०१ मयि गृह्णाम्यग्रे
विश्वास-प्रस्तुतिः ...{Loading}...
मयि॑ गृह्णा॒म्यग्रे॑ अ॒ग्निँ रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य। मामु॑ दे॒वताः॑ सचन्ताम् ॥१ ॥
मूलम् ...{Loading}...
मयि॑ गृह्णा॒म्यग्रे॑ अ॒ग्निँ रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य। मामु॑ दे॒वताः॑ सचन्ताम् ॥१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मयि॑। गृ॒ह्णा॒मि॒। अग्रे॑। अ॒ग्निम्। रा॒यः। पोषा॑य। सु॒प्र॒जा॒स्त्वायेति॑ सुप्रजाः॒ऽत्वाय॑। सु॒वीर्य्या॒येति॑ सु॒ऽवीर्य्या॑य। माम्। उ॒ इत्यूँ॑। दे॒वताः॑। स॒च॒न्ता॒म्। १।
महीधरः
म०. द्वादशेऽध्याये उखाधारणगार्हपत्यचयनक्षेत्रकर्षणौषधवपनादिमन्त्रा उक्ताः । त्रयोदशे पुष्करपर्णाद्युपधानमन्त्रा उच्यन्ते । ‘उत्तरवेदिमपरेण तिष्ठन्यजमानो मयि गृह्णामीति जपति’ ( का० १७ । ३ । २७) उत्तरवेदेः पश्चात्तिष्ठन्यजमानो जुहोति । अग्निदेवत्या ककुप् । यस्या मध्यपादो द्वादशक आद्यतृतीयावष्टकौ सा ककुप् । अत्र मध्यश्चतुर्दशकस्तेन द्व्यधिका। अहं यजमानोऽग्रे प्रथमं मयि आत्मनि अग्निं गृह्णामि धारयामि ततोऽग्निं चिनोमीति शेषः । किमर्थम् । रायो धनस्य पोषाय पुष्ट्यर्थम् । सुप्रजास्त्वाय शोभना प्रजा यस्य स सुप्रजाः सुप्रजसो भावः सुप्रजस्त्वं तस्मै । दीर्घश्छान्दसः । शोभनपुत्रादिनिष्पत्त्यै । सुवीर्याय शोभनसामर्थ्याय वीर्यं शक्तिः । किंच उकारोऽप्यर्थे । देवता अपि मां सचन्तां सेवन्तां सङ्गच्छन्ताम् ॥ उ एवार्थे वा । देवता मामेव सचन्ताम् ॥ १॥
द्वितीया।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वत्सार ऋषिः
- आर्ची पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब तेरहवें अध्याय का प्रारम्भ है, उसके प्रथम मन्त्र में मनुष्यों को पहिली अवस्था में क्या-क्या करना चाहिये, यह विषय कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे कुमार वा कुमारियो ! जैसे मैं (अग्रे) पहिले (मयि) मुझ में (रायः) विज्ञान आदि धन की (पोषाय) पुष्टि (सुप्रजास्त्वाय) सुन्दर प्रजा होने के लिये और (सुवीर्य्याय) रोगरहित सुन्दर पराक्रम होने के अर्थ (अग्निम्) उत्तम विद्वान् को (गृह्णामि) ग्रहण करता हूँ, जिससे (माम्) मुझ को (उ) ही (देवताः) उत्तम विद्वान् वा उत्तम गुण (सचन्ताम्) मिलें, वैसे तुम लोग भी करो ॥१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को यह उचित है कि ब्रह्मचर्य्ययुक्त कुमारावस्था में वेदादि शास्त्रों के पढ़ने से पदार्थविद्या, उत्तम कर्म और ईश्वर की उपासना तथा ब्रह्मज्ञान को स्वीकार करें, जिससे श्रेष्ठ गुण और आप्त विद्वानों को प्राप्त होके उत्तम धन, सन्तानों और पराक्रम को प्राप्त होवें ॥१ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यैरादिमाऽवस्थायां किं किं कार्य्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे कुमाराः कुमार्य्यश्च ! यथाऽहमग्रे मयि रायस्पोषाय सुप्रजास्त्वाय सुवीर्य्यायाग्निं गृह्णामि, येन मामु देवताः सचन्ताम्, तथा यूयमपि कुरुत ॥१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्याणामिदं समुचितमस्ति ब्रह्मचर्यकुमारावस्थायां वेदाद्यध्ययनेन पदार्थविद्यां, ब्रह्मकर्म, ब्रह्मोपासनां, ब्रह्मज्ञानं स्वीकुर्युर्येन दिव्यान् गुणानाप्तान् विदुषश्च प्राप्योत्तमश्रीप्रजापराक्रमान् प्राप्नुयुरिति ॥१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. माणसांनी युवावस्थेतच ब्रह्मचर्याचे पालन करून वेदादी शास्त्राचे अध्ययन करावे व पदार्थ विद्या, उत्तम कर्म, ईश्वराची उपासना आणि ब्रह्मज्ञान यांचा अंगीकार करावा. ज्यामुळे श्रेष्ठ गुण, विद्वानांची संगती, उत्तम धन, संतान व पराक्रम यांची प्राप्ती होईल.
०२ अपां पृष्ठमसि
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒पां पृ॒ष्ठम॑सि॒ योनि॑र॒ग्नेः स॑मु॒द्रम॒भितः॒ पिन्व॑मानम्। वर्ध॑मानो म॒हाँ२ऽआ च॒ पुष्क॑रे दि॒वो मात्र॑या वरि॒म्णा प्र॑थस्व ॥२ ॥
मूलम् ...{Loading}...
अ॒पां पृ॒ष्ठम॑सि॒ योनि॑र॒ग्नेः स॑मु॒द्रम॒भितः॒ पिन्व॑मानम्। वर्ध॑मानो म॒हाँ२ऽआ च॒ पुष्क॑रे दि॒वो मात्र॑या वरि॒म्णा प्र॑थस्व ॥२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒पाम्। पृ॒ष्ठम्। अ॒सि॒। योनिः॑। अ॒ग्नेः। स॒मु॒द्रम्। अ॒भितः॑। पिन्व॑मानम्। वर्ध॑मानः। म॒हान्। आ। च॒। पुष्क॑रे। दि॒वः। मात्र॑या। व॒रि॒म्णा। प्र॒थ॒स्व॒। २।
महीधरः
म० ‘पुष्करपर्णमुपदधाति स्तम्बे पूर्ववत्’ (का० १७ । ४।१)। ततोऽध्वर्युः कुशस्तम्बोपरि कमलिनीपत्रमुपदधाति पूर्ववदित्युखासंभरणवत् तेनापां पृष्ठमिति मन्त्रेण पुष्कर इत्यन्तेनोपधानं दिवो मात्रयेति तस्य मार्जनमिति सूत्रार्थः व्याख्यातः (११ । २९) ॥२॥
तृतीया।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वत्सार ऋषिः
- विराट् त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब परमेश्वर की उपासना का विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् पुरुष ! जो तू (अभितः) सब ओर से (अपाम्) सर्वत्र व्यापक परमेश्वर आकाश दिशा बिजुली और प्राणों वा जलों के (पृष्ठम्) अधिकरण (समुद्रम्) आकाश के समान सागर (पिन्वमानम्) सींचते हुए समुद्र को (अग्नेः) बिजुली आदि अग्नि के (योनिः) कारण (दिवः) प्रकाशित पदार्थों का (मात्रया) निर्माण करनेहारी बुद्धि से (पुष्करे) हृदयरूप अन्तरिक्ष में (वर्धमानः) उन्नति को प्राप्त हुए (च) और (महान्) सब श्रेष्ठ वा सब के पूज्य (असि) हो, सो आप हमारे लिये (वरिम्णा) व्यापकशक्ति से (आ, प्रथस्व) प्रसिद्ध हूजिये ॥२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को जिस सत्, चित् और आनन्दस्वरूप, सब जगत् का रचने हारा, सर्वत्र व्यापक, सब से उत्तम और सर्वशक्तिमान् ब्रह्म की उपासना से सम्पूर्ण विद्यादि अनन्त गुण प्राप्त होते हैं, उसका सेवन क्यों न करना चाहिये ॥२ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ परमेश्वरोपासनाविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यस्त्वमभितोऽपां पृष्ठं समुद्रं पिन्वमानमग्नेर्योनिर्दिवो मात्रया पुष्करे वर्धमानो महाँश्चासि सोऽस्मासु वरिम्णाऽऽप्रथस्व ॥२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्यत् सच्चिदानन्दस्वरूपमखिलस्य जगतो निर्मातृ सर्वत्राभिव्याप्तं सर्वेभ्यो वरं सर्वशक्तिमद् ब्रह्मैवोपास्य सकलविद्याः प्राप्यन्ते, तत् कथं न सेवितव्यं स्यात् ॥२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सत् चित् आनंदस्वरूप, सृष्टिकर्ता, सर्वव्यापक, सर्वश्रेष्ठ, सर्वशक्तिमान, ब्रह्माची उपासना करून माणसांना जर संपूर्ण विद्या इत्यादी अनंत गुण प्राप्त होतात, तर त्याची भक्ती का करू नये?
०३ ब्रह्म जज्ञानम्
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्म॑ +++(=मन्त्रः ([सौरमण्डलयज्ञे]))+++ जज्ञा॒नं +++(=उत्पन्नम्)+++ प्र॑थ॒मं पु॒रस्ता॑द्
वि सी॑म॒तस् सु॒रुचो॑ वे॒न आ॑वः ।
स बु॒ध्न्या॑ +++(=मूले भवः ([खस्य सूर्यः]))+++ उप॒मा अ॑स्य वि॒ष्ठाः +++(=विस्थितः)+++,
स॒तश्च॒ योनि॒म् +++(सूर्यम्)+++ अस॑तश्च॒ विवः॑ +++(=विवृतवान्)+++ ।
मूलम् ...{Loading}...
ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्वि सी॑म॒तः सु॒रुचो॑ वे॒नऽआ॑वः। स बु॒ध्न्या᳖ऽ उप॒माऽ अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ वि वः॑ ॥३ ॥
तैत्तिरीयम् - मूलम्
ब्रह्म॑ जज्ञा॒नम्प्र॑थ॒मम्पु॒रस्ता॑त् ।
वि सी॑म॒तस्सु॒रुचो॑ वे॒न आ॑वः ।
स बु॒ध्निया॑ उप॒ मा अ॑स्य वि॒ष्ठाः ॥ 66 ॥
स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑ ।
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ब्रह्म॑। ज॒ज्ञा॒नम्। प्र॒थ॒मम्। पु॒रस्ता॑त्। वि। सी॒म॒तः। सु॒रुच॒ इति॑ सु॒ऽरुचः॑। वे॒नः। आ॒व॒रित्या॑वः। सः। बु॒ध्न्याः᳖। उ॒प॒मा इत्यु॑प॒ऽमाः। अ॒स्य॒। वि॒ष्ठाः। वि॒स्था इति॑ वि॒ऽस्थाः। स॒तः। च॒। योनि॑म्। अस॑तः। च॒। वि। व॒रिति॑ वः। ३।
महीधरः
म० तस्मिन्रुक्ममधःपिण्डं ब्रह्म जज्ञानमिति’ (का. १७ । ३ । २९)। तस्मिन्पुष्करपर्णे पूर्वं कण्ठधृतं रुक्ममधःपिण्डमुपदधाति । आदित्यदेवत्या त्रिष्टुप् । वीत्युपसर्ग आव इति क्रियापदेन संबध्यते ‘व्यवहिताश्च’ (पा० १।४। ८२) इति पाणिनिस्मरणात् । ब्रह्म बृहत् रुक्मरूपोऽयमादित्यः सीमतः सीमानं मर्यादां भूगोलमध्यभागमारभ्य सुरुचः सुष्ठु रोचन्ते शोभन्ते तान् सुरोचनानिमान् लोकान् वि आवः विवृतानकरोत्स्वप्रकाशेन । कीदृशं ब्रह्म । प्रथममादौ पुरस्तात्पूर्वस्यां दिशि जज्ञानं जायमानं दृश्यमानम् । जनेः शानचि शपः श्लौ सति जज्ञानमिति रूपम् । किंच वेनः कामनीयो मेधावी वा स आदित्यः बुध्न्या बुध्नमन्तरिक्षं तत्र भवा बुध्न्या दिशः विवः विवृणोति । सतो विद्यमानस्य मूर्तस्य घटपटादेर्योनिं स्थानमसतोऽमूर्तस्य वाय्वादेश्च योनिं प्रभवं विवः । प्रकाशयति । वृणोतेः शपि लुप्ते लङि गुणे च व इति रूपम् । अडभाव आर्षः । ‘बहुलं छन्दस्यमाङयोगेऽपि’ (पा० ६ । ४ । ७५) इति वचनात् । कीदृशीर्बुध्न्याः । उपमाः उप समीपे मान्ति भूतानि यासु ता उपमाः । सावकाशा इत्यर्थः । अत एवास्य जगतो विष्ठाः विविधस्थानभूताः विविधं तिष्ठन्ति यासु ताः । ‘अम्बाम्बगोभूमि-’ (पा० ८।३ । ९७) इत्यादिना षत्वम् । आदित्य एव लोकान् दिशो भूतानि चाभिव्यनक्तीत्यर्थः ॥३॥
चतुर्थी।
अधिमन्त्रम् (VC)
- आदित्यो देवता
- वत्सार ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को किस स्वरूपवाला ब्रह्म उपासना के योग्य है, यह विषय अगले मन्त्र में कहा है ॥
सायणटीका
यदेतज्जगत्कारणं ब्रह्म ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इत्यादिश्रुतिप्रसिद्धं तदेतत् प्रथमं सृष्ट्यादौ जज्ञानं जगदाकारेणोत्पद्यमानं सत् पुरस्तात् पूर्वस्यां दिशि वेनः कमनीय आदित्यो भूत्वा सुरुचः सुष्ठु दीप्यमानः सीमतः पूर्वदक्षिणपश्चिमोदग्दिग्विशेषसीम्नो विभज्य आवः आवृणोत् । स वेनः आदित्यो बुध्नियाः बुध्नं मूलं तत्र भवाः आकाशवाय्वग्निजलपृथिव्यः विष्ठाः विभज्यावस्थिता अकरोदिति शेषः । तथा सतश्च विद्यमानस्य गिरिनदीसमुद्रादेः असतश्च अविद्यमानस्य योनिं कारणं प्रमाणं भ्रान्तिरूपं विवः विवृतवान् सर्वजगद्व्यवस्थां निर्मितवानित्यर्थः ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (पुरस्तात्) सृष्टि की आदि में (जज्ञानम्) सब का उत्पादक और ज्ञाता (प्रथमम्) विस्तारयुक्त और विस्तारकर्ता (ब्रह्म) सब से बड़ा जो (सुरुचः) सुन्दर प्रकाशयुक्त और सुन्दर रुचि का विषय (वेनः) ग्रहण के योग्य जिस (अस्य) इस के (बुध्न्याः) जल सम्बन्धी आकाश में वर्तमान सूर्य, चन्द्रमा, पृथिवी और नक्षत्र आदि (विष्ठाः) विविध स्थलों में स्थित (उपमाः) ईश्वर ज्ञान के दृष्टान्त लोक हैं, उन सब को (सः) वह (आवः) अपनी व्याप्ति से आच्छादन करता है, वह ईश्वर (विसीमतः) मर्य्यादा से (सतः) विद्यमान देखने योग्य (च) और (असतः) अव्यक्त (च) और कारण के (योनिम्) आकाशरूप स्थान को (विवः) ग्रहण करता है, उसी ब्रह्म की उपासना सब लोगों को नित्य अवश्य करनी चाहिये ॥३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जिस ब्रह्म के जानने के लिये प्रसिद्ध और अप्रसिद्ध सब लोक दृष्टान्त हैं, जो सर्वत्र व्याप्त हुआ सब का आवरण और सभी को प्रकाश करता है और सुन्दर नियम के साथ अपनी-अपनी कक्षा में सब लोकों को रखता है, वही अन्तर्य्यामी परमात्मा सब मनुष्यों के निरन्तर उपासना के योग्य है, इससे अन्य कोई पदार्थ सेवने योग्य नहीं ॥३ ॥
दयानन्द-सरस्वती (सं) - विषयः
किं स्वरूपं ब्रह्म जनैरुपास्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यत्पुरस्ताज्जज्ञानं प्रथमं ब्रह्म यः सुरुचो वेनो यस्यास्य बुध्न्या विष्ठा उपमाः सन्ति, स सर्वभावः स विसीमतः सतश्चासतश्च योनिं विवस्तत्सर्वैरुपासनीयम् ॥३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यस्य ब्रह्मणो विज्ञानाय प्रसिद्धाऽप्रसिद्धलोका दृष्टान्ताः सन्ति, तत्सर्वत्राभिव्याप्तं सत्सर्वमावृणोति, सर्वं विकासयति, सुनियमेन स्वस्वकक्षायां विचालयति, तदेवान्तर्य्यामि ब्रह्म सर्वैर्मनुष्यैरुपास्यम्, नातो पृथग्वस्तु भजनीयम् ॥३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्या ब्रह्माला जाणण्यासाठी या जगात व्यक्त व अव्यक्त अनेक प्रकारचे दृष्टांत आहेत, असा तो सर्वत्र व्याप्त असून सर्वांचे आच्छादन आहे व सर्वांना प्रकाश देणारा आहे. उत्तम नियमांनी सर्व ग्रह व गोलांना (चंद्र, सूर्य इत्यादींना) आपल्या कक्षेत ठेवणारा आहे. तोच अंतर्यामी परमात्मा (सर्व माणसांनी) सदैव उपासना करण्यायोग्य आहे. याशिवाय इतर कोणताही पदार्थ उपासना करण्यायोग्य नाही.
०४ हिरण्यगर्भः समवर्त्तताग्रे
विश्वास-प्रस्तुतिः ...{Loading}...
हि॒र॒ण्य॒ग॒र्भः सम॑वर्त्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ऽ आसीत्। स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥४ ॥
मूलम् ...{Loading}...
हि॒र॒ण्य॒ग॒र्भः सम॑वर्त्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ऽ आसीत्। स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
हि॒र॒ण्य॒ग॒र्भ इति॑ हिरण्यऽग॒र्भः। सम्। अ॒व॒र्त्त॒त॒। अग्रे॑। भू॒तस्य॑। जा॒तः। पतिः॑। एकः॑। आ॒सी॒त्। सः। दा॒धा॒र॒। पृ॒थि॒वीम्। द्याम्। उ॒त। इ॒माम्। कस्मै॑। दे॒वाय॑। ह॒विषा॑। वि॒धे॒म॒। ४।
महीधरः
म० ‘उत्तानं प्राञ्चᳪं᳭ हिरण्यपुरुषं तस्मिन् हिरण्यगर्भ’ इति (का० १७ । ४ । ३) । तस्मिन्रुक्मे प्राञ्चमुत्तानं हिरण्यं पुरुषाकारमृग्द्वयेनोपदधाति । हिरण्यगर्भदृष्टा प्रजापतिदेवत्या त्रिष्टुप् । हिरण्ये हिरण्यपुरुषरूपे ब्रह्माण्डे गर्भरूपेणावस्थितः प्रजापतिर्हिरण्यगर्भः भूतस्य प्राणिजातस्याग्रे समवर्तत प्राणिजातोत्पत्तेः पुरा स्वयं शरीरधारी बभूव । स च जातः उत्पनमात्र एक एवोत्पत्स्यमानस्य सर्वस्य जगतः पतिरीश्वर आसीत् । स एव पृथिवीमन्तरिक्षं द्यां द्युलोकमुतापि चेमां भूमिं लोकत्रयं दाधार धारयति । ‘तुजादीनां दीर्घोऽभ्यासस्य’ ( पा० ६ । १३ । ७) इत्यभ्यासदीर्घः । पृथिवी भूः स्वयंभूरित्यन्तरिक्षनामसु पठितत्वात्पृथिवीशब्देनान्तरिक्षलोकोऽत्रोच्यते । कस्मै काय प्रजापतये देवाय वयं हविषा विधेम हविर्दद्मः । विभक्तिव्यत्ययः॥४॥
पञ्चमी ।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- हिरण्यगर्भ ऋषिः
- आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे हम लोग जो इस (भूतस्य) उत्पन्न हुए संसार का (जातः) रचने और (पतिः) पालन करने हारा (एकः) सहाय की अपेक्षा से रहित (हिरण्यगर्भः) सूर्यादि तेजोमय पदार्थों का आधार (अग्रे) जगत् रचने के पहिले (समवर्त्तत) वर्त्तमान (आसीत्) था (सः) वह (इमाम्) इस संसार को रच के (उत) और (पृथिवीम्) प्रकाशरहित और (द्याम्) प्रकाशसहित सूर्यादि लोकों को (दाधार) धारण करता हुआ, उस (कस्मै) सुखरूप प्रजा पालनेवाले (देवाय) प्रकाशमान परमात्मा की (हविषा) आत्मादि सामग्री से (विधेम) सेवा में तत्पर हों, वैसे तुम लोग भी इस परमात्मा का सेवन करो ॥४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! तुम को योग्य है कि इस प्रसिद्ध सृष्टि के रचने से प्रथम परमेश्वर ही विद्यमान था, जीव गाढ़ निद्रा सुषुप्ति में लीन और जगत् का कारण अत्यन्त सूक्ष्मावस्था में आकाश के समान एकरस स्थिर था, जिसने सब जगत् को रच के धारण किया और जो अन्त्य समय में प्रलय करता है, उसी परमात्मा को उपासना के योग्य मानो ॥४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तत् कीदृशमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा वयं योऽस्य भूतस्य जातः पतिरेको हिरण्यगर्भोऽग्रे समवर्त्ततासीत् स इमां सृष्टिं रचयित्वोतापि पृथिवीं द्यां दाधार तस्मै कस्मै सुखस्वरूपाय देवाय परमेश्वराय हविषा विधेम तथा, यूयमप्येनं सेवध्वम् ॥४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यूयमस्या व्यक्तायाः सृष्टेः प्राक् परमेश्वर एव जागरूक आसीत्। जीवा मूर्छिता इवासन्। कारणं चाकाशवत् सुस्थिरं चासीत्। येन सर्वा सृष्टी रचिता, धृता प्रलयसमये भिद्यते, तमेवोपास्यं मन्यध्वम् ॥४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! हे लक्षात ठेवा की परमेश्वर या सृष्टीची रचना करण्यापूर्वी विद्यमान होता. त्या वेळी जीव गाढ निद्रेत सुषुप्ती अवस्थेत होते व जगाचे कारण असलेली प्रकृती अत्यंत सूक्ष्म अवस्थेमध्ये आकाशाप्रमाणे एकरस व स्थिर होती. ज्याने सर्व जगाची रचना करून त्याला धारण केलेले आहे व जो सृष्टीचा शेवटी प्रलय करतो त्या परमेश्वरालाच उपासना करण्यायोग्य माना.
०५ द्रप्सश्चस्कन्द पृथिवीमनु
विश्वास-प्रस्तुतिः ...{Loading}...
द्र॒प्सश्च॑स्कन्द पृथि॒वीमनु॒ द्यामि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑। स॒मा॒नं योनि॒मनु॑ सं॒चर॑न्तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त होत्राः॑ ॥५ ॥
मूलम् ...{Loading}...
द्र॒प्सश्च॑स्कन्द पृथि॒वीमनु॒ द्यामि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑। स॒मा॒नं योनि॒मनु॑ सं॒चर॑न्तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त होत्राः॑ ॥५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
द्र॒प्सः। च॒स्क॒न्द॒। पृ॒थि॒वीम्। अनु॑। द्याम्। इ॒मम्। च॒। योनि॑म्। अनु॑। यः। च॒। पूर्वः॑। स॒मा॒नम्। योनि॑म्। अनु॑। सं॒चर॑न्त॒मिति॑ स॒म्ऽचर॑न्तम्। द्र॒प्सम्। जु॒हो॒मि। अनु॑। स॒प्त। होत्राः॑। ५।
महीधरः
म० देवश्रवोदृष्टादित्यदेवत्या त्रिष्टुप् । यः पूर्वः प्रथमो मुख्यो द्रप्स आदित्यः पृथिवीमन्तरिक्षमनुचस्कन्द अनुस्कन्दति गच्छति सिञ्चतीत्यर्थः । मनुष्यादिधारणाय । द्यां द्युलोकं चानुसिञ्चति आहुतिपरिणामभूतेन रसेन देवादिधारणाय । य इमं योनिं स्थानं भूलोकमनुस्कन्दति आगच्छति आहुतिग्रहणाय । एवं समानं योनिं सर्वेषां तुल्यं स्थानं लोकत्रयमनु संचरन्तं द्रप्समादित्यं सप्त होत्रा अनु जुहोमि । विभक्तिव्यत्ययः । सप्तसु होत्रामु दिक्षु स्थापयामि हिरण्यपुरुषरूपेण सर्वदिक्षु सूर्यमेव स्थापयामीत्यर्थः । ‘असौ वा आदित्यो द्रप्सो दिशः सप्तहोत्रा अमुमादित्यं दिक्षु प्रतिष्ठापयति’ (७ । ४ । १।२०) इति श्रुतेः । पूर्वादिचतस्रो दिशः अध एका उपर्येका मध्ये चैकेति सप्त दिशो ज्ञेयाः ॥ ५ ॥
षष्ठी।
अधिमन्त्रम् (VC)
- ईश्वरो देवता
- हिरण्यगर्भ ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा है, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे मैं जिस के (सप्त) पाँच प्राण, मन और आत्मा ये सात (होत्राः) अनुग्रहण करनेहारे (यः) जो (इमम्) इस (पृथिवीम्) पृथिवी (द्याम्) प्रकाश (च) और (योनिम्) कारण के अनुकूल जो (पूर्वः) सम्पूर्ण स्वरूप (द्रप्सः) आनन्द और उत्साह को (अनु) अनुकूलता से (चस्कन्द) प्राप्त होता है, उस (योनिम्) स्थान के (अनु) अनुसार (संचरन्तम्) संचारी (समानम्) एक प्रकार के (द्रप्सम्) सर्वत्र अभिव्याप्त आनन्द को मैं (अनुजुहोमि) अनुकूल ग्रहण करता हूँ, वैसे तुम लोग भी ग्रहण करो ॥५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! तुम को चाहिये कि जिस जगदीश्वर के आनन्द और स्वरूप का सर्वत्र लाभ होता है, उसकी प्राप्ति के लिये योगाभ्यास करो ॥५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स कीदृश इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथाहं यस्य सप्त होत्राऽनुग्रहीतारो य इमां पृथिवीं द्यां योनिं चानु यः पूर्वो द्रप्सोऽनु चस्कन्द, तस्य योनिमनु संचरन्तं समानं द्रप्सं सर्वत्राभिव्याप्तमानन्दमनुजुहोमि तथैनमादत्त ॥५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यूयं यस्य जगदीश्वरस्य सानन्दं स्वरूपं सर्वत्रोपलभ्यते, तत्प्राप्तये योगमभ्यस्यत ॥५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! ज्या जगदीश्वराच्या आनंदामुळे व स्वरूपामुळे सर्वांना सर्वत्र लाभ होतात त्याच्या प्राप्तीसाठी तुम्ही योगाभ्यास करा.
०६ नमोऽस्तु सर्पेभ्यो
विश्वास-प्रस्तुतिः ...{Loading}...
नमो॑ऽस्तु स॒र्पेभ्यो॒ ये के च॑ पृथि॒वीमनु॑। येऽ अ॒न्तरि॑क्षे॒ ये दि॒वि तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥६ ॥
मूलम् ...{Loading}...
नमो॑ऽस्तु स॒र्पेभ्यो॒ ये के च॑ पृथि॒वीमनु॑। येऽ अ॒न्तरि॑क्षे॒ ये दि॒वि तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नमः॑। अ॒स्तु॒। स॒र्पेभ्यः॑। ये। के। च॒। पृ॒थि॒वीम्। अनु॑। ये। अ॒न्तरि॑क्षे। ये। दि॒वि। तेभ्यः॑। स॒र्पेभ्यः॑। नमः॑। ६।
महीधरः
म० ‘उपतिष्ठते यजमानो नमोऽस्त्विति’ ( का० १७ । ४।६।) यजमानो हिरण्यपुरुषं पश्यन्नृक्त्रयं पठेत् । सर्पदेवत्यास्तिस्रोऽनुष्टुभः । ये के च ये केचित् सर्पन्ति सर्पा लोकाः पृथिवीमनुगताः तेभ्यः सर्पेभ्यो नमोऽस्तु नमस्कारो भवतु । अन्तरिक्षे लोके ये वर्तमानाः सर्पाः ये च दिवि द्युलोके ये वर्तमानाः सर्पास्तेभ्यः सर्पेभ्यो नमोऽस्तु । ‘इमे वे लोकाः सर्पाः’ (७ । ४ । १ । २५) इति श्रुतेः सर्पशब्देन लोका उच्यन्ते ॥ ६ ॥
सप्तमी।
अधिमन्त्रम् (VC)
- ईश्वरो देवता
- हिरण्यगर्भ ऋषिः
- भुरिगुष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को संसार में कैसे वर्त्तना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (के) कोई इस जगत् में लोक-लोकान्तर और प्राणी हैं (तेभ्यः) उन (सर्पेभ्यः) लोकों के जीवों के लिये (नमः) अन्न (अस्तु) हो। (ये) जो (अन्तरिक्षे) आकाश में (ये) जो (दिवि) प्रकाशमान सूर्य्य आदि लोकों में (च) और (ये) जो (पृथिवीम्) भूमि के (अनु) ऊपर चलते हैं, उन (सर्पेभ्यः) प्राणियों के लिये (नमः) अन्न प्राप्त होवे ॥६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जितने लोक दीख पड़ते हैं, और जो नहीं दीख पड़ते हैं, वे सब अपनी-अपनी कक्षा में नियम से स्थिर हुए आकाश मार्ग में घूमते हैं, उन सबों में जो प्राणी चलते हैं, उन के लिये अन्न भी ईश्वर ने रचा है कि जिससे इन सब का जीवन होता है, इस बात को तुम लोग जानो ॥६ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यैरत्र कथं वर्त्तितव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये के चात्र सर्पाः सन्ति तेभ्यः सर्पेभ्यो नमोऽस्तु। येऽन्तरिक्षे ये दिवि ये च पृथिवीमनुसर्पन्ति तेभ्यः सर्पेभ्यो नमोऽस्तु ॥६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यावन्त इमे लोका दृश्यन्ते ये च न दृश्यन्ते, ते सर्वे स्वस्वकक्षायामीश्वरेण नियताः सन्त आकाशे भ्रमन्ति। तेषु सर्वेषु लोकेषु ये प्राणिनश्चलन्ति तदर्थमन्नमपीश्वरेण रचितम्, यत एतेषां जीवनं भवतीति यूयं विजानीत ॥६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! जितके दृश्य व अदृश्य गोल आकाश मार्गात आपापल्या कक्षेत नियमाने फिरत असतात त्या सर्व गोलांतील प्राण्यांसाठी ईश्वराने अन्न निर्माण केलेले आहे व त्यावर सर्वांचे जीवन अवलंबून आहे. हे तुम्ही जाणा.
०७ याऽइषवो यातुधानानाम्
विश्वास-प्रस्तुतिः ...{Loading}...
याऽइष॑वो यातु॒धाना॑नां॒ ये वा॒ वन॒स्पतीँ॒१ऽरनु॑। ये वा॑व॒टेषु॒ शेर॑ते॒ तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥७ ॥
मूलम् ...{Loading}...
याऽइष॑वो यातु॒धाना॑नां॒ ये वा॒ वन॒स्पतीँ॒१ऽरनु॑। ये वा॑व॒टेषु॒ शेर॑ते॒ तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
याः। इष॑वः। या॒तु॒धाना॑ना॒मिति॑ यातु॒ऽधाना॑नाम्। ये। वा॒। वन॒स्पती॑न्। अनु॑। ये। वा॒। अ॒व॒टेषु॑। शेर॑ते। तेभ्यः॑। स॒र्पेभ्यः॑। नमः॑। ७।
महीधरः
म० यातुं यातनां दुःखं दधति ते यातुधाना रक्षःप्रभृतयस्तेषां याः सर्पजातय इषवो बाणरूपेण वर्तन्ते ये वान्ये वनस्पतीन् चन्दनादिवृक्षाननुवेष्ट्य स्थिताः ये वा ये चान्ये अवटेषु बिलेषु शेरते स्वपन्ति तेभ्यः सर्पेभ्यो नमोऽस्तु ॥ ७ ॥
अष्टमी।
अधिमन्त्रम् (VC)
- ईश्वरो देवता
- हिरण्यगर्भ ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को कैसा होना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोग (याः) जो (यातुधानानाम्) पराये पदार्थों को प्राप्त हो के धारण करनेवाले जनों की (इषवः) गति हैं (वा) अथवा (ये) जो (वनस्पतीन्) वट आदि वनस्पतियों के (अनु) आश्रित रहते हैं और (ये) जो (वा) अथवा (अवटेषु) गुप्तमार्गों में (शेरते) सोते हैं, (तेभ्यः) उन (सर्पेभ्यः) चञ्चल दुष्ट प्राणियों के लिये (नमः) वज्र चलाओ ॥७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि जो मार्गों और वनों में उचक्के दुष्ट प्राणी एकान्त में दिन के समय सोते हैं, उन डाकुओं और सर्पों को शस्त्र, ओषधि आदि से निवारण करें ॥७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तैः कथं भवितव्यमित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यूयं या यातुधानानामिषवो ये वा वनस्पतीननुवर्त्तन्ते, ये वाऽवटेषु शेरते, तेभ्यः सर्पेभ्यो नमः प्रक्षिपत ॥७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्या ये मार्गेषु वनेषूत्कोचका दिवसे एकान्ते स्वपन्ति, तान् दस्यून्नागांश्च शस्त्रौषधादिना निवारयन्तु ॥७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी मार्गात व वनात गुप्त व एकांतस्थळी झोपणाऱ्या (लपणाऱ्या) चोर व दुष्ट प्राण्यांना, तसेच डाकू व सर्पांना शस्त्रांनी किंवा औषधांनी मारावे.
०८ ये वामी
विश्वास-प्रस्तुतिः ...{Loading}...
ये वा॒मी रो॑च॒ने दि॒वो ये वा॒ सूर्य॑स्य र॒श्मिषु॑। येषा॑म॒प्सु सद॑स्कृ॒तं तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥८ ॥
मूलम् ...{Loading}...
ये वा॒मी रो॑च॒ने दि॒वो ये वा॒ सूर्य॑स्य र॒श्मिषु॑। येषा॑म॒प्सु सद॑स्कृ॒तं तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ये। वा॒। अ॒मीऽइत्य॒मी। रो॒च॒ने। दि॒वः। ये। वा॒। सूर्य्य॑स्य। र॒श्मिषु॑। येषा॑म्। अ॒प्स्वित्य॒प्सु। सदः॑। कृ॒तम्। तेभ्यः॑। स॒र्पेभ्यः॑। नमः॑। ८।
महीधरः
म० दिवो द्युलोकस्य रोचने दीप्तस्थाने ये वामी सर्पा अस्माभिरदृश्यमानाः सन्ति ‘रोचनो ह नामैष लोको यत्रैष एतत्तपति’ इति श्रुतिः । तथा सूर्यस्य रश्मिषु किरणेषु ये च सर्पा वसन्ति येषां सर्पाणामप्सु जलेषु सदः स्थानं कृतं तेभ्यः सर्पेभ्यो नमोऽस्तु ॥ ८॥
नवमी।
अधिमन्त्रम् (VC)
- सूर्य्यो देवता
- हिरण्यगर्भ ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को कण्टक और दुष्ट प्राणी कैसे हटाने चाहियें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (ये) जो (अमी) वे परोक्ष में रहनेवाले (दिवः) बिजुली के (रोचने) प्रकाश में (वा) अथवा (ये) जो (सूर्य्यस्य) सूर्य्य की (रश्मिषु) किरणों में (वा) अथवा (येषाम्) जिनका (अप्सु) जलों में (सदः) स्थान (कृतम्) बना है, (तेभ्यः) उन (सर्पेभ्यः) दुष्ट प्राणियों को (नमः) वज्र से मारो ॥८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि जो जलों में, आकाश में, जो दुष्ट प्राणी वा सर्प रहते हैं, उन को शस्त्रों से निवृत्त करें ॥८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैः कण्टकाः कथं बाधनीया इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! येऽमी दिवो रोचने ये वा सूर्य्यस्य रश्मिषु येषां वाप्सु सदस्कृतमस्ति, तेभ्यः सर्पेभ्यो नमो दत्त ॥८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्ये जलेष्वन्तरिक्षे सर्पा निवसन्ति, ते वज्रप्रहारेण निवर्त्तनीयाः ॥८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जलात किंवा आकाशात राहणारे जे दुष्ट प्राणी किंवा सर्प असतात त्यांना माणसांनी शस्त्रांनी नष्ट करावे.
०९ कृणुष्व पाजः
विश्वास-प्रस्तुतिः ...{Loading}...
कृ॒णु॒ष्व पाजः॒ प्रसि॑तिं॒ न पृ॒थ्वीं या॒हि राजे॒वाम॑वाँ॒२ऽ इभे॑न। तृ॒ष्वीमनु॒ प्रसि॑तिं द्रूणा॒नोऽस्ता॑सि॒ विध्य॑ र॒क्षस॒स्तपि॑ष्ठैः ॥९ ॥
मूलम् ...{Loading}...
कृ॒णु॒ष्व पाजः॒ प्रसि॑तिं॒ न पृ॒थ्वीं या॒हि राजे॒वाम॑वाँ॒२ऽ इभे॑न। तृ॒ष्वीमनु॒ प्रसि॑तिं द्रूणा॒नोऽस्ता॑सि॒ विध्य॑ र॒क्षस॒स्तपि॑ष्ठैः ॥९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
कृ॒णु॒ष्व। पाजः॑। प्रसि॑ति॒मिति॒ प्रऽसि॑तिम्। न। पृ॒थ्वीम्। या॒हि। राजे॒वेति॒ राजा॑ऽ इव। अम॑वा॒नित्यम॑ऽवान्। इभे॑न। तृ॒ष्वीम्। अनु॑। प्रसि॑ति॒मिति॒ प्रऽसि॑तिम्। द्रू॒णा॒नः। अस्ता॑। अ॒सि॒। विध्य॑। र॒क्षसः॑। तपि॑ष्ठैः। ९।
महीधरः
म०. उपविश्य पञ्चगृहीतं जुहोति पुरुषे कृणुष्व पाज इति प्रत्यृचं प्रतिदिशं परिसर्पम् ( का० १७ । ४ । ७ ) । आज्यं संस्कृत्य पञ्चगृहीतमादायात्मानमारुह्य पुरुषान्तिके उपविश्य प्रतिदिशं परिसृप्य परिसृप्य पुरुषोपरि पञ्चर्ग्भिर्जुहोतीति सूत्रार्थः । वामदेवदृष्टा राक्षोघ्नाः प्रतिसराः अग्निदेवत्याः पञ्च त्रिष्टुभः । हे अग्ने, पाजः बलं कृणुष्व कुरुष्व । पाज इति बलनामसु पठितम् । तत्र दृष्टान्तः । पृथ्वीं विशालां प्रसितिं न प्रसितिमिव । प्रसितिर्जालम् ‘प्रसितिः प्रसयनात्तन्तुर्वा जालं वा’ (निरु० ६ । १२ ) इति यास्कोक्तेः । ‘षिञ् बन्धने’ प्रकर्षेण सीयन्ते बध्यन्ते पक्षिणो यया सा प्रसितिः ताम् । नकार इवार्थः । पक्षिग्रहणाय प्रसारितं जालमिव शत्रुग्रहणाय बलं प्रसारयेत्यर्थः । ततो राजेव नृप इवामवान् सहायवानिभेन गजेन याहि शत्रून्प्रति गच्छ । ‘अम् गतौ भजने शब्दे’ अमन्ति भजन्ति स्वामिन इत्यमाः सेवकास्तेऽस्य सन्तीत्यमवान् । पचाद्यजन्तादमशब्दान्मतुप्प्रत्ययः । हे अग्ने, अस्ता शत्रूणां क्षेप्तासि अतो रक्षसः राक्षसान् विध्य ताडय । ‘व्यध ताडने’ दिवादित्वाच्छ्यन् गहादित्वात्संप्रसारणम् । कैः । तपिष्ठैः तापकतमैरायुधैः । तपन्ति संतापयन्तीति तप्तॄणि अतितप्तॄणि तपिष्टानि तैः । ‘तुरिष्ठेमेयःसु’ (पा० ६ । ४ । १५४ ) इतीष्ठनि परे तृचो लोपः। कीदृशस्त्वम् । तृष्वीं प्रसितिम् । विभक्तिव्यत्ययः । तृष्व्या क्षिप्रया प्रसित्या जालेन अनु द्रूणानः शत्रून्मारयन् ‘दु हिंसायां’ क्र्यादिः शानच् प्रत्ययः । द्रूणीतेऽसौ द्रूणानः ॥९॥
दशमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वामदेव ऋषिः
- भुरिक् पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
राजपुरुषों को शत्रु कैसे बाँधने चाहियें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सेनापते ! आप (पाजः) बल को (कृणुष्व) कीजिये (प्रसितिम्) जाल के (न) समान (पृथ्वीम्) भूमि को (याहि) प्राप्त हूजिये, जिससे आप (अस्ता) फेंकनेवाले (असि) हैं, इससे (इभेन) हाथी के साथ (अमवान्) बहुत दूतोंवाले (राजेव) राजा के समान (तपिष्ठैः) अत्यन्त दुःखदायी शस्त्रों से (प्रसितिम्) फाँसी को सिद्ध कर (रक्षसः) शत्रुओं को (द्रूणानः) मारते हुए (तृष्वीम्) शीघ्र (अनु) सन्मुख होकर (विध्य) ताड़ना कीजिये ॥९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। सेनापति को चाहिये कि राजा के समान पूर्ण बल से युक्त हो अनेक फाँसियों से शत्रुओं को बाँध उनको बाण आदि शस्त्रों से ताड़ना दे और बन्दीगृह में बन्द कर के श्रेष्ठ पुरुषों को पाले ॥९ ॥
दयानन्द-सरस्वती (सं) - विषयः
राजपुरुषैः कथं शत्रवो बन्धनीया इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सेनापते ! त्वं पाजः कृणुष्व प्रसितिं न पृथ्वीं याहि। यतस्वमस्तासि तस्मादिभेनामवान् राजेव तपिष्ठैः प्रसितिं संसाध्य रक्षसश्च द्रूणानस्तृष्वीमनुविध्य ॥९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। राजवत्सेनापतिः पूर्णं बलं संपाद्यानेकैः पाशैः शत्रून् बध्वा शरादिभिर्विध्वा कारागृहे संस्थाप्य श्रेष्ठान् पालयेत् ॥९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. सेनापतीने राजाप्रमाणे पूर्ण बलवान बनून शत्रूंना फास घालून पकडावे. बाण इत्यादी शस्त्रांनी मारावे. तुरुंगात बंदिस्त करावे व श्रेष्ठ माणसांचे रक्षण करावे.
१० तव भ्रमासऽ
विश्वास-प्रस्तुतिः ...{Loading}...
तव॑ भ्र॒मास॑ऽ आशु॒या प॑त॒न्त्यनु॑ स्पृश धृष॒ता शोशु॑चानः। तपूँ॑ष्यग्ने जु॒ह्वा᳖ पत॒ङ्गानस॑न्दितो॒ विसृ॑ज॒ विष्व॑गु॒ल्काः ॥१० ॥
मूलम् ...{Loading}...
तव॑ भ्र॒मास॑ऽ आशु॒या प॑त॒न्त्यनु॑ स्पृश धृष॒ता शोशु॑चानः। तपूँ॑ष्यग्ने जु॒ह्वा᳖ पत॒ङ्गानस॑न्दितो॒ विसृ॑ज॒ विष्व॑गु॒ल्काः ॥१० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
तव॑। भ्र॒मासः॑। आ॒शु॒येत्या॑शु॒या। प॒त॒न्ति॒। अनु॑। स्पृ॒श॒। धृ॒ष॒ता। शोशु॑चानः। तपूँ॑षि। अ॒ग्ने॒। जु॒ह्वा᳖। प॒त॒ङ्गान्। अस॑न्दित॒ इत्यस॑म्ऽदितः। वि। सृ॒ज॒। विष्व॑क्। उ॒ल्काः। १०।
महीधरः
म० हे अग्ने, तव ये भ्रमासः भ्रमा वातोद्धूता ज्वालासमूहाः पतन्ति इतस्ततो गच्छन्ति । कीदृशा भ्रमासः । आशुया आशवः शीघ्रगमनाः । आशुशब्दात्परस्य जसः ‘सुपां सुलुग्-’ इत्यादिना यादेशः । तैर्भ्रमैः तपूंषि तपन्ति संतापयन्ति तानि तपूंषि तापयितॄणि रक्षांसि पतङ्गान् पतन्तः सन्तो गच्छन्तीति पतङ्गाः पिशाचास्तांश्चानुस्पृश । ज्वालाभिस्तान्दहेत्यर्थः। कीदृशस्त्वम् । धृषता धृष्णोतीति धृषन् तेन धृषता प्रगल्भेन धृष्टेन ज्वालौघेन शोशुचानः देदीप्यमानः अत्यन्तं शोचते शोशुच्यत इति शोशुचानः ‘शुच दीप्तौ’ इत्यस्माद्यङन्ताच्छानच्प्रत्ययः । तथा जुह्वा स्रुचा हूयमान इति शेषः । असन्दितः अखण्डितः । ईदृशः सन् विष्वक् सर्वत्र तिर्यगूर्ध्वमधश्च उल्काः ज्वाला विसृज रक्षोघाताय मुञ्चेत्यर्थः ॥ १० ॥
एकादशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वामदेव ऋषिः
- भुरिक् पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह सेनापति क्या करे, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) अग्नि के समान तेजस्वी सेनापते ! (शोशुचानः) अत्यन्त पवित्र आचरण करने हारे आप जो (तव) आप के (भ्रमासः) भ्रमणशील वीर पुरुष जैसे (विष्वक्) सब ओर से (आशुया) शीघ्र चलनेहारी (उल्काः) बिजुली की गतियाँ वैसे (पतन्ति) श्येनपक्षी के समान शत्रुओं के दल में तथा शत्रुओं में गिरते हैं, उनको (धृषता) दृढ़ सेना से (अनु) अनुकूल (स्पृश) प्राप्त हूजिये और (असन्दितः) अखण्डित हुए (जुह्वा) घी के हवन का साधन लपट अग्नि के (तपूंषि) तेज के समान शत्रुओं के ऊपर सब ओर से बिजुली को (विसृज) छोड़िये और (पतङ्गान्) घोड़ों को सुन्दर शिक्षायुक्त कीजिये ॥१० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। सेनापति और सेना के भृत्यों को चाहिये कि आपस में प्रीति के साथ बल बढ़ा वीर पुरुषों को हर्ष दें और सम्यक् युद्ध करा के अग्नि आदि अस्त्रों और भुशुण्डी आदि शस्त्रों से शत्रुओं के ऊपर बिजुली की वृष्टि करें, जिस से शीघ्र विजय हो ॥१० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स किं कुर्य्यादित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सेनापतेऽग्ने ! शोशुचानस्त्वं ये तव भ्रमासो यथा विष्वगाशुयोल्कास्तथा शत्रुषु पतन्ति, तान् धृषताऽनुस्पृश। असन्दितोऽखण्डितः सन् जुह्वाग्नेस्तपूंषीव शत्रूणामुपरि सर्वतो विद्युतो विसृज पतङ्गान् सुशिक्षितानश्वान् कुरु ॥१० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। राजसेनापतिसेनाभृत्यैः परस्परं प्रीत्या बलं संवर्ध्य वीरान् हर्षयित्वा संयोध्याग्न्याद्यस्त्रैः शतघ्न्यादिभिश्च शत्रूणामुपरि विद्युद्वृष्टिः कार्य्या, यतः सद्यो विजयः स्यात् ॥१० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. सेनापती व सेनेतील लोकांनी आपापसात प्रेमाने राहून बल वाढवावे. वीर पुरुषांना आनंदित करावे. चांगल्या प्रकारे युद्ध करून अग्नी इत्यादी शस्त्र व भुशुंडी अस्त्रांनी शत्रूंवर विद्युत वर्षाव करावा म्हणजे ताबडतोब विजय प्राप्त होईल.
११ प्रति स्पशो
विश्वास-प्रस्तुतिः ...{Loading}...
प्रति॒ स्पशो॒ विसृ॑ज॒ तूर्णि॑तमो॒ भवा॑ पा॒युर्वि॒शोऽ अ॒स्या अद॑ब्धः। यो नो॑ दू॒रेऽ अ॒घशँ॑सो॒ योऽ अन्त्यग्ने॒ माकि॑ष्टे॒ व्यथि॒राद॑धर्षीत् ॥११ ॥
मूलम् ...{Loading}...
प्रति॒ स्पशो॒ विसृ॑ज॒ तूर्णि॑तमो॒ भवा॑ पा॒युर्वि॒शोऽ अ॒स्या अद॑ब्धः। यो नो॑ दू॒रेऽ अ॒घशँ॑सो॒ योऽ अन्त्यग्ने॒ माकि॑ष्टे॒ व्यथि॒राद॑धर्षीत् ॥११ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्रति॑। स्पशः॑। वि। सृ॒ज॒। तूर्णि॑तम॒ इति॒ तूर्णि॑ऽतमः। भव॑। पा॒युः। वि॒शः। अ॒स्याः। अद॑ब्धः। यः। नः॒। दू॒रे। अ॒घशँ॑स॒ इत्य॒घऽशँ॑सः। यः। अन्ति॑। अग्ने॑। माकिः॑। ते॒। व्यथिः॑। आ। द॒ध॒र्षी॒त्। ११।
महीधरः
म०. नोऽस्माकं दूरे योऽघशंसः अघं पापं शंसतीच्छतीति अघशंसः अस्मद्द्रोही यो दूरे वसति यश्चान्ति समीपे अघशंसः हे अग्ने, तं प्रति स्पशः ‘स्पश बन्धने’ स्पशयन्ति बध्नन्तीति स्पशो बन्धनकृतः प्रणिधीन्विसृज प्रेरय । अस्या अस्मदीयायाः विशः प्रजायाः पायुः पातीति पायुः पालको भव । कीदृशस्त्वम्। तूर्णितमः तूर्णं वेगोऽस्यास्तीति तूर्णी अत्यन्तं तूर्णी तूर्णितमः | वेगवत्तरः । अदब्धः अनुपहिंसितः । हे अग्ने, एवमनुग्रहं ‘प्रवृत्तस्य ते तव मा किः मा कश्चित् व्यथिः व्यथयतीति व्यथिः व्यथकः शत्रुरादधर्षीत् धार्ष्ट्यं मा करोतु । दूरसमीपस्थानस्थ शत्रून्प्रति त्वरतो बन्धकान्प्रेरय केनाप्यहिंसितोऽस्मत्प्रजापालको भव । राक्षसाश्च त्वां प्रति धृष्टा मा सन्त्वित्यर्थः । धृष धातोर्लुङि द्वित्वमडभावश्च मायोगात् ॥ ११ ॥
द्वादशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वामदेव ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा हो, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) अग्नि के समान शत्रुओं के जलानेवाले पुरुष ! (ते) आपका और (नः) हमारा (यः) जो (व्यथिः) व्यथा देने हारा (अघशंसः) पाप करने में प्रवृत्त चोर शत्रुजन (दूरे) दूर तथा (यः) जो (अन्ति) निकट है, जैसे वह हम लोगों को (माकिः) नहीं (आ, दधर्षीत्) दुःख देवे, उस शत्रु के (प्रति) प्रति आप (तूर्णितमः) शीघ्र दण्डदाता होके (स्पशः) बन्धनों को (विसृज) रचिये और (अस्याः) इस वर्त्तमान (विशः) प्रजा के (पायुः) रक्षक (अदब्धः) हिंसारहित (भव) हूजिये ॥११ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो समीप वा दूर रहनेवाले प्रजाओं के दुःखदायी डाकू हैं, उनको राजा आदि पुरुष साम, दाम, दण्ड और भेद से शीघ्र वश में लाके दया और न्याय से धर्मयुक्त प्रजाओं की निरन्तर रक्षा करें ॥११ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स कीदृशो भवेदित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! ते तव नोऽस्माकं च यो व्यथिरघशंसो दूरे योऽन्त्यस्ति, यथा सोऽस्मान् माकिरादधर्षीत्, तं प्रति त्वं तूर्णितमः सन् स्पशो विसृज अस्या विशः पायुरदब्धो भव ॥११ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये निकटदूरस्थाः प्रजाभ्यो दुःखप्रदा दस्यवः सन्ति, तान् राजादयः सामदामदण्डभेदैः सद्यो वशं नीत्वा दयान्यायाभ्यां धार्मिकीः प्रजाः सततं पालयेयुः ॥११ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जे जवळ किंवा दूर असणारे डाकू प्रजेला त्रास देतात त्यांचा राजाने साम, दाम, दंड, भेद इत्यादींनी ताबडतोब बंदोबस्त करून दयाळूपणाने व न्यायाने प्रजेचे रक्षण करावे.
१२ उदग्ने तिष्ठ
विश्वास-प्रस्तुतिः ...{Loading}...
उद॑ग्ने तिष्ठ॒ प्रत्यात॑नुष्व॒ न्य᳙मित्राँ॑२ऽ ओषतात् तिग्महेते। यो नो॒ऽ अरा॑तिँ समिधान च॒क्रे नी॒चा तं ध॑क्ष्यत॒सं न शुष्क॑म् ॥१२ ॥
मूलम् ...{Loading}...
उद॑ग्ने तिष्ठ॒ प्रत्यात॑नुष्व॒ न्य᳙मित्राँ॑२ऽ ओषतात् तिग्महेते। यो नो॒ऽ अरा॑तिँ समिधान च॒क्रे नी॒चा तं ध॑क्ष्यत॒सं न शुष्क॑म् ॥१२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उत्। अ॒ग्ने॒। ति॒ष्ठ॒। प्रति॑। आ। त॒नु॒ष्व॒। नि। अ॒मित्रा॑न्। ओ॒ष॒ता॒त्। ति॒ग्म॒हे॒त॒ इति॑ तिग्मऽहेते। यः। नः॒। अरा॑तिम्। स॒मि॒धा॒नेति॑ सम्ऽइधान। च॒क्रे। नी॒चा। तम्। ध॒क्षि॒। अ॒त॒सम्। न। शुष्क॑म्। १२।
महीधरः
म० हे अग्ने, त्वमुत्तिष्ठ ततः प्रत्यातनुष्व ज्वाला विस्तारय । तिग्मा हेतयो यस्य स तिग्महेतिः । तिग्मं तेजतेरुत्साहकर्मणः । तत्संबोधनं हे तिग्महेते उत्साहवदायुध, अमित्राञ्छत्रून् त्वं न्योषतान्नितरां दह । ‘उष दाहे’ ‘तुह्योस्तातङ्-’ (पा० ७।१। ३५ ) इति तातङादेशः । हे समिधान, समिन्द्धे दीप्यतेऽसौ समिधानः तत्संबुद्धौ हे समिधान दीप्यमान, नोऽस्माकं योऽरातिं चक्रे करोति दानं प्रतिषेधति तं नीचा नीचैः कृत्वा धक्षि दह । ‘दह भस्मीकरणे’ ‘बहुलं छन्दसि’ (पा० २। ४ । ७३ ) इति शपि लुप्ते लटि मध्यमैकवचने धक्षीति रूपम् । तत्र दृष्टान्तः । शुष्कमतसं न । न इवार्थः । अतसो वृक्षः शुष्कं वृक्षमिवादातारं निर्दहेत्यर्थः ॥ १२ ॥
त्रयोदशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वामदेव ऋषिः
- भुरिगार्षी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह क्या करे, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) तेजधारी सभा के स्वामी ! आप राजधर्म के बीच (उत्तिष्ठ) उन्नति को प्राप्त हूजिये। धर्मात्मा पुरुषों के (प्रति) लिये (आतनुष्व) सुखों का विस्तार कीजिये। हे (तिग्महेते) तीव्र दण्ड देनेवाले राजपुरुष ! (अमित्रान्) धर्म के द्वेषी शत्रुओं को (न्योषतात्) निरन्तर जलाइये। हे (समिधान) सम्यक् तेजधारी जन ! (यः) जो (नः) हमारे (अरातिम्) शत्रु को उत्साही (चक्रे) करता है, (तम्) उसको (नीचा) नीची दशा में करके (शुष्कम्) सूखे (अतसम्) काष्ठ के (न) समान (धक्षि) जलाइये ॥१२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। राजा आदि सभ्यजनों को चाहिये कि धर्म और विनय में समाहित होके जल के समान मित्रों को शीतल करें, अग्नि के समान शत्रुओं को जलावें। जो उदासीन होकर हमारे शत्रुओं को बढ़ावे, उसको दृढ़ बन्धनों से बाँध के निष्कण्टक राज्य करें ॥१२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स किं कुर्यादित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! त्वं राजधर्म उत्तिष्ठ, धार्मिकान् प्रत्यातनुष्व। हे तिग्महेतेऽमित्रान् न्योषतात्। हे समिधान ! यो नोऽरातिं चक्रे, तं नीचा शुष्कमतसं न धक्षि ॥१२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। राजादयः सभ्या धर्मे विनये समाहिता भूत्वा जलमिव मित्रान् शीतयेयुः। अग्निरिव शत्रून् दहेयुः। य उदासीनः स्थित्वाऽस्माकं शत्रूनुत्पादयेत् तं दृढं बन्धं बध्वा निष्कण्टकं राज्यं कुर्य्युः ॥१२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. राजा वगैरे सभ्य लोकांनी धर्माने व विनयपूर्वक वागून मित्रांना जलासारखे शीतल करावे. अग्नीप्रमाणे शत्रूंचे दहन करावे. जो शत्रूंचे बल वाढवितो त्याला दृढ बंधनाने बांधून राज्य निष्कंटक करावे.
१३ ऊर्ध्वो भव
विश्वास-प्रस्तुतिः ...{Loading}...
ऊ॒र्ध्वो भ॑व॒ प्रति॑वि॒ध्याध्य॒स्मदा॒विष्कृ॑णुष्व॒ दैव्या॑न्यग्ने। अव॑ स्थि॒रा त॑नुहि यातु॒जूनां॑ जा॒मिमजा॑मिं॒ प्रमृ॑णीहि॒ शत्रू॑न्। अ॒ग्नेष्ट्वा॒ तेज॑सा सादयामि ॥१३ ॥
मूलम् ...{Loading}...
ऊ॒र्ध्वो भ॑व॒ प्रति॑वि॒ध्याध्य॒स्मदा॒विष्कृ॑णुष्व॒ दैव्या॑न्यग्ने। अव॑ स्थि॒रा त॑नुहि यातु॒जूनां॑ जा॒मिमजा॑मिं॒ प्रमृ॑णीहि॒ शत्रू॑न्। अ॒ग्नेष्ट्वा॒ तेज॑सा सादयामि ॥१३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ऊ॒र्ध्वः। भ॒व॒। प्रति॑। वि॒ध्य॒। अधि॑। अ॒स्मत्। आ॒विः। कृ॒णु॒ष्व॒। दैव्या॑नि। अ॒ग्ने॒। अव॑। स्थि॒रा। त॒नु॒हि॒। या॒तु॒जूना॒मिति॑ यातु॒ऽजूना॑म्। जा॒मिम्। अजा॑मिम्। प्र। मृ॒णी॒हि॒। शत्रू॑न्। अ॒ग्नेः। त्वा॒। तेज॑सा। सा॒द॒या॒मि॒। १३।
महीधरः
म० हे अग्ने, ऊर्ध्वो भव उद्युक्तो भव । अस्मदधि अस्माकमुपरि वर्तमानाञ्शत्रून्प्रतिविध्य प्रतिताडय । दैव्यानि देवसंबन्धीनि कर्माणि आविष्कृणुष्व प्रकटय । किंच यातुजूनां यातुधानानां स्थिरा स्थिराणि धनूंषि अवतनुहि अवतारय । किंच जाम्यजामिशब्दौ पुनरुक्तापुनरुक्तवचनौ । जामिमजामि पुनरुक्तमपुनरुक्तं कृत्वा पुनःपुनस्ताडितमताडितं
वा शत्रून् प्रमृणीहि । मृणातिर्मारणार्थः । रिपून् मारय । । ‘घृतपूर्णामग्नेष्ट्वेति’ ( का० १७ । ४ । १२)। कार्ष्मर्यमयीं(?) पादमात्रदीर्घां षडङ्गुलविपुलां घृतपूर्णां प्रागग्रां स्रुचमग्नेष्ट्वेति ’ यजुषाग्निर्मूर्धेति ऋचा चोपदधाति । आग्नेयं यजुः । हे स्रुक्, अग्नेः संबन्धिना तेजसा त्वा त्वां सादयामि ॥ १३ ॥
चतुर्दशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वामदेव ऋषिः
- निचृदार्ष्यनुष्टुप्
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह राजा किस प्रकार का हो, इस का विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) तेजस्विन् विद्वान् पुरुष ! जिसलिये आप (ऊर्ध्वः) उत्तम (भव) हूजिये, धर्म के (प्रति) अनुकूल होके (विध्य) दुष्ट शत्रुओं को ताड़ना दीजिये, (अस्मत्) हमारे (स्थिरा) निश्चल (दैव्यानि) विद्वानों के रचे पदार्थों को (आविः) प्रकट (कृणुष्व) कीजिये, सुखों को (तनुहि) विस्तारिये, (यातुजूनाम्) परपदार्थों को प्राप्त होने और वेगवाले शत्रुजनों के (जामिम्) भोजन के और (अजामिम्) अन्य व्यवहार के स्थान को (अव) अच्छे प्रकार विस्तारपूर्वक नष्ट कीजिये और (शत्रून्) शत्रुओं को (प्रमृणीहि) बल के साथ मारिये, इसलिये मैं (त्वा) आपको (अग्नेः) अग्नि के (तेजसा) प्रकाश के (अधि) सम्मुख (सादयामि) स्थापन करता हूँ ॥१३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि राज्य के ऐश्वर्य्य को पाके उत्तम गुण, कर्म और स्वभावों से युक्त होवें, प्रजाओं और और दरिद्रों को निरन्तर सुख देवें। दुष्ट अधर्माचारी मनुष्यों को निरन्तर शिक्षा करें और सबसे उत्तम पुरुष को सभापति मानें ॥१३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स कीदृशो भवेदित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने विद्वन् राजन् ! यतस्त्वमूर्ध्वो भव, शत्रून् प्रति विध्यास्मत् स्थिरा दैव्यान्याविष्कृणुष्व, सुखानि तनुहि, यातुजूनां जामिमजामिमवतनुहि विनाशय, शत्रून् प्रमृणीहि। तस्मादहं त्वाग्नेस्तेजसाधिसादयामि ॥१३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्या राज्यैश्वर्य्यं प्राप्योत्तमगुणकर्मस्वभावा भवेयुः, प्रजाभ्यो दरिद्रेभ्यश्च सततं सुखं दद्युः। धर्मे स्थिराः सन्तो दुष्टाधर्माचारिणो मनुष्यान् सततं शिक्षयेयुः, सर्वोत्कृष्टं सभापतिं च मन्येरन् ॥१३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी राज्याचे ऐश्वर्य प्राप्त करून उत्तम गुण, कर्म स्वभावयुक्त बनावे. प्रजा व दरिद्री लोकांना सतत सुख द्यावे. दुष्ट व अधर्माचे आचरण करणाऱ्या माणसांना नेहमी शिक्षा करावी व उत्तम पुरुषाला राजा करावे.
१४ अग्निर्मूर्द्धा दिवः
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्निर्मू॒र्द्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्याऽ अ॒यम्। अ॒पाँ रेताँ॑सि जिन्वति। इन्द्र॑स्य॒ त्वौज॑सा सादयामि ॥१४ ॥
मूलम् ...{Loading}...
अ॒ग्निर्मू॒र्द्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्याऽ अ॒यम्। अ॒पाँ रेताँ॑सि जिन्वति। इन्द्र॑स्य॒ त्वौज॑सा सादयामि ॥१४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒ग्निः। मू॒र्द्धा। दि॒वः। क॒कुत्। पतिः॑। पृ॒थि॒व्याः। अ॒यम्। अ॒पाम्। रेताँ॑सि। जि॒न्व॒ति॒। इन्द्र॑स्य। त्वा॒। ओज॑सा। सा॒द॒या॒मि॒। १४।
महीधरः
म० अग्निर्मूर्धेति व्याख्याता ( ३ । १२)। ( का० १७ । ४ । १३ ) एवमौदुम्बरीमुत्तरतो दधिपूर्णामिन्द्रस्य त्वेति । एवंविधमेवोदुम्बरीं दधिपूर्णां स्रुचमुत्तरे उपदधाति । इन्द्रस्य त्वेति यजुषा भुव इति ऋचा च । इन्द्रदेवत्यं यजुः । हे स्रुक्, इन्द्रस्यौजसा तेजसा त्वां सादयामि स्थापयामि ॥ १४ ॥
पञ्चदशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वामदेव ऋषिः
- भुरिगनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह राजपुरुष कैसा हो, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! जैसे (अयम्) यह (अग्निः) सूर्य्य (दिवः) प्रकाशयुक्त आकाश के बीच और (पृथिव्याः) भूमि का (मूर्द्धा) सब प्राणियों के शिर के समान उत्तम (ककुत्) सब से बड़ा (पतिः) सब पदार्थों का रक्षक (अपाम्) जलों के (रेतांसि) सारों से प्राणियों को (जिन्वति) तृप्त करता है, वैसे आप भी हूजिये। मैं (त्वा) आप को (इन्द्रस्य) सूर्य्य के (ओजसा) पराक्रम के साथ राज्य के लिये (सादयामि) स्थापन करता हूँ ॥१४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो मनुष्य सूर्य्य के समान गुण, कर्म्म और स्वभाववाला, न्याय से प्रजा के पालन में तत्पर, धर्मात्मा, विद्वान् हो, उसको राज्याधिकारी सब लोग मानें ॥१४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स कीदृशो भवेदित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! यथाऽयमग्निर्दिवः पृथिव्या मूर्द्धा ककुत्पतिरपां रेतांसि जिन्वति, तथा त्वं भव। अहं त्वा त्वामिन्द्रस्यौजसा सह राज्याय सादयामि ॥१४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यो मनुष्यः सूर्यवद् गुणकर्मस्वभावो न्यायेन प्रजापालनतत्परो धार्मिको विद्वान् भवेत् तं राजत्वेन सर्वे मनुष्याः स्वीकुर्य्युः ॥१४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. ज्या माणसाचे गुण, कर्म, स्वभाव सूर्याप्रमाणे असून जो न्यायाने प्रजेचे पालन करण्यास तत्पर, धर्मात्मा व विद्वान असेल त्याला सर्व लोकांनी राज्याधिकारी मानावे.
१५ भुवो यज्ञस्य
विश्वास-प्रस्तुतिः ...{Loading}...
भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भिः॒ सच॑से शि॒वाभिः॑। दि॒वि मू॒र्द्धानं॑ दधिषे स्व॒र्षां जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह॑म् ॥१५ ॥
मूलम् ...{Loading}...
भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भिः॒ सच॑से शि॒वाभिः॑। दि॒वि मू॒र्द्धानं॑ दधिषे स्व॒र्षां जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह॑म् ॥१५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
भुवः॑। य॒ज्ञस्य॑। रज॑सः। च॒। ने॒ता। यत्र॑। नि॒युद्भि॒रिति॑ नि॒युत्ऽभिः॑। सच॑से। शि॒वाभिः॑। दि॒वि। मू॒र्द्धान॑म्। द॒धि॒षे॒। स्व॒र्षाम्। स्वः॒सामिति॑ स्वः॒ऽसाम्। जि॒ह्वाम्। अ॒ग्ने॒। च॒कृ॒षे॒। ह॒व्य॒वाह॒मिति॑ हव्य॒ऽवाह॑म्। १५।
महीधरः
म० त्रिशिरोदृष्टाग्निदेवत्या त्रिष्टुप् । हे अग्ने, त्वं यदा हव्यवाहं हव्यं वहतीति हव्यवाट् तां हविषो वोढ्रीं जिह्वां — ज्वालां चकृषे करोषि । लडर्थे लिट् । तदा यज्ञस्य द्रव्यदेवतात्यागात्मनो नेता भुवः भवसि । रजसः यज्ञपरिणामरूपोदकस्य ’ च नेता भवसि जगद्रक्षार्थम् । भवतेर्लेटि मध्यमैकवचने सिपि इति इकारलोपे ‘लेटोऽडाटौ’ (पा० ३ । ४ । ९४ ) इत्यडागमे ‘अचि श्नुधातु-’ (पा० ६ । ४ । ७७ ) इत्युवङादेशे च कृते भुव इति रूपम् । कुत्र नेता भवसीत्यत आह । यत्र यस्मिन्स्थाने शिवाभिर्मङ्गलरूपाभिर्नियुद्भिरश्वाभिः त्वं सचसे संबन्धं प्राप्नोषि । नियुतो वायोरित्युक्तेर्नियुतो नाम वायोरश्वाः ताभिर्वायुर्लक्ष्यते वायुना चान्तरिक्षं लक्ष्यते । यत्र च दिवि मूर्धानमादित्यं दधिषे धारयसि । लिङ् लडर्थे । किंभूतं मूर्धानम् । स्वर्षां स्वः स्वर्गं सनोति ददातीति स्वर्षाः । ‘षणु दाने’ विट्प्रत्ययः । ‘विड्वनोरनुनासिकस्यात्’ (पा० ६।४ । ४१) इति नकारस्याकारः । यद्वा स्वः स्वर्गे स्यति तिष्ठतीति स्वर्षाः तम् षोऽन्तकर्मणि क्विप् । अन्तरिक्षे द्युलोके च यज्ञस्य रजसश्च नेता भवसीत्यर्थः । यत्रेत्यस्य संहितायां ‘निपातस्य च’ (पा० ६।३ । १३६ ) इति दीर्घः । यस्य तवैतत्कर्म तं त्वां स्रुग्रूपेण सादयामीति शेषः ॥ १५ ॥
षोडशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- त्रिशिरा ऋषिः
- निचृदार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा हो, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्वान् पुरुष ! (यत्र) जिस राज्य में आप जैसे (नियुद्भिः) वेग आदि गुणों के साथ वायु (रजसः) लोकों वा ऐश्वर्य्य का (नेता) चलाने हारा (दिवि) न्याय के प्रकाश में (मूर्द्धानम्) शिर को धारण करता है, वैसे (यत्र) जहाँ (शिवाभिः) कल्याणकारक नीतियों के साथ (भुवः) अपनी पृथिवी के (यज्ञस्य) राजधर्म्म के पालन करनेहारे होके (सचसे) संयुक्त होता, अच्छे पुरुषों से राज्य को (दधिषे) धारण और (हव्यवाहम्) देने योग्य विद्वानों की प्राप्ति का हेतु (स्वर्षाम्) सुखों का सेवन करानेहारी (जिह्वाम्) अच्छे विषयों की ग्राहक वाणी को (चकृषे) करते हो, वहाँ सब सुख बढ़ते हैं, यह निश्चित जानिये ॥१५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जिस राज्य में राजा आदि सब राजपुरुष मङ्गलाचरण करनेहारे धर्मात्मा होके धर्मानुकूल प्रजाओं का पालन करें, वहाँ विद्या और अच्छी शिक्षा से होनेवाले सुख क्यों न बढ़ें ॥१५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स कीदृशो भवेदित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने विद्वन् ! यथाऽग्निर्नियुद्भिः सह वायू रजसो नेता सन् दिवि मूर्द्धानं धरति, तथा यत्र शिवाभिः सह भुवो यज्ञस्य सचसे राज्यं दधिषे, हव्यवाहं स्वर्षां जिह्वाञ्चकृषे, तत्र सर्वाणि सुखानि वर्द्धन्त इति विजानीहि ॥१५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यस्मिन् राज्ये राजादयः सर्वे धार्मिका मङ्गलचारिणो धर्मेण प्रजाः पालयेयुस्तत्र विद्यासुशिक्षाजानि सुखानि कुतो न वर्द्धेरन् ॥१५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्या राज्यात राजा इत्यादी सर्व राजपुरुष कल्याण करणारे धर्मात्मा असून धर्मानुकूल वागून प्रजेचे पालन करतात तेथे विद्या व उत्तम शिक्षणाने सुख वाढले तर त्यात नवल कसले?
१६ ध्रुवासि धरुणास्तृता
विश्वास-प्रस्तुतिः ...{Loading}...
ध्रु॒वासि॑ ध॒रुणास्तृ॑ता वि॒श्वक॑र्मणा। मा त्वा॑ समु॒द्रऽ उद्व॑धी॒न्मा सु॑प॒र्णोऽअव्य॑थमाना पृथि॒वीं दृँ॑ह ॥१६ ॥
मूलम् ...{Loading}...
ध्रु॒वासि॑ ध॒रुणास्तृ॑ता वि॒श्वक॑र्मणा। मा त्वा॑ समु॒द्रऽ उद्व॑धी॒न्मा सु॑प॒र्णोऽअव्य॑थमाना पृथि॒वीं दृँ॑ह ॥१६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ध्रु॒वा। अ॒सि॒। ध॒रुणा॑। आस्तृ॒तेत्याऽस्तृ॑ता। वि॒श्वक॑र्म॒णेति॑ वि॒श्वऽक॑र्मणा। मा। त्वा॒। स॒मु॒द्रः। उत्। व॒धी॒त्। मा। सु॒प॒र्ण इति॑ सुऽप॒र्णः। अव्य॑थमाना। पृ॒थि॒वीम्। दृँ॒ह॒। १६।
महीधरः
म० ‘स्वयमातृण्णां पुरुषे शर्करां छिद्रां ध्रुवासीति’ (का० १७ । ४ । १५) । पुरुषोपरि ध्रुवेत्यादिकण्डिकाचतुष्टयेन स्वयमातृण्णामुपदधाति । कीदृशीम् । शर्करां पाषाणमयीं छिद्रां स्वाभाविकच्छिद्रयुताम् । सच्छिद्राश्ममयीष्टकैव स्वयमातृण्णोच्यत इति सूत्रार्थः । ऊर्ध्वबृहती । द्वादशाक्षरत्रिपादोर्ध्वबृहती । अत्र प्रथमत्रयोदशार्णस्तृतीयो दशार्णः । हे स्वयमातृण्णे, त्वं ध्रुवा स्थिरासि । कीदृशी त्वम् । धरुणा भूमिरूपेण विश्वस्य धारयित्री । विश्वं करोतीति विश्वकर्मा । तेन सर्वस्य कर्त्रा प्रजापतिना आस्तृता उपहिता । समुद्रो रुक्मः त्वा त्वां मा उद्वधीत् मा हन्तु । सुपर्णः पुरुषश्च त्वां मोद्वधीत् । ‘रुक्मो वै समुद्रः पुरुषः सुपर्णः’ (७ । ४ । २।५) इति श्रुतेः। समुद्रसुपर्णशब्दाभ्यां रुक्मपुरुषावुच्येते । त्वं चाव्यथमाना अचलन्ती सती पृथिवीं दृंह भूमिं दृढीकुरु ॥ १६ ॥
सप्तदशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- त्रिशिरा ऋषिः
- स्वराडार्ष्यनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह राजपत्नी कैसी होवे, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजा की स्त्री ! जिस कारण (विश्वकर्मणा) सब धर्मयुक्त काम करनेवाले अपने पति के साथ वर्त्तती हुई (आस्तृता) वस्त्र, आभूषण और श्रेष्ठ गुणों से ढँपी हुई (धरुणा) विद्या और धर्म की धारणा करनेहारी (ध्रुवा) निश्चल (असि) है, सो तू (अव्यथमाना) पीड़ा से रहित हुई (पृथिवीम्) अपनी राज्यभूमि को (उद्दृंह) अच्छे प्रकार बढ़ा (त्वा) तुझ को (समुद्रः) जार लोगों का व्यवहार (मा) मत (वधीत्) सतावे और (सुपर्णः) सुन्दर रक्षा किये अवयवों से युक्त तेरा पति (मा) नहीं मारे ॥१६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसी राजनीति विद्या को राजा पढ़ा हो, वैसी ही उसकी राणी भी पढ़ी होनी चाहिये। सदैव दोनों परस्पर पतिव्रता, स्त्रीव्रत हो के न्याय से पालन करें। व्यभिचार और काम की व्यथा से रहित होकर धर्मानुकूल पुत्रों को उत्पन्न करके स्त्रियों का स्त्री राणी और पुरुषों का पुरुष राजा न्याय करे ॥१६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः सा कीदृशी भवेदित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे राजपत्नि ! यतो विश्वकर्मणा पत्या सह वर्त्तमानाऽऽस्तृता धरुणा ध्रुवाऽसि, साऽव्यथमाना सती त्वं पृथिवीमुद्दृंह त्वा समुद्रो मावधीत्, सुपर्णश्च मा वधीत् ॥१६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यादृशीं राजनीतिविद्यां राजाऽधीतवान् भवेत्, तादृशीमेव राज्ञ्यप्यधीतवती स्यात्। सदैवोभौ पतिव्रतास्त्रीव्रतौ भूत्वा न्यायेन पालनं कुर्य्याताम्। व्यभिचारकामव्यथारहितौ भूत्वा धर्मेण सन्तानानुत्पाद्य स्त्रीन्यायं स्त्री पुरुषन्यायं पुरुषश्च कुर्य्यात्। ॥१६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजा जसा राजनीतीमध्ये निपुण असतो तसे राणीनेही असावे. दोघांनीही पातिव्रत्य व पत्नीव्रताचे पालन करून न्यायाने वागावे. व्यभिचार व कामव्यथेपासून दूर राहून धर्मानुकूल पुत्र उत्पन्न करावेत. राणीने स्त्रियांचा न्याय करावा व पुरुषांनी पुरुषांचा त्याय करावा.
१७ प्रजापतिष्ट्वा सादयत्वपाम्
विश्वास-प्रस्तुतिः ...{Loading}...
प्र॒जाप॑तिष्ट्वा सादयत्व॒पां पृ॒ष्ठे स॑मु॒द्रस्येम॑न्। व्यच॑स्वतीं॒ प्रथ॑स्वतीं॒ प्रथ॑स्व पृथि॒व्य᳖सि ॥१७ ॥
मूलम् ...{Loading}...
प्र॒जाप॑तिष्ट्वा सादयत्व॒पां पृ॒ष्ठे स॑मु॒द्रस्येम॑न्। व्यच॑स्वतीं॒ प्रथ॑स्वतीं॒ प्रथ॑स्व पृथि॒व्य᳖सि ॥१७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्र॒जाप॑ति॒रिति॑ प्र॒जाऽप॑तिः। त्वा॒। सा॒द॒य॒तु॒। अ॒पाम्। पृ॒ष्ठे। स॒मु॒द्रस्य॑। एम॑न्। व्यच॑स्वतीम्। प्रथ॑स्वतीम्। प्रथ॑स्व पृ॒थि॒वी। अ॒सि॒। १७।
महीधरः
म० अनुष्टुप् । हे स्वयमातृण्णे, प्रजापतिः त्वा त्वां सादयतु स्थापयतु । क्व । अपां जलानां पृष्ठे उपरि । समुद्रस्य जलसङ्घातस्य एमन् एमनि अवस्थाने सादयतु । इणो धातोर्मनिन्प्रत्यये एमन्निति रूपम् ‘सुपां सुलुक्’ (पा. ७ । १ । ३९) इति सप्तम्या लुक् । किंभूतां त्वाम् । व्यचस्वतीं व्यचनं व्यचस्तदस्या अस्तीति व्यचस्वती तामभिव्यक्तियुताम् । प्रथस्वतीं प्रथनं प्रथः पृथुत्वं तदस्या अस्तीति प्रथस्वती तां विस्तारयुक्ताम् । त्वमपि प्रजापतिसादिता सती प्रथस्व अस्याश्चितेः प्रथनं कुरु । यतस्त्वं पृथिव्यसि पृथिव्युत्पन्नत्वात् ॥ १७ ॥
अष्टादशी।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- त्रिशिरा ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर राजा अपनी राणी को कैसे वर्त्तावे, यह अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विदुषि स्त्रि ! जैसे (प्रजापतिः) प्रजा का स्वामी (समुद्रस्य) समुद्र के (अपाम्) जलों के (एमन्) प्राप्त होने योग्य स्थान के (पृष्ठे) ऊपर नौका के समान (व्यचस्वतीम्) बहुत विद्या की प्राप्ति और सत्कार से युक्त (प्रथस्वतीम्) प्रशंसित कीर्त्तिवाली (त्वा) तुझ को (सादयतु) स्थापन करे, जिस कारण तू (पृथिवी) भूमि के समान सुख देनेवाली (असि) है, इसलिये स्त्रियों के न्याय करने में (प्रथस्व) प्रसिद्ध हो, वैसे तेरा पति पुरुषों का न्याय करे ॥१७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। राजपुरुष आदि को चाहिये कि आप जिस-जिस राजकार्य में प्रवृत्त हों, उस-उस कार्य में अपनी-अपनी स्त्रियों को भी स्थापन करें, जो-जो राजपुरुष जिन-जिन पुरुषों का न्याय करे, उस-उसकी स्त्री स्त्रियों का न्याय किया करें ॥१७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः पतिस्तां कथं वर्त्तयेदित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विदुषि प्रजापालिके राज्ञि ! यथा प्रजापतिः समुद्रस्यापामेमन् पृष्ठे नौकेव व्यचस्वतीं प्रथस्वतीं त्वा त्वां सादयतु, यतस्त्वं पृथिव्यसि, तस्मात् स्त्रीन्यायकरणे प्रथस्व, तथा ते पतिर्भवेत् ॥१७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। राजपुरुषादयः स्वयं यस्मिन् राजकर्मणि प्रवर्त्तेरँस्तस्मिन् स्वां स्वां स्त्रियं स्थापयेयुः। यः पुरुषः पुरुषाणां न्यायाधिकारे तिष्ठेत् तस्य स्त्री स्त्रीणां न्यायासने स्थिता भवेत् ॥१७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. पुरुष स्वतः ज्या राज्यकारभारात भाग घेतात त्या त्या कार्यात त्यांच्या स्त्रियांनीही भाग घ्यावा. राजपुरुषांनी पुरुषांचा न्याय करावा त्यांच्या स्त्रियांनीही स्त्रियांचा न्याय करावा.
१८ भूरसि भूमिरस्यदितिरसि
विश्वास-प्रस्तुतिः ...{Loading}...
भूर॑सि॒ भूमि॑र॒स्यदि॑तिरसि वि॒श्वधा॑या॒ विश्व॑स्य॒ भुव॑नस्य ध॒र्त्री। पृ॒थि॒वीं य॑च्छ पृथि॒वीं दृँ॑ह पृथि॒वीं मा हिँ॑सीः ॥१८ ॥
मूलम् ...{Loading}...
भूर॑सि॒ भूमि॑र॒स्यदि॑तिरसि वि॒श्वधा॑या॒ विश्व॑स्य॒ भुव॑नस्य ध॒र्त्री। पृ॒थि॒वीं य॑च्छ पृथि॒वीं दृँ॑ह पृथि॒वीं मा हिँ॑सीः ॥१८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
भूः। अ॒सि॒। भूमिः॑। अ॒सि॒। अदि॑तिः। अ॒सि॒। वि॒श्वधा॑या॒ इति॑ वि॒श्वऽधायाः॑। विश्व॑स्य। भुव॑नस्य। ध॒र्त्री। पृ॒थि॒वीम्। य॒च्छ॒। पृ॒थि॒वीम्। दृँ॒ह॒। पृ॒थि॒वीम्। मा। हिँ॒सीः॒। १८।
महीधरः
म० प्रस्तारपङ्क्तिः आद्यौ चेत्प्रस्तारपङ्क्तिरित्युक्तेर्यत्राद्यौ द्वादशकावन्त्यावष्टकौ सा प्रस्तारपङ्क्तिः । अत्र त्वाद्य एकादशको द्वितीयस्त्रयोदशकस्तृतीयतुर्यौ पञ्चकौ पञ्चमः षडक्षरः एवं पञ्च पादाः । हे स्वयमातृण्णे, त्वं भूः सुखानां भावयित्र्यसि । भूमिः पृथिव्यसि । भूम्यभिमानिनी देवतासीत्यर्थः । अदितिर्देवमातासि । विश्वधायाः विश्वं दधाति पुष्णातीति विश्वधायाः विश्वं निहितमस्यामिति वा । विश्वस्य भुवनस्य सर्वस्य भूतग्रामस्य धर्त्री धारयित्री तादृशी त्वं पृथिवीं यच्छ नियतां कुरु । पृथिवीं दृंह दृढीकुरु । पृथिवीं मा हिंसीः पृथिव्या हिंसां मा कुरु ॥ १८॥
एकोनविंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- त्रिशिरा ऋषिः
- प्रस्तारपङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह राणी कैसी हो, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राणी ! जिससे तू (भूः) भूमि के समान (असि) है, इस कारण (पृथिवीम्) पृथिवी को (यच्छ) निरन्तर ग्रहण कर। जिसलिये तू (विश्वधायाः) सब गृहाश्रम के और राजसम्बन्धी व्यवहारों और (विश्वस्य) सब (भुवनस्य) राज्य को (धर्त्री) धारण करनेहारी (भूमिः) पृथिवी के समान (असि) है, इसलिये (पृथिवीम्) पृथिवी को (दृंह) बढ़ा और जिस कारण तू (अदितिः) अखण्ड ऐश्वर्य्यवाले आकाश के समान क्षोभरहित (असि) है, इसलिये (पृथिवीम्) भूमि को (मा) मत (हिंसीः) बिगाड़ ॥१८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो राजकुल की स्त्री पृथिवी आदि के समान धीरज आदि गुणों से युक्त हो तो वे ही राज्य करने के योग्य होती हैं ॥१८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः सा कीदृशी भवेदित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे राजपत्नि ! यतस्त्वं भूरिवासि, तस्मात् पृथिवीं यच्छ। यतस्त्वं विश्वधाया विश्वस्य भुवनस्य धर्त्री भूमिरिवासि, तस्मात् पृथिवीं दृंह। यतस्त्वमदितिरिवासि, तस्मात् पृथिवीं मा हिंसीः ॥१८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - याः राजकुलस्त्रियः पृथिव्यादिवद् धैर्यादिगुणयुक्ताः सन्ति, ता एव राज्यं कर्त्तुमर्हन्ति ॥१८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्या राजकुलातील स्त्रिया पृथ्वी इत्यादीप्रमाणे धैर्यादी गुणांनी युक्त असतात त्याच राज्य करण्यायोग्य असतात.
१९ विश्वस्मै प्राणायापानाय
विश्वास-प्रस्तुतिः ...{Loading}...
विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑ च॒रित्रा॑य। अ॒ग्निष्ट्वा॒भिपा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॒ शन्त॑मेन॒ तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वा सी॑द ॥१९ ॥
मूलम् ...{Loading}...
विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑ च॒रित्रा॑य। अ॒ग्निष्ट्वा॒भिपा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॒ शन्त॑मेन॒ तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वा सी॑द ॥१९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
विश्व॑स्मै। प्रा॒णाय॑। अ॒पा॒नायेत्य॑पऽआ॒नाय॑। व्या॒नायेति॑ विऽआ॒नाय॑। उ॒दा॒नायेत्यु॑त्ऽआ॒नाय॑। प्र॒ति॒ष्ठायै॑। प्र॒ति॒स्थाया॒ इति॑ प्रति॒ऽस्थायै॑। च॒रित्रा॑य। अ॒ग्निः। त्वा॒। अ॒भि। पा॒तु॒। म॒ह्या। स्व॒स्त्या। छ॒र्दिषा॑। शन्त॑मे॒नेति॒ शम्ऽत॑मेन। तया॑। दे॒वत॑या। अ॒ङ्गि॒र॒स्वत्। ध्रु॒वा। सी॒द॒। १९।
महीधरः
म० यजुः एकाधिकार्ष्यनुष्टुप् । हे स्वयमातृण्णे, विश्वस्मै सर्वस्मै प्राणायापानाय व्यानायोदानाय प्राणापानव्यानोदानाख्यवायुवृत्तिलाभाय प्रतिष्ठायै कीर्त्यै चरित्राय शास्त्रीयाचरणाय च । प्राणिनामेतत्सर्वसिद्ध्यर्थं त्वां सादयामीति शेषः । किंच मह्या महत्या स्वस्त्या योगक्षेमसंपत्त्या शन्तमेनात्यन्तं सुखकारिणा छर्दिषा गृहेण चाग्निस्त्वा त्वामभिपातु सर्वतो रक्षतु । तया देवतयानुगृहीता त्वं ध्रुवा स्थिरा सती सीदोपविश । अङ्गिरस्वदङ्गिरसां चयनानुष्ठाने यथा त्वं स्थिरस्थिता तद्वदिहोपविश ॥ १९॥
विंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- त्रिशिरा ऋषिः
- भुरिगतिजगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर वे स्त्री-पुरुष आपस में कैसे वर्त्तें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! जो (अग्निः) विज्ञानयुक्त तेरा पति (मह्या) बड़ी (स्वस्त्या) सुख प्राप्त करानेहारी क्रिया और (छर्दिषा) प्रकाशयुक्त (शन्तमेन) अत्यन्तसुखदायक कर्म के साथ (विश्वस्मै) सम्पूर्ण (प्राणाय) जीवन के हेतु प्राण (अपानाय) दुःखों की निवृत्ति (व्यानाय) अनेक प्रकार के उत्तम व्यवहारों की सिद्धि (उदानाय) उत्तम बल (प्रतिष्ठायै) सत्कार और (चरित्राय) धर्म का आचरण करने के लिये जिस (त्वा) तेरी (अभिपातु) सन्मुख होकर रक्षा करे, सो तू (तया) उस (देवतया) दिव्यस्वरूप पति के साथ (अङ्गिरस्वत्) जैसे कार्य्य-कारण का सम्बन्ध है, वैसे (ध्रुवा) निश्चल हो के (सीद) प्रतिष्ठायुक्त हो ॥१९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - पुरुषों को योग्य है कि अपनी-अपनी स्त्रियों के सत्कार से सुख और व्यभिचार से रहित होके प्रीतिपूर्वक आचरण और उनकी रक्षा आदि निरन्तर करें, और इसी प्रकार स्त्री लोग भी रहें। अपनी स्त्री को छोड़ अन्य स्त्री की इच्छा न पुरुष और न अपने पति को छोड़ दूसरे पुरुष का सङ्ग स्त्री करे। ऐसे ही आपस में प्रीतिपूर्वक ही दोनों सदा वर्त्तें ॥१९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तौ परस्परं कथं वर्त्तेयातामित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! योऽग्निस्ते पतिर्मह्या स्वस्त्या शन्तमेन छर्दिषा विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय यां त्वाभिपातु, सा त्वं तया देवतया सहाऽङ्गिरस्वद् ध्रुवा सीद ॥१९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - पुरुषाः स्वस्वस्त्रीणां सत्कारसुखाभ्यामव्यभिचारेण च प्रियाचरणं पालनादिकं च सततं कुर्य्युः, स्त्रियोऽप्येवमेव। न स्वस्त्रियं विहायान्यां पुरुषः, स्वपुरुषं विहायान्यं स्त्री च सङ्गच्छेत्। एवं परस्परस्य प्रियाचरणावुभौ सदा वर्त्तेयाताम् ॥१९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - पुरुषांनी आपापल्या स्त्रियांचा सन्मान करून सुख मिळवावे. व्यभिचाररहित होऊन प्रीतिपूर्वक आचरण करावे व त्यांचे सदैव रक्षण करावे. याप्रमाणे स्त्रियांनीही वागावे. आपल्या पत्नीला सोडून परस्त्रीची इच्छा पुरुषाने करू नये किंवा स्त्रीने परपुरुषाची इच्छा धरू नये. याप्रमाणे आपापसात नेहमी प्रीतिपूर्वक राहावे.
२० काण्डात्काण्डात्प्ररोहन्ती परुषःपरुषस्परि
विश्वास-प्रस्तुतिः ...{Loading}...
काण्डा॑त्-काण्डात् प्र॒रोह॑न्ती॒
परु॑षᳶपरुष॒ᳶ+++(=पर्वणः पर्वणः)+++ परि॑ ।
ए॒वा नो॑ दूर्वे॒ प्र त॑नु
स॒हस्रे॑ण श॒तेन॑ च ।
मूलम् ...{Loading}...
काण्डा॑त्काण्डात्प्र॒रोह॑न्ती॒ परु॑षःपरुष॒स्परि॑। ए॒वा नो॑ दूर्वे॒ प्रत॑नु स॒हस्रे॑ण श॒तेन॑ च ॥२० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
काण्डा॑त्काण्डा॒दिति॒ काण्डा॑त्ऽकाण्डात्। प्र॒रोह॒न्तीति॑ प्र॒ऽरोह॑न्ती। परु॑षःपरुष॒ इति॒ परु॑षःऽपरुषः। परि॑। ए॒व। नः॒। दू॒र्वे॒। प्र॒। त॒नु॒। स॒हस्रे॑ण। श॒तेन॑। च॒। २०।
महीधरः
म० ‘मूलाग्रवतीं दूर्वा तस्यां पुरस्ताद्भूमिप्राप्तां काण्डात्काण्डादिति’(का. १७। ४ । १८) तस्यां स्वयमातृण्णायां काण्डादिति ऋग्द्वयेन पुरस्ताद्भूमिगताग्रं मूलाग्रयुतां दूर्वामुपदधाति । अग्निदृष्टे दूर्वष्टकादेवत्ये द्वे अनुष्टुभौ । मूलैर्भूसंबद्धं पर्व काण्डं भूम्यसंबद्धं परुः । हे दूर्व दूर्वेष्टके, काण्डात्काण्डात्प्रतिकाण्डं परुषः परुषः प्रतिपरुः भूमिसंबद्धासंबद्धेभ्यः सर्वपर्वभ्यः सकाशाद्यथा त्वं परि समन्तात्प्ररोहन्ती अङ्कुरवती वर्तसे । ‘नित्यवीप्सयोः’ (पा० ८ । १ । ४) इति वीप्सार्थे काण्डपरुषोर्द्वित्वम् । एवेत्यव्ययमेवमित्यर्थे ‘निपातस्य च’ (पा० ६ । ३ । १३६) इति संहितायां दीर्घः । हे दूर्वे, एवं स्वाङ्कुरविस्तारवत्सहस्रेण शतेन च । सहस्रशतशब्दावसंख्यार्थौ । असंख्यैः पुत्रपौत्रनप्त्रादिभिर्नोऽस्मान् प्रतनु विस्तारय ॥ २० ॥
एकविंशी।
अधिमन्त्रम् (VC)
- पत्नी देवता
- अग्निर्ऋषिः
- अनुष्टुप्
- गान्धारः
Keith
Arising from every stem,
From every joint,
Do thou, O Durva, extend us
With a thousand, a hundred.
मूलम् - तैत्तिरीयम्
काण्डा॑त्काण्डात्प्र॒रोह॑न्ती॒ परु॑षᳶपरुष॒ᳶ परि॑ ।
ए॒वा नो॑ दूर्वे॒ प्र त॑नु स॒हस्रे॑ण श॒तेन॑ च ।
सायण-टीका
तत्र प्रथमामाह— काण्डादिति । काण्डशब्दः स्तम्बवाची । परुःशब्दः पर्ववाची । यावन्तः काण्डाः स्तम्बाः सन्ति तत्रैकैकस्मात्स्तम्बात्प्रकर्षेण दूर्वोत्पद्यते ।
एकस्मिन्नपि स्तम्बे यावन्ति परुंषि पर्वाणि सन्ति तेष्वेकैकस्य पर्वणः परितः प्रकर्षेण दूर्वोत्पद्यते । हे दूर्वे त्वं तत्तत्काण्डोत्थत्वात्तत्तत्पर्वणि प्रकर्षेणोत्पद्यमाना वर्तसे । एवा, एवमनेन प्रकारेण नोऽस्मदर्थं शतसंख्याकेन सहस्रसंख्याकेन च त्वदीयभेदेन त्वत्स्वरूपं प्रतनु प्रकर्षेण विस्तृतं कुरु ।
दयानन्द-सरस्वती (हि) - विषयः
फिर वह स्त्री कैसी हो, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! तू जैसे (सहस्रेण) असंख्यात (च) और (शतेन) बहुत प्रकार के साथ (काण्डात्काण्डात्) सब अवयवों और (परुषःपरुषः) गाँठ-गाँठ से (परि) सब ओर से (प्ररोहन्ती) अत्यन्त बढ़ती हुई (दूर्वे) दूर्वा घास होती है, वैसे (एव) ही (नः) हम को पुत्र-पौत्र और ऐश्वर्य से (प्रतनु) विस्तृत कर ॥२० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे दूर्वा ओषधि रोगों का नाश और सुखों को बढ़ानेहारी सुन्दर विस्तारयुक्त होती हुई बढ़ती है। वैसे ही विदुषी स्त्री को चाहिये कि बहुत प्रकार से अपने कुल को बढ़ावे ॥२० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः सा कीदृशी भवेदित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! त्वं यथा सहस्रेण शतेन च काण्डात्काण्डात् परुषःपरुषस्परि प्ररोहन्ती दूर्वे दूर्वौषधी वर्त्तते, तथैव नोऽस्मान् पुत्रपौत्रैश्वर्यादिभिः प्रतनु ॥२० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा दूर्वौषधी रोगप्रणाशिका सुखवर्द्धिका सुविस्तीर्णा चिरं स्थात्री सती वर्धते, तथा सती विदुषी स्त्री कुलं शतधा सहस्रधा वर्धयेत्, तथा पुरुषोऽपि प्रयतेत ॥२० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जशी दूर्वा ही औषधी रोगाचा नाश करून सुख वाढविते व उत्तम प्रकारे विस्तारित होते, तसेच विद्वान स्त्रीने अनेक प्रकारे आपले कुल वाढवावे.
२१ या शतेन
विश्वास-प्रस्तुतिः ...{Loading}...
या श॒तेन॑ प्रत॒नोषि॑
स॒हस्रे॑ण वि॒रोह॑सि ।
तस्या॑स् ते देवीष्टके
वि॒धेम॑ ह॒विषा॑ व॒यम् ।
मूलम् ...{Loading}...
या श॒तेन॑ प्रत॒नोषि॑ स॒हस्रे॑ण वि॒रोह॑सि। तस्या॑स्ते देवीष्टके वि॒धेम॑ ह॒विषा॑ व॒यम् ॥२१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
या। श॒तेन॑। प्र॒त॒नोषीति॑ प्रऽत॒नोषि॑। स॒हस्रे॑ण। वि॒रोह॒सीति॑ वि॒ऽरोह॑सि। तस्याः॑। ते॒। दे॒वि॒। इ॒ष्ट॒के॒। वि॒धेम॑। ह॒विषा॑। व॒यम्। २१।
महीधरः
म० हे देवि दीप्यमाने हे इष्टके, या त्वं शतेन काण्डानां प्रतनोषि विस्तारयसि, सहस्रेण चाङ्कुराणां विरोहसि विविधं प्ररूढा भवसि । वयं हविषा सह ते स्थानं विधेम परिचरेम ॥ २१॥
द्वाविंशी।
अधिमन्त्रम् (VC)
- पत्नी देवता
- अग्निर्ऋषिः
- निचृदनुष्टुप्
- गान्धारः
मूलम् - तैत्तिरीयम्
या श॒तेन॑ प्रत॒नोषि॑ स॒हस्रे॑ण वि॒रोह॑सि ।
तस्या॑स्ते देवीष्टके वि॒धेम॑ ह॒विषा॑ व॒यम् ।
Keith
Thou that extendest with a hundred,
That arisest with a thousand,
To thee, O goddess, O brick,
Let us sacrifice with oblation.
सायण-टीका
अथ द्वितीयामाह— या शतेनेति । हे दूर्वे या त्वं शतसंख्याकेन स्वरुपेण प्रतनोषि अत्यन्तं विस्तारयसि । तथा सहस्रसंख्याकेनाऽकारेण विरोहसि विविधमुत्पद्यसे । हे इष्ठके देवि तस्यास्ते वयं हविषा विधेम परिचरेम ।
१९४४ एतन्मन्त्रद्वयसाध्यमुपधानं विधत्ते— “पशुर्वा एष यदग्निर्न खलु वै पशव आयवसे रमन्ते दुर्वेष्टकामुप दधाति पशूनां धृत्यै” (सं. का. ५ प्र. २ अ. ८) इति।
पशुप्राप्तिहेतुत्वादग्नेः पशुत्वम् । ईषदर्थवाच्याङ् । यवसशब्दो घासवाची । अल्पघासे प्रदेशे पशवो नैव रमन्ते । अतः पशूनां धारणाय घासरूपां दूर्वेष्टकामुपद-ध्यात् । तस्याश्च स्वरूपं सूत्रकारेणोक्तं– “सलोष्टं हरित दूर्वास्तम्बमप्रच्छिन्नाग्रम्” इति। मन्त्रद्वयं प्रशंसति— “द्वाभ्यां प्रतिष्ठित्यै” [सं. का. ५ प्र. २ अ. ८] इति।
प्रथममन्त्रस्य प्रथमपादार्थः प्रसिद्ध इति दर्शयति— “काण्डात्काण्डात्प्ररोहन्तीत्याह काण्डेनकाण्डेन ह्येषां प्रतितिष्ठति” (सं. का. ५ प्र. २ अ. ८) इति।
द्वितीयेऽर्धे सहस्रशब्दतात्पर्यं दर्शयति— “एवा नो दूर्वे प्र तनु सहस्रेण शतेन चेत्याह साहस्रः प्रजापतिः प्रजापते- राप्त्यै” (सं. का. ५ प्र. २ अ. ८) इति।
सहस्रसंख्याकप्राण्युत्पादकत्वात्प्रजापतेः साहस्रत्वम् ।
२२ यास्तेऽ अग्ने
विश्वास-प्रस्तुतिः ...{Loading}...
यास्ते॑ऽ अग्ने॒ सूर्य्ये॒ रुचो॒ दिव॑मात॒न्वन्ति॑ र॒श्मिभिः॑। ताभि॑र्नोऽ अ॒द्य सर्वा॑भी रु॒चे जना॑य नस्कृधि ॥२२ ॥
मूलम् ...{Loading}...
यास्ते॑ऽ अग्ने॒ सूर्य्ये॒ रुचो॒ दिव॑मात॒न्वन्ति॑ र॒श्मिभिः॑। ताभि॑र्नोऽ अ॒द्य सर्वा॑भी रु॒चे जना॑य नस्कृधि ॥२२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
याः। ते॒। अ॒ग्ने॒। सूर्ये॑। रुचः॑। दिव॑म्। आ॒त॒न्वन्तीत्या॑ऽत॒न्वन्ति॑। र॒श्मिभि॒रिति॑ र॒श्मिऽभिः॑। ताभिः॑। नः॒। अ॒द्य। सर्वा॑भिः। रु॒चे। जना॑य। नः॒। कृ॒धि॒। २२।
महीधरः
म० ‘यास्त इति द्वियजुषं द्वितीये’ (का० १७ । ४ । २०)। दूर्वष्टकापुरस्ताद्द्वितीये पद्यालोके यास्त इति ऋग्द्वयेन द्वियजुःसंज्ञां पद्येष्टकामुपदधाति इति सूत्रार्थः । इन्द्राग्निदृष्टे अग्निदेवत्ये द्वे अनुष्टुभौ । हे अग्ने, याः ते तव रुचः दीप्तयः सूर्ये सूर्यमण्डले वर्तमानाः सत्यः दिवं द्युलोकमातन्वन्ति प्रकाशयन्ति रश्मिभिः सरूपभूतैः किरणैः ताभिः सर्वाभिः रुग्भिः नोऽस्मान रुचे रोचनाय शोभायै अद्यास्मिन्द्यवि कृधि कुरु । जनाय पुत्रपौत्रादिकाय च कुरु । द्युलोकप्रकाशिकाः सर्वाः कान्तीः पुत्रांश्चास्मभ्यं देहीत्यर्थः । यद्वा विभक्तिव्यत्ययः । नोऽस्माकं जनाय जनं पुत्रादिकं ताभिः रुग्भिः रुचे शोभायै कुरु । जगत्प्रसिद्धं पुत्रादिकं देहीत्यर्थः ॥ २२ ॥
त्रयोविंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- इन्द्राग्नी ऋषी
- भुरिगनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह स्त्री कैसी होवे, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) अग्नि के समान तेजधारिणी पढ़ानेहारी विदुषी स्त्री ! (याः) जो (ते) तेरी रुचि हैं, (ताभिः) उन (सर्वाभिः) सब रुचियों से युक्त (नः) हम को जैसे (रुचः) दीप्तियाँ (सूर्य्ये) सूर्य्य में (रश्मिभिः) किरणों से (दिवम्) प्रकाश को (आतन्वन्ति) अच्छे प्रकार विस्तारयुक्त करती हैं, वैसे तू भी अच्छे प्रकार विस्तृत सुखयुक्त कर और (अद्य) आज (रुचे) रुचि करानेहारे (जनाय) प्रसिद्ध मनुष्य के लिये (नः) हम लोगों को प्रीतियुक्त (कृधि) कर ॥२२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे ब्रह्माण्ड में सूर्य्य की दीप्ति सब वस्तुओं को प्रकाशित कर रुचियुक्त करती है, वैसे ही विदुषी श्रेष्ठ पतिव्रता स्त्रियाँ घर के सब कार्य्यों का प्रकाश करती हैं। जिस कुल में स्त्री और पुरुष आपस में प्रीतियुक्त हों, वहाँ सब विषयों में कल्याण ही होता है ॥२२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः सा कीदृशी भवेदित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने विदुष्यध्यापिके स्त्रि ! यास्ते रुचयः सन्ति, ताभिः सर्वाभिर्नो यथा रुचः सूर्य्ये रश्मिभिर्दिवमातन्वन्ति, तथा त्वमातनु। अद्य रुचे जनाय नः प्रीतान् कृधि ॥२२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा ब्रह्माण्डे सूर्यस्य दीप्तयः सर्वाणि वस्तूनि प्रकाश्य रोचयन्ति, तथैव विदुष्यः साध्व्यः पतिव्रताः स्त्रियः सर्वाणि गृहकर्माणि प्रकाशयन्ति। यत्र स्त्रीपुरुषौ परस्परं प्रीतिमन्तौ स्याताम्, तत्र सर्वं कल्याणमेव ॥२२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोमालंकार आहे. जसे ब्रह्मांडामध्ये सूर्यकिरण सर्व वस्तूंना प्रकाशित करून पदार्थांना उत्तम बनवितात, तसेच विदुषी, श्रेष्ठ पतिव्रता स्त्रिया घरातील सर्व काम उत्तम प्रकारे करतात. ज्या कुलात स्त्री व पुरुष आपापसात प्रेमपूर्वक व्यवहार करतात तेथे सर्व बाबतीत कल्याणच होते.
२३ या वो
विश्वास-प्रस्तुतिः ...{Loading}...
या वो॑ देवाः॒ सूर्य्ये॒ रुचो॒ गोष्वश्वे॑षु॒ या रुचः॑। इन्द्रा॑ग्नी॒ ताभिः॒ सर्वा॑भी॒ रुचं॑ नो धत्त बृहस्पते ॥२३ ॥
मूलम् ...{Loading}...
या वो॑ देवाः॒ सूर्य्ये॒ रुचो॒ गोष्वश्वे॑षु॒ या रुचः॑। इन्द्रा॑ग्नी॒ ताभिः॒ सर्वा॑भी॒ रुचं॑ नो धत्त बृहस्पते ॥२३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
याः। वः॒। दे॒वाः॒। सूर्ये॑। रुचः॑। गोषु॑। अश्वे॑षु। याः। रुचः॑। इन्द्रा॑ग्नी॒ऽइतीन्द्रा॑ग्नी। ताभिः॑। सर्वा॑भिः। रुच॑म्। नः॒। ध॒त्त॒। बृ॒ह॒स्प॒ते॒। २३।
महीधरः
म० हे देवाः, हे इन्द्राग्नी, हे बृहस्पते, वो युष्माकं संबन्धिन्यो या रुचः दीप्तयः सूर्ये सूर्यमण्डले सन्ति गोषु धेनुषु अश्वेषु तुरगेषु च या युष्माकं रुचः सन्ति ताभिः सर्वाभिः रुग्भिः कृत्वा नोऽस्मभ्यं रुचं धत्त दत्त । तत्समप्रभानस्मान्कुरुतेत्यर्थः ॥ २३ ॥
चतुर्विंशी।
अधिमन्त्रम् (VC)
- बृहस्पतिर्देवता
- इन्द्राग्नी ऋषी
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब स्त्री-पुरुषों को विज्ञान की सिद्धि कैसे करनी चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (देवाः) विद्वानो ! तुम सब लोग (याः) जो (वः) तुम्हारी (सूर्य्ये) सूर्य्य में (रुचः) रुचि और (याः) जो (गोषु) गौओं और (अश्वेषु) घोड़ों आदि में (रुचः) प्रीतियों के समान प्रीति है, (ताभिः) उन (सर्वाभिः) सब रुचियों से (नः) हमारे बीच (रुचम्) कामना को (इन्द्राग्नी) बिजुली और सूर्य्यवत् अध्यापक और उपदेशक जैसे धारण करे, वैसे (धत्त) धारण करो। हे (बृहस्पते) पक्षपात छोड़ के परीक्षा करानेहारे पूर्णविद्या युक्त आप (नः) हमारी परीक्षा कीजिये ॥२३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जब तक मनुष्य लोगों की विद्वानों के सङ्ग ईश्वर उस की रचना में रुचि और परीक्षा नहीं होती, तब तक विज्ञान कभी नहीं बढ़ सकता ॥२३ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ स्त्रीपुरुषैः कथं विज्ञानं संपाद्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे देवाः ! यूयं या वः सूर्ये रुचो या गोष्वश्वेषु रुचश्चेव रुचः सन्ति, ताभिः सर्वाभी रुग्भिर्नो रुचमिन्द्राग्नी इव धत्त। हे बृहस्पते परीक्षक ! भवानस्माकं परीक्षां कुरु ॥२३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यावन्मनुष्याणां विद्वत्सङ्ग ईश्वरेऽस्य सृष्टौ च रुचिः परीक्षा च न जायते, तावद्विज्ञानं न वर्द्धते ॥२३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जोपर्यंत माणसांना विद्वानांच्या संगतीने ईश्वर व त्याची रचना यांच्यामध्ये आवड निर्माण होत नाही व त्यांची विद्वानांकडून परीक्षा होत नाही तोपर्यंत विज्ञानाची वृद्धी कधीच होत नाही.
२४ विराड् ज्योतिरधारयत्
विश्वास-प्रस्तुतिः ...{Loading}...
वि॒राड् ज्योति॑रधारयत् स्व॒राड् ज्योति॑रधारयत्। प्र॒जाप॑तिष्ट्वा सादयतु पृ॒ष्ठे पृ॑थि॒व्या ज्योति॑ष्मतीम्। विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नाय॒ विश्वं॒ ज्योति॑र्यच्छ। अ॒ग्निष्टेऽधि॑पति॒स्तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वा सी॑द ॥२४ ॥
मूलम् ...{Loading}...
वि॒राड् ज्योति॑रधारयत् स्व॒राड् ज्योति॑रधारयत्। प्र॒जाप॑तिष्ट्वा सादयतु पृ॒ष्ठे पृ॑थि॒व्या ज्योति॑ष्मतीम्। विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नाय॒ विश्वं॒ ज्योति॑र्यच्छ। अ॒ग्निष्टेऽधि॑पति॒स्तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वा सी॑द ॥२४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वि॒राडिति॑ वि॒ऽराट्। ज्योतिः॑। अ॒धा॒र॒य॒त्। स्व॒राडिति॑ स्व॒ऽराट्। ज्योतिः॑। अ॒धा॒र॒य॒त्। प्र॒जाप॑ति॒रिति॒ प्र॒जाऽप॑तिः। त्वा॒। सा॒द॒य॒तु॒। पृ॒ष्ठे। पृ॒थि॒व्याः। ज्योति॑ष्मतीम्। विश्व॑स्मै। प्रा॒णाय॑। अ॒पा॒नायेत्य॑पऽआ॒नाय॑। व्या॒नायेति॑ विऽआ॒नाय॑। विश्व॑म्। ज्योतिः॑। य॒च्छ॒। अ॒ग्निः। ते॒। अधि॑पति॒रित्यधि॑ऽपतिः। तया॑। दे॒वत॑या। अ॒ङ्गि॒र॒स्वत्। ध्रु॒वा। सी॒द॒। २४।
महीधरः
म० ‘विराट् स्वराडिति रेतःसिचौ प्रतिमन्त्रम्’ (का. १७ । ४ । २२)। द्वियजुषः पूर्वे अव्यवहिते रेतःसिचौ द्वे पद्येष्टके प्राग्लक्षणे अनूकमभितो विराट् स्वराडिति प्रतिमन्त्रमुपदधाति विराडित्युत्तरां स्वराडिति दक्षिणामिति सूत्रार्थः । द्वे यजुषी इदंलोकादोलोकदेवत्ये क्रमाद्यजुरनुष्टुभौ । विशेषेण राजत इति विराट् अयं लोको ज्योतिरग्निलक्षणमधारयत् धारयति । स्वेनैव राजत इति स्वराट् असौ लोको ज्योतिरादित्यलक्षणमधारयद्धारयति । ‘विराडयं लोकः स इममग्निं ज्योतिर्धारयत्यसौ वै लोकः स्वराट् सोऽमुमादित्यं ज्योतिर्धारयति’ (७ । ४ । २ । २३) इति श्रुतेः । (का. १७ । ४ । २३ ) इति प्रजापतिरिति विश्वज्योतिषम् । रेतःसिग्भ्यां पुरो यजमानकृतां प्रथमां विश्वज्योतिःसंज्ञामिष्टकां पद्यां प्राग्लक्षणामुदङ्मुखोऽनूके उपदधाति । विश्वज्योतिर्देवतं यजु:शक्करीच्छन्दस्कम् । पृथिव्याः पृष्ठे उपरि ज्योतिष्मतीं ज्योतिषोपेतां त्वा त्वामिष्टकां प्रजापतिः सादयतु स्थापयतु । किमर्थं । विश्वस्मै सर्वस्मै प्राणायापानाय व्यानाय प्राणादिसंपत्त्यर्थम् । किंच हे इष्टके, त्वं विश्वं सर्वं ज्योतिर्यच्छ निगृह्णीष्व देहि वा। अग्निश्च ते तवाधिपतिः स्वामी तया देवतयाग्निलक्षणया ध्रुवा स्थिरा सती सीद उपविश । अङ्गिरस्वदङ्गिरसां चयने यथा स्थिरा सीदः तद्वदत्रापीत्यर्थः ॥ २४ ॥
पञ्चविंशी।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- इन्द्राग्नी ऋषी
- निचृद्धृतिः
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
स्त्री-पुरुष आपस में कैसे वर्त्तें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (विराट्) अनेक प्रकार की विद्याओं में प्रकाशमान स्त्री (ज्योतिः) विद्या की उन्नति को (अधारयत्) धारण करे-करावे, जो (स्वराट्) सब धर्म्मयुक्त व्यवहारों में शुद्धाचारी पुरुष (ज्योतिः) बिजुली आदि के प्रकाश को (अधारयत्) धारण करे-करावे, वे दोनों स्त्री-पुरुष सम्पूर्ण सुखों को प्राप्त होवें। हे स्त्रि ! जो (अग्निः) अग्नि के समान तेजस्वी विज्ञानयुक्त (ते) तेरा (अधिपतिः) स्वामी है, (तया) उस (देवतया) सुन्दर देवस्वरूप पति के साथ तू (अङ्गिरस्वत्) सूत्रात्मा वायु के समान (ध्रुवा) दृढ़ता से (सीद) स्थिर हो। हे पुरुष ! जो अग्नि के समान तेजधारिणी तेरी रक्षा को करनेहारी स्त्री है, उस देवी के साथ तू प्राणों के समान प्रीतिपूर्वक निश्चय करके स्थित हो। हे स्त्रि ! (प्रजापतिः) प्रजा का रक्षक तेरा पति (पृथिव्याः) भूमि के (पृष्ठे) ऊपर (विश्वस्मै) सब (प्राणाय) सुख की चेष्टा के हेतु (अपानाय) दुःख हटाने के साधन (व्यानाय) सब सुन्दर गुण, कर्म्म और स्वभावों के प्रचार के हेतु प्राणविद्या के लिये जिस (ज्योतिष्मतीम्) प्रशंसित विद्या के ज्ञान से युक्त (त्वा) तुझ को (सादयतु) उत्तम अधिकार पर स्थापित करे, सो तू (विश्वम्) समग्र (ज्योतिः) विज्ञान को (यच्छ) ग्रहण कर और इस विज्ञान की प्राप्ति के लिये अपने पति को स्थिर कर ॥२४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो स्त्री-पुरुष सत्सङ्ग और विद्या के अभ्यास से विद्युत् आदि पदार्थविद्या और प्रीति को नित्य बढ़ाते हैं, वे इस संसार में सुख भोगते हैं। पति स्त्री का और स्त्री पति का सदा सत्कार करे, इस प्रकार आपस में प्रीतिपूर्वक मिल के ही सुख भोगें ॥२४ ॥
दयानन्द-सरस्वती (सं) - विषयः
दम्पती अन्योऽन्यं कथं वर्तेयातामित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - या विराट् स्त्री ज्योतिरधारयत्, यः स्वराट् पुरुषो ज्योतिरधारयत्, सा स चाऽखिलं सुखं प्राप्नुयात्। हे स्त्रि ! योऽग्निस्तेऽधिपतिरस्ति, तया देवतया सह त्वमङ्गिरस्वद् ध्रुवा सीद। हे पुरुष ! याऽग्निस्तवाऽधिपत्न्यस्ति, तया देवतया सह त्वमङ्गिरस्वद् ध्रुवः सीद। हे स्त्रि ! यः प्रजापतिः पृथिव्याः पृष्ठे विश्वस्मै प्राणायापानाय व्यानाय ज्योतिष्मतीं विद्युतमिव त्वा सादयतु, सा त्वं विश्वं ज्योतिर्यच्छैतस्मा एनं पतिं त्वं सादय ॥२४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये स्त्रीपुरुषाः सत्सङ्गविद्याभ्यासाभ्यां विद्युदादिपदार्थविद्यां वर्द्धयन्ते त इह सुखिनो भवन्ति। पतिः स्त्रियं सदा सत्कुर्यात्, स्त्री पतिञ्च कुर्य्यात्। एवं परस्परं प्रीत्या सहैव सुखं भुञ्जाताम् ॥२४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे स्त्री-पुरुष सत्संग व विद्याभ्यासाने विद्युत इत्यादी पदार्थ विद्येची वृद्धी करून प्रेमाने राहतात ते या जगात सुख भोगतात. पतीने पत्नीचा व पत्नीने पतीचा नेहमी सत्कार करावा. याप्रमाणे आपापसात प्रीतिपूर्वक राहून सुख भोगावे.
२५ मधुश्च माधवश्च
विश्वास-प्रस्तुतिः ...{Loading}...
मधु॑श्च॒ माध॑वश्च॒ वास॑न्तिकावृ॒तूऽ अ॒ग्नेर॑न्तः श्ले॒षो᳖ऽसि॒ कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ऽ ओष॑धयः॒ कल्प॑न्ताम॒ग्नयः॒ पृथ॒ङ् मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः। येऽ अ॒ग्नयः॒ सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वीऽ इ॒मे। वास॑न्तिकावृ॒तूऽ अ॑भि॒कल्प॑माना॒ऽ इन्द्र॑मिव दे॒वाऽ अ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वे सी॑दतम् ॥२५ ॥
मूलम् ...{Loading}...
मधु॑श्च॒ माध॑वश्च॒ वास॑न्तिकावृ॒तूऽ अ॒ग्नेर॑न्तः श्ले॒षो᳖ऽसि॒ कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ऽ ओष॑धयः॒ कल्प॑न्ताम॒ग्नयः॒ पृथ॒ङ् मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः। येऽ अ॒ग्नयः॒ सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वीऽ इ॒मे। वास॑न्तिकावृ॒तूऽ अ॑भि॒कल्प॑माना॒ऽ इन्द्र॑मिव दे॒वाऽ अ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वे सी॑दतम् ॥२५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मधुः॑। च॒। माध॑वः। च॒। वास॑न्तिकौ। ऋ॒तूऽइत्यृ॒तू। अ॒ग्नेः। अ॒न्तः॒श्ले॒ष इत्य॑न्तःऽश्ले॒षः। अ॒सि॒। कल्पे॑ताम्। द्यावा॑पृथि॒वीऽइति॒ द्यावा॑पृथि॒वी। कल्प॑न्ताम्। आपः॑। ओष॑धयः। कल्प॑न्ताम्। अ॒ग्नयः॑। पृथ॑क्। मम॑। ज्यैष्ठ्या॑य। सव्र॑ता इति॒ सऽव्र॑ताः। ये। अ॒ग्नयः॑। सम॑नस॒ इति॒ सऽम॑नसः। अ॒न्त॒रा। द्यावा॑पृथि॒वीऽइति॒ द्यावा॑पृथि॒वी। इ॒मेऽइती॒मे। वास॑न्तिकौ। ऋ॒तूऽइत्यृ॒तू। अ॒भि॒कल्प॑माना॒ इत्य॑भि॒ऽकल्प॑मानाः। इन्द्र॑मि॒वेतीन्द्र॑म्ऽइव। दे॒वाः। अ॒भि॒संवि॑श॒न्त्वित्य॑भि॒ऽसंवि॑शन्तु। तया॑। दे॒वत॑या। अ॒ङ्गिर॒स्वत्। ध्रु॒वेऽइति॑ ध्रु॒वे। सी॒द॒त॒म्। २५।
महीधरः
म० ‘ऋतव्ये मधुश्च माधवश्चेति’ ( का० १७ । ४ । २४) विश्वज्योतिषः पुरो द्वे पद्ये प्राग्लक्षणे ऋतव्येष्टके अनूकमभित उदङ्मुख उपदधाति । ऋतुदेवतं यजुः अष्टोत्तरशताक्षरत्वाच्छन्दो नास्ति । मधुश्चैत्रो मासः माधवो वैशाखः तावुभौ वासन्तिकौ वसन्तसंबन्धिनौ ऋतू अवयवौ । यद्वा मधुमाधवौ वसन्त एव वासन्तिक ऋतुः । द्विवचनमेकवचनार्थम् । हे तादृश वसन्ताख्य ऋतो, त्वं चीयमानस्याग्नेरन्तःश्लेषोऽसि अन्तर्मध्ये व्यवस्थितः सन् श्लेषकोऽसि । यथा कुड्यस्यान्तर्दार्ढ्याय काष्ठपाषाणादयः श्लिष्यन्ते तद्वत् । ममाग्निं चिन्वतो यजमानस्य ज्यैष्ठ्याय ज्येष्ठवायोत्कर्षाय इमे द्यावापृथिवी द्यावापृथिव्यौ कल्पन्तां स्वोचितमुपकारं संपादयताम् । यद्वा ममेति तवस्थाने व्यत्ययः । द्यावाभूमी तवोत्कर्षाय कल्पन्ताम् । आपश्चौषधयश्च तव ज्येष्ठत्वाय कल्पन्ताम् । समानं व्रतं कर्म येषां ते सव्रताः एकस्मिन् चयनाख्यकर्मण्यवस्थिताः पृथक् नानाभूताः अग्नयः स्वयमातृण्णाद्या इष्टकाः तव ज्यैष्ठ्याय कल्पन्ताम् । ‘अग्नयो हैते पृथग्यदेता इष्टकाः’ इति श्रुतेरग्निशब्देनेष्टका उच्यन्ते । किंच इमे द्यावापृथिवी अन्तरा अनयोर्द्यावापृथिव्योर्मध्ये वर्तमानाः समनसः एकमनस्का ये अग्नयः अन्यैरपि चिताः तेऽपि वासन्तिकावृतू वसन्तमृतुमभिकल्पमानाः संपादयन्तः सन्तः अभिसंविशन्तु एतत्कर्माश्रयन्तु । तत्र दृष्टान्तः। इन्द्रमिव देवाः यथा देवा इन्द्रं परिचरणायाभिसंविशन्ति एवमन्येष्टका वसन्तं परिचरणायाभिसंविशन्तु । सादयति तया देवतया सादिते हे ऋतव्येष्टके, युवामङ्गिरसां कर्मणीव ध्रुवे स्थिरे सत्यौ सीदतमुपविशतम् ॥ २५ ॥
षड्विंशी।
अधिमन्त्रम् (VC)
- ऋतवो देवताः
- इन्द्राग्नी ऋषी
- भुरिगतिजगती, भुरिग्ब्राह्मी बृहती
- निषादः, मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
अब अगले मन्त्र में वसन्त ऋतु का वर्णन किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जैसे (मम) मेरे (ज्यैष्ठ्याय) ज्येष्ठ महीने में हुए व्यवहार वा मेरी श्रेष्ठता के लिये जो (अग्नेः) गरमी के निमित्त अग्नि से उत्पन्न होनेवाले जिन के (अन्तःश्लेषः) भीतर बहुत प्रकार के वायु का सम्बन्ध (असि) होता है, वे (मधु) मधुर सुगन्धयुक्त चैत्र (च) और (माधवः) मधुर आदि गुण का निमित्त वैशाख (च) इन के सम्बन्धी पदार्थयुक्त (वासन्तिकौ) वसन्त महीनों में हुए (ऋतू) सब को सुखप्राप्ति के साधन ऋतु सुख के लिये (कल्पेताम्) समर्थ होवें, जिन चैत्र और वैशाख महीनों के आश्रय से (द्यावापृथिवी) सूर्य और भूमि (आपः) जल भी भोग में (कल्पन्ताम्) आनन्ददायक हों, (पृथक्) भिन्न-भिन्न (ओषधयः) जौ आदि वा सोमलता आदि ओषधि और (अग्नयः) बिजुली आदि अग्नि भी (कल्पन्ताम्) कार्य्यसाधक हों। हे (सव्रताः) निरन्तर वर्त्तमान सत्यभाषणादि व्रतों से युक्त (समनसः) समान विज्ञानवाले (देवाः) विद्वान् (ये) जो लोग (वासन्तिकौ) (ऋतू) वसन्त ऋतु में हुए चैत्र वैशाख और (ये) जो (अन्तरा) बीच में हुए (अग्नयः) अग्नि हैं, उनको (अभिकल्पनाः) सन्मुख होकर कार्य में युक्त करते हुए आप लोग (इन्द्रमिव) जैसे उत्तम ऐश्वर्य्य प्राप्त हों, वैसे (अभिसंविशन्तु) सब ओर से प्रवेश करो, जैसे (इमे) ये (द्यावापृथिवी) प्रकाश और भूमि (तया) उस (देवतया) परमपूज्य परमेश्वर रूप देवता के सामर्थ्य के साथ (अङ्गिरस्वत्) प्राण के समान (ध्रुवे) दृढ़ता से वर्त्तते हैं, वैसे तुम दोनों स्त्री-पुरुष सदा संयुक्त (सीदतम्) स्थिर रहो ॥२५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! तुम को चाहिये कि जिस वसन्त ऋतु में फल-फूल उत्पन्न होता है और जिसमें तीव्र प्रकाश, रूखी पृथिवी, जल मध्यम, ओषधियाँ, फल और फूलों से युक्त और अग्नि की ज्वाला के समान होती हैं, उसको युक्तिपूर्वक सेवन कर पुरुषार्थ से सब सुखों को प्राप्त होओ, जैसे विद्वान् लोग अत्यन्त प्रयत्न के साथ सब ऋतुओं में सुख के लिये सम्पत्ति को बढ़ाते हैं, वैसा तुम भी प्रयत्न करो ॥२५ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ वसन्तर्त्तुवर्णनमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यथा मम ज्यैष्ठ्याय यावग्नेरुत्पद्यमानौ ययोरन्तःश्लेषोऽसि भवति, तौ मधुश्च माधवश्च वासन्तिकौ सुखायर्तू कल्पेताम्, याभ्यां द्यावापृथिवी चापः कल्पन्ताम्, पृथगोषधयः कल्पन्तामग्नयश्च। हे सव्रताः समनसो देवाः ! वासन्तिकावृतू येऽत्रान्तराग्नयश्च सन्ति, तांश्चाभिकल्पमानाः सन्तो भवन्त इन्द्रमिवाभिसंविशन्तु। यथेमे द्यावापृथिवी तया देवतया सहाङ्गिरस्वद् ध्रुवे वर्त्तेते, तया युवां स्त्रीपुरुषौ निश्चलौ सीदतम् ॥२५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यूयं यस्मिन् वसन्तर्तौ श्लेष्मोत्पद्यते, यस्मिन् तीव्रप्रकाशः पृथिवी शुष्का आपो मध्यस्था ओषधयो नूतनपुष्पपत्रान्विता अग्निज्वाला इव भवन्ति, तं युक्त्या सेवित्वा पुरुषार्थेन सर्वाणि सुखान्याप्नुत। यथा विद्वांसः परमप्रयत्नेनान्वृतुसुखायैश्वर्य्यमुन्नयन्ति, तथैव प्रयतध्वम् ॥२५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ज्या वसंत ऋतूमध्ये फुले, फळे उत्पन्न होतात व ज्यामध्ये तीव्र प्रकाश, रुक्ष पृथ्वी, मध्यम जल आणि फळा-फुलांनी बहरलेले वृक्ष असतात, तसेच अग्रिज्वालाही भिन्न भिन्न स्वरूपात आढळतात त्यांचे युक्तिपूर्वक सेवन करून पुरुषार्थाने सर्व सुख प्राप्त करा. ज्याप्रमाणे विद्वान लोक अत्यंत प्रयत्नाने सर्व ऋतूंमध्ये सुख प्राप्त व्हावे यासाठी संपत्ती वाढवितात तसा तुम्हीही प्रयत्न करा.
२६ अषाढासि सहमाना
विश्वास-प्रस्तुतिः ...{Loading}...
अषा॑ढासि॒ सह॑माना॒ सह॒स्वारा॑तीः॒ सह॑स्व पृतनाय॒तः। स॒हस्र॑वीर्य्यासि॒ सा मा॑ जिन्व ॥२६ ॥
मूलम् ...{Loading}...
अषा॑ढासि॒ सह॑माना॒ सह॒स्वारा॑तीः॒ सह॑स्व पृतनाय॒तः। स॒हस्र॑वीर्य्यासि॒ सा मा॑ जिन्व ॥२६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अषा॑ढा। अ॒सि॒। सह॑माना। सह॑स्व। अरा॑तीः। सह॑स्व। पृ॒त॒ना॒य॒त इति॑ पृतनाऽय॒तः। स॒हस्र॑वी॒र्य्येति॑ स॒हस्र॑ऽवीर्य्या। अ॒सि॒। सा। मा॒। जि॒न्व॒। २६।
महीधरः
म० ‘अषाढासीत्यषाढाम्’ (का० १७ । ४ । २५) अषाढासंज्ञकामिष्टकां पत्नीकृतां पद्यां प्राग्लक्षणामृतव्याभ्यां पूर्वांसंलग्नामनूके उपदधाति । सवितृदृष्टेष्टकादेवत्या विराडनुष्टुप् । हे इष्टके, त्वमषाढासि । शत्रून्न सहते इत्यषाढा । तथाच श्रुतिः ‘ते देवा एतामिष्टकामपश्यन्नषाढामिमामेव तामुपादधत तामुपधायासुरान्सपत्नान्भ्रातृव्यानस्मात्सर्वस्मादसहन्त तस्मादषाढेति’ (७ । ४ । २ । ३३)। कीदृशी त्वम् । सहमाना सहत इति सहमाना अभिभवनशीला स्वभावतः । अतोऽरातीः अदानशीलाः प्रजाः सहस्वाभिभव । पृतनां संग्राममिच्छन्ति ते पृतनायन्ति पृतनायन्तीति पृतनायन्तः क्यजन्ताश्छतृप्रत्ययः । तान्पृतनायतः संग्रामेच्छून् शत्रून्सहस्व । किंच त्वं सहस्रवीर्या बहुसामर्थ्या यासि सा मा मां जिन्व प्रीणीहि ॥ २६ ॥
सप्तविंशी।
अधिमन्त्रम् (VC)
- क्षत्रपतिर्देवता
- सविता ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसी हो, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे पत्नी ! जो तू (अषाढा) शत्रु के असहने योग्य (असि) है, तू (सहमाना) पति आदि का सहन करती हुई अपने पति के उपदेश को (सहस्व) सहन कर, जो तू (सहस्रवीर्य्या) असंख्यात प्रकार के पराक्रमों से युक्त (असि) है, (सा) सो तू (पृतनायतः) अपने आप सेना से युद्ध की इच्छा करते हुए (अरातीः) शत्रुओं को (सहस्व) सहन कर और जैसे मैं तुझ को प्रसन्न रखता हूँ, वैसे (मा) मुझ पति को (जिन्व) तृप्त किया कर ॥२६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो बहुत काल तक ब्रह्मचर्य्याश्रम से सेवन की हुई, अत्यन्त बलवान् जितेन्द्रिय वसन्त आदि ऋतुओं के पृथक्-पृथक् काम जानने, पति के अपराध को क्षमा और शत्रुओं का निवारण करनेवाली, उत्तम पराक्रम से युक्त स्त्री अपने स्वामी पति को तृप्त करती है, उसी को पति भी नित्य आनन्दित करे ॥२६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः सा कीदृशी भवेदित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे पत्नि ! या त्वमषाढासि सा त्वं सहमाना सती पतिं मां सहस्व। या त्वं सहस्रवीर्याऽसि सा त्वं पृतनायतोऽरातीः सहस्व, यथाहं त्वां प्रीणामि पतिं तथा मा च जिन्व ॥२६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - या कृतदीर्घब्रह्मचर्य्यबलिष्ठा जितेन्द्रिया वसन्ताद्यृतुकृत्यविलक्षणा पत्यपराधक्षमाकारिणी शत्रुनिवारिकोत्तमपराक्रमा स्त्री नित्यं स्वस्वामिनं प्रीणाति, तां पतिरपि नित्यमानन्दयेत् ॥२६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी पुष्कळ वर्षे ब्रह्मचारिणी राहिलेली, अत्यंत बलवान, जितेंद्रिय, वसंत वगैरे ऋतूतील वेगवेगळी कामे जाणणारी, पतीच्या अपराधांना क्षमा करणारी आणि शत्रूंचे निवारण करणारी, उत्तम पराक्रमाने युक्त स्त्री आपल्या पतीला तृप्त करणारी असते अशा स्त्रीलाच पतीही सदैव आनंदित करतो.
२७ मधु वाताऽ
विश्वास-प्रस्तुतिः ...{Loading}...
मधु॒ वाता॑ऽ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः। माध्वी॑र्नः स॒न्त्वोष॑धीः ॥२७ ॥
मूलम् ...{Loading}...
मधु॒ वाता॑ऽ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः। माध्वी॑र्नः स॒न्त्वोष॑धीः ॥२७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मधु॑। वाताः॑। ऋ॒ता॒य॒ते। ऋ॒त॒य॒त इत्यृ॑तऽय॒ते। मधु॑। क्ष॒र॒न्ति॒। सिन्ध॑वः। माध्वीः॑। नः॒। स॒न्तु॒। ओष॑धीः। २७।
महीधरः
म० ‘कूर्मं दधिमधुघृतैरनक्ति मधु वाता इति’ (का. १७ । ४ । २७)। मिश्रितैर्दधिमधुघृतैर्ऋक्त्रयेण कच्छपमनक्ति गोतमदृष्टा विश्वदेवदेवत्यास्तिस्रो गायत्र्य ऋतं यज्ञमिच्छतीति ऋतयन् तस्मै ऋतयते यजमानाय वाता वायवो मधु मधुमन्तो रसवन्तो वान्त्विति शेषः । ऋतयतीत्यत्र ‘क्यचि च’ (पा० ७ । ४ । ३३ ) इति प्राप्तस्येत्वस्य ‘न छन्दस्यपुत्रस्य’ (पा० ७ । ४ । ३५) इत्यभावः । ‘अश्वाघस्यात्’ (पा० ७ । ४ । ३७) इत्यश्वाघयोरेव क्यच्यात्वविधानात् ‘अकृत्सार्वधातुकयोः’ (पा० ७। ४ । २५) इत्यात्वमपि न । संहितायां तु छान्दसो दीर्घः । मधु मधुमानित्यग्रे [२८] मतुप्प्रत्ययदर्शनात्सर्वत्र मधुशब्दाग्रे मतुब्ज्ञेयः । सिन्धवः स्यन्दमाना नद्यः समुद्रा वा मधु मधुमत् रसवत् उदकं क्षरन्ति स्रवन्त्वित्यर्थः । ‘तिङां तिङः’ (पा० ७ । १ । ३९ ) इति लोटो लडादेशः । ओषधीः ओषधयः नोऽस्माकं माध्वीः मधुररसोपेताः सन्तु ॥ २७ ॥
अष्टाविंशी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- गोतम ऋषिः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
आगे के मन्त्र में वसन्त ऋतु के अन्य गुणों का वर्णन किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे वसन्त ऋतु में (नः) हम लोगों के लिये (वातः) वायु (मधु) मधुरता के साथ (ऋतायते) जल के समान चलते हैं, (सिन्धवः) नदियाँ वा समुद्र (मधु) कोमलतापूर्वक (क्षरन्ति) वर्षते हैं और (ओषधीः) ओषधियाँ (माध्वीः) मधुर रस के गुणों से युक्त (सन्तु) होवें, वैसा प्रयत्न हम किया करें ॥२७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जब वसन्त ऋतु आता है, तब पुष्प आदि के सुगन्धों से युक्त वायु आदि पदार्थ होते हैं, उस ऋतु में घूमना-डोलना पथ्य होता है, ऐसा निश्चित जानना चाहिये ॥२७ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ वसन्तर्तोर्गुणान्तरानाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा वाता वसन्ते नो मधु ऋतायते सिन्धवो मधु क्षरन्ति ओषधीर्नो माध्वीः सन्तु, तथा वयमनुतिष्ठेम ॥२७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यदा वसन्त आगच्छति, तदा पुष्पादिसुगन्धयुक्ता वाय्वादयः पदार्था भवन्ति, तस्मिन् भ्रमणं पथ्यं वर्त्तत इति वेद्यम् ॥२७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जेव्हा वसंत ऋतू येतो तेव्हा वायू फुलांच्या सुगंधानी युक्त होतो तेव्हा त्या ऋतूमध्ये हिंडणे-फिरणे आरोग्य वर्धक असते हे निश्चित जाणा.
२८ मधु नक्तमुतोषसो
विश्वास-प्रस्तुतिः ...{Loading}...
मधु॒ नक्त॑मु॒तोषसो॒ मधु॑म॒त् पार्थि॑वँ॒ रजः॑। मधु॒ द्यौर॑स्तु नः पि॒ता ॥२८ ॥
मूलम् ...{Loading}...
मधु॒ नक्त॑मु॒तोषसो॒ मधु॑म॒त् पार्थि॑वँ॒ रजः॑। मधु॒ द्यौर॑स्तु नः पि॒ता ॥२८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मधु॑। नक्त॑म्। उ॒त। उ॒षसः॑। मधु॑म॒दिति॒ मधु॑ऽमत्। पार्थि॑वम्। रजः॑। मधु॑। द्यौः॑। अ॒स्तु॒। नः॒। पि॒ता। २८।
महीधरः
म० नक्तं रात्रिर्नोऽस्माकं मधु मधुमत् मधुररसोपेतमानन्दकरमस्तु । उतापि च उषसो दिवसा अपि मधुमन्तः सन्तु । पार्थिवं रजः पृथिवीलोको मातृभूतो मधुमन्मधुररसोपेतमस्तु । पिता पितृभूतो द्यौः द्युलोको मधु मधुमान्मधुररसोपेतोऽस्तु ॥ २८॥
एकोनत्रिंशी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- गोतम ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे वसन्त ऋतु में (नक्तम्) रात्रि (मधु) कोमलता से युक्त (उत) और (उषसः) प्रातःकाल से लेकर दिन मधुर (पार्थिवम्) पृथिवी का (रजः) द्व्यणुक वा त्रसरेणु आदि (मधुमत्) मधुर गुणों से युक्त और (द्यौः) प्रकाश भी (मधु) मधुरतायुक्त (पिता) रक्षा करनेहारा (नः) हमारे लिये (अस्तु) होवे, वैसे युक्ति से उस वसन्त ऋतु का सेवन तुम भी किया करो ॥२८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जब वसन्त ऋतु आता है, तब पक्षी भी कोमल मधुर-मधुर शब्द बोलते और अन्य सब प्राणी आनन्दित होते हैं ॥२८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स एव विषय उपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा वसन्ते नक्तं मधूताप्युषसो मधु पार्थिवं रजो मधुमद् द्यौर्मधु पिता नोऽस्तु, तथा यूयमप्येतं युक्त्या सेवध्वम् ॥२८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। प्राप्ते वसन्ते पक्षिणोऽपि मधुरं स्वनन्ति, हर्षिताः प्राणिनश्च जायन्ते ॥२८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जेव्हा वसंत ऋतू येतो तेव्हा पक्षीही कोमल व मधुर ध्वनी काढून गाऊ लागतात व इतर प्राणीही आनंदित होतात.
२९ मधुमान्नो वनस्पतिर्मधुमाँ२ऽ
विश्वास-प्रस्तुतिः ...{Loading}...
मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माँ२ऽ अस्तु॒ सूर्य्यः॑। माध्वी॒र्गावो॑ भवन्तु नः ॥२९ ॥
मूलम् ...{Loading}...
मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माँ२ऽ अस्तु॒ सूर्य्यः॑। माध्वी॒र्गावो॑ भवन्तु नः ॥२९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मधु॑मा॒निति॒ मधु॑ऽमान्। नः॒। वन॒स्पतिः॑। मधु॑मा॒निति॒ मधु॑ऽमान्। अ॒स्तु॒। सूर्य्यः॑। माध्वीः॑। गावः॑। भ॒व॒न्तु॒। नः॒। २९।
महीधरः
म०. वनस्पतिरश्वत्थादिर्नोऽस्माकं मधुमान्रसवान्यज्ञसाधनभूतोऽस्तु । सूर्यो मधुमान् संतापराहित्यलक्षणमाधुर्यरसोपेतोऽस्तु । गावः यज्ञसाधनभूता रश्मयः नोऽस्माकं माध्वीः मधुमत्यो रसवत्यो भवन्तु । ‘रसो वै मधु’ (७ । ५। १ । ४) इति श्रुतेः । वातादीनि रसवन्त्यस्माकं भोग्यानि भवन्तीति सर्वोऽर्थः ॥ २९॥
त्रिंशी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- गोतम ऋषिः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब वसन्त ऋतु में मनुष्यों को कैसा आचरण करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् लोगो ! जैसे वसन्त ऋतु में (नः) हमारे लिये (वनस्पतिः) पीपल आदि वनस्पति (मधुमान्) प्रशंसित कोमल गुणोंवाले और (सूर्य्यः) सूर्य्य भी (मधुमान्) प्रशंसित कोमलतायुक्त (अस्तु) होवे और (नः) हमारे लिये (गावः) गौओं के समान (माध्वीः) कोमल गुणोंवाली किरणें (भवन्तु) हों, वैसा ही उपदेश करो ॥२९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! तुम लोग वसन्त ऋतु को प्राप्त होकर जिस प्रकार के पदार्थों के होम से वनस्पति आदि कोमल गुणयुक्त हों, ऐसे यज्ञ का अनुष्ठान करो और इस प्रकार वसन्त ऋतु के सुख को सब जने तुम लोग प्राप्त होओ ॥२९ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ वसन्ते जनैः किमाचरणीयमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वांसः ! यया वसन्ते नो वनस्पतिर्मधुमान् सूर्य्यश्च मधुमानस्तु। नो गावो माध्वीर्भवन्तु तथोपदिशत ॥२९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यूयं वसन्तमृतुं प्राप्य यादृग् द्रव्यहोमेन वनस्पत्यादयो मधुरादिगुणाः स्युः, तादृशं यज्ञमाचरतेत्थं वासन्तिकं सुखं सर्वे यूयं प्राप्नुत ॥२९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! तुम्ही वसंत ऋतूमध्ये अशा पदार्थांचा होम करा की, ज्यामुळे वनस्पती इत्यादी सौम्य व कोमल गुणांनी युक्त होतील, अशा प्रकारच्या यज्ञाचे अनुष्ठान करा. या प्रकारे वसंत ऋतूचे सुख तुम्ही प्राप्त करा.
३० अपां गम्भन्त्सीद
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒पां गम्भ॑न्त्सीद॒ मा त्वा॒ सूर्य्यो॒ऽभिता॑प्सी॒न्माग्निर्वै॑श्वान॒रः। अच्छि॑न्नपत्राः प्र॒जाऽ अ॑नु॒वीक्ष॒स्वानु॑ त्वा दि॒व्या वृष्टिः॑ सचताम् ॥३० ॥
मूलम् ...{Loading}...
अ॒पां गम्भ॑न्त्सीद॒ मा त्वा॒ सूर्य्यो॒ऽभिता॑प्सी॒न्माग्निर्वै॑श्वान॒रः। अच्छि॑न्नपत्राः प्र॒जाऽ अ॑नु॒वीक्ष॒स्वानु॑ त्वा दि॒व्या वृष्टिः॑ सचताम् ॥३० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒पाम्। गम्भ॑न्। सी॒द॒। मा। त्वा॒। सूर्य्यः॑। अ॒भि। ता॒प्सी॒त्। मा। अ॒ग्निः। वै॒श्वा॒न॒रः। अच्छि॑न्नपत्रा॒ इत्यच्छि॑न्नऽपत्राः। प्र॒जा इति॑ प्र॒ऽजाः। अ॒नु॒वीक्ष॒स्वेत्य॑नु॒ऽवीक्ष॑स्व। अनु॑। त्वा॒। दि॒व्या। वृष्टिः॑। स॒च॒ता॒म्। ३०।
महीधरः
म० ‘अरत्निमात्रेऽषाढां दक्षिणेगायकासूपरिष्टाच्च पुरुषमभिमुखमपां गम्भन्निति तिसृभिः’ । (का० १७ । ४ । २८ । ५) अषाढादक्षिणदेशे हस्तमात्रे पद्यालोकद्वयमन्तराले मुक्त्वा तृतीये पद्यालोके पूर्वमेव स्थापितास्ववकासु शेवालेषु पुरुषसंमुखऋक्त्रयेण कूर्ममुपदधातीति सूत्रार्थः । स्वराट्पङ्क्तिः दशाक्षरचतुष्पादा कूर्मदेवत्या तृतीयो द्वादशाक्षरः । कूर्मः प्रजापतिरादित्यो वा । तृतीया द्यावापृथ्वीया । हे कूर्म, अपां जलानां गम्भन् गम्भनि गम्भीरे स्थाने रविमण्डले त्वं सीद उपविश । ‘एतद्धापां गम्भिष्ठं यत्रैष एतत्तपति’ (७ । ५। १।८) इति श्रुतेः । तत्रोपविष्टं त्वा त्वां सूर्यो माभिताप्सीत् अभितो मा संतापयतु । वैश्वानरः सर्वत्रहितोऽग्निश्च मा संतापयतु । त्वं चात्र स्थितः सन् प्रजा इष्टकारूपा अनुवीक्षस्व निरन्तरं पश्य । कीदृशीः प्रजाः । अच्छिन्नपत्राः अच्छिन्नान्यनवखण्डितानि पत्राणि अवयवा यासां ताः । अखण्डिता इष्टकाः कुर्वित्यर्थः । ‘इमा वै सर्वाः प्रजा या इमा इष्टकास्था अरिष्टा अनार्ता अनुवीक्षस्व’ (७।५।१।८) इति श्रुतेः । किंच दिव्या दिवि भवा वृष्टिः त्वा त्वामनु सचतां सेवतामुदकेन नित्यं सिक्तो भवेत्यर्थः ॥ ३० ॥
एकत्रिंशी।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- गोतम ऋषिः
- आर्षी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य ! तू वसन्त ऋतु में (अपाम्) जलों के (गम्भन्) आधारकर्त्ता मेघ में (सीद) स्थिर हो, जिससे (सूर्य्यः) सूर्य्य (त्वा) तुझ को (मा) न (अभिताप्सीत्) तपावे (वैश्वानरः) सब मनुष्यों में प्रकाशमान (अग्निः) अग्नि बिजुली (त्वा) तुझ को (मा) न (अभिताप्सीत्) तप्त करे (अच्छिन्नपत्राः) सुन्दर पूर्ण अवयवोंवाली (प्रजाः) प्रजा (अनु त्वा) तेरे अनुकूल और (दिव्या) शुद्ध गुणों से युक्त (वृष्टिः) वर्षा (सचताम्) प्राप्त होवे, वैसे (अनुवीक्षस्व) अनुकूलता से विशेष करके विचार कर ॥३० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्य वसन्त और ग्रीष्म ऋतु के जलाशयस्थ शीतल स्थान का सेवन करें, जिससे गर्मी से दुःखित न हों और जिस यज्ञ से वर्षा भी ठीक-ठीक हो और प्रजा आनन्दित हो, उसका सेवन करो ॥३० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य ! त्वं वसन्तेऽपां गम्भन्निव सीद यतः सूर्य्यस्त्वा माऽभिताप्सीत्। वैश्वानरोऽग्निस्त्वा माभिताप्सीदच्छिन्नपत्राः प्रजा अनु त्वा दिव्या वृष्टिः सचताम्, तथा त्वमनुवीक्षस्व ॥३० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - वसन्तग्रीष्मयोर्मध्ये मनुष्या जलाशयस्थं शीतलं स्थानं संसेवन्ताम्, येन तापाऽभितप्ता न स्युः, येन यज्ञेन पुष्कला वृष्टिः स्यात् प्रजानन्दश्च तं सेवध्वम् ॥३० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी वसंत व ग्रीष्म ऋतूंमध्ये जलाशयाजवळच्या थंड ठिकाणी जावे. त्यामुळे उष्णतेचा त्रास होणार नाही. ज्या यज्ञाने वृष्टी यथायोग्य होईल व प्रजा आनंदित होईल अशा गोष्टींचा स्वीकार करावा.
३१ त्रीन्त्समुद्रान्त्समसृपत् स्वर्गानपाम्
विश्वास-प्रस्तुतिः ...{Loading}...
त्रीन्त्स॑मु॒द्रान्त्सम॑सृपत् स्व॒र्गान॒पां पति॑र्वृष॒भऽ इष्ट॑कानाम्। पुरी॑षं॒ वसा॑नः सुकृ॒तस्य॑ लो॒के तत्र॑ गच्छ॒ यत्र॒ पूर्वे॒ परे॑ताः ॥३१ ॥
मूलम् ...{Loading}...
त्रीन्त्स॑मु॒द्रान्त्सम॑सृपत् स्व॒र्गान॒पां पति॑र्वृष॒भऽ इष्ट॑कानाम्। पुरी॑षं॒ वसा॑नः सुकृ॒तस्य॑ लो॒के तत्र॑ गच्छ॒ यत्र॒ पूर्वे॒ परे॑ताः ॥३१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
त्रीन्। स॒मु॒द्रान्। सम्। अ॒सृ॒प॒त्। स्व॒र्गानिति॑ स्वः॒ऽगान्। अ॒पाम्। पतिः॑। वृ॒ष॒भः। इष्ट॑कानाम्। पुरी॑षम्। वसा॑नः। सु॒कृ॒तस्येति॑ सुऽकृ॒तस्य॑। लो॒के। तत्र॑। ग॒च्छ॒। यत्र॑। पूर्वे॒। परे॑ता॒ इति परा॑ऽइताः। ३१।
महीधरः
म० ‘घट्टयति मध्यमयेति’ (का० १७ । ५। २) तिसृणां मध्यमया त्रीन् समुद्रानिति ऋचा हस्तस्थमेव कूर्मं कम्पयतीति सूत्रार्थः । कूर्मदेवत्या त्रिष्टुप् । हे कूर्म, यो भवान् त्रीन्समुद्रान् लोकान्समसृपत्सम्यक्प्राप्तो भवति । ‘सृप्लृ गतौ’ ‘पुषादि-’ (पा० ३ । १ । ५९) इत्यादिना च्लेरङ् । समुद्द्रवन्ति स्वकारणात्समुद्भवन्तीति समुद्रा लोकास्तान् । कीदृशान् । स्वर्गान् भोगसाधनभूतान् । कीदृशो भवान् । अपां पतिः जलेशः इष्टकानां वृषभः वर्षिता । किंच यत्र यस्मिन्स्थाने पूर्वे पुरातनाः कूर्माः अन्येष्वग्निषूपहिताः परेताः परागताः सुकृतस्य शोभनकृतस्याग्नेस्तत्र तस्मिन् लोके स्थाने त्वं गच्छ । किं कुर्वन् । पुरीषं हुतान्पशून् वसानः आच्छादयन् ॥ ३१ ॥
द्वात्रिंशी।
अधिमन्त्रम् (VC)
- वरुणो देवता
- गोतम ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब मनुष्यों को उस वसन्त में सुखप्राप्ति के लिये क्या करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् पुरुष ! जैसे (अपाम्) प्राणों का (पतिः) रक्षक (वृषभः) वर्षा का हेतु (पुरीषम्) पूर्ण सुखकारक जल को (वसानः) धारणा करता हुआ सूर्य्य (इष्टकानाम्) कामनाओं की प्राप्ति के हेतु पदार्थों के आधाररूप (त्रीन्) ऊपर, नीचे और मध्य में रहनेवाले तीन प्रकार के (समुद्रान्) सब पदार्थों के स्थान भूत, भविष्यत् और वर्त्तमान (स्वर्गान्) सुख प्राप्त करानेहारे लोकों को (समसृपत्) प्राप्त होता है, वैसे आप भी प्राप्त हूजिये। (यत्र) जिस धर्मयुक्त वसन्त के मार्ग में (सुकृतस्य) सुन्दर धर्म करनेहारे पुरुष के (लोके) देखने योग्य स्थान वा मार्ग में (पूर्वे) प्राचीन लोग (परेताः) सुख को प्राप्त हुए (तत्र) उसी वसन्त के सेवनरूप मार्ग में आप भी (गच्छ) चलिये ॥३१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को चाहिये कि धर्मात्माओं के मार्ग से चलते हुए शारीरिक, वाचिक और मानसिक तीनों प्रकार के सुखों को प्राप्त होवें और जिसमें कामना पूरी हो, वैसा प्रयत्न करें। जैसे वसन्त आदि ऋतु अपने क्रम से वर्त्तते हुए अपने-अपने चिह्न प्राप्त करते हैं, वैसे ऋतुओं के अनुकूल व्यवहार कर के आनन्द को प्राप्त होवें ॥३१ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ जनैस्तत्र सुखप्राप्तये किमाचरणीयमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वंस्त्वं ! यथाऽपांपतिर्वृषभः पुरीषं वसानः सन्निष्टकानां त्रीन् समुद्रांल्लोकान् स्वर्गान् समसृपत्। संसर्पति तथा सर्प। यत्र सुकृतस्य लोके मार्गे पूर्वे परेतास्तत्र त्वमपि गच्छ ॥३१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोमालङ्कारः। मनुष्यैर्धार्मिकाणां मार्गेण गच्छद्भिः शारीरिकवाचिकमानसानि त्रिविधानि सुखानि प्राप्तव्यानि। यत्र कामा अलं स्युस्तत्र प्रयतितव्यम्। यथा वसन्तादय ऋतवः क्रमेण वर्त्तित्वा स्वानि स्वानि लिङ्गान्यभिपद्यन्ते, तथर्त्वनुकूलान् व्यवहारान् कृत्वाऽऽनन्दयितव्यम् ॥३१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. सर्व माणसांनी धर्मात्म्याच्या मार्गाने चालून शारीरिक, वाचिक व मानसिक तिन्ही प्रकारचे सुख प्राप्त करावे. ज्यामुळे कामना पूर्ण होतील असे प्रयत्न करावेत. ज्याप्रमाणे वसंत वगैरे ऋतू अनुक्रमे आपली चिन्हे दर्शवितात त्याप्रमाणे माणसांनी ऋतूंचा अनुकूल व्यवहार करून आनंद प्राप्त करावा.
३२ मही द्यौः
विश्वास-प्रस्तुतिः ...{Loading}...
म॒ही द्यौः पृ॑थि॒वी च॑ नऽ इ॒मं य॒ज्ञं मि॑मिक्षताम्। पि॒पृ॒तां नो॒ भरी॑मभिः ॥३२ ॥
मूलम् ...{Loading}...
म॒ही द्यौः पृ॑थि॒वी च॑ नऽ इ॒मं य॒ज्ञं मि॑मिक्षताम्। पि॒पृ॒तां नो॒ भरी॑मभिः ॥३२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
म॒ही। द्यौः। पृ॒थि॒वी। च॒। नः॒। इ॒मम्। य॒ज्ञम्। मि॒मि॒क्ष॒ता॒म्। पि॒पृ॒ताम्। नः॒। भरी॑मभि॒रिति॒ भरी॑मऽभिः। ३२।
महीधरः
म० महीति व्याख्याता ( ८ । ३२) ॥ ३२ ॥
त्रयस्त्रिंशी।
अधिमन्त्रम् (VC)
- द्यावापृथिव्यौ देवते
- गोतम ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
माता पिता अपने सन्तानों को कैसी शिक्षा करें, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे माता-पिता ! जैसे (मही) बड़ा (द्यौः) सूर्य्यलोक (च) और (पृथिवी) भूमि सब संसार को सींचते और पालन करते हैं, वैसे तुम दोनों (नः) हमारे (इमम्) इस (यज्ञम्) सेवने योग्य विद्याग्रहणरूप व्यवहार को (मिमिक्षताम्) सेचन अर्थात् पूर्ण होने की इच्छा करो और (भरीमभिः) धारण-पोषण आदि कर्मों से (नः) हमारा (पिपृताम्) पालन करो ॥३२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे वसन्त ऋतु में पृथिवी और सूर्य्य सब संसार का धारण, प्रकाश और पालन करते हैं, वैसे माता-पिता को चाहिये कि अपने सन्तानों के लिये वसन्तादि ऋतुओं में अन्न, विद्यादान और अच्छी शिक्षा करके पूर्ण विद्वान् पुरुषार्थी करें ॥३२ ॥
दयानन्द-सरस्वती (सं) - विषयः
मातापितृभ्यां स्वसन्तानाः कथं शिक्ष्या इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मातापितरौ ! यथा मही द्यौः पृथिवी च सर्वं सिञ्चतः पालयतस्तथा युवां न इमं यज्ञं मिमिक्षतां भरीमभिर्नः पिपृताम् ॥३२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा वसन्तर्त्तौ भूमिसूर्यौ सर्वेषां धारणं प्रकाशं पालनञ्च कुरुतस्तथा मातापितरः स्वसन्तानेभ्यो वसन्तादिष्वृतुष्वन्नं विद्यादानं सुशिक्षां च कृत्वा पूर्णान् विदुषः पुरुषार्थिनः संपादयेयुः ॥३२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. ज्याप्रमाणे वसंत ऋतूमध्ये पृथ्वी जगाला धारण करते व सूर्य आपल्या प्रकाशाने पालन करतो त्याप्रमाणे माता व पिता यांनी आपल्या संतानांना वसंत इत्यादी ऋतूंमध्ये अन्न, विद्यादान व चांगले शिक्षण देऊन पूर्ण विद्वान व पुरुषार्थी बनवावे.
३३ विष्णोः कर्माणि
विश्वास-प्रस्तुतिः ...{Loading}...
विष्णोः॒ कर्मा॑णि पश्यत॒ यतो॑ व्र॒तानि॑ पस्प॒शे। इन्द्र॑स्य॒ युज्यः॒ सखा॑ ॥३३ ॥
मूलम् ...{Loading}...
विष्णोः॒ कर्मा॑णि पश्यत॒ यतो॑ व्र॒तानि॑ पस्प॒शे। इन्द्र॑स्य॒ युज्यः॒ सखा॑ ॥३३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
विष्णोः॑। कर्मा॑णि। प॒श्य॒त॒। यतः॑। व्र॒तानि॑। प॒स्प॒शे। इन्द्र॑स्य। युज्यः॑। सखा॑। ३३।
महीधरः
म० ‘उलूखलमुसले स्वयमातृण्णामुत्तरेणारत्निमात्रे औदुम्बरं प्रादेशमात्रे चतुरस्रमुलूखलं मध्यसंगृहीतमूर्ध्वं वृत्तं दक्षिणमुलूखलाद्विष्णोः कर्माणीति’ (का. १७ । ५।३) चतुष्कोणं संकुचितं खातहीनमुदुम्बरतरुजमूर्ध्वमुलूखलम् वृत्तं मुसलम् ते उभे स्वयमातृण्णोत्तरे देशे तन्मध्याद्धस्तमात्रे तृतीये लोके विष्णोरिति मन्त्रेण सहैवोपदधातीति सूत्रार्थः । व्याख्याता (६।४) ॥ ३३ ॥
चतुस्त्रिंशी।
अधिमन्त्रम् (VC)
- विष्णुर्देवता
- गोतम ऋषिः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
विद्वानों के तुल्य अन्य मनुष्यों को आचरण करना चाहिये, इसी विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (इन्द्रस्य) परमैश्वर्य्य की इच्छा करनेहारे जीव का (युज्यः) उपासना करने योग्य (सखा) मित्र के समान वर्त्तमान है, (यतः) जिसके प्रताप से यह जीव (विष्णोः) व्यापक ईश्वर के (कर्माणि) जगत् की रचना, पालन, प्रलय करने और न्याय आदि कर्मों और (व्रतानि) सत्यभाषणादि नियमों को (पस्पशे) स्पर्श करता है, इसलिये इस परमात्मा के इन कर्मों और व्रतों को तुम लोग भी (पश्यत) देखो, धारण करो ॥३३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे परमेश्वर का मित्र, उपासक, धर्मात्मा, विद्वान् पुरुष परमात्मा के गुण, कर्म और स्वभावों के अनुसार सृष्टि के क्रमों के अनुकूल आचरण करे और जाने, वैसे ही अन्य मनुष्य करें और जानें ॥३३ ॥
दयानन्द-सरस्वती (सं) - विषयः
विद्वद्वदितरैर्जनैराचरणीयमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! य इन्द्रस्य जीवस्य युज्यः सखास्ति, यतोऽयं विष्णोः कर्माणि व्रतानि च पस्पशे, तस्मादेतस्यैतानि यूयमपि पश्यत ॥३३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यथा परमेश्वरस्य सुहृदुपासको धार्मिको विद्वानस्य गुणकर्मस्वभावक्रमानुसाराणि सृष्टिक्रमाणि कुर्याज्जानीयात्, तथैवेतरे मनुष्याः कुर्युर्जानीयुश्च ॥३३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्यप्रमाणे परमेश्वराला मित्र मानणारा, धर्मात्मा उपासक विद्वान पुरुष परमेश्वराचा गुण, कर्म, स्वभाव व सृष्टिक्रम जाणून त्याप्रमाणे आचरण करतो तसे इतर माणसांनीही वागावे.
३४ ध्रुवासि धरुणेतो
विश्वास-प्रस्तुतिः ...{Loading}...
ध्रु॒वासि॑ ध॒रुणे॒तो ज॑ज्ञे प्र॒थ॒ममे॒भ्यो योनि॑भ्यो॒ऽअधि॑ जा॒तवे॑दाः। स गा॑य॒त्र्या त्रि॒ष्टुभा॑ऽनु॒ष्टुभा॑ च दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन् ॥३४ ॥
मूलम् ...{Loading}...
ध्रु॒वासि॑ ध॒रुणे॒तो ज॑ज्ञे प्र॒थ॒ममे॒भ्यो योनि॑भ्यो॒ऽअधि॑ जा॒तवे॑दाः। स गा॑य॒त्र्या त्रि॒ष्टुभा॑ऽनु॒ष्टुभा॑ च दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन् ॥३४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ध्रु॒वा। अ॒सि॒। ध॒रुणा॑। इ॒तः। ज॒ज्ञे॒। प्र॒थ॒मम्। ए॒भ्यः। योनि॑भ्य॒ इति॒ योनि॑ऽभ्यः। अधि॑। जा॒तवे॑दा॒ इति॑ जा॒तवे॑दाः। सः। गा॒य॒त्र्या। त्रि॒ष्टुभा॑। त्रि॒स्तुभेति॑ त्रि॒ऽस्तुभा॑। अ॒नु॒ष्टुभा॑। अ॒नु॒स्तुभेत्य॑नु॒ऽस्तुभा॑। च॒। दे॒वेभ्यः॑। ह॒व्यम्। व॒ह॒तु॒। प्र॒जा॒नन्निति॑ प्रऽजा॒नन्। ३४।
महीधरः
म० ‘उलूखल उखां कृत्वोपशयां पिष्ट्वा न्युप्य पुरस्ताद् धुवासीत्युखाम्’ (का० १७ । ५ । ४)। पूर्वमुलूखलोपर्युखां तूष्णीं कृत्वा तत उपशयां मृदं पिष्ट्वोखापुरस्ताद्भूमौ प्रक्षिप्य तत्रोखां मन्त्रद्वयेनोपदध्यादिति सूत्रार्थः । उखादेवत्या त्रिष्टुप् । हे उखे, धरुणा जगतो धारयित्री त्वं ध्रुवा स्थिरासि । अथाग्निजनकत्वेनोखा स्तूयते । योऽग्निरितोऽस्या उखायाः सकाशात् प्रथममादौ जातवेदाः जातप्रज्ञानोऽग्निरधिजज्ञे तत एभ्यो योनिभ्यः स्वकारणेभ्योऽरण्यादिभ्योऽधिजज्ञे जायते । सोऽग्निः प्रजानन् स्वाधिकारं प्रकर्षेण जानानः सन् गायत्र्या त्रिष्टुभानुष्टुभेति छन्दत्रयेण देवेभ्यो देवार्थं हव्यमस्मद्धविर्वहतु ॥ ३४ ॥
पञ्चत्रिंशी।
अधिमन्त्रम् (VC)
- जातवेदाः देवताः
- गोतम ऋषिः
- भुरिक् त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
विद्वान् पुरुषों के समान विदुषी स्त्रियाँ भी उपदेश करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! जैसे तू (धरुणा) शुभगुणों का धारण करनेहारी (ध्रुवा) स्थिर (असि) है, जैसे (एभ्यः) इन (योनिभ्यः) कारणों से (सः) वह (जातवेदाः) प्रसिद्ध पदार्थों में विद्यमान वायु (प्रथमम्) पहिले (अधिजज्ञे) अधिकता से प्रकट होता है, वैसे (इतः) इस कर्म के अनुष्ठान से सर्वोपरि प्रसिद्ध हूजिये। जैसे तेरा पति (गायत्र्या) गायत्री (त्रिष्टुभा) त्रिष्टुप् (च) और (अनुष्टुभा) अनुष्टुप् मन्त्र से सिद्ध हुई विद्या से (प्रजानन्) बुद्धिमान् होकर (देवेभ्यः) अच्छे गुणों वा विद्वानों से (हव्यम्) देने-लेने योग्य विज्ञान (वहतु) प्राप्त होवे, वैसे इस विद्या से बुद्धिमती हो के आप स्त्री लोगों से ब्रह्मचारिणी कन्या विज्ञान को प्राप्त होवें ॥३४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्य जगत् में ईश्वर की सृष्टि के कामों के निमित्तों को जान विद्वान् होकर जैसे पुरुषों को शास्त्रों का उपदेश करते हैं, वैसे ही स्त्रियों को भी चाहिये कि इन सृष्टिक्रम के निमित्तों को जान के स्त्रियों को वेदार्थसारोपदेशों को करें ॥३४ ॥
दयानन्द-सरस्वती (सं) - विषयः
विद्वद्वत् स्त्रीभिरप्युपदेष्टव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! यथा त्वं धरुणा ध्रुवासि, यथैभ्यो योनिभ्यः स जातवेदाः प्रथममधिजज्ञे तथेतोऽधिजायस्व। यथा स तव पतिर्गायत्र्या त्रिष्टुभानुष्टुभा च प्रजानन् देवेभ्यो हव्यं वहतु, तथैतया प्रजानन्ती ब्रह्मचारिणी कन्या भवन्तीभ्यः स्त्रीभ्यो विज्ञानं प्राप्नोतु ॥३४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्या जगदीश्वरसृष्टिक्रमनिमित्तानि विदित्वा विद्वांसो भूत्वा यथा पुरुषेभ्यः शास्त्रोपदेशान् कुर्वन्ति, तथैव स्त्रियोऽप्येतानि विदित्वा स्त्रीभ्यो वेदार्थनिष्कर्षोपदेशान् कुर्वन्तु ॥३४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी या जगात ईश्वराच्या सृष्टिकार्याचे निमित्त जाणावे व विद्वान व्हावे. पुरुषांना जसा शास्त्रांचा उपदेश केला जातो तसा स्त्रियांनाही करावा. या सृष्टिक्रमाचे निमित्त जाणून स्त्रियांना वेदाचा अर्थ समजावून सांगावा.
३५ इषे राये
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒षे रा॒ये र॑मस्व॒ सह॑से द्यु॒म्नऽ ऊ॒र्जेऽ अप॑त्याय। स॒म्राड॑सि स्व॒राड॑सि सारस्व॒तौ त्वोत्सौ॒ प्राव॑ताम् ॥३५ ॥
मूलम् ...{Loading}...
इ॒षे रा॒ये र॑मस्व॒ सह॑से द्यु॒म्नऽ ऊ॒र्जेऽ अप॑त्याय। स॒म्राड॑सि स्व॒राड॑सि सारस्व॒तौ त्वोत्सौ॒ प्राव॑ताम् ॥३५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इ॒षे। रा॒ये। र॒म॒स्व॒। सह॑से। द्यु॒म्ने। ऊ॒र्जे। अप॑त्याय। स॒म्राडिति॑ स॒म्ऽराट्। अ॒सि॒। स्व॒राडिति॑ स्व॒ऽराट्। अ॒सि॒। सा॒र॒स्व॒तौ। त्वा॒। उत्सौ॑। प्र। अ॒व॒ता॒म्। ३५।
महीधरः
म० उखादेवत्या बृहती । हे उखे, त्वं रमस्व अत्र क्रीडां कुरु । किमर्थम् । इषे अन्नार्थं राये धनार्थं सहसे बलाय द्युम्ने द्युम्नाय यशोऽर्थम् । ‘द्युम्नं द्योततेर्यशो वान्नं वा’ (निरु० ५। ५) इति यास्कः । ऊर्जे उपसेचनाय पयोदधिघृतादिकाय अपत्याय पुत्रपौत्रादिकाय । रमस्वेति सर्वत्र संबन्धः । किंच सम्यग्राजत इति सम्राडसि । स्वेनैव राजत इति स्वराडसि । एवंभूतां सारस्वतौ सरस्वतीसंबन्धिनौ उत्सौ उत्स्यन्दनौ कूपौ प्रवाहौ वा त्वा त्वां प्रावतां प्रकर्षेण पालयताम् । तौ चौत्सौ मनोवाचौ । सामज्ञानाय कूप इवोत्स्यन्दतीति मनः कूपः तत्प्रतिपादनं कुर्वन्ती वागपि कूपः । ‘मनो वै सरस्वान्वाक् सरस्वत्येतौ सारस्वतावुत्सौ’ (७ । ५। १ । ३१) इति श्रुतेः । यद्वा सारस्वतौ उत्सौ ऋग्वेदसामवेदौ त्वां रक्षताम् । तथाच तित्तिरिश्रुतिः ‘ऋक्साम वै सारस्वतावुत्सौ’ इति ॥३५॥
षट्त्रिंशी।
अधिमन्त्रम् (VC)
- जातवेदाः देवताः
- गोतम ऋषिः
- निचृद्बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
अब स्त्री-पुरुष विवाह करके कैसे वर्त्तें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे पुरुष ! जो तू (सम्राट्) विद्यादि शुभगुणों से स्वयं प्रकाशमान (असि) है, हे स्त्रि ! जो तू (स्वराट्) अपने आप विज्ञान सत्याचार से शोभायमान (असि) है, सो तुम दोनों (इषे) विज्ञान (राये) धन (सहसे) बल (द्युम्ने) यश और अन्न (ऊर्जे) पराक्रम और (अपत्याय) सन्तानों की प्राप्ति के लिये (रमस्व) यत्न करो तथा (उत्सौ) कूपोदक के समान कोमलता को प्राप्त होकर (सारस्वतौ) वेदवाणी के उपदेश में कुशल होके तुम दोनों स्त्री-पुरुष इन स्वशरीर और अन्नादि पदार्थों की (प्रावताम्) रक्षा आदि करो, यह (त्वा) तुम को उपदेश देता हूँ ॥३५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विवाह करके स्त्री-पुरुष दोनों आपस में प्रीति के साथ विद्वान् होकर पुरुषार्थ से धनवान् श्रेष्ठ गुणों से युक्त होके एक-दूसरे की रक्षा करते हुए धर्म्मानुकूलता से वर्त्त के सन्तानों को उत्पन्न कर इस संसार में नित्य क्रीड़ा करें ॥३५ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ जायापती उद्वाहं कृत्वा कथं वर्तेयातामित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे पुरुष ! यस्त्वं सम्राडसि, हे स्त्रि या त्वं स्वराडसि, स त्वं चेषे राये सहसे द्युम्ने ऊर्जेऽपत्याय रमस्व। उत्साविव सारस्वतौ सन्तावेतानि प्रावतामिति त्वा त्वां पुरुषं स्त्रियं चोपदिशामि ॥३५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - कृतविवाहौ स्त्रीपुरुषौ परस्परं प्रीत्या विद्वांसौ सन्तौ वसन्ते पुरुषार्थेन श्रीमन्तौ सद्गुणौ परस्परस्य रक्षां कुर्वन्तौ धर्मेणापत्यान्युत्पाद्यास्मिन् संसारे नित्यं क्रीडेताम् ॥३५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - स्त्री-पुरुषांनी विवाह करून आपापसात प्रेमाने राहावे व विद्वान बनून पुरुषार्थाने धन कमवावे. श्रेष्ठ गुणांनी युक्त व्हावे. एकमेकांचे रक्षण करून धर्मानुकूल वर्तन करावे. संतानोत्पत्ती करून या संसारात आनंदाने जगावे.
३६ अग्ने युक्ष्वा
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने॑ यु॒क्ष्वा हि ये तवाश्वा॑सो देव सा॒धवः॑। अरं॒ वह॑न्ति म॒न्यवे॑ ॥३६ ॥
मूलम् ...{Loading}...
अग्ने॑ यु॒क्ष्वा हि ये तवाश्वा॑सो देव सा॒धवः॑। अरं॒ वह॑न्ति म॒न्यवे॑ ॥३६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अग्ने॑। यु॒क्ष्व। हि। ये। तव॑। अश्वा॑सः। दे॒व॒। सा॒धवः॑। अर॑म्। वह॑न्ति। म॒न्यवे॑। ३६।
महीधरः
म० ‘अग्ने युक्ष्वा हीति प्रत्यृचᳪं᳭ स्रुवाहुती जुहोत्युखायाम्’ (का० १४ । ५। ५) ऋग्द्वयेनोखामध्ये द्वे आहुती जुहोति । अग्निदेवत्ये द्वे गायत्र्यौ आद्या भरद्वाजदृष्टा द्वितीया विरूपदृष्टा । हे देव दीप्यमान, हे अग्ने, ये साधवः दान्तास्ते तवाश्वासः हया अरमलमत्यर्थं मन्यवे यज्ञाय वहन्ति प्रापयन्ति देवानिति शेषः । तानश्वान् युक्ष्व हि योजय । हि पादपूरणः ॥ ३६॥
सप्तत्रिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- भरद्वाज ऋषिः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब शत्रुओं को कैसे जीतना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (देव) श्रेष्ठविद्यावाले (अग्ने) तेजस्वी विद्वान् ! (ये) जो (तव) आपके (साधवः) अभीष्ट साधनेवाले (अश्वासः) शिक्षित घोड़े (मन्यवे) शत्रुओं के ऊपर क्रोध के लिये (अरम्) सामर्थ्य के साथ (वहन्ति) रथ आदि यानों को पहुँचाते हैं, उनको (हि) निश्चय कर के (युक्ष्व) संयुक्त कीजिये ॥३६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजादि मनुष्यों को चाहिये कि वसन्त ऋतु में पहिले घोड़ों को शिक्षा दें और रथियों को रथों पर नियुक्त कर के शत्रुओं के जीतने के लिये यात्रा करें ॥३६ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ शत्रुविजयः कथं कर्त्तव्य इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे देवाऽग्ने ! ये तव साधवोऽश्वासो मन्यवेऽरं वहन्ति, तान् हि त्वं युक्ष्व ॥३६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - राजमनुष्यैर्वसन्ते प्रथममश्वान् सुशिक्ष्य सारथींश्च रथेषु नियोज्य शत्रुविजयाय गन्तव्यम् ॥३६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजा वगैरे लोकांनी वसंत ऋतूमध्ये प्रथम घोड्यांना प्रशिक्षित करावे. रथांवर सारथी नियुक्त करून शत्रूंना जिंकण्यासाठी निघावे.
३७ युक्ष्वा हि
विश्वास-प्रस्तुतिः ...{Loading}...
यु॒क्ष्वा हि दे॑व॒हूत॑माँ॒२ऽ अश्वाँ॑२ऽ अग्ने र॒थीरि॑व। नि होता॑ पू॒र्व्यः स॑दः ॥३७ ॥
मूलम् ...{Loading}...
यु॒क्ष्वा हि दे॑व॒हूत॑माँ॒२ऽ अश्वाँ॑२ऽ अग्ने र॒थीरि॑व। नि होता॑ पू॒र्व्यः स॑दः ॥३७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यु॒क्ष्व। हि। दे॒व॒हूत॑मा॒निति॑ देव॒ऽहूत॑मान्। अश्वा॑न्। अ॒ग्ने॒। र॒थीरि॒वेति॑ र॒थीःऽइ॑व। नि। होता॑। पू॒र्व्यः। स॒दः॒। ३७।
महीधरः
म० अग्ने, त्वमश्वान्युक्ष्व योजय । हिशब्दः प्रसिद्धौ । । कीदृशान् । देवहूतमान् देवानाह्वयन्तीति देवहुवः अतिशयेन देवहुवो देवहूतमाः तान् देवानामतिशयेनाह्वातॄन् । ‘द्व्यचोऽतस्तिङः (पा० ६ । ३ । १३५) इति संहितायां युक्ष्वेत्यस्य . दीर्घः । दृष्टान्तमाह। रथीरिव रथीः रथस्वामी यथाश्वान्योजयति | तद्वत् । रथोऽस्यास्तीति रथी: ईर् मत्वर्थे । किंच त्वं पूर्व्यः पूर्वंभवः पुरातनो होता मानुषाद्धोतुः प्रथमोऽग्र्यो भूत्वा निसदः अस्मिन् यागे होतृषदने निषीद । ‘छन्दसि’ (पा० ३ । ४ । ६) इति लोडर्थे लुङ् । देवहूतमानश्वानित्यत्र ‘आतोऽटि नित्यम्’ (पा० ८ । ३ । ३) इत्याकारस्यानुनासिकत्वम् .. ‘दीर्घादटि’ (पा० ८ । ३ । १) इति नस्य रुः ॥ ३७॥
अष्टत्रिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- विरूप ऋषिः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब राजपुरुषों को क्या करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्वान् पुरुष ! (पूर्व्यः) पूर्व विद्वानों से शिक्षा को प्राप्त (होता) दानशील आप (देवहूतमान्) विद्वानों से स्पर्द्धा वा शिक्षा किये (अश्वान्) घोड़ों को (रथीरिव) शत्रुओं के साथ बहुत रथादि सेना अङ्गयुक्त योद्धा के समान (युक्ष्व) युक्त कीजिये (हि) निश्चय कर के न्यायासन पर (निषदः) निरन्तर स्थित हूजिये ॥३७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सेनापति आदि राजपुरुषों को चाहिये कि बड़े सेना के अङ्गयुक्त रथवाले के समान घोड़े आदि सेना के अवयवों को कार्यों में संयुक्त करें और सभापति आदि को चाहिये कि न्यायासन पर बैठ कर धर्मयुक्त न्याय किया करें ॥३७ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ राजपुरुषकृत्यमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! पूर्व्यो होता त्वं देवहूतमानश्वान् रथीरिव युक्ष्व हि न्यायासने निषदः ॥३७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सेनापत्यादिराजपुरुषैर्महारथिवदश्वादीनि सेनाङ्गानि कार्य्येषु संयोजनीयानि, सभापत्यादयो न्यायासने स्थित्वा धर्म्यं न्यायमाचरन्तु ॥३७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सेनापती इत्यादी राजपुरुषांनी प्रचंड सेनेचे अंग असलेल्या योद्ध्याप्रमाणे घोडे इत्यादी सेनेच्या अवयवांना क्रियाशील ठेवावे व सभापती इत्यादींनी न्यायासनावर बसून धर्मयुक्त न्याय करावा.
३८ सम्यक् स्रवन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
स॒म्यक् स्र॑वन्ति स॒रितो॒ न धेना॑ऽ अ॒न्तर्हृ॒दा मन॑सा पू॒यमा॑नाः। घृ॒तस्य॒ धारा॑ऽ अ॒भिचा॑कशीमि हिर॒ण्ययो॑ वेत॒सो मध्ये॑ऽ अ॒ग्नेः ॥३८ ॥
मूलम् ...{Loading}...
स॒म्यक् स्र॑वन्ति स॒रितो॒ न धेना॑ऽ अ॒न्तर्हृ॒दा मन॑सा पू॒यमा॑नाः। घृ॒तस्य॒ धारा॑ऽ अ॒भिचा॑कशीमि हिर॒ण्ययो॑ वेत॒सो मध्ये॑ऽ अ॒ग्नेः ॥३८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स॒म्यक्। स्र॒व॒न्ति॒। स॒रितः॑। न। धेनाः॑। अ॒न्तः। हृ॒दा। मन॑सा। पू॒यमा॑नाः। घृ॒तस्य॑। धाराः॑। अ॒भि। चा॒क॒शी॒मि॒। हि॒र॒ण्ययः॑। वे॒त॒सः। मध्ये॑। अ॒ग्नेः। ३८।
महीधरः
म० ‘मुखे करोति सम्यक्स्रवन्तीति’ ( का० १७ । ५ । ७)। सम्यगिति मन्त्रेण पञ्चपशूनां मुखे एकैकं हिरण्यशकलं क्षिपतीति सूत्रार्थः । लिङ्गोक्तदेवता त्रिष्टुप् । हिरण्मयपुरुषोद्देशेनायं मन्त्रः । अग्नेर्मध्ये चितिमध्ये हिरण्मयो वेतसः पुरुषो यो निहितोस्ति तं प्रति धेना अन्नानि सम्यक् स्रवन्ति क्षरन्ति । हूयमानानि हवींषि तं प्रति गच्छन्तीत्यर्थः । ‘अन्नं वै धेना’ (७।५।२।११) इति श्रुतेः। कीदृश्यो धेनाः। मनसा पूयमानाः पवित्रीक्रियमाणाः । कीदृशेन मनसा । अन्तर्हृदा हृदयान्तर्वर्तमानेन हृत्प्रतिष्ठितेन विषयव्यावृत्तेन अव्याकुलेनेत्यर्थः । श्रद्धायुक्तेन मनसा दत्ता इत्यर्थः । ‘अन्तर्वै हृदयेन मनसा सतान्नं पूतं य ऋजुः’ (७।५।२।११) इति श्रुतेः । तत्र दृष्टान्तः । सरितो न । नकार इवार्थः । सरित इव यथा नद्यः समुद्रं प्रति स्रवन्ति गच्छन्ति तद्वत् । न केवलं धेनाः स्रवन्ति घृतस्य धारा अपि स्रवन्ति । ताश्च धेना घृतधाराश्च हिरण्मयं पुरुषं प्रति स्रवन्तीरहमभिचाकशीमि पश्यामि । चाकशीतिः पश्यतिकर्मा यङ्लुगन्तः ॥ ३८ ॥
एकोनचत्वारिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- विरूप ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को कैसे होके वाणी धारण करनी चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (अग्नेः) बिजुली के (मध्ये) बीच में वर्त्तमान (हिरण्ययः) तेजो भाग के समान तेजस्वी कीर्ति चाहने और विद्या की इच्छा रखनेवाला मैं जो (घृतस्य) जल की (वेतसः) वेगवाली (धाराः) प्रवाहरूप (सरितः) नदियों के (न) समान (अन्तः) भीतर (हृदा) अन्तःकरण के (मनसा) विज्ञानरूपवाले चित्त से (पूयमानाः) पवित्र हुई (धेना) वाणी (सम्यक्) अच्छे प्रकार (स्रवन्ति) चलती हैं, उन को (अभिचाकशीमि) सन्मुख होकर सब के लिये शीघ्र प्रकाशित करता हूँ, वैसे तुम लोग भी इन वाणियों को प्राप्त होओ ॥३८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। मनुष्यों को योग्य है कि जैसे अधिक वा कम चलती शुद्ध हुई नदियाँ समुद्र को प्राप्त होकर स्थिर होती हैं, वैसे ही विद्या, शिक्षा और धर्म से पवित्र हुई निश्चल वाणी को प्राप्त होकर अन्यों को प्राप्त करावें ॥३८ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यैः किं भूत्वा वाग् धार्य्येत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथाऽग्नेर्मध्ये हिरण्यय इव वर्त्तमानोऽहं या घृतस्य वेतसो धाराः सरितो नान्तर्हृदा मनसा पूयमाना धेनाः सम्यक् स्रवन्ति, ता अभिचाकशीमि, तथा यूयमप्येताः प्राप्नुत ॥३८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। मनुष्यैर्यथा समं विषमं चलन्त्यः शुद्धाः सत्यो नद्यः समुद्रं प्राप्यं स्थिरत्वं प्राप्नुवन्ति, तथैव विद्यासुशिक्षाधर्मैः पवित्रीभूता वाण्यो निश्चलाः प्राप्तव्याः प्रापयितव्याश्च ॥३८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. ज्याप्रमाणे छोट्या-मोठ्या नद्या समुद्राला मिळून स्थिर होतात त्याप्रमाणेच माणसांनी विद्या, शिक्षण व धर्माने पवित्र झालेली निश्चल वाणी प्राप्त करून इतरांनाही प्राप्त करून द्यावी.
३९ ऋचे त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
ऋ॒चे त्वा॑ रु॒चे त्वा॑ भा॒से त्वा॒ ज्योति॑षे त्वा। अभू॑दि॒दं विश्व॑स्य॒ भुव॑नस्य॒ वाजि॑नम॒ग्नेर्वै॑श्वान॒रस्य॑ च ॥३९ ॥
मूलम् ...{Loading}...
ऋ॒चे त्वा॑ रु॒चे त्वा॑ भा॒से त्वा॒ ज्योति॑षे त्वा। अभू॑दि॒दं विश्व॑स्य॒ भुव॑नस्य॒ वाजि॑नम॒ग्नेर्वै॑श्वान॒रस्य॑ च ॥३९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ऋ॒चे। त्वा॒। रु॒चे। त्वा॒। भा॒से। त्वा॒। ज्योति॑षे। त्वा॒। अभू॑त्। इ॒दम्। विश्व॑स्य। भुव॑नस्य। वाजि॑नम्। अ॒ग्नेः। वै॒श्वा॒न॒रस्य॑। च॒। ३९।
महीधरः
म० हिरण्यशकलदेवत्यार्षी बृहती पादार्णनियमाभावात् । ‘नासिकयोर्ऋचे त्वेति’ ( का० १७ । ५। ९) मन्त्राभ्यां पशूनां नसोः शकलप्रासनमित्यर्थः । हे हिरण्यशकल, ऋचे ऋग्वेदाय तदुक्तहौत्रादिसिद्धये त्वा त्वां वा मनसि प्रास्यामि । | रुचे दीप्तये शोभाप्राप्त्यै त्वां दक्षिणनसि प्रास्यामि । ‘शिराᳪं᳭सि प्रत्यञ्चीति’ ( का० १७ । ५। १३ ) आदौ वामनसि ततो दक्षिणे । ‘अक्ष्योर्भासे त्वेति’ (का० १७ । ५। १०) भासे त्वेति मन्त्राभ्यां नेत्रयोस्तद्वद्धिरण्यशकलप्रासनम् । भासे . कान्त्यै त्वां वामनेत्रे प्रास्यामि । ज्योतिषे तेजसे तत्प्राप्त्यै त्वां दक्षनेत्रे प्रास्यामि । ‘श्रोत्रयोरभूदिदमिति’ ( का० १७ । ५। ११) कर्णयोः प्रास्यति अभूदिदमग्निर्ज्योतिषेति मन्त्राभ्याम् । इदं श्रोत्रं विश्वस्य सर्वस्य भुवनस्य भूतजातस्य वैश्वानरस्य विश्वेभ्यः सर्वेभ्यो नरेभ्यो हितस्याग्नेश्च वाजिनं वाचो ज्ञातृ अभूत् सर्वप्राशब्दा वह्नेश्च शब्दोऽपि श्रोत्रेणैव ज्ञायतेऽतः श्रोत्रे हिरण्यं प्रास्यामीति शेषः । वाचमेति जानाति वाजिनम् । वाचपूर्वादेतेरौणादिको नक्प्रत्ययः । छान्दसः कुत्वाभावः । ‘झलां जशोऽन्ते’ (पा० ८ । २ । ३९ ) इति जश्त्वम् । अयमग्निर्वैश्वानर इत्युपक्रम्य ‘तस्यैष घोषो भवति यमेतत्कर्णावपिधाय शृणोति’ इति श्रुत्यनुवादकोऽयं मन्त्रः । यद्वायमर्थः । इदं श्रोत्रेऽस्यमानं हिरण्यं विश्वस्य भुवनस्य वैश्वानरस्याग्नेश्च वाजिनं वीर्यं तेजोजनकमभूत् भवति अतोऽस्यामीति ॥ ३९ ॥
चत्वारिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- विरूप ऋषिः
- निचृदबृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
विद्वानों से अन्य मनुष्यों को भी ज्ञान लेना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् पुरुष ! जिस तुझ को (विश्वस्य) समस्त (भुवनस्य) संसार के सब पदार्थों (च) और (वैश्वानरस्य) सम्पूर्ण मनुष्यों में शोभायमान (अग्नेः) बिजुलीरूप (वाजिनम्) ज्ञानी लोगों का अवयवरूप (इदम्) यह विज्ञान (अभूत्) प्रसिद्ध हुआ है, उस (ऋचे) स्तुति के लिये (त्वा) तुझ को (रुचे) प्रीति के वास्ते (त्वा) तुझ को (भासे) विज्ञान की प्राप्ति के अर्थ (त्वा) तुझको और (ज्योतिषे) न्याय के प्रकाश के लिये भी (त्वा) तुझ को हम लोग आश्रय करते हैं ॥३९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जिस मनुष्य को जगत् के पदार्थों का यथार्थ बोध होवे, उसी के सेवन से सब मनुष्य पदार्थविद्या को प्राप्त होवें ॥३९ ॥
दयानन्द-सरस्वती (सं) - विषयः
विद्वद्भ्य इतरैरपि विज्ञानं प्राप्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यस्य तव विश्वस्य भुवनस्य वैश्वानरस्याग्नेश्च वाजिनमिदं विज्ञानमभूत् जातम्, तमृचे त्वा रुचे त्वा भासे त्वा ज्योतिषे त्वा वयमाश्रयेम ॥३९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यस्य मनुष्यस्य सर्वेषां जगत्पदार्थानां यथार्थो बोधः स्यात्, तमेव सेवित्वा पदार्थविज्ञानं सर्वैर्मनुष्यैः प्राप्तव्यम् ॥३९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्या माणसाला जगातील पदार्थांचा यथार्थ बोध होतो. त्यांच्या मतानुसारच सर्व माणसांनी पदार्थ विद्या प्राप्त करावी.
४० अग्निर्ज्योतिषा ज्योतिष्मान्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्निर्ज्योति॑षा॒ ज्योति॑ष्मान् रु॒क्मो वर्च॑सा॒ वर्च॑स्वान्। स॒ह॒स्र॒दाऽ अ॑सि स॒हस्रा॑य त्वा ॥४० ॥
मूलम् ...{Loading}...
अ॒ग्निर्ज्योति॑षा॒ ज्योति॑ष्मान् रु॒क्मो वर्च॑सा॒ वर्च॑स्वान्। स॒ह॒स्र॒दाऽ अ॑सि स॒हस्रा॑य त्वा ॥४० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒ग्निः। ज्योति॑षा। ज्योति॑ष्मान्। रु॒क्मः। वर्च॑सा। वर्च॑स्वान्। स॒ह॒स्र॒दा इति॑ सहस्र॒ऽदाः। अ॒सि॒। स॒हस्रा॑य। त्वा॒। ४०।
महीधरः
म०. हिरण्यशकलदेवत्योष्णिक् । द्वौ पादावष्टार्णौ तृतीयो द्वादशको व्यूहेन । दक्षिणश्रोत्रे शकलं प्रास्यति । अयमग्निः ज्योतिषा पशुश्रोत्रस्थितहिरण्यतेजसा ज्योतिष्मान् तेजस्वी अस्तु । रुक्मो रोचमानोऽग्निर्वर्चसा हिरण्यकान्त्या वर्चस्वान् | कान्तिमानस्तु । बाह्यप्रभा ज्योतिः शरीरगतकान्तिर्वर्च इति ज्योतिर्वर्चसोर्भेदः । यद्वा श्रोत्रमेव हिरण्यज्योतिषाग्निरिव ज्योतिष्मदस्तु हिरण्यवर्चसा च वर्चस्वदस्तु । रुक्म इव सुवर्णपुरुष इव । उभयत्रेवाध्याहारेण लिङ्गव्यत्ययेन च योजनेत्यर्थः । ‘सहस्रदा इति पुरुषशिर उद्गृह्य मध्ये’ (का० १७।१५।१४) पुरुषशिर आदायोखामध्ये वक्ष्यमाणमन्त्रेणोपदधातीति सूत्रार्थः । हे पुरुष, त्वं सहस्रदाः सहस्रसंख्यस्य दातासि अतः सहस्राय सहस्रधनलाभाय त्वा त्वामुद्गृह्णामीति शेषः । आदौ पुरुषशिरसि शकलप्रासनं ततोऽश्वगोऽव्यजानां क्रमेण । एकपशुपक्षे मुखादिषु प्रत्येकं सप्त-सप्त पञ्चकृत एकैकमित्यन्ये ( का० १७।५।११)॥ ४० ॥
एकचत्वारिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- विरूप ऋषिः
- निचृदुष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उक्त विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् पुरुष ! जो आप (ज्योतिषा) विद्या के प्रकाश से (अग्निः) अग्नि के तुल्य (ज्योतिष्मान्) प्रशंसित प्रकाशयुक्त (वर्चसा) अपने तेज से (वर्चस्वान्) ज्ञान देनेवाले और (रुक्मः) जैसे सुवर्ण सुख देवे, वैसे (सहस्रदाः) असंख्य सुख के देनेवाले (असि) हैं, उन (त्वा) आपका (सहस्राय) अतुल विज्ञान की प्राप्ति के लिये हम लोग सत्कार करें ॥४० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोमालङ्कार है। मनुष्यों को योग्य है कि जो अग्नि और सूर्य्य के समान विद्या से प्रकाशमान विद्वान् पुरुष हों, उनसे विद्या पढ़ के पूर्ण विद्या के ग्राहक होवें ॥४० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स एव विषय उपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यस्त्वं ज्योतिषा ज्योतिष्मानग्निरिव वर्चसा वर्चस्वान् रुक्म इव सहस्रदा असि, तं त्वा सहस्राय वयं सत्कुर्याम ॥४० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैर्योऽग्निसूर्यवद् विद्यया प्रकाशमानो विद्वान् भवेत्, तस्मादधीत्य पुष्कला विद्याः स्वीकार्याः ॥४० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जे अग्नी व सूर्याप्रमाणे विद्येने तेजस्वी व विद्वान बनलेले पुरुष असतील त्यांच्याकडून माणसांनी पूर्ण विद्या प्राप्त करावी.
४१ आदित्यं गर्भम्
विश्वास-प्रस्तुतिः ...{Loading}...
आ॒दि॒त्यं गर्भं॒ पय॑सा॒ सम॑ङ्धि स॒हस्र॑स्य प्रति॒मां वि॒श्वरू॑पम्। परि॑वृङ्धि॒ हर॑सा॒ माभि मँ॑स्थाः श॒तायु॑षं कृणुहि ची॒यमा॑नः ॥४१ ॥
मूलम् ...{Loading}...
आ॒दि॒त्यं गर्भं॒ पय॑सा॒ सम॑ङ्धि स॒हस्र॑स्य प्रति॒मां वि॒श्वरू॑पम्। परि॑वृङ्धि॒ हर॑सा॒ माभि मँ॑स्थाः श॒तायु॑षं कृणुहि ची॒यमा॑नः ॥४१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ॒दि॒त्यम्। गर्भ॑म्। पय॑सा। सम्। अ॒ङ्धि॒। स॒हस्र॑स्य। प्र॒ति॒मामिति॑ प्रति॒ऽमाम्। वि॒श्वरू॑प॒मिति॑ वि॒श्वऽरू॑पम्। परि॑। वृ॒ङ्धि॒। हर॑सा। मा। अ॒भि। मँ॒स्थाः॒। श॒तायु॑ष॒मिति॑ श॒तऽआ॑युषम्। कृ॒णु॒हि॒। ची॒यमा॑नः। ४१।
महीधरः
म० ‘आदित्यं गर्भमिति प्रतिमन्त्रं क्रमेण’ ( का० १७ । ५।१७) । पुरुषादीनां शिरसि पञ्चमन्त्रक्रमेणैकैकमुपदधातीत्यर्थः । पञ्च ऋचोऽग्निदेवत्यास्त्रिष्टुभः आदौ पुरुषशिर उपदधाति मध्ये । हे पुरुषशिरः, त्वमादित्यं चित्याग्निं पयसा समङ्ग्धि संरचय । अञ्जेर्लोटि मध्यमैकवचने रूपम् । पयसि स्थाप्य इत्येवमुच्यते । आदत्ते पशूनादित्यवदीष्टे वा सर्वपशूनामित्यादित्यश्चित्योऽग्निः। कीदृशमादित्यं । गर्भं गृह्णाति पशूनिति गर्भः पचाद्यच् ‘हृग्रहोर्भश्छन्दसि’ तम् । सहस्रस्य प्रतिमां बहुधनस्य प्रतिमाभूतं । बहुधनप्रदमित्यर्थः । विश्वरूपं सर्वरूपमादित्यत्वात् सर्वरूपप्रकाशकमित्यर्थः । सर्वाणि रूपाणि यस्मात् । किंच हरसा सर्ववीर्यापहारकमग्नेर्ज्योतिर्हरस्तेनाग्मितेजसा यजमानं परिवृङ्ग्धि परिवर्जय । ‘वृजी वर्जने’ रुधादिः लोट् । मा अभिमंस्थाः यजमानं मा हिंसीः । मन्यतेर्लुङ् अभिपूर्वो मन्यतिर्हिँसार्थः । किंच चीयमानः उपधीयमानः सन्यजमानं शतायुषं शताब्दजीविनं कृणुहि कुरु ॥४१॥
द्विचत्वारिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- विरूप ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर वे विद्वान् स्त्री-पुरुष क्या करें, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् पुरुष ! आप जैसे बिजुली (पयसा) जल से (सहस्रस्य) असंख्य पदार्थों की (प्रतिमाम्) परिमाण करनेहारे सूर्य के समान निश्चय करनेहारी बुद्धि और (विश्वरूपम्) सब रूपविषय को दिखानेहारे (गर्भम्) स्तुति के योग्य (आदित्यम्) सूर्य्य को धारण करती है, वैसे अन्तःकरण को (समङ्धि) अच्छे प्रकार शोधिये। (हरसा) प्रज्वलित तेज से रोगों को (परि) सब ओर से (वृङ्धि) हटाइये और (चीयमानः) वृद्धि को प्राप्त हो के (शतायुषम्) सौ वर्ष की अवस्थावाले सन्तान को (कृणुहि) कीजिये और कभी (मा) मत (अभिमंस्थाः) अभिमान कीजिये ॥४१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे स्त्री-पुरुषो ! तुम लोग सुगन्धित पदार्थों के होम से सूर्य्य के प्रकाश, जल और वायु को शुद्ध कर और रोगरहित होकर सौ वर्ष जीनेवाले संतानों को उत्पन्न करो। जैसे विद्युत् अग्नि से बनाये हुए सूर्य्य से रूपवाले पदार्थों का दर्शन और परिमाण होता है, वैसे विद्यावाले सन्तान सुख दिखानेहारे होते हैं, इससे कभी अभिमानी होके विषयासक्ति से विद्या और आयु का विनाश मत किया करो ॥४१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्ते किं कुर्य्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वंस्त्वं यथा विद्युत्पयसा सहस्रस्य प्रतिमां विश्वरूपं गर्भमादित्यं धरति, तथान्तःकरणं समङ्धि, हरसा रोगान् परिवृङ्धि, चीयमानः सन् शतायुषं तनयं कृणुहि, कदाचिन्माऽभिमंस्थाः ॥४१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे स्त्रीपुरुषाः ! यूयं सुगन्ध्यादिहोमेन सूर्यप्रकाशं जलं वायुञ्च शोधयित्वा अरोगा भूत्वा शतायुषस्तनयान् कुरुत। यथा विद्युन्निर्मितेन सूर्य्येण रूपवतां पदार्थानां दर्शनं परिमाणं च भवति, तथा विद्यावन्त्यपत्यानि भवन्ति, तस्मात् कदाचिदभिमानिनो भूत्वा प्रमादेन विद्याया आयुषश्च विनाशं मा कुरुत ॥४१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे स्त्री-पुरुषांनो ! तुम्ही सुगंधित पदार्थ होमात टाकून सूर्यप्रकाश, जल व वायू यांना शुद्ध करून निरोगी बना. शंभर वर्षे जगणारी संताने निर्माण करा. जसे विद्युताग्नीने बनलेल्या सूर्यामुळे पदार्थांचे दर्शन होते व परिमाण कळते तसे विद्यायुक्त संताने सुख देणारी असतात त्यासाठी विषयासक्ती व अभिमान यामुळे विद्या व आयुष्य यांचा नाश करू नका.
४२ वातस्य जूतिम्
विश्वास-प्रस्तुतिः ...{Loading}...
वात॑स्य जू॒तिं वरु॑णस्य॒ नाभि॒मश्वं॑ जज्ञा॒नँ स॑रि॒रस्य॒ मध्ये॑। शिशुं॑ न॒दीनाँ॒ हरि॒मद्रि॑बुध्न॒मग्ने॒ मा हिँ॑सीः पर॒मे व्यो॑मन् ॥४२ ॥
मूलम् ...{Loading}...
वात॑स्य जू॒तिं वरु॑णस्य॒ नाभि॒मश्वं॑ जज्ञा॒नँ स॑रि॒रस्य॒ मध्ये॑। शिशुं॑ न॒दीनाँ॒ हरि॒मद्रि॑बुध्न॒मग्ने॒ मा हिँ॑सीः पर॒मे व्यो॑मन् ॥४२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वात॑स्य। जू॒तिम्। वरु॑णस्य। नाभि॑म्। अश्व॑म्। ज॒ज्ञा॒नम्। स॒रि॒रस्य॑। मध्ये॑। शिशु॑म्। न॒दीना॑म्। हरि॑म्। अद्रि॑बुध्न॒मित्यद्रि॑बुध्नम्। अग्ने॑। मा। हिँ॒सीः॒। प॒र॒मे। व्यो॑म॒न्निति॒ विऽओ॑मन्। ४२।
महीधरः
म० अश्वशिर ईशाने उपदधाति । हे अग्ने चित्याग्ने, त्वमश्वमिमं मा हिंसीः ज्वालया मा दह । कीदृशम् । वातस्य जूतिं जूतिर्गतिः प्रीतिर्वा । वायोर्गतिस्वरूपं वायुवच्छीघ्रगतिमित्यर्थः । वायोः प्रीतिं प्रेमपात्रं वरुणस्य नाभिं जलेशस्य नाभिमिव नाभिः अन्तरं यथा नरेण स्वनाभिर्वस्त्रावरणादिना पाल्यते मध्ये समुद्रे जज्ञानं जायमानम् । ‘जन् जनने’ ह्वादिः शानच् ‘गमहन-’(पा० ६ । ४ । ९८ ) इत्युपधालोपः । अप्सुयोनिर्वा अश्वः’ इति श्रुत्यन्तरात् । अतएव नदीनां शिशुं बालं नदीपतिः समुद्रः पिता अतएव नदीनां मातृत्वात्तच्छिशुम् । हरिं हरितवर्णं यद्वारूढं नरं हरतीति हरिस्तम् । अद्रिबुध्नमद्रिर्गिरिः बुघ्नं मूलं कारणं यासां ता अद्रिबुध्ना आपस्तज्जातमद्रिबुध्नम् अपत्य प्रत्ययलोपः । यद्वा बुध्नपदे नकार उपजनश्छान्दसः । अद्रिबुध्नमद्रिभिर्बुद्धं ज्ञातम् पथि तत्खुरैः क्षुण्णानद्रीन्पाषाणान्दृष्ट्वा नरैर्ज्ञातं यदत्राश्वो गत इति उत्कृष्टमित्यर्थः । परमे व्योमन् एषु लोकेषु निषीदन्तमिति शेषः । ‘इमे वै लोकाः परमं व्योम’ ( ७ । ५।२।१८) इति श्रुतेः । यद्वा विविधमोम अवनं रक्षणं परममुत्कृष्टं यद्व्योम नानोपद्रवेभ्यः पालनं तत्र स्थापितमिति शेषः ॥ ४२ ॥
त्रिचत्वारिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- विरूप ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर विद्वान् पुरुष को क्या करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) तेजस्विन् विद्वन् ! आप (परमे व्योमन्) सर्वव्याप्त उत्तम आकाश में (वातस्य) वायु के (मध्ये) मध्य में (जूतिम्) वेगरूप (अश्वम्) अश्व को (सरिरस्य) जलमय (वरुणस्य) उत्तम समुद्र के (नाभिम्) बन्धन को और (नदीनाम्) नदियों के प्रभाव से (जज्ञानम्) प्रकट हुए (शिशुम्) बालक के तुल्य वर्त्तमान (हरिम्) नील वर्णयुक्त (अद्रिबुध्नम्) सूक्ष्म मेघ को (मा) मत (हिंसीः) नष्ट कीजिये ॥४२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को चाहिये कि प्रमाद को छोड़ के आकाश में वर्त्तमान वायु के वेग और वर्षा के प्रबन्धरूप मेघ का विनाश न करके अपनी-अपनी अवस्था को बढ़ावें ॥४२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तेन किं कार्य्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने विद्वस्त्वं परमे व्योमन् वातस्य मध्ये जूतिमश्वं सरिरस्य वरुणस्य नाभिं नदीनां जज्ञानं शिशुं बालमिव वर्त्तमानं हरिमद्रिबुध्नं मा हिंसीः ॥४२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैः प्रमादेनावकाशे वर्त्तमानं वायुवेगं वृष्टिप्रबन्धं मेघमहत्वा जीवनं वर्धनीयम् ॥४२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. माणसांनी प्रमाद करणे सोडून द्यावे. आकाशातील वायूचा वेग व वृष्टी करणारा मेघ याचा नाश न करता आपले आयुष्य वाढवावे.
४३ अजस्रमिन्दुमरुषं भुरण्युमग्निमीडे
विश्वास-प्रस्तुतिः ...{Loading}...
अज॑स्र॒मिन्दु॑मरु॒षं भु॑र॒ण्युम॒ग्निमी॑डे पू॒र्वचि॑त्तिं॒ नमो॑भिः। स पर्व॑भिर्ऋतु॒शः कल्प॑मानो॒ गां मा हिँ॑सी॒रदि॑तिं वि॒राज॑म् ॥४३ ॥
मूलम् ...{Loading}...
अज॑स्र॒मिन्दु॑मरु॒षं भु॑र॒ण्युम॒ग्निमी॑डे पू॒र्वचि॑त्तिं॒ नमो॑भिः। स पर्व॑भिर्ऋतु॒शः कल्प॑मानो॒ गां मा हिँ॑सी॒रदि॑तिं वि॒राज॑म् ॥४३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अज॑स्रम्। इन्दु॑म्। अ॒रु॒षम्। भु॒र॒ण्युम्। अ॒ग्निम्। ई॒डे॒। पू॒र्वचि॑त्ति॒मिति॑ पू॒र्वऽचि॑त्तिम्। नमो॑भि॒रिति॒ नमः॑ऽभिः। सः। पर्व॑भि॒रिति॒ पर्व॑ऽभिः। ऋ॒तु॒श इत्यृ॑तु॒ऽशः। कल्प॑मानः। गाम्। मा। हिँ॒सीः॒। अदि॑तिम्। वि॒राज॒मिति॑ वि॒ऽराज॑म्। ४३।
महीधरः
म० गोशिर आग्नेय्यामुपदधाति । अहमग्निमीडे स्तौमि ‘ईड स्तुतौ’ । कीदृशम्। अजस्रमनुपक्षीणम्। इन्दुं ‘इदि परमैश्वर्ये’ इन्दतीतीन्दुः ऐश्वर्योपेतम् । यद्वा ‘उन्दी क्लेदे’ उनत्ति क्लेदयति जनमनांसीतीन्दुः ‘उन्देरिच्चादेः’ ( उण. १।१२) इति कुप्रत्ययादीकारौ । अरुषं रोषरहितम् । यद्वा अरुर्मर्म मर्मस्थानीयं रहस्यम्। आराध्यमित्यर्थः । पूर्वचित्तिं पूर्वैर्महर्षिभिः चित्तिं चेतव्यम् । नमोभिरन्नैर्भरण्युं भर्तारं सर्वेषां पोष्टारम् । हे अग्ने, एवं स्तूयमानः स त्वं गामुपधीयमानां मा हिंसीः मा जहि । कीदृशीमदितिम् । अखण्डितामदीनां वा विराजं निविदं राजमानाम् दुग्धदानाद् गौर्विराट् ‘तस्यै शृतं तस्यै शरः’ (३ । ३ । ३ । २) इति दशवीर्याभिप्रायं विराट्त्वम् । कीदृशः त्वम् । पर्वभिः पश्विष्टकाभिरमावास्यादिपर्वभिर्वा ऋतुशः ऋतौ ऋतौ कल्पमानः कर्माणि संपादयन् ॥ ४३ ॥
चतुश्चत्वारिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- विरूप ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह विद्वान् क्या करे, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् पुरुष ! जैसे मैं (पर्वभिः) पूर्ण साधनयुक्त (नमोभिः) अन्नों के साथ वर्त्तमान (इन्दुम्) जलरूप (अरुषम्) घोड़े के सदृश (भुरण्युम्) पोषण करनेवाली (पूर्वचित्तिम्) प्रथम निर्मित (अग्निम्) बिजुली को (अजस्रम्) निरन्तर (ईडे) अधिकता से खोजता हूँ, उसको (ऋतुशः) प्रति ऋतु में (कल्पमानः) समर्थ होके करता हुआ (अदितिम्) अखण्डित (विराजम्) विविध प्रकार के पदार्थों से शोभायमान (गाम्) पृथिवी को नष्ट नहीं करता हूँ, वैसे ही (सः) सो आप इस अग्नि और इस पृथिवी को (मा) मत (हिंसीः) नष्ट कीजिये ॥४३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को योग्य है कि ऋतुओं के अनुकूल क्रिया से अग्नि, जल और अन्न का सेवन करके राज्य और पृथिवी की सदैव रक्षा करें, जिससे सब सुख प्राप्त होवें ॥४३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनरयं किं कुर्य्यादित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यथाहं पर्वभिर्नमोभिः सह वर्त्तमानमिन्दुमरुषं भुरण्युं पूर्वचित्तिमग्निमजस्रमीडे, तमृतुशः कल्पमानः सन्नदितिं विराजं गां न नाशयामि, तथैव स त्वमेतमेनां च मा हिंसीः ॥४३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्ऋत्वनुकूलतया क्रिययाऽग्निर्जलमन्नं च संसेव्य राजभूमिः सदैव रक्षणीया, यतः सर्वाणि सुखानि स्युः ॥४३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी ऋतूंच्या अनुकूलतेप्रमाणे काम करून अग्नी जल व अन्न यांचे सेवन करावे व राज्याचे आणि पृथ्वीचे सदैव रक्षण करावे. ज्यामुळे सर्वांना सर्व सुख प्राप्त होईल.
४४ वरूत्रीं त्वष्टुर्वरुणस्य
विश्वास-प्रस्तुतिः ...{Loading}...
वरू॑त्रीं॒ त्वष्टु॒र्वरु॑णस्य॒ नाभि॒मविं॑ जज्ञा॒नाँ रज॑सः॒ पर॑स्मात्। म॒हीँ सा॑ह॒स्रीमसु॑रस्य मा॒यामग्ने॒ मा हिँ॑सीः पर॒मे व्यो॑मन् ॥४४ ॥
मूलम् ...{Loading}...
वरू॑त्रीं॒ त्वष्टु॒र्वरु॑णस्य॒ नाभि॒मविं॑ जज्ञा॒नाँ रज॑सः॒ पर॑स्मात्। म॒हीँ सा॑ह॒स्रीमसु॑रस्य मा॒यामग्ने॒ मा हिँ॑सीः पर॒मे व्यो॑मन् ॥४४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वरू॑त्रीम्। त्वष्टुः॑। वरु॑णस्य। नाभि॑म्। अवि॑म्। ज॒ज्ञा॒नाम्। रज॑सः। पर॑स्मात्। म॒हीम्। सा॒ह॒स्रीम्। असु॑रस्य। मा॒याम्। अग्ने॑। मा। हिँ॒सीः॒। प॒र॒मे। व्यो॑मन्निति॒ विऽओ॑मन्। ४४।
महीधरः
म० वायव्येऽविशिर उपदधाति । हे अग्ने, परमे व्योमन् उत्कृष्ट रक्षणस्थाने स्थापितामविं मा हिंसीः । कीदृशीम् । त्वष्टुः रूपाणां निर्मातुर्देवस्यानुग्रहाद्वरूत्रीं वृणोति कम्बलादिना छादयति लोकानिति वरूत्री ताम् । वरुणस्य नाभिं नाभिस्थानीयां नाभिवद्रक्षणीयाम् वारुणी त्वाष्ट्री चाविः । परस्माद्रजसः दिग्रूपाल्लोकाज्जज्ञानं जायमानम् । ‘श्रोत्रं वै परमᳪं᳭रजो दिशो वै श्रोत्रं दिशः परमᳪं᳭रजः ’ (७।५।२।२०) इति श्रुतेः । यद्वा परस्माद्रजसः प्रजापते रजोगुणाज्जायमानाम् । महीं महतीम् । साहस्रीं सहस्रमूल्यार्हाँ सहस्रोपकारक्षमां वा। असुरस्य मायामसवः प्राणा विद्यन्ते यस्य सोऽसुरः मत्वर्थे रः। प्राणवतो मायां प्रज्ञां मीयते ज्ञायतेऽनया माया प्रज्ञा प्राणिनां प्रज्ञाप्रदामित्यर्थः ।४४॥
पञ्चचत्वारिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- विरूप ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उस विद्वान् को क्या नहीं करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्वान् पुरुष ! आप (त्वष्टुः) छेदनकर्त्ता सूर्य्य के (वरूत्रीम्) ग्रहण करने योग्य (वरुणस्य) जल की (नाभिम्) रोकनेहारी (परस्मात्) श्रेष्ठ (रजसः) लोक से (जज्ञानाम्) उत्पन्न हुई (असुरस्य) मेघ की (मायाम्) जतानेवाली बिजुली को और (साहस्रीम्) असंख्य भूगोलयुक्त बहुत फल देनेहारी (अविम्) रक्षा आदि का निमित्त (परमे) सब से उत्तम (व्योमन्) आकाश के समान व्याप्त जगदीश्वर में वर्त्तमान (महीम्) विस्तारयुक्त पृथिवी को (मा) मत (हिंसीः) नष्ट कीजिये ॥४४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सब मनुष्यों को चाहिये कि जो यह पृथिवी उत्तम कारण से उत्पन्न हुई, सूर्य्य जिसका आकर्षणकर्त्ता, जल का आधार, मेघ का निमित्त, असंख्य सुख देनेहारी परमेश्वर ने रची है; उसको गुण, कर्म और स्वभाव से जान के सुख के लिये उपयुक्त करें ॥४४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तेन किं न कार्य्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! त्वं त्वष्टुर्वरूत्रीं वरुणस्य नाभिं परस्माद् रजसो जज्ञानामसुरस्य मायां साहस्रीमविं परमे व्योमन् वर्त्तमानां महीं मा हिंसीः ॥४४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सर्वैर्मनुष्यैर्येयं पृथिवी परस्मात् कारणाज्जाता, सूर्य्याकर्षणसम्बन्धिनी, जलाधारा, मेघनिमित्ता, बहुभूगोलाकारा, असंख्यसुखप्रदा परमेश्वरेण निर्मिताऽस्ति, तां गुणकर्मस्वभावतो विज्ञाय सुखाय समुपयोक्तव्या ॥४४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - उत्तम कारणांपासून उत्पन्न झालेली सुखकारक अशी पृथ्वी जिचा आकर्षण कर्ता सूर्य असून तो मेघांचे निमित्त व जलाचा आधार आहे. अशा या पृथ्वीची रचना परमेश्वरानेच केलेली आहे. तेव्हा माणसांनी तिचे गुण, कर्म, स्वभाव जाणून सुखासाठी तिचा उपयोग करावा.
४५ योऽ अग्निरग्नेरध्यजायत
विश्वास-प्रस्तुतिः ...{Loading}...
योऽ अ॒ग्निर॒ग्नेरध्यजा॑यत॒ शोका॑त् पृथि॒व्याऽ उ॒त वा॑ दि॒वस्परि॑। येन॑ प्र॒जा वि॒श्वक॑र्मा ज॒जान॒ तम॑ग्ने॒ हेडः॒ परि॑ ते वृणक्तु ॥४५ ॥
मूलम् ...{Loading}...
योऽ अ॒ग्निर॒ग्नेरध्यजा॑यत॒ शोका॑त् पृथि॒व्याऽ उ॒त वा॑ दि॒वस्परि॑। येन॑ प्र॒जा वि॒श्वक॑र्मा ज॒जान॒ तम॑ग्ने॒ हेडः॒ परि॑ ते वृणक्तु ॥४५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यः। अ॒ग्निः। अ॒ग्नेः। अधि॑। अजा॑यत। शोका॑त्। पृ॒थि॒व्याः। उ॒त। वा॒। दि॒वः। परि॑। येन॑। प्र॒जा इति॑ प्र॒ऽजाः। वि॒श्वक॒र्मेति॑ वि॒श्वऽक॑र्मा। ज॒जान॑। तम्। अ॒ग्ने॒। हेडः॑। परि॑। ते॒। वृ॒ण॒क्तु॒। ४५।
महीधरः
म० नैर्ऋत्येऽजमुपदधाति । योऽग्निरग्निरूपोऽजोऽग्नेः प्रजापतेः शोकादध्यजायत अग्निसंतापादुत्पन्नः । अत्राग्निः प्रजापतिः । उत वा अपिच दिवः शोकात् पृथिव्याश्च शोकाद्योऽजः पर्यजायत उत्पन्नः । अग्निपृथिवीदिवां शोकादजोत्पत्तिः | श्रुत्योक्ता । ‘यद्वै प्रजापतेः शोकादजायत तद्दिवश्च पृथिव्यै च शोकादजायत’ (७।५।२ । २१) इति । विश्वकर्मा स एव प्रजापतिः येनाजेन वाग्रूपेण प्रजा जजान उत्पादितवान् । अजस्य वाग्रूपत्वं ततः प्रजोत्पत्तिः श्रुत्युक्ता । ‘वाग्वा अजो वाचो वै प्रजा विश्वकर्मा जजानेति’ (७ । ५। २ । २१)। हे अग्ने चित्य, ते तव हेडः क्रोधः तमजः परिवृणक्तु परित्यजतु । त्वयाजे कोपो न कार्य इत्यर्थः । माधवस्तु पृथिव्या उपरि स्थितादुत वा यद्वा दिवः परि द्युलोकोपरि स्थितात् शोकात् ‘शुच दीप्तौ’ घञन्तः । दीप्तियुक्तादग्नेः प्रजापतेः सकाशाद्योऽग्निरूपोऽजोऽध्यजायत विश्वकर्मा येनाजेन प्रजाः पशून् जजान । अजस्य पशुसाधनत्वं तैत्तिरीयश्रुत्योक्तम् । ‘ततोऽजस्तूपरः समभवत्तᳪं᳭ स्वायै देवताया आलभत ततो वै प्रजाः पशूनसृजतेति’ । शेषं पूर्ववत् ॥ ४५ ॥
षट्चत्वारिंशी । ।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- विरूप ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर इस विद्वान् को क्या करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्वान् जन ! (यः) जो (पृथिव्याः) पृथिवी के (शोकात्) सुखानेहारे अग्नि (उत) (वा) अथवा (दिवः) सूर्य्य से (अग्नेः) बिजुलीरूप अग्नि से (अग्निः) प्रत्यक्ष अग्नि (अध्यजायत) उत्पन्न होता है, (येन) जिस से (विश्वकर्म्मा) सब कर्मों का आधार ईश्वर (प्रजाः) प्रजाओं को (परि) सब ओर से (जजान) रचता है, (तम्) उस अग्नि को (ते) तेरा (हेडः) क्रोध (परिवृणक्तु) सब प्रकार से छेदन करे ॥४५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे विद्वानो ! तुम लोग जो अग्नि पृथिवी को फोड़ के और जो सूर्य्य के प्रकाश से बिजुली निकलती है, उस विघ्नकारी अग्नि से सब प्राणियों को रक्षित रक्खो और जिस अग्नि से ईश्वर सब की रक्षा करता है, उस अग्नि की विद्या जानो ॥४५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनरनेन किं कार्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने विद्वन् ! यः पृथिव्याः शोकादुत वा दिवोऽग्नेरग्निरध्यजायत, येन विश्वकर्मा प्रजाः परिजजान, तं ते हेडः परिवृणक्तु ॥४५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे विद्वांसः ! यूयं योऽग्निः पृथिवीं भित्त्वोत्पद्यते यश्च सूर्यादेः, तस्माद् विघ्नकारिणोऽग्नेः सर्वान् प्राणिनः पृथग् रक्षत। येनाग्निनेश्वरः सर्वान् रक्षति तद्विद्यां विजानीत ॥४५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे विद्वानांनो ! जो अग्नी (ज्वालामुखी वगैरे) पृथ्वीतून बाहेर येतो व सूर्याच्या प्रकाशातून जी विद्युत प्रकट होते त्या विघ्नकारी अग्नीपासून सर्व प्राण्यांचे रक्षण करा व ज्या अग्नीने ईश्वर सर्वांचे रक्षण करतो ती अग्निविद्या जाणा.
४६ चित्रं देवानामुदगादनीकम्
विश्वास-प्रस्तुतिः ...{Loading}...
चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः। आ प्रा॒ द्यावा॑पृथि॒वीऽ अ॒न्तरि॑क्षँ॒ सूर्य्य॑ऽ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥४६ ॥
मूलम् ...{Loading}...
चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः। आ प्रा॒ द्यावा॑पृथि॒वीऽ अ॒न्तरि॑क्षँ॒ सूर्य्य॑ऽ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥४६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
चि॒त्रम्। दे॒वाना॑म्। उत्। अ॒गा॒त्। अनी॑कम्। चक्षुः॑। मि॒त्रस्य॑। वरु॑णस्य। अ॒ग्नेः। आ। अ॒प्राः॒। द्यावा॑पृथि॒वीऽइति॒ द्यावा॑पृथि॒वी। अ॒न्तरि॑क्षम्। सूर्य्यः॑। आ॒त्मा। जग॑तः। त॒स्थुषः॑। च॒। ४६।
महीधरः
म०. ‘चित्रं देवानामित्यर्धर्चशः स्रुवाहुती मध्यमे’ (का. | १७ । ५ । १८)। अर्धर्चद्वयेन पुरुषशिरस्याहुतिद्वयं जुहोतीत्यर्थः । व्याख्याता (अ० ७ क० ४२)॥ ४६॥
सप्तचत्वारिंशी।
अधिमन्त्रम् (VC)
- सूर्यो देवता
- विरूप ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब ईश्वर कैसा है, यह यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! आप लोग जो जगदीश्वर (देवानाम्) पृथिवी आदि दिव्य पदार्थों के बीच (चित्रम्) आश्चर्य्यरूप (अनीकम्) सेना के समान किरणों से युक्त (मित्रस्य) प्राण (वरुणस्य) उदान और (अग्नेः) प्रसिद्ध अग्नि के (चक्षुः) दिखानेवाले (सूर्य्यः) सूर्य्य के समान (उदगात्) उदय को प्राप्त हो रहा है, उस के समान (जगतः) चेतन (च) और (तस्थुषः) जड़ जगत् का (आत्मा) अन्तर्य्यामी हो के (द्यावापृथिवी) प्रकाश-अप्रकाशरूप जगत् और (अन्तरिक्षम्) आकाश को (आ) अच्छे प्रकार (अप्राः) व्याप्त हो रहा है, उसी जगत् के रचने, पालन करने और संहार-प्रलय करनेहारे व्यापक ब्रह्म की निरन्तर उपासना किया करो ॥४६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। यह जगत् ऐसा नहीं कि जिसका कर्त्ता, अधिष्ठाता वा ईश्वर कोई न होवे। जो ईश्वर सब का अन्तर्य्यामी, सब जीवों के पाप-पुण्यों के फलों की व्यवस्था करने हारा और अनन्त ज्ञान का प्रकाश करने हारा है, उसी की उपासना से धर्म्म, अर्थ, काम और मोक्ष के फलों को सब मनुष्य प्राप्त होवें ॥४६ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथेश्वरः कीदृशोऽस्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! भवन्तो यद् ब्रह्म देवानां चित्रमनीकं मित्रस्य वरुणस्याग्नेश्चक्षुः सूर्य इवोदगात्, जगतस्तस्थुषश्चात्मा सद् द्यावापृथिवी अन्तरिक्षं चाप्राः, तज्जगन्निर्मातृ पातृ संहतृ व्यापकं सततमुपासीरन् ॥४६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। न खल्विदं निष्कर्तृकमनधिष्ठातृकमनीश्वरं जगदस्ति। यद् ब्रह्म सर्वान्तर्य्यामि सर्वेषां जीवानां पापपुण्यफलदानव्यवस्थापकमनन्तज्ञानप्रकाशं वर्त्तते, तदेवोपास्य धर्मार्थकाममोक्षफलानि मनुष्यैराप्तव्यानि ॥४६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे जग आपोआप बनलेले नाही. ज्याचा अधिष्ठाता व कर्ता निर्माता ईश्वरच आहे. तो सर्व जीवांच्या पापपुण्याच्या फळाची व्यवस्था करणारा व अनंत ज्ञानाचा प्रकाश करणारा आहे. त्या ईश्वराची उपासना करून धर्म, अर्थ, काम, मोक्ष यांचे फळ सर्व माणसांनी प्राप्त करावे.
४७ इमं मा
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒मं मा हिँ॑सीर्द्वि॒पादं॑ प॒शुँ स॑हस्रा॒क्षो मेधा॑य ची॒यमा॑नः। म॒युं प॒शुं मेध॑मग्ने जुषस्व॒ तेन॑ चिन्वा॒नस्त॒न्वो᳙ निषी॑द। म॒युं ते॒ शुगृ॑च्छतु॒ यं द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु ॥४७ ॥
मूलम् ...{Loading}...
इ॒मं मा हिँ॑सीर्द्वि॒पादं॑ प॒शुँ स॑हस्रा॒क्षो मेधा॑य ची॒यमा॑नः। म॒युं प॒शुं मेध॑मग्ने जुषस्व॒ तेन॑ चिन्वा॒नस्त॒न्वो᳙ निषी॑द। म॒युं ते॒ शुगृ॑च्छतु॒ यं द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु ॥४७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इ॒मम्। मा। हिँ॒सीः॒। द्वि॒पाद॒मिति द्वि॒ऽपाद॑म्। प॒शुम्। स॒ह॒स्रा॒क्ष इति॑ सहस्रऽअ॒क्षः। मेधा॑य। ची॒यमा॑नः। म॒युम्। प॒शुम्। मेध॑म्। अ॒ग्ने। जु॒ष॒स्व॒। तेन॑। चि॒न्वा॒नः। त॒न्वः᳖। नि। सी॒द॒। म॒युम्। ते॒। शुक्। ऋ॒च्छ॒तु॒। यम्। द्वि॒ष्मः। तम्। ते॒। शुक्। ऋ॒च्छ॒तु॒। ४७।
महीधरः
म० ‘बहिर्वेद्युदङ्तिष्ठन्नुपतिष्ठत उत्सर्गैरिमं मा हिᳪं᳭सीरिति प्रतिमन्त्रम्’ (का० १७ । ५ । १९) । अग्नेरुत्तीर्य वेदेर्बहिर्दक्षिणे उदङ्मुखस्तिष्ठन्निमं मेत्युत्सर्गसंज्ञैः पञ्चमन्त्रैः पुरुषादिशिरांस्युपतिष्ठतेऽध्वर्युः एकपशुपक्षे तमेव पञ्चभिरित्यर्थः । अग्निदेवत्याः पञ्च त्रिष्टुभः आद्ययोरन्ते द्वे यजुषी तिसृणामन्ते त्रीणित्रीणि यजूंषि । हे अग्ने, सहस्राक्षः सहस्रमक्षीणि यस्य सः हिरण्यशकलरूपसहस्रनेत्रो मेधाय यज्ञाय चीयमानः चयनेन संस्क्रियमाणः सन् त्वमिमं द्विपादं पशुं पुरुषरूपं मा हिंसीः मा दह । ‘हिरण्यशकलैर्वा एष सहस्राक्षः द्विपाद्वा एष पशुर्यत्पुरुषः’ (७ । ५। २ । ३२) इति च श्रुतेः । यदि वादनेच्छा तर्हि मेधं शुद्धं मयुं पशुं तुरङ्गवदनं किंपुरुषं पशुं जुषस्व सेवस्व भक्षयेत्यर्थः । ‘किंपुरुषो वै मयुः’ (७ । ५ । २ । ३२) इति श्रुतेः । मयुं कृष्णमृगं वा जुषस्व ‘मयुर्मृगेऽश्ववदने’ इति कोशोक्तेः । तेन मयुभक्षणेन तन्वः ज्वालारूपास्तनूः चिन्वानः पोषयन्निह निषीद । द्वितीयार्थे तन्व इति प्रथमा । इतो यजुः ते तव शुक् शोकः संतापो मयुं किन्नरं मृगं वा ऋच्छतु प्राप्नोतु । किंच यं पुरुषं प्रति वयं द्विष्मः द्वेषं कुर्मः ते तव शुक् तमृच्छतु ॥ ४७ ॥
अष्टाचत्वारिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- विरूप ऋषिः
- विराड् ब्राह्मी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को क्या करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) अग्नि के समान मनुष्य के जन्म को प्राप्त हुए (मेधाय) सुख की प्राप्ति के लिये (चीयमानः) बढ़े हुए (सहस्राक्षः) हजारह प्रकार की दृष्टिवाले राजन् ! तू (इमम्) इस (द्विपादम्) दो पगवाले मनुष्यादि और (मेधम्) पवित्रकारक फलप्रद (मयुम्) जंगली (पशुम्) गवादि पशु जीव को (मा) मत (हिंसीः) मारा कर, उस (पशुम्) पशु की (जुषस्व) सेवा कर, (तेन) उस पशु से (चिन्वानः) बढ़ता हुआ तू (तन्वः) शरीर में (निषीद) निरन्तर स्थिर हो, यह (ते) तेरे से (शुक्) शोक (मयुम्) शस्यादिनाशक जंगली पशु को (ऋच्छतु) प्राप्त होवे (ते) तेरे (यम्) जिस शत्रु से हम लोग (द्विष्मः) द्वेष करें, (तम्) उसको (शुक्) शोक (ऋच्छतु) प्राप्त होवे ॥४७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - कोई भी मनुष्य सब के उपकार करनेहारे पशुओं को कभी न मारे, किन्तु इनकी अच्छे प्रकार रक्षा कर और इन से उपकार ले के सब मनुष्यों को आनन्द देवे। जिन जंगली पशुओं से ग्राम के पशु, खेती और मनुष्यों की हानि हो, उनको राजपुरुष मारें और बन्धन करें ॥४७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्येण किं कार्य्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! पावक इव मनुष्य मेधाय चीयमानः सहस्राक्षस्त्वमिमं द्विपादं मेधं मयुं पशुं च मा हिंसीः, तं पशुं जुषस्व। तेन चिन्वानः सन् तन्वो मध्ये निषीद। इयं ते शुङ् मयुमृच्छतु। ते तव यं शत्रुं वयं द्विष्मस्तं शुगृच्छतु ॥४७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - केनापि मनुष्येणोपकारकाः पशवः कदाचिन्न हिंसनीयाः, किन्त्वेतान् संपाल्यैतेभ्य उपकारं संगृह्य सर्वे मनुष्या आनन्दयितव्याः। यैर्जाङ्गलैर्हिंसकैः पशुशस्यमनुष्याणां हानिः स्यात्, ते तु राजपुरुषैर्हन्तव्या निग्रहीतव्याश्च ॥४७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सर्व प्रकारे उपकार करणाऱ्या प्राण्यांना कोणत्याही माणसाने मारू नये तर त्याचे चांगल्या प्रकारे रक्षण करून त्यांच्यापासून लाभ घ्यावा व सर्व माणसांना आनंदी करावे. ज्या जंगली पशुपासून गावातील पाळीव प्राणी, शेती व माणसे यांची हानी होते त्यांना राजपुरुषांनी बंदिस्त करावे व त्यांचा नाश करावा.
४८ इमं मा
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒मं मा हिँ॑सी॒रेक॑शफं प॒शुं क॑निक्र॒दं वा॒जिनं॒ वाजि॑नेषु। गौ॒रमा॑र॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒न्वो᳙ निषी॑द। गौ॒रं ते॒ शुगृ॑च्छतु॒ यं द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु ॥४८ ॥
मूलम् ...{Loading}...
इ॒मं मा हिँ॑सी॒रेक॑शफं प॒शुं क॑निक्र॒दं वा॒जिनं॒ वाजि॑नेषु। गौ॒रमा॑र॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒न्वो᳙ निषी॑द। गौ॒रं ते॒ शुगृ॑च्छतु॒ यं द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु ॥४८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इ॒मम्। मा। हिँ॒सीः॒। एक॑शफ॒मित्येक॑ऽशफम्। प॒शुम्। क॒नि॒क्र॒दम्। वा॒जिन॑म्। वाजि॑नेषु। गौ॒रम्। आ॒र॒ण्यम्। अनु॑। ते॒। दि॒शा॒मि॒। तेन॑। चि॒न्वा॒नः। त॒न्वः᳖। नि। सी॒द॒। गौ॒रम्। ते॒। शुक्। ऋ॒च्छ॒तु॒। यम्। द्वि॒ष्मः। तम्। ते॒। शुक्। ऋ॒च्छ॒तु॒। ४७।
महीधरः
म० अथ गोः । अत्र विशेषणद्वयं स्त्रीलिङ्गं शेषाणि पुंलिङ्गानि व्यत्ययेन उभाभ्यां गौरेव स्तूयते । हे अग्ने, परमे व्योमन् उत्कृष्टे स्थाने स्थितमिमं गोरूपं पशुं त्वं मा हिंसीः । कीदृशम् । साहस्रं सहस्रमूल्यार्हं सहस्रोपकारक्षमं वा। शतधारं शतसंख्याकक्षीरधारायुतमत एवोत्सम् उत्सः कूपः तत्सदृशम् उत्स इवोत्सस्तं । बहुस्रोतसमित्यर्थः । सरिरस्य मध्ये एषु लोकेष्वन्तः व्यच्यमानं जनैर्विविधमच्यमानमुपजीव्यमानम् । ‘इमे वे लोकाः सरिरम्’ (७।५।२ । ३४ ) इति श्रुतेः । जनाय सर्वलोकाय घृतं दुहानां घृतकारणं क्षीरं क्षरन्तीम् । अदितिमखण्डिताम् । ते तवारण्यं गवयं गोसदृशं पशुविशेषमनुदिशामि । शिष्टमुक्तम् ॥ ४९॥
पञ्चाशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- विरूप ऋषिः
- निचृद् ब्राह्मी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर यह मनुष्य क्या करे, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! तू (वाजिनेषु) संग्राम के कामों में (इमम्) इस (एकशफम्) एक खुरयुक्त (कनिक्रदम्) शीघ्र विकल व्यथा को प्राप्त हुए (वाजिनम्) वेगवाले (पशुम्) देखने योग्य घोड़े आदि पशु को (मा) (हिंसीः) मत मार। मैं ईश्वर (ते) तेरे लिये (यम्) जिस (आरण्यम्) जङ्गली (गौरम्) गौरपशु की (दिशामि) शिक्षा करता हूँ, (तेन) उसके रक्षण से (चिन्वानः) वृद्धि को प्राप्त हुआ (तन्वः) शरीर में (निषीद) निरन्तर स्थिर हो, (ते) तेरे से (गौरम्) श्वेत वर्णवाले पशु के प्रति (शुक्) शोक (ऋच्छतु) प्राप्त होवे और (यम्) जिस शत्रु को हम लोग (द्विष्मः) द्वेष करें, (तम्) उसको (ते) तुझ से (शुक्) शोक (ऋच्छतु) प्राप्त होवे ॥४८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को उचित है कि एक खुरवाले घोड़े आदि पशुओं और उपकारक वन के पशुओं को भी कभी न मारें। जिनके मारने से जगत् की हानि और न मारने से सब का उपकार होता है, उनका सदैव पालन- पोषण करें और जो हानिकारक पशु हों, उन को मारें ॥४८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनरयं मनुष्यः किं कुर्यादित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य ! त्वं वाजिनेष्विममेकशफं कनिक्रदं वाजिनं पशुं मा हिंसीः। ईश्वरोऽहं ते तुभ्यं यमारण्यं गौरं पशुमनु दिशामि, तेन चिन्वानः सँस्तन्वो मध्ये निषीद। ते तव सकाशाद् गौरं शुगृच्छतु यं वयं द्विष्मस्तं ते शुगृच्छतु ॥४८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैरेकशफा अश्वादयः पशवः कदाचिन्नो हिंस्याः, न चोपकारका आरण्याः। येषां हननेन जगतो हानी रक्षणेनोपकारश्च भवति, ते सदैव पालनीया हिंस्राश्च हन्तव्याः ॥४८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - एक खूर असणारे घोडे इत्यादी पशू व वनातील उपकारक पशू यांना कधीही माणसांनी मारू नये. त्यांना मारण्याने जगाचे नुकसान होते व न मारल्यास जगावर उपकार होतो. त्यासाठी त्यांचे नेहमी पालनपोषण करावे व जे हानिकारक पशू आहेत त्यांना मारावे.
४९ इमं साहस्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒मँ सा॑ह॒स्रँ श॒तधा॑र॒मुत्सं॑ व्य॒च्यमा॑नँ सरि॒रस्य॒ मध्ये॑। घृ॒तं दुहा॑ना॒मदि॑तिं॒ जना॒याग्ने॒ मा हिँ॑सीः पर॒मे व्यो॑मन्। ग॒व॒यमा॑र॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒न्वो᳙ निषी॑द। ग॒व॒यं ते॒ शुगृ॑च्छतु॒ यं द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु ॥४९ ॥
मूलम् ...{Loading}...
इ॒मँ सा॑ह॒स्रँ श॒तधा॑र॒मुत्सं॑ व्य॒च्यमा॑नँ सरि॒रस्य॒ मध्ये॑। घृ॒तं दुहा॑ना॒मदि॑तिं॒ जना॒याग्ने॒ मा हिँ॑सीः पर॒मे व्यो॑मन्। ग॒व॒यमा॑र॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒न्वो᳙ निषी॑द। ग॒व॒यं ते॒ शुगृ॑च्छतु॒ यं द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु ॥४९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इ॒मम्। सा॒ह॒स्रम्। श॒तधा॑र॒मिति॑ श॒तऽधा॑रम्। उत्स॑म्। व्य॒च्यमा॑न॒मिति॑ विऽअ॒च्यमा॑नम्। स॒रि॒रस्य॑। मध्ये॑। घृ॒तम्। दुहा॑नाम्। अ॒दि॑तिम्। जना॑य। अग्ने॑। मा। हिँ॒सीः॒। प॒र॒मे। व्यो॑म॒न्निति॒ विऽओ॑मन्। ग॒व॒यम्। आ॒र॒ण्यम्। अनु॑। ते॒। दि॒शा॒मि॒। तेन॑। चि॒न्वा॒नः। त॒न्वः᳖। नि। सी॒द॒। ग॒व॒यम्। ते॒। शुक्। ऋ॒च्छ॒तु॒। यम्। द्वि॒ष्मः। तम्। ते॒। शुक्। ऋ॒च्छ॒तु॒। ४९।
महीधरः
म० अथावेः । हे अग्ने, परमे व्योमन् स्थाने स्थितमिममविं मा हिंसीः । कीदृशमुर्णायुम् । ऊर्णावन्तं । ऊर्णाया युस् । वरुणस्य नाभिं नाभिस्थानीयं प्रियमपत्यमित्यर्थः । द्विपदां नराणां चतुष्पदां गवादीनामुभयरूपाणां पशूनां त्वचम् त्वचमिव त्वचम् त्वग्रक्षकं कम्बलैः छादकत्वात् । मनुष्याः शीतनिवृत्त्यै कम्बलं दधते । अश्वगोखराद्या अपि मार्दवाय पृष्ठे कम्बलैराच्छाद्यन्ते । तथा त्वष्टुः प्रजापतेः प्रजानां मध्ये प्रथमं जनित्रं प्रथमोत्पन्नम् । ‘एतद्ध त्वष्टा प्रथमᳪं᳭ रूपं विचकार’ (७।५।२ । ३५) इति श्रुतेः। उष्ट्रं प्रसिद्धं ते ददामि । स्पष्टमन्यत् ॥ ५० ॥
एकपञ्चाशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- विरूप ऋषिः
- कृतिः
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को कौन पशु न मारने और कौन मारने चाहियें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) दया को प्राप्त हुए परोपकारक राजन् ! तू (जनाय) मनुष्यादि प्राणी के लिये (इमम्) इस (साहस्रम्) असंख्य सुखों का साधन (शतधारम्) असंख्य दूध की धाराओं के निमित्त (व्यच्यमानम्) अनेक प्रकार से पालन के योग्य (उत्सम्) कुए के समान रक्षा करनेहारे वीर्य्यसेचक बैल और (घृतम्) घी को (दुहानाम्) पूर्ण करती हुई (अदितिम्) नहीं मारने योग्य गौ को (मा हिंसीः) मत मार और (ते) तेरे राज्य में जिस (आरण्यम्) वन में रहनेवाले (गवयम्) गौ के समान नीलगाय से खेती की हानि होती हो तो उस को (अनुदिशामि) उपदेश करता हूँ, (तेन) उसके मारने से सुरक्षित अन्न से (परमे) उत्कृष्ट (व्योमन्) सर्वत्र व्यापक परमात्मा और (सरिरस्य) विस्तृत व्यापक आकाश के (मध्ये) मध्य में (चिन्वानः) वृद्धि को प्राप्त हुआ तू (तन्वः) शरीर मध्य में (निषीद) निवास कर (ते) तेरा (शुक्) शोक (तम्) उस (गवयम्) रोझ को (ऋच्छतु) प्राप्त होवे और (यम्) जिस (ते) तेरे शत्रु का (द्विष्मः) हम लोग द्वेष करें, उस को भी (शुक्) शोक (ऋच्छतु) प्राप्त होवे ॥४९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे राजपुरुषो ! तुम लोगों को चाहिये कि जिन बैल आदि पशुओं के प्रभाव से खेती आदि काम; जिन गौ आदि से दूध, घी आदि उत्तम पदार्थ होते हैं कि जिन के दूध आदि से सब प्रजा की रक्षा होती है, उनको कभी मत मारो और जो जन इन उपकारक पशुओं को मारें, उनको राजादि न्यायाधीश अत्यन्त दण्ड देवें और जो जङ्गल में रहनेवाले नीलगाय आदि प्रजा की हानि करें, वे मारने योग्य हैं ॥४९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैः के पशवो नो हिंसनीया हिंसनीयाश्चेत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! त्वं जनायेमं साहस्रं शतधारं व्यच्यमानमुत्समिव वीर्य्यसेचकं वृषभं घृतं दुहानामदितिं धेनुं च मा हिंसीः, स ते तुभ्यमपरमारण्यं गवयमनुदिशामि तेन परमे व्योमन् सरिरस्य मध्ये चिन्वानः संस्तन्वो निषीद। तं गवयं ते शुगृच्छतु यन्ते शत्रुं वयं द्विष्मस्तमति शुगृच्छतु शोकः प्राप्नोतु ॥४९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। राजमनुष्या येभ्यो वृषादिभ्यः कृष्यादीनि कर्माणि भवन्ति, याभ्यो गवादिभ्यो दुग्धादिपदार्था जायन्ते, यैः सर्वेषां रक्षणं भवति ते कदाचिन्नैव हिंसनीयाः। य एतान् हिंस्युस्तेभ्यो राजादिन्यायेशा अतिदण्डं दद्युः, ये च जाङ्गला गवयादयो प्रजाहानिं कुर्युस्ते हन्तव्याः ॥४९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे राजपुरुषांनो ! ज्या बैल इत्यादी पशूंपासून शेतीची कामे व गाईपासून दूध, तूप इत्यादी उत्तम पदार्थ मिळतात. ज्यांच्या दुधाने प्रजेचे रक्षण होते, त्यांना कधी मारू नका. जे लोक या उपकारक पशूंना मारतात त्यांना राजा इत्यादी न्यायाधीशांनी प्रचंड शिक्षा करावी व जंगलात राहणाऱ्या नीलगाय वगैरे प्राणी प्रजेची हानी करत असतील तर त्यांना मारावे.
५० इममूर्णायुं वरुणस्य
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒ममू॑र्णा॒युं वरु॑णस्य॒ नाभिं॒ त्वचं॑ पशू॒नां द्वि॒पदां॒ चतु॑ष्पदाम्। त्वष्टुः॑ प्र॒जानां॑ प्रथ॒मं ज॒नित्र॒मग्ने॒ मा हिँ॑सीः पर॒मे व्यो॑मन्। उष्ट्र॑मार॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒न्वो᳙ निषी॑द। उष्ट्रं॑ ते॒ शुगृ॑च्छतु॒ यं द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु ॥५० ॥
मूलम् ...{Loading}...
इ॒ममू॑र्णा॒युं वरु॑णस्य॒ नाभिं॒ त्वचं॑ पशू॒नां द्वि॒पदां॒ चतु॑ष्पदाम्। त्वष्टुः॑ प्र॒जानां॑ प्रथ॒मं ज॒नित्र॒मग्ने॒ मा हिँ॑सीः पर॒मे व्यो॑मन्। उष्ट्र॑मार॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒न्वो᳙ निषी॑द। उष्ट्रं॑ ते॒ शुगृ॑च्छतु॒ यं द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु ॥५० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इ॒मम्। ऊ॒र्णा॒युम्। वरु॑णस्य। नाभि॑म्। त्वच॑म्। प॒शू॒नाम्। द्वि॒पदा॒मिति द्वि॒ऽपदा॑म्। चतु॑ष्पदाम्। चतुः॑ऽपदा॒मिति॒ चतुः॑ऽपदाम्। त्वष्टुः॑। प्र॒जाना॒मिति॑ प्र॒ऽजाना॑म्। प्र॒थ॒मम्। ज॒नित्र॑म्। अग्ने॑। मा। हिँ॒सीः॒। प॒र॒मे। व्यो॑म॒न्निति॒ विऽओ॑मन्। उष्ट्र॑म्। आ॒र॒ण्यम्। अनु॑। ते॒। दि॒शा॒मि॒। तेन॑। चि॒न्वा॒नः। त॒न्वः᳖। नि। सी॒द॒। उष्ट्र॑म्। ते॒। शुक्। ऋ॒च्छ॒तु॒। यम्। द्वि॒ष्मः। तम्। ते॒। शुक्। ऋ॒च्छ॒तु॒। ५०।
महीधरः
म० अथाजस्य । हि पादपूरणः । योऽजोऽग्नेः प्रजापतेः शोकात्संतापादजनिष्ट उत्पन्नः, शोकाद्दीप्यमानादग्नेः प्रजापतेरजनिष्टेति वा । ‘यद्वै प्रजापतेः शोकादजायत तदग्नेः शोकादजायत’ ( ७ । ५। २ । ३६) इति श्रुतेः । ‘आत्मनो वपामुदखिदत्तामग्नौ प्रगृह्णात्ततोऽजस्तूपरः समभवत्’ इति तैत्तिरीयेऽपि । स उत्पन्नोऽजोऽग्रे प्रथममुत्पन्नं नरमेव जनितारं स्वोत्पादकं प्रजापतिमपश्यद्दृष्टवान् । किंच एवं प्रशस्तोऽजस्ततो देवा इदानींतना अग्रं पूर्वजन्मनि तेनाजेन कर्म कृत्वेति शेषः । देवतां देवभावमायन् प्राप्ताः । ‘तस्य भावस्वतलौ’ । किंच मेध्यासः मेध्या यज्ञयोग्या यजमाना रोहं रोहणीयं स्वर्गं तेनाजेनोपायन्नुपगच्छन्ति । ‘छन्दसि परेऽपि’ (पा० |१।४। ८१ ) इति । शरभोऽष्टापदो मृगविशेषः सिंहघाती । । शेषमुक्तम् ॥ ५१ ॥
द्विपञ्चाशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- विरूप ऋषिः
- कृतिः
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर किन पशुओं को न मारना और किन को मारना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्या को प्राप्त हुए राजन् ! तू (वरुणस्य) प्राप्त होने योग्य श्रेष्ठ सुख के (नाभिम्) संयोग करनेहारे (इमम्) इस (द्विपदाम्) दो पगवाले मनुष्य, पक्षी आदि (चतुष्पदाम्) चार पगवाले (पशूनाम्) गाय आदि पशुओं की (त्वचम्) चमड़े से ढाँकनेवाले और (त्वष्टुः) सुखप्रकाशक ईश्वर की (प्रजानाम्) प्रजाओं के (प्रथमम्) आदि (जनित्रम्) उत्पत्ति के निमित्त (परमे) उत्तम (व्योमन्) आकाश में वर्त्तमान (ऊर्णायुम्) भेड़ आदि को (मा हिंसीः) मत मार (ते) तेरे लिये मैं ईश्वर (यम्) जिस (आरण्यम्) बनैले (उष्ट्रम्) हिंसक ऊँट को (अनुदिशामि) बतलाता हूँ, (तेन) उससे सुरक्षित अन्नादि से (चिन्वानः) बढ़ता हुआ (तन्वः) शरीर में (निषीद) निवास कर (ते) तेरा (शुक्) शोक उस जंगली ऊँट को (ऋच्छतु) प्राप्त हो और जिस द्वेषीजन से हम लोग (द्विष्मः) अप्रीति करें (तम्) उसको (ते) तेरा (शुक्) शोक (ऋच्छतु) प्राप्त होवे ॥५० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे राजन् ! जिन भेड़ आदि के रोम और त्वचा मनुष्यों के सुख के लिये होती हैं और जो ऊँट भार उठाते हुए मनुष्यों को सुख देते हैं, उनको जो दुष्टजन मारा चाहें, उनको संसार के दुःखदायी समझो और उनको अच्छे प्रकार दण्ड देना चाहिये और जो जंगली ऊँट हानिकारक हों, उन्हें भी दण्ड देना चाहिये ॥५० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः के पशवो न हिंस्या हिंस्याश्चेत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! प्राप्तविद्य राजंस्त्वमिमं वरुणस्य नाभिं द्विपदां चतुष्पदां पशूनां त्वचं त्वष्टुः प्रजानां प्रथमं जनित्रं परमे व्योमन् वर्त्तमानमूर्णायुं मा हिंसीः। ते यं धान्यहिंसकमारण्यमुष्ट्रं हन्तुमनुदिशामि, तेन चिन्वानः सँस्तन्वो मध्ये निषीद। ते शुगारण्यमुष्ट्रमृच्छतु यं ते द्वेष्टारं वयं द्विष्मस्तं शुगृच्छतु ॥५० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे राजन् ! येषामव्यादीनां लोमानि त्वगपि मनुष्याणां सुखाय प्रभवति, य उष्ट्रा भारं वहन्तो मनुष्यान् सुखयन्ति, तान् ये हन्तुमिच्छेयुस्ते जगत्पीडका विज्ञेयाः सम्यग् दण्डनीयाश्च, ये चारण्या उष्ट्रा हानिकरास्तेऽपि दण्डनीयाः ॥५० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे राजा ! मेंढी इत्यादींचे केस व त्वचा माणसाच्या सुखासाठी असतात. उंट भारवाहक बनून माणसांना सुखी करतात त्यांना जे दुष्ट लोक मारू इच्छितात ते जगाला दुःखी करतात त्यामुळे त्यांना चांगल्या प्रकारे शिक्षा दिली पाहिजे.
५१ अजो ह्यग्नेरजनिष्ट
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒जो ह्य॒ग्नेरज॑निष्ट॒ शोका॒त् सोऽ अ॑पश्यज्जनि॒तार॒मग्रे॑। तेन॑ दे॒वा दे॒वता॒मग्र॑मायँ॒स्तेन॒ रोह॑माय॒न्नुप॒ मेध्या॑सः। श॒र॒भमा॑र॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒न्वो᳙ निषी॑द। श॒र॒भं ते॒ शुगृ॑च्छतु॒ यं द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु ॥५१ ॥
मूलम् ...{Loading}...
अ॒जो ह्य॒ग्नेरज॑निष्ट॒ शोका॒त् सोऽ अ॑पश्यज्जनि॒तार॒मग्रे॑। तेन॑ दे॒वा दे॒वता॒मग्र॑मायँ॒स्तेन॒ रोह॑माय॒न्नुप॒ मेध्या॑सः। श॒र॒भमा॑र॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒न्वो᳙ निषी॑द। श॒र॒भं ते॒ शुगृ॑च्छतु॒ यं द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु ॥५१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒जः। हि। अ॒ग्नेः। अज॑निष्ट। शोका॑त्। सः। अ॒प॒श्य॒त्। ज॒नि॒तार॑म्। अग्रे॑। तेन॑। दे॒वाः। दे॒वता॑म्। अग्र॑म्। आ॒य॒न्। तेन॑। रोह॑म्। आ॒य॒न्। उप॑। मेध्या॑सः। श॒र॒भम्। आ॒र॒ण्यम्। अनु॑। ते॒। दि॒शा॒मि॒। तेन॑। चि॒न्वा॒नः। त॒न्वः᳖। नि। सी॒द॒। श॒र॒भम्। ते॒। शुक्। ऋ॒च्छ॒तु॒। यम्। द्वि॒ष्मः। तम्। ते॒। शुक्। ऋ॒च्छ॒तु॒। ५१।
महीधरः
म० ‘एत्य च त्वं यविष्ठेति चित्योपस्थानम्’ ( का० १७। ६।१) बहिर्वेदेरागत्याग्निसमीपेऽर्धचित्यमुपतिष्ठते । उशनोदृष्टा, निरुक्ताग्नेयी गायत्री । हे यविष्ठ युवतम, यद्वा मिश्रयितृतम, गिरोऽस्मदीयाः स्तुतिवाचः शृणुधि शृणु ‘श्रुशृणु-’ (पा. ६। ४ । १०२) इत्यादिना हेर्धिः ‘अन्येषामपि दृश्यते’ (पा० ६।३ । १३७ ) इति संहितायां दीर्घः । गिरः श्रुत्वा दाशुषो हविर्दत्तवतो यजमानान् नॄन्मनुष्यान् पाहि रक्ष । दाशुष इति षष्ठी वा । यजमानस्य नॄन् पाहीति । ‘दाश्वान्साह्वान्मीढ्वांश्च’ (पा० ६ । १ । १२) इति निपातः । किंच उतापि च त्मना आत्मना लोकं यजमानापत्यं रक्ष ‘द्व्यचोऽतस्तिङः’ (पा० ६ । ३ । १३५) इति संहितायां दीर्घः । ‘मन्त्रेष्वाङ्यादेरात्मानः’ (पा० ६ । ४ । १४१) इति आकारलोपः । लोकमपत्यमुतात्मानं च रक्षेति विभक्तिव्यत्ययो वा ॥ ५२ ॥
त्रिपञ्चाशी॥
अधिमन्त्रम् (VC)
- अग्निर्देवता
- विरूप ऋषिः
- भुरिक्कृतिः
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को कौन से पशु न मारने और कौन से मारने चाहियें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! तू जो (हि) निश्चित (अजः) बकरा (अजनिष्ट) उत्पन्न होता है, (सः) वह (अग्रे) प्रथम (जनितारम्) उत्पादक को (अपश्यत्) देखता है, जिससे (मेध्यासः) पवित्र हुए (देवाः) विद्वान् (अग्रम्) उत्तम सुख और (देवताम्) दिव्यगुणों के (उपायन्) उपाय को प्राप्त होते हैं और जिससे (रोहम्) वृद्धियुक्त प्रसिद्धि को (आयन्) प्राप्त होवें, (तेन) उससे उत्तम गुणों, उत्तम सुख तथा (तेन) उससे वृद्धि को प्राप्त हो। जो (आरण्यम्) बनैली (शरभम्) शेही (ते) तेरी प्रजा को हानि देनेवाली है, उसको (अनुदिशामि) बतलाता हूँ, (तेन) उससे बचाए हुए पदार्थ से (चिन्वानः) बढ़ता हुआ (तन्वः) शरीर में (निषीद) निवास कर और (तम्) उस (शरभम्) शल्यकी को (ते) तेरा (शुक्) शोक (ऋच्छतु) प्राप्त हो और (ते) तेरे (यम्) जिस शत्रु से हम लोग (द्विष्मः) द्वेष करें, उसको (शोकात्) शोकरूप (अग्नेः) अग्नि से (शुक्) शोक अर्थात् शोक से बढ़कर शोक अत्यन्त शोक (ऋच्छतु) प्राप्त होवे ॥५१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को उचित है कि बकरे और मोर आदि श्रेष्ठ पशु पक्षियों को न मारें और इनकी रक्षा कर के उपकार के लिये संयुक्त करें और जो अच्छे पशुओं और पक्षियों के मारनेवाले हों, उनको शीघ्र ताड़ना देवें। हाँ, जो खेती को उजाड़ने हारे श्याही आदि पशु हैं, उन को प्रजा की रक्षा के लिये मारें ॥५१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैः के पशवो न हन्तव्याः के च हन्तव्या इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे राजंस्त्वं यो ह्यजोऽजनिष्ट सोऽग्रे जनितारमपश्यत्, येन मेध्यासो देवा अग्रं देवतां सुखमुपायन्, येन रोहमुपायन्, तेनोत्तमगुणतामग्रं सुखं तेन वृद्धिं च प्राप्नुहि। यमारण्यं शरभं तेऽनुदिशामि तेन चिन्वानः संस्तन्वो निषीद। तं शरभं ते शुगृच्छतु, यं ते तवारिं वयं द्विष्मस्तं शोकादग्नेः शुगृच्छतु ॥५१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - राजजनैरजादीनहत्वा संरक्ष्यैते उपकाराय संयोजनीयाः। ये शुभपशुपक्षिहिंसका भवेयुस्ते भृशं ताडनीयाः। यदि शल्यकी हानिकारिका स्यात्, तर्हि सा प्रजापालनाय हन्तव्या ॥५१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - शेळी, मोर इत्यादी चांगल्या पशूंना, पक्ष्यांना माणसांनी मारू नये. त्यांचे रक्षण करून त्यांचा लाभ करून घ्यावा. जे चांगल्या पशू पक्ष्यांना मारतात त्यांना ताबडतोब शिक्षा करावी. शेतीची नासाडी करणाऱ्या पशूंना मारावे. कारण त्यामुळे प्रजेचे रक्षण होते.
५२ त्वं यविष्ठ
विश्वास-प्रस्तुतिः ...{Loading}...
त्वं य॑विष्ठ दा॒शुषो॒ नॄः पा॑हि शृणु॒धी गिरः॑। रक्षा॑ तो॒कमु॒त त्मना॑ ॥५२ ॥
मूलम् ...{Loading}...
त्वं य॑विष्ठ दा॒शुषो॒ नॄः पा॑हि शृणु॒धी गिरः॑। रक्षा॑ तो॒कमु॒त त्मना॑ ॥५२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
त्वम्। य॒वि॒ष्ठ॒। दा॒शुषः॑। नॄन्। पा॒हि॒। शृ॒णु॒धि। गिरः॑। रक्ष॑। तो॒कम्। उ॒त। त्मना॑। ५२।
महीधरः
म० ‘अपरेण स्वयमातृण्णामेत्यापस्याः पञ्चपञ्चानूकान्तेष्वपां त्वेमन्निति प्रतिमन्त्रम्’ ( १७ । ६ । २) तीर्थेनाग्निमारुह्य स्वयमातृण्णामपरेण पूर्वानूकान्तमेत्य चतुर्ष्वप्यनूकान्तेष्वपां त्वेमन्निति प्रतिमन्त्रं पञ्चपञ्चापस्यासंज्ञा इष्टका उपदधातीति सूत्रार्थः । विंशतिरिष्टकादेवत्यानि यजूंषि पञ्चदशापस्यादेवत्यानि पञ्च छन्दस्यादेवत्यानि । हे इष्टके अपस्ये, अपामेमन् एमनि वायौ त्वा त्वां सादयामि स्थापयामि । ‘इण् गतौ’ मनिन्प्रत्ययः सप्तम्या लुक् त्वा इत्यस्य पररूपम् । अत्रापामेमन्नित्यादीनां श्रुत्योक्तोऽर्थो ग्राह्यः । ‘वायुर्वा अपामेम वायौ त्वाᳪं᳭सादयामि’ ( ७ । ५। २ । ४६) इति श्रुतेः । अपामोद्मन् ओद्मनि ओषधिषु त्वां सादयामि । ‘उन्दी क्लेदे’ मन्नलोपश्च गुणः सप्तम्या लुक् । ‘ओषधयो वा अपामोद्म’ [७ । ५। २ । ४७-६० ] एवमग्रेऽपि तुल्यम् । भस्मन् भस्मनि । ‘भस भर्त्सनदीप्त्योः’ मन् । अभ्रे ‘अभ्रं वा अपां भस्म’ अपां ज्योतिषि विद्युति । ‘विद्युद्वा अपां ज्योतिः’। अपामयने भूमौ । ‘इयं पृथिव्यपामयनम् । अर्णवे सदने स्थाने प्राणरूपे सा० । ‘प्राणो वा अर्णवः’ । समुद्रे सदने सा० । ‘मनो वे समुद्रः’ । सरिरे सदने वाचि सा० । ‘वाग्वै सरिरम्’। अपां क्षये चक्षुषि त्वां सा० । ‘चक्षुर्वा अपां क्षयः’ । क्षयो निवासः । अपां सधिषि श्रोत्रे त्वां सा० । ‘श्रोत्रं वा अपाᳪं᳭ सधिः’ । अपां सदने दिवि त्वां सा० । द्यौर्वा अपाᳪं᳭ सदनम् अपां सधस्थे अन्तरिक्षे त्वां सा० । ‘अन्तरिक्षं वा अपाᳪं᳭सधस्थम्’ । अपां योनौ समुद्रे त्वां सा० । ‘समुद्रो वा अपां योनिः’ । अपां पुरीषे सिकतासु त्वां सा० । ‘सिकता वा अपां पुरीषम्’ अपां पाथसि अन्ने त्वां सा० । ‘अन्नं वा अपां पाथः’ । पञ्च छन्दस्या उपदधाति पञ्च यजुर्भिः । गायत्रेण गायत्र्येव गायत्रं तेन छन्दसा त्वामुपदधामि । त्रैष्टुभेन छन्दसा त्वां सा० । जागतेन छन्दसा त्वां सा० । आनुष्टुभेन छन्दसा त्वां सा० । पाङ्क्तेन छन्दसा त्वां सा० ॥ ५३ ॥
चतुःपञ्चाशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- उशना ऋषिः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर कैसे पशुओं की रक्षा करना और हनना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (यविष्ठ) अत्यन्त युवा ! (त्वम्) तू रक्षा किये हुए इन पशुओं से (दाशुषः) सुखदाता (नॄन्) धर्मरक्षक मनुष्यों की (पाहि) रक्षा कर, इन (गिरः) सत्य वाणियों को (शृणुधि) सुन और (त्मना) अपने आत्मा से मनुष्य (उत्) और पशुओं के (तोकम्) बच्चों की (रक्ष) रक्षा कर ॥५२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य मनुष्यादि प्राणियों के रक्षक पशुओं को बढ़ाते हैं और कृपामय उपदेशों को सुनते-सुनाते हैं, वे आन्तर्य सुख को प्राप्त होते हैं ॥५२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः कीदृशा रक्ष्या हिंसनीयाश्चेत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे यविष्ठ ! त्वं संरक्षितैरेतैः पशुभिर्दाशुषो नॄन् पाहि। इमा गिरः शृणुधि, त्मना मनुष्याणामुत पशूनां तोकं रक्ष ॥५२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्या मनुष्यादिरक्षकान् पशून् वर्धयन्ते, करुणामयानुपदेशान् शृण्वन्ति श्रावयन्ति, त आत्मजं सुखं लभन्ते ॥५२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे मनुष्य इत्यादी प्राण्यांचे रक्षक, पशूंचे आश्रयदाते असतात व सत्योपदेश ऐकतात, ऐकवितात त्यांना आंतरिक सुख प्राप्त होते.
५३ अपां त्वेमन्त्सादयाम्यपाम्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒पां त्वेम॑न्त्सादयाम्य॒पां त्वोद्म॑न्सादयाम्य॒पां त्वा॒ भस्म॑न्त्सादयाम्य॒पां त्वा॒ ज्योति॑षि सादयाम्य॒पां त्वाय॑ने सादयाम्यर्ण॒वे त्वा॒ सद॑ने सादयामि समु॒द्रे त्वा॒ सद॑ने सादयामि। सरि॒रे त्वा॒ सद॑ने सादयाम्य॒पां त्वा॒ क्षये॑ सादयाम्य॒पां त्वा॒ सधि॑षि सादयाम्य॒पां त्वा॒ सद॑ने सादयाम्य॒पां त्वा॑ स॒धस्थे॑ सादयाम्य॒पां त्वा॒ योनौ॑ सादयाम्य॒पां त्वा॒ पुरी॑षे सादयाम्य॒पां त्वा॒ पाथ॑सि सादयामि। गाय॒त्रेण॑ त्वा॒ छन्द॑सा सादयामि॒ त्रैष्टु॑भेन त्वा॒ छन्द॑सा सादयामि॒ जाग॑तेन त्वा॒ छन्द॑सा सादया॒म्यानु॑ष्टुभेन त्वा॒ छन्द॑सा सादयामि॒ पाङ्क्ते॑न त्वा॒ छन्द॑सा सादयामि ॥५३ ॥
मूलम् ...{Loading}...
अ॒पां त्वेम॑न्त्सादयाम्य॒पां त्वोद्म॑न्सादयाम्य॒पां त्वा॒ भस्म॑न्त्सादयाम्य॒पां त्वा॒ ज्योति॑षि सादयाम्य॒पां त्वाय॑ने सादयाम्यर्ण॒वे त्वा॒ सद॑ने सादयामि समु॒द्रे त्वा॒ सद॑ने सादयामि। सरि॒रे त्वा॒ सद॑ने सादयाम्य॒पां त्वा॒ क्षये॑ सादयाम्य॒पां त्वा॒ सधि॑षि सादयाम्य॒पां त्वा॒ सद॑ने सादयाम्य॒पां त्वा॑ स॒धस्थे॑ सादयाम्य॒पां त्वा॒ योनौ॑ सादयाम्य॒पां त्वा॒ पुरी॑षे सादयाम्य॒पां त्वा॒ पाथ॑सि सादयामि। गाय॒त्रेण॑ त्वा॒ छन्द॑सा सादयामि॒ त्रैष्टु॑भेन त्वा॒ छन्द॑सा सादयामि॒ जाग॑तेन त्वा॒ छन्द॑सा सादया॒म्यानु॑ष्टुभेन त्वा॒ छन्द॑सा सादयामि॒ पाङ्क्ते॑न त्वा॒ छन्द॑सा सादयामि ॥५३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒पाम्। त्॒वा। एम॑न् सा॒द॒या॒मि॒। अ॒पाम् त्वा॒ ओद्म॑न्। सा॒द॒या॒मि॒। अ॒पाम्। त्वा॒। भस्म॑न्। सा॒द॒या॒मि॒। अ॒पाम्। त्वा॒। ज्योति॑षि। सा॒द॒या॒मि॒। अ॒पाम्। त्वा॒। अय॑ने। सा॒द॒या॒मि॒। अ॒र्ण॒वे। त्वा॒। सद॑ने। सा॒द॒या॒मि॒। स॒मु॒द्रे। त्वा॒। सद॑ने। सा॒द॒या॒मि॒। स॒रि॒रे। त्वा॒। सद॑ने। सा॒द॒या॒मि॒। अ॒पाम्। त्वा॒। क्षये॑। सा॒द॒या॒मि॒। अ॒पाम्। त्वा॒। सधि॑षि। सा॒द॒या॒मि॒। अ॒पाम्। त्वा॒। सद॑ने। सा॒द॒या॒मि। अ॒पाम्। त्वा॒। स॒धस्थ॒ इति॑ स॒धऽस्थे॑। सा॒द॒या॒मि॒। अ॒पाम्। त्वा॒। योनौ॑। सा॒द॒या॒मि॒। अ॒पाम्। त्वा॒। पुरी॑षे। सा॒द॒या॒मि॒। अ॒पाम्। त्वा॒। पाथ॑सि। सा॒द॒या॒मि॒। गा॒य॒त्रेण॑। त्वा॒। छन्द॑सा। सा॒द॒या॒मि॒। त्रैष्टु॑भेन। त्रैस्तु॑भे॒नेति॒ त्रैऽस्तु॑भेन। त्वा॒। छन्द॑सा। सा॒द॒या॒मि॒। जाग॑तेन। त्वा॒। छन्द॑सा। सा॒द॒या॒मि॒। आनु॑ष्टुभेन। आनु॑स्तुभे॒नेत्यानु॑ऽस्तुभेन। त्वा॒। छन्द॑सा। सा॒द॒या॒मि॒। पाङ्क्ते॑न। त्वा॒। छन्द॑सा। सा॒द॒या॒मि॒। ५३।
महीधरः
म० ‘व्याघारणवत्प्राणभृतः कर्णसहिता दशदशायं पुर इति प्रतिमन्त्रम्’ ( का० १७ । ६ । ३) । प्राणभृत्संज्ञका इष्टका व्याघारणवद्दक्षिणे अंसे उत्तरश्रोण्यां दक्षिणश्रोण्यामुत्तरे अंसे कर्णसहिता अक्ष्णया संलग्नाः स्वयमातृण्णापर्यन्तं दश दशोपदधातीति सूत्रार्थः । पञ्चाशद्यजूंषि प्राणभृदिष्टकादेवत्यानि प्रतिकण्डिकं दश-दश । प्रथमं दशकं दक्षिणे अंसे । कदाचिद्व्यग्रात्प्रजापतेः प्राणा देवा भूत्वोत्क्रान्ताः तदा तान्प्रजापतिरूचे किमित्युत्क्रम्यते मामुपगच्छतेति । ततः प्राणास्तमूचुर्वयमन्नं विना स्थातुं न शक्नुमस्तदन्नं त्वया सृज्यते चेत्तिठामः । ततः प्रजापतिनोक्तं वयमुभयेऽन्नं सृजामेति तथेत्युक्त्वा प्राणाः प्रजापतिश्चैतदन्नमसृजंस्तेन प्राणान्पुष्णन्तीति इष्टकानां प्राणभृत्संज्ञेत्युक्तं श्रुत्या ‘प्रजापतेर्विस्रस्तात् प्राणा उदक्रामन्’ (८ । १ । १।३) इत्यादिकया । अथ मन्त्रव्याख्या । योऽयं पुरो भुवश्चाग्निर्वर्तते हे इष्टके, त्वं तद्रूपासि । प्राण एवाग्निर्भूत्वा पुरस्तिष्ठति अतोऽग्निरूपां त्वामुपदधामीति शेषः । एवमग्रेऽपि । पुरस्तादुपधीयते प्रागुद्ध्रियते प्राङुपचर्यत इति पुरोऽग्निः । भवति सर्वरूपेणेति भवत्यस्मात्सर्वमिति वा भुवोऽग्निः तद्रूपेष्टका ध्येयेति भावः । तदुक्तं श्रुत्या ‘अयं पुरो भुव इत्यग्निर्वै पुरस्ताद्यत्तमाह पुर इति प्राञ्चᳪं᳭ह्यग्निमुद्धरन्ति प्राञ्चमुपचरन्त्यथ यद्भुव इत्याहाग्निर्वै भुवोऽग्नेर्हीदᳪं᳭ सर्वं भवति प्राणो हाग्निर्भूत्वा पुरस्तात्तस्थौ तदेव तद्रूपमुपदधातीति’ ( ८ । १।१।४)। प्राणस्तस्याग्नेरपत्यमिति शेषः । अतएव भौवायनः भुवस्याग्नेरपत्यं भौवायनः । नडादित्वात्फक् । इष्टके, प्राणरूपां त्वां सा० । ‘प्राणं तस्माद्रूपादग्नेर्निरमिमीत’ (८ । १।१ । ५) इति श्रुतेः । प्राणस्यापत्यं प्राणायनः फक् । यो वसन्त ऋतुस्तद्रूपां सा० । ‘वसन्तमृतुं प्राणान्निरमिमीत’ (८। १।१।५) इति श्रुतेः । वसन्तस्यापत्यं वासन्ती ‘तस्यापत्यम्’ (पा० ४ । १ । ९२ ) इत्यण् ‘टिड्ढाणञ्’ (पा० ४ । १।१५) इत्यादिना डीप् । या गायत्री छन्दस्तद्रूपां सा० । ‘गायत्रीं छन्दो वसन्तादृतोर्निरमिमीत’ ( ८ । १।१।५) इति श्रुतेः । गायत्र्यैव गायत्रं चतुर्थी पञ्चम्यर्थे । गायत्र्याः सकाशाद्गायत्रं सामोत्पन्नं तद्रूपां सा० । ‘गायत्र्यै छन्दसो गायत्रᳪं᳭साम निरमिमीत’ ( ८।३।१।५) इति श्रुतेः । गायत्रात्साम्नो य उपांशुग्रहो निर्मितस्तद्रूपां सा० । ‘गायत्रात्साम्न उपाᳪं᳭शुं ग्रहं निरमिमीत’ (८।१।१।५) इति श्रुतेः। उपांशुग्रहान्निर्मितो यस्त्रिवृत्स्तोमस्तद्रूपां सा० । ‘उपाᳪं᳭शोर्ग्रहात्त्रिवृतᳪं᳭ स्तोमं निरमिमीत’ (८।१।१।५) इति श्रुतेः । त्रिवृतः स्तोमान्निर्मितं यद्रथन्तरं पृष्ठं तद्रूपां सा० । ‘त्रिवृतः स्तोमाद्रथन्तरं पृष्ठं निरमिमीत’ ( ८ । १।१।५) इति श्रुतेः । वसत्यधितिष्ठति सर्वजन्तूनिति वस्ता अतिशयेन वस्ता वसिष्ठः ‘तुरिष्ठेमेयस्सु’ (६।४। १५४ ) इतीष्ठनि तृचो लोपः । सर्वाधार ऋषिः ज्ञाता प्राणस्तद्रूपां सा० । ‘प्राणो वै वसिष्ठ ऋषिर्यद्वैनु श्रेष्ठस्तेन वसिष्टोऽथो यद्वस्तृतमो वसति तेनो एव वसिष्ठः’ (८। १।१।६) इति श्रुतेः । प्रजापतिगृहीतया । गृह्णातिः सृष्ट्यर्थः। प्रजापतिना सृष्टया त्वयेष्टकया स्थापितया प्रजाभ्यः सर्वप्रजार्थं प्राणं गृह्णामि । प्रजानां प्राणसिद्धये त्वामुपदधामीत्यर्थः । अयं पुर इत्यादिदशमन्त्रैः प्राणमेवैकं प्रजाभ्यः गृह्णामि । ‘ये नानाकामाः प्राणे तांस्तद्दधाति सकृत्सादयत्येकं तत्प्राणं करोति’ (८।१।१।६) इति श्रुतेः ॥ ५४ ॥
पञ्चपञ्चाशी।
अधिमन्त्रम् (VC)
- आपो देवताः
- उशना ऋषिः
- ब्राह्मी पङ्क्तिः, ब्राह्मी जगती
- पञ्चमः, निषादः
दयानन्द-सरस्वती (हि) - विषयः
अब पढ़नेवालों को पढ़ानेवाले क्या उपदेश करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य ! जैसे शिक्षा करनेवाला मैं (अपाम्) प्राणों की रक्षा के निमित्त (एमन्) गमनशील वायु में (त्वा) तुझ को (सादयामि) स्थापित करता हूँ, (अपाम्) जलों की (ओद्मन्) आर्द्रतायुक्त ओषधियों में (त्वा) तुझ को (सादयामि) स्थापना करता हूँ, (अपाम्) प्राप्त हुए काष्ठों की (भस्मन्) राख में (त्वा) तुझ को (सादयामि) संयुक्त करता हूँ, (अपाम्) व्याप्त हुए बिजुली आदि अग्नि के (ज्योतिषि) प्रकाश में (त्वा) तुझ को (सादयामि) नियुक्त करता हूँ, (अपाम्) अवकाशवाले (अयने) स्थान में (त्वा) तुझ को (सादयामि) बैठाता हूँ, (सदने) स्थिति के योग्य (अर्णवे) प्राणविद्या में (त्वा) तुझ को (सादयामि) संयुक्त करता हूँ, (सदने) गमनशील (समुद्रे) मन के विषय में (त्वा) तुझ को (सादयामि) सम्बद्ध करता हूँ, (सदने) प्राप्त होने योग्य (सरिरे) वाणी के विषय में (त्वा) तुझ को (सादयामि) संयुक्त करता हूँ, (अपाम्) प्राप्त होने योग्य पदार्थों के सम्बन्धी (क्षये) घर में (त्वा) तुझ को (सादयामि) स्थापित करता हूँ, (अपाम्) अनेक प्रकार के व्याप्त शब्दों के सम्बन्धी (सधिषि) उस पदार्थ में कि जिससे अनेक शब्दों को समान यह जीव सुनता है अर्थात् कान के विषय में (त्वा) तुझ को (सादयामि) स्थित करता हूँ, (अपाम्) जलों के (सदने) अन्तरिक्षरूप स्थान में (त्वा) तुझ को (सादयामि) स्थापित करता हूँ, (अपाम्) जलों के (सधस्थे) तुल्यस्थान में (त्वा) तुझ को (सादयामि) स्थापित करता हूँ, (अपाम्) जलों के (योनौ) समुद्र में (त्वा) तुझ को (सादयामि) नियुक्त करता हूँ, (अपाम्) जलों की (पुरीषे) रेती में (त्वा) तुझ को (सादयामि) नियुक्त करता हूँ, (अपाम्) जलों के (पाथसि) अन्न में (त्वा) तुझ को (सादयामि) प्रेरणा करता हूँ, (गायत्रेण) गायत्री छन्द से निकले (छन्दसा) स्वतन्त्र अर्थ के साथ (त्वा) तुझको (सादयामि) नियुक्त करता हूँ, (त्रैष्टुभेन) त्रिष्टुप् मन्त्र से विहित (छन्दसा) शुद्ध अर्थ के साथ (त्वा) तुझ को (सादयामि) नियुक्त करता हूँ, (जागतेन) जगती छन्द में कहे (छन्दसा) आनन्दायक अर्थ के साथ (त्वा) तुझ को (सादयामि) नियुक्त करता हूँ, (आनुष्टुभेन) अनुष्टुप् मन्त्र में कहे (छन्दसा) शुद्ध अर्थ के साथ (त्वा) तुझ को (सादयामि) प्रेरणा करता हूँ और (पाङ्क्तेन) पङ्क्ति मन्त्र से प्रकाशित हुए (छन्दसा) निर्मल अर्थ के साथ (त्वा) तुझ को (सादयामि) प्रेरित करता हूँ, वैसे ही तू वर्त्तमान रह ॥५३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्वानों को चाहिये कि सब पुरुषों को और सब स्त्रियों को वेद पढ़ा और जगत् के वायु आदि पदार्थों की विद्या में निपुण करके उन को उन पदार्थों से प्रयोजन साधने में प्रवृत्त करें ॥५३ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथाध्येतृजनाध्यापकाः किमुपदिशेयुरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य ! यथा शिक्षकोऽहमपामेमंस्त्वा सादयाम्यपामोद्मंस्त्वा सादयाम्यपां भस्मंस्त्वा सादयाम्यपां ज्योतिषि त्वा सादयाम्यपामयने त्वा सादयाम्यर्णवे सदने त्वा सादयामि, समुद्रे सदने त्वा सादयामि, सरिरे सदने त्वा सादयाम्यपां क्षये त्वा सादयाम्यपां सधिषि त्वा सादयाम्यपां सदने त्वा सादयाम्यपां सधस्थे त्वा सादयाम्यपां योनौ त्वा सादयाम्यपां पुरीषे त्वा सादयाम्यपां पाथसि त्वा सादयामि, गायत्रेण छन्दसा त्वा सादयामि, त्रैष्टुभेन छन्दसा त्वा सादयामि, जागतेन छन्दसा त्वा सादयाम्यानुष्टुभेन छन्दसा त्वा सादयामि, पाङ्क्तेन छन्दसा त्वा सादयामि, तथैव वर्तस्व ॥५३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - विद्वद्भिः सर्वान् पुरुषान् स्त्रियश्च वेदानध्याप्य जगत्स्थानां वाय्वादिपदार्थानां विद्यासु निपुणीकृत्य तेभ्यः प्रयोजनसाधने प्रवर्तनीयाः ॥५३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - विद्वानांनी सर्व स्त्री-पुरुषांना वेद शिकवून या जगातील वायू इत्यादी पदार्थांच्या विद्येत निपुण करावे. त्या पदार्थाद्वारे प्रयोजन सिद्ध करण्यास प्रवृत्त करावे.
५४ अयं पुरो
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒यं पु॒रो भुव॒स्तस्य॑ प्रा॒णो भौ॑वा॒यनो व॑स॒न्तः प्रा॑णाय॒नो गा॑य॒त्री वा॑स॒न्ती गा॑य॒त्र्यै गा॑य॒त्रं गा॑य॒त्रादु॑पाँ॒शुरु॑पाँ॒शोस्त्रि॒वृत् त्रि॒वृतो॑ रथन्त॒रं वसि॑ष्ठ॒ऽ ऋषिः॑। प्र॒जाप॑तिगृहीतया॒ त्वया॑ प्राणं गृ॑ह्णामि प्र॒जाभ्यः॑ ॥५४ ॥
मूलम् ...{Loading}...
अ॒यं पु॒रो भुव॒स्तस्य॑ प्रा॒णो भौ॑वा॒यनो व॑स॒न्तः प्रा॑णाय॒नो गा॑य॒त्री वा॑स॒न्ती गा॑य॒त्र्यै गा॑य॒त्रं गा॑य॒त्रादु॑पाँ॒शुरु॑पाँ॒शोस्त्रि॒वृत् त्रि॒वृतो॑ रथन्त॒रं वसि॑ष्ठ॒ऽ ऋषिः॑। प्र॒जाप॑तिगृहीतया॒ त्वया॑ प्राणं गृ॑ह्णामि प्र॒जाभ्यः॑ ॥५४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒यम्। पु॒रः। भुवः॑। तस्य॑। प्रा॒णः। भौ॒वा॒य॒न इति॑ भौवऽआ॒य॒नः। व॒स॒न्तः॒। प्रा॒णा॒य॒न इति॑ प्राणऽआ॒य॒नः। गा॒य॒त्री। वा॒स॒न्ती। गा॒य॒त्र्यै। गा॒य॒त्रम्। गा॒य॒त्रात्। उ॒पाँ॒शुरित्यु॑पऽअँ॒शुः। उ॒पाँ॒शोरित्यु॑पऽअँ॒शोः। त्रि॒वृदिति॑ त्रि॒ऽवृत्। त्रि॒वृत॒ इति॑ त्रि॒ऽवृतः॑। र॒थ॒न्त॒रमिति॑ रथम्ऽत॒रम्। वसि॑ष्ठः। ऋषिः॑। प्र॒जाप॑तिगृहीत॒येति॑ प्र॒जाप॑तिऽगृहीतया। त्वया॑। प्रा॒णम्। गृ॒ह्णा॒मि॒। प्र॒जाभ्य॒ इति॑ प्र॒जाभ्यः॑। ५४।
महीधरः
म० एभिर्मन्त्रैस्तृतीयं दशकं दक्षिणश्रोणेरारभ्योपधेयम् । विश्वं करोति सर्वं सृजतीति विश्वकर्मा वायुरयं दक्षिणा दक्षिणस्यां दिशि आर्यावर्ताद्भूयो वाति तद्रूपां त्वां सा० । ‘अयं वै वायुर्विश्वकर्मा योऽयं पवते एष हीदᳪं᳭ सर्वं करोति तद्यत्तमाह दक्षिणेति तस्मादेष दक्षिणैव भूयिष्ठं वाति तद्रूपमुपदधाति’ । (८।१।१।७) इति श्रुतेः । तस्य विश्वकर्मणो ऽपत्यं मनोऽत एवं वैश्वकर्मणं विश्वकर्मण इदम् । ‘तस्येदम्’ (पा० ४ । ३ । १२०) इत्यण् ‘इनण्यनपत्ये’ (पा. ६ । ४ । १६४) इति प्रकृत्या । मनोरूपां सा० । ‘मनस्तस्माद्रूपाद्वायोर्निरमिमीत’ (८।१।१।८) इति श्रुतेः । मनसोऽपत्यं ग्रीष्म ऋतुस्तद्रूपां सा० । ‘ग्रीष्ममृतुं मनसो निरमिमीत’ इति श्रुतेः । ग्रीष्मस्येयं ग्रैष्मी ग्रीष्मोत्पन्ना त्रिष्टुप् छन्दस्तद्रूपां सा० । ‘त्रिष्टुभं छन्दो ग्रीष्मादृतोर्निरमिमीत’ इति श्रुतेः। त्रिष्टुभ उत्पन्नं यत्स्वारं साम तद्रूपां सा० । ‘त्रिष्टुभश्छन्दसः स्वारᳪं᳭साम निरमिमीत’ इति श्रुतेः । स्वारात्साम्न उत्पन्नो योऽन्तर्यामो ग्रहस्तद्रूपां सा० । ‘स्वारात्साम्नोऽन्तर्यामं ग्रहं निरमिमीत’ इति श्रुतेः । अन्तर्यामादुत्पन्नो यः पञ्चदशस्तोमस्तद्रूपां सा० । ‘अन्तर्यामाद्र्०हात्पञ्चदशᳪं᳭स्तोमं निरमिमीत’ इति श्रुतेः। पञ्चदशात्स्तोमादुत्पन्नं यद्बृहत्पृष्ठं तद्रूपां सा० । ‘पञ्चदशात्स्तोमाद्बृहत्पृष्ठं निर०’ । भरद्वाज ऋषिः बिभर्तीति भरन् वाजमन्नं यः स भरद्वाजोऽन्नधर्ता मनः मनसि स्वस्थे अन्नादनेच्छोत्पत्तेः ऋषिः सचेतनो मनोरूपस्तद्रूपां सा० । ‘मनो वै भरद्वाज ऋषिः अन्नं वाजो यो वै मनो बिभर्ति सोऽन्नं वाजं भरति तस्मान्मनो भरद्वाज ऋषिः’ (८ । १।१ । ९) इति श्रुतेः । प्रजापतिगृहीतया धातृसृष्ट्या त्वयेष्टकया कृत्वा प्रजाभ्यो मनो गृह्णामि एभिर्दशमन्त्रैर्मन एव गृह्णामीत्यर्थः ॥ ५५ ॥
षट्पञ्चाशी।
अधिमन्त्रम् (VC)
- प्राणा देवताः
- उशना ऋषिः
- स्वराड् ब्राह्मी जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
अब मनुष्यों को सृष्टि से कौन-कौन उपकार लेने चाहियें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! जैसे (अयम्) यह (पुरो भुवः) प्रथम होनेवाला अग्नि है, (तस्य) उसका (भौवायनः) सिद्ध कारण से रचा हुआ (प्राणः) जीवन का हेतु प्राण (प्राणायनः) प्राणों की रचना का हेतु (वसन्तः) सुगन्धि आदि में बसाने हारा वसन्त ऋतु (वासन्ती) वसन्त ऋतु का जिस में व्याख्यान हो, वह (गायत्री) गाते हुए का रक्षक गायत्रीमन्त्रार्थ ईश्वर (गायत्र्यै) गायत्री मन्त्र का (गायत्रम्) गायत्री छन्द (गायत्रात्) गायत्री से (उपांशुः) समीप से ग्रहण किया जाय (उपांशोः) उस जप से (त्रिवृत्) कर्म, उपासना और ज्ञान के सहित वर्त्तमान फल (त्रिवृतः) उस तीन प्रकार के फल से (रथन्तरम्) रमणीय पदार्थों से तारने हारा सुख और (वसिष्ठः) अतिशय करके निवास का हेतु (ऋषिः) सुख प्राप्त कराने हारा विद्वान् (प्रजापतिगृहीतया) अपने सन्तानों के रक्षक पति को ग्रहण करनेवाली (त्वया) तेरे साथ (प्रजाभ्यः) सन्तानोत्पत्ति के लिये (प्राणम्) बलयुक्त जीवन का ग्रहण करते हैं, वैसे तेरे साथ मैं सन्तान होने के लिये बल का (गृह्णामि) ग्रहण करता हूँ ॥५४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे स्त्री-पुरुषो ! तुम को योग्य है कि अग्नि आदि पदार्थों को उपयोग में ला के परस्पर प्रीति के साथ अति विषयसेवा को छोड़ और सब संसार से बल का ग्रहण करके सन्तानों को उत्पन्न करो ॥५४ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ मनुष्यैः सृष्टेः सकाशात् के क उपकारा ग्राह्या इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! यथाऽयं पुरो भुवोऽग्निस्तस्य भौवायनः प्राणः प्राणायनो वसन्तो वासन्ती गायत्री गायत्र्यै गायत्रं गायत्रादुपांशुरुपांशोस्त्रिवृत् त्रिवृतो रथन्तरं वसिष्ठ ऋषिश्च प्रजापतिगृहीतया त्वया सह प्रजाभ्यः प्राणं गृह्णामि तथा त्वया साकमहं प्रजाभ्यो बलं गृह्णामि ॥५४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - स्त्रीपुरुषा अग्न्यादिपदार्थानामुपयोगं कृत्वा परस्परं प्रीत्याऽतिविषयासक्तिं विहाय सर्वस्माज्जगतो बलं संगृह्य प्रजा उत्पाद्याः ॥५४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे स्त्री-पुरुषांनो ! अग्नी वगैरे पदार्थांना उपयोगात आणा. परस्पर प्रेमाने राहून अत्यंत विषयवासनेचा त्याग करून शक्तिमान बनून संताने उत्पन्न करा.
५५ अयं दक्षिणा
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒यं द॑क्षि॒णा वि॒श्वक॑र्मा॒ तस्य॒ मनो॑ वैश्वकर्म॒णं ग्री॒ष्मो मा॑न॒सस्त्रि॒ष्टुब् ग्रैष्मी॑ त्रि॒ष्टुभः॑ स्वा॒रँ स्वा॒राद॑न्तर्य्या॒मो᳖ऽन्तर्या॒मात् प॑ञ्चद॒शः प॑ञ्चद॒शाद् बृ॒हद् भ॒रद्वा॑ज॒ऽ ऋषिः॑ प्र॒जाप॑तिगृहीतया॒ त्वया॒ मनो॑ गृह्णामि प्र॒जाभ्यः॑ ॥५५ ॥
मूलम् ...{Loading}...
अ॒यं द॑क्षि॒णा वि॒श्वक॑र्मा॒ तस्य॒ मनो॑ वैश्वकर्म॒णं ग्री॒ष्मो मा॑न॒सस्त्रि॒ष्टुब् ग्रैष्मी॑ त्रि॒ष्टुभः॑ स्वा॒रँ स्वा॒राद॑न्तर्य्या॒मो᳖ऽन्तर्या॒मात् प॑ञ्चद॒शः प॑ञ्चद॒शाद् बृ॒हद् भ॒रद्वा॑ज॒ऽ ऋषिः॑ प्र॒जाप॑तिगृहीतया॒ त्वया॒ मनो॑ गृह्णामि प्र॒जाभ्यः॑ ॥५५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒यम्। द॒क्षि॒णा। वि॒श्वक॒र्मेति॑ वि॒श्वऽक॑र्मा। तस्य॑। मनः॑। वै॒श्व॒क॒र्म॒णमिति॑ वैश्वऽक॒र्म॒णम्। ग्री॒ष्मः। मा॒न॒सः। त्रि॒ष्टुप्। त्रि॒स्तुबिति॑ त्रि॒ऽस्तुप्। ग्रैष्मी॑। त्रि॒ष्टुभः॑। त्रि॒स्तुभ॒ इति॑ त्रि॒ऽस्तुभः॑। स्वा॒रम्। स्वा॒रात्। अ॒न्त॒र्या॒म इत्य॑न्तःया॒मः। अ॒न्त॒र्या॒मादित्य॑न्तःऽया॒मात्। प॒ञ्च॒द॒श इति॑ प॒ञ्च॒ऽद॒शः। प॒ञ्च॒द॒शादिति॑ पञ्चऽद॒शात्। बृ॒हत्। भ॒रद्वा॑ज॒ इति॑ भ॒रत्ऽवा॑जः। ऋषिः॑। प्र॒जाप॑तिगृहीत॒येति॑ प्र॒जाप॑तिऽगृहीतया। त्वया॑। मनः॑। गृ॒ह्णा॒मि॒। प्र॒जाभ्य॒ इति॑ प्र॒ऽजाभ्यः॑। ५५।
महीधरः
म० अयं पश्चादित्यादिमन्त्रैर्द्वितीयं दशकमुत्तरश्रोणेरारभ्योपदधाति । पश्चात्प्रतीचीं दिशमञ्चति गच्छतीति पश्चात् प्रतीचीगमनशीलो विश्वं विचति उदितः सन्प्रकाशयतीति विश्वव्यचा आदित्योऽयं प्रसिद्धस्तद्रूपां सा० । ‘असौ वा आदित्यो विश्वव्यचा यदा ह्येवैष उदेत्यथेदᳪं᳭ सर्वं व्यचो भवति तद्यत्तमाह पश्चादिति तस्मादेतं प्रत्यञ्चमेव यन्तं पश्यन्ति’ ( ८।१।२।१) इति श्रुतेः । तस्यादित्यस्य संबन्धि चक्षुरतएव वैश्वव्यचसं विश्वव्यचसो रवेरुत्पन्नं तद्रूपां सा० । ‘चक्षुस्तस्माद्रूपादादित्यान्निरमिमीत’ (८।१ । २ । २) इति श्रुतेः । चाक्षुष्यः चक्षुष उत्पन्ना वर्षा ऋतुस्तद्रूपां सा० । गर्गादित्वाद्यञ् ‘वर्षा ऋतुं चक्षुषो निरमिमीत’ ( ८।१।२।२) इति श्रुतेः । वर्षाभ्य उत्पन्नं जगतीछन्दस्तद्रूपां सा० । जगतीछन्दो वर्षाभ्य ऋतोर्निरमि० । जगतीच्छन्दस उत्पन्नमृक्समसंज्ञं यत्साम तद्रूपां सा० । जगत्यै छन्दस ऋक्समᳪं᳭साम निरमि० । ऋक्समादुत्पन्नो यः शुक्रग्रहस्तद्रूपां सा० । ऋक्समात्साम्नः शुक्रं ग्रहं निरमि० । शुक्रादुत्पन्नो यः सप्तदशस्तोमस्तद्रूपां त्वां सा० । शुक्राद्र्।हात्सप्तदशᳪं᳭स्तोमं निरमि० । सप्तदशात्स्तोमादुत्पन्नं यद्वैरूपं पृष्ठं तद्रूपां सा० । सप्तदशात्स्तोमाद्वैरूपं पृष्ठं निरमि० । जमदग्निर्ऋषिः जमति जगत्पश्यतीति जमन् । अङ्गति सर्वत्र गच्छतीत्यग्निः। ऋषति जानाति ऋषिः ईदृशं यच्चक्षुस्तद्रूपां सा०। ‘चक्षुर्वै जमदग्निर्ऋषियदेनेन जगत् पश्यत्यथो मनुते तस्माच्चक्षुर्जमदग्निर्ऋषिः’ (८ । १।२ । ३) इति श्रुतेः । प्रजापतिसृष्टया त्वयेष्टकया प्रजार्थं चक्षुर्गृह्णामि दशमन्त्रैश्चक्षुरेव गृह्णामि । ‘सकृत्सादयत्सेतच्चक्षुः करोति’ (८।१।२।३) इति श्रुतेः ॥ ५६ ॥
सप्तपञ्चाशी।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- उशना ऋषिः
- निचृदतिधृतिः
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब मनुष्यों को ग्रीष्म ऋतु में कैसे वर्त्तना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! जैसे (दक्षिणा) दक्षिण दिशा से (अयम्) यह (विश्वकर्मा) सब कर्मों का निमित्त वायु के समान विद्वान् चलता है, (तस्य) उस वायु के योग से (वैश्वकर्मणम्) जिससे सब कर्म सिद्ध होते हैं, वह (मनः) विचारस्वरूप प्रेरक मन (मानसः) मन की गर्मी से उत्पन्न के तुल्य (ग्रीष्मः) रसों का नाशक ग्रीष्म ऋतु (ग्रैष्मी) ग्रीष्म ऋतु के व्याख्यानवाला (त्रिष्टुप्) त्रिष्टुप् छन्द (त्रिष्टुभः) त्रिष्टुप् छन्द के (स्वारम्) ताप से हुआ तेज (स्वारात्) और तेज से (अन्तर्यामः) मध्याह्न के प्रहर में विशेष दिन और (अन्तर्यामात्) मध्याह्न के विशेष दिन से (पञ्चदशः) पन्द्रह तिथियों की पूरक स्तुति के योग्य पूर्णमासी (पञ्चदशात्) उस पूर्णमासी से (बृहत्) बड़ा (भरद्वाजः) अन्न वा विज्ञान की पुष्टि और धारण का निमित्त (ऋषिः) शब्दज्ञान प्राप्त कराने हारा कान (प्रजापतिगृहीतया) प्रजापालक पति राजा ने ग्रहण की विद्या से न्याय का ग्रहण करता है, वैसे मैं (त्वया) तेरे साथ (प्रजाभ्यः) प्रजाओं के लिये (मनः) विचारस्वरूप विज्ञानयुक्त चित्त का ग्रहण करता है, वैसे मैं (त्वया) तेरे साथ विज्ञान का (गृह्णामि) ग्रहण करता हूँ ॥५५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - स्त्री पुरुषों को चाहिये कि प्राण का मन और मन का प्राण नियमन करनेवाला है, ऐसा जान के प्राणायाम से आत्मा को शुद्ध करते हुए पुरुषों से सम्पूर्ण सृष्टि के पदार्थों का विज्ञान स्वीकार करें ॥५५ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ मनुष्यैर्ग्रीष्म ऋतौ कथं वर्त्तितव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! यथा दक्षिणाऽयं विश्वकर्मा वायुरिवास्ति, तस्य वैश्वकर्मणं मनो मानसो ग्रीष्मो ग्रैष्मी त्रिष्टुप् त्रिष्टुभः स्वारं स्वारादन्तर्यामोऽन्तर्यामात् पञ्चदशः पञ्चदशाद् बृहद्भरद्वाज ऋषिः प्रजापतिगृहीतया विद्यया सह राजा प्रजाभ्यो मनो गृह्णाति, तथा त्वया साकमहं विश्वस्माद् विज्ञानं गृह्णामि ॥५५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - स्त्रीपुरुषैः प्राणस्य मनो नियन्तृ मनसश्च प्राणो नियन्तेति विदित्वा प्राणायामान्मनःशुद्धिं संपादयद्भिरखिलायाः सृष्टेः पदार्थविज्ञानं स्वीकार्यम् ॥५५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - प्राण मनाचे नियमन करतो व मन हे प्राणाचे नियमन करते हे स्त्री-पुरुषांनी जाणावे. प्राणायामाने आत्मा शुद्ध करणाऱ्या पुरुषांकडून संपूर्ण सृष्टीच्या पदार्थांचे विज्ञान अंगीकारावे.
५६ अयं पश्चाद्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒यं प॒श्चाद् वि॒श्वव्य॑चा॒स्तस्य॒ चक्षु॑र्वै॒श्वव्यच॒सं व॒र्षाश्चा॑क्षु॒ष्यो᳙ जग॑ती वा॒र्षी जग॑त्या॒ऽ ऋक्स॑म॒मृक्स॑माच्छु॒क्रः शु॒क्रात् स॑प्तद॒शः स॑प्तद॒शाद् वै॑रू॒पं ज॒मद॑ग्नि॒र्ऋषिः॑ प्र॒जाप॑तिगृहीतया॒ त्वया॒ चक्षु॑र्गृह्णामि प्र॒जाभ्यः॑ ॥५६ ॥
मूलम् ...{Loading}...
अ॒यं प॒श्चाद् वि॒श्वव्य॑चा॒स्तस्य॒ चक्षु॑र्वै॒श्वव्यच॒सं व॒र्षाश्चा॑क्षु॒ष्यो᳙ जग॑ती वा॒र्षी जग॑त्या॒ऽ ऋक्स॑म॒मृक्स॑माच्छु॒क्रः शु॒क्रात् स॑प्तद॒शः स॑प्तद॒शाद् वै॑रू॒पं ज॒मद॑ग्नि॒र्ऋषिः॑ प्र॒जाप॑तिगृहीतया॒ त्वया॒ चक्षु॑र्गृह्णामि प्र॒जाभ्यः॑ ॥५६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒यम्। प॒श्चात्। वि॒श्वव्य॑चा॒ इति॑ वि॒श्वऽव्य॑चाः। तस्य॑। चक्षुः॑। वै॒श्व॒व्य॒च॒समिति॑ वैश्वऽव्य॒च॒सम्। व॒र्षाः। चा॒क्षु॒ष्यः᳖। जग॑ती। वा॒र्षी। जग॑त्याः। ऋक्स॑म॒मित्यृक्ऽस॑मम्। ऋक्स॑मा॒दित्यृक्ऽस॑मात्। शु॒क्रः। शु॒क्रात्। स॒प्त॒द॒श इति॑ सप्तऽद॒शः। स॒प्त॒द॒शादिति॑ सप्तऽद॒शात्। वै॒रू॒पम्। ज॒मद॑ग्नि॒रिति॑ ज॒मत्ऽअ॑ग्निः। ऋषिः॑। प्र॒जाप॑तिगृहीत॒येति॑ प्र॒जाप॑तिऽगृहीतया। त्वया॑। चक्षुः॑। गृ॒ह्णा॒मि॒। प्र॒जाभ्य॒ इति॑ प्र॒ऽजाभ्यः॑। ५६।
महीधरः
म० दशमन्त्रैश्चतुर्थं दशकमुत्तरांसादारभ्योपदधाति । उत्तरस्यामुत्तरात् ‘उत्तराधरदक्षिणादातिः’ । (पा० ५। ३ । ३४) इति आतिप्रत्ययः । सर्वस्मादुत्तरभागस्था दिशः यदिदं स्वः स्वर्गो लोकः तां दिक्स्वर्गरूपां त्वां सा० । क्रियाव्ययविशेषणानां नपुंसकत्वमेकत्वं चेति वचनादिदमुत्तरादित्युक्तम् । दिशो वा उत्तरात्तद्यत्ता आहोत्तरादित्युत्तरा ह्यस्मात्सर्वस्माद्दिशोऽथ यत्स्वरित्याह ‘स्वर्गो हि लोको दिशः श्रोत्रᳪं᳭ह दिशो भूत्वोत्तरं तस्थौ तदेतद्रूपमुपदधाति’ (८।१।२ । ४) इति श्रुतेः । तस्य स्वर्गस्य संबन्धि श्रोत्रं कीदृशम् । सौवम् स्वः इदं सौवं ‘तस्येदम्’ (पा० ४ । ३ । १२०) इत्यण् । द्वारादित्वादैजागमः (पा. ७ । ३ । ४) अव्ययानां भमात्रे टिलोपः । श्रोत्ररूपां त्वां सा० । ‘श्रोत्रं तस्माद्रूपाद्दिग्भ्यो निरमिमीत’ (८।१।२।५) इति श्रुतेः । श्रोत्रादुत्पन्ना या शरत्तद्रूपां सा० । ‘शरदमृतुᳪं᳭ श्रोत्रान्निरमिमीत’ (८।१।२।५) इति श्रुतेः । शरद उत्पन्नं यदनुष्टुप्छन्दस्तद्रूपां सा० । अनुष्टुभं छन्दः शरद ऋतोर्निरमि० । अनुष्टुभ उत्पन्नं यदैडं साम तद्रूपां सा० । अनुष्टुभश्छन्दस ऐडᳪं᳭साम निरमि० । ऐडात्साम्न उत्पन्नो यो मन्थी ग्रहस्तद्रूपां सा० । ऐडात्साम्नो मन्थिनं ग्रहं निरमि० । मन्थिग्रहादुत्पन्नो य एकविंशस्तोमस्तद्रूपां सा० । मन्थिनो ग्रहादेकविंशᳪं᳭स्तोमं निरमि० । एकविंशस्तोमादुत्पन्नं यद्वैराजं पृष्ठं तद्रूपां सा० । एकविᳪं᳭शात्स्तोमाद्वैराजं पृष्ठं निरमि० । विश्वामित्र ऋषिः विश्वं सर्वं मित्रं येन ‘मित्रे चर्षौ’ (पा० ६ । ३ । १३० ) इति दीर्घः । तादृश ऋषिः श्रोत्रं श्रद्धयान्यवाक्यश्रवणात्सर्वमित्रं भवति विश्वामित्रर्षिरूपं यत् श्रोत्रं तद्रूपां सा० । ‘श्रोत्रं वै विश्वामित्र ऋषिर्यदेनेन सर्वतः शृणोत्यथो यदस्मै सर्वतो मित्रं भवति तस्माच्छोत्रं विश्वामित्र ऋषिः’ (८ । १।२। ६) इति श्रुतेः । प्रजापतिसृष्टया त्वयेष्टकया प्रजाभ्यः श्रोत्रं गृह्णामीति दशमन्त्रैः श्रोत्रमेव सादयति ‘ये नानाकामाः श्रोत्रे तांस्तद्दधाति सकृत्सादयत्येकं तच्छ्रोत्रं करोति’ ( ८ । १ । २ । ६ ) इति श्रुतेः ॥ ५७ ॥
अष्टपञ्चाशी ।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- उशना ऋषिः
- निचृदतिधृतिः
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब स्त्री पुरुष आपस में कैसा आचरण करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे उत्तम मुखवाली स्त्री ! जैसे (अयम्) यह सूर्य्य के समान विद्वान् (विश्वव्यचाः) सब संसार को चारों ओर के प्रकाश से व्यापक होकर प्रकट करता (पश्चात्) पश्चिम दिशा में वर्त्तमान (तस्य) उस सूर्य्य का (वैश्वव्यचसम्) प्रकाशक किरणरूप (चक्षुः) नेत्र (चाक्षुष्यः) नेत्र से देखने योग्य (वर्षाः) जिस समय मेघ वर्षते हैं, वह वर्षा ऋतु (वार्षी) वर्षा ऋतु के व्याख्यानवाला (जगती) संसार में प्रसिद्ध जगती छन्द (जगत्याः) जगती छन्द से (ऋक्समम्) ऋचाओं के सेवन का हेतु विज्ञान (ऋक्समात्) उस विज्ञान से (शुक्रः) पराक्रम (शुक्रात्) पराक्रम से (सप्तदशः) सत्रह तत्त्वों का पूरक विज्ञान (सप्तदशात्) उस विज्ञान से (वैरूपम्) अनेक रूपों का हेतु जगत् का ज्ञान और जैसे (जमदग्निः) प्रकाशस्वरूप (ऋषिः) रूप का प्राप्त कराने हारा नेत्र (प्रजापतिगृहीतया) सन्तानरक्षक पति ने ग्रहण की हुई विद्यायुक्त स्त्री के साथ (प्रजाभ्यः) प्रजाओं के लिये तेरे साथ (चक्षुः) विद्यारूपी नेत्रों का ग्रहण करता है, वैसे मैं तेरे साथ संसार से बल को (गृह्णामि) ग्रहण करता हूँ ॥५६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - स्त्री-पुरुषों को चाहिये कि सामवेद के पढ़ने से सूर्य आदि प्रसिद्ध जगत् को स्वभाव से जान के सब सृष्टि के गुणों के दृष्टान्त से अच्छा देखें और चरित्र ग्रहण करें ॥५६ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ स्त्रीपुरुषौ मिथः कथमाचरेतामित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे वरानने ! यथाऽयमादित्य इव विद्वान् विश्वव्यचाः सन् पश्चादादित्यस्तस्य वैश्वव्यचसं चक्षुश्चाक्षुष्यो वर्षा वार्षी जगती जगत्या ऋक्सममृक्समाच्छुक्रः शुक्रात् सप्तदशः सप्तदशाद् वैरूपं यथा च जमदग्निर्ऋषिः प्रजापतिगृहीतया सह प्रजाभ्यश्चक्षुर्गृह्णाति तथाऽहं त्वया साकं संसाराद् बलं गृह्णामि ॥५६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - दम्पतिभ्यां सामवेदाध्ययनेन सूर्यादिप्रसिद्धं जगदर्थतो विज्ञाय सर्वस्याः सृष्टेः सुदर्शनचरित्रे संग्राह्ये ॥५६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - स्त्री-पुरुषांनी सामवेदाचे अध्ययन करून सूर्य इत्यादी पदार्थांचे गुणधर्म जाणून सर्व सृष्टीतील सर्व पदार्थांचे गुण दर्शविणारे दाखले चांगल्या प्रकारे पाहावेत व आपले चारित्र्य निर्माण करावे.
५७ इदमुत्तरात् स्वस्तस्य
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒दमु॑त्त॒रात् स्व॒स्तस्य॒ श्रोत्रँ॑ सौ॒वँ श॒रछ्रौ॒त्र्यनु॒ष्टुप् शा॑र॒द्य᳖नु॒ष्टुभ॑ऽ ऐ॒डमै॒डान् म॒न्थी म॒न्थिन॑ऽ एकविँ॒शऽ ए॑कविँ॒शाद् वै॑रा॒जं वि॒श्वामि॑त्र॒ऽ ऋषिः॑ प्र॒जाप॑तिगृहीतया॒ त्वया॒ श्रोत्रं॑ गृह्णामि प्र॒जाभ्यः॑ ॥५७ ॥
मूलम् ...{Loading}...
इ॒दमु॑त्त॒रात् स्व॒स्तस्य॒ श्रोत्रँ॑ सौ॒वँ श॒रछ्रौ॒त्र्यनु॒ष्टुप् शा॑र॒द्य᳖नु॒ष्टुभ॑ऽ ऐ॒डमै॒डान् म॒न्थी म॒न्थिन॑ऽ एकविँ॒शऽ ए॑कविँ॒शाद् वै॑रा॒जं वि॒श्वामि॑त्र॒ऽ ऋषिः॑ प्र॒जाप॑तिगृहीतया॒ त्वया॒ श्रोत्रं॑ गृह्णामि प्र॒जाभ्यः॑ ॥५७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इ॒दम्। उ॒त्त॒रात्। स्व॒रिति॒ स्वः᳖। तस्य॑। श्रोत्र॑म्। सौ॒वम्। श॒रत्। श्रौ॒त्री। अ॒नु॒ष्टुप्। अ॒नु॒स्तुबित्य॑नु॒ऽस्तुप्। शा॒र॒दी। अ॒नु॒ष्टुभः॑। अ॒नु॒स्तुभ॒ इत्य॑नु॒ऽस्तुभः॑। ऐ॒डम्। ऐ॒डात्। म॒न्थी। म॒न्थिनः॑। ए॒क॒विँ॒श इत्ये॑कऽविँ॒शः। ए॒क॒विँ॒शादित्ये॑ऽकविँ॒शात्। वै॒रा॒जम्। वि॒श्वामि॑त्रः। ऋषिः॑। प्र॒जाप॑तिगृहीत॒येति॑ प्र॒जाप॑तिऽगृहीतया। त्वया॑। श्रोत्र॑म्। गृ॒ह्णा॒मि॒। प्र॒जाभ्य॒ इति॑ प्र॒ऽजाभ्यः॑। ५७।
महीधरः
म० दशमन्त्रैः पञ्चमं दशकं रेतःसिग्भ्यामुत्तरां प्रथमां कृत्वा प्रादक्षिण्येनोपधेयम् । ‘उपर्युपरिष्टात्’ (पा० ५। ३ । । ३१) इति निपातः। उपरि ऊर्ध्वदेशस्थश्चन्द्र इयं मतिः वाक् मन्यते ज्ञायते यया सा मतिः वागेव चन्द्रो भूत्वोपरि यस्तिष्ठति तद्रूपां सा० । चन्द्रमा वा उपरि तद्यत्तमाहोपरीत्युपरि हि चन्द्रमा अथ यन्मतिरित्याह वाग्वै मतिर्वाचा हीदᳪं᳭ सर्वं मनुते । ‘वाग्घ चन्द्रमा भूत्वोपरिष्टात्तस्थौ तदेव तद्रूपमुपदधाति’ (८ । १।९।७) इति श्रुतेः । तस्यै चन्द्ररूपायास्तस्या मतेरुत्पन्नात एव मात्या मतेरियं मात्या या वाक् तद्रूपां सा० । ‘वाचं तस्माद्रूपाच्चन्द्रमसो निरमिमीत’ ( ८ । १ । २ । ८) इति श्रुतेः । वाचोऽपत्यं वाच्यः वाच उत्पन्नो यो हेमन्तस्तद्रूपां सा० । हेमन्तमृतुं वाचो निरमि० । हेमन्तस्येयं हैमन्ती या पङ्क्तिश्छन्दस्तद्रूपां सा० । पङ्क्तिश्छन्दो हेमन्तादृतोर्निरमि० । पङ्क्तेरुत्पन्नं यन्निधनवत्संज्ञं साम तद्रूपां सा० । पङ्क्यै स चतुर्थी पञ्चम्यर्थे । पङ्क्यैृत छन्दसो निधनवत्साम निरमि० । निधनवतः साम्न उत्पन्नो य आग्रयणो ग्रहस्तद्रूपां सा० । निधनवतः साम्न आग्रयणं ग्रहं निरमि० । आग्रयणादुत्पन्नौ यौ त्रिणवत्रयस्त्रिंशौ द्वौ स्तोमौ तद्रूपां सा० । आग्रयणाद्ग्रहात्त्रिणवत्रयस्त्रिᳪं᳭शौ स्तोमौ निरमि० । त्रिणवत्रयस्त्रिंशाभ्यामुत्पन्ने ये द्वे शाक्कररैवते पृष्ठे त्वां तद्रूपां सा० । त्रिणवत्रयस्त्रिᳪं᳭शाभ्याᳪं᳭स्तोमाभ्याᳪं᳭शाक्कररैवते पृष्ठे निरमि० । विश्वकर्मा विश्वं सर्वं करोतीति विश्वकर्मा ऋषिः वागेव वाचा हि सर्वं कुरुते वाग्रूपां त्वां सा० । ‘वाग्वै विश्वकर्मऋषिर्वाचा हीदᳪं᳭ सर्वं कृतं तस्माद्वाग्विश्वकर्मऋषिः’ (१ । २ । ९) इति श्रुतेः । प्रजापतिसृष्टया त्वयेष्टकया प्रजाभ्यः वाचं गृह्णामि एभिर्दशमन्त्रैर्वाचमेव गृह्णाति । ‘सकृत्सादयत्येकां तद्वाचं करोति’ (८।१।२ । ९) इति श्रुतेः । अथ पञ्चकण्डिकासु प्राणमनश्चक्षुःश्रोत्रवाचां प्रजाभ्यो ग्रहणमित्यस्यार्थद्वयम् । प्रजाभ्य इति चतुर्थीपक्षे प्रजार्थं प्राणादीनां ग्रहणम् पञ्चाशदिष्टकास्थापने प्रजानां यजमानापत्यपश्वादीनां प्राणादयः पुष्टा भवन्त्वित्यर्थः । प्रजाभ्य इति पञ्चमीपक्षे प्रजाभ्यो नानालोकेभ्यः सकाशात्प्राणादीन्गृह्णामि मद्वशगान्करोमीति प्राणभृतामुपधानेन सर्वाः प्रजा मद्वशगा भवन्त्वित्यर्थः । ( का० । १७ । ६ । ५ ) लोकंपृणा दक्षिणाᳪं᳭सादध्यामध्यात् । आत्मनो दक्षिणकोणादारभ्यामध्यात् अधि स्वयमातृण्णापर्यन्तं लोकंपृणा उपदधाति तासां लोकंपृणेत्यभिमन्त्रणम् । ता अस्येति सूददोहःसंज्ञमन्त्रेणाधिवदनम् स्पृष्ट्वा पठनमिति सूत्रार्थः । ‘मध्ये पुरीषं निवपति पूर्ववत्’ ( का० १७ । ६ । ९)। स्वयमातृण्णोपरीन्द्रं विश्वेति मन्त्रेण मृत्क्षेपः । तिस्र ऋचः प्रतीकोक्ताः पूर्वमुक्तत्वात् ( अ० १२ क० ५४ । ५५ । ५६)॥५८॥
श्रीमन्महीधरकृते वेददीपे मनोहरे। पुष्कराद्यादि चित्यन्तो रामेन्द्वध्याय ईरितः ॥ १३ ॥
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- उशना ऋषिः
- स्वराड्ब्राह्मी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब शरद् ऋतु में कैसे वर्त्तें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सौभाग्यवती ! जैसे (इदम्) यह (उत्तरात्) सब से उत्तर भाग में (स्वः) सुखों का साधन दिशारूप है, (तस्य) उसके (सौवम्) सुख का साधन (श्रोत्रम्) कान (श्रौत्री) कान की सम्बन्धी (शरत्) शरदृतु (शारदी) शरद् ऋतु के व्याख्यानवाला (अनुष्टुप्) प्रबद्ध अर्थवाला अनुष्टुप् छन्द (अनुष्टुभः) उससे (ऐडम्) वाणी के व्याख्यान से युक्त मन्त्र (ऐडात्) उस मन्त्र से (मन्थी) पदार्थों के मथने का साधन (मन्थिनः) उस साधन से (एकविंशः) इक्कीस विद्याओं का पूर्ण करने हारा सिद्धान्त (एकविंशाद्) उस सिद्धान्त से (वैराजम्) विविध पदार्थों के प्रकाशक सामवेद के ज्ञान को प्राप्त हुआ (विश्वामित्रः) सब से मित्रता का हेतु (ऋषिः) शब्द ज्ञान कराने हारा कान और (प्रजाभ्यः) उत्पन्न हुई बिजुली आदि के लिये (श्रोत्रम्) सुनने के साधन को ग्रहण करते हैं, वैसे (प्रजापतिगृहीतया) प्रजापालक पति ने ग्रहण की (त्वया) तेरे साथ में प्रसिद्ध हुई बिजुली आदि से (श्रोत्रम्) सुनने के साधन कान को (गृह्णामि) ग्रहण करता हूँ ॥५७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - स्त्री पुरुषों को चाहिये कि ब्रह्मचर्य्य के साथ विद्या पढ़ और विवाह करके बहुश्रुत होवें और सत्यवक्ता आप्त जनों से सुने बिना पढ़ी हुई भी विद्या फलदायक नहीं होती, इसलिये सदैव सज्जनों का उपदेश सुन के सत्य का धारण और मिथ्या को छोड़ देवें ॥५७ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ शरदृतौ कथं वर्त्तितव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सुभगे ! यथेदमुत्तरात् स्वस्तस्य सौवं श्रौत्री शरच्छारद्यनुष्टुबनुष्टुभ ऐडमैडान्मन्थी मन्थिन एकविंश एकविंशाद्वैराजं साम प्राप्तो विश्वामित्र ऋषिश्च प्रजाभ्यः श्रोत्रं गृह्णामि तथा प्रजापतिगृहीतया त्वया सहाहं प्रजाभ्यः श्रोत्रं गृह्णामि ॥५७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ब्रह्मचर्य्येणाधीतविद्यौ कृतविवाहौ स्त्रीपुरुषौ बहुश्रुतौ भवेताम्। नह्याप्तानां सकाशाच्छ्रवणेन विना पठितापि विद्या फलवती जायते। तस्मात् सदा श्रुत्वा सत्यं धरेतामसत्यं त्यजेताम् ॥५७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - स्त्री-पुरुषांनी ब्रह्मचारी राहून विद्या शिकावी व विवाह करून बहुश्रुत व्हावे. सत्यवक्ता असणाऱ्या आप्तजनाकडून ऐकल्याशिवाय अध्ययन केलेली विद्या फलदायी होत नाही. त्यासाठी सदैव सज्जनांचा उपदेश ऐकून सत्य धारण करावे व असत्याचा त्याग करावा.
५८ इयमुपरि मतिस्तस्यै
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒यमु॒परि॑ म॒तिस्तस्यै॒ वाङ्मा॒त्या हे॑म॒न्तो वा॒च्यः प॒ङ्क्तिर्है॑म॒न्ती प॒ङ्क्त्यै नि॒धन॑वन्नि॒धन॑वतऽ आग्रय॒णऽ आ॑ग्रय॒णात् त्रि॑णवत्रयस्त्रिँ॒शौ त्रि॑णवत्रयस्त्रिँ॒शाभ्याँ॑ शाक्वररैव॒ते वि॒श्वक॑र्म॒ऽ ऋषिः॑ प्र॒जाप॑तिगृहीतया॒ त्व॒या वाचं॑ गृह्णामि प्र॒जाभ्यः॑ ॥५८ ॥
मूलम् ...{Loading}...
इ॒यमु॒परि॑ म॒तिस्तस्यै॒ वाङ्मा॒त्या हे॑म॒न्तो वा॒च्यः प॒ङ्क्तिर्है॑म॒न्ती प॒ङ्क्त्यै नि॒धन॑वन्नि॒धन॑वतऽ आग्रय॒णऽ आ॑ग्रय॒णात् त्रि॑णवत्रयस्त्रिँ॒शौ त्रि॑णवत्रयस्त्रिँ॒शाभ्याँ॑ शाक्वररैव॒ते वि॒श्वक॑र्म॒ऽ ऋषिः॑ प्र॒जाप॑तिगृहीतया॒ त्व॒या वाचं॑ गृह्णामि प्र॒जाभ्यः॑ ॥५८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इ॒यम्। उ॒परि॑। म॒तिः। तस्यै॑। वाक्। मा॒त्या॒। हे॒म॒न्तः। वा॒च्यः। प॒ङ्क्तिः। है॒म॒न्ती। प॒ङ्क्त्यै। नि॒धन॑व॒दिति॑ नि॒धन॑ऽवत्। नि॒धन॑वत॒ इति॑ नि॒धन॑ऽवतः। आ॒ग्र॒य॒णः। आ॒ग्र॒य॒णात्। त्रि॒ण॒व॒त्र॒य॒स्त्रिँ॒शौ। त्रि॒न॒व॒त्र॒य॒स्त्रिँ॒शाविति॑। त्रिनवत्रयस्त्रिँ॒शौ। त्रि॒ण॒व॒त्र॒य॒स्त्रिँ॒शाभ्या॑म्। त्रि॒न॒व॒त्र॒य॒स्त्रिँ॒शाभ्या॒मिति॑ त्रिनवत्रयस्त्रिँ॒शाभ्या॑म्। शा॒क्व॒र॒रै॒व॒ते इति॑ शाक्वरऽरैव॒ते। वि॒श्वक॒र्म्मेति॑ वि॒श्वऽक॑र्मा। ऋषिः॑। प्र॒जाप॑तिगृहीत॒येति॑ प्र॒जाप॑तिऽगृहीतया। त्वया॑। वाच॑म्। गृ॒ह्णा॒मि॒। प्र॒जाभ्य॒ इति॑ प्र॒जाभ्यः॑। ५८।
महीधरः
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- उशना ऋषिः
- विराडाकृतिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब हेमन्त ऋतु में किस प्रकार वर्त्तें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विदुषी स्त्री ! जो (इयम्) यह (उपरि) सब से ऊपर विराजमान (मतिः) बुद्धि है, (तस्यै) उस (मात्या) बुद्धि का होना वा कर्म (वाक्) वाणी और (वाच्यः) उस का होना वा कर्म (हेमन्तः) गर्मी का नाशक हेमन्त ऋतु (हैमन्ती) हेमन्त ऋतु के व्याख्यानवाला (पङ्क्तिः) पङ्क्ति छन्द (पङ्क्त्यै) उस पङ्क्ति छन्द का (निधनवत्) मृत्यु का प्रशंसित व्याख्यानवाला सामवेद का भाग (निधनवतः) उससे (आग्रयणः) प्राप्ति का साधन ज्ञान का फल (आग्रयणात्) उससे (त्रिणवत्रयस्त्रिंशौ) बारह और तेंतीस सामवेद के स्तोत्र (त्रिणवत्रयस्त्रिंशाभ्याम्) उन स्तोत्रों से (शाक्वररैवते) शक्ति और धन के साधक पदार्थों को जान के (विश्वकर्मा) सब सुकर्मों के सेवनेवाला (ऋषिः) वेदार्थ का वक्ता पुरुष वर्त्तता है, वैसे मैं (प्रजापतिगृहीतया) प्रजापालक पति ने ग्रहण की (त्वया) तेरे साथ (प्रजाभ्यः) प्रजाओं के लिये (वाचम्) विद्या और अच्छी शिक्षा से युक्त वाणी को (गृह्णामि) ग्रहण करता हूँ ॥५८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - स्त्री पुरुषों को चाहिये कि विद्वानों की शिक्षारूप वाणी को सुन के अपनी बुद्धि बढ़ावें, उस बुद्धि से हेमन्त ऋतु में कर्त्तव्य कर्म और सामवेद के स्तोत्रों को जान महात्मा ऋषि लोगों के समान वर्त्ताव कर विद्या और अच्छी शिक्षा से शुद्ध की वाणी को स्वीकार करके अपने सन्तानों के लिये भी इन वाणियों का उपदेश सदैव किया करें ॥५८ ॥ इस अध्याय में ईश्वर, स्त्रीपुरुष और व्यवहार का वर्णन करने से इस अध्याय में कहे अर्थ की पूर्व अध्याय के अर्थ के साथ सङ्गति जानो ॥ यह यजुर्वेदभाष्य का तेरहवाँ (१३) अध्याय पूरा हुआ ॥१३॥
दयानन्द-सरस्वती (सं) - विषयः
अथ हेमन्ते कथं वर्त्तितव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विदुषि पत्नि ! य इयमुपरि मतिस्तस्यै मात्या वाग्वाच्यो हेमन्तो हैमन्ती पङ्क्तिः पङ्क्त्यै निधनवन्निधनवत आग्रयण आग्रयणात् त्रिणवत्रयस्त्रिंशौ त्रिणवत्रयस्त्रिंशाभ्यां शाक्वररैवते विदित्वा विश्वकर्मर्षिर्वर्तते, तथाहं प्रजापतिगृहीतया त्वया सहाऽहं प्रजाभ्यो वाचं गृह्णामि ॥५८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - पतिपत्नीभ्यां विदुषां वाचं श्रुत्वा प्रज्ञा वर्द्धनीया तया हेमन्तर्तुकृत्यं सामानि च विदित्वा महर्षिवद् वर्तित्वा विद्यासुशिक्षासंस्कृतां वाचं स्वीकृत्य प्रजाभ्योऽप्येताः सदोपदेष्टव्येति ॥५८ ॥ अत्रेश्वरजायापतिव्यवहारस्य प्रतिपादनादेतदर्थस्य पूर्वाध्यायार्थेन सह सङ्गतिरस्तीति वेदितव्यम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्याणां श्रीमद्विरजानन्दसरस्वतीस्वामिनां शिष्येण दयानदसरस्वतीस्वामिना निर्मिते संस्कृतार्य्यभाषाभ्यां विभूषिते सुप्रमाणयुक्ते यजुर्वेदभाष्ये त्रयोदशोऽध्यायः सम्पूर्णः ॥१३॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - स्त्री-पुरुषांनी विद्वानांची शिक्षित वाणी ऐकून आपली बुद्धी वाढवावी. त्या बुद्धीने हेमंत ऋतूमध्ये कतर्व्यकर्म व सामवेदाचे स्तोत्र जाणून महान ऋषीप्रमाणे वागावे. विद्या व चांगले शिक्षण यांनी शुद्ध वाणीचा स्वीकार करावा व आपल्या संतानांना या वाणीद्वारे सदैव उपदेश करावा.