०१ नमस्ते रुद्र
विश्वास-प्रस्तुतिः ...{Loading}...
नम॑स्ते रुद्र म॒न्यव॑ऽउ॒तो त॒ऽइष॑वे॒ नमः॑। बा॒हुभ्या॑मु॒त ते॒ नमः॑ ॥१ ॥
मूलम् ...{Loading}...
नम॑स्ते रुद्र म॒न्यव॑ऽउ॒तो त॒ऽइष॑वे॒ नमः॑। बा॒हुभ्या॑मु॒त ते॒ नमः॑ ॥१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नमः॑। ते॒। रु॒द्र॒। म॒न्यवे॑। उ॒तोऽइत्यु॒तो। ते॒। इष॑वे। नमः॑। बा॒हु॒भ्या॒मिति॑ बा॒हुऽभ्या॑म्। उ॒त। ते॒। नमः॑। १।
महीधरः
म० पञ्चदशे अध्याये चयनमन्त्रान् समाप्य षोडशे शतरुद्रियाख्यहोममन्त्रा उच्यन्ते । ‘शतरुद्रियहोम उत्तरपक्षस्यापरस्याᳪं᳭ स्रक्त्यां परिश्रित्स्वर्कपर्णेनार्ककाष्ठेन शातयन्संततं जर्तिलमिश्रान् गवेधुकासक्तूनजाक्षीरमेके तिष्ठन्नुदङ्नमस्त इत्यध्यायेन त्र्यनुवाकान्ते स्वाहाकारो जानुमात्रे पञ्चान्ते च नाभिमात्रे प्राक् च प्रत्यवरोहेभ्यो मुखमात्रे प्रतिलोमं प्रत्यवरोहान् जुहोति प्रमाणेषु नमोऽस्त्विति प्रतिमन्त्रम्’ ( का० १८ । १।१-५) । अस्यार्थः । हिरण्यशकलैरग्निप्रोक्षणानन्तरं शतरुद्रियसंज्ञो होमः तस्याहवनीये प्राप्तावपवादमाह । उत्तरपक्षपश्चिमकोणे याः परिश्रितो जङ्घामात्र्यादयः पूर्वं निखातास्तासु होमः । तत्र विधिः । जर्तिलैरारण्यतिलैर्मिश्रान् गवेधुकासक्तूनर्कपत्रेण जुहोति । किं कुर्वन् । अर्ककाष्ठेन संततं क्षारयन् परिश्रित्सु पातयन् अर्कपत्रं दक्षकरेणादायार्ककाष्ठं वामेनादाय तेन पातनीयम् । सक्तुस्थाने अजादुग्धमिति केचित् । उदङ्मुखो नमस्त इत्यध्यायेन । तत्रानुवाकत्रयान्ते ‘अर्भकेभ्यश्च वो नमः’ (क० २६ ) इत्यत्र जानुमात्रे परिश्रिति स्वाहाकारो विधेयः । पञ्चानुवाकान्ते ‘सुधन्वने च’ (क. ३६ ) इत्यत्र नाभिमात्रे परिश्रिति स्वाहाकारः । ‘नमोऽस्तु रुद्रेभ्यः’ (क० ६३) इति प्रत्यवरोहमन्त्राः तेभ्यः प्राक् मुखमात्रपरिश्रिति स्वाहाकारः । नमोऽस्त्विति कण्डिकात्रयेण प्रतिलोमं होमः। ‘ये दिवि’ (क० ६४ ) इति मुखमात्रे । ‘येऽन्तरिक्षे (क० ६५ ) इति नाभिमात्रे । ‘ये पृथिव्याम्’ (क० ६६) इति जानुमात्रे । इति सूत्रार्थः । नमस्ते । षोडशर्चोऽनुवाकः एकरुद्रदेवत्यः आद्या गायत्री तिस्रोऽनुष्टुभः तिस्रः पङ्क्तयः सप्तानुष्टुभः द्वे जगत्यौ । अध्यायस्य परमेष्ठिदेवप्रजापतय ऋषयः । मा नः (क० १५-१६) इति द्वयोः कुत्सोऽपि ऋषिः । हे रुद्र, रुत् दुःखं द्रावयति रुद्रः । यद्वा ‘रु गतौ’ ये गत्यर्थास्ते ज्ञानार्थाः । रवणं रुत् ज्ञानं राति ददाति रुद्रः ज्ञानम् भावे क्विप् तुगागमः । रुत् ज्ञानप्रदः । यद्वा पापिनो नरान् दुःखभोगेन रोदयति रुद्रः । हे रुद्र, ते तव मन्यवे क्रोधाय नमः नमस्कारोऽस्तु । उतो अपिच ते तवेषवे वाणाय नमः । उतापि च ते तव बाहुभ्यां नमः । तव क्रोधबाणहस्ता अस्मदरिष्वेव प्रसरन्तु नास्मास्वित्यर्थः ॥ १॥
द्वितीया ।
अधिमन्त्रम् (VC)
- रुद्रो देवता
- परमेष्ठी वा कुत्स ऋषिः
- आर्षी गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब सोलहवें अध्याय का आरम्भ करते हैं। इस के प्रथम मन्त्र में राजधर्म का उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (रुद्र) दुष्ट शत्रुओं को रुलानेहारे राजन् ! (ते) तेरे (मन्यवे) क्रोधयुक्त वीर पुरुष के लिये (नमः) वज्र प्राप्त हो (उतो) और (इषवे) शत्रुओं को मारनेहारे (ते) तेरे लिये (नमः) अन्न प्राप्त हो (उत) और (ते) तेरे (बाहुभ्याम्) भुजाओं से (नमः) वज्र शत्रुओं को प्राप्त हो ॥१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो राज्य किया चाहें, वे हाथ पाँव का बल, युद्ध की शिक्षा तथा शस्त्र और अस्त्रों का संग्रह करें ॥१ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ राजधर्म उपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे रुद्र! ते मन्यवे नमोऽस्तु। उतो इषवे ते नमोऽस्तु। उत ते बाहुभ्यां नमोऽस्तु ॥१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये राज्यं चिकीर्षेयुस्ते बाहुबलं युद्धशिक्षाशस्त्रास्त्राणि च सम्पादयेयुः ॥१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्यांना राज्य करावयाचे असते त्यांच्या हातापायात बळ हवे. त्यांनी युद्धाचे शिक्षण घेतलेले असावे. त्यांच्याजवळ अस्त्र-शस्त्रांचा संग्रह असावा.
०२ या ते
विश्वास-प्रस्तुतिः ...{Loading}...
या ते॑ रुद्र शि॒वा त॒नूरघो॒राऽपा॑पकाशिनी। तया॑ नस्त॒न्वा᳙ शन्त॑मया॒ गिरि॑शन्ता॒भि चा॑कशीहि ॥२ ॥
मूलम् ...{Loading}...
या ते॑ रुद्र शि॒वा त॒नूरघो॒राऽपा॑पकाशिनी। तया॑ नस्त॒न्वा᳙ शन्त॑मया॒ गिरि॑शन्ता॒भि चा॑कशीहि ॥२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
या। ते॒। रु॒द्र॒। शि॒वा। त॒नूः। अघो॑रा। अपा॑पकाशि॒नीत्यपा॑पऽकाशिनी। तया॑। नः॒। त॒न्वा᳙। शन्त॑म॒येति॒ शम्ऽत॑मया। गिरि॑श॒न्तेति॒ गिरि॑ऽशन्त। अ॒भि। चा॒क॒शी॒हि॒। २।
महीधरः
म०. हे रुद्र, या ते तवेदृशी तनूः शरीरं हे गिरिशन्त, तया तन्वा नोऽस्मानभिचाकशीहि अभिपश्य । चाकशीतिः पश्यतिकर्मा ( नि० ३ । ११ । ८) । कीदृशी तनूः । शिवा शान्ता मङ्गलरूपा । यतोऽघोरा अविषमा सौम्या अतएवाऽपापकाशिनी पापमसुखं काशयति प्रकाशयति पापकाशिनी न पापकाशिनी अपापकाशिनी । या पुण्यफलमेव ददाति न पापफलमित्यर्थः । गिरौ कैलासे स्थितः शं सुखं प्राणिनां तनोति विस्तारयतीति गिरिशन्तः, गिरि वाचि स्थितः शं तनोतीति वा, गिरौ मेघे स्थितो वृष्टिद्वारेण शं तनोतीति वा, गिरौ शेते गिरिशः । अमति गच्छति जानातीत्यन्तः सर्वज्ञः । ‘अम गतौ भजने शब्दे’ कर्तरि क्तः । गिरिशश्वासावन्तश्च गिरिशन्तस्तत्संबुद्धिः । शकन्ध्वादित्वात्पररूपम् (पा० ६ । १ । ९४ ) कीदृश्या तन्वा । शन्तमया सुखतमया ॥२॥
तृतीया।
अधिमन्त्रम् (VC)
- रुद्रो देवता
- परमेष्ठी वा कुत्स ऋषिः
- स्वराडार्ष्यनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब शिक्षक और शिष्य का व्यवहार अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (गिरिशन्त) मेघ वा सत्य उपदेश से सुख पहुँचाने वाले (रुद्र) दुष्टों को भय और श्रेष्ठों के लिये सुखकारी शिक्षक विद्वन् ! (या) जो (ते) आप की (अघोरा) घोर उपद्रव से रहित (अपापकाशिनी) सत्य धर्मों को प्रकाशित करने हारी (शिवा) कल्याणकारिणी (तनूः) देह वा विस्तृत उपदेश रूप नीति है (तया) उस (शन्तमया) अत्यन्त सुख प्राप्त करानेवाली (तन्वा) देह वा विस्तृत उपदेश की नीति से (नः) हम लोगों को आप (अभि, चाकशीहि) सब ओर से शीघ्र शिक्षा कीजिये ॥२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - शिक्षक लोग शिष्यों के लिये धर्मयुक्त नीति की शिक्षा दें और पापों से पृथक् करके कल्याणरूपी कर्मों के आचरण में नियुक्त करें ॥२ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ शिक्षकशिष्यव्यवहारमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे गिरिशन्त रुद्र ! या ते तवाघोराऽपापकाशिनी शिवा तनूरस्ति, तया शन्तमया तन्वा नस्त्वमभिचाकशीहि ॥२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - शिक्षकाः शिष्येभ्यः धर्म्यां नीतिं शिक्षित्वा निष्पापान् कल्याणाचरणान् सम्पादयन्तु ॥२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - गुरुजनांनी शिष्यांना धर्मयुक्त नीतीचे शिक्षण द्यावे व पापांपासून दूर करून चांगले आचरण करण्यास उद्युक्त करावे.
०३ यामिषुं गिरिशन्त
विश्वास-प्रस्तुतिः ...{Loading}...
यामिषुं॑ गिरिशन्त॒ हस्ते॑ बि॒भर्ष्यस्त॑वे। शि॒वां गि॑रित्र॒ तां कु॑रु॒ मा हिँ॑सीः॒ पुरु॑षं॒ जग॑त् ॥३ ॥
मूलम् ...{Loading}...
यामिषुं॑ गिरिशन्त॒ हस्ते॑ बि॒भर्ष्यस्त॑वे। शि॒वां गि॑रित्र॒ तां कु॑रु॒ मा हिँ॑सीः॒ पुरु॑षं॒ जग॑त् ॥३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
याम्। इषु॑म्। गि॒रि॒श॒न्तेति॑ गिरिऽशन्त। हस्ते॑। बि॒भर्षि॑। अस्त॑वे। शि॒वाम्। गि॒रि॒त्रेति॑ गिरिऽत्र। ताम्। कु॒रु॒। मा। हिँ॒सीः॒। पुरु॑षम्। जग॑त्। ३।
महीधरः
म० हे गिरिशन्त, त्वं यामिषुं बाणं हस्ते बिभर्षि धारयसि । किं कर्तुम् । अस्तवे ‘असु क्षेपणे’ तुमर्थे तवेप्रत्ययः । असितुं शत्रून् क्षेप्तुमित्यर्थः । गिरित्र, गिरौ कैलासे स्थितो भूतानि त्रायत इति गिरित्रः तामिषुं शिवां कल्याणकारिणीं कुरु । किंच पुरुषं पुत्रपौत्रादिकं जगत् जङ्गममन्यदपि गवाश्वादिकं मा हिंसीः मा वधीः ॥ ३ ॥
चतुर्थी।
अधिमन्त्रम् (VC)
- रुद्रो देवता
- परमेष्ठी वा कुत्स ऋषिः
- विराडार्ष्यनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब राजपुरुषों को क्या करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (गिरिशन्त) मेघ द्वारा सुख पहुँचानेवाले सेनापति ! जिस कारण तू (अस्तवे) फेंकने के लिये (याम्) जिस (इषुम्) बाण को (हस्ते) हाथ में (बिभर्षि) धारण करता है, इसलिये (ताम्) उसको (शिवाम्) मङ्गलकारी (कुरु) कर। हे (गिरित्र) विद्या के उपदेशकों वा मेघों की रक्षा करनेहारे राजपुरुष ! तू (पुरुषम्) पुरुषार्थयुक्त मनुष्यादि (जगत्) संसार को (मा) मत (हिंसीः) मार ॥३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजपुरुषों को चाहिये कि युद्धविद्या को जान और शस्त्र-अस्त्रों को धारण करके मनुष्यादि श्रेष्ठ प्राणियों को क्लेश न देवें वा न मारें, किन्तु मङ्गलरूप आचरण से सब की रक्षा करें ॥३ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ राजपुरुषैः किं कर्त्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे गिरिशन्त सेनापते ! यतस्त्वमस्तवे यामिषुं हस्ते बिभर्षि, अतस्तां शिवां कुरु। हे गिरित्र ! त्वं पुरुषं जगन्मा हिंसीः ॥३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - राजपुरुषैर्युद्धविद्यां बुध्वा शस्त्राणि धृत्वा मनुष्यादयः श्रेष्ठा प्राणिनो नो हिंसनीयाः, किन्तु मङ्गलाचारेण रक्षणीयाः ॥३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजपुरुषांनी युद्धविद्या जाणून शस्त्रास्त्रे धारण करावीत व माणसांना त्रास देऊ नये किंवा मारू नये. उलट चांगले वागून सर्वांचे रक्षण करावे.
०४ शिवेन वचसा
विश्वास-प्रस्तुतिः ...{Loading}...
शि॒वेन॒ वच॑सा॒ त्वा॒ गिरि॒शाच्छा॑ वदामसि। यथा॑ नः॒ सर्व॒मिज्जग॑दय॒क्ष्मँ सु॒मना॒ऽअस॑त् ॥४ ॥
मूलम् ...{Loading}...
शि॒वेन॒ वच॑सा॒ त्वा॒ गिरि॒शाच्छा॑ वदामसि। यथा॑ नः॒ सर्व॒मिज्जग॑दय॒क्ष्मँ सु॒मना॒ऽअस॑त् ॥४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
शि॒वेन॑। वच॑सा। त्वा॒। गिरि॒शेति॒ गिरि॑ऽश। अच्छ॑। व॒दा॒म॒सि॒। यथा॑। नः॒। सर्व॑म्। इत्। जग॑त्। अ॒य॒क्ष्मम्। सु॒मना॒ इति॑ सु॒ऽमनाः॑। अस॑त्। ४।
महीधरः
म० गिरौ कैलासे शेते गिरिशः हे गिरिश, शिवेन वचसा मङ्गलेन स्तुतिरूपेण वचनेन त्वा अच्छ त्वां प्राप्तुं वयं वदामसि वदामः प्रार्थयामहे । ‘अच्छाभेराप्तुमिति शाकपूणिः’ (नि० ५। २८ ) संहितायां ‘निपातस्य च’ (पा० ६ । ३ । १३६ ) इति दीर्घः । ‘इदन्तो मसि’ (पा. ७ । १ । ४६ )। किं वदाम इत्यत आह । नोऽस्माकं सर्वमित् सर्वमेव जगत् जङ्गमं नराः पश्वादि यथा येन प्रकारेण अयक्ष्मं नीरोगं सुमनाः शोभनमनस्कं च असत् भवति यथा कुर्विति शेषः । सुमनःशब्दे पुंस्त्वमार्षं जगद्विशेषणत्वात् । असदित्यत्र ‘लेटोऽडाटौ’ । (पा० ३ । ४ । ९४ ) इत्यट् इलोपः ॥ ४ ॥
पञ्चमी।
अधिमन्त्रम् (VC)
- रुद्रो देवता
- परमेष्ठी ऋषिः
- निचृदार्ष्यनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब वैद्य का कृत्य यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (गिरिश) पर्वत वा मेघों में सोनेवाले रोगनाशक वैद्यराज ! तू (सुमनाः) प्रसन्नचित्त होकर आप (यथा) जैसे (नः) हमारा (सर्वम्) सब (जगत्) मनुष्यादि जङ्गम और स्थावर राज्य (अयक्ष्मम्) क्षय आदि राजरोगों से रहित (असत्) हो वैसे (इत्) ही (शिवेन) कल्याणकारी (वचसा) वचन से (त्वा) तुझ को हम लोग (अच्छ वदामसि) अच्छा कहते हैं ॥४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जो पुरुष वैद्यकशास्त्र को पढ़ पर्वतादि स्थानों की ओषधियों वा जलों की परीक्षा कर और सब के कल्याण के लिये निष्कपटता से रोगों को निवृत्त करके प्रिय वाणी से वर्त्ते, उस वैद्य का सब लोग सत्कार करें ॥४ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ चिकित्सककृत्यमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे गिरिश रुद्र वैद्यराज ! सुमनास्त्वं यथा नः सर्वं जगदयक्ष्ममसत् तथेच्छिवेन वचसा त्वा वयमच्छ वदामसि ॥४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यो वैद्यकशास्त्रमधीत्य पर्वतादिषु स्थिता ओषधीरपो वा सुपरीक्ष्य सर्वेषां कल्याणाय निष्कपटित्वेन रोगान् निवार्य्य प्रियस्वरूपया वाचा वर्त्तेत तं वैद्यं सर्वे सत्कुर्युः ॥४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जो माणूस वैद्यकशास्त्राचे अध्ययन करून पर्वतावरील औषधांची किंवा पाण्याची परीक्षा करून निष्कपटीपणे सर्वांच्या कल्याणासाठी वापरतो व रोग दूर करतो आणि मधुरही बोलतो त्या वैद्याचा सर्व लोकांनी सत्कार करावा.
०५ अध्यवोचदधिवक्ता प्रथमो
विश्वास-प्रस्तुतिः ...{Loading}...
अध्य॑वोचदधिव॒क्ता प्र॑थ॒मो दैव्यो॑ भि॒षक्। अही॑श्चँ॒ सर्वा॑ञ्ज॒म्भय॒न्त्सर्वा॑श्च यातुधा॒न्यो᳖ऽध॒राचीः॒ परा॑ सुव ॥५ ॥
मूलम् ...{Loading}...
अध्य॑वोचदधिव॒क्ता प्र॑थ॒मो दैव्यो॑ भि॒षक्। अही॑श्चँ॒ सर्वा॑ञ्ज॒म्भय॒न्त्सर्वा॑श्च यातुधा॒न्यो᳖ऽध॒राचीः॒ परा॑ सुव ॥५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अधि॑। अ॒वो॒च॒त्। अ॒धि॒व॒क्तेत्य॑धिऽव॒क्ता। प्र॒थ॒मः। दैव्यः॑। भि॒षक्। अही॑न्। च॒। सर्वा॑न्। ज॒म्भय॑न्। सर्वाः॑। च॒। या॒तु॒धा॒न्य᳖ इति॑ यातुऽधा॒न्यः᳖। अ॒ध॒राचीः॑। परा॑। सु॒व॒। ५।
महीधरः
म० रुद्रो मामध्यवोचत् अधिवक्तु मां सर्वाधिकं वदतु, तेनोक्ते मम सर्वाधिक्यं भवत्येवेत्यर्थः । कीदृशः । अधिवक्ता अधिकवदनशीलः । प्रथमः सर्वेषां मुख्यः पूज्यत्वात् । दैव्यः देवेभ्यो हितः । भिषक् रोगनाशकः स्मरणेनैव रोगनाशाद्भिषक्त्वम् । एवं परोक्षमुक्त्वा प्रत्यक्षमाह । हे रुद्र, सर्वा यातुधान्यः यातुधानीः राक्षसीः त्वं परासुव पराक्षिप अस्मभ्यो दूरीकुरु । किं कुर्वन् । सर्वानहीन् सर्पव्याघ्रादीन् जम्भयन् विनाशयन् । कीदृशीर्यातुधान्यः । अधराचीः अधरेऽधोदेशेऽञ्चन्ति ता अधराच्यः ताः अधोऽधोगमनशीलाः । चौ समुच्चये । सर्पनाशराक्षसीक्षेपौ सदैव कुर्वित्यर्थः ॥ ५॥
षष्ठी।
अधिमन्त्रम् (VC)
- एकरुद्रो देवता
- बृहस्पतिर्ऋषिः
- भुरिगार्षी बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे रुद्र रोगनाशक वैद्य ! जो (प्रथमः) मुख्य (दैव्यः) विद्वानों में प्रसिद्ध (अधिवक्ता) सब से उत्तम कक्षा के वैद्यकशास्त्र को पढ़ाने तथा (भिषक्) निदान आदि को जान के रोगों को निवृत्त करनेवाले आप (सर्वान्) सब (अहीन्) सर्प के तुल्य प्राणान्त करनेहारे रोगों को (च) निश्चय से (जम्भयन्) ओषधियों से हटाते हुए (अध्यवोचत्) अधिक उपदेश करें सो आप जो (सर्वाः) सब (अधराचीः) नीच गति को पहुँचानेवाली (यातुधान्यः) रोगकारिणी ओषधि वा व्यभिचारिणी स्त्रियाँ हैं, उनको (परा) दूर (सुव) कीजिये ॥५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजादि सभासद् लोग सब के अधिष्ठाता मुख्य धर्मात्मा जिसने सब रोगों वा ओषधियों की परीक्षा ली हो उस वैद्य को राज्य और सेना में रख के बल और सुख के नाशक रोगों तथा व्यभिचारिणी स्त्री और पुरुषों को निवृत्त करावें ॥५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे रुद्र ! यः प्रथमो दैव्योऽधिवक्ता भिषग्भवान् सर्वानहीन् रोगांश्च जम्भयन्नध्यवोचत्, स त्वं याश्च सर्वा यातुधान्योऽधराचीः सन्ति ताश्च परासुव ॥५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - राजादिसभासदः सर्वेषामधिष्ठातारं मुख्यं धार्मिकं लब्धसर्वपरीक्षं वैद्यं राज्ये सेनायां च नियोज्य बलसुखनाशकान् रोगान् व्यभिचारिणो जनान् व्यभिचारिणीः स्त्रीश्च निवारयेयुः ॥५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्याला सर्व रोगांची व औषधांचीही परीक्षा आहे व जो सर्वांचा मुख्य अधिष्ठाता आणि धर्मात्मा आहे अशा वैद्याला राजा इत्यादी सभासद यांनी राज्यात व सैन्यात नेमावे. त्याने शक्तीचा व सुखाचा नाश करणाऱ्या रोगांचा नाश करून व्यभिचारिणी स्त्री व पुरुषांचीही त्यातून सुटका करावी.
०६ असौ यस्ताम्रोऽअरुणऽउत
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒सौ यस्ता॒म्रोऽअ॑रु॒णऽउ॒त ब॒भ्रुः सु॑म॒ङ्गलः॑। ये चै॑नँ रु॒द्राऽअ॒भितो॑ दि॒क्षु श्रि॒ताः स॑हस्र॒शोऽवै॑षाँ हेड॑ऽईमहे ॥६ ॥
मूलम् ...{Loading}...
अ॒सौ यस्ता॒म्रोऽअ॑रु॒णऽउ॒त ब॒भ्रुः सु॑म॒ङ्गलः॑। ये चै॑नँ रु॒द्राऽअ॒भितो॑ दि॒क्षु श्रि॒ताः स॑हस्र॒शोऽवै॑षाँ हेड॑ऽईमहे ॥६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒सौ। यः। ता॒म्रः। अ॒रु॒णः। उ॒त। ब॒भ्रुः। सु॒म॒ङ्गल॒ इति॑ सुऽम॒ङ्गलः॑। ये। च॒। ए॒न॒म्। रु॒द्राः। अ॒भितः॑। दि॒क्षु। श्रि॒ताः। स॒ह॒स्र॒श इति॑ सहस्र॒ऽशः। अव॑। ए॒षा॒म्। हेडः॑। ई॒म॒हे॒। ६।
महीधरः
म० आदित्यरूपेणात्र रुद्रः स्तूयते । योऽसौ प्रत्यक्षो रुद्रो रविरूपः । च पुनरर्थे । रुद्रा एनमभितोदिक्षु प्राच्यादिषु श्रिताः किरणरूपेण सहस्रशोऽसंख्याः एषां हेडः क्रोधमस्मदपराधजं वयमेव ईमहे निवारयामः भक्त्या निराकुर्मः । हेड इति क्रोधनाम । ‘अभिसर्वतसोः’ (पा० २।३। २) द्वितीया । कीदृशोऽसौ । ताम्रः उदयेऽत्यन्तं रक्तः। अरुणः रक्तोऽस्तकाले । उतापि च बभ्रुः पिङ्गलवर्णोऽन्यदा । सुमङ्गलः शोभनानि मङ्गलानि यस्य मङ्गलरूपः रव्युदये सर्वमङ्गलप्रवर्तनात् ॥ ६ ॥
सप्तमी।
अधिमन्त्रम् (VC)
- रुद्रो देवता
- प्रजापतिर्ऋषिः
- निचृदार्षी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही राजधर्म का विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे प्रजास्थ मनुष्यो ! (यः) जो (असौ) वह (ताम्रः) ताम्रवत् दृढाङ्गयुक्त (हेडः) शत्रुओं का अनादर करने हारा (अरुणः) सुन्दर गौराङ्ग (बभ्रुः) किञ्चित् पीला वा धुमेला वर्णयुक्त (उत) और (सुमङ्गलः) सुन्दर कल्याणकारी राजा हो (च) और (ये) जो (सहस्रशः) हजारहों (रुद्राः) दुष्ट कर्म करनेवालों को रुलानेहारे (अभितः) चारों ओर (दिक्षु) पूर्वादि दिशाओं में (एनम्) इस राजा के (श्रिताः) आश्रय से वसते हों (एषाम्) इन वीरों का आश्रय लेके हम लोग (अवेमहे) विरुद्धाचरण की इच्छा नहीं करते हैं ॥६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जो राजा अग्नि के समान दुष्टों को भस्म करता, चन्द्र के तुल्य श्रेष्ठों को सुख देता, न्यायकारी, शुभलक्षणयुक्त और जो इस के तुल्य भृत्य राज्य में सर्वत्र वसें, विचरें वा समीप में रहें, उन का सत्कार करके उन से दुष्टों का अपमान तुम लोग कराया करो ॥६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स एव राजधर्मः प्रोच्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! योऽसौ ताम्रो हेडोऽरुणो बभ्रुरुत सुमङ्गलो भवेत्। ये च सहस्रशो रुद्रा अभितो दिक्ष्वेनं श्रिताः स्युरेषामाश्रयेण वयमवेमहे ॥६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यो राजाऽग्निवद् दुष्टदाहकश्चन्द्रवच्छ्रेष्ठाह्लादको न्यायकारी शुभलक्षणो येऽस्येदृशा भृत्या राज्ये सर्वत्र वसन्तु विचरन्तु वा समीपे वर्त्तन्तां तेषां सत्कारेण तैर्दुष्टानां तिरस्कारं यूयं कारयत ॥६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! जो राजा अग्नीप्रमाणे दुष्टांचे भस्म करतो, चंद्राप्रमाणे श्रेष्ठांना सुख देतो, न्यायी व शुभ लक्षणांनी युक्त असतो व त्याच्याप्रमाणे त्याचे सेवकही राज्यात सर्वत्र संचार करत असतील, जवळ राहात असतील तर त्यांचा सत्कार करावा व त्यांच्याकडून दुष्टांचा अपमान व्हावा अशी उपाययोजना करावी.
०७ असौ योऽवसर्पति
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒सौ योऽव॒सर्प॑ति॒ नील॑ग्रीवो॒ विलो॑हितः। उ॒तैनं॑ गो॒पाऽअ॑दृश्र॒न्नदृ॑श्रन्नुदहा॒र्य्यः᳙ स दृ॒ष्टो मृ॑डयाति नः ॥७ ॥
मूलम् ...{Loading}...
अ॒सौ योऽव॒सर्प॑ति॒ नील॑ग्रीवो॒ विलो॑हितः। उ॒तैनं॑ गो॒पाऽअ॑दृश्र॒न्नदृ॑श्रन्नुदहा॒र्य्यः᳙ स दृ॒ष्टो मृ॑डयाति नः ॥७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒सौ। यः। अ॒व॒सर्प्प॒तीत्य॑व॒ऽसर्प्प॒ति। नील॑ग्रीव॒ इति॒ नील॑ऽग्रीवः। विलो॑हित॒ इति॒ विऽलो॑हितः। उ॒त। ए॒न॒म्। गो॒पाः। अ॒दृ॒श्र॒न्। अदृ॑श्रन्। उ॒द॒हा॒र्य्य᳙ इत्यु॑दऽहा॒र्य्यः᳙। सः। दृ॒ष्टः। मृ॒ड॒या॒ति॒। नः॒। ७।
महीधरः
म० योऽसावादित्यरूपोऽवसर्पति उदयास्तमयौ कुर्वन्निरन्तरं गच्छति । एनं गोपा उत गोपाला अपि वेदोक्तसंस्कारहीनाः अदृश्रन् पश्यन्ति । उदहार्यः उदकं हरन्ति ता उदहार्यः ‘मन्थौदन-’ (पा० ६ । ३ । ६०) इत्यादिना उदकस्योदादेशः। जलहारिण्यो योषितोऽप्येनमदृश्रन् पश्यन्ति । आगोपालाङ्गनादिप्रसिद्ध इत्यर्थः । दृशेर्लुङि ‘इरितो वा’ (पा. ३ । १।५७) इति च्लेरङ् रुगागमश्छान्दसः कीदृशः । नीलग्रीवः विषधारणेन नीला ग्रीवा कण्ठो यस्य अस्तमये नीलकण्ठ इव लक्ष्यः । विलोहितः विशेषेण रक्तः । स रुद्रो दृष्टः सन्नोऽस्मान्मृडयाति सुखयतु । असौ मण्डलवर्ती रुद्र एव तपतीति ज्ञातः सुखं करोत्वित्यर्थः ॥७॥
अष्टमी।
अधिमन्त्रम् (VC)
- रुद्रो देवता
- प्रजापतिर्ऋषिः
- विराडार्षी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यः) जो (असौ) वह (नीलग्रीवः) नीलमणियों की माला पहिने (विलोहितः) विविध प्रकार के शुभ गुण, कर्म और स्वभाव से युक्त श्रेष्ठ (रुद्रः) शत्रुओं का हिंसक सेनापति (अवसर्पति) दुष्टों से विरुद्ध चलता है। जिस (एनम्) इसको (गोपाः) रक्षक भृत्य (अदृश्रन्) देखें (उत) और (उदहार्य्यः) जल लानेवाली कहारी स्त्रियाँ (अदृश्रन्) देखें (सः) वह सेनापति (दृष्टः) देखा हुआ (नः) हम सब धार्मिकों को (मृडयाति) सुखी करे ॥७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो दुष्टों का विरोधी श्रेष्ठों का प्रिय दर्शनीय सेनापति सब सेनाओं को प्रसन्न करे, वह शत्रुओं को जीत सके ॥७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - योऽसौ नीलग्रीवो विलोहितो रुद्रः सेनेशोऽवसर्पति यमेनं गोपा अदृश्रन्नुताप्युदहार्य्योऽदृश्रन् स दृष्टः सन् नोऽस्मान् मृडयाति ॥७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यो दुष्टानां विरोधी श्रेष्ठप्रियो दर्शनीयः सेनापतिः सर्वाः सेना रञ्जयेत्, स शत्रून् विजेतुं शक्नुयात् ॥७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जो दुष्टांचा विरोधी श्रेष्ठांना प्रिय असेल अशा दर्शनीय सेनापतीने सर्व सेनेला प्रसन्न करून सर्व शत्रूंना जिंकून घ्यावे.
०८ नमोऽस्तु नीलग्रीवाय
विश्वास-प्रस्तुतिः ...{Loading}...
नमो॑ऽस्तु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मी॒ढुषे॑। अथो॒ येऽअ॑स्य॒ सत्वा॑नो॒ऽहं तेभ्यो॑ऽकरं॒ नमः॑ ॥८ ॥
मूलम् ...{Loading}...
नमो॑ऽस्तु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मी॒ढुषे॑। अथो॒ येऽअ॑स्य॒ सत्वा॑नो॒ऽहं तेभ्यो॑ऽकरं॒ नमः॑ ॥८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नमः॑। अ॒स्तु॒। नील॑ग्रीवा॒येति॒ नील॑ऽग्रीवाय। स॒ह॒स्रा॒क्षायेति॑ सहस्रऽअ॒क्षाय॑। मी॒ढुषे॑। अथो॒ऽइत्यथो॑। ये। अ॒स्य॒। सत्वा॑नः। अ॒हम्। तेभ्यः॑। अ॒क॒र॒म्। नमः॑। ८।
महीधरः
म० नीलग्रीवाय नीलकण्ठाय रुद्राय नमोऽस्तु नमस्कारो भवतु । कीदृशाय । सहस्राक्षाय सहस्रमक्षीणि यस्य इन्द्रस्वरूपिणे । मीढुषे मिमेहेति मीढ्वन् तस्मै ‘मिह सेचने’ ‘दाश्वान्साह्वान्मीढ्वांश्च’ ( पा० ६ । १ । १२) इति क्वसन्तो निपातः । सेक्त्रे वृष्टिकर्त्रे पर्जन्यरूपायेत्यर्थः । तरुणाय वा । अथो अपिच अस्य रुद्रस्य ये सत्वानः प्राणिनो भृत्यास्तेभ्योऽहं नमो नमस्कारमकरं करोमि । ‘कृञ् कृतौ’ शप् लङि उत्तमैकवचनम् ॥ ८ ॥
नवमी।
अधिमन्त्रम् (VC)
- रुद्रो देवता
- प्रजापतिर्ऋषिः
- निचृदार्ष्यनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (नीलग्रीवाय) जिसका कण्ठ और स्वर शुद्ध हो उस (सहस्राक्षाय) हजारहों भृत्यों के कार्य देखनेवाले (मीढुषे) पराक्रमयुक्त सेनापति के लिये मेरा दिया (नमः) अन्न (अस्तु) प्राप्त हो (अथो) इसके अनन्तर (ये) जो (अस्य) इस सेनापति के अधिकार में (सत्वानः) सत्त्व गुण तथा बल से युक्त पुरुष हैं (तेभ्यः) उनके लिये भी (अहम्) मैं (नमः) अन्नादि पदार्थों को (अकरम्) सिद्ध करूँ ॥८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सभापति आदि राजपुरुषों को चाहिये कि अन्नादि पदार्थों से जैसा सत्कार सेनापति का करें, वैसा ही सेना के भृत्यों का भी करें ॥८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - नीलग्रीवाय सहस्राक्षाय मीढुषे सेनापतये मद्दत्तं नमोऽस्तु। अथो येऽस्य सत्वानः सन्ति, तेभ्योऽपि नमोऽहमकरं निष्पादयेयम् ॥८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सभापत्यादिभिरन्नाद्येन यादृशः सत्कारः सेनापतेः क्रियते, तादृगेव सेनास्थानां भृत्यानामपि कर्त्तव्यः ॥८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजा वगैरे राजपुरुषांनी अन्न इत्यादी पदार्थांनी सेनापतीचा सत्कार करावा व त्याप्रमाणे सेनेतील नोकरांचाही सत्कार करावा.
०९ प्रमुञ्च धन्वनस्त्वमुभयोरार्त्न्योर्ज्याम्
विश्वास-प्रस्तुतिः ...{Loading}...
प्रमु॑ञ्च॒ धन्व॑न॒स्त्वमु॒भयो॒रार्त्न्यो॒र्ज्याम्। याश्च॑ ते॒ हस्त॒ऽइष॑वः॒ परा॒ ता भ॑गवो वप ॥९ ॥
मूलम् ...{Loading}...
प्रमु॑ञ्च॒ धन्व॑न॒स्त्वमु॒भयो॒रार्त्न्यो॒र्ज्याम्। याश्च॑ ते॒ हस्त॒ऽइष॑वः॒ परा॒ ता भ॑गवो वप ॥९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्र। मु॒ञ्च॒। धन्व॑नः। त्वम्। उ॒भयोः॑। आर्त्न्योः॑। ज्याम्। याः। च॒। ते॒। हस्ते॑। इष॑वः। परा॑। ताः। भ॒ग॒व॒ इति॑ भगवः। व॒प॒। ९।
महीधरः
म० हे भगवः भगं षड्विधमैश्वर्यमस्यास्तीति भगवान् । ‘मतुवसो रुः संबुद्धौ छन्दसि’ (पा० ८।३।१) इति रुत्वम् । ‘ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा’ इत्युक्तेः । हे भगवन् धन्वनः धनुष उभयोरार्त्न्योः द्वयोः कोट्योः स्थितां ज्यां मौर्वीं त्वं प्रमुञ्च दूरीकुरु । याश्च ते तव हस्ते इषवः बाणाः ता इषूः परावप पराक्षिप ॥ ९ ॥
दशमी।
अधिमन्त्रम् (VC)
- रुद्रो देवता
- प्रजापतिर्ऋषिः
- भुरिगार्ष्युष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (भगवः) ऐश्वर्ययुक्त सेनापते ! (ते) तेरे (हस्ते) हाथ में (याः) जो (इषवः) बाण हैं (ताः) उन को (धन्वनः) धनुष् के (उभयोः) दोनों (आर्त्न्योः) पूर्व पर किनारों की (ज्याम्) प्रत्यञ्चा में जोड़ के शत्रुओं पर (त्वम्) तू (प्र, मुञ्च) बल के साथ छोड़ (च) और जो तेरे पर शत्रुओं ने बाण छोड़े हुए हों उन को (परा, वप) दूर कर ॥९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सेनापति आदि राजपुरुषों को चाहिये कि धनुष् से बाण चलाकर शत्रुओं को जीतें और शत्रुओं के फेंके हुए बाणों का निवारण करें ॥९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तदेवाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे भगवः सेनापते ! ते तव हस्ते या इषवः सन्ति, ता धन्वन उभयोरार्त्न्योर्ज्यामनुसन्धाय शत्रूणामुपरि त्वं प्रमुञ्च याश्च स्वोपरि शत्रुभिः प्रक्षिप्तास्ताः परा वप ॥९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सेनापत्यादिभिर्धनुषा प्रक्षिप्तैर्बाणैः शत्रवो विजेतव्याः शत्रुक्षिप्ताश्च निवारणीयाः ॥९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सेनापती इत्यादी राजपुरुषांनी धनुष्यबाणांनी शत्रूंना जिंकावे व शत्रूंच्या बाणांचा नाश करावा.
१० विज्यं धनुः
विश्वास-प्रस्तुतिः ...{Loading}...
विज्यं॒ धनुः॑ कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑वाँ२ऽउ॒त। अने॑शन्नस्य॒ याऽइष॑वऽआ॒भुर॑स्य निषङ्ग॒धिः ॥१० ॥
मूलम् ...{Loading}...
विज्यं॒ धनुः॑ कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑वाँ२ऽउ॒त। अने॑शन्नस्य॒ याऽइष॑वऽआ॒भुर॑स्य निषङ्ग॒धिः ॥१० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
विज्य॒मिति॒ विऽज्य॑म्। धनुः॑। क॒प॒र्द्दिनः॑। विश॑ल्य॒ इति॒ विऽश॑ल्यः। बाण॑वा॒निति॒ बाण॑ऽवान्। उ॒त। अने॑शन्। अ॒स्य॒। याः। इष॑वः। आ॒भुः। अ॒स्य॒। नि॒ष॒ङ्ग॒धिरिति॑ निषङ्ग॒ऽधिः। १०।
महीधरः
म० कपर्दो जटाजूटोऽस्यास्तीति कपर्दी रुद्रस्तस्य धनुः विज्यं मौवींरहितमस्तु । विगता ज्या यस्य तत् । उतापि बाणवान् बाणा अस्मिन् सन्तीति बाणवान् इषुधिः विशल्यो विफलोऽस्तु । बाणाग्रगतो लोहभागः शल्यम् इषुधिर्निरग्रबाणोऽस्तु । अस्य रुद्रस्य या इषवः ता अनेशन् नश्यन्तु ‘णश अदर्शने’ नशेरत एत्वम् अङि वेत्येत्वम् पुषादित्वात् च्लेरङ् । अस्य रुद्रस्य निषङ्गधिः निषज्यत इति निषङ्गः खड्गः स धीयतेऽस्मिन्निति निषड्गधिः कोशः स आभुः रिक्तः खड्गरहितोऽस्तु । रुद्र अस्मान् प्रति न्यस्तसर्वशस्त्रोऽस्त्वित्यर्थः ॥१०॥
एकादशी।
अधिमन्त्रम् (VC)
- रुद्रो देवता
- प्रजापतिर्ऋषिः
- भुरिगार्ष्युष्णिक्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे धनुर्वेद को जानने हारे पुरुषो ! (अस्य) इस (कपर्द्दिनः) प्रशंसित जटाजूट को धारण करने हारे सेनापति का (धनुः) धनुष् (विज्यम्) प्रत्यञ्चा से रहित न होवे तथा यह (विशल्यः) बाण के अग्रभाग से रहित और (आभुः) आयुधों से खाली मत हो (उत) और (अस्य) इस अस्त्र-शस्त्रों को धारण करनेवाले सेनापति की (निषङ्गधिः) बाणादि शस्त्रास्त्र कोष खाली मत हो तथा यह (बाणवान्) बहुत बाणों से युक्त होवे (याः) जो (अस्य) इस सेनापति के (इषवः) बाण (अनेशन्) नष्ट हो जावें, वे इस को तुम लोग नवीन देओ ॥१० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - युद्ध की इच्छा करनेवाले पुरुषों को चाहिये कि धनुष् की प्रत्यञ्चा आदि को दृढ़ और बहुत से बाणों को धारण करें। सेनापति आदि को चाहिये कि लड़ते हुए अपने भृत्यों को देख के यदि उन के पास बाणादि युद्ध के साधन न रहें तो फिर भी दिया करें ॥१० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तदेवाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे धनुर्वेदविदो जनाः ! अस्य कपर्द्दिनः सेनापतेर्धनुर्विज्यं मा भूदयं विशल्य आभुर्मा भूत्। उतास्य शस्त्रास्त्रधारकस्य निषङ्गधिर्मृषा मा भूत्। बाणवांश्चायं भवतु। या अस्येषवोऽनेशन् ता अस्मै न वा दत्त ॥१० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - युयुत्सुना नरेण धनुर्ज्यादयो दृढा बहुबाणाश्च धार्याः सेनापत्यादिभिर्युध्यमानान् विलोक्य पुनश्च तेभ्यो बाणादीनि साधनानि देयानि ॥१० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - युद्धाची इच्छा असणाऱ्यांनी धनुष्याची प्रत्यञ्चा दृढ करून पुष्कळ बाण बाळगावेत. सेनापतीने सैन्यातील सैनिकांचे बाण वगैरे युद्धाची साधने संपली तर त्यांना ती पुरवावीत.
११ या ते
विश्वास-प्रस्तुतिः ...{Loading}...
या ते॑ हे॒तिर्मी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनुः॑।
तया॒स्मान् वि॒श्वत॒स्त्वम॑य॒क्ष्मया॒ परि॑ भुज ॥११ ॥
मूलम् ...{Loading}...
या ते॑ हे॒तिर्मी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनुः॑। तया॒स्मान् वि॒श्वत॒स्त्वम॑य॒क्ष्मया॒ परि॑ भुज ॥११ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
या। ते॒। हे॒तिः। मी॒ढु॒ष्ट॒म॒। मी॒ढु॒स्त॒मेति॑ मीढुःऽतम। हस्ते॑। ब॒भूव॑। ते॒। धनुः॑। तया॑। अ॒स्मान्। वि॒श्वतः॑। त्वम्। अ॒य॒क्ष्मया॑। परि॑। भु॒ज॒। ११।
महीधरः
म० अतिशयेन मीढ्वान्मीढुष्टमः ‘तसौ मत्वर्थे’ ( पा० १। ४ । १९) इति भसंज्ञायां ‘वसोः संप्रसारणम्’ (पा० ६ । ४। १३१ ) इति संप्रसारणम् । षत्वष्टुत्वे । हे मीढुष्टम सेक्तृतम वर्षुक, ते तव हस्ते या धनुः हेतिः धनूरूपमायुधं बभूव अस्ति । एकं तेपदं पादपूरणाय । तया धनूरूपया हेत्या विश्वतः सर्वतोऽस्मान् परिभुज परिपालय । भुजेर्विकरणव्यत्यये शप्रत्ययः । कीदृश्या तया । अयक्ष्मया नास्ति यक्ष्मा रोगो यस्यास्तया निरुपद्रवया दृढया अनुपद्रवकारिण्या वा ॥ ११॥
द्वादशी।
अधिमन्त्रम् (VC)
- रुद्रो देवता
- प्रजापतिर्ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
सेनापति आदि किन से कैसे उपदेश करने योग्य हैं, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (मीढुष्टम) अत्यन्त वीर्य के सेचक सेनापते ! (या) जो (ते) तेरी सेना है और जो (ते) तेरे (हस्ते) हाथ में (धनुः) धनुष् तथा (हेतिः) वज्र (बभूव) हो (तया) उस (अयक्ष्मया) पराजय आदि की पीड़ा निवृत्त करने हारी सेना से और उस धनुष् आदि से (अस्मान्) हम प्रजा और सेना के पुरुषों की (त्वम्) तू (विश्वतः) सब ओर से (परि) अच्छे प्रकार (भुज) पालना कर ॥११ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्या और अवस्था में वृद्ध उपदेशक विद्वानों को चाहिये कि सेनापति आदि को ऐसा उपदेश करें कि आप लोगों के अधिकार में जितना सेना आदि बल है, उससे सब श्रेष्ठों की सब प्रकार रक्षा किया करें और दुष्टों को ताड़ना दिया करें ॥११ ॥
दयानन्द-सरस्वती (सं) - विषयः
सेनाधीशादयः कैः कथमुपदेश्या इत्युच्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मीढुष्टम सेनापते ! या ते सेनाऽस्ति। यच्च ते हस्ते धनुर्हेतिश्च बभूव। तयाऽयक्ष्मया सेनया तेन चास्मान् प्रजासेनाजनान् त्वं विश्वतः परि भुज ॥११ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - विद्यावयोवृद्धैरुपदेशकैर्विद्वद्भिः सेनापत्यादय एवमुपदेष्टव्या भवन्तो यावद् बलं तावता सर्वे श्रेष्ठा सर्वथा रक्षणीया दुष्टाश्च ताडनीया इति ॥११ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - वयोवृद्ध व विद्यायुक्त उपदेशकांनी सेनापतींना असा उपदेश करावा की तुमच्या सैन्यशक्तीने श्रेष्ठ माणसांचे रक्षण करावे व दुष्टांना मारावे.
१२ परि ते
विश्वास-प्रस्तुतिः ...{Loading}...
परि॑ ते॒ धन्व॑नो हे॒तिर॒स्मान् वृ॑णक्तु वि॒श्वतः॑। अथो॒ यऽइ॑षु॒धिस्तवा॒रेऽअ॒स्मन्निधे॑हि॒ तम् ॥१२ ॥
मूलम् ...{Loading}...
परि॑ ते॒ धन्व॑नो हे॒तिर॒स्मान् वृ॑णक्तु वि॒श्वतः॑। अथो॒ यऽइ॑षु॒धिस्तवा॒रेऽअ॒स्मन्निधे॑हि॒ तम् ॥१२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
परि॑। ते॒। धन्व॑नः। हे॒तिः। अ॒स्मान्। वृ॒ण॒क्तु॒। वि॒श्वतः॑। अथो॒ऽइत्यथो॑। यः। इ॒षु॒धिरिती॑षु॒ऽधिः। तव॑। आ॒रे। अ॒स्मत्। नि। धे॒हि॒। तम्। १२।
महीधरः
म०. हे रुद्र, ते तव धन्वनो हेतिः। धनुःसंबन्धि आयुधं विश्वतः सर्वतोऽस्मान् परिवृणक्तु त्यजतु । मा हन्त्वित्यर्थः । ‘वृजी वर्जने’ रुधादित्वात् श्नम् । अथो अपिच यस्तव इषुधिस्तमस्मत्सकाशात् आरे दूरे निधेहि अस्मत्तो दूरे स्थापय ॥१२॥
त्रयोदशी।
अधिमन्त्रम् (VC)
- रुद्रो देवता
- प्रजापतिर्ऋषिः
- निचृदार्ष्यनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
राजा और प्रजा के पुरुषों को परस्पर क्या करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सेनापति ! जो (ते) आप के (धन्वनः) धनुष् की (हेतिः) गति है, उस से (अस्मान्) हम लोगों को (विश्वतः) सब ओर से (आरे) दूर में आप (परिवृणक्तु) त्यागिये। (अथो) इस के पश्चात् (यः) जो (तव) आप का (इषुधिः) बाण रखने का घर अर्थात् तर्कस है (तम्) उस को (अस्मत्) हमारे समीप से (नि, धेहि) निरन्तर धारण कीजिये ॥१२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राज और प्रजाजनों को चाहिये कि युद्ध और शस्त्रों का अभ्यास कर के शस्त्रादि सामग्री सदा अपने समीप रक्खें। उन सामग्रियों से एक-दूसरे की रक्षा और सुख की उन्नति करें ॥१२ ॥
दयानन्द-सरस्वती (सं) - विषयः
राजप्रजाजनैरितरेतरं किं कार्यमित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सेनापते ! या ते धन्वनो हेतिरस्ति, तयाऽस्मान् विश्वत आरे भवान् परिवृणक्तु। अथो यस्तवेषुधिरस्ति तमस्मच्चारे निधेहि ॥१२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - राजप्रजाजनैर्युद्धशस्त्राभ्यासं कृत्वा शस्त्रादिसामग्र्यः सदा समीपे रक्षणीयाः। ताभिः परस्परस्य रक्षा कार्य्या सुखं चोन्नेयम् ॥१२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजा व प्रजा यांनी युद्ध व शस्त्रे यांचा अभ्यास करावा व शस्त्रे इत्यादी साहित्य नेहमी जवळ बाळगावे. त्या सामानाने परस्परांचे रक्षण करून सुखी व्हावे.
१३ अवतत्य धनुष्ट्व
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒व॒तत्य॒ धनु॒ष्ट्वँ सह॑स्राक्ष॒ शते॑षुधे। नि॒शीर्य॑ श॒ल्यानां॒ मुखा॑ शि॒वो नः॑ सु॒मना॑ भव ॥१३ ॥
मूलम् ...{Loading}...
अ॒व॒तत्य॒ धनु॒ष्ट्वँ सह॑स्राक्ष॒ शते॑षुधे। नि॒शीर्य॑ श॒ल्यानां॒ मुखा॑ शि॒वो नः॑ सु॒मना॑ भव ॥१३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒व॒तत्येत्य॑व॒ऽतत्य॑। धनुः॑। त्वम्। सह॑स्रा॒क्षेति॒ सह॑स्रऽअक्ष। शते॑षुध॒ इति॒ शत॑ऽइषुधे। नि॒शीर्य्येति॑ नि॒ऽशीर्य॑। श॒ल्याना॑म्। मुखा॑। शि॒वः। नः॒। सु॒मना॒ इति॑ सु॒ऽमनाः॑। भ॒व॒। १३।
महीधरः
म० सहस्रमक्षीणि यस्य शतमिषुधयो यस्य हे सहस्राक्ष, हे शतेषुधे, त्वं नोऽस्मान् प्रति शिवः शान्तः सुमनाः शोभनचित्तश्च भव । अनुगृहाणेत्यर्थः । किं कृत्वा । धनुरवतत्य अपज्याकं कृत्वा शल्यानां मुखा मुखानि बाणफलाग्राणि निशीर्य शीर्णानि कृत्वा ‘शॄ हिंसायाम्’ ‘समासेऽनञ्पूर्वे क्त्वो ल्यप्’ ‘ऋत इद्धातोः’ (पा० ७ । १।१००) इति ॥ १३ ॥
चतुर्दशी।
अधिमन्त्रम् (VC)
- रुद्रो देवता
- प्रजापतिर्ऋषिः
- निचृदार्ष्यनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
राजपुरुषों को कैसा होना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सहस्राक्ष) असंख्य युद्ध के कार्यों को देखने हारे (शतेषुधे) शस्त्र-अस्त्रों के असंख्य प्रकाश से युक्त सेना के अध्यक्ष पुरुष ! (त्वम्) तू (धनुः) धनुष् और (शल्यानाम्) शस्त्रों के (मुखा) अग्रभागों का (अवतत्य) विस्तार कर तथा उनसे शत्रुओं को (निशीर्य) अच्छे प्रकार मारके (नः) हमारे लिये (सुमनाः) प्रसन्नचित्त (शिवः) मङ्गलकारी (भव) हूजिये ॥१३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजपुरुष साम, दाम, दण्ड और भेदादि राजनीति के अवयवों के कृत्यों को सब ओर से जान, पूर्ण शस्त्र-अस्त्रों का सञ्चय कर और उनको तीक्ष्ण करके शत्रुओं में कठोरचित्त दुःखदायी और अपनी प्रजाओं में कोमलचित्त सुख देनेवाले निरन्तर हों ॥१३ ॥
दयानन्द-सरस्वती (सं) - विषयः
राजपुरुषैः कथं भवितव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सहस्राक्ष शतेषुधे सेनाध्यक्ष ! त्वं धनुः शल्यानां मुखा चावतत्य तैः शत्रून्निशीर्य नः सुमनाः शिवो भव ॥१३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - राजपुरुषाः सामदामदण्डभेदादिराजनीत्यवयवकृत्यानि सर्वतो विदित्वा पूर्णानि शस्त्रास्त्राणि सम्पाद्य तीक्ष्णीकृत्य च शत्रुषु दुर्मनसः दुःखप्रदाः प्रजासु सोम्याः सुखप्रदाश्च सततं स्युः ॥१३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजपुरुषांनी साम, दाम, दंड, भेद इत्यादी राजनीतीचा प्रकार जाणून अस्त्रशस्त्रांचा संचय करावा व त्यांना तीक्ष्ण करावे. शत्रूंशी कठोरपणाने वागून त्यांना दुःखी करावे व आपल्या प्रजेशी कोमल चित्ताने वागून त्यांना सुखी करावे.
१४ नमस्तऽआयुधायानातताय धृष्णवे
विश्वास-प्रस्तुतिः ...{Loading}...
नम॑स्त॒ऽआयु॑धा॒याना॑तताय धृ॒ष्णवे॑। उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्यां॒ तव॒ धन्व॑ने ॥१४ ॥
मूलम् ...{Loading}...
नम॑स्त॒ऽआयु॑धा॒याना॑तताय धृ॒ष्णवे॑। उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्यां॒ तव॒ धन्व॑ने ॥१४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नमः॑। ते॒। आयु॑धाय। अना॑तताय। धृ॒ष्णवे॑। उ॒भाभ्या॑म्। उ॒त। ते॒। नमः॑। बा॒हुभ्या॒मिति॑ बा॒हुऽभ्या॑म्। तव॑। धन्व॑ने। १४।
महीधरः
म० हे रुद्र, ते तवायुधाय नमोऽस्तु बाणाय नतिरस्तु । कीदृशाय । अनातताय धनुष्यनारोपिताय । धृष्णवे धर्षणशीलाय । धृषेः क्नुप्रत्ययः । रिपून् हन्तुं प्रगल्भाय । उतापि च ते तवोभाभ्यां बाहुभ्यां नमः तव धन्वने धनुषेऽपि नमोऽस्तु । तस्यापि विशेषणम् अनातताय अवतारितमौर्वीकाय ॥ १४ ॥
पञ्चदशी।
अधिमन्त्रम् (VC)
- रुद्रो देवता
- प्रजापतिर्ऋषिः
- स्वराडार्ष्यनुष्टुप्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सभापति ! (आयुधाय) युद्ध करने (अनातताय) अपने आशय को गुप्त सङ्कोच में रखने और (धृष्णवे) प्रगल्भता को प्राप्त होनेवाले (ते) आपके लिये (नमः) अन्न प्राप्त हो (उत) और (ते) भोजन करने हारे आप के लिये अन्न देता हूँ (तव) आपके (उभाभ्याम्) दोनों (बाहुभ्याम्) बल और पराक्रम से (धन्वने) योद्धा पुरुष के लिये (नमः) अन्न को नियुक्त करूँ ॥१४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सेनापति आदि राज्याधिकारियों को चाहिये कि अध्यक्ष और योद्धा दोनों को शस्त्र देके शत्रुओं से निःशङ्क अच्छे प्रकार युद्ध करावें ॥१४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तदेवाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सभेश ! आयुधायानातताय धृष्णवे ते नमोऽस्तु, उत ते भोक्त्रे तुभ्यं नमः प्रयच्छामि। तवोभाभ्यां बाहुभ्यां धन्वने नमो नियोजयेयम् ॥१४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सेनापत्याद्यधिकारिभिरुभयेभ्योऽध्यक्षयोद्धृभ्यः शस्त्राणि दत्त्वा शत्रुभिः सहैते निःशङ्कं सम्यग् योधनीयाः ॥१४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सेनापती इत्यादी राज्याधिकाऱ्यांनी अध्यक्ष व योद्धा दोघांनाही शस्त्रे देऊन शत्रूंबरोबर निःशंकपणे युद्ध करण्यास उद्युक्त करावे.
१५ मा नो
विश्वास-प्रस्तुतिः ...{Loading}...
मा नो॑ म॒हान्त॑मु॒त मा नो॑ऽअर्भ॒कं मा न॒ऽउक्ष॑न्तमु॒त मा न॑ऽउक्षि॒तम्। मा नो॑ वधीः पि॒तरं॒ मोत मा॒तरं॒ मा नः॑ प्रि॒यास्त॒न्वो᳖ रुद्र रीरिषः ॥१५ ॥
मूलम् ...{Loading}...
मा नो॑ म॒हान्त॑मु॒त मा नो॑ऽअर्भ॒कं मा न॒ऽउक्ष॑न्तमु॒त मा न॑ऽउक्षि॒तम्। मा नो॑ वधीः पि॒तरं॒ मोत मा॒तरं॒ मा नः॑ प्रि॒यास्त॒न्वो᳖ रुद्र रीरिषः ॥१५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मा। नः॒। म॒हान्त॑म्। उ॒त। मा। नः॒। अ॒र्भ॒कम्। मा। नः॒। उक्ष॑न्तम्। उ॒त। मा। नः॒। उ॒क्षि॒तम्। मा। नः॒। व॒धीः॒। पि॒तर॑म्। मा। उ॒त। मा॒तर॑म्। मा। नः॒। प्रि॒याः। त॒न्वः᳖। रु॒द्र॒। री॒रि॒ष॒ इति॑ रीरिषः। १५।
महीधरः
म० हे रुद्र, नोऽस्माकं महान्तं वृद्धं गुरुपितृव्यादिकं मा वधीः मा हिंसीः । उतापि नोऽस्माकमर्भकं बालं मा वधीः । नोऽस्माकमुक्षन्तं सिञ्चन्तं तरुणं मा वधीः । उतापि नोऽस्माकमुक्षितं सिक्तं गर्भस्थं च मा वधीः । नः पितरं जनकं मा वधीः । उतापि नो मातरं जननीं मा वधीः । महान्तमित्यनेन सिद्धयोर्मातापित्रोः पुनरादानमादरार्थम् । नोऽस्माकं प्रिया वल्लभाः तन्वः तनूः शरीराणि पुत्रपौत्ररूपाणि मा रीरिषः मा हिंसीः । रिषतिर्हिंसाकर्मा ॥ १५ ॥
षोडशी।
अधिमन्त्रम् (VC)
- रुद्रो देवता
- कुत्स ऋषिः
- निचृदार्षी जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
राजपुरुषों को क्या नहीं करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (रुद्र) युद्ध की सेना के अधिकारी विद्वन् पुरुष ! आप (नः) हमारे (महान्तम्) उत्तम गुणों से युक्त पूज्य को (मा) मत (उत) और (अर्भकम्) छोटे क्षुद्र पुरुष को (मा) मत (नः) हमारे (उक्षन्तम्) गर्भाधान करने हारे को (मा) मत (उत) और (नः) हमारे (उक्षितम्) गर्भ को (मा) मत (नः) हमारे (पितरम्) पालन करने हारे पिता को (मा) मत (उत) और (नः) हमारी (मातरम्) मान्य करने हारी माता को भी (मा) मत (वधीः) मारिये और (नः) हमारे (प्रियाः) स्त्री आदि के पियारे (तन्वः) शरीरों को (मा) मत (रीरिषः) मारिये ॥१५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - योद्धा लोगों को चाहिये कि युद्ध के समय वृद्धों, बालकों, युद्ध से हटनेवाले ज्वानों, गर्भों, योद्धाओं के माता पितरों, सब स्त्रियों, युद्ध के देखने वा प्रबन्ध करनेवालों और दूतों को न मारें, किन्तु शत्रुओं के सम्बन्धी मनुष्यों को सदा वश में रक्खें ॥१५ ॥
दयानन्द-सरस्वती (सं) - विषयः
राजजनैः किं न कार्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे रुद्र ! त्वं नो महान्तं मा वधीरुत नोऽर्भकं मा वधीर्न उक्षन्तं मा वधीरुत न उक्षितं मा वधीः। नः पितरं मा वधीरुत नो मातरं च मा वधीः। नः प्रियास्तन्वो मा रीरिषः ॥१५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - योद्धृभिर्युद्धसमये कदाचिद् वृद्धा बालका अयोद्धारो युवानो गर्भा योद्धॄणां मातरः पितरश्च सर्वेषां स्त्रियः संप्रेक्षितारो दूताश्च नो हिंसनीयाः, किन्तु सदा शत्रुसम्बन्धिनो वशे स्थापनीयाः ॥१५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - योद्ध्यांनी युद्धाच्या वेळी सर्व वृद्ध, बालके, युद्धातून माघार घेणारे सैनिक, जवान, गर्भवती, योद्ध्यांचे माता-पिता, सर्वांच्या स्त्रिया, युद्ध पाहणारे व त्याची व्यवस्था करणारे यांना व दूतांनाही मारू नये. शत्रूंकडील माणसांना मात्र सदैव आपल्या ताब्यात ठेवावे.
१६ मा नस्तोके
विश्वास-प्रस्तुतिः ...{Loading}...
मा न॑स् तो॒के तन॑ये॒ मा न॒ ऽआयु॑षि॒
मा नो॒ गोषु॒ मा नो॒ ऽअश्वे॑षु रीरिषः।
मा नो॑ वी॒रान् रु॑द्र भा॒मितो॑ वधीर्
ह॒विष्म॑न्तः॒ सद॒मित् त्वा॑ हवामहे ॥१६ ॥
मूलम् ...{Loading}...
मा न॑स्तो॒के तन॑ये॒ मा न॒ऽआयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ऽअश्वे॑षु रीरिषः। मा नो॑ वी॒रान् रु॑द्र भा॒मिनो॑ वधीर्ह॒विष्म॑न्तः॒ सद॒मित् त्वा॑ हवामहे ॥१६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मा। नः॒। तो॒के। तन॑ये। मा। नः॒। आयु॑षि। मा। नः॒। गोषु॑। मा। नः॒। अश्वे॑षु। री॒रिष॒ इति॑ रीरिषः। मा। नः॒। वी॒रान्। रु॒द्र॒। भा॒मिनः॑। व॒धीः॒। ह॒विष्म॑न्तः। सद॑म्। इत्। त्वा॒। ह॒वा॒म॒हे॒। १६।
महीधरः
म० हे रुद्र, नोऽस्माकं तोके पुत्रे तनये पौत्रे मा रीरिषः मा हिंसीः । नः आयुषि जीवने मा हिंसीः । नो गोषु धेनुषु मा रीरिषः । नोऽश्वेषु तुरगेषु । मा रीरिषः । विभक्तिव्यत्ययो वा । तोकं तनयमायुर्गा अश्वान्मा हिंसीः । ‘भाम क्रोधे । भामिनः क्रोधयुतानपि नोऽस्माकं वीरान् भृत्यान्मा वधीः । क उपकार इति चेत् । हविष्मन्तः हविर्युक्ताः सदमित् सदैव त्वां वयं हवामहे यागायाह्वयामः । त्वदेकशरणा वयमिति भावः ॥ १६ ॥
सप्तदशी।
अधिमन्त्रम् (VC)
- रुद्रो देवता
- कुत्स ऋषिः
- निचृदार्षी जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (रुद्र) सेनापति ! तू (नः) हमारे (तोके) तत्काल उत्पन्न हुए सन्तान को (मा) मत (नः) हमारे (तनये) पाँच वर्ष से ऊपर अवस्था के बालक को (मा) मत (नः) हमारी (आयुषि) अवस्था को (मा) मत (नः) हमारे (गोषु) गौ, भेड़, बकरी आदि को (मा) मत (नः) हमारे और (अश्वेषु) घोड़े, हाथी और ऊँट आदि को (मा) मत (रीरिषः) मार और (नः) हमारे (भामिनः) क्रोध को प्राप्त हुए (वीरान्) शूरवीरों को (मा) मत (वधीः) मार। इस से (हविष्मन्तः) बहुत से देने-लेने योग्य वस्तुओं से युक्त हम लोग (सदम्) न्याय में स्थिर (त्वा) तुझ को (इत्) ही (हवामहे) स्वीकार करते हैं ॥१६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजपुरुषों को चाहिये कि अपने वा प्रजा के बालकों, कुमार और गौ, घोड़े आदि; वीर, उपकारी जीवों की कभी हत्या न करें और बाल्यावस्था में विवाह कर व्यभिचार से अवस्था की हानि भी न करें। गौ आदि पशु दूध आदि पदार्थों को देने से सब का उपकार करते हैं, उससे उन की सदैव वृद्धि करें ॥१६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तदेवाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे रुद्र सेनेश ! त्वं नस्तोके मा रीरिषो नस्तनये मा रीरिषो न आयुषि मा रीरिषो नो गोषु मा रीरिषो नोऽश्वेषु मा रीरिषः नो भामिनो वीरान् मा वधीरतो हविष्मन्तो वयं सदं त्वेद्धवामहे ॥१६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - राजपुरुषैः कस्यापि प्रजास्थस्य वा बालकुमारगवाश्वादिवीरहत्या नैव कार्या, न बाल्यावस्थायां विवाहेन व्यभिचारेण चायुर्हिंसनीयम्। गवादिपशूनां दुग्धादिप्रदानेन सर्वोपकारकत्वात् सदैवैतेषां वृद्धिः कार्या ॥१६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजपुरुषांनी स्वतःच्या किंवा प्रजेच्या बालकांची हत्या करू नये. कुमार, गाई, घोडे वगैरे तसेच वीर पुरुष, उपकार करणारे यांचीही हत्या करू नये. बाल्यावस्थेत विवाह करून व व्यभिचाराने आयुष्याचे नुकसान करू नये. गाई वगैरे पशू, दूध इत्यादी पदार्थ देऊन सर्वांवर उपकार करतात. त्यामुळे त्यांची सदैव वृद्धी करावी.
१७ नमो हिरण्यबाहवे
विश्वास-प्रस्तुतिः ...{Loading}...
नमो॒ हिर॑ण्यबाहवे सेना॒न्ये᳖ दि॒शां च॒ पत॑ये॒ नमो॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यः पशू॒नां पत॑ये॒ नमो॒ नमः॑ श॒ष्पिञ्ज॑राय॒ त्विषी॑मते पथी॒नां पत॑ये॒ नमो॒ नमो॒ हरि॑केशायोपवी॒तिने॑ पु॒ष्टानां॒ पत॑ये॒ नमः॑ ॥१७ ॥
मूलम् ...{Loading}...
नमो॒ हिर॑ण्यबाहवे सेना॒न्ये᳖ दि॒शां च॒ पत॑ये॒ नमो॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यः पशू॒नां पत॑ये॒ नमो॒ नमः॑ श॒ष्पिञ्ज॑राय॒ त्विषी॑मते पथी॒नां पत॑ये॒ नमो॒ नमो॒ हरि॑केशायोपवी॒तिने॑ पु॒ष्टानां॒ पत॑ये॒ नमः॑ ॥१७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नमः॑। हिर॑ण्यबाहव॒ इति॒ हिर॑ण्यऽबाहवे। से॒ना॒न्य᳖ इति॑ सेना॒ऽन्ये᳖। दि॒शाम्। च॒। पत॑ये। नमः॑। नमः॑। वृ॒क्षेभ्यः॑। हरि॑केशेभ्य॒ इति॒ हरि॑ऽकेशेभ्यः। प॒शू॒नाम्। पत॑ये। नमः॑। नमः॑। श॒ष्पिञ्ज॑राय। त्विषी॑मते। त्विषी॑मत॒ इति॒ त्विषी॑ऽमते। प॒थी॒नाम्। पत॑ये। नमः॑। नमः॑। हरि॑केशा॒येति॒ हरि॑ऽकेशाय। उ॒प॒वी॒तिन॒ इत्युप॑ऽवी॒तिने॑। पु॒ष्टाना॑म्। पत॑ये। नमः॑। १७।
महीधरः
म० ‘नमो हिरण्यबाहव इत्युत्तरं द्रापे इति’ (क० ४७) ऋक्पर्यन्तं सर्वाणि यजूंषि । तत्र नमो हिरण्यबाहव इत्यादीनां धनुष्कृद्भ्यश्च वो नम इत्यन्तानां (क० ४६ ) चत्वारिंशदधिकद्विशतसंख्याकानां यजुषां तावन्तो रुद्रा देवताः नमो वः किरिकेभ्य इत्यादिचतुर्णां (क० ४६) अग्निवायुसूर्या देवताः रुद्राणां प्रधानभूताः । छन्दांसि तु चतुरक्षरं दैवी बृहती पञ्चाक्षरं दैवी पङ्क्तिः षडक्षरं यजुर्गायत्री सप्ताक्षरं यजुरुष्णिक् अष्टाक्षरं यजुरनुष्टुप् नवाक्षरं यजुर्बृहती दशाक्षरं यजुःपङ्क्तिः एकादशाक्षरं यजुस्त्रिष्टुप् द्वादशाक्षरं यजुर्जगती चतुर्दशाक्षरं सामोष्णिगेकमेव किरिकेभ्य इति । एतान्येवात्र छन्दांसि । तद्रुद्रमध्ये केचनोभयतोनमस्काराः । पदद्वयात्पूर्वमेव पदोच्चारणात्पश्चाच्च नमःपदं येषां ते उभयतोनमस्काराः हिरण्यबाहवे इत्यादि श्वपतिभ्यश्च वो नम इत्यन्ताः । (क० २८) ततोऽन्यतरतोनमस्काराः अन्यतरत आदावेव यजुर्द्वयस्य नमस्कारो येषां ते नमो भवायेत्यादि (क. २८) प्रखिदते चेत्यन्ताः (क. ४६) । इषुमद्भ्य इत्यादि (क० २२) श्वपतिभ्यश्च इत्यन्ताः (क० २८) प्रत्यक्षाः व इति युष्मच्छब्दयोगात् । इषुकृद्भ्य इति । (क. ४६) उभयतोनमस्काराः सभाभ्य इति (क० २४ ) जातसंज्ञा रुद्राः । उभयतोनमस्काराः शान्ततमाः अन्यतरतोनमस्कारा घोरतराः । तेषां मन्त्राणामर्थ उच्यते । एकैकस्यां कण्डिकायामष्टावष्टौ रुद्राः । हिरण्यमाभरणरूपं बाह्वोर्यस्य स हिरण्यबाहुः । स च सेनां नयतीति सेनानीः तस्मै रुद्राय नमः । दिशां पतये पालकाय रुद्राय नमः । हरयो हरितवर्णाः केशाः पर्णरूपा येषां ते हरिकेशास्तेभ्यो वृक्षेभ्यो वृक्षरूपरुद्रेभ्यो नमः । पशूनां जीवानां पतये पालकाय रुद्राय नमः । शष्पिञ्जराय शष्पं बालतृणं तद्वत्पिञ्जराय पीतरक्तवर्णाय टिलोपश्छान्दसः। विषिर्दीप्तिरस्यास्तीति त्विषिमान् । संहितायां त्विषिशब्दस्य दीर्घः । ईदृशाय रुद्राय नमः । पथीनां मार्गाणां पालकाय नमः । पथिशब्दो मार्गवाची । उत्तरदक्षिणतृतीयामार्गाः श्रुतावुक्ताः । हरिकेशाय नीलवर्णकेशाय जरारहितायोपवीतिने मङ्गलार्थयज्ञोपवीतधारिणे रुद्राय नमः । पुष्टानां गुणपूर्णानां नराणां पतये स्वामिने नमः ॥ १७ ॥
अष्टादशी।
अधिमन्त्रम् (VC)
- रुद्रो देवता
- कुत्स ऋषिः
- निचृदतिधृतिः
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
राज-प्रजा के पुरुषों को क्या करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे शत्रुताड़क सेनाधीश ! (हिरण्यबाहवे) ज्योति के समान तीव्र तेजयुक्त भुजावाले (सेनान्ये) सेना के शिक्षक तेरे लिये (नमः) वज्र प्राप्त हो (च) और (दिशाम्) सर्व दिशाओं के राज्य भागों के (पतये) रक्षक तेरे लिये (नमः) अन्नादि पदार्थ मिले (हरिकेशेभ्यः) जिन में हरणशील सूर्य की किरण प्राप्त हों ऐसे (वृक्षेभ्यः) आम्रादि वृक्षों को काटने के लिये (नमः) वज्रादि शस्त्रों को ग्रहण कर (पशूनाम्) गौ आदि पशुओं के (पतये) रक्षक तेरे लिये (नमः) सत्कार प्राप्त हो (शष्पिञ्जराय) विषयादि के बन्धनों से पृथक् (त्विषीमते) बहुत न्याय के प्रकाशों से युक्त तेरे लिये (नमः) नमस्कार और अन्न हो (पथीनाम्) मार्ग में चलने हारों के (पतये) रक्षक तेरे लिये (नमः) आदर प्राप्त हो (हरिकेशाय) हरे केशोंवाले (उपवीतिने) सुन्दर यज्ञोपवीत से युक्त तेरे लिये (नमः) अन्नादि पदार्थ प्राप्त हों और (पुष्टानाम्) नीरोगी पुरुषों की (पतये) रक्षा करने हारे के लिये (नमः) नमस्कार प्राप्त हो ॥१७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि श्रेष्ठों के सत्कार, भूख से पीड़ितों को अन्न देने, चक्रवर्ति राज्य की शिक्षा, पशुओं की रक्षा, जाने-आनेवालों को डाकू और चोर आदि से बचाने, यज्ञोपवीत के धारण करने और शरीरादि की पुष्टि के साथ प्रसन्न रहें ॥१७ ॥
दयानन्द-सरस्वती (सं) - विषयः
राजप्रजाजनैः किं कर्त्तव्यमित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे रुद्र सेनाधीश ! हिरण्यबाहवे सेनान्ये तुभ्यं नमोऽस्तु, दिशां च पतये नमोऽस्तु, त्वं हरिकेशेभ्यो वृक्षेभ्यो नमो गृहाण, पशूनां पतये नमोऽस्तु, शष्पिञ्जराय त्विषीमते नमोऽस्तु, पथीनां पतये नमोऽस्तु, हरिकेशायोपवीतिने नमोऽस्तु, पुष्टानां पतये नमो भवतु ॥१७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैः श्रेष्ठानां सत्कारेण बुभुक्षितानामन्नदानेन चक्रवर्तिराज्यशासनेन पशूनां पालनेन गन्तुकानां दस्युचोरादिभ्यो रक्षणेन यज्ञोपवीतधारणेन पुष्ट्या च सहानन्दितव्यम् ॥१७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी श्रेष्ठांचा सत्कार करावा व भुकेने व्याकूळ झालेल्यांना अन्न द्यावे. चक्रवर्ती राज्याचे व पशूंचे रक्षण करावे. चोर व डाकू यांच्यापासून वाटसरूंना अभय द्यावे. यज्ञोपवीत धारण करून शरीराची पुष्टी करावी व प्रसन्न राहावे.
१८ नमो बभ्लुशाय
विश्वास-प्रस्तुतिः ...{Loading}...
नमो॑ बभ्लु॒शाय॑ व्या॒धिनेऽन्ना॑नां॒ पत॑ये॒ नमो॒ नमो॑ भ॒वस्य॑ हे॒त्यै जग॑तां॒ पत॑ये॒ नमो॒ नमो॑ रु॒द्राया॑तता॒यिने॒ क्षेत्रा॑णां॒ पत॑ये॒ नमो॒ नमः॑ सू॒तायाह॑न्त्यै॒ वना॑नां॒ पत॑ये॒ नमः॑ ॥१८ ॥
मूलम् ...{Loading}...
नमो॑ बभ्लु॒शाय॑ व्या॒धिनेऽन्ना॑नां॒ पत॑ये॒ नमो॒ नमो॑ भ॒वस्य॑ हे॒त्यै जग॑तां॒ पत॑ये॒ नमो॒ नमो॑ रु॒द्राया॑तता॒यिने॒ क्षेत्रा॑णां॒ पत॑ये॒ नमो॒ नमः॑ सू॒तायाह॑न्त्यै॒ वना॑नां॒ पत॑ये॒ नमः॑ ॥१८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नमः॑। ब॒भ्लु॒शाय॑। व्या॒धिने॑। अन्ना॑नाम्। पत॑ये। नमः॑। नमः॑। भ॒वस्य॑। हे॒त्यै। जग॑ताम्। पत॑ये। नमः॑। नमः॑। रु॒द्राय॑। आ॒त॒ता॒यिन॒ इत्या॑ततऽआ॒यिने॑। क्षेत्रा॑णाम्। पत॑ये। नमः॑। नमः॑। सू॒ताय॑। अह॑न्त्यै। वना॑नाम्। पत॑ये। नमः॑। १८।
महीधरः
म० बभ्लुशः कपिलवर्णः । यद्वा बिभर्ति रुद्रमिति बभ्लुर्वृषभस्तस्मिन् शेते स बभ्लुशः । विध्यति शत्रूनिति व्याधी तस्मै रुद्राय नमः । अन्नानां पालकाय नमः । भवस्य संसारस्य हेत्यै आयुधाय संसारनिवर्तकाय रुद्राय नमः । जगतां पालकाय रुद्राय नमः । आततेन विस्तृतेन धनुषा सह एति गच्छतीति आततायी उद्यतायुधस्तस्मै रुद्राय नमः । क्षेत्राणां देहानां पालकाय नमः । न हन्तीत्यहन्तिस्तस्मै अहन्त्रे सूताय सारथये तद्रूपाय रुद्राय नमः । सारथिर्न हन्ति वनानां पालकाय नमः ॥ १८ ॥
एकोनविंशी।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- कुत्स ऋषिः
- निचृदष्टिः
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - राजपुरुष आदि मनुष्यों को चाहिये कि (बभ्लुशाय) राज्यधारक पुरुषों में सोते हुए (व्याधिने) रोगी के लिये (नमः) अन्न देवें (अन्नानाम्) गेहूँ आदि अन्न के (पतये) रक्षक का (नमः) सत्कार करें (भवस्य) संसार की (हेत्यै) वृद्धि के लिये (नमः) अन्न देवें (जगताम्) मनुष्यादि प्राणियों के (पतये) स्वामी का (नमः) सत्कार करें (रुद्राय) शत्रुओं को रुलाने और (आततायिने) अच्छे प्रकार विस्तृत शत्रुसेना को प्राप्त होनेवाले को (नमः) अन्न देवें (क्षेत्राणाम्) धान्यादियुक्त खेतों के (पतये) रक्षक को (नमः) अन्न देवें (सूताय) क्षत्रिय से ब्राह्मण की कन्या में उत्पन्न हुए प्रेरक वीर पुरुष और (अहन्त्यै) किसी को न मारने हारी राजपत्नी के लिये (नमः) अन्न देवें और (वनानाम्) जङ्गलों की (पतये) रक्षा करने हारे पुरुष को (नमः) अन्नादि पदार्थ देवें ॥१८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो अन्नादि से सब प्राणियों का सत्कार करते हैं, वे जगत में प्रशंसित होते हैं ॥१८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तादृशमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - राजपुरुषादिमनुष्यैर्बभ्लुशाय व्याधिने नमोऽन्नानां पतये नमो भवस्य हेत्यै नमो जगतां पतये नमो रुद्रायाततायिने नमः क्षेत्राणां पतये नमः सूतायाहन्त्यै नमो वनानां पतये नमो देयं कार्यं च ॥१८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - येऽन्नादिना सर्वान् प्राणिनः सत्कुर्वन्ति, ते जगति प्रशंसिता भवन्ति ॥१८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे लोक अन्न इत्यादींनी सर्व प्राण्यांचा सत्कार करतात त्यांची जगात प्रशंसा होते.
१९ नमो रोहिताय
विश्वास-प्रस्तुतिः ...{Loading}...
नमो॒ रोहि॑ताय स्थ॒पत॑ये वृ॒क्षाणां॒ पत॑ये॒ नमो॒ नमो॑ भुव॒न्तये॑ वारिवस्कृ॒तायौष॑धीनां॒ पत॑ये॒ नमो॒ नमो॑ म॒न्त्रिणे॑ वाणि॒जाय॒ कक्षा॑णां॒ पत॑ये॒ नमो॒ नम॑ऽउ॒च्चैर्घो॑षायाक्र॒न्दय॑ते पत्ती॒नां पत॑ये॒ नमः॑ ॥१९ ॥
मूलम् ...{Loading}...
नमो॒ रोहि॑ताय स्थ॒पत॑ये वृ॒क्षाणां॒ पत॑ये॒ नमो॒ नमो॑ भुव॒न्तये॑ वारिवस्कृ॒तायौष॑धीनां॒ पत॑ये॒ नमो॒ नमो॑ म॒न्त्रिणे॑ वाणि॒जाय॒ कक्षा॑णां॒ पत॑ये॒ नमो॒ नम॑ऽउ॒च्चैर्घो॑षायाक्र॒न्दय॑ते पत्ती॒नां पत॑ये॒ नमः॑ ॥१९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नमः॑। रोहि॑ताय। स्थ॒पत॑ये। वृ॒क्षाणा॑म्। पत॑ये। नमः॑। नमः॑। भु॒व॒न्तये॑। वा॒रि॒व॒स्कृ॒ताय॑। वा॒रि॒वः॒कृ॒तायेति॑ वारिवःऽकृ॒ताय॑। ओष॑धीनाम्। पत॑ये। नमः॑। नमः॑। म॒न्त्रिणे॑। वा॒णि॒जाय॑। कक्षा॑णाम्। पत॑ये। नमः॑। नमः॑। उ॒च्चैर्घो॑षा॒येत्यु॒च्चैःऽघो॑षाय। आ॒क्र॒न्दय॑त॒ इत्या॑ऽक्र॒न्दय॑ते। प॒त्ती॒नाम्। पत॑ये। नमः॑। १९।
महीधरः
म० रोहितो लोहितवर्णः स्थपतिर्गृहादिकर्ता विश्वकर्मरूपेण तस्मै नमः । वृक्षाणां पालकाय नमः । भुवं तनोतीति भुवन्तिर्भूमण्डलविस्तारकः । वरिवो धनं करोतीति वरिवस्कृत् स एव वारिवस्कृतः स्वार्थेऽण् । स्थानभोग्यकराय नमः । ओषधीनां ग्राम्यारण्यानां पालकाय नमः । आलोचनकुशलो मन्त्री । वणिगेव वाणिजः व्यापारकर्ता तद्रूपाय नमः । वनगता गुल्मवीरुधादयः कक्षास्तेषां पालकाय नमः । उच्चैर्घोषो ध्वनिर्यस्य स उच्चैर्घोषः । आक्रन्दयति रोदयतीत्याक्रन्दयन् युद्धे महाशब्दाय रिपुरोदकाय नमः । पत्तीनां सेनाविशेषाणां पदातीनां वा पालकाय नमः । ‘एको रथो गजश्चाश्वास्त्रयः पञ्च पदातयः । एष सेनाविशेषोऽयं पत्तिरित्यभिधीयते’ इति व्यासोक्तेः (भार० १ । २८९) ॥ १९ ॥
विंशी।
अधिमन्त्रम् (VC)
- रुद्रो देवता
- कुत्स ऋषिः
- विराडतिधृतिः
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - राजा और प्रजा के पुरुषों को चाहिये कि (रोहिताय) सुखों की वृद्धि के कर्त्ता और (स्थपतये) स्थानों के स्वामी रक्षक सेनापति के लिये (नमः) अन्न (वृक्षाणाम्) आम्रादि वृक्षों के (पतये) अधिष्ठाता को (नमः) अन्न (भुवन्तये) आचारवान् (वारिवस्कृताय) सेवन करने हारे भृत्य को (नमः) अन्न और (ओषधीनाम्) सोमलतादि ओषधियों के (पतये) रक्षक वैद्य को (नमः) अन्न देवें (मन्त्रिणे) विचार करने हारे राजमन्त्री और (वाणिजाय) वैश्यों के व्यवहार में कुशल पुरुष का (नमः) सत्कार करें (कक्षाणाम्) घरों में रहनेवालों के (पतये) रक्षक को (नमः) अन्न और (उच्चैर्घोषाय) ऊँचे स्वर से बोलने तथा (आक्रन्दयते) दुष्टों को रुलानेवाले न्यायाधीश का (नमः) सत्कार और (पत्तीनाम्) सेना के अवयवों की (पतये) रक्षा करने हारे पुरुष का (नमः) सत्कार करें ॥१९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि वन आदि के रक्षक मनुष्यों को अन्नादि पदार्थ देके वृक्षों और ओषधि आदि पदार्थों की उन्नति करें ॥१९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - राजप्रजाजनै रोहिताय स्थपतये नमो वृक्षाणां पतये नमो भुवन्तये वारिवस्कृताय नम ओषधीनां पतये नमो मन्त्रिणे वाणिजाय नमः कक्षाणां पतये नम उच्चैर्घोषायाक्रन्दयते नमः पत्तीनां पतये नमश्च देयं कार्यं च ॥१९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्वनादिपालकेभ्योऽन्नादिकं दत्त्वा वृक्षौषध्याद्युन्नतिर्विधेया ॥१९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी वनरक्षकांना अन्न वगैरे पदार्थ देऊन वृक्ष व औषध इत्यादी पदार्थ प्राप्त करावेत व त्यांची वृद्धी करावी.
२० नमः कृत्स्नायतया
विश्वास-प्रस्तुतिः ...{Loading}...
नमः॑ कृत्स्नाय॒तया॒ धाव॑ते॒ सत्व॑नां॒ पत॑ये॒ नमो॒ नमः॒ सह॑मानाय निव्या॒धिन॑ऽआव्या॒धिनी॑नां॒ पत॑ये॒ नमो॒ नमो॑ निष॒ङ्गिणे॑ ककु॒भाय॑ स्ते॒नानां॒ पत॑ये॒ नमो॒ नमो॑ निचे॒रवे॑ परिच॒रायार॑ण्यानां॒ पत॑ये॒ नमः॑ ॥२० ॥
मूलम् ...{Loading}...
नमः॑ कृत्स्नाय॒तया॒ धाव॑ते॒ सत्व॑नां॒ पत॑ये॒ नमो॒ नमः॒ सह॑मानाय निव्या॒धिन॑ऽआव्या॒धिनी॑नां॒ पत॑ये॒ नमो॒ नमो॑ निष॒ङ्गिणे॑ ककु॒भाय॑ स्ते॒नानां॒ पत॑ये॒ नमो॒ नमो॑ निचे॒रवे॑ परिच॒रायार॑ण्यानां॒ पत॑ये॒ नमः॑ ॥२० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नमः॑। कृ॒त्स्ना॒य॒तयेति॑ कृत्स्नऽआय॒तया॑। धाव॑ते। सत्व॑नाम्। पत॑ये। नमः॑। नमः॑। सह॑मानाय। नि॒व्या॒धिन॒ इति॑ निऽव्या॒धिने॑। आ॒व्या॒धिनी॑ना॒मित्याऽव्या॒धिनी॑नाम्। पत॑ये। नमः॑। नमः॑। नि॒ष॒ङ्गिणे॑। क॒कु॒भाय॑। स्ते॒नाना॑म्। पत॑ये। नमः॑। नमः॑। नि॒चे॒रव॒ इति॑ निऽचे॒रवे॑। प॒रि॒च॒रायेति॑ परिऽच॒राय॑। अर॑ण्यानाम्। पत॑ये। नमः॑। २०।
महीधरः
म० कृत्स्नं समग्रमायतं विस्तृतम् अर्थाद्धनुः यस्य स कृत्स्नायतस्तस्य भावः कृत्स्नायतता तया आकर्णपूर्णधनुष्ट्वेन धावते युद्धे शीघ्रं गच्छते रुद्राय नमः । शीघ्रगतौ सरतेर्धावादेशः तलोपश्छान्दसः । यद्वा कृत्स्नः । सर्व आयो लाभो यस्य स कृत्स्नायस्तस्य भावः कृत्स्नायतता तया धावते सर्वलाभप्रापकत्वेन धावते । यत्र गच्छति तत्र सर्वेष्टं लाभं प्राप्नोतीत्यर्थः । सत्वन्शब्दः प्राणिवाची । सत्वानः सात्विकाः शरणागताः प्राणिनस्तेषां पालकाय नमः । सहतेऽरीनभिभवतीति सहमानः । नितरां विध्यति हन्ति शत्रूनिति निव्याधी तस्मै नमः । आ समन्ताद्विध्यन्तीत्याव्याधिन्यः शूरसेनास्तासां पालकाय नमः । निषङ्गः खड्गः सोऽस्यास्तीति निषङ्गी ककुभो महान् तस्मै रुद्राय नमः । ककुभ इति महन्नामसु पठितम् । स्तेना गुप्तचोरास्तेषां पालकाय नमः । अपहारबुद्ध्या निरन्तरं चरतीति निचेरुः । परित आपणवाटिकादौ हरणेच्छया चरतीति परिचरः तस्मै नमः । अरण्यानां वनानां पतये नमः । रुद्रो लीलया चोरादिरूपं धत्ते । यद्वा | रुद्रस्य जगदात्मकत्वाच्चोरादयो रुद्रा एव ध्येयाः । यद्वा स्तेनादिशरीरे जीवेश्वररूपेण रुद्रो द्विधा तिष्ठति तत्र जीवरूपं स्तेनादिशब्दवाच्यं तदीश्वररुद्ररूपं लक्षयति यथा शाखाग्रं चन्द्रस्य लक्षकम् । किं बहुना लक्ष्यार्थविवक्षया मन्त्रेषु लौकिकाः शब्दाः प्रयुक्ताः ॥ २० ॥
एकविंशी।
अधिमन्त्रम् (VC)
- रुद्रो देवता
- कुत्स ऋषिः
- अतिधृतिः
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - मनुष्य लोग (कृत्स्नायतया) सम्पूर्ण प्राप्ति के अर्थ (धावते) इधर-उधर जाने-आनेवाले को (नमः) अन्न देवें (सत्वनाम्) प्राप्त पदार्थों की (पतये) रक्षा करने हारे का (नमः) सत्कार करें (सहमानाय) बलयुक्त और (निव्याधिने) शत्रुओं को निरन्तर ताड़ना देने हारे पुरुष को (नमः) अन्न देवें (आव्याधिनीनाम्) अच्छे प्रकार शत्रुओं की सेनाओं को मारने हारी अपनी सेनाओं के (पतये) रक्षक सेनापति का (नमः) आदर करें (निषङ्गिणे) बहुत से अच्छे बाण, तलवार, भुशुण्डी, शतघ्नी अर्थात् बन्दूक तोप और तोमर आदि शस्त्र जिस के हों उस को (नमः) अन्न देवें (निचेरवे) निरन्तर पुरुषार्थ के साथ विचरने तथा (परिचराय) धर्म, विद्या, माता, स्वामी और मित्रादि की सब प्रकार सेवा करनेवाले (ककुभाय) प्रसन्नमूर्ति पुरुष का (नमः) सत्कार करें (स्तेनानाम्) अन्याय से परधन लेने हारे प्राणियों को (पतये) जो दण्ड आदि से शुष्क करता हो उस को (नमः) वज्र से मारें (अरण्यानाम्) वन जङ्गलों के (पतये) रक्षक पुरुष को (नमः) अन्नादि पदार्थ देवें ॥२० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजपुरुषों को चाहिये कि पुरुषार्थियों का उत्साह के लिये सत्कार, प्राणियों के ऊपर दया, अच्छी शिक्षित सेना को रखना, चोर आदि को दण्ड, सेवकों की रक्षा और वनों को नहीं काटना, इन सब को कर राज्य की वृद्धि करें ॥२० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - मनुष्यः कृत्स्नायतया धावते नमः सत्वनां पतये नमः सहमानाय निव्याधिने नम आव्याधिनीनां पतये नमो निषङ्गिणे नमो निचेरवे परिचराय ककुभाय नमः स्तेनानां पतये नमोऽरण्यानां पतये नमो दद्युः कुर्युश्च ॥२० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - राजपुरुषैः पुरुषार्थिनामुत्साहाय सत्कारः प्राणिनामुपरि दया सुशिक्षितसेनारक्षणं चौरादीनां ताडनं सेवकानां पालनं वनानामच्छेदनञ्च कृत्वा राज्यं वर्द्धनीयम् ॥२० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजपुरुषांनी पुरुषार्थी लोकांचा उत्साह वाढावा यासाठी त्यांचा सत्कार करावा. प्राण्यांवर दया करावी. प्रशिक्षित सेना बाळगून चोर इत्यादींना दंड द्यावा. सेवकांचे व वनांचे रक्षण करून राज्य वृद्धिंगत करावे.
२१ नमो वञ्चते
विश्वास-प्रस्तुतिः ...{Loading}...
नमो॒ वञ्च॑ते परि॒वञ्च॑ते स्तायू॒नां पत॑ये॒ नमो॒ नमो॑ निष॒ङ्गिण॑ऽइषुधि॒मते॒ तस्क॑राणां॒ पत॑ये॒ नमो॒ नमः॑ सृका॒यिभ्यो॒ जिघाँ॑सद्भ्यो मुष्ण॒तां पत॑ये॒ नमो॒ नमो॑ऽसि॒मद्भ्यो॒ नक्तं॒ चर॑द्भ्यो विकृ॒न्तानां॒ पत॑ये॒ नमः॑ ॥२१ ॥
मूलम् ...{Loading}...
नमो॒ वञ्च॑ते परि॒वञ्च॑ते स्तायू॒नां पत॑ये॒ नमो॒ नमो॑ निष॒ङ्गिण॑ऽइषुधि॒मते॒ तस्क॑राणां॒ पत॑ये॒ नमो॒ नमः॑ सृका॒यिभ्यो॒ जिघाँ॑सद्भ्यो मुष्ण॒तां पत॑ये॒ नमो॒ नमो॑ऽसि॒मद्भ्यो॒ नक्तं॒ चर॑द्भ्यो विकृ॒न्तानां॒ पत॑ये॒ नमः॑ ॥२१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नमः॑। वञ्च॑ते। प॒रि॒वञ्च॑त॒ इति॑ परि॒ऽवञ्च॑ते। स्ता॒यू॒नाम्। पत॑ये। नमः॑। नमः॑। नि॒ष॒ङ्गिणे॑। इ॒षु॒धि॒मत॒ इती॑षुधि॒ऽमते॑। तस्क॑राणाम्। पत॑ये। नमः॑। नमः॑। सृ॒का॒यिभ्य॒ इति॑ सृका॒यिऽभ्यः॑। जिघाँ॑सद्भ्य॒ इति॒ जिघाँ॑सद्ऽभ्यः। मु॒ष्ण॒ताम्। पत॑ये। नमः॑। नमः॑। अ॒सि॒मद्भ्य॒ इत्य॑सि॒मत्ऽभ्यः॑। नक्त॑म्। चर॑द्भ्य॒ इति॒ चर॑त्ऽभ्यः। वि॒कृ॒न्ताना॒मिति॑ विऽकृ॒न्ताना॑म्। पत॑ये। नमः॑। २१।
महीधरः
म० वञ्चति प्रतारयतीति वञ्चन् परि सर्वतो वञ्चति परिवञ्चन् तस्मै नमः । स्वामिन आप्तो भूत्वा व्यवहारे कुत्रचित्तदीयं धनमपह्नुते तद्वञ्चनम् सर्वव्यवहारे धनापह्नवः परिवञ्चनम् । गुप्तचोरा द्विविधाः । रात्रौ गृहे खातादिना द्रव्यहर्तारः स्वीया एवाहर्निशमज्ञाता हर्तारश्च । पूर्व स्तेनाः उत्तरे स्तायवः तेषां पतये नमः । निषङ्गः खड्गो बाणो वा सोऽस्यास्तीति इषुधिर्बाणाधारोस्यास्तीतीषुधिमान् तदुभयरूपाय नमः। तस्कराः प्रकटचोरास्तेषां पतये नमः । सृक इति वज्रनाम । सृकेन वज्रेण सह यन्ति गच्छन्तीत्येवंशीलाः सृकायिणः अतएव शत्रून् हन्तुमिच्छन्ति जिघांसन्तीति जिघांसन्तः । हन्तेः शत्रन्ताच्छतृप्रत्ययः तेभ्यो रुद्रेभ्यो नमः । क्षेत्रादिषु धान्यापहर्तारो मुष्णन्तस्तेषां पालकाय नमः । असयः खड्गाः सन्ति येषां तेऽसिमन्तः नक्तं रात्रौ चरन्ति ते नक्तंचरन्तः खड्गं धृत्वा रात्रौ वीथिनिर्गतप्राणिघातकास्तेभ्यो रुद्रेभ्यो नमः । विकृन्तन्ति छिन्दन्ति ते विकृन्ताः छित्त्वापहरन्तस्तेषां पतये नमः ॥ २१ ॥
द्वाविंशी।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- कुत्स ऋषिः
- निचृदतिधृतिः
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - राजपुरुष (वञ्चते) छल से दूसरों के पदार्थों को हरनेवाले (परिवञ्चते) सब प्रकार कपट के साथ वर्त्तमान पुरुष को (नमः) वज्र का प्रहार और (स्तायूनाम्) चोरी से जीनेवालों के (पतये) स्वामी को (नमः) वज्र से मारें (निषङ्गिणे) राज्यरक्षा के लिये निरन्तर उद्यत (इषुधिमते) प्रशंसित बाणों को धारण करने हारे को (नमः) अन्न देवें (तस्कराणाम्) चोरी करने हारों को (पतये) उस कर्म में चलाने हारे को (नमः) वज्र और (सृकायिभ्यः) वज्र से सज्जनों को पीडि़त करने को प्राप्त होने और (जिघांसद्भ्यः) मारने की इच्छावालों को (नमः) वज्र से मारें (मुष्णताम्) चोरी करते हुओं को (पतये) दण्डप्रहार से पृथिवी में गिराने हारे का (नमः) सत्कार करें (असिमद्भ्यः) प्रशंसित खड्गों के सहित (नक्तम्) रात्रि में (चरद्भ्यः) घूमनेवाले लुटेरों को (नमः) शस्त्रों से मारें और (विकृन्तानाम्) विविध उपायों से गाँठ काट के पर-पदार्थों को लेने हारे गठिकठों को (पतये) मार के गिराने हारे का (नमः) सत्कार करें ॥२१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजपुरुषों को चाहिये कि कपटव्यवहार से छलने और दिन वा रात में अनर्थ करने हारे को रोक के धर्मात्माओं का निरन्तर पालन किया करें ॥२१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - राजपुरुषा वञ्चते परिवञ्चते नमः स्तायूनां पतये नमो निषङ्गिण इषुधिमते नमस्तस्कराणां पतये नमः सृकायिभ्यो जिघांसद्भ्यो नमो मुष्णतां पतये नमोऽसिमद्भ्यो नक्तं चरद्भ्यो नमो विकृन्तानां पतये नमोऽनुसंदधतु ॥२१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - राजजनैः कपटव्यवहारेण छलयतां दिवा रात्रौ चानर्थकारिणां निग्रहं कृत्वा धार्मिकाणां च पालनं सततं विधेयम् ॥२१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजपुरुषांनी कपटी, दिवसा व रात्री उपद्रव देणाऱ्यांना रोखावे व धर्मात्म्याचे सदैव पालन (पोषण) करावे.
२२ नमऽउष्णीषिणे गिरिचराय
विश्वास-प्रस्तुतिः ...{Loading}...
नम॑ऽउष्णी॒षिणे॑ गिरिच॒राय॑ कुलु॒ञ्चानां॒ पत॑ये॒ नमो॒ नम॑ऽइषु॒मद्भ्यो॑ धन्वा॒यिभ्य॑श्च वो॒ नमो॒ नम॑ऽआतन्वा॒नेभ्यः॑ प्रति॒दधा॑नेभ्यश्च वो॒ नमो॒ नम॑ऽआ॒यच्छ॒द्भ्योऽस्य॑द्भ्यश्च वो॒ नमः॑ ॥२२ ॥
मूलम् ...{Loading}...
नम॑ऽउष्णी॒षिणे॑ गिरिच॒राय॑ कुलु॒ञ्चानां॒ पत॑ये॒ नमो॒ नम॑ऽइषु॒मद्भ्यो॑ धन्वा॒यिभ्य॑श्च वो॒ नमो॒ नम॑ऽआतन्वा॒नेभ्यः॑ प्रति॒दधा॑नेभ्यश्च वो॒ नमो॒ नम॑ऽआ॒यच्छ॒द्भ्योऽस्य॑द्भ्यश्च वो॒ नमः॑ ॥२२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नमः॑। उ॒ष्णी॒षिणे॑। गि॒रि॒च॒रायेति॑ गिरिऽच॒राय॑। कु॒लु॒ञ्चाना॑म्। पत॑ये। नमः॑। नमः॑। इ॒षु॒मद्भ्य॒ इती॑षु॒मत्ऽभ्यः॑। ध॒न्वा॒यिभ्य॒ इति॑ धन्वा॒ऽयिभ्यः॑। च॒। वः॒। नमः॑। नमः॑। आ॒त॒न्वा॒नेभ्य॒ इत्या॑ऽतन्वा॒नेभ्यः॑। प्र॒ति॒दधा॑नेभ्य॒ इति॑ प्रति॒ऽदधा॑नेभ्यः। च॒। वः॒। नमः॑। नमः॑। आ॒यच्छ॑द्भ्य॒ इत्या॒यच्छ॑त्ऽभ्यः। अस्य॑द्भ्य॒ इत्यस्य॑त्ऽभ्यः। च॒। वः॒। नमः॑। २२।
महीधरः
म० उष्णीषं शिरोवेष्टनमस्यास्तीत्युष्णीषी उष्णीषेण शिरःप्रावृत्य ग्रामेऽपहर्तुं प्रवृत्तः गिरौ चरति गिरिचरः अध्वन्यानां वस्त्राद्यपहर्तुं पर्वतादिविषमस्थानचारी तदुभयरूपाय रुद्राय नमः । कुं भूमिं क्षेत्रगृहादिरूपां लुञ्चन्ति हरन्ति कुलुञ्चाः कुत्सितं लुञ्चन्ति वा तेषां पालकाय नमः । इषवो विद्यन्ते येषां ते इषुमन्तः जनान्भीषयितुं बाणधारिणस्तेभ्यो नमः । धन्वना धनुषा सह यन्ति गच्छन्ति धन्वायिनः हे रुद्राः, धनुर्धारिभ्यो वो युष्मभ्यं नमः । चकारो मन्त्रभेदज्ञापनार्थः । एवमग्रेऽपि । आतन्वन्त्यारोपयन्ति ज्यां धनुषीत्वातन्वानास्तद्रूपेभ्यो नमः । प्रतिदधते संदधते बाणं धनुषीति संदधानास्तेभ्यो वो युष्मभ्यं नमः । आयच्छन्त्याकर्षन्ति धनूंषि ते आयच्छन्तः तेभ्यो नमः । अस्यन्ति क्षिपन्ति बाणानित्यस्यन्तस्तेभ्यो नमः । ‘असु क्षेपणे’ दिवादिः ॥ २२ ॥
त्रयोविंशी।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- कुत्स ऋषिः
- निचृदष्टिः
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हम राज और प्रजा के पुरुष (उष्णीषिणे) प्रशंसित पगड़ी को धारण करनेवाले ग्रामपति और (गिरिचराय) पर्वतों में विचरनेवाले जंगली पुरुष का (नमः) सत्कार और (कुलुञ्चानाम्) बुरे स्वभाव से दूसरों के पदार्थ खोंसनेवालों को (पतये) गिराने हारे का (नमः) सत्कार करते (इषुमद्भ्यः) बहुत बाणोंवाले को (नमः) अन्न (च) तथा (धन्वायिभ्यः) धनुषों को प्राप्त होनेवाले (वः) तुम लोगों के लिये (नमः) अन्न (आतन्वानेभ्यः) अच्छे प्रकार सुख के फैलाने हारों का (नमः) सत्कार (च) और (प्रतिदधानेभ्यः) शत्रुओं के प्रति शस्त्र धारण करने हारे (वः) तुम को (नमः) सत्कार प्राप्त (आयच्छद्भ्यः) दुष्टों को बुरे कर्मों से रोकनेवालों को (नमः) अन्न देते (च) और (अस्यद्भ्यः) दुष्टों पर शस्त्रादि को छोड़नेवाले (वः) तुम्हारे लिये (नमः) सत्कार करते हैं ॥२२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजा और प्रजा के पुरुषों को चाहिये कि प्रधान पुरुष आदि का वस्त्र और अन्नादि के दान से सत्कार करें ॥२२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - वयं राजप्रजाजना उष्णीषिणे गिरिचराय नमः कुलुञ्चानां पतये नम इषुमद्भ्यो नमो धन्वायिभ्यश्च वो नम आतन्वानेभ्यो नमः प्रतिदधानेभ्यश्च वो नम आयच्छद्भ्यो नमोऽस्यद्भ्यश्च वो नमः कुर्मो दद्मश्च ॥२२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - राजप्रजाजनैः प्रधानपुरुषादयः वस्त्रान्नादिदानेन सत्करणीयाः ॥२२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजा व प्रजा यांनी विशेष अशा पुरुषाचा अन्न, वस्त्र इत्यादी देऊन सत्कार करावा.
२३ नमो विसृजद्भ्यो
विश्वास-प्रस्तुतिः ...{Loading}...
नमो॑ विसृ॒जद्भ्यो॒ विद्ध्य॑द्भ्यश्च वो॒ नमो॒ नमः॑ स्व॒पद्भ्यो॒ जाग्र॑द्भ्यश्च वो॒ नमो॒ नमः॒ शया॑नेभ्य॒ऽआसी॑नेभ्यश्च वो॒ नमो॒ नम॒स्तिष्ठ॑द्भ्यो॒ धाव॑द्भ्यश्च वो॒ नमः॑ ॥२३ ॥
मूलम् ...{Loading}...
नमो॑ विसृ॒जद्भ्यो॒ विद्ध्य॑द्भ्यश्च वो॒ नमो॒ नमः॑ स्व॒पद्भ्यो॒ जाग्र॑द्भ्यश्च वो॒ नमो॒ नमः॒ शया॑नेभ्य॒ऽआसी॑नेभ्यश्च वो॒ नमो॒ नम॒स्तिष्ठ॑द्भ्यो॒ धाव॑द्भ्यश्च वो॒ नमः॑ ॥२३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नमः॑। वि॒सृ॒जद्भ्य॒ इति॑ विसृ॒जत्ऽभ्यः॑। विद्ध्य॑द्भ्य॒ इति॒ विद्ध्य॑त्ऽभ्यः। च॒। वः॒। नमः॑। नमः॑। स्व॒पद्भ्य॒ इति॑ स्व॒पत्ऽभ्यः॑। जाग्र॑द्भ्य॒ इति॒ जाग्र॑त्ऽभ्यः। च॒। वः॒। नमः॑। नमः॑। शया॑नेभ्यः। आसी॑नेभ्यः। च॒। वः॒। नमः॑। नमः॑। तिष्ठ॑द्भ्य इति॒ तिष्ठ॑त्ऽभ्यः। धाव॑द्भ्य॒ इति॒ धाव॑त्ऽभ्यः। च॒। वः॒। नमः॑। २३।
महीधरः
म० विसृजन्ति विमुञ्चन्ति बाणानरिष्विति विसृजन्तः तेभ्यो नमः । विध्यन्ति ताडयन्ति शत्रूनिति विध्यन्तस्तेभ्यो वो नमः । मुक्तस्य बाणस्य लक्ष्ये प्रवेशो वेधः । स्वपन्ति ते स्वपन्तः स्वप्नावस्थामनुभवन्तस्तेभ्यो नमः । जाग्रति ते जाग्रतः जाग्रदवस्थावन्तस्तेभ्यो वो नमः । शेरते ते शयानाः सुषुप्त्यवस्थावन्तस्तेभ्यो नमः । आसते आसीना उपविशन्तस्तेभ्यश्च वो नमः । तिष्ठन्ति ते तिष्ठन्तो गतिनिवृत्तास्तेभ्यो नमः । धावन्ति ते धावन्तो वेगवद्गतयस्तेभ्यो वो नमः ॥ २३ ॥
चतुर्विंशी।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- कुत्स ऋषिः
- निचृदतिजगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम ऐसा सब को जनाओ कि हम लोग (विसृजद्भ्यः) शत्रुओं पर शस्त्रादि छोड़नेवालों को (नमः) अन्नादि पदार्थ (च) और (विद्ध्यद्भ्यः) शस्त्रों से शत्रुओं को मारते हुए (वः) तुमको (नमः) अन्न (स्वपद्भ्यः) सोते हुओं के लिये (नमः) वज्र (च) और (जाग्रद्भ्यः) जागते हुए (वः) तुम को (नमः) अन्न (शयानेभ्यः) निद्रालुओं को (नमः) अन्न (च) और (आसीनेभ्यः) आसन पर बैठे हुए (वः) तुम को (नमः) अन्न (तिष्ठद्भ्यः) खड़े हुओं को (नमः) अन्न (च) और (धावद्भ्यः) शीघ्र चलते हुए (वः) तुम लोगों को (नमः) अन्न देवेंगे ॥२३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - गृहस्थों को चाहिये कि करुणामय वचन बोल और अन्नादि पदार्थ देके सब प्राणियों को सुखी करें ॥२३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यूयमेवं सर्वेभ्य आज्ञापयत वयं विसृजद्भ्यो नमो विद्ध्यद्भ्यश्च वो नमः स्वपद्भ्यो नमो जाग्रद्भ्यश्च वो नमः शयानेभ्यो नम आसीनेभ्यश्च वो नमस्तिष्ठद्भ्यो नमो धावद्भ्यश्च वो नमः प्रदास्याम इति ॥२३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - गृहस्थैरानृशंस्यं प्रयोज्यान्नादिकं दत्त्वा सर्वे प्राणिनः सुखनीयाः ॥२३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - गृहस्थी लोकांनी सर्व प्राण्यांना करुणामयी वाणीने बोलावे व अन्न इत्यादी पदार्थ देऊन त्यांना सुखी करावे.
२४ नमः सभाभ्यः
विश्वास-प्रस्तुतिः ...{Loading}...
नमः॑ स॒भाभ्यः॑ स॒भाप॑तिभ्यश्च वो॒ नमो॒ नमोऽश्वे॒भ्योऽश्व॑पतिभ्यश्च वो॒ नमो॒ नम॑ऽआव्या॒धिनी॑भ्यो वि॒विध्य॑न्तीभ्यश्च वो॒ नमो॒ नम॒ऽउग॑णाभ्यस्तृँह॒तीभ्य॑श्च वो॒ नमः॑ ॥२४ ॥
मूलम् ...{Loading}...
नमः॑ स॒भाभ्यः॑ स॒भाप॑तिभ्यश्च वो॒ नमो॒ नमोऽश्वे॒भ्योऽश्व॑पतिभ्यश्च वो॒ नमो॒ नम॑ऽआव्या॒धिनी॑भ्यो वि॒विध्य॑न्तीभ्यश्च वो॒ नमो॒ नम॒ऽउग॑णाभ्यस्तृँह॒तीभ्य॑श्च वो॒ नमः॑ ॥२४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नमः॑। स॒भाभ्यः॑। स॒भाप॑तिभ्य॒ इति॑ स॒भाप॑तिऽभ्यः। च॒। वः॒। नमः॑। नमः॑। अश्वे॑भ्यः। अश्व॑पतिभ्य॒ इत्यश्व॑पतिऽभ्यः। च॒। वः॒। नमः॑। नमः॑। आ॒व्या॒धिनी॑भ्य॒ इत्या॑ऽव्या॒धिनी॑भ्यः। वि॒विध्य॑न्तीभ्य॒ इति॑ वि॒ऽविध्य॑न्तीभ्यः। च॒। वः॒। नमः॑। नमः॑। उग॑णाभ्यः। तृँ॒ह॒तीभ्यः॑। च॒। वः॒। नमः॑। २४।
महीधरः
म० अथ जातसंज्ञा रुद्रा रुद्रलोके सन्ति ते कथ्यन्ते रुद्राद्वैतप्रतिपादनाय । ‘अथो एवᳪं᳭ हैतानि रुद्राणां जातानि’ (९।१ । १९) इति श्रुतेः । सभारूपेभ्यो रुद्रेभ्यो नमः । सभादिषु रुद्रदृष्टिः कर्तव्येति तात्पर्यम् । सभायाः पतिभ्यो नमः । अश्वास्तुरगास्तेभ्यो वो नमः । अश्वानां पतिभ्यो वो नमः । आ समन्ताद्विध्यन्तीत्याव्याधिन्यो देव्यः सेना वा ताभ्यो नमः । विशेषेण विध्यन्ति विविध्यन्त्यस्ताभ्यो वो नमः । उत्कृष्टा गणा भृत्यसमूहा यासां ता उगणाः । उपसर्गान्त्यलोपः पृषोदरादित्वात् । ब्राह्या उद्या मातरस्ताभ्यो नमः । तृंहन्ति घ्नन्ति तृंहत्यः ‘तृहि हिंसायां’ हन्तुं समर्था दुर्गादयस्ताभ्यो वो नमः ॥ २४ ॥
पञ्चविंशी।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- कुत्स ऋषिः
- शक्वरी
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - मनुष्यों को सब के प्रति ऐसे कहना चाहिये कि हम लोग (सभाभ्यः) न्याय आदि के प्रकाश से युक्त स्त्रियों का (नमः) सत्कार (च) और (सभापतिभ्यः) सभाओं के रक्षक (वः) तुम राजाओं का (नमः) सत्कार करें (अश्वेभ्यः) घोड़ों को (नमः) अन्न (च) और (अश्वपतिभ्यः) घोड़ों के रक्षक (वः) तुम को (नमः) अन्न तथा (आव्याधिनीभ्यः) शत्रुओं की सेनाओं को मारने हारी अपनी सेनाओं के लिये (नमः) अन्न देवें (च) और (विविध्यन्तीभ्यः) शत्रुओं के वीरों को मारती हुई (वः) तुम स्त्रियों का (नमः) सत्कार करें (उगणाभ्यः) विविध तर्कोंवाली स्त्रियों को (नमः) अन्न (च) और (तृंहतीभ्यः) युद्ध में मारती हुई (वः) तुम स्त्रियों के लिये (नमः) अन्न देवें तथा यथायोग्य सत्कार किया करें ॥२४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि सभा और सभापतियों से ही राज्य की व्यवस्था करें। कभी एक राजा की अधीनता से स्थिर न हों, क्योंकि एक पुरुष से बहुतों के हिताहित का विचार कभी नहीं हो सकता इससे ॥२४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - मनुष्यैः सर्वान् प्रत्येवं वक्तव्यं वयं सभाभ्यो नमः सभापतिभ्यश्च वो नमोऽश्वेभ्यो नमोऽश्वपतिभ्यश्च वो नम आव्याधिनीभ्यो नमो विविध्यन्तीभ्यश्च वो नम उगणाभ्यो नमस्तृंहतीभ्यश्च वो नमः कुर्याम दद्याम च ॥२४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैः सभया सभापतिभिश्चैव राज्यव्यवस्था कार्या न खलु कदाचिदेकराजाधीनत्वेन स्थातव्यं यतो नैकेन बहूनां हिताहितसाधनं भवितुं शक्यमतः ॥२४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी सभा व राजा यांच्याकडून राज्याची व्यवस्था ठेवावी. ती एका राजाच्या आधीन कधीच नसावी. याचे कारण अस की, एक पुरुष अनेकांच्या हिताहिताचा विचार करू शकत नाही.
२५ नमो गणेभ्यो
विश्वास-प्रस्तुतिः ...{Loading}...
नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमो॒ नमो॒ व्राते॑भ्यो॒ व्रात॑पतिभ्यश्च वो॒ नमो॒ नमो॒ गृत्से॑भ्यो॒ गृत्स॑पतिभ्यश्च वो॒ नमो॒ नमो॒ विरू॑पेभ्यो वि॒श्वरू॑पेभ्यश्च वो॒ नमः॑ ॥२५ ॥
मूलम् ...{Loading}...
नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमो॒ नमो॒ व्राते॑भ्यो॒ व्रात॑पतिभ्यश्च वो॒ नमो॒ नमो॒ गृत्से॑भ्यो॒ गृत्स॑पतिभ्यश्च वो॒ नमो॒ नमो॒ विरू॑पेभ्यो वि॒श्वरू॑पेभ्यश्च वो॒ नमः॑ ॥२५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नमः॑। ग॒णेभ्यः॑। ग॒णप॑तिभ्य॒ इति॑ ग॒णप॑तिऽभ्यः। च॒। वः॒। नमः॑। नमः॑। व्राते॑भ्यः। व्रात॑पतिभ्य॒ इति॒ व्रात॑पतिऽभ्यः। च॒। वः॒। नमः॑। नमः॑। गृत्से॑भ्यः। गृ॒त्सप॑तिभ्य॒ इति॒ गृत्स॑पतिऽभ्यः। च॒। वः॒। नमः॑। नमः॑। विरू॑पेभ्य॒ इति॒ विऽरू॑पेभ्यः। वि॒श्वरू॑पेभ्य॒ इति॑ वि॒श्वऽरू॑पेभ्यः। च॒। वः॒। नमः॑। २५।
महीधरः
म० देवानुचरा भूतविशेषा गणास्तेभ्यो नमः । गणानां पालका गणपतयस्तेभ्यो वो नमः । व्राता नानाजातीयानां सङ्घास्तेभ्यो नमः । व्रातपालका व्रातपतयस्तेभ्यो वो नमः । गृध्यन्ति वाञ्छन्ति गृत्सा विषयलम्पटाः गृत्सा मेधाविनो वा तेभ्यो नमः । गृत्सपतयस्तत्पालकास्तेभ्यो वो नमः । विकृतं रूपं येषां ते विरूपा नग्नमुण्डजटिलादयस्तेभ्यो वो नमः । | विश्वं सर्वं नानाविधं रूपं येषां ते विश्वरूपास्तुरङ्गवदनहयग्रीवादयस्तेभ्यो वो नमः ॥ २५ ॥
षड्विंशी।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- कुत्स ऋषिः
- भुरिक् शक्वरी
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे हम लोग (गणेभ्यः) सेवकों को (नमः) अन्न (च) और (गणपतिभ्यः) सेवकों के रक्षक (वः) तुम लोगों को (नमः) अन्न देवें (व्रातेभ्यः) मनुष्यों का (नमः) सत्कार (च) और (व्रातपतिभ्यः) मनुष्यों के रक्षक (वः) तुम्हारा (नमः) सत्कार (गृत्सेभ्यः) पदार्थों के गुणों को प्रकट करनेवाले विद्वानों का (नमः) सत्कार (च) तथा (गृत्सपतिभ्यः) बुद्धिमानों के रक्षक (वः) तुम लोगों का (नमः) सत्कार (विरूपेभ्यः) विविधरूपवालों का (नमः) सत्कार (च) और (विश्वरूपेभ्यः) सब रूपों से युक्त (वः) तुम लोगों का (नमः) सत्कार करें, वैसे तुम लोग भी देओ, सत्कार करो ॥२५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सब मनुष्य सम्पूर्ण प्राणियों का उपकार, विद्वानों का सङ्ग, समग्र शोभा और विद्याओं को धारण करके सन्तुष्ट हों ॥२५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा वयं गणेभ्यो नमो गणपतिभ्यश्च वो नमो व्रातेभ्यो नमो व्रातपतिभ्यश्च वो नमो गृत्सेभ्यो नमो गृत्सपतिभ्यश्च वो नमो विरूपेभ्यो नमो विश्वरूपेभ्यश्च वो नमो दद्याम कुर्य्याम च तथा युष्माभिरपि दातव्यं कर्त्तव्यं च ॥२५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सर्वे जना अखिलप्राण्युपकारं विद्वत्सङ्गं समग्रां श्रियं विद्याश्च धृत्वा सन्तुष्यन्तु ॥२५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सर्व माणसांनी सर्व प्राण्यांवर उपकार करावा. विद्वानांच्या संगतीने विद्या प्राप्त करून शोभयमान व्हावे व संतुष्ट रहावे.
२६ नमः सेनाभ्यः
विश्वास-प्रस्तुतिः ...{Loading}...
नमः॒ सेना॑भ्यः सेना॒निभ्य॑श्च वो॒ नमो॒ नमो॑ र॒थिभ्यो॑ऽअर॒थेभ्य॑श्च वो॒ नमो॒ नमः॑ क्ष॒त्तृभ्यः॑ सङ्ग्रही॒तृभ्य॑श्च वो॒ नमो॒ नमो॑ म॒हद्भ्यो॑ऽअर्भ॒केभ्य॑श्च वो॒ नमः॑ ॥२६ ॥
मूलम् ...{Loading}...
नमः॒ सेना॑भ्यः सेना॒निभ्य॑श्च वो॒ नमो॒ नमो॑ र॒थिभ्यो॑ऽअर॒थेभ्य॑श्च वो॒ नमो॒ नमः॑ क्ष॒त्तृभ्यः॑ सङ्ग्रही॒तृभ्य॑श्च वो॒ नमो॒ नमो॑ म॒हद्भ्यो॑ऽअर्भ॒केभ्य॑श्च वो॒ नमः॑ ॥२६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नमः॑। सेना॑भ्यः। से॒ना॒निभ्य॒ इति॑ सेना॒निऽभ्यः॑। च॒। वः॒। नमः॑। नमः॑। र॒थिभ्य॒ इति॑ र॒थिऽभ्यः॑। अ॒र॒थेभ्यः॑। च॒। वः॒। नमः॑। नमः॑। क्ष॒त्तृभ्य॒ इति॑ क्ष॒त्तृऽभ्यः॑। स॒ङ्ग्र॒हीतृभ्य॒ इति॑ सम्ऽग्रही॒तृभ्यः। च॒। वः॒। नमः॑। नमः॑। म॒हत्भ्यः॑। अ॒र्भ॒केभ्यः॑। च॒। वः॒। नमः॑। २६।
महीधरः
म० सेनारूपेभ्यो नमः । सेनां नयन्ति ते सेनान्यः सेनापतयस्तद्रूपेभ्यो वो नमः । ह्रस्वश्छान्दसः । रथाः सन्ति येषां ते रथिनः तेभ्यो नमः । नास्ति रथो येषां ते अरथास्तेभ्यो वो नमः । ‘क्षि निवासगत्योः’ तुदादिः । क्षियन्ति निवसन्ति | रथेष्विति क्षत्तारः । यद्वा ‘क्षिप प्रेरणे’ क्षिपन्ति प्रेरयन्ति सारथीनिति क्षत्तारः रथाधिष्ठातारः ‘नप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृमातृजामातृपितृदुहितृ’ इत्यौणादिकसूत्रेण तृचप्रत्ययान्तो निपातः। तेभ्यो नमः । संगृह्णन्त्यश्वानिति संग्रहीतारः सारथयः ‘ण्वुल्। तृचौ’ ( पा० ३ । १ । १३३) इति तृच् । तेभ्यो नमः । महान्तो जाति विद्यादिभिरुत्कृष्टान्तेभ्यो नमः । अर्भकाः प्रमाणादिभिरल्पाः तेभ्यो नमः ॥ २६ ॥
सप्तविंशी।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- कुत्स ऋषिः
- भुरिगतिजगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राज और प्रजा के पुरुषो ! जैसे हम लोग (सेनाभ्यः) शत्रुओं को बाँधने हारे सेनास्थ पुरुषों का (नमः) सत्कार करते (च) और (वः) तुम (सेनानिभ्यः) सेना के नायक प्रधान पुरुषों को (नमः) अन्न देते हैं (रथिभ्यः) प्रशंसित रथोंवाले पुरुषों का (नमः) सत्कार (च) और (वः) तुम (अरथेभ्यः) रथों से पृथक् पैदल चलनेवालों का (नमः) सत्कार करते हैं (क्षत्तृभ्यः) क्षत्रिय की स्त्री में शूद्र से उत्पन्न हुए वर्णसंकर के लिये (नमः) अन्नादि पदार्थ देते (च) और (वः) तुम (संग्रहीतृभ्यः) अच्छे प्रकार युद्ध की सामग्री को ग्रहण करने हारों का (नमः) सत्कार करते हैं (महद्भ्यः) विद्या और अवस्था से वृद्ध पूजनीय महाशयों को (नमः) अच्छा पकाया हुआ अन्नादि पदार्थ देते (च) और (वः) तुम (अर्भकेभ्यः) क्षुद्राशय शिक्षा के योग्य विद्यार्थियों का (नमः) निरन्तर सत्कार करते हैं, वैसे तुम लोग भी दिया, किया करो ॥२६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजपुरुषों को चाहिये कि सब भृत्यों को सत्कार और शिक्षापूर्वक अन्नादि पदार्थों से उन्नति देके धर्म से राज्य का पालन करें ॥२६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे राजप्रजानाः ! यथा वयं सेनाभ्यो नमो वः सेनानिभ्यो नमश्च रथिभ्यो नमो वोऽरथेभ्यो नमश्च क्षत्तृभ्यो नमो वः संग्रहीतृभ्यो नमश्च महद्भ्यो नमो वोऽर्भकेभ्यो नमश्च सततं कुर्मो दद्मश्च, तथैव यूयमपि कुरुत दत्त च ॥२६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - राजपुरुषैः सर्वान् भृत्यान् सत्कृत्य सुशिक्ष्यान्नादिना वर्धयित्वा धर्मेण राज्यं पालनीयम् ॥२६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजपुरुषांनी सर्व नोकर चाकरांनाही मान द्यावा. त्यांना शिक्षण द्यावे व अन्न वगैरे देऊन धर्माने राज्याचे पालन करावे.
२७ नमस्तक्षभ्यो रथकारेभ्यश्च
विश्वास-प्रस्तुतिः ...{Loading}...
नम॒स्तक्ष॑भ्यो रथका॒रेभ्य॑श्च वो॒ नमो॒ नमः॒ कुला॑लेभ्यः क॒र्मारेभ्यश्च वो॒ नमो॒ नमो॑ निषा॒देभ्यः॑ पु॒ञ्जिष्ठे॑भ्यश्च वो॒ नमो॒ नमः॑ श्व॒निभ्यो॑ मृग॒युभ्य॑श्च वो॒ नमः॑ ॥२७ ॥
मूलम् ...{Loading}...
नम॒स्तक्ष॑भ्यो रथका॒रेभ्य॑श्च वो॒ नमो॒ नमः॒ कुला॑लेभ्यः क॒र्मारेभ्यश्च वो॒ नमो॒ नमो॑ निषा॒देभ्यः॑ पु॒ञ्जिष्ठे॑भ्यश्च वो॒ नमो॒ नमः॑ श्व॒निभ्यो॑ मृग॒युभ्य॑श्च वो॒ नमः॑ ॥२७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नमः॑। तक्ष॑भ्य॒ इति॒ तक्ष॑ऽभ्यः। र॒थ॒का॒रेभ्य॒ इति॑ रथऽका॒रेभ्यः॑। च॒। वः॒। नमः॑। नमः॑। कुला॑लेभ्यः। क॒र्मारे॑भ्यः। च॒। वः॒। नमः॑। नमः॑। नि॒षा॒देभ्यः॑। नि॒सा॒देभ्य॑ इति निऽसा॒देभ्यः॑। पु॒ञ्जिष्ठे॑भ्यः। च॒। वः॒। नमः॑। नमः॑। श्व॒निभ्य॒ इति॑ श्व॒निऽभ्यः॑। मृ॒ग॒युभ्य॒ इति॑ मृ॒ग॒युऽभ्यः॑। च॒। वः॒। नमः॑। २७।
महीधरः
म० तक्षाणः शिल्पजातयस्तेभ्यो नमः । रथं कुर्वन्तीति रथकाराः सूत्रधारविशेषास्तेभ्यो वो नमः । कुलालाः कुम्भकारास्तेभ्यो नमः । कर्मारा लोहकारास्तेभ्यो वो नमोऽस्तु । निषादा गिरिचरा मांसाशिनो भिल्लास्तेभ्यो नमः । पुञ्जिष्ठाः पक्षिपुञ्जघातकाः पुल्कसादयस्तेभ्यो वो नमः । शुनो नयन्ति ते श्वन्यः श्वकण्ठबद्धरज्जुधारकाः श्वगणिनः । नयतेर्ह्रस्व आर्षः तेभ्यो नमः । मृगान् कामयन्ते ते मृगयवः । ‘इदंयुरिदंकामयमानः’ (निरु० ६ । ३१) इति यास्कोक्तेः । ‘सुप आत्मनः क्यच्’ (पा० ३ । १ । ८) इति क्यच् ‘क्यचि च’ (पा. ७ । ४ । ३३ ) इति प्राप्तस्येत्वस्य ‘न छन्दस्यपुत्रस्य’ (पा. ७ । ४ । ३५) इति निषेधः। मृगयवो लुब्धकास्तेभ्यो वो नमः ॥ २७ ॥
अष्टाविंशी।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- कुत्स ऋषिः
- निचृच्छक्वरी
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
विद्वान् लोगों को किन का सत्कार करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे राजा आदि हम लोग (तक्षभ्यः) पदार्थों को सूक्ष्मक्रिया से बनाने हारे तुम को (नमः) अन्न देते (च) और (रथकारेभ्यः) बहुत से विमानादि यानों को बनाने हारे (वः) तुम लोगों का (नमः) परिश्रमादि का धन देके सत्कार करते हैं (कुलालेभ्यः) प्रशंसित मट्टी के पात्र बनानेवालों को (नमः) अन्नादि पदार्थ देते (च) और (कर्मारेभ्यः) खड्ग, बन्दूक और तोप आदि शस्त्र बनानेवाले (वः) तुम लोगों का (नमः) सत्कार करते हैं (निषादेभ्यः) वन और पर्वतादि में रह कर दुष्ट जीवों को ताड़ना देनेवाले तुम को (नमः) अन्नादि देते (च) और (पुञ्जिष्ठेभ्यः) श्वेतादि वर्णों वा भाषाओं में प्रवीण (वः) तुम्हारा (नमः) सत्कार करते हैं (श्वनिभ्यः) कुत्तों को शिक्षा करने हारे (वः) तुम को (नमः) अन्नादि देते (च) और (मृगयुभ्यः) अपने आत्मा से वन के हरिण आदि पशुओं को चाहनेवाले तुम लोगों का (नमः) सत्कार करते हैं, वैसे तुम लोग भी करो ॥२७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्वान् लोग जो पदार्थविद्या को जान के अपूर्व कारीगरीयुक्त पदार्थों को बनावें, उनको पारितोषिक आदि देके प्रसन्न करें और जो कुत्ते आदि पशुओं को अन्नादि से रक्षा कर तथा अच्छी शिक्षा देके उपयोग में लावें, उनको सुख प्राप्त करावें ॥२७ ॥
दयानन्द-सरस्वती (सं) - विषयः
विद्वद्भिः के सत्कर्त्तव्या इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा वयं राजादयो वस्तक्षभ्यो नमो रथकारेभ्यो नमश्च, वः कुलालेभ्यो नमः कर्मारेभ्यो नमश्च, वो निषादेभ्यो नमः पुञ्जिष्ठेभ्यो नमश्च, वः श्वनिभ्यो नमो मृगयुभ्यो नमश्च दद्याम कुर्याम च तथा यूयमपि दत्त कुरुत च ॥२७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - विद्वांसो ये पदार्थविद्ययाऽपूर्वाणि शिल्पकृत्यानि साध्नुयुस्तान् पारितोषिकदानेन सत्कुर्युः। ये श्वादिपशुभ्योऽन्नादिदानेन परिपाल्य सुशिक्ष्योपयोजयेयुस्तान् सुखानि प्रापयेयुः ॥२७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे विद्वान लोक पदार्थ विद्या जाणून कौशल्यपूर्वक पदार्थ तयार करतात त्यांना पारितोषिक देऊन सन्मान करावा व प्रसन्न करावे. जे लोक कुत्र्यांना (पशूंना) अन्न देतात त्यांचे रक्षण करून त्यांना प्रशिक्षित करतात. त्यांच्याकडून काम करवून घेतात त्यांचाही सत्कार करावा व त्यांना सुखी ठेवावे.
२८ नमः श्वभ्यः
विश्वास-प्रस्तुतिः ...{Loading}...
नमः॒ श्वभ्यः॒ श्वप॑तिभ्यश्च वो॒ नमो॒ नमो॑ भ॒वाय॑ च रु॒द्राय॑ च॒ नमः॑ श॒र्वाय॑ च पशु॒पत॑ये च॒ नमो॒ नील॑ग्रीवाय च शिति॒कण्ठा॑य च ॥२८ ॥
मूलम् ...{Loading}...
नमः॒ श्वभ्यः॒ श्वप॑तिभ्यश्च वो॒ नमो॒ नमो॑ भ॒वाय॑ च रु॒द्राय॑ च॒ नमः॑ श॒र्वाय॑ च पशु॒पत॑ये च॒ नमो॒ नील॑ग्रीवाय च शिति॒कण्ठा॑य च ॥२८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नमः॑। श्वभ्य॒ इति॒ श्वऽभ्यः॑। श्वप॑तिभ्य॒ इति॒ श्वप॑तिऽभ्यः। च॒। वः॒। नमः॑। नमः॑। भ॒वाय॑। च॒। रु॒द्राय॑। च॒। नमः॑। श॒र्वाय॑। च॒। प॒शु॒पत॑य॒ इति॑ पशु॒ऽपत॑ये। च॒। नमः॑। नील॑ग्रीवा॒येति॒ नील॑ऽग्रीवाय। च॒। शि॒ति॒कण्ठा॒येति॑ शिति॒ऽकण्ठा॑य। च॒। २८।
महीधरः
म० श्वानः कुक्कुरास्तद्रूपेभ्यो नमः । शुनां पतयः श्वपतयः श्वपालकास्तेभ्यो वो युप्मभ्यं नमः । श्वपतयः किरातवेषस्य रुद्रस्यानुचराः । नम इषुमद्भ्यो धन्वायिभ्य इत्यारभ्य ( क०. २२) ये वः शब्दास्ते पूजावाचका वा न युष्मदादेशाः । इत्युभयतोनमस्कारमन्त्राः समाप्ताः ॥ ॥ अथ नमस्कारोपक्रमानाम मन्त्रा उच्यन्ते । भवन्त्युत्पद्यन्ते जन्तवोऽस्मादिति भवस्तस्मै नमः । रुत् दुःखं द्रावयति नाशयति रुद्रस्तस्मै नमः । शृणाति हिनस्ति पापमिति शर्वस्तस्मै नमः । पशून् अज्ञान् पाति रक्षतीति पशुपतिस्तस्मै नमः । विषभक्षणेन नीला नीलवर्णा ग्रीवा कण्ठैकदेशो यस्य स नीलग्रीवस्तस्मै नमः । शितिः श्वेतः कण्ठो नीलातिरिक्तभागो यस्य शितिकण्ठस्तस्मै नमः । ‘शिती धवलमेचकौ’ ॥ २८ ॥
एकोनत्रिंशी।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- कुत्स ऋषिः
- आर्षी जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्य लोग किन से कैसा उपकार लेवें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे हम परीक्षक लोग (श्वभ्यः) कुत्तों को (नमः) अन्न देवें (च) और (वः) तुम (श्वपतिभ्यः) कुत्तों को पालनेवालों को (नमः) अन्न देवें तथा सत्कार करें (च) तथा (भवाय) जो शुभगुणों में प्रसिद्ध हो उस जन का (नमः) सत्कार (च) और (रुद्राय) दुष्टों को रुलाने हारे वीर का सत्कार (च) तथा (शर्वाय) दुष्टों को मारनेवालों को (नमः) अन्नादि देते (च) और (पशुपतये) गौ आदि पशुओं के पालक को अन्न (च) और (नीलग्रीवाय) सुन्दर वर्णवाले कण्ठ से युक्त (च) और (शितिकण्ठाय) तीक्ष्ण वा काले कण्ठवाले को (नमः) अन्न देते और सत्कार करते हैं वैसे तुम भी दिया, किया करो ॥२८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि कुत्ते आदि पशुओं को अन्नादि से बढ़ा के उनसे उपकार लेवें और पशुओं के रक्षकों का सत्कार भी करें ॥२८ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यैः केभ्यः कथमुपकारो ग्राह्य इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा वयं परीक्षकाः श्वभ्यो नमो वः श्वपतिभ्यो नमश्च, भवाय नमश्च रुद्राय नमश्च शर्वाय नमश्च नमश्च पशुपतये नीलग्रीवाय नमश्च शितिकण्ठाय नमश्च दद्याम कुर्याम तथा यूयमपि दत्त कुरुत च ॥२८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैः श्वादिपशूनन्नादिदानेन वर्द्धयित्वा तैरुपकारो ग्राह्यः। पशुपालकादीनां सत्कारश्च कार्यः ॥२८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी कुत्र्यांना अन्न खाऊ घालून पोषण करावे व त्यांचा उपयोग करून घ्यावा, तसेच पशूंच्या रक्षकांचाही सन्मान करावा.
२९ नमः कपर्दिने
विश्वास-प्रस्तुतिः ...{Loading}...
नमः॑ कप॒र्दिने॑ च॒ व्यु᳖प्तकेशाय च॒ नमः॑ सहस्रा॒क्षाय॑ च श॒तध॑न्वने च॒ नमो॑ गिरिश॒याय॑ च शिपिवि॒ष्टाय॑ च॒ नमो॑ मी॒ढुष्ट॑माय॒ चेषु॑मते च ॥२९ ॥
मूलम् ...{Loading}...
नमः॑ कप॒र्दिने॑ च॒ व्यु᳖प्तकेशाय च॒ नमः॑ सहस्रा॒क्षाय॑ च श॒तध॑न्वने च॒ नमो॑ गिरिश॒याय॑ च शिपिवि॒ष्टाय॑ च॒ नमो॑ मी॒ढुष्ट॑माय॒ चेषु॑मते च ॥२९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नमः॑। क॒प॒र्दिने॑। च॒। व्यु᳖प्तकेशा॒येति॒ व्यु᳖प्तऽकेशाय। च॒। नमः॑। स॒ह॒स्रा॒क्षायेति॑ सहस्र॒ऽअ॒क्षाय॑। च॒। श॒तध॑न्वन॒ इति॑ श॒तऽध॑न्वने। च॒। नमः॑। गि॒रि॒श॒यायेति॑ गिरिऽश॒याय॑। च॒। शि॒पि॒वि॒ष्टायेति॑ शिपिऽवि॒ष्टाय॑। च॒। नमः॑। मी॒ढुष्ट॑माय। मी॒ढुस्त॑मा॒येति॑ मी॒ढुःऽत॑माय। च॒। इषु॑मत॒ इतीषु॑ऽमते। च॒। २९।
महीधरः
म०. कपर्दो जटाजूटोऽस्यास्तीति कपर्दी तस्मै नमः । पाशुपतादिवेषेण । चकाराः सर्वे समुच्चयार्था ज्ञेयाः । व्युप्ता मुण्डिताः केशा यस्य स व्युप्तकेशस्तस्मै नमः । इत्यादिरूपेण मुण्डितत्वम् । सहस्रमक्षीणि यस्य सहस्राक्षस्तस्मै इन्द्ररूपाय । नमः । शतं धनूंषि यस्य शतधन्वा ‘धनुषश्च’ (पा० ५।४। | १३२ ) इत्यानङ् तस्मै बहुधनुर्धारिणे नमः । गिरौ कैलासे शेतेऽसौ गिरिशयस्तस्मै नमः । शिपिविष्टाय विष्णुरूपाय ‘विष्णुः शिपिविष्टः’ इति श्रुतेः । यद्वा शिपिषु पशुषु विष्टः प्रविष्टः ‘पशवो वै शिपिः’ इति श्रुतेः । सर्वप्राणिष्वन्तर्यामितया स्थित इत्यर्थः । यद्वा ‘यज्ञो वै शिपिः’ यज्ञेऽधिदेवतात्वेन प्रविष्टः शिपिरादित्यो वा मण्डलाधिष्ठातेत्यर्थः । तस्मै नमः । शिपयोऽत्र रश्मय उच्यन्ते तैराविष्टो भवतीति यास्कोक्तेः अतिशयेन मीढ़्वान् मेघरूपेण सेक्ता मीढुष्टमः तस्मै नमः । इषवो बाणाः सन्त्यस्येतीषुमान् तस्मै नमः ॥ २९ ॥
त्रिंशी।
अधिमन्त्रम् (VC)
- रुद्रो देवता
- कुत्स ऋषिः
- भुरिगतिजगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
गृहस्थ लोगों को किनका सत्कार करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - गृहस्थ लोगों को चाहिये कि (कपर्दिने) जटाधारी ब्रह्मचारी (च) और (व्युप्तकेशाय) समस्त केश मुंडाने हारे संन्यासी (च) और संन्यास चाहते हुए को (नमः) अन्न देवें (च) तथा (सहस्राक्षाय) असंख्य शास्त्र के विषयादि को देखनेवाले विद्वान् ब्राह्मण का (च) और (शतधन्वने) धनुष् आदि असंख्य शस्त्र विद्याओं के शिक्षक क्षत्रिय का (नमः) सत्कार करें (गिरिशयाय) पर्वतों के आश्रय से सोने हारे वानप्रस्थ का (च) और (शिपिविष्टाय) पशुओं के पालक वैश्य आदि (च) और शूद्र का (नमः) सत्कार करें (मीढुष्टमाय) वृक्ष, बगीचा और खेत आदि को अच्छे प्रकार सींचनेवाले किसान लोगों (च) और माली आदि को (इषुमते) प्रशंसित बाणोंवाले वीर पुरुष को (च) भी (नमः) अन्नादि देवें और सत्कार करें ॥२९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - गृहस्थों को योग्य है कि ब्रह्मचारी आदि को सत्कारपूर्वक विद्यादान करें और करावें तथा संन्यासी आदि की सेवा करके विशेष विज्ञान का ग्रहण किया करें ॥२९ ॥
दयानन्द-सरस्वती (सं) - विषयः
गृहस्थैः के सत्कर्त्तव्या इत्युच्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - गृहस्था मनुष्या नमः कपर्दिने च, व्युप्तकेशाय च नमः, सहस्राक्षाय च शतधन्वने च नमो, गिरिशयाय च शिपिविष्टाय च नमो, मीढुष्टमाय चेषुमते च कुर्युः प्रदद्युश्च ॥२९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - गृहस्थैर्ब्रह्मचारिप्रभृतीन् सत्कृत्य विद्यादानं कर्त्तव्यं कारयितव्यं च तथा संन्यास्यादीन् संपूज्य विशिष्टविज्ञानं ग्राह्यम् ॥२९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - गृहस्थाश्रमी लोकांनी ब्रह्मचाऱ्यांचा सत्कार करून त्यांना दान करावे. संन्यासी लोकांची सेवा करून विशेष विज्ञान प्राप्त करावे. (तसेच वैश्य, शेतकरी, वीर पुरुष यांचाही सत्कार करावा.
३० नमो ह्रस्वाय
विश्वास-प्रस्तुतिः ...{Loading}...
नमो॑ ह्र॒स्वाय॑ च वाम॒नाय॑ च॒ नमो॑ बृह॒ते च॒ वर्षी॑यसे च॒ नमो॑ वृ॒द्धाय॑ च स॒वृधे॑ च॒ नमोऽग्र्या॑य च प्रथ॒माय॑ च ॥३० ॥
मूलम् ...{Loading}...
नमो॑ ह्र॒स्वाय॑ च वाम॒नाय॑ च॒ नमो॑ बृह॒ते च॒ वर्षी॑यसे च॒ नमो॑ वृ॒द्धाय॑ च स॒वृधे॑ च॒ नमोऽग्र्या॑य च प्रथ॒माय॑ च ॥३० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नमः॑। ह्र॒स्वाय॑। च॒। वा॒म॒नाय॑। च॒। नमः॑। बृ॒ह॒ते। च॒। वर्षी॑यसे। च॒। नमः॑। वृ॒द्धाय॑। च॒। स॒वृध॒ इति॑ स॒ऽवृधे॑। च॒। नमः॑। अग्र्या॑य। च॒। प्र॒थ॒माय॑। च॒। ३०।
महीधरः
म० रूपतो नमस्काराः । ह्रस्वोऽल्पशरीरस्तस्मै नमः । वामनः सङ्कुचितावयवस्तस्मै नमः । बृहन् प्रौढाङ्गस्तस्मै नमः । वर्षीयानतिशयेन वृद्धः ‘प्रस्थस्फ-’ (पा० ६ । ४ । १५७ ) इत्यादिना वर्षादेशः तस्मै नमः । वृद्धो वयसाधिकः तस्मै नमः । वर्धन्ते विद्याविनयादिगुणैस्ते वृद्धाः पण्डिताः क्विप तैः सह वर्तत इति सवृत् तस्मै नमः । जगतामग्रे भवोऽग्र्यस्तस्मै नमः । ‘अग्राद्यत्’ । सर्वत्र मुख्यः प्रथमस्तस्मै नमः ॥ ३० ॥
एकत्रिंशी।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- कुत्स ऋषिः
- विराडार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो गृहस्थ लोग (ह्रस्वाय) बालक (च) और (वामनाय) प्रशंसित ज्ञानी (च) तथा मध्यम विद्वान् को (नमः) अन्न देते हैं (बृहते) बड़े (च) और (वर्षीयसे) विद्या में अतिवृद्ध (च) तथा विद्यार्थी का (नमः) सत्कार (वृद्धाय) अवस्था में अधिक (च) और (सवृधे) अपने समानों के साथ बढ़नेवाले (च) तथा सब के मित्र का (नमः) सत्कार (च) और (अग्र्याय) सत्कर्म करने में सब से पहिले उद्यत होनेवाले (च) तथा (प्रथमाय) प्रसिद्ध पुरुष का (नमः) सत्कार करते हैं ॥३० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - गृहस्थ मनुष्यों को उचित है कि अन्नादि पदार्थों से बालक आदि का सत्कार करके अच्छे व्यवहार की उन्नति करें ॥३० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तदेवाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये गृहस्था मनुष्या ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च सवृधे च नमोऽग्र्याय च प्रथमाय नमश्च ददति कुर्वन्ति च ते सुखिनो भवन्ति ॥३० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - गृहस्थैर्मनुष्यैरन्नादिना बालकादीन् सत्कृत्य सद्व्यवहार उन्नेयः ॥३० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - गृहस्थांनी बालकांना अन्न द्यावे व त्यांच्याशी चांगला व्यवहार करावा. (ज्ञानी विद्वानांचा सत्कार करावा. )
३१ नमऽआशवे चाजिराय
विश्वास-प्रस्तुतिः ...{Loading}...
नम॑ऽआ॒शवे॑ चाजि॒राय॑ च॒ नमः॒ शीघ्र्या॑य च॒ शीभ्या॑य च॒ नम॒ऽऊर्म्या॑य चावस्व॒न्या᳖य च॒ नमो॑ नादे॒याय॑ च॒ द्वीप्या॑य च ॥३१ ॥
मूलम् ...{Loading}...
नम॑ऽआ॒शवे॑ चाजि॒राय॑ च॒ नमः॒ शीघ्र्या॑य च॒ शीभ्या॑य च॒ नम॒ऽऊर्म्या॑य चावस्व॒न्या᳖य च॒ नमो॑ नादे॒याय॑ च॒ द्वीप्या॑य च ॥३१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नमः॑। आ॒शवे॑। च॒। अ॒जि॒राय॑। च॒। नमः॑। शीघ्र्या॑य। च॒। शीभ्या॑य। च॒। नमः॑। ऊर्म्या॑य। च॒। अ॒व॒स्व॒न्या᳖येत्य॑वऽस्व॒न्या᳖य। च॒। नमः॑। ना॒दे॒याय॑। च॒। द्वीप्या॑य। च॒। ३१।
महीधरः
म० अश्नुते जगद्व्याप्नोतीत्याशुस्तस्मै नमः । अजति गच्छतीत्यजिरो गतिशीलस्तस्मै नमः । शीघे वेगवद्वस्तुनि भवः शीघ्र्यः । ‘तत्र भवः’ ( पा० ४ । ३ । ५३ ) इति यत्सर्वत्र । ‘शीभृ कत्थने’ शीभते कथ्यते इति शीभः आत्मश्लाघी पचाद्यच् तत्र भवः शीभ्यः । शीभो जलप्रवाहो वा शीभः क्षिप्रो वा तत्र भवाय नमः । ऊर्मिषु कल्लोलेषु भव ऊर्म्यः तस्मै नमः । अवगतः स्वनो यस्मात्तदवस्वनं स्थिरजलम् । यद्वा अव नीचैर्गर्तादौ स्वनोऽवस्वनस्तत्र भवाय । नद्यां भवो नादेयस्तस्मै नमः । ‘स्त्रीभ्यो ढक्’ (पा० ४ । १ । १२० ) । द्वीपे जलान्तर्वर्तिनिर्जलभूमौ भवो द्वीप्यस्तस्मै नमः ॥ ३१॥
द्वात्रिंशी।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- कुत्स ऋषिः
- स्वराडार्षी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब उद्योग कैसे करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो तुम लोग (आशवे) वायु के तुल्य मार्ग में शीघ्रगामी (च) और (अजिराय) असवारों को फेंकनेवाले घोड़े (च) तथा हाथी आदि को (नमः) अन्न (शीघ्र्याय) शीघ्र चलने में उत्तम (च) और (शीभ्याय) शीघ्रता करने हारों में प्रसिद्ध (च) तथा मध्यस्थ जन को (नमः) अन्न (ऊर्म्याय) जल-तरङ्गों में वायु के समान वर्त्तमान (च) और (अवस्वन्याय) अनुत्तम शब्दों में प्रसिद्ध होनेवाले के लिये (च) तथा दूर से सुनने हारे को (नमः) अन्न (नादेयाय) नदी में रहने (च) और (द्वीप्याय) जल के बीच टापू में रहने (च) तथा उनके सम्बन्धियों को (नमः) अन्न देते रहो तो आप लोगों को सम्पूर्ण आनन्द प्राप्त हों ॥३१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो क्रियाकौशल से बनाये विमानादि यानों और घोड़ों से शीघ्र चलते हैं, वे किस-किस द्वीप वा देश को न जाके राज्य के लिये धन को नहीं प्राप्त होते? किन्तु सर्वत्र जा आ के सब को प्राप्त होते हैं ॥३१ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथोद्योगः कथं कार्य इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यदि यूयमाशवे चाजिराय च नमः शीघ्र्याय शीभ्याय च नमश्चोर्म्याय चावस्वन्याय च नमो नादेयाय च द्वीप्याय च नमो दत्त तर्हि भवन्तोऽखिलानन्दान् प्राप्नुत ॥३१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये क्रियाकौशलेन रचितैर्विमानादियानैरश्वादिभिश्च शीघ्रं गतिमन्तः सन्ति, ते कं कं द्वीपं देशं वाऽगत्वा राज्याय धनं च नाप्नुवन्ति? किन्तु सर्वत्र गत्वा सर्वमाप्नुवन्ति ॥३१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे लोक कौशल्याने उत्तम विमान वगैरे यानांच्या साह्याने व घोड्यांच्या वेगाने शीघ्र जातात ते केवळ परदेशी जाऊन राज्यासाठी धन गोळा करत नाहीत, तर सर्वत्र संचार करून सर्वांशी संपर्क ठेवतात.
३२ नमो ज्येष्ठाय
विश्वास-प्रस्तुतिः ...{Loading}...
नमो॑ ज्ये॒ष्ठाय॑ च कनि॒ष्ठाय॑ च॒ नमः॑ पूर्व॒जाय॑ चापर॒जाय॑ च॒ नमो॑ मध्य॒माय॑ चापग॒ल्भाय॑ च॒ नमो॑ जघ॒न्या᳖य च बु॒ध्न्या᳖य च ॥३२ ॥
मूलम् ...{Loading}...
नमो॑ ज्ये॒ष्ठाय॑ च कनि॒ष्ठाय॑ च॒ नमः॑ पूर्व॒जाय॑ चापर॒जाय॑ च॒ नमो॑ मध्य॒माय॑ चापग॒ल्भाय॑ च॒ नमो॑ जघ॒न्या᳖य च बु॒ध्न्या᳖य च ॥३२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नमः॑। ज्ये॒ष्ठाय॑। च॒। क॒नि॒ष्ठाय॑। च॒। नमः॑। पू॒र्व॒जायेति॑ पूर्व॒ऽजाय॑। च॒। अ॒प॒र॒जायेत्य॑पर॒ऽजाय॑। च॒। नमः॑। म॒ध्य॒माय॑। च॒। अ॒प॒ग॒ल्भायेत्य॑पऽग॒ल्भाय॑। च॒। नमः॑। ज॒घ॒न्या᳖य। च॒। बु॒ध्न्या᳖य। च॒। ३२।
महीधरः
म० वयोवस्थाविशेषाभिधायकाः षट् नमस्काराः । अत्यन्तं प्रशस्यो ज्येष्ठस्तस्मै नमः । ‘ज्य च’ (पा० ५। ३।६१) इति प्रशस्यशब्दस्येष्ठनि ज्यादेशः । अत्यन्तं युवाल्पो वा कनिष्ठस्तस्मै नमः । ‘युवाल्पयोः कनन्यतरस्याम्’ ( पा० ५ । ३ । ६४ ) इति कनादेशः । पूर्व जगदादौ हिरण्यगर्भरूपेणोत्पन्नः पूर्वजस्तस्मै नमः । अपरस्मिन् काले प्रलये कालाग्निरूपेण जातोऽपरजस्तस्मै नमः । मध्ये सृष्टिसंहारान्तर्देवतिर्यगादिरूपेण भवो मध्यमस्तस्मै नमः ‘मध्यान्मः’ । ‘गल्भ धार्ष्ट्ये’ गल्भनं गल्भो धार्ष्ट्यम् । अपगतो गल्भो यस्मात्सोऽपगल्भोऽप्रगल्भोऽऽव्युत्पन्नेन्द्रियस्तद्रूपाय नमः । एकगर्भान्तरितोऽपगल्भो वा जघनं गवादीनां पश्चाद्भागस्तत्र भवो जघन्यस्तस्मै नमः । बुध्ने वृक्षादिमूले भवो बुध्न्यस्तस्मै नमः ॥ ३२ ॥
त्रयस्त्रिंशी।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- कुत्स ऋषिः
- स्वराडार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्य लोग परस्पर कैसे सत्कार करनेवाले हों, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोग (ज्येष्ठाय) अत्यन्त वृद्धों (च) और (कनिष्ठाय) अति बालकों को (नमः) सत्कार और अन्न (च) तथा (पूर्वजाय) ज्येष्ठभ्राता वा ब्राह्मण (च) और (अपरजाय) छोटे भाई वा नीच का (च) भी (नमः) सत्कार वा अन्न (मध्यमाय) बन्धु, क्षत्रिय वा वैश्य (च) और (अपगल्भाय) ढीठपन छोड़े हुए सरल स्वभाववाले (च) इन सब का (नमः) सत्कार आदि (च) और (जघन्याय) नीचकर्मकर्त्ता शूद्र वा म्लेच्छ (च) तथा (बुध्न्याय) अन्तरिक्ष में हुए मेघ के तुल्य वर्त्तमान दाता पुरुष का (नमः) अन्नादि से सत्कार करो ॥३२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - परस्पर मिलते समय सत्कार करना हो तब (नमस्ते) इस वाक्य का उच्चारण करके छोटे बड़ों, बड़े छोटों, नीच उत्तमों, उत्तम नीचों और क्षत्रियादि ब्राह्मणों वा ब्राह्मणादि क्षत्रियादिकों का निरन्तर सत्कार करें। सब लोग इसी वेदोक्त प्रमाण से सर्वत्र शिष्टाचार में इसी वाक्य का प्रयोग करके परस्पर एक-दूसरे का सत्कार करने से प्रसन्न होवें ॥३२ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्याः परस्परं कथं सत्कृता भवेयुरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यूयं ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुध्न्याय च नमो दत्त ॥३२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सत्कारे कर्त्तव्य नमस्त इति वाक्योच्चारणेन कनिष्ठैर्ज्येष्ठा ज्येष्ठैः कनिष्ठा नीचैरुत्तमा उत्तमैर्नीचाः क्षत्रियाद्यैर्ब्राह्मणा ब्राह्मणाद्यैः क्षत्रियाद्याश्च सततं सत्कर्त्तव्याः। एतेनैव वेदोक्तप्रमाणेन शिष्टाचारे सर्वत्र सर्वैरेतद्वाक्यं सम्प्रयोज्यान्योन्येषां सत्करणात् प्रसन्नैर्भवितव्यम् ॥३२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - परस्परांना भेटताना ‘नमस्ते’ या वाक्याचे उच्चारण करून छोटे, मोठे, क्षुद्र, उत्तम, ब्राह्मण, क्षत्रिय वगैरेंचा सदैव मान राखावा. सर्व लोकांनी याच वेदोक्त पद्धतीने शिष्टाचार पाळावा व याच वाक्याचा प्रयोग करून परस्परांविषयी आदर व्यक्त करून प्रसन्न व्हावे.
३३ नमः सोभ्याय
विश्वास-प्रस्तुतिः ...{Loading}...
नमः॒ सोभ्या॑य च प्रतिस॒र्या᳖य च॒ नमो॒ याम्या॑य च॒ क्षेम्या॑य च॒ नमः॒ श्लोक्या॑य चावसा॒न्या᳖य च॒ नम॑ऽउर्व॒र्या᳖य च॒ खल्या॑य च ॥३३ ॥
मूलम् ...{Loading}...
नमः॒ सोभ्या॑य च प्रतिस॒र्या᳖य च॒ नमो॒ याम्या॑य च॒ क्षेम्या॑य च॒ नमः॒ श्लोक्या॑य चावसा॒न्या᳖य च॒ नम॑ऽउर्व॒र्या᳖य च॒ खल्या॑य च ॥३३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नमः॑। सोभ्या॑य। च॒। प्र॒तिस॒र्या᳖येति॑ प्रतिऽस॒र्या᳖य। च॒। नमः॑। याम्या॑य। च॒। क्षेम्या॑य। च॒। नमः॑। श्लोक्या॑य। च॒। अ॒व॒सा॒न्या᳖येत्य॑वऽसा॒न्या᳖य। च॒। नमः॑। उ॒र्व॒र्या᳖य। च॒। खल्या॑य। च॒। ३३।
महीधरः
म० सोभं गन्धर्वनगरं तत्र भवः सोभ्यः । यद्वा उभाभ्यां पुण्यपापाभ्यां सहितः सोभो मनुष्यलोकः । ‘पुण्येन पुण्यं लोकं नयति पापेन पापमुभाभ्यां मनुष्यलोकं’ (प्रश्नो० १) इत्याथर्वणश्रुतेः । तत्र भवः सोभ्यस्तस्मै नमः । प्रतिसरो विवाहोचितं हस्तसूत्रमभिचारो वा तत्र भवः प्रतिसर्यः तस्मै नमः । ‘आहुः प्रतिसरं हस्तसूत्रे माल्यस्य मण्डने । व्रणशुद्धौ चमूपृष्ठे नियोज्यारक्षके तथा । कर्णेथ मन्त्रभेदेऽपि’ इति विश्वः । यमे भवो याम्यः पापिनां नरकार्तिदाता तस्मै नमः । क्षेमे कुशले भवः क्षेम्यस्तस्मै नमः । श्लोका वैदिकमन्त्रा यशो वा तत्र भवः श्लोक्यस्तस्मै नमः । अवसानं समाप्तिर्वेदान्तो वा तत्र भवोऽवसान्यस्तस्मै नमः । उर्वरा सर्वसस्याढ्या भूः तत्र धान्यरूपेण भव उर्वर्यस्तस्मै नमः । खलो धान्य विवेचनदेशः तत्र भवः खल्यस्तस्मै नमः । ‘खलः कल्के भुवि धान्ये पूरे कर्णे जयेऽधमे’ इत्युक्तेः ॥ ३३ ॥
चतुस्त्रिंशी।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- कुत्स ऋषिः
- आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (सोभ्याय) ऐश्वर्ययुक्तों में प्रसिद्ध (च) और (प्रतिसर्याय) धर्मात्माओं में उत्पन्न हुए (च) तथा धनी धर्मात्माओं को (नमः) अन्न दे (याम्याय) न्यायकारियों में उत्तम (च) और (क्षेम्याय) रक्षा करनेवालों में चतुर (च) और न्यायाधीशादि को (नमः) अन्न दे और (श्लोक्याय) वेदवाणी में प्रवीण (च) और (अवसान्याय) कार्यसमाप्तिव्यवहार में कुशल (च) तथा आरम्भ करने में उत्तम पुरुष का (नमः) सत्कार (उर्वर्याय) महान् पुरुषों के स्वामी (च) और (खल्याय) अच्छे अन्नादि पदार्थों के सञ्चय करने में प्रवीण (च) और व्यय करने में विचक्षण पुरुष का (नमः) सत्कार करके इन सब को आप लोग आनन्दित करो ॥३३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में अनेक चकारों से और भी उपयोगी अर्थ लेना और सत्कार करना चाहिये। प्रजास्थ पुरुष न्यायाधीशों, न्यायाधीश प्रजास्थों का सत्कार, पति आदि स्त्री आदि की और स्त्री आदि पति आदि पुरुषों की प्रसन्नता करें ॥३३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः श्लोक्याय चावसान्याय च नम उर्वर्याय च खल्याय च नमः प्रयोज्य दत्त्वा चैतान् भवन्त आनन्दयन्तु ॥३३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रानेकैश्चकारैरन्येप्युपयोगिनोऽर्थाः संग्राह्याः सत्कर्त्तव्याश्च। प्रजास्थैर्न्यायाधीशादीनां न्यायाधीशाद्यैः प्रजास्थानां च सत्कारः पत्याद्यैर्भार्य्याद्या भार्य्याद्यैः पत्यादयश्च प्रसादनीयाः ॥३३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात अनेक चकार आल्यामुळे अधिक उपयुक्त असा अर्थ घ्यावा. प्रजेने न्यायाधीशांचा व न्यायाधीशांनी प्रजेचा सन्मान करावा. (अनेक कुशल लोकांचाही सत्कार करावा) पतीने पत्नीला व पत्नीने पतीला प्रसन्न करावे.
३४ नमो वन्याय
विश्वास-प्रस्तुतिः ...{Loading}...
नमो॒ वन्या॑य च॒ कक्ष्या॑य च॒ नमः॑ श्र॒वाय॑ च प्रतिश्र॒वाय॑ च॒ नम॑ऽआ॒शुषे॑णाय चा॒शुर॑थाय च॒ नमः॒ शूरा॑य चावभे॒दिने॑ च ॥३४ ॥
मूलम् ...{Loading}...
नमो॒ वन्या॑य च॒ कक्ष्या॑य च॒ नमः॑ श्र॒वाय॑ च प्रतिश्र॒वाय॑ च॒ नम॑ऽआ॒शुषे॑णाय चा॒शुर॑थाय च॒ नमः॒ शूरा॑य चावभे॒दिने॑ च ॥३४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नमः॑। वन्या॑य। च॒। कक्ष्या॑य। च॒। नमः॑। श्र॒वाय॑। च॒। प्र॒ति॒श्र॒वायेति॑ प्रतिऽश्र॒वाय॑। च॒। नमः॑। आ॒शुषे॑णाय। आ॒शुसे॑ना॒येत्या॒शुऽसेना॑य। च॒। आ॒शुर॑था॒येत्या॒शुऽर॑थाय। च॒। नमः॑। शूरा॑य। च॒। अ॒व॒भे॒दिन॒ इत्य॑वऽभे॒दिने॑। च॒। ३४।
महीधरः
म० वने वृक्षादिरूपेण भवो वन्यस्तस्मै नमः । वनं वृक्षौघो जलं वा । ‘वनं प्रस्रवणे गेहे प्रवासेऽम्भसि कानने’ । कक्षं तृणं वल्ली वा तत्र भवः कश्यस्तस्मै नमः । ‘कक्षो वीरुधि दोर्मूले कच्छे शुष्कवने तृणे’ । श्रूयत इति श्रवः शब्दस्तद्रूपाय नमः । प्रतिश्रवः प्रतिशब्दस्तद्रूपाय नमः । आशुः शीघ्रा सेना यस्य स आशुषेणः तस्मै नमः । आशु शीघ्रो रथो यस्यासावाशुरथस्तस्मै नमः । शूराय युद्धधीराय नमः । अवभिनत्ति रिपून्नीचैर्विदारयतीत्यवभेदी तस्मै नमः ॥ ३४ ॥
पञ्चत्रिंशी।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- प्रजापतिर्ऋषिः
- स्वराडार्षी त्रिष्टुप्
- धैवतः
३५ नमो बिल्मिने
विश्वास-प्रस्तुतिः ...{Loading}...
नमो॑ बि॒ल्मिने॑ च॒ कव॒चिने॑ च॒ नमो॑ व॒र्मिणे॑ च वरू॒थिने॑ च॒ नमः॑ श्रु॒ताय॑ च श्रुतसे॒नाय॑ च॒ नमो॑ दुन्दु॒भ्या᳖य चाहन॒न्या᳖य च ॥३५ ॥
मूलम् ...{Loading}...
नमो॑ बि॒ल्मिने॑ च॒ कव॒चिने॑ च॒ नमो॑ व॒र्मिणे॑ च वरू॒थिने॑ च॒ नमः॑ श्रु॒ताय॑ च श्रुतसे॒नाय॑ च॒ नमो॑ दुन्दु॒भ्या᳖य चाहन॒न्या᳖य च ॥३५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नमः॑। बि॒ल्मिने॑। च॒। क॒व॒चिने॑। च॒। नमः॑। व॒र्मिणे॑। च॒। व॒रू॒थिने॑। च॒। नमः॑। श्रु॒ताय॑। च॒। श्रु॒त॒से॒नायेति॑ श्रुतऽसे॒नाय॑। च॒। नमः॑। दु॒न्दु॒भ्या᳖य। च॒। आ॒ह॒न॒न्या᳖येत्याऽहन॒न्या᳖य। च॒। ३५।
महीधरः
म० बिल्मं शिरस्त्राणमस्यास्तीति बिल्मी तस्मै नमः । पटस्यूतं कर्पासगर्भं देहरक्षकं कवचं तदस्यास्तीति कवची तस्मै नमः । लोहमयं शरीररक्षकं वर्म तदस्यास्तीति वर्मी तस्मै नमः । गजोपरिस्थो गजाकारः कोष्ठो वरूथः रथगुप्तिर्वा सोऽस्यास्ति वरूथी तस्मै नमः । ‘वरूथं तु तनुत्राणे रथगोपनवेश्मनोः’ । श्रुताय प्रसिद्धाय नमः । श्रुता प्रसिद्धा सेना यस्य स श्रुतसेनः तस्मै । दुन्दुभौ भेर्यां भवो दुन्दुभ्यः तस्मै । ‘दुन्दुभिस्तु भेर्यां दितिसुते विषे’ । आहन्यते ताड्यतेऽनेनेत्याहननं वाद्यसाधनं दण्डादि तत्र भव आहनन्यः तस्मै ॥ ३५॥
षट्त्रिंशी।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- कुत्स ऋषिः
- स्वराडार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
योद्धाओं की रक्षा कैसे करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् और प्रजा के अध्यक्ष पुरुषो ! आप लोग (बिल्मिने) प्रशंसित धारण वा पोषण करने (च) और (कवचिने) शरीर के रक्षक कवच को धारण करने (च) तथा उन के सहायकारियों का (नमः) सत्कार करें (वर्मिणे) शरीररक्षा के बहुत साधनों से युक्त (च) और (वरूथिने) प्रशंसित घरोंवाले (च) तथा घर आदि के रक्षकों को (नमः) अन्नादि देवें (श्रुताय) शुभ गुणों में प्रख्यात (च) और (श्रुतसेनाय) प्रख्यात सेनावाले (च) तथा सेनाओं का (नमः) सत्कार (च) और (दुन्दुभ्याय) बाजे बजाने में चतुर बजन्तरी (च) तथा (आहनन्याय) वीरों को युद्ध में उत्साह बढ़ने के बाजे बजाने में कुशल पुरुष का (नमः) सत्कार कीजिये जिससे तुम्हारा पराजय कभी न हो ॥३५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजा और प्रजा के पुरुषों को चाहिये कि योद्धा लोगों की सब प्रकार रक्षा, सब के सुखदायी घर, खाने-पीने के योग्य पदार्थ, प्रशंसित पुरुषों का संग और अत्युत्तम बाजे आदि दे के अपने अभीष्ट कार्यों को सिद्ध करें ॥३५ ॥
दयानन्द-सरस्वती (सं) - विषयः
योद्धॄणां रक्षा कथं कार्येत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे राजप्रजाजनाध्यक्षाः ! भवन्तो बिल्मिने च कवचिने च नमो वर्मिणे च वरूथिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय चाहनन्याय च नमः कुर्युर्दद्युर्यतो युष्माकं पराजयः कदापि न स्यात् ॥३५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - राजप्रजाजनैर्योद्धॄणां सर्वतो रक्षा, सर्वतः सुखप्रदानि गृहाणि, भोज्यपेयानि वस्तूनि, प्रशंसितजनानां सङ्गोऽत्युत्तमानि वादित्राणि च दत्त्वा स्वाभीष्टानि साधनीयानि ॥३५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजा व प्रजा यांनी योद्ध्यांचे सर्व प्रकारे रक्षण करावे. सर्वांना सुखकारक घरे, खाण्यापिण्याचे पदार्थ, चांगल्या माणसांची संगती व वाद्यवृंद इत्यादीनी देऊन आपले अभीष्ट कार्य सिद्ध करावे.
३६ नमो धृष्णवे
विश्वास-प्रस्तुतिः ...{Loading}...
नमो॑ धृ॒ष्णवे॑ च प्रमृ॒शाय॑ च॒ नमो॑ निष॒ङ्गिणे॑ चेषुधि॒मते॑ च॒ नम॑स्ती॒क्ष्णेष॑वे चायु॒धिने॑ च॒ नमः॑ स्वायु॒धाय॑ च सु॒धन्व॑ने च ॥३६ ॥
मूलम् ...{Loading}...
नमो॑ धृ॒ष्णवे॑ च प्रमृ॒शाय॑ च॒ नमो॑ निष॒ङ्गिणे॑ चेषुधि॒मते॑ च॒ नम॑स्ती॒क्ष्णेष॑वे चायु॒धिने॑ च॒ नमः॑ स्वायु॒धाय॑ च सु॒धन्व॑ने च ॥३६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नमः॑। धृ॒ष्णवे॑। च॒। प्र॒मृ॒शायेति॑ प्रऽमृ॒शाय॑। च॒। नमः॑। नि॒ष॒ङ्गिणे॑। च॒। इ॒षु॒धि॒मत॒ इती॑षुधि॒ऽमते॑। च॒। नमः॑। ती॒क्ष्णेष॑व॒ इति॑ ती॒क्ष्णऽइ॑षवे। च॒। आ॒यु॒धिने॑। च॒। नमः॑। स्वा॒यु॒धायेति॑ सुऽआ॒यु॒धाय॑। च॒। सु॒धन्व॑न॒ इति॑ सुऽधन्व॑ने। च॒। ३६।
महीधरः
म० धृष्णोतीत्येवंशीलो धृष्णुः प्रगल्भः तस्मै । प्रमृशति विचारयति प्रमृशः पण्डितः तस्मै । ‘इगुपध-’ (पा० ३ । । १ । १३५) इति कः । निषङ्गिणे खड्गयुताय नमः । इषुधिमते तूणयुताय नमः । तीक्ष्णा असह्या इषवो बाणा यस्य । सः तीक्ष्णेषुः तस्मै । आयुधान्यन्यान्यपि सन्तीति आयुधी तस्मै । शोभनमायुधं त्रिशूलं यस्य स स्वायुध तस्मै । शोभनं धनुः पिनाकं यस्य स सुधन्वा तस्मै ॥ ३६ ॥
सप्तत्रिंशी।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- कुत्स ऋषिः
- स्वराडार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो राजा और प्रजा के अधिकारी लोग (धृष्णवे) दृढ़ (च) और (प्रमृशाय) उत्तम विचारशील (च) तथा कोमल स्वभाववाले पुरुष को (नमः) अन्न देवें (निषङ्गिणे) बहुत शस्त्रोंवाले (च) और (इषुधिमते) प्रशंसित शस्त्र, अस्त्र और कोशवाले का (च) भी (नमः) सत्कार और (तीक्ष्णेषवे) तीक्ष्ण शस्त्र-अस्त्रों से युक्त (च) और (आयुधिने) अच्छे प्रकार तोप आदि से लड़नेवाले वीरों से युक्त अध्यक्ष पुरुष का (च) भी (नमः) सत्कार करें (स्वायुधाय) सुन्दर आयुधोंवाले (च) और (सुधन्वने) अच्छे धनुषों से युक्त (च) तथा उनके रक्षकों को (नमः) अन्न देवें, वे सदा विजय को प्राप्त होवें ॥३६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि जो कुछ कर्म करें सो अच्छे प्रकार विचार और दृढ़ उत्साह से करें, क्योंकि शरीर और आत्मा के बल के बिना शस्त्रों को चलाना और शत्रुओं का जीतना कभी नहीं कर सकते। इसलिये निरन्तर सेना की उन्नति करें ॥३६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये राजप्रजाजनाध्यक्षा धृष्णवे च प्रमृशाय च नमो निषङ्गिणे चेषुधिमते च नमस्तीक्ष्णेषवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः प्रदद्युः कुर्युश्च ते सदा विजयिनो भवन्तु ॥३६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्यत्किंचित्कर्म कार्य्यं तत्सुविचारेण दृढोत्साहेनेति, नहि शरीरत्मबलमन्तरेण शस्त्रप्रहरणं शत्रुविजयश्च कर्त्तुं शक्यते, तस्मात् सततं सेना वर्द्धनीया ॥३६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी दृढ उत्साहाने चांगल्या प्रकारे विचार करून कर्म करावे. कारण शरीर व आत्मा यांच्या शक्तीखेरीज शस्त्रे चालविणे व शत्रूंना जिंकणे कधी शक्य होत नाही. त्यासाठी सदैव सैन्याला प्रोत्साहित करावे.
३७ नमः स्रुत्याय
विश्वास-प्रस्तुतिः ...{Loading}...
नमः॒ स्रुत्या॑य च॒ पथ्या॑य च॒ नमः॒ काट्या॑य च॒ नीप्या॑य च॒ नमः॒ कुल्या॑य च सर॒स्या᳖य च॒ नमो॑ नादे॒या॑य च वैश॒न्ताय॑ च ॥३७ ॥
मूलम् ...{Loading}...
नमः॒ स्रुत्या॑य च॒ पथ्या॑य च॒ नमः॒ काट्या॑य च॒ नीप्या॑य च॒ नमः॒ कुल्या॑य च सर॒स्या᳖य च॒ नमो॑ नादे॒या॑य च वैश॒न्ताय॑ च ॥३७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नमः॑। स्रुत्या॑य। च॒। पथ्या॑य। च॒। नमः॑। काट्या॑य। च॒। नीप्या॑य। च॒। नमः॑। कुल्या॑य। च॒। स॒र॒स्या᳖य। च॒। नमः॑। ना॒दे॒याय॑। च॒। वै॒श॒न्ताय॑। च॒। ३७।
महीधरः
म० स्रुतिः क्षुद्रः क्षुद्रमार्गो वा तत्र भवः स्रुत्यः तस्मै । पन्था रथाश्वादियोग्यो मार्गस्तत्र भवः पथ्यः तस्मै । कुत्सितमटति जनो यत्रेति काटो विषममार्गः तत्र भवः काट्यः तस्मै । काटः कुल्याप्रदेशो वा । नीचैः पतन्त्यापो यत्रेति नीपो गिर्यधोभागः । ‘ऋक्पूरब्धूःपथाम्-’ (पा० ५। ४ । ७४) इत्यप्रत्ययः ‘द्व्यन्तरुपसर्गेभ्योऽप ईत्’ (पा० ६ । ३ । ९७) इत्यप्शब्दस्येकारः तत्र भवो नीप्यः तस्मै । कुल्या कृत्रिमा सरित्तत्र भवः कुल्यः, कुलेषु देहेषु वान्तर्यामिरूपेण भवः कुल्यः तस्मै । ‘कुलं देहेऽन्वये गणे’ । सरसि भवः सरस्यः तस्मै । नद्यां भवो नादेयः तस्मै नदीजलरूपाय नमः । वेशन्तोऽल्पसरः तत्र भवो वैशन्तः तस्मै ॥ ३७ ॥
अष्टत्रिंशी।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- कुत्स ऋषिः
- निचृदार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्य लोग जल से कैसे उपकार लेवें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - मनुष्यों को चाहिये कि (स्रुत्याय) स्रोता नाले आदि में रहने (च) और (पथ्याय) मार्ग में चलने (च) तथा मार्गादि को शोधनेवाले को (नमः) अन्न दे (काट्याय) कूप आदि में प्रसिद्ध (च) और (नीप्याय) बड़े जलाशय में होने (च) तथा उसके सहायी का (नमः) सत्कार (कुल्याय) नहरों का प्रबन्ध करने (च) और (सरस्याय) तालाब के काम में प्रसिद्ध होनेवाले का (नमः) सत्कार (च) और (नादेयाय) नदियों के तट पर रहने (च) और (वैशन्ताय) छोटे-छोटे जलाशयों के जीवों को (च) और वापी आदि के प्राणियों को (नमः) अन्नादि देके दया प्रकाशित करें ॥३७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि नदियों के मार्गों, बंबों, कूपों, जलप्राय देशों, बड़े और छोटे तालाबों के जल को चला, जहाँ-कहीं बाँध और खेत आदि में छोड़ के, पुष्कल अन्न, फल, वृक्ष, लता, गुल्म आदि को अच्छे प्रकार बढ़ावें ॥३७ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यैरुदकेन कथमुपकर्त्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - मनुष्यैः स्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः कुल्याय च सरस्याय नमश्च नादेयाय च वैशन्ताय च नमो दत्त्वा दया प्रकाशनीया ॥३७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैः स्रोतसां मार्गाणां कूपानां जलप्रायदेशानां महदल्पसरसां च जलं चालयित्वा यत्र कुत्र बद्ध्वा क्षेत्रादिषु पुष्कलान्यन्नफलवृक्षलतागुल्मादीनि संवर्धनीयानि ॥३७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी नद्या, कालवे, विहिरी व तलाव यांचे जल व जलीय प्रदेशातील जल शेती व बांध इत्यादीमध्ये सोडावे व पुष्कळ अन्न, फळे, वृक्ष, लता, खोड इत्यादी चांगल्या प्रकारे वाढवावीत.
३८ नमः कूप्याय
विश्वास-प्रस्तुतिः ...{Loading}...
नमः॒ कूप्या॑य चाव॒ट्या᳖य च॒ नमो॒ वीध्र्या॑य चात॒प्या᳖य च॒ नमो॒ मेघ्या॑य च विद्यु॒त्या᳖य च॒ नमो॒ वर्ष्या॑य चाव॒र्ष्याय॑ च ॥३८ ॥
मूलम् ...{Loading}...
नमः॒ कूप्या॑य चाव॒ट्या᳖य च॒ नमो॒ वीध्र्या॑य चात॒प्या᳖य च॒ नमो॒ मेघ्या॑य च विद्यु॒त्या᳖य च॒ नमो॒ वर्ष्या॑य चाव॒र्ष्याय॑ च ॥३८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नमः॑। कूप्या॑य। च॒। अ॒व॒ट्या᳖य। च॒। नमः॑। वीध्र्या॒येति॑ वि॒ऽईध्र्या॑य। च॒। आ॒त॒प्या᳖येत्याऽत॒प्या᳖य। च॒। नमः॑। मेघ्या॑य। च॒। वि॒द्यु॒त्या᳖येति॑ विऽद्यु॒त्या᳖य। च॒। नमः॑। वर्ष्या॑य। च॒। अ॒व॒र्ष्याय॑। च॒। ३८।
महीधरः
म० कूपे भवः कूप्यः तस्मै । अवटो गर्तस्तत्र भवोऽवट्यः तस्मै । ‘इन्धी दीप्तौ’ विशेषेण इध्रं वीध्रं निर्मलं शरदभ्रं तत्र भवो वीध्र्यः । यद्वा विगत इध्रो दीप्तिर्यस्मात्स वीध्रो घनागमः तत्र भवाय नमः । आतपे भव आतप्यः तस्मै । मेघे भवो मेघ्यः तस्मै । विद्युति भवो विद्युत्यः तस्मै । वर्षे वृष्ट्यां भवो वर्ष्यः तस्मै । अवर्षे वृष्टिप्रतिबन्धे भवोऽवर्ष्यः तस्मै ॥ ३८ ॥
एकोनचत्वारिंशी।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- कुत्स ऋषिः
- भुरिगार्षी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - मनुष्य लोग (कूप्याय) कूप के (च) और (अवट्याय) गड्ढों (च) तथा जङ्गलों के जीवों को (नमः) अन्नादि दे (च) और (वीध्र्याय) विविध प्रकाशों में रहने (च) और (आतप्याय) घाम में रहनेवाले वा (च) खेती आदि के प्रबन्ध करनेवाले को (नमः) अन्न दे (मेघ्याय) मेघ में रहने (च) और (विद्युत्याय) बिजुली से काम लेनेवाले को (च) तथा अग्निविद्या के जाननेवाले को (नमः) अन्नादि दे (च) और (वर्ष्याय) वर्षा में रहने (च) तथा (अवर्ष्याय) वर्षारहित देश में वसनेवाले का (नमः) सत्कार करके आनन्दित होवें ॥३८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य कूपादि से कार्यसिद्धि होने के लिये भृत्यों का सत्कार करें तो अनेक उत्तम-उत्तम कार्यों को सिद्ध कर सकें ॥३८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - मनुष्याः कूप्याय चावट्याय च नमो वीध्र्याय चातप्याय च नमो मेघ्याय च विद्युत्याय च नमो वर्ष्याय चावर्ष्याय च नमो दत्त्वा कृत्वा चानन्दन्तु ॥३८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदि मनुष्याः कूपादिभ्यः कार्यसिद्धये भृत्यान् सत्कुर्युस्तर्ह्यनेकान्युत्तमानि कार्याणि कर्त्तुं शक्नुयुः ॥३८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे विहिरी इत्यादींचे बांधकाम करणाऱ्या नोकरांचा सत्कार करतात ती अनेक चांगली कामे करू शकतात.
३९ नमो वात्याय
विश्वास-प्रस्तुतिः ...{Loading}...
नमो॒ वात्या॑य च॒ रेष्म्या॑य च॒ नमो॑ वास्त॒व्या᳖य च वास्तु॒पाय॑ च॒ नमः॒ सोमा॑य च रु॒द्राय॑ च॒ नम॑स्ता॒म्राय॑ चारु॒णाय॑ च ॥३९ ॥
मूलम् ...{Loading}...
नमो॒ वात्या॑य च॒ रेष्म्या॑य च॒ नमो॑ वास्त॒व्या᳖य च वास्तु॒पाय॑ च॒ नमः॒ सोमा॑य च रु॒द्राय॑ च॒ नम॑स्ता॒म्राय॑ चारु॒णाय॑ च ॥३९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नमः॑। वात्या॑य। च॒। रेष्म्या॑य। च॒। नमः॑। वा॒स्त॒व्या᳖य। च॒। वा॒स्तु॒पायेति॑ वास्तु॒ऽपाय॑। च॒। नमः॑। सोमा॑य। च॒। रु॒द्राय॑। च॒। नमः॑। ता॒म्राय॑। च॒। अ॒रु॒णाय॑। च॒। ३९।
महीधरः
म० वाते भवो वात्यः तस्मै । रिष्यन्ते नश्यन्ति भूतान्यत्रेति रेष्मा प्रलयकालः । ‘अन्येभ्योऽपि दृश्यन्ते’ (पा० ३। २ । ७५) इति मनिन् । तत्र भवो रेष्म्यः । प्रलयेऽपि विद्यमानायेत्यर्थः । वास्तुनि गृहभुवि भवो वास्तव्यः तस्मै । ‘वेश्मभूर्वास्तुरस्त्रियाम्’ । वास्तुं गृहभुवं पाति वास्तुपः तस्मै । उमया सहितः सोमः तस्मै । रुत् दुःखं द्रावयति रुद्रो दुःखनाशकः तस्मै । ताम्रो रक्तवर्णः उदयद्रविरूपेण तस्मै । अरुण ईषद्रक्त उदयोत्तरकालीनार्करूपेण ॥ ३९ ॥
चत्वारिंशी।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- कुत्स ऋषिः
- स्वराडार्षी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब मनुष्य जगत् के अन्य पदार्थों से कैसे उपकार लेवें, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो मनुष्या (वात्याय) वायुविद्या में कुशल (च) और (रेष्म्याय) मारनेवालों में प्रसिद्ध को (च) भी (नमः) अन्नादि देवें (च) तथा (वास्तव्याय) निवास के स्थानों में हुए (च) और (वास्तुपाय) निवासस्थान के रक्षक का (नमः) सत्कार करें (च) तथा (सोमाय) धनाढ्य (च) और (रुद्राय) दुष्टों को रोदन कराने हारे को (नमः) अन्नादि देवें (च) तथा (ताम्राय) बुरे कामों से ग्लानि करने (च) और (अरुणाय) अच्छे पदार्थों को प्राप्त कराने हारे का (नमः) सत्कार करें, वे लक्ष्मी से सम्पन्न होवें ॥३९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जब मनुष्य वायु आदि के गुणों को जान के व्यवहारों में लगावें, तब अनेक सुखों को प्राप्त हों ॥३९ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ मनुष्यैरन्येभ्यो जगत्स्थपदार्थेभ्यः कथमुपकारो ग्राह्य इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये मनुष्या वात्याय च रेष्म्याय च नमो वास्तव्याय च वास्तुपाय च नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च नमो विदध्युस्ते श्रिया सम्पन्नाः स्युः ॥३९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदा मनुष्या वाय्वादिगुणान् विदित्वा व्यवहारेषु संप्रयुञ्जीरंस्तदानेकानि सुखानि लभेरन् ॥३९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जेव्हा माणूस वायू इत्यादींचे गुण जाणून व्यवहारात त्यांचा उपयोग करतो तेव्हा अनेक प्रकारचे सुख त्याला प्राप्त होते.
४० नमः शङ्गवे
विश्वास-प्रस्तुतिः ...{Loading}...
नमः॑ श॒ङ्गवे॑ च पशु॒पत॑ये च॒ नम॑ उ॒ग्राय॑ च भी॒माय॑ च॒ नमो॑ऽग्रेव॒धाय॑ च दूरेव॒धाय॑ च॒ नमो॑ ह॒न्त्रे च॒ हनी॑यसे च॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यो॒ नम॑स्ता॒राय॑ ॥४० ॥
मूलम् ...{Loading}...
नमः॑ श॒ङ्गवे॑ च पशु॒पत॑ये च॒ नम॑ उ॒ग्राय॑ च भी॒माय॑ च॒ नमो॑ऽग्रेव॒धाय॑ च दूरेव॒धाय॑ च॒ नमो॑ ह॒न्त्रे च॒ हनी॑यसे च॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यो॒ नम॑स्ता॒राय॑ ॥४० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नमः॑। श॒ङ्गव॒ इति॑ श॒म्ऽगवे॑। च॒। प॒शु॒पत॑य इति॑ प॒शु॒ऽपत॑ये। च॒। नमः॑। उ॒ग्राय॑। च॒। भी॒माय॑। च॒। नमः॑। अ॒ग्रे॒व॒धायेत्य॑ग्रेऽव॒धाय॑। च॒। दू॒रे॒व॒धायेति॑ दूरेऽव॒धाय॑। च॒। नमः॑। ह॒न्त्रे। च॒। हनी॑यसे। च॒। नमः॑। वृ॒क्षेभ्यः॑। हरि॑केशेभ्य इति॒ हरि॑ऽकेशेभ्यः। नमः॑। ता॒राय॑। ४०।
महीधरः
म० शं सुखं गमयति प्रापयति शङ्गुः, शं सुखरूपा गावो वाचो वेदरूपा यस्येति वा तस्मै । पशूनां प्राणिनां पतिः पालकः तस्मै । उग्र उद्गूर्णायुधः शत्रून् हन्तुं तस्मै । भीमः शत्रुभयोत्पादकः । अग्रे पुरो वर्तमानो हन्तीत्यग्रेवधः तस्मै । दूरे वर्तमानो हन्तीति दूरेवधः तस्मै । हन्तीति हन्ता तस्मै । लोके यो हन्ति तद्रूपेण रुद्र एव हन्तीत्यर्थः । अतिशयेन हन्ता हनीयान् तस्मै । ‘तुरिष्ठेमेयःसु’ (पा. ६।५। १५४) इति तृचो लोपः। प्रलये सर्वहन्तेत्यर्थः । हरयो हरिताः केशाः पत्ररूपा येषां तेभ्यो वृक्षेभ्यः कल्पतरुरूपेभ्यो नमः । तारयति संसारमिति तारः तस्मै ॥ ४० ॥
एकचत्वारिंशी।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- परमेष्ठी प्रजापतिर्वा देवा ऋषयः
- अतिशक्वरी
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को कैसे संतोषी होना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो मनुष्य (शङ्गवे) सुख को प्राप्त होने (च) और (पशुपतये) गौ आदि पशुओं की रक्षा करनेवाले को (च) और गौ आदि को भी (नमः) अन्नादि पदार्थ देवें (उग्राय) तेजस्वी (च) और (भीमाय) डर दिखानेवाले का (च) भी (नमः) सत्कार करें (अग्रेवधाय) पहिले शत्रुओं को बाँधने हारे (च) और (दूरेवधाय) दूर पर शत्रुओं को बाँधने वा मारनेवाले को (च) भी (नमः) अन्नादि देवें (हन्त्रे) दुष्टों को मारने (च) और (हनीयसे) दुष्टों का अत्यन्त निर्मूल विनाश करने हारे को (च) भी (नमः) अन्नादि देवें (वृक्षेभ्यः) शत्रु को काटनेवालों को वा वृक्षों का और (हरिकेशेभ्यः) हरे केशोंवाले ज्वानों वा हरे पत्तोंवाले वृक्षों का (नमः) सत्कार करें वा जलादि देवें और (ताराय) दुःख से पार करनेवाले पुरुष को (नमः) अन्नादि देवें वे सुखी हों ॥४० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि गौ आदि पशुओं के पालन और भयङ्कर जीवों की शान्ति करने से संतोष करें ॥४० ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यैः कथं संतोष्टव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये मनुष्याः शङ्गवे च पशुपतये च नम उग्राय च भीमाय च नमोऽग्रेवधाय च दूरेवधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमो दद्युः कुर्युस्ते सुखिनः स्युः ॥४० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्गवादिपशुपालनेन भयङ्करादिशान्तिकरणेन च संतोष्टव्यम् ॥४० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी गाई इत्यादी पशूंचे पालन करावे व हानिकारक जीवांना शांत करण्यात संतोष मानावा.
४१ नमः शम्भवाय
विश्वास-प्रस्तुतिः ...{Loading}...
नमः॑ शम्भ॒वाय॑ च मयोभ॒वाय॑ च॒ नमः॑ शङ्क॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च ॥४१ ॥
मूलम् ...{Loading}...
नमः॑ शम्भ॒वाय॑ च मयोभ॒वाय॑ च॒ नमः॑ शङ्क॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च ॥४१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नमः॑। श॒म्भ॒वायेति॑ शम्ऽभ॒वाय॑। च॒। म॒यो॒भ॒वायेति॑ मयःऽभ॒वाय॑। च॒। नमः॑। श॒ङ्क॒रायेति॑ शम्ऽक॒राय॑। च॒। म॒य॒स्क॒राय॑। म॒यः॒क॒रायेति॑ मयःऽक॒राय॑। च॒। नमः॑। शि॒वाय॑। च॒। शि॒वत॑रा॒येति॑ शि॒वऽत॑राय। च॒। ४१।
महीधरः
म० शं सुखं भवत्यस्मादिति शंभवः । यद्वा शं सुखरूपश्चासौ भवः संसाररूपश्च मुक्तिरूपो भवरूपश्च तस्मै । । मयः सुखं भवत्यस्मान्मयोभवः संसारसुखप्रदः तस्मै । शं लौकिकसुखं करोति शंकरः तस्मै । मयो मोक्षसुखं करोति मयस्करः तस्मै । स्रक्चन्दनादिरूपेण लौकिकसुखकारित्वं शास्त्रादिरूपेण ज्ञानप्रदत्वान्मोक्षसुखकारित्वमित्यर्थः । एताभ्यां पदाभ्यां साक्षात्सुखकारित्वं पूर्वपदाभ्यां तद्द्वारा कारयितृत्वमिति विवेकः । शिवः कल्याणरूपो निष्पापः तस्मै । शिवतरोऽत्यन्तं शिवो भक्तानपि निप्पापान्करोति तस्मै । अस्यां कण्डिकायां षट् यजूंषि पूर्वस्यां दशोक्तेः ॥ ४१ ॥
द्विचत्वारिंशी।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- परमेष्ठी प्रजापतिर्वा देवा ऋषयः
- स्वराडार्षी बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को कैसे अपना अभीष्ट सिद्ध करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो मनुष्य (शभ्मवाय) सुख को प्राप्त कराने हारे परमेश्वर (च) और (मयोभवाय) सुखप्राप्ति के हेतु विद्वान् (च) का भी (नमः) सत्कार (शङ्कराय) कल्याण करने (च) और (मयस्कराय) सब प्राणियों को सुख पहुँचानेवाले का (च) भी (नमः) सत्कार (शिवाय) मङ्गलकारी (च) और (शिवतराय) अत्यन्त मङ्गलस्वरूप पुरुष का (च) भी (नमः) सत्कार करते हैं, वे कल्याण को प्राप्त होते हैं ॥४१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि प्रेमभक्ति के साथ सब मङ्गलों के दाता परमेश्वर की ही उपासना और सेनाध्यक्ष का सत्कार करें, जिससे अपने अभीष्ट कार्य्य सिद्ध हों ॥४१ ॥
दयानन्द-सरस्वती (सं) - विषयः
जनैः कथं स्वाभीष्टं साध्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये मनुष्याः शम्भवाय च मयोभवाय च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः कुर्वन्ति ते कल्याणमाप्नुवन्ति ॥४१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैः प्रेमभक्त्या सर्वमङ्गलप्रदः परमेश्वर एवोपास्यो बलाध्यक्षश्च सत्कर्त्तव्यो यतः स्वाभीष्टानि सिध्येयुः ॥४१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी प्रेमाने व भक्तीने कल्याणमय परमेश्वराचीच उपासना करावी व सेनाध्यक्षाचा व विद्वानांचा सन्मान करावा. त्यामुळे आपले अभीष्ट कार्य साध्य होईल.
४२ नमः पार्याय
विश्वास-प्रस्तुतिः ...{Loading}...
नमः॒ पार्या॑य चावा॒र्या᳖य च॒ नमः॑ प्र॒तर॑णाय चो॒त्तर॑णाय च॒ नम॒स्तीर्थ्या॑य च॒ कूल्या॑य च॒ नमः॒ शष्प्या॑य च॒ फेन्या॑य च ॥४२ ॥
मूलम् ...{Loading}...
नमः॒ पार्या॑य चावा॒र्या᳖य च॒ नमः॑ प्र॒तर॑णाय चो॒त्तर॑णाय च॒ नम॒स्तीर्थ्या॑य च॒ कूल्या॑य च॒ नमः॒ शष्प्या॑य च॒ फेन्या॑य च ॥४२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नमः॑। पार्या॑य। च॒। अ॒वा॒र्या᳖य। च॒। नमः॑। प्र॒तर॑णा॒येति॑ प्र॒ऽतर॑णाय। च॒। उ॒त्तर॑णा॒येत्यु॒त्ऽतर॑णाय। च॒। नमः॑। तीर्थ्या॑य। च॒। कूल्या॑य। च॒। नमः॑। शष्प्या॑य। च॒। फेन्या॑य। च॒। ४२।
महीधरः
म०. पारे संसाराब्धेः परतीरे जीवन्मुक्तरूपेण भवः पार्यः तस्मै । अवारे अर्वाक्तीरे संसारमध्ये संसारित्वेन भवोऽवार्यः तस्मै । ‘पारावारे परार्वाची तीरे पात्रं यदन्तरम्’ इति कोषः । प्रकर्षेण मन्त्रजपादिना पापतरणहेतुः प्रतरणः तस्मै । उत्कृष्टेन तत्त्वज्ञानेन संसारोत्तरणहेतुरुत्तरणः तस्मै । तीर्थे प्रयागादौ भवः तीर्थ्यः तस्मै । कूले तटे भवः कूल्यः तस्मै । शष्पं बालतृणं गङ्गातीरोत्पन्नं कुशाङ्कुरादि तत्र भवः शष्प्यः तस्मै । फेने डिण्डीरे भवः फेन्यः तस्मै ॥ ४२ ॥
त्रिचत्वारिंशी।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- परमेष्ठी प्रजापतिर्वा देवा ऋषयः
- निचृदार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो मनुष्य (पार्याय) दुःखों से पार हुए (च) और (अवार्याय) इधर के भाग में हुए का (च) भी (नमः) सत्कार (च) तथा (प्रतरणाय) उस तट से नौकादि द्वारा इस पार पहुँचे वा पहुँचाने (च) और (उत्तरणाय) इस पार से उस पार पहुँचने वा पहुँचानेवाले का (नमः) सत्कार करें (तीर्थ्याय) वेदविद्या के पढ़ानेवालों और सत्यभाषणादि कामों में प्रवीण (च) और (कूल्याय) समुद्र तथा नदी आदि के तटों पर रहनेवाले को (च) भी (नमः) अन्न देवें (शष्प्याय) तृण आदि कार्यों में साधु (च) और (फेन्याय) फेन बुद्बुदादि के कार्यों में प्रवीण पुरुष को (च) भी (नमः) अन्नादि देवें, वे कल्याण को प्राप्त होवें ॥४२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि नौकादि यानों में शिक्षित मल्लाह आदि को रख समुद्रादि के इस पार, उस पार जा-आके देश-देशान्तर और द्वीपद्वीपान्तरों में व्यवहार से धन की उन्नति करके अपना अभीष्ट सिद्ध करें ॥४२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये मनुष्याः पार्य्याय चावार्याय च नमः प्रतरणाय चोत्तरणाय च नमस्तीर्थ्याय च कूल्याय च नमः शष्प्याय च फेन्याय च नमः कुर्वन्तु प्रदद्युश्च ते सुखं प्राप्नुयुः ॥४२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्यानेषु नौकादिषु सुशिक्षितान् कैवर्त्तकादीन् संस्थाप्य समुद्रादिपारावारौ गत्वागत्य देशदेशान्तरद्वीपद्वीपान्तरव्यवहारेण धनं निष्पाद्याभीष्टं साधनीयम् ॥४२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी नौका इत्यादी यानांमध्ये प्रशिक्षित नावाड्यांना ठेवावे. समुद्रात इकडून तिकडे देशदेशांतरी व द्वीपद्वीपांतरी जावे, यावे आणि धन प्राप्त करून आपले ईप्सित साध्य करावे.
४३ नमः सिकत्याय
विश्वास-प्रस्तुतिः ...{Loading}...
नमः॑ सिक॒त्या᳖य च प्रवा॒ह्या᳖य च॒ नमः॑ किँशि॒लाय॑ च क्षय॒णाय॑ च॒ नमः॑ कप॒र्दिने॑ च पुल॒स्तये॑ च॒ नम॑ऽइरि॒ण्या᳖य च प्र॒पथ्या᳖य च ॥४३ ॥
मूलम् ...{Loading}...
नमः॑ सिक॒त्या᳖य च प्रवा॒ह्या᳖य च॒ नमः॑ किँशि॒लाय॑ च क्षय॒णाय॑ च॒ नमः॑ कप॒र्दिने॑ च पुल॒स्तये॑ च॒ नम॑ऽइरि॒ण्या᳖य च प्र॒पथ्या᳖य च ॥४३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नमः॑। सि॒क॒त्या᳖य। च॒। प्र॒वा॒ह्या᳖येति॑ प्रऽवा॒ह्या᳖य। च॒। नमः॑। किँ॒शि॒लाय॑। च॒। क्ष॒य॒णाय॑। च॒। नमः॑। क॒प॒र्दिने॑। च॒। पु॒ल॒स्तये॑। च॒। नमः॑। इ॒रि॒ण्या᳖य। च॒। प्र॒प॒थ्या᳖येति॑ प्रऽप॒थ्या᳖य। च॒। ४३।
महीधरः
म० सिकतासु भवः सिकत्यः तस्मै । प्रवाहे स्रोतसि भवः प्रवाह्यः तस्मै । कुत्सिताः क्षुद्राः शिलाः शर्करारूपाः पाषाणा यत्र प्रदेशे स किंशिलः तद्रूपाय नमः । क्षियन्ति निवसन्त्यापो यत्र स क्षयणः स्थिरजलप्रदेशः तस्मै । कपर्दो जटाजूटोऽस्यास्तीति कपर्दी तस्मै । पुरोऽग्रे तिष्ठति पुलस्तिः । थस्य तत्वं रस्य लत्वं च छान्दसम् । यद्वा पूर्षु शरीरेषु अस्तिः सत्ता यस्य स पुलस्तिः सर्वान्तर्यामी तस्मै । इरिणमूषरं वितृणदेशस्तत्र भव इरिण्यः तस्मै । प्रकृष्टः पन्थाः प्रपथो बहुसेवितो मार्गस्तत्र भवः प्रपथ्यः तस्मै ॥ ४३ ॥
चतुश्चत्वारिंशी।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- परमेष्ठी प्रजापतिर्वा देवा ऋषयः
- जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को क्या करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो मनुष्य (सिकत्याय) बालू से पदार्थ निकालने में चतुर (च) और (प्रवाह्याय) बैल आदि के चलानेवालों में प्रवीण को (च) भी (नमः) अन्न (किंशिलाय) शिलावृत्ति करने (च) और (क्षयणाय) निवासस्थान में रहनेवाले को (च) भी (नमः) अन्न (कपर्दिने) जटाधारी (च) और (पुलस्तये) बड़े-बड़े शरीरों को फेंकनेवाले को (च) भी (नमः) अन्न देवें (इरिण्याय) ऊसर भूमि से अति उपकार लेनेवाले (च) और (प्रपथ्याय) उत्तम धर्म के मार्गों में प्रवीण पुरुष का (च) भी (नमः) सत्कार करें, वे सब के प्रिय होवें ॥४३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि भूगर्भविद्यानुसार बालू, मट्टी आदि से सुवर्णादि धातुओं को निकाल बहुत ऐश्वर्य को बढ़ा के अनाथों का पालन करें ॥४३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैः किं कर्त्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये मनुष्याः सिकत्याय च प्रवाह्याय च नमः किंशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नम इरिण्याय च प्रपथ्याय च नमो दद्युः कुर्युस्ते सर्वप्रिया जायेरन् ॥४३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्भूगर्भविद्यया सिकतादिषु भवान् सुवर्णादीन् धातून् निःसार्य महदैश्वर्यमुन्नीयानाथाः पालनीयाः ॥४३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी भूगर्भविद्येनुसार वाळू, माती इत्यादीपासून सुवर्ण वगैरे धातू काढून खूप ऐश्वर्य वाढवावे आणि अनाथांचे पालन करावे.
४४ नमो व्रज्याय
विश्वास-प्रस्तुतिः ...{Loading}...
नमो॒ व्रज्या॑य च॒ गोष्ठ्या॑य च॒ नम॒स्तल्प्या॑य च॒ गेह्या॑य च॒ नमो॑ हृद॒य्या᳖य च निवे॒ष्या᳖य च॒ नमः॒ काट्या॑य च गह्वरे॒ष्ठाय॑ च॒ ॥४४ ॥
मूलम् ...{Loading}...
नमो॒ व्रज्या॑य च॒ गोष्ठ्या॑य च॒ नम॒स्तल्प्या॑य च॒ गेह्या॑य च॒ नमो॑ हृद॒य्या᳖य च निवे॒ष्या᳖य च॒ नमः॒ काट्या॑य च गह्वरे॒ष्ठाय॑ च॒ ॥४४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नमः॑। व्रज्या॑य। च॒। गोष्ठ्या॑य। गोस्थ्या॒येति॒ गोऽस्थ्या॑य। च॒। नमः॑। तल्प्या॑य। च॒। गेह्या॑य। च॒। नमः॑। हृ॒द॒य्या᳖य। च॒। नि॒वे॒ष्या᳖येति॑ निऽवे॒ष्या᳖य। च॒। नमः॑। काट्या॑य। च॒। ग॒ह्व॒रे॒ष्ठाय॑। च॒। ४४।
महीधरः
म० व्रजे गोसमूहे भवो व्रज्यः तस्मै । ‘गोष्ठाध्वनिवहा व्रजाः’ । गावस्तिष्ठन्ति यत्रेति तद्गोष्ठं तत्र भवो गोष्ठ्यस्तस्मै । तल्पं शय्या तत्र भवस्तल्प्यस्तस्मै । गेहे गृहे भवो गेह्यस्तस्मै । हृदये भवो हृदय्यो जीवस्तस्मै । निवेष्प आवर्तो नीहारजलं वा तत्र भवो निवेष्प्यः तस्मै । कुत्सितमटन्ति गच्छन्ति जना यत्र स काटो दुर्गारण्यदेशः काटः कूपो वा तत्र भवः काट्यः तस्मै । गह्वरे विषमे गिरिगुहादौ गम्भीरे जले वा तिष्ठति गह्वरेष्ठः तस्मै । ‘गह्वरं बिलदम्भयोः ॥ ४४ ॥
पञ्चचत्वारिंशी।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- परमेष्ठी प्रजापतिर्वा देवा ऋषयः
- आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
कैसे मनुष्य सुखी होते हैं, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो मनुष्य (व्रज्याय) क्रियाओं में प्रसिद्ध (च) और (गोष्ठ्याय) गौ आदि के स्थानों के उत्तम प्रबन्धकर्त्ता को (च) भी (नमः) अन्नादि देवें (तल्प्याय) खट्वादि के निर्माण में प्रवीण (च) और (गेह्याय) घर में रहनेवाले को (च) भी (नमः) अन्न देवें (हृदय्याय) हृदय के विचार में कुशल (च) और (निवेष्याय) विषयों में निरन्तर व्याप्त होने में प्रवीण पुरुष का (च) भी (नमः) सत्कार करें (काट्याय) आच्छादित गुप्त पदार्थों को प्रकट करने (च) और (गह्वरेष्ठाय) गहन अति कठिन गिरिकन्दराओं में उत्तम रहनेवाले पुरुष को (च) भी (नमः) अन्नादि देवें, वे सुख को प्राप्त होवें ॥४४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य मेघ से उत्पन्न वर्षा और वर्षा से उत्पन्न हुए तृण आदि की रक्षा से गौ आदि पशुओं को बढ़ावें, वे पुष्कल भोग को प्राप्त होवें ॥४४ ॥
दयानन्द-सरस्वती (सं) - विषयः
कीदृशा जनाः सुखिनो भवन्तीत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये मनुष्या व्रज्याय च गोष्ठ्याय च नमस्तल्प्याय च गेह्याय च नमो हृदय्याय च निवेष्याय च नमः काट्याय च गह्वरेष्ठाय च नमो दद्युस्ते सुखं भजेरन् ॥४४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्या मेघवृष्टिजन्यतृणादिरक्षणेन गवादीन् वर्द्धयेयुस्ते पुष्कलं भोगं लभेरन् ॥४४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे मेघांपासून वृष्टी व त्यापासून उत्पन्न झालेले गवत वगैरेंचे रक्षण करून पशूंचे पोषण करतात त्यांना पुष्कळ भोगपदार्थ प्राप्त होतात.
४५ नमः शुष्क्याय
विश्वास-प्रस्तुतिः ...{Loading}...
नमः॒ शुष्क्या॑य च हरि॒त्या᳖य च॒ नमः॑ पाँस॒व्या᳖य च र॒ज॒स्या᳖य च॒ नमो॒ लोप्या॑य चोल॒प्या᳖य च॒ नम॒ऽऊर्व्या॑य च॒ सूर्व्या॑य च ॥४५ ॥
मूलम् ...{Loading}...
नमः॒ शुष्क्या॑य च हरि॒त्या᳖य च॒ नमः॑ पाँस॒व्या᳖य च र॒ज॒स्या᳖य च॒ नमो॒ लोप्या॑य चोल॒प्या᳖य च॒ नम॒ऽऊर्व्या॑य च॒ सूर्व्या॑य च ॥४५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नमः॑। शुष्क्या॑य। च॒। ह॒रि॒त्या᳖य। च॒। नमः॑। पाँ॒स॒व्या᳖य। च॒। र॒ज॒स्या᳖य। च॒। नमः॑। लोप्या॑य। च॒। उ॒ल॒प्या᳖य। च॒। नमः॑। ऊर्व्या॑य। च॒। सूर्व्या॒येति॑ सु॒ऽऊर्व्या॑य। च॒। ४५।
महीधरः
म० शुष्के काष्ठादौ भवः शुष्क्यः तस्मै । हरिते आर्द्रे काष्ठादौ भवः हरित्यः तस्मै । पांसुषु धूलिषु भवः पांसव्यः तस्मै । ओर्गुणः । रजसि गुणे परागे वा भवो रजस्यः तस्मै । ‘रजो रेणुपरागयोः । स्त्रीपुष्पे गुणभेदे च’ । लुप्यते नश्यति गमनादि यत्रेति लोपोऽगम्यप्रदेशस्तत्र भवो लोप्यः तस्मै । लोपः संहारो वा । उलपा बल्वजादितृणविशेषास्तत्र भव उलप्यः तस्मै । ‘उलपस्तु गुल्मिनीतृणभेदयोः’ । उर्व्या भूमौ भव उर्व्यः तस्मै । दीर्घ आर्षः । ऊर्वो वडवानलो वा । शोभन ऊर्वः कल्पानलस्तत्र भवः सूर्व्यः तस्मै ॥ ४५ ॥
षट्चत्वारिंशी।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- परमेष्ठी प्रजापतिर्वा देवा ऋषयः
- निचृदार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उन मनुष्यों को क्या करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो मनुष्य (शुष्क्याय) नीरस पदार्थों में रहने (च) और (हरित्याय) सरस पदार्थों में प्रसिद्ध को (च) भी (नमः) जलादि देवें (पांसव्याय) धूलि में रहने (च) और (रजस्याय) लोक-लोकान्तरों में रहनेवाले का (च) भी (नमः) मान करें (लोप्याय) छेदन करने में प्रवीण (च) और (उलप्याय) फेंकने में कुशल पुरुष का (च) भी (नमः) मान करें (ऊर्व्याय) मारने में प्रसिद्ध (च) और (सूर्व्याय) सुन्दरता से ताड़ना करनेवाले का (च) भी (नमः) सत्कार करें, उनके सब कार्य सिद्ध होवें ॥४५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्य सुखाने और हरापन आदि करनेवाले वायुओं को जान के अपने कार्य सिद्ध करें ॥४५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तैः किं कार्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये मनुष्याः शुष्क्याय च हरित्याय च नमः पांसव्याय च रजस्याय च नमो लोप्याय चोलप्याय च नम ऊर्व्याय च सूर्व्याय च नमो दद्युः कुर्युस्तेषां कार्याणि सिध्येयुः ॥४५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्याः शोषणहरितत्वादिकारकान् वायून् विज्ञाय कार्य्यसिद्धिं कुर्युः ॥४५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी शुष्क करणारा वायू व हरित बनविणारा वायू जाणावा आणि आपले कार्य सिद्ध करावे.
४६ नमः पर्णाय
विश्वास-प्रस्तुतिः ...{Loading}...
नमः॑ प॒र्णाय॑ च पर्णश॒दाय॑ च॒ नम॑ऽउद्गु॒रमा॑णाय चाभिघ्न॒ते च॒ नम॑ऽआखिद॒ते च॑ प्रखिद॒ते च॒ नम॑ऽइषु॒कृद्भ्यो॑ धनु॒ष्कृद्भ्य॑श्च वो॒ नमो॒ नमो॑ वः किरि॒केभ्यो॑ दे॒वानाँ॒ हृद॑येभ्यो॒ नमो॑ विचिन्व॒त्केभ्यो॒ नमो॑ विक्षिण॒त्केभ्यो॒ नम॑ऽआनिर्ह॒तेभ्यः॑ ॥४६ ॥
मूलम् ...{Loading}...
नमः॑ प॒र्णाय॑ च पर्णश॒दाय॑ च॒ नम॑ऽउद्गु॒रमा॑णाय चाभिघ्न॒ते च॒ नम॑ऽआखिद॒ते च॑ प्रखिद॒ते च॒ नम॑ऽइषु॒कृद्भ्यो॑ धनु॒ष्कृद्भ्य॑श्च वो॒ नमो॒ नमो॑ वः किरि॒केभ्यो॑ दे॒वानाँ॒ हृद॑येभ्यो॒ नमो॑ विचिन्व॒त्केभ्यो॒ नमो॑ विक्षिण॒त्केभ्यो॒ नम॑ऽआनिर्ह॒तेभ्यः॑ ॥४६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नमः॑। प॒र्णाय॑। च॒। प॒र्ण॒श॒दायेति॑ पर्णऽश॒दाय॑। च॒। नमः॑। उ॒द्गु॒रमा॑णा॒येत्यु॑त्ऽगु॒रमा॑णाय। च॒। अ॒भि॒घ्न॒त इत्य॑भिऽघ्न॒ते। च॒। नमः॑। आ॒खि॒द॒त इत्या॑ऽखि॒द॒ते। च॒। प्र॒खि॒द॒त इति॑ प्रऽखिद॒ते। च॒। नमः॑। इ॒षु॒कृद्भ्य॒ इती॑षु॒कृत्ऽभ्यः॑। ध॒नु॒ष्कृद्भ्यः॑। ध॒नुः॒ऽकृद्भ्य॒ इति॑ धनुः॒कृत्ऽभ्यः॑। च॒। वः॒। नमः॑। नमः॑। वः॒। कि॒रि॒केभ्यः॑। दे॒वाना॑म्। हृद॑येभ्यः। नमः॑। वि॒चि॒न्व॒त्केभ्य॒ इति॑ विऽचिन्व॒त्केभ्यः॑। नमः॑। वि॒क्षि॒ण॒त्केभ्य॒ इति॑ विऽक्षिण॒त्केभ्यः॑। नमः॑। आ॒नि॒र्ह॒तेभ्य॒ इत्या॑निःऽह॒तेभ्यः॑। ४६।
महीधरः
म० तरूणां पत्ररूपाय नमः । ‘शद्लृ शातने’ शदनं शदः शातनम् । यद्वा पर्णानि शीर्यन्ते शात्यन्ते पक्वानि पतन्ति यत्र स पर्णशदः पतितपर्णस्थितिदेशस्तद्रूपाय नमः । ‘गुरी उद्यमे’ ‘तुदादिभ्यः शः’ । उद्गुरते उद्यमं करोति उद्गुरमाण उद्यमी तम्मै । अभिहन्ति शत्रूनित्यभिग्नन् तस्मै । आ समन्तात् खिद्यते दैन्यं करोत्यभक्तानामित्याखिदन् तस्मै । प्रकर्षेण खेदयति पापिन इति प्रखिदन् तस्मै । इषून् बाणान् कुर्वन्ति ते इषुकृतस्तेभ्यो रुद्रेभ्यो नमः । धनूंषि चापानि कुर्वन्ति ते धनुष्कृतः तेभ्यो वो युष्मभ्यं नमः । युप्मदादेशयोगात्प्रत्यक्षा एते रुद्राः । तिस्रोऽशीतयो रुद्राणां समाप्ताः । एवं चत्वारिंशदधिकशतद्वयमन्त्रैः रुद्रस्य सर्वात्मलमुक्तम् । अथ रुद्रेषु प्रधानभूतानामग्निवायुसूर्याणां संबन्धीनि चत्वारि यजूंष्युच्यन्ते । चतुर्णामादौ नमःशब्दाच्चवार्यव यजूंपि आद्यं चतुर्दशाक्षरं त्रीणि सप्ताक्षराणि तानि व्याहृतिसंज्ञानि । नमो व इति । देवानां हृदयेभ्यो रुद्राणां हृदयवत्प्रधानभूतेभ्योऽग्निवायुसूर्यभ्यो वो युष्मभ्यं नमः । ‘देवानां हृदयेभ्य इत्यग्निर्वायुरादित्य एतानि ह तानि देवानां हृदयानि’ ( ९ । १।१ । २३ ) इति श्रुतेः । हृदयानीव हृदयानि यथागानां हृदयं प्रधानमेवमेते रुद्राणां प्रधाना इत्यर्थः । कीदृशेभ्यस्तेभ्यः । किरिकेभ्यः । वृष्ट्यादिद्वारा जगत् कुर्वन्ति किरिकास्तेभ्यः । एते हीद, सर्वं कुर्वन्ति’ ( ९ । १।१।२३) इति श्रुतेः । विचिन्वन्ति पृथक् कुर्वन्ति धर्मिष्ठं पापिष्ठं चेति विचिन्वत्कास्तेभ्योऽग्न्यादिभ्यो नमः । विविधं क्षिण्वन्ति हिंसन्ति पापमिति विक्षिणत्कास्तेभ्योऽझ्यादिभ्यो नमः । आ समन्तान्निर्हता निर्गताः सर्गादौ लोकेभ्य इत्यानिर्हतास्तेभ्यो रुद्रावतारेभ्योऽग्निवायुसूर्येभ्यो नमः । हन्तिर्गत्यर्थः । ‘तेभ्यस्तप्तेभ्यस्त्रीणि ज्योतीᳪं᳭ष्यजायन्ताग्निर्योऽयं पवते सूर्यः’ इति श्रुतेः॥४६॥
सप्तचत्वारिंशी
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- परमेष्ठी प्रजापतिर्वा देवा ऋषयः
- स्वराट् प्रकृतिः
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो मनुष्य (पर्णाय) प्रत्युपकार से रक्षक को (च) और (पर्णशदाय) पत्तों को काटनेवाले को (च) भी (नमः) अन्न (उद्गुरमाणाय) उत्तम प्रकार से उद्यम करने (च) और (अभिघ्नते) सन्मुख होके दुष्टों को मारनेवाले को (च) भी (नमः) अन्न देवें (आखिदते) दीन निर्धन (च) और (प्रखिदते) अतिदरिद्री जन का (च) भी (नमः) सत्कार करें (इषुकृद्भ्यः) बाणों को बनानेवाले को (नमः) अन्नादि देवें (च) और (धनुष्कृद्भ्यः) धनुष् बनानेवाले (वः) तुम लोगों का (नमः) सत्कार करें (देवानाम्) विद्वानों को (हृदयेभ्यः) अपने आत्मा के समान प्रिय (किरिकेभ्यः) बाण आदि शस्त्र फेंकनेवाले (वः) तुम लोगों को (नमः) अन्नादि देवें (विचिन्वत्केभ्यः) शुभ गुणों वा पदार्थों का सञ्चय करनेवालों का (नमः) सत्कार (विक्षिणत्केभ्यः) शत्रुओं के नाशक जनों का (नमः) सत्कार और (आनिर्हतेभ्यः) अच्छे प्रकार पराजय को प्राप्त हुए लोगों का (नमः) सत्कार करें, वे सब ओर से धनी होते हैं ॥४६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि सब ओषधियों से अन्नादि उत्तम पदार्थों का ग्रहण कर अनाथ मनुष्यादि प्राणियों को देके सब को आनन्दित करें ॥४६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तदेवाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये मनुष्याः पर्णाय च पर्णशदाय च नम उद्गुरमाणाय चाभिघ्नते च नम आखिदते च प्रखिदते च नम इषुकृद्भ्यो नमो धनुष्कृद्भ्यश्च वो नमो देवानां हृदयेभ्यः किरिकेभ्यो वो नमो विचिन्वत्केभ्यो नमो विक्षिणत्केभ्यो नम आनिर्हतेभ्यो नमो दद्युः कुर्युश्च ते सर्वत आढ्या जायन्ते ॥४६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैः सर्वौषधिभ्योऽन्नादिकं संगृह्यानाथमनुष्यादिप्राणिभ्यो दत्त्वा आनन्दयितव्याः ॥४६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी सर्व वनस्पती वगैरेपासून अन्न इत्यादी उत्तम पदार्थ तयार करावेत आणि ते अनाथांना देऊन सर्वांना आनंदित करावे.
४७ द्रापेऽअन्धसस्पते दरिद्र
विश्वास-प्रस्तुतिः ...{Loading}...
द्रापे॒ऽअन्ध॑सस्पते॒ दरि॑द्र॒ नील॑लोहित। आ॒सां प्र॒जाना॑मे॒षां प॑शू॒नां मा भे॒र्मा रो॒ङ् मो च॑ नः॒ किं च॒नाम॑मत् ॥४७ ॥
मूलम् ...{Loading}...
द्रापे॒ऽअन्ध॑सस्पते॒ दरि॑द्र॒ नील॑लोहित। आ॒सां प्र॒जाना॑मे॒षां प॑शू॒नां मा भे॒र्मा रो॒ङ् मो च॑ नः॒ किं च॒नाम॑मत् ॥४७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
द्रापे॑। अन्ध॑सः। प॒ते॒। दरि॑द्र। नील॑लोहि॒तेति॒ नील॑ऽलोहित। आ॒साम्। प्र॒जाना॒मिति॑ प्र॒ऽजाना॑म्। ए॒षाम्। प॒शू॒नाम्। मा। भेः॒। मा। रो॒क्। मोऽइति॒ मो। च॒। नः॒। किम्। च॒न। आ॒म॒म॒त्। ४७।
महीधरः
म० सप्त ऋच एकरुद्रदेवत्याः आद्योपरिष्टाद्बृहती सप्ताष्टदशद्वादशार्णपादा । हे द्रापे, ‘द्रा कुत्सायां गतौ’ द्रापयति कुत्सितां गतिं पापिनः प्रापयतीति द्रापिः । हे अन्धसः सोमस्य पते पालक, ‘अन्धसस्पत इति सोमस्य पत इत्येतत्’ ( ९।१।१ । २४ ) इति श्रुतेः । हे दरिद्र निष्परिग्रह, -अद्वितीयत्वादिति भावः । हे नीललोहित, कण्ठे नीलोऽन्यत्र लोहितः हे शिव, नोऽस्माकमासां प्रजानां पुत्रादीनामेषां पशूनां गवादीनां त्वं मा भेः भयं मा कुरु । ‘बहुलं छन्दसि’(पा० २ । ४ । ७३ ) इति शपो लुक् । मा रोक् ‘रुजो भङ्गे’ प्रजापशूनां भङ्गं मा कार्षीः । कर्मणि षष्ठ्यौ । च पुनर्नोऽस्माकं किंचन किमपि द्विपदचतुप्पदादिकं मो मा आममत् रुग्णं मा कार्षीत् । यद्वा रुग्णं मास्तु । ‘अम् रोगे’ लङि धातोरमागम आर्षः ॥ ४७ ॥
अष्टचत्वारिंशी ।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- परमेष्ठी प्रजापतिर्वा देवा ऋषयः
- भुरिगार्षी बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (द्रापे) निन्दित गति से रक्षक (अन्धसः) अन्न आदि के (पते) स्वामी (दरिद्र) दरिद्रता को प्राप्त हुए (नीललोहित) नीलवर्णयुक्त पदार्थों का सेवन करने हारे राजा वा प्रजा के पुरुष ! तू (आसाम्) इन प्रत्यक्ष (प्रजानाम्) मनुष्यादि (च) और (एषाम्) इन (पशूनाम्) गौ आदि पशुओं के रक्षक होके इनसे (मा) (भेः) मत भय को प्राप्त कर (मा) (रोक्) मत रोग को प्राप्त कर (नः) हम को और अन्य (किम्) किसी को (चन) भी (मो) मत (आममत्) रोगी करे ॥४७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो धनाढ्य हैं, वे दरिद्रों का पालन करें तथा जो राजा और प्रजा के पुरुष हैं, वे प्रजा के पशुओं को कभी न मारें, जिससे प्रजा में सब प्रकार सब का सुख बढ़े ॥४७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे द्रापे अन्धसस्पते दरिद्र नीललोहित राजप्रजाजन ! त्वमासां प्रजानामेषां पशूनां च सकाशान्मा भेः। मा रोक् नोऽस्मान् किञ्चन मो आममत् ॥४७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - य आढ्यास्ते दरिद्रान् पालयेयुर्ये राजप्रजाजनास्ते प्रजापशुहिंसनं कदापि मा कुर्युर्यतः सर्वेषां सुखं वर्द्धेत ॥४७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे धनाढ्य असतात त्यांनी दरिद्री लोकांचे पालन करावे. राजा व प्रजा यांनी पशूंना कधीही मारू नये, कारण पशूंमुळे प्रजेचे सुख वाढते.
४८ इमा रुद्राय
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒मा रु॒द्राय॑ त॒वसे॑ कप॒र्दिने॑ क्ष॒यद्वी॑राय॒ प्र भ॑रामहे म॒तीः। यथा॒ श॑मसद् द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑ऽअ॒स्मिन्न॑नातु॒रम् ॥४८ ॥
मूलम् ...{Loading}...
इ॒मा रु॒द्राय॑ त॒वसे॑ कप॒र्दिने॑ क्ष॒यद्वी॑राय॒ प्र भ॑रामहे म॒तीः। यथा॒ श॑मसद् द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑ऽअ॒स्मिन्न॑नातु॒रम् ॥४८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इ॒माः। रु॒द्राय॑। त॒वसे॑। क॒प॒र्दिने॑। क्ष॒यद्वी॑रा॒येति॑ क्ष॒यत्ऽवी॑राय। प्र। भ॒रा॒म॒हे॒। म॒तीः। यथा॑। श॒म्। अ॒स॒त्। द्वि॒पद॒ इति॑ द्वि॒ऽपदे॑। चतु॑ष्पदे। चतुः॑पद॒ इति॒ चतुः॑ऽपदे। विश्व॑म्। पु॒ष्टम्। ग्रामे॑। अ॒स्मिन्। अ॒ना॒तु॒रम्। ४८।
महीधरः
म०. कुत्सदृष्टा जगती । वयमिमा अस्मदीया मतीः बुद्धीः रुद्राय शंकराय प्रभरामहे प्रहरामहे समर्पयामः । रुद्रं स्मराम इत्यर्थः । हृग्रहोर्भः । कीदृशाय । तवसे महते बलवते वा। उभयत्र तवःशब्दः पठितः । कपर्दिने जटिलाय । क्षयद्वीराय क्षयन्तो निवसन्तो वीराः शूराः यत्र स क्षयद्वीरः तस्मै । शूरायेत्यर्थः । क्षयन्तो नश्यन्तो वीरा रिपवो यस्मादिति वा। द्विपदे पुत्रादये चतुष्पदे गवादिपशवे । सप्तमी वा द्विपदचतुष्पदविषये। यथा येन प्रकारेण शं सुखमसत् भवति अस्मिन् ग्रामे अस्मिन् वासस्थाने विश्वं सर्वं प्राणिजातं पुष्टं समृद्धमनातुरं निरुपद्रवं स्वस्थं च यथा असत् तथा मतिं हरे समर्पयाम इत्यर्थः ॥४८॥
एकोनपञ्चाशी।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- परमेष्ठी प्रजापतिर्वा देवा ऋषयः
- आर्षी जगती
- निषादः
४९ या ते
विश्वास-प्रस्तुतिः ...{Loading}...
या ते॑ रुद्र शि॒वा त॒नूः शि॒वा वि॒श्वाहा॑ भेष॒जी। शि॒वा रु॒तस्य॑ भेष॒जी तया॑ नो मृड जी॒वसे॑ ॥४९ ॥
मूलम् ...{Loading}...
या ते॑ रुद्र शि॒वा त॒नूः शि॒वा वि॒श्वाहा॑ भेष॒जी। शि॒वा रु॒तस्य॑ भेष॒जी तया॑ नो मृड जी॒वसे॑ ॥४९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
या। ते॒। रु॒द्र॒। शि॒वा। त॒नूः। शि॒वा। वि॒श्वाहा॑। भे॒ष॒जी। शि॒वा। रु॒तस्य॑। भे॒ष॒जी। तया॑। नः॒। मृ॒ड। जी॒वसे॑। ४९।
महीधरः
म० अनुष्टुप् । हे रुद्र, या ते तव ईदृशी तनूः शरीरं तया तन्वा नोऽस्मान् जीवसे जीवितुं मृड सुखय । कीदृशी । शिवा शान्ता अघोरा । विश्वाहा विश्वानि च तान्यहानि च विश्वाहा ‘कालाध्वनोरत्यन्तसंयोगे’ (पा० २ । ३ । ५) इति द्वितीया । तस्या आकारः । सर्वेष्वहःसु सर्वदा शिवा कल्याणकारणी भेषजी औषधरूपा संसारव्याधिनिवर्तिका । रुतस्य शारीरव्याधेः शिवा समीचीना भेषजी निवर्तकौषधिः ॥ ४९ ॥
पञ्चाशी।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- परमेष्ठी प्रजापतिर्वा देवा ऋषयः
- आर्ष्युष्णिक्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (रुद्र) राजा के वैद्य तू (या) जो (ते) तेरी (शिवा) कल्याण करनेवाली (तनूः) देह वा विस्तारयुक्त नीति (शिवा) देखने में प्रिय (भेषजी) ओषधियों के तुल्य रोगनाशक और (रुतस्य) रोगी को (शिवा) सुखदायी (भेषजी) पीड़ा हरनेवाली है (तया) उससे (जीवसे) जीने के लिये (विश्वाहा) सब दिन (नः) हम को (मृड) सुख कर ॥४९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजा के वैद्य आदि विद्वानों को चाहिये कि धर्म की नीति, ओषधि के दान, हस्तक्रिया की कुशलता और शस्त्रों से छेदन-भेदन करके रोगों से बचा के सब सेना और प्रजाओं को प्रसन्न करें ॥४९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे रुद्र ! त्वं या ते शिवा तनूः शिवा भेषजी रुतस्य शिवा भेषज्यस्ति तया जीवसे विश्वाहा नो मृड ॥४९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - राजवैद्यादिविद्वद्भिर्धर्मनीत्यौषधिदानेन हस्तक्रियाकौशलेन शस्त्रैश्छित्त्वा भित्त्वा च रोगेभ्यो निवार्य्य सर्वाः सेनाः प्रजाश्च रञ्चनीयाः ॥४९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजाचे वैद्य वगैरे विद्वानांनी धर्मनीतीचे पालन, औषधांचे दान, शस्त्रक्रिया करून प्रजेला व सेनेला रोगापासून वाचवावे व पुष्ट बनवून प्रसन्न ठेवावे.
५० परि नो
विश्वास-प्रस्तुतिः ...{Loading}...
परि॑ नो रु॒द्रस्य॑ हे॒तिर्वृ॑णक्तु॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः। अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृड ॥५० ॥
मूलम् ...{Loading}...
परि॑ नो रु॒द्रस्य॑ हे॒तिर्वृ॑णक्तु॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः। अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृड ॥५० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
परि॑। नः॒। रु॒द्रस्य॑। हे॒तिः। वृ॒ण॒क्तु॒। परि॑। त्वे॒षस्य॑। दु॒र्म॒तिरिति॑ दुःऽम॒तिः। अ॒घा॒योः। अ॒घा॒योरित्य॑घ॒ऽयोः। अव॑। स्थि॒रा। म॒घव॑द्भ्य॒ इति॑ म॒घव॑त्ऽभ्यः। त॒नु॒ष्व॒। मीढ्वः॑। तो॒काय॑। तन॑याय। मृ॒ड॒। ५०।
महीधरः
म० त्रिष्टुप् । रुद्रस्य शिवस्य हेतिरायुधं नोऽस्मान् परिवृणक्तु परितो वर्जयतु । अस्मान्मा हन्त्वित्यर्थः । त्वेषस्य क्रुद्धस्य अघायोः द्रोग्धुर्दुर्मतिर्दुष्टमतिर्द्रोहबुद्धिश्चास्मान्परिवृणक्तु । त्वेषति क्रोधेन ज्वलति त्वेषस्तस्य पचाद्यच् । अघं पापं परस्येच्छति अघायुः ‘सुप आत्मनः क्यच्’ (पा० ३ । १ । ८) इत्यत्र परेच्छायामपि वाच्यमिति क्यच् । ‘क्यचि च’ (पा० ७ । ४ । ३३) इतीत्वे प्राप्ते ‘अश्वाघस्यात्’ (पा० ७ । ४ । ३७) इत्याकारः ‘क्याच्छन्दसि’ (पा० ३ । २ । १७० ) इत्युप्रत्ययः । मेहति सिञ्चतीति मीढ्वान् हे मीढ्वः कामाभिवर्षुक, स्थिरा स्थिराणि दृढानि धनूंषि त्वमवतनुष्व अवतारय ज्यारहितानि कुरु । किमर्थं । मघवद्भ्यः । मघमिति धननाम । मघं हविर्लक्षणं धनं विद्यते येषां ते मघवन्तो यजमानास्तदर्थम् । यजमानानां भयनिवृत्तये इत्यर्थः । किंच तोकाय पुत्राय तनयाय पौत्राय च मृड पुत्रं पौत्रं च सुखय । कर्मणि चतुर्थ्यौ ॥ ५० ॥
एकपञ्चाशी।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- परमेष्ठी प्रजापतिर्वा देवा ऋषयः
- आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
राजपुरुषों को क्या करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (मीढ्वः) सुख वर्षाने हारे राजपुरुष ! आप जो (रुद्रस्य) सभापति राजा का (हेतिः) वज्र है, उससे (त्वेषस्य) क्रोधादिप्रज्वलित (अघायोः) अपने से दुष्टाचार करने हारे पुरुष के सम्बन्ध से (नः) हम लोगों को (परि, वृणक्तु) सब प्रकार पृथक् कीजिये। जो (दुर्मतिः) दुष्टबुद्धि है, उससे भी हम को बचाइये और जो (मघवद्भ्यः) प्रशंसित धनवालों से प्राप्त हुई (स्थिरा) स्थिर बुद्धि है, उस को (तोकाय) शीघ्र उत्पन्न हुए बालक (तनयाय) कुमार पुरुष के लिये (परि, तनुष्व) सब ओर से विस्तृत करिये और इस बुद्धि से सब को निरन्तर (अव, मृड) सुखी कीजिये ॥५० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजपुरुषों का धर्मयुक्त पुरुषार्थ वही है कि जिससे प्रजा की रक्षा और दुष्टों को मारना हो, इससे श्रेष्ठ वैद्य लोग सब को आरोग्य और स्वतन्त्रता के सुख की उन्नति करें, जिससे सब सुखी हों ॥५० ॥
दयानन्द-सरस्वती (सं) - विषयः
राजपुरुषैः किं कार्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मीढ्वः ! भवान् यो रुद्रस्य हेतिस्तेन त्वेषस्याघायोः सकाशान्नः परिवृणक्तु, या दुर्मतिर्भवेत् तस्याश्चास्मान् परिवृणक्तु। या च मघवद्भ्यः प्राप्ता स्थिरा मतिरस्ति, तां तोकाय तनयाय परि तनुष्वैतया सर्वान् सततमवमृड ॥५० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - राजपुरुषाणां तदेव धर्म्यं सामर्थ्यं येन प्रजारक्षणं दुष्टानां हिंसनं च स्यात्, ततः सद्वैद्याः सर्वेषामारोग्यं स्वातन्त्र्यसुखोन्नतिं च कुर्युर्येन सर्वे सुखिनो भवेयुः ॥५० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजपुरुषांचा पुरुषार्थ असा असावा की, त्यांनी प्रजेचे रक्षण करावे, दुष्टांचा नाश करावा, धर्मयुक्त श्रेष्ठ वैद्यांनी सर्वांचे आरोग्य व स्वातंत्र्यता सुरक्षित राहील असा प्रयत्न करावा आणि सर्वांना सुखी करावे.
५१ मीढुष्टम शिवतम
विश्वास-प्रस्तुतिः ...{Loading}...
मीढु॑ष्टम॒ शिव॑तम
शि॒वो न॑स् सु॒मना॑ भव ।
प॒र॒मे वृ॒क्ष आयु॑धन् नि॒धाय॒
कृत्तिव्ँ॒ वसा॑न॒ आ च॑र॒
पिना॑कम् बिभ्र॒द् आ ग॑हि ।
मूलम् ...{Loading}...
मीढु॑ष्टम॒ शिव॑तम शि॒वो नः॑ सु॒मना॑ भव। प॒र॒मे वृ॒क्षऽआयु॑धं नि॒धाय॒ कृत्तिं॒ वसा॑न॒ऽआ च॑र॒ पिना॑क॒म्बिभ्र॒दा ग॑हि ॥५१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मीढु॑ष्टम। मीढु॑स्त॒मेति॒ मीढुः॑ऽतम। शिव॑त॒मेति॒ शिव॑ऽतम। शि॒वः। नः॒। सु॒मना॒ इति॑ सु॒ऽमनाः॑। भ॒व॒। प॒र॒मे। वृ॒क्षे। आयु॑धम्। नि॒धायेति॑ नि॒ऽधाय॑। कृत्ति॑म्। वसा॑नः। आ। च॒र॒। पिना॑कम्। बिभ्र॑त्। आ। ग॒हि॒। ५१।
महीधरः
म० इयमेकोना यवमध्या त्रिष्टुप् तृतीय एकादशार्णः चत्वारोऽन्येष्टार्णाः पञ्चपादा । अतिशयेन मीढ्वान् मीढुष्टमः । अत्यन्तं शिवः शिवतमः । हे मीढुष्टम अतिशयेन कामसेक्तः, हे शिवतम अत्यन्तं कल्याणकर्तः, नोऽस्मान् प्रति शिवः शान्तः सुमनाः हृष्टचित्तश्च भव । किंच परमे दूरस्थे उन्नते वा वृक्षे वटादौ आयुधं त्रिशूलादिकं निधाय संस्थाप्य कृत्तिं चर्म वसानः परिदधानः सन् आचर आगच्छ तपश्चरेति वा । आगच्छन्नपि पिनाकं धनुर्बिभ्रत् धारयन्सन् आगहि आगच्छ । ज्याशरहीनं धनुर्मात्रं शोधार्थं धारयन्नागच्छेत्यर्थः ॥ ५१ ॥
द्विपञ्चाशी।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- परमेष्ठी प्रजापतिर्वा देवा ऋषयः
- निचृदार्षी यवमध्या त्रिष्टुप्
- धैवतः
सायण-टीका
अथ दशमीमाह– मीढुष्ठमेति।
मे मीढुष्ठमातिशयेन सेचक कामानामभिवर्षक, हे शिवतमातिशयेन शान्तस्वरूप नोऽस्मान्प्रति शिवः शान्तः सुमनाः सौमनस्येन स्नेहेन युक्तश्च भव।
आयुधं त्रिशुलादिकं परमेऽत्युन्नते वृक्षे वटाश्वत्थादिरूपे निधाय
२१३८ यथाऽस्माभिर्न दृश्यते तथाऽवस्थाप्य कृत्तिं वसानो व्याघ्रचर्ममात्रं परिदधान आचरास्मदाभिमुख्येनाऽऽगच्छ।
आगच्छन्नपि पिनाकं विभ्रद्भूषणार्थं धनुर्मात्रं हस्ते धारयन्त्राणादिकं परित्यज्याऽऽगह्यागच्छ।
Keith
O most bounteous, most auspicious,
Be auspicious and favourably inclined to us;
Placing down thy weapon on the highest tree,
Clad in thy skin, come,
And approach us bearing the spear [4].
दयानन्द-सरस्वती (हि) - विषयः
सभाध्यक्षादिकों को क्या करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (मीढुष्टम) अत्यन्तपराक्रमयुक्त (शिवतम) अति कल्याणकारी सभा वा सेना के पति ! आप (नः) हमारे लिये (सुमनाः) प्रसन्न चित्त से (शिवः) सुखकारी (भव) हूजिये (आयुधम्) खड्ग, भुशुण्डी और शतघ्नी आदि शस्त्रों का (निधाय) ग्रहण कर (कृत्तिम्) मृगचर्मादि की अङ्गरखी को (वसानः) शरीर में पहिने (पिनाकम्) आत्मा के रक्षक धनुष् वा बखतर आदि को (बिभ्रत्) धारण किये हुए हम लोगों की रक्षा के लिये (आगहि) आइये (परमे) प्रबल (वृक्षे) काटने योग्य शत्रु की सेना में (आचर) अच्छे प्रकार प्राप्त हूजिये ॥५१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सभा और सेना के अध्यक्ष आदि लोग अपनी प्रजाओं में मङ्गलाचारी और दुष्टों में अग्नि के तुल्य तेजस्वी दाहक हों, जिससे सब लोग धर्ममार्ग को छोड़ के अधर्म का आचरण कभी न करें ॥५१ ॥
दयानन्द-सरस्वती (सं) - विषयः
सभाध्यक्षादिभिः किं कार्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मीढुष्टम शिवतम सभासेनेश ! त्वं नः सुमनाः शिवो भव। आयुधं निधाय कृत्तिं वसानः पिनाकं बिभ्रत् सन्नस्माकं रक्षणायागहि परमे वृक्ष आचर ॥५१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सभासेनेशादयः स्वप्रजासु मङ्गलाचारिणो दुष्टेषु चाग्निरिव दाहकाः स्युर्येन सर्वे धर्मपथं विहायाधर्मं कदापि नाचरेयुः ॥५१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सभा व सेनेचे अध्यक्ष इत्यादी आपल्या प्रजेचे कल्याण करणारे असावेत व दुष्टांसाठी अग्नीप्रमाणे तेजस्वी व दाहक असावेत. यामुळे सर्व लोक धार्मिक बनून अधर्माचे आचरण करणार नाहीत.
५२ विकिरिद्र विलोहित
विश्वास-प्रस्तुतिः ...{Loading}...
विकि॑रिद्र॒ विलो॑हित॒ नम॑स्तेऽअस्तु भगवः। यास्ते॑ स॒हस्रँ॑ हे॒तयो॒ऽन्य॑म॒स्मन्नि व॑पन्तु॒ ताः ॥५२ ॥
मूलम् ...{Loading}...
विकि॑रिद्र॒ विलो॑हित॒ नम॑स्तेऽअस्तु भगवः। यास्ते॑ स॒हस्रँ॑ हे॒तयो॒ऽन्य॑म॒स्मन्नि व॑पन्तु॒ ताः ॥५२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
विकि॑रि॒द्रेति॒ विऽकि॑रिद्र। विलो॑हि॒तेति॒ विऽलो॑हित। नमः॑। ते॒। अ॒स्तु॒। भ॒ग॒व॒ इति॑ भगऽवः। याः। ते॒। स॒हस्र॑म्। हे॒तयः॑। अन्य॑म्। अ॒स्मत्। नि। व॒प॒न्तु॒। ताः। ५२।
महीधरः
म० द्वे अनुष्टुभौ । विविधं किरिं घाताद्युपद्रवं द्रावयति नाशयति विकिरिद्रः हे विकिरिद्र, हे विलोहित, विगतं लोहितं कल्मषं यस्मात् स विलोहितः हे शुद्धस्वरूप, भगवः भगवन् , ते तुभ्यं नमोऽस्तु । हे रुद्र, ते तव याः सहस्रं हेतयोऽसंख्यान्यायुधानि ता हेतयोऽस्मदन्यमस्मद्व्यतिरिक्तं निवपन्तु घ्नन्तु ॥ ५२ ॥
त्रिपञ्चाशी।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- परमेष्ठी प्रजापतिर्वा देवा ऋषयः
- आर्ष्यनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
प्रजा के पुरुष राजपुरुषों के साथ कैसे वर्त्तें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (विकिरिद्र) विशेषकर सूअर के समान सोने वा उत्तम सूअर की निन्दा करनेवाले (विलोहित) विविध पदार्थों को आरूढ़ (भगवः) ऐश्वर्य्ययुक्त सभापते राजन् ! (ते) आपको (नमः) सत्कार प्राप्त (अस्तु) हो जिससे (ते) आपके (याः) जो (सहस्रम्) असंख्यात प्रकार की (हेतयः) उन्नति वा वज्रादि शस्त्र हैं, (ताः) वे (अस्मत्) हम से (अन्यम्) भिन्न दूसरे शत्रु को (निवपन्तु) निरन्तर छेदन करें ॥५२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - प्रजा के लोग राजपुरुषों से ऐसे कहें कि जो आप लोगों की उन्नति और शस्त्र-अस्त्र हैं, वे हम लोगों को सुख में स्थिर करें और इतर हमारे शत्रुओं का निवारण करें ॥५२ ॥
दयानन्द-सरस्वती (सं) - विषयः
प्रजाजना राजजनैः सह कथं वर्तेरन्नित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विकिरिद्र विलोहित भगवस्सभेश राजँस्ते नमोऽस्तु, येन ते तव याः सहस्रं हेतयः सन्ति, ता अस्मदन्यं निवपन्तु ॥५२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - प्रजाजना राजजनान् प्रत्येवमुच्युर्या युष्माकमुन्नतयः शस्त्रास्त्राणि च सन्ति, ता अस्मान् सुखे स्थापयन्त्वितरानस्मच्छत्रून् निवारयन्तु ॥५२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - प्रजेने राजपुरुषांना असे म्हणावे की, तुमच्याजवळ जी शस्त्रास्त्रे आहेत त्यामुळे आम्ही सुरक्षित व स्थिर आहोत. त्या शस्त्रास्त्रांनीच तुम्ही शत्रूंचे निवारण करा.
५३ सहस्राणि सहस्रशो
विश्वास-प्रस्तुतिः ...{Loading}...
स॒हस्रा॑णि सहस्र॒शो बा॒ह्वोस्तव॑ हे॒तयः॑। तासा॒मीशा॑नो भगवः परा॒चीना॒ मुखा॑ कृधि ॥५३ ॥
मूलम् ...{Loading}...
स॒हस्रा॑णि सहस्र॒शो बा॒ह्वोस्तव॑ हे॒तयः॑। तासा॒मीशा॑नो भगवः परा॒चीना॒ मुखा॑ कृधि ॥५३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स॒हस्रा॑णि। स॒ह॒स्र॒श इति॑ सहस्र॒ऽशः। बा॒ह्वोः। तव॑। हे॒तयः॑। तासा॑म्। ईशा॑नः। भ॒ग॒व॒ इति॑ भगवः। प॒रा॒चीना॑। मुखा॑। कृ॒धि॒। ५३।
महीधरः
म० हे भगवः भगवन् , षड्गुणैश्वर्यसंपन्न, तव बाह्वोर्हस्तयोः याः सहस्राणि सहस्रशः हेतयः सन्ति तासां हेतीनां मुखा मुखानि शल्यानि पराचीना अस्मत्तः पराङ्मुखानि त्वं कृधि कुरु । करोतेः शपि लुप्ते ‘श्रुशृणुपॄकृवृभ्यश्छन्दसि’ (पा० ६ । ४ । १०२) इति हेर्धिः । कीदृशस्त्वम् । ईशानः ईष्ट इतीशानः जगन्नाथः । सहस्राणि सहस्रसंख्यानि धनुः खड्गः शूलं वर्मेत्यादिभेदेन सहस्रसंख्यत्वम् । सहस्रं सहस्रमिति सहस्रशः ‘संख्यैकवचनाच्च वीप्सायाम्’ (पा० ५। ४ । ४३ ) इति शस्प्रत्ययः । धनुरादीनां प्रत्येकं सहस्रसंख्यत्वमित्यर्थः ॥ ५३॥
चतुःपञ्चाशी।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- परमेष्ठी प्रजापतिर्वा देवा ऋषयः
- निचृदार्ष्यनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
राजपुरुषों को क्या करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (भगवः) भाग्यशील सेनापते ! जो (तव) आपके (बाह्वोः) भुजाओं की सबन्धिनी (सहस्राणि) असंख्य (हेतयः) वज्रों की प्रबल गति हैं (तासाम्) उनके (ईशानः) स्वामीपन को प्राप्त आप (सहस्रशः) हजारहों शत्रुओं के (मुखा) मुख (पराचीना) पीछे फेर के दूर (कृधि) कीजिये ॥५३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजपुरुषों को उचित है कि बाहुबल से राज्य को प्राप्त हो और असंख्य शूरवीर पुरुषों की सेनाओं को रख के सब शत्रुओं के मुख फेरें ॥५३ ॥
दयानन्द-सरस्वती (सं) - विषयः
राजजनैः किं कार्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे भगवः ! यास्तव बाह्वोः सहस्राणि हेतयः सन्ति, तासामीशानः सन् सहस्रशः शत्रूणां मुखा पराचीना कृधि ॥५३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - राजपुरुषैः बाहुबलेन राज्यं प्राप्यासंख्यशूरवीराः सेनाः संपाद्य सर्वे शत्रवः पराङ्मुखाः कार्याः ॥५३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजपुरुषांनी आपल्या बलाने राज्य प्राप्त करावे, असंख्य शूर वीर पुरुषांची सेना बाळगावी व सर्व शत्रूंचा पराभव करावा.
५४ असङ्ख्याता सहस्राणि
विश्वास-प्रस्तुतिः ...{Loading}...
असं॑ख्याता स॒हस्रा॑णि॒ ये रु॒द्राऽअधि॒ भूम्या॑म्। तेषाँ॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥५४ ॥
मूलम् ...{Loading}...
असं॑ख्याता स॒हस्रा॑णि॒ ये रु॒द्राऽअधि॒ भूम्या॑म्। तेषाँ॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥५४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
असं॑ख्या॒तेत्यस॑म्ऽख्याता। स॒हस्रा॑णि। ये। रु॒द्राः। अधि॑। भूम्या॑म्। तेषा॑म्। स॒ह॒स्र॒यो॒ज॒न इति॑ सहस्रऽयोज॒ने। अव॑। धन्वा॑नि। त॒न्म॒सि॒। ५४।
महीधरः
म०. बहुरुद्रदेवत्या दशानुष्टुभोऽवतानसंज्ञाः । भूमिस्था रुद्रा उच्यन्ते । असंख्याता असंख्यातानि सहस्राणि अमिता ये रुद्रा भूम्यामधि भूमेरुपरि स्थिताः । तेषां रुद्राणां धन्वानि धनूंषि सहस्रयोजने सहस्रं योजनानि यस्मिंस्तादृशे पथि सहस्रयोजनव्यवहिते मार्गे वयमवतन्मसि अवतन्मः अवतारयामः ॥ अपज्यानि कृत्वास्मत्तो दूरं क्षिपाम इत्यर्थः ॥ ५४ ॥
पञ्चपञ्चाशी।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- परमेष्ठी प्रजापतिर्वा देवा ऋषयः
- विराडार्ष्यनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्य लोग कैसे उपकार ग्रहण करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे हम लोग (ये) जो (असंख्याता) संख्यारहित (सहस्राणि) हजारों (रुद्राः) जीवों के सम्बन्धी वा पृथक् प्राणादि वायु (भूम्याम्) पृथिवी (अधि) पर हैं (तेषाम्) उनके सम्बन्ध से (सहस्रयोजने) असंख्य चार कोश के योजनोंवाले देश में (धन्वानि) धनुषों का (अव, तन्मसि) विस्तार करें, वैसे तुम भी विस्तार करो ॥५४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि प्रतिशरीर में विभाग को प्राप्त हुए पृथिवी के सम्बन्धी असंख्य जीवों और वायुओं को जानें, उनसे उपकार लें और उन के कर्त्तव्य को भी ग्रहण करें ॥५४ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यैः कथमुपकारो ग्राह्य इत्युच्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा वयं ये असंख्याता सहस्राणि रुद्रा भूम्यामधि सन्ति, तेषां सकाशात् सहस्रयोजने धन्वान्यव तन्मसि तथा यूयमपि तनुत ॥५४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैः प्रतिशरीरं विभक्ता भूमिसम्बन्धिनो जीवा वायवश्च वेद्यास्तैरुपकारो ग्राह्यस्तेषां कर्त्तव्यश्च ॥५४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी असंख्य जीव व वायू यांना जाणावे. त्यांचा उपयोग करून घ्यावा व त्यांच्यासंबंधीच्या कर्तव्याचे भानही ठेवावे.
५५ अस्मिन् महत्यर्णवेऽन्तरिक्षे
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒स्मिन् म॑ह॒त्य᳖र्ण॒वे᳙ऽन्तरि॑क्षे भ॒वाऽअधि॑। तेषाँ॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥५५ ॥
मूलम् ...{Loading}...
अ॒स्मिन् म॑ह॒त्य᳖र्ण॒वे᳙ऽन्तरि॑क्षे भ॒वाऽअधि॑। तेषाँ॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥५५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒स्मिन्। म॒ह॒ति। अ॒र्ण॒वे। अ॒न्तरि॑क्षे। भ॒वाः। अधि॑। तेषा॑म्। स॒ह॒स्र॒यो॒जन इति॑ सहस्रऽयोज॒ने। अव॑। धन्वा॑नि। त॒न्म॒सि॒। ५५।
महीधरः
म० अन्तरिक्षस्था रुद्रा उच्यन्ते । अस्मिन्नन्तरिक्षे अधिश्रित्य ये भवा रुद्राः स्थिताः तेषां धन्वान्यवतन्मसीति पूर्ववत् । कीदृशेऽन्तरिक्षे । महति विशाले । अर्णवे अर्णांसि जलानि विद्यन्ते यत्र तदर्णवम् मेघाधारत्वात् । ‘अर्णसो लोपश्च’ (पा० ५। २ । १०९-२) इति वप्रत्ययोऽन्तलोपश्च ॥ ५५॥
षट्पञ्चाशी।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- परमेष्ठी प्रजापतिर्वा देवा ऋषयः
- भुरिगार्ष्युष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे हम लोग जो (अस्मिन्) इस (महति) व्यापकता आदि बड़े-बड़े गुणों से युक्त (अर्णवे) बहुत जलोंवाले समुद्र के समान अगाध (अन्तरिक्षे) सब के बीच अविनाशी आकाश में (भवाः) वर्त्तमान जीव और वायु हैं (तेषाम्) उनको उपयोग में लाके (सहस्रयोजने) असंख्यात चार कोश के योजनोंवाले देश में (धन्वानि) धनुषों वा अन्नादि धान्यों को (अध्यव, तन्मसि) अधिकता के साथ विस्तार करें, वैसे तुम लोग भी करो ॥५५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को योग्य है कि जैसे पृथिवी के जीव और वायुओं से कार्य सिद्ध करते हैं, वैसे आकाशस्थों से भी किया करें ॥५५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा वयं येऽस्मिन् महत्यर्णवेऽन्तरिक्षे भवा रुद्रा जीवा वायवश्च सन्ति, तेषां प्रयोगं कृत्वा सहस्रयोजने धन्वान्यध्यवतन्मसि, तथा यूयमपि कुरुत ॥५५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्यथा भूमिस्थेभ्यो जीवेभ्यो वायुभ्यश्च कार्योपयोगः क्रियते, तथाऽन्तरिक्षस्थेभ्योऽपि कर्त्तव्यः ॥५५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसे ज्याप्रमाणे पृथ्वीवरील जीव व वायू यांचा उपयोग करून घेतात, त्याप्रमाणे आकाशातील जीव व वायू यांचाही उपयोग करून घ्यावा.
५६ नीलग्रीवाः शितिकण्ठा
विश्वास-प्रस्तुतिः ...{Loading}...
नील॑ग्रीवाः शिति॒कण्ठा॒ दिवँ॑रु॒द्राऽउप॑श्रिताः। तेषाँ॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥५६ ॥
मूलम् ...{Loading}...
नील॑ग्रीवाः शिति॒कण्ठा॒ दिवँ॑रु॒द्राऽउप॑श्रिताः। तेषाँ॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥५६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नील॑ग्रीवा॒ इति॒ नील॑ऽग्रीवाः। शि॒ति॒कण्ठा॒ इति॑ शिति॒ऽकण्ठाः॑। दिव॑म्। रु॒द्राः। उप॑श्रिता॒ इत्युप॑ऽश्रिताः। तेषा॑म्। स॒ह॒स्र॒यो॒ज॒न इति॑ सहस्रऽयोज॒ने। अव॑। धन्वा॑नि। त॒न्म॒सि॒। ५६।
महीधरः
म० द्युस्था रुद्रा उच्यन्ते । ये रुद्रा दिवं द्युलोकमुपश्रिताः स्वर्गस्थास्तेषामिति पूर्ववत् । कीदृशाः । नीलग्रीवाः नीला श्यामा ग्रीवा येषां ते । शितिः श्वेतः कण्ठो येषां ते । विषग्रासात्कियान्कण्ठभागः कृष्णः कियान्श्वेत इत्यर्थः ॥ ५६ ॥
सप्तपञ्चाशी।
अधिमन्त्रम् (VC)
- बहुरुद्रा देवताः
- परमेष्ठी प्रजापतिर्वा देवा ऋषयः
- निचृदार्ष्यनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे हम लोग जो (नीलग्रीवाः) कण्ठ में नील वर्ण से युक्त (शितिकण्ठाः) तीक्ष्ण वा श्वेत कण्ठवाले (दिवम्) सूर्य्य को बिजुली जैसे वैसे (उपश्रिताः) आश्रित (रुद्राः) जीव वा वायु हैं (तेषाम्) उन के उपयोग से (सहस्रयोजने) असंख्य योजनवाले देश में (धन्वानि) शस्त्रादि को (अव, तन्मसि) विस्तार करें, वैसे तुम लोग भी करो ॥५६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्वानों को चाहिये कि अग्निस्थ वायुओं और जीवों को जान और उपयोग में लाके आग्नेय आदि अस्त्रों को सिद्ध करें ॥५६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा वयं ये नीलग्रीवाः शितिकण्ठा दिवमुपश्रिता रुद्रा जीवा वा सन्ति, तेषामुपयोगेन सहस्रयोजने धन्वान्यवतन्मसि तथा यूयमपि कुरुत ॥५६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - विद्वद्भिः वह्निस्थान् वायून् जीवान् वा विज्ञायोपयुज्य आग्नेयास्त्रादीनि निष्पादनीयानि ॥५६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - विद्वानांनी अग्नीतील वायू व जीव यांचे ज्ञान प्राप्त करावे व त्यांचा उपयोग करून घ्यावा आणि आग्नेय अस्त्रे तयार करावीत.
५७ नीलग्रीवाः शितिकण्ठाः
विश्वास-प्रस्तुतिः ...{Loading}...
नील॑ग्रीवाः शिति॒कण्ठाः॑ श॒र्वाऽअ॒धः क्ष॑माच॒राः। तेषाँ॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥५७ ॥
मूलम् ...{Loading}...
नील॑ग्रीवाः शिति॒कण्ठाः॑ श॒र्वाऽअ॒धः क्ष॑माच॒राः। तेषाँ॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥५७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नील॑ग्रीवा॒ इति॒ नील॑ऽग्रीवाः। शि॒ति॒कण्ठा॒ इति॑ शिति॒ऽकण्ठाः॑। श॒र्वाः। अ॒धः। क्षमाचरा इति॑ क्षमाऽच॒राः। तेषा॑म्। स॒ह॒स्र॒यो॒ज॒न इति॑ सहस्रऽयोज॒ने। अव॑। धन्वा॑नि। त॒न्म॒सि॒। ५७।
महीधरः
म० पातालस्था रुद्रा उच्यन्ते । अधोभागे ये शर्वा रुद्राः क्षमाचराः क्षमाया भुवोऽधोभागे चरन्ति गच्छन्ति ते क्षमाचराः पाताले वर्तमानाः तेषामित्युक्तम् । नीलग्रीवाः शितिकण्ठा इति पूर्ववद्विशेषणे ॥ ५७ ॥
अष्टपञ्चाशी ।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- परमेष्ठी प्रजापतिर्वा देवा ऋषयः
- निचृदार्ष्यनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (नीलग्रीवाः) नीली ग्रीवावाले तथा (शितिकण्ठाः) श्वेत कण्ठवाले (शर्वाः) हिंसक जीव और (अधः) नीचे को वा (क्षमाचराः) पृथिवी में चलनेवाले जीव हैं (तेषाम्) उन के (सहस्रयोजने) हजार योजन के देश में दूर करने के लिये (धन्वानि) धनुषों को हम लोग (अव, तन्मसि) विस्तृत करते हैं ॥५७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को चाहिये कि जो वायु भूमि से आकाश और आकाश से भूमि को जाते-आते हैं। उनमें जो अग्नि और पृथिवी आदि के अवयव रहते हैं, उन को जान और उपयोग में लाके कार्य सिद्ध करें ॥५७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! ये नीलग्रीवाः शितिकण्ठाः शर्वा अधः क्षमाचराः सन्ति, तेषां सहस्रयोजने दूरीकरणाय धन्वानि वयमवतन्मसि ॥५७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैर्ये वायवो भूमेरन्तरिक्षमन्तरिक्षाद् भूमिं च गच्छन्त्यागच्छन्ति तत्र ये तेजोभूम्यादितत्त्वानामवयवाश्चरन्ति, तान् विज्ञायोपयुज्य कार्य्यं साध्यम् ॥५७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जो वायू भूमीकडून आकाशाकडे जातो व आकाशातून भूमीकडे येतो त्यात अग्नी व पृथ्वी इत्यादींचे अणू असतात. त्यांचे ज्ञान प्राप्त करून माणसांनी कार्य सिद्ध करावे.
५८ ये वृक्षेषु
विश्वास-प्रस्तुतिः ...{Loading}...
ये वृ॒क्षेषु॑ श॒ष्पिञ्ज॑रा॒ नील॑ग्रीवा॒ विलो॑हिताः। तेषाँ॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥५८ ॥
मूलम् ...{Loading}...
ये वृ॒क्षेषु॑ श॒ष्पिञ्ज॑रा॒ नील॑ग्रीवा॒ विलो॑हिताः। तेषाँ॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥५८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ये। वृ॒क्षेषु॑। श॒ष्पिञ्ज॑राः। नील॑ग्रीवा॒ इति॒ नील॑ऽग्रीवाः। विलो॑हिता॒ इति॒ विऽलो॑हिताः। तेषा॑म्। स॒ह॒स्र॒यो॒ज॒न इति॑ सहस्रऽयोज॒ने। अव॑। धन्वा॑नि। त॒न्म॒सि॒। ५८।
महीधरः
म० ये रुद्रा वृक्षेषु अश्वत्थादिषु स्थिताः । कीदृशाः । शष्पिञ्जराः शष्पं बालतृणं तद्वत्पिञ्जरा हरितवर्णाः । नीलग्रीवाः नीला ग्रीवा येषां ते कण्ठे नीलवर्णाः । तथा केचन विलोहिताः विशेषेण रक्तवर्णाः । यद्वा विगतं लोहितं रुधिरं येषां ते । लोहितपदं मांसादीनामुपलक्षणम् । विगतलोहितादिधातवस्तेजोमयशरीरा इत्यर्थः । तेषामित्याद्युक्तम् ॥ ५८ ॥
एकोनषष्टी।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- परमेष्ठी प्रजापतिर्वा देवा ऋषयः
- निचृदार्ष्यनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्य लोग सर्पादि दुष्टों का निवारण करें, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे हम लोग (ये) जो (वृक्षेषु) आम्रादि वृक्षों में (शष्पिञ्जराः) रूप दिखाने से भय के हेतु (नीलग्रीवाः) नीली ग्रीवा युक्त काट खानेवाले (विलोहिताः) अनेक प्रकार के काले आदि वर्णों से युक्त सर्प आदि हिंसक जीव हैं (तेषाम्) उन के (सहस्रयोजने) असंख्य योजन देश में निकाल देने के लिये (धन्वानि) धनुषों को (अवतन्मसि) विस्तृत करें, वैसा आचरण तुम लोग भी करो ॥५८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को योग्य है कि जो वृक्षादि में वृद्धि से जीनेवाले सर्प हैं, उन का भी यथाशक्ति निवारण करें ॥५८ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यैः सर्पादयो दुष्टा निवारणीया इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा वयं ये वृक्षेषु शष्पिञ्जरा नीलग्रीवा विलोहिताः सर्पादयः सन्ति, तेषां सहस्रयोजने प्रक्षेपाय धन्वान्यवतन्मसि, तथा यूयमप्याचरत ॥५८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्ये वृक्षादिषु वृद्धिजीवनाः सर्पादयो वर्तन्ते, तेऽपि यथासामर्थ्यं निवारणीयाः ॥५८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी वृक्षांवर राहणाऱ्या साप वगैरेंचा नाश करावा.
५९ ये भूतानामधिपतयो
विश्वास-प्रस्तुतिः ...{Loading}...
ये भू॒ताना॒मधि॑पतयो विशि॒खासः॑ कप॒र्दिनः॑। तेषाँ॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥५९ ॥
मूलम् ...{Loading}...
ये भू॒ताना॒मधि॑पतयो विशि॒खासः॑ कप॒र्दिनः॑। तेषाँ॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥५९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ये। भू॒ताना॑म्। अधि॑पतय॒ इत्यधि॑ऽपतयः॒। वि॒शि॒खास॒ इति॑ विऽशि॒खासः॑। क॒प॒र्दिनः॑। तेषा॑म्। स॒ह॒स्र॒यो॒ज॒न इति॑ सहस्रऽयोज॒ने। अव॑। धन्वा॑नि। त॒न्म॒सि॒। ५९।
महीधरः
म०. ये ईदृशा रुद्रास्तेषां धन्वानीति पूर्ववत् । कीदृशाः । भूतानां देव विशेषाणामधिपतयः अन्तर्हितशरीराः सन्तो मनुष्योपद्रवकरा भूतास्तेषां पालकाः । तत्र केचिद्विशिखासः विगता शिखा येषां ते । शिखाशब्दः केशोपलक्षकः । मुण्डितमुण्डा इत्यर्थः । अन्ये कदर्पिनः जटाजूटयुताः ॥ ५९ ॥
षष्टी।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- परमेष्ठी प्रजापतिर्वा देवा ऋषयः
- आर्ष्यनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्य लोग पढ़ाना और उपदेश किससे ग्रहण करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (ये) जो (भूतानाम्) प्राणी तथा अप्राणियों के (अधिपतयः) रक्षक स्वामी (विशिखासः) शिखारहित संन्यासी और (कपर्दिनः) जटाधारी ब्रह्मचारी लोग हैं (तेषाम्) उनके हितार्थ (सहस्रयोजने) हजार योजन देश में हम लोग सर्वथा सर्वदा भ्रमण करते हैं और (धन्वानि) अविद्यादि दोषों के निवारणार्थ विद्यादि शस्त्रों का (अव, तन्मसि) विस्तार करते हैं, वैसे हे राजपुरुषो ! तुम लोग भी सर्वत्र भ्रमण किया करो ॥५९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को उचित है कि जो सूत्रात्मा और धनञ्जय वायु के समान संन्यासी और ब्रह्मचारी लोग सब के शरीर तथा आत्मा की पुष्टि करते हैं, उनसे पढ़ और उपदेश सुन कर सब लोग अपनी बुद्धि तथा शरीर की पुष्टि करें ॥५९ ॥
दयानन्द-सरस्वती (सं) - विषयः
जनैरध्यापनोपदेशौ कुतो ग्राह्यावित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा ये भूतानामधिपतयो विशिखासः कपर्दिनः संन्यासिनो ब्रह्मचारिणः सन्ति, तेषां हिताय सहस्रयोजने वयं परिभ्रमामो धन्वान्यवतन्मसि, तथा हे राजपुरुषाः ! यूयमपि पर्यटनं सदा कुरुत ॥५९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्ये सूत्रात्मधनञ्जयादिवत् परिव्राजो ब्रह्मचारिणश्च सर्वेषां शरीरात्मपोषकाः सन्ति, तदध्यापनोपदेशाभ्यां बुद्धिदेहपुष्टिः सम्पादनीया ॥५९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी हे जाणावे की, जे सन्यासी व ब्रह्मचारी, सूत्रात्मा व धनंजय वायूप्रमाणे सर्वांची शरीरे व आत्मे यांची पुष्टी करतात त्यांच्याकडून (विद्या) शिकून घेऊन व उपदेश ऐकून सर्व लोकांनी आपल्या बुद्धीची व शरीराची पुष्टी करावी.
६० ये पथाम्
विश्वास-प्रस्तुतिः ...{Loading}...
ये प॒थां प॑थि॒रक्ष॑यऽऐलबृ॒दाऽआ॑यु॒र्युधः॑। तेषाँ॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥६० ॥
मूलम् ...{Loading}...
ये प॒थां प॑थि॒रक्ष॑यऽऐलबृ॒दाऽआ॑यु॒र्युधः॑। तेषाँ॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥६० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ये। प॒थाम्। प॒थि॒रक्ष॑य इति॑ पथि॒ऽरक्ष॑यः। ऐ॒ल॒बृ॒दाः। आ॒यु॒र्युध॒ इत्या॑युः॒ऽयुधः॑। तेषा॑म्। स॒ह॒स्र॒यो॒ज॒न इति॑ सहस्रऽयोज॒ने। अव॑। धन्वा॑नि। त॒न्म॒सि॒। ६०।
महीधरः
म० ये चेदृशा रुद्रास्तेषामित्युक्तम् । कीदृशाः । पथां लौकिकवैदिकमार्गाणामधिपतय इति पूर्वर्चोनुषङ्गः । तथा पथिरक्षसः पथो मार्गास्तानेवान्यानपि रक्षन्ति पालयन्ति ते पथिरक्षसः । ऐलबृदाः इलानामन्नानां समूह ऐलमन्नसमूहः । यद्वा इला पृथ्वी तस्या इदमैलमन्नं तद्बिभ्रति ते ऐलभृतः त एव परोक्षवृत्त्या ऐलबृदा उच्यन्ते । अन्नैर्जन्तूनां पोषका इत्यर्थः । आयुयुधः आयुषा जीवनेन युध्यन्ते ते यावज्जीवयुद्धकराः । यद्वा आयुर्जीवनं पणीकृत्य युध्यन्ते ते आयुर्युधः ॥ ६०॥
एकषष्टी।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- परमेष्ठी प्रजापतिर्वा देवा ऋषयः
- निचृदार्ष्यनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को क्या करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हम लोग (ये) जो (पथाम्) मार्गों के सम्बन्धी तथा (पथिरक्षयः) मार्गों में विचरनेवाले जनों के रक्षकों के तुल्य (ऐलबृदाः) पृथिवीसम्बन्धी पदार्थों के वर्धक (आयुर्युधः) पूर्णायु वा अवस्था के साथ युद्ध करने हारे भृत्य हैं (तेषाम्) उनके (सहस्रयोजने) असंख्य योजन देश में (धन्वानि) धनुषों को (अव, तन्मसि) विस्तृत करते हैं ॥६० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि जैसे राजपुरुष दिन-रात प्रजाजनों की यथावत् रक्षा करते हैं, वैसे पृथिवी और जीवनादि की रक्षा वायु करते हैं, ऐसा जानें ॥६० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैः किं कार्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - वयं ये पथां पथिरक्षय इव ऐलबृदा आयुर्युधो भृत्याः सन्ति, तेषां सहस्रयोजने धन्वान्यवतन्मसि ॥६० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्यथा राजजना अहर्निशं प्रजाजनान् यथावद्रक्षन्ति, तथा पृथिवीं जीवनादिकं च वायवो रक्षन्तीति वेद्यम् ॥६० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जसे राजपुरुष दिवसा व रात्री प्रजेचे योग्य प्रकारे रक्षण करतात तसे वायू, पृथ्वी व त्यावरील जीवनाचे रक्षण करतात हे माणसांने जाणावे.
६१ ये तीर्थानि
विश्वास-प्रस्तुतिः ...{Loading}...
ये ती॒र्थानि॑ प्र॒चर॑न्ति सृ॒काह॑स्ता निष॒ङ्गिणः॑। तेषाँ॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥६१ ॥
मूलम् ...{Loading}...
ये ती॒र्थानि॑ प्र॒चर॑न्ति सृ॒काह॑स्ता निष॒ङ्गिणः॑। तेषाँ॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥६१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ये। ती॒र्थानि॑। प्र॒चर॒न्तीति॑ प्र॒ऽचर॑न्ति। सृ॒काह॑स्ता॒ इति॑ सृ॒काऽह॑स्ताः। नि॒ष॒ङ्गिणः॑। तेषा॑म्। स॒ह॒स्र॒यो॒ज॒न इति॑ सहस्रऽयोज॒ने। अव॑। धन्वा॑नि। त॒न्म॒सि॒। ६१।
महीधरः
म० ये रुद्रास्तीर्थानि प्रयागकाश्यादीनि प्रचरन्ति गच्छन्ति । कीदृशाः । सृकाहस्ताः सृकेत्यायुधनाम । सृका आयुधानि हस्ते येषां ते । निषङ्गिणः निषङ्गाः खड्गा विद्यन्ते येषां ते । सृकाहस्तत्वेऽपि निषङ्गित्वोक्तिः खड्गप्राधान्याय ॥ ६१ ॥
द्विषष्टी।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- परमेष्ठी प्रजापतिर्वा देवा ऋषयः
- निचृदार्ष्यनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हम लोग (ये) जो (सृकाहस्ताः) हाथों में वज्र धारण किये हुए (निषङ्गिणः) प्रशंसित बाण और कोश से युक्त जनों के समान (तीर्थानि) दुःखों से पार करने हारे वेद आचार्य सत्यभाषण और ब्रह्मचर्यादि अच्छे नियम अथवा जिनसे समुद्रादिकों को पार करते हैं, उन नौका आदि तीर्थों का (प्रचरन्ति) प्रचार करते हैं (तेषाम्) उन के (सहस्रयोजने) हजार योजन के देश में (धन्वानि) शस्त्रों को (अव, तन्मसि) विस्तृत करते हैं ॥६१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों के दो प्रकार के तीर्थ हैं, उन में पहिले तो वे जो ब्रह्मचर्य, गुरु की सेवा, वेदादि शास्त्रों का पढ़ना-पढ़ाना, सत्सङ्ग, ईश्वर की उपासना और सत्यभाषण आदि दुःखसागर से मनुष्यों को पार करते हैं और दूसरे वे जिनसे समुद्रादि जलाशयों के इस पार उस पार जाने आने को समर्थ हों ॥६१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तदेवाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - वयं ये सृकाहस्ता निषङ्गिण इव तीर्थानि प्रचरन्ति तेषां सहस्रयोजने धन्वान्यव तन्मसि ॥६१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्याणां द्विविधानि तीर्थानि वर्त्तन्ते तेष्वाद्यानि ब्रह्मचर्याचार्यसेवावेदाद्यध्ययनाध्यापन-सत्सङ्गेश्वरोपासनासत्यभाषणादीनि दुःखसागराज्जनान् पारं नयन्ति। अपराणि यैः समुद्रादिजलाशयेभ्यः पारावारं गन्तुं शक्याश्चेति ॥६१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी हे जाणावे की, दोन प्रकारची तीर्थे असतात. त्यापैकी पहिले ब्रह्मचर्य, गुरूची सेवा, वेदादिशास्रांचे अध्ययन-अध्यापन, सत्संग, ईश्वराची उपासना व सत्यभाषण. हे दुःखसागरातून माणसांना तारून नेतात व दुसरे तीर्थ म्हणजे (नौका वगैरे) ज्याद्वारे समुद्र इत्यादी जलाशयातून जाता येते ते.
६२ येऽन्नेषु विविध्यन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
येऽन्ने॑षु वि॒विध्य॑न्ति॒ पात्रे॑षु॒ पिब॑तो॒ जना॑न्। तेषाँ॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥६२ ॥
मूलम् ...{Loading}...
येऽन्ने॑षु वि॒विध्य॑न्ति॒ पात्रे॑षु॒ पिब॑तो॒ जना॑न्। तेषाँ॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥६२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ये। अन्ने॑षु। वि॒वि॒ध्य॒न्तीति॑ वि॒ऽविध्य॑न्ति। पात्रे॑षु। पिब॑तः। जना॑न्। तेषा॑म्। स॒ह॒स्र॒योज॒न इति॑ सहस्रऽयो॒ज॒ने। अव॑। धन्वा॑नि। त॒न्म॒सि॒। ६२।
महीधरः
म० ये रुद्रा अन्नेषु भुज्यमानेषु स्थिताः सन्तो जनान् विविध्यन्ति विशेषेण ताडयन्ति । धातुवैषम्यं कृत्वा रोगानुत्पादयन्तीत्यर्थः । तथा पात्रेषु पात्रस्थक्षीरोदकादिषु स्थिताः सन्तः पिबतः क्षीरादिपानं कुर्वतो जनान् विविध्यन्ति । अन्नोदकभोक्तरो व्याधिभिः पीडनीया इति तेषामधिकार इति भावः । तेषामिति पूर्ववत् ॥ ६२ ॥
त्रिषष्टी।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- परमेष्ठी प्रजापतिर्वा देवा ऋषयः
- विराडार्ष्यनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हम लोग (ये) जो (अन्नेषु) खाने योग्य पदार्थों में वर्त्तमान (पात्रेषु) पात्रों में (पिबतः) पीते हुए (जनान्) मनुष्यादि प्राणियों को (विविध्यन्ति) बाण के तुल्य घायल करते हैं (तेषाम्) उन को हटाने के लिये (सहस्रयोजने) असंख्य योजन देश में (धन्वानि) धनुषों को (अव, तन्मसि) विस्तृत करते हैं ॥६२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो पुरुष अन्न को खाते और जलादि को पीते हुए जीवों को विष आदि से मार डालते हैं, उनसे सब लोग दूर बसें ॥६२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तदेवाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - वयं येऽन्नेषु वर्त्तमानान् पात्रेषु पिबतो जनान् विविध्यन्ति, तेषां प्रतिकाराय सहस्रयोजने धन्वान्यवतन्मसि ॥६२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - येऽन्नाहारं जलादिपानं कुर्वतो विषादिना घ्नन्ति, तेभ्यः सर्वैर्दूरे वसनीयम् ॥६२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे अन्न खातात, पाणी पितात, स्वतः जगतात व इतर जीवांना मात्र मारून टाकतात त्यांच्यापासून सर्वांनी दूर राहावे.
६३ यऽएतावन्तश्च भूयासश्च
विश्वास-प्रस्तुतिः ...{Loading}...
यऽए॒ताव॑न्तश्च॒ भूयाँ॑सश्च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे। तेषाँ॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥६३ ॥
मूलम् ...{Loading}...
यऽए॒ताव॑न्तश्च॒ भूयाँ॑सश्च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे। तेषाँ॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥६३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ये। ए॒ताव॑न्तः। च॒। भूयाँ॑सः। च॒। दिशः॑। रु॒द्राः। वि॒त॒स्थि॒र इति॑ विऽतस्थि॒रे। तेषा॑म्। स॒ह॒स्र॒यो॒ज॒न इति॑ सहस्रऽयोज॒ने। अव॑। धन्वा॑नि। त॒न्म॒सि॒। ६३।
महीधरः
म० ये रुद्रा एतावन्तः एतत्प्रमाणं येषां ते अतिशयेन बहवो भूयांसः उक्तेभ्योऽतिबहवश्व ये रुद्राः दिशो दश वितस्थिरे आश्रिताः दश दिशो व्याप्य स्थिताः तेषां धनूंषि अवतन्मसीति पूर्ववत् ॥ ६३ ॥
चतुःषष्टी।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- परमेष्ठी प्रजापतिर्वा देवा ऋषयः
- भुरिगार्ष्युष्णिक्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हम लोग (ये) जो (एतावन्तः) इतने व्याख्यात किये (च) और (रुद्राः) प्राण वा जीव (भूयांसः) इन से भी अधिक (च) सब प्राण तथा जीव (दिशः) पूर्वादि दिशाओं में (वितस्थिरे) विविध प्रकार से स्थित हैं (तेषाम्) उन के (सहस्रयोजने) हजार योजन के देश में (धन्वानि) आकाश के अवयवों के (अव, तन्मसि) विरुद्ध विस्तृत करते हैं ॥६३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य सब दिशाओं में स्थित जीवों वा वायुओं को यथावत् उपयोग में लाते हैं, उन के सब कार्य सिद्ध होते हैं ॥६३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तदेवाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - वयं य एतावन्तश्च भूयांसश्च रुद्रा दिशो वितस्थिरे तेषां सहस्रयोजने धन्वान्यवतन्मसि ॥६३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्याः सर्वासु दिक्षु स्थितान् जीवान् वायून् वा यथावदुपयुञ्जते, तेषां सर्वकार्याणि सिद्धानि भवन्ति ॥६३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे सर्व दिशांमध्ये स्थित असलेल्या जीवांचा व वायूंचा यथायोग्य उपयोग करून घेतात त्यांची सर्व कामे सिद्ध होतात.
६४ नमोऽस्तु रुद्रेभ्यो
विश्वास-प्रस्तुतिः ...{Loading}...
नमो॑ऽस्तु रु॒द्रेभ्यो॒ ये दि॒वि येषां॑ व॒र्षमिष॑वः। तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः। तेभ्यो॒ नमो॑ऽअस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ॥६४ ॥
मूलम् ...{Loading}...
नमो॑ऽस्तु रु॒द्रेभ्यो॒ ये दि॒वि येषां॑ व॒र्षमिष॑वः। तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः। तेभ्यो॒ नमो॑ऽअस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ॥६४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नमः॑। अ॒स्तु॒। रु॒द्रेभ्यः॑। ये। दि॒वि। येषा॑म्। व॒र्षम्। इष॑वः। तेभ्यः॑। दश॑। प्राचीः॑। दश॑। द॒क्षि॒णाः। दश॑। प्र॒तीचीः॑। दश॑। उदी॑चीः। दश॑। ऊ॒र्ध्वाः। तेभ्यः॑। नमः॑। अ॒स्तु॒। ते। नः॒। अ॒व॒न्तु॒। ते। नः॒। मृ॒ड॒य॒न्तु॒। ते। यम्। द्वि॒ष्मः। यः। च॒। नः॒। द्वेष्टि॑। तम्। ए॒षा॒म्। जम्भे॑। द॒ध्मः॒। ६४।
महीधरः
म० कण्डिकात्रयात्मिकानि त्रीणि यजूंषि प्रत्यवरोहसंज्ञानि धृतिच्छन्दस्कानि बहुरुद्रदेवत्यानि । त्रिलोकस्था रुद्रा उच्यन्ते । दिवि द्युलोके ये रुद्राः वर्तन्ते येषां च रुद्राणां वर्षं वृष्टिरेव इषवः बाणाः । आयुधस्थानीया वृष्टिः । अतिवृष्ट्यादीतिभिः प्राणिनो घ्नन्ति तेभ्यो रुद्रेभ्यो नमो नमस्कारोऽस्तु । तेभ्यो रुद्रेभ्यो दशसंख्याकाः प्राचीः प्रागभिमुखा अङ्गुलीः कुर्वे इति शेषः । प्राङ्मुखाञ्जलिकरणे प्राच्यो दशाङ्गुलयो भवन्ति । दक्षिणाः दक्षिणाभिमुखाः दशाङ्गुलीः कुर्वे । प्रतीचीः प्रत्यङ्मुखाः दशाङ्गुलीः कुर्वे । उदीचीरुदङ्मुखाः दशाङ्गुलीः कुर्वे । ऊर्ध्वाः उपरि दशाङ्गुलीः कुर्वे । अञ्जलिं बद्ध्वा सर्वदिक्षु नमस्करोमीत्यर्थः । तेभ्यो रुद्रेभ्यो नमोऽस्तु अञ्जलिपूर्वनतिरस्तु । ‘दश वा अञ्जलेरङ्गुलयो दिशि दिश्येवैभ्य एतदञ्जलिं करोति’ (९ । १ । १ । ३९ ) इति श्रुतेः । ते रुद्रा नोऽस्मानवन्तु रक्षन्तु । ते रुद्रा नोऽस्मान् मृडयन्तु सुखयन्तु । किंच ते रुद्रा यं पुरुषं द्विषन्तीति शेषः । वयं च यं द्विष्मो यस्य द्वेषं कुर्मः च । पुनर्यो नरो नोऽस्मान् द्वेष्टि तं पुरुषमेषां पूर्वोक्तानां रुद्राणां जम्भे दंष्ट्राकराले मुखे दध्मः स्थापयामः । अस्मद्विषमस्मद्द्वेष्यं च नरं रुद्राः पूर्वोक्ता भक्षयन्त्वित्यर्थः । अस्मांश्चावन्तु च ॥ ६४ ॥
पञ्चषष्टी ।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- परमेष्ठी प्रजापतिर्वा देवा ऋषयः
- निचृद्धृतिः
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ये) जो सर्वहितकारी (दिवि) सूर्यप्रकाशादि के तुल्य विद्या और विनय में वर्त्तमान हैं (येषाम्) जिनके (वर्षम्) वृष्टि के समान (इषवः) बाण हैं (तेभ्यः) उन (रुद्रेभ्यः) प्राणादि के तुल्य वर्त्तमान पुरुषों के लिये हम लोगों का किया (नमः) सत्कार (अस्तु) प्राप्त हो जो (दश) दश प्रकार (प्राचीः) पूर्व (दश) दश प्रकार (दक्षिणाः) दक्षिण (दश) दश प्रकार (प्रतीचीः) पश्चिम (दश) दश प्रकार (उदीचीः) उत्तर और (दश) दश प्रकार (ऊर्ध्वाः) ऊपर की दिशाओं को प्राप्त होते हैं (तेभ्यः) उन सर्वहितैषी राजपुरुषों के लिये हमारा (नमः) अन्नादि पदार्थ (अस्तु) प्राप्त हो, जो ऐसे पुरुष हैं (ते) वे (नः) हमारी (अवन्तु) रक्षा करें (ते) वे (नः) हमको (मृडयन्तु) सुखी करें (ते) वे हम लोग (यम्) जिससे (द्विष्मः) अप्रीति करें (च) और (यः) जो (नः) हम को (द्वेष्टि) दुःख दे (तम्) उसको (एषाम्) इन वायुओं की (जम्भे) बिलाव के मुख में मूषे के समान पीड़ा में (दध्मः) डालें ॥६४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे वायुओं के सम्बन्ध से वर्षा होती है, वैसे जो सर्वत्र अधिष्ठित हों, वे वीर पुरुष पूर्वादि दिशाओं में हमारे रक्षक हों, हम लोग जिस को विरोधी जानें, उसको सब ओर से घेर के वायु के समान बाँधें ॥६४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तदेवाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये रुद्रा दिवि वर्त्तन्ते येषां वर्षमिषवस्तेभ्यो रुद्रेभ्योऽस्माकं नमोऽस्तु, ये दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वाः प्राप्नुवन्ति तेभ्यो रुद्रेभ्योऽस्माकं नमोऽस्तु, य एवंभूतास्ते नोऽवन्तु, ते नो मृडयन्तु, ते वयं यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दध्मः ॥६४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यथा वायूनां सकाशाद् वर्षा जायन्ते, तथा ये सर्वत्राधिष्ठातारः स्युस्ते वीराः पूर्वादिषु दिक्ष्वस्माकं रक्षकाः सन्तु, वयं यं विरोधिनं जानीमस्तं सर्वत आवृत्य वायुवद् बन्धयेमेति ॥६४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - वायूमुळे जशी सर्वत्र वृष्टी होते तसे सर्वत्र वीर पुरुषांनी आमचे रक्षण करावे व जे विरोधी असतील त्यांना वायू जसा सगळीकडून घेरतो तसे बंधित करावे.
६५ नमोऽस्तु रुद्रेभ्यो
विश्वास-प्रस्तुतिः ...{Loading}...
नमो॑ऽस्तु रु॒द्रेभ्यो॒ ये᳙ऽन्तरि॑क्षे॒ येषां॒ वात॒ऽइष॑वः। तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः। तेभ्यो॒ नमो॑ऽअस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ॥६५ ॥
मूलम् ...{Loading}...
नमो॑ऽस्तु रु॒द्रेभ्यो॒ ये᳙ऽन्तरि॑क्षे॒ येषां॒ वात॒ऽइष॑वः। तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः। तेभ्यो॒ नमो॑ऽअस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ॥६५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नमः॑। अ॒स्तु॒। रु॒द्रेभ्यः॑। ये। अ॒न्तरि॑क्षे। येषा॑म्। वातः॑। इष॑वः। तेभ्यः॑। दश॑। प्राचीः॑। दश॑। द॒क्षि॒णाः। दश॑। प्र॒तीचीः॑। दश॑। उदी॑चीः। दश॑। ऊ॒र्ध्वाः। तेभ्यः॑। नमः॑। अ॒स्तु॒। ते। नः॒। अ॒व॒न्तु॒। ते। नः॒। मृ॒ड॒य॒न्तु॒। ते। यम्। द्वि॒ष्मः। यः। च॒। नः॒। द्वेष्टि॑। तम्। ए॒षा॒म्। जम्भे॑। द॒ध्मः॒। ६५।
महीधरः
म० ये अन्तरिक्षे रुद्रा वर्तन्ते तेभ्यो रुद्रेभ्यो नमोऽस्तु । येषां रुद्राणां वात इषवः वायुरायुधस्थानीयः कुवातेनान्नं विनाश्य वातरोगं वोत्पाद्य जनान्घ्नन्ति । तेभ्योऽन्तरिक्षस्थेभ्यो वातेभ्यो रुद्रेभ्यो नमोऽस्तु । शिष्टं व्याख्यातम् ॥ ६५॥
षट्षष्टी।
इति माध्यन्दिनीयायां वाजसनेयसंहितायां षोडशोऽध्यायः ॥ १६ ॥
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- परमेष्ठी प्रजापतिर्वा देवा ऋषयः
- धृतिः
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ये) जो विमानादि यानों में बैठ के (अन्तरिक्षे) आकाश में विचरते हैं (येषाम्) जिनके (वातः) वायु के तुल्य (इषवः) बाण हैं (तेभ्यः) उन (रुद्रेभ्यः) प्राणादि के तुल्य वर्त्तमान पुरुषों के लिये हमारा किया (नमः) सत्कार (अस्तु) प्राप्त हो जो (दश) दश प्रकार (प्राचीः) पूर्व (दश) दश प्रकार (दक्षिणाः) दक्षिण (दश) दश प्रकार (प्रतीचीः) पश्चिम (दश) दश प्रकार (उदीचीः) उत्तर और (दश) दश प्रकार (ऊर्ध्वाः) ऊपर की दिशाओं में व्याप्त हुए हैं (तेभ्यः) उन सर्वहितैषियों को (नमः) अन्नादि पदार्थ (अस्तु) प्राप्त हो, जो ऐसे पुरुष हैं (ते) वे (नः) हमारी (अवन्तु) रक्षा करें (ते) वे (नः) हमको (मृडयन्तु) सुखी करें (ते) वे और हम लोग (यम्) जिससे (द्विष्मः) अप्रीति करें (च) और (यः) जो (नः) हम को (द्वेष्टि) दुःख दे (तम्) उसको (एषाम्) इन वायुओं की (जम्भे) बिडाल के मुख में मूषे के समान पीड़ा में (दध्मः) डालें ॥६५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो मनुष्य आकाश में रहनेवाले शुद्ध कारीगरों का सेवन करते हैं, उनको ये सब ओर से बलवान् करके शिल्पविद्या की शिक्षा करें ॥६५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये विमानादिषु स्थित्वाऽन्तरिक्षे विचरन्ति, येषां वात इवेषवः सन्ति, तेभ्यो रुद्रेभ्योऽस्माकं नमोऽस्तु, ये दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोर्ध्वा आशा व्याप्तवन्तस्तेभ्यो नमोऽस्तु, ते नोऽवन्तु, ते नो मृडयन्तु, ते वयं च यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे वशे दध्मः ॥६५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये मनुष्या आकाशस्थान् शुद्धान् शिल्पिनः सेवन्ते, तानेते सर्वतो बलयित्वा शिल्पविद्याः शिक्षेरन् ॥६५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. अंतरिक्षात वायूयानाद्वारे रक्षण करणाऱ्या कारागिरांना सर्व प्रकारे बलवान करून शिल्पविद्येचे शिक्षण द्यावे.
६६ नमोऽस्तु रुद्रेभ्यो
विश्वास-प्रस्तुतिः ...{Loading}...
नमो॑ऽस्तु रु॒द्रेभ्यो॒ ये पृ॑थि॒व्यां येषा॒मन्न॒मिष॑वः। तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः। तेभ्यो॒ नमो॑ऽअस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ॥६६ ॥
मूलम् ...{Loading}...
नमो॑ऽस्तु रु॒द्रेभ्यो॒ ये पृ॑थि॒व्यां येषा॒मन्न॒मिष॑वः। तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः। तेभ्यो॒ नमो॑ऽअस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ॥६६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नमः॑। अ॒स्तु॒। रु॒द्रेभ्यः॑। ये। पृ॒थि॒व्याम्। येषा॑म्। अन्न॑म्। इष॑वः। तेभ्यः॑। दश॑। प्राचीः॑। दश॑। द॒क्षि॒णाः। दश॑। प्र॒तीचीः॑। दश॑। उदी॑चीः। दश॑। ऊ॒र्ध्वाः। तेभ्यः॑। नमः॑। अ॒स्तु॒। ते। नः॒। अ॒व॒न्तु॒। ते। नः॒। अ॒व॒न्तु॒। ते। नः॒। मृ॒ड॒य॒न्तु॒। ते। यम्। द्वि॒ष्मः। यः। च॒। नः॒। द्वेष्टि॑। तम्। ए॒षा॒म्। जम्भे॑। द॒ध्मः॒। ६६।
महीधरः
म० ये पृथिव्यां रुद्रा वर्तन्ते येषामन्नमिषवः । अन्नमदनीयं वस्तु आयुधम् अयथान्नभक्षणे कदन्नभक्षणे चौर्ये वा प्रवर्त्य रोगमुत्पाद्य जनान् घ्नन्ति तेभ्यः पृथिवीस्थेभ्योऽन्नायुधेभ्यो रुद्रेभ्यो नमोऽस्तु । तेऽस्मानवन्त्वित्यादि पूर्ववत् । एते प्रत्यवरोहमन्त्राः । ‘अथ प्रत्यवरोहान् जुहोति’ ( ९ । १। ३२ ) इति व्यवहाराय संज्ञाकरणम् ॥ ६६ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
शतरुद्रियहोमोऽयं षोडशोऽध्याय ईरितः ॥ १६ ॥
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- परमेष्ठी प्रजापतिर्वा देवा ऋषयः
- धृतिः
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ये) जो भूविमान आदि में बैठे के (पृथिव्याम्) विस्तृत भूमि में विचरते हैं (येषाम्) जिन के (अन्नम्) खाने योग्य तण्डुलादि (इषवः) बाणरूप हैं (तेभ्यः) उन (रुद्रेभ्यः) प्राणादि के तुल्य वर्त्तमान पुरुषों के लिये हम लोगों का किया (नमः) सत्कार (अस्तु) प्राप्त हो जो (दश) दश प्रकार (प्राचीः) पूर्व (दश) दश प्रकार (दक्षिणाः) दक्षिण (दश) दश प्रकार (प्रतीचीः) पश्चिम (दश) दश प्रकार (उदीचीः) उत्तर और (दश) दश प्रकार (ऊर्ध्वाः) ऊपर की दिशाओं को व्याप्त होते हैं (तेभ्यः) उन सर्वहितैषी राजपुरुषों के लिये हमारा (नमः) अन्नादि पदार्थ (अस्तु) प्राप्त हो, जो ऐसे पुरुष हैं (ते) वे (नः) हमारी सब ओर से (अवन्तु) रक्षा करें (ते) वे (नः) हम को (मृडयन्तु) सुखी करें (ते) वे और हम लोग (यम्) जिसको (द्विष्मः) अप्रसन्न करें (च) और (यः) जो (नः) हम को (द्वेष्टि) दुःख दे (तम्) उस को (एषाम्) इन वायुओं की (जम्भे) बिलाड़ी के मुख में मूषे के तुल्य पीड़ा में (दध्मः) डालें ॥६६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो पृथिवी पर अन्नार्थी पुरुष हैं, उन का अच्छे प्रकार पोषण कर उन्नति करनी चाहिये ॥६६ ॥ इस अध्याय में वायु, जीव, ईश्वर और वीरपुरुष के गुण तथा कृत्य का वर्णन होने से इस अध्याय के अर्थ की पूर्व अध्याय में कहे अर्थ के साथ सङ्गति जाननी चाहिये ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्याणां श्रीमत्परमविदुषां विरजानन्दसरस्वतीस्वामिनां शिष्येण दयानदसरस्वतीस्वामिना निर्मिते संस्कृतार्य्यभाषाभ्यां विभूषिते सुप्रमाणयुक्ते यजुर्वेदभाष्ये षोडशोऽध्यायः सम्पूर्णः ॥१६॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये भूविमानादिषु स्थित्वा पृथिव्यां विचरन्ति, येषामन्नमिषवस्तेभ्यो रुद्रेभ्योऽस्माकं नमोऽस्तु, ये दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वा व्याप्तवन्तः सन्ति, तेभ्योऽस्माकं नमोऽस्तु, ते नः सर्वतोऽवन्तु, ते नो मृडयन्तु, ते वयं च यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दध्मः ॥६६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये पृथिव्यामन्नार्थिनस्तान् संपोष्य वर्द्धनीयाः ॥६६ ॥ अस्मिन्नध्याये वायुजीवेश्वरवीरगुणकृत्यवर्णनादेतदर्थस्य पूर्वाध्यायोक्तार्र्थेन सह सङ्गतिरस्तीति वेद्यम् ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या पृथ्वीवर ज्यांना अन्नाची गरज आहे त्यांचे चांगल्या प्रकारे पोषण करून त्यांना उन्नत करावे.