०१ ध्रुवक्षितिर्ध्रुवयोनिर्ध्रुवासि ध्रुवम्
विश्वास-प्रस्तुतिः ...{Loading}...
ध्रु॒वक्षि॑तिर्ध्रु॒वयो॑निर्ध्रु॒वासि॑ ध्रु॒वं योनि॒मासी॑द साधु॒या। उख्य॑स्य के॒तुं प्र॑थ॒मं जु॑षा॒णाऽ अ॒श्विना॑ऽध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ॥१ ॥
मूलम् ...{Loading}...
ध्रु॒वक्षि॑तिर्ध्रु॒वयो॑निर्ध्रु॒वासि॑ ध्रु॒वं योनि॒मासी॑द साधु॒या। उख्य॑स्य के॒तुं प्र॑थ॒मं जु॑षा॒णाऽ अ॒श्विना॑ऽध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ॥१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ध्रु॒वक्षि॑ति॒रिति॑ ध्रु॒वऽक्षि॑तिः। ध्रु॒वयो॑नि॒रिति॑ ध्रु॒वऽयो॑निः। ध्रु॒वा। अ॒सि॒। ध्रु॒वम्। योनि॑म्। आ। सी॒द॒। सा॒धु॒येति॑ साधु॒ऽया। उख्य॑स्य। के॒तुम्। प्र॒थ॒मम्। जु॒षा॒णा। अ॒श्विना॑। अ॒ध्व॒र्यूऽइत्य॑ध्व॒र्यू। सा॒द॒य॒ता॒म्। इ॒ह। त्वा॒। १।
महीधरः
म० त्रयोदशेऽध्याये प्रथमा चितिरुक्ता सा भूलोकरूपा । ‘अयं वै लोकः प्रथमा चितिः’ ( ८ । २ । १ । १) इति श्रुतेः । चतुर्दशेऽध्याये द्वितीयादिचितित्रयं वक्ष्यते । भूमेरूर्ध्वमन्तरिक्षादर्वाग्भागो द्वितीया चितिः । ‘एतां द्वितीयां चितिमपश्यन् यदूर्ध्वं पृथिव्या अर्वाचीनमन्तरिक्षात्तेषामेष लोकः’ ( ८।२।१।२) इति श्रुतेः । देवैरश्विनौ प्रार्थितौ यद्युवां भिषजौ ततो द्वितीयां चितिमुपधत्तमिति ताभ्यामुक्तं चित्युपधाने किमावयोः फलमिति देवैरुक्तं युवां चित्युपधाने देवानामध्वर्यवो भविष्यथ इति ततस्ताभ्यां द्वितीया चितिरुपहितेति श्रुत्या ‘तेऽश्विनावब्रुवन्’ (८ । २ । १ । ३ ) इत्यादिकयोक्तम् । तत्रादौ पञ्चाश्विन्य इष्टकाः । द्वितीयचितिमन्त्रा देवदेवत्याः। ‘आश्विनीर्ध्रुवक्षितिरिति प्रतिमन्त्रम्’ (का. १७ । ८।१५) । पञ्चकण्डिकाभिराश्विनीसंज्ञा इष्टका रेतःसिग्वेलायामुपदधाति प्रतीष्टकं नित्ये इति सूत्रार्थः । पञ्चाश्विनीदेवत्याः प्रथमा विराट् चतस्रस्त्रिष्टुभो यजुरन्ताः । अश्विनाध्वर्यू इत्यादि यजुः । अदित्यास्त्वार्षी त्रिष्टुबेकाधिका पादानियमात् । हे इष्टके, यतस्त्वं ध्रुवा स्थिरासि अतो ध्रुवं स्थिरं योनिं स्थानं रेतः सिग्वेलालक्षणमासीद अधितिष्ठ । कीदृशम् । साधुया साधुं श्रेष्ठं ‘सुपां सुलुक्’ इत्यमो यादेशः । कीदृशी त्वम् । ध्रुवक्षितिः ध्रुवा स्थिरा क्षितिर्निवासो यस्याः सा । ध्रुवा अचला योनिः कारणं यस्याः सा । तथा उख्यस्याग्नेः प्रथममाद्यं केतुं स्थानं प्रथमचितिरूपं जुषाणा सेवमाना । अथवा ‘अग्निरुख्यस्तस्यैष प्रथमः केतुर्यत्प्रथमा चितिस्तां जुषाणा’ ( ८।२।१।४) ’ इति श्रुतेः । इतः परं यजुः । किंच अश्विना देवानामध्वर्यू इह रेतःसिग्वेलायां हे इष्टके, त्वा त्वां सादयतामुपधत्ताम् । केचिदिदं यजुश्चतुर्थपादेन परिकल्प्य त्रिष्टुभं वदन्ति ॥१॥
द्वितीया ।
अधिमन्त्रम् (VC)
- अश्विनौ देवते
- उशना ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब चौदहवें अध्याय का आरम्भ है, इस के पहिले मन्त्र में स्त्रियों के लिये उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! जो तू (साधुया) श्रेष्ठ धर्म के साथ (उख्यस्य) बटलोई में पकाये अन्न की सम्बन्धी और (प्रथमम्) विस्तारयुक्त (केतुम्) बुद्धि को (जुषाणा) प्रीति से सेवन करती हुई (ध्रुवक्षितिः) निश्चल वास करने और (ध्रुवयोनिः) निश्चल घर में रहनेवाली (ध्रुवा) दृढ़धर्म्म से युक्त (असि) है, सो तू (ध्रुवम्) निश्चल (योनिम्) घर में (आसीद) स्थिर हो (त्वा) तुझको (इह) इस गृहाश्रम में (अध्वर्यू) अपने लिये रक्षणीय गृहाश्रम आदि यज्ञ के चाहने हारे (अश्विना) सब विद्याओं में व्यापक अध्यापक और उपदेशक (सादयताम्) अच्छे प्रकार स्थापित करें ॥१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विदुषी पढ़ाने और उपदेश करने हारी स्त्रियों को योग्य है कि कुमारी कन्याओं को ब्रह्मचर्य अवस्था में गृहाश्रम और धर्म्मशिक्षा दे के इनको श्रेष्ठ करें ॥१ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथादिमे मन्त्रे स्त्रीभ्य उपदेशमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! या त्वं साधुयोख्यस्य प्रथमं केतुं जुषाणा ध्रुवक्षितिर्ध्रुवयोनिर्ध्रुवासि, सा त्वं ध्रुवं योनिमासीद। त्वा त्वामिहाध्वर्यू अश्विना सादयताम् ॥१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - कुमारीणां ब्रह्मचर्याऽवस्थायामध्यापिकोपदेशिके विदुष्यौ गृहाश्रमधर्मशिक्षां कृत्वैताः साध्वीः सम्पादयेताम् ॥१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - अध्यापन करणाऱ्या व उपदेश करणाऱ्या विदुषी स्रियांनी मुलींना ब्रह्मचर्यावस्थेत गृहस्थाश्रमाचे व धर्माचे शिक्षण देऊन श्रेष्ठ बनवावे.
०२ कुलायिनी घृतवती
विश्वास-प्रस्तुतिः ...{Loading}...
कु॒ला॒यिनी॑ घृ॒तव॑ती॒ पुर॑न्धिः स्यो॒ने सी॑द॒ सद॑ने पृथि॒व्याः। अ॒भि त्वा॑ रु॒द्रा वस॑वो गृणन्त्वि॒मा ब्रह्म॑ पीपिहि॒ सौभ॑गाया॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ॥२ ॥
मूलम् ...{Loading}...
कु॒ला॒यिनी॑ घृ॒तव॑ती॒ पुर॑न्धिः स्यो॒ने सी॑द॒ सद॑ने पृथि॒व्याः। अ॒भि त्वा॑ रु॒द्रा वस॑वो गृणन्त्वि॒मा ब्रह्म॑ पीपिहि॒ सौभ॑गाया॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ॥२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
कु॒ला॒यिनी॑। घृ॒तव॒तीति॑ घृ॒तऽव॑ती। पुर॑न्धि॒रिति॒ पुर॑म्ऽधिः। स्यो॒ने। सी॒द॒। सद॑ने। पृ॒थि॒व्याः। अ॒भि। त्वा॒। रु॒द्राः। वस॑वः। गृ॒ण॒न्तु॒। इ॒मा। ब्रह्म॑। पी॒पि॒हि॒। सौभ॑गाय। अ॒श्विना॑। अ॒ध्व॒र्यूऽइत्य॑ध्व॒र्यू। सा॒द॒य॒ता॒म्। इ॒ह। त्वा॒। २।
महीधरः
म० हे इष्टके, पृथिव्याः सदने प्रथमचितिरूपे स्थाने स्योने सुखरूपे त्वं सीद तिष्ठ । ‘पृथिवी वै प्रथमा चितिस्तस्यै शिवे स्योने सीद सदने’ ( ८ । २।१।५) इति श्रुतेः । त्वम् । कुलायिनी ‘कुलायो नीडमस्त्रियाम्’ कुलायो नीडं गृहमस्या अस्तीति गृहाकारा । रेतःसिग्वेलायामिष्टकोपचिता सा गृहाकारा भवति । ‘कुलायमिव वै द्वितीया चितिः’ (८ । २।१।५) इति श्रुतेः । अत्र सादृश्यार्थ इनिः । तथा घृतवती होष्यमाणाज्ययुता वसोर्धारा ह्यत्र होष्यन्ते । पुरन्धिः पुरं बहु इष्टकाजातं दधातीति पुरु बहुधा धीयते स्थाप्यत इति वा । किंच रुद्रा वसवश्चोपलक्षणम् । सर्वे देवाः त्वा त्वामभिगृणन्तु स्तुवन्तु । किंच सौभगाय ऐश्वर्याय इमा इमानि ब्रह्म ब्रह्माणि मन्त्रान् पीपिहि आप्यायस्व मन्त्रान् प्राप्नुहि ॥ अस्मन्मन्त्रोपहिता सौभाग्याय भवेति भावः । इमेति सुप आकारः । ब्रह्मेति सुपो लोपः । ‘पि गतौ’ तुदादिः । ‘बहुलं छन्दसि’ (पा. २ । ४ । ७६ ) इति शपः श्लुः ‘श्लौ’ (पा० । ६ । १ । १० ) इति द्वित्वं ‘तुजादीनां दीर्घोऽभ्यासस्य’ (पा० ६ । १।७) इति अभ्यासदीर्घः । अश्विनेत्यादि पूर्ववत् ॥ २॥
तृतीया ।
अधिमन्त्रम् (VC)
- अश्विनौ देवते
- उशना ऋषिः
- निचृद्ब्राह्मी बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर पूर्वोक्त विषय का अगले मन्त्र में उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (स्योने) सुख करने हारी ! जिस (त्वा) तुझ को (वसवः) प्रथम कोटि के विद्वान् और (रुद्राः) मध्य कक्षा के विद्वान् (इमा) इन (ब्रह्म) विद्याधनों के देनेवाले गृहस्थों की (अभि) अभिमुख होकर (गृणन्तु) प्रशंसा करें, सो तू (सौभगाय) सुन्दर संपत्ति होने के लिये इन विद्याधन को (पीपिहि) अच्छे प्रकार प्राप्त हो, (घृतवती) बहुत जल और (पुरन्धिः) बहुत सुख धारण करनेवाली (कुलायिनी) प्रशंसित कुल की प्राप्ति से युक्त हुई (पृथिव्याः) अपनी भूमि के (सदने) घर में (सीद) स्थित हो, (अध्वर्यू) अपने लिये रक्षणीय गृहाश्रम आदि यज्ञ चाहनेवाले (अश्विना) सब विद्याओं में व्यापक और उपदेशक पुरुष (त्वा) तुझको (इह) इस गृहाश्रम में (सादयताम्) स्थापित करें ॥२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - स्त्रियों को योग्य है कि साङ्गोपाङ्ग पूर्ण विद्या और धन ऐश्वर्य का सुख भोगने के लिये अपने सदृश पतियों से विवाह करके विद्या और सुवर्ण आदि धन को पाके सब ऋतुओं में सुख देने हारे घरों में निवास करें तथा विद्वानों का सङ्ग और शास्त्रों का अभ्यास निरन्तर किया करें ॥२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स एव विषय उपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्योने ! यां त्वा त्वां वसवो रुद्राश्चेमा ब्रह्मदातॄन् ग्रहीतॄनभिगृणन्तु सा त्वं सौभगायैतानि पीपिहि। घृतवती पुरन्धिः कुलायिनी सती पृथिव्याः सदने सीद। अध्वर्यू अश्विना त्वेह सादयताम् ॥२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - स्त्रियः साङ्गोपाङ्गागमैश्वर्यसुखभोगाय स्वसदृशान् पतीनुपयम्य विद्यासुवर्णादिधनं प्राप्य सर्वर्त्तुसुखसाधकेषु गृहेषु निवसन्तु। विदुषां सङ्गं शास्त्राभ्यासं च सततं कुर्युः ॥२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - स्त्रियांनी संपूर्ण विद्या व ऐश्वर्यसुख भोगण्यासाठी आपल्या सारख्या गुणांच्या पतींशी विवाह करून विद्या व सुवर्ण इत्यादी धन प्राप्त करून सर्व ऋतुंमध्ये सुख देणाऱ्या घरात निवास करावा व विद्वानांची संगती करून निरंतर शास्त्राचा अभ्यास करावा.
०३ स्वैर्दक्षैर्दक्षपितेह सीद
विश्वास-प्रस्तुतिः ...{Loading}...
स्वैर्दक्षै॒र्दक्ष॑पिते॒ह सी॑द दे॒वानाँ॑सु॒म्ने बृ॑ह॒ते रणा॑य। पि॒तेवै॑धि सू॒नव॒ऽआ सु॒शेवा॑ स्वावे॒शा त॒न्वा᳙ संवि॑शस्वा॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ॥३ ॥
मूलम् ...{Loading}...
स्वैर्दक्षै॒र्दक्ष॑पिते॒ह सी॑द दे॒वानाँ॑सु॒म्ने बृ॑ह॒ते रणा॑य। पि॒तेवै॑धि सू॒नव॒ऽआ सु॒शेवा॑ स्वावे॒शा त॒न्वा᳙ संवि॑शस्वा॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ॥३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स्वैः। दक्षैः॑। दक्ष॑पि॒तेति॒ दक्ष॑ऽपिता। इ॒ह। सी॒द॒। दे॒वाना॑म्। सु॒म्ने। बृ॒ह॒ते। रणा॑य। पि॒तेवेति॑ पि॒ताऽइ॑व। ए॒धि॒। सू॒नवे॑। आ। सु॒शेवेति॑ सु॒ऽशेवा॑। स्वा॒वे॒शेति॑ सुऽआवे॒शा। तन्वा᳙। सम्। वि॒श॒स्व॒। अ॒श्विना॑। अ॒ध्व॒र्यूऽइत्य॑ध्व॒र्यू। सा॒द॒य॒ता॒म्। इ॒ह। त्वा॒। ३।
महीधरः
म० हे इष्टके, त्वमिह द्वितीयायां चितौ सीद तिष्ठ स्वैर्दक्षैः वीर्यैः सामर्थ्यैः सह । दक्षशब्दोऽत्र वीर्यार्थः । ‘स्वेन वीर्येणेह | सीद’ (८।२।१।६) इति श्रुतेः । कीदृशी । दक्षपिता दक्षं वीर्यं पातीति वीर्यस्य पालयित्री। किमर्थं स्थातव्यं तत्राह । रणाय रमणीयाय बृहते सुम्ने सुम्नाय सुखाय । सप्तमी चतुर्थ्यर्थे । ‘देवानाᳪं᳭ सुम्नाय महते रणाय’ ( ८।२।१।६) इति श्रुतेः । देवाः सुखिनो भवन्त्विति तिष्ठेत्यर्थः । किंच आसमन्ताद्भावेन सुशेवा शोभनं शेवं सुखं यस्यास्तादृशी सर्वदा सुखयित्री एधि भव ‘ध्वसोरेद्धौ-’ (पा० ६ । ४ । ११९) इत्येकारः । तत्र दृष्टान्तः । पिता सूनव इव यथा पिता जनकः सूनवे पुत्राय सुशेवः सुखयिता भवति तद्वत् । किंच स्वावेशा सुखेनाविशति स्वावेशा । प्रथमा तृतीयार्थे । स्वावेशया सुखप्रवेशवत्या तन्वा शरीरेण संविशस्व अवस्थानं कुरु । ‘स्वावेशेनात्मना संविशस्व’ (८ । २।१।६) इति श्रुतेः । अश्विनेत्युक्तम् ॥ ३ ॥
चतुर्थी।
अधिमन्त्रम् (VC)
- अश्विनौ देवते
- उशना ऋषिः
- विराड्ब्राह्मी बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी पूर्वोक्त विषय को ही अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! तू जैसे (स्वैः) अपने (दक्षैः) बलों और चतुर भृत्यों के साथ वर्तता हुआ (देवानाम्) धर्म्मात्मा विद्वानों के मध्य में वर्त्तमान (बृहते) बड़े (रणाय) संग्राम के लिये (सुम्ने) सुख के विषय (दक्षपिता) बलों वा चतुर भृत्यों का पालन करने हारा होके विजय से बढ़ता है, वैसे (इह) इस लोक के मध्य में (एधि) बढ़ती रह। (सुम्ने) सुख में (आसीद) स्थिर हो और (पितेव) जैसे पिता (सूनवे) अपने पुत्र के लिये सुन्दर सुख देता है, वैसे (सुशेवा) सुन्दर सुख से युक्त (स्वावेशा) अच्छी प्रीति से सुन्दर, शुद्ध शरीर, वस्त्र, अलंकार को धारण करती हुई अपने पति के साथ प्रवेश करने हारी होके (तन्वा) शरीर के साथ (संविशस्व) प्रवेश कर और (अध्वर्यू) गृहाश्रमादि यज्ञ की अपने लिये इच्छा करनेवाले (अश्विना) पढ़ाने और उपदेश करने हारे जन (त्वा) तुझ को (इह) इस गृहाश्रम में (सादयताम्) स्थित करें ॥३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। स्त्रियों को चाहिये कि युद्ध में भी अपने पतियों के साथ स्थित रहें। अपने नौकर, पुत्र और पशु आदि की पिता के समान रक्षा करें और नित्य ही वस्त्र और आभूषणों से अपने शरीरों को संयुक्त करके वर्त्तें। विद्वान् लोग भी इन को सदा उपदेश करें और स्त्री भी इन विद्वानों के लिये सदा उपदेश करें ॥३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! त्वं यथा स्वैर्दक्षैः सह वर्तमानो देवानां बृहते रणाय सुम्ने दक्षपिता विजयेन वर्धते तथेहैधि। सुम्न आसीद, पितेव सूनवे सुशेवा स्वावेशा सती तन्वा संविशस्व। अध्वर्यू अश्विना त्वेह सादयताम् ॥३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। स्त्रियो युद्धेऽपि पतिभिः सह तिष्ठेयुः, स्वकीयभृत्यपुत्रपश्वादीन् पितर इव पालयेयुः। सदैवात्युत्तमैर्वस्त्रभूषणैः शरीराणि संसृज्य वर्तेरन्। विद्वांसश्चैवमेताः सदोपदिशेयुः स्त्रियोऽप्येतांश्च ॥३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. स्त्रियांनी युद्धातही आपल्या पतीबरोबर राहावे. आपले नोकर, पुत्र, पशू इत्यादींचे पित्याप्रमाणे रक्षण करावे व सदैव वस्त्र आणि आभूषणांनी आपले शरीर अलंकृत करावे. विद्वान लोकांनीही त्यांना नेहमी उपदेश करून गृहस्थाश्रमात स्थित करावे.
०४ पृथिव्याः पुरीषमस्यप्सो
विश्वास-प्रस्तुतिः ...{Loading}...
पृ॒थि॒व्याः पुरी॑षम॒स्यप्सो॒ नाम॒ तां त्वा॒ विश्वे॑ऽअ॒भिगृ॑णन्तु दे॒वाः। स्तोम॑पृष्ठा घृ॒तव॑ती॒ह सी॑द प्र॒जाव॑द॒स्मे द्रवि॒णा य॑जस्वा॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ॥४ ॥
मूलम् ...{Loading}...
पृ॒थि॒व्याः पुरी॑षम॒स्यप्सो॒ नाम॒ तां त्वा॒ विश्वे॑ऽअ॒भिगृ॑णन्तु दे॒वाः। स्तोम॑पृष्ठा घृ॒तव॑ती॒ह सी॑द प्र॒जाव॑द॒स्मे द्रवि॒णा य॑जस्वा॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ॥४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पृ॒थि॒व्याः। पुरी॑षम्। अ॒सि॒। अप्सः॑। नाम॑। ताम्। त्वा॒। विश्वे॑। अ॒भि। गृ॒ण॒न्तु॒। दे॒वाः। स्तोम॑पृ॒ष्ठेति॒ स्तोम॑ऽपृष्ठा। घृ॒तव॒तीति॑ घृ॒तऽव॑ती। इ॒ह। सी॒द॒। प्र॒जाव॒दिति॑ प्रजाऽव॑त्। अ॒स्मेऽइत्य॒स्मे। द्रवि॑णा। आ। य॒ज॒स्व॒। अ॒श्विना॑। अ॒ध्व॒र्यूऽ इत्य॑ध्व॒र्यू। सा॒द॒य॒ता॒म्। इ॒ह। त्वा॒। ४।
महीधरः
म० हे इष्टके, त्वं पृथिव्याः प्रथमचितेः पुरीषं पूरकं वस्त्वसि । ‘पृथिवी वै प्रथमा चितिस्तस्या एतत्पुरीषमिव यद्द्वितीया’ ( ८।२।१।७) इति श्रुतेः । पृणाति पूरयति पुरीषम् । ‘शॄपॄभ्यां कित्’ ( उणा० ४ । २७) पृणातेरीषन्प्रत्ययः । किंच कित्त्वात् ‘उदोष्ठ्यपूर्वस्य’ (पा. ७।१।१०२) इत्युदादेशो रपरत्वं च । नित्त्वादाद्युदात्तः । अपः सनोति ददातीत्यप्सो नामापां कारणीभूतो रसश्च त्वमसि । तां तादृशीं प्रथमचितिपूरिकां जलदरसभूतां त्वां त्वा विश्वे सर्वे देवा अभिगृणन्तु सर्वतः स्तुवन्तु । किंच स्तोमपृष्ठाः स्तोमास्त्रिवृदादयः पृष्ठानि रथन्तरादीनि पठिष्यमाणानि यस्यां सा तादृशी स्तोमपृष्ठवती । घृतवती होष्यमाणाज्ययुता सतीह द्वितीयश्चितौ सीद तिष्ठ । ततः प्रजावत् पुत्रपौत्रादिप्रजायुक्तं द्रविणा द्रविणं धनमस्मे अस्मभ्यमायजस्व समन्ताद्देहि । यजतिरिह दानार्थः । अस्मे इति सुपां सुलुगिति विभक्तेः शेआदेशः । व्याख्यातमन्यत् ॥ ४ ॥
पञ्चमी ।
अधिमन्त्रम् (VC)
- अश्विनौ देवते
- उशना ऋषिः
- भुरिग्ब्राह्मी बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! जो (स्तोमपृष्ठा) स्तुतियों को जानने की इच्छायुक्त तू (इह) इस गृहाश्रम में (पृथिव्याः) पृथिवी की (पुरीषम्) रक्षा (अप्सः) सुन्दररूप और (नाम) नाम और (घृतवती) बहुत घी आदि प्रशंसित पदार्थों से युक्त (असि) है, (ताम्) उस (त्वा) तुझको (विश्वे) सब (देवाः) विद्वान् लोग (अभिगृणन्तु) सत्कार करें, (इह) इसी गृहाश्रम में (सीद) वर्त्तमान रह और जिस (त्वा) तुझ को (अध्वर्यू) अपने लिये रक्षणीय गृहाश्रमादि यज्ञ चाहनेवाले (अश्विना) व्यापक बुद्धि बढ़ाने और उपदेश करने हारे (इह) इस गृहाश्रम में (सादयताम्) स्थित करें सो तू (अस्मे) हमारे लिये (प्रजावत्) प्रशंसित सन्तान होने का साधन (द्रविणा) धन (यजस्व) दे ॥४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो स्त्री गृहाश्रम की विद्या और क्रिया-कौशल में विदुषी हों, वे ही सब प्राणियों को सुख दे सकती हैं ॥४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! या स्तोमपृष्ठा त्वमिह पृथिव्याः पुरीषमप्सो नाम च घृतवत्यसि, तां त्वा विश्वे देवा अभिगृणन्त्विह सीद। त्वाऽध्वर्यू अश्विनेहासादयतां सा त्वमस्मे प्रजावद् द्रविणा यजस्व ॥४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - याः स्त्रियो गृहाश्रमविद्याक्रियाकौशलयोर्विदुष्यः स्युस्ता एव सर्वेभ्यः सुखानि दातुमर्हन्ति ॥४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्या स्त्रीच्या ठायी गृहस्थाश्रमातील विद्या व कर्मकौशल्य असते तीच सगळ्यांना सुख देऊ शकते.
०५ अदित्यास्त्वा पृष्ठे
विश्वास-प्रस्तुतिः ...{Loading}...
अदि॑त्यास्त्वा पृ॒ष्ठे सा॑दयाम्य॒न्तरि॑क्षस्य ध॒र्त्रीं वि॒ष्टम्भ॑नीं दि॒शामधि॑पत्नीं॒ भुव॑नानाम्। ऊ॒र्मिर्द्र॒प्सोऽअ॒पाम॑सि वि॒श्वक॑र्मा त॒ऽऋषि॑रश्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ॥५ ॥
मूलम् ...{Loading}...
अदि॑त्यास्त्वा पृ॒ष्ठे सा॑दयाम्य॒न्तरि॑क्षस्य ध॒र्त्रीं वि॒ष्टम्भ॑नीं दि॒शामधि॑पत्नीं॒ भुव॑नानाम्। ऊ॒र्मिर्द्र॒प्सोऽअ॒पाम॑सि वि॒श्वक॑र्मा त॒ऽऋषि॑रश्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ॥५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अदि॑त्याः। त्वा॒। पृ॒ष्ठे। सा॒द॒या॒मि। अ॒न्तरि॑क्षस्य। ध॒र्त्रीम्। वि॒ष्टम्भ॑नीम्। दि॒शाम्। अधि॑पत्नी॒मित्यधि॑ऽपत्नीम्। भुव॑नानाम्। ऊ॒र्मिः। द्र॒प्सः। अ॒पाम्। अ॒सि॒। वि॒श्वक॒र्मेति॑ वि॒श्वऽक॑र्मा। ते॒। ऋषिः॑। अ॒श्विना॑। अ॒ध्व॒र्यूऽइत्य॑ध्व॒र्यू। सा॒द॒य॒ता॒म्। इ॒ह। त्वा॒। ५।
महीधरः
म० हे इष्टके, अदित्याः प्रथमचितिरूपायाः पृथिव्याः पृष्ठे उपरि त्वा त्वां सादयामि स्थापयामि । किंभूतां त्वाम् ॥ अन्तरिक्षस्य भुवर्लोकस्य धर्त्रीं धारयित्रीम् । दिशां पूर्वादीनां विष्टम्भनीं संस्तम्भनकर्त्रीं भुवनानां भूतजातानामधिपत्नीं स्वामिनीम् । किंच त्वमपां द्रप्सो रस ऊर्मिरसि रसरूपः कल्लोलस्त्वमसि । विश्वकर्मा प्रजापतिस्ते तव ऋषिः द्रष्टा । तं त्वामश्विनौ सादयतामित्युक्तम् ॥ ५॥
षष्ठी ।
अधिमन्त्रम् (VC)
- अश्विनौ देवते
- उशना ऋषिः
- स्वराड्ब्राह्मी बृहती
- मध्यमः
०६ शुक्रश्च शुचिश्च
विश्वास-प्रस्तुतिः ...{Loading}...
शु॒क्रश्च॒ शुचि॑श्च॒ ग्रैष्मा॑वृ॒तूऽ अ॒ग्नेर॑न्तःश्लेषो᳖ऽसि॒ कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ऽ ओष॑धयः॒ कल्प॑न्ताम॒ग्नयः॒ पृथ॒ङ् मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः। येऽअ॒ग्नयः॒ सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वीऽइ॒मे। ग्रैष्मा॑वृ॒तूऽ अ॑भि॒कल्प॑माना॒ऽइन्द्र॑मिव दे॒वाऽअ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वे सी॑दतम् ॥६ ॥
मूलम् ...{Loading}...
शु॒क्रश्च॒ शुचि॑श्च॒ ग्रैष्मा॑वृ॒तूऽ अ॒ग्नेर॑न्तःश्लेषो᳖ऽसि॒ कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ऽ ओष॑धयः॒ कल्प॑न्ताम॒ग्नयः॒ पृथ॒ङ् मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः। येऽअ॒ग्नयः॒ सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वीऽइ॒मे। ग्रैष्मा॑वृ॒तूऽ अ॑भि॒कल्प॑माना॒ऽइन्द्र॑मिव दे॒वाऽअ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वे सी॑दतम् ॥६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
शु॒क्रः। च॒। शुचिः॑। च॒। ग्रैष्मौ॑। ऋ॒तू। अ॒ग्नेः। अ॒न्तः॒श्ले॒ष इत्य॑न्तःऽश्ले॒षः। अ॒सि॒। कल्पे॑ताम्। द्यावा॑पृथि॒वी इति॒ द्यावा॑ऽपृथि॒वी। कल्प॑न्ताम्। आपः॑। ओष॑धयः। कल्प॑न्ताम्। अ॒ग्नयः॑। पृथ॑क्। मम॑। ज्यैष्ठ्या॑य। सव्र॑ता॒ इति॒ सऽव्र॑ताः। ये। अ॒ग्नयः॑। सम॑नस॒ इति॒ सऽम॑नसः। अ॒न्त॒रा। द्यावा॑पृथि॒वी इति॒ द्यावा॑ऽपृथि॒वी। इ॒मेऽइती॒मे। ग्रैष्मौ॑। ऋ॒तूऽइत्यृ॒तू। अ॒भि॒कल्प॑माना॒ इत्य॑भि॒ऽकल्प॑मानाः। इन्द्र॑मि॒वेतीन्द्र॑म्ऽइव। दे॒वाः। अ॒भि॒संवि॑श॒न्त्वित्य॑भि॒ऽसंवि॑शन्तु। तया॑। दे॒वत॑या। अ॒ङ्गि॒र॒स्वत्। ध्रु॒वे इति॑ ध्रु॒वे। सी॒द॒त॒म्। ६।
महीधरः
म०. ‘शुक्रश्च शुचिश्चेत्यृतव्ये पूर्वयोरुपरि’ (का. १७ । ८ । १६) । प्रथमचित्युपहितयोर्ऋतव्ययोरुपरि द्वे ऋतव्ये पद्ये प्राग्लक्षणे अनूकमभित उदङ्मुख उपदधाति शुक्रश्च शुचिश्चेति प्रत्येकमुपधाय । ग्रैष्मावृतू इति मन्त्रशेषो द्वे अप्यालभ्य पठ्य इति सूत्रार्थः । उत्कृतिच्छन्दः । शुक्रो ज्येष्ठमासः शुचिराषाढः तौ ग्रैष्मावृतू ग्रीष्मसंबन्धिनौ ऋत्ववयवौ । अन्यद्व्याख्यातम् ॥ ६॥
सप्तमी।
अधिमन्त्रम् (VC)
- ग्रीष्मर्तुर्देवता
- उशना ऋषिः
- निचृदुत्कृतिः
- षड्जः
०७ सजूर्ऋतुभिः सजूर्विधाभिः
विश्वास-प्रस्तुतिः ...{Loading}...
स॒जूर्ऋ॒तुभिः॑ स॒जूर्वि॒धाभिः॑ स॒जूर्दे॒वैः स॒जूर्दे॒वैर्व॑योना॒धैर॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ स॒जूर्ऋ॒तुभिः॑ स॒जूर्वि॒धाभिः॑ स॒जूर्वसु॑भिः स॒जूर्दे॒वैर्व॑योना॒धैर॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ऽध्व॒र्यू सा॑दयतामि॒ह त्वा॑ स॒जूर्ऋ॒तुभिः॑ स॒जूर्वि॒धाभिः॑ स॒जू रु॒द्रैः स॒जूर्दे॒वैर्व॑योना॒धैर॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ स॒जूर्ऋ॒तुभिः॑ स॒जूर्वि॒धाभिः॑ स॒जूरा॑दि॒त्यैः स॒जूर्दे॒वैर्व॑योना॒धैर॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ स॒जूर्ऋ॒तुभिः॑ स॒जूर्वि॒धाभिः॑ स॒जूर्वि॒श्वै॑र्दे॒वैः स॒जूर्दे॒वैर्व॑योना॒धैर॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ॥७ ॥
मूलम् ...{Loading}...
स॒जूर्ऋ॒तुभिः॑ स॒जूर्वि॒धाभिः॑ स॒जूर्दे॒वैः स॒जूर्दे॒वैर्व॑योना॒धैर॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ स॒जूर्ऋ॒तुभिः॑ स॒जूर्वि॒धाभिः॑ स॒जूर्वसु॑भिः स॒जूर्दे॒वैर्व॑योना॒धैर॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ऽध्व॒र्यू सा॑दयतामि॒ह त्वा॑ स॒जूर्ऋ॒तुभिः॑ स॒जूर्वि॒धाभिः॑ स॒जू रु॒द्रैः स॒जूर्दे॒वैर्व॑योना॒धैर॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ स॒जूर्ऋ॒तुभिः॑ स॒जूर्वि॒धाभिः॑ स॒जूरा॑दि॒त्यैः स॒जूर्दे॒वैर्व॑योना॒धैर॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ स॒जूर्ऋ॒तुभिः॑ स॒जूर्वि॒धाभिः॑ स॒जूर्वि॒श्वै॑र्दे॒वैः स॒जूर्दे॒वैर्व॑योना॒धैर॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ॥७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स॒जूरिति॑ स॒ऽजूः। ऋ॒तुभि॒रित्यृ॒तुऽभिः॑। स॒जूरिति॑ स॒ऽजूः। वि॒धाभि॒रिति॑ वि॒ऽधाभिः॑। स॒जूरिति॑ स॒ऽजूः। दे॒वैः। स॒जूरिति॑ स॒ऽजूः। दे॒वैः। व॒यो॒ना॒धैरिति॑ वयःऽना॒धैः। अ॒ग्नये॑। त्वा॒। वै॒श्वा॒न॒राय॑। अ॒श्विना॑। अ॒ध्व॒र्यूऽइत्य॑ध्व॒र्यू। सा॒द॒य॒ता॒म्। इ॒ह। त्वा॒। स॒जूरिति॑ स॒ऽजूः। ऋ॒तुभि॒रित्यृ॒तुऽभिः॑। स॒जूरिति॑ स॒ऽजूः। वि॒धाभि॒रिति॑ वि॒ऽधाभिः॑। स॒जूरिति॑ स॒ऽजूः। वसु॑भि॒रिति॒ वसु॑ऽभिः। स॒जूरिति॑ स॒ऽजूः। दे॒वैः। व॒यो॒ना॒धैरिति॑ वयःऽना॒धैः। अ॒ग्नये॑। त्वा॒। वै॒श्वा॒न॒राय॑। अ॒श्विना॑। अ॒ध्व॒र्यूऽइत्य॑ध्व॒र्यू सा॒द॒य॒ता॒म्। इ॒ह। त्वा॒। स॒जूरिति॑ स॒ऽजूः। ऋ॒तुभि॒रित्यृ॒तुऽभिः॑। स॒जूरिति॑ स॒ऽजूः। वि॒धाभि॒रिति॑ वि॒ऽधाभिः॑। स॒जूरिति॑ स॒ऽजूः। रु॒द्रैः। स॒जूरिति॑ स॒ऽजूः। दे॒वैः। व॒यो॒ना॒धैरिति॑ वयःऽना॒धैः। अ॒ग्नये॑। त्वा॒। वै॒श्वा॒न॒राय॑। अ॒श्विना॑। अ॒ध्व॒र्यूऽइत्य॑ध्व॒र्यू। सा॒द॒य॒ता॒म्। इ॒ह। त्वा॒। स॒जूरिति॑ स॒ऽजूः। ऋ॒तुभि॒रित्यृ॒तुऽभिः॑। स॒जूरिति॑ स॒ऽजूः। वि॒धाभि॒रिति॑ वि॒ऽधाभिः॑। स॒जूरिति॑ स॒ऽजूः। आ॒दि॒त्यैः। स॒जूरिति॑ स॒ऽजूः। दे॒वैः। व॒यो॒ना॒धैरिति॑ वयःऽना॒धैः। अ॒ग्नये॑। त्वा॒। वै॒श्वा॒न॒राय॑। अ॒श्विना॑। अ॒ध्व॒र्यूऽइत्य॑ध्व॒र्यू। सा॒द॒य॒ता॒म्। इ॒ह। त्वा॒। स॒जूरिति॑ स॒ऽजूः। ऋ॒तुभि॒रित्यृ॒तुऽभिः॑। स॒जूरिति॑ स॒ऽजूः। वि॒धाभि॒रिति॑ वि॒ऽधाभिः॑। स॒जूरिति॑ स॒ऽजूः। विश्वैः॑। दे॒वैः। स॒जूरिति॑ स॒ऽजूः। दे॒वैः। व॒यो॒ना॒धैरिति॑ वयःऽना॒धैः। अ॒ग्नये॑। त्वा॒। वै॒श्वा॒न॒राय॑। अ॒श्विना॑। अ॒ध्व॒र्यूऽइत्य॑ध्व॒र्यू। सा॒द॒य॒ता॒म्। इ॒ह। त्वा॒। ७।
महीधरः
म० ‘वैश्वदेवीः सजूर्ऋतुभिरिति प्रतिमन्त्रम्’ (का० १७ । ८ । १७ ) पञ्च मन्त्रैः पञ्च वैश्वदेवीसंज्ञा इष्टकाः पूर्वादिषूपदधातीत्यर्थः । विश्वदेवदृष्टानि विश्वदेवदेवत्यानि पञ्च यजूंषि । हे इष्टके, देवानामध्वर्यू अश्विना अश्विनौ तां त्वा त्वामिह स्थाने द्वितीयचितौ सादयताम् । किमर्थम् । वैश्वानराय विश्वेभ्यः सर्वेभ्यो नरेभ्यो हितायाग्नयेऽग्नितृप्तये । अग्नये त्वेति त्वाशब्दो या इति प्रथमार्थे । प्रातिपदिकसुपोर्व्यत्ययः । तां काम् , या त्वमृतुभिः सजूः जोषणं जुट् प्रीतिः ‘जुषी प्रीतिसेवनयोः’ संपदादित्वाद्भावे क्विप् । समाना जूः प्रीतिर्यस्याः सा सजूः ‘समानस्य छन्दस्यमूर्ध-’ (पा० ६ । ३ । ८४ ) इति समानस्य सादेशः। वसन्तादिभिर्या त्वं प्रीतिमती । तथाविधाभिः या त्वम् सजू: असि विदधति सृजन्ति जगदिति विधा आपस्ताभिः । ‘आपो वै विधा अद्भिर्हीदᳪं᳭ सर्वं विहितम्’ (८ । २ । २ । ८) इति श्रुतेः । ‘अप एव ससर्जादौ’ ( मनुः १ । ८ ) इति स्मृतेश्च । तथा देवैरिन्द्रादिभिश्च सजूः तथा वयो बाल्यादि नह्यन्ति बध्नन्ति ते वयोनाधाः प्राणा देवा दीप्यमानास्तैश्च सजूः । ‘प्राणा वै वयोनाधाः प्राणैर्हीदᳪं᳭ सर्वं वयुनं नद्धम्’ ( ८।२।२ । ८) इति श्रुतेः । यद्वा वयोनाधैर्देवैश्छन्दोभिः सजूः । ‘अथो छन्दाᳪं᳭सि वे देवा वयोनाधाश्छन्दोभिर्हीदᳪं᳭ सर्वं वयुनं नद्धम् ( ८ । २ । २।८) इति श्रुतेः । एवमुत्तरमन्त्रेष्वपि । यद्वा ऋतुदेवप्राणान् जनयित्वा तैः सजूः सयुग्भूत्वा प्रजापतिर्यथा त्वामुपहितवानेवमहमप्यग्नये त्वामुपदधामीति शेषः । अश्विनौ चेह त्वां सादयताम् ‘तदृतून प्राजनयदृतुभिर्वै सयुग्भूत्वा’ ( ८ । २ । २ । ८) इति श्रुतेः । उत्तरचतुर्मन्त्रेषु वसुभिः रुद्रैः आदित्यैर्विश्वैर्देवैः सजूरिति विशेषः । शेषं पूर्वतुल्यम् ॥ ७ ॥
अष्टमी।
अधिमन्त्रम् (VC)
- वस्वादयो मन्त्रोक्ता देवताः
- विश्वेदेवा ऋषयः
- भुरिक्पङ्क्तिः, स्वराट्पङ्क्तिः, निचृदाकृतिः
- धैवतः, पञ्चमः
०८ प्राणम्मे पाह्यपानम्मे
विश्वास-प्रस्तुतिः ...{Loading}...
प्रा॒णम्मे॑ पाह्यपा॒नम्मे॑ पाहि व्या॒नम्मे॑ पाहि॒ चक्षु॑र्मऽउ॒र्व्या विभा॑हि॒ श्रोत्र॑म्मे श्लोकय। अ॒पः पि॒न्वौष॑धीर्जिन्व द्वि॒पाद॑व॒ चतु॑ष्पात् पाहि दि॒वो वृष्टि॒मेर॑य ॥८ ॥
मूलम् ...{Loading}...
प्रा॒णम्मे॑ पाह्यपा॒नम्मे॑ पाहि व्या॒नम्मे॑ पाहि॒ चक्षु॑र्मऽउ॒र्व्या विभा॑हि॒ श्रोत्र॑म्मे श्लोकय। अ॒पः पि॒न्वौष॑धीर्जिन्व द्वि॒पाद॑व॒ चतु॑ष्पात् पाहि दि॒वो वृष्टि॒मेर॑य ॥८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्रा॒णम्। मे॒। पा॒हि॒। अ॒पा॒नमित्य॑पऽआ॒नम्। मे॒। पा॒हि॒। व्या॒नमिति॑ विऽआ॒नम्। मे॒। पा॒हि॒। चक्षुः॑। मे॒। उ॒र्व्या। वि। भा॒हि॒। श्रोत्र॑म्। मे॒। श्लो॒क॒य॒। अ॒पः। पि॒न्व॒। ओष॑धीः। जि॒न्व॒। द्वि॒पादिति॑ द्वि॒ऽपात्। अ॒व॒। चतु॑ष्पात्। चतुः॑पा॒दिति॒ चतुः॑ऽपात्। पा॒हि॒। दि॒वः। वृष्टि॑म्। आ। ई॒र॒य॒। ८।
महीधरः
म० ‘प्राणभृतः प्राणं म इति’ ( का० १७ । ८ । २०) पञ्चयजुर्भिः प्राणभृत्संज्ञका इष्टकाः पूर्वादिषूपदधाति । पञ्च वायुदेवत्यानि यजूंषि । ‘प्राणो वै वायुर्वायुमेवास्मिन्नेतद्दधाति’ (८।२।३ । २) इति श्रुतेः । हे इष्टके, त्वं मे मम प्राणं प्राणरूपं वायुं पाहि पालय । एवमपानं मम पाहि । व्यानं वायुं च मे मम पाहि । उर्व्या विस्तीर्णया दृष्ट्या मे चक्षुर्विभाहि विशेषेण प्रकाशय । दर्शनसमर्थं कुर्वित्यर्थः । मम श्रोत्रं कर्णेन्द्रियं श्लोकय सङ्घाते शक्तं कुरु । ‘श्लोकृ सङ्घाते’ बहुशब्दश्रवणसमर्थं कुर्वित्यर्थः । ‘अपः पिन्वेत्यपस्याः’ ( का. १७ । ८ । २१) । पञ्चमन्त्रैरपस्यासंज्ञा इष्टका उपदधाति । अब्देवत्यानि पञ्च यजूंषि । हे इष्टके, त्वमपो जलानि पिन्व सिञ्च । पिन्वतिः सेचनार्थः । ओषधीर्जिन्व प्रीणय । जिन्वतिः प्रीतिकर्मा । द्विपान्मनुष्यशरीरमव रक्ष । चतुष्पात्पशुशरीरं पाहि पालय । दिवो द्युलोकाद्वृष्टिमेरय आ समन्तात्प्रवर्तय ॥८॥
नवमी।
अधिमन्त्रम् (VC)
- दम्पती देवते
- विश्वदेव ऋषिः
- भुरिगतिजगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे पते वा स्त्रि ! तू (उर्व्या) बहुत प्रकार की उत्तम क्रिया से (मे) मेरे (प्राणम्) नाभि से ऊपर को चलनेवाले प्राणवायु की (पाहि) रक्षा कर (मे) मेरे (अपानम्) नाभि के नीचे गुह्येन्द्रिय मार्ग से निकलनेवाले अपान वायु की (पाहि) रक्षा कर (मे) मेरे (व्यानम्) विविध प्रकार की शरीर की संधियों में रहनेवाले व्यान वायु की (पाहि) रक्षा कर (मे) मेरे (चक्षुः) नेत्रों को (विभाहि) प्रकाशित कर (मे) मेरे (श्रोत्रम्) कानों को (श्लोकय) शास्त्रों के श्रवण से संयुक्त कर (अपः) प्राणों को (पिन्व) पुष्ट कर (ओषधीः) सोमलता वा यव आदि ओषधियों को (जिन्व) प्राप्त हो (द्विपात्) मनुष्यादि दो पगवाले प्राणियों की (अव) रक्षा कर (चतुष्पात्) चार पगवाले गौ आदि की (पाहि) रक्षा कर और जैसे सूर्य्य (दिवः) अपने प्रकाश से (वृष्टिम्) वर्षा करता है, वैसे घर के कार्यों को (एरय) अच्छे प्रकार प्राप्त कर ॥८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। स्त्री-पुरुषों को चाहिये कि स्वयंवर विवाह करके अति प्रेम के साथ आपस में प्राण के समान प्रियाचरण, शास्त्रों का सुनना, ओषधि आदि का सेवन और यज्ञ के अनुष्ठान से वर्षा करावें ॥८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे पते स्त्रि पुरुष वा ! त्वमुर्व्या सह मे प्राणं पाहि, मेऽपानं पाहि, मे व्यानं पाहि, मे चक्षुर्विभाहि, मे श्रोत्रं श्लोकयापः पिन्वौषधीर्जिन्व द्विपादव चतुष्पात् पाहि। यथा सूर्यो दिवो वृष्टिं करोति तथा गृहकृत्यमेरय ॥८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। स्त्रीपुरुषौ स्वयंवरं विवाहं विधायातिप्रेम्णा परस्परं प्राणप्रियाचरणं शास्त्रश्रवणमोषध्यादिसेवनं कृत्वा यज्ञाद् वृष्टिं च कारयेताम् ॥८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. स्त्री-पुरुषांनी स्वयंवर विवाह करून आपापसात प्राणाप्रमाणे प्रिय आचरण, शास्त्रांचे श्रवण, औषधांचे सेवन व यज्ञाच्या अनुष्ठानाने वृष्टी करण्यास साह्यभूत ठरावे.
०९ मूर्धा वयः
विश्वास-प्रस्तुतिः ...{Loading}...
मू॒र्धा वयः॑ प्र॒जाप॑ति॒श्छन्दः॑ क्ष॒त्रं वयो॒ मय॑न्दं॒ छन्दो॑ विष्ट॒म्भो वयोऽधि॑पति॒श्छन्दो॑ वि॒श्वक॑र्मा॒ वयः॑ परमे॒ष्ठी छन्दो॑ ब॒स्तो वयो॑ विब॒लं छन्दो॒ वृष्णि॒र्वयो॑ विशा॒लं छन्दः॒ पु॑रुषो॒ वय॑स्त॒न्द्रं छन्दो॑ व्या॒घ्रो वयोऽना॑धृष्टं॒ छन्दः॑ सिँ॒हो वय॑श्छ॒दिश्छन्दः॑ पष्ठ॒वाड् वयो॑ बृह॒ती छन्द॑ऽ उ॒क्षा वयः॑ क॒कुप् छन्द॑ऽ ऋष॒भो वयः॑ स॒तोबृ॑ह॒ती छन्दः॑ ॥९ ॥
मूलम् ...{Loading}...
मू॒र्धा वयः॑ प्र॒जाप॑ति॒श्छन्दः॑ क्ष॒त्रं वयो॒ मय॑न्दं॒ छन्दो॑ विष्ट॒म्भो वयोऽधि॑पति॒श्छन्दो॑ वि॒श्वक॑र्मा॒ वयः॑ परमे॒ष्ठी छन्दो॑ ब॒स्तो वयो॑ विब॒लं छन्दो॒ वृष्णि॒र्वयो॑ विशा॒लं छन्दः॒ पु॑रुषो॒ वय॑स्त॒न्द्रं छन्दो॑ व्या॒घ्रो वयोऽना॑धृष्टं॒ छन्दः॑ सिँ॒हो वय॑श्छ॒दिश्छन्दः॑ पष्ठ॒वाड् वयो॑ बृह॒ती छन्द॑ऽ उ॒क्षा वयः॑ क॒कुप् छन्द॑ऽ ऋष॒भो वयः॑ स॒तोबृ॑ह॒ती छन्दः॑ ॥९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मू॒र्धा। वयः॑। प्र॒जाप॑ति॒रिति॑ प्र॒जाऽप॑तिः। छन्दः॑। क्ष॒त्रम्। वयः॑। मय॑न्दम्। छन्दः॑। वि॒ष्ट॒म्भः। वयः॑। अधि॑पति॒रित्यधि॑ऽपतिः। छन्दः॑। वि॒श्वक॒र्म्मेति॑ वि॒श्वऽक॑र्म्मा। वयः॑। प॒र॒मे॒ष्ठी। प॒र॒मे॒स्थीति॑ परमे॒ऽस्थी। छन्दः॑। ब॒स्तः। वयः॑। वि॒ब॒लमिति॑ विऽब॒लम्। छन्दः॑। वृष्णिः॑। वयः॑। वि॒शा॒लमिति॑ विऽशा॒लम्। छन्दः॑। पुरु॑षः। वयः॑। त॒न्द्रम्। छन्दः॑। व्या॒घ्रः। वयः॑। अना॑धृष्टम्। छन्दः॑। सिँ॒हः। वयः॑। छ॒दिः। छन्दः॑। प॒ष्ठ॒वाडिति॑ पष्ठ॒ऽवाट्। वयः॑। बृ॒ह॒ती। छन्दः॑। उ॒क्षा। वयः॑। क॒कुप्। छन्दः॑। ऋ॒ष॒भः। वयः॑। स॒तोबृ॑ह॒तीति॑ स॒तःऽबृ॑हती। छन्दः॑। ९।
महीधरः
म०. ‘वयस्याः पञ्च पञ्चानूकान्तेषु मूर्धा वय इति प्रतिमन्त्रं चतस्रः पुरस्तात्’ ( का० १७ । ८ । २२) । दक्षिणोत्तरपश्चिमेष्वनूकान्तेषु पञ्च-पञ्च पूर्वे तु चतस्रो वयस्यासंज्ञका इष्टका उपदधात्येकोनविंशतिमन्त्रैरित्यर्थः । एकोनविंशतिर्यजूंषि लिङ्गोक्तदेवतानि । वयःशब्दोपेतमन्त्रैरुपधेया इष्टकाः । अत्र श्रुत्युक्तं निदानम् । पुरा सृष्टवतः प्रजापतेर्व्याकुलात्सकाशात् सृष्टाः पशवश्छन्दोरूपमास्थाय निरगच्छन् । ततः प्रजापतिरपि गायत्र्यादिच्छन्दोरूपं स्वीकृत्य पशुसंबन्धिन्या तत्तद्वयोवस्थया तान्पशूनाप्नोत्तदभिधायका मन्त्राः । ‘प्रजापतेर्विस्रस्तात्पशव उदक्रामंश्छन्दाᳪं᳭सि भूत्वा तान्गायत्री छन्दो भूत्वा वयमाप्नोत्’ (८ । २ । ३ । ९) इति श्रुतेः। तत्रादौ चतुर्भिर्मन्त्रैः प्रजापतेरष्टावयवात्मकं गायत्रीरूपं परिकल्प्यते । मूर्धाप्रधानः प्रजापतिश्छन्दो गायत्रीरूपो भूत्वा वयः । विभक्तिव्यत्ययः । वयसा कृत्वा पशूनाप्नोदिति शेषः । तद्रूपां त्वामिष्टके उपदधामीति सर्वत्र शेषः । अनेन मन्त्रेण प्रजापतेर्द्वावयवौ कल्पितौ। ‘प्रजापतिर्वै मूर्धा स वयोऽभवत्प्रजापतिश्छन्द इति प्रजापतिरेव छन्दोऽभवत्’ (८।२।३।१०) इति श्रुतेः । क्षतात्त्रायत इति क्षत्रं तादृशं वयः शरीरावस्था प्रजापतिरभवत् । मयं सुखं ददातीति मयन्दमनिरुक्तं छन्दोऽभवत् । क्षत्त्रं वय इति प्रजापतिर्वै क्षत्रᳪं᳭स वयोऽभवन्मयन्दं छन्द इति । यद्वा ‘अनिरुक्तं तन्मयन्दमनिरुक्तो वै प्रजापतिः प्रजापतिरेव छन्दोऽभवत्’ (८।२।३ । ११) इति श्रुतेः । अधिपतिः अधिकं पालकः विष्टभ्नोति जगत्स्तम्भयतीति विष्टम्भः ईदृशः प्रजापतिः वयस्तत्पशुवयोऽवस्थावान् छन्दश्चाभवत् । ‘प्रजापतिर्वै विष्टम्भः स वयोऽभवदधिपतिश्छन्द इति प्रजापतिर्वा अधिपतिः प्रजापतिरेव छन्दोऽभवत्’ (८ । २ । ३ । १२) इति श्रुतेः । परमे पदे तिष्ठतीति परमेष्ठी विश्वकर्मा सर्वस्रष्टा प्रजापतिर्वयश्छन्दश्चाभवत् । ‘प्रजापतिर्वै विश्वकर्मा स वयोऽभवत्परमेष्ठी छन्द इत्यापो वै प्रजापतिः परमेष्ठी ता हि परमे स्थाने तिष्ठन्ति प्रजापतिरेव परमेष्ठी छन्दोऽभवत्’ (८।२॥ ३ । १३) इति श्रुतेः । एवं प्रतिमन्त्रं द्वौ द्वाववयवावित्यष्टावयवः प्रजापतिर्गायत्रीरूपः परिकल्पितः । तथा चाष्टसंख्योपेतत्वात्सर्वच्छन्दःप्रकृतिभूतं गायत्रीछन्दो भूत्वा वयसा । तृतीयाया लुक् । वयोऽवस्थया वक्ष्यमाणान् पञ्चदश पशून् प्रजापतिरगृह्णात् । ‘तानि वा एतानि चत्वारि वयाᳪं᳭सि चत्वारि छन्दाᳪं᳭सि तदष्टावष्टाक्षरा गायत्र्येषा वै सा गायत्री या तद्भूत्वा प्रजापतिरेतान्पशून्वयसाप्नोत् (८।२।३ । १४) इति श्रुतेः । बस्तः अजः । द्वितीयैकवचनस्य सुपां स्विति सुआदेशः । वय इति तृतीयालुक् । विवलं वरमुत्कृष्टं छन्दः एकपदाख्यं छन्दो भूत्वोत्क्रान्तं बस्तं पशुं वयसा तत्तद्वयोवस्थया जग्राह । एवमुत्तरमन्त्रेष्वपि विभक्तिविपरिणामं कृत्वा तत्तच्छन्दोरूपमास्थाय प्रजापतिस्तत्तद्वयसा तं तं पशुं गृहीतवानिति योज्यम् । विशेषस्तु वक्ष्यते । ‘वस्तो वय इति वस्तं वयसाप्नोद्विवलं छन्द इत्येकपदा विवलं छन्द एकपदा ह भूत्वाजा उच्चक्रमुः’ (८ । २ । ४ । १) इति श्रुतेः । विशालं द्विपदागायत्रीरूपं छन्दो भूत्वा वृष्णिं सेचनसमर्थं मेषं वयसा जग्राह । ‘वृष्णिं वयसाप्नोद्विशालं छन्दः इति द्विपदा वै विशालं छन्दो द्विपदा ह भूत्वा वय उच्चक्रमुः’ (८।२।४। २) इति श्रुतेः । तन्द्रं पङ्क्तिश्छन्दो भूत्वोत्रा दन्तं पुरुषं पशुं “वयसाप्नोत् । ‘पुरुषं वयसाप्नोत्तन्द्रं छन्द इति पङ्क्तिर्वै तन्द्रं छन्दः पङ्क्तिर्ह भूत्वा पुरुषा उच्चक्रमुः’ (८।२।४ । ३) इति श्रुतेः । अनाधृष्टं विराट्छन्दो भूत्वोत्रातिन्तं व्याघ्रं पशुं वयसाऽग्रहीत् ‘व्याघ्रं वयसाप्नोदनाधृष्टं छन्द इति विराड्वा छन्दोऽन्नं वै विराडन्नमनाधृष्टं विराड्भूत्वा व्याघ्रा उच्च०’ (८।२।४ । ४ । ८) । छादयतीति छदिरतिच्छन्दाछन्दो भूत्वोत्रा’ न्तं सिंहं पशुं वयसाग्रहीत् । “ सिᳪं᳭हं वयसाप्नोच्छदिश्छन्द इत्यतिच्छन्दा वै छदिश्छन्दः सा हि सर्वाणि छन्दाᳪं᳭सि छादयत्यतिच्छन्दा ह भूत्वा सिᳪं᳭हा उच्च०’ इति ‘अथातो निरुक्तानेव पशून्निरुक्तानि छन्दाᳪं᳭स्युपदधाति’ इति श्रुतेः स्पष्टानि छन्दांसि दशोच्यन्ते । पष्ठे पृष्ठभागे वहतीति पष्ठवाट् पञ्चवर्षः पशुः बृहती छन्दो भूत्वोत्रातिन्तं पष्ठवाहं पशुं वयसाग्रहीत् । ‘पष्ठवाहं वयसाप्नोद्बृहतीच्छन्द इति बृहती ह भूत्वा पष्ठवाह उच्च०’ इति । उक्षा सेचनसमर्थः पशुः । आद्यन्तावष्टाक्षरौ पादौ मध्यमो द्वादशाक्षरः सा ककुप् ककुप्छन्दो भूत्वोत्क्रान्तमुक्षाणं पशुं वयसाग्रहीत् । ‘उक्षाणं वयसाप्नोत्ककुप्छन्द इति ककुब्भूत्वोक्षाण उच्च०’ इति । वृषभः सेचनसमर्थोऽनड्वान् । द्वादशाक्षरत्रिपादा सतोबृहती सा भूत्वोत्क्रान्तमृषभं वयसाग्रहीत् । ऋषभं वयसाप्नोत्सतोबृहतीछन्द इति सतोबृहती भूत्वर्षभा उच्च०’ इति ॥ ९ ॥
दशमी।
अधिमन्त्रम् (VC)
- प्रजापत्यादयो देवताः
- विश्वेदेवा ऋषयः
- निचृद्ब्राह्मी पङ्क्तिः, शक्वरी
- पञ्चमः, धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि वा पुरुष ! (मूर्धा) शिर के तुल्य उत्तम ब्राह्मण का कुल (प्रजापतिः) प्रजा के रक्षक राजा के समान तू (वयः) कामना के योग्य (मयन्दम्) सुखदायक (छन्दः) बलयुक्त (क्षत्रम्) क्षत्रिय कुल को प्ररेणा कर (विष्टम्भः) वैश्यों की रक्षा का हेतु (अधिपतिः) अधिष्ठाता पुरुष नृप के समान तू (वयः) न्याय विनय को प्राप्त हुए (छन्दः) स्वाधीन पुरुष को प्रेरणा कर (विश्वकर्म्मा) सब उत्तम कर्म करने हारे (परमेष्ठी) सब के स्वामी राजा के समान तू (वयः) चाहने योग्य (छन्दः) स्वतन्त्रता को (एरय) बढ़ाइये (वस्तः) व्यवहारों से युक्त पुरुष के समान तू (वयः) अनेक प्रकार के व्यवहारों में व्यापी (विबलम्) विविध बल के हेतु (छन्दः) आनन्द को बढ़ा (वृष्णिः) सुख के सेचनेवाले के सदृश तू (विशालम्) विस्तारयुक्त (वयः) सुखदायक (छन्दः) स्वतन्त्रता को बढ़ा (पुरुषः) पुरुषार्थयुक्त जन के तुल्य तू (वयः) चाहने योग्य (तन्द्रम्) कुटुम्ब के धारणरूप कर्म्म और (छन्दः) बल को बढ़ा (व्याघ्रः) जो विविध प्रकार के पदार्थों को अच्छे प्रकार सूँघता है, उस जन्तु के तुल्य राजा तू (वयः) चाहने योग्य (अनाधृष्टम्) दृढ़ (छन्दः) बल को बढ़ा (सिंहः) पशु आदि को मारने हारे सिंह के समान पराक्रमी राजा तू (वयः) पराक्रम के साथ (छदिः) निरोध और (छन्दः) प्रकाश को बढ़ा (पष्ठवाट्) पीठ से बोझ उठानेवाले ऊँट आदि के सदृश वैश्य तू (बृहती) बड़े (वयः) बलयुक्त (छन्दः) पराक्रम को प्रेरणा कर (उक्षा) सींचने हारे बैल के तुल्य शूद्र तू (वयः) अति बल का हेतु (ककुप्) दिशाओं और (छन्दः) आनन्द को बढ़ा (ऋषभः) शीघ्रगन्ता पशु के तुल्य भृत्य तू (वयः) बल के साथ (सतोबृहती) उत्तम बड़ी (छन्दः) स्वतन्त्रता की प्रेरणा कर ॥९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेष और वाचकलुप्तोपमालङ्कार हैं और पूर्व मन्त्र से एरय पद की अनुवृत्ति आती है। स्त्री-पुरुषों को चाहिये कि ब्राह्मण आदि वर्णों को स्वतन्त्र कर वेदादि शास्त्रों का प्रचार, आलस्यादि त्याग और शत्रुओं का निवारण करके बड़े बल को सदा बढ़ाया करें ॥९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि पुरुष वा ! मूर्धा प्रजापतिरिव त्वं वयो मयन्दं छन्दः क्षत्रमेरय, विष्टम्भोऽधिपतिरिव त्वं वयश्छन्द एरय, विश्वकर्मा परमेष्ठीव त्वं वयश्छन्द एरय, वस्त इव त्वं वयो विबलं छन्द एरय, वृष्णिरिव त्वं विशालं वयश्छन्द एरय। पुरुष इव त्वं वयस्तन्द्रं छन्द एरय, व्याघ्र इव त्वं वयोनाधृष्ट छन्द एरय, सिंह इव त्वं वयश्छदिश्छन्द एरय, पष्ठवाडिव त्वं बृहती वयश्छन्द एरय, उक्षेव त्वं वयः ककुप्छन्द एरय, ऋषभ इव त्वं वयः सतोबृहती छन्द एरय प्रेरय ॥९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र श्लेषवाचकलुप्तोपमालङ्कारौ। एरयेति पूर्वस्मान्मन्त्रादनुवर्त्तते। स्त्रीपुरुषैर्ब्राह्मणादिवर्णान् स्वच्छन्दान् संपाद्य वेदादीन् प्रचार्य्यालस्यादिकं त्यक्त्वा शत्रून्निवार्य्य महद् बलं सदा वर्द्धनीयम् ॥९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेष व वाचकलुप्तोपमालंकार आहेत. या पूर्वीच्या मंत्रातील ‘एरय’ पदाची येथे अनुवृत्ती झालेली आहे. स्त्री-पुरुषांनी ब्राह्मण, क्षत्रिय, वैश्य, शुद्र व शत्रूंचे निवारण करावे आणि अत्यंत बलवान व्हावे.
१० अनड्वान् वयः
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒न॒ड्वान् वयः॑ प॒ङ्क्तिश्छन्दो॑ धे॒नुर्वयो॒ जग॑ती॒ छन्द॒स्त्र्यवि॒र्वय॑स्त्रि॒ष्टुप् छन्दो॑ दित्य॒वाड् वयो॑ वि॒राट् छन्दः॒ पञ्चा॑वि॒र्वयो॑ गाय॒त्री छन्द॑स्त्रिव॒त्सो वय॑ऽउ॒ष्णिक् छन्द॑स्तुर्य्य॒वाड् वयो॑ऽनु॒ष्टुप् छन्दः॑ ॥१० ॥
मूलम् ...{Loading}...
अ॒न॒ड्वान् वयः॑ प॒ङ्क्तिश्छन्दो॑ धे॒नुर्वयो॒ जग॑ती॒ छन्द॒स्त्र्यवि॒र्वय॑स्त्रि॒ष्टुप् छन्दो॑ दित्य॒वाड् वयो॑ वि॒राट् छन्दः॒ पञ्चा॑वि॒र्वयो॑ गाय॒त्री छन्द॑स्त्रिव॒त्सो वय॑ऽउ॒ष्णिक् छन्द॑स्तुर्य्य॒वाड् वयो॑ऽनु॒ष्टुप् छन्दः॑ ॥१० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒न॒ड्वान्। वयः॑। प॒ङ्क्तिः। छन्दः॑। धे॒नुः। वयः॑। जग॑ती। छन्दः॑। त्र्यवि॒रिति॑ त्रि॒ऽअविः॑। वयः॑। त्रि॒ष्टुप्। त्रि॒स्तुबिति॑ त्रि॒ऽस्तुप्। छन्दः॑। दि॒त्य॒वाडिति॑ दित्य॒ऽवाट्। वयः॑। वि॒राडिति॑ वि॒ऽराट्। छन्दः॑। पञ्चा॑वि॒रिति॒ पञ्च॑ऽअविः। वयः॑। गा॒य॒त्री। छन्दः॑। त्रि॒व॒त्स इति॑ त्रिऽव॒त्सः। वयः॑। उ॒ष्णिक्। छन्दः॑। तु॒र्य॒वाडिति॑ तुर्य॒ऽवाट्। वयः॑। अ॒नु॒ष्टुप्। अ॒नु॒स्तुबित्यनु॒ऽस्तुप्। छन्दः॑। १०।
महीधरः
म० अनः शकटं वहतीत्यनड्वान्बलीवर्दः पङ्क्तिश्छन्दो भूत्वोत्क्रान्तमनड्वाहं पशुं वयसाग्रहीत् । अनड्वाहं पशुं वयसाग्रहीत् । | अनड्वाहं वयसाप्नोत्पङ्क्तिश्छन्द इति पङ्क्तिर्ह भूत्वानड्वाह उच्च०’(८ । २ । ४ । ९-१५) धेनुः नवप्रसूता सवत्सा गौः जगती छन्दो भूत्वोत्रा्पन्ता धेनुं वयसाग्रहीत् । ‘धेनुं वयसाप्नोज्जगती छन्द इति जगती ह भूत्वा धेनव उच्च०’ इति । षण्मासात्मकः कालोऽविः तिस्रोऽवयोऽस्य त्र्यविः अष्टादशमासः पशुः त्रिष्टुप्छन्दो भूत्वोत्क्रान्तं त्र्यविं पशुं वयसाग्रहीत् त्र्यविं पशुं वयसाग्रहीत् । ‘त्र्यविं वयसाप्नोत्त्रिष्टुप् छन्द इति त्रिष्टुब् ह भूत्वा त्र्ययव उच्च०’ इति । ‘दोऽवखण्डने’ क्तिन्प्रत्ययः । दितिं खण्डनमर्हति दित्यं धान्यं वहति दित्यवाट् । यद्वा द्विवर्षः पशुर्दित्यवाट् विराट्छन्दो भूत्वोत्क्रान्तं दित्यवाहं पशुं वयसाग्रहीत् । ‘दित्यवाहं वयसाप्नोद्विराट् छन्द इति विराड् भूत्वा दित्यवाह उच्च०’ इति । पञ्चाविः पञ्चावयो यस्य सः सार्धद्विवर्षः पशुः गायत्री भूत्वोत्राट्न्तं पञ्चाविं पशुमग्रहीत् । ‘पञ्चाविं वयसाप्नोद्गायत्री छन्द इति गायत्री ह भूत्वा पञ्चावय उच्च०’ इति । त्रिवत्सः त्रयो वत्साः वत्सराः यस्य सः त्रिवत्सः पशुः उष्णिक् छन्दो भूत्वोत्क्रान्तं त्रिवत्सं जग्राह । ‘त्रिवत्सं वयसाप्नोदुष्णिक् छन्द इत्युष्णिग्घ भूत्वा त्रिवत्सा उच्च०’ इति । तुर्यवाट् तुर्यं चतुर्थं वर्षं वहतीति चतुर्वर्षः पशुः अनुष्टुप् छन्दो भूत्वोत्क्रान्तं तुर्यवाहं पशुं प्रजापतिर्वयसाग्रहीत् । ‘तुर्यवाहं वयसाप्नोदनुष्टुप् छन्द इत्यनुष्टुब् ह भूत्वा तुर्यवाह उच्चक्रमुः’ (८। २।४।१५) इति श्रुतेः । एवं श्रुत्यनुसारेण मन्त्रा व्याख्याताः । ‘दक्षिणश्रोणेरधि लोकंपृणाः पूर्ववत्’ (का० १७। ८ । २४)। दक्षिणश्रोणिमारभ्य लोकंपृणा उपदधाति ( १२, ५४ । ५५ । ५६) पुरीषनिर्वापः सप्तर्चोपस्थानं चेति सूत्रार्थः ॥ १० ॥
इति द्वितीया चितिः संपूर्णा ॥
एकादशी।
अधिमन्त्रम् (VC)
- विद्वांसो देवता
- विश्वदेव ऋषिः
- निचृदष्टिः
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि वा पुरुष ! (अनड्वान्) गौ और बैल के समान बलवान् हो के तू (पङ्क्तिः) प्रकट (छन्दः) स्वतन्त्र (वयः) बल की प्रेरणा कर (धेनुः) दूध देने हारी गौ के समान तू (जगती) जगत् के उपकारक (छन्दः) आनन्द की (वयः) कामना को बढ़ा (त्र्यविः) तीन भेड़, बकरी और गौ के अध्यक्ष के तुल्य वृद्धियुक्त होके तू (त्रिष्टुप्) कर्म्म, उपासना और ज्ञान की स्तुति के हेतु (छन्दः) स्वतन्त्र (वयः) उत्पत्ति को बढ़ा (दित्यवाड्) पृथिवी खोदने से उत्पन्न हुए जौ आदि को प्राप्त कराने हारी क्रिया के तुल्य तू (विराट्) विविध प्रकाशयुक्त (छन्दः) आनन्दकारक (वयः) प्राप्ति को बढ़ा (पञ्चाविः) पञ्च इन्द्रियों की रक्षा के हेतु ओषधि के समान तू (गायत्री) गायत्री (छन्दः) मन्त्र के (वयः) विज्ञान को बढ़ा (त्रिवत्सः) कर्म, उपासना और ज्ञान को चाहने हारे के तुल्य तू (उष्णिक्) दुःखों के नाशक (छन्दः) स्वतन्त्र (वयः) पराक्रम को बढ़ा और (तुर्य्यवाट्) चारों वेदों की प्राप्ति कराने हारे पुरुष के समान तू (अनुष्टुप्) अनुकूल स्तुति का निमित्त (छन्दः) सुखसाधक (वयः) इच्छा को प्रतिदिन बढ़ाया कर ॥१० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेष और वाचकलुप्तोपमालङ्कार हैं। जैसे खेती करने हारे लोग बैल आदि साधनों की रक्षा से अन्नादि पदार्थों को उत्पन्न करके सब को सुख देते हैं, वैसे ही विद्वान् लोग विद्या का प्रचार करके सब प्राणियों को आनन्द देते हैं ॥१० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि पुरुष वा ! अनड्वानिव त्वं पङ्क्तिश्छन्दो वय एरय, धेनुरिव त्वं जगती छन्दो वय एरय, त्र्यविरिव त्वं त्रिष्टुप् छन्दो वय एरय, दित्यवाडिव त्वं विराट् छन्दो वय एरय, पञ्चाविरिव त्वं गायत्री छन्दो वय एरय, त्रिवत्स इव त्वमुष्णिक् छन्दो वय एरय, तुर्य्यवाडिव त्वमनुष्टुप् छन्दो वय एरय ॥१० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र श्लेषवाचकलुप्तोपमालङ्कारौ। एरयपदानुवृत्तिश्च। यथाऽनडुहादीनां रक्षणेन कृषीवला अन्नादीन्युत्पाद्य सर्वान् सुखयन्ति, तथैव विद्वांसः स्त्रीपुरुषा विद्यां प्रचार्य्य सर्वानानन्दयन्ति ॥१० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेष व वाचकलुप्तोपमालंकार आहेत. ज्या प्रमाणे शेतकरी, बैल इत्यादी साधनांचे रक्षण करून अन्न वगैरे पदार्थ उत्पन्न करून सर्वांना सुख देतात त्याप्रमाणे विद्वान लोक विद्येचा प्रसार करून सर्व प्राण्यांना आनंद देतात.
११ इन्द्राग्नीऽ अव्यथमानामिष्टकाम्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रा॑ग्नी॒ऽ अव्य॑थमाना॒मिष्ट॑कां दृँहतं यु॒वम्। पृ॒ष्ठेन॒ द्यावा॑पृथि॒वीऽ अ॒न्तरि॑क्षं च॒ विबा॑धसे ॥११ ॥
मूलम् ...{Loading}...
इन्द्रा॑ग्नी॒ऽ अव्य॑थमाना॒मिष्ट॑कां दृँहतं यु॒वम्। पृ॒ष्ठेन॒ द्यावा॑पृथि॒वीऽ अ॒न्तरि॑क्षं च॒ विबा॑धसे ॥११ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इन्द्रा॑ग्नी॒ इतीन्द्रा॑ग्नी। अव्य॑थमानाम्। इष्ट॑काम्। दृँ॒ह॒त॒म्। यु॒वम्। पृ॒ष्ठेन॑। द्यावा॑पृथि॒वी इति॒ द्यावा॑ऽपृथि॒वी। अ॒न्तरि॑क्षम्। च॒। वि। बा॒ध॒से॒। ११।
महीधरः
म० अथ तृतीया चितिः । इन्द्राग्नी विश्वकर्मा च तन्मन्त्राणामृषिः । ‘तृतीयायाᳪं᳭स्वयमातृण्णामिन्द्राग्नी इति मध्ये’ (का० १७ । ८ । २५) । तृतीयायां चितावात्मनो मध्ये स्वयमातृण्णामुपदधाति । अनुष्टुप् पूर्वोऽर्धर्च इन्द्राग्निदेवत्यः उत्तरः स्वयमातृण्णादेवतः । हे इन्द्राग्नी, युवं युवामव्यथमानामचलन्तीं भङ्गरहितामिष्टकां स्वयमातृण्णाख्यां दृढीकुरुतम् । एवमिन्द्राग्नी प्रत्युक्त्वा इष्टकामाह । हे स्वयमातृण्णे, पृष्ठेन स्वोपरिभागेन द्यावापृथिवी अन्तरिक्षं च त्वं विबाधसे अभिभवसि लोकत्रयमत्येषि ॥ ११ ॥
द्वादशी।
अधिमन्त्रम् (VC)
- इन्द्राग्नी देवते
- विश्वेदेवा ऋषयः
- भुरिगनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्राग्नी) बिजुली और सूर्य्य के समान वर्त्तमान स्त्री-पुरुषो ! (युवम्) तुम दोनों (अव्यथमानाम्) जमी हुई बुद्धि को प्राप्त होके (इष्टकाम्) र्इंट के समान गृहाश्रम को (दृंहतम्) दृढ़ करो। जैसे (द्यावापृथिवी) प्रकाश और भूमि (पृष्ठेन) पीठ से (अन्तरिक्षम्) आकाश को बाँधते हैं, वैसे तुम दुःख (च) और शत्रुओं को बाँधा करो। हे पुरुष ! जैसे तू इस अपनी स्त्री की पीड़ा को (विबाधसे) विशेष करके हटाता है, वैसे यह स्त्री भी तेरी सकल पीड़ा को हरा करे ॥११ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेष और वाचकलुप्तोपमालङ्कार हैं। जैसे बिजुली और सूर्य जल वर्षा के ओषधि आदि पदार्थों को बढ़ाते हैं, वैसे ही स्त्री-पुरुष कुटुम्ब को बढ़ावें, जैसे प्रकाश और पृथिवी आकाश का आवरण करते हैं, वैसे गृहाश्रम के व्यवहारों को पूर्ण करें ॥११ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे इन्द्राग्नी इव वर्त्तमानौ स्त्रीपुरुषौ ! युवं युवामव्यथमानां प्रज्ञां प्राप्येष्टकामिव गृहाश्रमं दृंहतम्। यथा द्यावापृथिवी पृष्ठेनान्तरिक्षं बाधेते, तथा दुःखानि शत्रूंश्च बाधेथाम्। हे पुरुष ! यथा त्वमेतस्याः स्वपत्न्याः पीडां विबाधसे तथा चेयमपि तव पीडां बाधताम् ॥११ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र श्लेषवाचकलुप्तोपमालङ्कारौ। यथा विद्युत्सूर्य्यावपो वर्षित्वौषध्यादीन् वर्धयतस्तथैव स्त्रीपुरुषौ कुटुम्बं वर्धयेताम्। यथा प्रकाशः पृथिवी आकाशमाच्छादयतस्तथैव गृहाश्रमव्यवहारमलङ्कुर्याताम् ॥११ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेष व वाचकलुप्तोपमालंकार आहेत. जसे विद्युत व सूर्य हे जलवृष्टीद्वारे वृक्ष इत्यादी पदार्थांची वृद्धी करतात, तसेच स्त्री-पुरुषांनी कुटुंबाला वाढवावे. जसे प्रकाश व भूमी आकाशाला घेरतात तसे (दुःखाना व शत्रूंना बंदिस्त करून) गृहस्थाश्रमाचे सर्व व्यवहार पूर्ण करावेत.
१२ विश्वकर्मा त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
वि॒श्वक॑र्मा त्वा सादयत्व॒न्तरि॑क्षस्य पृ॒ष्ठे व्यच॑स्वतीं॒ प्रथ॑स्वतीम॒न्तरि॑क्षं यच्छा॒न्तरि॑क्षं दृँहा॒न्तरि॑क्षं॒ मा हिँ॑सीः। विश्व॑स्मै प्रा॒णाया॑ऽपा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑ च॒रित्राय॑। वा॒युष्ट्वा॒भिपा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॒ शन्त॑मेन॒ तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वा सी॑द ॥१२ ॥
मूलम् ...{Loading}...
वि॒श्वक॑र्मा त्वा सादयत्व॒न्तरि॑क्षस्य पृ॒ष्ठे व्यच॑स्वतीं॒ प्रथ॑स्वतीम॒न्तरि॑क्षं यच्छा॒न्तरि॑क्षं दृँहा॒न्तरि॑क्षं॒ मा हिँ॑सीः। विश्व॑स्मै प्रा॒णाया॑ऽपा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑ च॒रित्राय॑। वा॒युष्ट्वा॒भिपा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॒ शन्त॑मेन॒ तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वा सी॑द ॥१२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वि॒श्वक॒र्मेति॑ वि॒श्वऽक॑र्मा। त्वा॒। सा॒द॒य॒तु॒। अ॒न्तरि॑क्षस्य। पृ॒ष्ठे। व्यच॑स्वती॒मिति॒ व्यचः॑ऽवतीम्। प्रथ॑स्वतीम्। अ॒न्तरि॑क्षम्। य॒च्छ॒। अ॒न्तरि॑क्षम्। दृँ॒ह॒। अ॒न्तरि॑क्षम्। मा। हिँ॒सीः॒। विश्व॑स्मै। प्रा॒णाय॑। अ॒पा॒नाय॑। व्या॒नाय॑। उ॒दा॒नाय॑। प्रति॒ष्ठायै॑। च॒रित्रा॑य। वा॒युः। त्वा॒। अ॒भि। पा॒तु। म॒ह्या। स्व॒स्त्या। छ॒र्दिषा॑। शन्त॑मेन। तया॑। दे॒वत॑या। अ॒ङ्गि॒र॒स्वत्। ध्रु॒वा। सी॒द॒। १२।
महीधरः
म० वायुदेवत्यं विकृतिच्छन्दस्कं यजुः स्वयमातृण्णोपधाने एव विनियुक्तम् । हे स्वयमातृण्णे, विश्वकर्मा प्रजापतिरन्तरिक्षस्य पृष्ठे उपरि त्वा त्वां सादयतु स्थापयतु । किंभूतां त्वाम् । व्यचस्वतीमभिव्यक्तियुक्ताम् । प्रथस्वतीं प्रथनं प्रथो विस्तारस्तद्युक्ताम् । हे इष्टके, त्वमन्तरिक्षं यच्छ गन्धर्वाप्सरोगणादिधारकतया नियमय । अन्तरिक्षं दृंह परोपद्रवाभावेन दृढीकुरु । तदन्तरिक्षं मा हिंसीः । किमर्थम् । विश्वस्मै सर्वस्मै प्राणापानव्यानोदानाख्यवायुवृत्तिलाभाय प्रतिष्ठायै स्वगृहस्थित्यै चरित्राय शास्त्रीयाचरणाय । प्राणिनामेतत्सर्वं लोकदार्ढ्ये सति भवतीति नभोनियमनादि प्रार्थ्यत इति भावः । किंच मह्या महत्या स्वस्त्या योगक्षेमसंपत्त्या शन्तमेनातिशुभकारिणा छर्दिषा तेजोविशेषेण च कृत्वा वायुः त्वा त्वामभिपातु सर्वतो रक्षतु । तवाधिष्ठात्री या देवता तया देवतयानुगृहीता ध्रुवा स्थिरा सती सीदोपविश । अङ्गिरस्वत् अङ्गिरसां चयनानुष्ठाने यथा त्वं ध्रुवा स्थिता तद्वत् ॥ १२ ॥
त्रयोदशी।
अधिमन्त्रम् (VC)
- वायुर्देवता
- विश्वकर्मर्षिः
- भुरिग्विकृतिः
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर वही विषय अगले मन्त्र में उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! (विश्वकर्मा) सम्पूर्ण शुभ कर्म करने में कुशल पति जिस (व्यचस्वतीम्) प्रशंसित विज्ञान वा सत्कार से युक्त (प्रथस्वतीम्) उत्तम विस्तृत विद्यावाली (अन्तरिक्षस्य) प्रकाश के (पृष्ठे) एक भाग में (त्वा) तुझ को (सादयतु) स्थापित करे सो तू (विश्वस्मै) सब (प्राणाय) प्राण (अपानाय) अपान (व्यानाय) व्यान और (उदानाय) उदानरूप शरीर के वायु तथा (प्रतिष्ठायै) प्रतिष्ठा (चरित्राय) और शुभ कर्मों के आचरण के लिये (अन्तरिक्षम्) जलादि को (यच्छ) दिया कर (अन्तरिक्षम्) प्रशंसित शुद्ध किये जल से युक्त अन्न और धनादि को (दृंह) बढ़ा और (अन्तरिक्षम्) मधुरता आदि गुणयुक्त रोगनाशक आकाशस्थ सब पदार्थों को (मा हिंसीः) नष्ट मत कर, जिस (त्वा) तुझ को (वायुः) प्राण के तुल्य प्रिय पति (मह्या) बड़ी (स्वस्त्या) सुख रूप क्रिया (छर्दिषा) प्रकाश और (शन्तमेन) अति सुखदायक विज्ञान से तुझ को (अभिपातु) सब ओर से रक्षा करे सो तू (तया) उस (देवतया) दिव्य सुख देनेवाली क्रिया के साथ वर्त्तमान पतिरूप देवता के साथ (अङ्गिरस्वत्) व्यापक वायु के समान (ध्रुवा) निश्चल ज्ञान से युक्त (सीद) स्थिर हो ॥१२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेष और वाचकलुप्तोपमालङ्कार हैं। जैसे पुरुष स्त्री को अच्छे कर्मों में नियुक्त करे, वैसे स्त्री भी अपने पति को अच्छे कर्मों में प्रेरणा करे, जिस से निरन्तर आनन्द बढ़े ॥१२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! विश्वकर्मा पतिर्यां व्यचस्वतीं प्रथस्वतीमन्तरिक्षस्य पृष्ठे त्वा सादयतु। सा त्वं विश्वस्मै प्राणायाऽपानाय व्यानायोदानाय प्रतिष्ठायै चरित्रायान्तरिक्षं यच्छाऽन्तरिक्षं दृंहान्तरिक्षं मा हिंसीः। यो वायुः प्राण इव प्रियस्तव स्वामी मह्या स्वस्त्या छर्दिषा शन्तमेन त्वा त्वामभिपातु, सा त्वं तया पत्याख्यया देवतया सहाङ्गिरस्वद् ध्रुवा सीद ॥१२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा पुरुषः स्त्रियं सत्कर्मसु नियोजयेत् तथा स्त्र्यपि स्वपतिं च प्रेरयेत्, यतः सततमानन्दो वर्द्धेत ॥१२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेष व वाचकलुप्तोपमालंकार आहेत. पुरुषाने स्त्रीला चांगल्या कामात प्रेरणा द्यावी, तसेच स्त्रीनेही आपल्या पतीला चांगल्या कामात प्रेरित करावे, ज्यामुळे आनंदाची वृद्धी होईल.
१३ राज्ञ्यसि प्राची
विश्वास-प्रस्तुतिः ...{Loading}...
राज्ञ्य॑सि॒ प्राची॒ दिग्वि॒राड॑सि॒ दक्षि॑णा॒ दिक् स॒म्राड॑सि प्र॒तीची॒ दिक् स्व॒राड॒स्युदी॑ची॒ दिगधि॑पत्न्यसि बृह॒ती दिक् ॥१३ ॥
मूलम् ...{Loading}...
राज्ञ्य॑सि॒ प्राची॒ दिग्वि॒राड॑सि॒ दक्षि॑णा॒ दिक् स॒म्राड॑सि प्र॒तीची॒ दिक् स्व॒राड॒स्युदी॑ची॒ दिगधि॑पत्न्यसि बृह॒ती दिक् ॥१३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
राज्ञी॑। अ॒सि॒। प्राची॑। दिक्। वि॒राडिति॑ वि॒ऽराट्। अ॒सि॒। दक्षि॑णा। दिक्। स॒म्राडिति॑ स॒म्ऽराट्। अ॒सि॒। प्र॒तीची॑। दिक्। स्व॒राडिति॑ स्व॒ऽराट्। अ॒सि॒। उदी॑ची। दिक्। अधि॑प॒त्नीत्यधि॑ऽपत्नी। अ॒सि॒। बृ॒ह॒ती। दिक्। १३।
महीधरः
म० ‘अनूकेषु पञ्च दिश्या वैश्वदेवीवद्राज्ञ्यसीति प्रतिमन्त्रम्’ ( का० १७ । ८ । २६) । वैश्वदेवीवदिति प्रतिदिशं रेतःसिग्वेलायामनूकेषु पञ्च दिश्यासंज्ञका इष्टका उपदधाति पञ्चमीं दक्षिणामुत्तरेणेति सूत्रार्थः । दिक्शब्दोपेतत्वान्मन्त्राणां दिश्या इष्टकाः । दिग्देवत्यानि पञ्च यजूंषि । हे इष्टके, त्वं राज्ञी राजमाना सती प्राची दिक् पूर्वा दिग्भवसि गायत्रीरूपासि । | विराट् विविधं राजमाना दक्षिणा दिक् असि । त्रिष्टुब्रूपासि । सम्राट् सम्यग्राजमाना प्रतीची दिक् जगत्यसि । स्वराट् परनिरपेक्षं स्वयमेव राजमाना सती उदीची दिगनुष्टुबसि । अधिकं पातीत्यधिपत्नी बृहती प्रौढोर्ध्वा दिक् पङ्क्तिरसि । दिक्छन्दोरूपां तां त्वां सादयामीति सर्वत्र शेषः । ‘छन्दाᳪं᳭सि वै दिशो गायत्री वै प्राची दिक् त्रिष्टुब्दक्षिणा जगती प्रतीच्यनुष्टुबुदीची पङ्क्तिरूर्ध्वेति’ (८।३ । १ । १४) श्रुतेः ॥१३॥
चतुर्दशी।
अधिमन्त्रम् (VC)
- दिशो देवताः
- विश्वदेव ऋषिः
- विराट् पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! जो तू (प्राची) पूर्व (दिक्) दिशा के तुल्य (राज्ञी) प्रकाशमान (असि) है, (दक्षिणा) दक्षिण (दिक्) दिशा के समान (विराट्) अनेक प्रकार का विनय और विद्या के प्रकाश से युक्त (असि) है, (प्रतीची) पश्चिम (दिक्) दिशा के सदृश (सम्राट्) चक्रवर्ती राजा के सदृश अच्छे सुखयुक्त पृथिवी पर प्रकाशमान (असि) है, (उदीची) उत्तर (दिक्) दिशा के तुल्य (स्वराट्) स्वयं प्रकाशमान (असि) है, (बृहती) बड़ी (दिक्) ऊपर-नीचे की दिशा के तुल्य (अधिपत्नी) घर में अधिकार को प्राप्त हुई (असि) है, सो तू सब पति आदि को तृप्त कर ॥१३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे दिशा सब ओर से अभिव्याप्त बोध करने हारी चञ्चलतारहित हैं, वैसे ही स्त्री शुभ गुण, कर्म और स्वभावों से युक्त होवे ॥१३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! या त्वं प्राची दिगिव राज्ञ्यसि, दक्षिणा दिगिव विराडसि, प्रतीची दिगिव सम्राडस्युदीची दिगिव स्वराडसि, बृहती दिगिवाधिपत्न्यसि, सा त्वं सर्वान् पत्यादीन् प्रीणीहि ॥१३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा दिशः सर्वतोऽभिव्याप्ता विज्ञापिका अक्षुब्धाः सन्ति, तथैव स्त्री शुभगुणकर्मस्वभावैः सहिता स्यात् ॥१३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. ज्याप्रमाणे दिशा ही सगळीकडे व्याप्त असून स्थिर व बोध करणारी असते, तसेच स्त्रीनेही शुभ गुण, कर्म व स्वभाव यांनी युक्त व्हावे.
१४ विश्वकर्मा त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
वि॒श्वक॑र्मा त्वा सादयत्व॒न्तरि॑क्षस्य पृ॒ष्ठे ज्योति॑ष्मतीम्। विश्व॑स्मै प्रा॒णाया॑ऽपा॒नाय॑ व्या॒नाय॒ विश्वं॒ ज्योति॑र्यच्छ। वा॒युष्टेऽधि॑पति॒स्तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वा सी॑द ॥१४ ॥
मूलम् ...{Loading}...
वि॒श्वक॑र्मा त्वा सादयत्व॒न्तरि॑क्षस्य पृ॒ष्ठे ज्योति॑ष्मतीम्। विश्व॑स्मै प्रा॒णाया॑ऽपा॒नाय॑ व्या॒नाय॒ विश्वं॒ ज्योति॑र्यच्छ। वा॒युष्टेऽधि॑पति॒स्तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वा सी॑द ॥१४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वि॒श्वक॒र्मेति॑ वि॒श्वऽक॑र्मा। त्वा॒। सा॒द॒य॒तु॒। अ॒न्तरि॑क्षस्य। पृ॒ष्ठे। ज्योति॑ष्मती॒मिति॒ ज्योतिः॑ऽमतीम्। विश्व॑स्मै। प्रा॒णाय॑। अ॒पा॒नाय॑। व्या॒नाय॑। विश्व॑म्। ज्योतिः॑। य॒च्छ॒। वा॒युः। ते॒। अधि॑पति॒रित्यधि॑ऽपतिः। तया॑। दे॒वत॑या। अ॒ङ्गि॒र॒स्वत्। ध्रु॒वा। सी॒द॒। १४।
महीधरः
म० ‘विश्वकर्मेति विश्वज्योतिषमुपरि पूर्वस्याः’ ( का० १७ । ९ । ३) प्रथमोपहिताया विश्वज्योतिष उपरि विश्वज्योतिषमिष्टकामुपदधाति । वायुदेवत्यं शक्वरीच्छन्दस्कं यजुः । हे इष्टके, ज्योतिष्मतीं वायुरूपां त्वां विश्वकर्मान्तरिक्षस्य पृष्ठे त्वां सादयतु । ‘अन्तरिक्षस्य पृष्ठे ह्ययं ज्योतिष्मान् वायुः’ ( ८ । ३ । २ । ३ ) इति श्रुतेः । किंच सर्वप्राणादिलाभाय त्वं सर्वं ज्योतिर्यच्छ प्रयच्छ । वायुः तवाधिपतिः तया देवतया ध्रुवा सती सीद अङ्गिरसां चिताविव ॥ १४ ॥
पञ्चदशी।
अधिमन्त्रम् (VC)
- वायुर्देवता
- विश्वेदेवा ऋषयः
- स्वराड् ब्राह्मी बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उक्त विषय ही अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! जिस (ज्योतिष्मतीम्) बहुत विज्ञानवाली (त्वा) तुझ को (विश्वस्मै) सब (प्राणाय) प्राण (अपानाय) अपान और (व्यानाय) व्यान की पुष्टि के लिये (अन्तरिक्षस्य) जल के (पृष्ठे) ऊपरले भाग में (विश्वकर्मा) सब शुभ कर्मों का चाहने हारा पति (सादयतु) स्थापित करे सो तू (विश्वम्) सम्पूर्ण (ज्योतिः) विज्ञान को (यच्छ) ग्रहण कर, जो (वायुः) प्राण के समान प्रिय (ते) तेरा (अधिपतिः) स्वामी है, (तया) उस (देवतया) देवस्वरूप पति के साथ (ध्रुवा) दृढ़ (अङ्गिरस्वत्) सूर्य्य के समान (सीद) स्थिर हो ॥१४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - स्त्री को उचित है कि ब्रह्मचर्य्याश्रम के साथ आप विद्वान् हो के शरीर, आत्मा का बल बढ़ाने के लिये अपने सन्तानों को निरन्तर विज्ञान देवे। यहाँ तक ग्रीष्म ऋतु का व्याख्यान पूरा हुआ ॥१४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! या ज्योतिष्मतीं त्वा विश्वस्मै प्राणायाऽपानाय व्यानायाऽन्तरिक्षस्य पृष्ठे विश्वकर्मा सादयतु, सा त्वं विश्वं ज्योतिर्यच्छ। यो वायुरिव तेऽधिपतिरस्ति तया देवतया सह ध्रुवाङ्गिरस्वत् सीद ॥१४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - स्त्री ब्रह्मचर्येण स्वयं विदुषी भूत्वा शरीरात्मबलवर्द्धनाय स्वापत्येभ्यो विज्ञानं सततं प्रदद्यादिति ग्रीष्मर्त्तुव्याख्यानं कृतम् ॥१४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - स्त्रीने ब्रह्मचर्य आश्रम पाळून विदुषी बनावे व शरीर आणि आत्म्याचे बल वाढविण्यासाठी आपल्या संतानांना सदैव ज्ञान द्यावे. या मंत्राप्रमाणे ग्रीष्म ऋतूची व्याख्या पूर्ण झालेली आहे.
१५ नभश्च नभस्यश्च
विश्वास-प्रस्तुतिः ...{Loading}...
नभ॑श्च नभ॒स्य᳖श्च॒ वार्षि॑कावृ॒तूऽ अ॒ग्नेर॑न्तःश्लेषो᳖ऽसि॒ कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ऽ ओष॑धयः॒ कल्प॑न्ताम॒ग्नयः॒ पृथ॒ङ् मम॒ ज्यैष्ठ्या॑य॒ सव्रताः। येऽअ॒ग्नयः॒ सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वीऽ इ॒मे। वार्षि॑कावृ॒तूऽ अ॑भि॒कल्प॑माना॒ऽ इन्द्र॑मिव दे॒वाऽ अ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वे सी॑दतम् ॥१५ ॥
मूलम् ...{Loading}...
नभ॑श्च नभ॒स्य᳖श्च॒ वार्षि॑कावृ॒तूऽ अ॒ग्नेर॑न्तःश्लेषो᳖ऽसि॒ कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ऽ ओष॑धयः॒ कल्प॑न्ताम॒ग्नयः॒ पृथ॒ङ् मम॒ ज्यैष्ठ्या॑य॒ सव्रताः। येऽअ॒ग्नयः॒ सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वीऽ इ॒मे। वार्षि॑कावृ॒तूऽ अ॑भि॒कल्प॑माना॒ऽ इन्द्र॑मिव दे॒वाऽ अ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वे सी॑दतम् ॥१५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नभः॑। च॒। न॒भ॒स्यः᳖। च॒। वार्षि॑कौ। ऋ॒तूऽइत्यृ॒तू। अ॒ग्नेः। अ॒न्तः॒श्ले॒ष इत्य॑न्तःऽश्ले॒षः। अ॒सि॒। कल्पे॑ताम्। द्यावा॑पृथि॒वी इति॒ द्यावा॑ऽपृथि॒वी। कल्प॑न्ताम्। आपः॑। ओष॑धयः। कल्प॑न्ताम्। अ॒ग्नयः॑। पृथ॑क्। मम॑। ज्यैष्ठ्या॑य। सव्र॑ता॒ इति॒ सऽव्र॑ताः। ये। अ॒ग्नयः॑। सम॑नस॒ इति॒ सऽम॑नसः। अ॒न्त॒रा। द्यावा॑पृथि॒वी इति॒ द्यावा॑ऽपृथि॒वी। इ॒मेऽइ॒ती॒मे। वार्षि॑कौ। ऋ॒तूऽइत्यृ॒तू। अ॒भि॒कल्प॑माना॒ इत्य॑भिऽकल्प॑मानाः। इन्द्र॑मि॒वेतीन्द्र॑म्ऽइव। दे॒वाः। अ॒भि॒संवि॑श॒न्त्वित्य॑भि॒ऽसंवि॑शन्तु। तया॑। दे॒वत॑या। अ॒ङ्गि॒र॒स्वत्। ध्रु॒वेऽइति॑ ध्रु॒वे। सी॒द॒त॒म्। १५।
महीधरः
म०. ‘ऋतव्ये नभश्च नभस्यश्चेति’ ( का० १७ । ९ । ४) पूर्वर्तव्ययोरुपरि द्वे ऋतव्ये उपदधाति । ऋतुदैवत्यमुत्कृतिच्छन्दस्कं यजुः । नभः श्रावणः । नभस्यो भाद्रपदः । शेषं व्याख्यातम् ( अ० १३ क० २५ ) ॥ १५ ॥
षोडशी।
अधिमन्त्रम् (VC)
- ऋतवो देवताः
- विश्वदेव ऋषिः
- स्वराडुत्कृतिः
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब वर्षा ऋतु का व्याख्यान अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्री-पुरुषो ! तुम दोनों जो (नभः) प्रबन्धित मेघोंवाला श्रावण (च) और (नभस्यः) वर्षा का मध्यभागी भाद्रपद (च) ये दोनों (वार्षिकौ) वर्षा (ऋतू) ऋतु के महीने (मम) मेरे (ज्यैष्ठ्याय) प्रशंसित होने के लिये हैं, जिनमें (अग्नेः) उष्ण तथा (अन्तःश्लेषः) जिन के मध्य में शीत का स्पर्श (असि) होता है, जिन के साथ (द्यावापृथिवी) आकाश और भूमि समर्थ होते हैं, उन के भोग में तुम दोनों (कल्पेताम्) समर्थ हो, जैसे ऋतु योग से (आपः) जल और (ओषधयः) ओषधि वा (अग्नयः) अग्नि (पृथक्) जल से अलग समर्थ होते हैं, वैसे (सव्रताः) एक प्रकार के श्रेष्ठ नियम (समनसः) एक प्रकार का ज्ञान देने हारे (अग्नयः) तेजस्वी लोग (कल्पन्ताम्) समर्थ होवें, (ये) जो (इमे) (द्यावापृथिवी) आकाश और भूमि वर्षा ऋतु के गुणों में समर्थ होते हैं, उन को (वार्षिकौ) (ऋतू) वर्षाऋतुरूप (अभिकल्पमानाः) सब ओर से सुख के लिये समर्थ करते हुए (देवाः) विद्वान् लोग (इन्द्रमिव) बिजुली के समान प्रकाश और बल को (तया) उस (देवतया) दिव्य वर्षा ऋतु के साथ (अभिसंविशन्तु) सन्मुख होकर अच्छे प्रकार स्थित होवें (अन्तरा) उन दोनों महीनों में प्रवेश करके (अङ्गिरस्वत्) प्राण के समान परस्पर प्रेमयुक्त (ध्रुवे) निश्चल (सीदतम्) रहो ॥१५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इन मन्त्र में उपमा और वाचकलुप्तोमालङ्कार हैं। सब मनुष्यों को चाहिये कि विद्वानों के समान वर्षा ऋतु में वह सामग्री ग्रहण करें, जिस से सब सुख होवें ॥१५ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ वर्षर्त्तुर्व्याख्यायते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रीपुरुषौ ! युवां यौ नभश्च नभस्यश्च वार्षिकावृतू मम ज्यैष्ठ्याय कल्पेतां, ययोरग्नेरन्तःश्लेषोऽ(स्य)स्ति याभ्यां सह द्यावापृथिवी कल्पेतां, ताभ्यां युवां कल्पेतां, यथाप ओषधयश्च कल्पन्तामग्नयः पृथक् कल्पन्ते, तथा सव्रताः समनसोऽग्नयः कल्पन्ताम्। य इमे द्यावापृथिवी कल्पेते, तौ वार्षिकावृतू अभिकल्पमाना देवा इन्द्रमिव तया देवतया सहाऽभिसंविशन्तु, तयोरन्तराङ्गिरस्वद् ध्रुवे सीदतम् ॥१५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। मनुष्यैर्विद्वद्वद्वर्षासु सामग्री संग्राह्या यतो वर्षर्तौ सर्वाणि सुखानि भवेयुः ॥१५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहेत. सर्व माणसांनी विद्वानाप्रमाणे वर्षा ऋतूमध्ये सुखासाठी सर्व प्रकारची साधने उपलब्ध करून घ्यावीत.
१६ इषश्चोर्जश्च शारदावृतूऽ
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒षश्चो॒र्जश्च॑ शार॒दावृ॒तूऽ अ॒ग्नेर॑न्तःश्लेषो᳖ऽसि॒ कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ऽ ओष॑धयः॒ कल्प॑न्ताम॒ग्नयः॒ पृथ॒ङ् मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः। येऽ अ॒ग्नयः॒ सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वीऽ इ॒मे। शा॒र॒दावृ॒तूऽ अ॑भि॒कल्प॑माना॒ऽ इन्द्र॑मिव दे॒वाऽ अ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वे सी॑दतम् ॥१६ ॥
मूलम् ...{Loading}...
इ॒षश्चो॒र्जश्च॑ शार॒दावृ॒तूऽ अ॒ग्नेर॑न्तःश्लेषो᳖ऽसि॒ कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ऽ ओष॑धयः॒ कल्प॑न्ताम॒ग्नयः॒ पृथ॒ङ् मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः। येऽ अ॒ग्नयः॒ सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वीऽ इ॒मे। शा॒र॒दावृ॒तूऽ अ॑भि॒कल्प॑माना॒ऽ इन्द्र॑मिव दे॒वाऽ अ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वे सी॑दतम् ॥१६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इ॒षः। च॒। ऊ॒र्जः। च। शा॒र॒दौ। ऋ॒तूऽइत्यृ॒तू। अ॒ग्नेः। अ॒न्तः॒श्ले॒ष इत्य॑न्तःऽश्ले॒षः। अ॒सि॒। कल्पे॑ताम्। द्यावा॑पृथि॒वी इति॒ द्यावा॑ऽपृथि॒वी। कल्प॑न्ताम्। आपः॑। ओष॑धयः। कल्प॑न्ताम्। अ॒ग्नयः॑। पृथ॑क्। मम॑। ज्यैष्ठ्याय॑। सव्र॑ता॒ इति॒ सऽव्र॑ताः। ये। अ॒ग्नयः॑। सम॑नस॒ इति॒ सऽम॑नसः। अ॒न्त॒रा। द्यावा॑पृथि॒वी इति॒ द्यावा॑पृथि॒वी। इ॒मेऽइती॒मे। शा॒र॒दौ। ऋ॒तूऽइत्यृ॒तू। अ॒भि॒कल्प॑माना॒ इत्य॑भि॒ऽकल्प॑मानाः। इन्द्र॑मि॒वेतीन्द्र॑म्ऽइव। दे॒वाः। अ॒भि॒संवि॑श॒न्त्वित्य॑भि॒ऽसंवि॑शन्तु। तया॑। दे॒वत॑या। अ॒ङ्गि॒र॒स्वत्। ध्रु॒वेऽइति॑ ध्रु॒वे। सी॒द॒त॒म्। १६।
महीधरः
म० ‘इषश्चोर्जश्चेत्यपरे’ ( का० १७ । ९ । ५)। अपरे ऋतव्ये पूर्वयोरुपरि दधाति । ऋतव्यमुत्कृतियजुः । इषः आश्विनः ऊर्जः कार्तिकः शरदवयवौ । शिष्टं प्रोक्तम् ( अ.. १३ क० २५) ॥ १६ ॥
सप्तदशी।
अधिमन्त्रम् (VC)
- ऋतवो देवताः
- विश्वेदेवा ऋषयः
- उत्कृतिः
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब शरद् ऋतु का व्याख्यान अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (इषः) चाहने योग्य क्वार महीना (च) और (ऊर्जः) सब पदार्थों के बलवान् होने का हेतु कार्त्तिक (च) ये दोनों (शारदौ) शरद् (ऋतू) ऋतु के महीने (मम) मेरे (ज्यैष्ठ्याय) प्रशंसित सुख होने के लिये होते हैं। जिन के (अन्तःश्लेषः) मध्य में किञ्चित् शीतस्पर्श (असि) होता है, वे (द्यावापृथिवी) आकाश और पृथिवी को (कल्पेताम्) समर्थ करें, (आपः) जल और (ओषधयः) औषधियाँ (कल्पन्ताम्) समर्थ होवें, (सव्रताः) सब कार्यों के नियम करने हारे (अग्नयः) शरीर के अग्नि (पृथक्) अलग (कल्पन्ताम्) समर्थ हों (ये) जो (अन्तरा) बीच में (समनसः) मन के सम्बन्धी (अग्नयः) बाहर के भी अग्नि (इमे) इन (द्यावापृथिवी) आकाश भूमि को (कल्पेताम्) समर्थ करें, (शारदौ) शरद् (ऋतू) ऋतु के दोनों महीनों में (इन्द्रमिव) परमैश्वर्य के तुल्य (अभिकल्पमानाः) सब ओर से आनन्द की इच्छा करते हुए (देवाः) विद्वान् लोग (अभिसंविशन्तु) प्रवेश करें (तया) उस (देवतया) दिव्य शरद् ऋतु रूप देवता के नियम के साथ (ध्रुवे) निश्चल सुखवाले (सीदतम्) प्राप्त होते हैं, वैसे तुम लोगों को (ज्यैष्ठ्याय) प्रशंसित सुख होने के लिये भी होने योग्य हैं ॥१६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। हे मनुष्यो ! जो शरद् ऋतु में उपयोगी पदार्थ हैं, उन को यथायोग्य शुद्ध करके सेवन करो ॥१६ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ शरदृतुर्व्याख्यायते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः। याविषश्चोर्जश्च शारदावृतू यथा मम ज्यैष्ठ्याय भवतो ययोरग्नेरन्तःश्लेषोऽ(स्य)स्ति। तौ द्यावापृथिवी कल्पेतामाप ओषधयश्च कल्पन्ताम्। सव्रता अग्नयः पृथक् कल्पन्ताम्। येऽन्तरा समनसोऽग्नय इमे द्यावापृथिवी कल्पेताम्। शारदावृतू इन्द्रमिवाभि कल्पमाना देवा अभिसंविशन्तु, तथा तया देवतया सह ध्रुवे सीदतं गच्छतः ॥१६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। हे मनुष्याः ! ये शरद्युपयुक्ताः पदार्थाः सन्ति तान् यथायोग्यं संस्कृत्य सेवध्वम् ॥१६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. हे माणसांनो ! जे पदार्थ शरद ऋतूमध्ये उपयोगी आहेत त्यांना यथायोग्य रीतीने शुद्ध करून त्यांचे सेवन करा.
१७ आयुर्मे पाहि
विश्वास-प्रस्तुतिः ...{Loading}...
आयु॑र्मे पाहि प्रा॒णं मे॑ पाह्यपा॒नं मे॑ पाहि व्या॒नं मे॑ पाहि॒ चक्षु॑र्मे पाहि॒ श्रोत्रं॑ मे पाहि॒ वाचं॑ मे पिन्व॒ मनो॑ मे जिन्वा॒त्मानं॑ मे पाहि॒ ज्योति॑र्मे यच्छ ॥१७ ॥
मूलम् ...{Loading}...
आयु॑र्मे पाहि प्रा॒णं मे॑ पाह्यपा॒नं मे॑ पाहि व्या॒नं मे॑ पाहि॒ चक्षु॑र्मे पाहि॒ श्रोत्रं॑ मे पाहि॒ वाचं॑ मे पिन्व॒ मनो॑ मे जिन्वा॒त्मानं॑ मे पाहि॒ ज्योति॑र्मे यच्छ ॥१७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आयुः॑। मे॒। पा॒हि॒। प्रा॒णम्। मे॒। पा॒हि॒। अ॒पा॒नमित्य॑प्ऽआ॒नम्। मे॒। पा॒हि॒। व्या॒नमिति॑ विऽआ॒नम्। मे॒। पा॒हि॒। चक्षुः॑। मे॒। पा॒हि॒। श्रोत्र॑म्। मे॒। पा॒हि॒। वाच॑म्। मे॒। पि॒न्व॒। मनः॑। मे॒। जि॒न्व॒। आ॒त्मान॑म्। मे॒। पा॒हि॒। ज्योतिः॑। मे॒। य॒च्छ॒। १७।
महीधरः
म० ‘पूर्वार्धे प्राणभृतो दशायुर्म इति प्रतिमन्त्रम्’ ( का० १७ । ९ । ६ ) आत्मनः पूर्वभागे प्राणभृत्संज्ञा दशेष्टका उपदधातीति सूत्रार्थः । दश यजूंषि लिङ्गोक्तदेवत्यानि । हे इष्टके, मे ममायुः त्वं पाहि रक्ष । एवं प्राणमपानं व्यानं चक्षुः श्रोत्रं मे रक्ष । मे वाचं पिन्व सिञ्च कामैः पूरय । मे मनो जिन्व प्रीणय । ममात्मानं जीवं पाहि मह्यं ज्योतिस्तेजो यच्छ ॥ १७ ॥
अष्टादशी।
अधिमन्त्रम् (VC)
- ऋतवो देवताः
- विश्वदेव ऋषिः
- भुरिगतिजगती
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी पूर्वोक्त विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्री वा पुरुष ! तू शरद् ऋतु में (मे) मेरी (आयुः) अवस्था की (पाहि) रक्षा कर (मे) मेरे (प्राणम्) प्राण की (पाहि) रक्षा कर (मे) मेरे (अपानम्) अपान वायु की (पाहि) रक्षा कर (मे) मेरे (व्यानम्) व्यान की (पाहि) रक्षा कर (मे) मेरे (चक्षुः) नेत्रों की (पाहि) रक्षा कर (मे) मेरे (श्रोत्रम्) कानों की (पाहि) रक्षा कर (मे) मेरी (वाचम्) वाणी को (पिन्व) अच्छी शिक्षा से युक्त कर (मे) मेरे (मनः) मन को (जिन्व) तृप्त कर (मे) मेरे (आत्मानम्) चेतन आत्मा की (पाहि) रक्षा कर और (मे) मेरे लिये (ज्योतिः) विज्ञान का (यच्छ) दान कर ॥१७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - स्त्री पुरुष की और पुरुष स्त्री की जैसे अवस्था आदि की वृद्धि होवे, वैसे परस्पर नित्य आचरण करें ॥१७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि पुरुष वा ! त्वं शरदृतावायुर्मे पाहि, प्राणं मे पाह्यपानं मे पाहि, व्यानं मे पाहि, चक्षुर्मे पाहि, श्रोत्रं मे पाहि, वाचं मे पिन्व, मनो मे जिन्वात्मानं मे पाहि, ज्योतिर्मे यच्छ ॥१७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - स्त्री पुरुषस्य पुरुषः स्त्रियाश्च यथाऽऽयुरादीनां वृद्धिः स्यात् तथैव नित्यमाचरेताम् ॥१७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - स्त्री-पुरुषांच्या अवस्था जसजशा वृद्धिंगत होत जातील त्यानुरूप परस्परांशी व्यवहार करावा.
१८ मा छन्दः
विश्वास-प्रस्तुतिः ...{Loading}...
मा छन्दः॑ प्र॒मा छन्दः॑ प्रति॒मा छन्दो॑ऽ अस्री॒वय॒श्छन्दः॑ प॒ङ्क्तिश्छन्द॑ऽ उ॒ष्णिक् छन्दो॑ बृह॒ती छन्दो॑ऽनु॒ष्टुप् छन्दो॑ वि॒राट् छन्दो॑ गाय॒त्री छन्द॑स्त्रि॒ष्टुप् छन्दो॒ जग॑ती॒ छन्दः॑ ॥१८ ॥
मूलम् ...{Loading}...
मा छन्दः॑ प्र॒मा छन्दः॑ प्रति॒मा छन्दो॑ऽ अस्री॒वय॒श्छन्दः॑ प॒ङ्क्तिश्छन्द॑ऽ उ॒ष्णिक् छन्दो॑ बृह॒ती छन्दो॑ऽनु॒ष्टुप् छन्दो॑ वि॒राट् छन्दो॑ गाय॒त्री छन्द॑स्त्रि॒ष्टुप् छन्दो॒ जग॑ती॒ छन्दः॑ ॥१८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मा। छन्दः॑। प्र॒मेति॑ प्र॒ऽमा। छन्दः॑। प्र॒ति॒मेति॑ प्रति॒ऽमा। छन्दः॑। अ॒स्री॒वयः॑। छन्दः॑। प॒ङ्क्तिः। छन्दः॑। उ॒ष्णिक्। छन्दः॑। बृ॒ह॒ती। छन्दः॑। अ॒नु॒ष्टुप्। अ॒नु॒स्तुबित्य॑नु॒ऽस्तुप्। छन्दः॑। वि॒राडिति॑ वि॒ऽराट्। छन्दः॑। गा॒य॒त्री। छन्दः॑। त्रि॒ष्टुप्। त्रि॒स्तुबिति॑ त्रि॒ऽस्तुप्। छन्दः॑। जग॑ती। छन्दः॑। १८।
महीधरः
म० ‘छन्दस्या द्वादश द्वादशाप्ययेषु मा छन्द’ (का० १७ । | ९ । ८ ) इति । अप्ययेषु पक्षपुच्छात्मसन्धिषु त्रिषु द्वादश द्वादश छन्दस्यासंज्ञा इष्टका उपदधातीति सूत्रार्थः । षट्त्रिंशद्यजूंषि लिङ्गोक्तदेवत्यानि । मीयत इति मा मितश्छादनाच्छन्दोऽयं लोकः । हे इष्टके, त्वं तद्रूपासि । ‘अयं वै लोको मायं लोको मित इव’ (८ । ३ । ३ । ५) इति श्रुतेः । अस्माल्लोकात्प्रमीयत | इति प्रमान्तरिक्षलोकरूपासि । ‘अन्तरिक्षलोको वै प्रमान्तरिक्षलोको ह्यस्माल्लोकात्प्रमित इव’ (८ । ३ । ३ । ५) इति श्रुतेः। प्रतिमा द्यौः सा ह्यन्तरिक्षे प्रतिमिता । ‘असौ वै लोकः प्रतिमैष ह्यन्तरिक्षलोके प्रतिमित इवेति’ (८ । ३ । ३ । ५) श्रुतेः । अस्रीवयः अस्यते क्षिप्यत इत्यस्रि अस्रि पतनशीलं वयोऽन्नं यस्मात्तदस्रिवयः । दीर्घश्छान्दसः । अस्रीवयः लोकत्रयरूपं छादनाच्छन्दस्तद्रूपासि । ‘यदेषु लोकेष्वन्नं तदस्रीवयोथो यदेभ्यो लोकेभ्योऽन्नᳪं᳭ स्रवति तदस्रीवय’ (८ । ३ । ३ । ५) इति श्रुतेः । इतः स्पष्टान्येव छन्दांसि पङ्क्त्यादीन्यष्टौ ‘अथो निरुक्तान्येव छन्दाᳪं᳭स्युपदधाति’ ( ८।३ । ३ । ५) इति श्रुतेः । इष्टके, त्वं पङ्क्त्युष्णिग्बृहत्यनुष्टुप्विराड्गायत्रीत्रिष्टुब्जगतीच्छन्दोरूपासीत्यर्थः ॥ १८॥
एकोनविंशी।
अधिमन्त्रम् (VC)
- छन्दांसि देवताः
- विश्वदेव ऋषिः
- भुरिगतिजगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
स्त्री-पुरुषों को कैसे विज्ञान बढ़ाना चाहिये? इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोग (मा) परिमाण का हेतु (छन्दः) आनन्दकारक (प्रमा) प्रमाण का हेतु बुद्धि (छन्दः) बल (प्रतिमा) जिससे प्रतीति निश्चय की क्रिया हेतु (छन्दः) स्वतन्त्रता (अस्रीवयः) बल और कान्तिकारक अन्नादि पदार्थ (छन्दः) बलकारी विज्ञान (पङ्क्तिः) पाँच अवयवों से युक्त योग (छन्दः) प्रकाश (उष्णिक्) स्नेह (छन्दः) प्रकाश (बृहती) बड़ी प्रकृति (छन्दः) आश्रय (अनुष्टुप्) सुखों का आलम्बन (छन्दः) भोग (विराट्) विविध प्रकार की विद्याओं का प्रकाश (छन्दः) विज्ञान (गायत्री) गानेवाले का रक्षक ईश्वर (छन्दः) उस का बोध (त्रिष्टुप्) तीन सुखों का आश्रय (छन्दः) आनन्द और (जगती) जिस में सब जगत् चलता है, उस (छन्दः) पराक्रम को ग्रहण कर और जान के सब को सुखयुक्त करो ॥१८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य निश्चय के हेतु आनन्द आदि से साध्य, धर्मयुक्त कर्मों को सिद्ध करते हैं, वे सुखों से शोभायमान होते हैं ॥१८ ॥
दयानन्द-सरस्वती (सं) - विषयः
स्त्रीपुरुषैः कथं विज्ञानं वर्द्धनीयमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! युष्माभिर्मा छन्दः प्रमा छन्दः प्रतिमा छन्दोऽस्रीवयश्छन्दः पङ्क्तिश्छन्द उष्णिक् छन्दो बृहती छन्दोऽनुष्टुप् छन्दो विराट् छन्दो गायत्री छन्दस्रिष्टुप् छन्दो जगती छन्दः स्वीकृत्य विज्ञाय च सुखयितव्यम् ॥१८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्याः प्रमादिभिः साध्यानि धर्म्याणि कर्माणि साध्नुवन्ति ते सुखालङ्कृता भवन्ति ॥१८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे निश्चयपूर्वक आनंदाने आपले साध्य पूर्ण करतात व धर्मयुक्त कर्म करतात ते सुख प्राप्त करून जगात शोभून दिसतात.
१९ पृथिवी छन्दोऽन्तरिक्षम्
विश्वास-प्रस्तुतिः ...{Loading}...
पृ॒थि॒वी छन्दो॒ऽन्तरि॑क्षं॒ छन्दो॒ द्यौश्छन्दः॒ समा॒श्छन्दो॒ नक्ष॑त्राणि॒ छन्दो॒ वाक् छन्दो॒ मन॒श्छन्दः॑ कृ॒षिश्छन्दो॒ हिर॑ण्यं॒ छन्दो॒ गौश्छन्दो॒ऽजाच्छन्दोऽश्व॒श्छन्दः॑ ॥१९ ॥
मूलम् ...{Loading}...
पृ॒थि॒वी छन्दो॒ऽन्तरि॑क्षं॒ छन्दो॒ द्यौश्छन्दः॒ समा॒श्छन्दो॒ नक्ष॑त्राणि॒ छन्दो॒ वाक् छन्दो॒ मन॒श्छन्दः॑ कृ॒षिश्छन्दो॒ हिर॑ण्यं॒ छन्दो॒ गौश्छन्दो॒ऽजाच्छन्दोऽश्व॒श्छन्दः॑ ॥१९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पृ॒थि॒वी। छन्दः॑। अ॒न्तरि॑क्षम्। छन्दः॑। द्यौः। छन्दः॑। समाः॑। छन्दः॑। नक्ष॑त्राणि। छन्दः॑। वाक्। छन्दः॑। मनः॑। छन्दः॑। कृ॒षिः। छन्दः॑। हिर॑ण्यम्। छन्दः॑। गौः। छन्दः॑। अ॒जा। छन्दः॑। अश्वः॑। छन्दः॑। १९।
महीधरः
म० पृथिव्यादिदेवत्यानि यानि छन्दांसि तद्रूपासि । समाः संवत्सराः स्पष्टमन्यत् । ‘यान्येतद्देवत्यानि छन्दाᳪं᳭सि तान्येवैतदुपदधातीति’ ( ८ । ३ । ३ । ६ ) श्रुतेः ॥ १९ ॥
विंशी।
अधिमन्त्रम् (VC)
- पृथिव्यादयो देवताः
- विश्वदेव ऋषिः
- आर्षी जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर वही उक्त विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्री-पुरुषो ! तुम लोग जैसे (पृथिवी) भूमि (छन्दः) स्वतन्त्र (अन्तरिक्षम्) आकाश (छन्दः) आनन्द (द्यौः) प्रकाश (छन्दः) विज्ञान (समाः) वर्ष (छन्दः) बुद्धि (नक्षत्राणि) तारे लोक (छन्दः) स्वतन्त्र (वाक्) वाणी (छन्दः) सत्य (मनः) मन (छन्दः) निष्कपट (कृषिः) जोतना (छन्दः) उत्पत्ति (हिरण्यम्) सुवर्ण (छन्दः) सुखदायी (गौः) गौ (छन्दः) आनन्द-हेतु (अजा) बकरी (छन्दः) सुख का हेतु और (अश्वः) घोड़े आदि (छन्दः) स्वाधीन हैं, वैसे विद्या, विनय और धर्म के आचरण विषय में स्वाधीनता से वर्त्तो ॥१९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। स्त्री-पुरुषों को चाहिये कि शुद्ध विद्या, क्रिया और स्वतन्त्रता से पृथिवी आदि पदार्थों के गुण, कर्म और स्वभावों को जान; खेती आदि कर्मों से सुवर्ण आदि रत्नों को प्राप्त हों और गौ आदि पशुओं की रक्षा करके ऐश्वर्य्य बढ़ावें ॥१९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रीपुरुषाः ! यूयं यथा पृथिवी छन्दोऽन्तरिक्षं छन्दो द्यौश्छन्दः समाश्छन्दो नक्षत्राणि छन्दो वाक् छन्दो मनश्छन्दः कृषिश्छन्दो हिरण्यं छन्दो गौश्छन्दोऽजाच्छन्दोऽश्वश्छन्दोऽस्ति, तथा विद्याविनयधर्माचरणेषु स्वाधीनतया वर्त्तध्वम् ॥१९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। स्त्रीपुरुषैः स्वच्छविद्याक्रियाभ्यां स्वातन्त्र्येण पृथिव्यादिपदार्थानां गुणादीन् विज्ञाय कृष्यादिकर्मभिः सुवर्णादिं प्राप्य गवादीन् संरक्ष्यैश्वर्यमुन्नेयम् ॥१९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. स्त्री व पुरुषांनी शुद्ध ज्ञान व कर्म या द्वारे स्वतंत्रपणे पृथ्वी इत्यादी पदार्थांचे गुण, कर्म, स्वभाव जाणून शेती इत्यादी द्वारा सुवर्ण, रत्ने प्राप्त करावीत आणि गाई वगैरे पशूंचे रक्षण करून ऐश्वर्य वाढवावे.
२० अग्निर्देवता वातो
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्निर्दे॒वता॒ वातो॑ दे॒वता॒ सूर्यो॑ दे॒वता॑ च॒न्द्रमा॑ दे॒वता॒ वस॑वो दे॒वता॑ रु॒द्रा दे॒वता॑ऽऽदि॒त्या दे॒वता॑ म॒रुतो॑ दे॒वता॒ विश्वे॑ दे॒वा दे॒वता॒ बृह॒स्पति॑र्दे॒वतेन्द्रो॑ दे॒वता॒ वरु॑णो दे॒वता॑ ॥२० ॥
मूलम् ...{Loading}...
अ॒ग्निर्दे॒वता॒ वातो॑ दे॒वता॒ सूर्यो॑ दे॒वता॑ च॒न्द्रमा॑ दे॒वता॒ वस॑वो दे॒वता॑ रु॒द्रा दे॒वता॑ऽऽदि॒त्या दे॒वता॑ म॒रुतो॑ दे॒वता॒ विश्वे॑ दे॒वा दे॒वता॒ बृह॒स्पति॑र्दे॒वतेन्द्रो॑ दे॒वता॒ वरु॑णो दे॒वता॑ ॥२० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒ग्निः। दे॒वता॑। वातः॑। दे॒वता॑। सूर्यः॑। दे॒वता॑। च॒न्द्रमाः॑। दे॒वता॑। वस॑वः। दे॒वता॑। रु॒द्राः। दे॒वता॑। आ॒दि॒त्याः। दे॒वता॑। म॒रुतः॑। दे॒वता॑। विश्वे॑। दे॒वाः। दे॒वता॑। बृह॒स्पतिः॑। दे॒वता॑। इन्द्रः॑। दे॒वता॑। वरु॑णः। दे॒वता॑। २०।
महीधरः
म० इष्टके, त्वमग्न्यादिदेवतारूपासि । तामुपदधामीति सर्वत्र शेषः । अग्न्यादीनां देवतात्वं प्रसिद्धम् । ‘अग्निर्देवता वातो देवतेत्येता वै देवताश्छन्दाᳪं᳭सि तान्येवैतदुपदधातीति’ ( ८ । ३ । ३ । ६) श्रुतेः ॥ २० ॥
एकविंशी।
अधिमन्त्रम् (VC)
- अग्न्यादयो देवताः
- विश्वदेव ऋषिः
- भुरिग्ब्राह्मी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्री-पुरुषो ! तुम लोगों को योग्य है कि (अग्निः) प्रसिद्ध अग्नि (देवताः) दिव्य गुणवाला (वातः) पवन (देवता) शुद्धगुणयुक्त (सूर्य्यः) सूर्य्य (देवता) अच्छे गुणोंवाला (चन्द्रमाः) चन्द्रमा (देवता) शुद्ध गुणयुक्त (वसवः) प्रसिद्ध आठ अग्नि आदि वा प्रथम कक्षा के विद्वान् (देवता) दिव्यगुणवाले (रुद्राः) प्राण आदि ११ ग्यारह वा मध्यम कक्षा के विद्वान् (देवता) शुद्ध गुणोंवाले (आदित्याः) बारह महीने वा उत्तम कक्षा के विद्वान् लोग (देवता) शुद्ध (मरुतः) मननकर्त्ता विद्वान् ऋत्विग् लोग (देवता) दिव्य गुणवाले (विश्वे) सब (देवता) अच्छे गुणोंवाले विद्वान् मनुष्य वा दिव्य पदार्थ (देवता) देवसंज्ञावाले हैं (बृहस्पतिः) बड़े वचन वा ब्रह्माण्ड का रक्षक परमात्मा (देवता) (इन्द्रः) बिजुली वा उत्तम धन (देवता) दिव्य गुणयुक्त और (वरुणः) जल वा श्रेष्ठ गुणोंवाला पदार्थ (देवता) अच्छे गुणोंवाला है, इन को तुम निश्चय जानो ॥२० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस संसार में जो अच्छे गुणोंवाले पदार्थ हैं, वे दिव्य गुण कर्म और स्वभाववाले होने से देवता कहाते हैं और जो देवताओं का देवता होने से महादेव सब का धारक, रचक, रक्षक सब की व्यवस्था और प्रलय करने हारा, सर्वशक्तिमान्, दयालु, न्यायकारी, उत्पत्ति धर्म से रहित है, उस सब के अधिष्ठाता परमात्मा को सब मनुष्य जानें ॥२० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रीपुरुषाः ! युष्माभिरग्निर्देवता वातो देवता सूर्य्यो देवता चन्द्रमा देवता वसवो देवता रुद्रा देवताऽऽदित्या देवता मरुतो देवता विश्वे देवा देवता बृहस्पतिर्देवतेन्द्रो देवता वरुणो देवता सम्यग्विज्ञेयाः ॥२० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये दिव्याः पदार्था विद्वांसश्च सन्ति ते दिव्यगुणकर्मस्वभावत्वाद् देवतासञ्ज्ञां लभन्ते। या च देवतानां देवतात्वान्महादेवः सर्वस्य धर्त्ता स्रष्टा पाता व्यवस्थापकः प्रलायकः सर्वशक्तिमानजोऽस्ति, तमपि परमात्मानं सकलाधिष्ठातारं सर्वे मनुष्या जानीयुः ॥२० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या जगात जे चांगले गुण असणारे पदार्थ आहेत ते सर्व दिव्य गुण, कर्म, स्वभावयुक्त असतात त्यासाठी त्यांना देवता म्हटले जाते व जो देवांचा देव असा महादेव सर्वांचा धारक, निर्माता, रक्षक, व्यवस्थापक, रचनाकार, सर्वशक्तिमान, दयाळू, न्यायी, प्रलयकाळी संहारक व उत्पत्तिरहित आहे. असा सर्वांचा अधिष्ठाता असलेल्या परमेश्वराला सर्व माणसांनी जाणावे.
२१ मूर्द्धासि राड्
विश्वास-प्रस्तुतिः ...{Loading}...
मू॒र्द्धासि॒ राड् ध्रु॒वासि॑ ध॒रुणा॑ ध॒र्त्र्य᳖सि॒ धर॑णी। आयु॑षे त्वा॒ वर्च॑से त्वा कृ॒ष्यै त्वा॒ क्षेमा॑य त्वा ॥२१ ॥
मूलम् ...{Loading}...
मू॒र्द्धासि॒ राड् ध्रु॒वासि॑ ध॒रुणा॑ ध॒र्त्र्य᳖सि॒ धर॑णी। आयु॑षे त्वा॒ वर्च॑से त्वा कृ॒ष्यै त्वा॒ क्षेमा॑य त्वा ॥२१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मू॒र्द्धा। अ॒सि॒। राट्। ध्रु॒वा। अ॒सि॒। ध॒रुणा॑। ध॒र्त्री। अ॒सि॒। धर॑णी। आयु॑षे। त्वा॒। वर्च॑से। त्वा॒। कृ॒ष्यै। त्वा॒। क्षेमा॑य। त्वा॒। २१।
महीधरः
म० ‘वालखिल्याः सप्त पुरस्तात्प्राणभृद्भ्यो वापरा द्वादशभ्योऽपरास्तु मूर्धासि राडिति प्रतिमन्त्रम्’ (का० १७ । ९ । १०-१३) । प्रागुक्तः दशप्राणभृद्भ्यः पूर्वा अपरा वा सप्त वालखिल्यासंज्ञा इष्टका उपदधाति मूर्धासीत्यादिसप्तमन्त्रैः । तुर्विशेषे । अपराः सप्त वालखिल्यास्तु द्वादशच्छन्दस्याभ्योऽपरा एवोपधेयाः यन्त्रीति सप्तमन्त्रैः । वालमात्रेणापि खिला अभिन्ना इति वालखिल्याः प्राणाः । ते च चतुर्दश सप्त पुरो हस्तौ बाह्र शिरो ग्रीवा नाभेरूर्ध्वभागश्चेति, ऊरू जानुनी पादौ नाभेरधोभागश्चेति सप्त पश्चादधोभागे एतेष्वङ्गेषु प्राणानां विद्यमानत्वात्तानेवोपदधाति । तथाच श्रुतिः ‘प्राणा वै वालखिल्याः प्राणानेवैतदुपदधाति ता यद्वालखिल्या नाम’ ( ८ । | ३ । ४ । १ । ४-५) यद्वा ‘उर्वरयोरसंभिन्नं भवति खिल इति वै तदाचक्षते वालमात्रादुहेमे प्राणा असंभिन्नास्ते यद्वालमात्रादसंभिन्नास्तस्माद्वालखिल्याः ॥ १॥ सप्त वा इमे पुरस्तात्प्राणाश्चत्वारि दोर्बाहवाणि शिरो ग्रीवा यदूर्ध्वं नाभेस्तत्सप्तममङ्गेऽङ्गे हि प्राणाः ॥ ४॥ सप्त वा इमे पश्चात्प्राणाश्चत्वार्यूर्वष्ठीवानि द्वे प्रतिष्ठे यदवाङ्नाभेस्तत्सप्तममङ्गेऽङ्गे हि प्राणा एते वै सप्त पश्चात्प्राणास्तानस्मिन्नेतद्दधातीति ॥ ५॥’ इति सूत्रार्थः । मूर्धासि अनुष्टुप् गायत्री परोष्णिक् । ऋग्द्वये चतुर्दश यजूंषि वालखिल्यादेवत्यानि । हे इष्टके, त्वं मूर्धा मूर्धवदुत्तमा राट् राजमाना चासि । हे इष्टके, त्वं ध्रुवा स्थिरा धरुणा धारणहेतुश्चासि । हे इष्टके, त्वं धर्त्री धारणं कुर्वती धरणी भूमिरूपा चासि । एवमिष्टकात्रयस्य त्रिलोकरूपत्वम् । तदुक्तं श्रुत्या ‘मूर्धासि राडितीमं लोकमरोहन् ध्रुवासि धरणेत्यन्तरिक्षलोकं धर्त्र्यसि धरणीत्यमुं लोकमिति’ ( ८ । ३ । ४ । ८)। आयुषे त्वा आयुर्वृद्ध्यर्थं त्वामुपदधामि । वर्चसे कान्त्यर्थं त्वामुपदधामि । कृष्यै सस्यनिष्पत्तये त्वामु० । क्षेमाय संपादितधनरक्षणाय त्वामु० । इष्टकाचतुष्टयस्य पशुसंस्तवः ‘आयुषे त्वा वर्चसे त्वा कृष्यै त्वा क्षेमाय त्वेति चत्वारश्चतुष्पादाः पशवः’ ( ८ । ३ । ४ । ८ ) इति श्रुतेः ॥२१॥
द्वाविंशी।
अधिमन्त्रम् (VC)
- विदुषी देवता
- विश्वदेव ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
विदुषी स्त्री कैसी हो, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! जो तू सूर्य्य के तुल्य (मूर्द्धा) उत्तम (असि) है, (राट्) प्रकाशमान निश्चल के समान (ध्रुवा) निश्चल शुद्ध (असि) है, (धरुणा) पुष्टि करने हारी (धरणी) आधाररूप पृथिवी के तुल्य (धर्त्री) धारण करने हारी (असि) है, उस (त्वा) तुझे (आयुषे) जीवन के लिये, उस (त्वा) तुझे (वर्चसे) अन्न के लिये, उस (त्वा) तुझे (कृष्यै) खेती होने के लिये और उस (त्वा) तुझ को (क्षेमाय) रक्षा होने के लिये मैं सब ओर से ग्रहण करता हूँ ॥२१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे स्थित उत्तमाङ्ग शिर से सब का जीवन, राज्य से लक्ष्मी, खेती से अन्न आदि पदार्थ और निवास से रक्षा होती है, सो यह सब का आधारभूत माता के तुल्य मान्य करने हारी पृथिवी है, वैसे ही विद्वान् स्त्री को होना चाहिये ॥२१ ॥
दयानन्द-सरस्वती (सं) - विषयः
किंप्रकारिकया विदुष्या भवितव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! या त्वं सूर्य्यवन्मूर्द्धासि, राडिव ध्रुवासि, धरुणा धरणीव धर्त्र्यसि, तामायुषे त्वा वर्चसे त्वा कृष्यै त्वा क्षेमाय त्वा त्वामहं परिगृह्णामि ॥२१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यथोत्तमाङ्गेन स्थितेन शिरसा सर्वेषां जीवनं, राज्येन लक्ष्मीः, कृष्या अन्नादिकं, निवासेन रक्षणं जायते, सेयं सर्वेषामाधारभूता मातृवन्मान्यकर्त्री भूमिवर्त्तते, तथा सती विदुषी स्त्री भवेदिति ॥२१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सर्वात उत्तम अवयव म्हणजे मेंदू. त्यामुळे सर्वांचे जीवन बनते. लक्ष्मीमुळे राज्य टिकते. शेतीमुळे अन्न इत्यादी पदार्थ मिळतात व घरामुळे सर्वांचे रक्षण होते. पृथ्वी ही सर्वांचा आधार असलेल्या मातेसमान असते त्यासाठी विदुषी स्त्रीने त्याप्रमाणे (मातेसमान) तसे वागावे.
२२ यन्त्री राड्
विश्वास-प्रस्तुतिः ...{Loading}...
यन्त्री॒ राड् य॒न्त्र्य᳖सि॒ यम॑नी ध्रु॒वासि॒ धरि॑त्री। इ॒षे त्वो॒र्जे त्वा॑ र॒य्यै त्वा॒ पोषा॑य त्वा ॥२२ ॥
मूलम् ...{Loading}...
यन्त्री॒ राड् य॒न्त्र्य᳖सि॒ यम॑नी ध्रु॒वासि॒ धरि॑त्री। इ॒षे त्वो॒र्जे त्वा॑ र॒य्यै त्वा॒ पोषा॑य त्वा ॥२२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यन्त्री॑। राट्। य॒न्त्री। अ॒सि॒। यम॑नी। ध्रु॒वा। अ॒सि॒। धरि॑त्री। इ॒षे। त्वा॒। ऊ॒र्ज्जे। त्वा॒। र॒य्यै। त्वा॒। पोषा॑य। त्वा॒। २२।
महीधरः
म० हे इष्टके, त्वं यन्त्री नियमोपेता राट् राजमाना चासि । तथा यन्त्री स्वयमपि सती यमनी सर्वेषां नियमकारिण्यसि । ध्रुवा स्थिरा सती धरित्री भूमिरूपा चासि । तिसृणां त्रिलोकसंस्तवः ‘यन्त्री राडित्यमुं लोकमरोहन् यन्त्र्यसि यमनीत्यन्तरिक्षलोकं ध्रुवासि धरित्रीतीमं लोकमिति’ ( ८ । ३।४।१०) श्रुतेः । हे इष्टके, इषेऽन्नाय त्वामुपदधामि । ऊर्जे बलाय त्वामु० । रय्यै धनाय त्वामु० । पोषाय धनपुष्ट्यै त्वामु० । ‘इषे त्वोर्जे त्वा रय्यै त्वा पोषाय त्वेति चतस्रश्चतुष्पादाः पशवः’ ( ८।३।४।१० ) इति श्रुतेश्चतसृणां पशुसंस्तवः । ‘उत्तरश्रोणेरधिलोकंपृणाः पूर्ववत्’ ( का० १७ । ९ । १५) उत्तरश्रोणेरारभ्य प्रथमचितिवदेव लोकंपृणा उपदधाति । ततः पुरीषनिर्वापोपस्थाने ॥ २२ ॥
इति तृतीया चितिः॥
त्रयोविंशी।
अधिमन्त्रम् (VC)
- विदुषी देवता
- विश्वदेव ऋषिः
- निचृदुष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर स्त्री कैसी होवे, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! जो तू (यन्त्री) यन्त्र के तुल्य स्थित (राट्) प्रकाशयुक्त (यन्त्री) यन्त्र का निमित्त पृथिवी के समान (असि) है, (यमनी) आकर्षण शक्ति से नियमन करने हारी (ध्रुवा) आकाश-सदृश दृढ़ निश्चल (धरित्री) सब शुभगुणों का धारण करनेवाली (असि) है, (त्वा) तुझ को (इषे) इच्छा सिद्धि के लिये (त्वा) तुझ को (ऊर्जे) पराक्रम की प्राप्ति के लिये (त्वा) तुझ को (रय्यै) लक्ष्मी के लिये और (त्वा) तुझ को (पोषाय) पुष्टि होने के लिये मैं ग्रहण करता हूँ ॥२२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो स्त्री पृथिवी के समान क्षमायुक्त, आकाश के समान निश्चल और यन्त्रकला के तुल्य जितेन्द्रिय होती है, वह कुल का प्रकाश करनेवाली है ॥२२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः पत्नी कीदृशी स्यादित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! या त्वं यन्त्री राट् यन्त्री भूमिरिवाऽसि, यमनी ध्रुवा धरित्र्यसि, त्वेषे त्वोर्जे त्वा रय्यै त्वा पोषाय चाऽहं स्वीकरोमि ॥२२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - या स्त्री भूमिवत् क्षमान्वितान्तरिक्षवदक्षोभा यन्त्रवज्जितेन्द्रिया भवति सा कुलदीपिकाऽस्ति ॥२२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी स्त्री पृथ्वीप्रमाणे क्षमाशील, आकाशाप्रमाणे निश्चल व यंत्राप्रमाणे स्थित असते ती कुळाचा उद्धार करणारी असते.
२३ आशुस्त्रिवृद्भान्तः पञ्चदशो
विश्वास-प्रस्तुतिः ...{Loading}...
आ॒शुस्त्रि॒वृद्भा॒न्तः प॑ञ्चद॒शो व्यो॑मा सप्तद॒शो ध॒रुण॑ऽ एकविँ॒शः प्रतू॑र्त्तिरष्टाद॒शस्तपो॑ नवद॒शो᳖ऽभीव॒र्त्तः स॑विँ॒शो वर्चो॑ द्वाविँ॒शः स॒म्भर॑णस्त्रयोविँ॒शो योनि॑श्चतुर्विँ॒शो गर्भाः॑ पञ्चविँ॒शऽ ओज॑स्त्रिण॒वः क्रतु॑रेकत्रिँ॒शः प्र॑ति॒ष्ठा त्र॑यस्त्रिँ॒शो ब्र॒ध्नस्य॑ वि॒ष्टपं॑ चतुस्त्रिँ॒शो नाकः॑ षट्त्रिँ॒शो वि॑व॒र्तो᳖ऽष्टाचत्वारिँ॒शो ध॒र्त्रं च॑तुष्टो॒मः ॥२३ ॥
मूलम् ...{Loading}...
आ॒शुस्त्रि॒वृद्भा॒न्तः प॑ञ्चद॒शो व्यो॑मा सप्तद॒शो ध॒रुण॑ऽ एकविँ॒शः प्रतू॑र्त्तिरष्टाद॒शस्तपो॑ नवद॒शो᳖ऽभीव॒र्त्तः स॑विँ॒शो वर्चो॑ द्वाविँ॒शः स॒म्भर॑णस्त्रयोविँ॒शो योनि॑श्चतुर्विँ॒शो गर्भाः॑ पञ्चविँ॒शऽ ओज॑स्त्रिण॒वः क्रतु॑रेकत्रिँ॒शः प्र॑ति॒ष्ठा त्र॑यस्त्रिँ॒शो ब्र॒ध्नस्य॑ वि॒ष्टपं॑ चतुस्त्रिँ॒शो नाकः॑ षट्त्रिँ॒शो वि॑व॒र्तो᳖ऽष्टाचत्वारिँ॒शो ध॒र्त्रं च॑तुष्टो॒मः ॥२३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ॒शुः। त्रि॒वृदिति॑ त्रि॒ऽवृत्। भा॒न्तः। प॒ञ्च॒द॒श इति॑ पञ्चऽद॒शः। व्यो॒मेति॒ विऽओ॑मा। स॒प्त॒द॒श इति॑ सप्तऽद॒शः। ध॒रुणः॑। ए॒क॒विँ॒श इत्ये॑कऽविँ॒शः। प्रतू॑र्त्ति॒रिति॒ प्रऽतू॑र्त्तिः। अ॒ष्टा॒द॒श इत्य॑ष्टाऽद॒शः। तपः॑। न॒व॒द॒श इति॑ नवऽद॒शः। अ॒भी॒व॒र्त्तः। अ॒भी॒व॒र्त्त इत्य॑भिऽव॒र्त्तः। स॒विँ॒श इति॑ सऽविँ॒शः। वर्चः॑। द्वा॒विँ॒शः। स॒म्भर॑ण॒ इति॑ स॒म्ऽभर॑णः। त्र॒यो॒विँ॒श इति॑ त्रयःऽविं॒शः। योनिः॑। च॒तु॒र्विँ॒शः इति॑ चतुःऽविं॒शः। गर्भाः॑। प॒ञ्च॒विँ॒श इति॑ पञ्चऽविँ॒शः। ओजः॑। त्रि॒ण॒वः। त्रि॒न॒व॒ इति॑ त्रिऽन॒वः। क्रतुः॑। ए॒क॒त्रिँ॒श इत्ये॑कऽत्रिँ॒शः। प्र॒ति॒ष्ठा। प्र॒ति॒स्थेति॑ प्रति॒ऽस्था। त्र॒य॒स्त्रिँ॒श इति॑ त्रयःऽत्रिँ॒शः। ब्र॒ध्नस्य॑। वि॒ष्टप॑म्। च॒तु॒स्त्रिँ॒श इति॑ चतुःऽत्रिँ॒शः। नाकः॑। ष॒ट्त्रिँ॒श इति॑ षट्ऽत्रिँ॒शः। वि॒व॒र्त्त इति॑ विऽव॒र्त्तः। अ॒ष्टा॒च॒त्वा॒रिँ॒श इत्य॑ष्टाऽच॒त्वा॒रिँ॒शः। ध॒र्त्रम्। च॒तु॒ष्टो॒मः। च॒तु॒स्तो॒म इति॑ चतुःऽस्तो॒मः। २३।
महीधरः
म० ‘उत्तरां पूर्वयोराशुस्त्रिवृदिति’ (का० १७ । १० ।७) । पूर्वानूकान्तविहितयोर्दक्षिणोत्तरयोर्मध्ये उत्तरां जङ्घामात्रीमुदङ्मुख उपदधातीति सूत्रार्थः । अस्यां कण्डिकायामष्टादश यजूंषि चतुर्णां मृत्युमोहिन्युपधाने विनियोगः । प्रतूर्तिरित्यादीनां चतुर्दशार्धपद्योपधाने विनियोगः । हे इष्टके, त्वं त्रिवृत् स्तोमरूपासि । साम्नामावृत्तिविशेषाः स्तोमाः तेषां विशेषणान्याशुरित्यादीनि । कीदृशस्त्रिवृत् । आशुः । ‘अशू व्याप्तौ’ अश्नुते व्याप्नोति सर्वान् स्तोमानित्याशुः । तद्रूपां त्वामुपदधामीति सर्वत्र शेषः । ‘स्तोमानुपदधाति प्राणा वै स्तोमाः प्राणा उ वै ब्रह्म ब्रह्मैवैतदुपदधातीति’ (८ । ४ । १ । ३) श्रुतेः। यद्वा आशुः वायुः त्रिवृत् त्रिषु लोकेषु वर्तत इति त्रिवृत् क्विप् सर्वभूतव्यापकत्वादाशुर्वायुस्तद्रूपासि । एवं श्रुत्यनुसारेण सर्वत्र व्याख्यायते । तथाच श्रुतिः ‘स पुरस्तादुपदधात्याशुस्त्रिवृदिति य एव त्रिवृत्स्तोमस्तमुपदधाति तद्यत्तमाहाशुरित्येष हि स्तोमानामाशिष्ठोऽर्थो वायुर्वा आशुस्त्रिवृत् स एषु त्रिषु लोकेषु वर्तते तद्यत्तमाहाशुरित्येष हि सर्वेषां भूतानामाशिष्ठो वायुर्ह भूत्वा पुरस्तात्तस्थौ तदेव तद्रूपमुपदधातीति’ ( ८ । ४।१।९)। ‘दक्षिणां दक्षिणयोर्भान्तः पञ्चदश’ (का० १७ । १० । ९) इति दक्षिणानूकान्तविहितयोर्दक्षिणोत्तरपद्ययोर्मध्ये भान्त इति मन्त्रेण दक्षिणां पद्यां प्रत्यङ्मुख उपदधातीति सूत्रार्थः । भान्तः वज्ररूपो यः पञ्चदशः स्तोमः । यद्वा भान्तश्चन्द्रः पञ्चदशाहानि पूर्यमाणत्वात्पञ्चदशाहं क्षीयमाणत्वात् पञ्चदशः। भा कान्तिरेवान्तः स्वरूपं यस्य तद्रूपासि । ‘य एव पञ्चदशः स्तोमस्तं तदुपदधाति तद्यत्तमाह भान्त इति वज्रो वै भान्तो वज्रः पञ्चदशोऽथो चन्द्रमा वै भान्तः पञ्चदशः स पञ्चदशाहान्यापूर्यते पञ्चदशापक्षीयते तद्यत्तमाह भान्त इति भाति हि चन्द्रमाश्चन्द्रमा ह भूत्वा दक्षिणतस्तस्थौ तदेव तद्रूपमुपदधातीति’ (८ । ४ । १० । १०) श्रुतेः । दक्षिणामुत्तरयोर्व्योमा सप्तदश इति’ ( का० १७ । १० । १०)। उत्तरानूकान्तविहितयोर्दक्षिणोत्तरपद्ययोर्मध्ये दक्षिणां पद्यां व्योमेति प्रत्यङ्मुख उपदधातीति सूत्रार्थः । विविधमवतीति व्योमा प्रजापतिः सप्तदशः स्तोमः । संवत्सरो वा व्योमा सप्तदशः द्वादशमासपञ्चर्तुरूपसप्तदशावयवत्वात्तद्रूपासि । य एव सप्तदशः स्तोमस्तं तदुपदधाति तद्यत्तमाह व्योमेति प्रजापतिर्वै व्योमा प्रजापतिः सप्तदशोऽथो संवत्सरो वा व्योमा सप्तदशस्तस्य द्वादश मासाः पञ्चर्तवस्तद्यत्तमाह व्योमेति व्योमा हि संवत्सरः संवत्सरो ह भूत्वोत्तरतस्तस्थौ तदेव तद्रूपमुपदधातीति’ ( ८ । ४ । १ । ११) श्रुतेः ‘दक्षिणामपरयोर्धरुण एकविᳪं᳭श इति’ ( का. १७ । १० । ८) । अपरानूकान्तविहितयोर्दक्षिणोत्तरयोर्मध्ये दक्षिणां जङ्घामात्रीं धरुण इति दक्षिणामुख उपदधातीति सूत्रार्थः । धरुणो धारकः प्रतिष्ठाभूत एकविंशः स्तोमः । यद्वा धरुण आदित्यः स एकविंशावयवत्वादेकविंशः । द्वादश मासाः पञ्चर्तवः त्रयो लोका आदित्य इत्यवयवास्तद्रूपासि । ‘य एवैकविᳪं᳭शः स्तोमस्तं तदुपदधाति तद्यत्तमाह धरुण इति प्रतिष्ठा वै धरुणः प्रतिष्ठैकविᳪं᳭शोऽथोऽसौ वा आदित्यो धरुण एकविᳪं᳭शस्तस्य द्वादश मासाः पञ्चर्तव इमे लोका असावेवादित्यो धरुण एकविᳪं᳭शस्तद्यत्तमाह धरुण इति यदा ह्येवैषोऽस्तमेत्यथेदᳪं᳭ सर्वं ध्रियत आदित्यो ह भूत्वा पश्चात्तस्थौ तदेव रूपमुपदधातीति’ (८।१।१ । १२) श्रुतेः ‘चतुर्दश प्रतिमन्त्रं प्रतूर्तिरष्टादश इति’ ( का० १७ । १० । ११)। चतस्र उपधाय चतुर्दशार्धपद्या उदङ्मुख उपदधाति चतुर्दशमन्त्रैरिति सूत्रार्थः । अतः परं संवत्सररूपाण्युपदधाति । प्रकृष्टा तूर्तिस्त्वरा यस्य स प्रतूर्तिः अष्टादशः स्तोमः । यद्वा संवत्सरः प्रतूर्तिरष्टादशावयवः द्वादशमासाः पञ्चर्तवः संवत्सरश्चेत्यवयवाः । ‘य एवाष्टादशः स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव प्रतूर्तिरष्टादशस्तस्य द्वादश मासाः पञ्चर्तवः संवत्सर एव प्रतूर्तिरष्टादशस्तद्यत्तमाह प्रतूर्तिरिति संवत्सरो हि सर्वाणि भूतानि प्रतिरति तदेव तद्रूपमुपदधातीति’ (८ । ४ । १ । १३) श्रुतेः । तपोरूपो नवदशः स्तोमः । यद्वा संवत्सरस्तपः शीतोष्णवर्षैस्तपतीति स नवदशः । द्वादशमासाः षडृतवः संवत्सर इति तद्रूपासि । य एव नवदशः स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव तपो नवदशस्तस्य द्वादश मासाः षडृतवः संवत्सर एव तपो नवदशस्तद्यत्तमाह तप इति संवत्सरो हि सर्वाणि भूतानि तपति तदेव तद्रूपमुपद०’ (८ । ४ । १ । १४) । अभिवर्त्यते आवर्त्यत इत्यभीवर्तः समावृत्तिरूपः स विंशः स्तोमः । यद्वा अभिवर्तयत्यावर्तयति सर्वाणि भूतानीत्यभीवर्तः संवत्सरः । ‘उपसर्गस्य घञ्यमनुष्ये बहुलं’ (पा. ६ । ३ । १२२ ) इति दीर्घः । द्वादशमाससप्तर्तुसंवत्सररूपविंशतिसंख्यया सहितः सविंशः । ‘य एव सविᳪं᳭शस्तोमस्तं तदुपदधातीत्यथो संवत्सरो वा अभीवर्तः सविᳪं᳭शस्तस्य द्वादशमासाः सप्तर्तवः संवत्सर एवाभीवर्तः सविᳪं᳭शस्तद्यत्तमाहाभीवर्त सप्तदश इति’ ( का० १७ । १० । १०)। उत्तरानूकान्तविहितयोर्दक्षिणोत्तरपद्ययोर्मध्ये दक्षिणां पद्यां व्योमेति प्रत्यङ्मुख उपदधातीति सूत्रार्थः । विविधमवतीति व्योमा प्रजापतिः सप्तदशः स्तोमः । संवत्सरो वा व्योमा सप्तदशः द्वादशमासपञ्चर्तुरूपसप्तदशावयवत्वात्तद्रूपासि । य एव सप्तदशः स्तोमस्तं तदुपदधाति तद्यत्तमाह व्योमेति प्रजापति व्योमा प्रजापतिः सप्तदशोऽथो संवत्सरो वा व्योमा सप्तदशस्तस्य द्वादश मासाः पञ्चर्तवस्तद्यत्तमाह व्योमेति व्योमा हि संवत्सरः संवत्सरो ह भूत्वोत्तरतस्तस्थौ तदेव तद्रूपमुपदधातीति’ ( ८ । ४ । १ । ११) श्रुतेः ‘दक्षिणामपरयोर्धरुण एकविᳪं᳭श इति’ ( का. १७ । १० । ८) । अपरानूकान्तविहितयोर्दक्षिणोत्तरयोर्मध्ये दक्षिणां जङ्घामात्रीं धरुण इति दक्षिणामुख उपदधातीति सूत्रार्थः । धरुणो धारकः प्रतिष्ठाभूत एकविंशः स्तोमः । यद्वा धरुण आदित्यः स एकविंशावयवत्वादेकविंशः । द्वादश मासाः पञ्चर्तवः त्रयो लोका आदित्य इत्यवयवास्तद्रूपासि । ‘य एवैकविᳪं᳭शः स्तोमस्तं तदुपदधाति तद्यत्तमाह धरुण इति प्रतिष्ठा वै धरुणः प्रतिष्ठैकविᳪं᳭शोऽथोऽसौ वा आदित्यो धरुण एकविᳪं᳭शस्तस्य द्वादश मासाः पञ्चर्तव इमे लोका असावेवादित्यो धरुण एकविᳪं᳭शस्तद्यत्तमाह धरुण इति यदा ह्येवेषोऽस्तमेत्यथेदᳪं᳭ सर्वं ध्रियत आदित्यो ह भूत्वा पश्चात्तस्थौ तदेव रूपमुपदधातीति’ (८।१।१ । १२) श्रुतेः ‘चतुर्दश प्रतिमन्त्रं प्रतूर्तिरष्टादश इति’ ( का० १७ । १० । ११)। चतस्र उपधाय चतुर्दशार्धपद्या उदङ्मुख उपदधाति चतुर्दशमन्त्रैरिति सूत्रार्थः । अतः परं संवत्सररूपाण्युपदधाति । प्रकृष्टा तूर्तिस्वरा यस्य स प्रतूर्तिः अष्टादशः स्तोमः । यद्वा संवत्सरः प्रतूतिरष्टादशावयवः द्वादशमासाः पञ्चर्तवः संवत्सरश्चेत्यवयवाः । ‘य एवाष्टादशः स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव प्रतूतिरष्टादशस्तस्य द्वादश मासाः पञ्चर्तवः संवत्सर एव प्रतूर्तिरष्टादशस्तद्यत्तमाह प्रतूर्तिरिति संवत्सरो हि सर्वाणि भूतानि प्रतिरति तदेव तद्रूपमुपदधातीति’ (८ । ४ । १ । १३) श्रुतेः । तपोरूपो नवदशः स्तोमः । यद्वा संवत्सरस्तपः शीतोष्णवर्षैस्तपतीति स नवदशः । द्वादशमासाः षडृतवः संवत्सर इति तद्रूपासि । य एव नवदशः स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव तपो नवदशस्तस्य द्वादश मासाः षडृतवः संवत्सर एव तपो नवदशस्तद्यत्तमाह तप इति संवत्सरो हि सर्वाणि भूतानि तपति तदेव तद्रूपमुपद०’ (८ । ४ । १ । १४) । अभिवर्त्यते आवर्त्यत इत्यभीवर्तः समावृत्तिरूपः स विंशः स्तोमः । यद्वा अभिवर्तयत्यावर्तयति सर्वाणि भूतानीत्यभीवर्तः संवत्सरः । ‘उपसर्गस्य घञ्यमनुष्ये बहुलं’ (पा. ६ । ३ । १२२ ) इति दीर्घः । द्वादशमाससप्तर्तुसंवत्सररूपविंशतिसंख्यया सहितः सविंशः । ‘य एव सविᳪं᳭शस्तोमस्तं तदुपदधातीत्यथो संवत्सरो वा अभीवर्तः सविᳪं᳭शस्तस्य द्वादशमासाः सप्तर्तवः संवत्सर एवाभीवर्तः सविᳪं᳭शस्तद्यत्तमाहाभीवर्त इति संवत्सरो हि सर्वाणि भूतान्यभिवर्तते तदेतद्रूप०’ ( ८।४ ।१।१५)। वर्चः बलविशेषप्रदो द्वाविᳪं᳭शः स्तोमः । यद्वा वर्चः संवत्सरः वर्चस्वितमः द्वादश मासाः सप्तर्तवः द्वे अहोरात्रे संवत्सरश्चेति द्वाविंशतिसंख्योपेतत्वाद् द्वाविंशः तद्रूपासि । ‘य एव द्वाविᳪं᳭शः स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव वर्चो द्वाविᳪं᳭शस्तस्य द्वादश मासाः सप्तर्तवो द्वे अहोरात्रे संवत्सर एव वर्चो द्वाविᳪं᳭शस्तद्यत्तमाह वर्च इति संवत्सरो हि सर्वेषां भूतानां वर्चस्वितमस्तदेतद्रूप०’ (८।४।१ । १६) इति । संबिभर्ति संभरणः सम्यक् पोषकत्रयोविंशः स्तोमस्त्वमसि । यद्वा संभरत्युत्पादयति संहरति विनाशयति वा संभरणः संवत्सरः त्रयोदशमासाः सप्तर्तवो द्वे अहोरात्रे एकः संवत्सर इति त्रयोविंशावयवः तद्रूपासि । ‘य एव त्रयोविᳪं᳭शः स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव संभरणस्त्रयोविᳪं᳭शस्तस्य त्रयोदश मासाः सप्तर्तवो द्वे अहोरात्रे संवत्सर एव संभरणस्त्रयोविᳪं᳭शस्तद्यत्तमाह संभरण इति संवत्सरो हि सर्वाणि भूतानि संभृतस्तदेव तद्रूप०’ ( ८ । ४ । १ । १७)। योनिः प्रजोत्पादकश्चतुर्विंशः स्तोमोऽसि । यद्वा योनिः सर्वस्थानभूतः संवत्सरश्चतुर्विंशतिपक्षात्मकस्तद्रूपासि । ‘य एव चतुर्विᳪं᳭शः स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव योनिश्चतुर्विᳪं᳭शस्तस्य चतुर्विᳪं᳭शतिरर्धमासास्तद्यत्तमाह योनिरिति संवत्सरो हि सर्वेषां भूतानां योनिस्तदेव तद्रूप०’ ( ८ । ४ । १ । १८ )। गर्भाः व्यत्ययेन बहुत्वम् । सामगर्भः पञ्चविंशस्तोमोऽसि । यद्वा गर्भः संवत्सरो भूतोत्पादकत्वाच्चतुर्विंशतिः पक्षा एकः संवत्सर इति अधिकमासो भूत्वा ऋतुषु गर्भो भवतीति वा गर्भः । ‘य एव पञ्चविᳪं᳭शस्तोमस्तं तदुपदधात्यथो संवत्सरो वाव गर्भाः पञ्चविᳪं᳭शस्तस्य चतुर्विᳪं᳭शतिरर्धमासाः संवत्सर एव गर्भाः पञ्चविᳪं᳭शस्तद्यत्तमाह गर्भा इति संवत्सरो ह त्रयोदशो मासो गर्भो भूत्वर्तून् प्रविशति तदेव तद्रूप०’ ( ८ । ४ । १ । १९)। | ओजः मतुब्लोपः ओजस्वी तेजस्वी वज्रो वा ओजः तद्रूपस्त्रिणवः स्तोमोऽसि । यद्वा ओजः संवत्सरश्चतुर्विंशतिपक्षाहोरात्रसंवत्सरात्मकत्वात् त्रिणवः त्रिगुणा नव यत्र । य एव त्रिणवः स्तोमस्तं तदुपदधाति तद्यत्तमाहौज इति वज्रो वा ओजो वज्रस्त्रिणवः संवत्सरो वा ओजस्त्रिणवस्तस्य चतुर्विंशतिरर्धमासा द्वे अहोरात्रे संवत्सर एवौजस्त्रिणवस्तद्यत्तमाहौज इति संवत्सरो हि सर्वेषां भूतानामोजस्वितमस्तदेव तद्रूप०’ ( ८ । ४ । १ । २०)। क्रतुर्यज्ञोपयोगी एकत्रिंशः स्तोमोसि । यद्वा संवत्सर एव करोतीति क्रतुः पक्षर्तुसंवत्सरात्मकत्वादेकत्रिंशः । ‘य एवेकत्रिᳪं᳭शस्तोमस्तं तदुपदधात्यथो संवत्सरो वाव क्रतुरेकत्रिᳪं᳭शस्तस्य चतुर्विᳪं᳭शतिरर्धमासाः षडृतवः संवत्सर एव क्रतुरेकविᳪं᳭शस्तद्यत्तमाह क्रतुरिति संवत्सरो हि सर्वाणि भूतानि करोतीति’ [ ८।४।१।२१ । ] श्रुतेः । प्रतिष्ठा स्थितिहेतुस्त्रयस्त्रिᳪं᳭शः स्तोमोऽसि । यद्वा संवत्सरः प्रतिष्ठा संवत्सरे सर्वस्य प्रतिष्ठितत्वात् पक्षर्त्वहोरात्रसंवत्सरात्मकत्वात्त्रयस्त्रिंशः । य एव त्रयस्त्रिᳪं᳭शः स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव प्रतिष्ठा त्रयस्त्रिᳪं᳭शस्तस्य चतुर्विᳪं᳭शतिरर्धमासाः षडृतवो द्वे अहोरात्रे संवत्सर एव प्रतिष्ठा त्रयस्त्रिᳪं᳭शस्तद्यत्तमाह प्रतिष्ठेति संवत्सरो हि सर्वेषां भूतानां प्रतिष्ठा तदेतद्रूप०(८।४।१।२२)। ब्रध्नः सूर्यः । ‘असौ वा आदित्यो ब्रध्नः’ इति श्रुतेः । विष्टपं निवासस्थानं ‘भुवनं विष्टपं लोकः’ इति कोशात् ब्रध्नस्य विष्टपं स्वाराज्यं स्वतन्त्रत्वं तद्रूपस्तत्तत्प्रदो यश्चतुस्त्रिᳪं᳭शः स्तोमस्तद्रूपासि । यद्वा संवत्सरो ब्रध्नस्य विष्टपं रविणैव कालनिर्माणत्वात् चतुर्विंशतिपक्षसप्तर्त्वहोरात्रसंवत्सरात्मकत्वाच्चतुस्त्रिंशः । य एव चतुस्त्रिᳪं᳭शः स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव ब्रध्नस्य विष्टपं चतुस्त्रिᳪं᳭शस्तस्य चतुर्विᳪं᳭शतिरर्धमासाः सप्तर्तवो द्वे अहोरात्रे संवत्सर एव ब्रध्नस्य विष्टपं चतुस्त्रिᳪं᳭शस्तद्यत्तमाह ब्रध्नस्य विष्टपमिति स्वाराज्यं वै ब्रध्नस्य विष्टपं तदेतद्रूप०.’ ( ८ । ४ । १। २३ ) । नाकः स्वर्गप्रदः षट्त्रिंशः स्तोमोऽसि संवत्सरो वा नाकः काम्यत इति कं सुखं न कमकं दुःखं तन्नास्ति यत्र स नाकः षट्त्रिंशः पक्षमासात्मकत्वात् । य एव षट्त्रिᳪं᳭शः स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव नाकः षट्त्रिᳪं᳭शस्तस्य चतुर्विᳪं᳭शतिरर्धमासा द्वादश मासास्तद्यत्तमाह नाक इति । नहि तत्र गताय कस्मै च नाकं भवत्यथो संवत्सरः संवत्सरो वाव नाकः स्वर्गो लोकस्तदेव तद्रूप०’ (८।४।१।२४) । विवर्त्यन्ते आवर्त्यन्ते सामानि यत्रेति विवर्तः अष्टाचत्वारिंशः स्तोमस्तद्रूपासि । यद्वा विविधं वर्तन्ते भूतानि यत्रेति विवर्तः संवत्सरः अधिमासत्वेन षड्विंशतिः पक्षाः सप्तर्तवः त्रयोदश मासाः द्वे अहोरात्रे इत्यष्टाचत्वारिंशः य एवाष्टाचत्वारिᳪं᳭शः स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव विवर्तोऽष्टाचत्वारिᳪं᳭शस्तस्य षड्विᳪं᳭शतिरहोरात्राणि त्रयोदश मासाः सप्तर्तवो द्वे अहोरात्रे तद्यत्तमाह विवर्त इति संवत्सराद्धि सर्वाणि भूतानि विवर्तन्ते तदेतद्रूप०’ ( ८।४।१ । २५)। धर्त्रं धारकश्चतुरुत्तरः स्तोमश्चतुष्टोमः। मध्यमपदलोपी समासः। त्रिवृत्पञ्चदशसप्तदशैकविंशानां समूहस्तद्रूपासि । वायुर्वा धर्त्रं जगदाधारत्वाच्चतुर्दिग्भिः स्तूयमानत्वाच्चतुष्टोमः । य एव चतुष्टोमस्तं तदुपदधाति तद्यत्तमाह धर्त्रमिति प्रतिष्ठा वै धर्त्रं प्रतिष्ठा चतुष्टोमोऽथो वायुर्वाव धर्त्र चतुष्टोमः स आभिश्चतसृभिर्दिग्भिः स्तुते वायुर्वै सर्वेषां भूतानां प्रतिष्ठा तदेतद्रूपमुपदधातीति’ ( ८ । ४ । १ । २६ ) श्रुतेः । आदावन्ते च वायूपधानेन वायुना सर्वभूतानि वशीकरोतीति भावः । तदुक्तं श्रुत्या ‘स वै वायुमेव प्रथममुपदधाति वायुमुत्तमं वायुनैव तदेतानि सर्वाणि भूतान्युभयतः परिगृह्णातीति’ (८ । ४ । १ । २७) एतैरष्टादशमन्त्रैः स्तोमवादिभिः स्तोमरूपत्वं नीता अष्टादशेष्टका उपधेया इत्यर्थः ॥२३॥
चतुर्विंशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- विश्वदेव ऋषिः
- भुरिग्ब्राह्मी पङ्क्तिः, भुरिगतिजगती
- पञ्चमः, निषादः
दयानन्द-सरस्वती (हि) - विषयः
अब संवत्सर कैसा है, यह विषय अगने मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोग इस वर्त्तमान संवत् में (आशुः) शीघ्र (त्रिवृत्) शीत और उष्ण के बीच वर्त्तमान (भान्तः) प्रकाश (पञ्चदशः) पन्द्रह प्रकार का (व्योमा) आकाश के समान विस्तारयुक्त (सप्तदशः) सत्रह प्रकार का (धरुणः) धारण गुण (एकविंशः) इक्कीस प्रकार का (प्रतूर्त्तिः) शीघ्र गतिवाला (अष्टादशः) अठारह प्रकार का (तपः) सन्तापी गुण (नवदशः) उन्नीस प्रकार का (अभीवर्त्तः) सम्मुख वर्त्तनेवाला गुण (सविंशः) इक्कीस प्रकार की (वर्चः) दीप्ति (द्वाविंशः) बाईस प्रकार का (सम्भरणः) अच्छे प्रकार धारणकारक गुण (त्रयोविंशः) तेईस प्रकार का (योनिः) संयोग-वियोगकारी गुण (चतुर्विंशः) चौबीस प्रकार की (गर्भाः) गर्भ धारण की शक्ति (पञ्चविंशः) पच्चीस प्रकार का (ओजः) पराक्रम (त्रिणवः) सत्ताईस प्रकार का (क्रतुः) कर्म्म वा बुद्धि (एकत्रिंशः) एकतीस प्रकार की (प्रतिष्ठा) सब की स्थिति का निमित्त क्रिया (त्रयस्त्रिंशः) तेंतीस प्रकार की (ब्रध्नस्य) बड़े ईश्वर की (विष्टपम्) व्याप्ति (चतुस्त्रिंशः) चौंतीस प्रकार का (नाकः) आनन्द (षट्त्रिंशः) छत्तीस प्रकार का (विवर्त्तः) विविध प्रकार से वर्त्तन का आधार (अष्टाचत्वारिंशः) अड़तालीस प्रकार का (धर्त्रम्) धारण और (चतुष्टोमः) चार स्तुतियों का आधार है, उस को संवत्सर जानो ॥२३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जिस संवत्सर के सम्बन्धी भूत, भविष्यत् और वर्तमान काल आदि अवयव हैं, उस के सम्बन्ध से ही से सब संसार के व्यवहार होते हैं, ऐसा तुम लोग जानो ॥२३ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ संवत्सर कीदृशोऽस्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यूयं यस्मिन् संवत्सर आशुस्त्रिवृद् भान्तः पञ्चदशो व्योमा सप्तदशो धरुण एकविंशः प्रतूर्त्तिरष्टादशस्तपो नवदशोऽभीवर्त्तः सविंशो वर्चो द्वाविंशः संभरणस्त्रयोविंशो योनिश्चतुर्विंशो गर्भाः पञ्चविंश ओजस्त्रिणवः क्रतुरेकत्रिंशः प्रतिष्ठा त्रयस्त्रिंशो ब्रध्नस्य विष्टपं चतुस्त्रिंशो नाकः षट्त्रिंशो विवर्त्तोऽष्टाचत्वारिंशो धर्त्रं चतुष्टोमोऽस्ति, तं संवत्सरं विजानीत ॥२३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यस्य संवत्सरस्य सम्बन्धिनो भूतभविष्यद्वर्त्तमानादयोऽवयवाः सन्ति तस्य सम्बन्धादेते व्यवहारा भवन्तीति यूयं बुध्यध्वम् ॥२३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - भूत, भविष्य, वर्तमान हे काळ संवत्सराचे अवयव आहेत. त्यामुळेच या जगातील सर्व व्यवहार होतात हे माणसांनी जाणावे.
२४ अग्नेर्भागोऽसि दीक्षायाऽ
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्नेर्भा॒गो᳖ऽसि दी॒क्षाया॒ऽ आधि॑पत्यं॒ ब्रह्म॑ स्पृ॒तं त्रि॒वृत्स्तोम॑ऽ इन्द्र॑स्य भा॒गो᳖ऽसि॒ विष्णो॒राधि॑पत्यं क्ष॒त्रँ स्पृ॒तं प॑ञ्चद॒श स्तोमो॑ नृ॒चक्ष॑सां भा॒गो᳖ऽसि धा॒तुराधि॑पत्यं ज॒नित्रँ॑ स्पृ॒तँ स॑प्तद॒श स्तोमो॑ मि॒त्रस्य॑ भा॒गो᳖ऽसि॒ वरु॑ण॒स्याधि॑पत्यं दि॒वो वृष्टि॒र्वात॑ स्पृ॒तऽ ए॑कविँ॒श स्तोमः॑ ॥२४ ॥
मूलम् ...{Loading}...
अ॒ग्नेर्भा॒गो᳖ऽसि दी॒क्षाया॒ऽ आधि॑पत्यं॒ ब्रह्म॑ स्पृ॒तं त्रि॒वृत्स्तोम॑ऽ इन्द्र॑स्य भा॒गो᳖ऽसि॒ विष्णो॒राधि॑पत्यं क्ष॒त्रँ स्पृ॒तं प॑ञ्चद॒श स्तोमो॑ नृ॒चक्ष॑सां भा॒गो᳖ऽसि धा॒तुराधि॑पत्यं ज॒नित्रँ॑ स्पृ॒तँ स॑प्तद॒श स्तोमो॑ मि॒त्रस्य॑ भा॒गो᳖ऽसि॒ वरु॑ण॒स्याधि॑पत्यं दि॒वो वृष्टि॒र्वात॑ स्पृ॒तऽ ए॑कविँ॒श स्तोमः॑ ॥२४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒ग्नेः। भा॒गः। अ॒सि॒। दी॒क्षायाः॑। आधि॑पत्य॒मित्याधि॑ऽपत्यम्। ब्रह्म॑। स्पृ॒तम्। त्रि॒वृदिति॑ त्रि॒ऽवृत्। स्तोमः॑। इन्द्र॑स्य। भा॒गः। अ॒सि॒। विष्णोः॑। आधि॑पत्य॒मित्याधि॑ऽपत्यम्। क्ष॒त्रम्। स्पृ॒तम्। प॒ञ्च॒द॒श इति॑ पञ्चऽद॒शः। स्तोमः॑। नृ॒चक्ष॑सा॒मिति॑ नृ॒ऽचक्ष॑साम्। भा॒गः। अ॒सि॒। धा॒तुः। आधि॑पत्य॒मित्याधि॑ऽपत्यम्। ज॒नित्र॑म्। स्पृ॒तम्। स॒प्त॒ऽद॒श इति॑ सप्तऽद॒शः। स्तो॑मः। मि॒त्रस्य॑। भा॒गः। अ॒सि॒। वरु॑णस्य। आधि॑पत्य॒मित्याधि॑ऽपत्यम्। दि॒वः। वृष्टिः॑। वातः॑। स्पृ॒तः। ए॒क॒विँ॒श इत्ये॑कऽविँ॒शः। स्तोमः॑। २४।
महीधरः
म० ‘दक्षिणां पूर्वयोरग्नेर्भाग इति’ ( का० १७ । १० । १२) पूर्वानूकान्ते विहितयोर्जङ्घामात्र्योर्मध्ये दक्षिणामुपदधात्युदङ्मुखः उत्तरा पूर्वमुपहिता । दश यजूंषि चतुर्भिर्मृत्युमोहिन्युपधानं षड्भिः षट्पद्योपधानं दशेष्टकाः स्पृत्संज्ञाश्च । तत्रार्थवादः श्रुत्युक्तः । उत्पन्नेन सृष्ट्यादौ प्रजापतिना सर्वाणि भूतानि स्रष्टुं गर्भे कृतानि गर्भस्थान्येव भूतानि पाप्मा मृत्युरगृह्णात् । ततः प्रजापतिर्देवानुवाच युष्माभिः सहाहमिमानि भूतानि पापरूपान्मृत्योर्मोचयामीति देवैरुक्तं तत्रास्माकं को लाभः । प्रजापतिनोक्तं वृणुत । तैः कैश्चिदुक्तमस्माकं भागोऽस्तु । अन्यैरुक्तमस्माकमाधिपत्यमस्त्विति तथेत्युक्त्वैकेभ्यो भागमपरेभ्य आधिपत्यं दत्त्वा तैः सह भूतानि मृत्योरस्पृणोत्ततः स्पृत इष्टका इति । तथाच श्रुतिः ‘अथ स्पृत उपदधात्येतद्वै प्रजापतिरेतस्मिन्नात्मनः प्रतिहि ते सर्वाणि भूतानि गर्भ्यभवत्तान्यस्य गर्भ एव सन्ति पाप्मा मृत्युरगृह्णात् ॥१॥ स देवानब्रवीद्युष्माभिः सहेमानि सर्वाणि भूतानि पाप्मनो मृत्योः स्पृणवानीति किं नस्ततो भविष्यतीति वृणीध्वमित्यब्रवीत्तं भागो नोऽस्वित्येकेऽब्रुवन्नाधिपत्यं नोऽस्त्वित्येके स भागमेकेभ्यः कृत्वाधिपत्यमेकेभ्यः सर्वाणि भूतानि पाप्मनो मृत्योरस्पृणोद्यदस्पृणोत्तस्मात्स्पृतस्तथैवैतद्यजमानो भागमेकेभ्यः कृत्वाधिपत्यमेकेभ्यः सर्वाणि भूतानि पाप्मनो मृत्योः स्पृणोतीति’ ( ८ । ४ । २।१।२)। अथ मन्त्रार्थः । हे इष्टके, या त्वमग्नेर्भागो विभागोऽसि यस्यां च त्वयि दीक्षाया वाच आधिपत्यं स्वामित्वं । यया च त्वया त्रिवृत्स्तोमः । विभक्तिव्यत्ययः । त्रिवृता स्तोमेन ब्रह्म ब्राह्मण्यं स्पृतं पाप्मनो मृत्योरपनीतम् रक्षितम् । यस्यां त्वयि त्रिवृत्स्तोम इति वा । तां त्वामुपदधामीति शेषः । एवं सर्वत्र व्याख्येयम् । ‘स्पृ प्रीतिरक्षाप्राणनेषु’ स्वादिः । ‘वाग्वै दीक्षा (८ । ४ । २ । ३) इति श्रुतेः । ‘उत्तरामुत्तरयोरिन्द्रस्य भाग इति’ ( का० १७ । १० । १५) । उदगनूकान्तविहितयोर्दक्षिणोत्तरयोः पद्ययोर्मध्ये उत्तरामुपदधाति दक्षिणा तूपहितेति सूत्रार्थः । हे इष्टके, त्वमिन्द्रस्य भागोऽसि । यस्यां त्वयि विष्णोराधिपत्यं पञ्चदशेन क्षत्रं क्षत्रजातिः स्पृतं मृत्योर्मोचितम् ‘इन्द्राय भागं कृत्वा विष्णव आधिपत्यमकरोत्’ ( ८ । ४ । २। ४ ) इति श्रुतेः । ‘उत्तरां दक्षिणयोर्नृचक्षसां भाग इति’ ( का० १७ । १० । १४ ) । दक्षिणानूकान्तविहितयोर्दक्षिणोतरयोः पद्ययोरुत्तरां निदधाति दक्षिणोपहिता । नॄन् शुभाशुभकर्तॄन चक्षते जानन्ति ते नृचक्षसो देवास्तेषां भागोऽसि । त्वयि धातुराधिपत्यं त्वया सप्तदशस्तोमेन जनित्रं वैश्यजातिः स्पृतम् । ‘देवा वै नृचक्षसो देवेभ्यो भागं कृत्वा धात्र आधिपत्यमकरोद्विड्वै जनित्रम्’ ( ८ । ४ । २ । ५) इति श्रुतेः । ‘उत्तरामपरयोर्मित्रस्य भाग इति’ ( का० १७ । १०। १३) अपरानूकान्तविहितयोर्दक्षिणोत्तरयोर्जङ्घामात्र्योर्मध्ये उत्तरां जङ्घामात्रीं दक्षिणामुख उपदधाति दक्षिणा तूपहितेति सूत्रार्थः । हे इष्टके, त्वं मित्रस्य प्राणस्य भागोऽसि त्वयि वरुणस्यापानस्याधिपत्यं यया त्वयेकविंशेन स्तोमेन दिवः संबन्धिनी वृष्टिर्वातश्च स्पृतस्तां सादयामि । ‘प्राणो वै मित्रोऽपानो वरुणः प्राणाय भागं कृत्वापानायाधिपत्यमकरोदिति’ ( ८ । ४ । २ । ६) श्रुतेः ॥ २४ ॥
पञ्चविंशी।
अधिमन्त्रम् (VC)
- मेधाविनो देवताः
- विश्वदेव ऋषिः
- भुरिग्विकृतिः
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
अब मनुष्य किस प्रकार विद्या पढ़ के कैसा आचरण करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् पुरुष ! जो तू (अग्नेः) सूर्य्य का (भागः) विभाग के योग्य संवत्सर के तुल्य (असि) है, सो तू (दीक्षायाः) ब्रह्मचर्य्य आदि की दीक्षा का (स्पृतम्) प्रीति से सेवन किये हुए (आधिपत्यम्) (ब्रह्म) ब्रह्मज्ञ कुल के अधिकार को प्राप्त हो, जो (त्रिवृत्) शरीर, वाणी और मानस साधनों से शुद्ध वर्त्तमान (स्तोमः) स्तुति के योग्य (इन्द्रस्य) बिजुली वा उत्तम ऐश्वर्य के (भागः) विभाग के तुल्य (असि) है, सो तू (विष्णोः) व्यापक ईश्वर के (स्पृतम्) प्रीति से सेवने योग्य (क्षत्रम्) क्षत्रियों के धर्म के अनुकूल राजकुल के (आधिपत्यम्) अधिकार को प्राप्त हो, जो तू (पञ्चदशः) पन्द्रह का पूरक (स्तोमः) स्तुतिकर्त्ता (नृचक्षसाम्) मनुष्यों से कहने योग्य पदार्थों के (भागः) विभाग के तुल्य (असि) है, सो तू (धातुः) धारणकर्त्ता के (स्पृतम्) ईप्सित (जनित्रम्) जन्म और (आधिपत्यम्) अधिकार को प्राप्त हो, जो तू (सप्तदशः) सत्रह संख्या का पूरक (स्तोमः) स्तुति के योग्य (मित्रस्य) प्राण का (भागः) विभाग के समान (असि) है, सो तू (वरुणस्य) श्रेष्ठ जलों के (आधिपत्यम्) स्वामीपन को प्राप्त हो, जो तू (वातः स्पृतः) सेवित पवन और (एकविंशः) इक्कीस संख्या का पूरक (स्तोमः) स्तुति के साधन के समान (असि) है, सो तू (दिवः) प्रकाशरूप सूर्य्य से (वृष्टिः) वर्षा होने का हवन आदि उपाय कर ॥२४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो पुरुष बाल्यावस्था से लेकर सज्जनों ने उपदेश की हुई विद्याओं के ग्रहण के लिये प्रयत्न कर के अधिकारी होते हैं, वे स्तुति के योग्य कर्मों को कर और उत्तम हो के विधान के सहित काल को जान के दूसरों को जनावें ॥२४ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ मनुष्यैः कथं विद्या अधीत्य किमाचरणीयमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यस्त्वमग्नेर्भागः संवत्सर इवाऽसि, स त्वं दीक्षायाः स्पृतमाधिपत्यं ब्रह्म प्राप्नुहि। यस्त्रिवृत्स्तोम इन्द्रस्य भाग इवासि, स त्वं विष्णोः स्पृतमाधिपत्यं क्षत्रं प्राप्नुहि। यस्त्वं पञ्चदश स्तोमो नृचक्षसां भाग इवासि, स त्वं धातुः स्पृतं जनित्रमाधिपत्यं प्राप्नुहि। यस्त्वं सप्तदश स्तोमो मित्रस्य भाग इवासि, स त्वं वरुणस्याधिपत्यं याहि। यस्त्वं वातः स्पृत एकविंश स्तोम इवासि तेन त्वया दिवो वृष्टिर्विधेया ॥२४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये बाल्यावस्थामारभ्य सज्जनोपदिष्टविद्याग्रहणाय प्रयत्नेनाधिपत्यं लभन्ते, ते स्तुत्यानि कर्माणि कृत्वोत्तमा भूत्वा सविधं कालं विज्ञाय विज्ञापयेयुः ॥२४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जी माणसे बाल्यावस्थेपासून सज्जनांनी सांगितलेल्या मार्गाने जाऊन त्यांचा उपदेश ग्रहण करण्याचा प्रयत्न करून ज्ञानी बनतात, त्यांनी प्रशंसायुक्त कर्म करावे. स्वतः उत्तम बनून काळाचे ज्ञान प्राप्त करावे व इतरांनाही शिकवावे.
२५ वसूनां भागोऽसि
विश्वास-प्रस्तुतिः ...{Loading}...
वसू॑नां भा॒गो᳖ऽसि रु॒द्राणा॒माधि॑पत्यं॒ चतु॑ष्पात् स्पृ॒तं च॑तुर्विँ॒श स्तोम॑ऽ आ॒दि॒त्यानां॑ भा॒गो᳖ऽसि म॒रुता॒माधि॑पत्यं॒ गर्भा॑ स्पृ॒ताः पं॑चविँ॒श स्तोमो॑ऽदि॑त्यै भा॒गो᳖ऽसि॒ पू॒ष्णऽ आधि॑पत्य॒मोज॑ स्पृ॒तं त्रि॑ण॒व स्तोमो॑ दे॒वस्य॑ सवि॒तुर्भा॒गो᳖ऽसि॒ बृह॒स्पते॒राधि॑पत्यँ स॒मीची॒र्दिश॑ स्पृ॒ताश्च॑तुष्टो॒म स्तोमः॑ ॥२५ ॥
मूलम् ...{Loading}...
वसू॑नां भा॒गो᳖ऽसि रु॒द्राणा॒माधि॑पत्यं॒ चतु॑ष्पात् स्पृ॒तं च॑तुर्विँ॒श स्तोम॑ऽ आ॒दि॒त्यानां॑ भा॒गो᳖ऽसि म॒रुता॒माधि॑पत्यं॒ गर्भा॑ स्पृ॒ताः पं॑चविँ॒श स्तोमो॑ऽदि॑त्यै भा॒गो᳖ऽसि॒ पू॒ष्णऽ आधि॑पत्य॒मोज॑ स्पृ॒तं त्रि॑ण॒व स्तोमो॑ दे॒वस्य॑ सवि॒तुर्भा॒गो᳖ऽसि॒ बृह॒स्पते॒राधि॑पत्यँ स॒मीची॒र्दिश॑ स्पृ॒ताश्च॑तुष्टो॒म स्तोमः॑ ॥२५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वसू॑नाम्। भा॒गः। अ॒सि॒। रु॒द्राणा॑म्। आधि॑पत्य॒मित्याधि॑ऽपत्यम्। चतु॑ष्पात्। चतुः॑पा॒दिति॒ चतुः॑ऽपात्। स्पृ॒तम्। च॒तु॒र्विँ॒श इति॑ चतुःऽविँ॒शः। स्तोमः॑। आ॒दि॒त्याना॑म्। भा॒गः। अ॒सि॒। म॒रुता॑म्। आधि॑पत्य॒मित्याधि॑ऽपत्यम्। गर्भाः॑। स्पृ॒ताः। प॒ञ्च॒विँ॒श इति॑ पञ्चऽविँ॒शः। स्तोमः॑। अदि॑त्यै। भा॒गः। अ॒सि॒। पू॒ष्णः। आधि॑पत्य॒मित्याधि॑ऽपत्यम्। ओजः॑। स्पृ॒तम्। त्रि॒ण॒वः। त्रि॒न॒व इति॑ त्रिऽन॒वः। स्तोमः॑। दे॒वस्य॑। स॒वि॒तुः। भा॒गः। अ॒सि॒। बृह॒स्पतेः॑। आधि॑पत्य॒मित्याधि॑ऽपत्यम्। स॒मीचीः॑। दिशः॑। स्पृ॒ताः। च॒तु॒ष्टो॒मः। च॒तु॒स्तो॒म इति॑ चतुःऽस्तो॒मः। स्तोमः॑। २५।
महीधरः
म०. ‘षट् प्रतिमन्त्रं वसूनां भाग इति’ (का० १७ । १०। १६)। चतुर्दशभ्योऽपराः षण्मन्त्रैः षट् पद्या उपदध्यादिति सूत्रार्थः । हे इष्टके, त्वं वसूनां भागोऽसि । त्वयि रुद्राणामाधिपत्यं त्वया चतुर्विंशेन स्तोमेन प्रजानां चतुष्पात् गवाश्वादिकं स्पृतं पापान्मोचितम् । ‘वसुभ्यो भागं कृत्वा रुद्रेभ्य आधिपत्यमकरोत्’ (८ । ४ । २ । ७) इति श्रुतेः । आदित्यानां या त्वं भागोऽसि । त्वयि मरुतामाधिपत्यं त्वया पञ्चविंशेन स्तोमेन प्रजानां गर्भाः मृत्योः रक्षिताः । ‘आदित्येभ्यो भागं कृत्वा मरुद्भ्य आधिपत्यमकरोत्’ ( ८ । ४ । २ । ८ ) इति श्रुतेः। त्वमदित्यै अदित्या भूमेर्भागोऽसि । पूष्ण आधिपत्यं त्वयि त्वया त्रिणवेन स्तोमेन प्रजानामोजः बलमष्टमो धातुर्वा स्पृतम् । ‘इयं वा अदितिरस्यै भागं कृत्वा पूष्ण आधिपत्य०’ ( ८ । ४ । २ । ९)। त्वं देवस्य सवितुर्भागोऽसि त्वयि बृहस्पतेराधिपत्यं त्वया चतुष्टोमेन स्तोमेन समीचीः समीच्यः सम्यगञ्चन्ति जना यासु ता ,दिशः स्पृताः । ‘देवाय सवित्रे भागं कृत्वा बृहस्पतय आधिप०’ (८।४।२।१०) इति ॥ २५ ॥
षड्विंशी।
अधिमन्त्रम् (VC)
- वस्वादयो लिङ्गोक्ता देवताः
- विश्वदेव ऋषिः
- स्वराट् संकृतिः
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी पूर्वोक्त विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् ! जो तू (वसूनाम्) अग्नि आदि आठ वा प्रथम कक्षा के विद्वानों का (भागः) सेवने योग्य (असि) है, सो (रुद्राणाम्) दश प्राण आदि ग्यारहवाँ जीव वा मध्यकक्षा के विद्वानों के (आधिपत्यम्) अधिकार को प्राप्त हो, जो (चतुर्विंशः) चौबीस प्रकार का (स्तोमः) स्तुतिकर्त्ता (आदित्यानाम्) बारह महीनों वा उत्तम कक्षा के विद्वानों के (भागः) सेवने योग्य (असि) है, सो तू (चतुष्पात्) गौ आदि पशुओं का (स्पृतम्) सेवन कर (मरुताम्) मनुष्य वा पशुओं के (आधिपत्यम्) अधिष्ठाता हो, जो तू (पञ्चविंशः) पच्चीस प्रकार का (स्तोमः) स्तुति के योग्य (अदित्यै) अखण्डित आकाश का (भागः) विभाग के तुल्य (असि) है, सो तू (पूष्णः) पुष्टिकारक पृथिवी से (स्पृतम्) सेवने योग्य (ओजः) बल को प्राप्त हो के (आधिपत्यम्) अधिकार को (प्राप्नुहि) प्राप्त हो, जो तू (त्रिणवः) सत्ताईस प्रकार का (स्तोमः) स्तुति के योग्य (देवस्य) सुखदाता (सवितुः) पिता का (भागः) विभाग (असि) है, सो तू (बृहस्पतेः) बड़ी वेदरूपी वाणी के पालक ईश्वर के दिये हुए (आधिपत्यम्) अधिकार को प्राप्त हो, जो तू (चतुष्टोमः) चार वेदों से कहने योग्य स्तुतिकर्त्ता है, सो तू (गर्भाः) गर्भ के तुल्य विद्या और शुभ गुणों से आच्छादित (स्पृताः) प्रीतिमान् सज्जन लोग जिन को जानते हैं, उन (समीचीः) सम्यक् प्राप्ति के साधन (स्पृताः) प्रीति का विषय (दिशः) पूर्व दिशाओं को जान ॥२५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो सुन्दर स्वभाव आदि गुणों का ग्रहण करते हैं, वे विद्वानों के प्यारे होके सब के अधिष्ठाता होते हैं और जो सब के ऊपर अधिकारी हों, वे मनुष्यों में पिता के समान वर्त्तें ॥२५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यस्त्वं वसूनां भागोऽसि, स त्वं रुद्राणामाधिपत्यं गच्छ। यश्चतुर्विंशस्तोम आदित्यानां भागोऽसि, स त्वं चतुष्पात्स्पृतं कुरु, मरुतामाधिपत्यं गच्छ। यस्त्वं पञ्चविंशस्तोमोऽदित्यै भागोऽसि, स त्वं पूष्ण ओजः स्पृतमाधिपत्यं प्राप्नुहि। यस्त्वं त्रिणवः स्तोमो देवस्य सवितुर्भागोऽसि, स त्वं बृहस्पतेराधिपत्यं याहि। यस्त्वं चतुष्टोमोऽसि, स त्वं गर्भाः स्पृता या जानन्ति ताः समीचीः स्पृता दिशो विजानीहि ॥२५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये सुशीलत्वादिगुणान् गृह्णन्ति ते विद्वत्प्रियाः सन्तः सर्वाधिष्ठातृत्वं प्राप्नुवन्ति। येऽधिपतयो भवेयुस्ते नृषु पितृवद्वर्त्तन्ताम् ॥२५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्यांचा स्वभाव उत्तम असतो ते विद्वानांना प्रिय असतात. ते सर्वांचे अधिष्ठाते असतात. जे वरिष्ठ अधिकारी असतात अशा लोकांनी सर्व माणसांशी पित्याप्रमाणे व्यवहार करावा.
२६ यवानां भागोऽस्ययवानामाधिपत्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
यवा॑नां भा॒गो᳙ऽस्यय॑वाना॒माधि॑पत्यं प्र॒जा स्पृ॒ताश्च॑तुश्चत्वारिँ॒श स्तोम॑ऽ ऋभू॒णां भा॒गो᳖ऽसि॒ विश्वे॑षां दे॒वाना॒माधि॑पत्यं भू॒तँ स्पृ॒तं त्र॑यस्त्रिँ॒श स्तोमः॑ ॥२६ ॥
मूलम् ...{Loading}...
यवा॑नां भा॒गो᳙ऽस्यय॑वाना॒माधि॑पत्यं प्र॒जा स्पृ॒ताश्च॑तुश्चत्वारिँ॒श स्तोम॑ऽ ऋभू॒णां भा॒गो᳖ऽसि॒ विश्वे॑षां दे॒वाना॒माधि॑पत्यं भू॒तँ स्पृ॒तं त्र॑यस्त्रिँ॒श स्तोमः॑ ॥२६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यवा॑नाम्। भा॒गः। अ॒सि॒। अय॑वानाम्। आधि॑पत्य॒मित्याधि॑ऽपत्यम्। प्र॒जा इति॑ प्र॒ऽजाः। स्पृ॒ताः। च॒तु॒श्व॒त्वा॒रिँ॒श इति॑ चतुःऽच॒त्वा॒रिँ॒शः। स्तोमः॑। ऋ॒भू॒णाम्। भा॒गः। अ॒सि॒। विश्वे॑षाम्। दे॒वाना॑म्। आधि॑पत्य॒मित्याधि॑ऽपत्यम्। भू॒तम्। स्पृ॒तम्। त्र॒य॒स्त्रिँ॒श इति॑ त्रयःऽस्त्रिँ॒शः। स्तोमः॑। २६।
महीधरः
म० यवानां पूर्वपक्षाणां त्वं भागोऽसि । अयवानामपरपक्षाणां त्वय्याधिपत्यं चतुश्चत्वारिंशेन स्तोमेन त्वया प्रजाः स्पृताः रक्षिताः । ‘पूर्वपक्षा वै यवा अपरपक्षा अयवास्ते हीदᳪं᳭ सर्वं युवते चायुवते च पूर्वपक्षेभ्यो भागं कृत्वापरपक्षेभ्य आधिप०’ (८ । ४ । २ । ११)। ऋभूणां देवविशेषाणां त्वं भागोऽसि त्वयि विश्वेषां देवानामाधिपत्यं त्रयस्त्रिंशेन स्तोमेन त्वया भूतं प्राणिमात्रमनुक्तं स्पृतं पाप्मनो मृत्योः रक्षितम् । तथा यजमानोऽपि सर्वभूतानि मृत्योः स्पृणोति । ‘ऋभुभ्यो भागं कृला विश्वेभ्यो देवेभ्य आधिपत्यमकरोत्’ (८ । ४ । २ । १२) इति श्रुतेः ॥ २६ ॥
सप्तविंशी।
अधिमन्त्रम् (VC)
- ऋभवो देवताः
- विश्वदेव ऋषिः
- निचृदतिजगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह शरद् ऋतु में कैसे वर्त्तें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य ! जो तू (यवानाम्) मिले हुए पदार्थों का (भागः) सेवन करने हारा शरद् ऋतु के समान (असि) है, जो (अयवानाम्) पृथक्-पृथक् धर्मवाले पदार्थों के (आधिपत्यम्) अधिकार को प्राप्त होकर प्रीति से (प्रजाः) पालने योग्य प्रजाओं को (स्पृताः) प्रेमयुक्त करता है, जो (चतुश्चत्वारिंशः) चवालीस संख्या का पूर्ण करनेवाला (स्तोमः) स्तुति के योग्य (ऋभूणाम्) बुद्धिमानों के (भागः) सेवने योग्य (असि) है, (विश्वेषाम्) सब (देवानाम्) विद्वानों के (भूतम्) हो चुके (स्पृतम्) सेवन किये हुए (आधिपत्यम्) अधिकार को प्राप्त होकर जो (त्रयस्त्रिंशः) तेंतीस संख्या का पूरक (स्तोमः) स्तुति के विषय के समान (असि) है, सो तू हम लोगों से सत्कार के योग्य है ॥२६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को चाहिये कि जो ये पीछे के मन्त्र में शरद् ऋतु के गुण कहे हैं, उन को यथावत् सेवन करें। यह शरद् ऋतु का व्याख्यान पूरा हुआ ॥२६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स शरदि कथं वर्त्तेतेत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य ! यस्त्वं यवानां भागः शरदृतुरिवासि, योऽयवानामाधिपत्यं प्राप्य प्रजाः स्पृताः करोति, यश्चतुश्चत्वारिंश स्तोम ऋभूणां भागोऽसि, विश्वेषां देवानां भूतं स्पृतमाधिपत्यं प्राप्य यस्त्रयस्त्रिंशः स्तोमोऽसि, स त्वमस्माभिः सत्कर्त्तव्यः ॥२६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैर्य इमे शरदृतोर्गुणा उक्तास्ते यथावत् सेवनीया इति ॥२६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. मागील मंत्रात शरद ऋतूचे जे गुण वर्णन केलेले आहे त्याचे यथायोग्य पालन करावे. येथे शरद ऋतूची व्याख्या पूर्ण झालेली आहे.
२७ सहश्च सहस्यश्च
विश्वास-प्रस्तुतिः ...{Loading}...
सह॑श्च सह॒स्य᳖श्च॒ हैम॑न्तिकावृ॒तूऽ अ॒ग्नेर॑न्तःश्ले॒षो᳖ऽसि॒ कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ऽ ओष॑धयः॒ कल्प॑न्ताम॒ग्नयः॒ पृथ॒ङ् मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः। येऽ अ॒ग्नयः॒ सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वीऽ इ॒मे। हैम॑न्तिकावृ॒तूऽ अ॑भि॒कल्प॑माना॒ऽ इन्द्र॑मिव दे॒वाऽ अ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वे सी॑दतम् ॥२७ ॥
मूलम् ...{Loading}...
सह॑श्च सह॒स्य᳖श्च॒ हैम॑न्तिकावृ॒तूऽ अ॒ग्नेर॑न्तःश्ले॒षो᳖ऽसि॒ कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ऽ ओष॑धयः॒ कल्प॑न्ताम॒ग्नयः॒ पृथ॒ङ् मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः। येऽ अ॒ग्नयः॒ सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वीऽ इ॒मे। हैम॑न्तिकावृ॒तूऽ अ॑भि॒कल्प॑माना॒ऽ इन्द्र॑मिव दे॒वाऽ अ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वे सी॑दतम् ॥२७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सहः॑। च। स॒ह॒स्यः᳖। च॒। हैम॑न्तिकौ। ऋ॒तू इत्यृ॒तू। अ॒ग्नेः। अ॒न्तः॒श्ले॒ष इत्य॑न्तःऽश्ले॒षः। अ॒सि॒। कल्पे॑ताम्। द्यावा॑पृथि॒वी इति॒ द्यावा॑पृथि॒वी। कल्प॑न्ताम्। आ॑पः। ओष॑धयः। कल्प॑न्ताम्। अ॒ग्नयः॑। पृथ॑क्। मम॑। ज्यैष्ठ्या॑य। सव्र॑ता॒ इति॒ सऽव्र॑ताः। ये। अ॒ग्नयः॑। सम॑नस॒ इति॒ सऽम॑नसः। अ॒न्त॒रा। द्यावा॑पृथि॒वी इति॒ द्यावा॑पृथि॒वी। इ॒मे इती॒मे। हैम॑न्तिकौ। ऋ॒तू इत्यृ॒तू। अ॒भि॒कल्प॑माना॒ इत्य॑भि॒ऽकल्प॑मानाः। इन्द्र॑मि॒वेतीन्द्र॑म्ऽइव। दे॒वाः। अ॒भि॒संवि॑श॒न्त्वित्य॑भि॒ऽसंवि॑शन्तु। तया॑। दे॒वत॑या। अ॒ङ्गि॒र॒स्वत्। ध्रु॒वे इति॑ ध्रु॒वे। सी॒द॒त॒म्। २७।
महीधरः
म० ‘ऋतव्ये सहश्च सहस्यश्चेति’ ( का० १७ । १० । १८)। अनूकमभितो द्वे पद्ये उपदधाति । ऋतुदेवत्यं यजुः । सहो मार्गशीर्षः सहस्यः पौषः एतौ हैमन्तिकौ हेमन्तावयवौ । शिष्टं पूर्वतुल्यम् [अ० १३ क० २५] ॥ २७ ॥
अष्टाविंशी।
अधिमन्त्रम् (VC)
- ऋतवो देवताः
- विश्वदेव ऋषिः
- भुरिगतिजगती, भुरिग्ब्राह्मी बृहती
- निषादः, मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
अब हेमन्त ऋतु के विधान को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मित्रजन ! जो (मम) मेरे (ज्यैष्ठ्याय) वृद्ध श्रेष्ठ जनों के होने के लिये (सहः) बलकारी अगहन (च) और (सहस्यः) बल में प्रवृत्त हुआ पौष (च) ये दोनों महीने (हैमन्तिकौ) (ऋतू) हेमन्त ऋतु में हुए अपने चिह्न जाननेवाले (अङ्गिरस्वत्) उस ऋतु के प्राण के समान (सीदतम्) स्थिर हैं, जिस ऋतु के (अन्तःश्लेषः) मध्य में स्पर्श होता है, उस के समान तू (असि) है, सो तू उस ऋतु से (द्यावापृथिवी) आकाश और भूमि (कल्पेताम्) समर्थ हों, (आपः) जल और (ओषधयः) ओषधियाँ और (अग्नयः) सफेदाई से युक्त अग्नि (पृथक्) पृथक्-पृथक् (कल्पन्ताम्) समर्थ हों, ऐसा जान (ये) जो (अग्नयः) अग्नियों के तुल्य (अन्तरा) भीतर प्रविष्ट होनेवाले (सव्रताः) नियमधारी (समनसः) अविरुद्ध विचार करनेवाले लोग (इमे) इन (ध्रुवे) दृढ़ (द्यावापृथिवी) आकाश और भूमि को (कल्पन्ताम्) समर्थित करें, (इन्द्रमिव) ऐश्वर्य के तुल्य (हैमन्तिकौ) (ऋतू) हेमन्त ऋतु के दोनों महीनों को (अभिकल्पमानाः) सन्मुख होकर समर्थ करनेवाले (देवाः) दिव्य गुण बिजुली के समान (अभिसंविशन्तु) आवेश करें। वे सज्जन लोग (तया) उस (देवतया) प्रकाशस्वरूप परमात्मा देव के साथ प्रेमबद्ध हो के नियम से आहार और विहार कर के सुखी हों ॥२७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। विद्वानों को योग्य है कि यथायोग्य सुख के लिये हेमन्त ऋतु में पदार्थों का सेवन करें और वैसे ही दूसरों को भी सेवन करावें ॥२७ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ हेमन्तर्त्तुविधानमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मित्र ! यौ मम ज्यैष्ठ्याय सहश्च सहस्यश्च हैमन्तिकावृतू अङ्गिरस्वत् सीदतम्, यस्याग्नेरन्तःश्लेष इवासि, स त्वं तेन द्यावापृथिवी कल्पेतामाप ओषधयोऽग्नयश्च पृथक् कल्पन्तामिति जानीहि। येऽग्नय इवान्तरा सव्रताः समनस इमे ध्रुवे द्यावापृथिवी कल्पन्तामिन्द्रमिव हैमन्तिकावृतू अभिकल्पमाना देवा अभिसंविशन्तु, ते तया देवतया सह युक्ताहारविहारा भूत्वा सुखिनः स्युः ॥२७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः ! यथा विद्वांसः स्वसुखाय हेमन्तर्त्तौ पदार्थान् सेवेरन् तथैवान्यानपि सेवयेयुः ॥२७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. विद्वानांनी यथायोग्य सुखासाठी हेमंत ऋतूमध्ये पदार्थांचे सेवन करावे व इतरांकडूनही करवून घ्यावे.
२८ एकयास्तुवत प्रजाऽ
विश्वास-प्रस्तुतिः ...{Loading}...
एक॑यास्तुवत प्र॒जाऽ अ॑धीयन्त प्र॒जाप॑ति॒रधि॑पतिरासीत्। ति॒सृभि॑रस्तुवत॒ ब्रह्मा॑सृज्यत॒ ब्रह्म॑ण॒स्पति॒रधि॑पतिरासीत्। प॒ञ्चभि॑रस्तुवत भू॒तान्य॑सृज्यन्त भू॒तानां॒ पति॒रधि॑पतिरासीत्। स॒प्तभि॑रस्तुवत सप्तऽ ऋ॒षयो॑ऽसृज्यन्त धा॒ताधि॑पतिरासीत् ॥२८ ॥
मूलम् ...{Loading}...
एक॑यास्तुवत प्र॒जाऽ अ॑धीयन्त प्र॒जाप॑ति॒रधि॑पतिरासीत्। ति॒सृभि॑रस्तुवत॒ ब्रह्मा॑सृज्यत॒ ब्रह्म॑ण॒स्पति॒रधि॑पतिरासीत्। प॒ञ्चभि॑रस्तुवत भू॒तान्य॑सृज्यन्त भू॒तानां॒ पति॒रधि॑पतिरासीत्। स॒प्तभि॑रस्तुवत सप्तऽ ऋ॒षयो॑ऽसृज्यन्त धा॒ताधि॑पतिरासीत् ॥२८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
एक॑या। अ॒स्तु॒व॒त॒। प्र॒जा इति॑ प्र॒ऽजाः। अ॒धी॒य॒न्त॒। प्र॒जाप॑ति॒रिति॑ प्र॒जाऽप॑तिः। अधि॑पति॒रित्यधि॑ऽपतिः। आ॒सी॒त्। ति॒सृभि॒रिति॑ ति॒सृऽभिः॑। अ॒स्तु॒व॒त॒। ब्रह्म॑। अ॒सृ॒ज्य॒त॒। ब्रह्म॑णः। पतिः॑। अधि॑पति॒रित्यधि॑ऽपतिः। आ॒सी॒त्। प॒ञ्चभि॒रिति॑ प॒ञ्चऽभिः॑। अ॒स्तु॒व॒त॒। भू॒तानि॑। अ॒सृ॒ज्य॒न्त॒। भू॒ताना॑म्। पतिः॑। अधि॑पति॒रित्यधि॑ऽपतिः। आ॒सी॒त्। स॒प्तभि॒रिति॑ स॒प्तऽभिः॑। अ॒स्तु॒व॒त॒। स॒प्त॒ऋ॒षय॒ इति॑ सप्तऋ॒षयः॑। अ॒सृ॒ज्य॒न्त॒। धा॒ता। अधि॑पति॒रित्यधि॑ऽपतिः। आ॒सी॒त्। २८।
महीधरः
म० रेतःसिग्वेलायां च सप्तदश सर्वतो नव दक्षिणेनानूकᳪं᳭सृष्टीरेकयास्तुवतेति प्रतिमन्त्रम्’ (का० १७ । १० । १८) । सर्वासु दिक्षु रेतस्सिग्वेलायां सृष्टिसंज्ञाः सप्तदशेष्टका उपदधाति तन्मध्ये प्रागनूकं दक्षिणेन नव अर्थादष्टावुत्तरेणेति सूत्रार्थः । सप्तदश यजूंषि सृष्टीष्टकादेवत्यानि । अत्र निदानम् प्रजापतिर्भूतानि मृत्योरेव मुक्त्वा प्रजाः सृजेय प्रजायेयेति । विचिन्त्य प्राणाधिष्ठातृदेवान् दिगादीनूचे युष्माभिः सह परमात्मानं स्तुत्वेमाः प्रजा जनयामीति । देवा ऊचुः केन स्तोष्यामः। स ऊचे मया युष्माभिश्चेति । तथेत्युक्त्वा प्राणैः प्रजापतिना चास्तुवतेति । तथाच श्रुतिः ‘तद्वै प्रजापतिः सर्वाणि भूतानि पाप्मनो मृत्योर्मुक्त्वाकामयत प्रजाः सृजेय प्रजायेयेति ॥१॥ स प्राणानब्रवीद्युष्माभिः सहेमाः प्रजाः प्रजनयानीति ते वै केन स्तोष्यामह इति मया चैव युष्माभिश्चेति तथेति ते प्राणै- श्चैव प्रजापतिना चास्तुवत’ (८ । ४ । ३ । १।२) इति । प्रजापतिरेकया वाचा सहात्मानमस्तुवत स्तुतवान् । वचनव्यत्ययः । ‘वाग्वा एका वाचैव तदस्तुवत’ ( ८ । ४ । ३ । ३) इति श्रुतेः । प्रजा अधीयन्त उदपाद्यन्त, प्रजापत्यर्थमस्थाप्यन्तेति वा । सृष्टानां प्रजानां प्रजापतिरेवाधिपतिरासीत्स्वाम्यभूत् । एवं षोडश मन्त्रा व्याख्येयाः । ‘तिसृभिः प्राणोदानव्यानैरस्तौत् ब्रह्म ब्राह्मणजातिः स्रष्टा ब्रह्मणस्पतिर्ब्राह्मणजातेः स्वाम्यभूत् । ‘त्रयो वै प्राणाः प्राणोदानव्यानास्तैः’ ( ८ । ४ । ३ । ४) इति श्रुतेः । पञ्चभिः प्राणैरस्तुवत पञ्च भूतानि सृष्टानि भूतानां पतिर्देवस्तेषां स्वाम्यभूत् । ‘य एवेमे मनःपञ्चमाः प्राणास्तैरेव तदस्तुवत’ ( ८ । ४ । ३ । ५) इति श्रुतेः । सप्तभिः श्रोत्रचक्षुर्नासावाग्रूपैः सप्तशीर्षण्यप्राणैरस्तुवत । ततः सप्त ऋषयः सृष्टाः धाता जगत्स्रष्टाद्यो देवः स्वाम्यभूत् । ‘य एवेमे सप्त शीर्षन् प्राणास्तैरेव’ ( ८ । ४ । ३ । ६ ) इति श्रुतेः ॥ २८ ॥
एकोनत्रिंशी।
अधिमन्त्रम् (VC)
- ईश्वरो देवता
- विश्वदेव ऋषिः
- निचृद्विकृतिः
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
अब यह ऋतुओं का चक्र किसने रचा है, इस विषय का उपदेश अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (प्रजापतिः) प्रजा का पालक (अधिपतिः) सब का अध्यक्ष परमेश्वर (आसीत्) है, उस की (एकया) एक वाणी से (अस्तुवत) स्तुति करो और जिस से सब (प्रजाः) प्रजा के लोगों को वेद द्वारा (अधीयन्त) विद्यायुक्त किये हैं, जो (ब्रह्मणस्पतिः) वेद का रक्षक (अधिपतिः) सब का स्वामी परमात्मा (आसीत्) है, जिस ने यह (ब्रह्म) सकल विद्यायुक्त वेद को (असृज्यत) रचा है, उस की (तिसृभिः) प्राण, उदान और व्यान वायु की गति से (अस्तुवत) स्तुति करो, जिसने (भूतानि) पृथिवी आदि भूतों को (असृज्यन्त) रचा है, जो (भूतानाम्) सब भूतों का (पतिः) रक्षक (अधिपतिः) रक्षकों का भी रक्षक (आसीत्) है, उस की सब मनुष्य (पञ्चभिः) समान वायु, चित्त, बुद्धि, अहंकार और मन से (अस्तुवत) स्तुति करें, जिस ने (सप्त ऋषयः) पाँच मुख्य प्राण, महत्तत्व समष्टि और अहंकार सात पदार्थ (असृज्यन्त) रचे हैं, जो (धाता) धारण वा पोषणकर्त्ता (अधिपतिः) सब का स्वामी (आसीत्) है, उस की (सप्तभिः) नाग, कूर्म्म, कृकल, देवदत्त धनञ्जय, और इच्छा तथा प्रयत्नों से (अस्तुवत) स्तुति करो ॥२८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सब मनुष्यों को योग्य है कि सब जगत् के उत्पादक न्यायकर्त्ता परमात्मा की स्तुति कर, सुनें विचारें और अनुभव करें। जैसे हेमन्त ऋतु में सब पदार्थ शीतल होते हैं, वैसे ही परमेश्वर की उपासना करके शान्तिशील होवें ॥२८ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथैतदृतुचक्रं केन सृष्टमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यः प्रजापतिरधिपतिः सर्वस्य स्वामीश्वर आसीत् तमेकयाऽस्तुवत। सर्वाः प्रजाश्चाधीयन्त, यो ब्रह्मणस्पतिरधिपतिरासीद् येनेदं सर्वविद्यामयं ब्रह्म वेदोऽसृज्यत, तं तिसृभिरस्तुवत। येन भूतान्यसृज्यन्त यो भूतानां पतिरधिपतिरासीत्, तं सर्वे मनुष्याः पञ्चभिरस्तुवत। येन सप्त ऋषयोऽसृज्यन्त यो धाताऽधिपतिरासीत् तं सप्तभिरस्तुवत ॥२८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सर्वैर्मनुष्यैः सर्वस्य जगत उत्पादको न्यायाधीशः परमेश्वरः स्तोतव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः। यथा हेमन्तर्त्तौ सर्वे पदार्थाः शीतला भवन्ति, तथैव परमेश्वरमुपास्य शान्तियुक्ता भवन्तु ॥२८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सर्व माणसांनी सर्व जगाचा निर्माणकर्ता, न्यायकर्ता असणाऱ्या परमेश्वराची स्तुती करावी, ऐकावी, विचार करावा व त्याची अनुभूती घ्यावी. जसे हेमंत ऋतूमध्ये सगळे पदार्थ शीतल असतात तसे परमेश्वराची उपासना करून शांत व्हावे.
२९ नवभिरस्तुवत पितरोऽसृज्यन्तादितिरधिपत्न्यासीत्
विश्वास-प्रस्तुतिः ...{Loading}...
न॒वभि॑रस्तुवत पि॒तरो॑ऽसृज्य॒न्तादि॑ति॒रधि॑पत्न्यासीत्। एकाद॒शभि॑रस्तुवतऽ ऋ॒तवो॑ऽसृज्यन्तार्त्त॒वाऽ अधि॑पतयऽआसन्। त्रयोद॒शभि॑रस्तुवत॒ मासा॑ऽ असृज्यन्त संवत्स॒रोऽधि॑पतिरासीत्। पञ्चद॒शभि॑रस्तुवत क्ष॒त्रम॑सृज्य॒तेन्द्रोऽधि॑पतिरासीत्। सप्तद॒शभि॑रस्तुवत ग्रा॒म्याः प॒शवो॑ऽसृज्यन्त॒ बृह॒स्पति॒रधि॑पतिरासीत् ॥२९ ॥
मूलम् ...{Loading}...
न॒वभि॑रस्तुवत पि॒तरो॑ऽसृज्य॒न्तादि॑ति॒रधि॑पत्न्यासीत्। एकाद॒शभि॑रस्तुवतऽ ऋ॒तवो॑ऽसृज्यन्तार्त्त॒वाऽ अधि॑पतयऽआसन्। त्रयोद॒शभि॑रस्तुवत॒ मासा॑ऽ असृज्यन्त संवत्स॒रोऽधि॑पतिरासीत्। पञ्चद॒शभि॑रस्तुवत क्ष॒त्रम॑सृज्य॒तेन्द्रोऽधि॑पतिरासीत्। सप्तद॒शभि॑रस्तुवत ग्रा॒म्याः प॒शवो॑ऽसृज्यन्त॒ बृह॒स्पति॒रधि॑पतिरासीत् ॥२९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
न॒वभि॒रिति॑ न॒वऽभिः॑। अ॒स्तु॒व॒त॒। पि॒तरः॑। अ॒सृ॒ज्य॒न्त॒। अदि॑तिः। अधि॑प॒त्नीत्यधि॑ऽपत्नी। आ॒सी॒त्। ए॒का॒द॒शभि॒रित्ये॑काऽद॒शभिः॑। अ॒स्तु॒व॒त॒। ऋ॒तवः॑। अ॒सृ॒ज्य॒न्त॒। आ॒र्त्त॒वाः। अधि॑पतय॒ इत्यधि॑ऽपतयः। आ॒स॒न्। त्र॒यो॒द॒शभि॒रिति॑ त्रयोद॒शऽभिः॑। अ॒स्तु॒व॒त॒। मासाः॑। अ॒सृ॒ज्य॒न्त॒। सं॒व॒त्स॒रः। अधि॑पति॒रित्यधि॑ऽपतिः। आ॒सी॒त्। प॒ञ्च॒द॒शभि॒रिति॑ पञ्चऽद॒शभिः॑। अ॒स्तु॒व॒त॒। क्ष॒त्रम्। अ॒सृ॒ज्य॒त॒। इन्द्रः॑। अधि॑पति॒रित्यधि॑पतिः। आ॒सी॒त्। स॒प्त॒द॒शभि॒रिति॑ सप्तऽद॒शभिः॑। अ॒स्तु॒व॒त॒। ग्रा॒म्याः। प॒शवः॑। अ॒सृ॒ज्य॒न्त॒। बृह॒स्पतिः॑। अधि॑पति॒रित्यधि॑ऽपतिः। आ॒सी॒त्। २९।
महीधरः
म० नवभिः सप्त शिरःप्राणा द्वावध इति नवप्राणैः प्रजापतिरस्तौत् । ततः पितरः अग्निष्वात्तादयः सृष्टाः । अदितिः अखण्डिता प्रजापतिशक्तिः सृष्टानां पितॄणामधिपत्नी स्वामित्वेनाधिकं पालयित्र्यासीत् । ‘नव वै प्राणाः सप्त शीर्षन्नवाञ्चौ द्वौ तैः’ ( ८।४ । ३ । ७) इति श्रुतेः । एकादशभिः दश प्राणा आत्मैकादशस्तैरस्तुवत । ऋतवः वसन्ताद्याः सृष्टाः आर्तवाः ऋतुपालका देवविशेषाः स्वामिनोऽभूवन् । ‘दश प्राणा आत्मैकादशः’ ( ८ । ४ । ३ । ८) इति श्रुतेः । त्रयोदशभिः दश प्राणाः द्वौ पादौ एक आत्मेति तैरस्तौत् । ततो मासाः चैत्रादयः सृष्टाः । मासाभिमान्ययनद्वयात्मकः संवत्सरः तेषामधिपतिरासीत् । ‘दश प्राणा द्वे प्रतिष्ठे आत्मा त्रयोदशः’ ( ८ । ४ । ३ । ९) इति श्रुतेः । पञ्चदशभिः दश हस्ताङ्गुलयः करौ बाहू नाभेरूर्ध्वभागश्च तैरस्तुवत । ततः क्षत्रं क्षत्रियजातिः सृष्टा । इन्द्रः ऐश्वर्यशाली तदभिमानी देवः स्वाम्यभूत् । ‘दश हस्त्या अङ्गुलयश्चत्वारि दोर्बाहवाणि यदूर्ध्वं नाभेस्तत्पञ्चदशम्’ ( ८।४ । ३ । १०) इति श्रुतेः । सप्तदशभिः दश पादाङ्गुलयः ऊरू जानुनी पादौ नाभेरधोभाग- श्चेति तैरस्तौत् तदा ग्राम्याः पशवः गवादयः सृष्टाः बृहस्पतिस्तेषां स्वाम्यभूत् । ‘दश पाद्या अगुलयश्चत्वार्यूर्वष्ठीवानि द्वे प्रतिष्ठे यदवाङ्नाभेस्तत्सप्तदशम्’ (८।९।३।११) इति श्रुतेः २९
त्रिंशी।
अधिमन्त्रम् (VC)
- ईश्वरो देवता
- विश्वदेव ऋषिः
- आर्षी त्रिष्टुप्, ब्रह्मी जगती
- धैवतः, निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह जगत् का रचनेवाला कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोग जिस ने (पितरः) रक्षक मनुष्य (असृज्यन्त) उत्पन्न किये हैं, जहाँ (अदितिः) रक्षा के योग्य (अधिपत्नी) अत्यन्त रक्षक माता (आसीत्) होवे, उस परमात्मा की (नवभिः) नव प्राणों से (अस्तुवत) गुण प्रशंसा करो, जिस ने (ऋतवः) वसन्त आदि ऋतु (असृज्यन्त) रचे हैं, जहाँ (आर्त्तवाः) उन-उन ऋतुओं के गुण (अधिपतयः) अपने-अपने विषय में अधिकारी (आसन्) होते हैं, उस की (एकादशभिः) दश प्राणों और ग्यारहवें आत्मा से (अस्तुवत) स्तुति करो, जिस ने (मासाः) चैत्रादि बारह महीने (असृज्यन्त) रचे हैं, (पञ्चदशभिः) पन्द्रह तिथियों के सहित (संवत्सरः) संवत्सर (अधिपतिः) सब काल का अधिकारी रचा (आसीत्) है, उस की (त्रयोदशभिः) दश प्राण, ग्यारहवाँ जीवात्मा और दो प्रतिष्ठाओं से (अस्तुवत) स्तुति करो, जिन से (इन्द्रः) परम सम्पत्ति का हेतु सूर्य्य (अधिपतिः) अधिष्ठाता उत्पन्न किया (आसीत्) है, जिसने (क्षत्रम्) राज्य वा क्षत्रियकुल को (असृज्यत) रचा है, उस को (सप्तदशभिः) दश पाँव की अंगुली, दो जंघा, दो जानु, दो प्रतिष्ठा और एक नाभि से ऊपर का अङ्ग−इन सत्रहों से (अस्तुवत) स्तुति करो, जिस ने (बृहस्पतिः) बड़े-बड़े पदार्थों का रक्षक वैश्य (अधिपतिः) अधिकारी रचा (आसीत्) है और (ग्राम्याः) ग्राम के (पशवः) गौ आदि पशु (असृज्यन्त) रचे हैं, उस परमेश्वर की पूर्वोक्त सब पदार्थों से युक्त होके (अस्तुवत) स्तुति करो ॥२९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! आप लोग जिसने ऋतु आदि प्रजा के रक्षक और रक्षा के योग्य पदार्थ इस जगत् में रचे हैं और जिसने काल के विभाग करनेवाले सूर्य्य आदि पदार्थ रचे हैं, उस परमेश्वर की उपासना करो ॥२९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स जगत्स्रष्टा किंभूत इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यूयं येन पितरोऽसृज्यन्त यत्राधिपत्न्यदितिरासीत् तं यूयं नवभिरस्तुवत। येनर्त्तवोऽसृज्यन्त, यत्रार्त्तवा अधिपतय आसंस्तमेकादशभिरस्तुवत। येन मासा असृज्यन्त, पञ्चदशभिः संवत्सरोऽधिपतिः सृष्ट आसीत् त्रयोदशभिरस्तुवत। यत्रेन्द्रोऽधिपतिरासीद्येन क्षत्रमसृज्यत, तं सप्तदशभिरस्तुवत। येन बृहस्पतिरधिपतिः सृष्ट आसीद्, ग्राम्याः पशवोऽसृज्यन्त तं परमेश्वरं सप्तदशभिरस्तुवत ॥२९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! भवन्तो येन ऋत्वादयः प्रजापालका निर्मिताः पाल्याश्च, येन कालनिर्मापकाः सूर्य्यादयः सर्वे पदार्थाः सृष्टास्तं परमात्मानमुपासीरन् ॥२९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! ज्याने कलविभाजन करणारे सूर्य इत्यादी पदार्थ निर्माण केलेले आहेत त्या परमेश्वराची उपासना करा.
३० नवदशभिरस्तुवत शूद्रार्य्यावसृज्येतामहोरात्रेऽ
विश्वास-प्रस्तुतिः ...{Loading}...
न॒व॒द॒शभि॑रस्तुवत शूद्रा॒र्य्याव॑सृज्येतामहोरा॒त्रेऽ अधि॑पत्नीऽ आस्ता॒म्। एक॑विँशत्यास्तुव॒तैक॑शफाः प॒शवो॑ऽसृज्यन्त॒ वरु॒णोऽधि॑पतिरासी॒त्। त्रयो॑विँशत्यास्तुवत क्षु॒द्राः प॒शवो॑ऽसृज्यन्त पू॒षाधि॑पतिरासी॒त्। पञ्च॑विँशत्यास्तुवताऽऽर॒ण्याः प॒शवो॑ऽसृज्यन्त वा॒युरधि॑पतिरासीत्। स॒प्तविँ॑शत्यास्तुवत॒ द्यावा॑पृथि॒वी व्यै॑तां॒ वस॑वो रु॒द्रोऽ आ॑दि॒त्याऽ अ॑नु॒व्या᳖यँ॒स्तऽ ए॒वाधि॑पतयऽ आसन् ॥३० ॥
मूलम् ...{Loading}...
न॒व॒द॒शभि॑रस्तुवत शूद्रा॒र्य्याव॑सृज्येतामहोरा॒त्रेऽ अधि॑पत्नीऽ आस्ता॒म्। एक॑विँशत्यास्तुव॒तैक॑शफाः प॒शवो॑ऽसृज्यन्त॒ वरु॒णोऽधि॑पतिरासी॒त्। त्रयो॑विँशत्यास्तुवत क्षु॒द्राः प॒शवो॑ऽसृज्यन्त पू॒षाधि॑पतिरासी॒त्। पञ्च॑विँशत्यास्तुवताऽऽर॒ण्याः प॒शवो॑ऽसृज्यन्त वा॒युरधि॑पतिरासीत्। स॒प्तविँ॑शत्यास्तुवत॒ द्यावा॑पृथि॒वी व्यै॑तां॒ वस॑वो रु॒द्रोऽ आ॑दि॒त्याऽ अ॑नु॒व्या᳖यँ॒स्तऽ ए॒वाधि॑पतयऽ आसन् ॥३० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
न॒व॒द॒शभि॒रिति॑ नवऽद॒शभिः॑। अ॒स्तु॒व॒त॒। शू॒द्रा॒र्य्यौ। अ॒सृ॒ज्ये॒ता॒म्। अ॒हो॒रा॒त्र इत्य॑हो॒रा॒त्रे। अधि॑पत्नी॒ इत्यधि॑ऽपत्नी। आ॒स्ता॒म्। एक॑विँश॒त्येक॑ऽविँशत्या। अ॒स्तु॒व॒त॒। एक॑शफा॒ इत्येक॑ऽशफाः॒। प॒शवः॑। अ॒सृ॒ज्य॒न्त॒। वरु॑णः। अधि॑पति॒रित्यधि॑ऽपतिः। आ॒सी॒त्। त्रयो॑विँश॒त्येति॒ त्रयः॑ऽविंशत्या। अ॒स्तु॒व॒त॒। क्षु॒द्राः। प॒शवः॑। अ॒सृ॒ज्य॒न्त॒। पू॒षा। अधि॑पति॒रित्यधि॑ऽपतिः। आ॒सी॒त्। पञ्च॑विँश॒त्येति॒ पञ्च॑ऽविँशत्या। अ॒स्तु॒व॒त॒। आ॒र॒ण्याः। प॒शवः॑। अ॒सृ॒ज्य॒न्त॒। वा॒युः। अधि॑पति॒रित्यधि॑ऽपतिः। आ॒सी॒त्। स॒प्तविंँ॑श॒त्येति॑ स॒प्तऽविंँ॑शत्या। अ॒स्तु॒व॒त॒। द्यावा॑पृथि॒वी इति॑ द्यावा॑पृथि॒वी। वि। ऐ॒ता॒म्। वस॑वः। रु॒द्राः। आ॒दि॒त्याः। अ॒नु॒व्या᳖य॒न्नित्य॑नु॒ऽव्या᳖यन्। ते। ए॒व। अधि॑पतय॒ इत्यधि॑ऽपतयः। आ॒स॒न्। ३०।
महीधरः
म० नवदशभिः दश हस्ताङ्गुलयः ऊर्ध्वाधःस्थच्छिद्ररूपा नव प्राणास्तैरस्तौत् । ततः शूद्रार्यौ शूद्रवैश्यावसृज्येतां सृष्टौ । अर्यः स्वामिवैश्ययोः । अहोरात्रे तयोः स्वामित्वेनास्ताम् । - ‘दश हस्त्या अङ्गुलयो नव प्राणाः’ (८।४।३। १२) इति श्रुतेः । एकविंशत्या विंशतिः करपादाङ्गुलयः आत्मा चेति एकविंशत्यास्तौत् । ततः एकशफाः पशवोऽश्वादयः सृष्टाः । एकं शफं खुरः प्रतिपादं येषां ते एकशफाः । ‘शफं क्लीबे खुरः पुमान्’ इत्यमरः । वरुणस्तेषामधिपतिरासीत् । ‘दश हस्त्या अङ्गुलयो दश पाद्या आत्मैकविᳪं᳭शः ’ ( ८ । ४ । ३ । १३ ) इति श्रुतेः। त्रयोविंशत्या विंशतिः करपादाङ्गुलयः पादावात्मा चेति तैस्तु ते क्षुद्राः पशवोऽजादयः सृष्टाः तेषां पूषा स्वाम्यभूत् । ‘दश हस्त्या अङ्गुलयो दश पाद्या द्वे प्रतिष्ठे आत्मा त्रयोविᳪं᳭शः’ (८।४।३।१४) इति श्रुतेः। पञ्चविंशत्या विंशतिः करपादाङ्गुलयः करौ पादावात्मेति तैरस्तुवत तदारण्या वनस्थाः पशवः कृष्णमृगादयः सृष्टास्तेषां वायुः स्वाम्यभूत् । ‘दश हस्त्या अङ्गुलयो दश पाद्याश्चत्वार्यङ्गान्यात्मा पञ्चविᳪं᳭शः ’ ( ८ । ४ । ३ । १५) इति श्रुतेः । सप्तविंशत्या करपादाङ्गुलयः द्वौ भुजावूरू चात्मेति तैरस्तुवत ततो द्यावापृथिवी द्युभूलोकौ व्यैतां विशेषेणागच्छतामित्यर्थः । विपूर्वादिण् गताविति धातोर्लङि प्रथमाद्विवचनम् । वसवोऽष्टौ रुद्रा एकादश आदित्या द्वादशानुव्यायन् अन्वगच्छन् अनुगताः त एव स्वामिनोऽभूवन् । ‘दश हस्त्या अङ्गुलयो दश पाद्याश्चत्वार्यङ्गानि द्वे प्रतिष्ठे आत्मा सप्तविᳪं᳭शः’ ( ८ । ४ । ३ । १६) इति श्रुतेः ॥ ३० ॥
एकत्रिंशी।
इति श्रीवाजसनेयसंहितायां चतुर्दशोऽध्यायः ।
अधिमन्त्रम् (VC)
- जगदीश्वरो देवता
- विश्वदेव ऋषिः
- स्वराड् ब्राह्मी जगती, ब्राह्मी पङ्क्तिः
- निषादः, पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा है, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम जिससे उत्पन्न हुए (अहोरात्रे) दिन और रात्रि (अधिपत्नी) सब काम कराने के अधिकारी (आस्ताम्) हैं, जिस ने (शूद्रार्य्यौ) शूद्र और आर्य्य द्विज ये दोनों (असृज्येताम्) रचे हैं, उस की (नवदशभिः) दश प्राण, पाँच महाभूत, मन, बुद्धि, चित्त और अहंकारों से (अस्तुवत) स्तुति करो। जिसने उत्पन्न किया (वरुणः) जल (अधिपतिः) प्राण के समान प्रिय अधिष्ठाता (आसीत्) है, जिस ने (एकशफाः) जुड़े एक खुरोंवाले घोड़े आदि (पशवः) पशु (असृज्यन्त) रचे हैं, उस की (एकविंशत्या) मनुष्यों के इक्कीस अवयवों से (अस्तुवत) स्तुति करो, जिसने बनाया (पूषा) पुष्टिकारक भूगोल (अधिपतिः) रक्षा करनेवाला (आसीत्) है, जिस ने (क्षुद्राः) अतिसूक्ष्म जीवों से लेकर नकुल पर्य्यन्त (पशवः) पशु (असृज्यन्त) रचे हैं, उस की (त्रयोविंशत्या) पशुओं के तेईस अवयवों से (अस्तुवत) स्तुति करो। जिसने बनाया हुआ (वायुः) वायु (अधिपतिः) पालने हारा (आसीत्) है, जिसने (आरण्याः) वन के (पशवः) सिंह आदि पशु (असृज्यन्त) रचे हैं, (पञ्चविंशत्या) अनेकों प्रकार के छोटे-छोटे वन्य पशुओं के अवयवों के साथ अर्थात् उन अवयवों की कारीगरी के साथ (अस्तुवत) प्रशंसा करो, जिसने बनाये (द्यावापृथिवी) आकाश और भूमि (व्यैताम्) प्राप्त हैं, जिस के बनाने से (वसवः) अग्नि आदि आठ पदार्थ वा प्रथम कक्षा के विद्वान् (रुद्राः) प्राण आदि वा मध्यम विद्वान् (आदित्याः) बारह महीने वा उत्तम विद्वान् (अनुव्यायन्) अनुकूलता से उत्पन्न हैं, (ते) (एव) वे अग्नि आदि ही वा विद्वान् लोग (अधिपतयः) अधिष्ठाता (आसन्) होते हैं, उस की (सप्तविंशत्या) सत्ताईस वन के पशुओं के गुणों से (अस्तुवत) स्तुति करो ॥३० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जिसने ब्राह्मण, क्षत्रिय, वैश्य और शूद्र डाकू मनुष्य भी रचे हैं, जिसने स्थूल तथा सूक्ष्म प्राणियों के शरीर अत्यन्त छोटे पशु और इन की रक्षा के साधन पदार्थ रचे और जिसकी सृष्टि में न्यून विद्या और पूर्ण विद्यावाले विद्वान् होते हैं, उसी परमात्मा की तुम लोग उपासना करो ॥३० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स कीदृश इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यूयं येनोत्पादिते अहोरात्रे अधिपत्नी आस्ताम्, येन शूद्रार्यावसृज्येतां तं नवदशभिरस्तुवत। येनोत्पादितो वरुणोऽधिपतिरासीद्येनैकशफाः पशवोऽसृज्यन्त तं परमात्मानमेकविंशत्यास्तुवत। येन निर्मितः पूषाऽधिपतिरासीद्, येन क्षुद्राः पशवोऽसृज्यन्त, तं त्रयोविंशत्यास्तुवत। येनोत्पादितो वायुरधिपतिरासीद् येनाऽऽरण्याः पशवोऽसृज्यन्त, तं पञ्चविंशत्यास्तुवत। येन सृष्टे द्यावापृथिव्यैताम्, येन रचिता वसवो रुद्रा आदित्या अनुव्यायंस्त एवाऽधिपतय आसंस्तं सप्तविंशत्यास्तुवत ॥३० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! येनार्याः शूद्रा दस्यवश्च मनुष्याः सृष्टा, येन स्थूलसूक्ष्मा प्राणिदेहा महद्ह्रस्वाः पशव एतेषां पालनसाधनानि च, यस्य सृष्टावल्पविद्याः समग्रविद्याश्च विद्वांसो भवन्ति, तमेव यूयमुपास्यं मन्यध्वम् ॥३० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! ज्याने ब्राह्मण, क्षत्रिय, वैश्य, शूद्र इत्यादी माणसे निर्माण केलेली आहेत व ज्याने स्थूल व सूक्ष्म प्राण्यांची शरीरे निर्माण केलेली आहेत, अत्यंत लहान पशू व त्यांच्या रक्षणाची साधने निर्माण केलेली आहेत आणि ज्याच्या सृष्टीमध्ये कमी जास्त अशी विद्या प्राप्त करणारे विद्वानही आहेत त्याच परमेश्वराची तुम्ही उपासना करा.
३१ नवविंशत्याऽस्तुवत वनस्पतयोऽसृज्यन्त
विश्वास-प्रस्तुतिः ...{Loading}...
नव॑विँशत्याऽस्तुवत॒ वन॒स्पत॑योऽसृज्यन्त॒ सोमोऽधि॑पतिरासी॒त्। एक॑त्रिँशताऽस्तुवत प्र॒जाऽ अ॑सृज्यन्त॒ यवा॒श्चाय॑वा॒श्चाधि॑पतयऽआस॒न्। त्रय॑स्त्रिँशताऽस्तुवत भू॒तान्य॑शाम्यन् प्र॒जाप॑तिः परमे॒ष्ठ्यधि॑पतिरासीत् ॥३१ ॥
मूलम् ...{Loading}...
नव॑विँशत्याऽस्तुवत॒ वन॒स्पत॑योऽसृज्यन्त॒ सोमोऽधि॑पतिरासी॒त्। एक॑त्रिँशताऽस्तुवत प्र॒जाऽ अ॑सृज्यन्त॒ यवा॒श्चाय॑वा॒श्चाधि॑पतयऽआस॒न्। त्रय॑स्त्रिँशताऽस्तुवत भू॒तान्य॑शाम्यन् प्र॒जाप॑तिः परमे॒ष्ठ्यधि॑पतिरासीत् ॥३१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नव॑विँश॒त्येति॒ नव॑ऽविँशत्या। अ॒स्तु॒व॒त॒। वन॒स्पत॑यः। अ॒सृ॒ज्य॒न्त॒। सोमः॑। अधि॑पति॒रित्यधि॑ऽपतिः। आ॒सी॒त्। एक॑त्रिँश॒तेत्येक॑ऽत्रिँशता। अ॒स्तु॒व॒त॒। प्र॒जा इति॑ प्र॒ऽजाः। अ॒सृ॒ज्य॒न्त॒। यवाः॑। च॒। अय॑वाः। च॒। अधि॑पतय॒ इत्यधि॑ऽपतयः। आ॒स॒न्। त्रय॑स्त्रिँश॒तेति॒ त्रयः॑ऽत्रिँशता। अ॒स्तु॒व॒त॒। भू॒तानि॑। अ॒शा॒म्य॒न्। प्र॒जाप॑ति॒रिति॑ प्र॒जाऽप॑तिः। प॒र॒मे॒ष्ठी। प॒र॒मे॒ऽस्थीति॑ परमे॒ऽस्थी। अधि॑पति॒रित्यधि॑ऽपतिः। आ॒सी॒त्। ३१।
महीधरः
म०. नवविंशत्या करपादाङ्गुलयो नव छिद्ररूपाः प्राणास्तैरस्तुवत ततो वनस्पतयोऽश्वत्थवटाद्याः सृष्टाः तेषां स्वामी सोमोऽभूत् । ‘दश हस्त्या अङ्गुलयो दश पाद्या नव प्राणाः’ (८।४।३।१७) इति श्रुतेः । एकत्रिंशता करपादाङ्गुलयः दशेन्द्रियाणि आत्मेति तैरस्तौत् । ततः प्रजाः सृष्टाः यवाः पूर्वपक्षा अयवाः अपरपक्षास्तांसां प्रजानां स्वामिनोऽभूवन् ‘दश हस्त्या अङ्गुलयो दश पाद्या दश प्राणा आत्मैकत्रिᳪं᳭शः’ (८।४ । ३ । १८) इति श्रुतेः । पूर्वपक्षापरपक्षा एवात्राधिपतय आसन् (१८) इति च । त्रयस्त्रिंशता अङ्गुलयः इन्द्रियाणि पादौ आत्मेति तैरस्तुवत स्तौतिस्म प्रजापतिर्देवैः सह । ततो भूतानि अशाम्यन् सर्वे प्राणिनः शान्ताः सुखिनोऽभूवन् । परमे सत्यलोके तिष्ठतीति परमेष्ठी प्रजापतिः प्रजापालकः सर्वेषां भूतानामधिपतिः स्वाम्यासीत् । ‘दश हस्त्या अङ्गुलयो दश पाद्या दश प्राणा द्वे प्रतिष्ठे आत्मा त्रयस्त्रिᳪं᳭शः ’ (८ । ४ । ३ । १९) इति श्रुतेः । अत्र या येष्टका येन मन्त्रेणोपधेया सा सा तत्तन्मन्त्रोक्तदेवतारूपेण ध्यातव्येत्यर्थः । ‘उत्तराᳪं᳭सादधि लोकंपृणाः पूर्ववत्’ (का० १७ । १०।१९) उत्तरांसादारभ्य प्रथमचितिवल्लोकंपृणा उपदधातीति सूत्रार्थः । ततः पुरीषनिर्वापः सप्तर्चोपस्थानं च बोध्यम् । तन्मन्त्रप्रतीकानि लोकंपृण ता अस्य इन्दं विश्वा इति तास्तिस्रोऽपि व्याख्याताः ( १२ । १४-१६) ॥ ३१ ॥
इति चतुर्थी चितिः पूर्णा ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
वेदचन्द्रमितोऽध्यायो वर्ण्यद्वित्रिचतुश्चितिः ॥ १४ ॥
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- विश्वदेव ऋषिः
- निचृदतिधृतिः
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही उक्त विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोग जिस के बनाने से (सोमः) ओषधियों में उत्तम ओषधि (अधिपतिः) स्वामी (आसीत्) है, जिस ने उन (वनस्पतयः) पीपल आदि वनस्पतियों को (असृज्यन्त) रचा है, उस परमात्मा की (नवविंशत्या) उनतीस प्रकार के वनस्पतियों के गुणों से (अस्तुवत) स्तुति करो और जिस ने उत्पन्न किये (यवाः) समष्टिरूप बने पर्वत आदि (च) और त्रसरेणु आदि (अयवाः) भिन्न-भिन्न प्रकृति के अवयव सत्व, रजस् और तमोगुण (च) तथा परमाणु आदि (अधिपतयः) मुख्य कारण रूप अध्यक्ष (आसन्) हैं, उन (प्रजाः) प्रसिद्ध ओषधियों को जिस ने (असृज्यन्त) रचा है, उस ईश्वर की (एकत्रिंशता) इकत्तीस प्रजा के अवयवों से (अस्तुवत) प्रशंसा करो। जिसके प्रभाव से (भूतानि) प्रकृति के परिणाम महत्तत्व के उपद्रव (अशाम्यन्) शान्त हों, जो (प्रजापतिः) प्रजा का रक्षक (परमेष्ठी) परमेश्वर के समान आकाश में व्यापक हो के स्थित परमेश्वर (अधिपतिः) अधिष्ठाता (आसीत्) है, उसकी (त्रयस्त्रिंशता) महाभूतों के तेंतीस गुणों से (अस्तुवत) प्रशंसा करो ॥३१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जिस परमेश्वर ने लोकों की रक्षा के लिये वनस्पति आदि ओषधियों को रच के धारण और व्यवस्थित किया है, उसी की उपासना सब मनुष्यों को करनी चाहिये ॥३१ ॥ इस अध्याय में वसन्तादि ऋतुओं के गुण-वर्णन होने से इस अध्याय के अर्थ की पूर्व अध्याय के अर्थ के साथ सङ्गति जाननी चाहिये ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्याणां श्रीमत्परमविदुषां विरजानन्दसरस्वतीस्वामिनां शिष्येण दयानदसरस्वती-स्वामिना निर्मिते संस्कृतार्य्यभाषाभ्यां विभूषिते सुप्रमाणयुक्ते यजुर्वेदभाष्ये चतुर्दशोऽध्यायः सम्पूर्णः ॥१४॥ यह यजुर्वेदभाष्य का चौदहवाँ (१४) अध्याय पूरा हुआ ॥१४॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स एव विषय उपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यूयं येनोत्पादितः सोमोऽधिपतिरासीद् येन ते वनस्पतयोऽसृज्यन्त, तं जगदीश्वरं नवविंशत्यास्तुवत। यासां यवा मिश्रिताः पर्वतादयश्च त्रसरेण्वादयश्चाऽयवाः प्रकृत्यवयवाः सत्त्वरजस्तमांसि गुणाः परमाण्वादयश्चाऽधिपतय आसन्, ताः प्रजा असृज्यन्त, तमेकत्रिंशतास्तुवत। यस्य प्रभावाद् भूतान्यशाम्यन्, यः प्रजापतिः परमेष्ठ्यधिपतिरासीत्, तं त्रयस्त्रिंशतास्तुवत ॥३१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - येन जगदीश्वरेण लोकानां रक्षणाय वनस्पत्यादीन् सृष्ट्वा ध्रियन्ते व्यवस्थाप्यन्ते, स एव सर्वैर्मनुष्यैरुपासनीयः ॥३१ ॥ अस्मिन्नध्याये वसन्ताद्यृतुगुणवर्णनादेतदर्थस्य पूर्वाध्यायार्थेन सह सङ्गतिरस्तीति वेदितव्यम् ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्या परमेश्वराने लोकांचे रक्षण करण्यासाठी वनस्पती इत्यादी औषधी निर्माण करून व धारण करून सर्व व्यवस्थित केलेले आहे त्यांचीच उपासना सर्व माणसांनी केली पाहिजे.