०१ अग्ने जातान्
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने॑ जा॒तान् प्र णु॑दा नः स॒पत्ना॒न् प्रत्यजा॑तान् नुद जातवेदः। अधि॑ नो ब्रूहि सु॒मना॒ऽअहे॑डँ॒स्तव॑ स्याम॒ शर्मँ॑स्त्रि॒वरू॑थऽउ॒द्भौ ॥१ ॥
मूलम् ...{Loading}...
अग्ने॑ जा॒तान् प्र णु॑दा नः स॒पत्ना॒न् प्रत्यजा॑तान् नुद जातवेदः। अधि॑ नो ब्रूहि सु॒मना॒ऽअहे॑डँ॒स्तव॑ स्याम॒ शर्मँ॑स्त्रि॒वरू॑थऽउ॒द्भौ ॥१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अग्ने॑। जा॒तान्। प्र। नु॒द॒। नः॒। स॒पत्ना॒निति स॒ऽपत्ना॑न्। प्रतिं॑। अजा॑तान्। नु॒द॒। जा॒त॒वे॒द॒ इति॑ जातऽवेदः। अधि॑। नः॒। ब्रू॒हि॒। सु॒मना॒ इति॑ सु॒ऽमनाः॑। अहे॑डन्। तव॑। स्या॒म। शर्म॑न्। त्रि॒वरू॑थ इति॑ त्रि॒ऽवरू॑थे। उ॒द्भावित्यु॒त्ऽभौ। १।
महीधरः
म० चतुर्दशेऽध्याये द्वितीयतृतीयचतुर्थचितिमन्त्रानुक्त्वा पञ्चदशे पञ्चमचितिमन्त्रा वाच्याः । ‘पञ्चम्यामन्तेष्वाश्विनीवदसपत्ना अग्ने जातानिति प्रतिमन्त्रम्’ ( का० १७।११।१-३) । पञ्चम्यां चितावाश्विनीवत् असपत्नासंज्ञा इष्टकाः अन्तेषूपदधाति अग्रे जातान् सहसा जातान् षोडशी चतुश्चत्वारिᳪं᳭शः अग्नेः पुरीषम् इति पञ्चमन्त्रैः प्रत्येकमिति सूत्रार्थः । पञ्चमचितिमन्त्राणां परमेष्ठी ऋषिः । तत्र द्वे अग्निदेवत्ये त्रिष्टुभौ । हे अग्ने, जातान् पूर्वमुत्पन्नान्नोऽस्माकं सपत्नान् शत्रून् त्वं प्रणुद प्रकर्षेण नाशय । किंच हे जातवेदः जातप्रज्ञान, अजाताननुत्पन्नांश्च शत्रून् प्रतिनुद निवर्तय । उत्पत्तिप्रतिबन्धं कुर्वित्यर्थः । उपसर्गव्यवधानमार्षम् । किंच नो- ऽस्माकमधिब्रूहि अधिवद उपदिश यज्ञसंबन्धिनीमितिकर्तव्यतामिति शेषः । किं कुर्वन् । अहेडन् अक्रुध्यन् । सुमनाः शोभनमनस्कः सन्नुपदिशेत्यर्थः । किंच अग्ने, तव त्वत्संबन्धिनि त्रिवरूथे वरूथं गृहं त्रयाणां वरूथानां समाहारे यज्ञगृहेऽत्र सदोहविर्धानाग्नीध्ररूपे वयं स्याम भवेम । सदा यज्ञान्कुर्म इत्यर्थः । कीदृशे । त्रिवरूथे शर्मन् शर्मणि सुखाश्रये । तथा उद्भौ द्विपदचतुष्पदधनधान्यादिभिरुद्भवति समृध्यत इत्युद्भिः तस्मिन् भवतेर्डिप्रत्ययः । अनेन मन्त्रेण पुरस्तादिष्टकामुपदधाति १
द्वितीया।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब पन्द्रहवें अध्याय का आरम्भ है, इसके प्रथम मन्त्र में राजा और राजपुरुषों को क्या-क्या करना चाहिये, इस विषय का उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) राजन् वा सेनापते ! आप (नः) हमारे (जातान्) प्रसिद्ध (सपत्नान्) शत्रुओं को (प्र, नुद) दूर कीजिये। हे (जातवेदः) प्रसिद्ध बलवान् ! आप (अजातान्) अप्रसिद्ध शत्रुओं को (नुद) प्रेरणा कीजिये और हमारा (अहेडन्) अनादर न करते हुए (सुमनाः) प्रसन्नचित आप (नः) (प्रति) हमारे प्रति (अधिब्रूहि) अधिक उपदेश कीजिये, जिससे हम लोग (तव) आप के (उद्भौ) उत्तम पदार्थों से युक्त (त्रिवरूथे) आध्यात्मिक, आधिभौतिक और आधिदैविक इन तीनों सुखों के हेतु (शर्मन्) घर में (स्याम) सुखी होवें ॥१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजा आदि न्यायाधीश सभासदों को चाहिये कि गुप्त दूतों से प्रसिद्ध और अप्रसिद्ध शत्रुओं को निश्चय करके वश में करें और किसी धर्मात्मा का तिरस्कार और अधर्मी का सत्कार भी कभी न करें, जिस से सब सज्जन लोग विश्वासपूर्वक राज्य में वसें ॥१ ॥
दयानन्द-सरस्वती (सं) - विषयः
अस्य प्रथममन्त्रे राजराजपुरुषैः किं किं कर्त्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! त्वं नो जातान् सपत्नान् प्रणुदा हे जातवेदस्त्वमजातान् शत्रून् नुद अस्मानहेडन् सुमनास्त्वं नोऽस्मान् प्रत्यधिब्रूहि यतो वयं तवोद्भौ त्रिवरूथे शर्मन् सुखिनः स्याम ॥१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - राजादिसभ्यजनैर्गुप्तैश्चारैः प्रसिद्धाऽप्रसिद्धान् शत्रून् निश्चित्य वशं नेयाः। न कस्यापि धार्मिकस्यानादरोऽधार्मिकस्यादरश्च कर्त्तव्यः, यतः सर्वे सज्जना विश्वस्ताः सन्तो राष्ट्रे वसेयुः ॥१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजा व न्यायाधीश यांनी ज्ञात व अज्ञात अशा शत्रूंना गुप्त दूतांमार्फत माहिती घेऊन ताब्यात घ्यावे. धर्मात्मा लोकांचा तिरस्कार व अधार्मिक माणसांचा सत्कार कधीही करू नये. त्यामुळे सर्व सज्जन राज्यात विश्वासपूर्वक निवास करतील.
०२ सहसा जातान्
विश्वास-प्रस्तुतिः ...{Loading}...
सह॑सा जा॒तान् प्रणु॑दा नः स॒पत्ना॒न् प्रत्यजा॑तान् जातवेदो नुदस्व। अधि॑ नो ब्रूहि सुमन॒स्यमा॑नो व॒यँ स्या॑म॒ प्रणु॑दा नः स॒पत्ना॑न् ॥२ ॥
मूलम् ...{Loading}...
सह॑सा जा॒तान् प्रणु॑दा नः स॒पत्ना॒न् प्रत्यजा॑तान् जातवेदो नुदस्व। अधि॑ नो ब्रूहि सुमन॒स्यमा॑नो व॒यँ स्या॑म॒ प्रणु॑दा नः स॒पत्ना॑न् ॥२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सह॑सा। जा॒तान्। प्र। नु॒द॒। नः॒। स॒पत्ना॒निति॑ स॒ऽपत्ना॑न्। प्रति॑। अजा॑तान्। जा॒त॒वे॒द॒ इति॑ जातऽवेदः। नु॒द॒स्व॒। अधि॑। नः॒। ब्रू॒हि॒। सु॒म॒न॒स्यमा॑न॒ इति॑ सुऽमन॒स्यमा॑नः। व॒यम्। स्या॒म॒। प्र। नु॒द॒। नः॒। स॒पत्ना॒निति॑ स॒ऽपत्ना॑न्। २।
महीधरः
म० अथ पश्चादुपदधाति । सहसा बलेन जातानुत्पन्नान्नोऽस्माकं सपत्नान् प्रणुद नाशय । हे जातवेदः, अजातान् उत्पत्स्यमानानपि प्रतिनुदस्व । आत्मनेपदमार्षम् । किंच सुमनस्यमानोऽस्मासु शुभचित्तः सन्नोऽस्मानधिब्रूहि शत्रुभ्योऽधिकान् वद । वयमपि त्वत्प्रसादादधिकाः स्याम भवेम । नोऽस्माकं सपत्नान् प्रणुद । पुनरुक्तिरादरार्था । शोभनं मनो यस्य सुमनाः असुमनाः सुमना भवति सुमनस्यमानः ‘भृशादिभ्यः’ (पा० ३ । १ । १२) इति क्यङ् ततः शानच् ॥२॥
तृतीया।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी ऋषिः
- भुरिक् त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही पूर्वोक्त विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (जातवेदः) प्रकृष्ट ज्ञान को प्राप्त हुए राजन् ! आप (नः) हमारे (सहसा) बल के सहित (जातान्) प्रसिद्ध हुए (सपत्नान्) शत्रुओं को (प्रणुद) जीतिये और उन (प्रति) (अजातान्) युद्ध में छिपे हुए शत्रुओं के सेवक मित्रभाव से प्रसिद्धों को (नुदस्व) पृथक् कीजिये तथा (सुमनस्यमानः) अच्छे प्रकार विचारते हुए आप (नः) हमारे लिये (अधिब्रूहि) अधिकता से विजय के विधान का उपदेश कीजिये (वयम्) हम लोग आप के सहायक (स्याम) होवें, जिन (नः) हमारे (सपत्नान्) विरोध में प्रवृत्त सम्बन्धियों को आप (प्रणुद) मारें, उन को हम लोग भी मारें ॥२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजा को चाहिये कि जो राज्य के सेवक शत्रुओं के निवारण करने में यथाशक्ति प्रयत्न न करें उन को अच्छे प्रकार दण्ड देवे और जो अपने सहायक हों, उन का सत्कार करें ॥२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे जातवेदस्त्वं नः सहसा जातान् सपत्नान् प्रणुद। तान् प्रत्यजातान् नुदस्व। सुमनस्यमानस्त्वं नोऽधि ब्रूहि। वयं तव सहायाः स्याम। यान्नः सपत्नान् त्वं प्रणुद तान् वयमपि प्रणुदेम ॥२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये राजभृत्याः शत्रुनिवारणे यथाशक्ति न प्रयतन्ते ते सम्यग्दण्ड्याः। ये स्वसहायाः स्युस्तान् राजा सत्कुर्यात् ॥२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - आपल्या कर्मचाऱ्यांनी शत्रूंच्या निवारणाचा प्रयत्न न केल्यास राजाने त्यांना चांगली शिक्षा करावी व आपल्याला मदत करणाऱ्यांचा सत्कार करावा.
०३ षोडशी स्तोमऽओजो
विश्वास-प्रस्तुतिः ...{Loading}...
षो॒ड॒शी स्तोम॒ऽओजो॒ द्रवि॑णं चतुश्चत्वारिँ॒श स्तोमो॒ वर्चो॒ द्रवि॑णम्। अ॒ग्नेः पुरी॑षम॒स्यप्सो॒ नाम॒ तां॑ त्वा॒ विश्वे॑ऽअ॒भिगृ॑णन्तु दे॒वाः। स्तोम॑पृष्ठा घृ॒तव॑ती॒ह सी॑द प्र॒जाव॑द॒स्मे द्रवि॒णा यज॑स्व ॥३ ॥
मूलम् ...{Loading}...
षो॒ड॒शी स्तोम॒ऽओजो॒ द्रवि॑णं चतुश्चत्वारिँ॒श स्तोमो॒ वर्चो॒ द्रवि॑णम्। अ॒ग्नेः पुरी॑षम॒स्यप्सो॒ नाम॒ तां॑ त्वा॒ विश्वे॑ऽअ॒भिगृ॑णन्तु दे॒वाः। स्तोम॑पृष्ठा घृ॒तव॑ती॒ह सी॑द प्र॒जाव॑द॒स्मे द्रवि॒णा यज॑स्व ॥३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
षो॒ड॒शी। स्तोमः॑। ओजः॑। द्रवि॑णम्। च॒तु॒श्च॒त्वा॒रिँ॒श इति॑ चतुःऽच॒त्वा॒रिँ॒शः। स्तोमः॑। वर्चः॑। द्रवि॑णम्। अ॒ग्नेः। पुरी॑षम्। अ॒सि॒। अप्सः॑। नाम॑। ताम्। त्वा॒। विश्वे॑। अ॒भि। गृ॒ण॒न्तु॒। दे॒वाः। स्तोम॑पृ॒ष्ठेति॒ स्तोम॑ऽपृष्ठा। घृ॒तव॒ती॒ति॑ घृ॒तऽव॑ती। इ॒ह। सी॒द॒। प्र॒जाव॒दिति॑ प्र॒जाऽव॑त्। अ॒स्मे इत्य॒स्मे। द्रवि॒णा। य॒ज॒स्व॒। ३।
महीधरः
म० अथ दक्षिणतः । इष्टकादेवत्यं यजुः । पञ्चदशकलस्य पक्षस्य भर्ता य आदित्यरूपः स्तोमः षोडशावृत्त्युपेतो वा यः स्तोमः यच्च ओजो बलरूपं द्रविणं धनम् हे इष्टके, त्वं तदुभयरूपासि तां त्वामुपदधामि । अथोत्तरतः । इष्टकादेवत्यं यजुः । चतुश्चत्वारिंशदावृत्त्या संपन्नो यः स्तोमस्त्रिष्टुब्रूपो वा यच्च बलरूपं धनम् तदुभयरूपां त्वामुपदधामि । अथ मध्येपञ्चमी त्रिष्टुप् । ‘प्सा भक्षणे । न प्साति भक्षयति विनाशयतीत्यसो रक्षको नाम योऽग्निस्तस्याग्नेश्चन्द्ररूपस्य पञ्चदशकलस्य पुरीषमसि पूरयित्री भवसि । हे इष्टके, या त्वं तां त्वां विश्वेदेवा अभिगृणन्तु स्तुवन्तु । स्तोमैः पृष्ठैश्च युता होष्यमाणघृतयुता च सती सा त्वमिह चतुर्थ्यां चितौ सीद उपविश । अस्मे अस्मासु प्रजावत्पुत्रयुतं द्रविणं धनं यजस्व देहि ॥३॥
चतुर्थी ।
अधिमन्त्रम् (VC)
- दम्पती देवते
- परमेष्ठी ऋषिः
- ब्राह्मी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब स्त्री-पुरुष का धर्म अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (षोडशी) प्रशंसित सोलह कलाओं से युक्त (स्तोमः) स्तुति के योग्य (ओजः) पराक्रम (द्रविणम्) धन को जो (चतुश्चत्वारिंशः) चवालीस संख्या को पूर्ण करनेवाला ब्रह्मचर्य का आचरण (स्तोमः) स्तुति का साधन (नाम) प्रसिद्ध (वर्चः) पढ़ना और (द्रविणम्) बल को देती है, जो (अग्नेः) अग्नि की (पुरीषम्) पूर्त्ति को प्राप्त (अप्सः) दूसरे के पदार्थों के भोग की इच्छा से रहित (असि) हो, उस (त्वा) पुरुष तथा (ताम्) स्त्री की (विश्वे) सब (देवाः) विद्वान् लोग (अभिगृणन्तु) प्रशंसा करें सो तू (स्तोमपृष्ठा) इष्ट स्तुतियों को जाननेवाली (घृतवती) प्रशंसित घी आदि पदार्थों से युक्त (इह) इस गृहाश्रम में (सीद) स्थित हो और (अस्मे) हमारे लिये (प्रजावत्) बहुत सन्तानों के हेतु (द्रविणा) धन को (यजस्व) दिया कर ॥३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि सोलह कला रूप जगत् में विद्यारूप बल को फैला और गृहाश्रम कर के विद्यादानादि कर्मों को निरन्तर किया करें ॥३ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ पतिपत्नीधर्म्ममाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यः षोडशी स्तोम ओजो द्रविणं यश्चतुश्चत्वारिंशः स्तोमो नाम वर्चो द्रविणं च ददाति, योऽग्नेः पुरीषं प्राप्तोऽप्सोऽसि, तं त्वा त्वां च विश्वे देवा अभिगृणन्तु। सा त्वं स्तोमपृष्ठा घृतवती सतीह गृहाश्रमे सीद, अस्मे प्रजावद् द्रविणा यजस्व ॥३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैः षोडशकलात्मके जगति विद्याबलं विस्तार्य्य गृहाश्रमं कृत्वा विद्यादानादीनि कर्माणि सततं कार्य्याणि ॥३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सोळा कलांनी युक्त असलेल्या या जगात विद्यारूपी बलाचा विस्तार करून माणसांनी गृहस्थाश्रमाचा स्वीकार करावा व विद्यादान इत्यादी कर्म सतत करावे.
०४ एवश्छन्दो वरिवश्छन्दः
विश्वास-प्रस्तुतिः ...{Loading}...
एव॒श्छन्दो॒ वरि॑व॒श्छन्दः॑ श॒म्भूश्छन्दः॑ परि॒भूश्छन्द॑ऽआ॒च्छच्छन्दो॒ मन॒श्छन्दो॒ व्यच॒श्छन्दः॒॑ सिन्धु॒श्छन्दः॑ समु॒द्रश्छन्दः॑ सरिरं॒ छन्दः॑ क॒कुप् छन्द॑स्त्रिक॒कुप् छन्दः॑ का॒व्यं छन्दो॑ऽअङ्कु॒पं छन्दो॒ऽक्षर॑पङ्क्ति॒श्छन्दः॑ प॒दप॑ङ्क्ति॒श्छन्दो॑ विष्टा॒रप॑ङ्क्ति॒श्छन्दः क्षु॒रश्छन्दो॒ भ्रज॒श्छन्दः॑ ॥४ ॥
मूलम् ...{Loading}...
एव॒श्छन्दो॒ वरि॑व॒श्छन्दः॑ श॒म्भूश्छन्दः॑ परि॒भूश्छन्द॑ऽआ॒च्छच्छन्दो॒ मन॒श्छन्दो॒ व्यच॒श्छन्दः॒॑ सिन्धु॒श्छन्दः॑ समु॒द्रश्छन्दः॑ सरिरं॒ छन्दः॑ क॒कुप् छन्द॑स्त्रिक॒कुप् छन्दः॑ का॒व्यं छन्दो॑ऽअङ्कु॒पं छन्दो॒ऽक्षर॑पङ्क्ति॒श्छन्दः॑ प॒दप॑ङ्क्ति॒श्छन्दो॑ विष्टा॒रप॑ङ्क्ति॒श्छन्दः क्षु॒रश्छन्दो॒ भ्रज॒श्छन्दः॑ ॥४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
एवः॑। छन्दः॑। वरि॑वः। छन्दः॑। श॒म्भूरिति॑ श॒म्ऽभूः। छन्दः॑। प॒रि॒भूरिति॑ परि॒ऽभूः। छन्दः॑। आ॒च्छदित्या॒ऽच्छत्। छन्दः॑। मनः॑। छन्दः॑। व्यचः॑। छन्दः॑। सिन्धुः॑। छन्दः॑। स॒मु॒द्रः। छन्दः॑। स॒रि॒रम्। छन्दः॑। क॒कुप्। छन्दः॑। त्रि॒क॒कुबिति॑ त्रिऽक॒कुप्। छन्दः॑। का॒व्यम्। छन्दः॑। अ॒ङकु॒पम्। छन्दः॑। अ॒क्षर॑पङ्क्ति॒रित्य॒क्षर॑ऽपङ्क्तिः। छन्दः॑। प॒दप॑ङ्क्तिरिति॑ प॒दऽप॑ङ्क्तिः। छन्दः॑। वि॒ष्टा॒रप॑ङ्क्तिः। वि॒स्ता॒रप॑ङ्क्ति॒रिति॑ विस्ता॒रऽप॑ङ्क्तिः। छन्दः॑। क्षु॒रः। छन्दः॑। भ्रजः॑। छन्दः॑। ४।
महीधरः
म० ‘विराजो दश दश प्रतिदिशं पुरस्तात्प्रथममेवश्छन्द इति प्रतिमन्त्रम्’ (का० १७ । ११ । ५) । प्रतिदिशं दश दश विराट्संज्ञा इष्टका उपदधाति ताश्चत्वारिंशत्पद्या एवेति सूत्रार्थः । चत्वारिंशद्यजूंषि इष्टकादेवत्यानि । एति गच्छति सर्वो जन्तुसमूहो यस्मिन्नित्येवः पृथिवीलोकः स एव छन्दोरूपेण स्थितत्वात् छादकत्वाद्वा छन्दः । हे इष्टके, त्वं तद्रूपासि तां त्वामुपदधामि । एवमुत्तरमन्त्रेषु व्याख्या श्रुत्युक्ता ज्ञेया । ‘अयं वै लोक एवश्छन्दः ’ (८।५।२।३) इति श्रुतेः। वरिवः प्रभामण्डलेन व्रियत आव्रियत इति वरिवोऽन्तरिक्षं तदेव छन्दः । ‘अन्तरिक्षं वै वरिवश्छन्दः’ ( ८ । ५ । २ । ३) इति श्रुतेः । शंभूः शं सुखं भवत्यस्मादिति शंभूः द्युलोकः । ‘द्यौर्वै शम्भूच्छन्दः’ (३) इति श्रुतेः । परितो भवति व्याप्य वर्तत इति परिभूर्दिग्वाचकः शब्दः । ‘दिशो वै परिभूश्छन्दः’ (३) इति श्रुतेः । आच्छत् आच्छादयति स्वरसेन सर्वं शरीरमित्याच्छत् अन्नम् । ‘अन्नं वा आच्छच्छन्दः’ (३) इति श्रुतेः । मनः प्रथमसृष्टं प्रजापत्यात्मकं यन्मनः तदेव छन्दः तद्रूपासि । ‘प्रजापतिर्वै मनश्छन्दः’ (३) इति श्रुतेः । व्यचः व्यचति र्व्याप्तिकर्मा । विचति व्याप्नोति सर्वं जगदिति व्यचः । आदित्यः ‘असौ वा आदित्यो व्यचश्छन्दः’ (३) इति श्रुतेः । सिन्धुः स्यन्दति नाडीभिः शरीरं व्याप्नोतीति सिन्धुः प्राणवायुः । ‘प्राणो वै सिन्धुश्छन्दः’ (८।५।२ । ४) इति श्रुतेः । समुद्रम् समुद्द्रवन्त्यस्माद्विकल्पसमूहा इति समुद्रं मनः । यद्वा समुद्रसाम्याद्गाम्भीर्येण समुद्रं मनः । ‘मनो वै समुद्रः’ (४) इति श्रुतेः । सरिरं सलिलं रलयोरैक्यं सरति वदनगह्वरान्निर्गच्छतीति सरिरं वाक् । ‘वाग्वै सरिरं छन्दः’ (४) इति श्रुतेः । ककुप् कं सुखं शरीरे स्कुभ्नाति धारयतीति ककुप्, कं सुखं कोपयति दीपयतीति वा ‘कुप् दीप्तौं’ चुरादिः क्विप् । पूर्वपक्षे सलोपश्छान्दसः । ककुप् प्राणः । ‘प्राणो वै ककुप् छन्दः’ (४) इति श्रुतेः । त्रिककुप् त्रेधा कं पीतमुदकं स्कुभ्नातीति त्रिककुप् उदानः । ‘उदानो वै त्रिककुप्छन्दः’ (४) इति श्रुतेः । काव्यम् कवेः परमात्मन इदं काव्यं वेदत्रयीरूपः छन्दः । ‘त्रयी विद्या काव्यं छन्दः’ ( ४ ) इति श्रुतेः । अङ्कुपम् ‘अङ्क कुटिलगतौ’ अङ्केन कुटिलगत्या आप्नोतीत्यङ्कुपमुदकम् । ‘आपो वा अङ्कुपं छन्दः’ (४) इति श्रुतेः । अक्षरपङ्क्तिः न क्षरतीत्यक्षरा नाशरहिता पङ्क्तिरावलिर्यस्याः साक्षरपङ्क्तिर्द्यौः । ‘असौ वै लोकोऽक्षरपङक्तिश्छन्दः’ (४) इति श्रुतेः । पदपङ्क्तिः पदानां चरणन्यासानां पङ्क्तयो यस्मिन् सा पदपङ्क्तिर्भूलोकः । ‘अयं वै लोकः पदपङ्क्तिश्छन्दः’ (४) इति श्रुतेः । विष्टारपङ्क्तिः विस्तारा विस्तीर्यत इति विस्तारा विस्तारिता प्रसारिता वस्तूनां पङ्क्तयो यत्रेति विष्टारपङ्क्तिर्दिक् । ‘दिशो वै विष्टारपङ्क्तिश्छन्दः’ (४) इति श्रुतेः । क्षुरः ‘क्षुर विलेखनखननयोः’ क्षुरति विलिखति व्याप्नोति सर्वमिति क्षुरः तीव्रः । भ्राजते दीप्यत इति भ्रजः ह्रस्वश्छान्दसः । क्षुरोभ्रजः आदित्यः । ‘असौ वा आदित्यः क्षुरोभ्रजश्छन्दः’ (८ । ५। २ । ४) इति श्रुतेः ॥ ४ ॥
पञ्चमी।
अधिमन्त्रम् (VC)
- विद्वांसो देवता
- परमेष्ठी ऋषिः
- भुरिगाकृतिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को चाहिये कि प्रयत्नपूर्वक साधनों से सुख बढ़ावें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोग उत्तम प्रयत्न से (एवः) (छन्दः) आनन्ददायक ज्ञान (वरिवः) सत्यसेवनरूप (छन्दः) सुखदायक (शम्भूः) सुख का अनुभव (छन्दः) आनन्दकारी (परिभूः) सब ओर से पुरुषार्थी (छन्दः) सत्य का प्रकाशक (आच्छत्) दोषों का हटाना (छन्दः) जीवन (मनः) संकल्प-विकल्पात्मक (छन्दः) प्रकाशकारी (व्यचः) शुभ गुणों की व्याप्ति (छन्दः) आनन्दकारक (सिन्धुः) नदी के तुल्य चलना (छन्दः) स्वतन्त्रता (समुद्रः) समुद्र के समान गम्भीरता (छन्दः) प्रयोजनसिद्धिकारी (सरिरम्) जल के तुल्य कोमलता (छन्दः) जल के समान शान्ति (ककुप्) दिशाओं के तुल्य उज्ज्वल कीर्ति (छन्दः) प्रतिष्ठा देनेवाला (त्रिककुप्) अध्यात्मादि तीन सुखों का प्राप्त करनेवाला कर्म (छन्दः) आनन्दकारक (काव्यम्) दीर्घदर्शी कवि लोगों ने बनाया (छन्दः) प्रकाशक, विज्ञानदायक (अङ्कुपम्) टेढ़ी गतिवाला जल (छन्दः) उपकारी (अक्षरपङ्क्तिः) परलोक (छन्दः) आनन्दकारी (पदपङ्क्तिः) यह लोक (छन्दः) सुखसाधक (विष्टारपङ्क्तिः) सब दिशा (छन्दः) सुख का साधक (क्षुरः) छुरा के समान पदार्थों का छेदक सूर्य्य (छन्दः) विज्ञानस्वरूप (भ्रजः) प्रकाशमय (छन्दः) स्वच्छ आनन्दकारी पदार्थ सुख के लिये सिद्ध करो ॥४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य धर्मयुक्त कर्म में पुरुषार्थ करने से सब के प्रिय होना अच्छा समझते हैं, वे सब सृष्टि के पदार्थों से सुख लेने को समर्थ होते हैं ॥४ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्याः प्रयत्नेन साधनैः सुखानि वर्द्धयन्त्वित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यूयं परमप्रयत्नेनैवश्छन्दो वरिवश्छन्दः शम्भूश्छन्दः परिभूश्छन्द आच्छच्छन्दो मनश्छन्दो व्यचश्छन्दः सिन्धुश्छन्दः समुद्रश्छन्दः सरिरं छन्दः ककुप् छन्दस्त्रिककुप्छन्दः काव्यं छन्दोऽङ्कुपं छन्दोऽक्षरपङ्क्तिश्छन्दः पदपङ्क्तिश्छन्दो विष्टारपङ्क्तिश्छन्दः क्षुरश्छन्दो भ्रजश्छन्दः सुखाय साध्नुत ॥४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्या धर्म्यकर्मपुरुषार्थानुष्ठानेन प्रिया भवन्ति ते सर्वेभ्यः सृष्टिस्थपदार्थेभ्यः सुखानि संग्रहीतुं शक्नुवन्ति ॥४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे पुरुषार्थाने धर्मयुक्त कर्म करून सर्वांचे आवडते व्हावे, अशी इच्छा बाळगतात ते सृष्टीतील पदार्थांचे सुख घेण्यास समर्थ ठरतात.
०५ आच्छच्छन्दः प्रच्छच्छन्दः
विश्वास-प्रस्तुतिः ...{Loading}...
आ॒च्छच्छन्दः॑ प्र॒च्छच्छन्दः॑ सं॒यच्छन्दो॑ वि॒यच्छन्दो॑ बृ॒हच्छन्दो॑ रथन्तर॒ञ्छन्दो॑ निका॒यश्छन्दो॑ विव॒धश्छन्दो॒ गिर॒श्छन्दो॒ भ्रज॒श्छन्दः॑ सँ॒स्तुप् छन्दो॑ऽनु॒ष्टुप् छन्द॒ऽएव॒श्छन्दो॒ वरि॑व॒श्छन्दो॒ वय॒श्छन्दो॑ वय॒स्कृच्छन्दो॒ विष्प॑र्द्धा॒श्छन्दो॑ विशा॒लं छन्द॑श्छ॒दिश्छन्दो॑ दूरोह॒णं छन्द॑स्त॒न्द्रं॒ छन्दो॑ऽअङ्का॒ङ्कं छन्दः॑ ॥५ ॥
मूलम् ...{Loading}...
आ॒च्छच्छन्दः॑ प्र॒च्छच्छन्दः॑ सं॒यच्छन्दो॑ वि॒यच्छन्दो॑ बृ॒हच्छन्दो॑ रथन्तर॒ञ्छन्दो॑ निका॒यश्छन्दो॑ विव॒धश्छन्दो॒ गिर॒श्छन्दो॒ भ्रज॒श्छन्दः॑ सँ॒स्तुप् छन्दो॑ऽनु॒ष्टुप् छन्द॒ऽएव॒श्छन्दो॒ वरि॑व॒श्छन्दो॒ वय॒श्छन्दो॑ वय॒स्कृच्छन्दो॒ विष्प॑र्द्धा॒श्छन्दो॑ विशा॒लं छन्द॑श्छ॒दिश्छन्दो॑ दूरोह॒णं छन्द॑स्त॒न्द्रं॒ छन्दो॑ऽअङ्का॒ङ्कं छन्दः॑ ॥५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ॒च्छदित्या॒ऽछत्। छन्दः॑। प्र॒च्छदिति॑ प्र॒ऽछत्। छन्दः॑। सं॒यदिति॑ स॒म्ऽयत्। छन्दः॑। वि॒यदिति॑ वि॒ऽयत्। छन्दः॑। बृ॒हत्। छन्दः॑। र॒थ॒न्त॒रमिति॑ रथम्ऽत॒रम्। छन्दः॑। नि॒का॒य इति॑ निऽका॒यः। छन्दः॑। वि॒व॒ध इति॑ विऽव॒धः। छन्दः॑। गिरः॑। छन्दः॑। भ्रजः॑। छन्दः॑। सँ॒ऽस्तुबि॒ति॑ स॒म्ऽस्तुप्। छन्दः॑। अ॒नु॒ष्टुप्। अ॒नु॒स्तुबित्य॑नु॒ऽस्तुप्। छन्दः॑। एवः॑। छन्दः॑। वरि॑वः। छन्दः॑। वयः॑। छन्दः॑। व॒य॒स्कृत्। व॒यः॒कृदिति॑ वयः॒ऽकृत्। छन्दः॑। विष्प॑र्द्धाः॒। विस्प॑र्द्धा॒ इति॒ विऽस्प॑र्द्धाः। छन्दः॑। वि॒शा॒लमिति॑ विऽशा॒लम्। छन्दः॑। छ॒दिः। छन्दः॑। दू॒रो॒ह॒णमिति॑ दुःऽरो॒ह॒णम्। छन्दः॑। त॒न्द्रम्। छन्दः॑। अ॒ङ्का॒ङ्कमित्य॑ङ्कऽअ॒ङ्कम्। छन्दः॑। ५।
महीधरः
म०. आच्छत् आच्छादयति शरीरमित्याच्छदन्नम् । प्रच्छत् प्रच्छादयतीति प्रच्छदन्नम् । ‘अन्नं वा आच्छच्छन्दोऽन्नं प्रच्छच्छन्दः’ (४) इति श्रुतेः । संयत् संयच्छति व्यापारान्निवर्तयति जन्तूनिति संयत् रात्रिः। रात्रिर्वै संयच्छन्दः’ (८। ५।२।५) इति श्रुतेः । वियत् विशेषेण यच्छन्ति गच्छन्ति व्यापारायेतस्ततो जना यत्रेति वियद्दिनम् । ‘अहर्वै वियच्छन्दः’ (५) इति श्रुतेः । बृहत् विस्तीर्णं स्वः । ‘असौ वै लोको बृहच्छन्दः’ (५) इति श्रुतेः । रथन्तरम् रथैः तीर्यते गम्यते यत्रेति रथन्तरं भूमण्डलम् । ‘अयं वै लोको रथन्तरं छन्दः’ (५) इति श्रुतेः । निकायः नितरां कायति शब्दं करोति वृक्षादीनुन्मूलयन्निति निकायो वायुः ‘कै शब्दे’ । ‘वायुर्वै निकायश्छन्दः’ (५) इति श्रुतेः । विवधः विविधं वध्यन्ते हन्यन्ते पापफलानि भोक्ष्यन्ते भूतप्रेतादिरूपेण प्राणिनो यत्रेति विवधोऽन्तरिक्षम् । ‘अन्तरिक्षं वै विवधश्छन्दः’ (५) इति श्रुतेः । गिरः गीर्यते भक्ष्यत इति गिरोऽन्नम् । ‘अन्नं वै गिरः’ (६) इति श्रुतेः । भ्रजः भ्राजते दीप्यत इति भ्रजोऽग्निः । ‘अग्निर्वै भ्रजश्छन्दः’ (८) इति श्रुतेः । संस्तुप् अनुष्टुप् सम्यक् स्तुभ्यते रुध्यते वशीक्रियते अनु निरन्तरं स्तुभ्यतेऽनया सा संस्तुप् अनुष्टुप् वाक् । ‘वागेव सᳪं᳭स्तुप् छन्दो वागनुष्टुप् छन्दः’ (५) इति श्रुतेः । एवः वरिवः इति पदद्वयं व्याख्यातम् । वयः बाल्यादिवयोहेतुभूतमन्नम् । ‘अन्नं वै वयश्छन्दः’ (६) इति श्रुतेः। वयस्कृत् वयांसि बाल्यादीनि करोतीति वयस्कृत् जठराग्निः । ‘अग्निर्वै वयस्कृच्छन्दः’ (६) इति श्रुतेः । विष्पर्धाः विविधं स्पर्धन्ते ऐश्वर्याधिक्यदर्शनेन जना यत्रेति विष्पर्धाः स्वर्गः । ‘स्पर्ध संघर्षे’ असुन् । ‘असौ वै लोको विष्पर्धाश्छन्दः’ (६) इति श्रुतेः । विशालं विविधं शालन्ते शोभन्ते जना यत्रेति विशालं भूतलम् । ‘अयं वै लोको विशालं छन्दः’ (६) इति श्रुतेः । छदिः छाद्यतेऽर्करश्मिभिरिति छदिरन्तरिक्षम् । ‘अन्तरिक्षं वै छदिश्छन्दः’ ( ६ ) इति श्रुतेः । दूरोहणम् दुःखेन रोढुमारोहणं कर्तुं शक्यं निष्कामज्योतिष्टोमादियज्ञप्रयासजातज्ञानसाध्यत्वादिति दूरोहणं रविः । ‘असौ वा आदित्यो दूरोहणं छन्दः’ (६) इति श्रुतेः । तन्द्रम् । ‘तन्द्रि सादे मोहे’ तन्द्रति सीदति स्थानसंकोचेनेति तन्द्रः श्रेणी । ‘पङ्क्तिर्वै तन्द्रं छन्दः’ (६) इति श्रुतेः । अङ्काङ्कम् अङ्के स्थले अङ्कानि गर्तपाषाणादिचिह्नानि यत्रेत्यङ्काङ्कं जलम् । ‘आपो वा अङ्काकं छन्दः’ ( ६ ) इति श्रुतेः । अत्रेष्टकानां भूलोकादिरूपेण स्तुतिरिति भावः ॥ ५ ॥
षष्ठी।
अधिमन्त्रम् (VC)
- विद्वांसो देवता
- परमेष्ठी ऋषिः
- निचृदभिकृतिः
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को चाहिये कि प्रयत्न के साथ स्वतन्त्रता बढ़ावें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - मनुष्यों को चाहिये कि (आच्छत्) अच्छे प्रकार पापों की निवृत्ति करने हारा कर्म (छन्दः) प्रकाश (प्रच्छत्) प्रयत्न से दुष्ट स्वभाव को दूर करनेवाला कर्म (छन्दः) उत्साह (संयत्) संयम (छन्दः) बल (वियत्) विविध यत्न का साधक (छन्दः) धैर्य्य (बृहत्) बहुत वृद्धि (छन्दः) स्वतन्त्रता (रथन्तरम्) समुद्ररूप संसार से पार करनेवाला पदार्थ (छन्दः) स्वीकार (निकायः) संयोग का हेतु वायु (छन्दः) स्वीकार (विवधः) विशेष करके पदार्थों के रहने का स्थान अन्तरिक्ष (छन्दः) प्रकाशरूप (गिरः) भोगने योग्य अन्न (छन्दः) ग्रहण (भ्रजः) प्रकाशरूप अग्नि (छन्दः) ले लेना (संस्तुप्) अच्छे प्रकार शब्दार्थ सम्बन्धों को जनाने हारी वाणी (छन्दः) आनन्दकारक (अनुष्टुप्) सुनने के पीछे शास्त्रों को जानने हारी मन की क्रिया (छन्दः) उपदेश (एवः) प्राप्ति (छन्दः) प्रयत्न (वरिवः) विद्वानों की सेवा (छन्दः) स्वीकार (वयः) जीवन (छन्दः) स्वाधीनता (वयस्कृत्) अवस्थावर्द्धक जीवन के साधन (छन्दः) ग्रहण (विष्पर्द्धाः) विशेष करके जिससे ईर्ष्या करे वह (छन्दः) प्रकाश (विशालम्) विस्तीर्ण कर्म (छन्दः) ग्रहण करना (छदिः) विघ्नों का हटाना (छन्दः) सुखों को पहुँचानेवाला (दूरोहणम्) दुःख से चढ़ने योग्य (छन्दः) बल (तन्द्रम्) स्वतन्त्रता करना (छन्दः) प्रकाश और (अङ्काङ्कम्) गणितविद्या का (छन्दः) सम्यक् स्थापन करना स्वीकार और प्रचार के लिये प्रयत्न करें ॥५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि पुरुषार्थ करने से पराधीनता छुड़ा के स्वाधीनता का निरन्तर स्वीकार करें ॥५ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ मनुष्यैः प्रयत्नेन स्वातन्त्र्यं विधेयमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - मनुष्यैराच्छच्छन्दः प्रच्छच्छन्दः संयच्छन्दो वियच्छन्दो बृहच्छन्दो रथन्तरं छन्दो निकायश्छन्दो विवधश्छन्दो गिरश्छन्दो भ्रजश्छन्दः संस्तुप्छन्दोऽनुष्टुप् छन्दः एवश्छन्दो वरिवश्छन्दो वयश्छन्दो वयस्कृच्छन्दो विष्पर्द्धाश्छन्दो विशालं छन्दश्छदिश्छन्दो दूरोहणं छन्दस्तन्द्रं छन्दोऽङ्काङ्कं छन्दः स्वीकृत्य प्रचार्य प्रयतितव्यम् ॥५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैः पुरुषार्थेन पारतन्त्र्यहानिः स्वातन्त्र्यस्वीकरणं सततं विधेयम् ॥५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी पुरुषार्थ करून पारतंत्र्य नष्ट करावे व स्वातंत्र्याचा सतत स्वीकार करावा.
०६ रश्मिना सत्याय
विश्वास-प्रस्तुतिः ...{Loading}...
र॒श्मिना॑ स॒त्याय॑ स॒त्यं जि॑न्व॒ प्रेति॑ना॒ ध॒र्म॑णा॒ धर्मं॑ जि॒न्वान्वि॑त्या दि॒वा दिवं॑ जिन्व स॒न्धिना॒न्तरि॑क्षेणा॒न्तरि॑क्षं जिन्व प्रति॒धिना॑ पृथि॒व्या पृ॑थि॒वीं जि॑न्व विष्ट॒म्भेन॒ वृष्ट्या॒ वृष्टिं॑ जिन्व प्र॒वयाऽह्नाह॑र्जिन्वानु॒या रात्र्या॒ रात्रीं॑ जिन्वो॒शिजा॒ वसु॑भ्यो॒ वसू॑ञ्जिन्व प्रके॒तेना॑दि॒त्येभ्य॑ऽआदि॒त्याञ्जि॑न्व॒ ॥६ ॥
मूलम् ...{Loading}...
र॒श्मिना॑ स॒त्याय॑ स॒त्यं जि॑न्व॒ प्रेति॑ना॒ ध॒र्म॑णा॒ धर्मं॑ जि॒न्वान्वि॑त्या दि॒वा दिवं॑ जिन्व स॒न्धिना॒न्तरि॑क्षेणा॒न्तरि॑क्षं जिन्व प्रति॒धिना॑ पृथि॒व्या पृ॑थि॒वीं जि॑न्व विष्ट॒म्भेन॒ वृष्ट्या॒ वृष्टिं॑ जिन्व प्र॒वयाऽह्नाह॑र्जिन्वानु॒या रात्र्या॒ रात्रीं॑ जिन्वो॒शिजा॒ वसु॑भ्यो॒ वसू॑ञ्जिन्व प्रके॒तेना॑दि॒त्येभ्य॑ऽआदि॒त्याञ्जि॑न्व॒ ॥६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
र॒श्मिना॑। स॒त्याय॑। स॒त्यम्। जि॒न्व॒। प्रेति॒नेति॒ प्रऽइति॑ना। धर्म॑णा। धर्म॑म्। जि॒न्व॒। अन्वि॒त्येत्यनु॑ऽइत्या। दि॒वा। दिव॑म्। जि॒न्व॒। स॒न्धिनेति॑ स॒म्ऽधिना॑। अ॒न्तरि॑क्षेण। अ॒न्तरि॑क्षम्। जि॒न्व॒। प्र॒ति॒धिनेति॑ प्रति॒ऽधिना॑। पृ॒थि॒व्या। पृ॒थि॒वीम्। जि॒न्व॒। वि॒ष्ट॒म्भेन॑। वृष्ट्या॑। वृष्टि॑म्। जि॒न्व॒। प्र॒वयेति॑ प्र॒ऽवया॑। अह्ना॑। अहः॑। जि॒न्व॒। अ॒नु॒येत्य॑नु॒ऽया। रात्र्या॑। रात्री॑म्। जि॒न्व॒। उ॒शिजा॑। वसु॑भ्य॒ इति॒ वसु॑ऽभ्यः। वसू॑न्। जि॒न्व॒। प्र॒के॒तेनेति॑ प्रऽके॒तेन॑। आ॒दि॒त्येभ्यः॑। आ॒दि॒त्यान्। जि॒न्व॒। ६।
महीधरः
म० ‘सर्वतोऽषाढावेलायाᳪं᳭ स्तोमभागा रश्मिना सत्यायेति प्रतिमन्त्रं पञ्चदश दक्षिणेनानूकम्’ (का० १७ । ११ । ९-१०) अषाढावेलायां सर्वदिक्षु स्तोमभागासंज्ञा इष्टका उपदधाति रश्मिनेत्याद्येकोनत्रिंशन्मन्त्रैः । तन्मध्ये पञ्चदश प्रागनूकं दक्षिणेन अर्थाच्चतुर्दश प्रागनूकमुत्तरेणोपधेया इति सूत्रार्थः । एकोनत्रिंशद्यजूंषीष्टकादेवत्यानि । इमे मन्त्राः श्रुत्या त्रिधा व्याख्याताः । कण्डिकाद्वयपर्यन्तममुनोपहिता सत्यदो जिन्वेति प्रथमः । अदोऽस्यमुष्मै त्वामुपदधामीति द्वितीयः । अधिपतिनोर्जोर्जं जिन्वेति तृतीयः प्रकारः। तथाच श्रुतिः ‘अमुनादो जिन्वादोऽस्यमुष्मै त्वाधिपतिनोर्जोर्जं जिन्वेति त्रेधा विहितास्त्रेधा विहितᳪं᳭ ह्यन्नम्’ ( ८ । ५। ३। ३ ) इति । अथ वाक्यार्थः । हे इष्टके, त्वं रश्मिनान्नेन सत्यायोपहिता सती सत्यं सत्यवचो जिन्व तर्पय तेजोवृद्धिप्रदत्वादन्नं रश्मिः ‘रश्मिरन्नं’ (८।५।३।३) इति श्रुतेः । प्रकर्षेण देहे इतिर्गतिर्यस्येति प्रेतिरन्नम् तेन । धर्मणा । विभक्तिव्यत्ययः । धर्मणे धर्मायोपहिता सती धर्मं जिन्व प्रीणय ‘प्रेतिरन्नम्’ ( ६ ) इति श्रुतेः । सर्वमन्त्रेषु द्वितीयं पदं चतुर्थ्यन्तं कार्यम् । अन्वेति देहमनुगच्छतीत्यन्वितिरन्नम् तया दिवा दिवेऽर्थायोपहिता सती दिवं द्युलोकं जिन्व । ‘अन्वितिरन्नं’ ( ३ ) इति श्रुतेः । सन्धिना सम्यग्बलादिकं धीयतेऽस्मिन्निति सन्धिरन्नं तेन अन्तरिक्षेण अन्तरिक्षार्थमुपहितान्तरिक्षं जिन्व । प्रतिधीयतेऽस्मिन्निति प्रतिधिरन्नं तेन पृथिव्यै उपहिता सती पृथिवीं जिन्व । विष्टम्भेन देहं विष्टम्भयतीति विष्टम्भोऽन्नं तेन वृष्ट्यै उपहिता वृष्टिं जिन्व । प्रवया प्रकर्षेण वाति देहं गच्छतीति प्रवान्नम् तेनाह्नाह्ने उपहिताहर्दिनं जिन्व । अनुया देहान्तर्गतद्वासप्ततिनाडीभिरनु याति आप्नोति देहमित्यनुयान्नं तया । तृतीयैकवचने ‘आतो - धातोः’ (पा० ६ । ४ । १४० ) इत्यालोपः । रात्र्यै उपहिता रत्रीं जिन्व । उशिजा ‘वश कान्तौ’ उश्यते सर्वैः काम्यत " इत्युशिगन्नम् तेन वसुभ्योऽर्थायोपहिता वसून् जिन्व । प्रकेतेन प्रकर्षेण कं सुखमीयतेऽनेनेति प्रकेतमन्नं तेनादित्येभ्योऽर्थायोपहितादित्यान् जिन्व ॥ ६ ॥
सप्तमी।
अधिमन्त्रम् (VC)
- विद्वांसो देवता
- परमेष्ठी ऋषिः
- विराडभिकृतिः
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
विद्वानों को पदार्थविद्या के जानने का उपाय करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् पुरुष ! तू (रश्मिना) किरणों से (सत्याय) वर्त्तमान में हुए सूर्य्य के तुल्य नित्य सुख और स्थूल पदार्थों के लिये (सत्यम्) अव्यभिचारी कर्म को (जिन्व) प्राप्त हो। (प्रेतिना) उत्तम ज्ञानयुक्त (धर्मणा) न्याय के आचरण से (धर्मम्) धर्म को (जिन्व) जान। (अन्वित्या) खोज के हेतु (दिवा) धर्म के प्रकाश से (दिवम्) सत्य के प्रकाश को (जिन्व) प्राप्त हो। (सन्धिना) सन्धिरूप (अन्तरिक्षेण) आकाश से (अन्तरिक्षम्) अवकाश को (जिन्व) जान। (पृथिव्या) भूगर्भविद्या के (प्रतिधिना) सम्बन्ध से (पृथिवीम्) भूमि को (जिन्व) जान। (विष्टम्भेन) शरीर धारण के हेतु आहार के रस से तथा (वृष्ट्या) वर्षा की विद्या से (वृष्टिम्) वर्षा को (जिन्व) जान। (प्रवया) कान्तियुक्त (अह्ना) प्रकाश की विद्या से (अहः) दिन को (जिन्व) जान। (अनुया) प्रकाश के पीछे चलनेवाली (रात्र्या) रात्रि की विद्या से (रात्रीम्) रात्रि को (जिन्व) जान। (उशिजा) कामनाओं से (वसुभ्यः) अग्नि आदि आठ वसुओं की विद्या से (वसून्) उन अग्नि आदि वसुओं को (जिन्व) जान और (प्रकेतेन) उत्तम विज्ञान से (आदित्येभ्यः) बारह महीनों की विद्या से (आदित्यान्) बारह महीनों को (जिन्व) तत्त्वस्वरूप से जान ॥६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्वानों को चाहिये कि जैसे पदार्थों की परीक्षा से अपने आप पदार्थविद्या को जानें, वैसे ही दूसरों के लिये भी उपदेश करें ॥६ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ विद्वद्भिः पदार्थविद्या ज्ञातव्येत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वंस्त्वं रश्मिना सत्याय सूर्य इव नित्यसुखाय सत्यं जिन्व। प्रेतिना धर्मणा धर्मं जिन्व। अन्वित्या दिवा दिवं जिन्व। सन्धिनान्तरिक्षेणान्तरिक्षं जिन्व। पृथिव्या प्रतिधिना पृथिवीं जिन्व। विष्टम्भेन वृष्ट्या वृष्टिं जिन्व। प्रवयाऽह्नाहर्जिन्व। अनुया रात्र्या रात्रीं जिन्व। उशिजा वसुभ्यो वसून् जिन्व। प्रकेतेनादित्येभ्य आदित्यान् जिन्व ॥६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - विद्वद्भिर्यथा पदार्थपरीक्षणेन पदार्थविद्या विदिता कार्या तथैवान्येभ्य उपदेष्टव्या ॥६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - विद्वानांनी पदार्थांची परीक्षा करून स्वतः पदार्थविद्या जाणावी व इतरांनाही शिकवावी.
०७ तन्तुना रायस्पोषेण
विश्वास-प्रस्तुतिः ...{Loading}...
तन्तु॑ना रा॒यस्पोषे॑ण रा॒यस्पोषं॑ जिन्व सँस॒र्पेण॑ श्रु॒ताय॑ श्रु॒तं जि॑न्वै॒डेनौष॑धीभि॒रोष॑धीर्जिन्वोत्त॒मेन॑ त॒नूभि॑स्त॒नूर्जि॑न्व वयो॒धसाधी॑ते॒नाधी॑तं जिन्वाभि॒जिता॒ तेज॑सा॒ तेजो॑ जिन्व ॥७ ॥
मूलम् ...{Loading}...
तन्तु॑ना रा॒यस्पोषे॑ण रा॒यस्पोषं॑ जिन्व सँस॒र्पेण॑ श्रु॒ताय॑ श्रु॒तं जि॑न्वै॒डेनौष॑धीभि॒रोष॑धीर्जिन्वोत्त॒मेन॑ त॒नूभि॑स्त॒नूर्जि॑न्व वयो॒धसाधी॑ते॒नाधी॑तं जिन्वाभि॒जिता॒ तेज॑सा॒ तेजो॑ जिन्व ॥७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
तन्तु॑ना। रा॒यः। पोषे॑ण। रा॒यः। पोष॑म्। जि॒न्व॒। सँ॒स॒र्पेणेति॑ सम्ऽस॒र्पेण॑। श्रु॒ताय॑। श्रु॒तम्। जि॒न्व॒। ऐ॒डेन॑। ओष॑धीभिः। ओष॑धीः। जि॒न्व॒। उ॒त्त॒मेनेत्यु॑त्ऽत॒मेन॑। त॒नूभिः॑। त॒नूः। जि॒न्व॒। व॒यो॒धसेति॑ वयः॒ऽधसा॑। आधी॑ते॒नेत्याऽधी॑तेन। आधी॑त॒मित्याऽधी॑तम्। जि॒न्व॒। अ॒भि॒जितेत्य॑ऽभि॒जिता॑। तेज॑सा। तेजः। जि॒न्व॒। ७।
महीधरः
म० तन्तुना तन्यते विस्तार्यत इति तन्तुरन्नं तेन । | रायस्पोषेण धनपुष्ट्यै उपहिता रायस्पोषं जिन्व । संसर्पेण सम्यक् सर्पति प्रसरति देहे इति संसर्पोऽन्नम् तेन श्रुताय शास्त्रायोपहिता श्रुतं जिन्व । इडान्नम् इडैवैडम् स्वार्थेऽण् तेनौषधीभिः ओषध्यर्थमुपहिता ओषधीर्जिन्व । उत्तमेन उद्गतं तमो यस्मात् यद्वोत्तमेनोत्कृष्टान्नेन तनूभिः शरीरार्थमुपहिता तनूः शरीराणि जिन्व । वयोधसा वयो दधाति पुष्णातीति वयोधा अन्नं तेनाधीतेनाध्ययनायोपहिताधीतं जिन्व । अभि सर्वतो जीयते येनेत्यभिजित्सर्वजयहेतुरन्नं तेन तेजसा तेजो ऽर्थमुपहिता तेजो जिन्व ॥ ७ ॥
अष्टमी।
अधिमन्त्रम् (VC)
- विद्वांसो देवता
- परमेष्ठी ऋषिः
- ब्राह्मी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
गृहाश्रमी पुरुष को किस साधन से क्या करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य ! तू (तन्तुना) विस्तारयुक्त (रायः) धन की (पोषेण) पुष्टि से (रायः) धन की (पोषम्) पुष्टि को (जिन्व) प्राप्त हो। (संसर्पेण) सम्यक् प्राप्ति से (श्रुताय) श्रवण के लिये (श्रुतम्) शास्त्र के सुनने को (जिन्व) प्राप्त हो। (ऐडेन) अन्न के संस्कार और (ओषधीभिः) यव तथा सोमलता आदि ओषधियों की विद्या से (ओषधीः) ओषधियों को (जिन्व) प्राप्त हो। (उत्तमेन) उत्तम धर्म के आचरणयुक्त (तनूभिः) शुद्ध शरीरों से (तनूः) शरीरों को (जिन्व) प्राप्त हो। (वयोधसा) जीवन के धारण करने हारे (आधीतेन) अच्छे प्रकार पढ़ने से (आधीतम्) सब ओर से धारण की हुई विद्या को (जिन्व) प्राप्त हो। (अभिजिता) सन्मुख शत्रुओं को जीतने के हेतु (तेजसा) तीक्ष्ण कर्म से (तेजः) दृढ़ता को (जिन्व) प्राप्त हो ॥७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि विस्तारयुक्त पुरुषार्थ से ऐश्वर्य को प्राप्त हो के सब प्राणियों का हित सिद्ध करें ॥७ ॥
दयानन्द-सरस्वती (सं) - विषयः
गृहाश्रमिणा केन किं कर्त्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य ! त्वं तन्तुना रायस्पोषेण रायस्पोषं जिन्व संसर्पेण श्रुताय श्रुतं जिन्व। ऐडेनोषधीभिरोषधीर्जिन्व। उत्तमेन तनूभिस्तनूर्जिन्व। वयोधसाऽऽधीतेनाधीतं जिन्व। अभिजिता तेजसा तेजो जिन्व ॥७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्विस्तृतेन पुरुषार्थेनैश्वर्य्यं प्राप्य सार्वजनिकं हितं संसाध्यम् ॥७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी अत्यंत पुरुषार्थाने ऐश्वर्य प्राप्त करावे व सर्व प्राण्यांचे हित करावे.
०८ प्रतिपदसि प्रतिपदे
विश्वास-प्रस्तुतिः ...{Loading}...
प्रति॒पद॑सि प्रति॒पदे॑ त्वानु॒पद॑स्यनु॒पदे॑ त्वा स॒म्पद॑सि स॒म्पदे॑ त्वा॒ तेजो॑ऽसि॒ तेज॑से त्वा ॥८ ॥
मूलम् ...{Loading}...
प्रति॒पद॑सि प्रति॒पदे॑ त्वानु॒पद॑स्यनु॒पदे॑ त्वा स॒म्पद॑सि स॒म्पदे॑ त्वा॒ तेजो॑ऽसि॒ तेज॑से त्वा ॥८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्र॒ति॒पदिति॑ प्रति॒ऽपत्। अ॒सि॒। प्र॒ति॒पद॒ इति॑ प्रति॒ऽपदे॑। त्वा॒। अ॒नु॒पदित्य॑नु॒ऽपत्। अ॒सि॒। अ॒नु॒पद॒ इत्य॑नु॒ऽपदे॑। त्वा॒। स॒म्पदिति॑ स॒म्ऽपत्। अ॒सि॒। स॒म्पद॒ इति॑ स॒म्ऽपदे॑। त्वा॒। तेजः॑। अ॒सि॒। तेज॑से। त्वा॒। ८।
महीधरः
म० अदोऽस्यमुष्मै त्वेति व्याख्यातमन्त्रानाह । प्रतिपद्यते जीवनमनेनेति प्रतिपदन्नम् । हे इष्टके, त्वं प्रतिपदन्नरूपासि प्रतिपदेऽन्नाय त्वामुपदधामीति शेषः । एवं सर्वत्र । प्रतिदिनमनुपद्यतेऽनुपदन्नमसि अनुपदेऽन्नाय त्वामुपदधामि । हे इष्टके, त्वं संपदन्नमसि संपदेऽर्थाय त्वामुपदधामि । तेजसः कारणत्वात्तेजोन्नम् तेजसे त्वामुपदधामि ॥ ८॥
नवमी।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- परमेष्ठी ऋषिः
- भुरिगार्ष्युष्णिक्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को क्या करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे पुरुषार्थिनि विदुषी स्त्री ! जिस कारण तू (प्रतिपत्) प्राप्त होने के योग्य लक्ष्मी के तुल्य (असि) है, इसलिये (प्रतिपदे) ऐश्वर्य की प्राप्ति के लिये (त्वा) तुझ को जो (अनुपत्) पीछे प्राप्त होनेवाली शोभा के तुल्य (असि) है, उस (अनुपदे) विद्याऽध्ययन के पश्चात् प्राप्त होने योग्य (त्वा) तुझ को, जो तू (संपत्) सम्पत्ति के तुल्य (असि) है, उस (सम्पदे) ऐश्वर्य के लिये (त्वा) तुझ को, जो तू (तेजः) तेज के समान (असि) है, इसलिये (तेजसे) तेज होने के लिये (त्वा) तुझ को ग्रहण करता हूँ ॥८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सब सुख सिद्ध होने के लिये तुल्य गुण, कर्म्म और स्वभाववाले स्त्री-पुरुष स्वयंवर विवाह से परस्पर एक-दूसरे को स्वीकार कर के आनन्द में रहें ॥८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनरेतैः किं कर्त्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे पुरुषार्थिनि विदुषि स्त्रि ! यतस्त्वं प्रतिपदिवासि तस्यै प्रतिपदे त्वा याऽनुपदिवासि तस्या अनुपदे त्वा या संपदिवासि तस्यै संपदे त्वा या तेज इवासि तस्यै तेजसे त्वा त्वां स्वीकरोमि ॥८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैः सर्वसुखसिद्धये तुल्यगुणकर्मस्वभावैः स्त्रीपुरुषैः स्वयंवरेण विवाहेन परस्परं स्वीकृत्यानन्दितव्यम् ॥८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सर्व सुख सिद्ध होण्यासाठी समान गुण कर्म, स्वभावाच्या स्त्री-पुरुषांनी स्वयंवर विवाह करून परस्परांचा स्वीकार करावा व आनंदात राहावे.
०९ त्रिवृदसि त्रिवृते
विश्वास-प्रस्तुतिः ...{Loading}...
त्रि॒वृद॑सि त्रि॒वृते॑ त्वा प्र॒वृद॑सि प्र॒वृते॑ त्वा वि॒वृद॑सि वि॒वृते॑ त्वा स॒वृद॑सि स॒वृते॑ त्वाक्र॒मोऽस्याक्र॒माय॑ त्वा संक्र॒मोऽसि संक्र॒माय॑ त्वोत्क्र॒मोऽस्युत्क्र॒माय॒ त्वोत्क्रा॑न्तिर॒स्युत्क्रा॑न्त्यै॒ त्वाऽधिपतिनो॒र्जोर्जं॑ जिन्व ॥९ ॥
मूलम् ...{Loading}...
त्रि॒वृद॑सि त्रि॒वृते॑ त्वा प्र॒वृद॑सि प्र॒वृते॑ त्वा वि॒वृद॑सि वि॒वृते॑ त्वा स॒वृद॑सि स॒वृते॑ त्वाक्र॒मोऽस्याक्र॒माय॑ त्वा संक्र॒मोऽसि संक्र॒माय॑ त्वोत्क्र॒मोऽस्युत्क्र॒माय॒ त्वोत्क्रा॑न्तिर॒स्युत्क्रा॑न्त्यै॒ त्वाऽधिपतिनो॒र्जोर्जं॑ जिन्व ॥९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
त्रि॒वृदिति॑ त्रि॒ऽवृऽत्। अ॒सि॒। त्रि॒वृत॒ इति॑ त्रि॒ऽवृते॑। त्वा॒। प्र॒वृदिति॑ प्र॒ऽवृत्। अ॒सि॒। प्र॒वृत॒ इति॑ प्र॒ऽवृते॑। त्वा॒। वि॒वृदिति॑ वि॒ऽवृत्। अ॒सि॒। वि॒वृत॒ इति॑ वि॒ऽवृते॑। त्वा॒। स॒वृदिति॑ स॒ऽवृत्। अ॒सि॒। स॒वृत॒ इति॑ स॒ऽवृते॑। त्वा॒। आ॒क्र॒म इत्या॑ऽक्र॒मः। अ॒सि॒। आ॒क्र॒मायेत्या॑ऽक्र॒माय॑। त्वा॒। सं॒क्र॒म इति॑ सम्ऽक्र॒मः। अ॒सि॒। सं॒क्र॒मायेति॑ सम्ऽक्र॒माय॑। त्वा॒। उ॒त्क्र॒म इत्यु॑त्ऽक्र॒मः। अ॒सि॒। उ॒त्क्र॒मायेत्यु॑त्ऽक्र॒माय॑। त्वा॒। उत्क्रा॑न्ति॒रित्युत्ऽक्रा॑न्तिः। अ॒सि॒। उत्क्रा॑न्त्या॒ इत्युत्ऽक्रा॑न्त्यै। त्वा॒। अधि॑पति॒नेत्यधि॑ऽपतिना। ऊ॒र्जा। ऊर्ज॑म्। जि॒न्व। ९।
महीधरः
म० कृषिवृष्टिबीजरूपेण त्रिगुणत्वात्त्रिधा वर्तत इति त्रिवृदन्नं तद्रूपां त्वां त्रिवृते उपदधामि । प्रवृणोति भूतानीति प्रवृदन्नं । यतस्त्वं प्रवृदसि अतः प्रवृतेऽर्थाय त्वामुपदधामि । विशेषेण वर्तते भूतेषु इति विवृदन्नं त्वं विवृदसि विवृतेऽर्थाय त्वामुपदधामि । सह वर्तते सवृदसि सवृतेऽन्नाय त्वामुपद० । आक्रामति पराभवति क्षुधामित्याक्रमोऽन्नं त्वमाक्रमोऽसि आक्रमाय त्वामुप० । देहे संक्रामतीति संक्रमोऽन्नं त्वं संक्रमोऽसि संक्रमाय त्वामुप० । सन्तानोत्पत्त्यै बीजरूपेण परिणम्योत्रामुमतीत्युत्क्रमोऽन्नं त्वं तद्रूपासि उत्क्रमाय त्वामुप०। उत्कृष्टा क्रान्तिर्गमनं यस्येत्युत्क्रान्तिरन्नम् हे इष्टके, त्वमुत्रा्वन्तिरसि उत्क्रान्त्यै अर्थाय त्वामुपदधामि । अथ तृतीयो व्याख्याभेदः । अधिकं पातीत्यधिपतिः अधिकपालकेन ऊर्जा अन्नरसेन ऊर्जमन्नरसं जिन्व तर्पय । एवं मन्त्रेष्वभिधेयानुसारेण व्युत्पत्तिः कार्या ॥ ९॥
दशमी।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- परमेष्ठी ऋषिः
- विराड् ब्राह्मी जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को क्या करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य ! जो तू (त्रिवृत्) सत्त्वगुण, रजोगुण और तमोगुण के सह वर्त्तमान अव्यक्त कारण का जानने हारा (असि) है, उस (त्रिवृते) तीन गुणों से युक्त कारण के ज्ञान के लिये (त्वा) तुझ को, जो तू (प्रवृत्) जिस कार्यरूप से प्रवृत्त संसार का ज्ञाता (असि) है, उस (प्रवृते) कार्यरूप संसार को जानने के लिये (त्वा) तुझ को, जो तू (विवृत्) जिस विविध प्रकार से प्रवृत्त जगत् का उपकारकर्त्ता (असि) है, उस (विवृते) जगदुपकार के लिये (त्वा) तुझ को, जो तू (सवृत्) जिस समान धर्म के साथ वर्त्तमान पदार्थों का जानने हारा (असि) है, उस (सवृते) साधर्म्य पदार्थों के ज्ञान के लिये (त्वा) तुझ को, जो तू (आक्रमः) अच्छे प्रकार पदार्थों के रहने के स्थान अन्तरिक्ष का जाननेवाला (असि) है, उस (आक्रमाय) अन्तरिक्ष को जानने के लिये (त्वा) तुझ को, जो तू (संक्रमः) सम्यक् पदार्थों को जानता (असि) है, उस (संक्रमाय) पदार्थ-ज्ञान के लिये (त्वा) तुझ को, जो तू (उत्क्रमः) ऊपर मेघमण्डल की गति का ज्ञाता (असि) है, उस (उत्क्रमाय) मेघमण्डल की गति जानने के लिये (त्वा) तुझ को तथा हे स्त्रि ! जो तू (उत्क्रान्तिः) सम-विषम पदार्थों के उल्लङ्घन के हेतु विद्या को जानने हारी (असि) है, उस (उत्क्रान्त्यै) गमनविद्या के जानने के लिये (त्वा) तुझ को सब प्रकार ग्रहण करते हैं। (अधिपतिना) अपने स्वामी के सह वर्त्तमान तू (ऊर्जा) पराक्रम से (ऊर्जम्) बल को (जिन्व) प्राप्त हो ॥९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। पृथिवी आदि पदार्थों के गुण, कर्म और स्वभावों के जाने विना कोई भी विद्वान् नहीं हो सकता। इसलिये कार्य कारण दोनों को यथावत् जान के अन्य मनुष्यों के लिये उपदेश करना चाहिये। जैसे अध्यक्ष के साथ सेना विजय प्राप्त करती है, वैसे ही अपने पति के साथ स्त्री सब दुःखों को जीत लेती है ॥९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैः किं कर्त्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य ! यस्त्वं त्रिवृदसि तस्मै त्रिवृते त्वा, यत्प्रवृदसि तस्मै प्रवृत्ते त्वा, यद्विवृदसि तस्मै विवृते त्वा, य आक्रमोऽसि तस्मा आक्रमाय त्वा, यः सवृदसि तस्मै सवृते त्वा, यः संक्रमोऽसि तस्मै संक्रमाय त्वा, य उत्क्रमोऽसि तस्मा उत्क्रमाय त्वा, योत्क्रान्तिरसि तस्या उत्क्रान्त्यै त्वा त्वामहं परिगृह्णामि। तेन मयाधिपतिना सह वर्त्तमाना त्वमूर्जोर्जं जिन्व ॥९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। नहि पृथिव्यादिपदार्थानां गुणकर्मस्वभावविज्ञानेन विना कश्चिदपि विद्वान् भवितुमर्हति तस्मात् कार्य्यकारणसंघातं यथावद्विज्ञायान्येभ्य उपदेष्टव्यो यथाऽध्यक्षेण सह सेना विजयं करोति तथा स्वस्वामिना सह स्त्री सर्वं दुःखं जयति ॥९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. पृथ्वी इत्यादी पदार्थांचे गुण, कर्म, स्वभाव जाणल्याखेरीज कोणीही विद्वान बनू शकत नाही. त्यासाठी कार्य व कारणभाव हे दोन्ही यथायोग्य जाणावेत व इतरांनाही बोध करून द्यावा.
१० राज्ञ्यसि प्राची
विश्वास-प्रस्तुतिः ...{Loading}...
राज्ञ्य॑सि॒ प्राची॒ दिग्वस॑वस्ते दे॒वाऽअधि॑पतयो॒ऽग्निर्हे॑ती॒नां प्र॑तिध॒र्त्ता त्रि॒वृत् त्वा॒ स्तोमः॑ पृथि॒व्याँश्र॑य॒त्वाज्य॑मु॒क्थमव्य॑थायै स्तभ्नातु रथन्त॒रँसाम॒ प्रति॑ष्ठित्याऽअ॒न्तरि॑क्ष॒ऽऋष॑यस्त्वा प्रथम॒जा दे॒वेषु॑ दि॒वो मात्र॑या वरि॒म्णा प्र॑थन्तु विध॒र्त्ता चा॒यमधि॑पतिश्च॒ ते त्वा॒ सर्वे॑ संविदा॒ना नाक॑स्य पृ॒ष्ठे स्व॒र्गे लो॒के यज॑मानं च सादयन्तु ॥१० ॥
मूलम् ...{Loading}...
राज्ञ्य॑सि॒ प्राची॒ दिग्वस॑वस्ते दे॒वाऽअधि॑पतयो॒ऽग्निर्हे॑ती॒नां प्र॑तिध॒र्त्ता त्रि॒वृत् त्वा॒ स्तोमः॑ पृथि॒व्याँश्र॑य॒त्वाज्य॑मु॒क्थमव्य॑थायै स्तभ्नातु रथन्त॒रँसाम॒ प्रति॑ष्ठित्याऽअ॒न्तरि॑क्ष॒ऽऋष॑यस्त्वा प्रथम॒जा दे॒वेषु॑ दि॒वो मात्र॑या वरि॒म्णा प्र॑थन्तु विध॒र्त्ता चा॒यमधि॑पतिश्च॒ ते त्वा॒ सर्वे॑ संविदा॒ना नाक॑स्य पृ॒ष्ठे स्व॒र्गे लो॒के यज॑मानं च सादयन्तु ॥१० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
राज्ञी॑। अ॒सि॒। प्राची॑। दिक्। वस॑वः। ते॒। दे॒वाः। अधि॑पत॒य इत्यधि॑ऽपतयः। अ॒ग्निः। हे॒ती॒नाम्। प्र॒ति॒ध॒र्त्तेति॑ प्रतिऽध॒र्त्ता। त्रि॒वृदिति॑ त्रि॒ऽवृत्। त्वा॒। स्तोमः॑। पृ॒थि॒व्याम्। श्र॒य॒तु॒। आज्य॑म्। उ॒क्थम्। अव्य॑थायै। स्त॒भ्ना॒तु॒। र॒थ॒न्त॒रमिति॑ रथम्ऽत॒रम्। साम॑। प्रति॑ष्ठित्यै। प्रति॑स्थित्या॒ इति॒ प्रति॑ऽस्थित्यै। अ॒न्तरि॑क्षे। ऋष॑यः। त्वा॒। प्र॒थ॒म॒जा इति॑ प्रथम॒ऽजाः। दे॒वेषु॑। दि॒वः। मात्र॑या। व॒रि॒म्णा। प्र॒थ॒न्तु॒। वि॒ध॒र्त्तेति॑ विऽध॒र्त्ता। च॒। अ॒यम्। अधि॑पति॒रित्यधि॑ऽपतिः। च॒। ते। त्वा॒। सर्वे॑। सं॒वि॒दा॒ना इति॑ सम्ऽवि॒दा॒नाः। नाक॑स्य। पृ॒ष्ठे। स्व॒र्ग इति॑ स्वः॒ऽगे। लो॒के। यज॑मानम्। च॒। सा॒द॒य॒न्तु॒। १०।
महीधरः
म० ‘नाकसदोऽनूकेषु पूर्ववर्जमृतव्यावेलायामाश्विनीवद्राज्ञ्यसीति प्रतिमन्त्रम्’ ( का. १७ । १२ । १) । पूर्वानूके स्थानाभावात् पूर्वानूकवर्जं त्रिदिक्ष्वनूकेषु ऋतव्यावेलायामनूकोपरि राज्ञीत्यादिपञ्चकण्डिकाभिराश्विनीवन्नाकसत्संज्ञेष्टका उपदधातीति सूत्रार्थः । पुरस्तादुपदधाति । राज्ञ्यसि । पञ्च यजूंषि लिङ्गोक्तदेवतानि । हे इष्टके, राज्ञी राजमाना प्राची पूर्वा दिक् त्वमसि । वसवोऽष्टौ देवास्ते तवाधिपतयोऽधिकं पालयितारः । अग्निर्हेतीनामुपद्रवकारिणीनां परायुधानां प्रतिधर्ता निराकर्ता । किंच त्रिवृत्स्तोमः त्वा त्वां पृथिव्यां श्रयतु उत्थापयतु । आज्यमाज्यनामकमुक्थं शस्त्रं ‘प्र वो देवायाग्नये’ (ऐ० ब्रा० २ । ४०) इत्यादिकम् । अव्यथायै न व्यथा अव्यथा तस्यै चलनाभावाय त्वां स्तभ्नातु दृढीकरोतु । रथन्तरं साम अन्तरिक्षे लोके प्रतिष्ठित्यै प्रतिष्ठानाय त्वां स्तभ्नातु । प्रथमजाः प्रथमोत्पन्ना ऋषयः प्राणा देवेषु द्युलोकमध्ये दिवः आकाशस्य मात्रया परिमाणेन वरिम्णा उरुत्वेन त्वां प्रथन्तु प्रथयन्तु । ‘छन्दस्युभयथा’ (पा० ३ । ४ । ११७) । इति शप आर्धधातुकत्वाण्णिलोपः । ‘प्राणा वा ऋषयः प्रथमजाः’ ( ८ । ६ । १।५) इति श्रुतेः । आकाशस्य यादृशं विशालत्वं तादृग्विशालां त्वां कुर्वन्त्वित्यर्थः । विधर्ता इष्टकानिष्पादयिता च पुनरयमधिपतिरिष्टकापालकश्च त्वां प्रथयताम् । यद्वा विधर्ता विशेषेण धारयिता वागभिमानी देवः अयमधिपतिः प्रधानभूतो देवो मनोऽभिमानी तौ च त्वां प्रथयताम् । ‘विधर्ता चायमधिपतिश्चेति वाक् च मनश्च तौ हीदᳪं᳭ सर्वं विधारयतः’ (८।६।१।५) इति श्रुतेः। किंच ते सर्वे यथोक्ता वस्वादयः संविदानाः ऐकमत्येनावस्थिताः सन्तो नाकस्य पृष्ठे न अकं दुःखं नाकं सुखं तस्य पृष्ठे स्वरूपे सुखरूपे स्वर्गे लोके यजमानम् इष्टके चकारात्त्वां च सादयन्तु । स्तोमाः सामानि च राजसूयप्रकरणे दशमेऽध्याये प्राचीमारोहेत्यादिकण्डिकासु (अ० १० क. १०-१४) व्याख्यातानि ॥१०॥
एकादशी।
अधिमन्त्रम् (VC)
- वसवो देवताः
- परमेष्ठी ऋषिः
- विराड् ब्राह्मी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अग्नि आदि पदार्थ कैसे गुणोंवाले हैं, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! (ते) तेरा (अधिपतिः) स्वामी जैसे जिस के (वसवः) अग्न्यादिक (देवाः) प्रकाशमान (अधिपतयः) अधिष्ठाता हैं, वैसे तू (प्राची) पूर्व (दिक्) दिशा के समान (राज्ञी) राणी (असि) है। जैसे (हेतीनाम्) वज्रादि शस्त्रास्त्रों का (प्रतिधर्त्ता) प्रत्यक्ष धारणकर्त्ता (त्रिवृत्) विद्युत् भूमिस्थ और सूर्यरूप से तीन प्रकार वर्त्तमान (स्तोमः) स्तुतियुक्त गुणों से सहित (अग्निः) महाविद्युत् धारण करनेवाली है, वैसे (त्वा) तुझ को तेरा पति मैं धारण करता हूँ। तू (पृथिव्याम्) भूमि पर (अव्यथायै) पीड़ा न होने के लिये (उक्थम्) प्रशंसनीय (आज्यम्) घृत आदि पदार्थों को (श्रयतु) धारण कर (प्रतिष्ठित्यै) प्रतिष्ठा के लिये (रथन्तरम्) रथादि से तारनेवाले (साम) सिद्धान्त कर्म को (स्तभ्नातु) धारण कर। जैसे (अन्तरिक्षे) आकाश में (दिवः) बिजुली का (मात्रया) लेश सम्बन्ध और (वरिम्णा) महापुरुषार्थ से (देवेषु) विद्वानों में (प्रथमजाः) पूर्व हुए (ऋषयः) वेदार्थवित् विद्वान् (त्वा) तुझ को (प्रथन्तु) शुभ गुणों से विशालबुद्धि करें (च) और जैसे (अयम्) यह (विधर्त्ता) विविध रीति से धारणकर्त्ता (ते) तेरा पति तुझ से वर्त्ते, वैसे उस के साथ तू वर्त्ता कर। (च) और जैसे (सर्वे) सब (संविदानाः) अच्छे विद्वान् लोग (नाकस्य) अविद्यमान दुःख के (पृष्ठे) मध्य में (स्वर्गे) जो स्वर्ग अर्थात् अति सुख की प्राप्ति (लोके) दर्शनीय है, उस में (त्वा) तुझ को (च) और (यजमानम्) तेरे पति को (सादयन्तु) स्थापन करें वैसे तुम दोनों स्त्री पुरुष वर्त्ता करो ॥१० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। पूर्व दिशा इसलिए उत्तम कहाती है कि जिस से सूर्य प्रथम वहाँ उदय को प्राप्त होता है। जो पूर्व दिशा से वायु चलता है, वह किसी देश में मेघ को उत्पन्न करता है, किसी में नहीं और यह अग्नि सब पदार्थों को धारण करता तथा वायु के संयोग से बढ़ता है, जो पुरुष इन वायु और अग्नि को यथार्थ जानते हैं, वे संसार में प्राणियों को सुख पहुँचाते हैं ॥१० ॥
दयानन्द-सरस्वती (सं) - विषयः
अग्न्यादिपदार्थाः कीदृशा इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! तेऽधिपतिर्यथा यस्या वसवो देवा अधिपतय आसन् तथा प्राची दिगिव राज्ञ्यसि। यथा हेतीनां प्रतिधर्त्ता त्रिवृत्स्तोमोऽग्निरस्ति, तथा त्वाऽहं धरामि। भवति पृथिव्यामव्यथाया उक्थमाज्यं श्रयतु प्रतिष्ठित्यै रथन्तरं साम स्तभ्नातु। यथाऽन्तरिक्षे दिवो मात्रया वरिम्णा देवेषु प्रथमजा ऋषयस्त्वा प्रथन्तु, यथा चायं विधर्त्ता ते पतिर्वर्तेत तथा तेन सह त्वं वर्त्तस्व। यथा च सर्वे संविदाना विद्वांसो नाकस्य पृष्ठे स्वर्गे लोके त्वा यजमानं च सादयन्तु तथा युवां सीदेतम् ॥१० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। पूर्वा दिक् तस्मादुत्तमास्ति यस्मात् प्रथमं सूर्य्य उदेति। ये पूर्वस्या दिशो वायव आगच्छन्ति, ते कस्मिंश्चिद्देशे मेघकरा भवन्ति कस्मिंश्चिन्नैव। अयमग्निरेव सर्वेषां धर्त्ता वायुनिमित्तो वर्धते ये तं जानन्ति ते जगति सुखं संस्थापयन्ति ॥१० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. पूर्व दिशेला सूर्य प्रथम उगवतो यासाठी ती उत्तम मानली जाते. पूर्व दिशेकडून वाहणारा वारा एखाद्या देशात मेघ उत्पन्न करतो, तर एखाद्या देशात मेघ उत्पन्न करत नाही. अग्नी हा सर्व पदार्थांना धारण करतो व वायूच्या संयोगाने वाढतो. जी माणसे या वायू व अग्नीला यथार्थपणे जाणतात ती जगातील प्राण्यांना सुखी करतात.
११ विराडसि दक्षिणा
विश्वास-प्रस्तुतिः ...{Loading}...
वि॒राड॑सि॒ दक्षि॑णा॒ दिग्रु॒द्रास्ते॑ दे॒वाऽअधि॑पतय॒ऽइन्द्रो॑ हेती॒नां प्र॑तिध॒र्त्ता प॑ञ्चद॒शस्त्वा॒ स्तोमः॑ पृथि॒व्याँ श्र॑यतु॒ प्रऽउ॑गमु॒क्थमव्य॑थायै स्तभ्नातु बृ॒हत्साम॒ प्रति॑ष्ठित्याऽअ॒न्तरि॑क्ष॒ऽऋष॑यस्त्वा प्रथम॒जा दे॒वेषु॑ दि॒वो मात्र॑या वरि॒म्णा प्र॑थन्तु विध॒र्त्ता चा॒यमधि॑पतिश्च॒ ते त्वा॒ सर्वे॑ संविदा॒ना नाक॑स्य पृ॒ष्ठे स्व॒र्गे लो॒के यज॑मानं च सादयन्तु ॥११ ॥
मूलम् ...{Loading}...
वि॒राड॑सि॒ दक्षि॑णा॒ दिग्रु॒द्रास्ते॑ दे॒वाऽअधि॑पतय॒ऽइन्द्रो॑ हेती॒नां प्र॑तिध॒र्त्ता प॑ञ्चद॒शस्त्वा॒ स्तोमः॑ पृथि॒व्याँ श्र॑यतु॒ प्रऽउ॑गमु॒क्थमव्य॑थायै स्तभ्नातु बृ॒हत्साम॒ प्रति॑ष्ठित्याऽअ॒न्तरि॑क्ष॒ऽऋष॑यस्त्वा प्रथम॒जा दे॒वेषु॑ दि॒वो मात्र॑या वरि॒म्णा प्र॑थन्तु विध॒र्त्ता चा॒यमधि॑पतिश्च॒ ते त्वा॒ सर्वे॑ संविदा॒ना नाक॑स्य पृ॒ष्ठे स्व॒र्गे लो॒के यज॑मानं च सादयन्तु ॥११ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वि॒राडिति॑ वि॒ऽराट्। अ॒सि॒। दक्षि॑णा। दिक्। रु॒द्राः। ते॒। दे॒वाः। अधि॑पतय॒ इत्यधि॑ऽपतयः। इन्द्रः॑। हे॒ती॒नाम्। प्र॒ति॒ध॒र्त्तेति॑ प्रतिऽध॒र्त्ता। प॒ञ्च॒द॒श इति॑ पञ्चऽद॒शः। त्वा॒। स्तोमः॑। पृ॒थि॒व्याम्। श्र॒य॒तु॒। प्रऽउ॑गम्। उ॒क्थम्। अव्य॑थायै। स्त॒भ्ना॒तु॒। बृ॒हत्। साम॑। प्रति॑ष्ठित्यै। प्रतिस्थित्या॒ इति॒ प्रति॑ऽस्थित्यै। अ॒न्तरि॑क्षे। ऋ॑षयः। त्वा॒। प्र॒थ॒म॒जा इति प्रथम॒ऽजाः। दे॒वेषु॑। दि॒वः। मात्र॑या। व॒रि॒म्णा। प्र॒थ॒न्तु॒। वि॒ध॒र्त्तेति॑ विऽध॒र्त्ता। च॒। अ॒यम्। अधि॑पति॒रित्यधि॑ऽपतिः। च॒। ते। त्वा॒। सर्वे॑। सं॒वि॒दा॒ना इति॑ सम्ऽविदा॒नाः। नाक॑स्य। पृ॒ष्ठे। स्व॒र्ग इति॑ स्वः॒ऽगे। लो॒के। यज॑मानम्। च॒। सा॒द॒य॒न्तु॒। ११।
महीधरः
म० अथ दक्षिणतः चतसृषु कण्डिकासु देवाः हेतीनां प्रतिधर्तारः स्तोमाः उक्थानि सामानि चान्यानि । समानमन्यत् । ‘वायुरग्रेगाः’ (अध्या० २७ क० ३१) इति प्रउगं शस्त्रम् ॥ ११॥
द्वादशी।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- परमेष्ठी ऋषिः
- भुरिग्ब्राह्मी त्रिष्टुप्, ब्राह्मी बृहती
- धैवतः, मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर स्त्री पुरुषों को क्या करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! जो तू (विराट्) विविध पदार्थों से प्रकाशमान (दक्षिणा) (दिक्) दक्षिण दिशा के तुल्य (असि) है, जिस (ते) तेरा पति (रुद्राः) वायु (देवाः) दिव्य गुण युक्त वायु (अधिपतयः) अधिष्ठाताओं के समान (हेतीनाम्) वज्रों का (प्रतिधर्त्ता) निश्चय के साथ धारण करनेवाला (पञ्चदशः) पन्द्रह संख्या का पूरक (स्तोमः) स्तुति का साधक ऋचाओं के अर्थों का भागी और (इन्द्रः) सूर्य्य (त्वा) तुझ को (पृथिव्याम्) पृथिवी में (श्रयतु) सेवन करे। (अव्यथायै) मानस भय से रहित तेरे लिये (प्रउगम्) कथनीय (उक्थम्) उपदेश के योग्य वचन को (स्तभ्नातु) स्थिर करे तथा (प्रतिष्ठित्यै) प्रतिष्ठा के लिये (बृहत्) बहुत अर्थ से युक्त (साम) सामवेद को स्थिर करे, (च) और जैसे (अन्तरिक्षे) आकाशस्थ (देवेषु) कमनीय पदार्थों में (प्रथमजाः) पहिले हुए (ऋषयः) ज्ञान के हेतु प्राण (दिवः) प्रकाशकारक अग्नि के (मात्रया) लेश और (वरिम्णा) बहुत्व के साथ वर्त्तमान हैं, वैसे विद्वान् लोग (त्वा) तुझ को (प्रथन्तु) प्रसिद्ध करें, जैसे (विधर्त्ता) विविध प्रकार के आकर्षण से पृथिवी आदि लोकों का धारण (च) तथा पोषण करनेवाला (अधिपतिः) सब प्रकाशक पदार्थों में उत्तम सूर्य (त्वा) तुझ को पुष्ट करे, वैसे (संविदानाः) सम्यक् विचारशील विद्वान् लोग हैं (ते) वे (सर्वे) सब (नाकस्य) दुःखरहित आकाश के (पृष्ठे) सेचक भाग में (स्वर्गे) सुखकारक (लोके) जानने योग्य देश में (त्वा) तुझ को (च) और (यजमानम्) यज्ञविद्या के जानने हारे पुरुष को (सादयन्तु) स्थापित करें ॥११ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे विद्वान् लोग वायु के साथ वर्त्तमान सूर्य को और सूर्य वायु की विद्या को जाननेवाले विद्वान् का आश्रय करके इस विद्या को जनावें, वैसे स्त्री-पुरुष ब्रह्मचर्य के साथ विद्वान् होके दूसरों को पढ़ावें ॥११ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स्त्रीपुरुषाः किं कुर्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! या त्वं विराड् दक्षिणा दिगिवासि यस्यास्ते पतौ रुद्रा देवा अधिपतय इव हेतीनां प्रतिधर्त्ता पञ्चदशः स्तोम इन्द्रस्त्वा पृथिव्यां श्रयत्वव्यथायै प्रउगमुक्थं स्तभ्नातु प्रतिष्ठित्यै बृहत्साम च स्थिरीकरोतु यथा चान्तरिक्षे देवेषु प्रथमजा ऋषयो दिवो मात्रया वरिम्णा सह वर्तन्ते तथा विद्वांसस्त्वा प्रथन्तु। यथा विधर्त्ता पोषकश्चाऽयमधिपतिस्त्वा पुष्णातु तथा संविदाना विद्वांसस्ते सर्वे नाकस्य पृष्ठे स्वर्गे लोके त्वां यजमानं च सादयन्तु ॥११ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा विद्वांसो वायुभिः सह वर्त्तमानं सूर्य्यं तद्विद्याविज्ञापकं विद्वांसं च समाश्रित्यैतद्विद्यां विज्ञापयन्ति तथा स्त्रीपुरुषा ब्रह्मचर्य्येण विद्वांसो भूत्वाऽन्यानध्यापयन्तु ॥११ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. वायू व सूर्य या संबंधीची विद्या जाणणाऱ्या विद्वानाकडून जसे दुसरे विद्वान लोक ती विद्या जाणतात त्याप्रमाणे स्त्री-पुरुषांनी ब्रह्मचर्य पालनाने विद्वान बनून इतरांनाही ती विद्या शिकवावी.
१२ सम्राडसि प्रतीची
विश्वास-प्रस्तुतिः ...{Loading}...
स॒म्राड॑सि प्र॒तीची॒ दिगा॑दि॒त्यास्ते॑ दे॒वाऽअधि॑पतयो॒ वरु॑णो हेती॒नां प्र॑तिध॒र्त्ता स॑प्तद॒शस्त्वा॒ स्तोमः॑ पृथि॒व्याँश्र॑यतु मरुत्व॒तीय॑मु॒क्थमव्य॑थायै स्तभ्नातु वैरू॒पँ साम॒ प्रति॑ष्ठित्याऽअ॒न्तरि॑क्ष॒ऽऋष॑यस्त्वा प्रथम॒जा दे॒वेषु॑ दि॒वो मात्र॑या वरि॒म्णा प्र॑थन्तु विध॒र्त्ता चा॒यमधि॑पतिश्च॒ ते त्वा॒ सर्वे॑ संविदा॒ना नाक॑स्य पृ॒ष्ठे स्व॒र्गे लो॒के यज॑मानं च सादयन्तु ॥१२ ॥
मूलम् ...{Loading}...
स॒म्राड॑सि प्र॒तीची॒ दिगा॑दि॒त्यास्ते॑ दे॒वाऽअधि॑पतयो॒ वरु॑णो हेती॒नां प्र॑तिध॒र्त्ता स॑प्तद॒शस्त्वा॒ स्तोमः॑ पृथि॒व्याँश्र॑यतु मरुत्व॒तीय॑मु॒क्थमव्य॑थायै स्तभ्नातु वैरू॒पँ साम॒ प्रति॑ष्ठित्याऽअ॒न्तरि॑क्ष॒ऽऋष॑यस्त्वा प्रथम॒जा दे॒वेषु॑ दि॒वो मात्र॑या वरि॒म्णा प्र॑थन्तु विध॒र्त्ता चा॒यमधि॑पतिश्च॒ ते त्वा॒ सर्वे॑ संविदा॒ना नाक॑स्य पृ॒ष्ठे स्व॒र्गे लो॒के यज॑मानं च सादयन्तु ॥१२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स॒म्राडिति॑ स॒म्ऽराट्। अ॒सि॒। प्र॒तीची॑। दिक्। आ॒दि॒त्याः। ते॒। दे॒वाः। अधि॑पतय॒ इत्यधि॑ऽपतयः। वरु॑णः। हे॒ती॒नाम्। प्र॒ति॒ध॒र्त्तेति॑ प्रतिऽध॒र्त्ता। स॒प्त॒द॒श इति॑ सप्तऽद॒शः। त्वा॒। स्तोमः॑। पृ॒थि॒व्याम्। श्र॒य॒तु॒। म॒रु॒त्व॒तीय॑म्। उ॒क्थम्। अव्य॑थायै। स्त॒भ्ना॒तु॒। वै॒रू॒पम्। साम॑। प्रति॑ष्ठित्यै। प्रति॑स्थित्या॒ इति॒ प्रति॑ऽस्थित्यै। अ॒न्तरि॑क्षे। ऋष॑यः। त्वा॒। प्र॒थ॒म॒जा इति॑ प्रथम॒ऽजाः। दे॒वेषु॑। दि॒वः। मात्र॑या। व॒रि॒म्णा। प्र॒थ॒न्तु॒। वि॒ध॒र्त्तेति॑ विऽध॒र्त्ता। च॒। अ॒यम्। अधि॑पति॒रित्यधि॑ऽपतिः। च॒। ते। त्वा॒। सर्वे॑। सं॒वि॒दा॒ना इति॑ सम्ऽविदा॒नाः। नाक॑स्य। पृ॒ष्ठे। स्व॒र्ग इति॑ स्वः॒ऽगे। लो॒के। यज॑मानम्। च॒। सा॒द॒य॒न्तु॒। १२।
महीधरः
म० अथ पश्चात् । सम्यग्राजते सम्राट् । ‘आ त्वा रथं यथोतये’ (ऋक्सं० म० ८ । ७ । ९ । १) इति मरुत्वतीयं शस्त्रम् ॥ १२॥
त्रयोदशी।
अधिमन्त्रम् (VC)
- आदित्या देवताः
- परमेष्ठी ऋषिः
- निचृद्ब्रह्मी जगती, ब्रह्मी बृहती
- निषादः, मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर वे स्त्री-पुरुष कैसे हों, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! जो तू (प्रतीची) पश्चिम (दिक्) दिशा के समान (सम्राट्) सम्यक् प्रकाशित (असि) है, उस (ते) तेरा पति (आदित्याः) बिजुली से युक्त प्राणवायु (देवाः) दिव्य सुखदाता (अधिपतयः) स्वामियों के तुल्य (अयम्) यह (सप्तदशः) सत्रह संख्या का पूरक (च) और (स्तोमः) स्तुति के योग्य (वरुणः) जलसमुदाय के समान (हेतीनाम्) बिजुलियों का (प्रतिधर्त्ता) धारण करनेवाला (अधिपतिः) स्वामी (त्वा) तुझ को (पृथिव्याम्) पृथिवी पर (श्रयतु) सेवन करे (अव्यथायै) स्वरूप से अचल तेरे लिये (मरुत्वतीयम्) बहुत मनुष्यों के व्याख्यान से युक्त (उक्थम्) कथनयोग्य वेदवचन तथा (प्रतिष्ठित्यै) प्रतिष्ठा के लिये (वैरूपम्) विविध रूपों के व्याख्यान से युक्त (साम) सामवेद को (स्तभ्नातु) ग्रहण करे और जो (दिवः) प्रकाश के (मात्रया) भाग से (वरिम्णा) बहुत्व के साथ (अन्तरिक्षे) आकाश में (प्रथमजाः) विस्तारयुक्त कारण से उत्पन्न हुए (ऋषयः) गतियुक्त वायु (देवेषु) दान के हेतु अवयवों में वर्त्तमान हैं, वैसे (त्वा) तुझ को विद्वान् लोग (प्रथन्तु) प्रसिद्ध उपदेश करें। जैसे (विधर्त्ता) जो विविध रत्नों का धारने हारा है, (च) यह भी (अधिपतिः) अध्यक्ष स्वामी प्रजाओं को सुख में रखता है, वैसे (ते) तेरे मध्य में (सर्वे) सब (संविदानाः) अच्छे प्रकार ज्ञान को प्राप्त हुए (त्वा) तुझ को (च) और (यजमानम्) विद्वानों के सेवक पुरुष को (नाकस्य) दुःखरहित देश के (पृष्ठे) एक भाग में (स्वर्गे) सुखप्रापक (लोके) दर्शनीय स्थान में (सादयन्तु) स्थापित करें ॥१२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे विद्वान् लोग पश्चिम दिशा और वहाँ के पदार्थों को दूसरों को जनाते हैं, वैसे स्त्री-पुरुष अपने सन्तानों आदि को विद्यादि गुणों से सुशोभित करें ॥१२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तौ कीदृशौ स्यातामित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! या प्रतीची दिगिव सम्राडसि तस्यास्ते पतिरादित्या देवा अधिपतय इवायं सप्तदशश्च स्तोमो वरुणो हेतीनां प्रतिधर्त्ताधिपतिस्त्वा पृथिव्यां श्रयत्वव्यथायै मरुत्वतीयमुक्थं प्रतिष्ठित्यै वैरूपं साम च स्तभ्नातु ये च दिवो मात्रया वरिम्णा सहान्तरिक्षे प्रथमजा ऋषयो देवेषु वर्त्तन्ते तद्वत् त्वा विद्वांसः प्रथन्तु। यथा विधर्त्ता चाधिपतिश्च राजा प्रजाः सुखे स्थापयतु तथा ते सर्वे संविदानाः सन्तस्त्वा यजमानं च नाकस्य पृष्ठे स्वर्गे लोके सादयन्तु ॥१२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा विद्वांसः पश्चिमां दिशं तत्रस्थान् पदार्थाँश्चान्येभ्यो विज्ञापयन्ति। तथा स्त्रीपुरुषाः स्वापत्यादीन् विद्ययाऽलंकुर्वन्तु ॥१२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसे विद्वान लोक पश्चिम दिशा व तेथील पदार्थांचे ज्ञान इतरांना देतात तसे स्त्री-पुरुषांनी संतानांना विद्या इत्यादी गुणांनी सुशोभित करावे.
१३ स्वराडस्युदीची दिङ्मरुतस्ते
विश्वास-प्रस्तुतिः ...{Loading}...
स्व॒राड॒स्युदी॑ची॒ दिङ्म॒रुत॑स्ते दे॒वाऽअधि॑पतयः॒ सोमो॑ हेती॒नां प्र॑तिध॒र्त्तैक॑विँ॒शस्त्वा॒ स्तोमः॑ पृथि॒व्याँ श्र॑यतु॒ निष्के॑वल्यमु॒क्थमव्य॑थायै स्तभ्नातु वैरा॒जँसाम॒ प्रति॑ष्ठित्याऽअ॒न्तरि॑क्ष॒ऽऋष॑यस्त्वा प्रथम॒जा दे॒वेषु॑ दि॒वो मात्र॑या वरि॒म्णा प्र॑थन्तु विध॒र्त्ता चा॒यमधि॑पतिश्च॒ ते त्वा॒ सर्वे॑ संविदा॒ना नाक॑स्य पृ॒ष्ठे स्व॒र्गे लो॒के यज॑मानं च सादयन्तु ॥१३ ॥
मूलम् ...{Loading}...
स्व॒राड॒स्युदी॑ची॒ दिङ्म॒रुत॑स्ते दे॒वाऽअधि॑पतयः॒ सोमो॑ हेती॒नां प्र॑तिध॒र्त्तैक॑विँ॒शस्त्वा॒ स्तोमः॑ पृथि॒व्याँ श्र॑यतु॒ निष्के॑वल्यमु॒क्थमव्य॑थायै स्तभ्नातु वैरा॒जँसाम॒ प्रति॑ष्ठित्याऽअ॒न्तरि॑क्ष॒ऽऋष॑यस्त्वा प्रथम॒जा दे॒वेषु॑ दि॒वो मात्र॑या वरि॒म्णा प्र॑थन्तु विध॒र्त्ता चा॒यमधि॑पतिश्च॒ ते त्वा॒ सर्वे॑ संविदा॒ना नाक॑स्य पृ॒ष्ठे स्व॒र्गे लो॒के यज॑मानं च सादयन्तु ॥१३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स्व॒राडिति॑ स्व॒ऽराट्। अ॒सि॒। उदी॑ची। दिक्। म॒रुतः॑। ते॒। दे॒वाः। अधि॑पतय॒ इत्यधि॑ऽपतयः। सोमः॑। हे॒ती॒नाम्। प्र॒ति॒ध॒र्त्तेति॑ प्रतिऽध॒र्त्ता। एक॑विँश॒इत्येक॑ऽविँशः। त्वा॒। स्तोमः॑। पृ॒थि॒व्याम्। श्र॒य॒तु॒। निष्के॑वल्यम्। निःऽके॑वल्य॒मिति॒ निःऽके॑वल्यम्। उ॒क्थम्। अव्य॑थायै। स्त॒भ्ना॒तु॒। वै॒रा॒जम्। साम॑। प्रति॑ष्ठित्यै। प्रति॑स्थित्या॒ इति॒ प्रति॑ऽस्थित्यै। अ॒न्तरि॑क्षे। ऋष॑यः। त्वा॒। प्र॒थ॒म॒जा इति॑ प्रथम॒ऽजाः। दे॒वेषु॑। दि॒वः। मात्र॑या। व॒रि॒म्णा। प्र॒थ॒न्तु॒। वि॒ध॒र्त्तेति विऽध॒र्त्ता। च॒। अ॒यम्। अधि॑पति॒रित्यधि॑ऽपतिः। च॒। ते। त्वा॒। सर्वे॑। सं॒वि॒दा॒ना इति॑ सम्ऽविदा॒नाः। नाक॑स्य। पृ॒ष्ठे। स्व॒र्ग इति॑ स्वः॒ऽगे। लो॒के। यज॑मानम्। च॒। सा॒द॒य॒न्तु॒। १३।
महीधरः
म० अथोत्तरतः । स्वेनैव राजते स्वराट् । ‘अभि त्वा शूर नोनुमः’ (ऋक्स. म०. ७।२। १५ । २२) इत्यादिकं निष्केवल्यं शस्त्रम् ॥ १३ ॥
चतुर्दशी ।
अधिमन्त्रम् (VC)
- मरुतो देवताः
- परमेष्ठी ऋषिः
- भुरिग्ब्राह्मी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर वे दोनों कैसे हों, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! जैसे (स्वराट्) स्वयं प्रकाशमान (उदीची) उत्तर (दिक्) दिशा (असि) है, वैसा (ते) तेरा पति हो जिस दिशा के (मरुतः) वायु (देवाः) दिव्यरूप (अधिपतयः) अधिष्ठाता हैं, उन के सदृश जो (एकविंशः) इक्कीस संख्या का पूरक (स्तोमः) स्तुति का साधक (सोमः) चन्द्रमा (हेतीनाम्) वज्र के समान वर्त्तमान किरणों का (प्रतिधर्त्ता) धारने हारा पुरुष (त्वा) तुझ को (पृथिव्याम्) भूमि में (श्रयतु) सेवन करे, (अव्यथायै) इन्द्रियों के भय से रहित तेरे लिये (निष्केवल्यम्) जिस में केवल एक स्वरूप का वर्णन हो, वह (उक्थम्) कहने योग्य वेदभाग तथा (प्रतिष्ठित्यै) प्रतिष्ठा के लिये (वैराजम्) विराट् रूप का प्रतिपादक (साम) सामवेद का भाग (स्तभ्नातु) ग्रहण करे (च) और जैसे तेरे मध्य में (अन्तरिक्षे) अवकाश में स्थित (देवेषु) इन्द्रियों में (प्रथमजाः) मुख्य प्रसिद्ध (दिवः) ज्ञान के (मात्रया) भागों से (वरिम्णा) अधिकता के साथ वर्त्तमान (ऋषयः) बलवान् प्राण हैं, वैसे (अयम्) यही इन प्राणों का (विधर्त्ता) विविध शीत को धारणकर्त्ता (च) और (अधिपतिः) अधिष्ठाता है (ते) वे (सर्वे) सब इस विषय में (संविदानाः) सम्यक् बुद्धिमान् विद्वान् लोग प्रतिज्ञा से (त्वा) तुझ को (प्रथन्तु) प्रसिद्ध करें और (नाकस्य) उत्तम सुखरूप लोक के (पृष्ठे) ऊपर (स्वर्गे) सुखदायक (लोके) लोक में (त्वा) तुझ को (च) और (यजमानम्) यजमान पुरुष को (सादयन्तु) स्थित करें ॥१३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे विद्वान् लोग आधार के सहित चन्द्रमा आदि पदार्थों और आधार के सहित प्राणों को यथावत् जान के संसारी कार्यों में उपयुक्त करके सुख को प्राप्त होते हैं, वैसे अध्यापक स्त्री-पुरुष कन्या-पुत्रों को विद्या-ग्रहण के लिये उपयुक्त करके आनन्दित करें ॥१३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तौ कीदृशावित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! यथा स्वराडुदीची दिग(स्य)स्ति तथा ते पतिर्भवतु यस्या दिशो मरुतो देवा अधिपतयः सन्ति तद्वद् य एकविंशः स्तोमः सोमो हेतीनां प्रतिधर्त्ता जनस्त्वा पृथिव्यां श्रयत्वव्यथायै निष्केवल्यमुक्थं प्रतिष्ठित्यै वैराजं साम च स्तभ्नातु यथा तेऽन्तरिक्षे स्थिता देवेषु प्रथमजा दिवो मात्रया वरिम्णा सह वर्त्तमाना ऋषयः सन्ति तथाऽयमेवैतेषां विधर्त्ता चाधिपतिरस्ति तत्र विषये ते सर्वे संविदाना विद्वांसस्त्वा प्रथन्तु नाकस्य पृष्ठे स्वर्गे लोके त्वा यजमानं च सादयन्तु ॥१३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा विद्वांसः सोमं प्राणांश्च साधिष्ठानान् विदित्वा कार्येषूपयुज्य सुखं लभन्ते तथा अध्यापका अध्यापिकाश्च शिष्यान् शिष्याश्च विद्याग्रहणायोपयुज्यानन्दयन्तु ॥१३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसे विद्वान लोक चंद्र व प्राणशक्ती यांना योग्य रीतीने जाणून त्यांना प्रत्यक्ष उपयोगात आणतात व सुख प्राप्त करतात तसे अध्यापक स्त्री-पुरुषांनी मुला-मुलींना विद्या संपादन करण्यायोग्य बनवावे.
१४ अधिपत्न्यसि बृहती
विश्वास-प्रस्तुतिः ...{Loading}...
अधि॑पत्न्यसि बृह॒ती दिग्विश्वे॑ ते दे॒वाऽअधि॑पतयो॒ बृह॒स्पति॑र्हेती॒नां प्र॑तिध॒र्त्ता त्रि॑णवत्रयस्त्रिँ॒शौ त्वा॒ स्तोमौ॑ पृथि॒व्याँ श्र॑यतां वैश्वदेवाग्निमारु॒तेऽउ॒क्थेऽअव्य॑थायै स्तभ्नीताँ शाक्वररैव॒ते साम॑नी॒ प्रति॑ष्ठित्याऽअ॒न्तरि॑क्ष॒ऽऋष॑यस्त्वा प्रथम॒जा दे॒वेषु॑ दि॒वो मात्र॑या वरि॒म्णा प्र॑थन्तु विध॒र्त्ता चा॒यमधि॑पतिश्च॒ ते त्वा॒ सर्वे॑ संविदा॒ना नाक॑स्य पृ॒ष्ठे स्व॒र्गे लो॒के यज॑मानञ्च सादयन्तु ॥१४ ॥
मूलम् ...{Loading}...
अधि॑पत्न्यसि बृह॒ती दिग्विश्वे॑ ते दे॒वाऽअधि॑पतयो॒ बृह॒स्पति॑र्हेती॒नां प्र॑तिध॒र्त्ता त्रि॑णवत्रयस्त्रिँ॒शौ त्वा॒ स्तोमौ॑ पृथि॒व्याँ श्र॑यतां वैश्वदेवाग्निमारु॒तेऽउ॒क्थेऽअव्य॑थायै स्तभ्नीताँ शाक्वररैव॒ते साम॑नी॒ प्रति॑ष्ठित्याऽअ॒न्तरि॑क्ष॒ऽऋष॑यस्त्वा प्रथम॒जा दे॒वेषु॑ दि॒वो मात्र॑या वरि॒म्णा प्र॑थन्तु विध॒र्त्ता चा॒यमधि॑पतिश्च॒ ते त्वा॒ सर्वे॑ संविदा॒ना नाक॑स्य पृ॒ष्ठे स्व॒र्गे लो॒के यज॑मानञ्च सादयन्तु ॥१४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अधि॑प॒त्नीत्यधि॑ऽपत्नी। अ॒सि॒। बृ॒ह॒ती। दिक्। विश्वे॑। ते॒। दे॒वाः। अधि॑पतय॒ इत्यधि॑ऽपतयः। बृह॒स्पतिः॑। हे॒ती॒नाम्। प्र॒ति॒ध॒र्त्तेति॑ प्रतिऽध॒र्त्ता। त्रि॒ण॒व॒त्र॒य॒स्त्रिँ॒शौ। त्रि॒न॒व॒त्र॒य॒स्त्रिँ॒शाविति॑ त्रिनवऽत्रयस्त्रिँ॒शौ। त्वा॒। स्तोमौ॑। पृ॒थि॒व्याम्। श्र॒य॒ता॒म्। वै॒श्व॒दे॒वा॒ग्नि॒मा॒रु॒त इति॑ वैश्वदेवाग्निमारु॒ते। उ॒क्थे इत्यु॒क्थे। अव्य॑थायै। स्त॒भ्नी॒ता॒म्। शा॒क्व॒र॒रै॒व॒त इति॑ शाक्वररैव॒ते। साम॑नी॒ इति॒ऽसाम॑नी। प्रति॑ष्ठित्यै। प्रति॑स्थित्या॒ इति॒ प्रति॑ऽस्थित्यै। अ॒न्तरि॑क्षे। ऋष॑यः। त्वा॒। प्र॒थ॒म॒जा इति॑ प्रथम॒ऽजाः। दे॒वेषु॑। दि॒वः। मात्र॑या। व॒रि॒म्णा। प्र॒थ॒न्तु॒। वि॒ध॒र्त्तेति॑ विऽध॒र्त्ता। च॒। अ॒यम्। अधि॑पति॒रित्यधि॑ऽपतिः। च॒। ते। त्वा॒। सर्वे॑। सं॒वि॒दा॒ना इति॑ सम्ऽविदा॒नाः। नाक॑स्य। पृ॒ष्ठे। स्व॒र्ग इति॑ स्वः॒ऽगे। लो॒के। यज॑मानम्। च॒। सा॒द॒य॒न्तु॒। १४।
महीधरः
म० अथ मध्ये । हे इष्टके, अधिकं पालयित्री बृहती प्रौढोर्ध्वा दिगसि । त्रिणवत्रयस्त्रिंशौ स्तोमौ त्वां पृथिव्यां श्रयताम्। वैश्वदेवाग्निमारुते शस्त्रे अचलनाय स्तभ्नीताम्। शाक्कररैवते सामनी चान्तरिक्षे स्थित्यै त्वां स्तभ्नीताम् । द्विवचने विशेषः । ‘तत्सवितुर्वृणीमहे’ ( ऋक्स० म० ५। ६ । १०।१) इत्यादि वैश्वदेवं शस्त्रम् । ‘वैश्वानराय पृथुपाजसा’ (ऋक्० म० ३ । १ । १३ । १) इत्यादिकमाग्निमारुतं शस्त्रम् । उक्तमन्यत् ॥ १४ ॥
पञ्चदशी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- परमेष्ठी ऋषिः
- ब्राह्मी जगती, ब्राह्मी त्रिष्टुप्
- निषादः, धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! जो तू (बृहती) बड़ी (अधिपत्नी) सब दिशाओं के ऊपर वर्त्तमान (दिक्) दिशा के समान (असि) है, उस (ते) तेरा पति (विश्वे) सब (देवाः) प्रकाशक सूर्य्यादि पदार्थ (अधिपतयः) अधिष्ठाता हैं, वैसे जो (बृहस्पतिः) विश्व का रक्षक (हेतीनाम्) बड़े लोकों का (प्रतिधर्त्ता) प्रतीति के साथ धारण करनेवाले सूर्य्य के तुल्य वह तेरा पति (त्वा) तुझ को (च) और (त्रिणवत्रयस्त्रिंशौ) त्रिणव और तेंतीस (स्तोमौ) स्तुति के साधन (पृथिव्याम्) पृथिवी में (अव्यथायै) पीड़ा रहितता के लिये (वैश्वदेवाग्निमारुते) सब विद्वान् और अग्नि वायुओं के व्याख्यान करनेवाले (उक्थे) कहने योग्य वेद के दो भागों का (श्रयताम्) आश्रय करें, (च) और जैसे (प्रतिष्ठित्यै) प्रतिष्ठा होने के लिये (शाक्वररैवते) शक्वरी और रेवती छन्द से कहे अर्थों से (सामनी) सामवेद के दो भागों को (स्तभ्नीताम्) सङ्गत करो। जैसे वे (अन्तरिक्षे) अवकाश में (प्रथमजाः) आदि में हुए (ऋषयः) धनञ्जय आदि सूक्ष्म स्थूल वायुरूप प्राण (देवेषु) दिव्य गुणवाले पदार्थों में (दिवः) प्रकाश की (मात्रया) मात्रा और (वरिम्णा) अधिकता से (त्वा) तुझ को प्रसिद्ध करते हैं, उन को मनुष्य लोग (प्रथन्तु) प्रख्यात करें, जैसे (अयम्) यह (अधिपतिः) स्वामी (विधर्त्ता) विविध प्रकार से सब को धारण करने हारा सूर्य है, जैसे (संविदानाः) सम्यक् सत्यप्रतिज्ञायुक्त ज्ञानवान् विद्वान् लोग (त्वा) तुझ को (नाकस्य) (पृष्ठे) सुखदायक देश के उपरि (स्वर्गे) सुखरूप (लोके) स्थान में स्थापित करते हैं, (ते) वे (सर्वे) सब (यजमानम्) तेरे पुरुष (च) और तुझ को (सादयन्तु) स्थित करें, वैसे तुम स्त्री-पुरुष दोनों वर्त्ता करो ॥१४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे सब के बीच की दिशा सब से अधिक है, वैसे सब गुणों से शरीर और आत्मा का बल अधिक है, ऐसा निश्चित जानना चाहिये ॥१४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! या त्वं बृहत्यधिपत्नी दिगिवासि, तस्यास्ते पतिर्विश्वे देवा अधिपतयः सन्ति, तद्वद्यो बृहस्पतिर्हेतीनां प्रतिधर्त्ता त्वा च त्रिणवत्रयस्त्रिंशौ स्तोमौ पृथिव्यामव्यथायै वैश्वदेवाग्निमारुते उक्थे च श्रयताम्। प्रतिष्ठित्यै शाक्वररैवते सामनी च स्तभ्नीताम्। यथा तेऽन्तरिक्षे प्रथमजा ऋषयो देवेषु दिवो मात्रया वरिम्णा त्वा प्रथन्ते तान् मनुष्याः प्रथन्तु। यथाऽयमधिपतिर्विधर्त्ता सूर्य्योऽस्ति, यथा संविदाना विद्वांसस्त्वा नाकस्य पृष्ठे स्वर्गे लोके सादयन्ति, यथा सर्वे ते यजमानं च सादयन्तु तथा त्वं पत्या सह वर्तेथाः ॥१४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा सर्वासां मध्यस्था दिक् सर्वाभ्योऽधिकास्ति तथा सर्वेभ्यो गुणेभ्यः शरीरात्मबलमधिकमस्तीति वेद्यम् ॥१४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जशी मधली दिशा सर्वात मोठी (विस्तृत) असते तसे सर्व गुणांनी युक्त शरीर व आत्मा यांचे बल अधिक असते हे जाणावे.
१५ अयं पुरो
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒यं पु॒रो हरि॑केशः॒ सूर्य॑रश्मि॒स्तस्य॑ रथगृ॒त्सश्च॒ रथौ॑जाश्च सेनानीग्राम॒ण्यौ᳖। पु॒ञ्जि॒क॒स्थ॒ला च॑ क्रतुस्थ॒ला चा॑प्स॒रसौ॑ द॒ङ्क्ष्णवः॑ प॒शवो॑ हे॒तिः पौरु॑षेयो व॒धः प्रहे॑ति॒स्तेभ्यो॒ नमो॑ऽअस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ॥१५ ॥
मूलम् ...{Loading}...
अ॒यं पु॒रो हरि॑केशः॒ सूर्य॑रश्मि॒स्तस्य॑ रथगृ॒त्सश्च॒ रथौ॑जाश्च सेनानीग्राम॒ण्यौ᳖। पु॒ञ्जि॒क॒स्थ॒ला च॑ क्रतुस्थ॒ला चा॑प्स॒रसौ॑ द॒ङ्क्ष्णवः॑ प॒शवो॑ हे॒तिः पौरु॑षेयो व॒धः प्रहे॑ति॒स्तेभ्यो॒ नमो॑ऽअस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ॥१५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒यम्। पु॒रः। हरि॑केश॒ इति॒ हरि॑ऽकेशः। सूर्य॑रश्मि॒रिति॒ सूर्य॑ऽरश्मिः। तस्य॑। र॒थ॒गृ॒त्स इति॑ रथऽगृ॒त्सः। च॒। रथौ॑जा॒ इति॒ रथ॑ऽओजाः। च॒। से॒ना॒नी॒ग्रा॒म॒ण्यौ᳖। से॒ना॒नी॒ग्रा॒म॒न्याविति॑ सेनानीग्राम॒न्यौ᳖। पु॒ञ्जि॒क॒स्थ॒लेति॑ पुञ्जिकऽस्थ॒ला। च॒। क्र॒तु॒स्थ॒लेति॑ क्रतुऽस्थ॒ला। च॒। अ॒प्स॒रसौ॑। द॒ङ्क्ष्णवः॑। प॒शवः॑। हे॒तिः। पौरु॑षेयः। व॒धः। प्रहे॑ति॒रिति॒ प्रऽहे॑तिः। तेभ्यः॑। नमः॑। अ॒स्तु॒। ते। नः॒। अ॒व॒न्तु॒। ते। नः॒। मृ॒ड॒य॒न्तु॒। ते। यम्। द्वि॒ष्मः। यः। च॒। नः॒। द्वेष्टि॑। तम्। ए॒षा॒म्। जम्भे॑। द॒ध्मः॒। १५।
महीधरः
म० ‘पुरीषमोप्योपर्ययं पुर इति पञ्चचूडाः प्रतिमन्त्रं प्रतिदिशं यथालिङ्गम्’ (का० १७ । १२ । २-३) । नाकसत्सु तूष्णीं चात्वालमृदं प्रक्षिप्य नाकसदामुपरि सर्वदिक्षु यथालिङ्गं लिङ्गानतिक्रमेण यल्लिङ्गको मन्त्रस्तद्दिशि तन्मन्त्रेण पञ्चचूडासंज्ञकाः पञ्चेष्टका उपदधातीति सूत्रार्थः । पञ्च यजूंषि लिङ्गोक्तदेवत्यानि । योऽयं पुरोऽग्निः इष्टकारूपः पुरस्तादुपधीयमानत्वात् पुरोऽग्निः । ‘अग्निर्वै पुरस्तद्यत्तमाह पुर इति प्राञ्चᳪं᳭ह्यग्निमुद्धरन्ति प्राञ्चमुपचरन्ति’ ( ८ । ६ । १। १६) इति श्रुतेः । कीदृशः । हरिकेशः हरयो हरितवर्णाः कनकवर्णाः केशाः केशसमा ज्वाला यस्य । ‘हरिः पिङ्गे हरिद्वर्णे’ इत्यभिधानात् । सूर्यरश्मिः सूर्यस्येव रश्मयः किरणा यस्य ‘सूर्यस्येव ह्यग्ने रश्मयः’ ( ८ । ६ । १ । १६) इति श्रुतेः । तस्याग्ने रथगृत्सः रथौजाः च सेनानीग्रामण्यौ रथे गृत्सो मेधावी कुशलो रथगृत्सः ‘गृत्सो मेधावी गृणातेः स्तुतिकर्मणः’ (निरु० ९ । ५) इति यास्कोक्तेः । सेनां नयतीति सेनानीः । चौ समुच्चयार्थौ । रथे ओजस्तेजो यस्य स रथौजाः । रथयुद्धकुशल इत्यर्थः । ग्रामं नयतीति ग्रामणीः । एतन्नामकौ सेनानीग्रामण्यौ परिचारकौ तौ च वासन्तिकावृतू इत्यर्थः । ‘वासन्तिकौ तावृतू’ (१६) इति श्रुतेः । तथा पुञ्जिकस्थला क्रतुस्थला चेत्यप्सरसौ दिगुपदिग्रूपे यस्य परिचारिके । पुञ्जिकस्य पुजीकृतस्य रूपलावण्यसौभाग्यादिगुणसमूहस्य स्थला आधारभूता पुजिकस्थला । क्रतूनां संकल्पानां रूपादिज्ञा नानां स्थला स्थानभूता क्रतुस्थला। पुञ्जिकस्य क्रतूनां च स्थलं यस्यामिति वहुव्रीहिर्वा । ‘पुञ्जिकस्थला च क्रतुस्थला चाप्सरसाविति दिक् चोपदिशा चेति ह स्माह माहित्थिः’ (१६) इति श्रुतेः । दङ्क्ष्णवो दशनशीलाः पशवः व्याघ्रादयो हेतिरायुधं वज्रः । पौरुषेयः पुरुषसंबन्धी वधः हननं वधः प्रहेतिः प्रकृष्टमायुधं यस्मिन्नस्त्रे मुक्ते रावणसेनेव परस्परं रिपवो घ्नन्ति स पौरुषेयो वधः । ‘यदन्योन्यं घ्नन्ति स पौरुषेयो वधः प्रहेतिः’ (१६) इति श्रुतेः । यस्याग्नेरियं सामग्री हे इष्टके, त्वं तदग्निस्वरूपासीत्यर्थः । योऽयमग्निर्यौ च तस्य सेनानीग्रामण्यौ ये चाप्सरसौ ये च हेतिप्रहेती तेभ्यः सर्वेभ्यः सर्वदा नमो नमस्कारोऽस्तु । ते सर्वे नोऽस्मान् मृडयन्तु सुखयन्तु । ते नोऽस्मानवन्तु रक्षन्तु यं नरं वयं द्विष्मः यस्यानिष्टं चिन्तयामः । यश्च नरो नोऽस्मान् द्वेष्टि अस्मास्वप्रीतिं करोति तं नरमेषां पूर्वोक्तानां जम्भे दंष्ट्राकराले मुखे वयं दध्मः प्रक्षिपामः । ‘जभि नाशने’ जम्भयति नाशयति जम्भा दंष्ट्रा यस्मिन्नस्तीति जम्भं मुखम् ॥ १५ ॥
षोडशी।
अधिमन्त्रम् (VC)
- वसन्तर्तुर्देवता
- परमेष्ठी ऋषिः
- विकृतिः
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
अब किरण आदि के दृष्टान्त से श्रेष्ठ विद्या का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (अयम्) यह (पुरः) पूर्वकाल में वर्त्तमान (हरिकेशः) हरितवर्ण केश के समान हरणशील और क्लेशकारी ताप से युक्त (सूर्यरश्मिः) सूर्य की किरणें हैं, (तस्य) उनका (रथगृत्सः) बुद्धिमान् सारथि (च) और (रथौजाः) रथ के ले चलने के वाहन (च) इन दोनों के तथा (सेनानीग्रामण्यौ) सेनापति और ग्राम के अध्यक्ष के समान अन्य प्रकार के भी किरण होते हैं, उन किरणों की (पुञ्जिकस्थला) सामान्य प्रधान दिशा (च) और (क्रतुस्थला) प्रज्ञाकर्म को जतानेवाली उपदिशा (च) ये दोनों (अप्सरसौ) प्राणों में चलनेवाली अप्सरा कहाती हैं, जो (दङ्क्ष्णवः) मांस और घास आदि पदार्थों को खानेवाले व्याघ्र आदि (पशवः) हानिकारक पशु हैं, उनके ऊपर (हेतिः) बिजुली गिरे। जो (पौरुषेयः) पुरुषों के समूह (वधः) मारनेवाले और (प्रहेतिः) उत्तम वज्र के तुल्य नाश करनेवाले हैं, (तेभ्यः) उन के लिये (नमः) वज्र का प्रहार (अस्तु) हो और जो धार्मिक राजा आदि सभ्य राजपुरुष हैं, (ते) वे उन पशुओं से (नः) हम लोगों की (अवन्तु) रक्षा करें, (ते) वे (नः) हम को (मृडयन्तु) सुखी करें, (ते) वे रक्षक हम लोग (यम्) जिस हिंसक से (द्विष्मः) विरोध करें (च) और (यः) जो हिंसक (नः) हम से (द्वेष्टि) विरोध करे (तम्) उसको हम लोग (एषाम्) इन व्याघ्रादि पशुओं के (जम्भे) मुख में (दध्मः) स्थापन करें ॥१५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे सूर्य के किरण हरे वर्णवाले हैं, उस के साथ लाल, पीले आदि वर्णवाले भी किरण रहते हैं, वैसे ही सेनापति और ग्रामाध्यक्ष वर्त्त के रक्षक होवें। जैसे राजा आदि पुरुष मृत्यु के हेतु सिंह आदि पशुओं को रोक के गौ आदि पशुओं की रक्षा करते हैं, वैसे ही विद्वान् लोग अच्छी शिक्षा से अधर्माचरण से पृथक् रख धर्म में चला के हम सब मनुष्यों की रक्षा करके द्वेषियों का निवारण करें। यह भी सब वसन्त ऋतु का व्याख्यान है ॥१५ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ रश्म्यादिदृष्टान्तेन सद्विद्योपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - योऽयं पुरो हरिकेशः सूर्य्यरश्मिरस्ति तस्य रथगृत्सश्च रथौजाश्च सेनानीग्रामण्याविवापरौ रश्मी वर्तेते। तस्य पुञ्जिकस्थला च क्रतुस्थला चाप्सरसौ वर्तेते। ये दंक्ष्णवः पशवः सन्ति तेषामुपरि हेतिर्वज्रः पततु। ये पौरुषेयो वधः प्रहेतिरिव वर्तमानाः सन्ति, तेभ्यो नमोऽस्तु। ये धार्मिका राजादयः सभ्या राजपुरुषाः सन्ति ते नोऽवन्तु। ते नो मृडयन्तु, ते वयं यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दध्मः ॥१५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा सूर्य्यस्य रश्मिर्हरितोऽस्ति, तेन साकं रक्तपीतादयः किरणा वर्त्तन्ते तथा सेनानीग्रामण्यौ वर्त्तित्वा रक्षकौ भवेताम्। यथा राजादयः सिंहादिहिंसकान् पशून्निरुध्य गवादीन् रक्षन्ति। तथैव विद्वांसः सुशिक्षयाऽस्मान् मनुष्यानधर्मानुष्ठानान्निरुध्य धर्म्ये कर्मणि वर्त्तयित्वा द्वेष्टॄन् निवारयन्तु। इदमपि वसन्तर्तोर्व्याख्यानम् ॥१५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. सूर्यकिरणे हिरव्या रंगाची, लाल व पिवळ्या रंगाचीही असतात. सेनापती व ग्रामाध्यक्ष यांनी त्याप्रमाणे (सूर्यकिरणांप्रमाणे) सर्वांचे रक्षण करावे. जसा राजा सिंहासारख्या पशूंपासून म्हणजे मृत्यूपासून गाई इत्यादींचे रक्षण करतो तसे विद्वान लोकांनी चांगले शिक्षण घेऊन, अधर्मापासून दूर राहून, धर्माने वागून, सर्व माणसांचे रक्षण करून द्वेष करणाऱ्यांचा नाश करावा. ही वसंत ऋतूची व्याख्या समजावी.
१६ अयं दक्षिणा
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒यं द॑क्षि॒णा वि॒श्वक॑र्मा॒ तस्य॑ रथस्व॒नश्च॒ रथे॑चित्रश्च सेनानीग्राम॒ण्यौ। मे॒न॒का च॑ सहज॒न्या चा॑प्स॒रसौ॑ यातु॒धाना॑ हे॒ती रक्षाँ॑सि॒ प्रहे॑ति॒स्तेभ्यो॒ नमो॑ऽअस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ॥१६
मूलम् ...{Loading}...
अ॒यं द॑क्षि॒णा वि॒श्वक॑र्मा॒ तस्य॑ रथस्व॒नश्च॒ रथे॑चित्रश्च सेनानीग्राम॒ण्यौ। मे॒न॒का च॑ सहज॒न्या चा॑प्स॒रसौ॑ यातु॒धाना॑ हे॒ती रक्षाँ॑सि॒ प्रहे॑ति॒स्तेभ्यो॒ नमो॑ऽअस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ॥१६
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒यम्। द॒क्षि॒णा। वि॒श्वक॒र्मेति॑ वि॒श्वऽक॑र्मा। तस्य॑। र॒थ॒स्व॒न इति॑ रथऽस्व॒नः। च॒। रथे॑चित्र॒ इति॒ रथे॑ऽचित्रः। च॒। से॒ना॒नी॒ग्रा॒म॒ण्यौ। से॒ना॒नी॒ग्रा॒म॒न्याविति॑ सेनानीग्राम॒न्यौ। मे॒न॒का। च॒। स॒ह॒ज॒न्येति॑ सहऽज॒न्या। च॒। अ॒प्स॒रसौ॑। या॒तु॒धाना॒ इति॑ यातु॒ऽधानाः॑। हे॒तिः। रक्षाँ॑सि। प्रहे॑ति॒रिति॒ प्रऽहे॑तिः। तेभ्यः॑। नमः॑। अ॒स्तु॒। ते। नः॒। अ॒व॒न्तु॒। ते। नः॒। मृ॒ड॒य॒न्तु॒। ते। यम्। द्वि॒ष्मः। यः। च॒। नः॒। द्वेष्टि॑। तम्। ए॒षा॒म्। जम्भे॑। द॒ध्मः॒। १६।
महीधरः
म० अथ दक्षिणतः । दक्षिणस्यां दिशीति दक्षिणा ‘दक्षिणादाच्’ (पा० ५। ३ । ३६ ) इति सप्तम्यन्ताद्दक्षिणशब्दादाच्प्रत्ययः । दक्षिणा दक्षिणतः अयं विश्वकर्मा विश्वं सर्वं कर्म यस्य । विश्वं करोतीति वा विश्वकर्मा वायुः । ‘अयं वै वायुर्विश्वकर्मा योऽयं पवत एष हीदᳪं᳭ सर्वं करोति तद्यत्तमाह दक्षिणेति तस्मादेष दक्षिणैव भूयिष्ठं वाति’ ( ८ । ६ । १ । १७ ) इति श्रुतेः । तस्य वायोः रथस्वनः सेनानीः रथे स्थितः खनति शूरशब्दं करोतीति रथस्वनः । रथे स्थितः स्वनति शूरशब्दं करोतीति रथस्वनः। रथे स्थितः चित्र आश्चर्यकारी रथे चित्रो ग्रामणीः ‘हलदन्तात्-’ (पा० ६ । ३ । ९) इति सप्तम्या अलुक् । तौ ग्रैष्मावृतू ‘ग्रैष्मौ | तावृतू’ (१७) इति श्रुतेः । मानयन्त्येनां मेनका । जनैः सर्वैः सह स्थिता सहजन्या । अप्सरसो हि सर्वसाधारणाः एते अप्सरसौ । यातुधाना रक्षसामवान्तरजातिभेदो बोध्यः । हेतिप्रहेती अप्यायुधविशेषौ । क्रूरा यातुधानास्तीक्ष्णहेतिरूपाः अतिक्रूराणि रक्षांस्यतितीक्ष्णप्रहेतिस्वरूपाणि । हे इष्टके, यस्य वायोरिदं सर्वं त्वं तद्रूपासि । व्याख्यातमन्यत् ॥ १६ ॥
सप्तदशी।
अधिमन्त्रम् (VC)
- ग्रीष्मर्तुर्देवता
- परमेष्ठी ऋषिः
- निचृत् प्रकृतिः
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वैसा ही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (अयम्) यह (विश्वकर्मा) सब चेष्टारूप कर्मों का हेतु वायु (दक्षिणा) दक्षिण दिशा से चलता है, (तस्य) उस वायु के (रथस्वनः) रथ के शब्द के समान शब्दवाला (च) और (रथेचित्रः) रमणीय रथ में चिह्नयुक्त आश्चर्य कार्यों का करनेवाला (च) ये दोनों (सेनानीग्रामण्यौ) सेनापति और ग्रामाध्यक्ष के समान वर्त्तमान (मेनका) जिस से मनन किया जाय वह (च) और (सहजन्या) एक साथ उत्पन्न हुई (च) ये दोनों (अप्सरसौ) अन्तरिक्ष में रहनेवाली किरणादि अप्सरा हैं, जो (यातुधाना) प्रजा को पीड़ा देनेवाले हैं, उन के ऊपर (हेतिः) वज्र जो (रक्षांसि) दुष्ट कर्म करनेवाले हैं, उन के ऊपर (प्रहेतिः) प्रकृष्ट वज्र के तुल्य (तेभ्यः) उन प्रजापीड़क आदि के लिये (नमः) वज्र का प्रहार (अस्तु) हो। ऐसा करके जो न्यायाधीश शिक्षक हैं, (ते) वे (नः) हमारी (अवन्तु) रक्षा करें। (ते) वे (नः) हमको (मृडयन्तु) सुखी करें, (ते) वे हम लोग (यम्) जिस दुष्ट से (द्विष्मः) द्वेष करें (च) और (यः) जो दुष्ट (नः) हम से (द्वेष्टि) द्वेष करे, (तम्) उस को (एषाम्) इन वायुओं के (जम्भे) व्याघ्र के समान मुख में (दध्मः) धारण करते हैं, वैसा प्रयत्न करो ॥१६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो स्थूल, सूक्ष्म और मध्यस्थ वायु से उपयोग लेने को जानते हैं, वे शत्रुओं का निवारण करके सब को आनन्दित करते हैं। यह भी ग्रीष्म ऋतु का शेष व्याख्यान है, ऐसा जानो ॥१६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तादृशमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा योऽयं विश्वकर्मा वायुर्दक्षिणा वाति तस्य वायो रथस्वनश्च रथेचित्रश्च सेनानीग्रामण्याविव वर्त्तमाने मेनका च सहजन्या चाप्सरसौ वर्त्तेते। ये यातुधानाः सन्ति तेषामुपरि हेतिर्यानि रक्षांसि वर्त्तन्ते, तेषामुपरि प्रहेतिरिव तेभ्यो नमोस्त्विति कृत्वा शिक्षका न्यायाधीशास्ते नोऽवन्तु, ते नो मृडयन्तु, ते वयं यं द्विष्मो यश्च नो द्वेष्टि तमेषां वायूनां जम्भे दध्मस्तथा प्रयतध्वम् ॥१६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये स्थूलसूक्ष्ममध्यस्थस्य वायोरुपयोगं कर्त्तुं जानन्ति ते शत्रून्निवार्य्य सर्वानानन्दयन्ति। इदमपि ग्रीष्मर्त्तोः शिष्टं व्याख्यानं वेद्यम् ॥१६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जे स्थूल, सूक्ष्म व मध्यम वायूचा उपयोग करणे जाणतात ते शत्रूंचे निवारण करून सर्वांना आनंदित करतात. ही ग्रीष्म ऋतूची शेष व्याख्या आहे हे जाणा.
१७ अयं पश्चाद्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒यं प॒श्चाद् वि॒श्वव्य॑चा॒स्तस्य॒ रथ॑प्रोत॒श्चास॑मरथश्च सेनानीग्राम॒ण्यौ। प्र॒म्लोच॑न्ती चानु॒म्लोच॑न्ती चाप्स॒रसौ॑ व्या॒घ्रा हे॒तिः स॒र्पाः प्रहे॑ति॒स्तेभ्यो॒ नमो॑ऽअस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ॥१७ ॥
मूलम् ...{Loading}...
अ॒यं प॒श्चाद् वि॒श्वव्य॑चा॒स्तस्य॒ रथ॑प्रोत॒श्चास॑मरथश्च सेनानीग्राम॒ण्यौ। प्र॒म्लोच॑न्ती चानु॒म्लोच॑न्ती चाप्स॒रसौ॑ व्या॒घ्रा हे॒तिः स॒र्पाः प्रहे॑ति॒स्तेभ्यो॒ नमो॑ऽअस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ॥१७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒यम्। प॒श्चात्। वि॒श्वव्य॑चा॒ इति॑ वि॒श्वऽव्य॑चाः। तस्य॑। रथ॑प्रोत॒ इति॒ रथ॑ऽप्रोतः। च॒। अस॑मरथ॒ इत्यस॑मऽरथः। च॒। से॒ना॒नी॒ग्रा॒म॒ण्यौ। से॒ना॒नी॒ग्रा॒म॒न्याविति॑ सेनानीग्राम॒न्यौ। प्र॒म्लोच॒न्तीति॑ प्र॒ऽम्लोच॑न्ती। च॒। अ॒नु॒म्लोच॒न्तीत्य॑नु॒ऽम्लोच॑न्ती। च॒। अ॒प्स॒रसौ॑। व्या॒घ्राः। हे॒तिः। स॒र्पाः। प्रहे॑ति॒रिति॒ प्रऽहे॑तिः। तेभ्यः॑। नमः॑। अ॒स्तु॒। ते। नः॒। अ॒व॒न्तु॒। ते। नः॒। मृ॒ड॒य॒न्तु॒। ते। यम्। द्वि॒ष्मः। यः। च॒। नः॒। द्वेष्टि॑। तम्। ए॒षा॒म्। जम्भे॑। द॒ध्मः॒। १७।
महीधरः
म० अथ पश्चात् । अवरस्मिन् प्रदेशे इत्यर्थे ‘पश्चात्-’ (पा० ५ । ३ । ३२) इति सूत्रेण निपातः । पश्चात् पश्चिमदेशेऽयं विश्वव्यचाः आदित्यः विश्वं सर्वमुदयेन विचति प्रकाशयति व्याप्नोति वा विश्वव्यचाः असुन् । पश्चिमायां स्पष्टं दृश्यत इति पश्चात् । ‘असो वा आदित्यो विश्वव्यचा यदा ह्येवैष उदेत्यथेदᳪं᳭ सर्वं व्यचो भवति तद्यत्तमाह पश्चादिति तस्मादेतं प्रत्यञ्चमेव यन्तं पश्यन्ति’ (८।६। १ । १८) इति श्रुतेः । तस्यादित्यस्य रथे स्थितः प्रोत इव स्थिरो रथे प्रोतः सेनानीः । असमोऽन्यै रथैरतुल्यो रथो यस्य सोऽसमरथो नाम ग्रामणीः तौ च वार्षिकावृतू । ‘वार्षिकौ तावृतू’ (१८) इति श्रुतेः । प्रम्लोचति नरं प्रत्यात्मानं दर्शयतीति प्रम्लोचन्ती । अनु वारं वारं म्लोचन्तीत्यनुम्लोचन्तीत्यप्सरसौ व्याघ्राः प्रसिद्धाः यस्य हेतिः, सर्पाः प्रहेतिर्यस्य तद्रूपासि । उक्तमन्यत् ॥ १७ ॥
अष्टादशी।
अधिमन्त्रम् (VC)
- वर्षर्त्तुर्देवता
- परमेष्ठी ऋषिः
- कृतिः
- निषादः
१८ अयमुत्तरात् संयद्वसुस्तस्य
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒यमु॑त्त॒रात् सं॒यद्व॑सु॒स्तस्य॒ तार्क्ष्य॒श्चारि॑ष्टनेमिश्च सेनानीग्राम॒ण्यौ᳖। वि॒श्वाची॑ च घृ॒ताची॑ चाप्स॒रसा॒वापो॑ हे॒तिर्वातः॒ प्रहे॑ति॒स्तेभ्यो॒ नमो॑ऽअस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां जम्भे॑ दध्मः ॥१८ ॥
मूलम् ...{Loading}...
अ॒यमु॑त्त॒रात् सं॒यद्व॑सु॒स्तस्य॒ तार्क्ष्य॒श्चारि॑ष्टनेमिश्च सेनानीग्राम॒ण्यौ᳖। वि॒श्वाची॑ च घृ॒ताची॑ चाप्स॒रसा॒वापो॑ हे॒तिर्वातः॒ प्रहे॑ति॒स्तेभ्यो॒ नमो॑ऽअस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां जम्भे॑ दध्मः ॥१८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒यम्। उ॒त्त॒रात्। सं॒यद्व॑सु॒रिति॑ सं॒यत्ऽव॑सुः। तस्य॑। तार्क्ष्यः॑। च॒। अरि॑ष्टनेमि॒रित्यरि॑ष्टऽनेमिः। च॒। से॒ना॒नी॒ग्रा॒म॒ण्यौ᳖। से॒ना॒नी॒ग्रा॒म॒न्या᳖विति॑ सेनानीग्राम॒न्यौ᳖। वि॒श्वाची॑। च॒। घृ॒ताची॑। च॒। अ॒प्स॒रसौ॑। आपः॑। हे॑तिः। वातः॑। प्रहे॑ति॒रिति॒ प्रऽहे॑तिः। तेभ्यः॑। नमः॑। अ॒स्तु॒। ते। नः॒। अ॒व॒न्तु॒। ते। नः॒। मृ॒ड॒य॒न्तु॒। ते। यम्। द्वि॒ष्मः। यः। च॒। नः॒। द्वेष्टि॑। तम्। ए॒षा॒म्। जम्भे॑। द॒ध्मः॒। १८।
महीधरः
म० अथोत्तरतः । उत्तरस्मिन्नित्युत्तरात् ‘उत्तराधर-’ (पा० ५। ३ । ३४ ) इत्यादिना आतिप्रत्ययः । अयमुत्तरतः संयद्वसुः यज्ञः सम्यक् यन्ति गच्छन्ति वसुने धनाय यंप्रति जनाः स संयद्वसुः । यज्ञं गतेभ्यो हि दानमावश्यकम् । यज्ञस्योत्तरोपचारत्वादुत्तरात् । तथाच श्रुतिः ‘यज्ञो वा उत्तरात्तद्यत्तमाहोत्तरादित्युत्तरत उपचारो हि यज्ञोऽथ यत्संयद्वसुरित्याह यज्ञᳪं᳭हि संयन्तीतीदं वसु’ (८ । ६।१।१९) इति तीक्ष्णेऽन्तरिक्षे क्षिपति पक्षाविति तार्यःष् स अरिष्टाऽनुपहिंसिता नेमिरायुधं यस्य सोऽरिष्टनेमिः एतन्नामकौ सेनानीग्रामण्यौ तौ शारदावृतू । ‘शारदौ तावृतू’ (१९) इति श्रुतेः । विश्वाची घृताची चाप्सरसौ ते च दिशोपदिशे । विश्वं सर्वं प्रत्यञ्चतीति विश्वाची सर्वसाधारणत्वात् । घृतमञ्चति भुङ्क्ते घृताची । घृतं ह्यप्सरसामन्नम् । ‘घृतस्य स्तोकं सकृदह्न आश्नामी’त्युर्वशीवचनात् । आपोऽपां समूहो हेतिः । ‘तस्य समूहः’ (पा० ४ । २ । ३७ ) इत्यण् । वातः वायुः प्रहेतिः । तेभ्य इत्याद्युक्तम् ॥ १८॥
एकोनविंशी।
अधिमन्त्रम् (VC)
- शरदृतुर्देवता
- परमेष्ठी ऋषिः
- भुरिगतिधृतिः
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वैसा ही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (अयम्) यह (उत्तरात्) उत्तर दिशा से (संयद्वसुः) यज्ञ को सङ्गत करने हारे के तुल्य शरद् ऋतु है, (तस्य) उस के (सेनानीग्रामण्यौ) सेनापति और ग्रामाध्यक्ष के समान (तार्क्ष्यः) तीक्ष्ण तेज को प्राप्त करानेवाला आश्विन (च) और (अरिष्टनेमिः) दुःखों को दूर करनेवाला कार्त्तिक (च) ये दोनों (विश्वाची) सब जगत् में व्यापक (च) और (घृताची) घी वा जल को प्राप्त करानेवाली दीप्ति (च) ये दोनों (अप्सरसौ) प्राणों की गति हैं, जहाँ (आपः) जल (हेतिः) वृद्धि के तुल्य वर्त्ताने और (वातः) प्रिय पवन (प्रहेतिः) अच्छे प्रकार बढ़ाने हारे के समान आनन्ददायक होता है, उस वायु को जो लोग युक्ति के साथ सेवन करते हैं, (तेभ्यः) उनके लिये (नमः) नमस्कार (अस्तु) हो, (ते) वे (नः) हमारी (अवन्तु) रक्षा करें, (ते) वे (नः) हम को (मृडयन्तु) सुखी करें, (ते) वे हम (यम्) जिससे (द्विष्मः) द्वेष करें (च) और (यः) जो (नः) हम से (द्वेष्टि) द्वेष करे, (तम्) उस को (एषाम्) इन जल वायुओं के (जम्भे) दुःखदायी गुणरूप मुख में (दध्मः) धरें, वैसे तुम लोग भी वर्तो ॥१८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। यह शरद् ऋतु का शेष व्याख्यान है। इस में भी मनुष्यों को चाहिये कि युक्ति के साथ कार्यों में प्रवृत्त हों ॥१८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तादृशमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथायमुत्तरात् संयद्वसुरिव शरदृतुरस्ति तस्य सेनानीग्रामण्याविव तार्क्ष्यश्चारिष्टनेमिश्च विश्वाची च घृताची चाप्सरसौ स्तः यत्राऽऽपो हेतिरिव वर्तिका वातः प्रहेतिरिवानन्दप्रदो भवति तं ये युक्त्या सेवन्ते तेभ्यो नमोऽस्तु। ते नोऽवन्तु ते नो मृडयन्तु ते वयं यं द्विष्मो यश्च नो द्वेष्टि तमेषामब्वातानां जम्भे दध्मस्तथा यूयं वर्तध्वम् ॥१८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। इदं शरदृतोः शिष्टं व्याख्यानम्। अस्मिन्नपि मनुष्यैर्युक्त्या प्रवर्त्तितव्यम् ॥१८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. ही शरद ऋतूची शिल्लक राहिलेली व्याख्या आहे. या ऋतूतही माणसांनी युक्तीने कार्यात प्रवृत्त व्हावे.
१९ अयमुपर्यर्वाग्वसुस्तस्य सेनजिच्च
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒यमु॒पर्य॒र्वाग्व॑सु॒स्तस्य॑ सेन॒जिच्च॑ सु॒षेण॑श्च सेनानीग्राम॒ण्यौ᳖। उ॒र्वशी॑ च पू॒र्वचि॑त्तिश्चाप्स॒रसा॑वव॒स्फूर्ज॑न् हे॒तिर्वि॒द्यु॒त्प्रहे॑ति॒स्तेभ्यो॒ नमो॑ऽअस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां जम्भे॑ दध्मः ॥१९ ॥
मूलम् ...{Loading}...
अ॒यमु॒पर्य॒र्वाग्व॑सु॒स्तस्य॑ सेन॒जिच्च॑ सु॒षेण॑श्च सेनानीग्राम॒ण्यौ᳖। उ॒र्वशी॑ च पू॒र्वचि॑त्तिश्चाप्स॒रसा॑वव॒स्फूर्ज॑न् हे॒तिर्वि॒द्यु॒त्प्रहे॑ति॒स्तेभ्यो॒ नमो॑ऽअस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां जम्भे॑ दध्मः ॥१९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒यम्। उ॒परि॑। अ॒र्वाग्व॑सु॒रित्य॒र्वाक्ऽव॑सुः। तस्य॑। से॒न॒जिदिति॑ सेन॒ऽजित्। च॒। सु॒षेणः॑। सु॒सेन॒ इति॑ सु॒ऽसेनः॑। च॒। से॒ना॒नी॒ग्रा॒म॒ण्यौ᳖। से॒ना॒नी॒ग्रा॒म॒न्या᳖विति॑ सेनानीग्राम॒न्यौ᳖। उ॒र्वशी॑। च॒। पू॒र्वचि॑त्ति॒रिति॑ पू॒र्वऽचि॑त्तिः। च॒। अ॒प्स॒रसौ॑। अ॒व॒स्फूर्ज॒न्नित्य॑व॒ऽस्फूर्ज॑न्। हे॒तिः। वि॒द्युदिति॑ वि॒ऽद्युत्। प्रहे॑ति॒रिति॒ प्रऽहे॑तिः। तेभ्यः॑। नमः॑। अ॒स्तु॒। ते। नः॒। अ॒व॒न्तु॒। ते। नः॒। मृ॒ड॒य॒न्तु॒। ते। यम्। द्वि॒ष्मः। यः। च॒। नः॒। द्वेष्टि॑। तम्। ए॒षा॒म्। जम्भे॑। द॒ध्मः॒। १९।
महीधरः
म० अथ मध्ये। उपरि ऊर्ध्वदेशेऽयमर्वाग्वसुः पर्जन्यः ‘उपर्युपरिष्टात्’ (पा० ५। ३ । ३१) इति निपात ऊर्ध्वप्रदेशे इत्यर्थे । अर्वागधोमुखं यद्वसु धनं जलरूपं यस्मात्सोऽर्वाग्वसुः । अधोजलं प्रजाभ्यो ददातीत्यर्थः । तथाच श्रुतिः ‘पर्जन्यो वा उपरि तद्यत्तमाहोपरीत्युपरि हि पर्जन्योऽथ यदर्वाग्वसुरित्याहातो ह्यर्वाग्वसु वृष्टिरन्नं प्रजाभ्यः प्रदीयते’ ( ८ । ६ । १ ।२० ) इति । तस्य पर्जन्यस्य सेनां जयतीति सेनजित् शोभना सेना यस्येति सुषेणः ‘पूर्वपदात्’ (पा० ८।३ । १०६) इति षत्वम् ततो णत्वम् । तौ सेनानीग्रामण्यौ तौ हैमन्तिकावृतू ‘हैमन्तिको तावृतू’ (२०) इति श्रुतेः । उरुः पृथुः कामो वशो यस्याः सोर्वशी । रूपातिशयात् पूर्वमेव पुंसां चित्तमुपैतीति पूर्वचित्तिः । एते दिगुपदिग्रूपे अप्सरसौ । ‘स्फूर्जा वज्रनिर्घोषे’ अवस्फूर्जतीत्यवस्फूर्जन् भयहेतुशब्दं कुर्वन् हेतिः। विद्युच्चपला प्रहेतिः । शिष्टं व्याख्यातम् ॥ १९ ॥
विंशी।
अधिमन्त्रम् (VC)
- हेमन्तर्त्तुर्देवता
- परमेष्ठी ऋषिः
- निचृत्कृतिः
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वैसा ही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (अयम्) यह (उपरि) ऊपर वर्त्तमान (अर्वाग्वसुः) वृष्टि के पश्चात् धन का हेतु है, (तस्य) उस के (सेनजित्) सेना से जीतनेवाला (च) और (सुषेणः) सुन्दर सेनापति (च) ये दोनों (सेनानीग्रामण्यौ) सेनापति और ग्रामाध्यक्ष के तुल्य वर्त्तमान अगहन और पौष महीने (उर्वशी) बहुत खाने का हेतु आन्तर्य दीप्ति (च) और (पूर्वचित्तिः) आदि ज्ञान का हेतु (च) ये दोनों (अप्सरसौ) प्राणों में रहनेवाली (अवस्फूर्जन्) भयंकर घोष करते हुए (हेतिः) वज्र के तुल्य (विद्युत्) बिजुली के चलाने हारे और (प्रहेतिः) उत्तम वज्र के समान रक्षक प्राणी हैं, (तेभ्यः) उन के लिये (नमः) अन्नादि पदार्थ (अस्तु) मिलें। (ते) वे (नः) हम लोगों की (अवन्तु) रक्षा करें, (ते) वे (नः) हम को (मृडयन्तु) सुखी करें, (ते) वे हम लोग (यम्) जिस दुष्ट से (द्विष्मः) द्वेष करें, (च) और (यः) जो (नः) हम से (द्वेष्टि) द्वेष करे, (तम्) उस को हम लोग (एषाम्) इन हिंसक प्राणियों के (जम्भे) मुख में (दध्मः) धरें, वैसे तुम लोग भी उस को धरो ॥१९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। यह भी हेमन्त ऋतु की शेष व्याख्या है। मनुष्यों को चाहिये कि इस ऋतु का युक्ति से सेवन करके बलवान् हों ॥१९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तादृशमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथाऽयमुपरि वर्त्तमानोऽर्वाग्वसुर्हेमन्तर्तुरस्ति, तस्य सेनजिच्च सुषेणश्च सेनानीग्रामण्याविव मार्गशीर्षपौषौ मासावुर्वशी च पूर्वचित्तिश्चाप्सरसाववस्फूर्जन् हेतिर्विद्युत्प्रहेतिश्चास्ति तेभ्यो नमोऽन्नमस्तु। ते नोऽवन्तु ते नो मृडयन्तु ते वयं यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दध्मस्तं यूयमपि तथा विदधत ॥१९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। इयमपि हेमन्तर्त्तोः शिष्टा व्याख्या। इममृतुं मनुष्या युक्त्या सेवित्वा बलिष्ठा भवन्तु ॥१९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. ही पण हेमंत ऋतूची शेष असलेली व्याख्या आहे. माणसांनी या ऋतूचे युक्तीने सेवन करून बलवान व्हावे.
२० अग्निर्मूर्द्धा दिवः
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्निर्मू॒र्द्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्याऽअ॒यम्। अ॒पाँ रेताँ॑सि जिन्वति ॥२० ॥
मूलम् ...{Loading}...
अ॒ग्निर्मू॒र्द्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्याऽअ॒यम्। अ॒पाँ रेताँ॑सि जिन्वति ॥२० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒ग्निः। मू॒र्द्धा। दि॒वः। क॒कुत्ऽपतिः॑। पृ॒थि॒व्याः। अ॒यम्। अ॒पाम्। रेताँ॑सि। जि॒न्व॒ति॒। २०।
महीधरः
म० ‘छन्दस्यास्तिस्रोऽनूकान्तेषु पुरस्ताद्गायत्रीरग्निर्मूर्धेति प्रत्यृचम्’ ( का० १७ । १२ । ५) । वक्ष्यमाणा गायत्र्याद्याश्छन्दस्या एकैकस्मिन् स्थाने तिस्र उपदधाति तासां मध्यमा पद्यानूके तामभितो द्वे अर्धपद्ये । अत्र पूर्वदिश्यनूकान्ते तिस्रो गायत्रीरग्निर्मूर्धेति प्रत्यृचम् । एवं वक्ष्यमाणा अपीति सूत्रार्थः । तिस्र ऋचोऽग्निदेवत्या गायत्र्यः । आद्या व्याख्याता (अध्या० ३ क० १२) ॥२०॥
एकविंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी ऋषिः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को किस प्रकार बल बढ़ाना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जैसे हेमन्त ऋतु में (अयम्) यह प्रसिद्ध (अग्निः) अग्नि (दिवः) प्रकाश और (पृथिव्याः) भूमि के बीच (मूर्द्धा) शिर के तुल्य सूर्य्यरूप से वर्त्तमान (ककुत्पतिः) दिशाओं का रक्षक हो के (अपाम्) प्राणों के (रेतांसि) पराक्रमों को (जिन्वति) पूर्णता से तृप्त करता है, वैसे ही मनुष्यों को बलवान् होना चाहिये ॥२० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को चाहिये कि युक्ति से जाठराग्नि को बढ़ा संयम से आहार-विहार करके नित्य बल बढ़ाते रहें ॥२० ॥
दयानन्द-सरस्वती (सं) - विषयः
कथं जनैर्बलं वर्धनीयमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यथा हेमन्तर्त्तावयमग्निर्दिवः पृथिव्याश्च मध्ये मूर्द्धा ककुत्पतिः सन्नपां रेतांसि जिन्वति, तथैव मनुष्यैर्बलिष्ठैर्भवितव्यम् ॥२० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैर्युक्त्या जाठराग्निं वर्धयित्वा संयमेनाहारविहारौ कृत्वा सदा बलं वर्धनीयम् ॥२० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. माणसांनी युक्तीने जठराग्री प्रदीप्त करून संयमाने आहार-विहार करावा व सदैव बल वाढवावे.
२१ अयमग्निः सहस्रिणो
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒यम॒ग्निः स॑ह॒स्रिणो॒ वाज॑स्य श॒तिन॒स्पतिः॑। मू॒र्धा क॒वी र॑यी॒णाम् ॥२१ ॥
मूलम् ...{Loading}...
अ॒यम॒ग्निः स॑ह॒स्रिणो॒ वाज॑स्य श॒तिन॒स्पतिः॑। मू॒र्धा क॒वी र॑यी॒णाम् ॥२१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒यम्। अ॒ग्निः। स॒ह॒स्रिणः॑। वाज॑स्य। श॒तिनः॑। पतिः॑। मू॒र्द्धा। क॒विः। र॒यी॒णाम्। २१।
महीधरः
म० अयमग्निरीदृशस्तं स्तुम इति शेषः । कीदृशः । सहस्रं संख्या अस्यास्तीति सहस्री तस्य । शतिनः शतसंख्यावतो वाजस्यान्नस्य पतिः स्वामी । अनेकान्नप्रद इत्यर्थः । तथा रयीणां धनानां मूर्धा शिरोवदुत्तमः । अग्निर्हि सर्वधनानां प्रधानधनं दृष्टादृष्टसाधनत्वात् । कविः क्रान्तदर्शनः ॥ २१॥
द्वाविंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी ऋषिः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्य क्या करे, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (अयम्) यह (अग्निः) हेमन्त ऋतु में वर्त्तमान (सहस्रिणः) प्रशस्त असंख्य पदार्थों से युक्त (शतिनः) प्रशंसित गुणों के सहित अनेक प्रकार वर्त्तमान (वाजस्य) अन्न तथा (रयीणाम्) धनों का (पतिः) रक्षक (मूर्द्धा) उत्तम अङ्ग के तुल्य (कविः) समर्थ है, वैसे ही तुम लोग भी हो ॥२१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे विद्या और युक्ति से सेवन किया अग्नि बहुत अन्न धन प्राप्त कराता है, वैसे ही सेवन किया पुरुषार्थ मनुष्यों को ऐश्वर्यवान् कर देता है ॥२१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यः किं कुर्य्यादित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथाऽयमग्निः सहस्रिणः शतिनो वाजस्य रयीणां च पतिर्मूर्द्धा कविरस्ति, तथैव यूयं भवत ॥२१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा विद्यायुक्तिभ्यां सेवितोऽग्निः पुष्कले धनधान्ये प्रयच्छति, तथैव सेवितः पुरुषार्थो मनुष्यान् श्रीमतः सम्पादयति ॥२१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. माणसांनी विद्वानांप्रमाणे आकाश व पृथ्वीच्या साह्याने विद्युतचा स्वीकार करून आश्चर्यजनक कार्ये करावीत.
२२ त्वामग्ने पुष्करादध्यथर्वा
विश्वास-प्रस्तुतिः ...{Loading}...
त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑र्वा॒ निर॑मन्थत। मू॒र्ध्नो विश्व॑स्य वा॒घतः॑ ॥२२ ॥
मूलम् ...{Loading}...
त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑र्वा॒ निर॑मन्थत। मू॒र्ध्नो विश्व॑स्य वा॒घतः॑ ॥२२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
त्वाम्। अ॒ग्ने॒। पुष्क॑रात्। अधि॑। अथ॑र्वा। निः। अ॒म॒न्थ॒त॒। मू॒र्ध्नः। विश्व॑स्य। वा॒घतः॑। २२।
महीधरः
म० व्याख्यातैकादशे द्वात्रिंशत्तमकण्डिकायाम् ॥ २२ ॥
त्रयोविंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी ऋषिः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा हो, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्वन् ! जैसे (अथर्वा) रक्षक (वाघतः) अच्छी शिक्षित वाणी से अविद्या का नाश करने हारा बुद्धिमान् विद्वान् पुरुष (पुष्करात्) अन्तरिक्ष के (अधि) बीच तथा (मूर्ध्नः) शिर के तुल्य वर्त्तमान (विश्वस्य) सम्पूर्ण जगत् के बीच अग्नि को (निरमन्थत) निरन्तर मन्थन करके ग्रहण करे, वैसे ही (त्वाम्) तुझ को मैं बोध कराता हूँ ॥२२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को चाहिये कि विद्वानों के समान आकाश तथा पृथिवी के सकाश से बिजुली का ग्रहण कर आश्चर्य रूप कर्मों को सिद्ध करें ॥२२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स कीदृशः स्यादित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! यथाऽथर्वा वाघतो विद्वान् पुष्करादधि मूर्ध्नो विश्वस्य च मध्येऽग्निं विद्युतं निरमन्थत, तथैव त्वां बोधयामि ॥२२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैर्विद्वदनुकरणेनाकाशात् पृथिव्याश्च विद्युतं संगृह्याश्चर्य्याणि कर्माणि साधनीयानि ॥२२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. माणसांनी विद्वानांप्रमाणे आकाश व पृथ्वीच्या साह्याने विद्युतचा स्वीकार करून आश्चर्यजनक कार्ये करावीत.
२३ भुवो यज्ञस्य
विश्वास-प्रस्तुतिः ...{Loading}...
भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भिः॒ सच॑से शि॒वाभिः॑। दि॒वि मू॒र्धानं॑ दधिषे स्व॒र्षां जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह॑म् ॥२३ ॥
मूलम् ...{Loading}...
भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भिः॒ सच॑से शि॒वाभिः॑। दि॒वि मू॒र्धानं॑ दधिषे स्व॒र्षां जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह॑म् ॥२३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
भुवः॑। य॒ज्ञस्य॑। रज॑सः। च॒। ने॒ता। यत्र॑। नि॒युद्भि॒रिति॑ नि॒युत्ऽभिः॑। सच॑से। शि॒वाभिः॑। दि॒वि। मू॒र्धा॑नम्। द॒धि॒षे॒। स्व॒र्षाम्। स्वः॒सामिति॑ स्वः॒ऽसाम्। जि॒ह्वाम्। अ॒ग्ने॒। च॒कृ॒षे॒। ह॒व्य॒वाह॒मिति॑ हव्य॒ऽवाह॑म्। २३।
महीधरः
म०. ‘पुरस्तात्त्रिष्टुभो रेतःसिग्वेलायां भुवो यज्ञस्येति’ (का. १७ । १२ । ७) । पूर्वदिशि रेतःसिग्वेलायां त्रिष्टुप्संज्ञा इष्टका उपदधाति तृचेन तिस्रः त्रिष्टुप्छन्दस्काभिर्ऋग्भिरुपधेया इष्टकास्तिस्रस्त्रिष्टुभः। एवमग्रेऽपि तिस्रस्त्रिष्टुभ आग्नेय्यः। प्रथमा व्याख्याता त्रयोदशेऽध्याये (अ० १३ । क० १५) ॥ २३ ॥
चतुर्विंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी ऋषिः
- निचृदार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा हो, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्वन् ! जैसे यह प्रत्यक्ष अग्नि (नियुद्भिः) संयोग-विभाग कराने हारी क्रिया तथा (शिवाभिः) मङ्गलकारिणी दीप्तियों के साथ वर्त्तमान (भुवः) प्रगट हुए (यज्ञस्य) कार्यों के साधक सङ्गत व्यवहार (च) और (रजसः) लोकसमूह को (नेता) आकर्षण करता हुआ सम्बन्ध कराता है और (यत्र) जिस (दिवि) प्रकाशमान अपने स्वरूप में (मूर्द्धानम्) उत्तमाङ्ग के तुल्य वर्त्तमान सूर्य को धारण करता तथा (हव्यवाहम्) ग्रहण करने तथा देने योग्य रसों को प्राप्त करानेवाली (स्वर्षाम्) सुखदायक (जिह्वाम्) वाणी को (चकृषे) प्रवृत्त करता है, वैसे तू शुभ गुणों के साथ (सचसे) युक्त होता और सब विद्याओं को (दधिषे) धारण कराता है ॥२३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे ईश्वर ने नियुक्त किया हुआ अग्नि सब जगत् को सुखकारी होता है, वैसे ही विद्या के ग्राहक अध्यापक लोग सब मनुष्यों को सुखकारी होते हैं, ऐसा सब को जानना चाहिये ॥२३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स कीदृशः स्यादित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! यथाऽयमग्निर्नियुद्भिः शिवाभिः सह वर्त्तमानः भुवो यज्ञस्य रजसश्च नेता सन् सचते यत्र दिवि मूर्द्धानं दधाति हव्यवाहं स्वर्षां जिह्वां चकृषे तथा तत्र त्वं दिवि सचसे विद्यां दधिषे ॥२३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथाग्निरीश्वरेण नियुक्तः सन् सर्वस्य जगतः सुखकारी वर्त्तते, तथैव विद्याग्राहका अध्यापकाः सर्वेषां जनानां सुखकारिणः सन्तीति ज्ञेयम् ॥२३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. ईश्वराने निर्माण केलेला अग्नी जसा सर्व जगाला सुखकारक ठरतो, तसेच विद्येचे उपासक अर्थात अध्यापक लोक सर्व माणसांना सुख देतात हे सर्वांनी जाणावे.
२४ अबोध्यग्निः समिधा
विश्वास-प्रस्तुतिः ...{Loading}...
अबो॑ध्य॒ग्निः स॒मिधा॒ जना॑नां॒ प्रति॑ धे॒नुमिवाय॒तीमु॒षास॑म्। य॒ह्वाऽइ॑व॒ प्र व॒यामु॒ज्जिहा॑नाः॒ प्र भा॒नवः॑ सिस्रते॒ नाक॒मच्छ॑ ॥२४ ॥
मूलम् ...{Loading}...
अबो॑ध्य॒ग्निः स॒मिधा॒ जना॑नां॒ प्रति॑ धे॒नुमिवाय॒तीमु॒षास॑म्। य॒ह्वाऽइ॑व॒ प्र व॒यामु॒ज्जिहा॑नाः॒ प्र भा॒नवः॑ सिस्रते॒ नाक॒मच्छ॑ ॥२४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अबो॑धि। अ॒ग्निः। स॒मिधेति॑ स॒म्ऽइधा॑। जना॑नाम्। प्रति॑। धे॒नुमि॒वेति॑ धे॒नुम्ऽइ॑व। आ॒य॒तीमित्या॑ऽय॒तीम्। उ॒षास॑म्। उ॒षस॒मित्यु॒षस॑म्। य॒ह्वा इ॒वेति॑ य॒ह्वाःऽइ॑व। प्र। व॒याम्। उ॒ज्जिहा॑ना॒ इत्यु॒त्ऽजिहा॑नाः। प्र। भा॒नवः॑। सि॒स्र॒ते॒। नाक॑म्। अच्छ॑। २४।
महीधरः
म० जनानां ज्ञानश्रद्धाद्विजतर्पणसत्यादिसंपन्नानामग्निहोत्रिणां समिधा समिन्धनेनाग्निः प्रत्यबोधि प्रतिबुध्यते । कर्मणि स्वमधिकारं जानातीत्यर्थः । ‘दीपजन-’ (पा० ३ । १ । ६९) इत्यादिना लुङि कर्तरि चिण् । तत्र दृष्टान्तः । आयतीमागच्छन्तीं धेनुं यथा वत्सः प्रतिबुध्यते यथा चोष समागच्छन्तीं प्रति मनुष्याः प्रतिबुध्यन्ते । दीप्तस्य तस्याग्नेर्भानवो रश्मयो नाकमच्छ स्वर्गमभितः प्रसिस्रते प्रसरन्ति । ‘अच्छाभेराप्तुमिति शाकपूणिः’ ( निरु० ५। २८) । दृष्टान्तमाह । यह्व इति महन्नाम । यह्वाः महान्तो जातपक्षाः पक्षिणो वयां वृक्षशाखां प्रोज्जिहानाः प्रोद्गच्छन्तो नाकमाकाशं प्रति प्रसरन्ति तद्वत् । ऋचोऽर्थान्तरं वा । जनानामृत्विजां संबन्धिन्या समिधाग्निरबोधि प्रतिबोधितः प्रज्वलितः आयतीमुषसं प्रातःकालंप्रति धेनुं यथा प्रतिबोधयन्ति उत्थापयन्ति । तस्य भानवः प्रोज्जिहाना नाकमभि प्रसिस्रते । दृष्टान्तः । वयां पक्षिणां मध्ये यह्वाः महान्तः पक्षिणो यथा प्रोद्गच्छन्तः प्रसरन्ति । विः पक्षी तस्यामि छान्दसे गुणे वयामिति रूपम् । एकः प्रशब्दः उज्जिहाना इत्यत्र संबध्यते द्वितीयः सिस्रते इत्यत्र । ‘सृ गतौ’ ह्वादिः लट् । ‘ओहाङ् गतौ’ शानच् जिहानाः । उषासमिति संहितायां दीर्घः ॥ २४ ॥
पञ्चविंशी। ।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी ऋषिः
- निचृत् त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा हो, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (समिधा) प्रज्वलित करने के साधनों से यह (अग्निः) अग्नि (अबोधि) प्रकाशित होता है, (आयतीम्) प्राप्त होते हुए (उषासम्) प्रभात समय के (प्रति) समीप (जनानाम्) मनुष्यों की (धेनुमिव) दूध देनेवाली गौ के समान है। जिस अग्नि के (यह्वा इव) महान् धार्मिक जनों के समान (प्र) उत्कृष्ट (वयाम्) व्यापक सुख की नीति को (उज्जिहानाः) अच्छे प्रकार प्राप्त करते हुए (प्र) उत्तम (भानवः) किरण (नाकम्) सुख को (अच्छ) अच्छे प्रकार (सिस्रते) प्राप्त करते हैं, उस को तुम लोग सुखार्थ संयुक्त करो ॥२४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। जैसे दुग्ध देनेवाली सेवन की हुई गौ दुग्धादि पदार्थों से प्राणियों को सुखी करती है और जैसे आप्त विद्वान् विद्यादान से अविद्या का निवारण कर मनुष्यों की उन्नति करते हैं, वैसे ही यह अग्नि है, ऐसा जानना चाहिये ॥२४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स कीदृशो भवेदित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा समिधायमग्निरबोध्यायतीमुषासं प्रति जनानां धेनुमिवास्ति। यस्य यह्वा इव प्रवयामुज्जिहानाः प्रभानवो नाकमच्छ सिस्रते, तं सुखाय यूयं संप्रयुङ्ग्ध्वम् ॥२४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। यथा दुग्धदात्री धेनुर्गौः संसेविता सती दुग्धादिभिः प्राणिनः सुखयति, यथाऽऽप्ता विद्वांसो विद्यादानेनाविद्यां निवार्य्य मनुष्यानुन्नयन्ति, तथैवायमग्निर्वर्त्तत इति वेद्यम् ॥२४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहेत जशा दूध देणाऱ्या गाई, दूध वगैरे पदार्थांनी प्राण्यांना सुखी करतात व जसे आप्त विद्वान अविद्येचे निवारण करून विद्येने माणसांची उन्नती करतात तसाच हा अग्नी उन्नती करणारा आहे हे जाणा.
२५ अवोचाम कवये
विश्वास-प्रस्तुतिः ...{Loading}...
अवो॑चाम क॒वये॒ मेध्या॑य॒ वचो॑ व॒न्दारु॑ वृष॒भाय॒ वृष्णे॑। गवि॑ष्ठिरो॒ नम॑सा॒ स्तोम॑म॒ग्नौ दि॒वी᳖व रु॒क्ममु॑रु॒व्यञ्च॑मश्रेत् ॥२५ ॥
मूलम् ...{Loading}...
अवो॑चाम क॒वये॒ मेध्या॑य॒ वचो॑ व॒न्दारु॑ वृष॒भाय॒ वृष्णे॑। गवि॑ष्ठिरो॒ नम॑सा॒ स्तोम॑म॒ग्नौ दि॒वी᳖व रु॒क्ममु॑रु॒व्यञ्च॑मश्रेत् ॥२५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अवो॑चाम। क॒वये॑। मेध्या॑य। वचः॑। व॒न्दारु॑। वृ॒ष॒भाय॑। वृ॒ष्णे॑। गवि॑ष्ठिरः। गवि॑स्थिर॒ इति॒ गवि॑ऽस्थिरः। नम॑सा। स्तोम॑म्। अ॒ग्नौ। दि॒वी᳖वेति॑ दि॒विऽइ॑व। रु॒क्मम्। उ॒रु॒व्यञ्च॒मित्यु॑रु॒ऽव्यञ्च॑म्। अ॒श्रे॒त्। २५।
महीधरः
म० उद्गातारो वदन्ति । वयं कवये क्रान्तदर्शिनेऽग्नये वचोऽवोचाम स्तुतिरूपं वाक्यमुक्तवन्तः । कीदृशाय कवये । मेध्याय मेधे यज्ञे योग्याय । वृषभाय श्रेष्ठाय कामानां वर्षयित्रे । वृष्णे सेक्त्रे । यूने परिणामरहिताय । कीदृशं वचः । वन्दारु वन्दनशीलं स्तुतितत्परम् । ‘शॄवन्द्योरारुः’ (पा. ३ । २। १७३ ) । इदानीं गविष्ठिरः गवि वाचि स्थिरोऽप्रच्याव्यो होता नमसाऽन्नेन युतं स्तोमं स्तुतिमग्नौ आहवनीये अश्रेत् । अन्तर्भूतण्यर्थः श्रयतिः लङ्लडर्थे । ‘छन्दसि लुङ्लङ्लिटः’ (पा. ३ । ४ । ६) इति वचनात् ‘बहुलं छन्दसि’ (पा० २।४ । ७३) इति शपो लुक् गुणः । होताग्नौ स्तोममापयिष्यति आसंजयिष्यति याज्यानुवाक्याभिरन्नमग्निसंबद्धं करिष्यतीत्यर्थः। तत्र दृष्टान्तः । दिवीव रुक्ममुत्प्रेक्षते । दिवि द्युलोके रुक्मं रोचमानमादित्यं सन्ध्यावन्दनसूर्योपस्थानादिषु विप्रयुक्ताः उरवो बहवो व्यञ्चाः स्तुतयो गतयो वा यस्येति तमिवेत्युत्प्रेक्षा । स्तोमः सूर्येणोपमीयते । ‘गवियुधिभ्यां स्थिरः’ (पा० ८ । ३ । ९५) इति षत्वम् ॥ २५ ॥
षड्विंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी ऋषिः
- निचृत् त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा है, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हम लोग जैसे (गविष्ठिरः) किरणों में रहनेवाली विद्युत् (दिवीव) सूर्यप्रकाश के समान (उरुव्यञ्चम्) विशेष करके बहुतों में गमनशील (रुक्मम्) सूर्य का (अश्रेत्) आश्रय करती है, वैसे (मेध्याय) सब शुभ लक्षणों से युक्त पवित्र (वृषभाय) बली (वृष्णे) वर्षा के हेतु (कवये) बुद्धिमान् के लिये (वन्दारु) प्रशंसा के योग्य (वचः) वचन को और (अग्नौ) जाठराग्नि में (नमसा) अन्न आदि से (स्तोमम्) प्रशस्त कार्यों को (अवोचाम) कहें ॥२५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। विद्वानों को चाहिये कि सुशील शुद्धबुद्धि विद्यार्थी के लिये परम प्रयत्न से विद्या देवें, जिससे वह विद्या पढ़ के सूर्य के प्रकाश में घट-पटादि को देखते हुए के समान सब को यथावत् जान सके ॥२५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स कीदृश इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - वयं यथा गविष्ठिरो दिवीवोरुव्यञ्चं रुक्ममश्रेत्, तथा मेध्याय वृषभाय वृष्णे कवये वन्दारु वचोऽग्नौ नमसा स्तोमं चावोचाम ॥२५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। विद्वद्भिः सुशीलाय शुद्धधिये विद्यार्थिने परमप्रयत्नेन विद्या देया। यतोऽसौ विद्यामधीत्य सूर्यप्रकाशे घटपटादीन् पश्यन्निव सर्वान् यथावज्ज्ञातुं शक्नुयात् ॥२५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. विद्वानांनी सुशील व पवित्र बुद्धीच्या विद्यार्थ्यांना प्रयत्नपूर्वक विद्या शिकवावी. ज्यामुळे सूर्यप्रकाशात जसे सर्व पदार्थ पाहता येतात तसे ते विद्या शिकून सर्व गोष्टी यथायोग्य जाणू शकतील.
२६ अयमिह प्रथमो
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्होता॒ यजि॑ष्ठोऽअध्व॒रेष्वीड्यः॑। यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रं वि॒भ्वं᳖ वि॒शेवि॑शे ॥२६ ॥
मूलम् ...{Loading}...
अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्होता॒ यजि॑ष्ठोऽअध्व॒रेष्वीड्यः॑। यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रं वि॒भ्वं᳖ वि॒शेवि॑शे ॥२६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒यम्। इ॒ह। प्र॒थ॒मः। धा॒यि॒। धा॒तृभि॒रिति॑ धा॒तृऽभिः॑। होता॑। यजि॑ष्ठः। अ॒ध्व॒रेषु॑। ईड्यः॑। यम्। अप्न॑वानः। भृग॑वः। वि॒रु॒रु॒चुरिति॑ विऽरु॒रु॒चुः। वने॑षु। चि॒त्रम्। वि॒भ्व᳖मिति॑ वि॒ऽभ्व᳖म्। वि॒शेवि॑श॒ इति॑ वि॒शेऽवि॑शे। २६।
महीधरः
म० ‘जगतीश्च पश्चादयमिहेति’ ( का० १७ । १२ । ८) तिसृभिः पश्चाद्रेतःसिग्वेलायां तिस्रो जगतीसंज्ञेष्टका दक्षिणामुख उपदधातीति सूत्रार्थः । तिस्रो जगत्य आग्नेय्यः । आद्या व्याख्याता ( अध्या० ३ क० १५) ॥ २६ ॥
सप्तविंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी ऋषिः
- भुरिगार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा हो, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (इह) इस जगत् में (अध्वरेषु) रक्षा के योग्य व्यवहारों में (ईड्यः) खोजने योग्य (यजिष्ठः) अतिशय करके यज्ञ का साधक (होता) घृतादि का ग्रहणकर्त्ता (प्रथमः) सर्वत्र विस्तृत (अयम्) यह प्रत्यक्ष अग्नि (धातृभिः) धारणशील पुरुषों ने (धायि) धारण किया है, (यम्) जिस को (वनेषु) किरणों में (चित्रम्) आश्चर्यरूप से (विभ्वम्) व्यापक अग्नि को (विशेविशे) समस्त प्रजा के लिये (अप्नवानः) रूपवान् (भृगवः) पूर्णज्ञानी (विरुरुचुः) विशेष करके प्रकाशित करते हैं, उस अग्नि को सब मनुष्य स्वीकार करें ॥२६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्वान् लोग अग्निविद्या को आप धारके दूसरों को सिखावें ॥२६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स कीदृश इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - य इहाध्वरेष्वीड्यो यजिष्ठो होता प्रथमोऽयमग्निर्धातृभिर्धायि यं वनेषु चित्रं विभ्वं विशेविशेऽप्नवानो भृगवो विरुरुचुस्तं सर्वे मनुष्या अङ्गीकुर्य्युः ॥२६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - विद्वांसोऽग्निविद्यां धृत्वाऽन्येभ्यः प्रदद्युः ॥२६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - विद्वानांनी अग्निविद्या स्वतः शिकून इतरांनाही शिकवावी.
२७ जनस्य गोपाऽअजनिष्ट
विश्वास-प्रस्तुतिः ...{Loading}...
जन॑स्य गो॒पाऽअ॑जनिष्ट॒ जागृ॑विर॒ग्निः सु॒दक्षः॑ सुवि॒ताय॒ नव्य॑से। घृ॒तप्र॑तीको बृह॒ता दि॑वि॒स्पृशा॑ द्यु॒मद्विभा॑ति भर॒तेभ्यः॒ शुचिः॑ ॥२७ ॥
मूलम् ...{Loading}...
जन॑स्य गो॒पाऽअ॑जनिष्ट॒ जागृ॑विर॒ग्निः सु॒दक्षः॑ सुवि॒ताय॒ नव्य॑से। घृ॒तप्र॑तीको बृह॒ता दि॑वि॒स्पृशा॑ द्यु॒मद्विभा॑ति भर॒तेभ्यः॒ शुचिः॑ ॥२७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
जन॑स्य। गो॒पाः। अ॒ज॒नि॒ष्ट॒। जागृ॑विः। अ॒ग्निः। सु॒दक्ष॒ इति॑ सु॒ऽदक्षः॑। सु॒वि॒ताय॑। नव्य॑से। घृ॒तप्र॑तीक॒ इति॑ घृ॒तऽप्र॑तीकः। बृ॒ह॒ता। दि॒वि॒स्पृशेति॑ दिवि॒ऽस्पृशा॑। द्यु॒मदिति॑ द्यु॒ऽमत्। वि। भा॒ति॒। भ॒र॒तेभ्यः॑। शुचिः॑। २७।
महीधरः
म० योऽग्निर्भरतेभ्यः ऋत्विग्भ्यः सकाशादजनिष्ट जातः तैर्मथितत्वात्तेभ्यो जात इत्युच्यते । भरता इति ऋत्विङ्नामसु पठितम् । किमर्थं जातः । नव्यसे नवीयसे नवतराय । सुविताय सूताय प्रसूताय कर्मणे यागाय । सूतेरिडागम आर्षः। अभिनवं नवीयस्तस्मै । ईलोप आर्षः । सोऽग्निर्दिविस्पृशाद्युलोकस्पर्शिना बृहता ज्वालासमूहेन द्युमत् कान्तिमद्यथा तथा विभाति विविधं दीप्यते । कीदृशोऽग्निः । जनस्य यजमानस्य गोपाः । गोपायति रक्षतीति गोपाः क्विप् ‘लोपो व्योर्वलि’ (पा० ६।१।६६) इति यलोपः । जागृविः जागरणशीलः कर्मणि सावधानः । सुदक्षः शोभनो दक्ष उत्साहो यस्य अतिकुशलो वा । घृतप्रतीकः घृतं प्रतीके मुखे यस्य । शुचिः शुद्धः बहूनि हवींषि भक्षयन्नपि उच्छिष्टो न स्यात् शोधको वा ॥ २७॥
अष्टाविंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी ऋषिः
- निचृदार्षी जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा हो, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (जनस्य) उत्पन्न हुए संसार का (गोपाः) रक्षक (जागृविः) जानने रूप स्वभाववाला (सुदक्षः) सुन्दर बल का हेतु (घृतप्रतीकः) घृत से बढ़ने हारा (शुचिः) पवित्र (अग्निः) बिजुली (नव्यसे) अत्यन्त नवीन (सुविताय) उत्पन्न करने योग्य ऐश्वर्य के लिये (अजनिष्ट) प्रकट हुआ है और (बृहता) बड़े (दिविस्पृशा) प्रकाश में स्पर्श से (भरतेभ्यः) सूर्यों से (द्युमत्) प्रकाशयुक्त हुआ (विभाति) शोभित होता है, उस को तुम लोग जानो ॥२७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि जो ऐश्वर्य्यप्राप्ति का विशेष कारण सृष्टि के सूर्यों का निमित्त बिजुली रूप तेज है, उसको जान के उपकार लिया करें ॥२७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स कीदृश इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यो जनस्य गोपा जागृविः सुदक्षो घृतप्रतीकः शुचिरग्निर्नव्यसे सुवितायाऽजनिष्ट, बृहता दिविस्पृशा भरतेभ्यो द्युमद्विभाति, तं यूयं विजानीत ॥२७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्यदैश्वर्यप्राप्तेरसाधारणं निमित्तं सृष्टिस्थानां सूर्याणां कारणं विद्युत्तेजस्तद्विज्ञायोपयोक्तव्यम् ॥२७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या सृष्टीत सूर्याच्या रूपाने जे विद्युतरूपी तेज प्रकट होते ते ऐश्वर्यप्राप्तीचे विशेष कारण आहे. हे माणसांनी जाणले पाहिजे व त्याचा लाभ करून घेतला पाहिजे.
२८ त्वामग्नेऽअङ्गिरसो गुहा
विश्वास-प्रस्तुतिः ...{Loading}...
त्वाम॑ग्ने॒ऽअङ्गि॑रसो॒ गुहा॑ हि॒तमन्व॑विन्दञ्छिश्रिया॒णं वने॑वने। स जा॑यसे म॒थ्यमा॑नः॒ सहो॑ म॒हत् त्वामा॑हुः॒ सह॑सस्पु॒त्रम॑ङ्गिरः ॥२८ ॥
मूलम् ...{Loading}...
त्वाम॑ग्ने॒ऽअङ्गि॑रसो॒ गुहा॑ हि॒तमन्व॑विन्दञ्छिश्रिया॒णं वने॑वने। स जा॑यसे म॒थ्यमा॑नः॒ सहो॑ म॒हत् त्वामा॑हुः॒ सह॑सस्पु॒त्रम॑ङ्गिरः ॥२८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
त्वाम्। अ॒ग्ने॒। अङ्गि॑रसः। गुहा॑। हि॒तम्। अनु॑। अ॒वि॒न्द॒न्। शि॒श्रि॒या॒णम्। व॑नेवन॒ इति॒ वने॑ऽवने। सः। जा॒य॒से॒। म॒थ्यमा॑नः। सहः॑। म॒हत्। त्वाम्। आ॒हुः॒। सह॑सः। पु॒त्रम्। अ॒ङ्गि॒रः॒। २८।
महीधरः
म० हे अग्ने, अङ्गिरसः अङ्गिरोवंशोद्भवा ऋषयस्त्वामन्वविन्दन् लेभिरे । अन्विष्य प्रापुरित्यर्थः । किंभूतं त्वां गुहा गुहायां निगूढे प्रदेशे हितं स्थितम् । अप्सु प्रविष्टमित्यर्थः । ‘अग्निर्देवेभ्य उदक्रामत्सोऽप आविशत्’ इत्यादिश्रुतेः । ‘सुपां सुलुक्’ (पा० ७।१ । ३९) इति गुहाशब्दात्सप्तमीलोपः । हे अग्ने, पुनर्नष्टं त्वां वने वने शिश्रियाणं नानावनस्पतिषु श्रितमङ्गिरसोऽन्वविन्दन् । ‘नित्यवीप्सयोः’ (पा० ८।१। ४ ) इति वनेपदस्य द्वित्वम् । श्रयतेः शानचि ‘बहुलं छन्दसि’ (पा० २।४ । ७६) इति शपः श्लुः द्वित्वं च । यं त्वामङ्गिरसोऽलभन्त स त्वं जायसेऽधुनाप्यरणिभ्य उत्पद्यसे । कीदृशः। महत्सहः महता बहुना सहसा बलेन मथ्यमानः । महत्सहःशब्दाभ्यां तृतीयालोपः । मथ्यमानो जायस इत्यर्थः । हे अङ्गिरः अग्ने, अतएव सहसो बलस्य पुत्रं त्वामाहुः वदन्ति मुनयः बलेन मन्थनाज्जायमानत्वाद्बलपुत्रं वदन्तीत्यर्थः ॥ २८ ॥
एकोनत्रिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी ऋषिः
- विराडार्षी जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा हो, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अङ्गिरः) प्राणवत्प्रिय (अग्ने) विद्वन् ! जैसे (सः) वह (मथ्यमानः) मथन किया हुआ अग्नि प्रसिद्ध होता है, वैसे तू विद्या से (जायसे) प्रकट होता है, जिस को (महत्) बड़े (सहः) बलयुक्त (सहसः) बलवान् वायु से (पुत्रम्) उत्पन्न हुए पुत्र के तुल्य (वनेवने) किरण-किरण वा पदार्थ-पदार्थ में (शिश्रियाणम्) आश्रित (गुहा) बुद्धि में (हितम्) स्थित हितकारी (त्वाम्) उस अग्नि को (आहुः) कहते हैं, (अङ्गिरसः) विद्वान् लोग (अन्वविन्दन्) प्राप्त होते हैं, उसका बोध (त्वाम्) तुझे कराता हूँ ॥२८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अग्नि दो प्रकार का होता है−एक मानस और दूसरा बाह्य। इस में आभ्यन्तर को युक्त आहार-विहारों से और बाह्य को मन्थनादि से सब विद्वान् सेवन करें, वैसे इतर जन भी सेवन किया करें ॥२८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स कीदृश इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हेऽङ्गिरोऽग्ने ! त्वं स मथ्यमानोऽग्निरिव विद्यया जायसे, यथा महत्सहो युक्तं सहसस्पुत्रं वनेवने शिश्रियाणं गुहा हितं त्वामाहुरङ्गिरसोऽन्वविन्दंस्तथा त्वामहं बोधयामि ॥२८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - द्विविधोऽग्निर्मानसो बाह्यश्चास्ति तयोराभ्यन्तरं युक्ताभ्यामाहारविहाराभ्यां बाह्यं मन्थनादिभ्यः सर्वे विद्वांसः सेवन्ताम्। तथेतरे भजन्तु ॥२८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - अग्नी दोन प्रकारचा असतो. एक मानस व दुसरा बाह्य. यापैकी अभ्यंतर अग्नीला आहार व विहार यांनी, तर बाह्य अग्नी मन्थनाने, प्रकट होतो हे सर्व विद्वानानी जाणावे आणि इतर लोकांनीही ते जाणून घ्यावे.
२९ सखायः सम्
विश्वास-प्रस्तुतिः ...{Loading}...
सखा॑यः॒ सं वः॑ स॒म्यञ्च॒मिषँ॒स्तोमं॑ चा॒ग्नये॑। वर्षि॑ष्ठाय क्षिती॒नामू॒र्जो नप्त्रे॒ सह॑स्वते ॥२९ ॥
मूलम् ...{Loading}...
सखा॑यः॒ सं वः॑ स॒म्यञ्च॒मिषँ॒स्तोमं॑ चा॒ग्नये॑। वर्षि॑ष्ठाय क्षिती॒नामू॒र्जो नप्त्रे॒ सह॑स्वते ॥२९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सखा॑यः। सम्। वः। स॒म्यञ्च॑म्। इष॑म्। स्तोम॑म्। च॒। अ॒ग्नये॑। वर्षि॑ष्ठाय। क्षि॒ती॒नाम्। ऊ॒र्जः। नप्त्रे॑। सह॑स्वते। २९।
महीधरः
म०. ‘अपरास्ताभ्योऽनुष्टुभः सखायः समिति’ ( का० १७ । १२ । ९) । जगतीभ्योऽपरास्तिस्रोऽनुष्टुप्संज्ञेष्टकाः प्राङ्मुख उपदधाति सखाय इत्यृक्त्रयेणेति सूत्रार्थः । तिस्रोऽनुष्टुभः । ऋविजःप्रति यजमानो ब्रूते । हे सखायः ऋत्विजः, सम्यञ्चं समीचीनमिषं हविर्लक्षणमन्नं समीचीनं स्तोमं चाग्नये वः यूयं संपादयत अग्न्यर्थं हविः कुरुत । त्रिवृत्पञ्चदशादिस्तोमं च वदतेत्यर्थः । व्यत्ययेन प्रथमास्थाने द्वितीयाबहुवचनं कृत्वा वसादेशे व इति । समित्युपसर्गस्यापेक्षितः क्रियाशेषोऽध्याहर्तव्यः । कीदृशायाग्नये । क्षितीनां मनुष्याणां । वर्षिष्ठाय श्रेष्ठाय वृद्धतमाय । ‘प्रियस्थिर-’ (पा० ६ । ४ । १५७) इत्यादिना वृद्धस्य वर्षादेश इष्ठनि । क्षियन्ति निवसन्ति भूमाविति क्षितयो नराः कर्तरि क्तिन् । सर्वपूज्यायेत्यर्थः । तथा ऊर्जो जलस्य नप्त्रे पौत्राय । अन्यो वनस्पतयो जायन्ते तेभ्योऽग्निरित्यपां पौत्रोऽग्निः । तथा सहस्वते बलवते सहो बलमस्यास्तीति ॥ २९ ॥
त्रिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी ऋषिः
- विराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्य लोग कैसे होके अग्नि को जानें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सखायः) मित्रो ! (क्षितीनाम्) मननशील मनुष्य (वः) तुम्हारे (ऊर्जः) बल के (नप्त्रे) पौत्र के तुल्य वर्त्तमान (सहस्वते) बहुत बलवाले (वर्षिष्ठाय) अत्यन्त बड़े (अग्नये) अग्नि के लिये जिस (सम्यञ्चम्) सुन्दर सत्कार के हेतु (इषम्) अन्न को (च) और (स्तोमम्) स्तुतियों को (समाहुः) अच्छे प्रकार कहते हैं, वैसे तुम लोग भी उस का अनुष्ठान करो ॥२९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यहाँ पूर्व मन्त्र से (आहुः) इस पद की अनुवृत्ति आती है। कारीगरों को चाहिये कि सब के मित्र होकर विद्वानों के कथनानुसार पदार्थविद्या का अनुष्ठान करें। जो बिजुली कारणरूप बल से उत्पन्न होती है, वह पुत्र के तुल्य है, और जो सूर्य्यादि के सकाश से उत्पन्न होती है सो पौत्र के समान है, ऐसा जानना चाहिये ॥२९ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्याः कीदृशा भूत्वाग्निं विजानीयुरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा विद्वांस सखायः सन्तः क्षितीनां वो युष्माकमूर्जो नप्त्रे सहस्वते वर्षिष्ठायाग्नये यं सम्यञ्चमिषं स्तोमं च समाहुस्तथा यूयमनुतिष्ठत ॥२९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र पूर्वमन्त्रादाहुरित्यनुवर्त्तते। शिल्पिनः सुहृदो भूत्वा विद्वदुक्तानुकूलतया पदार्थविद्यामनुतिष्ठेयुः। या विद्युत् कारणाख्याद् बलाज्जायते सा पुत्रवत्, या सूर्य्यादेः सकाशादुत्पद्यते सा पौत्रवदस्तीति वेद्यम् ॥२९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - येथे पूर्व मंत्रातील (आहुः) या पदाची अनुवृत्ती होते. कारागिरांनी सर्वांचे मित्र बनून विद्वानांच्या कथनानुसार पदार्थ विज्ञानात कार्यरत असावे. जी विद्युत कारणरूपी शक्तीने उत्पन्न होते ती पुत्राप्रमाणे असते व जी सूर्य इत्यादींच्या संपर्काने उत्पन्न होते ती पौत्राप्रमाणे असते हे जाणावे.
३० संसमिद्युवसे वृषन्नग्ने
विश्वास-प्रस्तुतिः ...{Loading}...
सँस॒मिद्यु॑वसे वृष॒न्नग्ने॒ विश्वा॑न्य॒र्य्यऽआ। इ॒डस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्याभ॑र ॥३० ॥
मूलम् ...{Loading}...
सँस॒मिद्यु॑वसे वृष॒न्नग्ने॒ विश्वा॑न्य॒र्य्यऽआ। इ॒डस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्याभ॑र ॥३० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सँस॒मिति॒ सम्ऽस॑म्। इत्। यु॒व॒से॒। वृ॒ष॒न्। अग्ने॑। विश्वा॑नि। अ॒र्य्यः। आ। इडः॒। प॒दे। सम्। इ॒ध्य॒से॒। सः। नः॒। वसू॑नि। आ। भ॒र॒। ३०।
महीधरः
म० हे वृषन् वर्षितः सेक्तः हे अग्ने, अर्यः स्वामी त्वं विश्वानि सर्वाणि फलानि आ समन्तात्संयुवसे संयौषि यजमानेन सङ्गमयसि । यौतेर्विकरणपदव्यत्ययः । ‘अर्यः स्वामिवैश्ययोः’ (पा.३।१।१०३ ) इति निपातः । इडः इडायाः गोः पृथिव्या वा पदे स्थाने उत्तरवेद्यां समिध्यसे कर्मार्थ दीप्यसे स ईदृशस्त्वं नोऽस्मभ्यं वसूनि धनानि आभर आहर देहीत्यर्थः । हरतेर्भकारः ॥ ३० ॥
एकत्रिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी ऋषिः
- विराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
वैश्य को क्या करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (वृषन्) बलवन् (अग्ने) प्रकाशमान (अर्यः) वैश्य ! जो तू (संसमायुवसे) सम्यक् अच्छे प्रकार सम्बन्ध करते हो (इडः) प्रशंसा के योग्य (पदे) प्राप्ति के योग्य अधिकार में (समिध्यसे) सुशोभित होते हो, (सः) सो तू (इत्) ही अग्नि के योग से (नः) हमारे लिये (विश्वानि) सब (वसूनि) धनों को (आभर) अच्छे प्रकार धारण कर ॥३० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजाओं से रक्षा प्राप्त हुए वैश्य लोग अग्न्यादि विद्याओं से अपने और राजपुरुषों के लिये सम्पूर्ण धन धारण करें ॥३० ॥
दयानन्द-सरस्वती (सं) - विषयः
वैश्येन किं कार्यमित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे वृषन्नग्ने अर्यस्त्वं संसमायुवसे, इडस्पदे समिध्यसे, स त्वमिदग्निना नो विश्वानि वसून्याभर ॥३० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - राजभिः संरक्षिता वैश्या अग्न्यादिविद्याभ्यः स्वेभ्यो राजपुरुषेभ्यश्चाखिलानि धनानि संभरेयुः ॥३० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजाकडून रक्षित असलेल्या वैश्यांनी अग्निविद्या इत्यादीसाठी व आपल्या राजपुरुषांसाठी संपूर्ण धन बाळगावे.
३१ त्वां चित्रश्रवस्तम
विश्वास-प्रस्तुतिः ...{Loading}...
त्वां चि॑त्रश्रवस्तम॒ हव॑न्ते वि॒क्षु ज॒न्तवः॑। शो॒चिष्के॑शं पुरुप्रि॒याग्ने॑ ह॒व्याय॒ वोढ॑वे ॥३१ ॥
मूलम् ...{Loading}...
त्वां चि॑त्रश्रवस्तम॒ हव॑न्ते वि॒क्षु ज॒न्तवः॑। शो॒चिष्के॑शं पुरुप्रि॒याग्ने॑ ह॒व्याय॒ वोढ॑वे ॥३१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
त्वाम्। चि॒त्र॒श्र॒व॒स्त॒मेति॑ चित्रश्रवःऽतम। हव॑न्ते। वि॒क्षु। ज॒न्तवः॑। शो॒चिष्के॑शम्। शो॒चिःके॑श॒मिति॑ शो॒चिःऽके॑शम्। पु॒रु॒प्रि॒येति॑ पुरुऽप्रिय। अग्ने॑। ह॒व्याय॑। वोढ॑वे। ३१।
महीधरः
म० चित्रं नानाविधं श्रवो धनं कीर्तिर्वा यस्य स चित्रश्रवाः अतिशयेन चित्रश्रवाश्चित्रश्रवस्तमस्तत्संबुद्धिः । हे पुरुप्रिय, पुरूणां बहूनां यजमानानां प्रियः । यद्वा पुरवः प्रिया यस्य, पुरु बहु हविः प्रियं यस्येति वा हे पुरुप्रिय हे अग्ने, विक्षु प्रजासु ऋत्विग्यजमानाः त्वां हवन्ते आह्वयन्ति । ‘ह्वेञ् आह्वाने’ | ‘ह्वः संप्रसारणम्’ (पा० ६ । १ । ३२) इति शपि संप्रसारणं गुणश्च । किं कर्तुम् । हव्याय वोढवे । विभक्तिव्यत्ययः । हव्यं वोढुं प्राप्तुम् ‘तुमर्थ सेसेन्–’ (पा० ३ । ४ । ९ ) इति तुमर्थे तवेप्रत्ययः ॥ ३१॥
द्वात्रिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी ऋषिः
- विराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्य लोग अग्नि से क्या सिद्ध करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (पुरुप्रिय) बहुतों के प्रसन्न करने हारे वा बहुतों के प्रिय (चित्रश्रवस्तम) आश्चर्य्यरूप अन्नादि पदार्थों से युक्त (अग्ने) तेजस्वी विद्वन् ! (विक्षु) प्रजाओं में (हव्याय) स्वीकार के योग्य अन्नादि उत्तम पदार्थों को (वोढवे) प्राप्ति के लिये जिस (शोचिष्केशम्) सुखानेवाली सूर्य की किरणों के तुल्य तेजस्वी (त्वाम्) आपको (जन्तवः) मनुष्य लोग (हवन्ते) स्वीकार करते हैं, उसी को हम लोग भी स्वीकार करते हैं ॥३१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्य को योग्य है कि जिस अग्नि को जीव सेवन करते हैं, उस से भार पहुँचाना आदि कार्य भी सिद्ध किया करें ॥३१ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यैरग्निना किं साध्यमित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे पुरुप्रिय चित्रश्रवस्तमाग्ने ! विक्षु हव्याय वोढवे यं शोचिष्केशं त्वां जन्तवो हवन्ते, तं वयमपि हवामहे ॥३१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्या यमग्निं जीवाः सेवन्ते, तेन भारवहनादीनि कार्य्याण्यपि साध्नुवन्तु ॥३१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्याप्रमाणे अग्नीचा सगळे लोक अंगीकार करतात त्या अग्नीकडून माणसांनी भारवहनाचे कार्य करून घ्यावे.
३२ एना वोऽअग्निम्
विश्वास-प्रस्तुतिः ...{Loading}...
ए॒ना वो॑ऽअ॒ग्निं नम॑सो॒र्जो नपा॑त॒माहु॑वे। प्रि॒यं चेति॑ष्ठमर॒तिँस्व॑ध्व॒रं विश्व॑स्य दू॒तम॒मृत॑म् ॥३२ ॥
मूलम् ...{Loading}...
ए॒ना वो॑ऽअ॒ग्निं नम॑सो॒र्जो नपा॑त॒माहु॑वे। प्रि॒यं चेति॑ष्ठमर॒तिँस्व॑ध्व॒रं विश्व॑स्य दू॒तम॒मृत॑म् ॥३२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ए॒ना। वः॒। अ॒ग्निम्। नम॑सा। ऊ॒र्जः। नपा॑तम्। आ। हु॒वे॒। प्रि॒यम्। चेति॑ष्ठम्। अ॒र॒तिम्। स्व॒ध्व॒रमिति॑ सुऽअ॒ध्व॒रम्। विश्व॑स्य। दू॒तम्। अ॒मृत॑म्। ३२।
महीधरः
म० ‘अषाढावेलायां पुरस्ताद्बृहतीरेना व इति’ (का० ( १८ । १२।१०) । अषाढावेलायाः पुरस्तात्तिस्रो बृहतीष्टका एना व इति तिसृभिरुपदधातीत्यर्थः । तिस्रो बृहत्यः प्रगाथः ऋगद्वयग्रन्थनेन ऋक्त्रयसंपादनं प्रगाथः तत्र बृहतीसतोबृहतीभ्यां तिस्रो बृहत्यः कृताः । यस्यास्तृतीयो द्वादशाक्षरोऽन्ये त्रयोऽष्टार्णाः सा बृहती । ‘एना वोऽग्निं नमसोर्जोनपातमाहुवे । प्रियं चेतिष्ठमरतिᳪं᳭ स्वध्वरं विश्वस्य दूतममृतम्’ इति । यस्याः प्रथमद्वितीयौ द्वादशार्णौ द्वितीयतुर्यावष्टार्णौ सा सतोबृहती। ‘स योजते अरुषा विश्वभोजसा स दुद्रवत् स्वाहुतः । सुब्रह्मा यज्ञः सुशमी वसूनां देवᳪं᳭ राधो जनानाम्’ इति । तत्र बृहत्यास्तुरीयं पादं द्विरावर्त्य सतोबृहत्याः पूर्वार्धेन सह द्वितीया बृहती कृता । सतोबृहत्या द्वितीयपादं द्विरावर्त्य तस्या एवोत्तरार्धेन सह तृतीया बृहती कृता । एवं तिस्रो बृहत्यः संहितायां पठिताः । तत्रावर्तितपादानामर्थान्तराभावाद् द्वे ऋचौ व्याख्यायेते । एना वः । विभक्तेराकारः । हे ऋत्विग्यजमानाः, वो युष्माकं संबन्धिना एना एनेन नमसान्नेन हविर्लक्षणेनाग्निमहमाहुवे आह्वयामि । वो युष्माकमेनमग्निं नमसा हुव इति वा । कीदृशमग्निम् । ऊर्जोनपातमपां पौत्रं प्रियं यजमानानां प्रीतिहेतुम् चेतिष्ठमतिशयेन चेतयितारम् । ‘तुरिष्ठेमेयस्सु’ (पा० ६ । ४ । १५४ ) इतीष्ठनि परे तृचो लोपः । अरतिमलमतिं पर्याप्तमतिम् । यद्वा रतिरुपरमस्तद्रहितम् । सदोद्यमयुतमित्यर्थः । स्वध्वरं शोभना अध्वरा यज्ञा यस्य तम् ॥ ३२ ॥
त्रयस्त्रिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी ऋषिः
- विराड् बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा हो, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे मैं (वः) तुम्हारे लिये (एना) उस पूर्वोक्त (नमसा) ग्रहण के योग्य अन्न से (नपातम्) दृढ़ स्वभाव (प्रियम्) प्रीतिकारक (चेतिष्ठम्) अत्यन्त चेतनता करानेहारे (अरतिम्) चेतनता रहित (स्वध्वरम्) अच्छे रक्षणीय व्यवहारों से युक्त (अमृतम्) कारणरूप से नित्य (विश्वस्य) सम्पूर्ण जगत् के (दूतम्) सब ओर चलनेहारे (अग्निम्) बिजुली को और (ऊर्जः) पराक्रमों को (आहुवे) स्वीकार करूँ, वैसे तुम लोग भी मेरे लिये ग्रहण करो ॥३२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! हम लोग तुम्हारे लिये जो अग्नि आदि की विद्या प्रसिद्ध करें, उनको तुम लोग स्वीकार करो ॥३२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स कीदृश इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथाऽहं वो युष्मभ्यमेना नमसा नपातं प्रियं चेतिष्ठं स्वध्वरमरतिममृतं विश्वस्य दूतमग्निमूर्जश्चाहुवे तथा यूयं मह्यं जुहुत ॥३२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! वयं युष्मदर्थं या अग्न्यादिविद्याः प्रकटयेम, ता यूयं स्वीकुरुत ॥३२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! आम्ही तुमच्यासाठी अग्नी इत्यादीसंबंधी जी विद्या प्रकट करतो त्याचा तुम्ही अंगीकार करा.
३३ विश्वस्य दूतममृतम्
विश्वास-प्रस्तुतिः ...{Loading}...
विश्व॑स्य दू॒तम॒मृतं॒ विश्व॑स्य दू॒तम॒मृत॑म्। स यो॑जतेऽअरु॒षा वि॒श्वभो॑जसा॒ स दु॑द्रव॒त् स्वा᳖हुतः ॥३३ ॥
मूलम् ...{Loading}...
विश्व॑स्य दू॒तम॒मृतं॒ विश्व॑स्य दू॒तम॒मृत॑म्। स यो॑जतेऽअरु॒षा वि॒श्वभो॑जसा॒ स दु॑द्रव॒त् स्वा᳖हुतः ॥३३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
विश्व॑स्य। दू॒तम्। अ॒मृत॑म्। विश्व॑स्य। दू॒तम्। अ॒मृत॑म्। सः। यो॒ज॒ते॒। अ॒रु॒षा। वि॒श्वभो॑ज॒सेति॑ वि॒श्वऽभो॑जसा। सः। दु॒द्र॒व॒त्। स्वा᳖हुत॒ इति॒ सुऽआ॑हुतः। ३३।
महीधरः
म०. विश्वस्य दूतं सर्वस्य यजमानजनस्य सर्वस्य जगतो वा दूतवत्कार्यकारिणम् । सर्वस्य हि गृहे दाहपाकादिकार्यकरत्वात् । अमृतं मरणरहितम् । अथ सतोबृहती व्याख्यायते । स योजते । यमग्निमाह्वयामि सोऽग्निः अरुषा अरुषौ रोषरहितौ साधू विश्वभोजसा विश्वं भुञ्जते तौ विश्वभोजसौ सर्वस्य भोक्तारौ। द्वितीयाद्विवचनस्थाने आकारः भुजेरसुन् । एवंविधावश्वौ रथे योजते युनक्ति । विशेषणाभ्यां विशेष्यमश्वपदं रथपदं चाध्याहार्यम् ॥ ३३ ॥
चतुस्त्रिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी ऋषिः
- निचृद् बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा हो, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे मैं (विश्वस्य) सब भूगोलों के (दूतम्) तपानेवाले सूर्य्यरूप (अमृतम्) कारणरूप से अविनाशिस्वरूप (विश्वस्य) सम्पूर्ण पदार्थों को (दूतम्) ताप से जलानेवाले (अमृतम्) जल में भी व्यापक कारणरूप अग्नि को स्वीकार करूँ, वैसे (विश्वभोजसा) जगत् के रक्षक (अरुषा) रूपवान् सब पदार्थों के साथ वर्त्तमान है (सः) वह (योजते) युक्त करता है, जो (स्वाहुतः) अच्छे प्रकार ग्रहण किया हुआ (दुद्रवत्) शरीरादि में चलता है (सः) वह तुम लोगों को जानना चाहिये ॥३३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में पूर्व मन्त्र से (आहुवे) इस पद की अनुवृत्ति आती है तथा (विश्वस्य दूतममृतम्) इन तीन पदों की दो वार आवृत्ति से स्थूल और सूक्ष्म दो प्रकार के अग्नि का ग्रहण होता है। वह सब अग्नि कारणरूप से नित्य है, ऐसा जानना चाहिये ॥३३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः सः कीदृशः स्यादित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथाऽहं विश्वस्य दूतममृतं विश्वस्य दूतममृतमग्निमाहुवे तथा विश्वभोजसाऽरुषा सर्वैः पदार्थैः सह वर्त्तते स योजते। यः स्वाहुतः सन् दुद्रवत्, स युष्माभिर्वेद्यः ॥३३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र पूर्वमन्त्रादाहुव इति पदमनुवर्त्तते। विश्वस्य दूतममृतमिति द्विरावृत्त्या द्विविधस्य स्थूलसूक्ष्मस्याग्नेर्ग्रहणम्। स सर्वः कारणरूपेण नित्य इति वेद्यम् ॥३३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात पूर्वीच्या मंत्रातील (अहुवे) या पदाची अनुवृत्ती होते व (विश्वस्य दूतममृतम्) या तीन पदांची दोन वेळा आवृत्ती होते. त्यावरून स्थूल व सूक्ष्म या दोन प्रकारच्या अग्नीचे ग्रहण होते तोच अग्नी कारणरूपाने नित्य असतो हे जाणले पाहिजे.
३४ स दुद्रवत्
विश्वास-प्रस्तुतिः ...{Loading}...
स दु॑द्रव॒त् स्वा᳖हुतः स दु॑द्रव॒त् स्वा᳖हुतः। सु॒ब्रह्मा॑ य॒ज्ञः सु॒शमी॒ वसू॑नां दे॒वँराधो॒ जना॑नाम् ॥३४ ॥
मूलम् ...{Loading}...
स दु॑द्रव॒त् स्वा᳖हुतः स दु॑द्रव॒त् स्वा᳖हुतः। सु॒ब्रह्मा॑ य॒ज्ञः सु॒शमी॒ वसू॑नां दे॒वँराधो॒ जना॑नाम् ॥३४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सः। दु॒द्र॒व॒त्। स्वा᳖हुत॒ इति॒ सुऽआ॑हुतः। सः। दु॒द्र॒व॒त्। स्वा᳖हुत॒ इति॒ सुऽआ॑हुतः। सु॒ब्र॒ह्मेति॑ सु॒ऽब्रह्मा॑। य॒ज्ञः। सु॒शमीति॑ सु॒ऽशमी॑। वसू॑नाम्। दे॒वम्। राधः॑। जना॑नाम्। ३४।
महीधरः
म० स एवाग्निः रथारूढः सन् स्वाहुतः शोभनप्रकारेणाहुतः सन् दुद्रवत् द्रवति गच्छति ‘द्रु गतौ’ ‘णिश्रिद्रुस्रुभ्यः-’ (पा० ३ । १ । ४८) इति लुङि चङ् द्वित्वम् अडभावगुणाभावावार्षौ । कुत्र गच्छतीत्यत आह सुब्रह्मेति । वसूनामिति । वसुशब्दो रुद्रादित्ययोरुपलक्षकः । वसूनां रुद्राणामादित्यानां सवनत्रयदेवानां यत्र यज्ञः यत्र च जनानां यजमानानां देवं दीप्यमानं राधो धनं हविर्लक्षणं चास्ति तत्राग्निर्गच्छतीत्यर्थः । सुब्रह्मा ब्रह्मपदं सर्वर्त्विगुपलक्षणम् । शोभनो ब्रह्मा ऋत्विग्यत्र शुभर्त्विग्युक्तः । सुशमी । शमीति कर्मनाम । शोभनानि कर्माणि यत्रेति सुशमी शोभनकर्मवान् । अग्निराहुतो रथेऽश्वान्नियुज्य यज्ञे हविर्भोक्तुमाश्वागच्छतीति सर्वार्थः ॥ ३४ ॥
पञ्चत्रिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी ऋषिः
- आर्ष्युष्णिक्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा हो, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (सः) वह अग्नि (स्वाहुतः) अच्छे प्रकार बुलाये हुए मित्र के समान (दुद्रवत्) चलता है तथा (सः) वह (स्वाहुतः) अच्छे प्रकार निमन्त्रण किये विद्वान् के तुल्य (दुद्रवत्) जाता है, (सुब्रह्मा) अच्छे प्रकार चारों वेदों के ज्ञाता (यज्ञः) समागम के योग्य (सुशमी) अच्छे शान्तिशील पुरुष के समान जो (वसूनाम्) पृथिवी आदि वसुओं और (जनानाम्) मनुष्यों का (देवम्) अभीप्सित (राधः) धनरूप है, उस अग्नि को तुम लोग उपयोग में लाओ ॥३४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो वेगवान्, अन्य पदार्थों को वेग देनेवाला, शान्तिकारक, पृथिव्यादि पदार्थों का प्रकाशक अग्नि है, उसका विचार क्यों न करना चाहिये ॥३४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स कीदृश इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! स स्वाहुतः सखिवद् दुद्रवत् स स्वाहुतो विद्वानिव दुद्रवत्। सुब्रह्मा यज्ञः सुशमीव यो वसूनां जनानां च देवं राधोऽस्ति तं यूयं संप्रयुङ्ग्ध्वम् ॥३४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यो वेगवानन्येभ्यो वेगप्रदः शान्तिकरः पृथिव्यादीनां प्रकाशकोऽग्निर्वत्तते स कथं न विज्ञेयः ॥३४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जो अग्नी गतिमान असून इतर पदार्थांना वेग देणारा व शांत असणाऱ्या पृथ्वी इत्यादी पदार्थांचा प्रकाशक आहे. तेव्हा त्याचा उपयोग करून घेण्याचा विचार का बरे करू नये?
३५ अग्ने वाजस्य
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने॒ वाज॑स्य॒ गोम॑त॒ऽईशा॑नः सहसो यहो। अ॒स्मे धे॑हि जातवेदो॒ महि॒ श्रवः॑ ॥३५ ॥
मूलम् ...{Loading}...
अग्ने॒ वाज॑स्य॒ गोम॑त॒ऽईशा॑नः सहसो यहो। अ॒स्मे धे॑हि जातवेदो॒ महि॒ श्रवः॑ ॥३५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अग्ने॑। वाज॑स्य। गोम॑त॒ इति॒ गोऽम॑तः। ईशा॑नः। स॒ह॒सः॒। य॒हो॒ इति॑ यहो। अ॒स्मे इत्य॒स्मे। धे॒हि॒। जा॒त॒वे॒द॒ इति॑ जातऽवेदः। महि॑। श्रवः॑। ३५।
महीधरः
म०. ‘अपरा गायत्रीभ्य उष्णिहोऽग्ने वाजस्येति’ (का० । १७ । १२ । १३) । गायत्रीभ्योऽपरास्तित्र उष्णिक्संज्ञा इष्टका अग्न इति ऋक्त्रयेणोपदधातीति सूत्रार्थः । तिस्र उष्णिहः । हे अग्ने, हे सहसो यहो बलस्य पुत्र, सह इति बलनाम यहुरिति पुत्रनाम । मन्थनाज्जायमानत्वाद्बलस्य पुत्रत्वम् । सहसस्पुत्रमित्युक्तं च । हे जातवेदः उत्पन्नज्ञान, अस्मे अस्मभ्यं महि महत् श्रवः धनं धेहि देहि । कीदृशस्त्वम् । गोमतः धेनुयुक्तस्य वाजस्यान्नस्येशानः ईश्वरः अतएव धनं गाश्च देहीत्यर्थः ॥ ३५ ॥
षट्त्रिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी ऋषिः
- उष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा है, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सहसः) बलवान् पुरुष के (यहो) सन्तान ! (जातवेदः) विज्ञान को प्राप्त हुए (अग्ने) तेजस्वी विद्वान् आप अग्नि के तुल्य (गोमतः) प्रशस्त गौ और पृथिवी से युक्त (वाजस्य) अन्न के (ईशानः) स्वामी समर्थ हुए (अस्मे) हमारे लिये (महि) बड़े (श्रवः) धन को (धेहि) धारण कीजिये ॥३५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। अच्छी रीति से उपयुक्त किया अग्नि बहुत धन देता है, ऐसा जानना चाहिये ॥३५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स कीदृश इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सहसो यहो जातवेदोऽग्ने ! त्वमग्निरिव वाजस्य गोमत ईशानः सन्नस्मे महि श्रवो धेहि ॥३५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। साधुरीत्योपयुक्तोऽग्निः पुष्कलं धनं प्रयच्छतीति वेद्यम् ॥३५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. उत्तम प्रकारे उपयोगात आणलेला अग्नी खूप धन देतो हे जाणले पाहिजे.
३६ सऽइधानो वसुष्कविरग्निरीडेन्यो
विश्वास-प्रस्तुतिः ...{Loading}...
सऽइ॑धा॒नो वसु॑ष्क॒विर॒ग्निरी॒डेन्यो॑ गि॒रा। रे॒वद॒स्मभ्यं॑ पुर्वणीक दीदिहि ॥३६ ॥
मूलम् ...{Loading}...
सऽइ॑धा॒नो वसु॑ष्क॒विर॒ग्निरी॒डेन्यो॑ गि॒रा। रे॒वद॒स्मभ्यं॑ पुर्वणीक दीदिहि ॥३६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सः। इ॒धा॒नः। वसुः॑। क॒विः। अ॒ग्निः। ई॒डेन्यः॑। गि॒रा। रे॒वत्। अ॒स्मभ्य॑म्। पु॒र्व॒णी॒क॒। पु॒र्वनी॒केति॑ पुरुऽअनीक। दी॒दि॒हि॒। ३६।
महीधरः
म० हे पुर्वणीक, पुरु बहु अनीकं मुखं यस्य तत्संबुद्धिः सर्वदाहकत्वात् । ‘यतो ह्येव कुतश्चाग्नावभ्यादधाति ततएव प्रदहति’ इति श्रुतेः । हे बहुमुखाग्ने, अस्मभ्यमस्मदर्थे रेवत् रयिमत् धनवत् यथा तथा स त्वं दीदिहि दीप्यस्व । दिवेः शप श्लुः द्वित्वम् ‘तुजादीनां दीर्घाऽभ्यासस्य’ (पा. ६।१। ७) इत्यभ्यासदीर्घः ‘लोपो व्योर्वलि’ (पा०६।१।६६) इति वलोपः । रयिर्विद्यते यत्र कर्मणि रेवत् ‘रयेर्मतौ’ (पा. ६।१।३७) इति संप्रसारणम् । तथा त्वया हविर्ग्राह्यं यथास्माकं धनाप्तिर्भवतीत्यर्थः । स पूर्वोक्तः कीदृशस्त्वम् । इधानः दीप्यमानः । वसुः निवासहेतुः । कविः क्रान्तदर्शी । अग्निः अग्रे नयतीत्यग्रणीः । प्रथमं यज्ञप्रवर्तक इत्यर्थः । गिरा त्रयीलक्षणया वाचा ईडेन्यः ईडितुं योग्यः स्तुत्यः । औणादिक एन्यः ॥ ३६॥
सप्तत्रिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी ऋषिः
- निचृदुष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा हो, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (पुर्वणीक) बहुत सेनावाले राजपुरुष विद्वन् ! (गिरा) वाणी से (ईडेन्यः) खोजने योग्य (वसुः) निवास का हेतु (कविः) समर्थ (इधानः) प्रदीप्त (सः) उस पूर्वोक्त (अग्निः) अग्नि के समान (अस्मभ्यम्) हमारे लिये (रेवत्) प्रशंसित धनयुक्त पदार्थों को (दीदिहि) प्रकाशित कीजिये ॥३६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र मे वाचकलुप्तोपमालङ्कार है। विद्वान् को चाहिये कि अग्नि के गुण, कर्म और स्वभाव के प्रकाश से मनुष्यों के लिये ऐश्वर्य की उन्नति करे ॥३६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स कीदृश इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे पुर्वणीक विद्वन् ! स गिरेडेन्यो वसुः कविरिधानः सोऽग्निरिवाऽस्मभ्यं रेवद्दीदिहि प्रकाशय ॥३६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। विदुषाऽग्निगुणकर्मस्वभावप्रकाशनेन मनुष्येभ्य ऐश्वर्यमुन्नेयम् ॥३६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. विद्वानांनी अग्नीचा गुण, कर्म, स्वभाव जाणून त्याप्रमाणे सर्व माणसांसाठी ऐश्वर्य प्राप्ती व्हावी असे कार्य करावे.
३७ क्षपो राजन्नुत
विश्वास-प्रस्तुतिः ...{Loading}...
क्ष॒पो रा॑जन्नु॒त त्मनाग्ने॒ वस्तो॑रु॒तोषसः॑। स ति॑ग्मजम्भ र॒क्षसो॑ दह॒ प्रति॑ ॥३७ ॥
मूलम् ...{Loading}...
क्ष॒पो रा॑जन्नु॒त त्मनाग्ने॒ वस्तो॑रु॒तोषसः॑। स ति॑ग्मजम्भ र॒क्षसो॑ दह॒ प्रति॑ ॥३७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
क्ष॒पः। रा॒ज॒न्। उ॒त। त्मना॑। अग्ने॑। वस्तोः॑। उ॒त। उ॒षसः॑। सः। ति॒ग्म॒ज॒म्भेति॑ तिग्मऽजम्भ। र॒क्षसः॑। द॒ह॒। प्रति॑। ३७।
महीधरः
म० हे राजन् दीप्यमान, हे तिग्मजम्भ तिग्मा तीक्ष्णा जम्भा दंष्ट्रा यस्य । यद्वा तिग्ममिति वज्रनाम । हे वज्रदंष्ट्र अग्ने, वस्तोः अयःसंबन्धिनः उतापि उषसः उषःकालसंबन्धिनो रक्षसो रक्षांसि राक्षसान् स त्वं प्रतिदह प्रत्येकं भस्मीकुरु । लिङ्गव्यत्ययेन रक्षःशब्दस्य पुंस्त्वम् । ‘छन्दसि परेऽपि’ (पा. १ । ४ । ८१) इति प्रत्युपसर्गस्य क्रियापदात्परत्वम् । कीदृशस्त्वम् । त्मना उप आत्मनापि स्वभावतोऽपि । क्षपः क्षपयतीति क्षपः ‘क्षप क्षेपे’ चुरादिः पचाद्यच् । स्वभावतो रक्षसां क्षपयिता। ‘मन्त्रेष्वाड्यादेरात्मनः’ (पा० ६। ४।१४१) इति आत्मन आकारलोपस्तृतीयैकवचने ॥ ३७॥
अष्टत्रिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी ऋषिः
- निचृदुष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा हो, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (तिग्मजम्भ) तीक्ष्ण अवयवों के चलानेवाले (राजन्) प्रकाशमान (अग्ने) विद्वान् जन ! (सः) सो पूर्वोक्त गुणयुक्त आप जैसे तीक्ष्ण तेजयुक्त अग्नि (क्षपः) रात्रियों (उत) और (वस्तोः) दिन के (उत) ही (उषसः) प्रभात और सायंकाल के प्रकाश को उत्पन्न करता है, वैसे (त्मना) तीक्ष्णस्वभावयुक्त अपने आत्मा से (रक्षसः) दुष्ट जनों को रात्रि के समान (प्रतिदह) निश्चय करके भस्म कीजिये ॥३७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को चाहिये कि जैसे प्रभात, दिन और रात्रि का निमित्त अग्नि को जानते हैं, वैसे राजा न्याय के प्रकाश और अन्याय की निवृत्ति का हेतु है, ऐसा जानें ॥३७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स कीदृश इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे तिग्मजम्भ राजन्नग्ने ! स त्वं यथा तीक्ष्णतेजा अग्निः क्षप उत वस्तोरुतोषसो जनयति तथा सुशिक्षां जनय रक्षसस्तम इव तीव्रत्मना प्रति दह ॥३७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैर्यथा प्रभातस्य दिनस्य रात्रेश्च निमित्तमग्निर्विज्ञायते तथा राजा न्यायप्रकाशस्यान्यायनिवृत्तेश्च हेतुरस्तीति वेद्यम् ॥३७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसा अग्नी हा दिवस आणि रात्र होण्याचे निमित्त आहे तसा राजा हा न्यायी असून अन्यायाचे निवारण करणारा असला पाहिजे हे माणसांनी जाणावे.
३८ भद्रो नोऽअग्निराहुतो
विश्वास-प्रस्तुतिः ...{Loading}...
भ॒द्रो नो॑ऽअ॒ग्निराहु॑तो भ॒द्रा रा॒तिः सु॑भग भ॒द्रो अ॑ध्व॒रः। भ॒द्राऽउ॒त प्रश॑स्तयः ॥३८ ॥
मूलम् ...{Loading}...
भ॒द्रो नो॑ऽअ॒ग्निराहु॑तो भ॒द्रा रा॒तिः सु॑भग भ॒द्रो अ॑ध्व॒रः। भ॒द्राऽउ॒त प्रश॑स्तयः ॥३८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
भ॒द्रः। नः॒। अ॒ग्निः। आहु॑त॒ इत्याऽहु॑तः। भ॒द्रा। रा॒तिः। सु॒भ॒गेति॑ सुऽभग। भ॒द्रः। अ॒ध्व॒रः। भ॒द्राः। उ॒त। प्रश॑स्तय॒ इति॒ प्रऽश॑स्तयः। ३८।
महीधरः
म०. ‘भद्रो न इति ककुभस्ताभ्यः’ (का० १७ । १२ । ११) । इति बृहतीभ्यः पुरस्तात्तिस्रः ककुबिष्टका भद्रो न इत्यृक्क्रमेणोपदधातीति सूत्रार्थः । प्रगाथः ककुप्सतोबृहतीभ्यां तिस्रः ककुभः पादावृत्त्या कृताः अवृतस्य नार्थान्तरम् । भद्रो नोऽग्निराप्रशस्तय इति ककुप् । मध्यः पादो द्वादशक आद्य तृतीयावष्टकाविति तल्लक्षणम् । भद्रं मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहोऽव स्थिरा तनुहि भूरि शर्धतां वनेमा ते अभिष्टिभिरिति सतोबृहती । आद्यतृतीयौ द्वादशकौ द्वितीयतुर्यावष्टकाविति तल्लक्षणम् । तत्र ककुब् व्याख्यायते । यजमानश्चित्यमग्निं संबोध्य प्रार्थयते । हे सुभग शोभनभग शोभनं भगमेश्वर्यं यस्य । ‘ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा’ इत्युक्तेः । हे षड्विधैश्वर्ययुक्त, आहुतः ऋत्विग्भिराहुतोऽग्निर्नोऽस्माकं भद्रः भन्दनीयः कल्याणो भवत्विति शेषः । किंच रातिः त्वदीयं दानं भद्रास्तु कल्याणकार्यस्तु । अध्वरः यज्ञो भद्रः श्रेयस्कार्यस्तु । उतापिच प्रशस्तयः कीर्तयो भद्राः सुखदायिन्यः सन्तु ॥ ३८ ॥
एकोनचत्वारिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी ऋषिः
- उष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा हो, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सुभग) सुन्दर ऐश्वर्यवाले विद्वान् पुरुष ! जैसे (आहुतः) धर्म के तुल्य सेवन किया मित्ररूप (अग्निः) अग्नि (भद्रः) सेवने योग्य (भद्रा) कल्याणकारी (रातिः) दान (भद्रः) कल्याणकारी (अध्वरः) रक्षणीय व्यवहार (उत) और (भद्राः) कल्याण करनेवाली (प्रशस्तयः) प्रशंसा होवें, वैसे आप (नः) हमारे लिये हूजिये ॥३८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को योग्य है कि जैसे विद्या से अच्छे प्रकार सेवन किये जगत् के पदार्थ सुखकारी होते हैं, वैसे आप्त विद्वान् लोगों को भी जानें ॥३८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स कीदृश इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सुभग विद्वन् ! यथाऽऽहुतः सखाग्निर्भद्रो रातिर्भद्राऽध्वरो भद्र उत प्रशस्तयो भद्राः स्युस्तथा त्वं नो भव ॥३८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैर्यथा विद्यया सुसेविता जगत्स्थाः पदार्थाः सुखकारिणो भवन्ति तथाऽऽप्ता विद्वांसः सन्तीति वेद्यम् ॥३८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जगातील पदार्थ विद्येने चांगल्याप्रकारे जाणल्यास सुखकारक ठरतात, तसेच आप्त विद्वान ही सुखकारक असतात हे माणसांनी ओळखावे.
३९ भद्राऽउत प्रशस्तयो
विश्वास-प्रस्तुतिः ...{Loading}...
भ॒द्राऽउ॒त प्रश॑स्तयो भ॒द्रं मनः॑ कृणुष्व वृत्र॒तूर्य्ये॑। येना॑ स॒मत्सु॑ सा॒सहः॑ ॥३९ ॥
मूलम् ...{Loading}...
भ॒द्राऽउ॒त प्रश॑स्तयो भ॒द्रं मनः॑ कृणुष्व वृत्र॒तूर्य्ये॑। येना॑ स॒मत्सु॑ सा॒सहः॑ ॥३९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
भ॒द्राः। उ॒त। प्रश॑स्तय॒ इति॒ प्रऽश॑स्तयः। भ॒द्रम्। मनः॑। कृ॒णु॒ष्व॒। वृ॒त्र॒तूर्य्य॒ इति॑ वृत्र॒ऽतूर्य्ये॑। येन॑। स॒मत्स्विति॑ स॒मत्ऽसु॑। सा॒सहः॑। स॒सह॒ इति॑ स॒सहः॑। ३९।
महीधरः
म० अथ द्वितीया । हे अग्ने, येन मनसा समत्सु संग्रामेषु त्वं सासहः अभिभवसि शत्रून् ‘षह मर्षणे’ छन्दस्यभिभवे च लङ् द्वित्वाडभावौ छान्दसौ संहितायामभ्यासदीर्घः । तन्मनः वृत्रतूर्ये पापनाशाय भद्रं कल्याणं कुरुष्व । तूर्यतिर्वधकर्मा । वृत्रः पापम् ‘पाप्मा वै वृत्रः’ इति श्रुतेः ॥ ३९ ॥
चत्वारिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी ऋषिः
- निचृदुष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह विद्वान् कैसा हो, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सुभग) शोभन सम्पत्तिवाले पुरुष ! आप (येन) जिस से हमारे (वृत्रतूर्य्ये) युद्ध में (भद्रम्) कल्याणकारी (मनः) विचारशक्तियुक्त चित्त (उत) और (भद्राः) कल्याण करने हारी (प्रशस्तयः) प्रशंसा के योग्य प्रजा और जिस से (समत्सु) संग्रामों में (सासहः) अत्यन्त सहनशील वीर पुरुष हों, वैसा कर्म (कृणुष्व) कीजिये ॥३९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यहाँ (सुभग, नः) इन दो पदों की अनुवृत्ति पूर्व मन्त्र से आती है। विद्वान् राजा को चाहिये कि ऐसे कर्म का अनुष्ठान करे, जिस से प्रजा और सेना उत्तम हों ॥३९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स विद्वान् कीदृश इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सुभग ! त्वं येन नोऽस्माकं वृत्रतूर्य्ये भद्रं मन उतापि भद्राः प्रशस्तयो येन च समत्सु सासहः स्यात् तत्कृणुष्व ॥३९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र (सुभग) (नः) इति पदद्वयं पूर्वमन्त्रादनुवर्त्तते। विदुषा राज्ञा तत्कर्मानुष्ठेयं येन प्रजाः सेनाश्चोत्तमाः स्युः ॥३९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - यापूर्वीच्या मंत्रातील (सुभग नः) या दोन पदांची अनुवृत्ती पूर्वीच्या मंत्रातून येथे झालेली आहे. विद्वान राजाने अशा प्रकारचे कर्म करावे की, ज्यामुळे प्रजा व सेना उत्तम बनेल.
४० येना समत्सु
विश्वास-प्रस्तुतिः ...{Loading}...
येना॑ स॒मत्सु॑ सा॒सहोऽव॑ स्थि॒रा त॑नुहि॒ भूरि॒ शर्ध॑ताम्। व॒नेमा॑ तेऽअ॒भिष्टि॑भिः ॥४० ॥
मूलम् ...{Loading}...
येना॑ स॒मत्सु॑ सा॒सहोऽव॑ स्थि॒रा त॑नुहि॒ भूरि॒ शर्ध॑ताम्। व॒नेमा॑ तेऽअ॒भिष्टि॑भिः ॥४० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
येन॑। स॒मत्स्विति॑ स॒मत्ऽसु॑। सा॒सहः॑। स॒सह॒ इति॑ स॒सहः॑। अव॑। स्थि॒रा। त॒नु॒हि॒। भूरि॑। शर्ध॑ताम्। व॒नेम॑। ते॒। अ॒भिष्टि॑भि॒रित्य॒भिष्टि॑ऽभिः। ४०।
महीधरः
म० किंच भूरि बहु शर्धतां बलं कुर्वतां संबन्धीनि स्थिरा स्थिराणि धनूंषि अवतनुहि अवतारय ज्यारहितानि कुरु । शर्ध इति बलनाम । शर्धं बलं कुर्वन्ति शर्धन्ति । सुपः क्विप् । ततः शतृप्रत्ययः । शर्धन्तीति शर्धन्तस्तेषाम् । किंच ते तवाभिष्टिभिर्मार्गैर्वयं वनेम संभजेम भोग्यानि वसूनि सेवेमहि । वनेमा येनेति पदयोः संहितायां दीर्घः ॥ ४० ॥
एकचत्वारिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी ऋषिः
- निचृदुष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा हो, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सुभग) सुन्दर लक्ष्मीयुक्त पुरुष ! आप (येन) जिस के प्रताप से हमारे (समत्सु) युद्धों में (सासहः) शीघ्र सहना हो उस को तथा (भूरि) बहुत प्रकार (शर्धताम्) बल करते हुए हमारे (स्थिरा) स्थिर सेना के साधनों को (अवतनुहि) अच्छे प्रकार बढ़ाइये (ते) आप की (अभिष्टिभिः) इच्छाओं के अनुसार वर्त्तमान हम लोग उस सेना के साधनों का (वनेम) सेवन करें ॥४० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यहाँ भी (सुभग, नः) इन दोनों पदों की अनुवृत्ति आती है। विद्वानों को उचित है कि बहुत बलयुक्त वीर पुरुषों का उत्साह नित्य बढ़ावें, जिससे ये लोग उत्साही हुए राजा और प्रजा के हितकारी काम किया करें ॥४० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स कीदृश इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सुभग ! येन त्वं समत्सु सासहः स्यात् स त्वं भूरि शर्धतामस्माकं स्थिरावतनुहि। तेऽभिष्टिभिः सह वर्त्तमाना वयं तानि वनेम ॥४० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रापि (सुभग) (नः) इति पदद्वयं पूर्वतोऽनुवर्त्तते। विद्वद्भिर्बहुबलयुक्तानां वीराणां नित्यमुत्साहो वर्धनीयः। येनोत्साहिताः सन्तो राजप्रजाहितानि कर्माणि कुर्य्युः ॥४० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - येथे (सुभग नः) या दोन पदांची अनुवृत्ती होते. विद्वानांनी अत्यंत बलवान वीर पुरुषांचा उत्साह सदैव वाढवावा. ज्यामुळे हे लोक उत्साही बनून राजा व प्रजेच्या हितासाठी काम करतील.
४१ अग्निं तम्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्निं तं म॑न्ये॒ यो वसु॒रस्तं॒ यं य॑न्ति धे॒नवः॑। अस्त॒मर्व॑न्तऽआ॒शवोऽस्तं॒ नित्या॑सो वा॒जिन॒ऽइषँ॑स्तो॒तृभ्य॒ऽआ भ॑र ॥४१ ॥
मूलम् ...{Loading}...
अ॒ग्निं तं म॑न्ये॒ यो वसु॒रस्तं॒ यं य॑न्ति धे॒नवः॑। अस्त॒मर्व॑न्तऽआ॒शवोऽस्तं॒ नित्या॑सो वा॒जिन॒ऽइषँ॑स्तो॒तृभ्य॒ऽआ भ॑र ॥४१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒ग्निम्। तम्। म॒न्ये॒। यः। वसुः॑। अस्त॑म्। यम्। यन्ति॑। धे॒नवः॑। अस्त॑म्। अर्व॑न्तः। आ॒शवः॑। अस्त॑म्। नित्या॑सः। वा॒जिनः॑। इष॑म्। स्तो॒तृभ्य॒ इति॑ स्तो॒तृऽभ्यः॑। आ। भ॒र॒। ४१।
महीधरः
म० ‘अनूकान्ते दक्षिणे पङ्क्तीरग्निं तमिति’ ( का० १७ । १२ । १४ )। दक्षिणेऽनूकान्ते तिस्रः पङ्क्तिसंज्ञा इष्टका अग्निं तमिति तिसृभिरुपदधातीति सूत्रार्थः । तिस्रः पङ्क्तयः यस्य द्वौ पादावष्टकौ सा पङ्क्तिः । यो वसुः तापपाकप्रकाशैरुपकुर्वन् धनरूपो वसुरित्युच्यते । वसुर्वासयिता वा यः तमग्निं मन्ये जानामि । धेनवो गावो यमग्निमुद्धृतं ज्ञाला अस्तं गृहं यन्ति गच्छन्ति दोहकालोऽस्माकं होमार्थं प्राप्त इति । आशवः शीघ्रगामिनोऽर्वन्तोऽश्वा यं दृष्ट्वास्तं यजमानगृहं यन्ति गच्छन्ति । नित्यासः नित्याः शाश्वताः सर्वकालभाविनो वाजिनो बलवन्तोऽश्वाः । सैन्धवाश्वाभिप्रायेण पुनर्वचनम् । यं दृष्ट्वास्तं यन्ति । यमुपास्य गवाश्वादिकं लभ्यत इत्यर्थः । तादृश हे अग्ने, स्तोतृभ्यः स्तुतिकारिभ्यो यजमानेभ्य इषमन्नमाभर आहर देहि ॥४१॥
द्विचत्वारिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी ऋषिः
- निचृत्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह क्या करे, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् पुरुष ! (यः) जो (वसुः) सर्वत्र रहनेवाला अग्नि है, (यम्) जिस (अग्निम्) वाणी के समान अग्नि को (धेनवः) गौ (अस्तम्) घर को (यन्ति) जाती हैं तथा जैसे (नित्यासः) कारणरूप से विनाशरहित (वाजिनः) वेगवाले (आशवः) शीघ्रगामी (अर्वन्तः) घोड़े (अस्तम्) घर को प्राप्त होते हैं, वैसे मैं (तम्) उस पूर्वोक्त अग्नि को (मन्ये) मानता हूँ और (स्तोतृभ्यः) स्तुतिकारक विद्वानों के लिये (इषम्) अच्छे अन्नादि पदार्थों को धारण करता हूँ, वैसे ही तू उस अग्नि को (अस्तम्) आश्रय मान और अन्नादि पदार्थों को (आभर) धारण कर ॥४१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। अध्यापक लोग विद्यार्थियों के प्रति ऐसा कहें कि जैसे हम लोग आचरण करें, वैसे तुम भी करो। जैसे गौ आदि पशु दिन में इधर-उधर भ्रमण कर सायङ्काल अपने घर आके प्रसन्न होते हैं, वैसे विद्या के स्थान को प्राप्त होके तुम भी प्रसन्न हुआ करो ॥४१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स किं कुर्य्यादित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यो वसुरस्ति यमग्निं धेनवोऽस्तं यन्तीव, नित्यासो वाजिन आशवोऽर्वन्तोऽस्तमिवाहं तं मन्ये। स्तोतृभ्य इषमाभरामि तथैव त्वं तमग्निमस्तं मन्यस्वेषं चाभर ॥४१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। विद्यार्थिनः प्रत्यध्यापक एवं वदेद् यथाऽहमाचरेयं तथा यूयमप्याचरत यथा गवादयः पशवः इतस्ततो दिने भ्रान्त्वा सायं स्वगृहं प्राप्य मोदन्ते, तथैव विद्यागृहं प्राप्य यूयमपि मोदध्वम् ॥४१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. अध्यापकांनी विद्यार्थ्यांना असे सांगावे की, जसे आम्ही वागतो तसे तुम्हीही वागा. गाई इत्यादी पशू जसे दिवसभर इकडे तिकडे भटकून सायंकाळी आपल्या घरी आल्यावर आनंदित होतात तसे विद्यागृही तुम्हीही आनंदाने राहा.
४२ सोऽअग्निर्यो वसुर्गृणे
विश्वास-प्रस्तुतिः ...{Loading}...
सोऽअ॒ग्निर्यो वसु॑र्गृ॒णे सं यमा॒य॑न्ति धे॒नवः॑। समर्व॑न्तो रघु॒द्रुवः॒ सँसु॑जा॒तासः॑ सू॒रय॒ऽइषँ॑ स्तो॒तृभ्य॒ऽआ भ॑र ॥४२ ॥
मूलम् ...{Loading}...
सोऽअ॒ग्निर्यो वसु॑र्गृ॒णे सं यमा॒य॑न्ति धे॒नवः॑। समर्व॑न्तो रघु॒द्रुवः॒ सँसु॑जा॒तासः॑ सू॒रय॒ऽइषँ॑ स्तो॒तृभ्य॒ऽआ भ॑र ॥४२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सः। अ॒ग्निः। यः। वसुः॑। गृ॒णे। सम्। यम्। आ॒यन्तीत्या॒ऽयन्ति॑। धे॒नवः॑। सम्। अर्व॑न्तः। र॒घु॒द्रुव॒ इति॑ रघु॒ऽद्रुवः॑। सम्। सु॒जा॒तास॒ इति॑ सुऽजा॒तासः॑। सू॒रयः॑। इष॑म्। स्तो॒तृभ्य॒ इति॑ स्तो॒तृभ्यः॑। आ। भ॒र॒। ४२।
महीधरः
म० योऽग्निर्वसुर्वासयिता स अग्निः । विभक्तिव्यत्ययः । तमग्निं गृणे स्तौमि ‘गृ शब्दे’ स्वादिः लटि तङ्युत्तमैकवचनम्
स्वादित्वाद्ध्रस्वः (पा० ७ । ३ । ८०)। यद्वा सोऽग्निः गृणे स्तूयतेऽस्माभिः। कर्तृप्रत्ययस्य कर्मत्वं विधेयम् । धेनवो यमग्निं समायन्ति समागच्छन्ति । अर्वन्तोऽश्वा यं समायन्ति । कीदृशा अर्वन्तः । रघुद्रुवः रलयोरैक्यम् । ‘लघु क्षिप्रमरं द्रुतम्’ | लघु शीघ्रं द्रुवन्ति गच्छति लघुद्रुवः ‘द्रु वधगत्योः’ स्वादिः क्र्यादिश्च क्विप् । सूरयः विद्वांसो योग्या ऋत्विजो यं समायन्ति यदुपासकं सर्वे भजन्ते इत्यर्थः । कीदृशाः सूरयः । सुजातासः शोभनं जातं जन्म येषां ते सुजातासः सुजाताः | ‘आज्जसे:-’ (पा. ७ । १ । ५०) इत्यसुक् । तादृश हे अग्ने, त्वं स्तोतृभ्य इषमन्नमाभर ॥ ४२ ॥
त्रिचत्वारिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी ऋषिः
- आर्षी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा हो, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्यार्थी विद्वान् पुरुष ! जैसे मैं (यः) जो (वसुः) निवास का हेतु (अग्निः) अग्नि है, उस की (गृणे) अच्छे प्रकार स्तुति करता हूँ, (यम्) जिस को (धेनवः) वाणी (समायन्ति) अच्छे प्रकार प्राप्त होती हैं और (रघुद्रुवः) धीरज से चलनेवाले (अर्वन्तः) प्रशंसित ज्ञानी (सुजातासः) अच्छे प्रकार विद्याओं में प्रसिद्ध (सूरयः) विद्वान् लोग (स्तोतृभ्यः) स्तुति करने हारे विद्यार्थियों के लिये (इषम्) ज्ञान को (सम्) अच्छे प्रकार धारण करते हैं और जैसे (सः) वह पढ़ाने हारा ईश्वरादि पदार्थों के गुण-वर्णन करता है, वैसे तू भी इन पूर्वोक्तों को (समाभर) ज्ञान से धारण कर ॥४२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अध्यापकों को चाहिये कि जैसे गौएँ अपने बछरों को तृप्त करती हैं, वैसे विद्यार्थियों को प्रसन्न करें और जैसे घोड़े शीघ्र चल के पहुँचाते हैं, वैसे विद्यार्थियों को सब विद्याओं के पार शीघ्र पहुँचावें ॥४२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः सः कीदृश इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन्। यथाऽहं यो वसुरग्निरस्ति तं गृणे यं धेनवः समायन्ति, रघुद्रुवोऽर्वन्तः सुजातासः सूरयः स्तोतृभ्य इषं समाभरन्ति, स स्तौति च तथा त्वमेतानि समाभर ॥४२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अध्यापका यथा धेनवो वत्सान् प्रीणयन्ति तथा विद्यार्थिन आनन्दयेयुः। यथाऽश्वाः शीघ्रं गमयन्ति तथा सर्वविद्यापारगान् कुर्य्युः ॥४२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जशा गाई आपल्या पाडसांना तृप्त करतात तसे अध्यापकांनी आपल्या विद्यार्थ्यांना तृप्त करावे. जसे घोडे गतिमान असून, योग्य ठिकाणी पोहोचवतात, तसे विद्यार्थ्यांना शीघ्रतेने सर्व विद्या शिकवून पारंगत करावे.
४३ उभे सुश्चन्द्र
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒भे सु॑श्चन्द्र स॒र्पिषो॒ दर्वी॑ श्रीणीषऽआ॒सनि॑। उ॒तो न॒ऽउत्पु॑पूर्या उ॒क्थेषु॑ शवसस्पत॒ऽइषँ॑ स्तो॒तृभ्य॒ऽआ भ॑र ॥४३ ॥
मूलम् ...{Loading}...
उ॒भे सु॑श्चन्द्र स॒र्पिषो॒ दर्वी॑ श्रीणीषऽआ॒सनि॑। उ॒तो न॒ऽउत्पु॑पूर्या उ॒क्थेषु॑ शवसस्पत॒ऽइषँ॑ स्तो॒तृभ्य॒ऽआ भ॑र ॥४३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उ॒भे इत्यु॒भे। सु॒श्च॒न्द्र॒। सु॒च॒न्द्रेति॑ सुऽचन्द्र। स॒र्पिषः॑। दर्वी॒ इति॒ दर्वी॑। श्री॒णी॒षे॒। आ॒सनि॑। उ॒तो इत्यु॒तो। नः॒। उत्। पु॒पू॒र्याः॒। उ॒क्थेषु॑। श॒व॒सः॒। प॒ते॒। इष॑म्। स्तो॒तृभ्य॒ इति॑ स्तो॒तृऽभ्यः॑। आ। भ॒र॒। ४३।
महीधरः
म०. चन्द्रे सु शकारेणेति संहितायां चन्द्रे परे सुशब्दस्य शागमः । हे सुश्चन्द्र, चन्द्रमिति हिरण्यनाम । शोभनं चन्द्रं हिरण्यं यस्मात् । यद्वा शोभनश्चन्द्र इव चन्द्रो धनदाता । शोभने चन्द्रे धनप्राप्तिर्भवतीति ज्योतिःशास्त्रे उक्तम् । यद्वा शोभनं चन्दत्याह्लादयति सुचन्द्रः हे सुचन्द्र, आसनि आस्ये मुखे सर्पिषः पानायेति शेषः । घृतस्य पानाय उभे दर्वी दर्व्याकारौ हस्तौ श्रीणीषे आश्रयसि सेवसे ‘श्री पाके’ क्र्यादिः अत्राश्रयार्थः । उतो अपिच हे शवसः पते, बलस्याधिपते, उक्थेषु शस्त्रवत्सु यज्ञेषु नोऽस्मानुत्पुपूर्याः उत्कर्षेण पूरय धनैरिति शेषः । स्तोतृभ्य इषमन्नमाहर ॥ ४३ ॥
चतुश्चत्वरिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी ऋषिः
- निचृत्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह क्या करे, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सुश्चन्द) सुन्दर आनन्ददाता अध्यापक पुरुष ! आप (सर्पिषः) घी के (दर्वी) चलाने पकड़ने की दो कर्छी से (श्रीणीषे) पकाने के समान (आसनि) मुख में (उभे) पढ़ने पढ़ाने की दो क्रियाओं को (आभर) धारण कीजिये। हे (शवसः) बल के (पते) रक्षकजन ! तू (उक्थेषु) कहने-सुनने योग्य वेदविभागों में (नः) हमारे (उतो) और (स्तोतृभ्यः) विद्वानों के लिये (इषम्) अन्नादि पदार्थों को (उत्पुपूर्याः) उत्कृष्टता से पूरण कर ॥४३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे ऋत्विज् लोग घृत को शोध कर्छी से अग्नि में होम कर और वायु तथा वर्षाजल को रोगनाशक करके सब को सुखी करते हैं, वैसे ही अध्यापक लोगों को चाहिये कि विद्यार्थियों के मन अच्छी शिक्षा से शोध कर उन को विद्यादान दे के आत्माओं को पवित्र कर सब को सुखी करें ॥४३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स किं कुर्यादित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सुश्चन्द्र ! त्वं सर्पिषो दर्वी श्रीणीष इवासन्युभे आ भर। हे शवसस्पते ! त्वमुक्थेषु नोऽस्मभ्यमुतो अपि स्तोतृभ्य इषं चोत्पुपूर्याः ॥४३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यथर्त्विजो घृतं संशोध्य दर्व्याऽग्नौ हुत्वा वायुवृष्टिजले रोगनाशके कृत्वा सर्वान् सुखयन्ति। तथैवाध्यापका विद्यार्थिमनांसि सुशिक्षा संशोध्य तत्र विद्या हुत्वाऽऽत्मनः पवित्रीकृत्य सर्वान् प्राणिनः सुखयेयुः ॥४३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्याप्रमाणे ऋत्विज लोक घृत गाळून चिमट्याने तुपाचे भांडे धरून अग्नीत तूप घालून होम करतात व वायू आणि वृष्टी यांना रोगनाशक बनवितात आणि सर्वांना सुखी करतात तसे अध्यापकांनी विद्यार्थ्यांची मने चांगल्या शिक्षणाने संस्कारित करून विद्यादानाने त्यांच्या आत्म्यांना पवित्र करावे व सर्वांना सुखी करावे.
४४ अग्ने तमद्याश्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने॒ तम॒द्याश्वं॒ न स्तोमैः॒ क्रतुं॒ न भ॒द्रँ हृ॑दि॒स्पृश॑म्। ऋ॒ध्यामा॑ त॒ऽओहैः॑ ॥४४ ॥
मूलम् ...{Loading}...
अग्ने॒ तम॒द्याश्वं॒ न स्तोमैः॒ क्रतुं॒ न भ॒द्रँ हृ॑दि॒स्पृश॑म्। ऋ॒ध्यामा॑ त॒ऽओहैः॑ ॥४४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अग्ने॑। तम्। अ॒द्य। अश्व॑म्। न। स्तोमैः॑। क्रतु॑म्। न। भ॒द्रम्। हृ॒दि॒स्पृश॒मिति॑ हृदि॒ऽस्पृश॑म्। ऋ॒ध्याम॑। ते॒ ओहैः॑। ४४।
महीधरः
म० ‘उत्तरे पदपङ्क्ती अग्ने तमिति’ ( का० १७ । १२ । १५)। उत्तरानूकान्ते तिस्रः पदपङ्क्तीष्टकाः अग्ने तमिति तिसृभिरुपदधातीति सूत्रार्थः । तिस्रः पदपङ्क्तयः । यस्याः पञ्चाक्षराश्चत्वारः पादा एकः षडर्णः सा पदपङ्क्तिः । यद्वा त्रयः पञ्चार्णाश्चतुर्थश्चतुरर्णः पञ्चमः षडर्ण इति । पञ्चकाश्चत्वारः षट्कश्चैकश्चतुर्थश्चतुष्को वा पदपङ्क्तिरित्युक्तेः । तत्राद्यायां चतुर्थश्चतुष्कः । हे अग्ने, ते तव तं क्रतुं तावकं प्रसिद्धं यज्ञमद्यास्मिन् दिने वयमृद्ध्याम समर्धयाम । समृद्धं करवामेत्यर्थः । आशिषि लोट् । संहितायां दीर्घः । कैः । स्तोमैः स्तुतिभिः सामसमूहैः । कीदृशैः स्तोमैः । ओहैः । वहे रूपम् । वहन्ति फलं प्रापयन्तीत्योहाः तैः, वहन्ति प्रतिपादयन्ति त्वत्कर्मरूपनामानीति वा । तत्रैको दृष्टान्तः । अश्वं न स्तोमैः । न इवार्थे । यथा स्तोमैः स्तुतिभिरश्वमाश्वमेधिकं विप्राः समर्धयन्ति । द्वितीयो दृष्टान्तः । क्रतुं न भद्रं हृदिस्पृशम् हृदि स्पृशतीति हृदिस्पृक् । ‘हलदन्तात्-’ (पा० ६।३।९) इत्यलुक् अतिप्रियं चिरं मनसि स्थितं भद्रं कल्याणं क्रतुं संकल्पं यथा समर्धयन्ति । क्रतुर्यज्ञः संकल्पश्चेति दृष्टान्तदार्ष्टान्तिकयोरस्य संबन्धः । चिराभिलषितं यथा सन्तः संपादयन्तीत्यर्थः ॥ ४४ ॥
पञ्चचत्वारिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी ऋषिः
- आर्षी गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा हो, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) अध्यापक जन ! हम लोग (ते) आप से (ओहैः) विद्या का सुख देनेवाले (स्तोमैः) विद्या की स्तुतिरूप वेद के भागों से (अद्य) आज (अश्वम्) घोड़े के (न) समान (भद्रम्) कल्याणकारक (क्रतुम्) बुद्धि के (न) समान (तम्) उस (हृदिस्पृशम्) आत्मा के साथ सम्बन्ध करनेवाले विद्याबोध को प्राप्त हो के निरन्तर (ऋध्याम) वृद्धि को प्राप्त हों ॥४४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में दो उपमालङ्कार हैं। अध्येता लोगों को चाहिये कि जैसे अच्छे शिक्षित घोड़े से अभीष्ट स्थान में शीघ्र पहुँच जाते हैं, जैसे विद्वान् लोग सब शास्त्रों के बोध से युक्त कल्याण करने हारी बुद्धि से धर्म, अर्थ, काम और मोक्ष फलों को प्राप्त होते हैं, वैसे उन अध्यापकों से पूर्ण विद्या पढ़ प्रशंसित बुद्धि को पा के आप उन्नति को प्राप्त हों तथा वेद के पढ़ाने और उपदेश से अन्य सब मनुष्यों की भी उन्नति करें ॥४४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स कीदृशः स्यादित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्नेऽध्यापक ! वयं ते तव सकाशादोहैः स्तोमैरद्याश्वं न भद्रं क्रतुं न तं हृदिस्पृशं प्राप्य सततमृध्याम ॥४४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारौ। अध्येतारो यथा सुशिक्षितेनाश्वेन सद्योऽभीष्टं स्थानं गच्छन्ति, यथा विद्वांसः सर्वशास्त्रबोधसंपन्नया कल्याणकर्त्र्या प्रज्ञया धर्मार्थकाममोक्षान् प्राप्नुवन्ति तथा तेभ्योऽध्यापकेभ्यो विद्यापारं गत्वा प्रशस्तां प्रज्ञां प्राप्य स्वयं वर्धेरन्, अन्यांश्च वेदाध्यापनोपदेशाभ्यामेधयेयुः ॥४४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात दोन उपमालंकार आहेत. जसे प्रशिक्षित घोडे योग्य ठिकाणी वेगाने पोहोचतात व जसे विद्वान लोक सर्व शास्त्रांचा बोध करून घेऊन कल्याणकारी बुद्धी ठेवून धर्म, अर्थ, काम, मोक्ष प्राप्त करतात तसे विद्यार्थ्यांनी अध्यापकांकडून पूर्ण विद्या प्राप्त करून उत्तम बुद्धीने स्वतः उन्नती करून घ्यावी व वेदांचा उपदेश करून सर्व माणसांनाही उन्नत करावे.
४५ अधा ह्यग्ने
विश्वास-प्रस्तुतिः ...{Loading}...
अधा॒ ह्यग्ने॒ क्रतो॑र्भ॒द्रस्य॒ दक्ष॑स्य सा॒धोः। र॒थीर्ऋ॒तस्य॑ बृह॒तो ब॒भूथ॑ ॥४५ ॥
मूलम् ...{Loading}...
अधा॒ ह्यग्ने॒ क्रतो॑र्भ॒द्रस्य॒ दक्ष॑स्य सा॒धोः। र॒थीर्ऋ॒तस्य॑ बृह॒तो ब॒भूथ॑ ॥४५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अध॑। हि। अ॒ग्ने॒। क्रतोः॑। भ॒द्रस्य॑। दक्ष॑स्य। सा॒धोः। र॒थीः। ऋ॒तस्य॑। बृ॒ह॒तः। ब॒भूथ॑। ४५।
महीधरः
म० अथेत्यर्थेऽधेत्यव्ययम् । ‘निपातस्य च’ (पा. ६ । ३ । १३६ ) इति संहितायां दीर्घः । हि पादपूरणः । हे अग्ने, अथ समनन्तरमेव क्रतोः अस्मद्यज्ञस्य रथीः सारथिरिव बभूथ भव । ‘बभूथाततन्थ-’ (पा० ७ । २ । ६४ ) इत्यादिनाडभावः । रथोऽस्यास्तीति रथीः सारथी । रथादीरन्नीरचावित्यस्त्यर्थे ईरच्प्रत्ययः । सारथिर्यथा रथनिर्वाहं करोति तथा यज्ञनिर्वाहको भवेत्यर्थः । कीदृशस्य क्रतोः । भद्रस्य कल्याणरूपस्य । दशस्य समृद्धस्य स्वफलदानसमर्थस्येति वा । साधोः साध्यते निष्पाद्यते इति साधुस्तस्यातिशययुक्तस्येत्यर्थः । ऋतस्य अमोघफलस्य । बृहतः महतः प्रौढस्य ॥ ४५ ॥
षट्चत्वारिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी ऋषिः
- भुरिगार्षी गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा हो, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्वान् जन ! जैसे तू (भद्रस्य) आनन्दकारक (दक्षस्य) शरीर और आत्मा के बल से युक्त (साधोः) अच्छे मार्ग में प्रवर्त्तमान (ऋतस्य) सत्य को प्राप्त हुए पुरुष की (बृहतः) बड़े विषय वा ज्ञानरूप (क्रतोः) बुद्धि से (रथीः) प्रशंसित रमणसाधन यानों से युक्त (बभूथ) हूजिये, वैसे (अध) मङ्गलाचरणपूर्वक (हि) निश्चय करके हम भी होवें ॥४५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे शास्त्र और योग से उत्पन्न हुई बुद्धि को प्राप्त हो के विद्वान् लोग बढ़ते हैं, वैसे ही अध्येता लोगों को भी बढ़ना चाहिये ॥४५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स कीदृशः स्यादित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! यथा त्वं भद्रस्य दक्षस्य साधोर्ऋतस्य बृहतः क्रतोः सकाशाद् रथीर्बभूथ तथाऽध हि वयमपि भवेम ॥४५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा शास्त्रयोगजां धियं प्राप्य विद्वांसो वर्धन्ते तथैवाध्येतृभिरपि वर्धितव्यम् ॥४५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. शास्त्र व योग यांच्या साह्याने उत्पन्न झालेली बुद्धी प्राप्त करून विद्वान लोक उन्नत होतात तसे विद्यार्थ्यांनीही बनावे.
४६ एभिर्नोऽअर्कैर्भवा नोऽअर्वाङ्
विश्वास-प्रस्तुतिः ...{Loading}...
ए॒भिर्नो॑ऽअ॒र्कैर्भवा॑ नोऽअ॒र्वाङ् स्व॒र्ण ज्योतिः॑। अग्ने॒ विश्वे॑भिः सु॒मना॒ऽअनी॑कैः ॥४६ ॥
मूलम् ...{Loading}...
ए॒भिर्नो॑ऽअ॒र्कैर्भवा॑ नोऽअ॒र्वाङ् स्व॒र्ण ज्योतिः॑। अग्ने॒ विश्वे॑भिः सु॒मना॒ऽअनी॑कैः ॥४६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ए॒भिः। नः॒। अ॒र्कैः। भव॑। नः॒। अ॒र्वाङ्। स्वः॑। न। ज्योतिः॑। अग्ने॑। विश्वेभिः। सु॒मना॒ इति॑ सु॒ऽमनाः॑। अनी॑कैः। ४६।
महीधरः
म० हे अग्ने, विश्वेभिः विश्वैः सर्वैरनीकैः मुखैः कृत्वा नोऽस्मान् प्रति अर्वाङ् अभिमुखो भव । अवरं समीपदेशमञ्चतीत्यर्वाङ् । अनुगृहाणेत्यर्थः । कीदृशः । एभिरस्मत्पठितैरर्कैरर्चनीयमन्त्रैः कृत्वा सुमनाः शोभनमनस्कः । प्रसन्नः सन्नस्मत्संमुखो भवेत्यर्थः । तत्र दृष्टान्तः । स्वः न ज्योतिः स्वःशब्देन सूर्यः । न इवार्थे । यथा स्वरादित्यरूपं ज्योतिः अर्कैः स्तुतमुदयादारभ्य सर्वप्राणिसंमुखं भवति । ‘द्व्यचोऽतस्तिङः’ (पा० ६ । ३ । १३५) इति भवेत्यस्य दीर्घः ॥ ४६ ॥
सप्तचत्वारिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी ऋषिः
- भुरिगार्षी गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्याप्रकाश से युक्त पुरुष ! आप (नः) हमारे लिये (विश्वेभिः) सब (अनीकैः) सेनाओं के सहित राजा के तुल्य (सुमनाः) मन से सुखदाता (भव) हूजिये (एभिः) इन पूर्वोक्त (अर्कैः) पूजा के योग्य विद्वानों के सहित (नः) हमारे लिये (ज्योतिः) ज्ञान के प्रकाशक (अर्वाङ्) नीचों को उत्तम करने को जाननेवाले (स्वः) सुख के (न) समान हूजिये ॥४६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। जैसे राजा अच्छी शिक्षा और बल से युक्त सेनाओं से शत्रुओं को जीत के सुखी होता है, वैसे ही बुद्धि आदि गुणों से अविद्या से हुए क्लेशों को जीत के मनुष्य लोग सुखी होवें ॥४६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! त्वं नोऽस्मभ्यं विश्वेभिरनीकै राजेव सुमना भव। एभिरर्कैर्नोऽस्मभ्यं ज्योतिरर्वाङ् स्वर्न भव ॥४६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। यथा राजा सुशिक्षितैर्बलाढ्यैः सैन्यैः शत्रून् जित्वा सुखी भवति, तथैव प्रज्ञादिभिर्गुणैरविद्याक्लेशान् जित्वा मनुष्याः सुखिनः सन्तु ॥४६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहेत. जसा राजा उत्तम शिक्षण घेऊन प्रशिक्षित व बलवान सैन्याद्वारे शत्रूंना जिंकतो आणि सुखी बनतो, तसेच अविद्यायुक्त बुद्धी इत्यादींनी झालेले क्लेश दूर करून माणसांनी सुखी व्हावे.
४७ अग्नि होतारम्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्निँ होता॑रं मन्ये॒ दास्व॑न्तं॒ वसुँ॑ सू॒नुँ सह॑सो जा॒तवे॑दसं॒ विप्रं॒ न जा॒तवे॑दसम्। यऽऊ॒र्ध्वया॑ स्वध्व॒रो दे॒वो दे॒वाच्या॑ कृ॒पा। घृ॒तस्य॒ विभ्रा॑ष्टि॒मनु॑ वष्टि शो॒चिषा॒ऽऽजुह्वा॑नस्य स॒र्पिषः॑ ॥४७ ॥
मूलम् ...{Loading}...
अ॒ग्निँ होता॑रं मन्ये॒ दास्व॑न्तं॒ वसुँ॑ सू॒नुँ सह॑सो जा॒तवे॑दसं॒ विप्रं॒ न जा॒तवे॑दसम्। यऽऊ॒र्ध्वया॑ स्वध्व॒रो दे॒वो दे॒वाच्या॑ कृ॒पा। घृ॒तस्य॒ विभ्रा॑ष्टि॒मनु॑ वष्टि शो॒चिषा॒ऽऽजुह्वा॑नस्य स॒र्पिषः॑ ॥४७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒ग्निम्। होता॑रम्। म॒न्ये॒। दास्व॑न्तम्। वसु॑म्। सू॒नुम्। सह॑सः। जा॒तवे॑दस॒मिति॑ जा॒तऽवे॑दसम्। विप्र॑म्। न। जा॒तऽवे॑दस॒मिति॑ जा॒तऽवे॑दसम्। यः। ऊ॒र्ध्वया॑। स्व॒ध्व॒र इति॑ सुऽअध्व॒रः। दे॒वः। दे॒वाच्या॑। कृ॒पा। घृ॒तस्य॑। विभ्रा॑ष्टि॒मिति॒ विऽभ्रा॑ष्टिम्। अनु॑। व॒ष्टि॒। शो॒चिषा॑। आ॒जुह्वा॑न॒स्येत्या॒ऽजुह्वा॑नस्य। स॒र्पिषः॑। ४७।
महीधरः
म०. ‘पुरीषवत्याः पूर्वामतिच्छन्दसं प्राच्यौ पुरीषहिते भद्रा रातिर्वृत्रतूर्येऽवस्थिराग्निᳪं᳭ होतारमिति’ (का० १७ । १२ । १६) । अग्नेः पुरीषमसीति पुरीषशब्दवता मन्त्रेणोपहिता पञ्चम्यसपत्ना पुरीषवती तस्याः पूर्वामतिच्छन्दसमिष्टकामुपदधाति । भद्रा रात्रिः वृत्रतूर्ये अवस्थिरेति ककुभां चतुश्चतुरक्षरसहितयाग्निᳪं᳭ होतारमित्यृचा पुरीषवत्यतिच्छन्द इष्टके प्राग्लक्षणे पुरीषयुक्ते च भवतः । अनयोरन्तः पुरीषावापः कार्य इति सूत्रार्थः । अतिच्छन्दाः अवसानत्रिकोपेताः। छन्दांसि गायत्र्यादीनि सप्तातिक्रान्तातिच्छन्दाः । चतुःषष्ट्यक्षरत्वादष्टिः । ककुभामक्षरैः सहातिधृतिः । यो देवः दानादिगुणयुक्तोऽग्निरूर्ध्वयोन्नतया देवाच्या देवान्प्रत्यञ्चति गच्छतीति देवाची तया देवान् प्रति गतया कृपा कृप्यत इति कृप् तया क्लृप्तया समर्थया शोचिषा ज्वालया घृतस्य विभ्राष्टिं विभ्रंशपातमनुवष्टि अन्विच्छति । शोचिःशब्दस्य स्त्रीत्वमार्षम् । किंभूतस्य घृतस्य । आजुह्वानस्य समन्ताद्धूयमानस्य सर्पिषः सर्पतीति सर्पिस्तस्य । अभ्यङ्गेषु प्रसरणशीलस्य । य एतादृशः तमग्निं मन्ये जानामि । कीदृशम् । होतारं देवानामाह्वातारम् । दास्वन्तं ‘दासृ दाने’ दातारम् । वसुं वासयितारम् सहसो बलस्य सूनुं पुत्रं बलेन मथ्यमानत्वात् जातवेदसमुत्पन्नप्रज्ञम् । न इवार्थे । जातवेदसं जातसर्वशास्त्रज्ञानं विप्रं ब्राह्मणमिव स्थितम् ॥ ४७ ॥
अष्टाचत्वारिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी ऋषिः
- विराड् ब्राह्मी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (यः) जो (ऊर्ध्वया) ऊर्ध्वगति के साथ (स्वध्वरः) शुभ कर्म करने से अहिंसनीय (देवाच्या) विद्वानों के सत्कार के हेतु (कृपा) समर्थ क्रिया से (देवः) दिव्य गुणोंवाला पुरुष (शोचिषा) दीप्ति के साथ (आजुह्वानस्य) अच्छे प्रकार हवन किये (सर्पिषः) घी और (घृतस्य) जल के सकाश से (विभ्राष्टिम्) विविध प्रकार की ज्योतियों को (अनुवष्टि) प्रकाशित करता है, उस (होतारम्) सुख के दाता (जातवेदसम्) उत्पन्न हुए सब पदार्थों में विद्यमान (सहसः) बलवान् पुरुष के (सूनुम्) पुत्र के समान (वसुम्) धनदाता (दास्वन्तम्) दानशील (जातवेदसम्) बुद्धिमानों में प्रसिद्ध (अग्निम्) तेजस्वी अग्नि के (न) समान (विप्रम्) आप्त ज्ञानी का मैं (मन्ये) सत्कार करता हूँ, वैसे तुम लोग भी उस को मानो ॥४७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। जैसे अच्छे प्रकार सेवन किये विद्वान् लोग विद्या, धर्म और अच्छी शिक्षा से सब को आर्य करते हैं, वैसे युक्ति से सेवन किया अग्नि अपने गुण, कर्म और स्वभावों से सब के सुख की उन्नति करता है ॥४७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! य ऊर्ध्वया स्वध्वरो देवाच्या कृपा देवः शोचिषाऽऽजुह्वानस्य सर्पिषो घृतस्य विभ्राष्टिमनुवष्टि तं होतारं जातवेदसं सहसः सूनुमिव वसुं दास्वन्तं जातवेदसमग्निं विप्रं न यथाऽहं मन्ये तथा यूयमपि मन्यध्वम् ॥४७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। यथा सुसेविता विद्वांसो विद्याधर्मसुशिक्षाभिः सर्वानार्यान् सम्पादयन्ति तथा युक्त्या सेवितोऽग्निः स्वगुणकर्मस्वभावैः सर्वानुन्नयति ॥४७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहेत. जसे मान्यवर विद्वान विद्या, धर्म व चांगल्या शिक्षणाने सर्वांना आर्य (श्रेष्ठ) बनवितात, तसेच अग्नीचा चातुर्याने उपयोग केल्यास अग्नी आपल्या गुणकर्म, स्वभावाने सर्वांना सुख देतो.
४८ अग्ने त्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने॒ त्वं नो॒ अन्त॑मऽउ॒त त्रा॒ता शि॒वो भ॑वा वरू॒थ्यः᳖। वसु॑र॒ग्निर्वसु॑श्रवा॒ऽअच्छा॑ नक्षि द्यु॒मत्त॑मँ र॒यिं दाः॑। तं त्वा॑ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः ॥४८ ॥
मूलम् ...{Loading}...
अग्ने॒ त्वं नो॒ अन्त॑मऽउ॒त त्रा॒ता शि॒वो भ॑वा वरू॒थ्यः᳖। वसु॑र॒ग्निर्वसु॑श्रवा॒ऽअच्छा॑ नक्षि द्यु॒मत्त॑मँ र॒यिं दाः॑। तं त्वा॑ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः ॥४८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अग्ने॑। त्वम्। नः॒। अन्त॑मः। उ॒त। त्रा॒ता। शि॒वः। भ॒व॒। व॒रू॒थ्यः᳖। वसुः॑। अ॒ग्निः। वसु॑श्रवा॒ इति॒ वसु॑ऽश्रवाः। अच्छ॑। न॒क्षि॒। द्यु॒मत्त॑म॒मिति॑ द्यु॒मत्ऽत॑मम्। र॒यिम्। दाः॒। तम्। त्वा॒। शो॒चि॒ष्ठ॒। दी॒दि॒व॒ इति॑ दीदिऽवः। सु॒म्नाय॑। नू॒नम्। ई॒म॒हे॒। सखि॑भ्य॒ इति॒ सखि॑ऽभ्यः। ४८।
महीधरः
म०. ‘अग्ने त्वमित्यनूकान्तेऽपरे द्विपदाः’ (का० १७ ॥ १२।१७) । अग्ने, त्वम् वसुरग्निः तं त्वा इति तिसृभिरपरेऽनूकान्ते द्विपदेष्टका उपदधातीत्यर्थः । तिस्रो द्विपदा आग्नेय्यः व्याख्याताः ( ३ । २५-२६) ॥ ४८ ॥
एकोनपञ्चाशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी ऋषिः
- स्वराड् ब्राह्मी बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्वन् ! (त्वम्) आप जैसे यह (वसुः) धनदाता (वसुश्रवाः) अन्न और धन का हेतु (अग्निः) अग्नि (रयिम्) धन को (दाः) देता है, वैसे (नः) हमारे (अन्तमः) अत्यन्त समीप (त्राता) रक्षक (वरूथ्यः) श्रेष्ठ (उत) और (शिवः) मङ्गलकारी (भव) हूजिये। हे (शोचिष्ठ) अतितेजस्वी (दीदिवः) बहुत प्रकाशों से युक्त वा कामनावाले विद्वान् ! जैसे हम लोग (त्वा) तुझ को (सखिभ्यः) मित्रों से (सुम्नाय) सुख के लिये (नूनम्) निश्चय (ईमहे) माँगते हैं, वैसे (तम्) उस तुझ को सब मनुष्य चाहें, जैसे मैं (द्युमत्तमम्) प्रशंसित प्रकाशों से युक्त तुझ को (अच्छ) अच्छे प्रकार (नक्षि) प्राप्त होता हूँ, वैसे तू हम को प्राप्त हो ॥४८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे मित्र अपने मित्रों को चाहते और उन की उन्नति करते हैं, वैसे विद्वान् सब का मित्र सब को सुख देवे ॥४८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! त्वं यथाऽयं वसुर्वसुश्रवा अग्नी रयिं दा ददाति तथा नोऽस्माकमन्तमस्त्राता वरूथ्य उतापि शिवो भव। हे शोचिष्ठ दीदिवो विद्वन् ! यथा वयं त्वा सखिभ्यः सुम्नाय नूनमीमहे तथा तं त्वां सर्वे मनुष्या याचन्ताम्। यथाऽहं द्युमत्तमं त्वामच्छ नक्षि प्राप्नोमि तथा त्वमस्मान् प्राप्नुहि ॥४८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कार। यथा सुहृदो मित्राणीच्छन्त्युन्नयन्ति तथा विद्वान् सर्वस्य मित्रः सर्वान् सुखिनः सम्पादयेत् ॥४८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसे मित्र आपल्या मित्रांना प्रिय वाटतात व त्यांची उन्नती करण्याचा प्रयत्न करतात तसे विद्वानांनी सर्वांचे मित्र बनून सर्वांना सुखी करावे.
४९ येनऽऋषयस्तपसा सत्रमायन्निन्धानाऽअग्नि
विश्वास-प्रस्तुतिः ...{Loading}...
येन॒ऽऋष॑य॒स्तप॑सा स॒त्रमाय॒न्निन्धा॑नाऽअ॒ग्निँ स्व॑रा॒भर॑न्तः। त॑स्मिन्न॒हं नि द॑धे॒ नाके॑ऽअ॒ग्निं यमा॒हुर्मन॑व स्ती॒र्णब॑र्हिषम् ॥४९ ॥
मूलम् ...{Loading}...
येन॒ऽऋष॑य॒स्तप॑सा स॒त्रमाय॒न्निन्धा॑नाऽअ॒ग्निँ स्व॑रा॒भर॑न्तः। त॑स्मिन्न॒हं नि द॑धे॒ नाके॑ऽअ॒ग्निं यमा॒हुर्मन॑व स्ती॒र्णब॑र्हिषम् ॥४९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
येन॑। ऋष॑यः। तप॑सा। स॒त्रम्। आय॑न्। इन्धा॑नाः। अ॒ग्निम्। स्वः॑। आ॒ऽभर॑न्तः। तस्मि॑न्। अ॒हम्। नि। द॒धे॒। नाके॑। अ॒ग्निम्। यम्। आ॒हुः। मन॑वः। स्ती॒र्णब॑र्हिष॒मिति॑ स्ती॒र्णऽब॑र्हिषम्। ४९।
महीधरः
म० ‘पुनश्चितिं चोपरि तद्वद्येन ऋषय इति प्रत्यृचम्’ (का० १७ । १२ । १९) मध्योपहितस्यास्येष्टकस्य गार्हपत्यस्योपरि गार्हपत्यवदेव पुनश्चितिमुपदधाति येनेत्यष्टर्चेन प्रत्यृचमित्यर्थः । आग्नेय्योऽष्टौ षट् त्रिष्टुभः द्वे अनुष्टुभौ । ऋषयः मुनयो येन तपसा चित्तैकाग्र्येण सत्रं यज्ञमायन्नागताः। यज्ञं कर्तुमुद्यता इत्यर्थः । कीदृशाः । अग्निमिन्धानाः दीपयन्तः । तथा स्वः स्वर्गलोकमाभरन्तः आहरन्तः स्वीकुर्वाणाः । ‘मनसश्चेन्द्रियाणां च ऐकाग्र्यं परमं तपः’ इत्युक्तेः । तस्मिन् तपसि सति नाके स्वर्गलोकनिमित्तमग्निमहं निदधे स्थापयामि । मनवः मननप्रधाना विद्वांसो यमग्निं स्तीर्णबर्हिषमाहुर्वदन्ति स्तीर्णमाच्छादितं बर्हिर्यत्र तम् बर्हिर्यज्ञसाधनोपलक्षकम् । यज्ञसाधनसहितमित्यर्थः । ‘ये विद्वाᳪं᳭सस्ते मनवः’ (८। ६ । ३ । १८) इति श्रुतेः ॥ ४९ ॥
पञ्चाशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी ऋषिः
- आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (येन) जिस (तपसा) धर्मानुष्ठानरूप कर्म से (इन्धानाः) प्रकाशमान (स्वः) सुख को (आभरन्तः) अच्छे प्रकार धारण करते हुए (ऋषयः) वेद का अर्थ जाननेवाले ऋषि लोग (सत्रम्) सत्य विज्ञान से युक्त (अग्निम्) विद्युत् आदि अग्नि को (आयन्) प्राप्त हों, (तस्मिन्) उस कर्म के होते (नाके) दुःखरहित प्राप्त होने योग्य सुख के निमित्त (मनवः) विचारशील विद्वान् लोग (यम्) जिस (स्तीर्णबर्हिषम्) आकाश को आच्छादन करनेवाले (अग्निम्) अग्नि को (आहुः) कहते हैं, उस को (अहम्) मैं (नि, दधे) धारण करता हूँ ॥४९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जिस प्रकार से वेदपारग विद्वान् लोग सत्य का अनुष्ठान कर बिजुली आदि पदार्थों को उपयोग में लाके समर्थ होते हैं, उसी प्रकार मनुष्यों को समृद्धियुक्त होना चाहिये ॥४९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - येन तपसेन्धानाः स्वराभरन्त ऋषयः सत्रमग्निमायंस्तस्मिन्नाके मनवो यं स्तीर्णबर्हिषमग्निमाहुस्तमहं निदधे ॥४९
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - येन प्रकारेण वेदपारगाः सत्यमनुष्ठाय विद्युदादिपदार्थान् सम्प्रयुज्य समर्था भवन्ति तेनैव मनुष्यैः समृद्धियुक्तैर्भवितव्यम् ॥४९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्या प्रकारे वेद पारंगत विद्वान लोक सत्याचे अनुसरण करून विद्युत इत्यादी पदार्थांचा उपयोग समर्थपणे करू शकतात त्याचप्रमाणे सर्व माणसांनी तसे वागून समृद्धीयुक्त बनावे.
५० तं पत्नीभिरनु
विश्वास-प्रस्तुतिः ...{Loading}...
तं पत्नी॑भि॒रनु॑ गच्छेम देवाः पु॒त्रैर्भ्रातृ॑भिरु॒त वा॒ हिर॑ण्यैः। नाकं॑ गृभ्णा॒नाः सु॑कृ॒तस्य॑ लो॒के तृ॒तीये॑ पृ॒ष्ठेऽअधि॑ रोच॒ने दि॒वः ॥५० ॥
मूलम् ...{Loading}...
तं पत्नी॑भि॒रनु॑ गच्छेम देवाः पु॒त्रैर्भ्रातृ॑भिरु॒त वा॒ हिर॑ण्यैः। नाकं॑ गृभ्णा॒नाः सु॑कृ॒तस्य॑ लो॒के तृ॒तीये॑ पृ॒ष्ठेऽअधि॑ रोच॒ने दि॒वः ॥५० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
तम्। पत्नी॑भिः। अनु॑। ग॒च्छे॒म॒। दे॒वाः॒। पु॒त्रैः। भ्रातृ॑भि॒रिति॒ भ्रातृ॑ऽभिः। उ॒त। वा॒। हिर॑ण्यैः। नाक॑म्। गृ॒भ्णा॒नाः। सु॒कृ॒तस्येति॑ सुऽकृ॒तस्य॑। लो॒के। तृ॒तीये॑। पृ॒ष्ठे। अधि॑। रो॒च॒ने। दि॒वः। ५०।
महीधरः
म० हे देवाः दीप्यमाना ऋत्विजः, पत्नीभिः कलत्रैः सह पुत्रैरुत पुत्रैरपि सह भ्रातृभिर्वा भ्रातृभिश्च हिरण्यैः सुवर्णादिद्रव्यैश्च सह तमग्निमनुगच्छेम वयमनुसरेम । सेवेमेत्यर्थः । वयम् । कीदृशे । तृतीये भूमिमारभ्य त्रिसंख्यापूरके दिवः पृष्ठे रविमण्डले नाकं दुःखहीनं स्थानमतिगृभ्णानाः अधिकं सुखस्थानं स्वीकुर्वन्तः । कीदृशे दिवः पृष्ठे । सुकृतस्य लोके शुभकर्मणः फलभूते रोचने दीप्यमाने । ‘एतद्वै तृतीयं पृष्ठᳪं᳭ रोचनं दिवो यत्रैष एतत्तपति’ (८।६।३ १९) इति श्रुतेः ॥ ५० ॥
एकपञ्चाशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी ऋषिः
- भुरिगार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
विद्वानों को कैसा होना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (देवाः) विद्वान् लोगो ! जैसे तुम लोग (तम्) उस पूर्वोक्त अग्नि को (गृभ्णानाः) ग्रहण करते हुए (दिवः) प्रकाशयुक्त (सुकृतस्य) सुन्दर वेदोक्त कर्म (अधि) में वा (रोचने) रुचिकारक (तृतीये) विज्ञान से हुए (पृष्ठे) जानने को इष्ट (लोके) विचारने वा देखने योग्य स्थान में वर्त्तमान (पत्नीभिः) अपनी-अपनी स्त्रियों (पुत्रैः) वृद्धावस्था में हुए दुःख से रक्षक पुत्रों (भ्रातृभिः) बन्धुओं (उत, वा) और अन्य सम्बन्धियों तथा (हिरण्यैः) सुवर्णादि के साथ (नाकम्) आनन्द को प्राप्त होते हो, वैसे इन सब के सहित हम लोग भी (अनु, गच्छेम) अनुगत हों ॥५० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे विद्वान् लोग अपनी स्त्री, पुत्र, भाई, कन्या, माता, पिता, सेवक और पड़ोसियों को विद्या और अच्छी शिक्षा से धर्मात्मा पुरुषार्थी करके सन्तोषी होते हैं, वैसे ही सब मनुष्यों को होना चाहिये ॥५० ॥
दयानन्द-सरस्वती (सं) - विषयः
विद्वद्भिः कथं भवितव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे देवा विद्वांसः ! यथा यूयं तं गृभ्णाना दिवः सुकृतस्याधिरोचने तृतीये पृष्ठे लोके वर्त्तमानाः पत्नीभिः पुत्रैर्भ्रातृभिरुत वा हिरण्यैः सह नाकं गच्छत तथैतैः सहिता वयमनुगच्छेम ॥५० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा विद्वांसः स्वस्त्रीपुत्रभ्रातृदुहितृमातृपितृभृत्यपार्श्वस्थान् विद्यासुशिक्षाभ्यां धार्मिकान् पुरुषार्थिनः कृत्वा सन्तुष्टा भवन्ति, तथैव सर्वैरप्यनुवर्त्यम् ॥५० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसे विद्वान लोक आपली स्त्री, पुत्र, बंधू, कन्या, माता, पिता, सेवक व शेजारी यांना विद्या व चांगले शिक्षण देऊन धर्मात्मा व पुरुषार्थी बनवून संतुष्ट होतात तसे सर्व माणसांनी बनावे.
५१ आ वाचो
विश्वास-प्रस्तुतिः ...{Loading}...
आ वा॒चो मध्य॑मरुहद् भुर॒ण्युर॒यम॒ग्निः सत्प॑ति॒श्चेकि॑तानः। पृ॒ष्ठे पृ॑थि॒व्या निहि॑तो॒ दवि॑द्युतदधस्प॒दं कृ॑णुतां॒ ये पृ॑त॒न्यवः॑ ॥५१ ॥
मूलम् ...{Loading}...
आ वा॒चो मध्य॑मरुहद् भुर॒ण्युर॒यम॒ग्निः सत्प॑ति॒श्चेकि॑तानः। पृ॒ष्ठे पृ॑थि॒व्या निहि॑तो॒ दवि॑द्युतदधस्प॒दं कृ॑णुतां॒ ये पृ॑त॒न्यवः॑ ॥५१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ। वा॒चः। मध्य॑म्। अ॒रु॒ह॒त्। भु॒र॒ण्युः। अ॒यम्। अ॒ग्निः। सत्प॑ति॒रिति॒ सत्ऽप॑तिः। चेकि॑तानः। पृ॒ष्ठे। पृ॒थि॒व्याः। निहि॑त॒ इति॒ निऽहि॑तः। दवि॑द्युतत्। अ॒ध॒स्प॒दम्। अ॒धः॒प॒दमित्य॑धःऽप॒दम्। कृ॒णु॒ता॒म्। ये। पृ॒त॒न्यवः॑। ५१।
महीधरः
म० अयमग्निः वाचो मध्यं चयनस्थानमारुहत् चयनोपर्यारूढः । ‘एतद्ध वाचो मध्यं यत्रैष एतच्चीयते’ (८।६। ३ । २०) इति श्रुतेः । सोऽयमग्निः ये पृतन्यवः युद्धेप्सवः पाप्मानस्तानधस्पदं कृणुतां पादयोरधः करोतु । पादयोरधोऽधस्पदम् । कस्कादित्वात्सः (पा० ८ । ३ । ४८ ) । पृतनां सेनां युद्धं वा इच्छन्ति पृतन्यन्ति ‘सुप आत्मनः क्यच्’ (पा० ३ । १।८) ‘कव्यध्वर-’ (पा० ७ । ४ । ३९) इत्यादिना पृतनायाष्टिलोपः ततः ‘क्याच्छन्दसि’ (पा० ३ । २। १७०) इत्युप्रत्ययः । ‘अधस्पदं कुरुताᳪं᳭ सर्वान् पाप्मनः’ इति श्रुतेः । कीदृशोऽग्निः । भुरण्युः जगद्भर्ता । ‘भुरण्युरिति भर्तेत्येतत्’ इति श्रुतेः । सत्पतिः सतां पालकः । चेकितानः चेतयमानः । पृथिव्याः पृष्ठे भूम्युपरि निहितः स्थापितः । दविद्युतदत्यन्तं द्योतमानः ‘दाधर्ति-’ (पा० ७ । ४।६५) इत्यादिना यङ्लुकि शत्रन्तो निपातः ॥५१॥
द्विपञ्चाशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी ऋषिः
- स्वराडार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
ईश्वर के तुल्य राजा को क्या करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् पुरुष ! (चेकितानः) विज्ञानयुक्त (सत्पतिः) श्रेष्ठों के रक्षक आप (वाचः) वाणी के (मध्यम्) बीच हुए उपदेश को प्राप्त हो के जैसे (अयम्) यह (भुरण्युः) पुष्टिकर्त्ता (अग्निः) विद्वान् (पृथिव्याः) भूमि के (पृष्ठे) ऊपर (निहितः) निरन्तर स्थिर किया (दविद्युतत्) उपदेश से सब को प्रकाशित करता और धर्म पर (आ, अरुहत्) आरूढ़ होता है, उस के साथ (ये) जो लोग (पृतन्यवः) युद्ध के लिये सेना की इच्छा करते हैं, उन को (अधस्पदम्) अपने अधिकार से च्युत जैसे हों, वैसा (कृणुताम्) कीजिये ॥५१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्वान् मनुष्यों को चाहिये कि जैसे ईश्वर ब्रह्माण्ड में सूर्यलोक को स्थापन करके सब को सुख पहुँचाता है, वैसे ही राज्य में विद्या और बल को धारण कर शत्रुओं को जीत के प्रजा के मनुष्यों का सुख से उपकार करें ॥५१ ॥
दयानन्द-सरस्वती (सं) - विषयः
ईश्वरवद्राज्ञा किं कार्य्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! चेकितानः सत्पतिर्भवान् वाचो मध्यं प्राप्य यथाऽयं भुरण्युरग्निः पृथिव्याः पृष्ठे निहितो दविद्युतदारुहत् तेन ये पृतन्यवस्तान्नधस्पदं कृणुताम् ॥५१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - विद्वांसो राजानो यथेश्वरो ब्रह्माण्डस्य मध्ये सूर्य्यं निधाय सर्वान् सुखेनोपकरोति, तथैव राज्यमध्ये विद्याबले धृत्वा शत्रून् जित्वा प्रजास्थान् मनुष्यानुपकुर्य्युः ॥५१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - विद्वान माणसांनी हे जाणावे की जसा ईश्वर ब्रह्मांडात सूर्याची निर्मिती करून त्याची स्थापना करतो व सर्वांना सुख देतो तसे राजाने आपल्या राज्यात विद्या व बलाने शत्रूंना जिंकून प्रजेला सुख द्यावे.
५२ अयमग्निर्वीरतमो वयोधाः
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒यम॒ग्निर्वी॒रत॑मो वयो॒धाः स॑ह॒स्रियो॑ द्योतता॒मप्र॑युच्छन्। वि॒भ्राज॑मानः सरि॒रस्य॒ मध्य॒ऽउप॒ प्र या॑हि दि॒व्यानि॒ धाम॑ ॥५२ ॥
मूलम् ...{Loading}...
अ॒यम॒ग्निर्वी॒रत॑मो वयो॒धाः स॑ह॒स्रियो॑ द्योतता॒मप्र॑युच्छन्। वि॒भ्राज॑मानः सरि॒रस्य॒ मध्य॒ऽउप॒ प्र या॑हि दि॒व्यानि॒ धाम॑ ॥५२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒यम्। अ॒ग्निः। वी॒रत॑म॒ इति॑ वी॒रऽत॑मः। व॒यो॒धा इति॑ वयः॒ऽधाः। स॒ह॒स्रियः॑। द्यो॒त॒ता॒म्। अप्र॑युच्छ॒न्नित्यप्र॑ऽयुच्छन्। वि॒भ्राज॑मान॒ इति॑ वि॒ऽभ्राज॑मानः। स॒रि॒रस्य॑। मध्ये॑। उप॑। प्र। या॒हि॒। दि॒व्यानि॑। धाम॑। ५२।
महीधरः
म० अयमग्निर्द्योततां दीप्यतां दिव्यानि धाम धामानि स्थानानि उप प्रयाहि । उपप्रयातु च स्वर्गं लोकं गच्छतु । पुरुषव्यत्ययः । ‘उपप्रयाहि दिव्यानि धामेत्युपप्रयाहि स्वर्गं लोकमित्येतत्’ (८ । ६ । ३ । २१) इति श्रुतेः । कीदृशोऽग्निः । वीरतमः अतिशयेन वीरः शूरः । वयोधाः वयोऽन्नं हविर्लक्षणं दधातीति वयोधाः । सहस्रियः इष्टकानां सहस्रेण संमितः ‘सहस्रेण संमितौ घः’ (पा० ४ । ४ । १३५) इति घप्रत्ययः । अप्रयुच्छन् कर्मण्यप्रमाद्यन् सरिरस्य मध्ये लोकत्रयान्तर्विभ्राजमानः दीप्यमानः । ‘इमे वै लोकाः सरिरम्’ (२१) इति श्रुतेः ॥ ५२ ॥
त्रिपञ्चाशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी ऋषिः
- निचृदार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
धर्मात्माओं के तुल्य अन्य लोगों को वर्तना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (अयम्) यह (वीरतमः) अपने बल से शत्रुओं को अत्यन्त व्याप्त होने तथा (वयोधाः) सब के जीवन को धारण करनेवाला (सहस्रियः) असंख्य योद्धाजनों के समान योद्धा (सरिरस्य) आकाश के (मध्ये) बीच (विभ्राजमानः) विशेष करके विद्या और न्याय से प्रकाशित सो (अप्रयुच्छन्) प्रमादरहित होते हुए (अग्निः) अग्नि के तुल्य सेनापति आप (द्योतताम्) प्रकाशित हूजिये और (दिव्यानि) अच्छे (धाम) जन्म, कर्म और स्थानों को (उप, प्र, याहि) प्राप्त हूजिये ॥५२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि धर्मात्मा जनों के साथ निवास कर, प्रमाद को छोड़ और जितेन्द्रियता से अवस्था बढ़ा के विद्या और धर्म के अनुष्ठान से पवित्र होके परोपकारी होवें ॥५२ ॥
दयानन्द-सरस्वती (सं) - विषयः
धार्मिकजनवदितरैर्वर्तितव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - योऽयं वीरतमो वयोधाः सहस्रियः सरिरस्य मध्ये विभ्राजमानोऽप्रयुच्छन्नग्निरिव स भवान् द्योतताम्। दिव्यानि धाम धामानि त्वमुपप्रयाहि ॥५२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्या धार्मिकैर्जनैः सहोषित्वा प्रमादं विहाय जितेन्द्रियत्वेन जीवनं वर्धयित्वा विद्याधर्मानुष्ठानेन पवित्रा भूत्वा परोपकारिणः सन्तु ॥५२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी धर्मात्मा लोकांबरोबर राहावे. प्रमाद न करता जितेन्द्रिय बनून आयुष्य वाढवावे. विद्या आणि धर्माच्या अनुष्ठानाने पवित्र होऊन परोपकारी बनावे.
५३ सम्प्रच्यवध्वमुप सम्प्रयाताग्ने
विश्वास-प्रस्तुतिः ...{Loading}...
स॒म्प्रच्य॑वध्व॒मुप॑ सं॒प्रया॒ताग्ने॑ पथो॒ दे॑व॒याना॑न् कृणुध्वम्। पुनः॑ कृण्वा॒ना पि॒तरा॒ युवा॑ना॒न्वाताँ॑सी॒त् त्वयि॒ तन्तु॑मे॒तम् ॥५३ ॥
मूलम् ...{Loading}...
स॒म्प्रच्य॑वध्व॒मुप॑ सं॒प्रया॒ताग्ने॑ पथो॒ दे॑व॒याना॑न् कृणुध्वम्। पुनः॑ कृण्वा॒ना पि॒तरा॒ युवा॑ना॒न्वाताँ॑सी॒त् त्वयि॒ तन्तु॑मे॒तम् ॥५३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स॒म्प्रच्य॑वध्व॒मिति॑ स॒म्ऽप्रच्य॑वध्वम्। उप। स॒म्प्रया॒तेति॑ स॒म्ऽप्रया॑त। अग्ने॑। प॒थः। दे॒व॒याना॒निति॑ देव॒ऽयाना॑न्। कृ॒णु॒ध्व॒म्। पुन॒रिति॒ पुनः॑। कृ॒ण्वा॒ना। पि॒तरा॑। युवा॑ना। अ॒न्वाताँ॑सी॒दित्य॑नुऽआताँ॑सीत्। त्वयि॑। तन्तु॑म। ए॒तम्। ५३।
महीधरः
म० मन्त्रदृगृषीनाह । हे ऋषयः, एतमग्निं यूयं संप्रच्यवध्वमग्निं प्रत्यागच्छत । उप संप्रयात च आगत्य सम्यक् प्राप्नुत । संप्रच्यवध्वमुप संप्रयातेत्यमूनेतदृषीनाह । ‘समेनं प्रच्यवध्वमुप चैनᳪं᳭ संप्रयात’ (८ । ६ । ३ । २२) इति श्रुतेः । एवमृषीनुक्त्वाग्निमाह हे अग्ने, देवयानान् पथः कृणुध्वं कुरु वचनव्यत्ययः । देवा यायन्ते प्राप्यन्ते यैस्ते देवयानास्तान् ‘करणाधिकरणयोश्च’ (पा० ३ । ३ । ११७) इति ल्युट् । देवलोकप्राप्तिहेतून्मार्गान्कुर्वित्यर्थः । हे अग्ने, यत ऋषय एतं तन्तुं यज्ञं त्वयि अन्वातांसीत् अतानिषुः अनुक्रमेण विस्तारितवन्तः । वचनव्यत्ययः । कीदृशा ऋषयः । पुनः भूयः पितरा वाङ्मनसे युवाना तरुणौ अयातयामावन्योन्यसङ्गतौ कृण्वानाः कुर्वाणाः । स्वादेः कृञः शानच् । विभक्तेराकारः । संयताभ्यां वाङ्मनसाभ्यामेव यज्ञसाधनात् ते संयते कुर्वाणाः जितेन्द्रिया इत्यर्थः । पुनः कुर्वाणाः पितरा युवानेति ‘वाक् चैव मनश्च पितरा युवाना’ ( २२ ) इति श्रुतेः ॥ ५३ ॥
चतुःपञ्चाशी। |
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी ऋषिः
- भुरिगार्षी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
स्त्री-पुरुष कैसे विवाह करके क्या करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोग विद्याओं को (उपसंप्रयात) अच्छे प्रकार प्राप्त होओ (देवयानान्) धार्मिकों के (पथः) मार्गों से (संप्रच्यवध्वम्) सम्यक् चलो, धर्म को (कृणुध्वम्) करो। हे (अग्ने) विद्वान् पितामह ! (त्वयि) तुम्हारे बने रहते ही (पितरा) रक्षा करनेवाले माता-पिता तुम्हारे पुत्र आदि ब्रह्मचर्य्य को (कृण्वाना) करते हुए (युवाना) पूर्ण युवावस्था को प्राप्त हो और स्वयंवर विवाह कर (पुनः) पश्चात् (एतम्) गर्भाधानादिरीति से यथोक्त (तन्तुम्) सन्तान को (अन्वातांसीत्) अनुकूल उत्पन्न करें ॥५३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - कुमार स्त्रीपुरुष धर्मयुक्त सेवन किये ब्रह्मचर्य्य से पूर्ण विद्या पढ़ आप धार्मिक हो पूर्ण युवावस्था की प्राप्ति में कन्याओं की पुरुष और पुरुषों की कन्या परीक्षा कर अत्यन्त प्रीति के साथ चित्त से परस्पर आकर्षित होके अपनी इच्छा से विवाह कर, धर्मानुकूल सन्तानों को उत्पन्न और सेवा से अपने माता पिता का संतोष कर के आप्त विद्वानों के मार्ग से निरन्तर चलें और जैसे धर्म के मार्गों को सरल करें, वैसे ही भूमि, जल और अन्तरिक्ष के मार्गों को भी बनावें ॥५३ ॥
दयानन्द-सरस्वती (सं) - विषयः
कथं विवाहं कृत्वा किं कुर्य्यातामित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यूयं विद्या उपसम्प्रयात देवयानान् पथः सम्प्रच्यवध्वं धर्मं कृणुध्वम्। हे अग्ने ! त्वयि पितामहे विद्यमाने सति पितरा ब्रह्मचर्य्यं कृण्वाना युवाना भूत्वा स्वयंवरं विवाहं कृत्वा पुनरेतं तन्तुमन्वातांसीत् ॥५३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - कुमारा धर्म्येण सेवितब्रह्मचर्य्येण पूर्णा विद्या अधीत्य स्वयं धार्मिका भूत्वा पूर्णयुवावस्थायां प्राप्तायां कन्यानां पुरुषाः पुरुषाणां च कन्याः परीक्षां कृत्वाऽत्यन्तप्रीत्याऽऽकर्षितहृदयाः स्वेच्छया विवाहं विधाय धर्मेण सन्तानानुत्पाद्य सेवया मातापितरौ च सन्तोष्याप्तानां विदुषां मार्गं सततमन्वाययुः, यथा सरलान् धर्ममार्गान् कुर्य्युस्तथैव भूमिजलान्तरिक्षमार्गानपि निष्पादयेरन् ॥५३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - तरुण स्त्री-पुरुषांनी धर्माने वागावे व ब्रह्मचर्य पाळून पूर्ण विद्या शिकावी व स्वतः धार्मिक बनून पूर्ण युवावस्था प्राप्त करावी, तसेच स्त्रीने पुरुषाची व पुरुषाने स्त्रीची परीक्षा करून प्रेमाने परस्परांचे चित्त आकर्षित करून घ्यावे. आपल्या पसंतीने विवाह करावा व धर्मानुकूल संताने उत्पन्न करावीत. माता व पिता यांची सेवा करून त्यांना संतुष्ट करावे. आप्त विद्वानांच्या धर्म मार्गाने सहजतेने चालावे, तसेच भूमी, जल व अंतरिक्षातील मार्गही बनवावे.
५४ उद् बुध्यस्वाग्ने
विश्वास-प्रस्तुतिः ...{Loading}...
उद् बु॑ध्यस्वाग्ने॒ प्रति॑ जागृहि॒ त्वमि॑ष्टापू॒र्त्ते सँसृ॑जेथाम॒यं च॑। अ॒स्मिन्त्स॒धस्थे॒ऽअध्युत्त॑रस्मि॒न् विश्वे॑ देवा॒ यज॑मानश्च सीदत ॥५४ ॥
मूलम् ...{Loading}...
उद् बु॑ध्यस्वाग्ने॒ प्रति॑ जागृहि॒ त्वमि॑ष्टापू॒र्त्ते सँसृ॑जेथाम॒यं च॑। अ॒स्मिन्त्स॒धस्थे॒ऽअध्युत्त॑रस्मि॒न् विश्वे॑ देवा॒ यज॑मानश्च सीदत ॥५४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उत्। बु॒ध्य॒स्व॒। अ॒ग्ने॒। प्रति॑। जा॒गृ॒हि॒। त्वम्। इ॒ष्टा॒पू॒र्त्ते इती॑ष्टाऽपू॒र्त्ते। सम्। सृ॒जे॒था॒म्। अ॒यम्। च॒। अ॒स्मिन्। स॒ध॒स्थ॒ इति॑ स॒धऽस्थे॑। अधि॑। उत्त॑रस्मि॒न्नित्युत्ऽत॑रस्मिन्। विश्वे॑। दे॒वाः॒। यज॑मानः। च॒। सी॒द॒त॒। ५४।
महीधरः
म० हे अग्ने, त्वमुद्बुध्यस्व उद्बुद्धो भव सावधानो भव । एनं यजमानं प्रतिजागृहि प्रतिदिनं यजमानं जागरूकं सावधानं कुरु । तत इष्टापूर्ते श्रौतस्मार्ते कर्मणी संसृजेथां यजमानेन सह संसृष्टे भवताम् । त्वत्प्रसादात् अयं च यजमान इष्टापूर्ताभ्यां संसृज्यताम् । पुरुषव्यत्ययः । किंच हे विश्वेदेवाः, यूयं कृतेष्टपूर्तो निष्पापो यजमानश्च सधस्थे देवैः सह स्थितियोग्ये अस्मिन्नुत्तरस्मिन् सर्वोत्कृष्टे रविलोके द्युलोके सीदत तिष्ठत अधि अधिकम् । चिरं तिष्ठतेत्यर्थः । ‘द्यौर्वा उत्तरᳪं᳭सधस्थम्’ ( ८ । ६ । ३ । २३) इति श्रुतेः । विश्वैर्देवैः सालोक्यं यजमानस्य प्रार्थ्यत इति भावः ॥ ५४ ॥
पञ्चपञ्चाशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी ऋषिः
- आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर वही पूर्वोक्त विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) अच्छी विद्या से प्रकाशित स्त्री वा पुरुष ! तू (उद्बुध्यस्व) अच्छे प्रकार ज्ञान को प्राप्त हो सब के प्रति, (प्रति, जागृहि) अविद्यारूप निद्रा को छोड़ के विद्या से चेतन हो (त्वम्) तू स्त्री (च) और (अयम्) यह पुरुष दोनों (अस्मिन्) इस वर्त्तमान (सधस्थे) एक स्थान में और (उत्तरस्मिन्) आगामी समय में सदा (इष्टापूर्त्ते) इष्ट सुख, विद्वानों का सत्कार, ईश्वर का आराधन, अच्छा सङ्ग करना और सत्यविद्या आदि का दान देना यह इष्ट और पूर्णबल, ब्रह्मचर्य्य, विद्या की शोभा, पूर्ण युवा अवस्था, साधन और उपसाधन यह सब पूर्त्त इन दोनों को (सं, सृजेथाम्) सिद्ध किया करो (विश्वे) सब (देवाः) विद्वान् लोग (च) और (यजमानः) यज्ञ करनेवाले पुरुष, तू इस एक स्थान में (अधि, सीदत) उन्नतिपूर्वक स्थिर होओ ॥५४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे अग्नि सुगन्धादि के होम से इष्ट सुख देता और यज्ञकर्त्ता जन यज्ञ की सामग्री पूरी करता है, वैसे उत्तम विवाह किये स्त्री-पुरुष इस जगत् में आचरण किया करें। जब विवाह के लिये दृढ़ प्रीतिवाले स्त्री-पुरुष हों, तब विद्वानों को बुला के उन के समीप वेदोक्त प्रतिज्ञा करके पति और पत्नी बनें ॥५४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! त्वमुद्बुध्यस्व, सर्वान् प्रति जागृहि, त्वमयं चास्मिन् सधस्थ उत्तरस्मिँश्च सदेष्टापूर्त्ते संसृजेथाम्। विश्वे देवा यजमानश्चैतस्मिन्नधि सीदत ॥५४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यथाऽग्नियजमानौ सुखं पूर्णां सामग्रीं च साध्नुतस्तथा कृतविवाहाः स्त्रीपुरुषा अस्मिन् जगति समाचरन्तु। यदा विवाहाय दृढप्रीती स्त्रीपुरुषौ भवेतां, तदा विदुष आहूयैतेषां सन्निधौ वेदोक्ताः प्रतिज्ञाः कृत्वा पतिः पत्नी च भवेताम् ॥५४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जसे सुगंधी होम करण्याने अग्नी सुखकारक ठरतो व यज्ञकर्ता सामग्रीने यज्ञ पूर्ण करतो तसे उत्तम विवाह केलेल्या स्त्री-पुरुषांनी या जगात वागावे. जेव्हा विवाह करावयाचा असेल तेव्हा दृढ प्रेम असलेल्या स्त्री-पुरुषांनी विद्वानांना आमंत्रित करून त्यांच्यासमोर वेदोक्त प्रतिज्ञा करून पती व पत्नी बनावे.
५५ येन वहसि
विश्वास-प्रस्तुतिः ...{Loading}...
येन॒ वह॑सि स॒हस्रं॒ येना॑ग्ने सर्ववेद॒सम्। तेने॒मं य॒ज्ञं नो॑ नय॒ स्व᳖र्दे॒वेषु॒ गन्त॑वे ॥५५ ॥
मूलम् ...{Loading}...
येन॒ वह॑सि स॒हस्रं॒ येना॑ग्ने सर्ववेद॒सम्। तेने॒मं य॒ज्ञं नो॑ नय॒ स्व᳖र्दे॒वेषु॒ गन्त॑वे ॥५५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
येन॑। वह॑सि। स॒हस्र॑म्। येन॑। अ॒ग्ने॒। स॒र्व॒वे॒द॒समिति॑ सर्वऽवे॒द॒सम्। तेन॑। इ॒मम्। य॒ज्ञम्। नः॒। न॒य॒। स्वः᳖। दे॒वेषु॑। गन्त॑वे। ५५।
महीधरः
म० हे अग्ने, येन सामर्थ्येन सहस्रं सहस्रदक्षिणाकं यज्ञं त्वं वहसि प्रापयसि । येन च सर्ववेदसं सर्वं वेदो धनं दक्षिणा यत्र तं सर्वस्वदक्षिणाकं यज्ञं वहसि तेन सामर्थ्यन नोऽस्माकमिमं यज्ञं देवेषु गन्तवे देवान् प्रति गन्तुं स्वः स्वर्गं नय प्रापय । तुमर्थे गमेः तवेप्रत्ययः । यज्ञे स्वर्गं गतेऽस्माकमपि तत्र गमनं स्यात् । ‘सोऽस्यैष यज्ञो देवलोकमेवाभिप्रैति तदनूची दक्षिणा यां ददाति प्रैति दक्षिणामन्वारभ्य यजमानः’ (१२) इति श्रुतेः । अतो यज्ञस्य स्वर्गगमनं प्रार्थ्यते ॥५५॥
षट्पञ्चाशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्वान् पुरुष वा विदुषी स्त्री ! तू (देवेषु) विद्वानों में (स्वः) सुख को (गन्तवे) प्राप्त होने के लिये (येन) जिस प्रतिज्ञा किये कर्म से (सहस्रम्) गृहाश्रम के असंख्य व्यवहारों को (वहसि) प्राप्त होते हो तथा (येन) जिस विज्ञान से (सर्ववेदसम्) सब वेदों में कहे कर्म को यथावत् करते हो (तेन) उससे (इमम्) इस गृहाश्रमरूप (यज्ञम्) सङ्गति के योग्य यज्ञ को (नः) हम को (नय) प्राप्त कीजिये ॥५५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विवाह की प्रतिज्ञाओं में यह भी प्रतिज्ञा करानी चाहिये कि हे स्त्रीपुरुषो ! तुम दोनों जैसे अपने हित के लिये आचरण करो, वैसे हम माता-पिता, आचार्य्य और अतिथियों के सुख के लिये भी निरन्तर वर्त्ताव करो ॥५५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! त्वं देवेषु स्वर्गन्तवे येन सहस्रं वहसि, येन सर्ववेदसं वहसि, तेनेमं यज्ञं नोऽस्मांश्च नय ॥५५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - विवाहप्रतिज्ञास्वियमपि प्रतिज्ञा कारयितव्या। हे स्त्रीपुरुषौ ! युवां यथा स्वहितायाचरतं तथास्माकं मातापित्राचार्य्यातिथीनां सुखायापि सततं वर्त्तेयाथामिति ॥५५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - विवाह करताना अनेक प्रतिज्ञा केल्या जातात त्यापैकी ही एक प्रतिज्ञा केली पाहिजे की, हे स्त्री-पुरुषांनो ! तुम्ही दोघे जण जसे आपल्या हितासाठी आचरण कराल तसे माता, पिता, गुरू व अतिथींच्या सुखासाठीही करा.
५६ अयं ते
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒यं ते॒ योनि॑र्ऋ॒त्वियो॒ यतो॑ जा॒तोऽअरो॑चथाः। तं जा॒नन्न॑ग्न॒ऽआ रो॒हाथा॑ नो वर्धया र॒यिम् ॥५६ ॥
मूलम् ...{Loading}...
अ॒यं ते॒ योनि॑र्ऋ॒त्वियो॒ यतो॑ जा॒तोऽअरो॑चथाः। तं जा॒नन्न॑ग्न॒ऽआ रो॒हाथा॑ नो वर्धया र॒यिम् ॥५६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒यम्। ते॒। योनिः॑। ऋ॒त्वियः॑। यतः॑। जा॒तः। अरो॑चथाः। तम्। जा॒नन्। अ॒ग्ने॒। आ। रो॒ह॒। अथ॑। नः॒। व॒र्ध॒य॒। र॒यिम्। ५६।
महीधरः
म० इयं व्याख्याता ( ३ । १४ । १२ । ५२ ) ॥ ५६ ॥
सप्तपञ्चाशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्वन् वा विदुषि ! (अयम्) यह (ते) तेरा (ऋत्वियः) ऋतु अर्थात् समय को प्राप्त हुआ (योनिः) घर है, (यतः) जिस विद्या के पठन-पाठन से (जातः) प्रसिद्ध हुआ वा हुई तू (अरोचथाः) प्रकाशित हो (तम्) उस को (जानन्) जानता वा जानती हुई (आ, रोह) धर्म पर आरूढ़ हो, (अथ) इसके पश्चात् (नः) हमारी (रयिम्) सम्पत्ति को (वर्धय) बढ़ाया कर ॥५६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - स्त्री-पुरुषों से विवाह में यह भी दूसरी प्रतिज्ञा करानी चाहिये कि जिस ब्रह्मचर्य और जिस विद्या के साथ तुम दोनों स्त्री-पुरुष कृतकृत्य होते हो, उस-उस को सदैव प्रचारित किया करो और पुरुषार्थ से धनादि पदार्थ को बढ़ा के उस को अच्छे मार्ग में खर्च किया करो। यह सब हेमन्त ऋतु का व्याख्यान पूरा हुआ ॥५६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! योऽयं ते तव ऋत्वियो योनिरस्ति यतो जातो जाता त्वं चारोचथास्तं जानन् जानन्ति चारोहाथ, नो रयिं वर्धय ॥५६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - विवाहे स्त्रीपुरुषाभ्यामियमपि द्वितीया प्रतिज्ञा कारयितव्या। येन ब्रह्मचर्य्येण यया विद्यया च युवां स्त्रीपुरुषौ कृतकृत्यौ भवथस्तत्तां च सदैव प्रचारयतम्। पुरुषार्थेन धनादिकं च वर्धयित्वैतत् सन्मार्गे वीतम्। इत्येतत् सर्वं हेमन्तस्य ऋतोर्व्याख्यानं समाप्तम् ॥५६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - विवाहाच्या वेळी स्त्री-पुरुषांकडून ही दुसरी प्रतिज्ञा करवून घेतली पाहिजे की, ज्या ब्रह्मचर्य व विद्येमुळे तुम्ही स्त्री-पुरुष कृतकृत्य झाला आहात त्याचा सदैव प्रसार करा व पुरुषार्थाने धन वगैरे वाढवा व ते चांगल्या कामासाठी खर्च करा. येथे हेमंत ऋतूची व्याख्या पूर्ण झालेली आहे.
५७ तपश्च तपस्यश्च
विश्वास-प्रस्तुतिः ...{Loading}...
तप॑श्च तप॒स्य᳖श्च॑ शैशि॒रावृ॒तूऽअ॒ग्नेर॑न्तःश्ले॒षो᳖ऽसि॒ कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ऽओष॑धयः॒ कल्प॑न्ताम॒ग्नयः॒ पृथ॒ङ् मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः। येऽअ॒ग्नयः॒ सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वीऽइ॒मे। शै॒शि॒रावृ॒तूऽअ॑भि॒कल्प॑माना॒ऽइन्द्र॑मिव दे॒वाऽअ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वे सी॑दतम् ॥५७ ॥
मूलम् ...{Loading}...
तप॑श्च तप॒स्य᳖श्च॑ शैशि॒रावृ॒तूऽअ॒ग्नेर॑न्तःश्ले॒षो᳖ऽसि॒ कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ऽओष॑धयः॒ कल्प॑न्ताम॒ग्नयः॒ पृथ॒ङ् मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः। येऽअ॒ग्नयः॒ सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वीऽइ॒मे। शै॒शि॒रावृ॒तूऽअ॑भि॒कल्प॑माना॒ऽइन्द्र॑मिव दे॒वाऽअ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वे सी॑दतम् ॥५७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
तपः॑। च॒। त॒प॒स्यः᳖। च॒। शै॒शि॒रौ। ऋ॒तू इत्यृ॒तू। अ॒ग्नेः। अ॒न्तः॒श्ले॒ष इत्य॑न्तःऽश्ले॒षः। अ॒सि॒। कल्पे॑ताम्। द्यावा॑पृथि॒वी इति॒ द्यावा॑पृथि॒वी। कल्प॑न्ताम्। आपः॑। ओष॑धयः। कल्प॑न्ताम्। अ॒ग्नयः॑। पृथ॑क्। मम॑। ज्यैष्ठ्या॑य। सव्र॑ता॒ इति॒ सऽव्र॑ताः। ये। अ॒ग्नयः॑। सम॑नस॒ इति॒ सऽम॑नसः। अ॒न्त॒रा। द्यावा॑पृथि॒वी इति॒ द्यावा॑पृथि॒वी। इ॒मे इती॒मे। शै॒शि॒रौ। ऋ॒तू इत्यृ॒तू। अ॒भि॒कल्प॑माना॒ इत्य॑भि॒ऽकल्प॑मानाः। इन्द्र॑मि॒वेतीन्द्र॑म्ऽइव। दे॒वाः। अ॒भि॒संवि॑श॒न्त्वित्य॑भि॒सम्ऽवि॑शन्तु। तया॑। दे॒वत॑या। अ॒ङ्गि॒र॒स्वत्। ध्रु॒वे इति॑ ध्रु॒वे। सी॒द॒त॒म्। ५७।
महीधरः
म० एवं पुनश्चित्युपस्थानमुक्त्वा पञ्चमचितिशेषभूतेष्टकोपधाने मन्त्रा उच्यन्ते । ‘ऋतव्ये तपश्च तपस्यश्चेति’ ( का० १७॥ १२ । २२ ) । ऋतव्ये द्वे पद्येष्टके उपदधाति । ऋतुदेवत्यं यजुः उत्कृतिश्छन्दः । तपो माघः तपस्यः फाल्गुनः शैशिरौ | ऋतू शिशिरर्तोरवयवौ । शिष्टं व्याख्यातम् (१३ । २५)॥५७॥
अष्टपञ्चाशी ।
अधिमन्त्रम् (VC)
- शिशिरर्त्तुर्देवता
- परमेष्ठी ऋषिः
- स्वराडुत्कृतिः
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब अगले मन्त्र में शिशिर ऋतु का वर्णन किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे ईश्वर ! (मम) मेरी (ज्यैष्ठ्याय) ज्येष्ठता के लिये (तपः) ताप बढ़ाने का हेतु माघ महीना (च) और (तपस्यः) तापवाला फाल्गुन मास (च) ये दोनों (शैशिरौ) शिशिर ऋतु में प्रख्यात (ऋतू) अपने चिह्नों को प्राप्त करनेवाले सुखदायी होते हैं। आप जिनके (अग्नेः) अग्नि के भी (अन्तःश्लेषः) मध्य में प्रविष्ट (असि) हैं, उन दोनों से (द्यावापृथिवी) आकाश-भूमि (कल्पेताम्) समर्थ हों, (आपः) जल (ओषधयः) ओषधियाँ (कल्पन्ताम्) समर्थ हों, (सव्रताः) एक प्रकार के नियमों में वर्त्तमान (अग्नयः) विद्युत् आदि अग्नि (पृथक्) अलग अलग (कल्पन्ताम्) समर्थ होवें, (ये) जो (समनसः) एक प्रकार के मन के निमित्तवाले हैं, वे (अग्नयः) विद्युत् आदि अग्नि (इमे) इन (द्यावापृथिवी) आकाश भूमि के (अन्तरा) बीच में होनेवाले (शैशिरौ) शिशिर ऋतु के साधक (ऋतू) माघ-फाल्गुन महीनों को (अभिकल्पमानाः) समर्थ करते हैं, उन अग्नियों को (इन्द्रमिव) ऐश्वर्य के तुल्य (देवाः) विद्वान् लोग (अभिसंविशन्तु) ज्ञानपूर्वक प्रवेश करें। हे स्त्री-पुरुषो ! तुम दोनों (तया) उस (देवतया) पूजा के योग्य सर्वत्र व्याप्त जगदीश्वर देवता के साथ (अङ्गिरस्वत्) प्राण के समान वर्त्तमान इन आकाश भूमि के तुल्य (ध्रुवे) दृढ़ (सीदतम्) स्थिर होओ ॥५७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। मनुष्यों को चाहिये कि सब ऋतुओं में ईश्वर से ही सुख चाहें। ईश्वर विद्युत् अग्नि के भी बीच व्याप्त है, इस कारण सब पदार्थ अपने-अपने नियम से कार्य में समर्थ होते हैं। विद्वान् लोग सब वस्तुओं में व्याप्त बिजुलीरूप अग्नियों के गुण-दोष जानें। स्त्री-पुरुष गृहाश्रम में स्थिरबुद्धि होके शिशिर ऋतु के सुख को भोगें ॥५७ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ शिशिरस्य ऋतोर्वर्णनमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे ईश्वर ! मम ज्यैष्ठ्याय तपश्च तपस्यश्च शैशिरावृतू सुखकारकौ भवतः। त्वं ययोरग्नेरन्तःश्लेषोऽसि, ताभ्यां द्यावापृथिवी कल्पेताम्, आप ओषधयश्च कल्पन्ताम्, सव्रता अग्नयः पृथक् कल्पन्ताम्। ये समनसोऽग्नय इमे द्यावापृथिवी अन्तरा शैशिरावृतू अभिकल्पमानाः सन्ति, तानिन्द्रमिव देवा अभिसंविशन्तु। हे स्त्रीपुरुषौ ! युवां तया देवतया सहाङ्गिरस्वद् वर्त्तमानो ध्रुवे द्यावापृथिवी इव सीदतम् ॥५७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। मनुष्यैः प्रत्यृतु सुखमीश्वरादेव याचनीयम्। ईश्वरस्य विद्युदन्तःप्रविष्टत्वात् सर्वे पदार्थाः स्वस्वनियमेन समर्था भवन्ति। विद्वांसः सर्वपदार्थगतविद्युदग्नीनां गुणदोषान् विजानन्तु। स्त्रीपुरुषौ गृहाश्रमे शैशिरं सुखं भुञ्जाताम् ॥५७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. माणसांनी सर्व ऋतूंमध्ये ईश्वराकडूनच सुखाची कामना करावी. ईश्वर विद्युतरूपी अग्नीमध्ये व्याप्त आहे. त्यामुळे सर्व पदार्थ आपापल्या नियमानुसार कार्य करण्यास समर्थ होतात, विद्वानांनी सर्व वस्तूंमध्ये व्याप्त असलेले विद्युतरूपी अग्नीचे गुणदोष जाणावे. स्त्री - पुरुषांनी गृहस्थाश्रमात स्थिर बुद्धीने राहावे व शिशिर ऋतूचे सुख भोगावे.
५८ परमेष्ठी त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
प॒र॒मे॒ष्ठी त्वा॑ सादयतु दि॒वस्पृ॒ष्ठे ज्योति॑ष्मतीम्। विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नाय॒ विश्वं॒ ज्योति॑र्यच्छ। सूर्य॒स्तेऽधि॑पति॒स्तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वा सी॑द ॥५८ ॥
मूलम् ...{Loading}...
प॒र॒मे॒ष्ठी त्वा॑ सादयतु दि॒वस्पृ॒ष्ठे ज्योति॑ष्मतीम्। विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नाय॒ विश्वं॒ ज्योति॑र्यच्छ। सूर्य॒स्तेऽधि॑पति॒स्तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वा सी॑द ॥५८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प॒र॒मे॒ष्ठी। प॒र॒मे॒स्थीति॑ परमे॒ऽस्थी। त्वा॒। सा॒द॒य॒तु॒। दि॒वः। पृ॒ष्ठे। ज्योति॑ष्मतीम्। विश्व॑स्मै। प्रा॒णाय॑। अ॒पा॒नायेत्य॑पऽआ॒नाय॑। व्या॒नायेति॑ विऽआ॒नाय॑। विश्व॑म्। ज्योतिः॑। य॒च्छ॒। सूर्यः॑। ते॒। अधि॑पति॒रित्यधि॑ऽपतिः। तया॑। दे॒वत॑या। अ॒ङ्गि॒र॒स्वत्। ध्रु॒वा। सी॒द॒। ५८।
महीधरः
म० ‘विश्वज्योतिषं परमेष्ठी त्वेति’ ( का० १७।१२।२३) यजमानकृतां पद्यां विश्वज्योतिषं तृतीयोपहिताया विश्वज्योतिष उपर्युपदधातीति सूत्रार्थः । सूर्यदेवत्यं यजुः शक्करीच्छन्दः । परमेष्ठी त्वां दिवः पृष्ठे उपरि सादयतु । सूर्यस्ते तवाधिपतिः पालक इति विशेषः । अन्यद्व्याख्यातम् ( अध्या० १४ क० १४)॥५८ ॥
एकोनषष्टी।
अधिमन्त्रम् (VC)
- विदुषी देवता
- परमेष्ठी ऋषिः
- भुरिग् ब्राह्मी बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
स्त्री को क्या करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! (परमेष्ठी) महान् आकाश में व्याप्त होकर स्थित परमेश्वर (ज्योतिष्मतीम्) प्रशस्त ज्ञानयुक्त (त्वा) तुझ को (दिवः) प्रकाश के (पृष्ठे) उत्तम भाग में (विश्वस्मै) सब (प्राणाय) प्राण (अपानाय) अपान और (व्यानाय) व्यान आदि की यथार्थ क्रिया होने के लिये (सादयतु) स्थित करे। तू सब स्त्रियों के लिये (विश्वम्) समस्त (ज्योतिः) ज्ञान के प्रकाश को (यच्छ) दिया कर, जिस (ते) तेरा (सूर्यः) सूर्य के समान तेजस्वी (अधिपतिः) स्वामी है, (तया) उस (देवतया) अच्छे गुणोंवाले पति के साथ वर्त्तमान (अङ्गिरस्वत्) सूर्य्य के समान (ध्रुवा) दृढ़ता से (सीद) स्थिर हो ॥५८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा तथा वाचकलुप्तोपमालङ्कार हैं। जिस परमेश्वर ने जो शरद् ऋतु बनाया है, उसकी उपासनापूर्वक इस ऋतु को युक्ति से सेवन करके स्त्री-पुरुष सदा सुख बढ़ाया करें ॥५८ ॥
दयानन्द-सरस्वती (सं) - विषयः
स्त्रिया किं कार्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! परमेष्ठी ज्योतिष्मतीं त्वा दिवस्पृष्ठे विश्वस्मै प्राणायापानाय व्यानाय सादयतु, त्वं विश्वं ज्योतिः सर्वाभ्यः स्त्रीभ्यो यच्छ। यस्यास्ते तव सूर्य्य इवाधिपतिरस्ति, तया देवतया सह वर्त्तमानाऽङ्गिरस्वद् ध्रुवा सीद ॥५८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। येन परमेश्वरेण यः शरदृतू रचितस्तस्योपासनापुरस्सरं तं युक्त्या सेवित्वा स्त्रीपुरुषाः सुखं सदा वर्धयन्तु ॥५८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहेत. ज्या परमेश्वराने शरद ऋतूची निर्मिती केलेली आहे त्या परमेश्वराची उपासना करून या ऋतूचे युक्तीने सेवन करावे व स्त्री - पुरुषांनी नेहमी सुख वाढवावे.
५९ लोकं पृण
विश्वास-प्रस्तुतिः ...{Loading}...
लो॒कं पृ॑ण छि॒द्रं पृ॒णाथो॑ सीद ध्रु॒वा त्वम्। इ॒न्द्रा॒ग्नी त्वा॒ बृह॒स्पति॑र॒स्मिन् योना॑वसीषदन् ॥५९ ॥
मूलम् ...{Loading}...
लो॒कं पृ॑ण छि॒द्रं पृ॒णाथो॑ सीद ध्रु॒वा त्वम्। इ॒न्द्रा॒ग्नी त्वा॒ बृह॒स्पति॑र॒स्मिन् योना॑वसीषदन् ॥५९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
लो॒कम्। पृ॒ण॒। छि॒द्रम्। पृ॒ण॒। अथो॒ इत्यथो॑। सी॒द॒। ध्रु॒वा। त्वम्। इ॒न्द्रा॒ग्नी इती॑न्द्रा॒ग्नी। त्वा॒। बृह॒स्पतिः॑। अ॒स्मिन्। योनौ॑। अ॒सी॒ष॒द॒न्। अ॒सी॒स॒द॒न्नित्य॑सीसदन्। ५९।
महीधरः
म० ‘दक्षिणाᳪं᳭सात्प्रत्यगरत्निमात्रादधि लोकंपृणाः पूर्ववत्’ ( का० १७ । १२ । २४)। आत्मनो दक्षिणादाग्नेयकोणादपरस्यां दिश्यरत्निमात्रादधि पद्यालोकद्वयं परित्यज्य तृतीयलोकादारभ्य प्रथमचितिवल्लोकंपृणा उपदधातीति सूत्रार्थः । “तिस्रोऽपि द्वादशे’ ( १२ । ५४-५६) व्याख्याताः ॥ ॥५९-६१ ॥
षष्टी।
अधिमन्त्रम् (VC)
- इन्द्राग्नी देवते
- परमेष्ठी ऋषिः
- विराडनुष्टुप्
- गान्धारः
६० ताऽअस्य सूददोहसः
विश्वास-प्रस्तुतिः ...{Loading}...
ताऽअ॑स्य॒ सूद॑दोहसः॒ सोमँ॑ श्रीणन्ति॒ पृश्न॑यः। जन्म॑न्दे॒वानां॒ विश॑स्त्रि॒ष्वारो॑च॒ने दि॒वः ॥६० ॥
मूलम् ...{Loading}...
ताऽअ॑स्य॒ सूद॑दोहसः॒ सोमँ॑ श्रीणन्ति॒ पृश्न॑यः। जन्म॑न्दे॒वानां॒ विश॑स्त्रि॒ष्वारो॑च॒ने दि॒वः ॥६० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ताः। अ॒स्य॒। सूद॑दोहस॒ इति॒ सूद॑ऽदोहसः। सोम॑म्। श्री॒ण॒न्ति॒। पृश्न॑यः। जन्म॑न्। दे॒वाना॑म्। विशः॑। त्रि॒षु। आ॒। रो॒च॒ने। दि॒वः। ६०।
महीधरः
म० ‘प्रच्छाद्य पुरीषेण विकर्णी स्वयमातृण्णे शर्करे सᳪं᳭स्पृष्टे छिद्रे प्रोथदश्व इत्युत्तरां विकर्णीम्’ ( का० १७ । १२ । २५)। पञ्चमीं चितिं पुरीषेण पूर्ववत्प्रच्छाद्य शर्करामय्यौ परस्परसंलग्ने सच्छिद्रे विकर्णी स्वयमातृण्णासंज्ञे द्वे इष्टके उपधेये । तयोर्मध्ये उत्तरदिश्यनूकरेखामध्ये प्रोथदश्व इति विकर्णीष्टकामुपदधातीति सूत्रार्थः । वसिष्ठदृष्टाग्नेयी त्रिष्टुप् । मथ्यमानोऽग्निः कथ्यते । यदा यस्मिन् काले महः महतः संवरणात्संव्रियतेऽस्मिन्नग्निरिति संवरणमरणिकाष्ठं तस्मात् व्यस्थात् वितिष्ठते प्रकाशो भवति तदा प्रोथत् प्रोथयति शब्दायते । प्रोथतिः शब्दार्थः ‘इतश्च लोपः परस्मैपदेषु’ (पा० ३ । ४ । ९७) इति तिप इकारलोपः । तत्र दृष्टान्तः अश्वो न । न इवार्थे । अश्व इव यथा यवसे अविष्यन् यवसं घासं भक्षयिष्यन्नश्वः प्रोथति । आत् अस्य अनन्तरं वह्निज्वलनशब्दानन्तरं वातो वायुरस्याग्नेरनुवाति अग्निमनुलक्ष्य प्रसरति वाय्वग्न्योः सख्यादिति भावः । कीदृशो वायुः । शोचिः शोचयति ज्वलयति शोचिः अग्नेः संदीपनः । शोचिरिति ज्वलन्नामसु पठितम् । यद्वास्य शोचिर्ज्वालामनुलक्ष्य वातो वाति । अधेति निपातोऽथार्थः । अथ वातेनाग्नौ ज्वलिते सति ते एतस्याग्नेः व्रजनं व्रजत्यत्रेति व्रजनं गमनस्थानं कृष्णमस्ति श्यामं भवति ‘कृष्णवर्त्मा हुताशनः’ इत्युक्तेः । स्मेति निपातः पादपूरणः । श्रुत्या ते इति पदमेतस्येति व्याख्यातं परोक्षत्वान्मन्त्रस्य । ‘अथैतस्य व्रजनं कृष्णं भवति’ ( ८ । ७ । ३ । १२) इति श्रुतेः । अविष्यन्नित्यत्तिकर्मसु पठितम् ॥ ६२ ॥
त्रिषष्टी।
अधिमन्त्रम् (VC)
- आपो देवताः
- प्रियमेधा ऋषिः
- विराडनुष्टुप्
- गान्धारः
६१ इन्द्रं विश्वाऽअवीवृधन्त्समुद्रव्यचसम्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रं॒ विश्वा॑ऽअवीवृधन्त्समु॒द्रव्य॑चसं॒ गिरः॑। र॒थीत॑मँ र॒थीनां॒ वाजा॑नाँ॒ सत्प॑तिं॒ पति॑म् ॥६१ ॥
मूलम् ...{Loading}...
इन्द्रं॒ विश्वा॑ऽअवीवृधन्त्समु॒द्रव्य॑चसं॒ गिरः॑। र॒थीत॑मँ र॒थीनां॒ वाजा॑नाँ॒ सत्प॑तिं॒ पति॑म् ॥६१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इन्द्र॑म्। विश्वाः॑। अ॒वी॒वृ॒ध॒न्। स॒मु॒द्रव्य॑चस॒मितिं॑ समु॒द्रऽव्य॑चसम्। गिरः॑। र॒थीत॑मम्। र॒थित॑म॒मिति॑ र॒थिऽत॑मम्। र॒थीना॑म्। र॒थिना॒मितिं॑ र॒थिऽना॑म्। वाजा॑नाम्। सत्प॑ति॒मिति॒ सत्ऽप॑तिम्। पति॑म्। ६१।
महीधरः
म० ‘आयोष्ट्वेति स्वयमातृण्णाम्’ ( का० १७।१२।२५)। आयोरिति कण्डिकाद्वयेन विकर्णीदक्षिणां स्वयमातृण्णामुपदधातीत्यर्थः । आयोः परमेष्ठीति द्वे यजुषी स्वयमातृण्णादेवत्ये आद्यं ब्राह्युडिष्णिक् द्वितीयमाकृतिच्छन्दः । हे स्वयमातृण्णे, आयोः आदित्यस्य सदने स्थाने तां त्वा त्वां सादयामि । स्थापयति एति निरन्तरं गच्छतीत्यायुरादित्यः । कीदृशस्यायोः । अवतः जगत्पालयितुः दीप्यमानस्य वा । तथा समुद्रस्य समुनत्तीति समुद्रस्तस्य । आदित्यो वृष्ट्या जगदार्दीकुर्वन् समुद्र उच्यते । किंभूते सदने । छायायामाश्रयभूते हृदये प्रधानभूते । कीदृशीं त्वाम् । रश्मिवतीं किरणयुतामतएव भास्वतीं शोभमानाम् । तां काम् । या त्वं द्यां द्युलोकमाभासि प्रकाशयसि पृथिवीमाभासि उरु विस्तीर्णमन्तरिक्षं चाभासि । रश्मिपदस्य संहितायां दीर्घः ॥ ६३॥
चतुःषष्टी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- मधुच्छन्दा ऋषिः
- निचृदनुष्टुप्
- गान्धारः
६२ प्रोथदश्वो न
विश्वास-प्रस्तुतिः ...{Loading}...
प्रोथ॒दश्वो॒ न यव॑सेऽवि॒ष्यन्य॒दा म॒हः सं॒वर॑णा॒द्व्यस्था॑त्। आद॑स्य॒ वातो॒ऽअनु॑ वाति शो॒चिरध॑ स्म ते॒ व्रज॑नं कृ॒ष्णम॑स्ति ॥६२ ॥
मूलम् ...{Loading}...
प्रोथ॒दश्वो॒ न यव॑सेऽवि॒ष्यन्य॒दा म॒हः सं॒वर॑णा॒द्व्यस्था॑त्। आद॑स्य॒ वातो॒ऽअनु॑ वाति शो॒चिरध॑ स्म ते॒ व्रज॑नं कृ॒ष्णम॑स्ति ॥६२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्रोथ॑त्। अश्वः॑। न। यव॑से। अ॒वि॒ष्यन्। य॒दा। म॒हः। सं॒वर॑णा॒दिति॑ स॒म्ऽवर॑णात्। वि। अस्था॑त्। आत्। अ॒स्य॒। वातः॑। अनु॑। वा॒ति॒। शो॒चिः। अध॑। स्म॒। ते॒। व्रज॑नम्। कृ॒ष्णम्। अ॒स्ति॒। ६२।
महीधरः
म० व्याख्यातम् ( १४ । १२ । १५ । ५८) ॥ ६४ ॥
पञ्चषष्टी।
इति माध्यन्दिनीयायां वाजसनेयसंहितायां पञ्चदशोऽध्यायः॥ १५ ॥
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वसिष्ठ ऋषिः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! आप (यवसे) भूसा आदि के लिये (अश्वः) घोड़े के (न) समान प्रजाओं को (प्रोथत्) समर्थ कीजिये (यदा) जब (महः) बड़े (संवरणात्) आच्छादन से (अविष्यन्) रक्षा आदि करते हुए (व्यस्थात्) स्थित होवें (आत्) पुनः (अस्य) इस (ते) आप का (व्रजनम्) चलने तथा (कृष्णम्) आकर्षण करनेवाला (शोचिः) प्रकाश (अस्ति) है, (अध) इस के पश्चात् (स्म) ही आप का (वातः) चलनेवाला भृत्य (अनु, वाति) पीछे चलता है ॥६२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे रक्षा करने से घोड़े पुष्ट होकर कार्य्य सिद्ध करने में समर्थ होते हैं, वैसे ही न्याय से रक्षा की हुई प्रजा सन्तुष्ट होकर राज्य को बढ़ाती हैं ॥६२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! भवान् यवसेऽश्वो न प्रजाः प्रोथत्। यदा महः संवरणादविष्यन् व्यस्थादादस्य ते तव व्रजनं कृष्णं शोचिरस्ति। अध स्मास्य तव वातोऽनुवाति ॥६२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा पालनात् तुरङ्गाः पुष्टा भूत्वा कार्य्यसिद्धिक्षमा भवन्ति, तथैव नयेन संपालिताः प्रजाः सन्तुष्टा भूत्वा राज्यं वर्धयन्ति ॥६२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. ज्याप्रमाणे घोड्यांचे रक्षण केल्याने ते पुष्ट बनून समर्थपणे कार्य करू शकतात, तसेच न्यायाने प्रजेचे रक्षण केल्यास प्रजा संतुष्ट होते व राज्य वाढविते.
६३ आयोष्ट्वा सदने
विश्वास-प्रस्तुतिः ...{Loading}...
आ॒योष्ट्वा॒ सद॑ने सादया॒म्यव॑तश्छा॒यायाँ॑ समु॒द्रस्य॒ हृद॑ये। र॒श्मी॒वतीं॒ भास्व॑ती॒मा या द्यां भास्या पृ॑थि॒वीमोर्व॒न्तरि॑क्षम् ॥६३ ॥
मूलम् ...{Loading}...
आ॒योष्ट्वा॒ सद॑ने सादया॒म्यव॑तश्छा॒यायाँ॑ समु॒द्रस्य॒ हृद॑ये। र॒श्मी॒वतीं॒ भास्व॑ती॒मा या द्यां भास्या पृ॑थि॒वीमोर्व॒न्तरि॑क्षम् ॥६३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ॒योः। त्वा॒। सद॑ने। सा॒द॒या॒मि॒। अव॑तः। छा॒याया॑म्। स॒मु॒द्रस्य॑। हृद॑ये। र॒श्मी॒वती॒मिति॑ रश्मि॒ऽवती॑म्। भास्व॑तीम्। आ। या। द्या॒म्। भासि॑। आ। पृ॒थि॒वीम्। आ। उ॒रु। अ॒न्तरि॑क्षम्। ६३।
महीधरः
म० “तिष्ठन्नग्निं प्रोक्षति हिरण्यशकलसहस्रेण शते द्वे द्वे प्रकिरति सहस्रस्येति प्रतिमन्त्रम्’ ( का० १७ । १२ । २७)। इष्टकाचितं सपक्षपुच्छमग्निं पश्चादुत्तरपूर्वदक्षिणपश्चिमेषु शतद्वयं द्वयं सोदकस्तिष्ठन्प्रकिरतीत्यर्थः । पञ्चाग्नेयानि यजूंषि । हे अग्ने, सहस्रस्येष्टकानां प्रमा प्रमाणं त्वमसि । सहस्रस्य प्रतिमा प्रतिनिधिरसि । सहस्रस्योन्मोन्मानं तुलासि । साहस्रः सहस्रार्होऽसि। सहस्रायानन्तफलाप्त्यै त्वा त्वां प्रोक्षामि ॥ ६५ ॥
श्रीमन्महीधरकृते वेददीपे मनोरमे ।
अस्मिन्पञ्चदशाध्याये कथिता पञ्चमी चितिः ॥६५॥
अधिमन्त्रम् (VC)
- विदुषी देवता
- वसिष्ठ ऋषिः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
विदुषी स्त्री को क्या करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! (या) जो तू (द्याम्) प्रकाश (पृथिवीम्) भूमि और (अन्तरिक्षम्) आकाश को (उरु) बहुत (आ, भासि) प्रकाशित करती है, उस (रश्मीवतीम्) शुद्ध विद्या के प्रकाश से युक्त (भास्वतीम्) शोभा को प्राप्त हुई (त्वा) तुझ को (आयोः) न्यायानुकूल चलनेवाले चिरंजीवी पुरुष के (सदने) स्थान में और (अवतः) रक्षा आदि करते हुए के (छायायाम्) आश्रय में (आ, सादयामि) अच्छे प्रकार स्थापित तथा (समुद्रस्य) अन्तरिक्ष के (हृदये) बीच (आ) शुद्ध प्रकार से मैं स्थित कराता हूँ ॥६३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे स्त्रि ! अच्छे प्रकार पालने हारे पति के आश्रयरूप स्थान में समुद्र के तुल्य चञ्चलतारहित गम्भीरतायुक्त प्यारी तुझ को स्थित करता हूँ। तू गृहाश्रम के धर्म का प्रकाश कर पति आदि को सुखी रख और तुझ को भी पति आदि सुखी रक्खें ॥६३ ॥
दयानन्द-सरस्वती (सं) - विषयः
विदुष्या किं कर्त्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! या त्वं द्यां पृथिवीमन्तरिक्षमुर्वाभासि तां रश्मीवतीं भास्वतीं वा त्वामायोः सदनेऽवतश्छायायामा सादयामि समुद्रस्य हृदयेऽहमा सादयामि ॥६३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे स्त्रि ! सम्यक् पालकस्य पत्युः सदने तदाश्रये समुद्रवदक्षोभां हृद्यां त्वां स्थापयामि त्वं गृहाश्रमधर्मं प्रकाश्य पत्यादीन् सुखय, त्वां चैते सुखयन्तु ॥६३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - चंचलतारहित समुद्राप्रमाणे गंभीर असणाऱ्या हे स्त्रिये ! उत्तम पतीच्या आश्रयाने गृहस्थाश्रमाचा स्वीकार करून धर्मयुक्त बनून पतीला सुखी कर. पतीनेही तुला सुखी करावे.
६४ परमेष्ठी त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
प॒र॒मे॒ष्ठी त्वा॑ सादयतु दि॒वस्पृ॒ष्ठे व्यच॑स्वतीं॒ प्रथ॑स्वतीं॒ दिवं॑ यच्छ॒ दिवं॑ दृँह॒ दिवं॒ मा हिँ॑सीः। विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑ च॒रित्राय॑। सूर्य॑स्त्वा॒भिपा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॒ शन्त॑मेन॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वे सी॑दतम् ॥६४ ॥
मूलम् ...{Loading}...
प॒र॒मे॒ष्ठी त्वा॑ सादयतु दि॒वस्पृ॒ष्ठे व्यच॑स्वतीं॒ प्रथ॑स्वतीं॒ दिवं॑ यच्छ॒ दिवं॑ दृँह॒ दिवं॒ मा हिँ॑सीः। विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑ च॒रित्राय॑। सूर्य॑स्त्वा॒भिपा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॒ शन्त॑मेन॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वे सी॑दतम् ॥६४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प॒र॒मे॒ष्ठी। प॒र॒मे॒स्थीति॑ परमे॒ऽस्थी। त्वा॒। सा॒द॒य॒तु॒। दि॒वः। पृ॒ष्ठे। व्यच॑स्वतीम्। प्रथ॑स्वतीम्। दिव॑म्। य॒च्छ॒। दिव॑म्। दृँ॒ह॒। दिव॑म्। मा। हिँ॒सीः॒। विश्व॑स्मै। प्रा॒णाय॑। अ॒पा॒नायेत्य॑पऽआ॒नाय॑। व्या॒नायेति॑ विऽआ॒नाय॑। उ॒दा॒नायेत्यु॑त्ऽआ॒नाय॑। प्र॒ति॒ष्ठायै॑। प्र॒ति॒स्थाया॒ इति॑ प्रति॒ऽस्थायै॑। च॒रित्रा॑य। सूर्य्यः॑। त्वा॒। अ॒भि। पा॒तु॒। म॒ह्या। स्व॒स्त्या। छ॒र्दिषा॑। शन्त॑मे॒नेति॒ शम्ऽत॑मेन। तया॑। दे॒वत॑या। अ॒ङ्गि॒र॒स्वत्। ध्रु॒वे। सी॒द॒त॒म्। ६४।
महीधरः
अधिमन्त्रम् (VC)
- परमात्मा देवता
- वसिष्ठ ऋषिः
- आकृतिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
स्त्री-पुरुष परस्पर कैसे हों, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! (परमेष्ठी) परमात्मा (विश्वस्मै) समग्र (प्राणाय) जीवन के सुख (अपानाय) दुःखनिवृत्ति (व्यानाय) नाना विद्याओं की व्याप्ति (उदानाय) उत्तम बल (प्रतिष्ठायै) सर्वत्र सत्कार और (चरित्राय) श्रेष्ठ कर्मों के अनुष्ठान के लिये (दिवः) कमनीय गृहस्थ व्यवहार के (पृष्ठे) आधार में (प्रथस्वतीम्) बहुत प्रसिद्ध प्रशंसावाली (व्यचस्वतीम्) प्रशंसित विद्या में व्याप्त जिस (त्वा) तुझ को (सादयतु) स्थापित करे, सो तू (दिवम्) न्याय प्रकाश को (यच्छ) दिया कर (दिवम्) विद्यारूप सूर्य को (दृंह) दृढ़ कर (दिवम्) धर्म के प्रकाश को (मा, हिंसीः) मत नष्ट कर (सूर्यः) चराचर जगत् का स्वामी ईश्वर (मह्या) बड़े अच्छे (स्वस्त्या) सत्कार (शन्तमेन) अतिशय सुख और (छर्दिषा) सत्यासत्य के प्रकाश से (त्वा) तुझ को (अभिपातु) सब ओर से रक्षा करे, वह तेरा पति और तू दोनों (तया) उस (देवतया) परमेश्वर देवता के साथ (अङ्गिरस्वत्) प्राण के तुल्य (ध्रुवे) निश्चल (सीदतम्) स्थिर रहो ॥६४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - परमेश्वर आज्ञा करता है कि जैसे शिशिर ऋतु सुखदायी होता है, वैसे स्त्री-पुरुष परस्पर सन्तोषी हों, सब उत्तम कर्मों का अनुष्ठान कर और दुष्ट कर्मों को छोड़ के परमेश्वर की उपासना से निरन्तर आनन्द किया करें ॥६४ ॥
दयानन्द-सरस्वती (सं) - विषयः
दम्पतीभ्यां कथं भवितव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! परमेष्ठी विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय दिवस्पृष्ठे प्रथस्वतीं व्यचस्वतीं यां त्वा त्वां सादयतु, सा त्वं दिवं यच्छ, दिवं दृंह दिवं मा हिंसीः, सूर्यो मह्या स्वस्त्या शन्तमेन छर्दिषा त्वाभिपातु स पतिस्त्वं च तया देवतयाऽङ्गिरस्वद् ध्रुवे सीदतम् ॥६४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - परमेश्वर आज्ञापयति यथा शिशिरर्त्तुः सुखप्रदो भवति तथा स्त्रीपुरुषौ परस्परं संतुष्टौ भूत्वा सर्वाण्युत्तमानि कर्माण्यनुष्ठाय दुष्टानि त्यक्त्वा परमेश्वरोपासनया च सततं प्रमोदेताम् ॥६४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - परमेश्वराची ही आज्ञा आहे की, जसा शिशिर ऋतू सुखकारक असतो तसे स्त्री-पुरुषांनी परस्पर संतुष्ट असावे व त्यांनी सर्व उत्तम कर्माचे अनुष्ठान करावे. वाईट कर्म सोडावे व परमेश्वराची उपासना करून सदैव आनंद प्राप्त करावा.
६५ सहस्रस्य प्रमासि
विश्वास-प्रस्तुतिः ...{Loading}...
स॒हस्र॑स्य प्र॒मासि॑ स॒हस्र॑स्य प्रति॒मासि॑ स॒हस्र॑स्यो॒न्मासि॑ सा॒ह॒स्रोऽसि स॒हस्रा॑य त्वा ॥६५ ॥
मूलम् ...{Loading}...
स॒हस्र॑स्य प्र॒मासि॑ स॒हस्र॑स्य प्रति॒मासि॑ स॒हस्र॑स्यो॒न्मासि॑ सा॒ह॒स्रोऽसि स॒हस्रा॑य त्वा ॥६५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स॒हस्र॑स्य। प्र॒मेति॑ प्र॒ऽमा। अ॒सि॒। स॒हस्र॑स्य। प्र॒ति॒मेति॑ प्रति॒ऽमा। अ॒सि॒। स॒हस्र॑स्य। उ॒न्मेत्यु॒त्ऽमा। अ॒सि॒। सा॒ह॒स्रः। अ॒सि॒। स॒हस्रा॑य। त्वा॒। ६५।
महीधरः
अधिमन्त्रम् (VC)
- विद्वान् देवता
- मधुच्छन्दा ऋषिः
- विराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को क्या करना चाहिये यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् पुरुष वा विदुषी स्त्रि ! जिस कारण तू (सहस्रस्य) असंख्यात पदार्थों से युक्त जगत् के (प्रमा) प्रमाण यथार्थ ज्ञान के तुल्य (असि) है, (सहस्रस्य) असंख्य विशेष पदार्थों के (प्रतिमा) तोलनसाधन के तुल्य (असि) है, (सहस्रस्य) असंख्य स्थूल वस्तुओं के (उन्मा) तोलने की तुला के समान (असि) है, (साहस्रः) असंख्य पदार्थ और विद्याओं से युक्त (असि) है, इस कारण (सहस्राय) असंख्यात प्रयोजनों के लिये (त्वा) तुझ को परमात्मा व्यवहार में स्थित करे ॥६५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। यहाँ पूर्वमन्त्र से परमेष्ठी, सादयतु इन दो पदों की अनुवृत्ति आती है। तीन साधनों से मनुष्यों के व्यवहार सिद्ध होते हैं। एक तो यथार्थविज्ञान, दूसरा पदार्थ तोलने के लिये तोल के साधन बाट और तीसरा तराजू आदि। यह शिशिर ऋतु का वर्णन पूरा हुआ ॥६५ ॥ इस अध्याय में ऋतुविद्या का प्रतिपादन होने से इस अध्याय के अर्थ की पूर्व अध्याय के अर्थ के साथ सङ्गति जाननी चाहिये ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्याणां श्रीमत्परमविदुषां विरजानन्दसरस्वतीस्वामिनां शिष्येण दयानदसरस्वतीस्वामिना निर्मिते संस्कृतार्य्यभाषाभ्यां विभूषिते सुप्रमाणयुक्ते यजुर्वेदभाष्ये पञ्चदशोऽध्यायः सम्पूर्णः ॥१५॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैः किं कर्त्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् विदुषि वा यतस्त्वं सहस्रस्य प्रमेवासि सहस्रस्य प्रतिमेवासि सहस्रस्योन्मेवासि साहस्रोऽसि तस्मात् सहस्राय त्वा त्वां परमेष्ठी सत्ये व्यवहारे सादयतु ॥६५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। पूर्वमन्त्रात् परमेष्ठी सादयत्विति पदद्वयमनुवर्त्तते। मनुष्याणां त्रिभिः साधनैर्व्यवहाराः सिध्यन्ति। एकं प्रमा यद्यथार्थविज्ञानम्, द्वितीया प्रतिमा यानि परिमाणसाधनानि पदार्थतोलनार्थानि, तृतीयमुन्मा तुलादिकं चेति ॥६५ ॥ इति शिशिरर्तोर्वर्णनम्। अत्रर्त्तुविद्याप्रतिपादनादेतदर्थस्य पूर्वाध्यायार्थेन सह सङ्गतिरस्तीति वेद्यम् ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. पूर्वीच्या मंत्रातील ‘परमेष्ठी’, ‘सादयतु’ या दोन पदांची अनुवृत्ती झालेली आहे. तीन साधनांनी मानवी व्यवहार सिद्ध होतात-एक यथार्थ विज्ञान, दुसरे पदार्थांचे वजन करण्याचे माप व तिसरा तराजू. येथे शिशिर ऋतूचे वर्णन पूर्ण होते.