानि शोकैर्धनपुत्रनाशादिनिमित्तैर्निर्दह विभक्तिव्यत्ययः । किंच अमित्राः शत्रवोऽन्धेन तमसा गाढान्धकारेण सचन्तां सङ्गच्छन्तां ‘षच संबन्धे’ लोट् । द्वादशैन्द्र्यः समाप्ताः ॥ ४४ ॥
पञ्चचत्वारिंशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- अप्रतिरथ ऋषिः
- निचृदार्षी त्रिष्टुप्
- धैवतः
४४ अमीषां चित्तम्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒मीषां॑ चि॒त्तं प्र॑तिलो॒भय॑न्ती गृहा॒णाङ्गा॑न्यप्वे॒ परे॑हि। अ॒भि प्रेहि॒ निर्द॑ह हृ॒त्सु शोकै॑र॒न्धेना॒मित्रा॒स्तम॑सा सचन्ताम् ॥४४ ॥
मूलम् ...{Loading}...
अ॒मीषां॑ चि॒त्तं प्र॑तिलो॒भय॑न्ती गृहा॒णाङ्गा॑न्यप्वे॒ परे॑हि। अ॒भि प्रेहि॒ निर्द॑ह हृ॒त्सु शोकै॑र॒न्धेना॒मित्रा॒स्तम॑सा सचन्ताम् ॥४४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒मीषा॑म्। चि॒त्तम्। प्र॒ति॒लो॒भय॒न्तीति॑ प्रतिऽलो॒भय॑न्ती। गृ॒हा॒ण। अङ्गा॑नि। अ॒प्वे॒। परा॑। इ॒हि॒। अ॒भि। प्र। इ॒हि॒। निः। द॒ह॒। हृ॒त्स्विति॑ हृ॒त्ऽसु। शोकैः॑। अ॒न्धेन॑। अ॒मित्राः॑। तम॑सा। स॒च॒न्ता॒म्। ४४।
महीधरः
म० इत ऋक्चतुष्टयस्य विनियोगः कात्यायनेनोक्तः । इयमिषुदेवत्यानुष्टुप् । हिंसिका शरमयी हेतिः शरव्या ब्रह्मणा मन्त्रेण संशिता तीक्ष्णीकृता ब्रह्मसंशिता तादृशि हे शरव्ये, त्वमवसृष्टास्माभिर्मुक्ता सती परापत सहसा परसैन्ये पतिता भव । पतित्वा चामित्रान् शत्रून् गच्छ प्राप्नुहि । प्राप्य च प्रपद्यस्व शत्रुशरीरेषु प्रविश । प्रविश्य चामीषां शत्रूणां मध्ये कंचन पुरुषं मा उच्छिषः अवशिष्टं मा कुरु । सर्वानपि जहीत्यर्थः । ‘शिष्लृ विशेषणे’ ‘पुषादि-’ (पा० ३ । १।५५) इत्यादिना च्लेरङ् ॥ ४५॥
षट्चत्वारिंशी॥
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- अप्रतिरथ ऋषिः
- विराडार्षी त्रिष्टुप्
- धैवतः
४५ अवसृष्टा परा
विश्वास-प्रस्तुतिः ...{Loading}...
अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑सँशिते। गच्छा॒मित्रा॒न् प्र प॑द्यस्व॒ मामीषां॒ कञ्च॒नोच्छि॑षः ॥४५ ॥
मूलम् ...{Loading}...
अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑सँशिते। गच्छा॒मित्रा॒न् प्र प॑द्यस्व॒ मामीषां॒ कञ्च॒नोच्छि॑षः ॥४५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अव॑सृ॒ष्टेत्यव॑ऽसृष्टा। परा॑। प॒त॒। शर॑व्ये। ब्रह्म॑सँशित॒ इति॒ ब्रह्म॑ऽसँशिते। गच्छ॑। अ॒मित्रा॑न्। प्र। प॒द्य॒स्व॒। मा। अ॒मीषा॑म्। कम्। च॒न। उत्। शि॒षः॒। ४५।
महीधरः
म० योद्धृदेवत्यानुष्टुप् योद्धॄन स्तौति । हे नरोऽस्मदीया योद्धारः, यूयं प्रेत परसैन्यं प्रति प्रकर्षेण गच्छत । ततो जयत विजयं प्राप्नुत । ‘द्व्यचोऽतस्तिङः’ (पा० ६ । ३ । १३५) इति प्रेतेत्यत्र दीर्घः । ‘अन्येषामपि दृश्यते’ ( पा० ६ । ३ । १३७ ) इति जयतेत्यत्र दीर्घः । इन्द्रो वा युष्मभ्यं शर्म जयोत्थं सुखं यच्छतु ददातु ‘दाण् दाने’ ‘पाघ्रा-’ (पा० ७।३। ७८) इत्यादिना यच्छादेशः । किंच यथा यूयमनाधृष्या असथ केनाप्यतिरस्कार्या भवथ । तथा वो युष्माकं बाहवो भुजदण्डा उग्रा उद्गूर्णायुधाः सन्तु । असथेत्यत्र ‘लेटोऽडाटौ’ (पा० ३ । ३ । ९४ ) इत्यडागमः ॥ ४६ ॥
सप्तचत्वारिंशी।
अधिमन्त्रम् (VC)
- इषुर्देवता
- अप्रतिरथ ऋषिः
- आर्ष्यनुष्टुप्
- गान्धारः
४६ प्रेता जयता
विश्वास-प्रस्तुतिः ...{Loading}...
प्रेता॒ जय॑ता नर॒ऽइन्द्रो॑ वः॒ शर्म॑ यच्छतु। उ॒ग्रा वः॑ सन्तु बा॒हवो॑ऽनाधृ॒ष्या यथास॑थ ॥४६ ॥
मूलम् ...{Loading}...
प्रेता॒ जय॑ता नर॒ऽइन्द्रो॑ वः॒ शर्म॑ यच्छतु। उ॒ग्रा वः॑ सन्तु बा॒हवो॑ऽनाधृ॒ष्या यथास॑थ ॥४६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्र। इ॒त॒। जय॑त। न॒रः॒। इन्द्रः॑। वः॒। शर्म॑। य॒च्छ॒तु॒। उ॒ग्राः। वः॒। स॒न्तु॒। बा॒हवः॑। अ॒ना॒धृ॒ष्याः। यथा॑। अस॑थ। ४६।
महीधरः
म० मरुद्देवत्या त्रिष्टुप् । हे मरुतः, या प्रसिद्धा असौ परेषां शत्रूणां सेना नोऽस्मानभि आ एति अभ्यागच्छति । कीदृशी । ओजसा बलेन स्पर्धमाना स्पर्धां कुर्वाणा तां सेनां तमसा अन्धकारेण यूयं गूहत संवृतां कुरुत । तथा गूहत यथा अमी सैनिका अन्योन्यं न जानन् परस्परं न जानीयुस्तथा गूहत । कीदृशेन तमसा । अपव्रतेन अपगतं व्रतं कर्म यस्मात् तेन । येन व्याप्तानां कर्म नश्यति तादृशेन तमसा गूहतेत्यर्थः ॥४७॥
अष्टचत्वारिंशी।
अधिमन्त्रम् (VC)
- योद्वा देवता
- अप्रतिरथ ऋषिः
- विराडार्ष्यनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (नरः) अनेक प्रकार के व्यवहारों को प्राप्त करनेवाले मनुष्यो ! तुम (यथा) जैसे शत्रुजनों को (इत) प्राप्त होओ, उन्हें (जयत) जीतो तथा (इन्द्रः) शत्रुओं को विदीर्ण करनेवाला सेनापति (वः) तुम लोगों के लिये (शर्म्म) घर (प्र, यच्छतु) देवे (वः) तुम्हारी (बाहवः) भुजा (उग्राः) दृढ़ (सन्तु) हों और (अनाधृष्याः) शत्रुओं से न धमकाने योग्य (असथ) होओ, वैसा प्रयत्न करो ॥४६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जो शत्रुओं को जीतनेवाले वीर हों, उनका सेनापति धन, अन्न, गृह और वस्त्रादिकों से निरन्तर सत्कार करे तथा सेनास्थ जन जैसे बली हों, वैसा व्यवहार अर्थात् व्यायाम और शस्त्र-अस्त्रों का चलाना सीखें ॥४६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे नरः ! यूयं यथा शत्रूनित जयत, इन्द्रो वः शर्म प्रयच्छतु, वो बाहव उग्राः सन्तु। अनाधृष्या असथ तथा प्रयतध्वम् ॥४६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। ये शत्रूणां विजेतारो वीरास्स्युस्तान् सेनापतिर्धनान्नगृहवस्त्रादिभिः सततं सत्कुर्यात्, सेनास्था जनाश्च यथा बलिष्ठाः स्युस्तथा व्यवहरेयुः ॥४६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. सेनापतीने शत्रूंना जिंकणाऱ्या वीर पुरुषांचा धन, अन्न, घर, वस्त्र देऊन सतत सत्कार करावा. सेनेतील लोकांची जशी शक्ती असेल तसा त्यांना व्यायाम व अस्त्रशस्त्र चालविणे शिकवावे.
४७ असौ या
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒सौ या सेना॑ मरुतः॒ परे॑षाम॒भ्यैति॑ न॒ऽओज॑सा॒ स्पर्द्ध॑माना। तां गू॑हत॒ तम॒साप॑व्रतेन॒ यथा॒मीऽअ॒न्योऽअ॒न्यन्न जा॒नन् ॥४७ ॥
मूलम् ...{Loading}...
अ॒सौ या सेना॑ मरुतः॒ परे॑षाम॒भ्यैति॑ न॒ऽओज॑सा॒ स्पर्द्ध॑माना। तां गू॑हत॒ तम॒साप॑व्रतेन॒ यथा॒मीऽअ॒न्योऽअ॒न्यन्न जा॒नन् ॥४७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒सौ। या। सेना॑। म॒रु॒तः॒। परे॑षाम्। अ॒भि। आ। एति॑। नः॒। ओज॑सा। स्पर्द्ध॑माना। ताम्। गू॒ह॒त॒। तम॑सा। अप॑व्रते॒नेत्यप॑ऽव्रतेन। यथा॑। अ॒मीऽइत्य॒मी। अ॒न्यः। अ॒न्यम्। न। जा॒नन्। ४७।
महीधरः
म० इन्द्रबृहस्पत्यदितिदेवत्या पङ्क्तिरष्टाक्षरपञ्चपादा । यत्र यस्मिन् युद्धे बाणाः शत्रुप्रयुक्ताः संपतन्ति इतश्चेतश्च संभूय पतन्ति । तत्र दृष्टान्तः । कुमारा विशिखा इव विगता शिखा येषां ते विशिखाः शिखारहिता मुण्डितमुण्डा विकीर्णकवचा वा अतिबालाश्चपलाः सन्तो यथा इतस्ततो गच्छन्ति तद्वत् । तत् तत्र युद्धे इन्द्रः नोऽस्मभ्यं शर्म विजयोत्थं सुखं यच्छतु ददातु । कीदृश इन्द्रः । बृहस्पतिः बृहतां मन्त्राणां पतिः पालकः विजयोचितमन्त्रज्ञः । अदितिः नास्ति दितिः खण्डनं यस्य अखण्डितशक्तिः । विश्वाहा विश्वान्सर्वान् शत्रून् आ समन्ताद्धन्तीति विश्वाहा । स शर्म यच्छतु इति पुनरुक्तिरादरार्था । यद्वा तत्र इन्द्रः बृहस्पतिरिन्द्रगुरुः अदितिरिन्द्रमाता च विश्वाहा सर्वाण्यहानि सर्वदा शर्म यच्छतु । विश्वानि च तान्यहानि च विश्वाहा विभक्तेराकारः । अत्यन्तसंयोगे द्वितीया ॥४८॥
एकोनपञ्चाशी।
अधिमन्त्रम् (VC)
- मरुतो देवताः
- अप्रतिरथ ऋषिः
- निचृदार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (मरुतः) ऋतु-ऋतु में यज्ञ करनेवाले विद्वानो ! तुम (या) जो (असौ) वह (परेषाम्) शत्रुओं की (स्पर्द्धमाना) ईर्ष्या करती हुई (सेना) सेना (ओजसा) बल से (नः) हम लोगों के (अभि, आ, एति) सन्मुख सब ओर से प्राप्त होती है, (ताम्) उसको (अपव्रतेन) छेदनरूप कठोर कर्म्म से और (तमसा) तोप आदि शस्त्रों के उठे हुए धूम वा मेघ (या) पहाड़ के आकार जो अस्त्र का धूम होता है, उससे (गूहत) ढाँपो (अमी) ये शत्रुसेनास्थ जन (यथा) जैसे (अन्यः, अन्यम्) परस्पर एक-दूसरे को (न) न (जानन्) जानें, वैसा पराक्रम करो ॥४७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जब युद्ध के लिये प्राप्त हुई शत्रुओं की सेनाओं से युद्ध करे, तब सब ओर से शस्त्र और अस्त्रों के प्रहार से उठी धूम-धूली आदि से उसको ढाँपकर जैसे ये शत्रुजन परस्पर अपने दूसरे को न जानें, वैसा ढंग सेनापति आदि को करना चाहिये ॥४७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मरुतः ! यूयं यासौ परेषां स्पर्द्धमाना सेनौजसा नोऽस्मानभ्यैति, तामपव्रतेन तमसा गूहत। अमी शत्रुसेनास्था जना यथा अन्योऽन्यं न जानन् तथा विक्रमध्वम् ॥४७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदा युद्धाय शत्रुसेनासु प्राप्तासु युद्धमाचरेत्, तदा सर्वतः शस्त्रास्त्रप्रहारोत्थधूमधूल्यादिना ता आच्छाद्य यथैते परस्परमपि न जानीयुस्तथा सेनापत्यादिभिर्विधेयम् ॥४७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जेव्हा युद्ध सुरू होते तेव्हा शत्रूसेनेवर चहूकडून शस्त्रास्त्रांचा मारा करावा. धूर, धूळ यांचे आच्छादन करावे. शत्रू एकमेकांना दिसणार नाहीत अशी युक्ती सेनापतीने योजावी.
४८ यत्र बाणाः
विश्वास-प्रस्तुतिः ...{Loading}...
यत्र॑ बा॒णाः स॒म्पत॑न्ति कुमा॒रा वि॑शि॒खाऽइ॑व। तन्न॒ऽइन्द्रो॒ बृह॒स्पति॒रदि॑तिः॒ शर्म॑ यच्छतु वि॒श्वाहा॒ शर्म॑ यच्छतु ॥४८ ॥
मूलम् ...{Loading}...
यत्र॑ बा॒णाः स॒म्पत॑न्ति कुमा॒रा वि॑शि॒खाऽइ॑व। तन्न॒ऽइन्द्रो॒ बृह॒स्पति॒रदि॑तिः॒ शर्म॑ यच्छतु वि॒श्वाहा॒ शर्म॑ यच्छतु ॥४८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यत्र॑। बा॒णाः। सं॒पत॒न्तीति॑ स॒म्ऽपत॑न्ति। कु॒मा॒राः। वि॒शि॒खाऽइ॒वेति॑ विशि॒खाःऽइ॑व। तत्। नः॒। इन्द्रः॑। बृह॒स्पतिः॑। अदि॑तिः। शर्म्म॑। य॒च्छ॒तु॒। वि॒श्वाहा॑। शर्म्म॑। य॒च्छ॒तु॒। ४८।
महीधरः
म०. ‘मर्माणि त इति कवचं प्रयच्छति’ (का० १३ । ३ । १०)। महाव्रते यागेऽध्वर्युः क्षत्रियाय सन्नाहं परिधानाय प्रयच्छतीत्यर्थः । सोमवरुणदेवत्या त्रिष्टुप् । हे यजमान, ते तव मर्माणि जीवस्थानानि वर्मणा कवचेनाहं छादयामि आवृणोमि । राजा विप्रादीनामधिपः सोमोऽमृतेन नास्ति मृतं मरणं येन तेन मरणनिवारकेणानेन वर्मणा त्वा त्वामनुवस्तामन्वाच्छादयतु । ‘वस आच्छादने’ अदादिः लोट् । तथा वरुणः ते तव वर्म उरोः पृथोरपि वरीयः उरुतरं प्रथीयः कृणोतु । अत्यन्तमुरु वरीयः। ईयसुनि ‘प्रस्थस्फ-(पा० ६। ४। १५७ ) इत्यादिना उरोर्वरादेशः । किंच देवाः जयन्तं विजयं प्राप्नुवन्तं त्वा त्वामनुमदन्तु अनुकूला भूत्वा हृष्यन्तु उत्साहयन्तु वा ॥ ४९ ॥
पञ्चाशी।
अधिमन्त्रम् (VC)
- इन्द्रबृहस्पत्यादयो देवताः
- अप्रतिरथ ऋषिः
- पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यत्र) जिस संग्राम में (विशिखा इव) विना चोटी के वा बहुत चोटियोंवाले (कुमाराः) बालकों के समान (बाणाः) बाण आदि शस्त्र अस्त्रों के समूह (संपतन्ति) अच्छे प्रकार गिरते हैं, (तत्) वहाँ (बृहस्पतिः) बड़ी सभा वा सेना का पालनेवाला (इन्द्रः) सेनापति (शर्म) आश्रय वा सुख के (यच्छतु) देवे और (अदितिः) नित्य सभासदों से शोभायमान सभा (विश्वाहा) सब दिन (नः) हम लोगों के लिये (शर्म) सुख सिद्ध करनेवाले घर को (यच्छतु) देवे ॥४८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे बालक इधर-उधर दौड़ते हैं, वैसे युद्ध के समय में योद्धा लोग भी चेष्टा करें। जो युद्ध में घायल, क्षीण, थके, पसीजे, छिदे, भिदे, कटे, फटे अङ्गवाले मूर्छित हों, उनको युद्धभूमि से शीघ्र उठा सुखालय (शफाखाने) में पहुँचा औषध पट्टी कर स्वस्थ करें और जो मर जावें, उनको विधि से दाह दें, राजजन उनके माता-पिता, स्त्री और बालकों की सदा रक्षा करें ॥४८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यत्र संग्रामे विशिखा कुमारा इव बाणाः संपतन्ति, तद् बृहस्पतिरिन्द्रः शर्म यच्छत्वदितिश्च विश्वाहा नः शर्म यच्छतु ॥४८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा बालका इतस्ततो धावन्ति, तथा युद्धसमये योद्धारोऽपि चेष्टन्ताम्। ये युद्धे क्षताः क्षीणाः श्रान्ताः क्लान्ताश्छिन्नभिन्नाङ्गा मूर्छिताश्च भवेयुस्तान् युद्धभूमेः सद्य उत्थाप्य सुखालयं नीत्वौषधादीनि कृत्वा स्वस्थान् कुर्युः। ये च म्रियेरँस्तान् विधिवद् दहेयुः। राजजनास्तेषां मातृपितृस्त्रीबालकादीनां सदा रक्षां कुर्युः ॥४८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. लहान मुले जशी इकडे तिकडे पळतात तसे योद्ध्यांनी लढाईच्या वेळी वर्तन करावे. जे युद्धात जखमी, क्षीण, थकलेले, घामेजलेले असतील व ज्यांच्या शरीरांना जखमा झालेल्या असतील व ज्यांचे अवयव तुटलेले मोडलेले असतील, तसेच जे मूर्च्छित असतील त्यांना युद्धभूमीवरून तत्काळ उपचार केंद्रात पोहोचवावे व औषधी देऊन मलमपट्टी करावी. जे मृत्यू पावले असतील त्यांचा दाहसंस्कार करावा व राजाने त्यांच्या आई-वडिलांचे व बालकांचे नेहमी रक्षण करावे.
४९ मर्माणि ते
विश्वास-प्रस्तुतिः ...{Loading}...
मर्मा॑णि ते॒ वर्म॑णा छादयामि॒ सोम॑स्त्वा॒ राजा॒मृते॒नानु॑ वस्ताम्। उ॒रोर्वरी॑यो॒ वरु॑णस्ते कृणोतु॒ जय॑न्तं॒ त्वानु॑ दे॒वा म॑दन्तु ॥४९ ॥
मूलम् ...{Loading}...
मर्मा॑णि ते॒ वर्म॑णा छादयामि॒ सोम॑स्त्वा॒ राजा॒मृते॒नानु॑ वस्ताम्। उ॒रोर्वरी॑यो॒ वरु॑णस्ते कृणोतु॒ जय॑न्तं॒ त्वानु॑ दे॒वा म॑दन्तु ॥४९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मर्मा॑णि। ते॒। वर्म॑णा। छा॒द॒या॒मि॒। सोमः॑। त्वा॒। राजा॑। अ॒मृते॑न। अनु॑। व॒स्ता॒म्। उ॒रोः। वरी॑यः। वरु॑णः। ते॒। कृ॒णो॒तु॒। जय॑न्तम्। त्वा॒। अनु॑। दे॒वाः। म॒द॒न्तु॒। ४९।
महीधरः
म०. ‘आद्रौदुम्बरीर्घृतोषितास्तिस्र उदेनमित्यादधाति प्रत्यृचम्’ (का० १८ । ३ । १९) । अशुष्का उदुम्बरतरूत्था रात्रौ घृते स्थिताः प्रादेशमात्रास्तिस्रः समिध ऋक्त्रयेण शालाद्वार्ये जुहोति ततोऽग्निप्रणयनमित्यर्थः । तिस्रोऽनुष्टुभः प्रथमाग्निदेवत्या द्वितीयेन्द्रदेवत्या तृतीया लिङ्गोक्तदेवता । हे घृतेनाहुत आज्येन सर्वतो हूयमान हे अग्ने, एनं यजमानमुत्तरां नय अतिशयेन उत् उत्तराम् तरबन्तादाम्प्रत्ययः । उत्कृष्टत्वमैश्वर्यं प्रापय । ऐश्वर्यमेवाह । रायस्पोषेण धनसमृद्ध्या संसृज संयोजय । प्रजया संतत्या पुत्रपौत्रादिकया च बहुं कृधि भूयांसं कुरु । बहुकुटुम्बं कुर्वित्यर्थः ॥ ५० ॥
एकपञ्चाशी।
अधिमन्त्रम् (VC)
- सोमवरुणादेवा देवताः
- अप्रतिरथ ऋषिः
- आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे युद्ध करानेवाले शूरवीर ! मैं (ते) तेरे (मर्माणि) मर्मस्थलों अर्थात् जो ताड़ना किये हुए शीघ्र मरण उत्पन्न करनेवाले शरीर के अङ्ग हैं, उनको (वर्मणा) देह की रक्षा करनेहारे कवच से (छादयामि) ढाँपता हूँ। यह (सोमः) शान्ति आदि गुणों से युक्त और (राजा) विद्या, न्याय तथा विनय आदि गुणों से प्रकाशमान राजा (अमृतेन) समस्त रोगों के दूर करनेवाली अमृतरूप ओषधि से (त्वा) तुझ को (अनु, वस्ताम्) पीछे ढाँपे (वरुणः) सबसे उत्तम गुणोंवाला राजा (ते) तेरे (उरोः) बहुत गुण और ऐश्वर्य से भी (वरीयः) अत्यन्त ऐश्वर्य को (कृणोतु) करे तथा (जयन्तम्) दुष्टों को पराजित करते हुए (त्वा) तुझे (देवाः) विद्वान् लोग (अनु, मदन्तु) अनुमोदित करें अर्थात् उत्साह देवें ॥४९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सेनापति आदि को चाहिये कि सब युद्धकर्त्ताओं के शरीर आदि की रक्षा सब ओर से करके इन को निरन्तर उत्साहित और अनुमोदित करें, जिससे निश्चय करके सब से विजय को पावें ॥४९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे योद्धः शूरवीर ! अहं ते मर्माणि वर्मणा छादयामि। अयं सोमो राजाऽमृतेन त्वानुवस्ताम्। वरुणस्त उरोर्वरीयः कृणोतु, जयन्तं त्वा देवा अनु मदन्तु ॥४९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सेनापत्यादिभिः सर्वेषां योद्धॄणां शरीरादिरक्षणं सर्वतः कृत्वैते सततं प्रोत्साहनीया अनुमोदनीयाश्च, यतो विश्वतो विजयं लभेरन् ॥४९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सेनापती इत्यादींनी सर्व युद्धवीरांच्या शरीरांचे रक्षण करावे व त्यांना सदैव उत्साहित करावे. त्यांना पािEठबा द्यावा. त्यामुळे ते निश्चितपणे विजय प्राप्त करतील.
५० उदेनमुत्तरां नयाग्ने
विश्वास-प्रस्तुतिः ...{Loading}...
उदे॑नमुत्त॒रां न॒याग्ने॑ घृतेनाहुत। रा॒यस्पोषे॑ण॒ सँसृ॑ज प्र॒जया॑ च ब॒हुं कृ॑धि ॥५० ॥
मूलम् ...{Loading}...
उदे॑नमुत्त॒रां न॒याग्ने॑ घृतेनाहुत। रा॒यस्पोषे॑ण॒ सँसृ॑ज प्र॒जया॑ च ब॒हुं कृ॑धि ॥५० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उत्। ए॒न॒म्। उ॒त्त॒रामित्यु॑त्ऽत॒राम्। न॒य॒। अग्ने॑। घृ॒ते॒न॒। आ॒हु॒तेत्या॑ऽहुत। रा॒यः। पोषे॑ण। सम्। सृ॒ज॒। प्र॒जयेति॑ प्र॒ऽजया॑। च॒। ब॒हुम्। कृ॒धि॒। ५०।
महीधरः
म० हे इन्द्र परमैश्वर्ययुक्त, इमं यजमानं प्रतरां नय अतिप्रकर्षः प्रतराम् प्रकृष्टमैश्वर्यं प्रापय । तदेव दर्शयति । सजातानां समानजातीयानां वशी वशयतीति वशी नियमनसमर्थो असत् भवतु । किंच एनं यजमानं वर्चसा संसृज तेजस्विनं कुरु । अयं यजमानो देवानां भागदा असत् भागं ददाति भागदाः यज्ञेषु देवानां भागप्रदाता भवतु ॥५१॥
द्विपञ्चाशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- अप्रतिरथ ऋषिः
- विराडार्ष्यनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (घृतेन) घृत से (आहुत) तृप्ति को प्राप्त हुए (अग्ने) प्रकाशयुक्त सेनापति तू (एनम्) इस जीतनेवाले वीर को (उत्तराम्) जिससे उत्तमता से संग्राम को तरें, विजय को प्राप्त हुई उस सेना को (उत्, नय) उत्तम अधिकार में पहुँचा (रायः, पोषेण) राजलक्ष्मी की पुष्टि से (सम्, सृज) अच्छे प्रकार युक्त कर (च) और (प्रजया) बहुत सन्तानों से (बहुम्) अधिकता को प्राप्त (कृधि) कर ॥५० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो सेना का अधिकारी वा भृत्य धर्मयुक्त युद्ध से दुष्टों को जीते, उसका सभा, सेना के पति धनादिकों से बहुत प्रकार सत्कार करें ॥५० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे घृतेनाहुताग्ने सेनापते ! त्वमेनमुत्तरामुन्नय रायस्पोषेण संसृज प्रजया च बहुं कृधि ॥५० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यः सेनाधिकारी भृत्यो वा धर्म्येण युद्धेन दुष्टान् विजयेत, तं सभासेनापतयो धनादिना बहुधा सत्कुर्युः ॥५० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जो सेनेचा अधिकारी किंवा सैनिक धर्मयुद्धाने दुष्टांना जिंकतो त्याचा सभा व सेनापती यांनी धन इत्यादीद्वारे चांगल्या प्रकारे सन्मान करावा.
५१ इन्द्रेमं प्रतराम्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रे॒मं प्र॑त॒रां न॑य सजा॒ताना॑मसद्व॒शी। समे॑नं॒ वर्चसा सृज दे॒वानां॑ भाग॒दाऽअ॑सत् ॥५१ ॥
मूलम् ...{Loading}...
इन्द्रे॒मं प्र॑त॒रां न॑य सजा॒ताना॑मसद्व॒शी। समे॑नं॒ वर्चसा सृज दे॒वानां॑ भाग॒दाऽअ॑सत् ॥५१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इन्द्रः॑। इ॒मम्। प्र॒त॒रामिति॑ प्रऽत॒राम्। न॒य॒। स॒जा॒ताना॒मिति॑ सऽजा॒ताना॑म्। अ॒स॒त्। व॒शी। सम्। ए॒न॒म्। वर्च॑सा। सृ॒ज॒। दे॒वाना॑म्। भा॒ग॒दा इति॑ भाग॒ऽदाः। अ॒स॒त्। ५१।
महीधरः
म० वयमृत्विजो यस्य यजमानस्य गृहे हविः कुर्मः पुरोडाशप्रधानं कर्म कुर्मः । हे अग्ने, तं यजमानं त्वं वर्धय । देवास्तस्मै तं यजमानमधिब्रुवन् अधिकं ब्रुवन्तु सर्वेभ्योऽधिकोऽयमिति । अयं यजमानश्च ब्रह्मणो वैदिककर्मणः पतिः पालको भवतु । यद्वा देवा अयं ब्रह्मणस्पतिरग्निश्च इममधिब्रुवन् तस्मै । द्वितीयार्थे चतुर्थी ॥ ५२ ॥
त्रिपञ्चाशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- अप्रतिरथ ऋषिः
- आर्ष्यनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) सुखों के धारण करनेहारे सेनापति ! तू (सजातानाम्) समान अवस्थावाले (देवानाम्) विद्वान् योद्धाओं के बीच (इमम्) विजय को प्राप्त होते हुए इस वीरजन को (प्रतराम्) जिससे शत्रुओं के बलों को हटावें उस नीति को (नय) प्राप्त कर, जिससे यह (वशी) इन्द्रियों को जीतनेवाला (असत्) हो और (एनम्) इसको (वर्चसा) विद्या के प्रकाश से (सम्, सृज) संसर्ग करा, जिससे यह (भागदाः) अलग-अलग यथायोग्य भागों का देनेवाला (असत्) हो ॥५१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - युद्ध में भृत्यजन शत्रुओं के जिन पदार्थों को पावें, उन सबों को सभापति राजा स्वीकार न करे, किन्तु उनमें से यथायोग्य सत्कार के लिये योद्धाओं को सोलहवाँ भाग देवे। वे भृत्यजन जितना कुछ भाग पावें, उस का सोलहवाँ भाग राजा के लिये देवें। जो सब सभापति आदि जितेन्द्रिय हों तो उनका कभी पराजय न हो, जो सभापति अपने हित को किया चाहे तो लड़नेहारे भृत्यों का भाग आप न लेवे ॥५१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे इन्द्रः ! त्वं सजातानां देवानामिमं प्रतरां नय यतोऽयं वश्यसत्। एनं वर्चसा संसृज यतोऽयं भागदा असत् ॥५१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - युद्धे भृत्याः शत्रूणां यान् पदार्थान् प्राप्नुयुः, तान् सर्वान् सभापती राजा न स्वीकुर्यात्। किन्तु तेषां मध्याद् यथायोग्यं सत्काराय योद्धृभ्यो षोडशांशं प्रदद्याद्, यावतः पदार्थान् भृत्याः प्राप्नुयुस्तावतां षोडशांशं राज्ञे प्रदद्युः। यदि सर्वे सभेशादयो जितेन्द्रियाः स्युस्तर्ह्येतेषां कदापि पराजयो न स्यात्, यदि सभेशः स्वहितं चिकीर्षेत् तर्हि योद्धॄणामंशं स्वयं न स्वीकुर्यात् ॥५१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - युद्धात सैनिकांनी जे पदार्थ जिंकून घेतलेले असतील त्या सर्वच्या सर्व वस्तूंचा राजाने स्वीकार करू नये. त्यापैकी सोळावा भाग सत्कार म्हणून योद्ध्यांना द्यावा व ज्या सैनिकांना जेवढा भाग मिळेल त्याचा सोळावा भाग राजाला द्यावा. जर सर्व राजे जितेंद्रिय असतील तर त्यांचा पराजय कधीच होत नाही त्यासाठी राजाने आपल्या हितासाठी लढणाऱ्या सैनिकांचा हिस्सा स्वतः घेऊ नये.
५२ यस्य कुर्मो
विश्वास-प्रस्तुतिः ...{Loading}...
यस्य॑ कु॒र्मो गृ॒हे ह॒विस्तम॑ग्ने वर्द्धया॒ त्वम्। तस्मै॑ दे॒वाऽअधि॑ब्रुवन्न॒यं च॒ ब्रह्म॑ण॒स्पतिः॑ ॥५२ ॥
मूलम् ...{Loading}...
यस्य॑ कु॒र्मो गृ॒हे ह॒विस्तम॑ग्ने वर्द्धया॒ त्वम्। तस्मै॑ दे॒वाऽअधि॑ब्रुवन्न॒यं च॒ ब्रह्म॑ण॒स्पतिः॑ ॥५२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यस्य॑। कु॒र्मः। गृ॒हे। ह॒विः। तम्। अ॒ग्ने॒। व॒र्द्ध॒य॒। त्वम्। तस्मै॑। दे॒वाः। अधि॑। ब्रु॒व॒न्। अ॒यम्। च॒। ब्रह्म॑णः। पतिः॑। ५२।
महीधरः
म० ‘त्रिरुक्तायामुद्यम्योदुत्वेति’ (का० १८।३ । १८)। होत्रा प्रथमायामृचि त्रिःपठितायां सत्यां प्रतिप्रस्थाता उदुत्वेति मन्त्रेण प्रदीप्तमिध्मं शालाद्वार्यादूर्ध्वमुत्पादयतीत्यर्थः । व्याख्याता (अ० १२ । क० ३१)॥ ५३ ॥
चतुःपञ्चाशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- अप्रतिरथ ऋषिः
- निचृदार्ष्यनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब पुरोहित ऋत्विज् और यजमान के कृत्य को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्वान् पुरोहित ! हम लोग (यस्य) जिस राजा के (गृहे) घर में (हविः) होम (कुर्मः) करें, (तम्) उसको (त्वम्) तू (वर्द्धय) बढ़ा अर्थात् उत्साह दे तथा (देवाः) दिव्य गुणवाले ऋत्विज् लोग (तस्मै) उसको (अधि, ब्रुवन्) अधिक उपदेश करें (च) और (अयम्) यह (ब्रह्मणः) वेदों का (पतिः) पालन करनेहारा यजमान भी उन को शिक्षा देवे ॥५२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - पुरोहित का वह काम है कि जिससे यजमान की उन्नति हो और जो, जिसका, जितना, जैसा काम करे, उसको उसी ढंग उतना ही नियम किया हुआ मासिक धन देना चाहिये। सब विद्वान् जन सब के प्रति सत्य का उपदेश करें और राजा भी सत्योपदेश करे ॥५२ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ पुरोहितर्त्विग्यजमानकृत्यमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! वयं यस्य गृहे हविष्कुर्मस्तं त्वं वर्धय, देवास्तस्मा अधि ब्रुवन्। अयं ब्रह्मणस्पतिश्च तानधिब्रवीतु ॥५२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - पुरोहितस्य तत् कर्मास्ति यतो यजमानस्योन्नतिस्स्याद्, यो यस्य यादृशं यावच्च कर्म कुर्यात्, तस्मै तादृशं तावदेव मासिकं वेतनं देयम्। सर्वे विद्वांसः सर्वान् प्रति सत्युमपदिशेयू राजा च ॥५२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - यजमानाची उन्नती होईल असे कार्य पुरोहिताने करावे. जो आपले काम जसे करील त्याला त्याच नियमानुसार मासिक धन द्यावे. सर्व विद्वान लोकांनी सर्वांना सत्याचा उपदेश करावा व राजानेही सत्योपदेश करावा.
५३ उदु त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
उदु॑ त्वा॒ विश्वे॑ दे॒वाऽअग्ने॒ भर॑न्तु॒ चित्ति॑भिः। स नो॑ भव शि॒वस्त्वँ सु॒प्रती॑को वि॒भाव॑सुः ॥५३ ॥
मूलम् ...{Loading}...
उदु॑ त्वा॒ विश्वे॑ दे॒वाऽअग्ने॒ भर॑न्तु॒ चित्ति॑भिः। स नो॑ भव शि॒वस्त्वँ सु॒प्रती॑को वि॒भाव॑सुः ॥५३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उत्। ऊँ॒ऽइत्यूँ॑। त्वा॒। विश्वे॑। दे॒वाः। अग्ने॑। भर॑न्तु॒। चित्ति॑भि॒रिति॒ चित्ति॑ऽभिः। सः। नः॒। भ॒व॒। शि॒वः। त्वम्। सु॒प्रती॑क॒ इति॑ सु॒ऽप्रती॑कः। वि॒भाव॑सु॒रिति॑ वि॒भाऽव॑सुः। ५३।
महीधरः
म० ‘चित्यं प्रतिगच्छन्ति पञ्च दिशं’ (का० १८ । ३ । २४ - पाठभेदः) इति । ततो ब्रह्महोत्रध्वर्युप्रतिप्रस्थातृयजमानाः पञ्च दिश इत्याद्यृक्पञ्चकेन चित्यं प्रति गच्छन्ति । सर्वेषां मन्त्रपाठ इति कर्कः । अध्वर्युरेवेति हरिस्वामिन इत्यर्थः । यज्ञाग्निसाधनवादिन्यः पञ्च ऋचः । आद्ये द्वे त्रिष्टुभौ प्रथमा दिग्देवत्या । पञ्च दिशः प्राचीदक्षिणाप्रतीच्युदीचीमध्यारूपा देवीः देव्यो यज्ञमस्मदीयमवन्तु । कीदृश्यो दिशः । दैवीः दैव्यः देवानामिन्द्रयमवरुणसोमब्रह्मणां संवन्धिन्यो दैव्यः । तथा अमतिमस्मदीयप्रज्ञामायं दुर्मतिं दुष्टां मतिं पापविषयां बुद्धिमपबाधमानाः विनाशयन्त्यः । रायस्पोषे धनपुष्टौ यज्ञपतिं यजमानमाभजन्तीः आभजन्त्यः भागिनं कुर्वन्त्यः । किंच यज्ञोऽस्मदीयो रायो धनस्य पोषे पृष्टौ अधि अस्थात् अधिकं तिष्ठतु समृद्धोऽस्तु ॥ ५४ ॥
पञ्चपञ्चाशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- अप्रतिरथ ऋषिः
- विराडार्ष्यनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब सभापति के विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्वान् सभापति ! जिस (त्वा) तुझे (विश्वे) सब (देवाः) विद्वान् जन (चित्तिभिः) अच्छे-अच्छे ज्ञानों से (उद्भरन्तु) उत्कृष्टतापूर्वक धारण और उद्धार करें अर्थात् अपनी शिक्षा से तेरे अज्ञान को दूर करें (सः, उ) सोई (त्वम्) तू (नः) हम लोगों के लिये (शिवः) मङ्गल करनेहारा (सुप्रतीकः) अच्छी प्रतीति करनेवाले ज्ञान से युक्त तथा (विभावसुः) विविध प्रकार के विद्यासिद्धान्तों में स्थिर (भव) हो ॥५३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो जिनको विद्या देवें, वे विद्या लेनेवाले उन के सेवक हों ॥५३ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ सभापतिविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! सभेश यं त्वा विश्वे देवाश्चित्तिभिरुद्भरन्तु, स उ त्वं नः शिवः सुप्रतीको विभावसुर्भव ॥५३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये येभ्यो विद्यां दद्युस्ते तेषां सेवकाः स्युः ॥५३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे विद्वान राजा ! विद्वान लोक तुला जे ज्ञान देतात त्या ज्ञानाने तू सर्व लोकांचे कल्याण करून विविध प्रकारच्या विद्यांमध्ये स्थिर हो. विद्या प्राप्त करणारे विद्या देणाऱ्याचे सेवक बनावेत.
५४ पञ्च दिशो
विश्वास-प्रस्तुतिः ...{Loading}...
पञ्च॒ दिशो॒ दैवी॑र्य॒ज्ञम॑वन्तु दे॒वीरपाम॑तिं दुर्म॒तिं बाध॑मानाः। रा॒यस्पो॑षे य॒ज्ञप॑तिमा॒भज॑न्ती रा॒यस्पोषे॒ऽअधि॑ य॒ज्ञोऽअ॑स्थात् ॥५४ ॥
मूलम् ...{Loading}...
पञ्च॒ दिशो॒ दैवी॑र्य॒ज्ञम॑वन्तु दे॒वीरपाम॑तिं दुर्म॒तिं बाध॑मानाः। रा॒यस्पो॑षे य॒ज्ञप॑तिमा॒भज॑न्ती रा॒यस्पोषे॒ऽअधि॑ य॒ज्ञोऽअ॑स्थात् ॥५४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पञ्च॑। दिशः॑। दैवीः॑। य॒ज्ञम्। अ॒व॒न्तु॒। दे॒वीः। अप॑। अम॑तिम्। दु॒र्म॒तिमिति॑ दुःऽम॒तिम्। बाध॑मानाः। रा॒यः। पोषे॑। य॒ज्ञप॑ति॒मिति॑ य॒ज्ञऽप॑तिम्। आ॒भज॑न्ती॒रित्या॒ऽभज॑न्तीः। रा॒यः। पोषे॑। अधि॑। य॒ज्ञः। अ॒स्था॒त्। ५४।
महीधरः
म० आग्नेयी । दीव्यन्ति व्यवहरन्ति ब्रह्मलहोत्राध्वर्यवादिकर्मभिः प्रचरन्तीति देवा ऋत्विजो यत् यदा तप्तं धर्म ज्वलितं प्रवयं परिगृह्य परितः परीशासाभ्यामादायायजन्त यजन्ते । यदा च ऊर्जा हविर्लक्षणेनान्नेनायजन्त यजन्ते । यदोग्रहणात्तच्छब्दाध्याहारः । तदा अग्नौ समिद्धे सति दीप्यमाने सति उक्थपत्रः यज्ञो गृभीतः गृहीतः धारितः । ‘गृभीत इति धारित इत्येतत्’ (९।२।३ । ९) इति श्रुतेः। | उक्थानि शस्त्राणि पत्रं वाहनं यस्य स उक्थपत्रः । शस्त्रैरेव | यज्ञो वाह्यते । कीदृश उक्थपत्रः। ईड्यः। ईडितुं योग्यः स्तुत्यः। अधिमामहानः महयति पूजयति देवानिति मामहानः । | महतेर्विकरणव्यत्ययेन ‘जुहोत्यादिभ्यः श्लुः’ ‘श्लो’ (पा०६ । १ । १०) इति द्वित्वम् ‘तुजादीनां दीर्घोऽभ्यासस्य’ (पा० ६।१।७) इत्यभ्यासदीर्घः । यद्वा अधिको माम| हानो यजमानो यत्र यज्ञे । ‘यजमानो वै मामहानः’ (९।२। ३ । ९) इति श्रुतेः ॥ ५५ ॥
षट्पञ्चाशी।
अधिमन्त्रम् (VC)
- दिग् देवता
- अप्रतिरथ ऋषिः
- स्वराडार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब स्त्री-पुरुष के कृत्य को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अप, अमतिम्) अत्यन्त अज्ञान और (दुर्मतिम्) दुष्ट बुद्धि को (बाधमानाः) अलग करती हुर्इं (दैवीः) विद्वानों की ये (देवीः) दिव्य गुणवाली पण्डिता ब्रह्मचारिणी स्त्री (पञ्च, दिशः) पूर्व आदि चार और एक मध्यस्थ पाँच दिशाओं के तुल्य अलग-अलग कामों में बढ़ी हुई (रायः, पोषे) धन की पुष्टि करने के निमित्त (यज्ञपतिम्) गृहकृत्य वा राज्यपालन करनेवाले अपने स्वामी को (आभजन्तीः) सब प्रकार सेवन करती हुई (यज्ञम्) संगति करने योग्य गृहाश्रम को (अवन्तु) चाहें। जिससे यह (यज्ञः) गृहाश्रमः (रायः, पोषे) धन की पुष्टाई में (अधि, अस्थात्) अधिकता से स्थिर हो ॥५४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में लुप्तोपमालङ्कार है। जिस गृहाश्रम में धार्मिक विद्वान् और प्रशंसायुक्त पण्डिता स्त्री होती हैं, वहाँ दुष्ट काम नहीं होते। जो सब दिशाओं में प्रशंसित प्रजा होवें तो राजा के समीप औरों से अधिक ऐश्वर्य्य होवे ॥५४ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ स्त्रीपुरुषकृत्यमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - अपामतिं दुर्मतिं बाधमाना दैवीर्देवीः पञ्च दिश इव विस्तृता रायस्पोषे यज्ञपतिं स्वामिनामाभजन्ती- र्यज्ञमवन्तु यतोऽयं यज्ञो रायस्पोषेऽध्यस्थादधितिष्ठेत् ॥५४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र लुप्तोपमालङ्कारः। यत्र गृहाश्रमे धार्मिका विद्वांसः प्रशंसिता विदुष्यः स्त्रियश्च सन्ति, तत्र दुर्व्यसनानि न जायन्ते। यदि सर्वासु दिक्षु प्रशंसिताः प्रजा भवेयुस्तर्हि राज्ञः समीपेऽन्येभ्योऽधिकैश्वर्य्यं स्यात् ॥५४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात लुप्तोपमालंकार आहे. गृहस्थाश्रमात धार्मिक, विद्वान व प्रशंसा करण्यायोग्य विदुषी स्त्रिया जेथे असतात तेथे वाईट कर्म होत नाही. दश दिशांनी प्रशंसित अशी प्रजा असेल तर त्या राजाजवळ इतरांपेक्षा जास्त ऐश्वर्य असते.
५५ समिद्धेऽअग्नावधि मामहानऽउक्थपत्रऽईड्यो
विश्वास-प्रस्तुतिः ...{Loading}...
समि॑द्धेऽअ॒ग्नावधि॑ मामहा॒नऽउ॒क्थप॑त्र॒ऽईड्यो॑ गृभी॒तः। त॒प्तं घ॒र्म्मं प॑रि॒गृह्या॑यजन्तो॒र्जा यद्य॒ज्ञमय॑जन्त दे॒वाः ॥५५ ॥
मूलम् ...{Loading}...
समि॑द्धेऽअ॒ग्नावधि॑ मामहा॒नऽउ॒क्थप॑त्र॒ऽईड्यो॑ गृभी॒तः। त॒प्तं घ॒र्म्मं प॑रि॒गृह्या॑यजन्तो॒र्जा यद्य॒ज्ञमय॑जन्त दे॒वाः ॥५५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
समि॑द्ध॒ इति॒ सम्ऽइ॑द्धे। अ॒ग्नौ। अधि॑। मा॒म॒हा॒नः। म॒म॒हा॒न इति॑ ममहा॒नः। उ॒क्थप॑त्र॒ इत्यु॒क्थऽप॑त्रः। ईड्यः॑। गृ॒भी॒तः। त॒प्तम्। घ॒र्म्मम्। प॒रि॒गृह्येति॑ परि॒ऽगृह्य॑। अ॒य॒ज॒न्त॒। ऊ॒र्जा। यत्। य॒ज्ञम्। अय॑जन्त। दे॒वाः। ५५।
महीधरः
म० बृहती पङ्क्तिर्वाष्टत्रिंशदक्षरत्वात् । अग्निदेवत्या। एवं विधाय अग्नये यज्ञो भवतीति शेषः । कीदृशाय । दैव्याय देवानां हितो दैव्यस्तस्मै । धरतीति धर्ता तस्मै यागद्वारा जगतो धारयित्रे । जोषते जोष्टा सेविता तस्मै अस्मद्दत्तहविषः सेवित्रे । कीदृशो यज्ञः । देवश्रीः देवान् श्रयति हविर्दानेन सेवते देवश्रीः । श्रीमनाः श्रयते सेवते इन्द्रादीन् श्रीर्यजमानस्तस्मिन्मनोऽनुग्रहरूपं यस्य स श्रीमनाः । यद्वा श्रीर्मनसि यस्य । यद्वा भक्तेभ्यः श्रियं दातुं मनो यस्य । शतपयाः शतसंख्याकानि पयःप्रभृतीनि हवींषि यस्य सः । देवा ऋत्विज ईदृशं यज्ञाग्निं परिगृह्य यज्ञं प्रति आयन् प्राप्नुवन्ति । | किंच देवा दीप्यमाना ऋत्विजो देवेभ्योऽर्थाय अध्वर्यन्तः सन्तः अस्थुः अध्वरं कर्तुमिच्छन्तस्तिष्ठन्ति अध्वरमिच्छति अध्वर्यति ‘सुप आत्मनः क्यच्’ ‘कव्यध्वरपृतनस्यर्चि लोपः’ (पा० ७ । ४ । ३९) प्रति अध्वरान्तलोपः ॥ ५६ ॥
सप्तपञ्चाशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- अप्रतिरथ ऋषिः
- भुरिगार्षी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
यज्ञ कैसे करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोग जैसे (देवाः) विद्वान् जन (समिद्धे) अच्छे जलते हुए (अग्नौ) अग्नि में (यत्) जिस (यज्ञम्) अग्निहोत्र आदि यज्ञ को (अयजन्त) करते हैं, वैसे जो (अधि, मामहानः) अधिक और अत्यन्त सत्कार करने योग्य (उक्थपत्रः) जिसके कहने योग्य विद्यायुक्त वेद के स्तोत्र हैं, (ईड्यः) जो स्तुति करने तथा चाहने योग्य वा (गृभीतः) जिसको सज्जनों ने ग्रहण किया है, उस (तप्तम्) तापयुक्त (घर्मम्) अग्निहोत्र आदि यज्ञ को (ऊर्जा) बल से (परिगृह्य) ग्रहण करके (अयजन्त) किया करो ॥५५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को चाहिये कि संसार के उपकार के लिये जैसे विद्वान् लोग अग्निहोत्र यज्ञ का आचरण करते हैं, वैसे अनुष्ठान किया करें ॥५५ ॥
दयानन्द-सरस्वती (सं) - विषयः
यज्ञः कथं कर्त्तव्य इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यूयं यथा देवा समिद्धेऽग्नौ यद्यं यज्ञमयजन्त, तथा योऽधि मामहान उक्थपत्र ईड्यो गृभीतोऽस्ति, तं तप्तं घर्ममूर्जा परिगृह्यायजन्त ॥५५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैर्जगदुपकाराय यथा विद्वांसोऽग्निहोत्रादिकं यज्ञमनुतिष्ठन्ति, तथाऽयमनुष्ठातव्यः ॥५५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जगाच्या उपकारासाठी जसे विद्वान लोक अग्निहोत्र इत्यादी यज्ञ करतात तसे सर्व माणसांनी अनुष्ठान करावे.
५६ दैव्याय धर्त्रे
विश्वास-प्रस्तुतिः ...{Loading}...
दैव्या॑य ध॒र्त्रे जोष्ट्रे॑ देव॒श्रीः श्रीम॑नाः श॒तप॑याः। प॒रि॒गृह्य॑ दे॒वा य॒ज्ञमा॑यन् दे॒वा दे॒वेभ्यो॑ऽअध्व॒र्यन्तो॑ऽअस्थुः ॥५६ ॥
मूलम् ...{Loading}...
दैव्या॑य ध॒र्त्रे जोष्ट्रे॑ देव॒श्रीः श्रीम॑नाः श॒तप॑याः। प॒रि॒गृह्य॑ दे॒वा य॒ज्ञमा॑यन् दे॒वा दे॒वेभ्यो॑ऽअध्व॒र्यन्तो॑ऽअस्थुः ॥५६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दैव्या॑य। ध॒र्त्रे। जोष्ट्रे॑। दे॒व॒श्रीरिति॑ देव॒ऽश्रीः। श्रीम॑ना॒ इति॒ श्रीऽम॑नाः। श॒तप॑या॒ इति॑ श॒तऽप॑याः। प॒रि॒गृह्येति॑ परि॒ऽगृह्य॑। दे॒वाः। य॒ज्ञम्। आ॒य॒न्। दे॒वाः। दे॒वेभ्यः॑। अ॒ध्व॒र्यन्तः॑। अ॒स्थुः॒। ५६।
महीधरः
म० हविर्यज्ञदेवत्या बृहती । यज्ञो यत्र यस्मिन् काले हव्यं होतुं योग्यं हविः एति प्राप्नोति ततो यज्ञादुत्थिता वाका वाक्यानि ऋग्यजुःसामलक्षणानि आशिषोऽभीष्टार्थशंसनानि च नोऽस्मान् जुषन्ताम् सेवन्ताम् । यज्ञफलान्यस्मानालिङ्गन्त्वित्यर्थः । कीदृशं हविः । वीतं देवानामिष्टम् । ‘इष्टᳪं᳭ स्विष्टमित्येतत्’ (९।२ । ३ । ११) इति श्रुतेः । तथा शमिता ‘सुपां सु-’ (पा० ७।१।३९) इति तृतीयैकवचनस्य सु आदेशः । शमित्रा यजध्यै यष्टुं शमितं संस्कृतम् ‘तुमर्थे से-’ (पा० ३ । ४ । ९) इत्यादिना यजेस्तुमर्थे शध्यैप्रत्ययः । कीदृशो यज्ञः । तुरीयः चतुर्थः आदौ यजुर्जपः ततो होत्रा ऋचां पठनम् ततो ब्रह्मणोऽप्रतिरथजपः एवंच तुरीयो होमः । तथाच श्रुतिः ‘अध्वर्युः पुरस्ताद्यजूᳪं᳭षि जपति होता पश्चादृचोऽन्वाह ब्रह्मा दक्षिणतोऽप्रतिरथं जपत्येष एव तुरीयो यज्ञः’ ( ९ । २ । ३ । ११) इति । यद्वा आदावध्वर्युणा श्रावणम् तत् आग्नीध्रेण प्रत्याश्रावणम् यजेति ततोऽध्वर्योः प्रैषः ततो होतुर्वषट्कारः इति यज्ञश्चतुर्धा कल्प्यते ॥ ५७ ॥
अष्टपञ्चाशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- अप्रतिरथ ऋषिः
- विराडार्षी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब यज्ञ कैसे करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (अध्वर्य्यन्तः) अपने को यज्ञ की इच्छा करनेवाले (देवाः) विद्या के दाता विद्वान् लोग (देवेभ्यः) विद्वानों की प्रसन्नता के लिये गृहाश्रम वा अग्निहोत्रादि यज्ञ में (अस्थुः) स्थिर हों वा जैसे (दैव्याय) अच्छे-अच्छे गुणों में प्रसिद्ध हुए (धर्त्रे) धारणशील तथा (जोष्ट्रे) प्रीति करनेवाले होता के लिये (देवश्रीः) जो सेवन की जाती वह विद्यारूप लक्ष्मी विद्वानों में जिसकी विद्यमान हो (श्रीमनाः) जिसका कि लक्ष्मी में मन और (शतपयाः) जिसके सैकड़ों दूध आदि वस्तु हैं, वह यजमान वर्त्तमान है, वैसे (देवाः) विद्या के दाता तुम लोग विद्या को (परिगृह्य) ग्रहण करके (यज्ञम्) प्राप्त करने योग्य गृहाश्रम वा अग्निहोत्र आदि को (आयन्) प्राप्त होओ ॥५६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि धनप्राप्ति के लिये सदैव उद्योग करें, जैसे विद्वान् लोग धनप्राप्ति के लिये प्रयत्न करें, वैसे उनके अनुकूल मनुष्यों को भी यत्न करना चाहिये ॥५६ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ यज्ञः कथं कर्त्तव्य इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथाऽध्वर्यन्तो देवा विद्वांसो देवेभ्यो यज्ञेऽस्थुः, यथा दैव्याय धर्त्रे जोष्ट्रे होत्रे देवश्रीः श्रीमनाः शतपया यजमानो वर्त्तते, तथा देवा यूयं विद्याः परिगृह्य यजमायन् ॥५६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैः श्रीप्राप्तय उद्योगः सदैव कर्त्तव्यो यथा विद्वांसो धनलब्धये प्रयतेरंस्तद्वदनुप्रयतितव्यम् ॥५६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी धनप्राप्ती करण्यासाठी सदैव उद्योग करावा. जसे विद्वान लोक धन प्राप्त करण्यासाठी प्रयत्न करतात तसा इतर लोकांनीही प्रयत्न करावा.
५७ वीतं हविः
विश्वास-प्रस्तुतिः ...{Loading}...
वी॒तँ ह॒विः श॑मि॒तँ श॑मि॒ता य॒जध्यै॑ तु॒रीयो॑ य॒ज्ञो यत्र॑ ह॒व्यमेति॑। ततो॑ वा॒काऽआ॒शिषो॑ नो जुषन्ताम् ॥५७ ॥
मूलम् ...{Loading}...
वी॒तँ ह॒विः श॑मि॒तँ श॑मि॒ता य॒जध्यै॑ तु॒रीयो॑ य॒ज्ञो यत्र॑ ह॒व्यमेति॑। ततो॑ वा॒काऽआ॒शिषो॑ नो जुषन्ताम् ॥५७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वी॒तम्। ह॒विः। श॒मि॒तम्। श॒मि॒ता। य॒जध्यै॑। तु॒रीयः॑। य॒ज्ञः। यत्र॑। ह॒व्यम्। एति॑। ततः॑। वा॒काः। आ॒शिष॒ इत्या॒ऽऽशिषः॑। नः॒। जु॒ष॒न्ता॒म्। ५७।
महीधरः
म० अग्निदेवत्या त्रिष्टुप् । ज्योतिर्ज्योतीरूपोऽग्निः अजस्रं निरन्तरं प्रत्यहं पुरस्तात् पूर्वस्यां दिशि आहवनीयरूपेण होमार्थमुदयान् उद्गच्छति । उत्पूर्वस्य यातेर्लङि प्रथमाबहुवचनेनोरु आदेशाभावे रूपम् वचनव्यत्ययः ‘छदसि लुङ्लङ्लिटः’ (पा० ३।४।६) इति लङ् । कीदृशोऽग्निः । सूर्यरश्मिः सूर्यस्येव रश्मयः किरणा यस्य सः । यद्वा सूर्यश्चासौ रश्मिश्च । सूर्यरूपस्तद्रश्मिरूपश्चेत्यर्थः । हरिकेशः हरति दारिद्र्यमिति हरि हिरण्यम् । हिरण्यवर्णाः केशाः केशस्थानीया ज्वाला यस्य सः । सविता सौति सविता प्राणिनां तत्तद्व्यापारेषु प्रेरकः । तस्येदृशस्याग्नेः प्रसवे आज्ञायां पूषा पोषकः सूर्यः याति उदयास्तमयद्वारेणाटति । कीदृशः पूषा । विद्वान् स्वाधिकारमहोरात्रिवर्तनात्मकं जानन् । विश्वा विश्वानि भुवनानि भूतजातानि संपश्यन् सर्वान् लोकान् सम्यगवलोकयन् । गोपाः गोपायतीति गोपाः रक्षकः धर्मस्य ॥ ५८ ॥
एकोनषष्टी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- अप्रतिरथ ऋषिः
- निचृदार्षी बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (शमिता) शान्ति आदि गुणों से युक्त गृहाश्रमी (यजध्यै) यज्ञ करने के लिये (वीतम्) गमनशील (शमितम्) दुर्गुणों की शान्ति करनेवाले (हविः) होम करने योग्य पदार्थ को अग्नि में छोड़ता है जो (तुरीयः) चौथा (यज्ञः) प्राप्त करने योग्य यज्ञ है तथा (यत्र) जहाँ (हव्यम्) होम करने योग्य पदार्थ (एति) प्राप्त होता है (ततः) उन सबों से (वाकाः) जो कही जाती हैं, वे (आशिषः) इच्छासिद्धि (नः) हम लोगों को (जुषन्ताम्) सेवन करें, ऐसी इच्छा करो ॥५७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अग्निहोत्र आदि यज्ञ में चार पदार्थ होते हैं अर्थात् बहुत-सा पुष्टि, सुगन्धि, मिष्ट और रोग विनाश करनेवाला होम का पदार्थ, उसका शोधन, यज्ञ का करनेवाला तथा वेदी, आग, लकड़ी आदि। यथाविधि से हवन किया हुआ पदार्थ आकाश को जाकर फिर वहाँ से पवन वा जल के द्वारा आकर इच्छा की सिद्धि करनेवाला होता है, ऐसा मनुष्य को जानना चाहिये ॥५७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यः शमिता यजध्यै वीतं शमितं हविरग्नौ प्रक्षिपति, यस्तुरीयो यज्ञोऽस्ति, यत्र हव्यमेति, ततो वाका आशिषश्च नो जुषन्तामितीच्छत ॥५७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अग्निहोत्रादौ चत्वारः पदार्थाः सन्ति पुष्कलं पुष्टिसुगन्धिमिष्टगुणयुक्तं रोगनाशकं हविः, तच्छोधनं, यज्ञकर्त्ता, वेद्यग्न्यादिकं चेति। यथावद्धुतः पदार्थ आकाशं गत्वा पुनरावृत्येष्टसाधको भवतीति मनुष्यैर्मन्तव्यम् ॥५७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - अग्निहोत्र इत्यादी यज्ञामध्ये चार पदार्थ असतात. पुष्कळसे पुष्टिकारक, सुगंधी, मधुर, रोगनाशक होमाचे पदार्थ, त्यांची शुद्धी, यज्ञ करणारा याज्ञिक आणि वेदी, अग्नी समिधा इत्यादी. हवनातील पदार्थ, आकाशात जाऊन तेथून वायू व जलाद्वारे इच्छापूर्ती करतात हे माणसांनी जाणावे.
५८ सूर्यरश्मिर्हरिकेशः पुरस्तात्
विश्वास-प्रस्तुतिः ...{Loading}...
सूर्य॑रश्मि॒र्हरि॑केशः पु॒रस्ता॑त् सवि॒ता ज्योति॒रुद॑याँ॒२ऽअज॑स्रम्। तस्य॑ पू॒षा प्र॑स॒वे या॑ति वि॒द्वान्त्स॒म्पश्य॒न् विश्वा॒ भुव॑नानि गो॒पाः ॥५८ ॥
मूलम् ...{Loading}...
सूर्य॑रश्मि॒र्हरि॑केशः पु॒रस्ता॑त् सवि॒ता ज्योति॒रुद॑याँ॒२ऽअज॑स्रम्। तस्य॑ पू॒षा प्र॑स॒वे या॑ति वि॒द्वान्त्स॒म्पश्य॒न् विश्वा॒ भुव॑नानि गो॒पाः ॥५८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सूर्य॑रश्शि॒मरिति॒ सूर्य्य॑ऽरश्मिः। हरि॑केश॒ इति॒ हरि॑ऽकेशः। पु॒रस्ता॑त्। स॒वि॒ता। ज्योतिः॑। उत्। अ॒या॒न्। अज॑स्रम्। तस्य॑। पू॒षा। प्र॒स॒व इति॑ प्रऽस॒वे। या॒ति॒। वि॒द्वान्। सं॒पश्य॒न्निति॑ स॒म्ऽपश्य॑न्। विश्वा॑। भुव॑नानि। गो॒पाः। ५८।
महीधरः
म० ‘आग्नीध्रदेशाद्दक्षिणं पृष्ट्यासहितं पृश्न्यश्मानमुपदधाति विमान इति’ ( का० १८ । ३ १९ )। अध्वर्युराग्नीध्रगृहाद्दक्षिणदिशि पृष्ट्यासंलग्नं पृश्निं तनुं वृत्तं चित्रवर्णं वा पाषाणं विमान इति ऋग्द्वयेनोपदध्यादित्यर्थः । विश्वावसुदृष्टा आदित्यदेवत्या त्रिष्टुप् । आदित्याध्यासेनाश्मा स्तूयते । एषोऽश्मादित्यरूपेण दिवोऽन्तरिक्षस्य मध्ये आस्ते तिष्ठति ‘असौ वा आदित्योऽश्मा पृश्निरमुमेवैतदादित्यमुपदधाति’ (९ । २ । | ३ । १४ ) इति श्रुतेः । आहवनीयो द्युलोकः गार्हपत्यो भूलोकः तयोर्मध्ये आग्नीध्रमन्तरिक्षस्थानीयं तत्र स्थितत्वाद्दिवो मध्ये आस्ते । तथाच श्रुतिः ‘अन्तरेणाहवनीयं च गार्हपत्यं चोपदधात्ययं वै लोको गार्हपत्यो द्यौराहवनीय एतं तदिमौ लोकावन्तरेण दधाति तस्मादेष इमौ लोकावन्तरेण तपति’ (९ । २ । ३ । १४ । १५) इति | ॥ १४ ॥ आग्नीध्रवेलायामन्तरिक्षं वा आग्नीध्रमेतं तदन्तरिक्षे दधातीति । कीदृश एषः । विमानः विविधं मिमीत इति विमानः जगन्निर्माणसमर्थः । तथा रोदसी द्यावापृथिव्यौ अन्तरिक्षमापप्रिवान् तेजसा सर्वतः पूरितवान् ‘प्रा पूरणे’ क्वसु प्रत्ययः । स तथा स्तूयमान आदित्यरूपोऽश्मा विश्वाचीः वेदीः घृताचीः स्रुचश्चाभिचष्टे पश्यति यज्ञकर्तॄननुगृहीतुं कर्म पश्यतीत्यर्थः । विश्वं हविरञ्चितं स्थापितं यस्यामिति विश्वाची वेदिः । घृतमञ्चितं यस्यामिति घृताची स्रुक् । तथाच श्रुतिः ‘स विश्वाचीरभिचष्टे घृताचीरिति स्रुचश्चैतद्वेदीश्चाहेति’ (९। २। ३ । १७) । तथा पूर्वमिमं लोकमपरममुं लोकं च अन्तरा मध्ये स्थितानां जनानां केतुं चित्तं चाभिचष्टे सर्वजनाभिप्रायज्ञ इत्यर्थः । यद्वा विश्वाचीर्विश्वव्यापिनीर्दिशोऽभिचष्टे सर्वतः प्रकाशयति । यथा घृताचीर्घृतप्राप्तिहेतुभूता धेनूश्चाभिचष्टे । तथान्तरा ब्रह्माण्डमध्ये पूर्वमपरं च केतुमुदयास्तमयमध्यवर्तिनं बोधमभिचष्टे ॥ ५९॥
षष्टी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- अप्रतिरथ ऋषिः
- आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब अगले मन्त्र में सूर्य्यलोक के स्वरूप का कथन किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (पुरस्तात्) पहिले से (सविता) सूर्यलोक (ज्योतिः) प्रकाश को देता है, जिसमें (हरिकेशः) हरे रंगवाली (सूर्यरश्मिः) सूर्य्य की किरण वर्त्तमान हैं, जो (प्रसवे) उत्पन्न हुए जगत् में (अजस्रम्) निरन्तर (पूषा) पुष्टि करनेवाला है, जिसको (विद्वान्) विद्यायुक्त पुरुष (संपश्यन्) अच्छे प्रकार देखता हुआ उसकी विद्या को (याति) प्राप्त होता है, (तस्य) उसके सकाश से (गोपाः) संसार की रक्षा करनेवाले पृथिवी आदि लोक और तारागण भी (विश्वा) समस्त (भुवनानि) लोक-लोकान्तरों को (उदयान्) प्रकाशित करते हैं, वह सूर्य्यमण्डल अतिप्रकाशमय है, यह तुम जानो ॥५८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो यह सूर्य्यलोक है, उसके प्रकाश में श्वेत और हरी रङ्ग-विरङ्ग अनेक किरणें हैं, जो सब लोकों की रक्षा करती हैं, इसी से सब की सब प्रकार से सदा रक्षा होती है, यह जानने योग्य है ॥५८ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ सूर्य्यलोकस्वरूपमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यः पुरस्तात् सविता ज्योतिः प्रयच्छति, यस्मिन् हरिकेशः सूर्यरश्मिर्वर्तते, यः प्रसवेऽजस्रं पूषाऽस्ति, यं विद्वान् संपश्यन् सन् तद्विद्यां याति, तस्य सकाशाद् गोपा विश्वा भुवनान्युदयान्, स सूर्यमण्डलोऽतिप्रकाशमय इति यूयं वित्त ॥५८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - योऽयं सूर्यलोकस्तत्प्रकाशे शुक्लहरितादयोऽनेके किरणाः सन्ति, ये सर्वाल्ँ लोकानभिरक्षन्ति। अत एव सर्वस्य सर्वदा सर्वथा रक्षणं भवतीति वेद्यम् ॥५८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सूर्याच्या प्रकाशकिरणात रंगीबेरंगी श्वेत, हरित इत्यादी अनेक रंगांची किरणे आहेत. सर्व लोकांचे (ग्रहगोल इत्यादींचे) त्यामुळेच सर्व प्रकारे रक्षण होते हे सर्वांनी जाणले पाहिजे.
५९ विमानऽएष दिवो
विश्वास-प्रस्तुतिः ...{Loading}...
वि॒मान॑ऽए॒ष दि॒वो मध्य॑ऽआस्तऽआपप्रि॒वान् रोद॑सीऽअ॒न्तरि॑क्षम्। स वि॒श्वाची॑र॒भिच॑ष्टे घृ॒ताची॑रन्त॒रा पूर्व॒मप॑रं च के॒तुम् ॥५९ ॥
मूलम् ...{Loading}...
वि॒मान॑ऽए॒ष दि॒वो मध्य॑ऽआस्तऽआपप्रि॒वान् रोद॑सीऽअ॒न्तरि॑क्षम्। स वि॒श्वाची॑र॒भिच॑ष्टे घृ॒ताची॑रन्त॒रा पूर्व॒मप॑रं च के॒तुम् ॥५९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वि॒मान॒ इति॑ वि॒ऽमानः॑। ए॒षः। दि॒वः। मध्ये॑। आ॒स्ते॒। आ॒प॒प्रि॒वानित्या॑ऽपप्रि॒वान्। रोद॑सी॒ इति॒ रोद॑सी। अ॒न्तरि॑क्षम्। सः। वि॒श्वाचीः॑। अ॒भि। च॒ष्टे॒। घृ॒ताचीः॑। अ॒न्त॒रा। पूर्व॑म्। अप॑रम्। च॒। के॒तुम्। ५९।
महीधरः
म० अप्रतिरथदृष्टादित्यदेवत्या त्रिष्टुप् । य आदित्यः पूर्वस्य पूर्वदिशि स्थितस्य पितुर्द्युलोकस्य योनिं स्थानमाविवेश आविशति द्यौः पितेत्युक्तेः पितुःशब्देन द्युलोकः उदयसमये द्युलोकाज्जायमान उपलभ्यते सूर्य इति द्युलोकपूर्वभागः सूर्यस्य पितृभूत उच्यते । किंभूतः यः । उक्षा वृष्टिद्वारा सेक्ता । समुद्रः समुनत्ति क्लेदयति समुद्रः उदयकालेऽवश्यायपतनेन क्लेदनकर्ता । अरुणः उदयकाले अरुणवर्णः। सुपर्णः शोभनं पर्णं पतनं गमनं यस्य स सुपर्णः । यश्च दिवो मध्ये निहितोऽवस्थितः । पृश्निर्विचित्रवर्णः नानारश्मिसंकुलः । अश्मा अश्नुते व्याप्नोति नभ इत्यश्मा व्यापकः । एवंविधः सन् विचक्रमे विक्रमते नभः । यश्च विक्रममाणो रजसः रञ्जनस्य लोकत्रयस्य अन्तौ । वचनव्यत्ययः । अन्तान् पर्यन्तान् पाति रक्षति । यो ह्यन्तान् पाति स मध्यं पात्येवेत्यर्थः । अथाश्मपक्षे व्याख्यानम् । अयं पृश्निर्विचित्रवर्णोऽश्मा पाषाणः पितुः कर्मपालकस्य पूर्वस्य पूर्वदिग्वर्तिन आहवनीयस्य योनिं कारणभूतमाग्नीध्रमाविवेश प्रविष्टवान् यदाहवनीयमुद्वपेदाग्नीध्रादुद्धरेदित्याहवनीययोनित्वमाग्नीध्रस्याम्नातमन्यत्र । अयमश्मा दिवो मध्ये आग्नीध्रस्थानीयस्यान्तरिक्षस्य मध्ये निहितः स्थापितः सन् रजसो रञ्जनीयस्य जगतः अन्तौ उत्पत्तिप्रलयरूपकोटिद्वयं विचक्रमे पाति रक्षति च परमेश्वररूपेण । कीदृशोऽश्मा । उक्षा सेक्ता । यागद्वारेण फलाभिवर्षक इत्यर्थः । समुद्रः बहुफलप्रदत्वात्समुद्रसदृश इत्यर्थः । अरुणः पूर्वमन्त्रे सूर्यसाम्यात् सूर्यसदृशः । सुपर्णः स्वर्गं प्रत्युद्गमनहेतुत्वात् पक्षिसदृशः ॥ ६० ॥
एकषष्टी।
अधिमन्त्रम् (VC)
- आदित्यो देवता
- विश्वावसुर्ऋषिः
- आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब ईश्वर ने किसलिये सूर्य का निर्माण किया है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - विद्यावान् पुरुष जो (एषः) यह सूर्य्यमण्डल (दिवः) प्रकाश के (मध्ये) बीच में (विमानः) विमान अर्थात् जो आकाशादि मार्गों में आश्चर्य्यरूप से चलनेहारा है, उसके समान और (रोदसी) प्रकाश-भूमि और (अन्तरिक्षम्) अवकाश को (आपप्रिवान्) अपने तेज से व्याप्त हुआ (आस्ते) स्थिर हो रहा है, (सः) वह (विश्वाचीः) जो संसार को प्राप्त होती अर्थात् अपने उदय से प्रकाशित करतीं वा (घृताचीः) जल को प्राप्त कराती हैं, उन अपनी द्युतियों अर्थात् प्रकाशों को विस्तृत करता है, (पूर्वम्) आगे दिन (अपरम्) पीछे रात्रि (च) और (अन्तरा) दोनों के बीच में (केतुम्) सब लोकों के प्रकाशक तेज को (अभिचष्टे) देखता है, उसे जाने ॥५९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो सूर्य्यलोक ब्रह्माण्ड के बीच स्थित हुआ अपने प्रकाश से सब को व्याप्त हो रहा है, वह सब का अच्छा आकर्षण करनेवाला है, ऐसा मनुष्यों को जानना चाहिये ॥५९ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथेश्वरेण किमर्थः सूर्यो निर्मित इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - विद्वान् य एष दिवो मध्ये विमानो रोदसी अन्तरिक्षमापप्रिवान् सन्नास्ते, स विश्वाचीर्घृताचीर्द्युती- र्विस्तारयति, पूर्वमपरमन्तरा च केतुमभिचष्टे, तं विजानीयात् ॥५९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यः सूर्यलोको ब्रह्माण्डमध्ये स्थितः सन् स्वप्रकाशेन सर्वमभिव्याप्नोति, स सर्वाभिकर्षको वर्त्तत इति मनुष्यैर्वेद्यम् ॥५९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सूर्य ब्रह्मांडामध्ये स्थिर असून आपल्या प्रकाशाने सर्वत्र व्याप्त आहे. तो सर्वांचे आकर्षण करतो हे माणसांनी जाणले पाहिजे.
६० उक्षा समुद्रोऽअरुणः
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒क्षा स॑मु॒द्रोऽअ॑रु॒णः सु॑प॒र्णः पूर्व॑स्य॒ योनिं॑ पि॒तुरावि॑वेश। मध्ये॑ दि॒वो निहि॑तः॒ पृश्नि॒रश्मा॒ वि च॑क्रमे॒ रज॑सस्पा॒त्यन्तौ॑ ॥६० ॥
मूलम् ...{Loading}...
उ॒क्षा स॑मु॒द्रोऽअ॑रु॒णः सु॑प॒र्णः पूर्व॑स्य॒ योनिं॑ पि॒तुरावि॑वेश। मध्ये॑ दि॒वो निहि॑तः॒ पृश्नि॒रश्मा॒ वि च॑क्रमे॒ रज॑सस्पा॒त्यन्तौ॑ ॥६० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उ॒क्षा। स॒मु॒द्रः। अ॒रु॒णः। सु॒प॒र्ण इति॑ सुऽप॒र्णः। पूर्व॑स्य। योनि॑म्। पि॒तुः। आ। वि॒वे॒श॒। मध्ये॑। दि॒वः। निहि॑त॒ इति॒ निऽहि॑तः। पृश्निः॑। अश्मा॑। वि। च॒क्र॒मे॒। रज॑सः। पा॒ति॒। अन्तौ॑। ६०।
महीधरः
म० निधायैनमतिक्रामन्तीन्द्रं विश्वा इति’ (का० १८ । ३ । २७)। एनं पृश्न्यश्मानं क्वचिद् गुप्ते देशे स्थापयित्वा सर्वे चयनं प्रति गच्छन्ति इन्द्रं विश्वा इत्याद्यृक्चतुष्टयेनेत्यर्थः । व्याख्याता (अ० १२ । क० ५६ ) ॥ ६१॥
द्विषष्टी।
अधिमन्त्रम् (VC)
- आदित्यो देवता
- अप्रतिरथ ऋषिः
- निचृदार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो परमेश्वर ने (दिवः) प्रकाश के (मध्ये) बीच में (निहितः) स्थापित किया हुआ (उक्षा) वृष्टि-जल से सींचनेवाला (समुद्रः) जिससे कि अच्छे प्रकार जल गिरते हैं, (अरुणः) जो लाल रङ्गवाला तथा (सुपर्णः) जिससे कि अच्छी पालना होती है, (पृश्निः) वह विचित्र रङ्गवाला सूर्यरूप तेज और (अश्मा) मेघ (रजसः) लोकों को (अन्तौ) बन्धन के निमित्त (वि, चक्रमे) अनेक प्रकार घूमता तथा (पाति) रक्षा करता है तथा (पूर्वस्य) जो पूर्ण (पितुः) इस सूर्य्यमण्डल के तेज को उत्पन्न करनेवाला बिजुलीरूप अग्नि है, उसके (योनिम्) कारण में (आ, विवेश) प्रवेश करता है, वह सूर्य्य और मेघ अच्छे प्रकार उपयोग करने योग्य हैं ॥६० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को ईश्वर के अनेक धन्यवाद कहने चाहियें, क्योंकि जिस ईश्वर ने अपने जानने के लिये जगत् की रक्षा का कारणरूप सूर्य्य आदि दृष्टान्त दिखाया है, वह कैसे न सर्वशक्तिमान् हो ॥६० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! य ईश्वरेण दिवो मध्ये निहित उक्षा समुद्रोऽरुणः सुपर्णः पृश्निरश्मा मेघश्च रजसोऽन्तौ विचक्रमे पाति च पूर्वस्य पितुर्योनिमाविवेश, स सम्यगुपयोक्तव्यः ॥६० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैरीश्वरस्यानेके धन्यवादा वाच्याः, कुतो येन स्वविज्ञापनाय जगत्पालननिमित्तः सूर्यादिदृष्टान्तः प्रदर्शितः, स कथं न सर्वशक्तिमान् भवेत् ॥६० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी ईश्वराबद्दल कृतज्ञता बाळगली पाहिजे. कारण ज्या ईश्वराने माणसांना जाणावे यासाठी जगाचा रक्षक असा कारणरूपी सूर्य निर्माण करून जणू दृष्टांतच दिलेला आहे, तर मग असा परमेश्वर सर्वशक्तिमान कसा नसेल?
६१ इन्द्रं विश्वाऽअवीवृधन्त्समुद्रव्यचसम्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रं॒ विश्वा॑ऽअवीवृधन्त्समु॒द्रव्य॑चसं॒ गिरः॑। र॒थी॒त॑मँ र॒थीनां॒ वाजा॑नाँ॒ सत्प॑तिं॒ पति॑म् ॥६१ ॥
मूलम् ...{Loading}...
इन्द्रं॒ विश्वा॑ऽअवीवृधन्त्समु॒द्रव्य॑चसं॒ गिरः॑। र॒थी॒त॑मँ र॒थीनां॒ वाजा॑नाँ॒ सत्प॑तिं॒ पति॑म् ॥६१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इन्द्र॑म्। विश्वाः॑। अ॒वी॒वृ॒ध॒न्। स॒मु॒द्रव्य॑चस॒मिति॑ समु॒द्रऽव्य॑चसम्। गिरः॑। र॒थीत॑मम्। र॒थीत॑म॒मिति॑ र॒थिऽत॑मम्। र॒थीना॑म्। र॒थिना॒मिति॑ र॒थिना॑म्। वाजा॑नाम्। सत्प॑ति॒मिति॒ सत्ऽप॑तिम्। पति॑म्। ६१।
महीधरः
म० विधृतिदृष्टा यज्ञदेवत्यानुष्टुप् । देवानाह्वयतीति देवहूः देवानामाह्वाता यज्ञो देवानावक्षत् आवहतु । चकारः समुच्चये । यजतु च । सुम्नं सुखं धनपुत्रकलत्राद्युत्थमाह्वयति सुम्नहूः सुखकरो यज्ञो देवानावक्षत् आवहतु । अग्निर्देवश्च देवानावक्षत् आवहतु यक्षत् यजतु च । वक्षत् यक्षत् वहतेर्यजेश्व ‘सिब्बहुलं लेटि’ (पा. ३ । १। ३४ ) सिप्प्रत्ययः ‘लेटोऽडाटौ’ (पा० ३ । ४ । ९४ ) इत्यडागमः ‘इतश्च लोपः’ । (पा० ३ । ४ । ९७ ) इति तिप इकारलोपः ॥ ६२॥
त्रिषष्टी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- मधुच्छन्दा ऋषिः। सुतजेता ऋषिः
- निचृदार्ष्यनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर जगत् बनानेवाले ईश्वर के गुणों को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम जिस (समुद्रव्यचसम्) अन्तरिक्ष की व्याप्ति के समान व्याप्तिवाले (रथीनाम्) प्रशंसायुक्त सुख के हेतु पदार्थवालों में (रथीतमम्) अत्यन्त प्रशंसित सुख के हेतु पदार्थों से युक्त (वाजानाम्) ज्ञानी आदि गुणी जनों के (पतिम्) स्वामी (सत्पतिम्) विनाशरहित वा विनाशरहित कारण और जीवों के पालनेहारे (इन्द्रम्) परमात्मा को (विश्वाः) समस्त (गिरः) वाणी (अवीवृधन्) बढ़ाती अर्थात् विस्तार से कहती हैं, उस परमात्मा की निरन्तर उपासना करो ॥६१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सब मनुष्यों को चाहिये कि सब वेद जिसकी प्रशंसा करते, योगीजन जिसकी उपासना करते और मुक्त पुरुष जिसको प्राप्त होकर आनन्द भोगते हैं, उसी को उपासना के योग्य इष्टदेव मानें ॥६१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्जगत्स्रष्टुरीश्वरस्य गुणानाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यूयं यं समुद्रव्यचसं रथीनां रथीतमं वाजानां पतिं सत्पतिमिन्द्रं परमात्मानं विश्वा गिरोऽवीवृधँस्तं सततमुपाध्वम् ॥६१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सर्वैर्मनुष्यैर्यं सर्वे वेदाः प्रशंसन्ति, यं योगिन उपासते, यं प्राप्य मुक्ता आनन्दं भुञ्जते, स एव उपास्य इष्टो देवो मन्तव्यः ॥६१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सर्व वेद ज्याची प्रशंसा करतात, योगी ज्याची उपासना करतात व मुक्त पुरुष ज्याच्या प्राप्तीमुळे आनंद भोगतात त्याचीच उपासना करून माणसांनी त्यालाच इष्टदेव मानावे.
६२ देवहूर्यज्ञऽआ च
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒व॒हूर्य॒ज्ञऽआ च॑ वक्षत् सुम्न॒हूर्य॒ज्ञऽआ च॑ वक्षत्। यक्ष॑द॒ग्निर्दे॒वो दे॒वाँ२ऽआ च॑ वक्षत् ॥६२ ॥
मूलम् ...{Loading}...
दे॒व॒हूर्य॒ज्ञऽआ च॑ वक्षत् सुम्न॒हूर्य॒ज्ञऽआ च॑ वक्षत्। यक्ष॑द॒ग्निर्दे॒वो दे॒वाँ२ऽआ च॑ वक्षत् ॥६२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दे॒व॒हूरिति॑ देव॒ऽहूः। य॒ज्ञः। आ। च॒। व॒क्ष॒त्। सु॒म्न॒हूरिति॑ सुम्न॒ऽहूः। य॒ज्ञः। आ। च॒। व॒क्ष॒त्। यक्ष॑त्। अ॒ग्निः। दे॒वः। दे॒वान्। आ। च॒। व॒क्ष॒त्। ६२।
महीधरः
म० इन्द्रदेवत्यानुष्टुप् । वाजस्यान्नस्य प्रसवः प्रसूतिः उत्पत्तिः अनुज्ञा वा उद्ग्राभेण ‘हृग्रहोर्भश्छन्दसि’ उद्ग्राभेण उद्ग्रहणेन ऊर्ध्वं विगृह्य दीयत इत्युद्ग्रहणं दानं तेन मामुदग्रभीत् उदग्रहीत् उद्गृह्णातु । अध अथ निग्राभेण निग्राहेण नीचैर्ग्रहणेन नीचैर्हस्तं कृत्वा भिक्षादिः प्रार्थ्यते याचिष्णुतया अन्नाभावेन वा इन्द्रो मे मम सपत्नान् शत्रूनधरानधमान् तिरस्कृतान् अकः करोतु मां दातारं करोतु । शत्रून् भिक्षून् करोत्वित्यर्थः । करोतेर्लङि ‘बहुलं छन्दसि’ (पा० २ । ४ । ७३ ) शपि लुप्ते गुणे तिपि लुप्ते अक इति रूपम् ॥ ६३ ॥
चतुःषष्टी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- विधृतिर्ऋषिः
- निचृदार्ष्यनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर ईश्वर कैसा है, यह अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (देवहूः) विद्वानों को बुलाने (यज्ञः) पूजा करने योग्य ईश्वर हम लोगों को सत्य (आ, वक्षत्) उपदेश करे (च) और असत्य से हमारा उद्धार करे वा जो (सुम्नहूः) सुखों को बुलानेवाला (यज्ञः) पूजन करने योग्य ईश्वर हम लोगों के लिये सुखों को (आ, वक्षत्) प्राप्त करे (च) और दुःखों का विनाश करे वा जो (अग्निः) आप प्रकाशमान (देवः) समस्त सुख का देनेवाला ईश्वर हम लोगों को (देवान्) उत्तम गुणों वा भोगों को (यक्षत्) देवे (च) और (आ, वक्षत्) पहुँचावे अर्थात् कार्य्यान्तर से प्राप्त करे, उसको आप लोग निरन्तर सेवो ॥६२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो उत्तम शास्त्र जाननेवाले विद्वानों से उपासना किया जाता तथा जो सुखस्वरूप और मङ्गल कार्य्यों का देनेवाला परमेश्वर है, उसकी समाधियोग से मनुष्य उपासना करें ॥६२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनरीश्वरः कीदृशोऽस्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यो देवहूर्यज्ञ ईश्वरोऽस्मान् सत्यमावक्षत्, चादसत्यादुद्धरेत्। यः सुम्नहूर्यज्ञोऽस्मभ्यं सुखान्यावक्षत्, दुःखानि च नाशयेत्। योऽग्निर्देवोऽस्मान् देवान् यक्षदावक्षच्च तं भवन्तः सततं सेवन्ताम् ॥६२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - य आप्तैर्विद्वद्भिरुपास्यते, यश्च सुखस्वरूपो मङ्गलप्रदः परमेश्वरोऽस्ति, तं समाधियोगेन मनुष्या उपासीरन् ॥६२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - उत्तम शास्त्र जाणणाऱ्या विद्वानांकडून उपासनीय, सुखस्वरूप व कल्याणमय अशा परमेश्वराची समाधी योगाद्वारे सर्व माणसांनी उपासना केली पाहिजे.
६३ वाजस्य मा
विश्वास-प्रस्तुतिः ...{Loading}...
वाज॑स्य मा प्रस॒वऽउ॑द्ग्रा॒भेणोद॑ग्रभीत्। अधा॑ स॒पत्ना॒निन्द्रो॑ मे निग्रा॒भेणाध॑राँ२ऽअकः ॥६३ ॥
मूलम् ...{Loading}...
वाज॑स्य मा प्रस॒वऽउ॑द्ग्रा॒भेणोद॑ग्रभीत्। अधा॑ स॒पत्ना॒निन्द्रो॑ मे निग्रा॒भेणाध॑राँ२ऽअकः ॥६३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वाज॑स्य। मा॒। प्र॒स॒व इति॑ प्रऽस॒वः उ॒द्ग्रा॒भेणेत्यु॑त्ऽग्रा॒भेण॑। उत्। अ॒ग्र॒भी॒त्। अध॑। स॒पत्ना॒निति॑ स॒ऽपत्ना॑न्। इन्द्रः॑। मे॒। नि॒ग्रा॒भेणेति॑ निऽग्रा॒भेण॑। अध॑रान्। अ॒क॒रित्य॑कः। ६३।
महीधरः
म० इन्द्राग्निदेवत्यानुष्टुप् । देवा उद्ग्राभमुद्ग्राहमस्मद्विषयमुत्कर्षं निग्राभं निग्राहं शत्रुविषयमपकर्षं ब्रह्म त्रयीलक्षणं यज्ञविषयमवीवृधन्वर्धयन्तु । अध अथानन्तरं मे मम सपत्नान् शत्रून् विषूचीनान् विष्वगञ्चनान्नानागतीन्कृत्वा इन्द्राग्नी द्वौ व्यस्यतां विनाशयेतामपुनरागमनाय क्षिपतामित्यर्थः ॥ ६४ ॥
पञ्चषष्टी ।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- विधृतिर्ऋषिः
- निचृदार्ष्यनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (इन्द्रः) पालन करनेवाला (वाजस्य) विशेष ज्ञान का (प्रसवः) उत्पन्न करनेवाला ईश्वर (मा) मुझे (उद्ग्राभेण) अच्छे ग्रहण करने के साधन से (उद्, अग्रभीत्) ग्रहण करे, वैसे जो (अध) इसके पीछे उसके अनुसार पालना करने और विशेष ज्ञान सिखानेवाला पुरुष (मे) मेरे (सपत्नान्) शत्रुओं को (निग्राभेण) पराजय से (अधरान्) नीचे गिराया (अकः) करे, उसको तुम लोग भी सेनापति करो ॥६३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे ईश्वर पालना करे, वैसे जो मनुष्य पालना के लिये धार्मिक मनुष्यों को अच्छे प्रकार ग्रहण करते और दण्ड देने के लिये दुष्टों को निग्रह अर्थात् नीचा दिखाते हैं, वे ही राज्य कर सकते हैं ॥६३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथेन्द्रो वाजस्य प्रसवो मा मामुद्ग्राभेणोद्ग्रभीत्। तथाऽधाऽथ यो मे मम सपत्नान् निग्राभेणाधरानकस्तं यूयमपि सेनापतिं कुरुत ॥६३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथेश्वरस्तथा ये मनुष्याः पालनाय धार्मिकान् मनुष्यान् संगृह्णन्ति, ताडनाय दुष्टाँश्च निगृह्णन्ति, त एव राज्यं कर्त्तुं शक्नुवन्ति ॥६३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसे ईश्वर सर्वांचे पालन करतो तसे पालन करण्यासाठी धार्मिक माणसांना मान्यता देऊन दुष्टांना शिक्षा करतात तेच राजे राज्य करू शकतात.
६४ उद्ग्राभं च
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒द्ग्रा॒भं च॑ निग्रा॒भं च॒ ब्रह्म॑ दे॒वाऽअ॑वीवृधन्। अधा॑ स॒पत्ना॑निन्द्रा॒ग्नी मे॑ विषू॒चीना॒न् व्य᳖स्यताम् ॥६४ ॥
मूलम् ...{Loading}...
उ॒द्ग्रा॒भं च॑ निग्रा॒भं च॒ ब्रह्म॑ दे॒वाऽअ॑वीवृधन्। अधा॑ स॒पत्ना॑निन्द्रा॒ग्नी मे॑ विषू॒चीना॒न् व्य᳖स्यताम् ॥६४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उ॒द्ग्रा॒भमित्यु॑त्ऽग्रा॒भम्। च॒। नि॒ग्रा॒भमिति॑ निऽग्रा॒भम्। च॒। ब्रह्म॑। दे॒वाः। अ॒वी॒वृ॒ध॒न्। अध॑। स॒पत्ना॒निति॑ स॒ऽपत्ना॑न्। इ॒न्द्रा॒ग्नीऽइती॑न्द्रा॒ग्नी। मे॒। वि॒षू॒चीना॑न्। वि। अ॒स्य॒ता॒म्। ६४।
महीधरः
म० ‘क्रमध्वमग्निनेति चित्यमारोहन्ति’ ( का० १८ । ४ । १)। ते ऋत्विजः क्रमध्वमिति पञ्चभिस्तीर्थेन चित्याग्निमारोहन्तीत्यर्थः । आग्नेय्यनुष्टुप् । हे ऋत्विग्यजमानाः, यूयमग्निना चित्येन कृत्वा नाकं स्वर्गलोकं क्रमध्वमाक्रमत ‘स्वर्गो वै लोको नाकः’ ( ९।२।३ । २४ ) इति श्रुतेः । किंभूता यूयम् । उखायां संस्कृतमुख्यमग्निं हस्तेषु बिभ्रतः धारयन्तः ।यद्वा उख्यमग्निं हस्तेषु बिभ्रतः सन्तोऽग्निनानेकचित्याग्निना सह क्रमध्वम् चित्युपरि पादान् कुरुत आरोहध्वमित्यर्थः। ततो दिवोऽन्तरिक्षस्य पृष्ठं स्वः स्वर्गं गत्वा देवेभिर्देवैः मिश्राः संयुताः सन्तः आध्वं तिष्ठत आस उपवेशने लोट् मध्यमबहुवचनं शपो लोपः ‘धि च’ (पा० ८।२।२५) इति मलोपः ॥ ६५ ॥
षट्षष्टी।
अधिमन्त्रम् (VC)
- इन्द्राग्नी देवते
- विधृतिर्ऋषिः
- आर्ष्यनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर अगले मन्त्र में राजधर्म का उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (देवाः) विद्वान् जन (उद्ग्राभम्) अत्यन्त उत्साह से ग्रहण (च) और (निग्राभम्, च) त्याग भी करके (ब्रह्म) धन को (अवीवृधन्) बढ़ावें (अध) इसके अनन्तर (इन्द्राग्नी) बिजुली और आग के समान दो सेनापति (मे) मेरे (विषूचीनान्) विरोधभाव को वर्त्तनेवाले (सपत्नान्) वैरियों को (व्यस्यताम्) अच्छे प्रकार उठा-उठा के पटकें ॥६४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य सज्जनों का सत्कार और दुष्टों को पीट, मार, धन को बढ़ा निष्कण्टक राज्य का सम्पादन करते हैं, वे ही प्रशंसित होते हैं। जो राजा राज्य में वसनेहारे सज्जनों का सत्कार और दुष्टों का निरादर करके अपना तथा प्रजा के ऐश्वर्य्य को बढ़ाता है, उसी के सभा और सेना की रक्षा करनेवाले जन शत्रुओं नाश कर सकें ॥६४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनरग्रे राजधर्म उपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - देवा उद्ग्राभं च निग्राभं च कृत्वा ब्रह्मावीवृधन्, अधाथ सेनापती इन्द्राग्नी इव मे विषूचीनान् सपत्नान् व्यस्यतामुत्क्षिपताम् ॥६४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्याः सज्जनान् सत्कृत्य दुष्टान् निहत्य ब्रह्म वर्द्धयित्वा निष्कण्टकं राज्यं संपादयन्ति, त एव प्रशंसिताः। यो राजा राष्ट्रवासिनः सज्जनान् सत्कृत्य दुष्टान् निरस्यैश्वर्यं वर्धयति, तस्यैव सभासेनापती शत्रुनाशं कर्त्तुं शक्नुयाताम् ॥६४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे सज्जनांचा सन्मान व दुष्टांना दंड देतात. धन प्राप्त करून राज्य निष्कंटकपणे चालवितात तीच प्रशंसनीय असतात. जो राजा राज्यातील सज्जनांचा सत्कार व दुष्टांचा अपमान करतो आणि ऐश्वर्य वाढवितो त्याच्या राज्याचे व सैन्याचे रक्षण करणारे रक्षक शत्रूंचा नाश करू शकतात.
६५ क्रमध्वमग्निना नाकमुख्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
क्रम॑ध्वम॒ग्निना॒ नाक॒मुख्यँ॒ हस्ते॑षु॒ बिभ्र॑तः।
दि॒वस्पृ॒ष्ठँ स्व॑र्ग॒त्वा मि॒श्रा दे॒वेभि॑राध्वम् ॥६५ ॥
मूलम् ...{Loading}...
क्रम॑ध्वम॒ग्निना॒ नाक॒मुख्यँ॒ हस्ते॑षु॒ बिभ्र॑तः। दि॒वस्पृ॒ष्ठँ स्व॑र्ग॒त्वा मि॒श्रा दे॒वेभि॑राध्वम् ॥६५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
क्रमध्वम्। अ॒ग्निना॑। नाक॑म्। उख्य॑म्। हस्ते॑षु। बिभ्र॑तः। दि॒वः। पृ॒ष्ठम्। स्वः॑। ग॒त्वा। मि॒श्राः। दे॒वेभिः॑। आ॒ध्व॒म्। ६५।
महीधरः
म०. आग्नेयी त्रिष्टुप् । हे अग्ने इदानीमानीत उख्य वह्ने, प्राचीं प्रदिशं प्रागाख्यां प्रकृष्टां दिशमनु लक्षीकृत्य त्वं प्रेहि प्रकर्षेण गच्छ । कीदृशस्त्वम् । विद्वान् स्वाधिकारं जानानः । गत्वा च हे अग्ने, इहास्मिन् प्रदेशे अग्नेः इष्टकानिष्पादितस्य चितिरूपस्याग्नेः पुरोऽग्निर्भव पुरः अग्रे अङ्गति गच्छतीति - पुरोऽग्निः पुरोगन्ता मुख्यो भव ‘प्रकृत्यान्तःपादमव्यपरे’ (पा.६।१।११५) इति सन्ध्यभावः । किंच विश्वाः सर्वाः आशा दिशो दीद्यानः दीपयन् प्रकाशयन् सन् त्वं विभाहि विशेषेण दीप्यस्व । ततो नोऽस्माकं द्विपदे पुत्रादिकाय चतुष्पदे गवादिकाय ऊर्जमन्नं धेहि संपादय ॥ ६६ ॥
सप्तषष्टी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- विधृतिर्ऋषिः
- निचृदार्ष्यनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे वीरो ! तुम (अग्निना) बिजुली से (नाकम्) अत्यन्त सुख और (उख्यम्) पात्र में पकाये हुए चावल, दाल, तर्कारी आदि भोजन को (हस्तेषु) हाथों में (बिभ्रतः) धारण किये हुए (क्रमध्वम्) पराक्रम करो। (देवेभिः) विद्वानों से (मिश्राः) मिले हुए (दिवः) न्याय और विनय आदि गुणों के प्रकाश से उत्पन्न हुए दिव्य (पृष्ठम्) चाहे हुए (स्वः) सुख को (गत्वा) प्राप्त होकर (आध्वम्) स्थित होओ ॥६५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजपुरुष विद्वानों के साथ सम्बन्ध कर आग्नेय आदि अस्त्रों आदि से शत्रुओं में पराक्रम करें तथा स्थिर सुख को पाकर बारम्बार अच्छा यत्न करें ॥६५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे वीराः ! यूयमग्निना नाकमुख्यं च हस्तेषु बिभ्रतो धरन्तः क्रमध्वम्, देवेभिर्मिश्राः सन्तो दिवस्पृष्ठं स्वर्गत्वाध्वम् ॥६५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - राजपुरुषा विद्वद्भिः सह संप्रयोगेणाग्नेयास्त्रादिना शत्रुषु पराक्रमन्तां स्थिरं सुखं प्राप्य पुनः पुनः प्रयतेरन् ॥६५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजपुरुषांनी विद्वानांबरोबर विचारविनिमय करून आग्नेय अस्त्रे इत्यादींनी शत्रूंसमोर पराक्रम गाजवावा व स्थिर सुख प्राप्त करुन वारंवार चांगले प्रयत्न करावे.
६६ प्राचीमनु प्रदिशम्
विश्वास-प्रस्तुतिः ...{Loading}...
प्राची॒म् अनु॑ प्र॒दिश॒म् प्रेहि॑ वि॒द्वान्
अ॒ग्नेर् अ॑ग्ने पु॒रो अ॑ग्निर् भवे॒ह ।
विश्वा॒ आशा॒ दीद्या॑नो॒ वि भा॒ह्य्
ऊर्ज॑न् नो धेहि द्वि॒पदे॒ चतु॑ष्पदे ।
मूलम् ...{Loading}...
प्राची॒मनु॑ प्र॒दिशं॒ प्रेहि॑ वि॒द्वान॒ग्नेर॑ग्ने पु॒रोऽअ॑ग्निर्भवे॒ह। विश्वा॒ऽआशा॒ दीद्या॑नो॒ वि भा॒ह्यूर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे ॥६६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्राची॑म्। अनु॑। प्र॒दिश॒मिति॑ प्र॒ऽदिश॑म्। प्र। इ॒हि॒। वि॒द्वा॒न्। अ॒ग्नेः। अ॒ग्ने॒। पु॒रोऽअ॑ग्नि॒रिति॑ पु॒रःऽअ॑ग्निः। भ॒व॒। इ॒ह। विश्वाः॑। आशाः॑। दीद्या॑नः। वि। भा॒हि॒। ऊर्ज्ज॑म्। नः॒। धे॒हि॒। द्वि॒ऽपदे॑। चतु॑ष्पदे॑। चतुः॑पद॒ इति॒ चतुः॑ऽपदे। ६६।
महीधरः
म० आग्नेयी पिपीलिकमध्या बृहती आद्यतृतीयौ त्रयोदशार्णौ द्वितीयोऽष्टकः सा पिपीलिकमध्या बृहती ‘त्रयोदशिनोर्मध्येऽष्टकः पिपीलिकमध्या’ इति वचनात् अत्राद्यस्त्रयोदशः द्वितीयो नवकः तृतीयश्चतुर्दशक इति षट्त्रिंशदक्षरत्वाद् बृहती ‘त्रिपादणिष्ठमध्या पिपीलिकमध्या’ इति वचनात्पिपीलिकमध्या च । यजमान आह अहं पृथिव्या उत् उद्गतः सन् अन्तरिक्षमारुहमारूढोऽस्मि । तस्मादन्तरिक्षादुद्गतो दिवमारुहं द्युलोकमारूढोऽस्मि । दिवो द्युलोकस्य यो नाको दुःखरहितः प्रदेशः तस्य पृष्ठादुपरिभागात् स्वः ज्योतिः स्वर्गलोकस्थं ज्योतिरादित्यमण्डलमहमगां गतोऽस्मि प्राप्स्यामीत्यर्थः । ‘इणो गा लुङि’ (पा० २।४ । ४५ ) इति गादेशः ॥ ६७ ॥
सत्रस्य ऋद्धिः साम
अष्टषष्टी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- विधृतिर्ऋषिः
- निचृदार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय के अगले मन्त्र में कहा है ॥
सायण-टीका
प्रथमा - प्राचीमिति । अग्निकाण्डे व्याख्याता । प्राचीं प्रदिशं प्रधानदिशं अनुप्रेहि अनुक्रमेण विद्वान् स्वाधिकारज्ञः । हे अग्ने! अग्नेस्तवायतनस्याहवनीयस्य पुरः अग्निः पुरस्तात् गन्ता भव इह अस्माकं कर्मणि विश्वा आशाः सर्वा दिशः दीद्यानः दीपयन् विभाहि विविधं भाहि दीप्यस्व । तथा कुर्वंश्च त्वं नः अस्माकं सम्बन्धिने द्विपदे चतुष्पदे च ऊर्जं धेहि देहीति ॥
Keith
Along the eastern quarter do thou advance, wise one;
Be thou, O Agni, of Agni the harbinger here;
Illumine with thy radiance all the regions;
Confer strength on our bipeds and quadrupeds.
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) शत्रुओं के जलानेहारे सभापति ! तू (प्राचीम्) पूर्व (प्रदिशम्) दिशा की ओर को (अनु, प्र, इहि) अनुकूलता से प्राप्त हो, (इह) इस राज्यकर्म में (अग्नेः) आग्नेय अस्त्र आदि के योग से (पुरोऽअग्निः) अग्नि के तुल्य अग्रगामी (विद्वान्) कार्य्य के जाननेवाले विद्वान् (भव) होओ (विश्वाः) समस्त (आशाः) दिशाओं को (दीद्यानः) निरन्तर प्रकाशित करते हुए सूर्य्य के समान (नः) हम लोगों के (द्विपदे) मनुष्यादि और (चतुष्पदे) गौ आदि पशुओं के लिये (ऊर्ज्जम्) अन्नादि पदार्थ को (धेहि) धारण कर तथा विद्या, विनय और पराक्रम से अभय का (वि, भाहि) प्रकाश कर ॥६६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो पूर्ण ब्रह्मचर्य्य से समस्त विद्याओं का अभ्यास कर युद्धविद्याओं को जान सब दिशाओं में स्तुति को प्राप्त होते हैं, वे मनुष्यों और पशुओं के खाने योग्य पदार्थों की उन्नति और रक्षा का विधान कर आनन्दयुक्त होते हैं ॥६६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने सभेश ! त्वं प्राचीं प्रदिशमनुप्रेहि, त्वमिहाग्नेः पुरो अग्निरिव विद्वान् भव। विश्वा आशा दीद्यानः सन् नोऽस्माकं द्विपदे चतुष्पदे ऊर्जं धेहि, विद्याविनयपराक्रमैरभयं विभाहि ॥६६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये पूर्णेन ब्रह्मचर्येण सर्वा विद्या अभ्यस्य युद्धविद्यां विदित्वा सर्वासु दिक्षु स्तूयन्ते, ते मनुष्याणां पश्वादीनां च भक्ष्यभोज्यमुन्नीय रक्षां विधायानन्दिता भवन्तु ॥६६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे पूर्ण ब्रह्मचर्य पालन करतात व सर्व विद्यांचा अभ्यास करून युद्धविद्या जाणतात ते सर्वांच्या प्रशंसेस पात्र ठरतात असे लोक, माणसे व पशूंच्या खाण्याच्या पदार्थांची वृद्धी करून त्यांचे रक्षण करतात व आनंदात राहतात.
६७ पृथिव्याऽअहमुदन्तरिक्षमारुहमन्तरिक्षाद् दिवमारुहम्
विश्वास-प्रस्तुतिः ...{Loading}...
पृ॒थि॒व्या अ॒हम् उद् अ॒न्तरि॑क्ष॒म् आरु॑हम्
अ॒न्तरि॑क्षा॒द् दिव॒म् आरु॑हम्।
दि॒वो नाक॑स्य पृ॒ष्ठात्
स्व᳖र्ज्योति॑र् अगाम् अ॒हम् ॥६७ ॥
मूलम् ...{Loading}...
पृ॒थि॒व्याऽअ॒हमुद॒न्तरि॑क्ष॒मारु॑हम॒न्तरि॑क्षा॒द् दिव॒मारु॑हम्। दि॒वो नाक॑स्य पृ॒ष्ठात् स्व᳖र्ज्योति॑रगाम॒हम् ॥६७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पृ॒थि॒व्याः। अ॒हम्। उत्। अ॒न्तरि॑क्षम्। आ। अ॒रु॒ह॒म्। अ॒न्तरि॑क्षात्। दिव॑म्। आ। अ॒रु॒ह॒म्। दि॒वः। नाक॑स्य। पृ॒ष्ठात्। स्वः॑। ज्योतिः॑। अ॒गा॒म्। अ॒हम्। ६७।
महीधरः
म०. आग्नेयी अनुष्टुप् । सुष्ठु विदन्ति जानन्ति ते सुविद्वांसः ज्ञानकर्मसमुच्चयकारिणः ये सुविद्वांसो यज्ञं वितेनिरे वितन्वन्ति अनुतिष्ठन्ति । कीदृशं यज्ञम् । विश्वतोधारं विश्वतो धारा यस्य तम् । आहुतिदक्षिणान्नानि यज्ञस्य धाराः वैश्वानरमारुतपूर्णाहुतिवसोर्धारावाजप्रसवीयानि वा यज्ञस्य धाराः । यद्वा विश्वस्य जगतो धारयितारम् । ते यज्ञकर्तारः स्वः स्वर्गं यन्तो गच्छन्तो नापेक्षन्ते पुत्रपश्वाद्यपेक्षां न कुर्वते कृतकृत्यत्वात् । द्यां स्वर्गं चारोहन्ति । कीदृशी द्याम् । रोदसी रुणद्धि जरामृत्युशोकादीन् सा रोदसी ताम् । धस्य दादेशश्छान्दसः । पूर्वंसवर्णदीर्घः दिवो विशेषणं न तु द्यावापृथिव्योरभिधानं दिव इत्युपादानात् । यद्वा ये यजमानाः सुविद्वांसः सुष्ठु कर्मप्रकारं जानन्तः विश्वतोधारं जगद्धरणहेतुं यज्ञं वितन्वन्ति विशेषेण कुर्वन्ति ते यजमाना द्यामन्तरिक्षमारोहन्ति तथा रोदसी द्यावाभूमी आरोहन्ति । ततः स्वर्यन्तः स्वर्गस्थमादित्यमण्डलं प्राप्नुवन्तोऽन्यत्किमपि स्थानं नापेक्षन्ते ॥ ६८ ॥
एकोनसप्ततितमी।
अधिमन्त्रम् (VC)
- अग्नि देवता
- विधृतिर्ऋषिः
- पिपीलिकामध्या बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर योगियों के गुणों का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे किये हुए योग के अङ्गों के अनुष्ठान संयमसिद्ध अर्थात् धारणा, ध्यान और समाधि में परिपूर्ण (अहम्) मैं (पृथिव्याः) पृथिवी के बीच (अन्तरिक्षम्) आकाश को (उद्, आ, अरुहम्) उठ जाऊँ वा (अन्तरिक्षात्) आकाश से (दिवम्) प्रकाशमान सूर्य्यलोक को (आ, अरुहम्) चढ़ जाऊँ वा (नाकस्य) सुख करानेहारे (दिवः) प्रकाशमान उस सूर्य्यलोक के (पृष्ठात्) समीप से (स्वः) अत्यन्त सुख और (ज्योतिः) ज्ञान के प्रकाश को (अहम्) मैं (अगाम्) प्राप्त होऊँ, वैसा तुम भी आचरण करो ॥६७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जब मनुष्य अपने आत्मा के साथ परमात्मा के योग को प्राप्त होता है, तब अणिमादि सिद्धि उत्पन्न होती हैं, उसके पीछे कहीं से न रुकनेवाली गति से अभीष्ट स्थानों को जा सकता है, अन्यथा नहीं ॥६७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्योगिगुणा उपदिश्यन्ते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा कृतयोगाङ्गानुष्ठानसंयमसिद्धोऽहं पृथिव्या अन्तरिक्षमुदारुहम्, अन्तरिक्षाद् दिवमारुहम्, नाकस्य दिवः पृष्ठात् स्वर्ज्योतिश्चाहमगाम्, तथा यूयमप्याचरत ॥६७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदा मनुष्यः स्वात्मना सह परमात्मानं युङ्क्ते तदाऽणिमादयः सिद्धयः प्रादुर्भवन्ति, ततोऽव्याहतगत्याभीष्टानि स्थानानि गन्तुं शक्नोति नान्यथा ॥६७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जेव्हा मनुष्य आपल्या आत्म्याचा परमेश्वराशी योग करतो तेव्हा त्याला अणिमा इत्यादी सिद्धी प्राप्त होतात. त्यायोगे त्याला कुठेही अबाध गतीने (इष्ट स्थानी) जाता येऊ शकते, अन्यथा नाही.
६८ स्वर्यन्तो नापेक्षन्तऽआ
विश्वास-प्रस्तुतिः ...{Loading}...
स्व॒र्यन्तो॒ नापे॑क्षन्त॒ऽआ द्याँ रो॑हन्ति॒ रोद॑सी। य॒ज्ञं ये वि॒श्वतो॑धारँ॒ सुवि॑द्वाँसो वितेनि॒रे ॥६८ ॥
मूलम् ...{Loading}...
स्व॒र्यन्तो॒ नापे॑क्षन्त॒ऽआ द्याँ रो॑हन्ति॒ रोद॑सी। य॒ज्ञं ये वि॒श्वतो॑धारँ॒ सुवि॑द्वाँसो वितेनि॒रे ॥६८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स्वः॑। यन्तः॑। न। अप॑। ई॒क्ष॒न्ते॒। आ। द्याम्। रो॒ह॒न्ति॒। रोद॑सी॒ इति॒ रोद॑सी। य॒ज्ञम्। ये। वि॒श्वतो॑धार॒मिति॑ वि॒श्वतः॑ऽधारम्। सुवि॑द्वाँस॒ इति॒ सुवि॑द्वाँसः। वि॒ते॒नि॒र इति॑ विऽतेनि॒रे। ६८।
महीधरः
म० आग्नेयी त्रिष्टुप् । हे अग्ने, त्वं देवयतां देवानिच्छतां यजमानानां प्रथमः प्रेहि पुरतः प्रकर्षेण गच्छ । देवानिच्छन्ति देवयन्ति देवयन्तीति देवयन्तः तेषाम् ‘सुप आत्मनः क्यच’ (पा० ३ । १।८) इति क्यजन्ताच्छतृप्रत्ययः ‘क्यचि च’ (पा. ७ । ४ । ३३) इतीत्वे प्राप्ते ‘न छन्दस्यपुत्रस्य’ (पा० ७ । ४ । ३५ ) इति तदभावः । कथं मयाग्रतो गन्तव्यं तत्राह । यतस्त्वं देवानामुतापि च मर्त्यानां मनुष्याणां चक्षुःस्थानीयः । लोकेऽपि गच्छतः पुरुषस्य दृष्टिः पुरतो याति । | किंच यष्टुमिच्छन्ति इयक्षमाणाः । अभ्यासे यलोपश्छान्दसः । इयक्षमाणा यष्टुमिच्छन्तो यजमानाः स्वस्ति यथा तथा अविनाशेन स्वः स्वर्गं यन्तु प्राप्नुवन्तु । कीदृशाः । भृगुभिः भृगुगोत्रविप्रैः सजोषाः समानो जोषः प्रीतिर्येषां ते । भृगुग्रहणमनूचानब्राह्मणोपलक्षणम् । उत्तमविप्रैः प्रीतिमन्तः ॥ ६९॥
सप्ततितमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- विधृतिर्ऋषिः
- निचृदार्ष्यनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ये) जो (सुविद्वांसः) अच्छे पण्डित योगी जन (यन्तः) योगाभ्यास के पूर्ण नियम करते हुओं के (न) समान (स्वः) अत्यन्त सुख की (अप, ईक्षन्ते) अपेक्षा करते हैं वा (रोदसी) आकाश और पृथिवी को (आ, रोहन्ति) चढ़ जाते अर्थात् लोकान्तरों में इच्छापूर्वक चले जाते वा (द्याम्) प्रकाशमय योगविद्या और (विश्वतोधारम्) सब ओर से सुशिक्षायुक्त वाणी हैं, जिसमें (यज्ञम्) प्राप्त करने योग्य उस यज्ञादि कर्म का (वितेनिरे) विस्तार करते हैं, वे अविनाशी सुख को प्राप्त होते हैं ॥६८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे सारथि घोड़ों को अच्छे प्रकार सिखा और अभीष्ट मार्ग में चला कर सुख से अभीष्ट स्थान को शीघ्र जाता है, वैसे ही अच्छे विद्वान् योगी जन जितेन्द्रिय होकर नियम से अपने को अभीष्ट परमात्मा को पाकर आनन्द का विस्तार करते हैं ॥६८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये सुविद्वांसो यन्तो न स्वरपेक्षन्ते रोदसी आरोहन्ति, द्यां विश्वतोधारं यज्ञं वितेनिरे, तेऽक्षयं सुखं लभन्ते ॥६८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा सारथिरश्वान् सुशिक्ष्याभीष्टे मार्गे चालयित्वा सुखेनाभीष्टं स्थानं सद्यो गच्छति, तथैव शोभना विद्वांसो योगिनो जितेन्द्रिया भूत्वा संयमेन स्वेष्टं परमात्मानं प्राप्यानन्दं विस्तारयन्ति ॥६८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जसा सारथी घोड्यांना चांगल्या प्रकारे प्रशिक्षित करून योग्य मार्गाने योग्य स्थानी तत्काळ पोहोचतो तसे विद्वान नियमबद्ध योगी जितेंद्रिय बनून परमेश्वराची प्राप्ती करून घेतात व आनंद वाढवितात.
६९ अग्ने प्रेहि
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने॒ प्रेहि॑ प्रथ॒मो दे॑वय॒तां
चक्षु॑र् दे॒वाना॑म् उ॒त मर्त्या॑नाम्।
इय॑क्षमाणा॒ भृगु॑भिः स॒जोषाः॒
स्व᳖र्य् यन्तु॒ यज॑मानाः स्व॒स्ति ॥६९ ॥
मूलम् ...{Loading}...
अग्ने॒ प्रेहि॑ प्रथ॒मो दे॑वय॒तां चक्षु॑र्दे॒वाना॑मु॒त मर्त्या॑नाम्। इय॑क्षमाणा॒ भृगु॑भिः स॒जोषाः॒ स्व᳖र्य्यन्तु॒ यज॑मानाः स्व॒स्ति ॥६९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अग्ने॑। प्र। इ॒हि॒। प्र॒थ॒मः। दे॒व॒य॒तामिति॑ देवऽय॒ताम्। चक्षुः॑। दे॒वाना॑म्। उ॒त। मर्त्या॑नाम्। इय॑क्षमाणाः। भृगु॑भि॒रिति॒ भृगु॒॑ऽभिः। स॒जोषा॒ इति॑ स॒ऽजोषाः॑। स्वः॑। य॒न्तु॒। यज॑मानाः स्व॒स्ति। ६९।
महीधरः
म०. ‘स्वयमातृण्णामध्यग्निं धारयंच्छुक्लवत्सापयसाभिजुहोति कृष्णाया दोहनेन स्वयमातृण्णामवसिञ्चन्नक्तोषासेति’ ( का. १८ । ४ । २ ) । अध्वर्युः स्वयमातृण्णेष्टकोपरि समीपे प्रतिप्रस्थात्रा तमग्निं धारयन् कृष्णवर्णायाः श्वेतवत्साया गोर्दुग्धेन दोहनेन मृण्मयदोहनपात्रेण जुहूस्थानीयेन स्वयमातृण्णां सिञ्चनिध्मस्थेऽग्नौ जुहोति नक्तोषासेत्यृग्द्वयेनेत्यर्थः । व्याख्याता द्वादशे ( अ० १२ । क० २)॥ ७० ॥
एकसप्ततितमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- विधृतिर्ऋषिः
- भुरिगार्षी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर विद्वान् के व्यवहार का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्वन् ! (देवयताम्) कामना करते हुए जनों के बीच तू (प्रथमः) पहिले (प्रेहि) प्राप्त हो जिससे (देवानाम्) विद्वान् (उत) और (मर्त्यानाम्) अविद्वानों का तू (चक्षुः) व्यवहार देखनेवाला है, जिससे (इयक्षमाणाः) यज्ञ की इच्छा करने (सजोषाः) एक-सी प्रीतियुक्त (यजमानाः) सबको सुख देनेहारे जन (भृगुभिः) परिपूर्ण विज्ञानवाले विद्वानों के साथ (स्वस्ति) सामान्य सुख और (स्वः) अत्यन्त सुख को (यन्तु) प्राप्त हों, वैसा तू भी हो ॥६९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! विद्वान् और अविद्वानों के साथ प्रीति से बातचीत करके सुख को तुम लोग प्राप्त होओ ॥६९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्विद्वद्व्यवहार उपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! देवयतां मध्ये प्रथमः पूर्वं प्रेहि, यतो देवानामुत मर्त्यानां त्वं चक्षुरसि, यथेयक्षमाणाः सजोषा यजमाना भृगुभिः सह स्वस्ति स्वर्यन्तु, तथा त्वमपि भव ॥६९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! विद्वद्भिरविद्वद्भिश्च सह प्रीत्योपदेशेन यूयं सुखं प्राप्नुत ॥६९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! विद्वान व अविद्वानांबरोबर प्रेमाने वार्तालाप करून तुम्ही सुख प्राप्त करा.
७० नक्तोषासा समनसा
विश्वास-प्रस्तुतिः ...{Loading}...
०२ नक्तोषासा समनसा ...{Loading}...
नक्तो॒षासा॒ स-म॑नसा॒ विरू॑पे
धा॒पये॑ते॒ शिशु॒म् एकँ॑ समी॒ची ।
द्यावा॒-क्षामा॑ रु॒क्मो अ॒न्तर् विभा॑ति
दे॒वा अ॒ग्निन् धा॑रयन् द्रविणो॒-दाः ।
मूलम् ...{Loading}...
नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे धा॒पये॑ते॒ शिशु॒मेकँ॑ समी॒ची। द्यावा॒क्षामा॑ रु॒क्मोऽअ॒न्तर्विभा॑ति दे॒वाऽअ॒ग्निं॑ धा॑रयन् द्रविणो॒दाः ॥७० ॥
सर्वाष् टीकाः ...{Loading}...
०२ नक्तोषासा समनसा ...{Loading}...
पदपाठः - दयानन्दादि
नक्तो॒षासा॑। नक्तो॒षसेति॒ नक्तो॒षसा॑। सम॑न॒सेति॒ सऽम॑नसा। विरू॑पे॒ इति॒ विऽरू॑पे। धा॒पये॑ते॒ऽइति॑ धा॒पये॑ते। शिशु॑म्। एक॑म्। स॒मी॒ची इति॑ सम्ऽई॒ची। द्यावा॒क्षामा॑। रु॒क्मः। अ॒न्तः। वि। भा॒ति॒। दे॒वाः। अ॒ग्निम्। धा॒र॒य॒न्। द्र॒वि॒णो॒दा इति॑ द्रविणः॒ऽदाः। २।
महीधरः
म० ‘परिमण्डलाभ्यामिण्ड्वाभ्यामुखां परिगृह्णाति नक्तोषासेति’ (का० १६ । ५। ३) । वर्तुलाभ्यामुखाधारणसाधनरूपाभ्यामिण्ड्वाभ्यामुखां गृह्णातीति सूत्रार्थः । अग्निदेवत्या त्रिष्टुप् कुत्सदृष्टा । अर्धमुखाग्रहणे विनियुक्तम् । नक्तोषासा नक्तं च उषाश्च नक्तोषसौ । विभक्तेराकारः संहितायां दीर्घः । नक्तं रात्रिः उषा अहः । नक्तोषसौ रात्रिदिवसौ एकमग्निं धापयेते पाययेते सायंप्रातरग्निहोत्रादिकर्मभिः तर्पयेते इत्यर्थः । तत्र लुप्तोपमानम् । शिशुं बालं मातापितराविव । ‘धेट् पाने’ ‘हेतुमति च’ (पा० ३। १ । २६) इति णिच् ‘आदेच उपदेशेऽशिति’ (पा० ६ । १ । ४५) इति आकारे ‘अर्तिह्री’ (पा० ७।३ । ३६ ) इत्यादिना पुक् । कीदृश्यौ नक्तोषसौ। समनसा समनसौ समानं मनो ययोस्ते एकमनस्के परमैकमत्ययुक्ते इत्यर्थः । विरूपे विलक्षणं रूपं ययोस्ते विरूपे । कृष्णा रात्रिः शुक्लमहः । समीची सम्यगञ्चतस्ते समीच्यः सम्यगञ्चने समन्विते संश्लिष्टे वा । पूर्वसवर्णो विभक्तेः । ये इत्थंभूते रात्र्यहनी ताभ्यामिण्ड्वारूपाभ्यामुखां गृह्णामीति शेषः । ‘हरति द्यावाक्षामेति’ (का० १६ । ५ । ४) । आहवनीयोपरिस्थामुखामेवमिण्ड्वाभ्यामादाय द्यावेति पादेनासन्दीं प्रति तां हरतीति सूत्रार्थः । द्यावाक्षामा द्यौश्च क्षामा पृथिवी च द्यावाक्षामा । दिवो द्यावादेशः विभक्तेर्लोपः । द्यावापृथिव्योरन्तर्मध्ये अन्तरिक्षे च यो रुक्मः रोचमानोऽग्निर्विभाति प्रकाशते तं हरामीति शेषः । ‘आहवनीयस्य पुरस्तादुद्गात्रासन्दीवदासन्द्यां चतुरस्राङ्ग्यां शिक्यवत्यामादधाति देवा अग्निमिति’ (का० १६।५।५)। आहवनीयात्पूर्वदिशि भूमौ स्थापितायामासन्द्यामुखां निदधाति देवा इति पादेन । उद्गात्रासन्दीवदिति प्रादेशमात्रपाद्यामौदुम्बर्यामरत्निमात्राङ्ग्यां मुञ्जरज्ज्वा व्युतायामिति लभ्यते । तथा चतुरस्राङ्ग्यां चतुरस्राणि चतुष्कोणानि अङ्गानीषोपलपादरूपाणि यस्यास्तस्यां सशिक्यायां चेति सूत्रार्थः । देवाः दीव्यन्ति व्यवहरन्तीति देवाः प्राणा यजमानस्य एतमग्निं धारयन् अधारयन् । अडभाव आर्षः । कीदृशा देवाः । द्रविणोदाः यागद्वारेण द्रविणं धनरूपं फलं ददति प्रयच्छन्ति ते । तमहं धारयामीति शेषः । ‘अग्निं धारयन् द्रविणोदा इत्याह प्राणा वे देवा द्रविणोदाः’ इति तैत्तिरीयश्रुतेर्देवशब्देन प्राणा उच्यन्ते ॥ २॥
तृतीया ।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- कुत्स ऋषिः
- आर्षी त्रिष्टुप्
- धैवतः
सायण-टीका
नक्तं चोषाश्च नक्तोषासा रात्रिदिवसावित्यर्थः।
समनसा परस्परमैकमत्ययुक्ते विरूपे रात्रिः कृष्णा दिवसः शुक्ल इत्येवं विलक्षणरूपे समीची समीच्यावनुकुले सत्यावेकं शिशुमग्निरूपं धापयेते यजमानकर्तृकमग्नि २१९० धारणं संपादयतः द्यावा द्युलोके क्षामा ( म ) क्षितावन्तस्तदुभयमध्यवर्तिन्यन्त रिक्षे रुक्मो रोचमानोऽयमग्निर्विभाति विशेषेण प्रकाशते।
दीव्यन्ति व्यवहरन्तीति देवाः प्राणास्ते च द्रविणोदा यागद्वारेण धनरूपं फलं प्रयच्छति तादृशा यजमानस्य प्राणा अग्निमेतं धारयन्धृतवन्तः।
Keith
Night and the dawn, one-minded, but of various form,
United suckle one child;
The radiant one shineth between sky and earth;
The gods, granters of wealth, support Agni.
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जिस (अग्निम्) बिजुली को (द्रविणोदाः) बलदाता (देवाः) दिव्य प्राण (धारयन्) धारण करें, जो (रुक्मः) रुचिकारक होके (अन्तः) अन्तःकरण में (विभाति) प्रकाशित होता है, जो (समनसा) एक विचार से विदित (विरूपे) अन्धकार और प्रकाश से विरुद्ध रूपयुक्त (समीची) सब प्रकार सब को प्राप्त होनेवाली (द्यावाक्षामा) प्रकाश और भूमि तथा (नक्तोषासा) रात्रि और दिन जैसे (एकम्) एक (शिशुम्) बालक को दो माताएँ (धापयेते) दूध पिलाती हैं, वैसे उसको तुम लोग जानो ॥२ ॥
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम जैसे (समनसा) एक से विज्ञानयुक्त (समीची) एकता चाहती हुई (विरूपे) अलग-अलग रूपवाली धाय और माता दोनों (एकम्) एक (शिशुम्) बालक को दुग्ध पिलाती हैं, वैसे (नक्तोषासा) रात्रि और प्रातःकाल की वेला जगत् को (धापयेते) दुग्ध सा पिलाती हैं अर्थात् अति आनन्द देती हैं वा जैसे (रुक्मः) प्रकाशमान अग्नि (द्यावाक्षामा, अन्तः) ब्रह्माण्ड के बीच में (वि, भाति) विशेष करके प्रकाश करता है, उस (अग्निम्) अग्नि को (द्रविणोदाः) द्रव्य के देनेवाले (देवाः) शास्त्र पढ़े हुए जन (धारयन्) धारण करते हैं, वैसे वर्त्ताव वर्त्तो ॥७० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे जननी माता और धायी बालक को दूध पिलाती हैं, वैसे ही दिन और रात्रि सब की रक्षा करते हैं, और जो बिजुली के रूप से सर्वत्र व्यापक है, वह अग्नि सूर्य आदि का कारण है, इस बात का तुम सब निश्चय करो ॥२ ॥
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को चाहिये कि जैसे संसार में रात्रि और प्रातःसमय की वेला अलग रूपों से वर्त्तमान और जैसे बिजुली अग्नि सर्व पदार्थों में व्याप्त वा जैसे प्रकाश और भूमि अतिसहनशील हैं, वैसे अत्यन्त विवेचना करने और शुभगुणों में व्यापक होनेवाले होकर पुत्र के तुल्य संसार को पालें ॥७० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
पुनर्मनुष्यैः कथं वर्त्तितव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यमग्निं द्रविणोदा देवा धारयन्, यो रुक्मः सन्नन्तर्विभाति यः समनसा विरूपे समीची द्यावाक्षामा नक्तोषासा यथैकं शिशुं द्वे मातरौ धापयेते, तथा वर्त्तमानं तं विजानन्तु ॥२ ॥
पदार्थान्वयभाषाः - हे मनुष्याः ! यूयं यथा समनसा समीची विरूपे मातृधात्र्यौ वैकं शिशुमिव नक्तोषासा जगद्धापयेते, यथा वा द्यावाक्षामान्तो रुक्मो विभाति, द्रविणोदा देवा तमग्निं धारयँस्तथा वर्त्तध्वम् ॥७० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा जननी धात्री च बालकं पालयतस्तथाहोरात्रौ सर्वान् पालयतः। यश्च विद्युद्रूपेणाभिव्याप्तोऽस्ति, सोऽग्निः सूर्य्यादेः कारणमस्तीति सर्वे निश्चिन्वन्तु ॥२ ॥
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैर्जगति यथा रात्र्युषसौ विरुद्धै रूपैर्वर्त्तेते, यथा च विद्युत् सर्वपदार्थेषु व्याप्ता, यथा वा द्यावाभूमी अतिसहनशीले वर्त्तेते, तद्वत् विवेचकैः शुभगुणेषु व्यापकैर्भूत्वा पुत्रवज्जगत्पालनीयम् ॥७० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोमालंकार आहे. ज्याप्रमाणे माता व दाई बालकांना दूध पाजतात त्याप्रमाणे दिवस व रात्र हे सर्वांचे रक्षणकर्ते असतात. सर्वत्र विद्युतरूपाने व्यापक असा अग्नी हा सूर्याचे कारण आहे, ही गोष्ट निश्चितपणे सर्वांनी जाणावी.
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. या सृष्टीत रात्र व दिवस वेगवेगळ्या रूपांत विद्यमान आहेत व जसे विद्युत सर्व पदार्थांत व्याप्त असते किंवा जशी भूमी व प्रकाश अति सहनशील असतात तसे माणसांनी विचारपूर्वक अत्यंत शुभगुणयुक्त बनून पुत्राप्रमाणे जगाचे पालन करावे.
७१ अग्ने सहस्राक्ष
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने॑ सहस्राक्ष शतमूर्द्धञ्
छ॒तं ते॑ प्रा॒णाः स॒हस्रं॑ व्या॒नाः।
त्वँ सा॑ह॒स्रस्य॑ रा॒य ऽई॑शिषे॒
तस्मै॑ ते विधेम॒ वाजा॑य॒ स्वाहा॑ ॥७१ ॥
मूलम् ...{Loading}...
अग्ने॑ सहस्राक्ष शतमूर्द्धञ्छ॒तं ते॑ प्रा॒णाः स॒हस्रं॑ व्या॒नाः। त्वँ सा॑ह॒स्रस्य॑ रा॒यऽई॑शिषे॒ तस्मै॑ ते विधेम॒ वाजा॑य॒ स्वाहा॑ ॥७१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अग्ने॑। स॒ह॒स्रा॒क्षेति॑ सहस्रऽअक्ष। श॒त॒मू॒र्द्ध॒न्निति॑ शतऽमूर्धन्। श॒तम्। ते॒। प्रा॒णाः। स॒हस्र॑म्। व्या॒ना इति॑ विऽआ॒नाः। त्वम्। सा॒ह॒स्रस्य॑। रा॒यः। ई॒शि॒षे॒। तस्मै॑। ते॒। वि॒धे॒म॒। वाजा॑य। स्वाहा॑। ७१।
महीधरः
म० ‘तस्यामग्निं निदधाति सुपर्णोऽसीति वषट्कारेण’ (का. १८ । ४ । ४)। स्वयमातृण्णायां सुपर्णोऽसीति ऋग्द्वयेन वषट्कारेण चाग्निं स्थापयतीत्यर्थः । अग्निदेवत्या पङ्क्तिः । हे अग्ने, त्वं सुपर्णोऽसि सुपर्णपक्ष्याकारो गरुडसमानोऽसि । गरुत्मान् गरुत् गरणं गलनं भक्षणमस्यास्तीति गरुत्मान् अशनायावानित्यर्थः । अतः पृथिव्याः पृष्ठे उपरि सीद उपविश । भासा स्वप्रकाशेन अन्तरिक्षमापृण सर्वतः पूरय । ज्योतिषा स्वसामर्थ्येन दिवं द्युलोकमुत्तभान ऊर्ध्वं स्तम्भितं कुरु स्तम्भेः ‘हलः श्नः शानज्झौ’ (पा० ३।१। ८३ ) इति श्नाप्रत्ययस्य शानजादेशः । तथा तेजसा स्वेन दिश उद्दृंह उत्कर्षेण दृढीकुरु दीपय वा ॥ ७२॥
त्रिसप्ततितमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- कुत्स ऋषिः
- भुरिगार्षी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर योगी के कर्मों के फलों का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सहस्राक्ष) हजारों व्यवहारों में अपना विशेष ज्ञान वा (शतमूर्द्धन्) सैकड़ों प्राणियों में मस्तकवाले (अग्ने) अग्नि के समान प्रकाशमान योगिराज ! जिस (ते) आप के (शतम्) सैकड़ों (प्राणाः) जीवन के साधन (सहस्रम्) (व्यानाः) सब क्रियाओं के निमित्त शरीरस्थ वायु जो (त्वम्) आप (साहस्रस्य) हजारों जीव और पदार्थों का आधार जो जगत् उसके (रायः) धन के (ईशिषे) स्वामी हैं, (तस्मै) उस (वाजाय) विशेष ज्ञानवाले (ते) आप के लिये हम लोग (स्वाहा) सत्यवाणी से (विधेम) सत्कारपूर्वक व्यवहार करें ॥७१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो योगी पुरुष तप, स्वाध्याय और ईश्वरप्रणिधान आदि योग के साधनों से योग (धारणा, ध्यान, समाधिरूप संयम) के बल को प्राप्त हो, अनेक प्राणियों के शरीरों में प्रवेश करके, अनेक शिर, नेत्र आदि अङ्गों से देखने आदि कार्यों को कर सकता है, अनेक पदार्थों वा धनों का स्वामी भी हो सकता है, उसका हम लोगों को अवश्य सेवन करना चाहिये ॥७१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्योगिकर्मफलमुपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सहस्राक्ष शतमूर्द्धन्नग्ने योगिराज ! यस्य ते शतं प्राणाः सहस्रं व्यानाः सन्ति, यस्त्वं साहस्रस्य राय ईशिषे, तस्मै वाजाय ते वयं स्वाहा विधेम ॥७१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यो योगी तप-आदिसाधनैर्योगबलं प्राप्यासंख्यप्राणिशरीराणि प्रविश्यानेकनेत्रादिभिरङ्गैर्दर्शनादिकार्याणि कर्त्तुं शक्नोति, अनेकेषां पदार्थानां धनानां च स्वामी भवति, सोऽस्माभिरवश्यं परिचरणीयः ॥७१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जो योगी पुरुष तप, स्वाध्याय व ईश्वर प्रणिधान (धारणा, ध्यान, समाधिरूप, संयम) इत्यादी योगाच्या साधनांनी बल प्राप्त करून घेतो व अनेक प्राण्यांच्या शरीरात प्रवेश करून अनेक मस्तके, नेत्र इत्यादी अवयवांनी पाहण्याची क्रिया करू शकतो. अनेक पदार्थांचा किंवा धनाचा स्वामीही होऊ शकतो त्याचे आपण अवश्य अनुसरण केले पाहिजे.
७२ सुपर्णोऽसि गरुत्मान्
विश्वास-प्रस्तुतिः ...{Loading}...
सु॒प॒र्णो᳖ऽसि ग॒रुत्मा॑न् पृ॒ष्ठे पृ॑थि॒व्याः सी॑द। भा॒सान्तरि॑क्ष॒मापृ॑ण॒ ज्योति॑षा॒ दिव॒मुत्त॑भान॒ तेज॑सा॒ दिश॒ऽउद्दृँ॑ह ॥७२ ॥
मूलम् ...{Loading}...
सु॒प॒र्णो᳖ऽसि ग॒रुत्मा॑न् पृ॒ष्ठे पृ॑थि॒व्याः सी॑द। भा॒सान्तरि॑क्ष॒मापृ॑ण॒ ज्योति॑षा॒ दिव॒मुत्त॑भान॒ तेज॑सा॒ दिश॒ऽउद्दृँ॑ह ॥७२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सु॒प॒र्णः। अ॒सि॒। ग॒रुत्मा॒निति॑ ग॒रुत्मा॑न्। पृ॒ष्ठे। पृ॒थि॒व्याः। सी॒द॒। भा॒सा। अ॒न्तरि॑क्षम्। आ। पृ॒ण॒। ज्योति॑षा। दिव॑म्। उत्। स्त॒भा॒न॒। तेज॑सा। दिशः॑। उत्। दृँ॒ह॒। ७२।
महीधरः
म०. आग्नेयी त्रिष्टुप् । हे अग्ने, त्वमाजुह्वानः आहूयमानः सन् सुप्रतीकः शोभनं प्रतीकं सुखं यस्य सुमुखः सन् पुरस्तात्पूर्वस्यां दिशि साधुया साधुं समीचीनं । विभक्तेर्यादेशः । स्वं योनिं स्थानमासीद अधितिष्ठ । हे विश्वेदेवाः, यूयं यजमानश्च अस्मिन् पुरोवर्तिनि अध्युत्तरस्मिन् अधिकमुत्कृष्टे सधस्थे अग्निना सह स्थातुं योग्यस्थाने सीदत यज्ञाख्ये स्वर्गे उपविशत । ‘द्यौर्वा उत्तरं सधस्थं’ ( ९ । २ । ३ । ३५) इति श्रुतेः ॥ ७३ ॥
चतुःसप्ततितमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- कुत्स ऋषिः
- निचृदार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर विद्वान् कैसा हो, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् योगीजन ! आप (भासा) प्रकाश से (सुपर्णः) अच्छे-अच्छे पूर्ण शुभ लक्षणों से युक्त और (गरुत्मान्) बड़े मन तथा आत्मा के बल से युक्त (असि) हैं, अतिप्रकाशमान आकाश में वर्त्तमान सूर्यमण्डल के तुल्य (पृथिव्याः) पृथिवी के (पृष्ठे) ऊपर (सीद) स्थिर हो, वा वायु के तुल्य प्रजा को (आ, पृण) सुख दे, वा जैसे सूर्य (ज्योतिषा) अपने प्रकाश से (दिवम्) प्रकाशमय (अन्तरिक्षम्) अन्तरिक्ष को वैसे तू राजनीति के प्रकाश से राज्य को (उत्, स्तभान) उन्नति पहुँचा, वा जैसे आग अपने (तेजसा) अतितीक्ष्ण तेज से (दिशः) दिशाओं को वैसे अपने तीक्ष्ण तेज से प्रजाजनों को (उद्, दृंह) उन्नति दे ॥७२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जब मनुष्य राग=प्रीति और द्वेष=वैर से रहित परोपकारी होकर, ईश्वर के समान सब प्राणियों के साथ वर्ते, तब सब सिद्धि को प्राप्त होवे ॥७२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्विद्वान् कीदृशः स्यादित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् योगिंस्त्वं भासा सुपर्णो गरुत्मानसि, यथा सवितान्तरिक्षस्य मध्ये वर्त्तते, तथा पृथिव्याः पृष्ठे सीद। वायुरिव प्रजा आपृण, सविता ज्योतिषा दिवमन्तरिक्षमिव राज्यमुत्तभान, अग्निस्तेजसा दिश इव प्रजा उद्दृंह ॥७२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यदा मनुष्यो रागद्वेषरहितः परोपकारीश्वर इव प्राणिभिः सह वर्त्तेत, तदा सिद्धिं लभेत ॥७२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जेव्हा माणूस राग, द्वेष सोडून परोपकारी बनतो व ईश्वराप्रमाणे सर्व प्राण्यांबरोबर वागतो तेव्हा त्याला सिद्धी प्राप्त होतात.
७३ आजुह्वानः सुप्रतीकः
विश्वास-प्रस्तुतिः ...{Loading}...
आ॒जुह्वा॑नः सु॒प्रती॑कः पु॒रस्ता॒द्
अग्ने॒ स्वं योनि॒म् आसी॑द साधु॒या।
अ॒स्मिन्त् स॒धस्थे॒ ऽअध्य् उत्त॑रस्मि॒न्
विश्वे॑ देवा॒ यज॑मानश्च सीदत ॥७३ ॥
मूलम् ...{Loading}...
आ॒जुह्वा॑नः सु॒प्रती॑कः पु॒रस्ता॒दग्ने॒ स्वं योनि॒मासी॑द साधु॒या। अ॒स्मिन्त्स॒धस्थे॒ऽअध्युत्त॑रस्मि॒न् विश्वे॑ देवा॒ यज॑मानश्च सीदत ॥७३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ॒जुह्वा॑न॒ इत्या॒जुऽह्वा॑नः। सु॒प्रती॑क॒ इति॑ सु॒ऽप्रती॑कः। पु॒रस्ता॑त्। अग्ने॑। स्वम्। योनि॑म्। आ। सी॒द॒। सा॒धु॒येति॑ साधु॒ऽया। अ॒स्मिन्। स॒धस्थे॑। अधि॑। उत्त॑रस्मिन्। विश्वे॑। दे॒वाः॒। यज॑मानः। च॒। सी॒द॒त॒। ७३।
महीधरः
म० ‘समिदाधानᳪं᳭ शामिलीवैकङ्कत्यौदुम्बर्यस्तᳪं᳭ सवितुरिति प्रत्यृचम्’ ( का० १८ । ४ । ६)। अग्निनिधानानन्तरमध्वर्युस्तत्राग्नौ समित्त्रयमादधाति तां सवितुरिति शमीमयीं विधेमेति वैकङ्कतीं प्रेद्धो अग्न इत्यौदुम्बरीमित्यर्थः । कण्वदृष्टा सावित्री त्रिष्टुप् । वरेण्यस्य वरणीयस्य सवितुः संबन्धिनीं तां सुमतिं शोभनबुद्धिमहमावृणे आभिमुख्येन वृणोमि स्वीकरोमि । कीदृशीं सुमतिम् । चित्रां चायनीयां स्वापेक्षितबहुविधफलदानसमर्थाम् । विश्वजन्यां सर्वजनेभ्यो हिताम् । यद्वा विश्वं जन्यमुत्पाद्यं यस्याः सा विश्वजन्या ताम् जगदुत्पादनसमर्थाम् । तां कां । कण्वो मुनिरस्य सवितुर्यां सुमतिमेव गां धेनुमदुहत् अनुग्रहकारिणी बुद्धिं दुग्धवान् । कीदृशीम् । प्रपीनां प्रकर्षेण पीनां पयसा पूरिताम् सहस्रधारां सहस्रं धारा यस्यास्ताम् सहस्रक्षीरधारायुक्ताम् । यद्वा बहुनः कुटुम्बस्य धारयित्रीम् । पयसा दुग्धेन महीं महतीम् बहुदुग्धामित्यर्थः । सर्वसिद्धिदात्रीम् । रवेर्मतिर्या कण्वेन दुग्धा तामहं वृणे इति सर्वार्थः ॥ ७४ ॥
पञ्चसप्ततितमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- कुत्स ऋषिः
- आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर विद्वान्, गुणी जन कैसे हों, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) योगाभ्यास से प्रकाशित आत्मा युक्त (पुरस्तात्) प्रथम से (आजुह्वानः) सत्कार के साथ बुलाये (सुप्रतीकः) शुभगुणों को प्राप्त हुए (यजमानः) योगविद्या के देनेवाले आचार्य्य ! आप (साधुया) श्रेष्ठ कर्मों से (अस्मिन्) इस (सधस्थे) एक साथ के स्थान में (स्वम्) अपने (योनिम्) परमात्मा रूप घर में (आ, सीद) स्थिर हो (च) और हे (विश्वे) सब (देवाः) दिव्य आत्मावाले योगीजनो ! आप लोग श्रेष्ठ कामों से (उत्तरस्मिन्) उत्तर समय एक साथ सत्य सिद्धान्त पर (अधि, सीदत) अधिक स्थित होओ ॥७३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो अच्छे कामों को करके योगाभ्यास करनेवाले विद्वान् के सङ्ग और प्रीति से परस्पर संवाद करते हैं, वे सब के अधिष्ठान परमात्मा को प्राप्त होकर सिद्ध होते हैं ॥७३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्विद्वांसः कीदृशाः स्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! पुरस्तादाजुह्वानः सुप्रतीको यजमानस्त्वं साधुयास्मिन् सधस्थे स्वं योनिमासीद। हे विश्वे देवाः ! यूयं साधुयोत्तरस्मिन् सधस्थे चाधि सीदत ॥७३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये साधूनि कर्माणि कृत्वा कृतयोगाभ्यासस्य विदुषः सङ्गप्रीतिभ्यां परस्परं संवादं कुर्वन्ति, ते सर्वाधिष्ठानमीशं प्राप्य सिद्धा जायन्ते ॥७३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे श्रेष्ठ कर्म करतात व योगाभ्यास करणाऱ्या विद्वानांच्या संगतीत राहून परस्पर प्रेमाने संवाद करतात व सर्वांचा आधार असलेल्या परमेश्वराला प्राप्त करून घेतात ते कृतकृत्य होतात.
७४ ता सवितुर्वरेण्यस्य
विश्वास-प्रस्तुतिः ...{Loading}...
ताँ स॑वि॒तुर्वरे॑ण्यस्य चि॒त्रामाहं वृ॑णे सुम॒तिं वि॒श्वज॑न्याम्। याम॑स्य॒ कण्वो॒ अदु॑ह॒त् प्रपी॑नाँ स॒हस्र॑धारां॒ पय॑सा म॒हीं गाम् ॥७४ ॥
मूलम् ...{Loading}...
ताँ स॑वि॒तुर्वरे॑ण्यस्य चि॒त्रामाहं वृ॑णे सुम॒तिं वि॒श्वज॑न्याम्। याम॑स्य॒ कण्वो॒ अदु॑ह॒त् प्रपी॑नाँ स॒हस्र॑धारां॒ पय॑सा म॒हीं गाम् ॥७४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ताम्। स॒वि॒तुः। वरे॑ण्यस्य। चि॒त्राम्। आ। अ॒हम्। वृ॒णे॒। सु॒म॒तिमिति॑ सुऽम॒तिम्। वि॒श्वज॑न्याम्। याम्। अ॒स्य॒। कण्वः॑। अदु॑हत्। प्रपी॑ना॒मिति॒ प्रऽपी॑नाम्। स॒हस्र॑धारा॒मिति॑ स॒हस्र॑ऽधाराम्। पय॑सा। म॒हीम्। गाम्। ७४।
महीधरः
म० गृत्समददृष्टा त्रिस्थानाग्निदेवत्या त्रिष्टुप् । हे अग्ने, परमे जन्मन् परमे जन्मनि दिवि आदित्यात्मना स्थिताय ते तुभ्यं वयं विधेम हविर्दद्मः । ‘द्यौर्वा अस्य परमं जन्म’ (९। २।३ । ३९) इति श्रुतेः। अवरे सधस्थे दिवोऽवाचीने सहस्थानेऽन्तरिक्षे स्थिताय विद्युद्रूपाय ते स्तोमैः स्तोत्रैर्वयं विधेम परिचरेम । ‘अन्तरिक्षं वा अवरᳪं᳭ सधस्थम्’ (९।२।३। ३९) इति श्रुतेः । हे अग्ने, यस्माद्योनेः इष्टकाचितिरूपात् स्थानात् त्वमुदारिथ उद्गतोऽसि ‘ऋ गतौ’ लिट् संहितायां दीर्घः। तं योनिमहं यजे पूजयामि । ततः समिद्धे सम्यक् प्रज्वलिते त्वे त्वयि हवींषि प्रजुहुरे प्रजुहुविरे प्रजुह्वति ऋत्विजः ‘इरयो रे’ (पा० ६ । ४ । ७६ ) इति इरेप्रत्ययस्य रे आदेशः। “एष वा अस्य स्वो योनिः’ (९।२।३ । ३९ ) इति श्रुतेः। एष चित्योऽग्निः ॥ ७५ ॥
षट्सप्ततितमी।
अधिमन्त्रम् (VC)
- सविता देवता
- कण्व ऋषिः
- निचृदार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब कौन ईश्वर को पा सकता है, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जैसे (कण्वः) बुद्धिमान् पुरुष (अस्य) इस (वरेण्यस्य) स्वीकार करने योग्य (सवितुः) योग के ऐश्वर्य के देनेहारे ईश्वर की (याम्) जिस (चित्राम्) अद्भुत आश्चर्य्यरूप वा (विश्वजन्याम्) समस्त जगत् को उत्पन्न करती (प्रपीनाम्) अति उन्नति के साथ बढ़ती (सहस्रधाराम्) हजारों पदार्थों को धारण करनेहारी और (सुमतिम्) यथातथ्य विषय को प्रकाशित करती हुई उत्तम बुद्धि तथा (पयसा) अन्न आदि पदार्थों के साथ (महीम्) बड़ी (गाम्) वाणी को (अदुहत्) परिपूर्ण करता अर्थात् क्रम से जान अपने ज्ञानविषयक करता है, वैसे (ताम्) उसको (अहम्) मैं (आ, वृणे) अच्छे प्रकार स्वीकार करता हूँ ॥७४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे मेधावीजन जगदीश्वर की विद्या को पाकर वृद्धि को प्राप्त होता है, वैसे ही इसको प्राप्त होकर और सामान्य जन को भी विद्या और योगवृद्धि के लिये उद्युक्त होना चाहिये ॥७४ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ क ईश्वरं प्राप्तुं शक्नोतीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यथा कण्वोऽस्य वरेण्यस्य सवितुरीश्वरस्य यां चित्रां विश्वजन्यां प्रपीनां सहस्रधारां सुमतिं पयसा महीं गां चादुहत्, तथा तामहमावृणे ॥७४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा मेधावी जगदीश्वरस्य विद्यां प्राप्यैधते तथैवैतां लब्ध्वाऽन्येनापि विद्यायोगवृद्ध्यै भवितव्यम् ॥७४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसे बुद्धिमान लोक परमेश्वराची विद्या प्राप्त करून उन्नती करतात तसे सामान्य लोकांनीही विद्या व योगवृद्धीसाठी तत्पर राहावे.
७५ विधेम ते
विश्वास-प्रस्तुतिः ...{Loading}...
वि॒धेम॑ ते पर॒मे जन्म॑न्नग्ने वि॒धेम॒ स्तोमै॒रव॑रे स॒धस्थे॑। यस्मा॒द् योने॑रु॒दारि॑था॒ यजे॒ तं प्र त्वे ह॒वीँषि॑ जुहुरे॒ समि॑द्धे ॥७५ ॥
मूलम् ...{Loading}...
वि॒धेम॑ ते पर॒मे जन्म॑न्नग्ने वि॒धेम॒ स्तोमै॒रव॑रे स॒धस्थे॑। यस्मा॒द् योने॑रु॒दारि॑था॒ यजे॒ तं प्र त्वे ह॒वीँषि॑ जुहुरे॒ समि॑द्धे ॥७५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वि॒धेम॑। ते॒। प॒र॒मे। जन्म॑न्। अ॒ग्ने॒। वि॒धेम॑। स्तोमैः॑। अव॑रे। स॒धस्थ॒ इति॑ स॒धऽस्थे॑। यस्मा॑त्। योनेः॑। उ॒दारि॒थेत्यु॒त्ऽआरि॑थ। यजे॑। तम्। प्र। त्व इति॒ त्वे। ह॒वीँषि॑। जु॒हु॒रे॒। समि॑द्ध॒ इति॒ सम्ऽइ॑द्धे। ७५।
महीधरः
म० वसिष्ठदृष्टाग्निदेवत्या विराडनुष्टुप् दशकास्त्रयो विराडित्युक्तेः । हे यविष्ठ, अतिशयेन युवा यविष्ठः ‘अतिशायने तमबिष्ठनौ’ ‘स्थूलदूरयुव-’ (पा० ६।४।१५६ ) इत्यादिना वलोपे पूर्वगुणः । हे युवतम, हे अग्ने, त्वं नोऽस्माकं पुरोऽग्रे दीदिहि दीप्यस्व । दीव्यतेर्विकरणव्यत्ययेन जुहोत्यादित्वाच्छपः श्लौ द्वित्वम् ‘तुजादीनाम् -’ (पा० ६ । १ । ७) इति पूर्वदीर्घः । किंभूतस्त्वम् । अजस्रयानुपक्षीणया सूर्म्या समित्काष्ठेन प्रेद्धः प्रकर्षे दीप्तः । सूर्मीशब्दः काष्ठवाचकः । यद्वा लोहमयी ज्वलन्ती स्थूणा सूर्मी । अजस्रया सूर्म्या सूर्मीसमानया ज्वालया दीदिहि । सूर्मीशब्दो ज्वालोपलक्षकः । हे अग्ने यतः शश्वन्तो निरन्तरभाविनो वाजाः अन्नानि हवींषि त्वामुपयन्ति प्राप्नुवन्ति अतो दीप्यस्वेत्यर्थः ॥ ७६ ॥
सप्ततितमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- गृत्समद ऋषिः
- आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) योगीजन ! (ते) तेरे (परमे) सब से अति उत्तम योग के संस्कार से उत्पन्न हुए (जन्मन्) जन्म में वा (त्वे) तेरे वर्त्तमान जन्म में (अवरे) न्यून (सधस्थे) एक साथ स्थान में वर्त्तमान हम लोग (स्तोमैः) स्तुतियों से (विधेम) सत्कारपूर्वक तेरी सेवा करें, तू हम लोगों को (यस्मात्) जिस (योनेः) स्थान से (उदारिथ) अच्छे-अच्छे साधनों के सहित प्राप्त हो, (तम्) उस स्थान को मैं (प्र, यजे) अच्छे प्रकार प्राप्त होऊँ और जैसे होम करनेवाले लोग (समिद्धे) अच्छे प्रकार जलते हुए अग्नि में (हवींषि) होम करने योग्य वस्तुओं को (जुहुरे) होमते हैं, वैसे योगाग्नि में हम लोग दुःखों के होम का (विधेम) विधान करें ॥७५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस संसार में योग के संस्कार से युक्त जिस जीव का पवित्र भाव से जन्म होता है, वह संस्कार की प्रबलता से योग ही के जानने की चाहना करनेवाला होता है और उसका जो सेवन करते हैं, वे भी योग की चाहना करनेवाले होते हैं, उक्त सब योगीजन जैसे अग्नि इन्धन को जलाता है, वैसे समस्त दुःख अशुद्धि भाव को योग से जलाते हैं ॥७५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने योगिन् ! ते तव परमे जन्मन् त्वे वर्त्तमानेऽवरे सधस्थे वर्त्तमाना वयं स्तोमैर्विधेम, त्वमस्मान् यस्माद् योनेरुदारिथ, तं योनिमहं प्रयजे, यथा होतारः समिद्धे अग्नौ हवींषि जुहुरे, तथा योगाग्नौ दुःखसमूहस्य होमं विधेम ॥७५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - इह यस्य योगसंस्कारयुक्तस्य जीवस्य पवित्रोपचितं जन्म जायते, स संस्कारबलाद् योगिजिज्ञासुरेव भवति। ये तं सेवन्ते तेऽपि योगजिज्ञासवो सर्व एतेऽग्निरिन्धनानीव सर्वामशुद्धिं योगेन दहन्ति ॥७५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या जगात पूर्वजन्मीच्या योगयुक्त संस्काराने ज्या पवित्र जीवाचा जन्म होतो त्याचे संस्कार प्रबळ असल्यामुळे तो योगाची इच्छा धरणाराच असतो व त्याच्या संगतीत जे राहतात किंवा त्याचा स्वीकार करतात ते ही योगाची आवड असणारेच असतात. वरील सर्व योगिजन अग्नी जसा इंधन जाळतो तसे सर्व दुःख व अशुद्धी योगबलानेच जाळतात.
७६ प्रेद्धोऽअग्ने दीदिहि
विश्वास-प्रस्तुतिः ...{Loading}...
०३ प्रेद्धो अग्ने ...{Loading}...
प्रे᳓द्धो अग्ने दीदिहि पुरो᳓ नो᳓
ऽजस्रया सूर्म्या᳙+++(=ज्वलल्-लोह-स्थूणया)+++ यविष्ठ ।
त्वाँ᳓ श᳓श्वन्त उ᳓प यन्ति वा᳓जाः ।
मूलम् ...{Loading}...
प्रेद्धो॑ऽअग्ने दीदिहि पु॒रो नोऽज॑स्रया सू॒र्म्या᳖ यविष्ठ। त्वाँ शश्व॑न्त॒ऽउप॑यन्ति॒ वाजाः॑ ॥७६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्रेद्ध॒ इति॒ प्रऽइ॑द्धः। अ॒ग्ने॒। दी॒दि॒हि॒। पु॒रः। नः॒। अज॑स्रया। सू॒र्म्या᳖। य॒वि॒ष्ठ॒। त्वाम्। शश्व॑न्तः। उप॑। य॒न्ति॒। वाजाः॑। ७६।
महीधरः
म० ‘स्रुवाहुती जुहोत्यग्ने तमद्येति प्रत्यृचम्’ (का० १८।४। ८)। समिध आधायाग्ने तमिति ऋग्द्वयेन स्रुवेण द्वे घृताहुती तत्राग्नौ जुहोतीत्यर्थः । व्याख्याता (अ० १५। क०४४) ॥७७॥
अष्टसप्ततितमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वसिष्ठ ऋषिः
- आर्ष्युष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (यविष्ठ) अत्यन्त तरुण (अग्ने) आग के समान दुःखों के विनाश करनेहारे योगीजन ! आप (पुरः) पहिले (प्रेद्धः) अच्छे तेज से प्रकाशमान हुए (अजस्रया) नाशरहित निरन्तर (सूर्म्या) ऐश्वर्य्य के प्रवाह से (नः) हम लोगों को (दीदिहि) चाहें (शश्वन्तः) निरन्तर वर्त्तमान (वाजाः) विशेष ज्ञानवाले जन (त्वाम्) आपको (उप, यन्ति) प्राप्त होवें ॥७६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जब मनुष्य शुद्धात्मा होकर औरों का उपकार करते हैं, तब वे भी सर्वत्र उपकारयुक्त होते हैं ॥७६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे यविष्ठाग्ने ! त्वं पुरः प्रेद्धः सन्नजस्रया सूर्म्या नोऽस्मान् दीदिहि शश्वन्तो वाजास्त्वामुपयन्ति ॥७६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदा मनुष्याः शुद्धात्मानो भूत्वाऽन्यानुपकुर्वन्ति, तदा तेऽपि सर्वत्रोपकृता भवन्ति ॥७६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जेव्हा माणसे पवित्र होऊन इतरांवर उपकार करतात तेव्हा ते परोपकारी म्हणून प्रसिद्ध होतात व सर्वत्र परोपकारच करतात.
७७ अग्ने तमद्याश्वन्न
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने॒ तम॒द्याश्व॒न्न स्तोमैः॒ क्रतु॒न्न भ॒द्रँ हृ॑दि॒स्पृश॑म्। ऋ॒ध्यामा॑ त॒ऽओहैः॑ ॥७७ ॥
मूलम् ...{Loading}...
अग्ने॒ तम॒द्याश्व॒न्न स्तोमैः॒ क्रतु॒न्न भ॒द्रँ हृ॑दि॒स्पृश॑म्। ऋ॒ध्यामा॑ त॒ऽओहैः॑ ॥७७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अग्ने॑। तम्। अ॒द्य। अश्व॑म्। न। स्तोमैः॑। क्रतु॑म्। न। भ॒द्रम्। हृ॒दि॒ऽस्पृश॑म्। ऋ॒ध्याम॑। ते॒। ओहैः॑। ७७।
महीधरः
म० विश्वकर्मदेवत्यातिजगती । मनसा घृतेन च सह चित्तिमृत्विग्यजमानानां चित्तिं जुहोमि अग्निसंबद्धं करोमि । अग्नितत्त्वपरिज्ञानार्थ चिन्तनं सन्तानं करोमीत्यर्थः । संकल्पविकल्पात्मकं मनः । निश्चयात्मकं चित्तम् । तथा जुहोमि । यथा इह यज्ञे देवा आगमन् आगच्छेयुः । ‘पुषादि-’ (पा० ३ । १। ५५) इत्यादिना गमेर्लुङि च्लेरङ । कीदृशा देवाः । वीतिहोत्राः । होत्रा इति यज्ञनाम । वीतिरभिलाषो होत्रा येषां ते वीतिहोत्राः कामितयज्ञाः । ऋतावृधः ऋतं सत्यं यज्ञं वा वर्धयन्ति ते ऋतवृधः । संहितायां दीर्घः । किंच विश्वाहा । विश्वानि च तान्यहानि च विश्वाहा सर्वेष्वहःसु अदाभ्यमनुपहतं स्वादु हविः विश्वकर्मणे प्रजापतये जुहोमि । कीदृशाय विश्वकर्मणे । भूमनो भूम्नो महतो विश्वस्य जगतः पत्ये स्वामिने। भूमन इत्यत्रोपधालोपाभाव आर्षः ॥ ७८ ॥
एकोनाशीतितमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वसिष्ठ ऋषिः
- आर्षी गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) बिजुली के समान पराक्रमवाले विद्वन् ! जो (अश्वम्) घोड़े के (न) समान वा (क्रतुम्) बुद्धि के (न) समान (भद्रम्) कल्याण और (हृदिस्पृशम्) हृदय में स्पर्श करनेवाला है, (तम्) उस पूर्व मन्त्र में कहे तुझ को (स्तोमैः) स्तुतियों से (अद्य) आज प्राप्त होकर (ते) आप के (ओहैः) पालन आदि गुणों से (ऋध्याम) वृद्धि को पावें ॥७७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे शरीर आदि में स्थिर हुए बिजुली आदि से वृद्धि, वेग और वृद्धि के सुख बढ़ें, वैसे विद्वानों की सिखावट और पालन आदि से मनुष्य आदि सब वृद्धि को पाते हैं ॥७७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! विद्युत्सदृशपराक्रमिन्नश्वं न क्रतुं न भद्रं हृदिस्पृशं तं त्वां स्तोमैरद्य प्राप्य ते तवौहैर्वयं सततमृध्याम ॥७७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा शरीरस्थेन विद्युदादिना वृद्धिवेगौ प्रज्ञासुखानि च वर्धेरँस्तथा विद्वच्छिक्षारक्षादिभिर्मनुष्यादयो वर्द्धन्ते ॥७७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जसे शरीरातील विद्युतमुळे बुद्धीचा वेग व बुद्धीचे सुख वाढते तसे विद्वानांची शिकवणूक व पालन इत्यादींनी माणसांची उन्नती होते.
७८ चित्तिं जुहोमि
विश्वास-प्रस्तुतिः ...{Loading}...
चित्तिं॑ जुहोमि॒ मन॑सा घृ॒तेन॒ यथा॑ दे॒वाऽइ॒हागम॑न् वी॒तिहो॑त्राऽऋता॒वृधः॑। पत्ये॒ विश्व॑स्य॒ भूम॑नो जु॒होमि॑ वि॒श्वक॑र्मणे वि॒श्वाहादा॑भ्यँ ह॒विः ॥७८ ॥
मूलम् ...{Loading}...
चित्तिं॑ जुहोमि॒ मन॑सा घृ॒तेन॒ यथा॑ दे॒वाऽइ॒हागम॑न् वी॒तिहो॑त्राऽऋता॒वृधः॑। पत्ये॒ विश्व॑स्य॒ भूम॑नो जु॒होमि॑ वि॒श्वक॑र्मणे वि॒श्वाहादा॑भ्यँ ह॒विः ॥७८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
चित्ति॑म्। जु॒हो॒मि॒। मन॑सा। घृ॒तेन॑। यथा॑। दे॒वाः। इ॒ह। आ॒गम॒न्नित्या॒गम॑न्। वी॒तिहो॑त्रा॒ इति॑ वी॒तिऽहो॑त्रा। ऋ॒ता॒वृधः॑। ऋ॒त॒वृध॒ इत्यृ॑त॒ऽवृधः॑। पत्ये॑। विश्व॑स्य। भूम॑नः। जु॒होमि॑। वि॒श्वक॑र्मण॒ इति॑ वि॒श्वऽक॑र्मणे। वि॒श्वाहा॑। अदा॑भ्यम्। ह॒विः। ७८।
महीधरः
म० पूर्णाहुतिं च सप्त त इति’ ( का० १८ । ४ । ९)। स्रुचा पूर्णाहुतिं जुहोति घृतपूर्णया स्रुचा’ आहुतिः पूर्णाहुतिरित्यर्थः । सप्तर्षिदृष्टा अग्नेयी द्व्यधिका त्रिष्टुप् । हे अग्ने, ते तव सप्त समिधः समिन्धनाः प्राणाः शीर्षण्याः सन्ति । ‘प्राणा वै समिधः प्राणा ह्येतᳪं᳭ समिन्धते’ ( ९ । २ । ३ । ४४ ) इति श्रुतेः । किंच तव सप्त जिह्वाः सन्ति ज्वालारूपाः सप्त जिह्वाः हिरण्याङ्गणाद्याः(?) आगमोक्ताः । यद्वा आथर्वणिकोक्ताः ‘काली कराली च मनोजवा च विलोहिता चापि सधूम्रवर्णा । स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः’ (मुण्ड० १। २) इति। तथा सप्त ऋषयः मरीच्यादयस्तव द्रष्टारः सन्ति । तथा सप्त प्रियाणि धाम धामानि छन्दांसि गायत्र्यादीनि तव सन्ति । ‘छन्दाᳪं᳭सि वा अस्य सप्त धाम प्रियाणि’ ( ९ । २।३। ४४ ) इति श्रुतेः । यद्वा धामानि स्थानानि आहवनीयगार्हपत्यदक्षिणाग्निसभ्यावसथ्यप्राजाहिताग्नीध्रीयाणि सोमयागे वह्निधारकाणि सन्ति । किंच हे अग्ने, सप्त होत्राः होत्रादय ऋत्विजः सप्तधा सप्तप्रकारैरग्निष्टोमादिसप्तसंस्थाभिः त्वा त्वां यजन्ति । होता प्रशास्ता ब्राह्मणाच्छंसी पोता नेष्टाग्नीध्रोऽच्छावाकश्चेति सप्त होत्राः । अग्निष्टोमोऽत्यमिष्टोम उक्थ्यः षोडश्यतिरात्र आप्तोर्यामो वाजपेयश्चेति सप्तसंस्थाः प्रकाराः । हे अग्ने, स त्वं सप्त योनीः चितीः घृतेनापृणस्व ‘सप्त योनीरिति चितीरेतदाह सप्तचितिकोऽग्निः’ ( ९ । २। ३ । ४४ ) इति च श्रुतेः । स्वाहा सुहुतमस्तु । यद्वा ‘यज्ञो वै स्वाहाकारः’ ( ९ । २ । ३ । ४४ ) इति श्रुतेः । स्वाहा यज्ञरूपः त्वं सप्त योनीर्घृतेनापृणस्व ‘पृण तृप्तौ’ तुदादिः ॥ ७९ ॥
अशीतितमी।
अधिमन्त्रम् (VC)
- विश्वकर्मा देवता
- वसिष्ठ ऋषिः
- विराडतिजगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (यथा) जैसे मैं (मनसा) विज्ञान वा (घृतेन) घी से (चित्तिम्) जिस क्रिया से सञ्चय करते हैं, उसको (जुहोमि) ग्रहण करता हूँ वा जैसे (इह) इस जगत् में (वीतिहोत्राः) सब ओर से प्रकाशमान जिन का यज्ञ है, वे (ऋतावृधः) सत्य से बढ़ते और (देवाः) कामना करते हुए विद्वान् लोग (भूमनः) अनेक रूपवाले (विश्वस्य) समस्त संसार के (विश्वकर्म्मणे) सब के करने योग्य काम को जिसने किया है, उस (पत्ये) पालनेहारे जगदीश्वर के लिये (अदाभ्यम्) नष्ट न करने और (हविः) होमने योग्य सुख करनेवाले पदार्थ का (विश्वाहा) सब दिनों होम करने को (आगमन्) आते हैं और मैं होमने योग्य पदार्थों को (जुहोमि) होमता हूँ, वैसे तुम लोग भी आचरण करो ॥७८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे काष्ठों में चिना हुआ अग्नि घी से बढ़ता है, वैसे मैं विज्ञान से बढ़ूँ वा जैसे ईश्वर की उपासना करनेहारे विद्वान् संसार के कल्याण करने का प्रयत्न करते हैं, वैसे मैं भी यत्न करूँ ॥७८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथाऽहं मनसा घृतेन चित्तिं जुहोमि, यथेह वीतिहोत्रा ऋतावृधो देवा भूमनो विश्वस्य विश्वकर्मणे पत्ये जगदीश्वरायादाभ्यं हविर्विश्वाहा होतुमागमन्नहं हविर्जुहोमि, तथा यूयमप्याचरत ॥७८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा काष्ठचितोऽग्निराज्येन वर्द्धते, तथा विज्ञानेनाहं वर्द्धेयम्, यथेश्वरोपासका विद्वांसश्च जगतः कल्याणाय प्रयतन्ते, तथाहमपि प्रयतेय ॥७८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. समिधेमध्ये असलेला अग्नी जशी तुपाची आहुती दिल्याने वाढतो तसे मी विज्ञानाने उन्नत व्हावे. ईश्वराचे उपासक विद्वान लोक जसे जगाचे कल्याण करण्याचा प्रयत्न करतात तसा मीही करावा.
७९ सप्त तेऽअग्ने
विश्वास-प्रस्तुतिः ...{Loading}...
स॒प्त ते॑ऽअग्ने स॒मिधः॑ स॒प्त जि॒ह्वाः स॒प्तऽऋष॑यः स॒प्त धाम॑ प्रि॒याणि॑। स॒प्त होत्राः॑ सप्त॒धा त्वा॑ यजन्ति स॒प्त योनी॒रापृ॑णस्व घृ॒तेन॒ स्वाहा॑ ॥७९ ॥
मूलम् ...{Loading}...
स॒प्त ते॑ऽअग्ने स॒मिधः॑ स॒प्त जि॒ह्वाः स॒प्तऽऋष॑यः स॒प्त धाम॑ प्रि॒याणि॑। स॒प्त होत्राः॑ सप्त॒धा त्वा॑ यजन्ति स॒प्त योनी॒रापृ॑णस्व घृ॒तेन॒ स्वाहा॑ ॥७९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स॒प्त। ते॒। अ॒ग्ने॒। स॒मिध॒ इति॑ स॒म्ऽइधः॑। स॒प्त। जि॒ह्वाः। स॒प्त। ऋष॑यः। स॒प्त। धाम॑। प्रि॒याणि॑। स॒प्त। होत्राः॑। स॒प्त॒ऽधा। त्वा॒। य॒ज॒न्ति॒। स॒प्त। योनीः॑। आ। पृ॒ण॒स्व॒। घृ॒तेन॑। स्वाहा॑। ७९।
महीधरः
म० ‘वैश्वानरेण प्रचर्य सर्वहुतेन हस्तेन मारुतान् जुहोतीत्युपविश्य वैश्वानरे वा वैश्वानरं पृथुं कृत्वा शुक्रज्योतिरिति प्रतिमन्त्रम् विमुखेनारण्येऽनूच्यम्’ ( का. १८ । ४ । २३ । २४ ) । वैश्वानरपुरोडाशेन यागं कृत्वोपविश्याहवनीये हस्तेन मारुतान्पुरोडाशान्सर्वहुतान् जुहोति शुक्रज्योतिरित्येकैकमन्त्रेणैकैकम् । यद्वा वैश्वानरपुरोडाशस्योपर्येव मारुतान् जुहोति । किं कृत्वा । प्रथनकाले वैश्वानरं पुरोडाशं विस्तीर्णं कृत्वा । आरण्येऽनूच्यं सप्तमं पुरोडाशं विमुखेनोग्रश्च भीमश्चेति वक्ष्यमाणमन्त्रेण जुहोतीत्यर्थः । षट् मरुद्देवत्याः । आद्या उष्णिक । एकैकस्यामृचि सप्त सप्त मरुतः । शुक्रज्योतिरित्याद्या एकोनपञ्चाशन्मरुतो यूयमद्यास्मिन्नोऽस्माकं यज्ञे एतन एत आगच्छत इति पञ्चमर्चि अन्वयः । ‘तप्तनप्-’ (पा. ७ । १। ४५) इत्यादिना तस्य तनादेशः । तन्नामानि व्याख्यायन्ते । शुक्रं शुद्धं शुक्रस्येव वा ज्योतिस्तेजो यस्य स शुक्रज्योतिः । चित्रं दर्शनीयं ज्योतिर्यस्य स चित्रज्योतिः । सत्यं ब्रह्मलक्षणं ज्योतिर्यस्य स सत्यज्योतिः । ज्योतिस्तेजोऽस्यास्तीति ज्योतिष्मान् । शोचते दीप्यत इति शुक्रः । ऋतं सत्यं यज्ञं वा पातीति ऋतपाः । अंहः पापमतीत्य वर्तत इत्यत्यंहाः । चकाराः समुच्चयार्थाः ॥ ८० ॥
एकाशीतितमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- सप्तऋषय ऋषयः
- आर्षी जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) तेजस्वी विद्वन् ! जैसे आग के (सप्त, समिधः) सात जलानेवाले (सप्त, जिह्वाः) वा सात काली कराली आदि लपटरूप जीभ वा (सप्त, ऋषयः) सात प्राण, अपान, उदान, समान, व्यान, देवदत्त, धनञ्जय वा (सप्त, प्रियाणि, धाम) सात पियारे धाम अर्थात् जन्म, स्थान, नाम, धर्म, अर्थ, काम और मोक्ष वा (सप्त, होत्राः) सात प्रकार के ऋतु-ऋतु में यज्ञ करनेवाले हैं, वैसे (ते) तेरे हों, जैसे विद्वान् उस अग्नि को (सप्तधा) सात प्रकार से (यजन्ति) प्राप्त होते हैं, वैसे (त्वा) तुझको प्राप्त होवें, जैसे यह अग्नि (घृतेन) घी से और (स्वाहा) उत्तम वाणी से (सप्त, योनीः) सात संचयों को सुख से प्राप्त होता है, वैसे तू (आ, पृणस्व) सुख से प्राप्त हो ॥७९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे र्इंधन से अग्नि बढ़ता है, वैसे विद्या आदि शुभगुणों से समस्त मनुष्य वृद्धि को प्राप्त होवें, जैसे विद्वान् जन अग्नि में घी आदि को होम के जगत् का उपकार करते हैं, वैसे हम लोग भी करें ॥७९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने विद्वन् ! यथाग्नेः सप्त समिधः सप्त जिह्वाः सप्तर्षयः सप्त प्रियाणि धाम सप्त होत्राश्च सन्ति, तथा ते तव सन्तु। यथा विद्वांसस्तमग्निं सप्तधा यजन्ति, तथा त्वा यजन्तु। यथाऽयमग्निर्घृतेन स्वाहा सप्त योनीरापृणते तथा त्वमापृणस्व ॥७९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथेन्धनैरग्निर्वर्धते तथा विद्यादिशुभगुणैः सर्वे मनुष्या वर्धन्ताम्। यथा विद्वांसोऽग्नौ घृतादिकं हुत्वा जगदुपकुर्वन्ति, तथा वयमपि कुर्याम ॥७९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. ज्याप्रमाणे इंधनाने अग्नी प्रदीप्त होतो त्याप्रमाणे विद्या इत्यादी शुभ गुणांनी सर्व माणसांची उन्नती व्हावी. जसे विद्वान लोक अग्नीत तुपाची आहुती टाकून जगावर उपकार करतात तसे आपण सर्व लोकांनीही करावे.
८० शुक्रज्योतिश्च चित्रज्योतिश्च
विश्वास-प्रस्तुतिः ...{Loading}...
शु॒क्रज्यो॑तिश्च चि॒त्रज्यो॑तिश्च स॒त्यज्योति॑श्च॒ ज्योति॑ष्माँश्च। शु॒क्रश्च॑ऽऋत॒पाश्चात्यँ॑हाः ॥८० ॥
मूलम् ...{Loading}...
शु॒क्रज्यो॑तिश्च चि॒त्रज्यो॑तिश्च स॒त्यज्योति॑श्च॒ ज्योति॑ष्माँश्च। शु॒क्रश्च॑ऽऋत॒पाश्चात्यँ॑हाः ॥८० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
शु॒क्रज्यो॑ति॒रिति॑ शु॒क्रऽज्यो॑तिः। च॒। चि॒त्रज्यो॑ति॒रिति॑ चि॒त्रऽज्यो॑तिः। च॒। स॒त्यज्यो॑ति॒रिति॑ स॒त्यऽज्यो॑तिः। च॒। ज्योति॑ष्मान्। च॒। शु॒क्रः। च॒। ऋ॒त॒पा इत्यृ॑त॒ऽपाः। च॒। अत्यँ॑हा॒ इत्यति॑ऽअँहाः। ८०।
महीधरः
म० द्वे गायत्र्यौ । इमं पुरोडाशं गृहीत्वा पश्यतीति ईदृङ् । अन्यमपि पुरोडाशं पश्यतीति अन्यादृङ् । समानं पश्यतीति सदृङ् । तं तं प्रति समानं पश्यतीति प्रतिसदृङ् । मितो मानं प्राप्तः । यद्वा उत्तमाधममध्यमैस्तुल्यो मितः । सम्यक् एकीभावेन मितो मानं प्राप्तः संमितः । सह बिभर्तीति सभराः ॥ ८१ ॥
द्व्यशीतितमी।
अधिमन्त्रम् (VC)
- मरुतो देवताः
- सप्तऋषय ऋषयः
- आर्ष्युष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
अब ईश्वर कैसा है, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (शुक्रज्योतिः) शुद्ध जिसका प्रकाश (च) और (चित्रज्योतिः) अद्भुत जिसका प्रकाश (च) और (सत्यज्योतिः) विनाशरहित जिसका प्रकाश (च) और (ज्योतिष्मान्) जिस के बहुत प्रकाश हैं (च) और (शुक्रः) शीघ्र करनेवाला वा शुद्धस्वरूप (च) और (अत्यंहाः) जिसने दुष्ट काम को दूर किया (च) और (ऋतपाः) सत्य की रक्षा करनेवाला ईश्वर है, वैसे तुम लोग भी होओ ॥८० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे इस जगत् में बिजुली वा सूर्य आदि प्रजा और शुद्धि के करनेवाले पदार्थों को बना कर ईश्वर ने जगत् शुद्ध किया है, वैसे ही शुद्धि, सत्य और विद्या के उपदेश की क्रियाओं से विद्वान् जनों को मनुष्यादि शुद्ध करने चाहियें। इस मन्त्र में अनेक चकारों के होने से यह भी ज्ञात होता है कि सब के ऊपर प्रीति आदि गुण भी विधान करने चाहियें ॥८० ॥
दयानन्द-सरस्वती (सं) - विषयः
अथेश्वरः कीदृशोऽस्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा शुक्रज्योतिश्च चित्रज्योतिश्च सत्यज्योतिश्च ज्योतिष्माँश्च शुक्रश्चात्यंहा ऋतपाश्चेश्वरोऽस्ति, तथा यूयं भवत ॥८० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथेह विद्युत्सूर्यादीन् प्रभाकरान् शुद्धिकरान् पदार्थान् निर्मायेश्वरेण जगच्छोध्यते, तथैव शुचिसत्यविद्योपदेशक्रियाभिर्मनुष्यादयो विद्वद्भिः शोधनीयाः। अत्रानेकेषां चकाराणां पाठात् सर्वेषामुपरि प्रीत्यादयोऽपि विधेयाः ॥८० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. ज्याप्रमाणे ईश्वराने या जगात विद्युत किंवा सूर्यरूपाने प्रकाश देणारे पदार्थ व शुद्धी करणारे पदार्थ निर्माण करून जग शुद्ध केलेले आहे त्याप्रमाणेच विद्वानांनी सत्य व विद्या यांचा उपदेश करून माणसांना शुद्ध करावे. या मंत्रात अनेक चकार आलेले आहेत. त्यावरून हे ज्ञात होते की, सर्वांवर प्रेम करण्याची भावना पण असली पाहिजे.
८१ ईदृङ् चान्यादृङ्
विश्वास-प्रस्तुतिः ...{Loading}...
ई॒दृङ् चा॑न्या॒दृङ् च॑ स॒दृङ् च॒ प्रति॑सदृङ् च। मि॒तश्च॒ सम्मि॑तश्च॒ सभ॑राः ॥८१ ॥
मूलम् ...{Loading}...
ई॒दृङ् चा॑न्या॒दृङ् च॑ स॒दृङ् च॒ प्रति॑सदृङ् च। मि॒तश्च॒ सम्मि॑तश्च॒ सभ॑राः ॥८१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ई॒दृङ्। च॒। अ॒न्या॒दृङ्। च॒। स॒दृङ्। स॒दृङिति॑ स॒ऽदृङ्। च॒। प्रति॑सदृ॒ङ्ङिति॒ प्रति॑ऽसदृङ्। च॒। मि॒तः। च॒। सम्मि॑त॒ इति॒ सम्ऽमि॑तः। च॒। सभ॑रा॒ इति॒ सऽभ॑राः। ८१।
महीधरः
म० ऋतः सत्यरूपः । सति वस्तुनि भवः सत्यः । ध्रुवः स्थिरः । धरुणः धारकः । धारयतीति धर्ता । विशेषेण धारयतीति विधर्ता । विविधं धारयतीति विधारयः ॥ ८२ ॥
त्र्यशीतितमी।
अधिमन्त्रम् (VC)
- मरुतो देवताः
- सप्तऋषय ऋषयः
- आर्षी गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर विद्वान् कैसा हो, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो पुरुष (ईदृङ्) इसके तुल्य (च) भी (अन्यादृङ्) और के समान (च) भी (सदृङ्) समान देखनेवाला (च) भी (प्रतिसदृङ्) उस उसके प्रति सदृश देखनेवाला (च) भी (मितः) मान को प्राप्त (च) भी (सम्मितः) अच्छे प्रकार परिणाम किया गया (च) और जो (सभराः) समान धारणा को करनेवाले वर्त्तमान हैं, वे व्यवहारसम्बन्धी कार्य्यसिद्धि कर सकते हैं ॥८१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य ईश्वर के तुल्य उत्तम और ईश्वर के समान काम को करके सत्य को धारण करता और असत्य का त्याग करता है, वही योग्य है ॥८१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्विद्वान् कीदृशो भवेदित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये पुरुषा ईदृङ् चान्यादृङ् च सदृङ् च प्रतिसदृङ् च मितश्च सम्मितश्च सभराश्च वर्त्तन्ते, ते व्यावहारिकीं कार्यसिद्धिं कर्त्तुं शक्नुवन्ति ॥८१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यो मनुष्य ईश्वरतुल्य उत्तमस्तदनुकरणं कृत्वा सत्यं धरत्यसत्यं त्यजति, स एव योग्योऽस्ति ॥८१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जो माणूस (ईश्वराप्रमाणे) उत्तम असून तसेच काम करतो व सत्याला धारण करून असत्याचा त्याग करतो तोच श्रेष्ठ असतो.
८२ ऋतश्च सत्यश्च
विश्वास-प्रस्तुतिः ...{Loading}...
ऋ॒तश्च॑ स॒त्यश्च॑ ध्रु॒वश्च॑ ध॒रुण॑श्च। ध॒र्त्ता च॑ विध॒र्त्ता च॑ विधार॒यः ॥८२ ॥
मूलम् ...{Loading}...
ऋ॒तश्च॑ स॒त्यश्च॑ ध्रु॒वश्च॑ ध॒रुण॑श्च। ध॒र्त्ता च॑ विध॒र्त्ता च॑ विधार॒यः ॥८२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ऋ॒तः। च॒। स॒त्यः। च॒। ध्रु॒वः। च॒। ध॒रुणः॑। च॒। ध॒र्त्ता। च॒। वि॒ध॒र्त्तेति॑ विऽध॒र्त्ता। च॒। वि॒धा॒र॒य इति॑ विऽधार॒यः। ८२।
महीधरः
म० उष्णिक् । ऋतं यज्ञं जयतीति ऋतजित् । सत्यं याथातथ्यं जयतीति सत्यजित् । सेनां शत्रुसैन्यं जयतीति सेनजित् । ह्रस्व आर्षः । शोभना सेना यस्य सुषेणः । अन्ति समीपे मित्राणि यस्य स अन्तिमित्रः । दूरे अमित्राः शत्रवो यस्य स दूरे अमित्रः ‘प्रकृत्यान्तःपादम् -’ (पा०६।१। ११५) इति सन्ध्यभावः ‘हलदन्तात्सप्तम्या-’ (पा० ६ । ३ । ९) इति विभक्त्यलोपः । गणयति सर्वमिति गणः ॥ ८३ ॥
चतुरशीतितमी।
अधिमन्त्रम् (VC)
- मरुतो देवताः
- सप्तऋषय ऋषयः
- आर्षी गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर ईश्वर कैसा है, यह अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (ऋतः) सत्य का जाननेवाला (च) भी (सत्यः) श्रेष्ठों में श्रेष्ठ (च) भी (ध्रुवः) निश्चययुक्त (च) भी (धरुणः) सब का आधार (च) भी (धर्त्ता) धारण करनेवाला (च) भी (विधर्त्ता) विशेष करके धारण करनेवाला अर्थात् धारकों का धारक (च) भी और (विधारयः) विशेष करके सब व्यवहार का धारण करानेवाला परमात्मा है, सब लोग उसी की उपासना करें ॥८२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य विद्या, उत्साह, सज्जनों का सङ्ग और पुरुषार्थ से सत्य और विशेष ज्ञान को धारण कर, अच्छे स्वभाव को धारण करते हैं, वे ही आप सुखी हो सकते और दूसरों को कर भी सकते हैं ॥८२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनरीश्वरः कीदृशोऽस्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! य ऋतश्च सत्यश्च ध्रुवश्च धरुणश्च धर्त्ता च विधर्त्ता च विधारयः परमात्माऽस्ति, तमेव इति सर्व उपासीरन् ॥८२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्या विद्योत्साहसत्सङ्गपुरुषार्थैः सत्यविज्ञाने धृत्वा सुशीलतां धरन्ति, त एव सुखिनो भवितुमन्याँश्च कर्त्तुं शक्नुवन्ति ॥८२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे विद्या, उत्साह, सज्जनांची संगती, पुरुषार्थाने सत्य व विशेष ज्ञान ग्रहण करतात व उत्तम स्वभावामुळे स्वतः सुखी होतात ते इतरांनाही सुखी करू शकतात.
८३ ऋतजिच्च सत्यजिच्च
विश्वास-प्रस्तुतिः ...{Loading}...
ऋ॒त॒जिच्च॑ सत्य॒जिच्च॑ सेन॒जिच्च॑ सु॒षेण॑श्च। अन्ति॑मित्रश्च दू॒रेऽअ॑मित्रश्च ग॒णः ॥८३ ॥
मूलम् ...{Loading}...
ऋ॒त॒जिच्च॑ सत्य॒जिच्च॑ सेन॒जिच्च॑ सु॒षेण॑श्च। अन्ति॑मित्रश्च दू॒रेऽअ॑मित्रश्च ग॒णः ॥८३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ऋ॒त॒जिदित्यृ॑त॒ऽजित्। च॒। स॒त्यजिदिति॑ सत्य॒ऽजित्। च॒। से॒न॒जिदिति॑ सेन॒ऽजित्। च॒। सु॒षेणः॑। सु॒सेन॒ इति॑ सु॒ऽसेनः॑। च॒। अन्ति॑मित्र॒ इत्यन्ति॑ऽमित्रः। च॒। दू॒रेऽअ॑मित्र॒ इति॑ दू॒रेऽअ॑मित्रः। च॒। ग॒णः। ८३।
महीधरः
म०. हे मरुतः, यूयमेते कीदृशाः । ईदृक्षासः इदंदर्शनाः । एतादृक्षासः एतद्दर्शनाः । उ सु नः एतत्पदत्रयं पादपूर्तये । सदृक्षासः समानदर्शनाः । प्रतिसदृक्षासः प्रत्येकं समानदर्शनाः । मितासः मिताः प्रमाणतः । संमितासः सङ्गत्य मिताः । सभरसः समानमलंकारादिकं बिभ्रति ते सभरसः । भरसा आदरेण सह वर्तमाना इति वा । बहुवचनमादरार्थम् ॥ ८४ ॥
पञ्चाशीतितमी।
अधिमन्त्रम् (VC)
- मरुतो देवताः
- सप्तऋषय ऋषयः
- भुरिगार्ष्युष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
अब विद्वान् लोग कैसे हों, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (ऋतजित्) विशेष ज्ञान को बढ़ानेहारा (च) और (सत्यजित्) कारण तथा धर्म को उन्नति देनेवाला (च) और (सेनजित्) सेना को जीतनेहारा (च) और (सुषेणः) सुन्दर सेनावाला (च) और (अन्तिमित्रः) समीप में सहाय करनेहारे मित्रवाला (च) और (दूरे अमित्रः) शत्रु जिससे दूर भाग गये हों (च) और अन्य भी जो इस प्रकार का हो, वह (गणः) गिनने योग्य होता है ॥८३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य विद्या और सत्य आदि कामों की उन्नति करें तथा मित्रों की सेवा और शत्रुओं से वैर करें, वे ही लोक में प्रशंसा योग्य होते हैं ॥८३ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ विद्वांसः कीदृशा भवेयुरित्युच्यते
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - य ऋतजिच्च सत्यजिच्च सेनजिच्च सुषेणश्चान्तिमित्रश्च दूरेऽअमित्रश्च भवेत्, स एव गणो गणनीयो जायते ॥८३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्या विद्यासत्यादीनि कर्माण्युन्नयेयुर्मित्रसेविनः शत्रुद्वेषिणश्च भवेयुस्त एव लोके प्रशंसनीयाः स्युः ॥८३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे विद्या व सत्याची वृद्धी करून मित्रांना मदत करतात व शत्रूंपासून दूर राहतात तीच प्रशंसा करण्यायोग्य असतात.
८४ ईदृक्षासऽएतादृक्षासऽऊ षु
विश्वास-प्रस्तुतिः ...{Loading}...
ई॒दृक्षा॑सऽएता॒दृक्षा॑सऽऊ॒ षु णः॑ स॒दृक्षा॑सः॒ प्रति॑सदृक्षास॒ऽएत॑न। मि॒तास॑श्च॒ सम्मि॑तासो नोऽअ॒द्य सभ॑रसो मरुतो य॒ज्ञेऽअ॒स्मिन् ॥८४ ॥
मूलम् ...{Loading}...
ई॒दृक्षा॑सऽएता॒दृक्षा॑सऽऊ॒ षु णः॑ स॒दृक्षा॑सः॒ प्रति॑सदृक्षास॒ऽएत॑न। मि॒तास॑श्च॒ सम्मि॑तासो नोऽअ॒द्य सभ॑रसो मरुतो य॒ज्ञेऽअ॒स्मिन् ॥८४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ई॒दृक्षा॑सः। ए॒ता॒दृक्षा॑सः। ऊँ॒ऽइत्यूँ॑। सु। नः॒। स॒दृक्षा॑स॒ इति॑ स॒ऽदृक्षा॑सः। प्रति॑सदृक्षास॒ इति॒ प्रति॑ऽसदृक्षासः। आ। इ॒त॒न॒। मि॒तासः॑। च॒। सम्मि॑तास॒ इति॒ सम्ऽमि॑तासः। नः॒। अ॒द्य। सभ॑रस॒ इति॒ सऽभ॑रसः। म॒रु॒तः॒। य॒ज्ञे। अ॒स्मिन्। ८४।
महीधरः
म० गायत्री उष्णिग्वा षड्विंशत्यक्षरवाद्विकल्पः । आद्याः ’ पञ्च चातुर्मास्यदेवताः । स्वं स्वकीयं तवो बलं यस्य स स्वतवान् स्वाधीनबलयुक्तः । प्रकर्षेण घसति अत्ति प्रघासी पुरोडाशभक्षणशीलः । संतपनः सूर्यस्तत्संबन्धी सांतपनः । गृहमेधोऽस्यास्तीति गृहमेधी गृहधर्मवान् । क्रीडतीत्येवंशीलः क्रीडः सदा क्रीडाशीलः । शक्नोतीति शाकी शक्तः । उज्जयतीति उन्जेषी उत्कृष्टजयनशीलः । एते मरुतो यूयमत्र यज्ञे एतनेति पूर्वणान्वयः ॥ ८५ ॥
षडशीतितमी ।
अधिमन्त्रम् (VC)
- मरुतो देवताः
- सप्तऋषय ऋषयः
- निचृदार्षी जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (मरुतः) ऋतु-ऋतु में यज्ञ करनेवाले विद्वानो ! जो (ईदृक्षासः) इस लक्षण से युक्त (एतादृक्षासः) इस पहिले कहे हुओं के सदृश (सदृक्षासः) पक्षपात को छोड़ समान दृष्टिवाले (प्रतिसदृक्षासः) शास्त्रों को पढ़े हुए सत्य बोलनेवाले धर्मात्माओं के सदृश हैं, वे आप (नः) हम लोगों को (सु, आ, इतन) अच्छे प्रकार प्राप्त हों (उ) वा (मितासः) परिमाणयुक्त जानने योग्य (सम्मितासः) तुला के समान सत्य झूठ को पृथक्-पृथक् करने (च) और (अस्मिन्) इस (यज्ञे) यज्ञ में (सभरसः) अपने समान प्राणियों की पुष्टि पालना करनेवाले हों, वे (अद्य) आज (नः) हम लोगों की रक्षा करें और उनका हम लोग भी निरन्तर सत्कार करें ॥८४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जब धार्मिक विद्वान् जन कहीं मिलें, जिनके समीप जावें, पढ़ावें और शिक्षा देवें, तब वे उन सब लोगों को सत्कार करने योग्य हैं ॥८४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मरुतो विद्वांसो य ईदृक्षास एतादृक्षासस्सदृक्षासः प्रतिसदृक्षासो नोऽस्मान् स्वेतन उ मितासः सम्मितासश्चास्मिन् यज्ञे सभरसो भवताऽद्य नो रक्षत, तान् वयमपि सततं सत्कुर्याम ॥८४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदा धार्मिका विद्वांसः क्वापि मिलेयुर्यानुपागच्छेयुरध्यापयेयुः सुशिक्षेरँश्च तदेमे सर्वैः सत्कर्त्तव्याः ॥८४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्या वेळी धार्मिक विद्वान लोक सर्व लोकांजवळ जातील तेव्हाच (त्यांना शिक्षण देऊन) त्यांचा सन्मान करण्यायोग्य बनवू शकतील.
८५ स्वतवाँश्च प्रघासी
विश्वास-प्रस्तुतिः ...{Loading}...
स्वत॑वाँश्च प्रघा॒सी च॑ सान्तप॒नश्च॑ गृहमे॒धी च॑। क्री॒डी च॑ शा॒की चो॑ज्जे॒षी ॥८५ ॥
मूलम् ...{Loading}...
स्वत॑वाँश्च प्रघा॒सी च॑ सान्तप॒नश्च॑ गृहमे॒धी च॑। क्री॒डी च॑ शा॒की चो॑ज्जे॒षी ॥८५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स्वत॑वा॒निति॒ स्वऽत॑वान्। च॒। प्र॒घा॒सीति॑ प्रऽघा॒सी। च॒। सा॒न्त॒प॒न इति॑ साम्ऽतप॒नः। च॒। गृ॒ह॒मे॒धीति॑ गृ॒ह॒मे॒धी। च॒। क्री॒डी। च॒। शा॒की। च॒। उ॒ज्जे॒षीत्यु॑त्ऽजे॒षी। ८५।
महीधरः
म० विमुखमन्त्रोऽपि प्रसङ्गाद्व्याख्यायते। उग्र उत्कृष्टः । बिभेत्यस्मादसौ भीमः “भीमादयोऽपादाने’ ( पा० ३ । ४ । ७४ ) इति निपातः । ध्वान्तयति शत्रूनन्धीकरोतीति ध्वान्तः । ध्वान्तशब्दात् ‘तत्करोति-’ इति णिजन्तात्पचाद्यच् । धूनयति कम्पयति शत्रूनिति धुनिः । सहतेऽभिभवते शत्रूनिति सासह्वान् । सहेः क्वसुः अभ्यासदीर्घः । अभियुनक्ति अभियुग्वा ‘अन्येभ्योऽपि दृश्यन्ते’ (पा० ३ । २ । ७५) इति अभिपूर्वाद्युजेः क्वनिप् । भक्तानां सुखयोक्ता । विक्षिपति प्रेरयति शत्रूनिति विक्षिपः शत्रुक्षेप्ता । चकाराः समुच्चयार्थाः । स्वाहा एतेभ्यो मरुद्भ्यः सुहुताः पुरोडाशाः सन्तु । ‘इन्द्रं दैवीरिति जपति’ ( का० १८ । ४ । २५) । कर्मापवर्गान्ते यजुर्जपतीत्यर्थः । मरुद्देवत्यं यजुः शक्वरी षट्पञ्चाशदक्षरत्वात् । दैवीः दैव्यः देवानामिमा देवसंबन्धिन्यो विशः प्रजाः मरुतो मरुद्रूपा इन्द्रमनुवर्त्मानोऽभवन् । अनु पश्चाद्वर्त्म वर्तनं यासां ताः इन्द्रमनुगामिन्योऽभवन्निति स्वरूपाख्यानम् । देवीर्विशो मरुतः यथा इन्द्रमनुवर्त्मानः इन्द्रमनुसृत्य वर्तमाना अभवन् । उपमानमेतत् । दैवीर्मानुषीश्च देवसंबन्धिन्यो मनुष्यसंबन्धिन्यश्च विशः एवमिन्द्रवत् इमं यजमानमनुवर्त्मानः अनुमृत्य वर्तमाना भवन्त्विति प्रार्थना ॥ ८६ ॥
सप्ताशीतितमी।
अधिमन्त्रम् (VC)
- चातुर्मास्या मरुतो देवता
- सप्तऋषय ऋषयः
- स्वराडार्षी गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह विद्वान् कैसा हो, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (स्वतवान्) अपनों की वृद्धि करानेवाला (च) और (प्रघासी) जिसके बहुत भोजन करने योग्य पदार्थ विद्यमान हैं, ऐसा (च) और (सान्तपनः) अच्छे प्रकार शत्रुजनों को तपाने (च) और (गृहमेधी) जिसका प्रशंसायुक्त घर में सङ्ग ऐसा (च) और (क्रीडी) अवश्य खेलने के स्वभाववाला (च) और (शाकी) अवश्य शक्ति रखने का स्वभाववाला (च) भी हो, वह (उज्जेषी) मन से अत्यन्त जीतनेवाला हो ॥८५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो बहुत बल और अन्न के सामर्थ्य से युक्त गृहस्थ होता है, वह सब जगह विजय को प्राप्त होता है ॥८५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्स विद्वान् कीदृशो भवेदित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यः स्वतवांश्च प्रघासी च सान्तपनश्च गृहमेधी च क्रीडी च शाकी च भवेत्, स उज्जेषी स्यात् ॥८५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यो बहुबलान्नसामर्थ्यो गृहस्थो भवति, स सर्वत्र विजयमाप्नोति ॥८५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्या गृहस्थाजवळ अत्यंत बळ व अन्न सामर्थ्य असते त्याला सर्व ठिकाणी विजय प्राप्त होतो.
८६ इन्द्रं दैवीर्विशो
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रं॒ दैवी॒र्विशो॑ म॒रुतोऽनु॑वर्त्मानोऽभव॒न् यथेन्द्रं॒ दैवी॒र्विशो॑ म॒रुतोऽनु॑वर्त्मा॒नोऽभ॑वन्। ए॒वमि॒मं यज॑मानं॒ दैवी॑श्च॒ विशो॑ मानु॒षीश्चानु॑वर्त्मानो भवन्तु ॥८६ ॥
मूलम् ...{Loading}...
इन्द्रं॒ दैवी॒र्विशो॑ म॒रुतोऽनु॑वर्त्मानोऽभव॒न् यथेन्द्रं॒ दैवी॒र्विशो॑ म॒रुतोऽनु॑वर्त्मा॒नोऽभ॑वन्। ए॒वमि॒मं यज॑मानं॒ दैवी॑श्च॒ विशो॑ मानु॒षीश्चानु॑वर्त्मानो भवन्तु ॥८६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इन्द्र॑म्। दैवीः॑। विशः॑। म॒रुतः॑। अनु॑वर्त्मान॒ इत्यनु॑ऽवर्त्मानः। अ॒भ॒व॒न्। यथा॑। इन्द्र॑म्। दैवीः॑। विशः॑। म॒रुतः॑। अ॒नु॑वर्त्मान॒ इत्यनु॑ऽवर्त्मानः। अ॒भ॒व॒न्। ए॒वम्। इ॒मम्। यज॑मानम्। दैवीः॑। च॒। विशः॑। मा॒नु॒षीः। च॒। अनु॑वर्त्मान॒ इत्यनु॑ऽवर्त्मानः। भ॒व॒न्तु॒। ८६।
महीधरः
म० ‘इमᳪं᳭ स्तनमिति वाचयति वा’ (का० १८ । ४ । २६) । इमं स्तनमिति मन्त्रगणमध्यायसमाप्तिपर्यन्तं यजमानेनाध्वर्युर्वाचयति स्वयं जपति वेत्यर्थः । त्रयोदशर्च आग्नेयस्त्रिष्टुप्छन्दस्कोऽनुवाको यज्ञस्तुतिवसोर्धाराभिवादिनी घृतस्तुतिर्वा । हे अग्ने, सरिरस्य लोकस्य मध्ये वर्तमानः त्वमिमं स्रुग्लक्षणं स्तनं स्रुचः पतन्तीं घृतधारां वा त्वं धय पिब । ‘धेट पाने’ लोट् । ‘इमे वे लोकाः सरिरम्’ ( २ । ५ । २ । ३४ ) इति श्रुतेः । सरिरशब्देन लोका उच्यन्ते । वसोर्धारा स्रुचा होष्यते सा स्रुगत्र रूपककल्पनया स्तन उच्यते । कीदृशं स्तनम् । ऊर्जवन्तमूर्जो रसोऽस्यास्तीति ऊर्जस्वान् तं विशिष्टरसवन्तम् । तथा अपां प्रपीनम् । अप्शब्देन लक्षणया घृतमुच्यते । अद्भिः घृतैः प्रपीनं पूर्णं अपामिति तृप्त्यर्थानां करणे षष्ठी’ इति तृतीयार्थे षष्ठी । प्राप्याय्यते पूर्यते प्रपीनम् ‘ओप्यायी वृद्धौ’ ‘प्यायः पी’ (पा० ६।१ । २८ ) इति च । हे अर्वन् इयर्तीति अर्वा सर्वतो गन्तः, उत्समुत्स्यन्दनं स्रुग्लक्षणं कूपं जुषस्व सेवस्व । कीदृशमुत्सम् । मधुमन्तं मधुस्वादेन घृतेन युक्तम् । किंच समुद्रियं समुद्रसंबन्धि चयनयागसंबन्धि सदनं गृहमाविशस्व तृप्तः सन् यज्ञगृहं सेवस्व । ‘त्रयो ह वै समुद्रा अग्निर्यजुषां महाव्रतᳪं᳭ साम्नां महदुक्थमृचाम्’ इत्यभिप्रायः समुद्रशब्दः ‘समुद्राभ्राद्धः’ (पा० ४ । ४ । ११८) इति घप्रत्ययः तस्येयादेशः ॥ ८७ ॥
अष्टाशीतितमी ।
अधिमन्त्रम् (VC)
- मरुतो देवताः
- सप्तऋषय ऋषयः
- निचृच्छक्वरी
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर राजा और प्रजा कैसे परस्पर वर्त्तें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! आप वैसे अपना वर्त्ताव कीजिये (यथा) जैसे (दैवीः) विद्वान् जनों के ये (विशः) प्रजाजन (मरुतः) ऋतु-ऋतु में यज्ञ करानेवाले विद्वान् (इन्द्रम्) परमैश्वर्य्ययुक्त राजा के (अनुवर्त्मानः) अनुकूल मार्ग से चलनेवाले (अभवन्) होवें वा जैसे (मरुतः) प्राण के समान प्यारे (दैवीः) शास्त्र जाननेवाले दिव्य (विशः) प्रजाजन (इन्द्रम्) समस्त ऐश्वर्य्ययुक्त परमेश्वर के (अनुवर्त्मानः) अनुकूल आचरण करनेहारे (अभवन्) हों (एवम्) ऐसे (दैवीः) शास्त्र पढ़े हुए (च) और (मानुषीः) मूर्ख (च) ये दोनों (विशः) प्रजाजन (इमम्) इस (यजमानम्) विद्या और अच्छी शिक्षा से सुख देनेहारे सज्जन के (अनुवर्त्मानः) अनुकूल आचरण करनेवाले (भवन्तु) हों ॥८६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमलङ्कार हैं। जैसे प्रजाजन राजा आदि राजपुरुषों के अनुकूल वर्त्तें, वैसे ये लोग भी प्रजाजनों के अनुकूल वर्त्तें। जैसे अध्यापन और उपदेश करनेवाले सब के सुख के लिये प्रयत्न करें, वैसे सब लोग इनके सुख के लिये प्रयत्न करें ॥८६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुना राजप्रजाः कथं परस्परं वर्तेरन्नित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे राजँस्त्वं तथा वर्त्तस्व यथेमा दैवीर्विशो मरुतश्चेन्द्रमनुवर्त्मानोऽभवन्, यथा मरुतो दैवीर्दिव्या विशश्चेन्द्रमनुवर्त्मानोऽभवन्। एवं दैवीश्च विशो मानुषीश्च विश इमं यजमानमनुवर्त्मानो भवन्तु ॥८६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। यथा प्रजा राजादीनां राजपुरुषाणामनुकूला वर्त्तेरंस्तथैतेऽपि प्रजानुकूला वर्त्तन्ताम्। यथाऽध्यापकोपदेशकाः सर्वेषां सुखाय प्रयतेरंस्तथैव सर्व एतेषां प्रयतन्ताम् ॥८६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहे. प्रजा जशी राजा व राज पुरुषांबरोबर वागते तसे राजा वगैरेंनी प्रजेच्या अनुकूल वागावे. जसे अध्यापक व उपदेशक सर्वांच्या सुखासाठी झटतात तसे सर्व लोकांनीही त्यांच्या सुखासाठी झटावे.
८७ इमं स्तनमूर्जस्वन्तम्
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒मँ स्तन॒मूर्ज॑स्वन्तं धया॒पां प्रपी॑नमग्ने सरि॒रस्य॒ मध्ये॑। उत्सं॑ जुषस्व॒ मधु॑मन्तमर्वन्त्समु॒द्रियँ॒ सद॑न॒मावि॑शस्व ॥८७ ॥
मूलम् ...{Loading}...
इ॒मँ स्तन॒मूर्ज॑स्वन्तं धया॒पां प्रपी॑नमग्ने सरि॒रस्य॒ मध्ये॑। उत्सं॑ जुषस्व॒ मधु॑मन्तमर्वन्त्समु॒द्रियँ॒ सद॑न॒मावि॑शस्व ॥८७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इ॒मम्। स्तन॑म्। ऊर्ज॑स्वन्तम्। ध॒य॒। अ॒पाम्। प्रपी॑न॒मिति॒ प्रऽपी॑नम्। अ॒ग्ने॒। स॒रि॒रस्य॑। मध्ये॑। उत्स॑म्। जु॒ष॒स्व॒। मधु॑मन्त॒मिति॒ मधु॑ऽमन्तम्। अ॒र्व॒न्। स॒मु॒द्रिय॑म्। सद॑नम्। आ। वि॒श॒स्व॒। ८७।
महीधरः
म० गृत्समददृष्टा । अहं घृतं मिमिक्षे सेक्तुमिच्छामि । अग्निमुखे मेढुमिच्छति मिमिक्षते “मिह सेचने’ सन्नन्ताल्लट् उत्तमैकवचनम् । यतोऽस्याग्नेर्घृतं योनिरुत्पत्तिस्थानम् । ‘अग्निर्यस्यै योनेरसृज्यत तस्यै घृतमुल्बमासीत्’ इति श्रुतेः । गर्भाधारोदकमुल्बम् । योऽग्निर्घृते श्रितः घृतमाश्रितः । अस्याग्नेर्घृतमेव धाम स्थानं तेजस्करम् । वा उ अवधारणे । अतो हे अध्वर्यो, अनुष्वधं स्वधामन्नमुपलक्ष्य तमग्निमावह पूर्वमन्नमुपकल्प्य पश्चादाह्वय । आहूय च मादयस्व तर्पय । तर्पयित्वा चैवं ब्रूहि हे वृषभ कामानामभिवर्षक, स्वाहाकृतं स्वाहाकारेण हुतं हव्यं त्वं वक्षि वह देवान् प्रापय । वहतेः शपि लुप्ते ढत्वकत्वादौ कृते वक्षीति रूपम् । यद्वा यं प्रत्यहं मिमिक्षे यस्य घृतं योनिर्यो घृते श्रितः यस्य च घृतं धाम स त्वमनुष्वधं देवानावह मादय हव्यं च वक्षि इत्यग्निं प्रत्येवोक्तिः । यतो वह्नेः कर्मद्वयं देवानामावाहनं हविर्वहनं च ॥८८॥
एकोननवतितमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- सप्तऋषय ऋषयः
- आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को कैसे वर्त्तना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) अग्नि के समान वर्त्तमान पुरुष ! तू (प्रपीनम्) अच्छे दूध से भरे हुए (स्तनम्) स्तन के समान (इमम्) इस (ऊर्जस्वन्तम्) प्रशंसित बल करते हुए (अपाम्) जलों के रस को (धय) पी (सरिरस्य) बहुतों के (मध्ये) बीच में (मधुमन्तम्) प्रशंसित मधुरतादि गुणयुक्त (उत्सम्) जिससे पदार्थ गीले होते हैं, उस कूप को (जुषस्व) सेवन कर वा हे (अर्वन्) घोड़ों के समान वर्त्ताव रखनेहारे जन ! तू (समुद्रियम्) समुद्र में हुए स्थान कि (सदनम्) जिसमें जाते हैं, उस में (आ, विशस्व) अच्छे प्रकार प्रवेश कर ॥८७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे बालक और बछड़े स्तन के दूध को पी के बढ़ते हैं, वा जैसे घोड़ा शीघ्र दौड़ता है, वैसे मनुष्य यथायोग्य भोजन और शयनादि आराम से बढ़े हुए वेग से चलें, जैसे जलों से भरे हुए समुद्र के बीच नौका में स्थित होकर जाते हुए सुखपूर्वक पारावार अर्थात् इस पार से उस पार पहुँचते हैं, वैसे ही अच्छे साधनों से व्यवहार के पार और अवार को प्राप्त होवें ॥८७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैः कथं वर्त्तितव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! पालक ! त्वं प्रपीनं स्तनमिवेममूर्जस्वन्तमपां रसं धय, सरिरस्य मध्ये मधुमन्तमुत्सं जुषस्व। हे अर्वंस्त्वं समुद्रियं सदनमाविशस्व ॥८७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा बालका वत्साश्च स्तनदुग्धं पीत्वा वर्द्धन्ते, यथा वाऽश्वः शीघ्रं धावति तथा मनुष्या युक्ताहारविहारेण वर्धमाना वेगेन गच्छन्तु, यथाऽद्भिः पूर्णे समुद्रे नौकायां स्थित्वा गच्छन्तः सुखेन पारावारे यान्ति, तथैव सुसाधनैर्व्यवहारस्य पारावारौ प्राप्नुवन्तु ॥८७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जशी लहान मुले व वासरे स्तनाचे दूध पिऊन वाढतात किंवा जसा घोडा वेगाने पळतो तसे माणसाने यथायोग्य भोजन व शयन, विश्रांती घेऊन वेगवान बनावे. समुद्रात नौका जशा स्थित राहून समुद्रापलीकडे सुखपूर्वक पोहोचतात तसे चांगल्या साधनांनी व्यवहाराचे ऐलतीर व पैलतीर गाठावे.
८८ घृतं मिमिक्षे
विश्वास-प्रस्तुतिः ...{Loading}...
घृ॒तं मि॑मिक्षे घृ॒तम॑स्य॒ योनि॑र्घृ॒ते श्रि॒तो घृ॒तम्व॑स्य॒ धाम॑। अ॒नु॒ष्व॒धमाव॑ह मा॒दय॑स्व॒ स्वाहा॑कृतं वृषभ वक्षि ह॒व्यम् ॥८८ ॥
मूलम् ...{Loading}...
घृ॒तं मि॑मिक्षे घृ॒तम॑स्य॒ योनि॑र्घृ॒ते श्रि॒तो घृ॒तम्व॑स्य॒ धाम॑। अ॒नु॒ष्व॒धमाव॑ह मा॒दय॑स्व॒ स्वाहा॑कृतं वृषभ वक्षि ह॒व्यम् ॥८८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
घृ॒तम्। मि॒मि॒क्षे॒। घृ॒तम्। अ॒स्य॒। योनिः॑। घृ॒ते। श्रि॒तः। घृ॒तम्। ऊँ॒ऽइत्यूँ॑। अ॒स्य॒ धाम॑। अ॒नु॒ष्व॒धम्। अ॒नु॒स्व॒धमित्य॑नुऽस्व॒धम्। आ। व॒ह॒। मा॒दय॑स्व॒। स्वाहा॑कृत॒मिति॒ स्वाहा॑ऽकृतम्। वृ॒ष॒भ॒। व॒क्षि॒। ह॒व्यम्। ८८।
महीधरः
म० वामदेवदृष्टा । अत्रान्नाध्यासेन घृतं स्तूयते प्राणाध्यासेन चाग्निः । समुद्रात् घृतमयात् मधुमान् रसवानूर्मिः कल्लोल उदारत् उदगच्छत् ‘ऋगतो’ च्लेरङ् ‘ऋदृशोऽङि गुणः’ (पा० ७ । ५ । १६ ) अक्षीणत्वाद् घृतस्य समुद्रेणोपमानम् अन्नदेवताभिप्रायं वा । सा ह्यक्षीणैव । उद्गत्य च स ऊर्मिः अंशुना प्राणेन जगत्प्राणभूतेनाग्निना सं सङ्गत्यैकीभूय अमृतत्वममरणधर्मित्वमुपानट् उपव्याप्नोतु । ‘णश अदर्शने’ लुङि ‘मन्त्रे घस-’ (पा० २।४।८०) इत्यादिना च्लेर्लुक् ‘हल्ङ्याप्’ (पा० ६ । १।६८) इति तिपो लोपः विआङुपसर्गाभ्यां व्याप्त्यर्थः । प्राणश्चान्नं च एकीभूयामृतत्वं प्राप्नुत इत्यर्थः । तस्य घृतस्य गुह्यमविज्ञातं नामाविद्वद्भिरज्ञेयं श्रुतिमन्त्रपठितं यदस्ति तत्कथ्यत इति शेषः । किं तदाह । देवानां जिह्वा अत्यभिलाषाद्देवानां जिह्वोत्थाननिमित्तम् अग्नेर्जिह्वासीत्युक्तेः । ‘यदा वा एतदनों जुह्वत्यथामर्जिह्वा इवोत्तिष्ठन्ति’ इति श्रुतेः । यच्च सर्वप्रकाशं नाम तदप्युच्यते । अमृतस्य नाभिः अमरणधर्मस्य नहनं बन्धनम् । यो हि घृतमश्नाति स दीर्घायुर्भवति । यद्वा ऋगर्धेन मन्त्रः स्तूयते अर्धन घृतम् । समुद्रात् आग्निकाद्यजुः | समुद्रादस्माद्यज्ञात् य ऊर्मिः शब्दसङ्घातो नामाख्यातोपसर्गनि| पातरूप उपमोत्प्रेक्षारूपकाद्यलंकाररूपो मधुमान् रसवान् वाक्यार्थगुणेयुक्त उदारत् मुखादुदगात् स एव उपांशुना सव- नेन क्रियमाणः सन्नमृतत्वमाप्नोत् ‘तदेद्यजुरुपाᳪं᳭श्वनिरुक्तम्’ - इति श्रुतेः । अतोऽग्निचिद्भिः स ऊर्मिः प्रकाशनीयः । घृतस्य गुह्यं नाम यदस्ति तदपि देवानां जिह्वोत्थाननिमित्तं किं पुन- .. मिः । ‘अथास्य घृतकीर्तावेवाग्निर्वैश्वानरो मुखादुज्जज्वाल’ (१।४।१।१३) इति श्रुतेः । अमृतस्य नाभिः नहनं यजमानानाममृत्वप्रापकं घृतं यजनेनेत्यर्थः । अतोऽग्निचिद्भिर्हूयते स्तूयते च घृतमिति भावः ॥ ८९ ॥
नवतितमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- गृत्समद ऋषिः
- निचृदार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को अग्नि कहाँ-कहाँ खोजना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे समुद्र में जानेवाले मनुष्य ! आप (घृतम्) जल को (मिमिक्षे) सींचना चाहो (उ) वा (अस्य) इस आग का (घृतम्) घी (योनिः) घर है, जो (घृते) घी में (श्रितः) आश्रय को प्राप्त हो रहा है वा (घृतम्) जल (अस्य) इस आग का (धाम) धाम अर्थात् ठहरने का स्थान है, उस अग्नि को तू (अनुष्वधम्) अन्न की अनुकूलता को (आ, वह) पहुँचा। हे (वृषभ) वर्षानेवाले जन ! तू जिस कारण (स्वाहाकृतम्) वेदवाणी से सिद्ध किये (हव्यम्) लेने योग्य पदार्थ को (वक्षि) चाहता वा प्राप्त होता है, इसलिये हम लोगों को (मादयस्व) आनन्दित कर ॥८८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जितना अग्नि जल में है, उतना जलाधिकरण अर्थात् जल में रहनेवाला कहाता है, जैसे घी से अग्नि बढ़ता है, वैसे जल से सब पदार्थ बढ़ते हैं और अन्न अनुकूल घी आनन्द करानेवाला होता है, इससे उक्त व्यवहार की चाहना सब लोगों को करनी चाहिये ॥८८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैरग्निः क्व क्वान्वेषणीय इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे समुद्रयायिन् ! त्वं घृतं मिमिक्षे उ अस्याग्नेर्घृतं योनिरस्ति, यो घृते श्रितो घृतमस्य धाम तमग्निमनुष्वधमावह। हे वृषभ ! त्वं यतः स्वाहाकृतं हव्यं वक्षि, तेनास्मान् मादयस्व ॥८८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यावानग्निर्जलेऽस्ति तावान् जलाधिकरण उच्यते, यथाज्येन वह्निर्वर्धते तथा जलेन सर्वे पदार्था वर्धन्ते। अन्नमनुकूलमाज्यं चानन्दकारि जायते, तस्मात् सर्वैरेतत्कमनीयम् ॥८८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जल हेही अग्नीचे निवासस्थान असते, त्याचे धाम असते. ज्याप्रमाणे तुपाने अग्नी प्रदीप्त होतो तसे जलातही पदार्थांची वाढ होते. तुपामुळे अन्नाची रुची वाढून ती आनंददायक ठरते त्यासाठी वरील गोष्टींची आवड सर्वांमध्ये निर्माण झाली पाहिजे.
८९ समुद्रादूर्मिर्मधुमाँ२ऽउदारदुपाशुना सममृतत्वमानट्
विश्वास-प्रस्तुतिः ...{Loading}...
स॒मु॒द्रादू॒र्मिर्मधु॑माँ॒२ऽउदा॑र॒दुपाँ॒शुना॒ सम॑मृत॒त्वमा॑नट्। घृ॒तस्य॒ नाम॒ गुह्यं॒ यदस्ति॑ जि॒ह्वा दे॒वाना॑म॒मृत॑स्य॒ नाभिः॑ ॥८९ ॥
मूलम् ...{Loading}...
स॒मु॒द्रादू॒र्मिर्मधु॑माँ॒२ऽउदा॑र॒दुपाँ॒शुना॒ सम॑मृत॒त्वमा॑नट्। घृ॒तस्य॒ नाम॒ गुह्यं॒ यदस्ति॑ जि॒ह्वा दे॒वाना॑म॒मृत॑स्य॒ नाभिः॑ ॥८९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स॒मु॒द्रात्। ऊ॒र्मिः। मधु॑मा॒निति॒ मधु॑ऽमान्। उत्। आ॒र॒त्। उप॑। अँ॒शुना॑। सम्। अ॒मृ॒त॒त्वमित्य॑मृत॒त्वम्। आ॒न॒ट्। घृ॒तस्य॑ नाम॑। गुह्य॑म्। यत्। अस्ति॑। जि॒ह्वा। दे॒वाना॑म्। अ॒मृत॑स्य। नाभिः॑। ८९।
महीधरः
म० यतो घृतनामोच्चारणमपि देवानां प्रियमता वयं घृतस्य नाम प्रब्रवाम अस्मिन् यज्ञे घृतनाम स्तुमः । नमोभिरन्नैः धारयाम यज्ञमिति शेषः । किंच ब्रह्मा ऋत्विक् शस्यमानं | स्तूयमानमेतद् घृतनाम उपशृणवत् उपशृणोतु । ‘लेटोऽडाटौ’ (पा० ३ । ४ । ९४ ) इत्यडागमः । यथा गौरः गौरवर्णः शुद्धो यज्ञः एतत् घृतयज्ञफलरूपमवमीदुद्गिरति यज्ञपरिणामाभिप्रायम् । कीदृशो गौरः । चतुःशृङ्गः चत्वार ऋत्विजः शृङ्गभूता यस्य सः॥९०॥
एकनवतितमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वामदेव ऋषिः
- निचृदार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को कैसे वर्त्ताव रखना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! आप लोग जो (समुद्रात्) अन्तरिक्ष से (अंशुना) किरणसमूह के साथ (मधुमान्) मिठास लिये हुए (ऊर्मिः) जलतरङ्ग (उदारत्) ऊपर को पहुँचे वह (सममृतत्वम्) अच्छे प्रकार अमृतरूप स्वाद के (उपानट्) समीप में व्याप्त हो अर्थात् अतिस्वाद को प्राप्त होवे (यत्) जो (घृतस्य) जल का (गुह्यम्) गुप्त (नाम) नाम (अस्ति) है और जो (देवानाम्) विद्वानों की (जिह्वा) वाणी (अमृतस्य) मोक्ष का (नाभिः) प्रबन्ध करनेवाली है, उस सब का सेवन करो ॥८९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जैसे अग्नि, मिले हुए जल और भूमि के विभाग से अर्थात् उनमें से जल पृथक् कर मेघमण्डल को प्राप्त करा उसको भी मीठा कर देता है तथा जो जलों का कारणरूप नाम है, वह गुप्त अर्थात् कारणरूप जल अत्यन्त छिपे हुए और जो मोक्ष है यह सब विद्वानों के उपदेश से ही मिलता है, ऐसा जानना चाहिये ॥८९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैः कथं वर्तितव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! भवन्तो यत्समुद्रादंशुना मधुमानूर्मिरुदारत् सममृतत्वमानड् यद् घृतस्य गुह्यं नामास्ति, या देवानां जिह्वाऽमृतस्य नाभिरस्ति तत्सर्वं सेवन्ताम् ॥८९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यथाऽग्निर्मिलितयोर्जलभूम्योर्विभागेन मेघमण्डलं प्रापय्य मधुरं जलं संपादयति, यत्कारणाख्यामपां नाम तद् गुह्यमस्ति, मोक्षश्चैतत्सर्वमुपदेशेनैव लभ्यमिति वेद्यम् ॥८९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! अग्नी जसा भूमीपासून जल वेगळे करून त्यापासून मेघमंडल बनवितो व त्यातील जल मधुर बनवितो, तो जलात जसा गुप्त कारणरूपाने असतो तशी विद्वानांची वाणी (उपदेश) मोक्षाचा प्रबंध करणारी असते हे जाणले पाहिजे.
९० वयं नाम
विश्वास-प्रस्तुतिः ...{Loading}...
व॒यं नाम॒ प्रं ब्र॑वामा घृ॒तस्या॒स्मिन् य॒ज्ञे धा॑रयामा॒ नमो॑भिः। उप॑ ब्रह्मा॒ शृ॑णवच्छ॒स्यमा॑नं॒ चतुः॑शृङ्गोऽवमीद् गौ॒रऽए॒तत् ॥९० ॥
मूलम् ...{Loading}...
व॒यं नाम॒ प्रं ब्र॑वामा घृ॒तस्या॒स्मिन् य॒ज्ञे धा॑रयामा॒ नमो॑भिः। उप॑ ब्रह्मा॒ शृ॑णवच्छ॒स्यमा॑नं॒ चतुः॑शृङ्गोऽवमीद् गौ॒रऽए॒तत् ॥९० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
व॒यम्। नाम॑। प्र। ब्र॒वा॒म॒। घृ॒तस्य॑। अ॒स्मिन्। य॒ज्ञे। धा॒र॒या॒म॒। नमो॑भिरिति॒ नमः॑ऽभिः। उप॑। ब्र॒ह्मा। शृ॒ण॒व॒त्। श॒स्यमा॑नम्। चतुः॑शृङ्ग॒ इति॒ चतुः॑ऽशृङ्गः। अ॒व॒मी॒त्। गौ॒रः। ए॒तत्। ९०।
महीधरः
म० यज्ञपुरुषदेवत्य ऋषभो मन्त्रः । चतुःशृङ्गोऽवमीदित्युक्त्वा चतुःशृङ्गं यज्ञं वृषभरूपेण प्रतिपादयितुमाह । यो वृषभः कामानां वर्षिता । रोरवीति ‘रु शब्दे’ यड्लुगन्तम् । अत्यर्थं शब्दं करोति सोऽयं महो देवः महति पूजयति मह्यते वा जनैरिति महो महान् देवः ब्रह्मादिस्तम्बपर्यन्तानां प्राणिनामुपजीव्यो ज्ञानकर्मसमुच्चयकारिणां विदुषां शरीरभूतो मर्त्यान् मनुष्यानाविवेश आविशति मनुष्यान् व्याप्य तिष्ठति । यस्य वृषभस्य यज्ञस्य चत्वारि शृङ्गा शृङ्गाणि ब्रह्मोद्गातृहोत्रध्वर्युलक्षणानि । त्रयः पादाः ऋग्यजुःसामरूपाः । द्वे शीर्षे शिरसी हविर्धानप्रवर्ग्याख्ये । ‘शिर एवास्य हविर्धानं ग्रीवा वै यज्ञस्योपसदः शिरः प्रवर्ग्यः’ इति श्रुतेः । अस्य वृषभस्य सप्त हस्तासः सप्त होतारो हस्ताः हस्ता इव व्याप्रियन्ते । सप्त छन्दांसि वा हस्ताः । यश्च त्रिधा त्रिप्रकारैर्बद्धः प्रातःसवनमाध्यन्दिनसवनतृतीयसवनैर्बद्धः । यद्वा चत्वारो वेदाः शृङ्गाणि । त्रयः पादाः सवनानि द्वे शीर्षे प्रायणीयोदयनीये सप्त हस्तासः छन्दांसि । त्रिधा बद्धः मन्त्रब्राह्मणकल्पैर्बद्धः । शब्दग्रामो वा व्याख्येयः । चत्वारि शृङ्गाणि नामाख्यातोपसर्गनिपाताः त्रयः पादाः प्रथमपुरुषमध्यमपुरुषोत्तमपुरुषाः त्रयः काला वा । द्वे शीर्षे कार्यताव्यङ्ग्यते । सप्त हस्ताः विभक्तिरूपाः । त्रिधा बद्धः एकवचनद्विवचनबहुवचनैर्बद्धः । वृषभ इवायमन्यशास्त्राणि अधः कृत्वा रोरवीति सोऽयं महान् देवो मर्त्यानाविवेश आविशति प्रतिपादयति । मनुष्येष्विति। मनुष्याधिकारत्वाच्छास्त्रस्येति न्यायात् ॥ ९१ ॥
द्विनवतितमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वामदेव ऋषिः
- विराडार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जिसको (चतुःशृङ्गः) जिसके चारों वेद सींगों के समान उत्तम हैं, वह (गौरः) वेदवाणी में रमण करने वा वेदवाणी को देने और (ब्रह्मा) चारों वेदों को जाननेवाला विद्वान् (अवमीत्) उपदेश करे वा (उप, शृणवत्) समीप में सुने, वह (घृतस्य) घी वा जल का (शस्यमानम्) प्रशंसित हुआ गुप्त (नाम) नाम है, (एतत्) इसको (वयम्) हम लोग औरों के प्रति (प्र, ब्रवाम) उपदेश करें और (अस्मिन्) इस (यज्ञे) गृहाश्रम व्यवहार में (नमोभिः) अन्न आदि पदार्थों के साथ (धारयाम) धारण करें ॥९० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्य लोग मनुष्य देह को पाकर सब पदार्थों के नाम और अर्थों को पढ़ानेवालों से सुनकर औरों के लिये कहें और इस सृष्टि में स्थित पदार्थों से समस्त कामों की सिद्धि करावें ॥९० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यच्चतुःशृङ्गो गौरो ब्रह्माऽवमीदुपशृणवत्, तद् घृतस्य शस्यमानं गुह्यं नामास्त्येतद् वयमन्यान् प्रति प्रब्रवामास्मिन् यज्ञे नमोभिर्धारयाम च ॥९० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्या मनुष्यदेहं प्राप्य सर्वेषां पदार्थानां नामान्यर्थाश्चाध्यापकेभ्यः श्रुत्वान्येभ्यो ब्रूयुः। एतैः सृष्टिस्थैः पदार्थैः सर्वाणि कार्याणि च साधयेयुः ॥९० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी सर्व पदार्थांची नावे व त्यांचे अर्थ विद्वानांकडून शिकून घ्यावेत व इतरांनाही सांगावेत. या सृष्टीतील पदार्थांचा योग्य प्रकारे उपयोग करून घ्यावा.
९१ चत्वारि शृङ्गा
विश्वास-प्रस्तुतिः ...{Loading}...
च॒त्वारि॒ शृङ्गा॒ त्रयो॑ऽअस्य॒ पादा॒ द्वे शी॒र्षे स॒प्त हस्ता॑सोऽअस्य। त्रिधा॑ ब॒द्धो वृ॑ष॒भो रो॑रवीति म॒हो दे॒वो मर्त्याँ॒ २ऽआवि॑वेश ॥९१ ॥
मूलम् ...{Loading}...
च॒त्वारि॒ शृङ्गा॒ त्रयो॑ऽअस्य॒ पादा॒ द्वे शी॒र्षे स॒प्त हस्ता॑सोऽअस्य। त्रिधा॑ ब॒द्धो वृ॑ष॒भो रो॑रवीति म॒हो दे॒वो मर्त्याँ॒ २ऽआवि॑वेश ॥९१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
च॒त्वारि॑। शृङ्गा॑। त्रयः॑। अस्य॑। पादाः॑। द्वेऽइति॒ द्वे। शी॒र्षेऽइति॑ शी॒र्षे। स॒प्त। हस्ता॑सः। अ॒स्य॒। त्रिधा॑। ब॒द्धः। वृ॒ष॒भः। रो॒र॒वी॒ति॒। म॒हः। दे॒वः। मर्त्या॑न्। आ। वि॒वे॒श॒। ९१।
महीधरः
म० त्रिधा त्रिप्रकारेषु लोकेषु हितं स्थापितं द्रुतं यज्ञपरिणामभूतं पणिभिरसुरैर्गुह्यमानं गुप्यमानं सत् देवासो गवि अन्वविन्दन् धेनौ आनुपूर्व्याल्लब्धवन्तः । तस्य एकं भागमिन्द्रो जजान जनयति ‘ते वा एते आहुती हुते उत्क्रामतस्ते अन्तरिक्षमाविशत’ इत्यादिश्रुतिरिन्द्रस्य जनकत्वं दर्शयति । सूर्य एकं भागं जजान । ‘जनी प्रादुर्भावे’ लिट् परस्मैपदमार्षम् । | ‘ते तत उत्क्रामतस्ते दिवमाविशतः’ इत्यादिश्रुतिः सूर्यस्य घृतभागजनकत्वं दर्शयति । वेनाद् यज्ञसाधनभूतादग्नेः एकं स्वधया अन्नेन त्रेताहुतिलक्षणेन निष्टतक्षुः निष्कर्षितवन्तो द्विजातयः । यस्ततः पुत्रो जायते स लोकप्रत्युत्थायीत्येतदुक्तं भवति ॥ ९२ ॥
त्रिनवतितमी।
अधिमन्त्रम् (VC)
- यज्ञपुरुषो देवता
- वामदेव ऋषिः
- विराडार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब यज्ञ के गुणों वा शब्दशास्त्र के गुणों को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम जिस (अस्य) इसके (त्रयः) प्रातःसवन, मध्यन्दिनसवन और सायंसवन ये तीन (पादाः) प्राप्ति के साधन (चत्वारि) चार वेद (शृङ्गा) सींग (द्वे) दो (शीर्षे) अस्तकाल और उदयकाल शिर वा जिस (अस्य) इसके (सप्त, हस्तासः) गायत्री आदि छन्द सात हाथ हैं वा जो (त्रिधा) मन्त्र, ब्राह्मण और कल्प इन तीन प्रकारों से (बद्धः) बँधा हुआ (महः) बड़ा (देवः) प्राप्त करने योग्य (वृषभः) सुखों को सब ओर से वर्षानेवाला यज्ञ (रोरवीति) प्रातः, मध्य और सायं सवन क्रम से शब्द करता हुआ (मर्त्यान्) मनुष्यों को (आ, विवेश) अच्छे प्रकार प्रवेश करता है, उस का अनुष्ठान करके सुखी होओ ॥१ ॥९१ ॥ द्वितायपक्षः—हे मनुष्यो ! तुम जिस (अस्य) इसके (त्रयः) भूत, भविष्यत् और वर्त्तमान तीन काल (पादाः) पग (चत्वारि) नाम, आख्यात, उपसर्ग और निपात चार (शृङ्गा) सींग (द्वे) दो (शीर्षे) नित्य और कार्य शब्द शिर वा जिस (अस्य) इसके (सप्त, हस्तासः) प्रथमा आदि सात विभक्ति सात हाथ वा जो (त्रिधा, बद्धः) हृदय कण्ठ और शिर इन तीनों स्थानों में बँधा हुआ (महः) बड़ा (देवः) शुद्ध, अशुद्ध का प्रकाशक (वृषभः) सुखों का वर्षानेवाला शब्दशास्त्र (रोववीति) ऋक्, यजुः, साम और अथर्ववेद से शब्द करता हुआ (मर्त्यान्) मनुष्यों को (आ, विवेश) प्रवेश करता है, उस का अभ्यास करके विद्वान् होओ ॥२ ॥९१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उभयोक्ति अर्थात् उपमान के न्यूनाधिक धर्मों के कथन से रूपक और श्लेषालङ्कार है। जो मनुष्य यज्ञविद्या और शब्दविद्या को जानते हैं, वे महाशय विद्वान् होते हैं ॥९१ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ यज्ञादिगुणानाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यूयं यस्यास्य त्रयः पादाश्चत्वारि शृङ्गा द्वे शीर्षे यस्यास्य सप्त हस्तासः सन्ति, यस्त्रिधा बद्धो महो देवो वृषभो यज्ञः शब्दो वा रोरवीति मर्त्यानाविवेश तमनुष्ठायाभ्यस्य च सुखिनो विद्वांसो भवत ॥९१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोभयोक्त्या रूपकः श्लेषोऽलङ्कारश्च। ये मनुष्या यज्ञविद्यां शब्दविद्यां च जानन्ति, ते महाशया विद्वांसो भवन्ति ॥९१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उभयोक्ती अर्थात उपमानाच्या न्यूनाधिक कथनाने रूपक व श्लेषालंकार आहेत. ज्या व्यक्ती यज्ञविद्या व शब्दविद्या जाणतात त्या विद्वान असतात.
९२ त्रिधा हितम्
विश्वास-प्रस्तुतिः ...{Loading}...
त्रिधा॑ हि॒तं प॒णिभि॑र्गु॒ह्यमा॑नं॒ गवि॑ दे॒वासो॑ घृ॒तमन्व॑विन्दन्। इन्द्र॒ऽएकँ॒ सूर्य॒ऽएक॑ञ्जजान वे॒नादेकँ॑स्व॒धया॒ निष्ट॑तक्षुः ॥९२ ॥
मूलम् ...{Loading}...
त्रिधा॑ हि॒तं प॒णिभि॑र्गु॒ह्यमा॑नं॒ गवि॑ दे॒वासो॑ घृ॒तमन्व॑विन्दन्। इन्द्र॒ऽएकँ॒ सूर्य॒ऽएक॑ञ्जजान वे॒नादेकँ॑स्व॒धया॒ निष्ट॑तक्षुः ॥९२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
त्रिधा॑। हि॒तम्। प॒णिभि॒रिति॑ प॒णिऽभिः॑। गु॒ह्यमा॑नम्। गवि॑। दे॒वासः॑। घृ॒तम्। अनु॑। अ॒वि॒न्द॒न्। इन्द्रः॑। एक॑म्। सूर्यः॑। एक॑म्। ज॒जा॒न॒। वे॒नात्। एक॑म्। स्व॒धया॑। निः। त॒त॒क्षुः॒। ९२।
महीधरः
म० एता वाचः अर्षन्ति उद्गच्छन्ति । तस्मात् हृद्यात् समुद्रात् श्रद्धोदकप्लुतात् देवतायाथात्म्यचिन्तनसन्तानरूपात् समुद्रान्निगमनिरुक्तनिघण्टुव्याकरणशिक्षाच्छन्दोभिः पावनैः पूतात् । कीदृश्यो वाचः । शतव्रजाः शतं व्रजं व्रजा गतयो यासां ताः बहुगतयः । बह्वर्था इत्यर्थः । याश्च अर्षन्त्यो रिपुणा कुतार्किकवृन्दशत्रुणा न अवचक्षे न अवचक्ष्यन्ते पुरुषवचनव्यत्ययः। नापवदितुं खण्डयितुं शक्यन्ते ता घृतस्य धारा इवाभिचाकशीमि । लुप्तोपमानम् । अहं पश्यामि । आसां वाचां मध्ये यो हिरण्ययो हिरण्मयो दीप्यमानो वेतसोऽग्निः तं चाभिचाकशीमि । अग्निर्हि वाचामधिष्ठात्री देवता । यद्वा घृतधारा एवोच्यन्ते । या एता हृद्यात्समुद्रात् घृतधारा अर्षन्ति गच्छन्ति । हृदयेन संकल्प्य यजनाद्धृदयादुद्गतिरुच्यते । शतव्रजा नानागतयः याश्च रिपुणा नावचक्षे यज्ञपरिपन्थिना द्रष्टुं न शक्यन्ते ता घृतधाराः पश्यामि । यश्चायं हिरण्ययो वेतसोऽग्निराहवनीय आसां धाराणां मध्ये स्थितस्तं च पश्यामि द्रव्यदेवताश्च याथात्म्येनाहं पश्यामीत्यर्थः ॥ ९३ ॥
चतुर्नवतितमी ।
अधिमन्त्रम् (VC)
- यज्ञपुरुषो देवता
- वामदेव ऋषिः
- आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब मनुष्यों को कैसे वर्त्तना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (देवासः) विद्वान् जन (पणिभिः) व्यवहार के ज्ञाता स्तुति करनेवालों ने (त्रिधा) तीन प्रकार से (हितम्) स्थित किये और (गवि) वाणी में (गुह्यमानम्) छिपे हुए (घृतम्) प्रकाशित ज्ञान को (अनु, अविन्दन्) खोजने के पीछे पाते हैं, (इन्द्रः) बिजुली जिस (एकम्) एक विज्ञान और (सूर्यः) सूर्य (एकम्) एक विज्ञान को (जजान) उत्पन्न करते तथा (वेनात्) अति सुन्दर मनोहर बुद्धिमान् से तथा (स्वधया) आप धारण की हुई क्रिया से (एकम्) अद्वितीय विज्ञान को (निः) निरन्तर (ततक्षुः) अतितीक्ष्ण सूक्ष्म करते हैं, वैसे तुम लोग भी आचरण करो ॥९२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - तीन प्रकार के स्थूल, सूक्ष्म और कारण के ज्ञान करानेहारे बिजुली तथा सूर्य के प्रकार के तुल्य प्रकाशित बोध को आप्त अर्थात् उत्तम शास्त्रज्ञ विद्वानों से जो मनुष्य प्राप्त हों, वे अपने ज्ञान को व्याप्त करें ॥९२ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ मनुष्यैः कथं वर्त्तितव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा देवासः पणिभिस्त्रिधा हितं गवि गुह्यमानं घृतमन्वविन्दन् यदीन्द्र एकं सूर्य एकं जजान वेनाच्च स्वधयैकं निष्टतक्षुस्तथा यूयमप्याचरत ॥९२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - त्रिप्रकारकं स्थूलसूक्ष्मकारणविज्ञापकं तं विद्युत्सूर्यप्रकाशमिव प्रकाशितमाप्तेभ्यो ये मनुष्याः प्राप्नुयुस्ते स्वकीयं ज्ञानं व्याप्तं कुर्युः ॥९२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्या माणसांना उत्तम शास्त्राकडून विद्युत व सूर्यप्रकाश यांचे स्थूल, सूक्ष्म व कारण या तिन्ही प्रकारचे ज्ञान होते त्यांनी आपल्या ज्ञानाची व्याप्ती वाढवावी.
९३ एताऽअर्षन्ति हृद्यात्
विश्वास-प्रस्तुतिः ...{Loading}...
ए॒ताऽअ॑र्षन्ति॒ हृद्या॑त् समु॒द्राच्छ॒तव्र॑जा रि॒पुणा॒ नाव॒चक्षे॑। घृ॒तस्य॒ धारा॑ऽअ॒भि चा॑कशीमि हिर॒ण्ययो॑ वेत॒सो मध्य॑ऽआसाम् ॥९३ ॥
मूलम् ...{Loading}...
ए॒ताऽअ॑र्षन्ति॒ हृद्या॑त् समु॒द्राच्छ॒तव्र॑जा रि॒पुणा॒ नाव॒चक्षे॑। घृ॒तस्य॒ धारा॑ऽअ॒भि चा॑कशीमि हिर॒ण्ययो॑ वेत॒सो मध्य॑ऽआसाम् ॥९३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ए॒ताः। अ॒र्ष॒न्ति॒। हृद्या॑त्। स॒मु॒द्रात्। श॒तव्र॑जा॒ इति॑ श॒तऽव्र॑जाः। रि॒पुणा॑। न। अ॒व॒चक्ष॒ इत्य॑ऽव॒चक्षे॑। घृ॒तस्य॑। धाराः॑। अ॒भि। चा॒क॒शी॒मि॒। हि॒र॒ण्ययः॑। वे॒त॒सः। मध्ये॑। आ॒सा॒म्। ९३।
महीधरः
म० या धेनाः वाचः सरितो न सरित इव नद्य इवानवच्छिन्नप्रवाहाः सम्यक् स्रवन्ति प्रसरन्ति । धेना इति वाङ्नामसु पठितम् । कीदृश्यो धेनाः । अन्तः हृदा मनसा च मनसा पूयमानाः शरीरान्तर्व्यवस्थितेन हृदा पावनस्थानीयेन मनसा च पूयमानाः शब्ददोषेभ्यो विविच्यमानाः । ता अग्निमेव स्तुवन्तीति शेषः । ये च एते घृतस्य ऊर्मयः कल्लोलाः अर्षन्ति स्रुक्परिभ्रष्टाः गच्छन्ति । ‘ऋष गतौ’ तेऽप्यग्निं तर्पयन्तीति शेषः । तत्र दृष्टान्तः । क्षिपणोः क्षिपति हिनस्ति क्षिपणुर्व्याधः क्षिपणोरीषमाणाः पलायमाना मृगा इव व्याधाद्भीता मृगा इव ये घृतोर्मयो गच्छन्ति तेऽग्निं तर्पयन्तीत्यर्थः । श्रुतिर्द्रव्यं चाग्न्यर्थमेवेति भावः ॥ ९४ ॥
पञ्चनवतितमी।
अधिमन्त्रम् (VC)
- यज्ञपुरुषो देवता
- वामदेव ऋषिः
- निचृदार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को कैसी वाणी का प्रयोग करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (रिपुणा) शत्रु चोर से (न, अवचक्षे) न काटने योग्य (शतव्रजाः) सैकड़ों जिनके मार्ग हैं, (एताः) वे वाणी (हृद्यात्, समुद्रात्) हृदयाकाश से (अर्षन्ति) निकलती हैं, (आसाम्) इन वैदिक धर्मयुक्त वाणियों के (मध्ये) बीच जो अग्नि में (घृतस्य) घी की (धाराः) धाराओं के समान मनुष्यों में गिरी हुई प्रकाशित होती हैं, उनकी (हिरण्ययः) तेजस्वी (वेतसः) अतिसुन्दर मैं (अभि, चाकशीमि) सब ओर से शिक्षा करता हूँ ॥९३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे उपदेशक विद्वान् लोग जो वाणी पवित्र, विज्ञानयुक्त, अनेक मार्गोंवाली शत्रुओं से अखण्ड्य और घी का प्रवाह अग्नि को जैसे उत्तेजित करता है, वैसे श्रोताओं को प्रसन्न करनेवाली हैं, उन वाणियों को प्राप्त होते हैं, वैसे सब मनुष्य अच्छे यत्न से इन को प्राप्त होवें ॥९३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैः कीदृशी वाक् प्रयोज्येत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - या रिपुणा नावचक्षे शतव्रजा एता वाचो हृद्यात् समुद्रादर्षन्त्यासां मध्ये या अग्नौ घृतस्य धारा इव जनेषु पतिताः प्रकाशन्ते, ता हिरण्ययो वेतसोऽहमभिचाकशीमि ॥९३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथोपदेशका विद्वांसो याः पवित्रा विज्ञानयुक्ता अनेकमार्गाः शत्रुभिरखण्ड्या घृतस्य प्रवाहोऽग्निमिव श्रोतॄन् प्रसादयन्ति, ता वाचः प्राप्नुवन्ति, तथा सर्वे मनुष्याः प्रयत्नेनैताः प्राप्नुयुः ॥९३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. उपदेशक विद्वान लोक, शत्रूकडून पराजित न होणारी, पवित्र विज्ञानयुक्त व तूप जसे अग्नीला प्रदीप्त करते तशी श्रोत्यांना मंत्रमुग्ध करणारी वाणी प्राप्त करतात तशी वाणी सर्व माणसांनी प्रयत्नपूर्वक प्राप्त करावी.
९४ सम्यक् स्रवन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
स॒म्यक् स्र॑वन्ति स॒रितो॒ न धेना॑ऽअ॒न्तर्हृ॒दा मन॑सा पू॒यमा॑नाः। ए॒तेऽअ॑र्षन्त्यू॒र्मयो॑ घृ॒तस्य॑ मृ॒गाऽइ॑व क्षिप॒णोरीष॑माणाः ॥९४ ॥
मूलम् ...{Loading}...
स॒म्यक् स्र॑वन्ति स॒रितो॒ न धेना॑ऽअ॒न्तर्हृ॒दा मन॑सा पू॒यमा॑नाः। ए॒तेऽअ॑र्षन्त्यू॒र्मयो॑ घृ॒तस्य॑ मृ॒गाऽइ॑व क्षिप॒णोरीष॑माणाः ॥९४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स॒म्यक्। स्र॒वन्ति॒। स॒रितः॑। न। धेनाः॑। अ॒न्तः। हृ॒दा। मन॑सा। पू॒यमा॑नाः। ए॒ते। अ॒र्ष॒न्ति॒। ऊ॒र्मयः॑। घृ॒तस्य॑। मृ॒गाःऽइ॑व। क्षि॒प॒णोः। ईष॑माणाः। ९४।
महीधरः
म० घृतस्य धाराः पतयन्ति स्रुङ्मुखात्पतन्ति । ‘पत ऐश्वर्ये गतौ च’ चुरादिरदन्तः । कीदृश्यो धाराः । यह्वाः महत्यः । यह्व इति महन्नामसु पठितम् । तत्र दृष्टान्तद्वयम् प्राध्वने सिन्धोर्वातप्रमिय इव । प्रगतोऽध्वनः प्राध्वनः विषमप्रदेशः । वातेन प्रमीयन्ते नश्यन्ति ते वातप्रमियस्तरङ्गाः ‘मीङ् हिंसायां’ दिवादिः अस्मात् क्विप् । यथा सिन्धोर्नद्याः वातप्रमियः तरङ्गाः प्राध्वने विषमप्रदेशे पतन्ति तद्वत् । कीदृशा वातप्रमियः । शूघनासः। शु इति क्षिप्रनाम । हन्तेर्गत्यर्थस्य घनमिति रूपम् । शु क्षिप्रं घनं गमनं येषां ते शुघनाः शीघ्रगमनाः ‘आज्जसेरसुक्’ । अन्यो दृष्टान्तः । वाजी न । न इवार्थे । वाजीव यथा वाजी अश्वः पतति । कीदृशो वाजी । अरुषः ‘रुष क्रोधे’ रोषति क्रुध्यतीति रुषः ‘इगुपध-’ (पा० ३ । १ । १३५) इति कप्रत्ययः । न रुषः अरोषणः जात्यादिभिरुत्कृष्ट इत्यर्थः । तथा काष्ठाः आज्यन्तान् संग्रामप्रदेशान् भिन्दन् विदारयन् ऊर्मिभिः काष्ठभेदनोत्थश्रमखेदोदकैः पिन्वमानः भूमिं सिञ्चन् । ‘पिवि सेचने’ शानच् इदित्त्वान्नुम् । स वाजी यथा पतित्वान्नान्यश्नाति एवं पतन्ती घृतधारा अग्निरश्नातीत्यर्थः ॥ ९५ ॥
षण्णवतितमी।
अधिमन्त्रम् (VC)
- यज्ञपुरुषो देवता
- वामदेव ऋषिः
- निचृदार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (अन्तः, हृदा) शरीर के बीच में (मनसा) शुद्ध अन्तःकरण से (पूयमानाः) पवित्र हुई (धेनाः) वाणी (सरितः) नदियों के (न) समान (सम्यक्) अच्छे प्रकार (स्रवन्ति) प्रवृत्त होती हैं, उनको जो (एते) ये वाणी के द्वार (घृतस्य) प्रकाशित आन्तरिक ज्ञान की (ऊर्मयः) लहरें (क्षिपणोः) हिंसक जन के भय से (ईषमाणाः) भागते हुए (मृगा इव) हरिणों के तुल्य (अर्षन्ति) उठती तथा सबको प्राप्त होती हैं, उनको भी तुम लोग जानो ॥९४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में दो उपमा और वाचकलुप्तोपमालङ्कार हैं। जैसे नदी समुद्रों को जाती हैं, वैसे ही आकाशस्थ शब्दसमुद्र से (आकाश का शब्द गुण है इससे) वाणी विचरती हैं, तथा जैसे समुद्र की तरङ्गें चलती हैं, वा जैसे बहेलियों से डरपे हुए मृग इधर-उधर भागते हैं, वैसे ही सब प्राणियों की शरीरस्थ विज्ञान से पवित्र हुई वाणी प्रचार को प्राप्त होती हैं। जो लोग शास्त्र के अभ्यास और सत्य-वचन आदि से वाणियों को पवित्र करते हैं, वे ही शुद्ध होते हैं ॥९४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! या अन्तर्हृदा मनसा पूयमाना धेनाः सरितो न सम्यक् स्रवन्ति, ता ये चैते घृतस्योर्मयः क्षिपणोरीषमाणा मृगा इवार्षन्ति, ताँश्च यूयं विजानीत ॥९४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्काराः। यथा नद्यः समुद्रान् गच्छन्ति, तथैवान्तरिक्षस्थाच्छब्दसमुद्राद् वाचो विचरन्ति। यथा समुद्रस्य तरङ्गाश्चलन्ति यथा च व्याधाद् भीता मृगा धावन्ति, तथैव सर्वेषां प्राणिनां शरीरस्थेन विज्ञानेन पवित्राः सत्यो वाण्यः प्रचरन्ति, ये शास्त्राभ्याससत्यवचनादिभिर्वाचः पवित्रयन्ति, त एव शुद्धा जायन्ते ॥९४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात दोन उपमा व वाचकलुप्तोपमालंकार आहेत. जशी नदी समुद्राला मिळते तशी आकाशातील शब्द समुद्रात (शब्द हा आकाशाचा गुण आहे) वाणी विहार करते. जशा समुद्रात लहरी उठतात व शिकाऱ्यांच्या भयाने मृग इकडे तिकडे पळतात, तसेच सर्व प्राण्यांच्या अंतस्थ विज्ञानाने पवित्र झालेली वाणी प्रकट होते; परंतु जे लोक शास्त्राचा अभ्यास व सत्यवचन इत्यादींनी वाणीला पवित्र करतात तेच पवित्र असतात.
९५ सिन्धोरिव प्राध्वने
विश्वास-प्रस्तुतिः ...{Loading}...
सिन्धो॑रिव प्राध्व॒ने शू॑घ॒नासो॒ वात॑प्रमियः पतयन्ति य॒ह्वाः। घृ॒तस्य॒ धारा॑ऽअरु॒षो न वा॒जी काष्ठा॑ भि॒न्दन्नू॒र्मिभिः॒ पिन्व॑मानः ॥९५ ॥
मूलम् ...{Loading}...
सिन्धो॑रिव प्राध्व॒ने शू॑घ॒नासो॒ वात॑प्रमियः पतयन्ति य॒ह्वाः। घृ॒तस्य॒ धारा॑ऽअरु॒षो न वा॒जी काष्ठा॑ भि॒न्दन्नू॒र्मिभिः॒ पिन्व॑मानः ॥९५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सिन्धो॑रि॒वेति॒ सिन्धाःऽइव। प्रा॒ध्व॒न इति॑ प्रऽअध्व॒ने। शू॒घ॒नासः॑। वात॑प्रमिय॒ इति॒ वात॑ऽप्रमियः। प॒त॒य॒न्ति॒। य॒ह्वाः। घृतस्य॑। धाराः॑। अ॒रु॒षः। न। वा॒जी। काष्ठाः॑। भि॒न्दन्। ऊ॒र्मिभि॒रित्यू॒र्मिः॑। पिन्व॑मानः। ९५।
महीधरः
म० घृतस्य धाराः अग्निमभिप्रवन्त ‘प्रुङ् गतौ’ । अग्निं प्रतिगच्छन्ति । लङ् अडभाव आर्षः । तत्र दृष्टान्तः। योषा इव यथा योषाः स्त्रियः पतिं अभिप्रवन्ते । कीदृश्यो योषाः । समनाः समानं मनो यासां ताः समनसः । विभक्तेर्डादेशः। कल्याण्यः रूपयौवनसंपन्नाः स्मयमानाः ईषद्धसन्त्यः ‘स्मिङ् ईषद्धसने’ । ता धारा अग्निं नसन्त हरन्ति ‘नस हरणे’ लङ् अडभाव आर्षः । नसतिराप्नोतिकर्मा वा । अग्निं व्याप्नुवन्ति । कीदृश्यो धाराः । समिधः समिन्धते दीपयन्त्यग्निमिति समिधः । किंच जातवेदाः जातप्रज्ञानोऽग्निर्जुषाणः प्रीतियुक्तः सन् ता घृतधारा हर्यति प्राप्नोति ‘हर्य क्लमे गतौ’ हर्यतिः प्रेप्साकर्मा वा। ता धाराः प्रेप्सति कामयते । नास्य ग्रहणशक्तिपरिहरणमस्तीति भावः ॥ ९६ ॥
सप्तनवतितमी।
अधिमन्त्रम् (VC)
- यज्ञपुरुषो देवता
- वामदेव ऋषिः
- आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (प्राध्वने) जल चलने के उत्तम मार्ग में (सिन्धोरिव) नदी की जैसे (शूघनासः) शीघ्र चलनेहारी (वातप्रमियः) वायु से जानने योग्य लहरें गिरें और (न) जैसे (काष्ठाः) संग्राम के प्रदेशों को (भिन्दन्) विदीर्ण करता तथा (ऊर्मिभिः) शत्रुओं को मारने के श्रम से उठे पसीने रूप जल से पृथिवी को (पिन्वमानः) सींचता हुआ (अरुषः) चालाक (वाजी) वेगवान् घोड़ा गिरे वैसे जो (यह्वाः) बड़ी गम्भीर (घृतस्य) विज्ञान की (धाराः) वाणी (पतयन्ति) उपदेशक के मुख से निकल के श्रोताओं पर गिरती हैं, उनको तुम जानो ॥९५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में भी दो उपमालङ्कार हैं। जो नदी के समान कार्यसिद्धि के लिये शीघ्र धावनेवाले वा घोड़े के समान वेगवाले जन जिनकी सब दिशाओं में कीर्ति प्रवर्त्तमान हो रही है और परोपकार के लिये उपदेश से बड़े-बड़े दुःख सहते हैं, वे तथा उनके श्रोताजन संसार के स्वामी होते हैं और नहीं ॥९५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! प्राध्वने सिन्धोरिव शूघनासो वातप्रमियः काष्ठा भिन्दन्नूर्मिभिर्भूमिं पिन्वमानोऽरुषो वाजी न या यह्वा घृतस्य धाराः पतयन्ति, ता यूयं विजानीत ॥९५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्राप्युपमाद्वयम्−ये नदीवत् कार्यसिद्धये तूर्णगामिनोऽश्ववद् वेगवन्तः सर्वासु दिक्षु प्रवृत्तकीर्त्तयो जनाः परोपकारायोपदेशेन महान्ति दुःखानि सहन्ते, ते तेषां श्रोतारश्च जगत्स्वामिनो भवन्ति, नेतरे ॥९५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रातही दोन उपमालंकार आहेत. जी माणसे कार्यसिद्धीसाठी नदीप्रमाणे वेगवान किंवा घोड्याप्रमाणे गतिमान असतात, ज्यांची कीर्ती दशदिशांना फैलावते, ते परोपकारासाठी विज्ञानमय गंभीर वाणीने उपदेश करुन अतिशय दुःखही सहन करतात ते व त्यांचे श्रोते हे जगाचे स्वामी बनतात, इतर नव्हेत.
९६ अभिप्रवन्त समनेव
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒भिप्र॑वन्त॒ सम॑नेव॒ योषाः॑ कल्या॒ण्यः᳙ स्मय॑मानासोऽअ॒ग्निम्। घृ॒तस्य॒ धाराः॑ स॒मिधो॑ नसन्त॒ ता जु॑षा॒णो ह॑र्यति जा॒तवे॑दाः ॥९६ ॥
मूलम् ...{Loading}...
अ॒भिप्र॑वन्त॒ सम॑नेव॒ योषाः॑ कल्या॒ण्यः᳙ स्मय॑मानासोऽअ॒ग्निम्। घृ॒तस्य॒ धाराः॑ स॒मिधो॑ नसन्त॒ ता जु॑षा॒णो ह॑र्यति जा॒तवे॑दाः ॥९६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒भि। प्र॒व॒न्त॒। सम॑ने॒वेति॒ सम॑नाऽइव। योषाः॑। क॒ल्या॒ण्यः᳙। स्मय॑मानासः। अ॒ग्निम्। घृ॒तस्य॑। धाराः॑। स॒मिध॒ इति॑ स॒म्ऽइधः॑। न॒स॒न्त॒। ताः। जु॒षा॒णः। ह॒र्यति॒। जा॒तवे॑दाः। ९६।
महीधरः
म० घृतस्य धाराः तत्तत्र अभिपवन्ते अभिगच्छन्ति ‘पव गतौ’ । तत्र कुत्र । यत्र स्थाने सोमः लताविशेषः सूयते अभिषूयते । यत्र च यज्ञः सौत्रामण्याख्यः क्रियते तत्र गच्छन्तीर्घृतस्य धारा अभिचाकशीमि पश्यामि । तत्र गमने दृष्टान्तः । कन्या वहतुमिव वहति परिणयति वहतुर्भर्ता यथा वहतुं पतिमेतवै प्राप्तुं कन्या अभिप्रवन्ते ‘इण् गतौ’ तुमर्थे तवेप्रत्ययः । कीदृश्यः कन्याः । अञ्जि भगमञ्जाना व्यक्तं योग्यं कुर्वाणाः अज्यते व्यक्तीक्रियते स्त्रीपुंव्यक्तिर्येन तत् तदञ्जानाः कन्या यथा पतिं गच्छन्ति तथा यज्ञं घृतधारा गच्छन्ति ता यज्ञसहिता घृतधाराः पश्यामीत्यर्थः ॥ ९७॥
अष्टनवतितमी।
अधिमन्त्रम् (VC)
- यज्ञपुरुषो देवता
- वामदेव ऋषिः
- निचृदार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (स्मयमानासः) किञ्चित् हँसने से प्रसन्नता करने (कल्याण्यः) कल्याण के लिये आचरण करने तथा (समनेव, योषा) एक से चित्तवाली स्त्रियाँ जैसे पतियों को प्राप्त हों, वैसे जो (समिधः) शब्द-अर्थ और सम्बन्धों से सम्यक् प्रकाशित (घृतस्य) शुद्ध ज्ञान की (धाराः) वाणी (अग्निम्) तेजस्वी विद्वान् को (अभि, प्रवन्त) सब ओर से पहुँचती और (नसन्त) प्राप्त होती हैं, (ताः) उन वाणियों का (जुषाणः) सेवन करता हुआ (जातवेदाः) ज्ञानी विद्वान् (हर्यति) कान्ति को प्राप्त होता है ॥९६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे प्रसन्नचित्त आनन्द को प्राप्त सौभाग्यवती स्त्रियाँ अपने-अपने पतियों को प्राप्त होती हैं, वैसे ही विद्या तथा विज्ञानरूप आभूषण से शोभित वाणी विद्वान् पुरुष को प्राप्त होती है ॥९६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तदेवाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - स्मयमानासः कल्याण्यः समनेव योषा याः समिधो घृतस्य धारा अग्निमभिप्रवन्त नसन्त च ता जुषाणो जातवेदा हर्यति ॥९६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा प्रसन्नचित्ता हर्षं प्राप्ताः सौभाग्यवत्यः स्त्रियः स्वस्वपतीन् प्राप्नुवन्ति, तथैव विद्याविज्ञानाभरणभूषिता वाचो विद्वांसं प्राप्नुवन्ति ॥९६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जशा प्रसन्न आनंदी सौभाग्यवती व कल्याण करणाऱ्या स्त्रिया आपल्या पतींना प्राप्त झालेल्या असतात, तसेच विद्या व विज्ञानरूपी अलंकाराने सुशोभित वाणी विद्वान पुरुषांना प्राप्त होते.
९७ कन्याऽइव वहतुमेतवा
विश्वास-प्रस्तुतिः ...{Loading}...
क॒न्या᳖ऽइव वह॒तुमेत॒वा उ॑ऽअ॒ञ्ज्य᳖ञ्जा॒नाऽअ॒भि चा॑कशीमि। यत्र॒ सोमः॑ सू॒यते॒ यत्र॑ य॒ज्ञो घृ॒तस्य॒ धारा॑ऽअ॒भि तत्प॑वन्ते ॥९७ ॥
मूलम् ...{Loading}...
क॒न्या᳖ऽइव वह॒तुमेत॒वा उ॑ऽअ॒ञ्ज्य᳖ञ्जा॒नाऽअ॒भि चा॑कशीमि। यत्र॒ सोमः॑ सू॒यते॒ यत्र॑ य॒ज्ञो घृ॒तस्य॒ धारा॑ऽअ॒भि तत्प॑वन्ते ॥९७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
क॒न्या᳖ऽइ॒वेति॑ क॒न्याः᳖ऽइव। व॒ह॒तुम्। एत॒वै। ऊँ॒ऽइत्यूँ॑। अ॒ञ्जि। अ॒ञ्जा॒नाः। अ॒भि। चा॒क॒शी॒मि॒। यत्र॑। सोमः॑। सू॒यते॑। यत्र॑। य॒ज्ञः। घृ॒तस्य॑। धाराः॑। अ॒भि। तत्। प॒व॒न्ते॒। ९७।
महीधरः
म० हे देवाः, यूयं सुष्टुतिं शोभनां स्तुतिमाजिं यज्ञं च अभ्यर्षत अभ्यागच्छत । अज्यते प्राप्यते स्वर्गो येन स आजिर्यज्ञः । कीदृशमाजिं गव्यम् । गव्यं घृतं विद्यते यस्मिन् स गव्यस्तम् घृतयुतम् । अर्शआदित्वादच्प्रत्ययः । आगत्य चास्मासु भद्रा भद्राणि कल्याणानि द्रविणानि धनानि धत्त स्थापयंते दत्त वा ‘डुधाञ् धारणपोषणयोः’ दाने चेति वचनात् । किंच नोऽस्माकमिमं यज्ञं सौत्रामणीं देवता देवतासु देवलोके नयत प्रापयत । देवताशब्दात् ‘सुपां सुलुक्’ (पा. ७ । १ । ३९ ) | इति विभक्तिलोपः । किंच याश्चैना घृतस्य धारा मधुमत् रसवत् यथा तथा पवन्ते प्रसरन्ति ता अपि देवतासु नयत यज्ञे यज्ञद्रव्ये स्वर्गं गते यजमानो गच्छत्येवेत्यर्थः ॥ ९८ ॥
एकोनशततमी।
इति माध्यन्दिनीयायां वाजसनेयसंहितायां सप्तदशोऽध्यायः ॥ १७ ॥
अधिमन्त्रम् (VC)
- यज्ञपुरुषो देवता
- वामदेव ऋषिः
- निचृदार्षी त्रिष्टुप्
- धैवतः
९८ अभ्यर्षत सुष्टुतिम्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒भ्य᳖र्षत सुष्टु॒तिं गव्य॑मा॒जिम॒स्मासु॑ भ॒द्रा द्रवि॑णानि धत्त। इ॒मं य॒ज्ञं न॑यत दे॒वता॑ नो घृ॒तस्य॒ धारा॒ मधु॑मत्पवन्ते ॥९८ ॥
मूलम् ...{Loading}...
अ॒भ्य᳖र्षत सुष्टु॒तिं गव्य॑मा॒जिम॒स्मासु॑ भ॒द्रा द्रवि॑णानि धत्त। इ॒मं य॒ज्ञं न॑यत दे॒वता॑ नो घृ॒तस्य॒ धारा॒ मधु॑मत्पवन्ते ॥९८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒भि। अ॒र्ष॒त॒। सु॒ष्टु॒तिम्। सु॒स्तु॒तिमिति॑ सुऽस्तु॒तिम्। गव्य॑म्। आ॒जिम्। अ॒स्मासु॑। भ॒द्रा। द्रवि॑णानि। ध॒त्त॒। इ॒मम्। य॒ज्ञम्। न॒य॒त॒। दे॒वता॑। नः॒। घृ॒तस्य॑। धाराः॑। मधु॑म॒दिति॒ मधु॑ऽमत्। प॒व॒न्ते॒। ९८।
महीधरः
म० ब्रह्मादिस्तम्बपर्यन्तं निखिलं जगदाहुतिपरिणामभूतं मन्यमानो मुनिराह । हे अग्ने, विश्वं भुवनं सर्वं भूतजातं ते तव धामन् धाम्नि विभूत्यामधिश्रितं आश्रितं स्थितम् । त्वन्महिमोत्थमित्यर्थः । यच्चान्तःसमुद्रे समुद्रमध्ये तथा हृदि हृन्मध्ये तथा अन्तरायुषि आयुर्मध्ये ब्रह्मणो जीवनपर्यन्तं यद्भूतजातं तदपि ते धामनि श्रितम् । धामन्निति विभक्तिलोपः। अतोऽहं प्रार्थये मधुमन्तं रसवन्तं तमूर्मिं घृतकल्लोलं ते त्वदीयं वयमश्याम भक्षयामो व्याप्नुयामो वा । तं कम् । अपामनीके मुखे वर्तमानो य ऊर्मिः समिधे पणिभिः सह युद्धे आभृतः आहृत आनीतः । ‘त्रिधा हितं पणिभिर्गुह्यमानम्’ (क० ९२ ) इत्युक्तत्वात् । अश्यामेति अश्नातेरश्नोतेर्वा विकरणव्यत्ययेन श्यनि प्रत्यये लोटि रूपम् । हविःपरिणामिनो रसस्य वयं भोक्तारो भवेमेति भावः । देवत्वं प्राप्नुयामेति वक्रोक्त्या प्रार्थ्यते । यद्वास्या ऋचोऽर्थान्तरमुच्यते । हे अग्ने, इदं विश्वं भुवनं तव धाम्नि अधिश्रितं तत्ते धाम कुत्र कुत्रेति तदुच्यते । अन्तःसमुद्रे अन्तरिक्षमध्ये सूर्यरूपेण । समुद्र इत्यन्तरिक्षनाम । हृदि अन्तः सर्वप्राणिनां हृदये जठराग्निरूपेण आयुषि अन्ने सर्वप्राण्याहारत्वेन अपामनीके उदकानां सङ्घाते वैद्युताग्निरूपेण समिथे सङ्ग्रामे, शौर्याग्निरूपेण एवं सर्वेषु स्थानेषु आभृतः स्थापितो यस्तव धामरूप ऊर्मिः घृतरूप उदकरूपो वा तं तव रसं मधुमन्तं माधुर्योपेतं वयमश्याम प्राप्नुयाम । सर्वरसभोक्तारः स्यामेति भावः ॥ ९९ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे । सेकादिजपपर्यन्तोऽध्यायः सप्तदशोऽगमत् ॥ १७ ॥
अधिमन्त्रम् (VC)
- यज्ञपुरुषो देवता
- वामदेव ऋषिः
- आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
विवाहित स्त्री-पुरुषों को क्या करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विवाहित स्त्रीपुरुषो ! तुम उत्तम वर्त्ताव से (सुष्टुतिम्) अच्छी प्रशंसा तथा (आजिम्) जिस से उत्तम कामों को जानते हैं, उस संग्राम और (गव्यम्) वाणी में होनेवाले बोध वा गौ में होनेवाले दूध, दही, घी आदि को (अभ्यर्षत) सब ओर से प्राप्त होओ (देवता) विद्वान् जन (अस्मासु) हम लोगों में (भद्रा) अति आनन्द करानेवाले (द्रविणानि) धनों को (धत्त) स्थापित करो (नः) हम लोगों को (इमम्) इस (यज्ञम्) प्राप्त होने योग्य गृहाश्रम-व्यवहार को (नयत) प्राप्त करावो, जो (घृतस्य) प्रकाशित विज्ञान से युक्त (धाराः) अच्छी शिक्षायुक्त वाणी विद्वानों को (मधुमत्) मधुर आलाप जैसे हो वैसे (पवन्ते) प्राप्त होती हैं, उन वाणियों को हम को प्राप्त कराओ ॥९८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - स्त्रीपुरुषों को चाहिये कि परस्पर मित्र होकर संसार में विख्यात होवें, जैसे अपने लिये वैसे औरों के लिये भी अत्यन्त सुख करनेवाले धनों को उन्नतियुक्त करें, परम पुरुषार्थ से गृहाश्रम की शोभा करें और वेदविद्या का निरन्तर प्रचार करें ॥९८ ॥
दयानन्द-सरस्वती (सं) - विषयः
विवाहितैः स्त्रीपुरुषैः किं कार्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रीपुरुषाः। यूयमुत्तमाचारेण सुष्टुतिमाजिं गव्यं चाभ्यर्षत, देवताऽस्मासु भद्रा द्रविणानि धत्त, न इमं यज्ञं नयत, या घृतस्य धारा विदुषो मधुमत्पवन्ते, ता अस्मान्नयत ॥९८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - स्त्रीपुरुषैः सखिभिर्भूत्वा जगति प्रख्यातैर्भवितव्यम्। यथा स्वेभ्यस्तथान्येभ्योऽपि कल्याणकारकाणि द्रव्याण्युन्नेयानि। परमपुरुषार्थेन गृहाश्रमस्य शोभा कर्त्तव्या। वेदविद्या सततं प्रचारणीया च ॥९८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या जगात स्त्री-पुरुषांनी परस्पर मित्र बनून जगावे. जसे आपल्या सुखासाठी धन प्राप्त केले जाते तसे इतरांसाठीही करावे. पुरुषार्थाने गृहस्थाश्रमाची शोभा वाढवावी व वेदविद्येचा सदैव प्रचार करावा.
९९ धामन्ते विश्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
धाम॑न्ते॒ विश्वं॒ भुव॑न॒मधि॑ श्रि॒तम॒न्तः स॑मु॒द्रे हृ॒द्य᳙न्तरायु॑षि। अ॒पामनी॑के समि॒थे यऽआभृ॑त॒स्तम॑श्याम॒ मधु॑मन्तं तऽऊ॒र्मिम् ॥९९ ॥
मूलम् ...{Loading}...
धाम॑न्ते॒ विश्वं॒ भुव॑न॒मधि॑ श्रि॒तम॒न्तः स॑मु॒द्रे हृ॒द्य᳙न्तरायु॑षि। अ॒पामनी॑के समि॒थे यऽआभृ॑त॒स्तम॑श्याम॒ मधु॑मन्तं तऽऊ॒र्मिम् ॥९९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
धाम॑न्। ते॒। विश्व॑म्। भुव॑नम्। अधि॑। श्रि॒तम्। अ॒न्तरित्य॒न्तः। स॒मु॒द्रे। हृ॒दि। अ॒न्तरित्य॒न्तः। आयु॑षि। अ॒पाम्। अनी॑के। स॒मि॒थ इति॑ सम्ऽइ॒थे। यः। आभृ॑त॒ इत्याऽभृ॑तः। तम्। अ॒श्या॒म॒। मधु॑मन्त॒मिति॒ मधु॑ऽमन्तम्। ते॒। ऊ॒र्मिम्। ९९।
महीधरः
अधिमन्त्रम् (VC)
- यज्ञपुरुषो देवता
- वामदेव ऋषिः
- स्वराडार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब ईश्वर और राजा का विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे जगदीश्वर ! जिस (ते) आपके (धामन्) जिसमें कि समस्त पदार्थों को आप धरते हैं (अन्तः, समुद्रे) उस आकाश के तुल्य सब के बीच व्याप्तस्वरूप में (विश्वम्) सब (भुवनम्) प्राणियों की उत्पत्ति का स्थान संसार (अधि, श्रितम्) आश्रित होके स्थित है, उसको हम लोग (अश्याम) प्राप्त होवें। हे सभापते ! (ते) तेरे (अपाम्) प्राणों के (अन्तः) बीच (हृदि) हृदय में तथा (आयुषि) जीवन के हेतु प्राणधारियों के (अनीके) सेना और (समिथे) संग्राम में (यः) जो भार (आभृतः) भलीभाँति धरा है, (तम्) उसको तथा (मधुमन्तम्) प्रशंसायुक्त मधुर गुणों से भरे हुए (ऊर्मिम्) बोध को हम लोग प्राप्त होवें ॥९९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि जगदीश्वर की सृष्टि में परम प्रयत्न से मित्रों की उन्नति करें और समस्त सामग्री को धारण करके यथायोग्य आहार और विहार अर्थात् परिश्रम से शरीर की आरोग्यता का विस्तार कर अपना और पराया उपकार करें ॥९९ ॥ इस अध्याय में सूर्य, मेघ, गृहाश्रम और गणित की विद्या तथा ईश्वर आदि की पदार्थविद्या के वर्णन से इस अध्याय के अर्थ की पिछले अध्याय के अर्थ के साथ एकता है, यह समझना चाहिये ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्याणां श्रीमत्परमविदुषां विरजानन्दसरस्वतीस्वामिनां शिष्येण दयानदसरस्वतीस्वामिना विरचिते संस्कृतार्य्यभाषाभ्यां विभूषिते सुप्रमाणयुक्ते यजुर्वेदभाष्ये सप्तदशोऽध्यायः समाप्तः ॥१७॥
दयानन्द-सरस्वती (सं) - विषयः
अथेश्वरराजविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे जगदीश ! यस्य ते धामन्नन्तः समुद्रे विश्वं भुवनाधिश्रितं तद्वयमश्याम। हे सभापते ! तेऽपामन्तर्हृद्यायुष्यपामनीके समिथे यः सम्भार आभृतस्तं मधुमन्तमूर्मिं च वयमश्याम ॥९९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्जगदीश्वरसृष्टौ परमप्रयत्नेन सख्युन्नतिः कार्या, सर्वाः साम्रगीर्धृत्वा युक्ताहारविहारेण शरीरारोग्यं संतत्य स्वेषामन्येषां चोपकारः कार्य इति शम् ॥९९ ॥ अत्र सूर्यमेघगृहाश्रमगणितविद्येश्वरादिपदार्थविद्यावर्णनादेतदध्यायोक्तार्थस्य पूर्वाध्यायोक्तार्थेन सह सङ्गतिरस्तीति बोद्धव्यमिति ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी या ईश्वरी सृष्टीत अत्यंत प्रयत्नपूर्वक सर्वांची उन्नती करावी. सर्व साधन सामग्री बाळगून यथायोग्य आहार, विहार करावा. परिश्रमाने शरीराचे आरोग्य वाढवावे व इतरांवरही उपकार करावा.