०१ दृशानो रुक्मऽउर्व्या
विश्वास-प्रस्तुतिः ...{Loading}...
दृ॒शा॒नो रु॒क्मऽउ॒र्व्या व्य॑द्यौद्
दु॒र्मर्ष॒मायुः॑ श्रि॒ये रु॑चा॒नः।
अ॒ग्निर॒मृतो॑ऽअभव॒द् वयो॑भि॒र्
यदे॑नं॒ द्यौरज॑नयत् सु॒रेताः॑ ॥१ ॥
मूलम् ...{Loading}...
दृ॒शा॒नो रु॒क्मऽउ॒र्व्या व्य॑द्यौद् दु॒र्मर्ष॒मायुः॑ श्रि॒ये रु॑चा॒नः। अ॒ग्निर॒मृतो॑ऽअभव॒द् वयो॑भि॒र्यदे॑नं॒ द्यौरज॑नयत् सु॒रेताः॑ ॥१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दृ॒शा॒नः। रु॒क्मः। उ॒र्व्या। वि। अ॒द्यौ॒त्। दु॒र्मर्ष॒मिति॑ दुः॒ऽमर्ष॑म्। आयुः॑। श्रि॒ये। रु॒चा॒नः। अ॒ग्निः। अ॒मृतः॑। अ॒भ॒व॒त्। वयो॑भि॒रिति॒ वयः॑ऽभिः। यत्। ए॒न॒म्। द्यौः। अज॑नयत्। सु॒रेता॒ इति॑ सु॒ऽरेताः॑। १।
महीधरः
म० एकादशाध्याये उखासंभरणादिमन्त्रा उक्ताः द्वादशेऽध्याये उखाधारणादिमन्त्रा उच्यन्ते । तत्र ‘यजमानः कण्ठे रुक्मं प्रतिमुञ्चते परिमण्डलमेकविᳪं᳭शतिपिण्डं कृष्णाजिननिष्यूतं लोमसु शुक्लकृष्णेषु शणसूत्रे त्रिवृत्योतमुपरिनाभि बहिष्पिण्डं दृशानो रुक्म इति’ (१६ । ५। १)। समिदाधानान्ते ऐशान्यां तिष्ठन्यजमानो ग्रीवायां रुक्मं स्वर्णनिर्मितं फलकाकारमाभरणविशेषं बध्नाति । कीदृशम् । वर्तुलम् एकविंशतिः पिण्डा यत्र । शणकदलतुल्याः स्वरूपाद्बहिर्भूता उन्नतबिन्दवः पिण्डा उच्यन्ते । कृष्णाजिनखण्डे श्वेतकृष्णरोमस्थाने स्यूतम् त्रिगुणशणसूत्रे प्रोतं नामेरूर्ध्वं वर्तमानं पिण्डा बहिर्भवन्ति तथा धार्यमिति सूत्रार्थः । रुक्मदेवत्या त्रिष्टुप् वत्सप्रीदृष्टा । आदित्याध्यासेन रुक्मः स्तूयते । रुक्म आभरणविशेषः उर्व्या महत्या दीप्त्या व्यद्यौत् विद्योतते । ‘द्युत द्योतने’ व्यत्ययेन शपि लुप्ते वृद्धौ लङि रूपम् । कीदृशो रुक्मः । दृशानो दृश्यमानः । शानचि शपो लुक् । प्रत्यक्षमुपलभ्यमानः। श्रिये जनेभ्यः श्रियं दातुम् । दुर्मर्षं दुर्मर्षमनवखण्डितं केनाप्यतिरस्कार्यं वा आयुः जीवनं रुचानः रोचत इति रुचानो वाञ्छन् । रोचतेः शानचि ‘बहुलं छन्दसि’ (पा० २। ४ । ७३) इति शपो लुक् सोऽयमग्निर्वयोभिरन्नैः पशुपुरोडाशप्रभृतिभिरमृतोऽमरणधर्मा अभवत् । यद्यस्मात्कारणात् द्यौर्द्युलोकवासी देवगण एनमग्निमजनयत् जनितवती । कीदृशी द्यौः । सुरेताः शोभनं रेतोऽग्निरूपं यस्याः सा तस्मादमृतत्वं युक्तम् ॥ १॥
द्वितीया।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वत्सप्रीर्ऋषिः
- भुरिक्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब बारहवें अध्याय का आरम्भ किया जाता है, उस के प्रथम मन्त्र में विद्वानों के गुणों का उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (दृशानः) दिखलाने हारा (द्यौः) स्वयं प्रकाशस्वरूप (अग्निः) सूर्यरूप अग्नि (उर्व्या) अति स्थूल भूमि के साथ सब मूर्त्तिमान् पदार्थों को (व्यद्यौत्) विविध प्रकार से प्रकाशित करता है, वैसे जो (श्रिये) सौभाग्यलक्ष्मी के अर्थ (रुचानः) रुचिकर्त्ता (रुक्मः) सुशोभित जन (अभवत्) होता और (यत्) जो (सुरेताः) उत्तम वीर्ययुक्त (अमृतः) नाशरहित (दुर्मर्षम्) शत्रुओं के दुःख से निवारण के योग्य (आयुः) जीवन को (अजनयत्) प्रकट करता है, (वयोभिः) अवस्थाओं के साथ (एनम्) इस विद्वान् पुरुष को प्रकट करता हो, उसको तुम सदा निरन्तर सेवन करो ॥१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे इस जगत् में सूर्य आदि सब पदार्थ अपने-अपने दृष्टान्त से परमेश्वर को निश्चय कराते हैं, वैसे ही मनुष्यों को होना चाहिये ॥१ ॥
दयानन्द-सरस्वती (सं) - विषयः
तत्रादौ विद्वद्गुणानाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा दृशानो द्यौरग्निः सूर्य उर्व्या सह सर्वान् मूर्तान् पदार्थान् व्यद्यौत्, तथा यः श्रिये रुचानो रुक्मो जनोऽभवद् यश्च सुरेता अमृतो दुर्मषमायुरजनयद् वयोभिः सह यदेनं विद्वांसमजनयत् तं यूयं सततं सेवध्वम् ॥१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथाऽस्मिन् जगति सूर्यादयः सर्वे पदार्थाः स्वदृष्टान्तैः परमेश्वरं निश्चाययन्ति, तथा मनुष्या अपि भवेयुः ॥१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. या जगातील सूर्य इत्यादी पदार्थ परमेश्वराच्या अस्तित्वाची साक्ष देणारे असतात. ते निश्चयात्मक रीतीने जाणून माणसांनी त्यासंबंधी ज्ञान प्राप्त केले पाहिजे.
०२ नक्तोषासा समनसा
विश्वास-प्रस्तुतिः ...{Loading}...
नक्तो॒षासा॒ स-म॑नसा॒ विरू॑पे
धा॒पये॑ते॒ शिशु॒म् एकँ॑ समी॒ची ।
द्यावा॒-क्षामा॑ रु॒क्मो अ॒न्तर् विभा॑ति
दे॒वा अ॒ग्निन् धा॑रयन् द्रविणो॒-दाः ।
मूलम् ...{Loading}...
नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे धा॒पये॑ते॒ शिशु॒मेकंँ॑ समी॒ची। द्यावा॒क्षामा॑ रु॒क्मोऽअ॒न्तर्विभा॑ति दे॒वाऽअ॒ग्निं धा॑रयन् द्रविणो॒दाः ॥२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नक्तो॒षासा॑। नक्तो॒षसेति॒ नक्तो॒षसा॑। सम॑न॒सेति॒ सऽम॑नसा। विरू॑पे॒ इति॒ विऽरू॑पे। धा॒पये॑ते॒ऽइति॑ धा॒पये॑ते। शिशु॑म्। एक॑म्। स॒मी॒ची इति॑ सम्ऽई॒ची। द्यावा॒क्षामा॑। रु॒क्मः। अ॒न्तः। वि। भा॒ति॒। दे॒वाः। अ॒ग्निम्। धा॒र॒य॒न्। द्र॒वि॒णो॒दा इति॑ द्रविणः॒ऽदाः। २।
महीधरः
म० ‘परिमण्डलाभ्यामिण्ड्वाभ्यामुखां परिगृह्णाति नक्तोषासेति’ (का० १६ । ५। ३) । वर्तुलाभ्यामुखाधारणसाधनरूपाभ्यामिण्ड्वाभ्यामुखां गृह्णातीति सूत्रार्थः । अग्निदेवत्या त्रिष्टुप् कुत्सदृष्टा । अर्धमुखाग्रहणे विनियुक्तम् । नक्तोषासा नक्तं च उषाश्च नक्तोषसौ । विभक्तेराकारः संहितायां दीर्घः । नक्तं रात्रिः उषा अहः । नक्तोषसौ रात्रिदिवसौ एकमग्निं धापयेते पाययेते सायंप्रातरग्निहोत्रादिकर्मभिः तर्पयेते इत्यर्थः । तत्र लुप्तोपमानम् । शिशुं बालं मातापितराविव । ‘धेट् पाने’ ‘हेतुमति च’ (पा० ३। १ । २६) इति णिच् ‘आदेच उपदेशेऽशिति’ (पा० ६ । १ । ४५) इति आकारे ‘अर्तिह्री’ (पा० ७।३ । ३६ ) इत्यादिना पुक् । कीदृश्यौ नक्तोषसौ। समनसा समनसौ समानं मनो ययोस्ते एकमनस्के परमैकमत्ययुक्ते इत्यर्थः । विरूपे विलक्षणं रूपं ययोस्ते विरूपे । कृष्णा रात्रिः शुक्लमहः । समीची सम्यगञ्चतस्ते समीच्यः सम्यगञ्चने समन्विते संश्लिष्टे वा । पूर्वसवर्णो विभक्तेः । ये इत्थंभूते रात्र्यहनी ताभ्यामिण्ड्वारूपाभ्यामुखां गृह्णामीति शेषः । ‘हरति द्यावाक्षामेति’ (का० १६ । ५ । ४) । आहवनीयोपरिस्थामुखामेवमिण्ड्वाभ्यामादाय द्यावेति पादेनासन्दीं प्रति तां हरतीति सूत्रार्थः । द्यावाक्षामा द्यौश्च क्षामा पृथिवी च द्यावाक्षामा । दिवो द्यावादेशः विभक्तेर्लोपः । द्यावापृथिव्योरन्तर्मध्ये अन्तरिक्षे च यो रुक्मः रोचमानोऽग्निर्विभाति प्रकाशते तं हरामीति शेषः । ‘आहवनीयस्य पुरस्तादुद्गात्रासन्दीवदासन्द्यां चतुरस्राङ्ग्यां शिक्यवत्यामादधाति देवा अग्निमिति’ (का० १६।५।५)। आहवनीयात्पूर्वदिशि भूमौ स्थापितायामासन्द्यामुखां निदधाति देवा इति पादेन । उद्गात्रासन्दीवदिति प्रादेशमात्रपाद्यामौदुम्बर्यामरत्निमात्राङ्ग्यां मुञ्जरज्ज्वा व्युतायामिति लभ्यते । तथा चतुरस्राङ्ग्यां चतुरस्राणि चतुष्कोणानि अङ्गानीषोपलपादरूपाणि यस्यास्तस्यां सशिक्यायां चेति सूत्रार्थः । देवाः दीव्यन्ति व्यवहरन्तीति देवाः प्राणा यजमानस्य एतमग्निं धारयन् अधारयन् । अडभाव आर्षः । कीदृशा देवाः । द्रविणोदाः यागद्वारेण द्रविणं धनरूपं फलं ददति प्रयच्छन्ति ते । तमहं धारयामीति शेषः । ‘अग्निं धारयन् द्रविणोदा इत्याह प्राणा वे देवा द्रविणोदाः’ इति तैत्तिरीयश्रुतेर्देवशब्देन प्राणा उच्यन्ते ॥ २॥
तृतीया ।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- कुत्स ऋषिः
- आर्षी त्रिष्टुप्
- धैवतः
सायण-टीका
नक्तं चोषाश्च नक्तोषासा रात्रिदिवसावित्यर्थः।
समनसा परस्परमैकमत्ययुक्ते विरूपे रात्रिः कृष्णा दिवसः शुक्ल इत्येवं विलक्षणरूपे समीची समीच्यावनुकुले सत्यावेकं शिशुमग्निरूपं धापयेते यजमानकर्तृकमग्नि २१९० धारणं संपादयतः द्यावा द्युलोके क्षामा ( म ) क्षितावन्तस्तदुभयमध्यवर्तिन्यन्त रिक्षे रुक्मो रोचमानोऽयमग्निर्विभाति विशेषेण प्रकाशते।
दीव्यन्ति व्यवहरन्तीति देवाः प्राणास्ते च द्रविणोदा यागद्वारेण धनरूपं फलं प्रयच्छति तादृशा यजमानस्य प्राणा अग्निमेतं धारयन्धृतवन्तः।
Keith
Night and the dawn, one-minded, but of various form,
United suckle one child;
The radiant one shineth between sky and earth;
The gods, granters of wealth, support Agni.
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जिस (अग्निम्) बिजुली को (द्रविणोदाः) बलदाता (देवाः) दिव्य प्राण (धारयन्) धारण करें, जो (रुक्मः) रुचिकारक होके (अन्तः) अन्तःकरण में (विभाति) प्रकाशित होता है, जो (समनसा) एक विचार से विदित (विरूपे) अन्धकार और प्रकाश से विरुद्ध रूपयुक्त (समीची) सब प्रकार सब को प्राप्त होनेवाली (द्यावाक्षामा) प्रकाश और भूमि तथा (नक्तोषासा) रात्रि और दिन जैसे (एकम्) एक (शिशुम्) बालक को दो माताएँ (धापयेते) दूध पिलाती हैं, वैसे उसको तुम लोग जानो ॥२ ॥
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम जैसे (समनसा) एक से विज्ञानयुक्त (समीची) एकता चाहती हुई (विरूपे) अलग-अलग रूपवाली धाय और माता दोनों (एकम्) एक (शिशुम्) बालक को दुग्ध पिलाती हैं, वैसे (नक्तोषासा) रात्रि और प्रातःकाल की वेला जगत् को (धापयेते) दुग्ध सा पिलाती हैं अर्थात् अति आनन्द देती हैं वा जैसे (रुक्मः) प्रकाशमान अग्नि (द्यावाक्षामा, अन्तः) ब्रह्माण्ड के बीच में (वि, भाति) विशेष करके प्रकाश करता है, उस (अग्निम्) अग्नि को (द्रविणोदाः) द्रव्य के देनेवाले (देवाः) शास्त्र पढ़े हुए जन (धारयन्) धारण करते हैं, वैसे वर्त्ताव वर्त्तो ॥७० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे जननी माता और धायी बालक को दूध पिलाती हैं, वैसे ही दिन और रात्रि सब की रक्षा करते हैं, और जो बिजुली के रूप से सर्वत्र व्यापक है, वह अग्नि सूर्य आदि का कारण है, इस बात का तुम सब निश्चय करो ॥२ ॥
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को चाहिये कि जैसे संसार में रात्रि और प्रातःसमय की वेला अलग रूपों से वर्त्तमान और जैसे बिजुली अग्नि सर्व पदार्थों में व्याप्त वा जैसे प्रकाश और भूमि अतिसहनशील हैं, वैसे अत्यन्त विवेचना करने और शुभगुणों में व्यापक होनेवाले होकर पुत्र के तुल्य संसार को पालें ॥७० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
पुनर्मनुष्यैः कथं वर्त्तितव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यमग्निं द्रविणोदा देवा धारयन्, यो रुक्मः सन्नन्तर्विभाति यः समनसा विरूपे समीची द्यावाक्षामा नक्तोषासा यथैकं शिशुं द्वे मातरौ धापयेते, तथा वर्त्तमानं तं विजानन्तु ॥२ ॥
पदार्थान्वयभाषाः - हे मनुष्याः ! यूयं यथा समनसा समीची विरूपे मातृधात्र्यौ वैकं शिशुमिव नक्तोषासा जगद्धापयेते, यथा वा द्यावाक्षामान्तो रुक्मो विभाति, द्रविणोदा देवा तमग्निं धारयँस्तथा वर्त्तध्वम् ॥७० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा जननी धात्री च बालकं पालयतस्तथाहोरात्रौ सर्वान् पालयतः। यश्च विद्युद्रूपेणाभिव्याप्तोऽस्ति, सोऽग्निः सूर्य्यादेः कारणमस्तीति सर्वे निश्चिन्वन्तु ॥२ ॥
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैर्जगति यथा रात्र्युषसौ विरुद्धै रूपैर्वर्त्तेते, यथा च विद्युत् सर्वपदार्थेषु व्याप्ता, यथा वा द्यावाभूमी अतिसहनशीले वर्त्तेते, तद्वत् विवेचकैः शुभगुणेषु व्यापकैर्भूत्वा पुत्रवज्जगत्पालनीयम् ॥७० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोमालंकार आहे. ज्याप्रमाणे माता व दाई बालकांना दूध पाजतात त्याप्रमाणे दिवस व रात्र हे सर्वांचे रक्षणकर्ते असतात. सर्वत्र विद्युतरूपाने व्यापक असा अग्नी हा सूर्याचे कारण आहे, ही गोष्ट निश्चितपणे सर्वांनी जाणावी.
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. या सृष्टीत रात्र व दिवस वेगवेगळ्या रूपांत विद्यमान आहेत व जसे विद्युत सर्व पदार्थांत व्याप्त असते किंवा जशी भूमी व प्रकाश अति सहनशील असतात तसे माणसांनी विचारपूर्वक अत्यंत शुभगुणयुक्त बनून पुत्राप्रमाणे जगाचे पालन करावे.
०३ विश्वा रूपाणि
विश्वास-प्रस्तुतिः ...{Loading}...
विश्वा॑ रू॒पाणि॒ प्रति॑मुञ्चते क॒विः प्रासा॑वीद् भ॒द्रं द्वि॒पदे॒ चतु॑ष्पदे। वि नाक॑मख्यत् सवि॒ता वरे॒ण्योऽनु॑ प्र॒याण॑मु॒षसो॒ विरा॑जति ॥३ ॥
मूलम् ...{Loading}...
विश्वा॑ रू॒पाणि॒ प्रति॑मुञ्चते क॒विः प्रासा॑वीद् भ॒द्रं द्वि॒पदे॒ चतु॑ष्पदे। वि नाक॑मख्यत् सवि॒ता वरे॒ण्योऽनु॑ प्र॒याण॑मु॒षसो॒ विरा॑जति ॥३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
विश्वा॑। रू॒पाणि॑। प्रति॑। मु॒ञ्च॒ते॒। क॒विः। प्र। अ॒सा॒वी॒त्। भ॒द्रम्। द्वि॒पद॒ इति॑ द्वि॒ऽपदे॑। चतु॑ष्पदे। चतुः॑पद॒ इति॑ चतुः॑पदे। वि। नाक॑म्। अ॒ख्य॒त्। स॒वि॒ता। वरे॑ण्यः। अनु॑। प्र॒याण॑म्। प्र॒यान॒मिति॑ प्र॒ऽयान॑म्। उ॒षसः॑। वि। रा॒ज॒ति॒। ३।
महीधरः
म० ‘शिक्यपाशं प्रतिमुञ्चते षडुद्यामं विश्वा रूपाणीति’ (का० १६ । ५। ६)। उत् ऊर्ध्वं यम्यते नियम्यते यैस्ते उद्यामा रज्जवः षडुद्यामा रज्जव ऊर्ध्वाकर्षणहेतवो यस्येदृशमासन्दीस्थं शिक्यपाशं यजमानः कण्ठे बध्नातीति सूत्रार्थः । सवितृदेवत्या जगती श्यावाश्वदृष्टा । कविः विद्वान् कान्तदर्शनः । वरेण्यः श्रेष्ठः सविता सर्वस्य प्रसविता सूर्यः विश्वा विश्वानि सर्वाणि रूपाणि प्रतिमुञ्चते द्रव्येषु प्रतिबध्नाति | रात्रितमोऽपहत्य रूपाणि प्रकाशयतीत्यर्थः । यश्च द्विपदे चतुष्पदे द्विपाद्भ्यश्चतुष्पाद्भ्यो मनुष्यपश्वादिभ्यो भद्रं कल्याणं स्वस्वव्यवहारप्रकाशनरूपं श्रेयः प्रासावीत् प्रसौति प्रेरयति । | यश्च नाकं स्वर्गं व्यख्यत् विख्याति प्रकाशयति । ‘अस्यतिवक्तिख्यातिभ्योऽङ्’ (पा० ३ । १ । ५२) इति च्लेरङ् । यश्च उषसः उषःकालस्य प्रयाणं गमनमनु पश्चात् उषःकाले व्यतीते सति विराजति विशेषेण दीप्यते । ‘उषाः सवितुः पुरोगामिनी’ इति सवितुः स्तुतिः । ईदृशः सविता शिक्यं प्रतिमुच्चत्विति शेषः ॥ ३॥
चतुर्थी ।
अधिमन्त्रम् (VC)
- सविता देवता
- श्यावाश्व ऋषिः
- विराड् जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
अब अगले मन्त्र में परमेश्वर के कृत्य का उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (वरेण्यः) ग्रहण करने योग्य (कविः) जिसकी दृष्टि और बुद्धि सर्वत्र है वा सर्वज्ञ (सविता) सब संसार का उत्पादक जगदीश्वर वा सूर्य्य (उषसः) प्रातःकाल का समय (प्रयाणम्) प्राप्त करने को (अनुविराजति) प्रकाशित होता है (विश्वा) सब (रूपाणि) पदार्थों के स्वरूप (प्रतिमुञ्चते) प्रसिद्ध करता है और (द्विपदे) मनुष्यादि दो पगवाले (चतुष्पदे) तथा गौ आदि चार पगवाले प्राणियों के लिये (नाकम्) सब दुःखों से पृथक् (भद्रम्) सेवने योग्य सुख को (व्यख्यत्) प्रकाशित करता और (प्रासावीत्) उत्पन्न करता है, ऐसे उस सूर्य्यलोक को उत्पन्न करनेवाले ईश्वर को तुम लोग जानो ॥३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। जिस परमेश्वर ने सम्पूर्ण रूपवान् द्रव्यों का प्रकाशक, प्राणियों के सुख का हेतु, प्रकाशमान सूर्यलोक रचा है, उसी की भक्ति सब मनुष्य करें ॥३ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथाग्रे परमात्मनः कृत्यमुपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यो वरेण्यः कविः सवितोषसः प्रयाणमनुविराजति विश्वा रूपाणि प्रतिमुञ्चते। द्विपदे चतुष्पदे नाकं व्यख्यद् भद्रं प्रासावीत् तमीदृशमुत्पादकं सूर्यं परमेश्वरं विजानीत ॥३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। येन जगदीश्वरेण सकलरूपप्रकाशकः प्राणिनां सुखहेतुः प्रकाशमानः सूर्य्यो रचितस्तस्यैव भक्तिं सर्वे मनुष्याः कुर्वन्त्विति ॥३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. संपूर्ण पदार्थांचे स्वरूप प्रकाशित करणारा व प्राण्यांना सुखकारक होणारा सूर्य ज्या परमेश्वराने निर्माण केला आहे त्या परमेश्वराची सर्व माणसांनी भक्ती करावी.
०४ सुपर्णोऽसि गरुत्माँस्त्रिवृत्ते
विश्वास-प्रस्तुतिः ...{Loading}...
सु॒प॒र्णो᳖ऽसि ग॒रुत्माँ॑स्त्रि॒वृत्ते॒ शिरो॑ गाय॒त्रं चक्षु॑र्बृहद्रथन्त॒रे प॒क्षौ। स्तोम॑ऽआ॒त्मा छन्दाँ॒स्यङ्गा॑नि॒ यजूँ॑षि॒ नाम॑। साम॑ ते त॒नूर्वा॑मदे॒व्यं य॑ज्ञाय॒ज्ञियं॒ पुच्छं॒ धिष्ण्याः॑ श॒फाः। सु॒प॒र्णो᳖ऽसि ग॒रुत्मा॒न् दिवं॑ गच्छ॒ स्वः᳖ पत ॥४ ॥
मूलम् ...{Loading}...
सु॒प॒र्णो᳖ऽसि ग॒रुत्माँ॑स्त्रि॒वृत्ते॒ शिरो॑ गाय॒त्रं चक्षु॑र्बृहद्रथन्त॒रे प॒क्षौ। स्तोम॑ऽआ॒त्मा छन्दाँ॒स्यङ्गा॑नि॒ यजूँ॑षि॒ नाम॑। साम॑ ते त॒नूर्वा॑मदे॒व्यं य॑ज्ञाय॒ज्ञियं॒ पुच्छं॒ धिष्ण्याः॑ श॒फाः। सु॒प॒र्णो᳖ऽसि ग॒रुत्मा॒न् दिवं॑ गच्छ॒ स्वः᳖ पत ॥४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सु॒प॒र्ण इति॑ सुऽप॒र्णः। अ॒सि॒। ग॒रुत्मा॑न्। त्रि॒वृदिति॑ त्रि॒ऽवृत्। ते॒। शिरः॑। गा॒य॒त्रम्। चक्षुः॑। बृ॒ह॒द्र॒थ॒न्त॒रे इति॑ बृहत्ऽरथन्त॒रे। प॒क्षौ। स्तोमः॑। आ॒त्मा। छन्दाँ॑सि। अङ्गा॑नि। यजूँ॑षि। नाम॑। साम॑। ते॒। त॒नूः। वा॒म॒दे॒व्यमिति॑ वामऽदे॒व्यम्। य॒ज्ञा॒य॒ज्ञिय॒मिति॑ यज्ञाऽय॒ज्ञिय॑म्। पुच्छ॑म्। धिष्ण्याः॑। श॒फाः। सु॒प॒र्ण इति॑ सुऽप॒र्णः। अ॒सि॒। ग॒रुत्मा॑न्। दिव॑म्। ग॒च्छ॒। स्व॑रिति॒ स्वः᳖। प॒त॒। १४।
महीधरः
म० ‘सशिक्यं प्राञ्चं प्रगृह्णाति सुपर्णोऽसीति पिण्डवत्’ (का. १६ । ५।७)। शिक्यसहितमुख्याग्निं प्राच्यामूर्ध्वं धारयति पिण्डवदित्यूर्ध्वबाहुः । अनेनोख्याग्नेरभिमन्त्रणमप्युक्तं कैश्चिदिति सूत्रार्थः । गरुत्मद्देवत्या विषहन्त्री चतुरवसाना कृतिः । हे अग्ने, त्वं सुपर्णः शोभनं पर्णं पतनं यस्य स पक्षिरूपोऽसि पक्ष्याकारेण चितत्वात् । तत्र दृष्टान्तः । गरुत्मान् गरुडो यथा पक्षिराजस्तद्वत् । तस्यावयवाः कथ्यन्ते । त्रिवृत् ते तव शिरः त्रिवृत्स्तोमस्तव शिरःस्थानीयः । गायत्रं चक्षुः यद्गायत्राख्यं साम तत्तव चक्षुः नेत्रस्थानीयम् । बृहद्रथन्तरे पक्षौ बृहद्रथन्तराख्ये सामनी तव पक्षस्थानीये । स्तोम आत्मा पञ्चदशस्तोमस्तवात्मा अन्तःकरणस्थानीयः । छन्दांसि अङ्गानि गायत्र्यादीनि एकविंशतिच्छन्दांसि तव हृदयाद्यङ्गस्थानीयानि । यजूंषि नाम इषे त्वेत्यादीनि यजूंषि तव नामस्थानीयानि । वामदेव्यं साम ते तव तनूः शरीरस्थानीयम् । यज्ञायज्ञियाख्यं साम तव पुच्छं पुच्छस्थानीयम् । धिष्ण्याः शफाः होत्रादिधिष्ण्यस्थिता अग्नयस्तव शफाः खुरस्थानीयाः । हे अग्ने, एवंभूतस्त्वं यतो गरुत्मान् गरुड इव सुपर्णः पक्षिरूपोऽसि अतो दिवमाकाशं प्रति गच्छ । तत्रापि स्वः पत स्वः स्वर्गलोकं प्राप्नुहि ॥ ४ ॥
पञ्चमी।
अधिमन्त्रम् (VC)
- गरुत्मान् देवता
- श्यावाश्व ऋषिः
- भुरिग्धृतिः
- ऋषभः
०५ विष्णोः क्रमोऽसि
विश्वास-प्रस्तुतिः ...{Loading}...
विष्णोः॒ क्रमो॑ऽसि सपत्न॒हा गा॑य॒त्रं छन्द॒ऽआरो॑ह पृथि॒वीमनु॒ विक्र॑मस्व॒ विष्णोः॒ क्रमो॑ऽस्यभिमाति॒हा त्रैष्टु॑भं॒ छन्द॒ऽआरो॑हा॒न्तरि॑क्ष॒मनु॒ विक्र॑मस्व॒ विष्णोः॒ क्रमो॑ऽस्यरातीय॒तो ह॒न्ता जाग॑तं॒ छन्द॒ऽआरो॑ह॒ दिव॒मनु॒ विक्र॑मस्व॒ विष्णोः॒ क्रमो॑ऽसि शत्रूय॒तो ह॒न्तानु॑ष्टुभं॒ छन्द॒ऽआरो॑ह॒ दिशोऽनु॒ विक्र॑मस्व ॥५ ॥
मूलम् ...{Loading}...
विष्णोः॒ क्रमो॑ऽसि सपत्न॒हा गा॑य॒त्रं छन्द॒ऽआरो॑ह पृथि॒वीमनु॒ विक्र॑मस्व॒ विष्णोः॒ क्रमो॑ऽस्यभिमाति॒हा त्रैष्टु॑भं॒ छन्द॒ऽआरो॑हा॒न्तरि॑क्ष॒मनु॒ विक्र॑मस्व॒ विष्णोः॒ क्रमो॑ऽस्यरातीय॒तो ह॒न्ता जाग॑तं॒ छन्द॒ऽआरो॑ह॒ दिव॒मनु॒ विक्र॑मस्व॒ विष्णोः॒ क्रमो॑ऽसि शत्रूय॒तो ह॒न्तानु॑ष्टुभं॒ छन्द॒ऽआरो॑ह॒ दिशोऽनु॒ विक्र॑मस्व ॥५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
विष्णोः॑। क्रमः॑। अ॒सि॒। स॒प॒त्न॒हेति॑ सपत्न॒ऽहा। गा॒य॒त्रम्। छन्दः॑। आ। रो॒ह॒। पृ॒थि॒वीम्। अनु॑। वि। क्र॒म॒स्व॒। विष्णोः॑। क्रमः॑। अ॒सि॒। अ॒भि॒मा॒ति॒हेत्य॑भिमाति॒ऽहा। त्रैष्टु॑भम्। त्रैस्तु॑भ॒मिति॒ त्रैऽस्तु॑भम्। छन्दः॑। आ। रो॒ह॒। अ॒न्तरि॑क्षम्। अनु॑। वि। क्र॒म॒स्व॒। विष्णोः॑। क्रमः॑। अ॒सि॒। अ॒रा॒ती॒य॒तः। अ॒रा॒ति॒य॒त इत्य॑रातिऽय॒तः। ह॒न्ता। जाग॑तम्। छन्दः॑। आ। रो॒ह॒। दिव॑म्। अनु॑। वि। क्र॒म॒स्व॒। विष्णोः॑। क्रमः॑। अ॒सि॒। श॒त्रू॒य॒तः। श॒त्रु॒य॒त इति॑ शत्रुऽय॒तः। ह॒न्ता। आनु॑ष्टुभम्। आनु॑स्तुभ॒मित्यानु॑ऽ स्तुभम्। छन्दः॑। आ। रो॒ह॒। दिशः॑। अनु॑। वि। क्र॒म॒स्व॒। ५।
महीधरः
म० “विष्णुक्रमान्क्रमते विष्णोरिति प्रतिमन्त्रमग्न्युद्ग्रहणं च तस्मिंस्तस्मिन्’ (का० १६ । ५। ११)। विष्णुक्रमसंज्ञान्पादन्यासान्करोति तस्मिंस्तस्मिन्क्रमणे उख्यस्याग्नेरूर्ध्वं ग्रहणं कार्यमिति सूत्रार्थः । चत्वारि यजूंष्युख्याग्निदेवत्यानि ऋग्बृहतीच्छन्दस्कानि त्रीणि । चतुर्थं प्राजापत्या बृहती । विष्णुशब्देनाग्निरुच्यते । ‘स यः स विष्णुर्यज्ञः स यः स यज्ञोऽयमेव स योऽयमग्निरुखायाम्’ (६ । ७।२। ११) इति श्रुतेः । हे प्रथमपादविन्यास, त्वं विष्णोः यज्ञस्याग्नेः क्रमोऽसि । सपत्नहा सपत्नाञ्शत्रून्हन्तीति शत्रुघातकश्च । अतो गायत्रं छन्दः आरोह अनुग्राहकत्वेन स्वीकुरु । ततः पृथिवीमनु विक्रमस्व भूदेवतारूपमिमं प्रदेशं विशेषेण प्राप्नुहि । एवमुत्तरेष्वपि मन्त्रेषु योज्यम् । हे द्वितीय पादन्यास, त्वं विष्णोः क्रमोऽसि अभिमातिहा अभिमातिर्घातकः पाप्मा वा तं हन्तीति । त्रैष्टुभं छन्दः । स्वीकुरु अन्तरिक्षप्रदेशं व्याप्नुहि । हे तृतीय पादन्यास, विष्णोः क्रमोऽसि अरातीयतो हन्ता रातिर्दानं न रातिररातिर्दानाभावस्तमात्मन इच्छतीत्यरातीयन् तस्य हन्ता विनाशकः । जागतं छन्दः । आरोह दिवं द्युलोकमनु विक्रमस्व द्युलोकं व्याप्नुहि । हे चतुर्थ पादन्यास, त्वं विष्णोः क्रमोऽसि शत्रूयतो हन्ता शत्रुत्वं हन्तृत्वमिच्छति शत्रूयति शत्रूयतीति शत्रूयन् । क्यजन्ताच्छतृप्रत्यय उभयत्र । तस्य हन्ता आनुष्टुभं छन्द आरोह । अत्र चतुर्ष्वपि पादन्यासेषु यजमान आत्मानं विष्णुत्वेन भावयेत् चतुर्णां प्रक्रमाणां प्रदेशान्पृथिव्यादिलोकरूपत्वेन भावयेत् । ‘दिशो वीक्षते दिशोऽनु विक्रमस्वेति’ (का. १६ । ५। १३) । सर्वा दिशः पश्यतीत्यर्थः । यजुरुष्णिक् । हे अग्ने, त्वं दिशोऽनु विक्रमस्व प्राच्यादिदिशो व्याप्नुहि ॥५॥
षष्ठी।
अधिमन्त्रम् (VC)
- विष्णुर्देवता
- श्यावाश्व ऋषिः
- भुरिगुत्कृतिः
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी अगले मन्त्र में राजधर्म का उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् पुरुष ! जिससे आप (विष्णोः) व्यापक जगदीश्वर के (क्रमः) व्यवहार से शोधक और (सपत्नहा) शत्रुओं के मारनेहारे (असि) हो, इससे (गायत्रम्) गायत्री मन्त्र से निकले (छन्दः) शुद्ध अर्थ पर (आरोह) आरूढ़ हूजिये (पृथिवीम्) पृथिव्यादि पदार्थों से (अनुविक्रमस्व) अपने अनुकूल व्यवहार साधिये तथा जिस कारण आप (विष्णोः) व्यापक कारण के (क्रमः) कार्य्यरूप (अभिमातिहा) अभिमानियों को मारनेहारे (असि) हैं, इससे आप (त्रैष्टुभम्) तीन प्रकार के सुखों से संयुक्त (छन्दः) बलदायक वेदार्थ को (आरोह) ग्रहण और (अन्तरिक्षम्) आकाश को (अनुविक्रमस्व) अनुकूल व्यवहार में युक्त कीजिये जिससे आप (विष्णोः) व्यापनशील बिजुली रूप अग्नि के (क्रमः) जाननेहारे (अरातीयतः) विद्या आदि दान के विरोधी पुरुष के (हन्ता) नाश करनेहारे (असि) हैं, इससे आप (जागतम्) जगत् को जानने का हेतु (छन्दः) सृष्टिविद्या को बलयुक्त करनेहारे विज्ञान को (आरोह) प्राप्त हूजिये और (दिवम्) सूर्य आदि अग्नि को (अनुविक्रमस्व) अनुक्रम से उपयुक्त कीजिये, जो आप (विष्णोः) हिरण्यगर्भ वायु के (क्रमः) ज्ञापक तथा (शत्रूयतः) अपने को शत्रु का आचरण करनेवाले पुरुषों के (हन्ता) मारनेवाले (असि) हैं, सो आप (आनुष्टुभम्) अनुकूलता के साथ सुख सम्बन्ध के हेतु (छन्दः) आनन्दकारक वेदभाग को (आरोह) उपयुक्त कीजिये और (दिशः) पूर्व आदि दिशाओं के (अनुविक्रमस्व) अनुकूल प्रयत्न कीजिये ॥५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि वेदविद्या से भूगर्भ विद्याओं का निश्चय तथा पराक्रम से उनकी उन्नति करके रोग और शत्रुओं का नाश करें ॥५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुना राजधर्ममाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यतस्त्वं विष्णोः क्रमः सपत्नहाऽसि, तस्माद् गायत्रं छन्द आरोह पृथिवीमनुविक्रमस्व। यतस्त्वं विष्णोः क्रमोऽभिमातिहासि, तस्मात् त्वं त्रैष्टुभं छन्द आरोहान्तरिक्षमनुविक्रमस्व। यतस्त्वं विष्णोः क्रमोऽरातीयतो हन्ताऽसि, तस्माज्जागतं छन्द आरोह दिवमनुविक्रमस्व। यस्त्वं विष्णोः क्रमः शत्रूयतो हन्ताऽसि, स त्वमानुष्टुभं छन्द आरोह, दिशोऽनुविक्रमस्व ॥५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्वेदविद्यया भूगर्भादिविद्या निश्चित्य पराक्रमेणोन्नीय रोगाः शत्रवश्च निहन्तव्याः ॥५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी वेदविद्येने भूगर्भविद्यांचे निश्चयात्मक ज्ञान प्राप्त करावे व पराक्रमाने त्यांची वाढ करावी आणि रोगांचा व शत्रूंचा नाश करावा.
०६ अक्रन्ददग्नि स्तनयन्निव
विश्वास-प्रस्तुतिः ...{Loading}...
अक्र॑न्दद॒ग्नि स्त॒नय॑न्निव॒ द्यौः क्षामा॒ रेरि॑हद् वी॒रुधः॑ सम॒ञ्जन्। स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धोऽअख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः ॥६ ॥
मूलम् ...{Loading}...
अक्र॑न्दद॒ग्नि स्त॒नय॑न्निव॒ द्यौः क्षामा॒ रेरि॑हद् वी॒रुधः॑ सम॒ञ्जन्। स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धोऽअख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः ॥६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अक्र॑न्दत्। अ॒ग्निः। स्त॒नय॑न्नि॒वेति॑ स्त॒नय॑न्ऽइव। द्यौः। क्षामा॑। रेरि॑हत्। वी॒रुधः॑। सम॒ञ्जन्निति॑ सम्ऽअ॒ञ्जन्। स॒द्यः। ज॒ज्ञा॒नः। वि। हि। ई॒म्। इ॒द्धः। अख्य॑त्। आ। रोद॑सीऽइति॒ रोद॑सी। भा॒नुना॑। भा॒ति॒। अ॒न्तरित्य॒न्तः। ६।
महीधरः
म०. ‘पिण्डवत् प्रागुदञ्चं प्रगृह्णात्यक्रन्ददग्निरिति’ (का. | १६ । ५। १४) । ऊर्ध्वबाहुः प्रागूर्ध्वमग्निं गृह्णातीति सूत्रार्थः । अग्निदेवत्या त्रिष्टुप् वत्सप्रीदृष्टा । अग्निरक्रन्दत् ‘छन्दसि लुङलङ्लिटः’ (पा० ३।४ । ६) क्रन्दति विस्फूर्जति । कीदृशः । द्यौरिव स्तनयन् । द्यौशब्देनात्र पर्जन्य उक्तः । द्यौर्मेघ इव स्तनयन् गर्जन् शब्दं कुर्वाणः ‘स्तन गदी देवशब्दे’ चुरादिरदन्तः । मेघसाधर्म्यमाह । क्षामा रेरिहत् ‘सुपां सुलुक्’ (पा. ७।१।३९) इति विभक्तिलोपः । क्षामेति पृथिवीनामसु पठितम् । क्षामां पृथिवीं रेरिहत् ‘लिह आस्वादने’ यड्लुगन्ताच्छतृप्रत्ययः रेफश्छान्दसः । अत्यन्तं लेढीति लेलिहत् ‘नाभ्यस्ताच्छतुः’ (पा० ७ । १ । ७८) इति नुमभावः । भूमिमति आस्वादयन्व्याप्नुवन् यथा मेघो जलभावं गच्छन्नत्यर्थं भूमिं लेढि । वीरुधः समञ्जन् स्वकीयज्वालासमूहेन ओषधीर्व्याप्नुवन् । अन्यदप्युच्यते । हि यस्मात् जज्ञानः उत्पद्यमानः सन् सद्यः तदानीमेव इद्धः दीप्तश्च सन् व्यख्यत् विख्याति । अन्तर्भूतणिजन्तो ज्ञेयः । श्रुत्या तथा व्याख्यातत्वात् । विख्यापयति इदं सर्वं विविधं प्रकाशयति । अन्यच्च योऽग्निः रोदसी द्यावापृथिव्योः अन्तर्मध्ये भानुना रश्मिना स्वयमाभाति समन्तात्प्रकाशते । यथा पर्जन्यो भानुना विद्युद्रूपेण द्यावापृथिव्योरन्तर्भाति एवमग्निः पर्जन्यवत् स्तूयते । ईम् निपातः पादपूरणे ॥ ६ ॥
सप्तमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वत्सप्रीर्ऋषिः
- निचृदार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो सभापति (सद्यः) एक दिन में (जज्ञानः) प्रसिद्ध हुआ (द्यौः) सूर्यप्रकाश रूप (अग्निः) विद्युत् अग्नि के समान (स्तनयन्निव) शब्द करता हुआ शत्रुओं को (अक्रन्दत्) प्राप्त होता है, जैसे (क्षामा) पृथिवी (वीरुधः) वृक्षों को फल-फूलों से युक्त करती है, वैसे प्रजाओं के लिये सुखों को (रेरिहत्) अच्छे-बुरे कर्मों का शीघ्र फल देता है, जैसे सूर्य (इद्धः) प्रदीप्त और (समञ्जन्) सम्यक् पदार्थों को प्रकाशित करता हुआ (रोदसी) आकाश और पृथिवी को (व्यख्यत्) प्रसिद्ध करता और (भानुना) अपनी दीप्ति के साथ (अन्तः) सब लोकों के बीच (आभाति) प्रकाशित होता है, वैसे जो सभापति शुभ गुण-कर्मों से प्रकाशित हो, उसको तुम लोग राजकार्य्यों में संयुक्त करो ॥६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। हे मनुष्यो ! जैसे सूर्य सब लोकों के बीच में स्थित हुआ सबको प्रकाशित और आकर्षण करता है, और जैसे पृथिवी बहुत फलों को देती है, वैसे ही मनुष्य को राज्य के कार्यों में अच्छे प्रकार से उपयुक्त करो ॥६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यः सभेशः सद्यो जज्ञानो द्यौरग्निः स्तनयन्निवारीनाक्रन्दद्, यथा क्षामा वीरुधस्तथा प्रजाभ्यः सुखानि रेरिहत्, यथा सवितेद्धः समञ्जन् रोदसी व्यख्यद् भानुनाऽन्तराभाति, तथा यः शुभगुणकर्मस्वभावैः प्रकाशते, तं हि राजकर्मसु प्रयुङ्ध्वम् ॥६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। हे मनुष्याः ! यथा सूर्यः सर्वलोकमध्यस्थः सर्वान् प्रकाश्याकर्षति, यथा पृथिवी बहुफलदा वर्त्तते, तथाभूतः पुरुषः राज्यकार्येषु सम्यगुपयोक्तव्यः ॥६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहेत. हे माणसांनो ! जसा सूर्य सर्व ग्रहगोलांमध्ये स्थित राहून सर्वांना प्रकाशित व आकर्षित करतो व जशी पृथ्वी पुष्कळ फळे देते, तसेच राजालाही राज्याच्या कार्यामध्ये उद्युक्त करा.
०७ अग्नेऽभ्यावर्त्तिन्नभि मा
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने॑ऽभ्यावर्त्तिन्न॒भि मा॒ निव॑र्त्त॒स्वायु॑षा॒ वर्च॑सा प्र॒जया॒ धने॑न। स॒न्या मे॒धया॑ र॒य्या पोषे॑ण ॥७ ॥
मूलम् ...{Loading}...
अग्ने॑ऽभ्यावर्त्तिन्न॒भि मा॒ निव॑र्त्त॒स्वायु॑षा॒ वर्च॑सा प्र॒जया॒ धने॑न। स॒न्या मे॒धया॑ र॒य्या पोषे॑ण ॥७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अग्ने॑। अ॒भ्या॒व॒र्त्ति॒न्नित्य॑भिऽआवर्त्तिन्। अ॒भि। मा॒। नि। व॒र्त्त॒स्व॒। आयु॑षा। वर्च॑सा। प्र॒जयेति॑ प्र॒ऽजया॑। धने॑न। स॒न्या। मे॒धया॑। र॒य्या। पोषे॑ण। ७।
महीधरः
म०. ‘अवहरत्यग्नेऽभ्यावर्तिन्निति’ (१६ । ५ । १५) । ऋक्चतुष्टयेन चतुर्वारमुख्याग्निमात्मसमीपमानयतीति सूत्रार्थः। अग्निदेवत्योर्ध्वबृहती द्वादशार्णत्रिपादा । अभि आभिमुख्येनावर्तितुं शीलमस्यास्तीत्यभ्यावर्ती तत्संबोधनम् अस्मदभिमुखागमनशील । आयुरादिभिः सह मा मामभि मांप्रति निवर्तस्व शीघ्रमागच्छ । आयुषा जीवनेन । वर्चसा ब्रह्मवर्चसेन । प्रजया पुत्रादिकया । धनेन वसुना । सन्या इष्टलाभेन । मेधया धारणावत्या बुद्ध्या । रय्या सुवर्णालंकारैः । पोषेण आयुरादीनां पुष्ट्या ॥ ७ ॥
अष्टमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वत्सप्रीर्ऋषिः
- भुरिगार्ष्यनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर विद्वानों के गुणों का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अभ्यावर्त्तिन्) सन्मुख होके वर्तनेवाले (अग्ने) तेजस्वी पुरुषार्थी विद्वान् पुरुष ! आप (आयुषा) बड़े जीवन (वर्चसा) अन्न तथा पढ़ने आदि (प्रजया) सन्तानों (धनेन) धन (सन्या) सब विद्याओं का विभाग करनेहारी (मेधया) बुद्धि (रय्या) विद्या की शोभा और (पोषेण) पुष्टि के साथ (अभिनिवर्त्तस्व) निरन्तर वर्त्तमान हूजिये और (मा) मुझको भी इन उक्त पदार्थों से संयुक्त कीजिये ॥७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्य लोग भूगर्भादि विद्या के विना ऐश्वर्य्य को प्राप्त नहीं कर सकते और बुद्धि के विना विद्या भी नहीं हो सकती ॥७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्विद्वद्गुणानुपदिशति ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अभ्यावर्त्तिन्नग्ने पुरुषार्थिन् विद्वन् ! त्वमायुषा वर्चसा प्रजया धनेन सन्या मेधया रय्या पोषेण च सहाभिनिवर्त्तस्व मा मां चैतैः संयोजय ॥७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्भूगर्भादिविद्यया विनैश्वर्य्यं प्राप्तुं नैव शक्येत, न प्रज्ञया विना विद्या भवितुं शक्या ॥७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसे भूगर्भविद्येला जाणल्याखेरीज ऐश्वर्य प्राप्त करू शकत नाहीत व बुद्धीशिवाय विद्या ही प्राप्त होऊ शकत नाही.
०८ अग्नेऽअङ्गिरः शतम्
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने॑ऽअङ्गिरः श॒तं ते॑ सन्त्वा॒वृतः॑ सह॒स्रं॑ तऽउपा॒वृतः॑। अधा॒ पोष॑स्य॒ पोषे॑ण॒ पुन॑र्नो न॒ष्टमाकृ॑धि॒ पुन॑र्नो र॒यिमाकृ॑धि ॥८ ॥
मूलम् ...{Loading}...
अग्ने॑ऽअङ्गिरः श॒तं ते॑ सन्त्वा॒वृतः॑ सह॒स्रं॑ तऽउपा॒वृतः॑। अधा॒ पोष॑स्य॒ पोषे॑ण॒ पुन॑र्नो न॒ष्टमाकृ॑धि॒ पुन॑र्नो र॒यिमाकृ॑धि ॥८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अग्ने॑। अ॒ङ्गि॒रः॒। श॒तम्। ते॒। स॒न्तु॒। आ॒वृत॒ इत्या॒ऽवृ॑तः। स॒हस्र॑म्। ते॒। उ॒पा॒वृत॒ इत्यु॑पऽआ॒वृतः॑। अध॑। पोष॑स्य। पोषे॑ण। पुनः॑। नः॒। न॒ष्टम्। आ। कृ॒धि॒। पुनः॑। नः॒। र॒यिम्। आ। कृ॒धि॒। ८।
महीधरः
म० आग्नेयी महाबृहती एकः पादो द्वादशार्णश्चत्वारोऽष्टार्णाः । हे अङ्गिरः अङ्गिनां रसभूत अङ्गसौष्ठवयुक्त हे अग्ने, ते तव शतमावृतः सन्तु शतसंख्याका आवृत्तिशक्तयः सन्तु । तथा ते तव सहस्रमुपावृतः सन्तु सहस्रसंख्याका उपावृत्तिशक्तयः सन्तु स्वस्यैवावर्तनमावृत् । त्वत्समीपवर्तिनां पुरुषाणां द्रव्यविशेषाणां चावर्तनमुपावृत्तिः । अस्मासु स्नेहातिशयेन त्वमपि पुनःपुनरावर्तस्व । त्वदीयाः पुरुषास्त्वदीयानि च द्रव्याणि पुनःपुनरावर्तन्तामित्यर्थः । अधेत्यव्ययमथार्थम् । ‘निपातस्य च’ (पा० ६ । ३ । १३६) इति संहितायां दीर्घः । अथापि शतसहस्रसंख्यानामावृत्त्युपावृत्तिशक्तीनां यः पोषः समृद्धिस्तस्यापि पोषस्यान्यः पोषोऽयुतलक्षादिसंख्याकाभिवृद्धिस्तादृशेन पोषेण नोऽस्मदीयं नष्टं धनं पुनर्भूयोऽपि आकृधि आवृत्तं कुरु आगमय । पुनः भूयोऽपि नोऽस्मदीयं पूर्वमसंपादितं धनमाकृधि सर्वतः संपादितं कुरु । करोतिर्गतिकर्मा ‘श्रुशृणुप्रकृवृभ्यश्छन्दसि’ (पा० ६ । ४ । १०२) हेर्धिः व्यत्यये न शपो लुक् ॥ ८॥
नवमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वत्सप्रीर्ऋषिः
- आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर विद्याभ्यास करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) पदार्थविद्या के जाननेहारे (अङ्गिरः) विद्या के रसिक विद्वन् पुरुष ! जिस पुरुषार्थी (ते) आपकी अग्नि के समान (शतम्) सैकड़ों (आवृतः) आवृत्तिरूप क्रिया और (सहस्रम्) हजारह (ते) आपके (उपावृतः) आवृत्तिरूप सुखों के भोग (सन्तु) होवें, (अध) इसके पश्चात् आप इनसे (पोषस्य) पोषक मनुष्य की (पोषेण) रक्षा से (नष्टम्) परोक्ष भी विज्ञान को (नः) हमारे लिये (पुनः) फिर भी (आकृधि) अच्छे प्रकार कीजिये तथा बिगड़ी हुई (रयिम्) प्रशंसित शोभा को (पुनः) फिर भी (नः) हमारे अर्थ (आकृधि) अच्छे प्रकार कीजिये ॥८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को योग्य है कि विद्याओं में सैकड़ों आवृत्ति और शिल्प विद्याओं में हजारह प्रकार की प्रवृत्ति और प्रसिद्ध अप्रसिद्ध विद्याओं का प्रकाश करके सब प्राणियों के लिये लक्ष्मी और सुख उत्पन्न करें ॥८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्विद्याभ्यासमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्नेऽङ्गिरो विद्वन् ! यस्य पुरुषार्थिनस्ते तवाऽग्नेरिव शतमावृतः सहस्रं ते तवोपावृतः सन्तु, अध त्वमेतैः पोषस्य पोषेण नष्टमपि नः पुनराकृधि नो रयिं पुनराकृधि ॥८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्विद्यासु शतश आवृत्तीः कृत्वा शिल्पविद्यासु सहस्रमुपावृत्तीश्च गुप्तागुप्ता विद्याः प्रकाश्य सर्वेषां श्रीसुखं जननीयम् ॥८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी विद्या प्राप्त करताना अनेक वेळा आवृत्ती करावी व शिल्पविद्या शिकताना विविध प्रकारे तत्परता दाखवून विद्या प्रकट करून सर्वांसाठी ऐश्वर्य व सुख प्राप्त करावे.
०९ पुनरूर्जा निवर्त्तस्व
विश्वास-प्रस्तुतिः ...{Loading}...
पुन॑रू॒र्जा निव॑र्त्तस्व॒ पुन॑रग्नऽइ॒षायु॑षा। पुन॑र्नः पा॒ह्यँह॑सः ॥९ ॥
मूलम् ...{Loading}...
पुन॑रू॒र्जा निव॑र्त्तस्व॒ पुन॑रग्नऽइ॒षायु॑षा। पुन॑र्नः पा॒ह्यँह॑सः ॥९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पुनः॑। ऊ॒र्जा। नि। व॒र्त्त॒स्व॒। पुनः॑। अ॒ग्ने॒। इ॒षा। आयु॑षा। पुनः॑। नः॒। पा॒हि॒। अँह॑सः। ९।
महीधरः
म०. आग्नेय्यौ द्वे गायत्र्यौ । हे अग्ने, त्वमूर्जां क्षीरादिरसेन सह निवर्तस्व पुनरत्रागच्छ । इषा अन्नेन आयुषा जीवेन च सह पुनरागच्छ । आगतस्त्वं नोऽस्मान्पुनः कृतादंहसः पापात्पाहि रक्ष ॥ ९॥
दशमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वत्सप्रीर्ऋषिः
- निचृदार्षी
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर पढ़ानेहारे का कर्त्तव्य अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) अग्नि के समान तेजस्वी अध्यापक विद्वान् जन ! आप (नः) हम लोगों को (अंहसः) पापों से (पुनः) बार-बार (निवर्त्तस्व) बचाइये, (पुनः) फिर हम लोगों की (पाहि) रक्षा कीजिये, और (पुनः) फिर (इषा) इच्छा तथा (आयुषा) अन्न से (ऊर्जा) पराक्रमयुक्त कर्मों को प्राप्त कीजिये ॥९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्वान् लोगों को चाहिये कि सब उपदेश के योग्य मनुष्यों को पापों से निरन्तर हटा के शरीर और आत्मा के बल से युक्त करें और आप भी पापों से बच के परम पुरुषार्थी होवें ॥९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनरध्यापककृत्यमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! त्वं नोऽस्मानंहसः पुनर्निवर्त्तस्व, पुनरस्मान् पाहि, पुनरिषाऽऽयुषोर्जा प्रापय ॥९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - विद्वांसः सर्वानुपदेश्यान् मनुष्यान् पापात् सततं निवर्त्य शरीरात्मबलयुक्तान् सम्पादयन्तु, स्वयं च पापान्निवृत्ताः परमपुरुषार्थिनः स्युः ॥९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - विद्वान लोकांनी उपदेश करून सर्वांना पापापासून सदैव परावृत्त करावे. सर्वांची शरीरे व आत्मे बलवान करावेत. स्वतःही पापांपासून दूर राहून अत्यंत पुरुषार्थी बनावे.
१०० दीर्घायुस्तऽओषधे खनिता
विश्वास-प्रस्तुतिः ...{Loading}...
दी॒र्घायु॑स्तऽओषधे खनि॒ता यस्मै॑ च त्वा॒ खना॑म्य॒हम्। अथो॒ त्वं दी॒र्घायु॑र्भू॒त्वा श॒तव॑ल्शा॒ विरो॑हतात् ॥१०० ॥
मूलम् ...{Loading}...
दी॒र्घायु॑स्तऽओषधे खनि॒ता यस्मै॑ च त्वा॒ खना॑म्य॒हम्। अथो॒ त्वं दी॒र्घायु॑र्भू॒त्वा श॒तव॑ल्शा॒ विरो॑हतात् ॥१०० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दी॒र्घायु॒रिति॑ दी॒र्घऽआ॑युः। ते॒। ओ॒ष॒धे॒। ख॒नि॒ता। यस्मै॑। च॒। त्वा॒। खना॑मि। अ॒हम्। अथो॒ऽइत्यथो॑। त्वम्। दी॒र्घायु॒रिति॑ दी॒र्घऽआ॑युः। भू॒त्वा। श॒तव॒ल्शेति॑ श॒तऽव॑ल्शा। वि। रो॒ह॒ता॒त्। १००।
महीधरः
म० हे ओषधे, त्वमुत्तमा उत्कृष्टासि भवसि । वृक्षाः शालतालतमालादयस्तवोपस्तयः सन्तु । ‘स्त्यैष्ट्यै शब्दसङ्घातयोः’ उपस्त्यायन्ति उपकारायोपद्रवनिराकरणाय च समीपे संहतास्तिष्ठन्तीत्युपस्तयः वृक्षाः त्वां सेवन्तामित्यर्थः । किंच यो नरोऽस्मानभिदासति अभिहन्ति स नरोऽस्माकमुपस्तिः समीपस्थ उपासकोऽस्तु । दासतिर्हिंसाकर्मा ॥ १०१॥
इत्यनारभ्याधीताः समाप्ताः।
द्व्युत्तरशततमी।
महीधरः
म० हे अग्ने, रय्या धनेन सह निवर्तस्व । किंच धारया जलधारया वृष्टिरूपया विश्वतः परि सर्वेषां तृणधान्यलतापादपानामुपरि पिन्वस्व सिञ्च । पिन्वतिः सेचनार्थः । कीदृश्या धारया । विश्वप्स्न्या ‘प्सा भक्षणे’ विश्वैः प्सायते भक्ष्यते पीयत इति विश्वप्स्नी तया । यद्वा विश्वप्स्न्या सर्वजनोपभोग्यया धारया धनधारया सर्वतः परि सर्वतोऽधिगतैरर्थैः पूर्यमाणया पिन्वस्व सिञ्च । अनवच्छिन्नधनदानेन पुनःपुनराप्यायस्वेत्यर्थः ॥ १०॥
एकादशी।
अधिमन्त्रम् (VC)
- वैद्या देवताः
- वरुण ऋषिः
- विराड्बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्य कैसे हो के दूसरों को कैसे करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (ओषधे) ओषधि के तुल्य ओषधियों के गुण-दोष जाननेहारे पुरुष ! जिससे (ते) तेरी जिस ओषधि का (खनिता) सेवन करने हारा (अहम्) मैं (यस्मै) जिस प्रयोजन के लिये (च) और जिस पुरुष के लिये (खनामि) खोदूँ, उससे तू (दीर्घायुः) अधिक अवस्थावाला हो, (अथो) और (दीर्घायुः) बड़ी अवस्थावाला (भूत्वा) होकर (त्वम्) तू जो (शतवल्शा) बहुत अङ्कुरों से युक्त ओषधि है, (त्वा) उसको सेवन करके सुखी हो और (वि, रोहतात्) प्रसिद्ध हो ॥१०० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! तुम लोग ओषधियों के सेवन से अधिक अवस्थावाले होओ और धर्म का आचरण करने हारे सब मनुष्यों को ओषधियों के सेवन से दीर्घ अवस्थावाले करो ॥१०० ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्याः कथं भूत्वा स्वभिन्नान् कथं कुर्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे ओषधे ओषध इव मनुष्य ! यस्य ते तव यामोषधीं खनिताऽहं यस्मै च खनामि, तया त्वं दीर्घायुर्भव, दीर्घार्युर्भूत्वाथो त्वं या शतवल्शौषधी वर्त्तते, त्वा तां सेवित्वाऽथ सुखी भव, तथा विरोहतात् ॥१०० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यूयमोषधिसेवनेन दीर्घायुषो भवत। धर्माचारिणश्च भूत्वा सर्वानोषधिसेवनेनेदृशान् कुरुत ॥१०० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! तुम्ही औषधांचे सेवन करून अधिक आयुष्य वाढवा व धर्माचे आचरण करून सर्व माणसांनाही औषधांचे सेवन करावयास लावून दीर्घायू करा.
१०१ त्वमुत्तमास्योषधे तव
विश्वास-प्रस्तुतिः ...{Loading}...
त्वमु॑त्त॒मास्यो॑षधे॒ तव॑ वृ॒क्षाऽउप॑स्तयः। उप॑स्तिरस्तु॒ सो᳙ऽस्माकं॒ योऽअ॒स्माँ२ऽ अ॑भि॒दास॑ति ॥१०१
मूलम् ...{Loading}...
त्वमु॑त्त॒मास्यो॑षधे॒ तव॑ वृ॒क्षाऽउप॑स्तयः। उप॑स्तिरस्तु॒ सो᳙ऽस्माकं॒ योऽअ॒स्माँ२ऽ अ॑भि॒दास॑ति ॥१०१
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
त्वम्। उ॒त्त॒मेत्यु॑त्त॒मा। अ॒सि॒। ओ॒ष॒धे॒। तव॑। वृ॒क्षाः। उप॑स्तयः। उप॑स्तिः। अ॒स्तु॒। सः। अ॒स्माक॑म्। यः। अ॒स्मान्। अ॒भि॒दास॒तीत्य॑भि॒ऽदास॑ति। १०१।
महीधरः
म० ‘लोगेष्टकाः स्फ्येनाहृत्य बहिर्वेदेरनूत्क्रान्तेषूपदधाति तिष्ठन्मा मा हिᳪं᳭सीदिति प्रत्यृचं प्रतिदिशं पुरस्तात्प्रथमम्’ ( १७ । ३ । ११) । ततोऽध्वर्युः स्फ्येन वेदिबहिःप्रदेशाल्लोगेष्टकाश्चतुरो मृत्खण्डान्पद्याप्रमाणानानीयात्मनो दक्षिणोत्तरपूर्वापरमध्यसूत्रप्रान्तेषु पूर्वादिषु तिष्ठन्मन्त्रचतुष्टयेनोपदध्यादिति सूत्रार्थः । हिरण्यगर्भदृष्टा कदेवत्या त्रिष्टुप् । यः प्रजापतिः पृथिव्याः भूमेर्जनिता जनयिता उत्पादकः । ‘जनिता मन्त्रे’ (पा० ६ । ४ । ५३ ) इति णिचो लोपः । वा चार्थे । यो वा यश्च दिवं व्यानट् द्युलोकमसृजत् । व्यानट् इति व्याप्तिकर्मा । श्रुतौ तु सृजतेरर्थे व्याख्यातः । ‘यो वा दिवᳪं᳭ सत्यधर्मासृजते’ (७ । ३ । १ । २०) इति श्रुतेः । यश्च चन्द्राः आह्लादिका जगत्कारणभूता आपो जलानि प्रथमः आदिभूतः सन् जजानोत्पादितवान् तद्द्वारा मनुष्यानुत्पादितवानित्यर्थः । यतः श्रुती आपश्चन्द्रा इति मनुष्या व्याख्याताः । मनुष्या एव हि यज्ञेनाप्नुवन्ति चन्द्रलोकं पितृमार्गानुसारिणः । ‘मनुष्या वा आपश्चन्द्राः ’ (७ । ३ । १।२०) इति श्रुतेः कारणे कार्योपचारात् । कीदृशः । प्रथमः शरीरी सत्यधमा सत्यं धरतीति सत्यस्य धारयिता स प्रजापतिर्मा मा हिंसीन्मा हन्तु । यतः कस्मै काय प्रजापतये हविषा हविः वयं विधेम दद्मः । हविर्दानान्मा हन्तु । कशब्दस्य सर्वनामत्वाभावात् स्मैआदेशः छान्दसः । हविषा इति विभक्तिव्यत्ययः । विधतिर्धातुर्दानार्थः ॥ १०२॥
त्र्युत्तरशततमी।
अधिमन्त्रम् (VC)
- भिषजो देवताः
- वरुण ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह ओषधि किस प्रकार की है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे वैद्यजन ! (यः) जो (अस्मान्) हमको (अभिदासति) अभीष्ट सुख देता है, (सः) वह (त्वम्) तू (अस्माकम्) हमारा (उपस्तिः) संगी (अस्तु) हो, जो (उत्तमा) उत्तम (ओषधे) ओषधि (असि) है, (तव) जिसके (वृक्षाः) वट आदि वृक्ष (उपस्तयः) समीप इकट्ठे होनेवाले हैं, उस ओषधि से हमारे लिये सुख दे ॥१०१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि विरोधी वैद्य की और विरोधी मित्र की ओषधि कभी न ग्रहण करें, किन्तु जो वैद्यकशास्त्रज्ञ, जिसका कोई शत्रु न हो, धर्मात्मा, सब का मित्र, सर्वोपकारी है, उससे ओषधिविद्या ग्रहण करें ॥१०१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्सौषधिः कीदृशीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे वैद्यजन ! योऽस्मान् अभिदासति स त्वमस्माकमुपस्तिरस्तु, योत्तमौषधे ओषधिरसि अस्ति तव यस्य वृक्षा उपस्तयस्तेनौषधिनाऽस्मभ्यं सुखं देहि ॥१०१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्न कदाचिद् विरोधिनो वैद्यस्यौषधं ग्राह्यम्, न विरोधिमित्रस्य च। किन्तु यो वैद्यकशास्त्रार्थविदाप्तोऽजातशत्रुः सर्वोपकारी सर्वेषां सुहृद् वर्त्तते, तस्मादौषधविद्या संग्राह्या ॥१०१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी आपल्याविरुद्ध असणाऱ्या वैद्याचे औषध कधी ग्रहण करू नये, तर अशा वैद्यक शास्त्रज्ञाकडून औषध घ्यावे किंवा औषधांची विद्या ग्रहण करावी. जो धर्मात्मा, सर्वांचा मित्र व सर्वांवर उपकार करणारा असेल व त्याचा कोणी शत्रू नसेल.
१०२ मा मा
विश्वास-प्रस्तुतिः ...{Loading}...
मा मा॑ हिँसीज्जनि॒ता यः पृ॑थि॒व्या यो वा॒ दिवँ॑ स॒त्यध॑र्मा॒ व्यान॑ट्। यश्चा॒पश्च॒न्द्राः प्र॑थ॒मो ज॒जान॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥१०२ ॥
मूलम् ...{Loading}...
मा मा॑ हिँसीज्जनि॒ता यः पृ॑थि॒व्या यो वा॒ दिवँ॑ स॒त्यध॑र्मा॒ व्यान॑ट्। यश्चा॒पश्च॒न्द्राः प्र॑थ॒मो ज॒जान॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥१०२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मा। मा॒। हिँ॒सी॒त्। ज॒नि॒ता। यः। पृ॒थि॒व्याः। यः। वा॒। दिव॑म्। स॒त्यध॒र्मेति॑ स॒त्यऽध॑र्मा। वि। आन॑ट्। यः। च॒। अ॒पः। च॒न्द्राः। प्र॒थ॒मः। ज॒जान॑। कस्मै॑। दे॒वाय॑। ह॒विषा॑। वि॒धे॒म॒। १०२।
महीधरः
म० अग्निदेवत्या उष्णिक् । हे पृथिवि, यज्ञेनास्मच्चिकीर्षितेन पयसा तत्फलभूतेन दुग्धादिभोगेन च सह अभ्यावर्तस्व आभिमुख्येनागच्छ । कथमागन्तव्यमत आह । इषितः प्रजापतिप्रेषितोऽग्निः ते तव वपां त्वचं पृष्ठं वपासदृशमिमं प्रदेशमरोहत् आरोहतु । अनयर्चा दक्षिणे लोगेष्टकोपधानम् ॥ १०३ ॥
चतुरुत्तरशततमी।
अधिमन्त्रम् (VC)
- को देवता
- हिरण्यगर्भ ऋषिः
- निचृदार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब किसलिये ईश्वर की प्रार्थना करनी चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यः) जो (सत्यधर्मा) सत्यधर्मवाला जगदीश्वर (पृथिव्याः) पृथिवी का (जनिता) उत्पन्न करनेवाला (वा) अथवा (यः) जो (दिवम्) सूर्य आदि जगत् को (च) और पृथिवी तथा (अपः) जल और वायु को (व्यानट्) उत्पन्न करके व्याप्त होता है और जो (चन्द्राः) चन्द्रमा आदि लोकों को (जजान) उत्पन्न करता है, जिस (कस्मै) सुखस्वरूप सुख करने हारे (देवाय) दिव्य सुखों के दाता विज्ञानस्वरूप ईश्वर का (हविषा) ग्रहण करने योग्य भक्तियोग से हम लोग (विधेम) सेवन करें, वह जगदीश्वर (मा) मुझको (मा) नहीं (हिंसीत्) कुसङ्ग से ताड़ित होने देवे ॥१०२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि सत्यधर्म की प्राप्ति और ओषधि आदि के विज्ञान के लिये परमेश्वर की प्रार्थना करें ॥१०२ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ किमर्थ ईश्वरः प्रार्थनीय इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यः सत्यधर्मा जगदीश्वरः पृथिव्या जनिता, यो वा दिवमपश्च व्यानट्, चन्द्राश्च जजान, यस्मै कस्मै देवाय हविषा वयं विधेम, स जगदीश्वरो मा मा हिंसीत् ॥१०२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैः सत्यधर्मप्राप्तये ओषध्यादिविज्ञानाय च परमेश्वरः प्रार्थनीयः ॥१०२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी सत्यधर्मप्राप्तीसाठी व औषध इत्यादींच्या विशेष ज्ञानासाठी परमेश्वराची प्रार्थना करावी.
१०३ अभ्यावर्त्तस्व पृथिवि
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒भ्याव॑र्त्तस्व पृथिवि य॒ज्ञेन॒ पय॑सा स॒ह। व॒पां ते॑ऽअ॒ग्निरि॑षि॒तोऽअ॑रोहत् ॥१०३ ॥
मूलम् ...{Loading}...
अ॒भ्याव॑र्त्तस्व पृथिवि य॒ज्ञेन॒ पय॑सा स॒ह। व॒पां ते॑ऽअ॒ग्निरि॑षि॒तोऽअ॑रोहत् ॥१०३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒भि। आ। व॒र्त्त॒स्व॒। पृ॒थि॒वि॒। य॒ज्ञेन॑। पय॑सा। स॒ह। व॒पाम्। ते॒। अ॒ग्निः। इ॒षि॒तः। अ॒रो॒ह॒त्। १०३।
महीधरः
म० अग्निदेवत्या गायत्री पश्चाल्लोगेष्टकोपधाने विनियुक्ता । । हे अग्ने, यत्ते तवाङ्गं शुक्रं शुक्लं शुद्धं दीप्तिमत् यच्चान्यदङ्गं चन्द्रमाह्लादकरं यदन्यत्पूतं पवित्रं यच्चान्यदङ्गं यज्ञियं यज्ञार्हं तत्सर्वं श्लाघ्यरूपं देवेभ्यो देवानामर्थे भरामसि भरामः संपादयामः ॥ १०४ ॥
पञ्चोत्तरशततमी ।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- हिरण्यगर्भ ऋषिः
- निचृदुष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
पृथिवी के पदार्थों का विज्ञान कैसे करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य ! तू जो (पृथिवि) भूमि (यज्ञेन) सङ्गम के योग्य (पयसा) जल के (सह) साथ वर्त्तती है, उसको (अभ्यावर्त्तस्व) सब ओर से शीघ्र वर्ताव कीजिये। जो (ते) आप के (वपाम्) बोने को (इषितः) प्रेरणा किया (अग्निः) अग्नि (अरोहत्) उत्पन्न करता है, वह अग्नि गुण, कर्म और स्वभाव के साथ सब को जानना चाहिये ॥१०३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो पृथिवी सब का आधार, उत्तम रत्नादि पदार्थों की दाता, जीवन का हेतु, बिजुली से युक्त है, उस का विज्ञान भूगर्भविद्या से सब मनुष्यों को करना चाहिये ॥१०३ ॥
दयानन्द-सरस्वती (सं) - विषयः
भूस्थपदार्थविज्ञानं कथं कर्त्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य ! त्वं या पृथिवि भूमिर्यज्ञेन पयसा सह वर्त्तते, तामभ्यावर्त्तस्वाभिमुख्येनावर्त्तते। यया ते वपामिषितोऽग्निररोहत् स गुणकर्मस्वभावतः सर्वैर्वेदितव्यः ॥१०३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - या भूमिः सर्वस्याधारा रत्नाकरा जीवनप्रदा विद्युद्युक्ताऽस्ति, तस्या विज्ञानं भूगर्भविद्यातः सर्वैर्मनुष्यैः कार्यम् ॥१०३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - पृथ्वी ही सर्वांचा आधार, उत्तम रत्ने इत्यादी पदार्थांची दात्री व जीवनहेतू असलेल्या विद्युतने युक्त आहे. त्यासाठी माणसांनी भूगर्भविद्येचे विज्ञान जाणून संशोधन करावे.
१०४ अग्ने यत्ते
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने॒ यत्ते॑ शु॒क्रं यच्च॒न्द्रं यत्पू॒तं यच्च॑ य॒ज्ञिय॑म्। तद्दे॒वेभ्यो॑ भरामसि ॥१०४ ॥
मूलम् ...{Loading}...
अग्ने॒ यत्ते॑ शु॒क्रं यच्च॒न्द्रं यत्पू॒तं यच्च॑ य॒ज्ञिय॑म्। तद्दे॒वेभ्यो॑ भरामसि ॥१०४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अग्ने॑। यत्। ते॒। शु॒क्रम्। यत्। च॒न्द्रम्। यत्। पू॒तम्। यत्। च॒। य॒ज्ञिय॑म्। तत्। दे॒वेभ्यः॑। भ॒रा॒म॒सि॒। १०४।
महीधरः
म० आशीर्देवी त्रिष्टुप् पादत्रयस्योत्तरतो लोगेष्टकोपधाने विनियोगः । इषमन्नमूर्जं तदुपसेचनं दधिपयोघृतादिकमृतस्य सत्यस्य योनिं स्थानं विद्यात्रयं महिषस्य महत इच्छावतोऽग्नेर्धारां धारणामाहुतिं वा इतोऽस्मात्प्रदेशादुदीच्या दिशः सकाशादहमादमद्मि भक्षयामि स्वीकरोमीत्यर्थः । ‘अद भक्षणे’ लङ् । किंच एतत्सर्वमिडादिकं मामाविशतु आगत्य प्रविशतु । तनूषु मदीयपुत्रादिशरीरेषु गोषु मदीयधेन्वादिपशुषु चाविशतु । ‘उत्तरस्याः सिकताः प्रमार्ष्टि जहामि सेदिमिति-’ (का० १७ । ३ । १३)। उत्तरलोगेष्टकातः सिकताः पातयति । नास्ति इरान्नं यस्यां तामनिरामन्नरहिताममीवां व्याधियुतां सेदिमवसादमहं जहामि त्यजामि । अन्नाभावरोगदुःखानि मे मा सन्त्वित्यर्थः ॥ १०५॥
षडुत्तरशततमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- हिरण्यगर्भ ऋषिः
- भुरिग् गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
किसलिये अग्निविद्या की खोज करनी चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्वन् पुरुष ! (यत्) जो अग्नि का (शुक्रम्) शीघ्रकारी, (यत्) जो (चन्द्रम्) सुवर्ण के समान आनन्द देने हारा, (यत्) जो (पूतम्) पवित्र, (च) और (यत्) जो (यज्ञियम्) यज्ञानुष्ठान के योग्य स्वरूप है, (तत्) वह (ते) आप के और (देवेभ्यः) दिव्यगुण होने के लिये (भरामसि) हम लोग धारण करें ॥१०४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि श्रेष्ठ गुण और कर्मों की सिद्धि के लिये बिजुली आदि अग्निविद्या को विचारें ॥१०४ ॥
दयानन्द-सरस्वती (सं) - विषयः
किमर्थाऽग्निविद्यान्वेषणीया इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने विद्वन् ! यत्पावकस्य शुक्रं यच्चन्द्रं यत्पूतं यच्च यज्ञियं स्वरूपमस्ति, तत्ते देवेभ्यश्च वयं भरामसि ॥१०४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्दिव्यगुणकर्म्मसिद्धये विद्युदादेरग्नेर्विद्या संप्रेक्षणीया ॥१०४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी दिव्यगुणयुक्त होण्यासाठी व कर्मसिद्धी प्राप्त होण्यासाठी विद्युत वगैरे अग्निविद्येचा विचार करावा.
१०५ इषमूर्जमहमितऽआदमृतस्य योनिम्
विश्वास-प्रस्तुतिः ...{Loading}...
इष॒मूर्ज॑म॒हमि॒तऽआद॑मृ॒तस्य॒ योनिं॑ महि॒षस्य॒ धारा॑म्। आ मा॒ गोषु॑ विश॒त्वा त॒नुषु॒ जहा॑मि से॒दिमनि॑रा॒ममी॑वाम् ॥१०५ ॥
मूलम् ...{Loading}...
इष॒मूर्ज॑म॒हमि॒तऽआद॑मृ॒तस्य॒ योनिं॑ महि॒षस्य॒ धारा॑म्। आ मा॒ गोषु॑ विश॒त्वा त॒नुषु॒ जहा॑मि से॒दिमनि॑रा॒ममी॑वाम् ॥१०५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इष॑म्। ऊर्ज॑म्। अ॒हम्। इ॒तः। आद॑म्। ऋ॒तस्य॑। योनि॑म्। म॒हि॒षस्य॑। धारा॑म्। आ। मा॒। गोषु॑। वि॒श॒तु॒। आ। त॒नूषु॑। जहा॑मि। से॒दिम्। अनि॑राम् अमी॑वाम्। १०५।
महीधरः
म० ‘अग्ने तवेति सिकता न्युप्य छादयत्यात्मानम्’ (का० १७ । ३ । १५) षडृचेनोत्तरवेदौ सिकताः प्रक्षिप्य ताभिः पुच्छपक्षं विनात्मानं छादयेत् । पावकाग्निदृष्टं षडृचमग्निदेवत्यम् । आद्ये द्वे विष्टारपङ्क्ती । यस्या द्वितीयतृतीयपादौ द्वादशार्णौ आद्यतुर्यावष्टकौ सा विष्टारपङ्क्तिः । हे अग्ने, हे विभावसो, विभा दीप्तिरेव वसु धनं यस्य तत्संबोधनं हे कान्तिधन, तव वयो धूमः अर्चयो दीप्तयश्च भ्राजन्ते दीप्यन्ते । धीयते भक्ष्यते प्राणिभिरिति वयोऽन्नम् । ‘वी कान्त्यसनखादनव्याप्तिषु’ धूमस्याहुतिपरिणामद्वारेणान्नहेतुत्वादयोऽत्र धूम उच्यते । कीदृशं वयः । श्रवः श्रावयति द्युलोके कृतं कर्मेति श्रवः धूमदर्शनाद्देवानां कर्मज्ञानम् । तथा महि महत् नभोगामित्वात् ‘धूमो वा अस्य श्रवो वयः स ह्येनममुष्मिंल्लोके श्रावयति’ (७।३।१।२९) इति श्रुतेः । किंच बृहन्तो महान्तो भानवो रश्मयो यस्य तत्संबुद्धौ हे बृहद्भानो, हे कवे क्रान्तदर्शिन् विद्वन् यजमानाभिप्रायज्ञ, दाशुषे हविर्दत्तवते यजमानाय शवसा बलेन सह वाजमन्नं त्वं दधासि ददासि । कीदृशं वाजम् । उक्थ्यम् उक्थः शस्त्राद्युपेतो यज्ञस्तद्योग्यं यज्ञपर्याप्तमन्नं ददासीत्यर्थः ॥ १०६ ॥
सप्तोत्तरशततमी।
अधिमन्त्रम् (VC)
- विद्वान् देवता
- हिरण्यगर्भ ऋषिः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब ठीक-ठीक आहार-विहार करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (अहम्) मैं (इतः) इस पूर्वोक्त विद्युत्स्वरूप से (आदम्) भोगने योग्य (इषम्) अन्न (ऊर्जम्) पराक्रम (महिषस्य) बड़े (ऋतस्य) सत्य के (योनिम्) कारण (धाराम्) धारण करनेवाली वाणी को प्राप्त होऊँ, जैसे अन्न और पराक्रम (मा) मुझ को (आविशतु) प्राप्त हो, जिससे मेरे (गोषु) इन्द्रियों और (तनूषु) शरीर में प्रविष्ट हुई (सेदिम्) दुःख का हेतु (अनिराम्) जिसमें अन्न का भोजन भी न कर सकें, ऐसी (अमीवाम्) रोगों से उत्पन्न हुई पीड़ा को (आ, जहामि) छोड़ता हूँ, वैसे तुम लोग भी करो ॥१०५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि अग्नि का जो वीर्य्य आदि से युक्त स्वरूप है, उसको प्रदीप्त करने से रोगों का नाश करें। इन्द्रिय और शरीर को स्वस्थ रोगरहित करके कार्य्य-कारण की जाननेहारी विद्यायुक्त वाणी को प्राप्त होवें और युक्ति से आहार-विहार भी करें ॥१०५ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ युक्ताहारविहारौ कुर्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथाऽहमित आदमिषमूर्जं महिषस्यर्त्तस्य योनिं धारां प्राप्नुयाम्, यथेयमिडूर्क् मा मामाविशतु, येन मम गोषु तनूषु प्रविष्टां सेदिमनिराममीवां जहामि त्यजामि, तथा यूयमपि कुरुत ॥१०५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्या अग्नेर्यच्छुक्रादियुक्तं स्वरूपं तेन रोगान् हन्युः। इन्द्रियाणि शरीराणि च स्वस्थान्यरोगाणि कृत्वा कार्य्यकारणज्ञापिकां विद्यावाचं प्राप्नुवन्तु, युक्त्याहारविहारौ च कुर्य्युः ॥१०५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी अग्नीचे प्रखर स्वरूप जाणून, अग्निशक्तीला प्रदीप्त करून रोगांचा नाश करावा. इंद्रिये व शरीर यांना स्वस्थ निरोगी करून कार्यकारण भाव जाणणारी विद्यायुक्त वाणी प्राप्त करावी व युक्तीने आहार-विहार करावा.
१०६ अग्ने तव
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने॒ तव॒ श्रवो॒ वयो॒ महि॑ भ्राजन्तेऽअ॒र्चयो॑ विभावसो। बृह॑द्भानो॒ शव॑सा॒ वाज॑मु॒क्थ्यं᳙ दधा॑सि दा॒शुषे॑ कवे ॥१०६ ॥
मूलम् ...{Loading}...
अग्ने॒ तव॒ श्रवो॒ वयो॒ महि॑ भ्राजन्तेऽअ॒र्चयो॑ विभावसो। बृह॑द्भानो॒ शव॑सा॒ वाज॑मु॒क्थ्यं᳙ दधा॑सि दा॒शुषे॑ कवे ॥१०६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अग्ने॑। तव॑। श्रवः॑। वयः॑। महि॑। भ्रा॒ज॒न्ते॒। अ॒र्चयः॑। वि॒भा॒व॒सो॒ इति॑ विभाऽवसो। बृह॑द्भानो॒ इति॒ बृह॑त्ऽभानो। शव॑सा। वाज॑म्। उ॒क्थ्य᳙म्। दधा॑सि। दा॒शुषे॑। क॒वे॒। १०६।
महीधरः
म० हे अग्ने, त्वं भानुना दीप्त्या उदियर्षि उद्गच्छसि । उत्कर्षं प्राप्नोषीत्यर्थः । कीदृशस्त्वम् । पावकवर्चाः पावकं शोधकं वर्चो दीप्तिशक्तिर्यस्य सः । शुक्रवर्चाः शुक्रं शुक्लं निर्मलं वर्चो यस्य । अनूनवर्चाः अनूनमहीनं वर्चा यस्य पूर्णशक्तिः । किंच हे अग्ने, त्वं विचरन्सर्वतः प्रचरन्सन् उपावसि उप सङ्गम्य पालयसि सदेवमनुष्यं जगद्रक्षसि । तत्र दृष्टान्तः । पुत्रो मातरा यथा पुत्रश्चरमे वयसि मातरा मातापितरौ उपावति तद्वत् ‘पितरामातरा च छन्दसि’ (पा० ६ । ३ । ३३ ) इति निपातः । किंच उभे रोदसी द्यावापृथिव्यौ पृणक्षि पूरयसि । हविषा द्यां वृष्ट्या भूमिं पूरयसीत्यर्थः । ‘इमे वै द्यावापृथिवी रोदसी ते एष उभे पृणक्ति धूमेनामूं वृष्ट्येमामिति’ ( ७ । ३ । १। ३०) इति श्रुतेः । तं त्वां स्तुम इति वाक्यशेषः ॥१०७॥
अष्टोत्तरशततमी ।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- पावकाग्निर्ऋषिः
- निचृत पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को कैसा होना चाहिये, यह विषये अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (बृहद्भानो) अग्नि के समान अत्यन्त विद्याप्रकाश से युक्त (विभावसो) विविध प्रकार की कान्ति में वसने हारे (कवे) अत्यन्त बुद्धिमान् (अग्ने) अग्नि के समान वर्त्तमान विद्वान् पुरुष ! जिससे आप (शवसा) बल के साथ (दाशुषे) दान के योग्य विद्यार्थी के लिये (उक्थ्यम्) कहने योग्य (वाजम्) विज्ञान को (दधासि) धारण करते हो, इसमें (तव) आप का अग्नि के समान (महि) अति पूजने योग्य (श्रवः) सुनने योग्य शब्द (वयः) यौवन और (अर्चयः) दीप्ति (भ्राजन्ते) प्रकाशित होती हैं ॥१०६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य अग्नि के समान गुणी और आप्तों के तुल्य श्रेष्ठ कीर्त्तियों से प्रकाशित होते हैं, वे परोपकार के लिये दूसरों को विद्या, विनय और धर्म का निरन्तर उपदेश करें ॥१०६ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यैः कथं भवितव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे बृहद्भानो विभावसो कवेऽग्ने विद्वन् ! यतस्त्वं शवसा दाशुष उक्थ्यं वाजं दधासि, तस्मात् तवाग्नेरिव महि श्रवो वयोऽर्चयश्च भ्राजन्ते ॥१०६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्या अग्निवद् गुणिन आप्तवत् सत्कीर्त्तयः प्रकाशन्ते, ते परोपकारायान्येभ्यो विद्याविनयधर्मान् सततमुपदिशेयुः ॥१०६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे अग्नीसारखी तेजस्वी, आप्ताप्रमाणे श्रेष्ठ व कीर्तिमान असतात त्यांनी परोपकार करून इतरांना विद्या, विनय, धर्म यांचा निरंतर उपदेश करावा.
१०७ पावकवर्चाः शुक्रवर्चाऽअनूनवर्चाऽउदियर्षि
विश्वास-प्रस्तुतिः ...{Loading}...
पा॒व॒कव॑र्चाः शु॒क्रव॑र्चा॒ऽअनू॑नवर्चा॒ऽउदि॑यर्षि भा॒नुना॑। पु॒त्रो मा॒तरा॑ वि॒चर॒न्नुपा॑वसि पृ॒णक्षि॒ रोद॑सीऽउ॒भे ॥१०७ ॥
मूलम् ...{Loading}...
पा॒व॒कव॑र्चाः शु॒क्रव॑र्चा॒ऽअनू॑नवर्चा॒ऽउदि॑यर्षि भा॒नुना॑। पु॒त्रो मा॒तरा॑ वि॒चर॒न्नुपा॑वसि पृ॒णक्षि॒ रोद॑सीऽउ॒भे ॥१०७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पा॒व॒कव॑र्चा॒ इति॑ पाव॒कऽव॑र्चाः। शु॒क्रव॑र्चा॒ इति॑ शु॒क्रऽव॑र्चाः। अनू॑नवर्चा॒ इत्यनू॑नऽवर्चाः। उत्। इ॒य॒र्षि॒। भा॒नुना॑। पु॒त्रः। मा॒तरा॑। वि॒चर॒न्निति॑ वि॒ऽचर॑न्। उप॑। अ॒व॒सि॒। पृ॒णक्षि॑। रोद॑सी॒ इति॒ रोद॑सी। उ॒भे इत्यु॒भे। १०७।
महीधरः
म०. तिस्रः सतोबृहत्यः । यस्या आद्यतृतीयौ द्वादशकौ द्वितीयतुर्यावष्टको सा सतोबृहती । ऊर्क् जलं नपात्पौत्रः हे ऊर्जोनपादपां पौत्र, अद्भ्य ओषधिवनस्पतयो जायन्ते तेभ्योऽग्निर्जायत इत्यपां पौत्रत्वमग्नेः । यद्वा ऊर्जोऽन्नस्य नपात् न पातयति नाशयति नपात् । पतेर्णिजन्तात् क्विप् । हे अन्नस्याविनाशक, हे जातवेदः जातप्रज्ञान, धीतिभिः कर्मभिर्निमित्तभूतैर्हितः स्थापितः सन् सुशस्तिभिः शोभनाभिः शस्तिभिः स्तुतिभिः कृत्वा त्वं मन्दस्व मोदस्व हृष्टो भव । ‘मदिङ् स्वपने जाड्ये मदे मोदे स्तुतौ गतौ’ इति धातुः । किमतिहर्षः कार्यस्तत्राह । यजमानाः त्वे त्वयि इषो हविर्लक्षणान्यन्नानि संदधुः जुहुवुः । हविःप्राप्त्या हर्षः कार्य इत्यर्थः । कीदृशा यजमानाः । भूरिवर्पसः । वर्प इति रूपनाम । भूरीणि वर्पांसि येषां ते नानारूपाः। चित्रोतयः चित्रा विचित्रा नानाविधा ऊतयो रक्षा अवनानि अन्नानि तर्पणानि वा त्वत्कृतानि येषां ते । लया तर्पिता इत्यर्थः । वामजाताः वामं वननीयं संभजनीयं जातं जन्म येषां ते । विशिष्टदेशजातिकुलोत्पन्ना इत्यर्थः ॥ १०८॥
नवोत्तरशततमी ।
अधिमन्त्रम् (VC)
- विद्वान् देवता
- पावकाग्निर्ऋषिः
- भुरिगार्षी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
माता-पिता सन्तानों के प्रति क्या-क्या करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य ! जैसे (पुत्रः) पुत्र ब्रह्मचर्यादि आश्रमों में (विचरन्) विचरता हुआ विद्या को प्राप्त होता और (भानुना) प्रकाश से (पावकवर्चाः, शुक्रवर्चाः) बिजुली और सूर्य के प्रकाश के समान न्याय करने और (अनूनवर्चाः) पूर्ण विद्याऽभ्यास करने हारा और जैसे (उभे) दोनों (रोदसी) आकाश और पृथिवी परस्पर सम्बन्ध करते हैं, वैसे (उत्, इयर्षि) विद्या को प्राप्त होता राज्य का (पृणक्षि) सम्बन्ध करता और (मातरा) माता-पिता की (उपावसि) रक्षा करता है, इससे तू धर्मात्मा है ॥१०७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मातापिताओं को यह अति उचित है कि सन्तानों को उत्पन्न कर बाल्यावस्था में आप शिक्षा दे, ब्रह्मचर्य करा, आचार्य के कुल में भेज के विद्यायुक्त करें। सन्तानों को चाहिये कि विद्या और अच्छी शिक्षा से युक्त हो और पुरुषार्थ से ऐश्वर्य्य को बढ़ा के अभिमान और मत्सरतारहित प्रीति से माता-पिता की मन, वाणी और कर्म्म से यथावत् सेवा करें ॥१०७ ॥
दयानन्द-सरस्वती (सं) - विषयः
जनकजनन्यौ सन्तानान् प्रति किं किं कुर्यातामित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे जन ! यस्त्वं यथा पुत्रो ब्रह्मचर्यादिषु विचरन् सन् विद्यामाप्नोति, यथा सूर्यविद्युतौ भानुना पावकवर्चाः शुक्रवर्चा अनूनवर्चा न्यायं करोति, यथा उभे रोदसी सम्बध्नीतस्तथा विद्यामुदियर्षि राज्यं पृणक्षि, मातरोपाऽवसि, तस्माद् धार्मिकोऽसि ॥१०७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मातापितॄणामिदमत्युचितमस्ति यत्सन्तानानुत्पाद्य बाल्यावस्थायां स्वयं सुशिक्ष्य, ब्रह्मचर्यं कारयित्वाऽऽचार्यकुले विद्याग्रहणाय सम्प्रेष्य विद्यायोगकरणम्। अपत्यानां चेदं समुचितं वर्त्तते यद्विद्यासुशिक्षायुक्ता भूत्वा पुरुषार्थेनैश्वर्यमुन्नीय निरभिमानमत्सरया प्रीत्या मातापितॄणां मनसा वाचा कर्मणा यथावत् परिचर्यानुष्ठानं कर्त्तव्यमिति ॥१०७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माता व पिता यांनी संतानांना बाल्यावस्थेत स्वतः शिक्षण द्यावे व नंतर त्या ब्रह्मचाऱ्यांना आचार्य कुलामध्ये पाठवून विद्यायुक्त करावे. संतानांनी विद्या व चांगले शिक्षण प्राप्त करून पुरुषार्थाने ऐश्वर्य वाढवावे. अभिमान व मत्सर हे दोष न येऊ देता माता व पिता यांची मनाने, वाणीने व कर्माने प्रेमपूर्वक सेवा करावी.
१०८ ऊर्जो नपाज्जातवेदः
विश्वास-प्रस्तुतिः ...{Loading}...
ऊर्जो॑ नपाज्जातवेदः सुश॒स्तिभि॒र्मन्द॑स्व धी॒तिभि॑र्हि॒तः। त्वेऽइषः॒ संद॑धु॒र्भूरि॑वर्पसश्चि॒त्रोत॑यो वा॒मजा॑ताः ॥१०८ ॥
मूलम् ...{Loading}...
ऊर्जो॑ नपाज्जातवेदः सुश॒स्तिभि॒र्मन्द॑स्व धी॒तिभि॑र्हि॒तः। त्वेऽइषः॒ संद॑धु॒र्भूरि॑वर्पसश्चि॒त्रोत॑यो वा॒मजा॑ताः ॥१०८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ऊर्जः॑। न॒पा॒त्। जा॒त॒वे॒द॒ इति॑ जातऽवेदः। सु॒श॒स्तिभि॒रिति॑ सुश॒स्तिऽभिः॑। मन्द॑स्व। धी॒तिभि॒रिति॑ धी॒तिऽभिः॑। हि॒तः। त्वेऽइति॒ त्वे। इषः॑। सम्। द॒धुः॒। भूरि॑वर्पस॒ इति भूरि॑ऽवर्पसः। चि॒त्रोत॑य॒ इति॑ चि॒त्रऽऊ॑तयः। वा॒मजा॑ता॒ इति॑ वा॒मऽजा॑ताः। १०८।
महीधरः
म० हे अमरणधर्मन् हे अग्ने, रायो धनानि अस्मे अस्मासु त्वं प्रथयस्व विस्तारय । कीदृशस्त्वम् । जन्तुभिः प्राणिभिर्हविःप्रदैरध्वर्युप्रभृतिभिः इरज्यन् दीप्यमानः । किंच यस्त्वमीदृशो धनप्रथयिता स त्वं दर्शतस्य दर्शनीयस्य वपुषः चित्याग्निरूपस्य शरीरस्य मध्ये विराजसि विशेषेण दीप्यसे ॥ विभक्तिव्यत्ययो वा । दर्शतेन वपुषा ज्वालालक्षणेन शरीरेण विराजसि । सानसिं चिरन्तनं क्रतुं संकल्पं पृणक्षि पूरयसि सर्वेष्टं ददासीत्यर्थः ॥ १०९॥
दशोत्तरशततमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- पावकाग्निर्ऋषिः
- निचृत् पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
माता-पिता और पुत्र कैसे हों, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (जातवेदः) बुद्धि और धन से युक्त पुत्र ! जिस (त्वे) तुझ में (भूरिवर्पसः) बहुत प्रशंसा के योग्य रूपों से युक्त (चित्रोतयः) आश्चर्य के तुल्य रक्षा आदि कर्म्म करनेवाली (वामजाताः) प्रशंसा के योग्य कुलों वा कर्मों में प्रसिद्ध विद्याप्रिय अध्यापिका माता आदि विदुषी स्त्रियाँ (इषः) अन्नों को (संदधुः) धरें, भोजन करावें, सो तू (सुशस्तिभिः) उत्तम प्रशंसायुक्त क्रियाओं के साथ (धीतिभिः) अङ्गुलियों से बुलाया हुआ (ऊर्जः) (नपात्) धर्म के अनुकूल पराक्रमयुक्त सब के (हितः) हित को धारण सदा किये हुए (मन्दस्व) आनन्द में रह ॥१०८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जिन कुमार और कुमारियों की माता विद्याप्रिय विदुषी हों, वे ही निरन्तर सुख को प्राप्त होते हैं, और जिन माता-पिताओं के सन्तान विद्या, अच्छी शिक्षा और ब्रह्मचर्य्य सेवन से शरीर और आत्मा के बल से युक्त धर्म का आचरण करनेवाले हैं, वे ही सदा सुखी हों ॥१०८ ॥
दयानन्द-सरस्वती (सं) - विषयः
मातापितृसन्तानाः कीदृशा भवेयुरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे जातवेदस्तनय ! यस्मिँस्त्वे त्वयि भूरिवर्पसश्चित्रोतयो वामजाता मात्रादयोऽध्यापिका इषः संदधुः, स सुशस्तिभिर्धीतिभिराहूतस्त्वम् ऊर्ज्जो नपाद्धितः सदा मन्दस्व ॥१०८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - येषां कुमाराणां कुमारीणां मातरो विद्याप्रिया विदुष्यः सन्ति, त एव सततं सुखमाप्नुवन्ति। यासां मातॄणां येषां पितॄणां चापत्यानि विद्यासुशिक्षाब्रह्मचर्य्यैः शरीरात्मबलयुक्तानि धर्माचारीणि सन्ति, त एव सदा सुखिनः स्युः ॥१०८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्या मुला-मुलींची माता विद्याप्रिय व विदुषी असेल ते नेहमी सुखी असतात. ज्या माता-पित्याची संताने विद्या, उत्तम शिक्षण व ब्रह्मचर्य यांनी शरीर, आत्मा यांचे बल वाढवून धर्माचरण करतात तीच नेहमी सुखी होतात.
१०९ इरज्यन्नग्ने प्रथयस्व
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒र॒ज्यन्न॑ग्ने प्रथयस्व ज॒न्तुभि॑र॒स्मे रायो॑ऽअमर्त्य। स द॑र्श॒तस्य॒ वपु॑षो॒ वि रा॑जसि पृ॒णक्षि॑ सान॒सिं क्रतु॑म् ॥१०९ ॥
मूलम् ...{Loading}...
इ॒र॒ज्यन्न॑ग्ने प्रथयस्व ज॒न्तुभि॑र॒स्मे रायो॑ऽअमर्त्य। स द॑र्श॒तस्य॒ वपु॑षो॒ वि रा॑जसि पृ॒णक्षि॑ सान॒सिं क्रतु॑म् ॥१०९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इ॒र॒ज्यन्। अ॒ग्ने॒। प्र॒थ॒य॒स्व॒। ज॒न्तुभि॒रिति॑ ज॒न्तुऽभिः॑। अ॒स्मेऽइत्य॒स्मे। रायः॑। अ॒म॒र्त्य॒। सः। द॒र्श॒तस्य॑। वपु॑षः। वि। रा॒ज॒सि॒। पृ॒णक्षि॑। सा॒न॒सिम्। क्रतु॑म्। १०९।
महीधरः
म० हे अग्ने, अध्वरस्य यज्ञस्य इष्कर्तारम् निस उपसर्गस्य नलोपः पूर्वमुक्तः (८३) निष्कर्तारं निश्चयेन कर्तारं यज्ञनिष्पादकं प्रचेतसं प्रकृष्टचित्तयुक्तं क्षयन्तम् ‘क्षि निवासगत्योः’ विशिष्टस्थाने निवसन्तमीदृशं यजमानं प्रति वामस्य वननीयस्य महो महतो राधसो धनस्य रातिं दानं त्वं दधासि ददासि । किंच सुभगां सुष्ठु भजनीयां महीं महतीमिषमन्नं च ददासि । सानसिं पुराणं रयिं धनमस्मर्यमाणविषयं निधानलक्षणं च दधासि निधिं दर्शयसीत्यर्थः ॥११०॥
एकादशोत्तरशततमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- पाकाग्निर्ऋषिः
- निचृदार्षी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्य कैसा हो, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अमर्त्य) नाश और संसारी मनुष्यों के स्वभाव से रहित (अग्ने) अग्नि के समान पुरुषार्थी ! जो (इरज्यन्) ऐश्वर्य्य का सञ्चय करते हुए आप (दर्शतस्य) देखने योग्य (वपुषः) रूप का (सानसिम्) सनातन (क्रतुम्) बुद्धि का (पृणक्षि) सम्बन्ध करते हो और उसी बुद्धि में विशेष करके (विराजसि) शोभित होते हो, (सः) सो आप (अस्मे) हम लोगों के लिये (जन्तुभिः) मनुष्यादि प्राणियों से (रायः) धनों का (प्रथयस्व) विस्तार कीजिये ॥१०९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो पुरुष मनुष्यों के लिये सनातन वेदविद्या को देता और सुन्दर आचार में विराजमान होता है, वही ऐश्वर्य्य को प्राप्त हो के दूसरों के लिये प्राप्त करा सकता है ॥१०९ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यः कीदृशो भवेदित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अमर्त्याग्ने ! य इरज्यंस्त्वं दर्शतस्य वपुषः सानसिं क्रतुं पृणक्षि, तत्रैव विराजसि, सोऽस्मे जन्तुभी रायः प्रथयस्व ॥१०९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यो मनुष्येभ्यः सनातनीं वेदविद्यां ददाति, सुरूपाचारे विराजते, स एवैश्वर्य्यं लब्ध्वाऽन्येभ्यः प्रापयितुं शक्नोति ॥१०९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जो पुरुष मानवांसाठी सनातन वेदविद्या देतो व उत्तम आचरणयुक्त असतो तोच ऐश्वर्य प्राप्त करून दुसऱ्यांनाही ऐश्वर्य प्राप्त करून देऊ शकतो.
१० सह रय्या
विश्वास-प्रस्तुतिः ...{Loading}...
स॒ह रय्या निव॑र्त्त॒स्वाग्ने॒ पिन्व॑स्व॒ धार॑या। वि॒श्वप्स्न्या॑ वि॒श्वत॒स्परि॑ ॥१० ॥
मूलम् ...{Loading}...
स॒ह रय्या निव॑र्त्त॒स्वाग्ने॒ पिन्व॑स्व॒ धार॑या। वि॒श्वप्स्न्या॑ वि॒श्वत॒स्परि॑ ॥१० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स॒ह। र॒य्या। नि। व॒र्त्त॒स्व॒। अग्ने॑। पिन्वस्व॒। धार॑या। वि॒श्वप्स्न्येति॑ वि॒श्वऽप्स्न्या॑। वि॒श्वतः॑। परि॑। । १०।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वत्सप्रीर्ऋषिः
- निचृद् गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उक्त विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) तेजस्वी विद्वन् पुरुष ! आप दुष्ट व्यवहारों से (निवर्त्तस्व) पृथक् हूजिये (विश्वप्स्न्या) सब भोगने योग्य पदार्थों की भुगवाने हारी (धारया) सम्पूर्ण विद्याओं के धारण करने का हेतु वाणी तथा (रय्या) धन के (सह) साथ (विश्वतः) सब ओर से (परि) सब प्रकार (पिन्वस्व) सुखों का सेवन कीजिये ॥१० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्वान् पुरुषों को चाहिये कि कभी अधर्म्म का आचरण न करें और दूसरों को वैसा उपदेश भी न करें। इस प्रकार सब शास्त्र और विद्याओं से विराजमान हुए प्रशंसा के योग्य होवें ॥१० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने विद्वन् ! त्वं दुष्टाद् व्यवहारान्निवर्तस्व, विश्वप्स्न्या धारया रय्या च सह विश्वतः परि पिन्वस्व सर्वदा सुखानि सेवस्व ॥१० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - न खलु विद्वांसः कदाचिदप्यधर्म्ममाचरेयुः, न चान्यानुपदिशेयुः। एवं सकलशास्त्रविद्यया विराजमानाः सन्तः प्रशंसिताः स्युः ॥१० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - विद्वान पुरुषांनी कधीही अधर्माचे आचरण करू नये व इतरांनाही अधर्माचा उपदेश करू नये. याप्रमाणे सर्व शास्त्रे व विद्या शिकून प्रशंसायोग्य बनावे.
११० इष्कर्त्तारमध्वरस्य प्रचेतसम्
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒ष्क॒र्त्तार॑मध्व॒रस्य॒ प्रचे॑तसं॒ क्षय॑न्तँ॒ राध॑सो म॒हः। रा॒तिं वा॒मस्य॑ सु॒भगां॑ म॒हीमिषं॒ दधा॑सि सान॒सिँ र॒यिम् ॥११० ॥
मूलम् ...{Loading}...
इ॒ष्क॒र्त्तार॑मध्व॒रस्य॒ प्रचे॑तसं॒ क्षय॑न्तँ॒ राध॑सो म॒हः। रा॒तिं वा॒मस्य॑ सु॒भगां॑ म॒हीमिषं॒ दधा॑सि सान॒सिँ र॒यिम् ॥११० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इ॒ष्क॒र्त्तार॑म्। अ॒ध्व॒रस्य॑। प्रचे॑तस॒मिति॒ प्रऽचे॑तसम्। क्षय॑न्तम्। राध॑सः। म॒हः। रा॒तिम्। वा॒मस्य॑। सु॒भगा॒मिति॑ सु॒ऽभगा॑म्। म॒हीम्। इष॑म्। दधा॑सि। सा॒न॒सिम्। र॒यिम्। ११०।
महीधरः
म० उपरिष्टाज्ज्योतिः । यस्यास्त्रयः पादा द्वादशाक्षराश्चतुर्थोऽष्टाक्षरः सोपरिष्टाज्ज्योतिः । मानुषा विभक्तेराकारः । मनुष्या जना मनुष्यजातियुक्ता जन्तव ऋत्विग्यजमानाः। युगा विभक्तेराकारः । युगशब्दः कालवाची । युगैः कालैः पौर्णमास्यमावास्यादिभिर्निमित्तैः गिरा वेदवाचा कृत्वा सुम्नाय यज्ञाय त्वा त्वामग्निं पुरोऽग्रतः पूर्वभागे आहवनीयरूपेण दधिरे स्थापितवन्तः । किंभूतं त्वामृतवानमृतमस्यास्तीति ऋतवा तं सत्यवन्तम् । छान्दसो दीर्घः । ‘छन्दसीवनिपौ वाच्यौ वंश्च मतुप् च’ (पा० ५। २ । १०९) इत्यस्त्यर्थे वन्प्रत्ययः । महिषं महान्तं विश्वदर्शतं सर्वस्य दर्शनीयं श्रुत्कर्णं शृणुत इति श्रुतौ क्विप् । श्रुतौ कर्णौ यस्य तम् । यद्विज्ञाप्यते तत्सत्यमेव कर्णाभ्यां श्रुत्वा संपादयतीत्यर्थः । सप्रथस्तमं प्रथनं प्रथः कीर्तिः । ‘प्रथ प्रख्याने’ अस्मादसुन्प्रत्ययः । प्रथसा सह वर्तमानः सप्रथाः अतिशयेन सप्रथाः सप्रथस्तमस्तमतिकीर्तिमन्तम् । दैव्यं देव एव दैव्यस्तं स्वार्थे यत् । यद्वा देवेभ्यो हितम् ॥ १११॥
द्वादशोत्तरशततमी।
महीधरः
म० ‘उपरिनाभि धारयन्ना त्वाहार्षमित्यभिमन्त्रयते’ (का० १६ । ५। १६)। नाभेरुपर्युख्याग्निं धारयंस्तमभिमन्त्रयत इति सूत्रार्थः । आग्नेय्यनुष्टुब् ध्रुवदृष्टा । हे अग्ने, अहं त्वामाहार्षमाहृतवानस्मि । आङ्पूर्वस्य हरतेर्लङि उत्तमैकवचनम् । त्वं च अन्तरभूतः उखामध्येऽवस्थितोऽसि । अविचाचलिरत्यन्तं चलनरहितो ध्रुवः स्थिरः सन् तिष्ठ । विचलतीति विचाचलिः यङन्तादिन् । किंच सर्वा विशः प्रजाः त्वा त्वां वाञ्छन्तु । यद्वा सर्वा विशः सर्वाण्यन्नानि त्वां वाञ्छन्तु अन्नानि तवोपतिष्ठन्तु । ‘अन्नं वै विशः’ (१६ । ७ । ३ । ७) इति श्रुतेः। इदं राष्ट्रं त्वत् त्वत्तः सकाशान्मा अधि भ्रशत् अयं जनपदस्व्ूत्तो माप्रभ्रश्यतु शून्यो मा भूत् । अस्मिन् राज्ये स्थित्वा सर्वाः प्रजाः पाहीत्यर्थः । यद्वा श्रीर्वै राष्ट्रम् ‘मा त्वद्राष्ट्रमधिभ्रशत्’ (६।७।३।७) इति श्रुतेः। श्रीः त्वत्तो मा भ्रश्यतु ‘भ्रंशु अधःपतने’ पुषादित्वाच्च्लेरङ् ‘न माङ्योगे’ (पा० ६ । ४ । ७४) इति अडभावः ॥ ११॥
द्वादशी।
अधिमन्त्रम् (VC)
- विद्वान् देवता
- पावकाग्निर्ऋषिः
- आर्षी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
कौन पुरुष परोपकारी होता है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् पुरुष ! जो आप (अध्वरस्य) बढ़ाने योग्य यज्ञ के (इष्कर्त्तारम्) सिद्ध करनेवाले (प्रचेतसम्) उत्तम बुद्धिमान् (वामस्य) प्रशंसित (महः) बड़े (राधसः) धन के (रातिम्) देने और (क्षयन्तम्) निवास करनेवाले पुरुष और (सुभगाम्) सुन्दर ऐश्वर्य्य की देने हारी (महीम्) पृथिवी तथा (इषम्) अन्न आदि को और (सानसिम्) प्राचीन (रयिम्) धन को (दधासि) धारण करते हो, इससे हम लोगों को सत्कार करने योग्य हो ॥११० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य जैसे अपने लिये सुख की इच्छा करे, वैसे ही दूसरों के लिये भी करे, वही आप्त सत्कार के योग्य होवे ॥११० ॥
दयानन्द-सरस्वती (सं) - विषयः
कः परोपकारी जायत इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यस्त्वध्वरस्येष्कर्त्तारं प्रचेतसं वामस्य महो राधसो रातिं क्षयन्तं सुभगां महीमिषं सानसिं रयिं च दधासि, तस्मादस्माभिः पूज्योऽसि ॥११० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यो यथा स्वार्थं सुखमिच्छेत् तथा परार्थं च, स एवाप्तः पूज्यो भवेत् ॥११० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जो माणूस स्वतःच्या सुखासाठी ज्या प्रकारची इच्छा करतो तशीच इच्छा दुसऱ्याच्याही सुखासाठी करतो तोच खरा आप्त असून सत्कार करण्यायोग्य असतो.
१११ ऋतावानं महिषम्
विश्वास-प्रस्तुतिः ...{Loading}...
ऋ॒तावा॑नं महि॒षं वि॒श्वद॑र्शतम॒ग्निँ सु॒म्नाय॑ दधिरे पु॒रो जनाः॑। श्रुत्क॑र्णँ स॒प्रथ॑स्तमं त्वा गि॒रा दैव्यं॒ मानु॑षा यु॒गा ॥१११ ॥
मूलम् ...{Loading}...
ऋ॒तावा॑नं महि॒षं वि॒श्वद॑र्शतम॒ग्निँ सु॒म्नाय॑ दधिरे पु॒रो जनाः॑। श्रुत्क॑र्णँ स॒प्रथ॑स्तमं त्वा गि॒रा दैव्यं॒ मानु॑षा यु॒गा ॥१११ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ऋ॒तावा॑नम्। ऋ॒तवा॑नमित्यृ॒तऽवा॑नम्। म॒हि॒षम्। वि॒श्वद॑र्शत॒मिति॑ वि॒श्वऽद॑र्शतम्। अ॒ग्निम्। सु॒म्नाय॑। द॒धि॒रे॒। पु॒रः। जनाः॑। श्रुत्क॑र्ण॒मिति॒ श्रुत्ऽक॑र्णम्। स॒प्रथ॑स्तम॒मिति॑ स॒प्रथः॑ऽतमम्। त्वा॒। गि॒रा। दैव्य॑म्। मानु॑षा। यु॒गा। १११।
महीधरः
म० ‘आप्यायस्वेति सिकतालम्भनमृग्भ्याम्’ (का० १७ । ३ । १६)। आत्मनि विस्तारिताः सिकताः स्पृशति ऋग्द्वयेन । गोतमदृष्टाः सोमदेवत्यास्तिस्रो गायत्रीत्रिष्टबुष्णिक्छन्दस्काः ‘आप्यायस्व मदिन्तम’ (११४) इति तृतीयस्या विनियोगः सूत्रे नास्ति । हे सोम, विश्वतः सर्वस्मात् वृष्ण्यं वीर्यं सर्वभूतोत्पत्तिकृद्बीजं ते तव समेतु समागच्छतु । तेन च वीर्येण त्वमाप्यायस्व सर्वतो वर्धस्व । किंच वाजस्यान्नस्य संगथे सङ्गमननिमित्तं भव । अन्नमस्मासु सङ्गमयेत्यर्थः ॥ ११२ ॥
त्रयोदशोत्तरशततमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- पावकाग्निर्ऋषिः
- स्वराडार्षी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को किनका अनुकरण करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य ! जैसे (जनाः) विद्या और विज्ञान से प्रसिद्ध मनुष्य (गिरा) वाणी से (सुम्नाय) सुख के लिये (दैव्यम्) विद्वानों में कुशल (श्रुत्कर्णम्) बहुश्रुत (विश्वदर्शतम्) सब देखने हारे (सप्रथस्तमम्) अत्यन्तविद्या के विस्तार के साथ वर्त्तमान (ऋतावानम्) बहुत सत्याचरण से युक्त (महिषम्) बड़े (अग्निम्) विद्वान् को (मानुषा) मनुष्यों के (युगा) वर्ष वा सत्ययुग आदि (पुरः) प्रथम (दधिरे) धारण करते हैं, वैसे विद्वान् को और इन वर्षों का तू भी धारण कर, यह (त्वा) तुझे सिखाता हूँ ॥१११ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो सत्पुरुष हो चुके हों, उन्हीं का अनुकरण मनुष्य लोग करें, अन्य अधर्मियों का नहीं ॥१११ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यैः केषामनुकरणं कार्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य ! यथा जना गिरा सुम्नाय दैव्यं श्रुत्कर्णं विश्वदर्शतं सप्रथस्तममृतावानं महिषमग्निं विद्वांसं मानुषा युगा च पुरो दधिरे, तथैवंभूतं विद्वांसमेतानि च त्वं धेहीति त्वा शिक्षयामि ॥१११ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये सत्पुरुषा अतीतास्तेषामेवानुकरणं मनुष्याः कुर्युर्नेतरेषामधार्मिकाणाम् ॥१११ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जे सत्पुरुष पूर्वी होऊन गेलेले आहेत त्यांचेच अनुकरण माणसांनी करावे. इतर अधार्मिक लोकांचे अनुकरण करू नये.
११२ आप्यायस्व समेतु
विश्वास-प्रस्तुतिः ...{Loading}...
आप्या॑यस्व॒, समे॑तु ते
वि॒श्वतः॑ सोम॒ वृष्ण्य॑म्।
भवा॒ वाज॑स्य सङ्ग॒थे ॥११२ ॥
मूलम् ...{Loading}...
आप्या॑यस्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒ वृष्ण्य॑म्। भवा॒ वाज॑स्य सङ्ग॒थे ॥११२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ। प्या॒य॒स्व॒। सम्। ए॒तु॒। ते॒। वि॒श्वतः॑। सो॒म॒। वृष्ण्य॑म्। भव॑। वाज॑स्य। स॒ङ्ग॒थ इति॑ सम्ऽग॒थे। ११२।
महीधरः
म० हे सोम, पयांसि पातव्या रसाः ते तव संयन्तु सङ्गच्छन्ताम् । उत अपिच वाजा अन्नानि संयन्तु वृष्ण्यानि रेतांसि ते संयन्तु । कीदृशस्य ते । अभिमातिषाहः अभिमातिं पाप्मानं सहतेऽभिभवतीत्यभिमातिसाट् तस्याभिमातिसाहः । षत्वं छान्दसम् । हे सोम, पयोऽन्नवृष्ण्यैराप्यायमानः वर्धमानः सन् अमृताय अमरणधर्मिण्यै प्रजात्यै पुत्रादिवृद्ध्यै यजमानस्य भवेति शेषः । अमृतशब्देन श्रुत्या प्रजातिर्व्याख्याता । तथाच श्रुतिः ‘प्रजात्यां तदमृतं दधाति तस्मात्प्रजातिरमृतेति’ (७ । ३ । १। ४६)। किंच दिवि द्युलोके उत्तमानि उत्कृष्टानि श्रवांसि अन्नानि आहुतिपरिणामजनितानि धिष्व धारय संपादय । लोकद्वयभोगं संपादयेत्यर्थः । ‘धि धारणे’ तुदादिः विकरणव्यत्यय आत्मनेपदं च छान्दसम् ‘बहुलं छन्दसि’ (पा० २ । ४ । ७३) इत्युक्ते ‘सुधितवसुधित’ (पा० ७ । ४ । ४५) इति सूत्रेण दधातेर्निपातो वा धत्स्वेत्यर्थे ॥ ११३ ॥
चतुर्दशोत्तरशततमी।
अधिमन्त्रम् (VC)
- सोमो देवता
- गोतम ऋषिः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
राजपुरुष क्या करके कैसे हों, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सोम) चन्द्रमा के समान कान्तियुक्त राजपुरुष ! जैसे सोम गुणयुक्त विद्वान् के सङ्ग से (ते) तेरे लिये (वृष्ण्यम्) वीर्य्य पराक्रमवाले पुरुष के कर्म को (विश्वतः) सब ओर से (समेतु) सङ्गत हो, उससे आप (आप्यायस्व) बढ़िये, (वाजस्य) विज्ञान और वेग से संग्राम के जाननेहारे स्वामी की आज्ञा से (सङ्गथे) युद्ध में विजय करनेवाले (भव) हूजिये ॥११२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजपुरुषों को नित्य पराक्रम बढ़ा के शत्रुओं से विजय को प्राप्त होना चाहिये ॥११२ ॥
दयानन्द-सरस्वती (सं) - विषयः
राजजनाः किं कृत्वा कीदृशा भवेयुरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सोम ! तादृशस्य विदुषः सङ्गात् ते वृष्ण्यं विश्वतः समेतु, तेन त्वमाप्यायस्व, वाजस्य वेत्ता सन् सङ्गथे विजयी भव ॥११२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - राजपुरुषैर्नित्यं वीर्य्यं वर्धयित्वा विजयेन भवितव्यम् ॥११२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजपुरुषांनी नेहमी पराक्रमात वाढ करून शत्रूंवर विजय मिळवावा.
११३ सं ते
विश्वास-प्रस्तुतिः ...{Loading}...
सं ते॒ पयाँ॑सि समु॑ यन्तु॒ वाजाः॒ सं वृष्ण्या॑न्यभिमाति॒षाहः॑। आ॒प्याय॑मानोऽअ॒मृता॑य सोम दि॒वि श्रवाँ॑स्युत्त॒मानि॑ धिष्व ॥११३ ॥
मूलम् ...{Loading}...
सं ते॒ पयाँ॑सि समु॑ यन्तु॒ वाजाः॒ सं वृष्ण्या॑न्यभिमाति॒षाहः॑। आ॒प्याय॑मानोऽअ॒मृता॑य सोम दि॒वि श्रवाँ॑स्युत्त॒मानि॑ धिष्व ॥११३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सम्। ते॒। पयाँ॑सि। सम्। ऊँ इत्यूँ॑। य॒न्तु॒। वाजाः॑। सम्। वृष्ण्या॑नि। अ॒भि॒मा॒ति॒षाहः॑। अ॒भि॒मा॒ति॒सह॒ इत्य॑भिमाति॒ऽसहः॑। आ॒प्याय॑मान॒ इत्या॒ऽप्याय॑मानः। अ॒मृता॑य। सो॒म॒। दि॒वि। श्रवाँ॑सि। उ॒त्त॒मानीत्यु॑त्ऽत॒मानि॑। धि॒ष्व॒। ११३।
महीधरः
म० हे मदिन्तम, मदयति तर्पयतीति मदी। गहादिवाण्णिनिप्रत्ययः (पा० ३ । १ । १३४ ) । यद्वा मदस्तृप्तिरस्यास्तीति मदी ‘अत इनिठनौ’ (पा० ५।२। ११५) इतीन् अतिशयेन मदी मदिन्तमः (पा० ८।२।१७) इति नान्तात्परस्य तमपो नुडागमः । ईदृश हे सोम, विश्वेभिर्विश्वैः सर्वैरंशुभिः सूक्ष्मांशैः आप्यायस्व प्रवृद्धो भव । वृद्धः सन्नोऽस्माकं वृधे वर्धनाय सखा सहायो भव । ‘द्व्यचोऽतस्तिङः’ (पा० ६। | ३ । १३५) इति संहितायां दीर्घः । कीदृशस्त्वम् । सप्रथस्तमः अत्यन्तं सप्रथाः सकीर्तिः सप्रथस्तमः ॥ ११४ ॥
पञ्चदशोत्तरशततमी।
अधिमन्त्रम् (VC)
- सोमो देवता
- गोतम ऋषिः
- भुरिगार्षी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
शरीर और आत्मा के बल से युक्त पुरुष किस को प्राप्त होते हैं, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सोम) शान्तियुक्त पुरुष ! जिस (ते) तुम्हारे लिये (पयांसि) जल वा दुग्ध (संयन्तु) प्राप्त होवें, (अभिमातिषाहः) अभिमानयुक्त शत्रुओं को सहनेवाले (वाजाः) धनुर्वेद के विज्ञान (सम्) प्राप्त होवें (उ) और (वृष्ण्यानि) पराक्रम (सम्) प्राप्त होवें, सो (आप्यायमानः) अच्छे प्रकार बढ़ते हुए आप (दिवि) प्रकाशस्वरूप ईश्वर में (अमृताय) मोक्ष के लिये (उत्तमानि, श्रवांसि) उत्तम श्रवणों को (धिष्व) धारण कीजिये ॥११३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य शरीर और आत्मा के बल को नित्य बढ़ाते हैं, वे योगाभ्यास से परमेश्वर में मोक्ष के आनन्द को प्राप्त होते हैं ॥११३ ॥
दयानन्द-सरस्वती (सं) - विषयः
शरीरात्मबलयुक्ताः किमाप्नुवन्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सोम ! यस्मै ते पयांसि संयन्त्वभिमातिषाहो वाजाः संयन्तु, वृष्ण्यानि संयन्तु, स आप्यायमानस्त्वं दिव्यमृतायोत्तमानि श्रवांसि धिष्व ॥११३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्याः शरीरात्मबलं नित्यं वर्धयन्ति, ते योगाभ्यासेन परमात्मनि मोक्षानन्दं लभन्ते ॥११३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे शरीर व आत्मा यांचे बल सदैव वाढवितात ती योगाभ्यासाने परमेश्वर सान्निध्यात राहून मोक्षाचा आनंद प्राप्त करतात.
११४ आप्यायस्व मदिन्तम
विश्वास-प्रस्तुतिः ...{Loading}...
आप्या॑यस्व मदिन्तम॒ सोम॒ विश्वे॑भिरँ॒शुभिः॑। भवा॑ नः स॒प्रथ॑स्तमः॒ सखा॑ वृ॒धे ॥११४ ॥
मूलम् ...{Loading}...
आप्या॑यस्व मदिन्तम॒ सोम॒ विश्वे॑भिरँ॒शुभिः॑। भवा॑ नः स॒प्रथ॑स्तमः॒ सखा॑ वृ॒धे ॥११४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ। प्या॒य॒स्व॒। म॒दि॒न्त॒मेति॑ मदिन्ऽतम। सोम॑। विश्वे॑भिः। अँ॒शुभि॒रित्यँ॒शुऽभिः॑। भव॑। नः॒। स॒प्रथ॑स्तम॒ इति॑ स॒प्रथः॑ऽतमः। सखा॑। वृ॒धे॒। ११४।
महीधरः
म०. ‘श्वेतेऽश्वे पुरस्तात्तिष्ठति श्वेताभावेऽश्वेतेऽश्वाभावेऽनडुह्यग्निभ्यः प्रह्रियमाणेभ्योऽनुवाचयति’ ( का० १७ । ३ । २०-२१) । श्वेतवर्णेऽश्वेऽन्यवर्णे तदभावे वृषे वा तिष्ठति सति अग्निभ्यः प्रह्रियमाणेभ्योऽनुब्रूहीति प्रेषितो होता आ ते वत्स इति तृचमनुवक्तीति सूत्रार्थः । अग्निदेवत्यास्तिस्रो गायत्र्यः आद्यावत्सारदृष्टा द्वितीया विरूपदृष्टा तृतीया प्रजापतिदृष्टैव । हे अग्ने, ते तव वत्सः पयोव्रतत्वाद्वत्ससमस्त्वत्प्रियो यजमानः परमाच्चित् । चिदप्यर्थे । उत्कृष्टादपि सधस्थात्सहस्थानात् द्युलोकात् मन आहृत्येति शेषः । आयमत् आयच्छति गृह्णाति मनोनिग्रहं करोतीत्यर्थः । ‘इतश्च लोपः’ (पा० ३ । ४ । ९७) इति इकारलोपे यमदिति रूपम् । ‘इषुगमियमां छः’ (पा. ७। ३। ४७) इति छत्वाभावश्छान्दसः । कया गिरा वेदवाचा मन आहृत्येत्यर्थः । कीदृश्या गिरा । त्वां कामया त्वां कामयते स्तोतुमिच्छतीति त्वांकामा तया अलुक् । देवैः सह तिष्ठति यस्मिन्नग्निः तत्सधस्थं द्युलोकः ‘सधमाद-’ (पा० ६।३। ९६) इति सहस्य सधादेशः ॥ ११५ ॥
षोडशोत्तरशततमी।
अधिमन्त्रम् (VC)
- सोमो देवता
- गोतम ऋषिः
- आर्ष्युष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
संसार में कौन वृद्धि को प्राप्त होता है, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (मदिन्तम) अत्यन्त आनन्दी (सोम) ऐश्वर्य्यवाले पुरुष ! आप (अंशुभिः) किरणों से सूर्य्य के समान (विश्वेभिः) सब साधनों से (आप्यायस्व) वृद्धि को प्राप्त हूजिये, (सप्रथस्तमः) अत्यन्त विस्तारयुक्त सुख करने हारे (सखा) मित्र हुए (नः) हमारे (वृधे) बढ़ाने के लिये (भव) तत्पर हूजिये ॥११४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस संसार में सब का हित करनेहारा पुरुष सब प्रकार से वृद्धि को प्राप्त होता है, ईर्ष्या करनेवाला नहीं ॥११४ ॥
दयानन्द-सरस्वती (सं) - विषयः
कोऽत्र वर्द्धत इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मदिन्तम सोम ! त्वमंशुभिः किरणैः सूर्य्य इव विश्वेभिः साधनैराप्यायस्व, सप्रथस्तमः सखा सन् नो वृधे भव ॥११४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - इह सर्वहितकारी सर्वतो वर्धते नेर्ष्यकः ॥११४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या जगात सर्वांचे हित करणाऱ्या पुरुषाची सर्व प्रकारे उन्नती होते, तशी ईर्षा करण्याची होत नाही.
११५ आ ते
विश्वास-प्रस्तुतिः ...{Loading}...
आ ते॑ व॒त्सो मनो॑ यमत् पर॒माच्चि॑त् स॒धस्था॑त्। अग्ने॒ त्वाङ्का॑मया गि॒रा ॥११५ ॥
मूलम् ...{Loading}...
आ ते॑ व॒त्सो मनो॑ यमत् पर॒माच्चि॑त् स॒धस्था॑त्। अग्ने॒ त्वाङ्का॑मया गि॒रा ॥११५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ। ते॒। व॒त्सः। मनः॑। य॒म॒त्। प॒र॒मात्। चि॒त्। स॒धस्था॒दिति॑ स॒धऽस्था॑त्। अग्ने॑। त्वाङ्का॑म॒येति॒ त्वाम्ऽका॑मया। गि॒रा। ११५।
महीधरः
म० हे अङ्गिरस्तम, अन्यते जीव्यते येनेत्यन् अन्नम् ‘अन् प्राणने’ क्विप् । अन् अन्नं गिरति अत्तीत्यङ्गिराः अतिशयेनाङ्गिरा अङ्गिरस्तमः हे अग्ने, पृथक् नानाभूताः विश्वाः सर्वाः ताः प्रसिद्धाः स्तुतयः कामायाभिलाषपूरणाय तुभ्यं त्वयि येमिरे नियम्यन्ते । यजमानैरिति शेषः । कर्मणि लिट् । कीदृश्यः । सुक्षितयः शोभनाः क्षितयो निवासा याभ्यस्ताः । स्वर्गादिशुभस्थानप्रदा इत्यर्थः । यजमाना इह कामपूर्त्यै द्युलोकाप्त्यै च मन्त्रैस्त्वामेव स्तुवन्तीति भावः ॥ ११६ ॥
सप्तदशोत्तरशततमी।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां द्वादशोऽध्यायः ॥ १२ ॥
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वत्सार ऋषिः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्य लोग किस-किस को वश में करके आनन्द को प्राप्त होवें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) अग्नि के समान तेजस्वी विद्वान् पुरुष ! (त्वाङ्कामया) तुझको कामना करने के हेतु (गिरा) वाणी से जिस (ते) तेरा (मनः) चित्त जैसे (परमात्) अच्छे (सधस्थात्) एक से स्थान से (चित्) भी (वत्सः) बछड़ा गौ को प्राप्त होवे, वैसे (आ, यमत्) स्थिर होता है, सो तू मुक्ति को क्यों न प्राप्त होवे ॥११५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि मन और वाणी को सदैव अपने वश में रक्खें ॥११५ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्याः किं किं वशीकृत्यानन्दं प्राप्नुवन्त्वित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने सोम ! विद्वँस्त्वाङ्कामया गिरा यस्य ते मनः परमात् सधस्थाच्चिद् वत्सो गोरिवायमत्, स त्वं मुक्तिं कथन्नाप्नुयाः ॥११५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैः सदैव मनः स्ववशं विधेयं वाणी च ॥११५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - (सर्व) माणसांनी आपले मन व वाणी सदैव ताब्यात ठेवावी.
११६ तुभ्यं ताऽअङ्गिरस्तम
विश्वास-प्रस्तुतिः ...{Loading}...
तुभ्यं॒ ताऽअ॑ङ्गिरस्तम॒ विश्वाः॑ सुक्षि॒तयः॒ पृथ॑क्। अग्ने॒ कामा॑य येमिरे ॥११६ ॥
मूलम् ...{Loading}...
तुभ्यं॒ ताऽअ॑ङ्गिरस्तम॒ विश्वाः॑ सुक्षि॒तयः॒ पृथ॑क्। अग्ने॒ कामा॑य येमिरे ॥११६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
तुभ्य॑म्। ताः। अ॒ङ्गि॒र॒स्त॒मेत्य॑ङ्गिरःऽतम। विश्वाः॑। सु॒क्षि॒तय॒ इति॑ सुऽक्षि॒तयः॑। पृथ॑क्। अग्ने॑। कामा॑य। ये॒मि॒रे॒। ११६।
महीधरः
म० अग्निः प्रियेषु अभिरुचितेषु धामसु स्थानेषु धिष्ण्येषु एकोऽसहायभूतः सन् विराजति विशेषेण दीप्यते । कीदृशोऽग्निः । भूतस्योत्पन्नस्य भव्यस्य भविष्यतश्च जनस्य कामः कामपूरकः । सम्राट् सम्यक् राजमानः शोभमानः । भूतस्य भव्यस्य सम्राडीश्वर इति वा । काम्यते सर्वैर्यष्टुमिष्यत इति काम इति वा ॥ ११७ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे। रुक्मादिवाचनान्तोऽयं द्वादशोऽध्याय ईरितः ॥ १२ ॥
अधिमन्त्रम् (VC)
- अग्निर्देवता
- विरूप ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब राजा क्या करे, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अङ्गिरस्तम) अतिशय करके सार के ग्राहक (अग्ने) प्रकाशमान राजन् ! जो (विश्वाः) सब (सुक्षितयः) श्रेष्ठ मनुष्योंवाली प्रजा (पृथक्) अलग (कामाय) इच्छा की सिद्धि के लिये (तुभ्यम्) तुम्हारे लिये (येमिरे) प्राप्त होवें, (ताः) उन प्रजाओं की आप निरन्तर रक्षा कीजिये ॥११६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जहाँ प्रजा के लोग धर्मात्मा राजा को प्राप्त हो के अपनी-अपनी इच्छा पूरी करते हैं, वहाँ राजा की वृद्धि क्यों न होवे? ॥११६ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ राजा किं कुर्यादित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अङ्गिरस्तमाग्ने राजन् ! या विश्वाः सुक्षितयः प्रजाः पृथक् कामाय तुभ्यं येमिरे, तास्त्वं सततं रक्ष ॥११६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यत्र प्रजा धार्मिकं राजानं प्राप्य स्वां स्वामभिलाषां प्राप्नुवन्ति, तत्र राजा कथं न वर्द्धेत ॥११६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्या ठिकाणी धर्मात्मा राजा असेल तेथे प्रजेची इच्छा पूर्ण होते. तेथे राजाचा उत्कर्ष का बरे होणार नाही?
११७ अग्निः प्रियेषु
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्निः प्रि॒येषु॒ धाम॑सु॒ कामो॑ भू॒तस्य॒ भव्य॑स्य। स॒म्राडेको॒ विरा॑जति ॥११७ ॥
मूलम् ...{Loading}...
अ॒ग्निः प्रि॒येषु॒ धाम॑सु॒ कामो॑ भू॒तस्य॒ भव्य॑स्य। स॒म्राडेको॒ विरा॑जति ॥११७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒ग्निः। प्रि॒येषु॑। धाम॒स्विति॒ धाम॑ऽसु। कामः॑। भू॒तस्य॑। भव्य॑स्य। स॒म्राडिति॑ स॒म्ऽराट्। एकः॑। वि। रा॒ज॒ति॒। ११७।
महीधरः
अधिमन्त्रम् (VC)
- अग्निर्देवता
- प्रजापतिर्ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्य लोग कैसे होकर क्या-क्या करें, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो मनुष्य (सम्राट्) सम्यक् प्रकाशक (एकः) एक ही असहाय परमेश्वर के सदृश (कामः) स्वीकार के योग्य (अग्निः) अग्नि के समान वर्त्तमान सभापति (भूतस्य) हो चुके और (भव्यस्य) आनेवाले समय के (प्रियेषु) इष्ट (धामसु) जन्म, स्थान और नामों में (विराजति) प्रकाशित होवे, वही राज्य का अधिकारी होने योग्य है ॥११७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो मनुष्य परमात्मा के गुण, कर्म और स्वभावों के अनुकूल अपने गुण, कर्म और स्वभाव करते हैं, वे ही चक्रवर्ती राज्य भोगने के योग्य होते हैं ॥११७ ॥ इस अध्याय में स्त्री, पुरुष, राजा, प्रजा, खेती और पठन-पाठन आदि कर्म का वर्णन है, इससे इस अध्याय के अर्थ की पूर्व अध्याय के अर्थ के साथ सङ्गति समझनी चाहिये ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्याणां श्रीमत्परमविदुषां विरजानन्दसरस्वतीस्वामिनां शिष्येण दयानदसरस्वतीस्वामिना निर्मिते संस्कृतार्य्यभाषाभ्यां विभूषिते सुप्रमाणयुक्ते यजुर्वेदभाष्ये द्वादशोऽध्यायः सम्पूर्णः ॥१२॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्याः कीदृशा भूत्वा किं कुर्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यो मनुष्यः सम्राडेकः कामोऽग्निः सभेशः परमेश्वर इव भूतस्य भव्यस्य प्रियेषु धामसु विराजति, स एव राजाभिषेचनीयः ॥११७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये मनुष्याः परमात्मनो गुणकर्मस्वभावानुकूलान् स्वगुणकर्मस्वभावान् कुर्वन्ति, त एव साम्राज्यं भोक्तुमर्हन्तीति ॥११७ ॥ अत्र स्त्रीपुरुषराजप्रजाकृष्यध्ययनाध्यापनादिकर्मवर्णनादेतदर्थस्य पूर्वाऽध्यायार्थेन सह सङ्गतिरस्तीति बोध्यम् ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जी माणसे परमेश्वराच्या गुण, कर्म, स्वभावानुसार आपले गुण, कर्म व स्वभाव बनवितात तीच चक्रवर्ती राज्य भोगण्यायोग्य असतात.
११ आ त्वाहार्षमन्तरभूर्ध्रुवस्तिष्ठाविचाचलिः
विश्वास-प्रस्तुतिः ...{Loading}...
आ त्वा॑हार्षम॒न्तर॑भूर्ध्रु॒वस्ति॒ष्ठावि॑चाचलिः। विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु॒ मा त्वद्रा॒ष्ट्रमधि॑भ्रशत् ॥११ ॥
मूलम् ...{Loading}...
आ त्वा॑हार्षम॒न्तर॑भूर्ध्रु॒वस्ति॒ष्ठावि॑चाचलिः। विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु॒ मा त्वद्रा॒ष्ट्रमधि॑भ्रशत् ॥११ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ। त्वा॒। अ॒हा॒र्ष॒म्। अ॒न्तः। अ॒भूः॒। ध्रु॒वः। ति॒ष्ठ॒। अवि॑चाचलि॒रित्यवि॑ऽचाचलिः। विशः॑। त्वा॒। सर्वाः॑। वा॒ञ्छ॒न्तु॒। मा। त्वत्। रा॒ष्ट्रम्। अधि॑। भ्र॒श॒त्। ११।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- ध्रुव ऋषिः
- आर्ष्यनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर राजा और प्रजा के कर्मों का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे शुभ गुण और लक्षणों से युक्त सभापति राजन् ! (त्वा) आपको राज्य की रक्षा के लिये मैं (अन्तः) सभा के बीच (आहार्षम्) अच्छे प्रकार ग्रहण करूँ। आप सभा में (अभूः) विराजमान हूजिये (अविचाचलिः) सर्वथा निश्चल (ध्रुवः) न्याय से राज्यपालन में निश्चित बुद्धि होकर (तिष्ठ) स्थिर हूजिये (सर्वाः) सम्पूर्ण (विशः) प्रजा (त्वा) आपकी (वाञ्छन्तु) चाहना करें, (त्वत्) आपके पालने से (राष्ट्रम्) राज्य (माधिभ्रशत्) नष्ट-भ्रष्ट न होवे ॥११ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - उत्तम प्रजाजनों को चाहिये कि सब से उत्तम पुरुष को सभाध्यक्ष राजा मान के उसको उपदेश करें कि आप जितेन्द्रिय हुए सब काल में धार्मिक पुरुषार्थी हूजिये। आपके बुरे आचरणों से राज्य कभी नष्ट न होवे, जिससे सब प्रजापुरुष आप के अनुकूल वर्त्तें ॥११ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुना राजप्रजाकर्म्माह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे शुभगुणलक्षण सभेश राजन् ! त्वा राज्यपालनायाहमन्तराहार्षम्। त्वमन्तरभूः, अविचाचलिर्ध्रुवस्तिष्ठ। सर्वा विशस्त्वा वाञ्छन्तु, तव सकाशाद् राष्ट्रं माऽधिभ्रशत् ॥११ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - उत्तमाः प्रजाजनाः सर्वोत्तमं पुरुषं सभाध्यक्षं राजानं कृत्वाऽनूपदिशन्तु। त्वं जितेन्द्रियः सन् सर्वदा धर्मात्मा पुरुषार्थी भवेः। न तवानाचाराद् राष्ट्रं कदाचिन्नष्टं भवेद् यतः सर्वाः प्रजास्त्वदनुकूलाः स्युः ॥११ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - उत्तम प्रजेने सर्वात उत्तम पुरुषाला राजा मानून त्याला असा उपदेश करावा की त्याने जितेन्द्रिय बनून सर्वकाळी धार्मिक व पुरुषार्थी बनावे. त्याच्या वाईट वर्तनाने राज्य कधीही नष्ट होता कामा नये. सर्व प्रजेने राजाच्या अनुकूल वर्तन करावे.
१२ उदुत्तमं वरुण
विश्वास-प्रस्तुतिः ...{Loading}...
उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा॑ध॒मं वि म॑ध्य॒मँ श्र॑थाय। अथा॑ व॒यमा॑दित्य व्र॒ते तवाना॑गसो॒ऽअदि॑तये स्याम ॥१२ ॥
मूलम् ...{Loading}...
उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा॑ध॒मं वि म॑ध्य॒मँ श्र॑थाय। अथा॑ व॒यमा॑दित्य व्र॒ते तवाना॑गसो॒ऽअदि॑तये स्याम ॥१२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उत्। उ॒त्त॒ममित्यु॑त्ऽत॒मम्। व॒रु॒ण॒। पाश॑म्। अ॒स्मत्। अव॑। अ॒ध॒मम्। वि। म॒ध्य॒मम्। श्र॒था॒य॒। श्र॒थ॒येति॑ श्रथय। अथ॑। व॒यम्। आ॒दि॒त्य॒। व्र॒ते। तव॑। अना॑गसः। अदि॑तये। स्या॒म॒। १२।
महीधरः
म० ‘पाश उन्मुच्योदुत्तममिति’ (का० १६ । ५। १७)। रुक्मपाशशिक्यपाशौ गलादूर्ध्वमार्गेण निष्कासयतीति सूत्रार्थः। वरुणदेवत्या त्रिष्टुप् शुनःशेपदृष्टा । उदित्युपसर्गोऽव वि एतावपि श्रथयेत्यनेन संबध्यते । हे वरुण, उत्तममुत्तमाङ्गे शिरसि स्थापितं त्वदीयं पाशमस्मत् अस्मत्तः सकाशात् उत् श्रथय उत्कृष्य विनाशय । अधममधमाङ्गे पादप्रदेशे स्थापितं त्वत्पाशमवश्रथय अवकृष्यास्मत्तो विनाशय । मध्यमं मध्यमप्रदेशे स्थितं पाशं विश्रथय विच्छेदय । ‘श्रथ बध्ने’ मित्वाण्णिचि ह्रस्वः लोटि मध्यमैकवचने रूपम् । श्रथायेति संहितायां दीर्घश्छान्दसः । यद्वा श्रथ क्र्यादिः लोटि मध्यमैकवचने ‘छन्दसि शायजपि’ (पा० ३ । १।८४) इति श्नाप्रत्ययस्य शायजादेशे श्रथायेति रूपम् । अथ पाशत्रयविनाशानन्तरं हे आदित्य अदितिपुत्र, वरुण अनागसः अनपराधा निष्पापास्तव व्रते कर्मणि वर्तमानाः सन्तो वयमदितये अदीनतायै स्याम अखण्डितत्वाय योग्या भवेम । अथा इत्यत्र ‘निपातस्य च’ (पा० ६ । ३ । १३६) इति दीर्घः ॥ १२ ॥
त्रयोदशी।
अधिमन्त्रम् (VC)
- वरुणो देवता
- शुनःशेप ऋषिः
- विराडार्षी त्रिष्टुप्
- धैवतः
१३ अग्रे बृहन्नुषसामूर्ध्वोऽअस्थान्निर्जगन्वान्
विश्वास-प्रस्तुतिः ...{Loading}...
अग्रे॑ बृ॒हन्नु॒षसा॑मू॒र्ध्वोऽअ॑स्थान्निर्जग॒न्वान् तम॑सो॒ ज्योति॒षागा॑त्। अ॒ग्निर्भा॒नुना॒ रुश॑ता॒ स्वङ्ग॒ऽआ जा॒तो विश्वा॒ सद्मा॑न्यप्राः ॥१३ ॥
मूलम् ...{Loading}...
अग्रे॑ बृ॒हन्नु॒षसा॑मू॒र्ध्वोऽअ॑स्थान्निर्जग॒न्वान् तम॑सो॒ ज्योति॒षागा॑त्। अ॒ग्निर्भा॒नुना॒ रुश॑ता॒ स्वङ्ग॒ऽआ जा॒तो विश्वा॒ सद्मा॑न्यप्राः ॥१३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अग्रे॑। बृ॒हन्। उ॒षसा॑म्। ऊ॒र्ध्वः। अ॒स्था॒त्। नि॒र्ज॒ग॒न्वानिति॑ निःऽजग॒न्वान्। तम॑सः। ज्योति॑षा। आ। अ॒गा॒त्। अ॒ग्निः। भा॒नुना॑। रुश॑ता। स्वङ्ग॒ इति॑ सु॒ऽअङ्गः॑। आ। जा॒तः। विश्वा॑। सद्मा॑नि। अ॒प्राः॒। १३।
महीधरः
म० ‘पिण्डवत्प्राग्दक्षिणा प्रगृह्णात्यग्रे बृहन्निति’ (का०१६ । ५।१७) । पूर्वमन्त्रेण पाशावुन्मुच्योर्ध्वबाहुराग्नेयीं दिशं प्रत्यख्याग्निमूर्ध्वं धारयतीति सूत्रार्थः । अग्निदेवत्या त्रिष्टुप् त्रितदृष्टा । आदित्यात्मनाग्नेः स्तुतिः क्रियते । बृहन् प्रभावान्महानयमग्निरुषसामग्रे प्रातःकालानां मुखे ऊर्ध्वो अस्थात् ऊर्ध्वः स्थितः । यद्वाग्निहोत्रादौ बोध्यमान उत्तिष्ठति । ऊर्ध्वो अस्थादित्यत्र ‘प्रकृत्यान्तःपादमव्यपरे’ (पा. ६।१।११५) इति ‘एङः पदान्तादति’ (६।१।१०९) इति सूत्रप्राप्तसन्ध्यभावः । यश्च तमसो रात्रिलक्षणान्निर्जगन्वान्निर्गतः सन् ज्योतिषाऽहर्लक्षणेन सह आ अगात् इहागतः सोऽग्निर्जात उत्पन्नमात्र एव विश्वा विश्वानि सर्वाणि सद्मानि स्थानानि सर्वान् लोकान् आ अप्राः स्वतेजसा सर्वत्र पूरितवान् ‘प्रा पूरणे’ लङ् पुरुषव्यत्ययः । ‘इमे वै लोका विश्वा सद्मानि’ (६।७।३ । १७) इति श्रुतिः । कीदृशः । रुशता ‘रुश हिंसायाम्’ रुशतीति रुशन् तेन रुशता तमो हिंसता भानुना रश्मिना स्वङ्गः शोभनान्यङ्गानि यस्य शोभनशरीरः ॥ १३ ॥
चतुर्दशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- त्रित ऋषिः
- भुरिगार्षी पङ्क्तिः
- पञ्चमः
१४ हंसः शुचिषद्
विश्वास-प्रस्तुतिः ...{Loading}...
हँ॒सः शु॑चि॒षद् वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत्। नृ॒ष॑द् व॑र॒सदृ॑त॒सद् व्यो॑म॒सद॒ब्जा गो॒जाऽऋ॑त॒जाऽअ॑द्रि॒जाऽऋ॒तं बृ॒हत् ॥१४ ॥
मूलम् ...{Loading}...
हँ॒सः शु॑चि॒षद् वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत्। नृ॒ष॑द् व॑र॒सदृ॑त॒सद् व्यो॑म॒सद॒ब्जा गो॒जाऽऋ॑त॒जाऽअ॑द्रि॒जाऽऋ॒तं बृ॒हत् ॥१४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
हँ॒सः। शु॒चि॒षत्। शु॒चि॒सदिति॑ शुचि॒ऽसत्। वसुः॑। अ॒न्त॒रि॒क्ष॒सदित्य॑न्तरिक्ष॒ऽसत्। होता॑। वे॒दि॒षत्। वे॒दि॒सदिति॑ वेदि॒ऽसत्। अति॑थिः। दु॒रो॒ण॒सदिति॑ दुरोण॒ऽसत्। नृ॒षत्। नृ॒सदिति॑ नृ॒ऽसत्। व॒र॒सदिति॑ वर॒ऽसत्। ऋ॒त॒सदित्यृ॑त॒ऽसत्। व्यो॒म॒सदिति॑ व्योम॒ऽसत्। अ॒ब्जा इत्य॒प्ऽजाः। गो॒जा इति॑ गो॒ऽजाः। ऋ॒त॒जा इत्यृ॑त॒ऽजाः। अ॒द्रि॒जा इत्य॑द्रि॒ऽजाः। ऋ॒तम्। बृ॒हत्। १४।
महीधरः
म० ‘अवहरति हᳪं᳭सः शुचिषदिति’ ( का० १६ । ५। १८)। उख्याग्निमवतारयति । जगती अग्निप्रोक्षणे इयमुक्ता यजुरन्ता । राजसूयप्रकरणे इयमतिजगत्युक्ता इह तु जगती अन्ते बृहदिति यजुः । तद्विनियोगमाह ‘आसन्द्यां करोति बृहदिति’ ( का० १६ । ५। १९)। बृहदिति यजुषा उख्याग्निमासन्द्यां स्थापयतीति सूत्रार्थः । हंस इति मन्त्रस्तु व्याख्यातः (अ० १०। क० २४) ॥ १४ ॥
पञ्चदशी।
अधिमन्त्रम् (VC)
- जीवेश्वरौ देवते
- त्रित ऋषिः
- भुरिग् जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
अब अगले मन्त्र में परमात्मा और जीव के लक्षण कहे हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे प्रजा के पुरुषो ! तुम लोग जो (हंसः) दुष्ट कर्मों का नाशक (शुचिषत्) पवित्र व्यवहारों में वर्त्तमान (वसुः) सज्जनों में बसने वा उनको बसानेवाला (अन्तरिक्षसत्) धर्म के अवकाश में स्थित (होता) सत्य का ग्रहण करने और करानेवाला (वेदिषत्) सब पृथिवी वा यज्ञ के स्थान में स्थित (अतिथिः) पूजनीय वा राज्य की रक्षा के लिये यथोचित समय में भ्रमण करनेवाला (दुरोणसत्) ऋतुओं में सुखदायक आकाश में व्याप्त वा घर में रहनेवाला (नृषत्) सेना आदि के नायकों का अधिष्ठाता (वरसत्) उत्तम विद्वानों की आज्ञा में स्थित (ऋतसत्) सत्याचरणों में आरुढ़ (व्योमसत्) आकाश के समान सर्वव्यापक ईश्वर में स्थित (अब्जाः) प्राणों को प्रकट करनेहारा (गोजाः) इन्द्रिय वा पशुओं को प्रसिद्ध करनेहारा (ऋतजाः) सत्य विज्ञान को उत्पन्न करने हारा (अद्रिजाः) मेघों को वर्षानेवाला विद्वान् (ऋतम्) सत्यस्वरूप (बृहत्) अनन्त ब्रह्म और जीव को जाने, उस पुरुष को सभा का स्वामी राजा बना के निरन्तर आनन्द में रहो ॥१४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो पुरुष ईश्वर के समान प्रजाओं को पालने और सुख देने में समर्थ हो, वही राजा होने के योग्य होता है, और ऐसे राजा के बिना प्रजाओं को सुख भी नहीं हो सकता ॥१४ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथात्मलक्षणान्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे प्रजाजनाः ! यूयं यो हंसः शुचिषद् वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसन्नृषद् वरसदृतसद् व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहद् ब्रह्म जीवश्चास्ति, यस्तौ जानीयात् तं सभाधीशं राजानं कृत्वा सततमानन्दत ॥१४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - य ईश्वरवत्प्रजाः पालयितुं सुखयितुं शक्नुयात् स एव राजा भवितुं योग्यः स्यान्न हीदृशेन राज्ञा विना प्रजाः सुखिन्यो भवितुमर्हन्ति ॥१४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जो मनुष्य ईश्वराप्रमाणे प्रजेचे पालन करण्यास व सुख देण्यास समर्थ असेल तोच राजा होण्यायोग्य असतो व अशा राजाशिवाय प्रजेला कधी सुख मिळू शकत नाही.
१५ सीद त्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
सीद॒ त्वं मा॒तुर॒स्याऽउ॒पस्थे॒ विश्वा॑न्यग्ने व॒युना॑नि वि॒द्वान्। मैनां॒ तप॑सा॒ मार्चिषा॒ऽभिशो॑चीर॒न्तर॑स्याँ शु॒क्रज्यो॑ति॒र्विभा॑हि ॥१५ ॥
मूलम् ...{Loading}...
सीद॒ त्वं मा॒तुर॒स्याऽउ॒पस्थे॒ विश्वा॑न्यग्ने व॒युना॑नि वि॒द्वान्। मैनां॒ तप॑सा॒ मार्चिषा॒ऽभिशो॑चीर॒न्तर॑स्याँ शु॒क्रज्यो॑ति॒र्विभा॑हि ॥१५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सीद॑। त्वम्। मा॒तुः। अ॒स्याः। उ॒पस्थे॒ इत्यु॒पऽस्थे॑। विश्वा॑नि। अ॒ग्ने॒। व॒युना॑नि। वि॒द्वान्। मा। ए॒ना॒म्। तप॑सा। मा। अ॒र्चिषा॑। अ॒भि। शो॒चीः॒। अ॒न्तः। अ॒स्या॒म्। शु॒क्रज्यो॑ति॒रिति॑ शु॒क्रऽज्यो॑तिः। वि। भा॒हि॒। १५।
महीधरः
म० ‘उपतिष्ठते सीद त्वमिति’ (का० १६ । ५। २०)। आसन्दीनिधानानन्तरमुख्याग्निमुपतिष्ठते ऋचां त्रयेणेति सूत्रार्थः । अग्निदेवत्या त्रिष्टुप् । हे अग्ने, त्वं मातुः मातृसमाया अस्या उखाया उपस्थे उत्सङ्गे सीद उपविश । कीदृशस्त्वम् । विश्वानि वयुनानि सर्वाज्ञानोपायान् विद्वाञ्जानन् । सर्वपदार्थतत्त्ववेदी सन्नित्यर्थः । किंच एनामुखां तपसा संतापेन माभिशोचीः मा संतापय । अर्चिषा ज्वालया च माभिशोचीर्मा दीपय । तपः कार्यमर्चिः कारणं । कार्येण भूयांस्तापो भवति कारणेन त्वीषत् तदुभयं मा कुर्वित्यर्थः । अस्यामुखायामन्तर्मध्ये शुक्रज्योतिः निर्मलप्रकाशः सन् विभाहि विशेषण दीप्यस्व ॥ १५॥
षोडशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- त्रित ऋषिः
- विराट् त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
माता का कर्म्म अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्या को चाहनेवाले पुरुष ! (त्वम्) आप (अस्याम्) इस माता के विद्यमान होने पर (विभाहि) प्रकाशित हो (शुक्रज्योतिः) शुद्ध आचरणों के प्रकाश से युक्त (विद्वान्) विद्यावान् आप (अस्याः) इस प्रत्यक्ष पृथिवी के समान आधाररूप (मातुः) इस माता की (उपस्थे) गोद में (सीद) स्थित हूजिये। इस माता से (विश्वानि) सब प्रकार की (वयुनानि) बुद्धियों को प्राप्त हूजिये। (एनाम्) इस माता को (अन्तः) अन्तःकरण में (मा) मत (तपसा) सन्ताप से तथा (अर्चिषा) तेज से (मा) मत (अभिशोचीः) शोकयुक्त कीजिये, किन्तु इस माता से शिक्षा को प्राप्त होके प्रकाशित हूजिये ॥१५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो विद्वान् माता के द्वारा विद्या और अच्छी शिक्षा से युक्त किया हुआ, माता का सेवक, जैसे माता पुत्रों को पालती है, वैसे प्रजाओं का पालन करे, वह पुरुष राज्य के ऐश्वर्य्य से प्रकाशित होवे ॥१५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मातृकृत्यमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! त्वमस्यां मातरि सत्यां विभाहि प्रकाशितो भवास्या भूमेरिव शुक्रज्योतिर्विद्वान् मातुरुपस्थे सीद। अस्याः सकाशाद् विश्वानि वयुनानि प्राप्नुहि। एनामन्तर्मा तपसार्चिषा माभिशोचीः किन्त्वेतच्छिक्षां प्राप्य विभाहि ॥१५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यो विदुष्या मात्रा विद्यासुशिक्षां प्रापितो मातृसेवको जननीवत् प्रजाः पालयेत्, स राज्यैश्वर्येण प्रकाशेत ॥१५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्याला विदुषी मातेने विद्या व चांगले शिक्षण यांनी युक्त केलेले असेल व जो मातेची सेवा करीत असेल किंवा माता जसे पुत्राचे पालन करते तसे प्रजेचे पालन करणारा असेल अशा पुरुषाने राजा व्हावे व ऐश्वर्य भोगावे.
१६ अन्तरग्ने रुचा
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒न्तर॑ग्ने रु॒चा त्वमु॒खायाः॒ सद॑ने॒ स्वे। तस्या॒स्त्वँ हर॑सा॒ तप॒ञ्जात॑वेदः शि॒वो भ॑व ॥१६ ॥
मूलम् ...{Loading}...
अ॒न्तर॑ग्ने रु॒चा त्वमु॒खायाः॒ सद॑ने॒ स्वे। तस्या॒स्त्वँ हर॑सा॒ तप॒ञ्जात॑वेदः शि॒वो भ॑व ॥१६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒न्तः। अ॒ग्ने॒। रु॒चा। त्वम्। उ॒खायाः॑। सद॑ने। स्वे। तस्याः॑। त्वम्। हर॑सा। तप॑न्। जात॑वेद॒ इति॑ जात॑ऽवेदः। शि॒वः। भ॒व॒। १६।
महीधरः
म० अग्निदेवत्ये द्वे अनुष्टुभौ । हे अग्ने, त्वमुखाया अन्तः मध्ये स्वे सदने स्वकीये स्थाने रुचा दीप्त्या युक्तः सन् | सीदेति शेषः । किंच जातं जातं विन्दतीति जातवेदाः तस्य संबोधनम् । हे जातवेदः सर्वज्ञ, जातं वेदो ज्ञानं यस्येति वा जातविज्ञानः तस्या उखायाः शिवः कल्याणकारी शान्तो भव । किं कुर्वन् । हरसा ज्योतिषा तपन्प्रतपन्सन् ॥ १६ ॥
सप्तदशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- त्रित ऋषिः
- विराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर राजा क्या करे, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (जातवेदः) वेदों के ज्ञाता (अग्ने) तेजस्वी विद्वन् ! (त्वम्) आप जिस (उखायाः) प्राप्त हुई प्रजा के नीचे से अग्नि के समान (स्वे) अपने (सदने) पढ़ने के स्थान में (तपन्) शत्रुओं को संताप कराते हुए (अन्तः) मध्य में (रुचा) प्रीति से वर्त्तो, (तस्याः) उस प्रजा के (हरसा) प्रज्वलित तेज से (त्वम्) आप शत्रुओं का निवारण करते हुए (शिवः) मङ्गलकारी (भव) हूजिये ॥१६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे सभाध्यक्ष राजा को चाहिये कि न्याय करने की गद्दी पर बैठ के अत्यन्त प्रीति के साथ राज्य के पालनरूप कार्यों को करे, वैसे प्रजाओं को चाहिये कि राजा को सुख देती हुई दुष्टों को ताड़ना करें ॥१६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुना राजकर्म्माह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे जातवेदोऽग्ने ! यस्त्वं यस्या उखाया अधोऽग्निरिव स्वे सदने तपन् सन्नन्ता रुचा वर्तेथास्तस्या हरसा सन्तपँस्त्वं शिवो भव ॥१६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा सभाध्यक्षो राजा न्यायासने स्थित्वा परमरुच्या राज्यपालनकृत्यानि कुर्यात्, तथा प्रजा राजानं सुखयन्ती सती दुष्टान् संतापयेत् ॥१६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसे राजाने न्यायसिंहासनावर बसून अत्यंत प्रेमाने राज्यकारभार करावा तसे प्रजेने राजाला सुख द्यावे व दुष्टांचे ताडन करावे.
१७ शिवो भूत्वा
विश्वास-प्रस्तुतिः ...{Loading}...
शि॒वो भू॒त्वा मह्य॑मग्ने॒ऽअथो॑ सीद शि॒वस्त्वम्। शि॒वाः कृ॒त्वा दिशः॒ सर्वाः॒ स्वं योनि॑मि॒हास॑दः ॥१७ ॥
मूलम् ...{Loading}...
शि॒वो भू॒त्वा मह्य॑मग्ने॒ऽअथो॑ सीद शि॒वस्त्वम्। शि॒वाः कृ॒त्वा दिशः॒ सर्वाः॒ स्वं योनि॑मि॒हास॑दः ॥१७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
शि॒वः। भू॒त्वा। मह्य॑म्। अ॒ग्ने॒। अथो॒ऽइत्यथो॑। सी॒द॒। शि॒वः। त्वम्। शि॒वाः। कृ॒त्वा। दिशः॑। सर्वाः॑। स्वम्। योनि॑म्। इ॒ह। आ। अ॒स॒दः॒। १७।
महीधरः
म० हे अग्ने, मह्यं मदर्थं शिवः शान्तो भूत्वा अथो अनन्तरं शिवः सीद सर्वात्मना शान्तः सन्नुपविश । सर्वा दिशः शिवाः शान्ताः कृत्वा इहास्यामुखायां स्वं योनिं स्वकीयं स्थानमासदः आसीद आगत्योपविश । ‘छन्दसि लुड्लङ्लिटः’ (पा० ३ । ४ । ६) इति लोडर्थे लुङ् ॥ १७ ॥
अष्टादशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- त्रित ऋषिः
- विराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) अग्नि के समान शत्रुओं को जलानेवाले विद्वन् पुरुष ! (त्वम्) आप (मह्यम्) हम प्रजाजनों के लिये (शिवः) मङ्गलाचरण करनेहारे (भूत्वा) होकर (इह) इस संसार में (शिवः) मङ्गलकारी हुए (सर्वाः) सब (दिशः) दिशाओं में रहने हारी प्रजाओं को (शिवाः) मङ्गलाचरण से युक्त (कृत्वा) करके (स्वम्) अपने (योनिम्) राजधर्म के आसन पर (आसदः) बैठिये और (अथो) इसके पश्चात् राजधर्म में (सीद) स्थिर हूजिये ॥१७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजा को चाहिये कि आप धर्मात्मा होके प्रजा के मनुष्यों को धार्मिक कर और न्याय की गद्दी पर बैठ के निरन्तर न्याय किया करे ॥१७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! त्वं मह्यं शिवः भूत्वेह शिवः सन् सर्वा दिशः शिवाः कृत्वा स्वं योनिमासदोऽथो राजधर्मे सीद ॥१७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - राजा स्वयं धार्मिको भूत्वा प्रजाजनानपि धार्मिकान् सम्पाद्य न्यायासनमधिष्ठाय सततं न्यायं कुर्यात् ॥१७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजाने स्वतः धार्मिक बनावे व प्रजेला धार्मिक करावे. न्यायसिंहासनावर बसून सदैव न्याय करावा.
१८ दिवस्परि प्रथमम्
विश्वास-प्रस्तुतिः ...{Loading}...
दि॒वस्परि॑ प्रथ॒मं ज॑ज्ञेऽअ॒ग्निर॒स्मद् द्वि॒तीयं॒ परि॑ जा॒तवे॑दाः। तृ॒तीय॑म॒प्सु नृ॒मणा॒ऽअज॑स्र॒मिन्धा॑नऽएनं जर॒ते स्वा॒धीः ॥१८ ॥
मूलम् ...{Loading}...
दि॒वस्परि॑ प्रथ॒मं ज॑ज्ञेऽअ॒ग्निर॒स्मद् द्वि॒तीयं॒ परि॑ जा॒तवे॑दाः। तृ॒तीय॑म॒प्सु नृ॒मणा॒ऽअज॑स्र॒मिन्धा॑नऽएनं जर॒ते स्वा॒धीः ॥१८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दि॒वः। परि॑। प्र॒थ॒मम्। ज॒ज्ञे॒। अ॒ग्निः। अ॒स्मत्। द्वि॒तीय॑म्। परि॑। जा॒तवे॑दा॒ इति॑ जा॒तऽवे॑दाः। तृ॒तीय॑म्। अ॒प्स्वित्य॒प्ऽसु। नृ॒मणा॑। नृ॒मना॒ इति॑ नृ॒ऽमनाः॑। अज॑स्रम्। इन्धा॑नः। ए॒न॒म्। ज॒र॒ते॒। स्वा॒धीरिति॑ सुऽआ॒धीः। १८।
महीधरः
म०. ‘वात्सप्रेण च दिवस्परीत्येकादशभिरनुवाकेनैके’ (का० १६ । ५ । ३१-३२)। दिवस्परीत्येकादशर्चेन वात्सप्रेणोख्यमग्निमुपतिष्ठते । एके आचार्या अनुवाकेन द्वादशर्चेन वदन्तीति सूत्रार्थः । अग्निदेवत्या द्वादश त्रिष्टुभो भलन्दनपुत्रवत्सप्रीदृष्टाः । अग्निः प्रथमं दिवः परि दिवः सकाशात् जज्ञे जातः ‘प्राणो वै दिवः प्राणादु वा एष प्रथममजायत’ (६ । ७ । ४ । ३) इति श्रुतिः । जातवेदाः अग्निः द्वितीयं द्वितीयवारमस्मत्परि अस्मत्तः सकाशात् ब्रह्मणो जज्ञे जातः । ‘यदेनमदो द्वितीयं पुरुषविधोऽजनयत्’ (६ । ७ । ४ । ३) इति श्रुतेः ‘स मुखाच्च योनेर्हस्ताभ्यां चाग्निमसृजत’ इति च श्रुतेः स पुरुषविध इत्यर्थः । नृषु मनो यस्य स नृमणाः ‘पूर्वपदाच्च’ (पा० ८।१।३) इति णत्वम् । नृमणाः प्रजापतिः अजस्रमनुपक्षीणमग्निमप्सु जलेष्वन्तर्व्यवस्थितं तृतीयं तृतीयवारमजनयन् यदेनमदस्तृतीयमद्भ्योऽजनयत् । अथ यो गर्भोऽन्तरासीत्सोऽग्निरसृज्यत । ‘प्रजापतिर्वै नृमणा अजस्रोऽग्निः’ (६ । ७ । ४ । ३) इत्यादिश्रुतयः । एवं बहुजन्माग्निः स्वाधीः शोभना आहिता धीर्बुद्धिर्यस्य स यजमान एनं बहुजन्मानमग्निमिन्धानो दीपयन् जरते जनयति । धातोरर्थान्तरे वृत्तिः । यद्वायमर्थः । अग्निः प्रथमं दिवःपरि द्युलोकस्योपरि जज्ञे सूर्यरूपेणोत्पन्नः । अस्मत्परि अस्मदीयमनुष्यलोकस्योपरि जातवेदाः द्वितीयं जज्ञे प्रसिद्धवह्निरूपेण द्वितीयं जन्म प्राप्तवान् । अप्सु समुद्रे तृतीयं जज्ञे वडवानलरूपेण तृतीयवारमुत्पन्नः । अजस्रं त्रिष्वपि जन्मसु नृमणा नृषु मनो यस्य यजमानेष्वनुग्रहबुद्धियुक्तः एनमीदृशमग्निमिन्धानः पुरोडाशादिना दीपयन्स्वाधीः स्वायत्तचित्तो यजमानो जरते जीर्यते जरापर्यन्तं परिचरतीत्यर्थः॥१८॥
एकोनविंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वत्सप्रीर्ऋषिः
- निचृदार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर राजधर्म का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सभापति राजन् ! जो (अग्निः) अग्नि के समान आप (अस्मत्) हम लोगों से (दिवः) बिजुली के (परि) ऊपर (जज्ञे) प्रकट होते हैं, उन (एनम्) आपको (प्रथमम्) पहिले जो (जातवेदाः) बुद्धिमानों में प्रसिद्ध उत्पन्न हुए उस आपको (द्वितीयम्) दूसरे जो (नृमणाः) मनुष्यों में विचारशील आप (तृतीयम्) तीसरे (अप्सु) प्राण वा जल क्रियाओं में विदित हुए उस आपको (अजस्रम्) निरन्तर (इन्धानः) प्रकाशित करता हुआ विद्वान् (परिजरते) सब प्रकार स्तुति करता है, सो आप (स्वाधीः) सुन्दर ध्यान से युक्त प्रजाओं को प्रकाशित कीजिये ॥१८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि प्रथम ब्रह्मचर्य्याश्रम के सहित विद्या तथा शिक्षा का ग्रहण, दूसरे गृहाश्रम से धन का सञ्चय, तीसरे वानप्रस्थ आश्रम से तप का आचरण और चौथे संन्यास लेकर वेदविद्या और धर्म का नित्य प्रकाश करें ॥१८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुना राजविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सभेश ! योऽग्निरिव त्वं दिवस्परि जज्ञे, तमेनं प्रथमं यो जातवेदास्त्वमस्मज्जज्ञे, तमेनं द्वितीयं यो नृमणास्त्वमप्सु जज्ञे, तमेनं तृतीयमजस्रमिन्धानो विद्वान् परिजरते, स त्वं स्वाधीः प्रजाः स्तुहि ॥१८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैरादौ ब्रह्मचर्य्येण विद्यासुशिक्षा द्वितीयेन गृहाश्रमेणैश्वर्य्यं तृतीयेन वानप्रस्थेन तपश्चरणं चतुर्थेन संन्यासाश्रमेण नित्यं वेदविद्या धर्मे प्रकाशनं च कर्त्तव्यम् ॥१८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी प्रथम ब्रह्मचर्याश्रमात विद्या व शिक्षण ग्रहण करावे. दुसरे गृहस्थाश्रमात धनाचा संचय करावा. तिसरे वानप्रस्थाश्रमात तपस्वी जीवन असावे. चौथे संन्यासाश्रमात वेदविद्या व धर्माचा सदैव प्रचार करावा.
१९ विद्मा तेऽअग्ने
विश्वास-प्रस्तुतिः ...{Loading}...
वि॒द्मा ते॑ऽअग्ने त्रे॒धा त्र॒याणि॑ वि॒द्मा ते॒ धाम॒ विभृ॑ता पुरु॒त्रा। वि॒द्मा ते॒ नाम॑ पर॒मं गुहा॒ यद्वि॒द्मा तमुत्सं॒ यत॑ऽआज॒गन्थ॑ ॥१९ ॥
मूलम् ...{Loading}...
वि॒द्मा ते॑ऽअग्ने त्रे॒धा त्र॒याणि॑ वि॒द्मा ते॒ धाम॒ विभृ॑ता पुरु॒त्रा। वि॒द्मा ते॒ नाम॑ पर॒मं गुहा॒ यद्वि॒द्मा तमुत्सं॒ यत॑ऽआज॒गन्थ॑ ॥१९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वि॒द्म। ते॒। अ॒ग्ने॒। त्रे॒धा। त्र॒याणि॑। वि॒द्म। ते॒। धाम॑। विभृ॒तेति॒ विभृ॑ऽता। पु॒रु॒त्रेति॑ पुरु॒ऽत्रा। वि॒द्म। ते॒। नाम॑। प॒र॒मम्। गुहा॑। यत्। वि॒द्म। तम्। उत्स॑म्। यतः॑। आ॒ज॒गन्थेत्या॑ऽज॒गन्थ॑। १९।
महीधरः
म०. हे अग्ने, यानि पूर्वस्मिन्मन्त्रे दिवस्परीत्यादिना त्रेधा स्वरूपाण्युक्तानि आदित्याग्निवडवानलरूपाणि तानि त्रयाणि त्रिसंख्याकानि ते तव संबन्धीनि रूपाणि वयं विद्म जानीमः । ‘द्व्यचोऽतस्तिङः’ (पा० ६ । ३ । १३५) इति संहितायां दीर्घः । ‘विदो लटो वा’ (पा. ३ । ४ । ८३) इति मसो मादेशः । यद्वा त्रेधा विभक्तानि त्रयाणि त्रीणि ते तव रूपाणि अग्निवायुसूर्याख्यानि वयं विद्म । किंच ते तव संबन्धीनि पुरुत्रा बहुषु प्रदेशेषु गार्हपत्याहवनीयान्वाहार्यपचनाग्निध्रीयरूपेषु विभृता विहृतानि धाम धामानि स्थानानि अपि वयं विद्म । विभृतेति विभक्तेराकारः । धामेत्यत्र विभक्तिलोपः। किंच ते तव परममुत्कृष्टं गुहा । सप्तमीलोपः । गुहायां यद्व्यवस्थितं गोप्यं यविष्ठ इत्यादिमन्त्रप्रसिद्धं नाम यदस्ति तदपि विद्म । किंच यत उत्सात् अब्रूपात् स्थानात्त्वमाजगन्थ वैद्युतरूपेणागतोऽसि तमुत्समुत्स्यन्दनं जलरूपं स्थानं वयं विद्म । गमेर्लिट् ॥ १९ ॥
विंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वत्सप्रीर्ऋषिः
- निचृदार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्वन् पुरुष ! (ते) आपके जो (त्रेधा) तीन प्रकार से (त्रयाणि) तीन कर्म हैं, उनको हम लोग (विद्म) जानें। हे स्थानों के स्वामी ! (ते) आपके जो (विभृता) विशेष करके धारण करने के योग्य (पुरुत्रा) बहुत (धाम) नाम, जन्म और स्थान रूप हैं, उनको हम लोग (विद्म) जानें। हे विद्वन् पुरुष ! (ते) आपका (यत्) जो (गुहा) बुद्धि में स्थित गुप्त (परमम्) श्रेष्ठ (नाम) नाम है, उसको हम लोग (विद्म) जानें (यतः) जिस कारण आप (आजगन्थ) अच्छे प्रकार प्राप्त होवें (तम्) उस (उत्सम्) कूप के तुल्य तर करनेहारे आपको (विद्म) हम लोग जानें ॥१९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - प्रजा के पुरुष और राजा को योग्य है कि राजनीति के कामों, सब स्थानों और सब पदार्थों के नामों को जानें। जैसे कृषक कुएँ से जल निकाल खेत आदि को तृप्त करते हैं, वैसे ही धनादि पदार्थों से प्रजा राजा को और राजा प्रजाओं को तृप्त करे ॥१९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! ते तव यानि त्रेधा त्रयाणि कर्माणि सन्ति, तानि वयं विद्म। हे स्थानेश ! ते यानि विभृता पुरुत्रा धाम धामानि सन्ति, तानि वयं विद्म। हे विद्वन् ! ते तव यद् गुहा परमं नामास्ति, तद्वयं विद्म। यतस्त्वमाजगन्थ, तं त्वामुत्समिव विद्म विजानीमः ॥१९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - प्रजास्थैर्जनै राज्ञा च राजनीतिकर्माणि, स्थानानि, सर्वेषां नामानि च विज्ञेयानि। यथा कृषीवलाः कूपाज्जलमुत्कृष्य क्षेत्रादीनि तर्पयन्ति, तथैव प्रजास्थैर्धनादिभी राजा तर्पणीयो राज्ञा प्रजाश्च तर्प्पणीयाः ॥१९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजा व प्रजा यांना राजनीतीची कामे, सर्व स्थाने व सर्व पदार्थ माहीत असावेत. जसे विहिरीतून पाणी काढून शेताला पाणीपुरवठा केला जातो तसेच धन इत्यादींनी प्रजेने राजाला व राजाने प्रजेला संतुष्ट करावे.
२० समुद्रे त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
स॒मु॒द्रे त्वा॑ नृ॒मणा॑ऽअ॒प्स्व᳙न्तर्नृ॒चक्षा॑ऽईधे दि॒वो अ॑ग्न॒ऽऊध॑न्। तृ॒तीये॑ त्वा॒ रज॑सि तस्थि॒वाँस॑म॒पामु॒पस्थे॑ महि॒षाऽअ॑वर्धन् ॥२० ॥
मूलम् ...{Loading}...
स॒मु॒द्रे त्वा॑ नृ॒मणा॑ऽअ॒प्स्व᳙न्तर्नृ॒चक्षा॑ऽईधे दि॒वो अ॑ग्न॒ऽऊध॑न्। तृ॒तीये॑ त्वा॒ रज॑सि तस्थि॒वाँस॑म॒पामु॒पस्थे॑ महि॒षाऽअ॑वर्धन् ॥२० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स॒मु॒द्रे। त्वा॒। नृ॒मणाः॑। नृ॒मना॒ इति॑ नृ॒ऽमनाः॑। अ॒प्स्वित्य॒प्ऽसु। अ॒न्तः। नृ॒चक्षा॒ इति॑ नृ॒चऽक्षाः॑। ई॒धे॒। दि॒वः। अ॒ग्ने॒। ऊध॑न्। तृ॒तीये॑। त्वा॒। रज॑सि। त॒स्थि॒वाँस॒मिति॑ तस्थि॒ऽवाँस॑म्। अ॒पाम्। उ॒पस्थ॒ इत्यु॒पऽस्थे॑। म॒हि॒षाः। अ॒व॒र्ध॒न्। २०।
महीधरः
म०. हे अग्ने, नृषु मनो यस्यासौ नृमणाः प्रजापतिः समुद्रे वडवानलरूपेण तस्थिवांसं वर्तमानं त्वा त्वामीधे दीपयांचकार। ‘इन्धिभवतिभ्यां च’ (पा० १।२।६) इति कित्त्वान्नलोपः । नृचक्षाः नृषु पठत्सु पुरुषेषु चष्टे मन्त्रान् विस्पष्टं वक्तीति नृचक्षाः प्रजापतिः अप्सु वृष्टिरूपासु अन्तर्मध्ये विद्युद्रूपेण स्थितं त्वामीधे दीपितवान् । तथा दिवः द्युलोकस्य ऊधन् ऊधस्थानीये तृतीये समुद्रवृष्ट्यपेक्षया तृतीयस्थाने रजसि रञ्जनात्मके तेजोमण्डले आदित्यात्मना तस्थिवांसं त्वां नृचक्षा एव ईधे । किंच महिषाः महान्तः प्राणा अपामुपस्थे उत्सङ्गे नाव्यानामपां मध्ये स्थितं त्वामवर्धन् ‘छन्दस्युभयथा’ (पा० ३ । ४ । ११७ ) इति शप् आर्धधातुकत्वाण्णिलोपः । ‘प्राणा वै महिषाः’ ( ६ । ७ । ४ । ५) इति श्रुतिः ॥२०॥
एकविंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वत्सप्रीर्ऋषिः
- निचृदार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी राजा और प्रजा के सम्बन्ध का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्वन् पुरुष ! (नृमणाः) नायक पुरुषों को विचारनेवाला मैं जिस (त्वा) आपको (समुद्रे) आकाश में अग्नि के समान (ईधे) प्रदीप्त करता हूँ (नृचक्षाः) बहुत मनुष्यों का देखनेवाला मैं (अप्सु) अन्न वा जलों के (अन्तः) बीच प्रकाशित करता हूँ (दिवः) सूर्य के प्रकाश के (ऊधन्) प्रातःकाल में प्रकाशित करता हूँ (तृतीये) तीसरे (रजसि) लोक में (तस्थिवांसम्) स्थित हुए सूर्य के तुल्य जिस (त्वा) आप को (अपाम्) जलों के (उपस्थे) समीप (महिषाः) महात्मा विद्वान् लोग (अवर्धन्) उन्नति को प्राप्त करें, सो आप हम लोगों की निरन्तर उन्नति कीजिये ॥२० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - प्रजा के बीच वर्त्तमान सब श्रेष्ठ पुरुष राजपुरुषों को और राजपुरुष प्रजापुरुषों को नित्य बढ़ाते रहें ॥२० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुना राजप्रजासम्बन्धमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्नेः ! नृमणा अहं यं त्वा समुद्रेऽग्निमिवेधे नृचक्षा अहमप्स्वन्तरीधे दिव ऊधन्नीधे, तृतीये रजसि तस्थिवांसं सूर्यमिव यं त्वा त्वामपामुपस्थे महिषा अवर्धन्, स त्वमस्मान् सततं वर्धय ॥२० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - प्रजासु वर्त्तमानाः सर्वे प्रधानपुरुषा राजवर्गं नित्यं वर्द्धयेयुः, राजपुरुषाः प्रजापुरुषांश्च ॥२० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - प्रजेतील सर्वश्रेष्ठ पुरुषांनी राजाला उन्नत करावे व राजाने प्रजेला उन्नत करावे.
२१ अक्रन्ददग्नि स्तनयन्निव
विश्वास-प्रस्तुतिः ...{Loading}...
अक्र॑न्दद॒ग्नि स्त॒नय॑न्निव॒ द्यौः क्षामा॒ रेरि॑हद् वी॒रुधः॑ सम॒ञ्जन्। स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धोऽअख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः ॥२१ ॥
मूलम् ...{Loading}...
अक्र॑न्दद॒ग्नि स्त॒नय॑न्निव॒ द्यौः क्षामा॒ रेरि॑हद् वी॒रुधः॑ सम॒ञ्जन्। स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धोऽअख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः ॥२१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अक्र॑न्दत्। अ॒ग्निः। स्त॒नय॑न्नि॒वेति॑ स्त॒नय॑न्ऽइव। द्यौः। क्षामा॑। रेरि॑हत्। वी॒रुधः॑। स॒म॒ञ्जन्निति॑ सम्ऽअ॒ञ्जन्। स॒द्यः। ज॒ज्ञा॒नः। वि। हि। ई॒म्। इ॒द्धः। अख्य॑त्। आ। रोद॑सी॒ इति॒ रोद॑सी। भा॒नुना॑। भा॒ति॒। अ॒न्तरित्य॒न्तः। २१।
महीधरः
म० अक्रन्ददिति व्याख्याता ( क० ६)॥२१॥
द्वाविंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वत्सप्रीर्ऋषिः
- निचृदार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब मनुष्यों को कैसा होना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (द्यौः) सूर्यलोक (अग्निः) विद्युत् अग्नि (स्तनयन्निव) शब्द करते हुए के समान (वीरुधः) ओषधियों को (समञ्जन्) प्रकट करता हुआ (सद्यः) शीघ्र (हि) ही (अक्रन्दत्) पदार्थों को इधर-उधर चलाता (क्षामा) पृथिवी को (रेरिहत्) कंपाता और यह (जज्ञानः) प्रसिद्ध हुआ (इद्धः) प्रकाशमान होकर (भानुना) किरणों के साथ (रोदसी) प्रकाश और पृथिवी को (ईम्) सब ओर से (व्यख्यत्) विख्यात करता है और ब्रह्माण्ड के (अन्तः) बीच (आभाति) अच्छे प्रकार शोभायमान होता है, वैसे तुम लोग भी होओ ॥२१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ईश्वर ने जिसलिये सूर्यलोक को उत्पन्न किया है, इसलिये वह बिजुली के समान सब लोकों का आकर्षण कर और सम्यक् प्रकाश देकर ओषधि आदि पदार्थों को बढ़ाने का हेतु और सब भूगोलों के बीच जैसे शोभायमान होता है, वैसे राजा आदि पुरुषों को भी होना चाहिये ॥२१ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ मनुष्याः कीदृशा भवेयुरित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यूयं यथा द्यौः सूर्योऽग्निस्तनयन्निव वीरुधः समञ्जन् सन् सद्यो ह्यक्रन्दत्। क्षामा रेरिहदयं जज्ञान इद्धः सन् भानुना रोदसी र्इं व्यख्यत्। ब्रह्माण्डस्यान्तरा भातीति तथा भवत ॥२१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ईश्वरेण यदर्थः सूर्य उत्पादितः, स विद्युदिव सर्वान् लोकानाकृष्य, संप्रकाश्यौषध्यादिवृद्धिहेतुः सन् सर्वभूगोलानां मध्ये यथा विराजते, तथा राजादिभिर्भवितव्यम् ॥२१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ईश्वराने सूर्यलोक यासाठी उत्पन्न केलेला आहे की त्याने विद्युतप्रमाणे सर्व गोलांना आकर्षित करावे. औषधी (वृक्ष, वनस्पती) वगैरे वाढीचेही तोच कारण आहे. तो जसा सर्व भूगोलात उठून दिसतो तसेच राजा वगैरे पुरुषांनीही दिसावे.
२२ श्रीणामुदारो धरुणो
विश्वास-प्रस्तुतिः ...{Loading}...
श्री॒णामु॑दा॒रो ध॒रुणो॑ रयी॒णां म॑नी॒षाणां॒ प्रार्प॑णः॒ सोम॑गोपाः। वसुः॑ सू॒नुः सह॑सोऽअ॒प्सु राजा॒ विभा॒त्यग्र॑ऽउ॒षसा॑मिधा॒नः ॥२२ ॥
मूलम् ...{Loading}...
श्री॒णामु॑दा॒रो ध॒रुणो॑ रयी॒णां म॑नी॒षाणां॒ प्रार्प॑णः॒ सोम॑गोपाः। वसुः॑ सू॒नुः सह॑सोऽअ॒प्सु राजा॒ विभा॒त्यग्र॑ऽउ॒षसा॑मिधा॒नः ॥२२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
श्री॒णाम्। उ॒दा॒र इत्यु॑त्ऽआ॒रः। ध॒रुणः॑। र॒यी॒णाम्। म॒नी॒षाणा॑म्। प्रार्प॑ण॒ इति॑ प्र॒ऽअर्प॑णः। सोम॑गोपा॒ इति॒ सोम॑ऽगोपाः। वसुः॑। सु॒नुः। सह॑सः। अ॒प्स्वित्य॒प्ऽसु। राजा॑। वि। भा॒ति॒। अग्रे॑। उ॒षसा॑म्। इ॒धा॒नः। २२।
महीधरः
म० एवंविधोऽग्निर्विभाति विशेषेण भासते । कीदृशः। श्रीणां गवाश्वादिसंपदामुदारः अत्यर्थ दाता । ‘उदारो दातृमहतोः’ इति कोशः । रयीणां धनानां धरुणो धारयिता । मनीषाणां मनसा इषितानामभिलषितानां प्रार्पणः प्रकर्षेणार्पयिता। सोमगोपाः सोमं गोपायतीति यजमानकर्तृकसोमयागस्य रक्षिता । वसुः सर्वस्य निवासहेतुः। वासयतीति वसुः । यद्वा वसुः धनरूपः यथान्यानि शयनासनरथादिधनान्युपकुर्वन्ति तथायमपि तापपाकप्रकाशैर्जनानामुपकर्ता अतो वसुः । सहसः सूनुः बलस्य मन्थनवेगरूपस्य पुत्रः । यतो मथ्यमानो जायतेऽत एवमुच्यते । अप्सु राजा जलेऽवस्थितो वरुणात्मना राजा । यद्वा अप्सु वृष्टिरूपासु राजा विद्युद्रूपेण दीप्यमानः । उषसामग्रे प्रातःकाले इधानः आदित्यात्मना दीप्यमानः । उषःकालेऽग्निहोत्रहोमायाग्नयः प्रादुष्क्रियन्ते तदभिप्रायेणोच्यते प्रातर्दीप्यमान इति ॥ २२ ॥
त्रयोविंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वत्सप्रीर्ऋषिः
- निचृदार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
इन राजकार्यों में कैसे पुरुष को राजा बनावें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोगों को चाहिये कि जो पुरुष (उषसाम्) प्रभात समय के (अग्रे) आरम्भ में (इधानः) प्रदीप्यमान सूर्य के समान (श्रीणाम्) सब उत्तम लक्ष्मियों के मध्य (उदारः) परीक्षित पदार्थों का देने (रयीणाम्) धनों का (धरुणः) धारण करने (मनीषाणाम्) बुद्धियों का (प्रार्पणः) प्राप्त कराने और (सोमगोपाः) ओषधियों वा ऐश्वर्यों की रक्षा करने (सहसः) ब्रह्मचर्य किये जितेन्द्रिय बलवान् पिता का (सूनुः) पुत्र (वसुः) ब्रह्मचर्याश्रम करता हुआ, (अप्सु) प्राणों में (राजा) प्रकाशयुक्त होकर (विभाति) शुभ गुणों का प्रकाश करता हो, उसको सब का अध्यक्ष करो ॥२२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सब मनुष्यों को उचित है कि जो सुपात्रों को दान देने, धन का व्यर्थ खर्च न करने, सब को विद्या-बुद्धि देने, जिसने ब्रह्मचर्याश्रम सेवन किया हो, अपने इन्द्रिय जिसके वश में हों, उसका पुत्र योग के यम आदि आठ अङ्गों के सेवन से प्रकाशमान, सूर्य के समान अच्छे गुण-कर्म्म और स्वभावों से सुशोभित, और पिता के समान अच्छे प्रकार प्रजाओं का पालन करनेहारा पुरुष हो, उसको राज्य करने के लिये स्थापित करें ॥२२ ॥
दयानन्द-सरस्वती (सं) - विषयः
अत्र राजकर्मणि कीदृग्जनोऽभिषेचनीय इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यूयं यो जन उषसामग्र इधानः सूर्य इव श्रीणामुदारो रयीणां धरुणो मनीषाणां प्रार्पणः सोमगोपाः सहसः सूनुर्वसुः सन्नप्सु राजा विभाति, तं सर्वाध्यक्षं कुरुत ॥२२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्यः सुपात्रेभ्यो दाता धनस्य व्यर्थव्ययस्याकर्त्ता, सर्वेषां विद्याबुद्धिप्रदः, कृतब्रह्मचर्यस्य जितेन्द्रियस्य तनयो योगाङ्गानुष्ठानेन प्रकाशमानः, सूर्यवत् शुभगुणकर्मस्वभावानां मध्ये देदीप्यमानो, पितृवत् प्रजापालको जनोऽस्ति, स राज्यकरणायाभिषेचनीयः ॥२२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सर्व माणसांनी सुपात्रांना दान देणारा,धनाचा अपव्यय न करणारा, विद्या प्राप्त करणारा, ब्रह्मचर्याचे पालन करणारा, इंद्रियांना ताब्यात ठेवणारा, योगाच्या यम इत्यादी आठ अंगांचे पालन करणारा, सूर्याप्रमाणे तेजस्वी, चांगले गुण, कर्म, स्वभाव यांनी सुशोभित होणारा व पित्याप्रमाणे प्रजेचे पालन करणारा असेल तर अशा पुरुषास राजा निवडावे.
२३ विश्वस्य केतुर्भुवनस्य
विश्वास-प्रस्तुतिः ...{Loading}...
विश्व॑स्य के॒तुर्भुव॑नस्य॒ गर्भ॒ऽआ रोद॑सीऽअपृणा॒ज्जाय॑मानः। वी॒डुं चि॒दद्रि॑मभिनत् परा॒यञ्जना॒ यद॒ग्निमय॑जन्त॒ पञ्च॑ ॥२३ ॥
मूलम् ...{Loading}...
विश्व॑स्य के॒तुर्भुव॑नस्य॒ गर्भ॒ऽआ रोद॑सीऽअपृणा॒ज्जाय॑मानः। वी॒डुं चि॒दद्रि॑मभिनत् परा॒यञ्जना॒ यद॒ग्निमय॑जन्त॒ पञ्च॑ ॥२३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
विश्व॑स्य। के॒तुः। भुव॑नस्य। गर्भः॑। आ। रोद॑सीऽइति॒ रोद॑सी। अ॒पृ॒णा॒त्। जाय॑मानः। वी॒डुम्। चि॒त्। अद्रि॑म्। अ॒भि॒न॒त्। प॒रा॒यन्निति॑ परा॒ऽयन्। जनाः॑। यत्। अ॒ग्निम्। अय॑जन्त। पञ्च॑। २३।
महीधरः
म० सोऽग्निर्जायमानः उत्पद्यमानः सूर्यात्मना प्रकटीभवन् रोदसी द्यावापृथिव्यौ आ अपृणात् सर्वतस्तेजसा पूरयति । कीदृशः । विश्वस्य केतुः प्राणिजातस्य विज्ञानभूतोऽग्न्यात्मना । भुवनस्य गर्भः भूतजातस्य गर्भवदन्तरवस्थितो वाय्वात्मना । स हि प्राणभावेन भूतानामन्तः संचरति । किंच यः परायन् इन्दुरूपेण परा परतो गच्छन् वीडुं चित् । विडुशब्दो दृढार्थः चिदप्यर्थः । दृढमपि अद्रिमदारयितव्यं मेघमभिनत् भिनत्ति विदारयति । यत् विभक्तिलोपः । यमग्निं पञ्च जना अयजन्त यजन्ते विप्राद्याश्चत्वारो निषादश्चेति पञ्च । यद्वा चत्वारो महर्त्विजो यजमानश्च ॥ २३ ॥
चतुर्विंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वत्सप्रीर्ऋषिः
- निचृदार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोग (यत्) जो विद्वान् (विश्वस्य) सब (भुवनस्य) लोकों का (केतुः) पिता के समान रक्षक प्रकाशनेहारा (गर्भः) उन के मध्य में रहने (जायमानः) उत्पन्न होनेवाला (परायन्) शत्रुओं को प्राप्त होता हुआ (रोदसी) प्रकाश और पृथिवी को (आपृणात्) पूरण कर्त्ता हो, (वीडुम्) अत्यन्त बलवान् (अद्रिम्) मेघ को (अभिनत्) छिन्न-भिन्न करे, (पञ्च) पाँच (जनाः) प्राण (अग्निम्) बिजुली को (अयजन्त) संयुक्त करते हैं, (चित्) इसी प्रकार जो विद्या आदि शुभ गुणों का प्रकाश करे, उसको न्यायाधीश राजा मानो ॥२३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे ब्रह्माण्ड के बीच सूर्यलोक अपनी आकर्षण शक्ति से सब को धारण करता और मेघ को काटनेवाला तथा प्राणों से प्रसिद्ध हुए के समान सब विद्याओं को जताने और जैसे माता गर्भ की रक्षा करे, वैसे प्रजा का पालनेहारा विद्वान् पुरुष हो, उसको राज्याधिकार देना चाहिये ॥२३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यद्यो विद्वान् विश्वस्य भुवनस्य केतुर्गर्भो जायमानः परायन् रोदसी आपृणाद् वीडुमद्रिमभिनत्, पञ्च जना अग्निमयजन्त चिदिव विद्यादिशुभगुणान् प्रकाशयेत्, तं न्यायाधीशं मन्यध्वम् ॥२३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा भुवनस्य मध्ये सूर्य आकर्षणेन सर्वस्य धर्त्ता मेघस्य भेत्ता प्राणेभ्यो जात इव विद्वान् सर्वविद्याप्रज्ञापको राज्यधर्त्ता शत्रूच्छेदकः सुखानां जनयिता गर्भस्य मातेव प्रजापालको विद्वान् भवेत्, तं राज्याधिकारिणं कुर्यात् ॥२३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जसे ब्रह्मांडात प्राणमय सूर्य आपल्या आकर्षणशक्तीने सर्वांना धारण करणारा, मेघांना छिन्नभिन्न करणारा, प्राणशक्ती तसेच गर्भाचे रक्षण करणाऱ्या मातेप्रमाणे प्रजेचे पालन करणारा व सर्व विद्या जाणणारा विद्वान पुरुष असेल तर त्याला राज्याधिकार द्यावा.
२४ उशिक् पावको
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒शिक् पा॑व॒को अ॑र॒तिः सु॑मे॒धा मर्त्ये॑ष्व॒ग्निर॒मृतो॒ नि धा॑यि। इय॑र्त्ति धू॒मम॑रु॒षं भरि॑भ्र॒दुच्छु॒क्रेण॑ शो॒चिषा॒ द्यामिन॑क्षन् ॥२४ ॥
मूलम् ...{Loading}...
उ॒शिक् पा॑व॒को अ॑र॒तिः सु॑मे॒धा मर्त्ये॑ष्व॒ग्निर॒मृतो॒ नि धा॑यि। इय॑र्त्ति धू॒मम॑रु॒षं भरि॑भ्र॒दुच्छु॒क्रेण॑ शो॒चिषा॒ द्यामिन॑क्षन् ॥२४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उ॒शिक्। पा॒व॒कः। अ॒र॒तिः। सु॒मे॒धाः इति॑ सुऽमे॒धाः। मर्त्ये॑षु। अ॒ग्निः। अ॒मृतः॑। नि। धा॒यि॒। इय॑र्त्ति। धू॒मम्। अ॒रु॒षम्। भरि॑भ्रत्। उत्। शु॒क्रेण॑। शो॒चिषा॑। द्याम्। इन॑क्षन्। २४।
महीधरः
म०. योऽग्निर्मर्त्येषु मरणधर्मेषु मनुष्येषु निधायि निहितः देवैरिति शेषः । ‘बहुलं छन्दस्यमाङ्योगेऽपि’ (पा० ६ । ४ । ७५) इत्यडभावः । स अरुषमरोषं चक्षुराद्युपद्रवरहितमरोचनं वा धूममुदियर्ति उद्गमयति । ‘व्यवहिताश्च’ (पा० १।४। ८२) उपसर्गक्रिययोर्व्यवधानम् ‘इतो वा अयमूर्ध्वᳪं᳭ रेतः सिञ्चति धूमᳪं᳭ सामुत्र वृष्टिर्भवति’ इति श्रुतेः । कीदृशोऽग्निः । उशिक् उश्यते काम्यते लोकैरित्युशिक् कान्तः । वशेरौणादिक इक् प्रत्ययः । पावकः पावयिता पुनातीति । अरतिः अलंमतिः पर्याप्तमतिः । यद्वा दुष्टेष्वरतिः प्रीतिरहितः । सुमेधाः शोभना सेवकाभिप्रायधारणसमर्था मेधा बुद्धिर्यस्य, शोभनो मेधो यज्ञो यस्येति वा । अमृतोऽमरणधर्मा । भरिभ्रत् बिभ्रत् जगद्धारयन् ‘दाधर्ति-’ (पा. ७ । ४ । ६५) इत्यादिना निपातः । शुक्रेण शोचिषा निर्मलेन तेजसा प्रभारूपेण द्यामाकाशमिनक्षन्व्याप्नुवन् । नक्षत्रग्रहतारासंबन्धितेजसा द्युलोकं व्याप्नुवन्नित्यर्थः । ‘इतः प्रदानाद्धि देवा उपजीवन्ति’ इति श्रुतेः ॥ २४ ॥
पञ्चविंशी। -
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वत्सप्रीर्ऋषिः
- निचृदार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को क्या करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोग ईश्वर ने (मर्त्येषु) मनुष्यों में जो (उशिक्) मानने योग्य (पावकः) पवित्र करनेहारा (अरतिः) ज्ञानवाला (सुमेधाः) अच्छी बुद्धि से युक्त (अमृतः) मरणधर्मरहित (अग्निः) आकाररूप ज्ञान का प्रकाश (निधायि) स्थापित किया है, जो (शुक्रेण) शीघ्रकारी (शोचिषा) प्रकाश से (द्याम्) सूर्यलोक को (इनक्षन्) व्याप्त होता हुआ (धूमम्) धुएँ (अरुषम्) रूप को (भरिभ्रत्) अत्यन्त धारण वा पुष्ट करता हुआ (उदियर्ति) प्राप्त होता है, उसी ईश्वर की उपासना करो वा उस अग्नि से उपकार लेओ ॥२४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि कार्य्य-कारण के अनुसार ईश्वर के रचे हुए सब पदार्थों को ठीक-ठीक जान के अपनी बुद्धि बढ़ावें ॥२४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैः किं कर्त्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यूयमीश्वरेण मर्त्येषु य उशिक् पावकोऽरतिः सुमेधाऽमृतोऽग्निर्निधायि, यः शुक्रेण शोचिषा द्यामिनक्षन् धूममरुषं भरिभ्रदुदियर्त्ति तमीश्वरमुपाध्वमुपकुरुत वा ॥२४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैरीश्वरसृष्टानां पदार्थानां कारणकार्यपुरस्सरं विज्ञानं कृत्वा प्रज्ञोन्नेया ॥२४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी कार्यकारणानुसार ईश्वराने निर्माण केलेल्या सर्व पदार्थांना यथायोग्यरीत्या जाणावे व आपली बुद्धी वाढवावी.
२५ दृशानो रुक्मऽउर्व्या
विश्वास-प्रस्तुतिः ...{Loading}...
दृ॒शा॒नो रु॒क्मऽउ॒र्व्या व्य॑द्यौद् दु॒र्मर्ष॒मायुः॑ श्रि॒ये रु॑चा॒नः। अ॒ग्निर॒मृतो॑ऽअभव॒द् वयो॑भि॒र्यदे॑नं॒ द्यौरज॑नयत् सु॒रेताः॑ ॥२५ ॥
मूलम् ...{Loading}...
दृ॒शा॒नो रु॒क्मऽउ॒र्व्या व्य॑द्यौद् दु॒र्मर्ष॒मायुः॑ श्रि॒ये रु॑चा॒नः। अ॒ग्निर॒मृतो॑ऽअभव॒द् वयो॑भि॒र्यदे॑नं॒ द्यौरज॑नयत् सु॒रेताः॑ ॥२५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दृ॒शा॒नः। रु॒क्मः। उ॒र्व्या। वि। अ॒द्यौ॒त्। दु॒र्मर्ष॒मिति॑ दुः॒ऽमर्ष॑म्। आयुः॑। श्रि॒ये। रु॒चा॒नः। अ॒ग्निः। अ॒मृतः॑। अ॒भ॒व॒त्। वयो॑भि॒रिति॒ वयः॑ऽभिः। यत्। ए॒न॒म्। द्यौः। अज॑नयत्। सु॒रेता॒ इति॑ सु॒ऽरेताः॑। २५।
महीधरः
म० दृशानो व्याख्याता ( क०. १)॥ २५ ॥
षड्विंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वत्सप्रीर्ऋषिः
- भुरिक्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को क्या-क्या जानना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोग (यत्) जिस कारण (दृशानः) दिखाने हारा (रुक्मः) रुचि का हेतु (श्रिये) शोभा का (रुचानः) प्रकाशक (दुर्मर्षम्) सब दुःखों से रहित (आयुः) जीवन करता हुआ (अमृतः) नाशरहित (अग्निः) तेजस्वरूप (उर्व्या) पृथिवी के साथ (व्यद्यौत्) प्रकाशित होता है, (वयोभिः) व्यापक गुणों के साथ (अभवत्) उत्पन्न होता और जो (द्यौः) प्रकाशक (सुरेताः) सुन्दर पराक्रमवाला जगदीश्वर (यत्) जिस के लिये (एनम्) इस अग्नि को (अजनयत्) उत्पन्न करता है, उस ईश्वर, आयु और विद्युत् रूप अग्नि को जानो ॥२५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य गुण-कर्म और स्वभावों के सहित जगत् रचनेवाले अनादि ईश्वर और जगत् के कारण को ठीक-ठीक जान के उपासना करते और उपयोग लेते हैं, वे चिरंजीव होकर लक्ष्मी को प्राप्त होते हैं ॥२५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्नरैः किं किं वेद्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यूयं यद्यो दृशानो रुक्मः श्रिये रुचानोऽमृतो दुर्मर्षमायुः कुर्वन्नमृतोऽग्निरुर्व्या सह व्यद्यौद्, वयोभिः सहाभवत्, तद् द्यौः सुरेता जगदीश्वरो यदेनमजनयत्, तं तत् तां च विजानीत ॥२५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्या जगत्स्रष्टारमनादिमीश्वरमनादिजगत्कारणं गुणकर्मस्वभावैः सह विज्ञायोपासत उपयुञ्जते च ते दीर्घायुषः श्रीमन्तो जायन्ते ॥२५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे गुण, कर्म स्वभावासह जगाची रचना करणाऱ्या अनादी ईश्वराला जाणतात व उपासना करतात, तसेच जगाचे कारण योग्य प्रकारे जाणून अग्नी वगैरेचा योग्य प्रकारे उपयोग करून घेतात ते दीर्घायू होऊन लक्ष्मी प्राप्त करतात.
२६ यस्तेऽअद्य कृणवद्
विश्वास-प्रस्तुतिः ...{Loading}...
यस्ते॑ऽअ॒द्य कृ॒णव॑द् भद्रशोचेऽपू॒पं दे॑व घृ॒तव॑न्तमग्ने। प्र तं न॑य प्रत॒रं वस्यो॒ऽअच्छा॒भि सु॒म्नं दे॒वभ॑क्तं यविष्ठ ॥२६ ॥
मूलम् ...{Loading}...
यस्ते॑ऽअ॒द्य कृ॒णव॑द् भद्रशोचेऽपू॒पं दे॑व घृ॒तव॑न्तमग्ने। प्र तं न॑य प्रत॒रं वस्यो॒ऽअच्छा॒भि सु॒म्नं दे॒वभ॑क्तं यविष्ठ ॥२६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यः। ते॒। अ॒द्य। कृ॒णव॑त्। भ॒द्र॒शो॒च॒ इति॑ भद्रऽशोचे। अ॒पू॒पम्। दे॒व॒। घृ॒तव॑न्त॒मिति॑ घृ॒तऽव॑न्तम्। अ॒ग्ने॒। प्र। तम्। न॒य॒। प्र॒त॒रमिति॑ प्रऽत॒रम्। वस्यः॑। अच्छ॑। अ॒भि। सु॒म्नम्। दे॒वभ॑क्त॒मिति॑ दे॒वऽभ॑क्तम्। य॒वि॒ष्ठ॒। २६।
महीधरः
म० भद्रा कल्याणकारिणी शोचिर्दीप्तिर्यस्य तत्संबोधने हे भद्रशोचे, हे देव अग्ने, अद्य प्रतिपदि यः पुमान् ते तव अपूपं पुरोडाशं घृतवन्तं घृतयुक्तमुपस्तरणाभिधारणोपेतं कृणवत् कृणोति करोति । ‘कृञ् करणे’ स्वादिः ‘इतश्च लोपः परस्मैपदेषु’ ( पा० ३ । ४ । ९७ ) इति तिप इकारलोपे ‘लेटोऽडाटौ’ (पा० ३ । ४ । ९४ ) इत्यडागमे ओर्गुणे कृणवदिति रूपम् । ‘स आज्यस्योपस्तीर्य द्विर्हविषोऽवदायाथोपरिष्टादाज्यस्याभिघारयति’ (१ । ७ । २ । १०)। इत्येतच्छ्रुत्यभिप्रायम् । हे यविष्ट युवतम, यद्वा मिश्रयितृतम, तं यजमानं प्रतरमतिशयेन प्रकृष्टं प्रतरम् ‘अमु च छन्दसि’ (पा० ५। ४ । १२) इत्यव्ययात्परात् घादमुप्रत्ययः । प्रकृष्टतरं वस्यः स्थानमुत्तमलोकं प्रनय प्रापय । अच्छाभिमुख्येन सुम्नं सुखं चाभिनय सर्वतः प्रापय । कीदृशं सुम्नम् । देवभक्तं देवैः भक्तं सेवितं देवयोग्यं सुखं प्रापयेत्यर्थः । वसति यत्र तद्वस्तृ तृन्प्रत्ययः । अतिशयेन वस्तृ वसीयः ‘तुश्छन्दसि’ (पा. ५। ३ । ५९) इतीयसुन् ‘तुरिष्ठेमेयःसु’ (पा० ६।४ । १५४ ) इति तृचो लोपः । छान्दसे ईलोपे वस्य इति सिध्यति । ‘स लोकमागच्छत्यशोकमहिमं तस्मिन् वसति शाश्वतीः समाः’ (बृह० मा० ४ । १५) इति श्रुतेः । ‘प्रकृत्यान्तःपादमव्यपरे’ (पा० ६।१। ११५) इति वस्यो अच्छेत्यत्र सन्ध्यभावः ॥ २६ ॥
सप्तविंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वत्सप्रीर्ऋषिः
- विराडार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर विद्वान् लोग कैसे रसोइया को स्वीकार करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (भद्रशोचे) सेवने योग्य दीप्ति से युक्त (यविष्ठ) तरुण अवस्थावाले (देव) दिव्य भोगों के दाता (अग्ने) विद्वन् पुरुष ! (यः) जो (ते) आपका (घृतवन्तम्) बहुत घृत आदि पदार्थों से संयुक्त (अभि) सब प्रकार से (सुम्नम्) सुखरूप (देवभक्तम्) विद्वानों के सेवने योग्य (अपूपम्) भोजन के योग्य पदार्थोंवाला (वस्यः) अत्यन्त भोग्य (अच्छ) अच्छे-अच्छे पदार्थों को (कृणवत्) बनावे, (तम्) उस (प्रतरम्) पाक बनाने हारे पुरुष को आप (अद्य) आज (प्रणय) प्राप्त हूजिये ॥२६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि विद्वानों से अच्छी शिक्षा को प्राप्त हुए अति उत्तम व्यञ्जन और शष्कुली आदि तथा शाक आदि स्वाद से युक्त रुचिकारक पदार्थों को बनानेवाले पाचक पुरुष का ग्रहण करें ॥२६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्विद्वद्भिः कीदृशः पाचकः स्वीकार्य इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे भद्रशोचे यविष्ठ देवाग्ने ! यस्ते तव घृतवन्तमभिसुम्नं वस्यो देवभक्तमपूपमच्छ कृणवत् तं प्रतरं पाककर्त्तारं त्वमद्य प्रणय ॥२६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्विद्वत्सुशिक्षितोऽत्युत्तमानां व्यञ्जनानां सुस्वादिष्ठानामन्नानां रुचिकराणां निर्माता पाककर्त्ता संग्राह्यः ॥२६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी विद्वानांकडून पाककौशल्य प्राप्त केलेल्या व अति उत्तम खाद्य पदार्थ बनविणाऱ्या व भाजी आणि इतर पदार्थ रुचकर बनविणाऱ्या व्यक्तीला स्वयंपाकी नेमावे.
२७ आ तम्
विश्वास-प्रस्तुतिः ...{Loading}...
आ तं भ॑ज सौश्रव॒सेष्व॑ग्नऽउ॒क्थऽउ॑क्थ॒ऽआभ॑ज श॒स्यमा॑ने। प्रि॒यः सूर्ये॑ प्रि॒योऽअ॒ग्ना भ॑वा॒त्युज्जा॒तेन॑ भि॒नद॒दुज्जनि॑त्वैः ॥२७ ॥
मूलम् ...{Loading}...
आ तं भ॑ज सौश्रव॒सेष्व॑ग्नऽउ॒क्थऽउ॑क्थ॒ऽआभ॑ज श॒स्यमा॑ने। प्रि॒यः सूर्ये॑ प्रि॒योऽअ॒ग्ना भ॑वा॒त्युज्जा॒तेन॑ भि॒नद॒दुज्जनि॑त्वैः ॥२७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ। तम्। भ॒ज॒। सौ॒श्र॒व॒सेषु॑। अ॒ग्ने॒। उ॒क्थउ॑क्थ॒ इत्यु॒क्थेऽउ॑क्थे। आ। भ॒ज॒। श॒स्यमा॑ने। प्रि॒यः। सूर्ये॑। प्रि॒यः। अ॒ग्ना। भ॒वा॒ति॒। उत्। जा॒तेन॑। भि॒नद॑त्। उत्। जनि॑त्वै॒रिति॒ जनि॑ऽत्वैः। २७।
महीधरः
म० शोभनं श्रवः कीर्तिः सुश्रवः सुश्रवसः संबन्धीनि कीर्तिहेतुभूतानि कर्माणि सौश्रवसानि तेषु यज्ञकर्मसु हे अग्ने, त्वं तं यजमानमाभज सेवस्व । निरन्तरं कर्मानुष्ठायिनं कुर्वित्यर्थः । उक्थे उक्थे निष्केवल्यप्रगाथादिरूपे च शस्यमाने तत्तच्छस्त्रे सति तमाभज सर्वतः सेवस्व । कर्मणि शस्त्रे च प्रेरयेत्यर्थः । एवं त्वया सेवितोऽयं यजमानः सूर्ये सूर्यस्य प्रियो भवाति भवतु । लिङर्थे लेट् ‘लेटोऽडाटौ’ (पा० ३ । ४ । ९४ ) । अग्ना अग्नेश्च प्रियोऽस्तु । ङसो डादेशः । तथा जातेनोत्पन्नेन पुत्रेण उद्भिनत् उद्भेदमुदयं वृद्धिमाप्नोतु । इलोपेऽडागमे चोद्भिनददिति रूपम् । तथा जनित्वैः जनिष्यमाणैश्च पौत्रादिभिरुद्भिनदत् । जनिष्यन्ते ते जनित्वाः तैः । भविष्यदर्थे औणादिक इत्वप्रत्ययः ॥ २७ ॥
अष्टाविंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वत्सप्रीर्ऋषिः
- विराडार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्वन् पुरुष ! आप जो (सौश्रवसेषु) सुन्दर धनवालों में वर्त्तमान हो, (तम्) उसको (आभज) सेवन कीजिये, जो (शस्यमाने) स्तुति के योग्य (उक्थऽउक्थे) अत्यन्त कहने योग्य व्यवहार में (प्रियः) प्रीति रक्खे (सूर्य्ये) स्तुतिकारक पुरुषों में हुए व्यवहार (अग्ना) और अग्निविद्या में (प्रियः) सेवने योग्य (जातेन) उत्पन्न हुए और (जनित्वैः) उत्पन्न होनेवालों के साथ (उद्भवाति) उत्पन्न होवे और शत्रुओं को (उद्भिनदत्) उच्छिन्न-भिन्न करे, (तम्) उसको आप (आभज) सेवन कीजिये ॥२७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि जो पाक करने में साधु, सब का हितकारी, अन्न और व्यञ्जनों को अच्छे प्रकार बनावे, उसको अवश्य ग्रहण करें ॥२७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने विद्वन् ! त्वं यः सौश्रवसेषु वर्त्तमानस्तमाभज, यः शस्यमान उक्थऽउक्थे प्रियः सूर्येऽअग्ना च प्रियो, जातेन जनित्वैः सहोद्भवात्युद्भिनदत्, तं त्वमाभज ॥२७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्यः पाककरणे साधुः, सर्वस्य प्रियोऽन्नव्यञ्जनानां भेदकः पाचको भवेत्, स स्वीकर्त्तव्यः ॥२७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी हितकारक अन्न व वेगवेगळे खाद्यपदार्थ चांगल्या प्रकारे बनविणाऱ्या व उत्तम स्वयंपाक करणाऱ्यांचा स्वीकार करावा.
२८ त्वामग्ने यजमानाऽअनु
विश्वास-प्रस्तुतिः ...{Loading}...
त्वाम॑ग्ने॒ यज॑माना॒ऽअनु॒ द्यून् विश्वा॒ वसु॑ दधिरे॒ वार्या॑णि। त्वया॑ स॒ह द्रवि॑णमि॒च्छमा॑ना व्र॒जं गोम॑न्तमु॒शिजो॒ विव॑व्रुः ॥२८ ॥
मूलम् ...{Loading}...
त्वाम॑ग्ने॒ यज॑माना॒ऽअनु॒ द्यून् विश्वा॒ वसु॑ दधिरे॒ वार्या॑णि। त्वया॑ स॒ह द्रवि॑णमि॒च्छमा॑ना व्र॒जं गोम॑न्तमु॒शिजो॒ विव॑व्रुः ॥२८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
त्वाम्। अ॒ग्ने॒। यज॑मानाः। अनु॑। द्यून्। विश्वा॑। वसु॑। द॒धि॒रे॒। वार्या॑णि। त्वया॑। स॒ह। द्रवि॑णम्। इ॒च्छमा॑नाः। व्र॒जम्। गोम॑न्त॒मिति॒ गोऽम॑न्तम्। उ॒शिजः॑। वि। व॒व्रुः॒। २८।
महीधरः
म० हे अग्ने, यजमानास्त्वामनु वर्तमानाः त्वां सेवमानाः सन्तः द्यून् । द्युशब्दो दिनवाची । ‘कालाध्वनो:-’ (पा० २ । ३ । ५) इति द्वितीया । दिनेषु सर्वदा वार्याणि वरणीयानि प्रार्थ्यानि विश्वा विश्वानि सर्वाणि वसु वसूनि धनानि गोभूहिरण्यादीनि दधिरे धारयन्ति । यथेष्टं धनं प्राप्नुवन्तीत्यर्थः । वसु अत्र सुब्लोपः । किंच त्वया सह स्थिताः त्वां भजन्तस्ते यजमाना द्रविणं यज्ञफलमिच्छमाना इच्छन्तः उशिजः मेधाविनो ज्ञानकर्मसमुच्चयकारिणः सन्तो गोमन्तं गावो रश्मयोऽत्र सन्तीति गोमान् तं रविमण्डलमध्यगं व्रजं व्रजन्त्यनेन सुकृतिन इति व्रजस्तं देवयानमार्गं विवव्रुः बिभिदुः । रविमण्डले मार्गं कृतवन्त इत्यर्थः । तदुक्तम् ‘ते य एवमेतद्विदुः’ इत्युपक्रम्य ‘देवलोकादादित्यम्’ इति ॥ २८ ॥
एकोनत्रिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वत्सप्रीर्ऋषिः
- विराडार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्य लोग विद्या को किस प्रकार बढ़ावें, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्वन् पुरुष ! जिस (त्वाम्) आपका आश्रय लेकर (उशिजः) बुद्धिमान् (यजमानाः) सङ्गतिकारक लोग (त्वया) आप के (सह) साथ (विश्वा) सब (वार्याणि) ग्रहण करने योग्य (अनुद्यून्) दिनों में (वसु) द्रव्यों को (दधिरे) धारण करें, (द्रविणम्) धन की (इच्छमानाः) इच्छा करते हुए (गोमन्तम्) सुन्दर किरणों के रूप से युक्त (व्रजम्) मेघ वा गोस्थान को (विवव्रुः) विविध प्रकार से ग्रहण करें, वैसे हम लोग भी होवें ॥२८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि प्रयत्नशील विद्वानों के सङ्ग से पुरुषार्थ के साथ विद्या और सुख को नित्यप्रति बढ़ाते जावें ॥२८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैर्विद्याः कथं वर्द्धनीया इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने विद्वन् ! यन्त्वामाश्रित्योशिजो यजमानास्त्वया सह याननुद्यून् विश्वा वार्याणि वसु दधिरे, द्रविणमिच्छमाना गोमन्तं व्रजं विवव्रुः, तथाभूता वयमपि भवेम ॥२८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैः प्रयतमानानां विदुषां सङ्गात् पुरुषार्थेन प्रतिदिनं विद्यासुखे वर्द्धनीये ॥२८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी प्रयत्नशील विद्वानांच्या संगतीने पुरुषार्थ करून विद्या व सुख सदैव वाढवीत जावे.
२९ अस्ताव्यग्निर्नरां सुशेवो
विश्वास-प्रस्तुतिः ...{Loading}...
अस्ता॑व्य॒ग्निर्न॒राँ सु॒शेवो॑ वैश्वान॒रऽऋषि॑भिः॒ सोम॑गोपाः। अ॒द्वे॒षे द्यावा॑पृथि॒वी हु॑वेम॒ देवा॑ ध॒त्त र॒यिम॒स्मे सु॒वीर॑म् ॥२९ ॥
मूलम् ...{Loading}...
अस्ता॑व्य॒ग्निर्न॒राँ सु॒शेवो॑ वैश्वान॒रऽऋषि॑भिः॒ सोम॑गोपाः। अ॒द्वे॒षे द्यावा॑पृथि॒वी हु॑वेम॒ देवा॑ ध॒त्त र॒यिम॒स्मे सु॒वीर॑म् ॥२९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अस्ता॑वि। अ॒ग्निः। न॒राम्। सु॒शेव॒ इति॑ सु॒ऽशेवः॑। वै॒श्वा॒न॒रः। ऋषि॑भि॒रित्यृषि॑ऽभिः। सोम॑गोपा॒ इति॒ सोम॑ऽगोपाः। अ॒द्वे॒षेऽइत्य॑द्वे॒षे। द्यावा॑पृथि॒वीऽइति॒ द्यावा॑पृथि॒वी। हु॒वे॒म॒। देवाः॑। ध॒त्त। र॒यिम्। अ॒स्मेऽइत्य॒स्मे। सु॒वीर॒मिति॑ सु॒ऽवीर॑म्। २९।
महीधरः
म० ऋषिभिः यजमानर्त्विग्भिः अग्निरस्तावि स्तुतः । कर्मणि चिण् । कीदृशोऽग्निः । नरां नराणां सुशेवः शोभनं सुखयिता । नुडागमाभावे गुणे च नरामिति रूपम् । शोभनं शेवः सुखं यस्मात् । वैश्वानरः विश्वेभ्यः सर्वेभ्यो नरेभ्यो हितः जठराग्निरूपेण सोमं गोपायतीति सोमगोपाः सोमस्य रक्षिता । अद्वेषे । पादौ लिङ्गोक्तदेवौ । यतोऽग्निः स्तुतः अतोऽद्वेषे द्वेषरहिते द्यावापृथिवी रोदसी वयं हुवेम आह्वयामः तदाश्रितकर्माप्त्यै । हे देवा अग्न्यादयः, अस्मे अस्मासु सुवीरं शोभनपुत्रयुतं रयिं धनं यूयं धत्त स्थापयत ॥ २९ ॥
त्रिंशी।
(अस्मिन्—आस्मिन् पाठभेदः)
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वत्सप्रीर्ऋषिः
- विराडार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उन विद्वानों के सङ्ग से क्या होता है, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (देवाः) शत्रुओं को जीतने की इच्छावाले विद्वानो ! जिन तुम (ऋषिभिः) ऋषि लोगों ने (नराम्) नायक विद्वानों में (सुशेवः) सुन्दर सुखयुक्त (वैश्वानरः) सब मनुष्यों के आधार (अग्निः) परमेश्वर की (अस्तावि) स्तुति की है, जो तुम लोग (अस्मे) हमारे लिये (सुवीरम्) जिससे सुन्दर वीर पुरुष हों, उस (रयिम्) राज्यलक्ष्मी को (धत्त) धारण करो, उसके आश्रित (सोमगोपाः) ऐश्वर्य के रक्षक हम लोग (अद्वेषे) द्वेष करने के अयोग्य प्रीति के विषय में (द्यावापृथिवी) प्रकाशरूप राजनीति और पृथिवी के राज्य का (हुवेम) ग्रहण करें ॥२९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो सच्चिदानन्दस्वरूप ईश्वर के सेवक, धर्मात्मा, विद्वान् लोग हैं, वे परोपकारी होने से आप्त यथार्थवक्ता होते हैं, ऐसे पुरुषों के सत्सङ्ग के विना स्थिर विद्या और राज्य को कोई भी नहीं कर सकता ॥२९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तत्सङ्गेन किं भवतीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे देवाः ! यैर्युष्माभिर्ऋषिभिर्यो नरां सुशेवो वैश्वानरोऽग्निरस्तावि, ये यूयमस्मे सुवीरं रयिं धत्त, तदाश्रिताः सोमगोपा वयमद्वेषे द्यावापृथिवी हुवेम ॥२९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये सच्चिदानन्दस्वरूपेश्वरसेवका धार्मिका विद्वांसः सन्ति, ते परोपकारकत्वादाप्ता भवन्ति, नहीदृशानां सङ्गमन्तरा सुस्थिरे विद्याराज्ये कर्त्तुं शक्नुवन्ति ॥२९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे लोक सच्चिदानंदस्वरूप ईश्वराचे सेवक, धर्मात्मा व विद्वान असतात ते परोपकारी असल्यामुळे आप्त व सत्यवचनी असतात अशा उत्तम पुरुषाच्या संगतीशिवाय स्थिर अशी विद्या व राज्य कोणीही प्राप्त करू शकत नाही.
३० समिधाग्निं दुवस्यत
विश्वास-प्रस्तुतिः ...{Loading}...
स॒मिधा॒ग्निं दु॑वस्यत घृ॒तैर्बो॑धय॒ताति॑थिम्। आस्मि॑न् ह॒व्या जु॑होतन ॥३० ॥
मूलम् ...{Loading}...
स॒मिधा॒ग्निं दु॑वस्यत घृ॒तैर्बो॑धय॒ताति॑थिम्। आस्मि॑न् ह॒व्या जु॑होतन ॥३० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स॒मिधेति॑ स॒म्ऽइधा॑। अ॒ग्निम्। दु॒व॒स्य॒त॒। घृ॒तैः। बो॒ध॒य॒त॒। अति॑थिम्। आ। अ॒स्मि॒न्। ह॒व्या। जु॒हो॒त॒न॒। ३०।
महीधरः
म०. ‘अथ वनीवाहनं प्रागनः कृत्वोख्यस्योत्तरतः समिदाधानᳪं᳭ समिधाग्निमिति’ ( का० १६ । ६ । १५)। उख्याग्नेरुत्तरदिशि प्रागीषं शकटं संस्थाप्य यजमान उख्येऽग्नौ वनीवाहने समिधमाधत्त इति सूत्रार्थः । विरूपाक्षदृष्टाग्नेयी गायत्री व्याख्याताप्युच्यते ( अध्या० ३ क० १)। हे ऋत्विग्यजमानाः, समिधा कृत्वाग्निं दुवस्यत परिचरत अतिथिमेनमग्निं बोधयत । अस्मिन्नग्नौ हव्या हवींषि आजुहोतन साकल्येन जुहुत ॥ ३०॥
एकत्रिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- विरूपाक्ष ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्य किन का सेवन करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे गृहस्थो ! तुम लोग जैसे (समिधा) अच्छे प्रकार इन्धनों से (अग्निम्) अग्नि को प्रकाशित करते हैं, वैसे उपदेश करनेवाले विद्वान् पुरुष की (दुवस्यत) सेवा करो और जैसे सुसंस्कृत अन्न तथा (घृतैः) घी आदि पदार्थों से अग्नि में होम करके जगदुपकार करते हैं, वैसे (अतिथिम्) जिसके आने-जाने के समय का नियम न हो, उस उपदेशक पुरुष को (बोधयत) स्वागत उत्साहादि से चैतन्य करो और (अस्मिन्) इस जगत् में (हव्या) देने योग्य पदार्थों को (आजुहोतन) अच्छे प्रकार दिया करो ॥३० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि सत्पुरुषों ही की सेवा और सुपात्रों ही को दान दिया करें, जैसे अग्नि में घी आदि पदार्थों का हवन करके संसार का उपकार करते हैं, वैसे ही विद्वानों में उत्तम पदार्थों का दान करके जगत् में विद्या और अच्छी शिक्षा को बढ़ा के विश्व को सुखी करें ॥३० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्याणां के सेवनीयाः सन्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे गृहस्था ! यूयं समिधाग्निमिवान्नादिनोपदेशकं दुवस्यत, घृतैरतिथिं बोधयत, अस्मिन् हव्या आजुहोतन ॥३० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैः सत्पुरुषाणामेव सेवा कार्या, सत्पात्रेभ्य एव दानं च देयम्। यथाग्नौ घृतादिकं हुत्वा संसारोपकारं जनयन्ति, तथैव विद्वत्सूत्तमानि दानानि संस्थाप्यैतैर्जगति विद्यासुशिक्षे वर्धनीये ॥३० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी सत्पुरुशांचीच सेवा करावी. सुपात्री दान करावे. जसे अग्नीमध्ये घृत इत्यादी पदार्थांची आहुती देऊन यज्ञ केला जातो व जगावर उपकार केला जातो तसे विद्वानांना उत्तम पदार्थाचे दान करून जगात विद्या व उत्तम शिक्षण वाढवावे आणि सर्व जगाला सुखी करावे.
३१ उदु त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
उदु॑ त्वा॒ विश्वे॑ दे॒वाऽअग्ने॒ भर॑न्तु॒ चित्ति॑भिः। स नो॑ भव शि॒वस्त्वँ सु॒प्रती॑को वि॒भाव॑सुः ॥३१ ॥
मूलम् ...{Loading}...
उदु॑ त्वा॒ विश्वे॑ दे॒वाऽअग्ने॒ भर॑न्तु॒ चित्ति॑भिः। स नो॑ भव शि॒वस्त्वँ सु॒प्रती॑को वि॒भाव॑सुः ॥३१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उत्। ऊँ॒इत्यूँ॑। त्वा॒। विश्वे॑। दे॒वाः। अग्ने॑। भर॑न्तु। चित्ति॑भि॒रिति॒ चित्ति॑ऽभिः। सः। नः॒। भ॒व॒। शि॒वः। त्वम्। सु॒प्रती॑क॒ इति॑ सु॒ऽप्रती॑कः। वि॒भाव॑सु॒रिति॑ वि॒भाऽव॑सुः। ३१।
महीधरः
म० ‘सासन्दीकमुद्यम्योदुत्वेति दक्षिणतोऽनसि करोति’ (का० १६ । ६ । १६) । समिदाधानानन्तरमुदुत्वेति मन्त्रेणासन्दीसहितमुख्याग्निमूर्ध्वं कृत्वा दक्षिणे स्थितो यजमानः शकटे तं स्थापयतीति सूत्रार्थः । तापसदृष्टाग्नेय्यनुष्टुप् । हे अग्ने, विश्वे सर्वे देवाः प्राणरूपाः चित्तिभिः उद्यमनप्रवीणाभिर्धीवृत्तिभिः त्वा त्वामुद्भरन्तु ऊर्ध्वं धारयन्तु । भृञः शप् उ पादपूरणः । हे अग्ने, स उद्धार्यमाणस्त्वं नोऽस्माकं शिवः कल्याणकृद्भव । किंभूतः । सुप्रतीकः शोभनं प्रतीकं मुखं यस्य । विभा दीप्तिरेव वसु धनं यस्य सः॥३१॥
द्वात्रिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- तापस ऋषिः
- विराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
विद्वान् पुरुष को चाहिये कि अपने तुल्य अन्य मनुष्यों को विद्वान् करे, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्वन् ! जिस (त्वा) आपको (विश्वे) सब (देवाः) विद्वान् लोग (चित्तिभिः) अच्छे विज्ञानों के साथ अग्नि के समान (उदुभरन्तु) पुष्ट करें (सः) जो (विभावसुः) जिससे विविध प्रकार की शोभा वा विद्या प्रकाशित हों, (सुप्रतीकः) सुन्दर लक्षणों से युक्त (त्वम्) आप (नः) हम लोगों के लिये (शिवः) मङ्गलमय वचनों के उपदेशक (भव) हूजिये ॥३१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य जैसे विद्वानों से विद्या का सञ्चय करता है, वह वैसे दूसरों के लिये विद्या का प्रचार करे ॥३१ ॥
दयानन्द-सरस्वती (सं) - विषयः
विद्वान् स्वतुल्यानन्यान् विदुषः कुर्यात् ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने विद्वन् ! यं त्वा विश्वे देवाश्चित्तिभिरुदुभरन्तु, स विभावसुः सुप्रतीकस्त्वं नः शिवो भव ॥३१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यो यथा विद्वद्भ्यो विद्यां सञ्चिनोति, तथैवान्यान् विद्यासञ्चितान् सम्पादयेत् ॥३१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जो माणूस विद्वानांकडून ज्या प्रकारची विद्या शिकतो तशा प्रकारची विद्या त्याने इतरांनाही शिकवावी.
३२ प्रेदग्ने ज्योतिष्मान्
विश्वास-प्रस्तुतिः ...{Loading}...
प्रेद॑ग्ने॒ ज्योति॑ष्मान् याहि शि॒वेभि॑र॒र्चिभि॒ष्ट्वम्। बृ॒हद्भि॑र्भा॒नुभि॒र्भास॒न् मा हिँ॑सीस्त॒न्वा᳖ प्र॒जाः ॥३२ ॥
मूलम् ...{Loading}...
प्रेद॑ग्ने॒ ज्योति॑ष्मान् याहि शि॒वेभि॑र॒र्चिभि॒ष्ट्वम्। बृ॒हद्भि॑र्भा॒नुभि॒र्भास॒न् मा हिँ॑सीस्त॒न्वा᳖ प्र॒जाः ॥३२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्र। इत्। अ॒ग्ने॒। ज्योति॑ष्मान्। या॒हि॒। शि॒वेभिः॑। अ॒र्चिभि॒रित्य॒र्चिऽभिः॑। त्वम्। बृ॒हद्भि॒रिति॑ बृ॒हत्ऽभिः॑। भा॒नुभि॒रिति॑ भा॒नुऽभिः॑। भास॑न्। मा। हिँ॒सीः॒। त॒न्वा᳖। प्र॒जा इति॑ प्र॒ऽजाः। ३२।
महीधरः
म० ‘अनड्वाहौ युक्त्वा प्रेदग्न इति प्राङ् यात्वा यथार्थम्’ ( का० १६ । ६ । १८) । शकटे तूष्णीं वृषौ संयोज्य प्रेदिति मन्त्रेण प्राचीं गत्वा यथार्थं प्रयोजनवन्तं देशं गच्छेदित्यर्थः । अग्निदेवत्यानुष्टुप् । हे अग्ने, शिवेभिरर्चिभिः शान्ताभिर्ज्वालाभिर्ज्योतिष्मान्प्रकाशयुक्तस्त्वं प्रयाहि गच्छ । इत्पादपूरणः । किंच बृहद्भिर्भानुभिः प्रौढेः रश्मिभिः भासन्भासयन् जगदवभासयन् तन्वा स्वकीयेन दाहकेन शरीरेण प्रजाः पुत्रादिका मा हिंसीः मा नाशय ॥ ३२ ॥
त्रयस्त्रिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- तापस ऋषिः
- विराडनुष्टुप्
- गान्धारः
३३ अक्रन्ददग्नि स्तनयन्निव
विश्वास-प्रस्तुतिः ...{Loading}...
अक्र॑न्दद॒ग्नि स्त॒नय॑न्निव॒ द्यौः क्षामा॒ रेरि॑हद् वी॒रुधः॑ सम॒ञ्जन्। सद्यो॒ ज॑ज्ञा॒नो वि हीमि॒द्धोऽअख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः ॥३३ ॥
मूलम् ...{Loading}...
अक्र॑न्दद॒ग्नि स्त॒नय॑न्निव॒ द्यौः क्षामा॒ रेरि॑हद् वी॒रुधः॑ सम॒ञ्जन्। सद्यो॒ ज॑ज्ञा॒नो वि हीमि॒द्धोऽअख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः ॥३३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अक्र॑न्दत्। अ॒ग्निः। स्त॒नय॑न्नि॒वेति॑ स्त॒नय॑न्ऽइव। द्यौः। क्षामा॑। रेरि॑हत्। वी॒रुधः॑। स॒म॒ञ्जन्निति॑ सम्ऽअ॒ञ्जन्। स॒द्यः ज॒ज्ञा॒नः। वि। हि। ई॒म्। इ॒द्धः। अख्य॑त्। आ। रोद॑सीऽइति॒ रोद॑सी। भा॒नुना॑। भा॒ति॒। अ॒न्तरित्य॒न्तः। ३३।
महीधरः
म०. ‘अक्षे खर्जत्यक्रन्ददग्निरिति जपति’ ( का० १६ । ६ । २०) । अक्षे शब्दं कुर्वति जपेत् । व्याख्याता (क० ६) ॥ ३३ ॥
चतुस्त्रिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वत्सप्रीर्ऋषिः
- निचृदार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
राज्य का प्रबन्ध कैसे करे, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे प्रजा के लोगो ! तुम लोगों को चाहिये कि जैसे (द्यौः) सूर्य प्रकाशकर्त्ता है, वैसे विद्या और न्याय का प्रकाश करने और (अग्निः) पावक के तुल्य शत्रुओं का नष्ट करनेहारा विद्वान् (स्तनयन्निव) बिजुली के समान (अक्रन्दत्) गर्जता और (वीरुधः) वन के वृक्षों की (समञ्जन्) अच्छे प्रकार रक्षा करता हुआ (क्षामा) पृथिवी पर (रेरिहत्) युद्ध करे (जज्ञानः) राजनीति से प्रसिद्ध हुआ, (इद्धः) शुभ लक्षणों से प्रकाशित (सद्यः) शीघ्र (व्यख्यत्) धर्मयुक्त उपदेश करे तथा (भानुना) पुरुषार्थ के प्रकाश से (हि) ही (रोदसी) अग्नि और भूमि को (अन्तः) राजधर्म में स्थिर करता हुआ (आभाति) अच्छे प्रकार प्रकाश करता है, वह पुरुष राजा होने के योग्य है, ऐसा निश्चित जानो ॥३३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार है। वन के वृक्षों की रक्षा के विना बहुत वर्षा और रोगों की न्यूनता नहीं होती, और बिजुली के तुल्य दूर के समाचारों शत्रुओं को मारने और विद्या तथा न्याय के प्रकाश के विना अच्छा स्थिर राज्य ही नहीं हो सकता ॥३३ ॥
दयानन्द-सरस्वती (सं) - विषयः
राज्यप्रबन्धः कथं कार्य्य इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे प्रजाजनाः ! युष्माभिर्यथा द्यौरग्निः स्तनयन्निवाक्रन्दद्, वीरुधः समञ्जन् क्षामा रेरिहत् जज्ञान इद्धः सद्यो व्यख्यत् भानुना हि रोदसी अन्तराभाति, तथा स राजा भवितुं योग्योऽस्तीति वेद्यम् ॥३३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। नहि वनवृक्षरक्षणेन वृष्टिबाहुल्यमारोग्यं तडिद्व्यवहारवद् दूरसमाचारग्रहणेन शत्रुविनाशनेन राज्ये विद्यान्यायप्रकाशेन च विना सुराज्यं च जायते ॥३३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहेत. वनराजींचे रक्षण केल्याशिवाय रोग कमी होऊ शकत नाहीत व अधिक पाऊस पडू शकत नाही, तसेच शत्रूंना मारण्यासाठी, दूरचे वर्तमान कळण्यासाठी विद्युतप्रमाणे जलद कार्य केल्याशिवाय आणि विद्या व न्याय याखेरीज चांगले स्थिर राज्यही होऊ शकत नाही.
३४ प्रप्रायमग्निर्भरतस्य शृण्वे
विश्वास-प्रस्तुतिः ...{Loading}...
प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑ शृण्वे॒ वि यत्सूर्यो॒ न रोच॑ते बृहद्भाः। अ॒भि यः पू॒रुं पृत॑नासु त॒स्थौ दी॒दाय॒ दै॒व्यो॒ऽअति॑थिः शि॒वो नः॑ ॥३४ ॥
मूलम् ...{Loading}...
प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑ शृण्वे॒ वि यत्सूर्यो॒ न रोच॑ते बृहद्भाः। अ॒भि यः पू॒रुं पृत॑नासु त॒स्थौ दी॒दाय॒ दै॒व्यो॒ऽअति॑थिः शि॒वो नः॑ ॥३४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्रप्रेति॒ प्रऽप्र॑। अ॒यम्। अ॒ग्निः। भ॒र॒तस्य॑। शृ॒ण्वे॒। वि। यत्। सूर्य्यः॑। न। रोच॑ते। बृ॒हत्। भाः। अ॒भि। यः। पू॒रुम्। पृत॑नासु। त॒स्थौ। दी॒दाय॑। दैव्यः॑। अति॑थिः। शि॒वः। नः॒। ३४।
महीधरः
म० ‘वासेऽवहरत्युद्धृतावोक्षित उत्तरतः समिदाधानं प्रप्रेति’ ( का० १६ । ६ । २१)। वासे स्थितौ क्रियमाणे उत्तरदिशि उद्धृतावोक्षिते प्रदेशेऽग्निमवहरत्युत्तारयति ततोऽग्नौ समिदाधानम् । वसिष्ठदृष्टाग्नेयी त्रिष्टुप् । ‘प्रसमुपोदः पादपूरणे (पा० ८ । १।६) इति प्रोपसर्गस्य द्वित्वम् । अयमग्निः बिभर्ति हवींषि भरतस्तस्य भरतस्य यजमानस्य शृण्वे ’ शृणुते आह्वानमिति शेषः । यजमानकृतमाह्वानं शृणोतीत्यर्थः । पुरुषव्यत्ययः । यत् योऽग्निः सूर्यो न सूर्य इव भाः भासत इति भाः सूर्यवद्भासमानः सन् बृहद्यथा तथा रोचते अत्यन्तं दीप्यते । योऽग्निः पृतनासु संग्रामेषु पूरुं राक्षसमभितस्थौ संमुखं तिष्ठति । दैव्यो देवसंबन्धीं अतिथिः नोऽस्माकं शिवः मङ्गलरूपः सोऽग्निर्दीदाय दीप्यते । ‘दीङ् क्षये’ धातूनामनेकार्थत्वादत्र दीप्त्यर्थः लिटि रूपम् । ‘तुजादीनां दीर्घोऽभ्यासस्य’ ( पा० ६ । १।७) इत्यभ्यासदीर्घः । ‘छन्दसि लुङ्लङ्लिटः’ (पा० ३ । ४ । ६ ) इति वर्तमाने लिट् ॥ ३४ ॥
पञ्चत्रिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वसिष्ठ ऋषिः
- आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर कैसे पुरुष को राजव्यवहार में नियुक्त करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजा और प्रजा के पुरुषो ! तुम लोगों को चाहिये कि (यत्) जो (अयम्) यह (अग्निः) सेनापति (सूर्य्यः) सूर्य्य के (न) समान (बृहद्भाः) अत्यन्त प्रकाश से युक्त (प्रप्र) अतिप्रकर्ष के साथ (रोचते) प्रकाशित होता है, (यः) जो (नः) हमारी (पृतनासु) सेनाओं में (पूरुम्) पूर्ण बलयुक्त सेनाध्यक्ष के निकट (अभितस्थौ) सब प्रकार स्थित होवे (दैव्यः) विद्वानों का प्रिय (अतिथिः) नित्य भ्रमण करनेहारा अतिथि (शिवः) मङ्गलदाता विद्वान् पुरुष (दीदाय) विद्या और धर्म को प्रकाशित करे, जिसको मैं (भरतस्य) सेवने योग्य राज्य का रक्षक (शृण्वे) सुनता हूँ, उसको सेना का अधिपति करो ॥३४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। मनुष्यों को चाहिये कि जिस पुण्य कीर्त्ति पुरुष का शत्रुओं में विजय और विद्याप्रचार सुना जावे, उस कुलीन पुरुष को सेना को युद्ध कराने हारा अधिकारी करें ॥३४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः कीदृशं जनं राजव्यवहारे नियुञ्जीरन्नित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे राजप्रजाजनाः ! यूयं यद्योऽयमग्निः सूर्यो न बृहद्भाः प्रप्र रोचते, यो नः पृतनासु पूरुमभि तस्थौ, दैव्योऽतिथिः शिवो विद्या दीदाय, यमहं भरतस्य रक्षकं शृण्वे तं सेनापतिं कुरुत ॥३४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। मनुष्यैः यस्य पुण्यकीर्त्तेः पुरुषस्य शत्रुषु विजयो विद्याप्रचारश्च श्रूयते, स कुलीनः सेनाया योधयिताऽधिकर्त्तव्यः ॥३४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. शत्रूंवर विजय प्राप्त करणे व विद्याप्रसार करणे यासंबंधी ज्या माणसाची कीर्ती उत्तम असेल त्या कुलीन पुरुषाला माणसांनी सेनेचा अधिकारी बनवावे.
३५ आपो देवीः
विश्वास-प्रस्तुतिः ...{Loading}...
आपो॑ देवीः॒ प्रति॑गृभ्णीत॒ भस्मै॒तत् स्यो॒ने कृ॑णुध्वँ सुर॒भाऽउ॑ लो॒के। तस्मै॑ नमन्तां॒ जन॑यः सु॒पत्नी॑र्मा॒तेव॑ पु॒त्रं बि॑भृता॒प्स्वे᳖नत् ॥३५ ॥
मूलम् ...{Loading}...
आपो॑ देवीः॒ प्रति॑गृभ्णीत॒ भस्मै॒तत् स्यो॒ने कृ॑णुध्वँ सुर॒भाऽउ॑ लो॒के। तस्मै॑ नमन्तां॒ जन॑यः सु॒पत्नी॑र्मा॒तेव॑ पु॒त्रं बि॑भृता॒प्स्वे᳖नत् ॥३५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आपः॑। दे॒वीः॒। प्रति॑। गृ॒भ्णी॒त॒। भस्म॑। ए॒तत्। स्यो॒ने। कृ॒णु॒ध्व॒म्। सु॒र॒भौ। ऊँ॒ इत्यूँ॑। लो॒के। तस्मै॑। न॒म॒न्ता॒म्। जन॑यः। सु॒पत्नी॒रिति॑ सु॒ऽपत्नीः॑। मा॒तेवेति॑ मा॒ताऽइ॑व। पु॒त्रम्। बि॒भृ॒त॒। अ॒प्स्वित्य॒प्ऽसु। ए॒न॒त्। ३५।
महीधरः
म०. ‘पलाशपुटेनापो देवीरित्येकया’ ( का० १६ । ६ । २६ ) । वनीवाहनानन्तरं तडागादिजलस्थानं गत्वा वटादिपत्रपुटेन सायंप्रातरुखायाः सकाशादुद्धृतं यद्भस्मास्ति तदे कया ऋचा जले क्षिपेदिति सूत्रार्थः । अब्देवत्या त्रिष्टुप । हे आपो देवीः देव्यः दीप्यमानाः, भस्म यूयं प्रतिगृभ्णीत स्वागतादिभिः प्रतिगृह्णीत । किंच स्योने सुखावहे सुरभौ पुष्पधूपादिभिः शोभनगन्धयुते लोके स्थाने एतद्भस्म कृणुध्वं कुरुध्वम् ‘कृञ् कृतौ’ स्वादिः उ पादपूरणः । किंच शोभन: पतिर्वरुणो यासां ताः सुपत्न्यः ‘आपः वरुणस्य पत्नय आसन्’ इति श्रुत्यन्तरात् । जनयन्त्यग्निमुत्पादयन्ति वृक्षोत्पत्त्यादिद्वारेति जनयः सुपत्नीर्जनयो भवत्यस्तस्मै भस्मरूपायाग्नये नमन्तां प्रह्वीभवन्तु । किंच हे आपः, एनद्भस्म अप्सु स्वात्मनि यूयं बिभृत धारयत । माता पुत्रमिव यथा माता पुत्रं स्वात्मनि धारयति तद्वत्पालयत ॥ ३५ ॥
षट्त्रिंशी।
अधिमन्त्रम् (VC)
- आपो देवताः
- वसिष्ठ ऋषिः
- आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब सब मनुष्यों को स्वयंवर विवाह करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् मनुष्यो ! जो (आपः) पवित्र जलों के तुल्य सम्पूर्ण शुभगुण और विद्याओं में व्याप्त बुद्धि (देवीः) सुन्दर रूप और स्वभाववाली कन्या (सुरभौ) ऐश्वर्य्य के प्रकाश से युक्त (लोके) देखने योग्य लोकों में अपने पतियों को प्रसन्न करें, उन को (प्रति गृभ्णीत) स्वीकार करो तथा उन को सुखयुक्त (कृणुध्वम्) करो, जो (एतत्) यह (भस्म) प्रकाशक तेज है (तस्मै) उस के लिये जो (सुपत्नीः) सुन्दर (जनयः) विद्या और अच्छी शिक्षा से प्रसिद्ध हुई स्त्री नमती हैं, उनके प्रति आप लोग भी (नमन्ताम्) नम्र हूजिये (उ) और तुम स्त्री-पुरुष दोनों मिल के (पुत्रम्) पुत्र को (मातेव) माता के तुल्य (अप्सु) प्राणों में (एनत्) इस पुत्र को (बिभृत) धारण करो ॥३५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। मनुष्यों को चाहिये कि परस्पर प्रसन्नता के साथ स्वयंवर विवाह, धर्म के अनुसार पुत्रों को उत्पन्न और उन को विद्वान् करके गृहाश्रम के ऐश्वर्य्य की उन्नति करें ॥३५ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ सर्वैर्मनुष्यैः स्वयंवरो विवाहः कार्य इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वांसो मनुष्याः ! या आपो देवीः सुरभौ लोके पतीन् सुखिनः कुर्वन्ति, ताः प्रतिगृभ्णीतैताः सुखिनीः कृणुध्वम्। यदेतद् भस्मास्ति, तस्मै याः सुपत्नीर्जनयो नमन्ति, ताः प्रति भवन्तोऽपि नमन्तामुभये मिलित्वा पुत्रं मातेवाप्स्वेनद् बिभृत ॥३५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। मनुष्यैः परस्परं प्रसन्नतया स्वयंवरं विवाहं विधाय धर्मेण सन्तानानुत्पाद्यैतान् विदुषः कृत्वा गृहाश्रमैश्वर्य्यमुन्नेयम् ॥३५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. माणसांनी परस्पर प्रसन्नतेने स्वयंवर विवाह करून धर्मानुसार पुत्र उत्पन्न करावेत व त्यांना विद्वान करून गृहस्थाश्रमाचे ऐश्वर्य वाढवावे.
३६ अप्स्वग्ने सधिष्टव
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒प्स्व᳖ग्ने॒ सधि॒ष्टव॒ सौष॑धी॒रनु॑ रुध्यसे। गर्भे॒ सञ्जा॑यसे॒ पुनः॑ ॥३६ ॥
मूलम् ...{Loading}...
अ॒प्स्व᳖ग्ने॒ सधि॒ष्टव॒ सौष॑धी॒रनु॑ रुध्यसे। गर्भे॒ सञ्जा॑यसे॒ पुनः॑ ॥३६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒प्स्वित्य॒प्ऽसु। अ॒ग्ने॒। सधिः॑। तव॑। सः। ओष॑धीः। अनु॑। रु॒ध्य॒से॒। गर्भे॑। सन्। जा॒य॒से॒। पुन॒रिति॒ पुनः॑। २६।
महीधरः
म०’ ततो द्वाभ्याम्’ ( का० १६ । ६ । २७) । ततोऽनन्तरं पठिताभ्यां द्वाभ्यामप्स्वग्ने गर्भोऽसीत्येताभ्यामृग्भ्यां पत्रपुटेन द्वितीयवारमुख्याग्निभस्माप्सु प्रास्यति । विरूपदृष्टाग्नेयी गायत्री । पूर्वमन्त्रेण भस्मातिथित्वेन संस्तुत्य द्वाभ्यामग्नेः सर्वव्यापकत्वं वदन्भस्माभ्यवहरणमपह्नुते । हे अग्ने, अप्सु जलेषु तव सधिः स्थानं स त्वमोषधीः यवाद्या अनुरुध्यसे ओषधिपरिणाममनु विपरिणमसे ‘सोऽचि लोपे चेत्पादपूरणम्’ ( पा० ६।१।१३४ ) इति स इत्यस्य विसर्गलोपे सन्धिः । यद्वा ओषधीः स्वीकरोषि जठराग्निरूपेण । किंच गर्भे अरण्योर्मध्ये स्थितः सन्पुनःपुनर्जायसे ॥ ३६ ॥
सप्तत्रिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- विरूप ऋषिः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब जीव किस-किस प्रकार पुनर्जन्म को प्राप्त होते हैं, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) अग्नि के तुल्य विद्वान् जीव ! जो तू (सधिः) सहनशील (अप्सु) जलों में (ओषधीः) सोमलता आदि ओषधियों को (अनुरुध्यसे) प्राप्त होता है, (सः) सो (गर्भे) गर्भ में (सन्) स्थित होकर (पुनः) फिर-फिर (जायसे) जन्म लेता है, ये ही दोनों प्रकार आने-जाने अर्थात् जन्म-मरण (तव) तेरे हैं, ऐसा जान ॥३६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो जीव शरीर को छोड़ते हैं, वे वायु और ओषधि आदि पदार्थों से भ्रमण करते-करते गर्भाशय को प्राप्त होके नियत समय पर शरीर धारण करके प्रकट होते हैं ॥३६ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ जीवाः कथं कथं पुनर्जन्म प्राप्नुवन्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने अग्निरिव जीव ! सधिर्यस्त्वमप्सु गर्भे ओषधीरनुरुध्यसे, स त्वं गर्भे स्थितः सन् पुनर्जायसे। इमावेव क्रमानुक्रमौ तव स्त इति जानीहि ॥३६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये जीवाः शरीरं त्यजन्ति, ते वाय्वोषध्यादिषु च भ्रान्त्वा, गर्भं प्राप्य यथासमयं सशरीरा भूत्वा पुनर्जायन्ते ॥३६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे जीव शरीर सोडतात ते वायू व औषधी (वनस्पती) इत्यादी पदार्थांमध्ये भ्रमण करून गर्भाशयात येतात व योग्य वेळ येताच शरीर धारण करून प्रकट होतात.
३७ गर्भोऽअस्योषधीनां गर्भो
विश्वास-प्रस्तुतिः ...{Loading}...
गर्भो॑ऽअ॒स्योष॑धीनां॒ गर्भो॒ वन॒स्पती॑नाम्। गर्भो॒ विश्व॑स्य भू॒तस्याग्ने॒ गर्भो॑ऽअ॒पाम॑सि ॥३७ ॥
मूलम् ...{Loading}...
गर्भो॑ऽअ॒स्योष॑धीनां॒ गर्भो॒ वन॒स्पती॑नाम्। गर्भो॒ विश्व॑स्य भू॒तस्याग्ने॒ गर्भो॑ऽअ॒पाम॑सि ॥३७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
गर्भः॑। अ॒सि॒। ओष॑धीनाम्। गर्भः॑। वन॒स्पती॑नाम्। गर्भः॑। विश्व॑स्य। भू॒तस्य॑। अग्ने॑। गर्भः॑। अ॒पाम्। अ॒सि॒। ३७।
महीधरः
म० तिस्रोऽनुष्टुभोऽग्निदेवत्याः । हे अग्ने, त्वमोषधीनां गर्भोऽसि भेषजरूपैरोषधिविशेषैरुत्पद्यमानत्वात् । हे अग्ने, त्वं वनस्पतीनां तरूणां गर्भोऽसि अरणिभ्यो जायमानत्वात् । विश्वस्य भूतस्य सर्वस्य प्राणिजातस्य गर्भोऽसि जठराग्निरूपेण विद्यमानत्वात् , अपां गर्भोऽसि वाडववैद्युतादिरूपत्वात् ॥ ३७ ॥
अष्टत्रिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- विरूप ऋषिः
- भुरिगार्ष्युष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर जीव कहाँ-कहाँ जाता है, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) दूसरे शरीर को प्राप्त होनेवाले जीव ! जिससे तू अग्नि के समान जो (ओषधीनाम्) सोमलता आदि वा यवादि ओषधियों के (गर्भः) दोषों के मध्य (गर्भः) गर्भ (वनस्पतीनाम्) पीपल आदि वनस्पतियों के बीच (गर्भः) शोधक (विश्वस्य) सब (भूतस्य) उत्पन्न हुए संसार के मध्य (गर्भः) ग्रहण करनेहारा और जो (अपाम्) प्राण वा जलों का (गर्भः) गर्भरूप भीतर रहनेहारा (असि) है, इसलिये तू अज अर्थात् स्वयं जन्मरहित (असि) है ॥३७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे मनुष्यो ! तुम लोगों को चाहिये कि जो बिजुली के समान सब के अन्तर्गत जीव जन्म लेनेवाले हैं, उनको जानो ॥३७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्जीवस्य क्व क्व गतिर्भवतीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! अग्नितुल्यजीव यतस्त्वमग्निरिवौषधीनां गर्भो वनस्पतीनां गर्भः, विश्वस्य भूतस्य गर्भोऽपां गर्भश्चासि, तस्मात् त्वमजोऽसि ॥३७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः ! ये विद्युद्वत् सर्वान्तर्गता जीवा जन्मवन्तः सन्ति, तान् जानन्त्विति ॥३७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे माणसांनो ! जे जीव विद्युतप्रमाणे सर्वांमध्ये (जल व इतर पदार्थांमध्ये) जन्म घेतात त्यांना जाणा.
३८ प्रसद्य भस्मना
विश्वास-प्रस्तुतिः ...{Loading}...
प्र॒सद्य॒ भस्म॑ना॒ योनि॑म॒पश्च॑ पृथि॒वीम॑ग्ने। सँ॒सृज्य॑ मा॒तृभि॒ष्ट्वं ज्योति॑ष्मा॒न् पुन॒रास॑दः ॥३८ ॥
मूलम् ...{Loading}...
प्र॒सद्य॒ भस्म॑ना॒ योनि॑म॒पश्च॑ पृथि॒वीम॑ग्ने। सँ॒सृज्य॑ मा॒तृभि॒ष्ट्वं ज्योति॑ष्मा॒न् पुन॒रास॑दः ॥३८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्र॒सद्येति॑ प्र॒ऽसद्य॑। भस्म॑ना। योनि॑म्। अ॒पः। च॒। पृ॒थि॒वीम्। अ॒ग्ने॒। सं॒ऽसृज्येति॑ स॒म्ऽसृज्य॑। मा॒तृभि॒रिति॑ मा॒तृऽभिः॑। त्वम्। ज्योति॑ष्मान्। पुनः॑। आ। अ॒स॒दः॒। ३८।
महीधरः
म० ‘अनामिकया प्रास्तादादत्ते प्रसद्येति’ ( का० १६ । ६ । २९ ) । अप्सु क्षिप्ताद्भस्मनः सकाशादनामिकया भस्म गृह्णाति प्रसद्येति चतुर्ऋग्भिः । हे अग्ने, त्वं भस्मना कृत्वा योनिं कारणभूतां पृथिवीं योनिभूता अपश्च प्रसद्य प्राप्य मातृभिरद्भिः संसृज्यैकीभूय ज्योतिष्मान् तेजस्वी संपन्नः सन् पुनरासदः स्वस्थानमुखमासीद ॥ ३८ ॥
एकोनचत्वारिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- विरूप ऋषिः
- निचृदार्ष्यनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
मरण समय में शरीर का क्या होना चाहिये, यह विषये अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) प्रकाशमान पुरुष सूर्य्य के समान (ज्योतिष्मान्) प्रशंसित प्रकाश से युक्त जीव ! (त्वम्) तू (भस्मना) शरीर दाह के पीछे (पृथिवीम्) पृथिवी (च) अग्नि आदि और (अपः) जलों के बीच (योनिम्) देह धारण के कारण को (प्रसद्य) प्राप्त हो और (मातृभिः) माताओं के उदर में वास करके (पुनः) फिर (आसदः) शरीर को प्राप्त होता है ॥३८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे जीवो ! तुम लोग जब शरीर को छोड़ो, तब यह शरीर राख रूप होकर पृथिवी आदि पाँच भूतों के साथ मिल जाता है। तुम अर्थात् आत्मा माता के शरीर में गर्भाशय में पहुँच, फिर शरीर धारण किये हुए विद्यमान होते हो ॥३८ ॥
दयानन्द-सरस्वती (सं) - विषयः
मरणान्ते शरीरस्य का गतिः कार्य्येत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने सूर्य्य इव ज्योतिष्मान् ! त्वं भस्मना पृथिवीं चापश्च योनिं प्रसद्य मातृभिः सह संसृज्य पुनरासदः ॥३८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे जीवाः ! भवन्तो यदा शरीरं त्यजत, तदैतद्भस्मीभूतं सत् पृथिव्यादिना सह संयुनक्ति, यूयमात्मानश्चाम्बाशरीरषेु गर्भाशयं प्रविश्य पुनः सशरीराः सन्तो विद्यमाना भवत ॥३८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे जीवांनो ! तुम्ही जेव्हा शरीर सोडाल तेव्हा हे शरीर राखरूपाने पृथ्वी इत्यादी पंचमहाभूतांमध्ये विलीन होऊ द्या. तुमचा आत्मा मातेच्या शरीरात गर्भाशयामध्ये प्रवेश करून पुनः शरीर धारण करून पुनर्जन्म घेतो.
३९ पुनरासद्य सदनमपश्च
विश्वास-प्रस्तुतिः ...{Loading}...
पुन॑रा॒सद्य॒ सद॑नम॒पश्च॑ पृथि॒वीम॑ग्ने। शेषे॑ मा॒तुर्यथो॒पस्थे॒ऽन्तर॑स्याँ शि॒वत॑मः ॥३९ ॥
मूलम् ...{Loading}...
पुन॑रा॒सद्य॒ सद॑नम॒पश्च॑ पृथि॒वीम॑ग्ने। शेषे॑ मा॒तुर्यथो॒पस्थे॒ऽन्तर॑स्याँ शि॒वत॑मः ॥३९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पुनः॑। आ॒सद्येत्या॒ऽसद्य॑। सद॑नम्। अ॒पः। च॒। पृ॒थि॒वीम्। अ॒ग्ने॒। शेषे॑। मा॒तुः। यथा॑। उ॒पस्थ॒ इत्यु॒पऽस्थे॑। अ॒न्तः। अ॒स्या॒म्। शि॒वत॑म॒ इति॑ शि॒वऽत॑मः। ३९।
महीधरः
म० हे अग्ने, अपश्च पृथिवीं च सदनमासद्य जलभूमिरूपं स्थानं प्राप्य पुनरपि अस्यामुखायामन्तर्मध्ये त्वं शेषे स्वपिषि मातुरुपस्थे उत्सङ्गे यथा शिशुः शेते । किंभूतस्त्वम् । शिवतमः कल्याणतमः ॥ ३९ ॥
चत्वारिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- विरूप ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब माता-पिता और पुत्र आपस में कैसे वर्त्तें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) ! इच्छा आदि गुणों से प्रकाशित जन ! जिस कारण तू (अपः) जलों (च) और (पृथिवीम्) भूमितल के (सदनम्) स्थान को (पुनः) फिर-फिर (आसद्य) प्राप्त होके (अस्याम्) इस माता के (अन्तः) गर्भाशय में (शिवतमः) मङ्गलकारी होके (यथा) जैसे (मातुः) माता की (उपस्थे) गोद में (शेषे) सोता है, वैसे ही माता की सेवा में मङ्गलकारी हो ॥३९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - पुत्रों को चाहिये कि जैसे माता अपने पुत्रों को सुख देती है, वैसे ही अनुकूल सेवा से अपनी माताओं को निरन्तर आनन्दित करें और माता-पिता के साथ विरोध कभी न करें और माता-पिता को भी चाहिये कि अपने पुत्रों को अधर्म और कुशिक्षा से युक्त कभी न करें ॥३९ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ मातापित्रपत्यानि परस्परं कथं वर्त्तेरन्नित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! यतस्त्वमपः पृथिवीं च सदनं पुनरासद्यास्यामन्तः शिवतमः सन् यथा बालो मातुरुपस्थे शेषे तस्मादस्यां शिवतमो भव ॥३९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - पुत्रैर्यथा मातरः स्वापत्यानि सुखयन्ति, तथैवानुकूलया सेवया स्वमातरः सततमानन्दयितव्याः। न कदाचिन्मातापितृभ्यां विरोधः समाचरणीयः, न च मातापितृभ्यामेतेऽधर्मकुशिक्षायुक्ताः कदाचित् कार्य्याः ॥३९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्याप्रमाणे माता आपल्या पुत्रांना सुख देते त्याप्रमाणेच पुत्रांनी त्यांच्या अनुकूल सेवा करून आपल्या मातांना सदैव आनंदित करावे. माता व पिता यांना कधी विरोध करू नये, तसेच माता आणि पिता यांनीही आपल्या पुत्रांना अधर्माचे वाईट शिक्षण कधीही देऊ नये.
४० पुनरूर्जा निवर्त्तस्व
विश्वास-प्रस्तुतिः ...{Loading}...
पुन॑रू॒र्जा निव॑र्त्तस्व॒ पुन॑रग्नऽइ॒षायु॑षा। पुन॑र्नः पा॒ह्यँह॑सः ॥४० ॥
मूलम् ...{Loading}...
पुन॑रू॒र्जा निव॑र्त्तस्व॒ पुन॑रग्नऽइ॒षायु॑षा। पुन॑र्नः पा॒ह्यँह॑सः ॥४० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पुनः॑। ऊ॒र्जा। नि। व॒र्त्त॒स्व॒। पुनः॑। अ॒ग्ने॒। इ॒षा। आयु॑षा। पुनः॑। नः॒। पा॒हि॒। अँह॑सः। ४०।
महीधरः
म०. द्वे व्याख्याते (क० ९) ॥४०॥ (क० १०) ॥४१॥
एकचत्वारिंशी।
द्विचत्वारिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- विरूप ऋषिः
- निचृदार्षी
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर पुत्रों को माता-पिता के विषय में परस्पर योग्य वर्त्ताव करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) तेजस्विन् माता-पिता ! आप (इषायुषा) अन्न और जीवन के साथ (नः) हम लोगों को बढ़ाइये (पुनः) बार-बार (अंहसः) दुष्ट आचरणों से (पाहि) रक्षा कीजिये। हे पुत्र ! तू (ऊर्जा) पराक्रम के साथ पापों से (निवर्त्तस्व) अलग हूजिये और (पुनः) फिर हम लोगों को भी पापों से पृथक् रखिये ॥४० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे विद्वान् माता-पिता अपने सन्तानों को विद्या और अच्छी शिक्षा से दुष्टाचारों से पृथक् रक्खें, वैसे ही सन्तानों को भी चाहिये कि इन माता-पिताओं को बुरे व्यवहार से निरन्तर बचावें, क्योंकि इस प्रकार किये विना सब मनुष्य धर्मात्मा नहीं हो सकते ॥४० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः पुत्रैर्जनकजननीभ्यां परस्परं वर्त्तमानं योग्यं कार्य्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने मातः पितश्च ! त्वमिषायुषा सह नो वर्धय पुनरंहसः पाहि। हे पुत्र ! त्वमूर्जा सह निवर्त्तस्व। पुनर्नोऽस्मानंहसः पाहि ॥४० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यथा विद्वांसो मातापितरः सुसन्तानान् विद्यया सुशिक्षया दुष्टाचारात् पृथग् रक्षेयुस्तथाऽपत्यान्यप्येतान् पापाचरणात् सततं पृथग् रक्षेयुः। नैवं विना सर्वे धर्मचारिणो भवितुं शक्नुवन्ति ॥४० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जसे विद्वान माता-पिता आपल्या संतानांना विद्या व चांगले शिक्षण देऊन दुष्ट आचरणापासून दूर ठेवतात तसे संतानांनीही माता व पिता यांना वाईट व्यवहारापासून परावृत्त करावे. कारण याशिवाय सर्व माणसे धर्मात्मा बनत नाहीत.
४१ सह रय्या
विश्वास-प्रस्तुतिः ...{Loading}...
स॒ह र॒य्या निव॑र्त्त॒स्वाग्ने॒ पिन्व॑स्व॒ धा॑रया। वि॒श्वप्स्न्या॑ वि॒श्वत॒स्परि॑ ॥४१ ॥
मूलम् ...{Loading}...
स॒ह र॒य्या निव॑र्त्त॒स्वाग्ने॒ पिन्व॑स्व॒ धा॑रया। वि॒श्वप्स्न्या॑ वि॒श्वत॒स्परि॑ ॥४१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स॒ह। र॒य्या। नि। व॒र्त्त॒स्व॒। अग्ने॑। पिन्व॑स्व। धा॑रया। वि॒श्वप्स्न्येति॑ वि॒श्वऽप्स्न्या॑। वि॒श्वतः॑। परि॑। ४१।
महीधरः
म० ‘प्रास्योखायामुपतिष्ठते बोधा म इति’ ( का० १६ । ६ । ३०)। तडागादागत्यानामिकया गृहीतं भस्म तूष्णीमुखायां प्रास्य बोधा म इति द्व्यृचेनोख्याग्निमुपतिष्ठते । दीर्घतमोदृष्टाग्नेयी त्रिष्टुप् । स्वधान्नमस्यास्तीति स्वधावान् तत्संबोधने स्वधावः । ‘मतुवसो रुः संबुद्धौ छन्दसि’ (पा० ८ । ३।१) इति रुत्वम् । हे अन्नवन् , हे यविष्ठ युवतम अग्ने, मे मम वचसो बोध बुध्यस्व अभिप्रायमिति शेषः । यद्वा कर्मणि षष्ठी । मद्वचनं जानीहीत्यर्थः । किंभूतस्य । भूयिष्ठस्य वचसः मंहिष्ठस्य भूयिष्ठस्य अतिशयेन बहु मंहिष्ठं तस्य । तथा प्रभृतस्य प्रहृतस्य श्रोत्रपथं प्रापितस्य आदरोक्तस्येत्यर्थः । किंच त्वशब्द एकशब्दार्थः सर्वादिः । पीयतिराक्रोशतिकर्मा । हे अग्ने, त्वः एकः पुरुषः पीयति आक्रोशति निन्दति त्वः एकः त्वामनुगृणाति त्वां स्तौति । कश्चित्स्तौति कश्चिन्निन्दतीति लोकस्वभावः । एवं सति हे अग्ने, अहं तु ते तव तन्वं तनूं शरीरं वन्दे स्तौमि नमामि च । ‘वदि अभिवादनस्तुत्योः । कीदृशोऽहम् । वन्दारुः वन्दनशीलः ‘शॄवन्द्योरारुः’ (पा० ३ । २ । १७३) इति आरुप्रत्ययः शीलार्थः ॥ ४२ ॥
त्रिचत्वारिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- विरूप ऋषिः
- निचृद गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
विद्वानों को कैसे वर्त्तना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्वन् पुरुष ! आप (विश्वप्स्न्या) सब पदार्थों के भोगने का साधन (रय्या) लक्ष्मी को प्राप्त करानेवाली (धारया) अच्छी संस्कृत वाणी के (सह) साथ (विश्वतस्परि) सब संसार के बीच (नि) निरन्तर (वर्त्तस्व) वर्त्तमान हूजिये और हम लोगों का (पिन्वस्व) सेवन कीजिये ॥४१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्वान् मनुष्यों को चाहिये कि इस जगत् में अच्छी बुद्धि और पुरुषार्थ के साथ श्रीमान् होकर अन्य मनुष्यों को भी धनवान् करें ॥४१ ॥
दयानन्द-सरस्वती (सं) - विषयः
विद्वद्भिः कथं वर्तितव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! त्वं विश्वप्स्न्या रय्या धारया सह विश्वतस्परि निवर्त्तस्वास्मान् पिन्वस्व च ॥४१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - विद्वद्भिर्मनुष्यैरस्मिन् जगति सुबुद्ध्या पुरुषार्थेन श्रीमन्तो भूत्वाऽन्येऽपि धनवन्तः सम्पादनीयाः ॥४१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - विद्वान माणसांनी या जगात चांगली बुद्धी व पुरुषार्थ या योगे श्रीमान (धनवान) बनून इतर माणसांनाही धनवान बनवावे.
४२ बोधा मेऽअस्य
विश्वास-प्रस्तुतिः ...{Loading}...
बोधा॑ मेऽअ॒स्य वच॑सो यविष्ठ॒ मँहि॑ष्ठस्य॒ प्रभृ॑तस्य स्वधावः। पीय॑ति त्वो॒ऽअनु॑ त्वो गृणाति व॒न्दारु॑ष्टे त॒न्वं᳖ वन्देऽअग्ने ॥४२ ॥
मूलम् ...{Loading}...
बोधा॑ मेऽअ॒स्य वच॑सो यविष्ठ॒ मँहि॑ष्ठस्य॒ प्रभृ॑तस्य स्वधावः। पीय॑ति त्वो॒ऽअनु॑ त्वो गृणाति व॒न्दारु॑ष्टे त॒न्वं᳖ वन्देऽअग्ने ॥४२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
बोध॑। मे॒। अ॒स्य। वच॑सः। य॒वि॒ष्ठ॒। मँहि॑ष्ठस्य। प्रभृ॑त॒स्येति॒ प्रऽभृ॑तस्य। स्व॒धा॒व॒ इति॑ स्वधाऽवः। पीय॑ति। त्वः॒। अनु॑। त्वः॒। गृ॒णा॒ति॒। व॒न्दारुः॑। ते॒। त॒न्व᳖म्। व॒न्दे॒। अ॒ग्ने॒। ४२।
महीधरः
म० सोमाहुतिदृष्टाग्नेयी यजुरन्ता गायत्री । विश्वकर्मणे स्वाहेति यजुः । हे वसुपते धनपते, हे वसुदावन् , वसु ददातीति वसुदावा । ‘आतो मनिन्-’ (पा० ३।२। ७४) इति क्वनिप् तत्संबुद्धौ हे वसुदावन् धनस्य दातः, स त्वं बोधि अस्मदभिप्रायं बुध्यस्व । बुध्यतेः शपि लुप्ते ‘हुझल्भ्यो हेर्धिः’ (पा० ६।४ । १०१) इति धिः गुणान्त्यलोपो छान्दसौ । कीदृशस्त्वम् । सूरिः विद्वान् मघवा धनवान् मघं धनमस्यास्तीति । संतुष्टः सन् द्वेषांसि दौर्भाग्यानि अस्मद्युयोधि अस्मत्तः पृथक्कुरु । ‘प्रायश्चित्तिᳪं᳭ समिधोऽपहत्याज्यं विश्वकर्मण इति जुहोति’ ( का० १६ । ७ । १)। स्रुवस्थानीयया समिधा घृतमादायोख्येऽग्नौ जुहोति तत्कर्मणः प्रायश्चित्तिरिति संज्ञेति सूत्रार्थः । यजुः । जगत्सष्टिस्थित्यादिकर्मकर्त्रे तुभ्यं स्वाहा सुहुतमस्तु ॥ ४३ ॥
चतुश्चत्वारिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- दीर्घतमा ऋषिः
- विराडार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्य लोग आपस में कैसे पढ़ें और पढ़ावें, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (यविष्ठ) अत्यन्त जवान (स्वधावः) प्रशंसित बहुत अन्नोंवाले (अग्ने) उपदेश के योग्य श्रोता जन ! तू (मे) मेरे (प्रभृतस्य) अच्छे प्रकार से धारण वा पोषण करनेवाले (मंहिष्ठस्य) अत्यन्त कहने योग्य (अस्य) इस (वचसः) वचन के अभिप्राय को (बोध) जान, जो (त्वः) यह निन्दक पुरुष (पीयति) निन्दा करे, (त्वः) कोई (अनु) परोक्ष में (गृणाति) स्तुति करे, उस (ते) आप के (तन्वम्) शरीर को (वन्दारुः) अभिवादनशील मैं (वन्दे) स्तुति करता हूँ ॥४२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जब कोई किसी को पढ़ावे वा उपदेश करे, तब पढ़नेवाला ध्यान देकर पढ़े वा सुने। जब सत्य वा मिथ्या का निश्चय हो जावे, तब सत्य का ग्रहण और असत्य का त्याग कर देवे। ऐसे करने में कोई निन्दा और स्तुति करे तो भी सत्य को कभी न छोड़े और मिथ्या का ग्रहण कभी न करे। यही मनुष्यों के लिये विशेष गुण है ॥४२ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्याः परस्परमध्ययनाध्यापनं कथं कुर्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे यविष्ठ स्वधावोऽग्ने ! त्वं मे मम प्रभृतस्य मंहिष्ठस्यास्य वचसोऽभिप्रायं बोध। यदि त्वो यं त्वां पीयति निन्देत् त्वोऽनुगृणाति स्तुयात् यस्य ते तव तन्वं वन्दारुरहं वन्दे ॥४२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदा कश्चित् कंचिदध्यापयेदुपदिशेद् वा तदाऽध्येता श्रोता च ध्यानं दत्त्वाऽधीयीत शृणुयाच्च, यदा सत्यासत्ययोर्निर्णयः स्यात्, तदा सत्यं गृह्णीयादसत्यं त्यजेद्, एवं कृते सति कश्चिन्निन्द्यात् कश्चित् स्तुयात्, तर्ह्यपि कदाचित् सत्यं न त्यजेदनृतं च न भजेदिदमेव मनुष्यस्यासाधारणो गुणः ॥४२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - एखाद्याला जर कुणी शिकविणारा किंवा उपदेश करणारा मिळाला तर शिकणाऱ्याने लक्षपूर्वक ऐकावे व शिकावे. जर सत्य किंवा असत्य निश्चितपणे कळले तर त्या वेळी सत्य ग्रहण करून असत्याचा त्याग करावा. असे करताना कोणी निंदा किंवा स्तुती केली तरीही सत्य कधी सोडू नये व असत्याचे ग्रहण कधीही करू नये. हेच माणसाचे वैशिष्ट्य होय.
४३ स बोधि
विश्वास-प्रस्तुतिः ...{Loading}...
स बो॑धि सू॒रिर्म॒घवा॒ वसु॑पते॒ वसु॑दावन्। यु॒यो॒ध्य᳙स्मद् द्वेषाँ॑सि वि॒श्वक॑र्मणे॒ स्वाहा॑ ॥४३ ॥
मूलम् ...{Loading}...
स बो॑धि सू॒रिर्म॒घवा॒ वसु॑पते॒ वसु॑दावन्। यु॒यो॒ध्य᳙स्मद् द्वेषाँ॑सि वि॒श्वक॑र्मणे॒ स्वाहा॑ ॥४३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सः। बो॒धि॒। सू॒रिः। म॒घवेति॑ म॒घऽवा॑। वसु॑पत॒ इति॒ वसु॑ऽपते। वसु॑दाव॒न्निति॒ वसु॑ऽदावन्। यु॒यो॒धि। अ॒स्मत्। द्वेषाँ॑सि। वि॒श्वक॑र्मण॒ इति॑ वि॒श्वऽक॑र्मणे। स्वाहा॑। ४३।
महीधरः
म० ‘उत्थायादधाति समिधं पुनस्त्वेति’ ( का० १६ । ७ । २) । घृतहोमानन्तरमुत्थाय तामेव समिधमुख्येऽग्नावादधाति । आग्नेयी त्रिष्टुप् । आद्यपादश्चतुर्दशार्णस्तृतीयो दशकस्तेन द्व्यधिका । हे अग्ने, आदित्याः रुद्राः वसवश्च त्वा त्वां पुनः समिन्धतामुपशान्तं दीपयन्तु । हे वसुनीथ, वसु धनं तनिमित्ता नीथा स्तुतिर्यस्य । यद्वा वसूनि नयतीति वसुनीथः तत्संबुद्धौ हे धननेतः, ब्रह्माणः ब्राह्मणा ऋत्विग्यजमाना यज्ञैः कृत्वा त्वां पुनः समिन्धतां त्वं च तन्वं स्वशरीरं घृतेनास्मद्दत्तेन वर्धयस्व । त्वयि वृद्धे सति यजमानस्य कामाः सत्याः सन्तु ॥ ४४ ॥
पञ्चचत्वारिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- सोमाहुतिर्ऋषिः
- आर्ची पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्य लोग क्या करके किस को प्राप्त हों, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (वसुपते) धनों के पालक (वसुदावन्) सुपुत्रों के लिये धन देनेवाले जो (मघवा) प्रशंसित विद्या से युक्त (सूरिः) बुद्धिमान् आप सत्य को (बोधि) जानें, (सः) सो आप (विश्वकर्म्मणे) सम्पूर्ण शुभ कर्मों के अनुष्ठान के लिये (स्वाहा) सत्य वाणी का उपदेश करते हुए आप (अस्मत्) हमसे (द्वेषांसि) द्वेषयुक्त कर्मों से (युयोधि) पृथक् कीजिये ॥४३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य ब्रह्मचर्य्य के साथ जितेन्द्रिय हो, द्वेष को छोड़, धर्मानुसार उपदेश कर और सुन के प्रयत्न करते हैं, वे ही धर्मात्मा विद्वान् लोग सम्पूर्ण सत्य-असत्य के जानने और उपदेश करने के योग्य होते हैं, और अन्य हठ अभिमान युक्त क्षुद्र पुरुष नहीं ॥४३ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्याः किं कृत्वा किं प्राप्नुयुरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे वसुपते वसुदावन् ! यो मघवा सूरिर्भवान् सत्यं बोधि, स विश्वकर्मणे स्वाहा सत्यवाणीमुपदिशन् संस्त्वमस्मद् द्वेषांसि वियुयोधि सततं दूरीकुरु ॥४३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्याः ! ब्रह्मचर्य्येण जितेन्द्रिया भूत्वा द्वेषं विहाय धर्मेणोपदिश्य श्रुत्वा च प्रयतन्ते, त एव धार्मिका विद्वांसोऽखिलं सत्यासत्यं ज्ञातुमुपदेष्टुं चार्हन्ति, नेतरे हठाभिमानयुक्ताः क्षुद्राशयाः ॥४३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे ब्रह्मचर्य पाळून जितेंद्रिय बनतात व द्वेष सोडून देतात व धर्मानुसार उपदेश करून ऐकून तसे वर्तन करण्याचा प्रयत्न करतात. ते धर्मात्मा व विद्वान बनून संपूर्ण सत्य व असत्य जाणून त्याचा उपदेश करतात. इतर हटवादी अभिमानी क्षुद्र पुरुष तसे नसतात.
४४ पुनस्त्वादित्या रुद्रा
विश्वास-प्रस्तुतिः ...{Loading}...
पुन॑स्त्वादि॒त्या रु॒द्रा वस॑वः॒ समि॑न्धतां॒ पुन॑र्ब्र॒ह्माणो॑ वसुनीथ य॒ज्ञैः। घृ॒तेन॒ त्वं त॒न्वं᳖ वर्धयस्व स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः॑ ॥४४ ॥
मूलम् ...{Loading}...
पुन॑स्त्वादि॒त्या रु॒द्रा वस॑वः॒ समि॑न्धतां॒ पुन॑र्ब्र॒ह्माणो॑ वसुनीथ य॒ज्ञैः। घृ॒तेन॒ त्वं त॒न्वं᳖ वर्धयस्व स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः॑ ॥४४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पुन॒रिति॒ पुनः॑। त्वा॒। आ॒दि॒त्याः। रु॒द्राः। वस॑वः। सम्। इ॒न्ध॒ता॒म्। पुनः॑। ब्र॒ह्माणः॑। व॒सु॒नी॒थेति॑ वसुऽनीथ। य॒ज्ञैः। घृ॒तेन॑। त्वम्। त॒न्व᳖म्। व॒र्ध॒य॒स्व॒। स॒त्याः। स॒न्तु। यज॑मानस्य। कामाः॑। ४४।
महीधरः
म० ‘अथ गार्हपत्यचयनमुच्यते । पलाशशाखया गार्हपत्यं व्युदूहत्यपेत वीतेति पुच्छः प्रतिदिशं पुरस्तात् प्रथमम् | ( का० १७ । १।३) । अत्र भाविन्यावृत्त्या शालाद्वार्यो गाईपत्यशब्देनोच्यते तदर्था चितिश्चितेः स्थानमपि गार्हपत्य एव । पलाशशाखया गार्हपत्यचितेः स्थानं व्युदूहति । ऊहिरत्र प्रेरणे । तत्र पतितं तृणादिकं स्थानाद्बहिः क्षिपतीत्यर्थः । अपेत वीति ऋचः पुच्छः पदैः प्रतिदिशमादौ प्राच्यामपेत वीति येऽत्र स्थेति दक्षिणे अदादिति पश्चादक्रन्नित्युत्तरे इति सूत्रार्थः । लिङ्गोक्तबहुदेवत्या त्रिष्टुप् । अर्धर्चेन तत्स्थानसर्पिण उच्यन्ते पादेन यमः पादेन पितरः । यमस्य सर्वभूम्यधिपतित्वात्तद्भृत्याः सर्वत्र चरन्ति तान्प्रत्युच्यते । हे यमभृत्याः, ये पुराणाः चिरन्तना ये च नूतनाः इदानीन्तनाः यूयमत्र स्थाने स्थ भवथ ते सर्वे यूयमतः स्थानादपेत अपगच्छत वीत विगच्छत अतिदूरं गच्छत विसर्पत च । अतः स्थानादपेत्य सङ्घातं विहाय विविधं गच्छत । कस्माद्वयमपसर्पामेत्यत आह । अवस्यति स्थापयत्यस्मिन्निति अवसानं पृथिव्या अवसानं स्थानमिदं यमो देवोऽस्मै यजमानायादाद्दत्तवान् । पितरश्चेमं लोकं स्थानमस्मै यजमानायाक्रन्कृतवन्तः । करोतेः शपि लुप्ते लङि रूपम् । यमेन पितृभिश्च एतच्चयनस्थानस्य यजमानाय दत्तत्वाद्यूयमपसर्पतेत्यर्थः ॥ ४५ ॥
षट्चत्वारिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- सोमाहुतिर्ऋषिः
- स्वराडार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
कैसे मनुष्यों के संकल्प सिद्ध होते हैं, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (वसुनीथ) वेदादि शास्त्रों के बोधरूप और सुवर्णादि धन प्राप्त करानेवाले (त्वम्) आप (यज्ञैः) पढ़ने-पढ़ाने आदि क्रियारूप यज्ञों और (घृतेन) अच्छे संस्कार किये हुए घी आदि वा जल से (तन्वम्) शरीर को नित्य (वर्धयस्व) बढ़ाइये। (पुनः) पढ़ने-पढ़ाने के पीछे (त्वा) आप को (आदित्याः) पूर्ण विद्या के बल से युक्त (रुद्राः) मध्यस्थ विद्वान् और (वसवः) प्रथम विद्वान् लोग (ब्रह्माणः) चार वेदों को पढ़ के ब्रह्मा की पदवी को प्राप्त हुए विद्वान् (समिन्धताम्) सम्यक् प्रकाशित करें। इस प्रकार के अनुष्ठान से (यजमानस्य) यज्ञ, सत्सङ्ग और विद्वानों का सत्कार करनेवाले पुरुष की (कामाः) कामना (सत्याः) सत्य (सन्तु) होवें ॥४४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य प्रयत्न के साथ सब विद्याओं को पढ़ के और पढ़ा के बारंबार सत्सङ्ग करते हैं, कुपथ्य और विषय के त्याग से शरीर तथा आत्मा के आरोग्य बढ़ा के नित्य पुरुषार्थ का अनुष्ठान करते हैं, उन्ही के संकल्प सत्य होते हैं, दूसरों के नहीं ॥४४ ॥
दयानन्द-सरस्वती (सं) - विषयः
कीदृशा मनुष्याः सत्यसङ्कल्पा भवन्तीत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे वसुनीथ त्वं यज्ञैर्घृतेन च तन्वं शरीरं नित्यं वर्धयस्व, पुनस्त्वा त्वामादित्या रुद्रा वसवो ब्रह्माणः समिन्धताम्। एवमनुष्ठानाद् यजमानस्य कामाः सत्याः सन्तु ॥४४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये प्रयत्नेन सर्वा विद्या अधीत्याध्याप्य च पुनः पुनः सत्सङ्गं कुर्वन्ति, कुपथ्यविषयत्यागेन शरीरात्मनोरारोग्यं वर्धयित्वा नित्यं पुरुषार्थमनुतिष्ठन्ति, तेषामेव संकल्पाः सत्या भवन्ति, नेतरेषाम् ॥४४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे प्रयत्नपूर्वक सर्व विद्यांचे अध्ययन व अध्यापन करून वारंवार सत्संग करतात. कुपथ्य व विषय यांचा त्याग करून शरीर व आत्मा यांचे रोग दूर करून सदैव पुरुषार्थ करतात, त्यांचेच संकल्प खरे होतात, इतरांचे होत नाहीत.
४५ अपेत वीत
विश्वास-प्रस्तुतिः ...{Loading}...
अपे॑त॒ वी᳖त॒ वि च॑ सर्प॒तातो॒ येऽत्र॒स्थ पु॑रा॒णा ये च॒ नूत॑नाः। अदा॑द्य॒मो᳖ऽव॒सानं॑ पृथि॒व्याऽअक्र॑न्नि॒मं पि॒तरो॑ लो॒कम॑स्मै ॥४५ ॥
मूलम् ...{Loading}...
अपे॑त॒ वी᳖त॒ वि च॑ सर्प॒तातो॒ येऽत्र॒स्थ पु॑रा॒णा ये च॒ नूत॑नाः। अदा॑द्य॒मो᳖ऽव॒सानं॑ पृथि॒व्याऽअक्र॑न्नि॒मं पि॒तरो॑ लो॒कम॑स्मै ॥४५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अप॑। इ॒त॒। वि। इ॒त॒। वि। च॒। स॒र्प॒त॒। अतः॑। ये। अत्र॑। स्थ। पु॒रा॒णाः। ये। च॒। नूत॑नाः। अदा॑त्। य॒मः। अ॒व॒सान॒मित्य॑व॒ऽसान॑म्। पृ॒थि॒व्याः। अक्र॑न्। इ॒मम्। पि॒तरः॑। लो॒कम्। अ॒स्मै॒। ४५।
महीधरः
म० ‘उदीचीᳪं᳭ शाखामुदस्योखां निवपति संज्ञानमिति’ (का० १७ । १ । ४)। यया व्युदूहनं कृतं तां शाखामुदक् क्षिप्ता गार्हपत्यचितिस्थाने क्षारमृदो निदधाति । ऊषदेवत्यं यजुः । हे ऊषस्वरूप, त्वं संज्ञानमसि पशूनां सम्यक् ज्ञानसाधनमसि । पशवो हि ऊषदेशं घ्रात्वा लिहन्ति । तथा कामधरणं कामान्मनोरथान्धरति संपादयतीति कामधरणं यज्ञद्वारा कामसंपादकत्वात् । अतस्ते तव कामधरणं कामसंपादनसामर्थ्यं मयि भूयात् अस्तु । यद्वा श्रुत्यनुसारेण व्याख्यानम् । ते तव कामधरणं पशवः मयि भूयात् भूयासुः । यतस्त्वं कामधरणं पशुरूपं संज्ञानं सम्यक् ज्ञापकमसि उल्बसंभवात् । ‘पशवो वा ऊषाः पशवः कामधरणं मयि ते पशवो भूयासुः’ (७।१।१।८) इति श्रुतेः उल्बाभिप्रायमेकवचन- मुल्बस्योषोत्पन्नत्वात् । ‘सिकताश्चाग्नेर्भस्मेत्यूषवत्’ ( का. १७ । १ । ६) । ऊषवत्सिकता निवपति । सिकतादेवत्यं यजुः । हे सिकतास्वरूप, त्वमग्नेर्भस्म भासकमसि सिकतास्थोऽग्निरत्युग्रो भवति । अग्नेश्च पुरीषं पूरणमसि पूरयतीति पुरीषम् । पिपर्तेरीषक्प्रत्यये औणादिके ‘उदोष्ठ्यपूर्वस्य’ (पा० ७ । १। १०२) इत्युदादेशः । भस्माभिप्रायमेकवचनम् । न वा अग्निः स्वं भस्मातिदहति । ‘अग्नेरेतद्वैश्वानरस्य रेतो यत्सिकताः’ (७।१।१।९-१० ) इति च श्रुतिः । ‘परिश्रिद्भिः परिश्रयति पूर्ववदेकविᳪं᳭शत्या चितः स्थेति’ ( का० १७।१।७) | एकविंशतिपरिश्रिद्भिर्गार्हपत्यस्थानं वेष्टयति पूर्ववदिति प्रदक्षिणमूर्ध्वास्ताः खननीया इति । परिश्रिद्देवत्यं यजुः । हे परिश्रितः शर्कराः । यूयं चितः स्थ चीयन्ते भूमौ प्रक्षिप्यन्ते इति चितः भूमौ क्षिप्ता भवथ । परिचितः स्थ परितः सर्वतः स्थापिता भवथ । ऊर्ध्वं चीयन्त इति ऊर्ध्वचितः ऊर्ध्वं स्थापिताः सत्यो यूयं श्रयध्वमिदं गार्हपत्यायतनं सेवध्वम् ॥ ४६ ॥
सप्तचत्वारिंशी।
अधिमन्त्रम् (VC)
- पितरो देवताः
- सोमाहुतिर्ऋषिः
- निचृदार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
सन्तान और पिता-माता परस्पर किन-किन कर्मों का आचरण करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् लोगो ! जो (ये) जो (अत्र) इस समय (पृथिव्याः) भूमि के बीच वर्त्तमान (पुराणाः) प्रथम विद्या पढ़ चुके (च) और (ये) जो (नूतनाः) वर्त्तमान समय में विद्याभ्यास करने हारे (पितरः) पिता=पढ़ाने, उपदेश करने और परीक्षा करनेवाले (स्थ) होवें, वे (अस्मै) इस सत्यसंकल्पी मनुष्य के लिये (इमम्) इस (लोकम्) वैदिक ज्ञान सिद्ध लोक को (अक्रन्) सिद्ध करें। जिन तुम लोगों को (यमः) प्राप्त हुआ परीक्षक पुरुष (अवसानम्) अवकाश वा अधिकार को (अदात्) देवे, वे तुम लोग (अतः) इस अधर्म से (अपेत) पृथक् रहो और धर्म्म को (वीत) विशेष कर प्राप्त होओ (अत्र) और इसी में (विसर्पत) विशेषता से गमन करो ॥४५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - माता-पिता और आचार्य्य का यही परम धर्म है−जो सन्तानों के लिये विद्या और अच्छी शिक्षा को प्राप्त कराना। जो अधर्म से पृथक् और धर्म्म से युक्त परोपकार में प्रीति रखनेवाले वृद्ध और जवान विद्वान् लोग हैं, वे निरन्तर सत्य उपदेश से अविद्या का निवारण और विद्या की प्रवृत्ति करके कृतकृत्य होवें ॥४५ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ जन्यजनकाः किं किं कर्माचरेयुरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वांसः येऽत्र पृथिव्या मध्ये पुराणा ये च नूतनाः पितरः स्थ, तेऽस्मै इमं लोकमक्रन्। यान् युष्मान् यमोऽवसानमदात्, ते यूयमतोऽधर्मादपेत धर्म्मं वीतात्रैव च विसर्पत ॥४५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अयमेव मातापित्राचार्याणां परमो धर्मोऽस्ति यत्सन्तानेभ्यो विद्यासुशिक्षाप्राप्तिकारणं येऽधर्मान्मुक्ता धर्मेण युक्ताः परोपकारप्रिया वृद्धा युवानश्च विद्वांसः सन्ति, ते सततं सत्योपदेशेनाविद्यां निवर्त्य विद्यां जनयित्वा कृतकृत्या भवन्तु ॥४५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माता-पिता व आचार्य यांचा खरा धर्म हाच आहे, की संतानांना विद्या व चांगले शिक्षण द्यावे. अधर्मापासून दूर असणाऱ्या व परोपकाराची आवड असणाऱ्या तरुण व वृद्ध विद्वान लोकांनी सदैव सत्याचा उपदेश करावा व अविद्या नष्ट करून विद्या प्राप्त करण्याकडे कल ठेवावा आणि कृतकृत्य व्हावे.
४६ सञ्ज्ञानमसि कामधरणम्
विश्वास-प्रस्तुतिः ...{Loading}...
सं॒ज्ञान॑मसि काम॒ध॑रणं॒ मयि॑ ते काम॒धर॑णं भूयात्। अ॒ग्नेर्भस्मा॑स्य॒ग्नेः पुरी॑षमसि॒ चित॑ स्थ परि॒चित॑ऽऊर्ध्व॒चितः॑ श्रयध्वम् ॥४६ ॥
मूलम् ...{Loading}...
सं॒ज्ञान॑मसि काम॒ध॑रणं॒ मयि॑ ते काम॒धर॑णं भूयात्। अ॒ग्नेर्भस्मा॑स्य॒ग्नेः पुरी॑षमसि॒ चित॑ स्थ परि॒चित॑ऽऊर्ध्व॒चितः॑ श्रयध्वम् ॥४६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सं॒ज्ञान॒मिति॑ स॒म्ऽज्ञान॑म्। अ॒सि॒। का॒म॒धर॑ण॒मिति॑ काम॒ऽधर॑णम्। मयि॑। ते॒। का॒म॒धर॑ण॒मिति॑ काम॒ऽधर॑णम्। भू॒या॒त्। अ॒ग्नेः। भस्म॑। अ॒सि॒। अ॒ग्नेः। पुरी॑षम्। अ॒सि॒। चितः॑। स्थ॒। प॒रि॒चित॒ इति॑ परि॒ऽचितः॑। ऊ॒र्ध्व॒चित॒ इत्यू॑र्ध्व॒ऽचितः॑। श्र॒य॒ध्व॒म्। ४६।
महीधरः
म० ‘मध्येऽऽर्धबृहतीश्चतस्रो दक्षिणोत्तराः प्राचीरुपदधाति | दक्षिणत उदङ्ङयᳪं᳭ सो अग्निरिति प्रत्यृचम्’ ( का० १७।१। ८) । ततोऽध्वर्युर्मण्डलाद्दक्षिणे उदङ्मुख उपविश्य मध्ये चतस्रोऽर्धबृहतीसंज्ञा इष्टकाः प्राचीः प्राग्लक्षणा दक्षिणोत्तरपंक्त्योत्तरमारभ्योपदधाति अभ्यात्मं चयनमित्युक्तेः । ऋक्चतुष्केणैकैकाम् । हस्तदीर्घास्तदर्धायामाः पद्या लोकद्वयव्यापिन्य इष्टका अर्धबृहत्य उच्यन्त इति सूत्रार्थः । पञ्च ऋचो विश्वामित्रदृष्टा आग्नेय्यस्त्रिष्टुभश्चतुर्थ्यनुष्टुप् । इष्टकोपघातं कुर्वन्नभिनयेन दर्शयति । अयं गार्हपत्यः सः अग्निरिष्टकाभिश्चीयत इति शेषः । यस्मिन्नग्नौ चिते सति इन्द्रः सुतमभिषुतं सोमं जठरे स्वोदरे दधे धारयति । वर्तमाने लिट् । किंभूत इन्द्रः । वावशानः वष्टीति वावशानः ‘बहुलं छन्दसि’ (पा० २ । ४ । ७६) इति शपः श्लौ सति द्वित्वेऽभ्यासदीर्घे शानचि रूपम् । कामयमानः । कीदृशं सोमम् । सहस्रियं सहस्रार्हम् । वाजमन्नं बहूनां तृप्तिकरमित्यर्थः । अत्यं न । नकारः संप्रत्यर्थः । भक्षणादेव मदकरम् । सप्तिं शरणं तृप्तिकरम् । अग्नौ चितेन केवलमिन्द्र एव सोमं जठरे धत्ते किंतु हे जातवेदः, जातं वेदो धनं यस्मात् हे अग्ने, त्वमपि ससवान् हवींषि संभजमानः सन् ऋत्विग्यजमानैः स्तूयसे ‘षण संभक्तो’ क्वसुप्रत्ययः । उत्तरार्धस्यायं वार्थः । हे जातवेदः, सप्तिं शरणं गमनकुशलमत्यं न अश्वमिव सहस्रियं सहस्रसंख्याकेन धनेन संमितं वाजमन्नं ससवान्दत्तवान्सन् यजमानैस्त्वं स्तूयसे ‘सहस्रेण संमितौ घः’ (पा० ४ । ४ । १३५) इति घप्रत्ययः । ‘षणु दाने’ क्वसुः ससवान् ॥ ४७ ॥
अष्टचत्वारिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- सोमाहुतिर्ऋषिः
- भुरिगार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
पढ़ने-पढ़ानेवाले क्या करके सुखी हों, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! आप जिस (संज्ञानम्) पूरे विज्ञान को प्राप्त (असि) हुए हो, जो आप (अग्नेः) अग्नि से हुई (भस्म) राख के समान दोषों के भस्मकर्त्ता (असि) हो, (अग्नेः) बिजुली के जिस (पुरीषम्) पूर्ण बल को प्राप्त हुए (असि) हो, उस विज्ञान, भस्म और बल को मेरे लिये भी दीजिये। जिस (ते) आप का जो (कामधरणम्) सङ्कल्पों का आधार अन्तःकरण है, वह (कामधरणम्) कामना का आधार (मयि) मुझ में (भूयात्) होवे। जैसे तुम लोग विद्या आदि शुभगुणों से (चितः) इकट्ठे हुए (परिचितः) सब पदार्थों को सब ओर से इकट्ठे करने हारे (ऊर्ध्वचितः) उत्कृष्ट गुणों के संचयकर्त्ता पुरुषार्थ को आप (श्रयध्वम्) सेवन करो, वैसे हम लोग भी करें ॥४६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जिज्ञासु मनुष्यों को चाहिये कि सदैव विद्वानों से विद्या की इच्छा कर प्रश्न किया करें कि जितना तुम लोगों में पदार्थों का विज्ञान है, उतना सब तुम लोग हम लोगों में धारण करो और जितना हस्तक्रिया आप जानते हैं, उतनी सब हम लोगों को सिखाइये, जैसे हम लोग आपके आश्रित हैं, वैसे ही आप भी हमारे आश्रय हूजिये ॥४६ ॥
दयानन्द-सरस्वती (सं) - विषयः
अध्येत्रध्यापकाः किं कृत्वा सुखिनः स्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! त्वं यत्संज्ञां प्राप्तोऽसि, यत् त्वमग्नेर्भस्मास्याग्नेर्यत्पुरीषमाप्तोऽसि तन्मां प्रापय। यस्य ते तव यत्कामधरणमस्ति तत्कामधरणं मयि भूयाद्, यथा यूयं विद्यादिशुभगुणैश्चितः परिचित ऊर्ध्वचितः स्थ पुरुषार्थं चाश्रयध्वम्, तथा वयमपि भवेम ॥४६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - जिज्ञासवः सदा विदुषां सकाशाद्विद्याः प्रार्थ्य पृच्छेयुर्यावद् युष्मासु पदार्थविज्ञानमस्ति, तावत् सर्वमस्मासु धत्त। यावतीर्हस्तक्रिया भवन्तो जानन्ति, तावतीरस्मान् शिक्षत, यथा वयं भवदाश्रिता भवेम, तथैव भवन्तोऽप्यस्माकमाश्रयाः सन्तु ॥४६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जिज्ञासू लोकांनी विद्वानांकडून विद्या शिकण्याची इच्छा बाळगावी व त्यांना प्रश्न विचारावेत आणि विनंती करावी, की तुम्हाला पदार्थांचे जेवढे ज्ञान आहे तेवढे आम्हाला द्या व जेवढी कला तुम्ही जाणता तेवढी आम्हाला शिकवा.
४७ अयंसोऽअग्निर्यस्मिन्त्सोममिन्द्रः सुतम्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒यँसोऽअ॒ग्निर्यस्मि॒न्त्सोम॒मिन्द्रः॑ सु॒तं द॒धे ज॒ठरे॑ वावशा॒नः। स॒ह॒स्रियं॒ वाज॒मत्यं॒ न सप्तिँ॑ सस॒वान्त्सन्त्स्तू॑यसे जातवेदः ॥४७ ॥
मूलम् ...{Loading}...
अ॒यँसोऽअ॒ग्निर्यस्मि॒न्त्सोम॒मिन्द्रः॑ सु॒तं द॒धे ज॒ठरे॑ वावशा॒नः। स॒ह॒स्रियं॒ वाज॒मत्यं॒ न सप्तिँ॑ सस॒वान्त्सन्त्स्तू॑यसे जातवेदः ॥४७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒यम्। सः। अ॒ग्निः। यस्मि॑न्। सोम॑म्। इन्द्रः॑। सु॒तम्। द॒धे॒। ज॒ठरे॑। वा॒व॒शा॒नः। स॒ह॒स्रिय॑म्। वाज॑म्। अत्य॑म्। न। सप्ति॑म्। स॒स॒वानिति॑ सस॒ऽवान्। सन्। स्तू॒य॒से॒। जा॒त॒वे॒द॒ इति॑ जातऽवेदः। ४७।
महीधरः
म० हे आयजत्र मर्यादया यजनीय हे अग्ने, ते तव यत् दिवि द्युलोके वर्चो दीप्तिरर्करूपं वर्तते यच्च पृथिव्यामग्निरूपं यच्च ओषधीष्वन्तः स्थितं यच्चाप्सु जलेषु अन्तः स्थितं यच्च वर्चसा उरु विस्तीर्णमन्तरिक्षमाततन्थ आतनोषि विस्तारयसि । ‘बभूथाततन्थ-’ (पा० ७ । २ । ६४) इतीडभावः । स भानुः दीप्तिः त्वेषः त्वेषयति प्रकाशयति सकलं विश्वमिति त्वेषः ‘त्विष दीप्तौ’ पचादित्वादच् । अर्णवः अर्णांसि उदकानि सन्ति यत्रेत्यर्थः । ‘अर्णसो वः सलोपश्च’ । यद्वा अरणवान् गमनवान् प्रसरणशीलः । नृचक्षाः नॄन् चष्ट इति नृणां शुभाशुभकर्मद्रष्टा । ईदृशो यस्ते भानुस्तमेवेष्टकारूपमुपदधामीति शेषः । अनेन त्रिस्थानोऽग्निः स्तुतः ॥ ४८ ॥
एकोनपञ्चाशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- विश्वामित्र ऋषिः
- आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को उत्तम आचरणों के अनुसार वर्त्तना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (जातवेदः) विज्ञान को प्राप्त हुए विद्वन् ! जैसे (ससवान्) दान देते (सन्) हुए आप (स्तूयसे) प्रशंसा के योग्य हो, (अयम्) यह (अग्निः) अग्नि और (इन्द्रः) सूर्य्य (यस्मिन्) जिसमें (सोमम्) सब ओषधियों के रस को धारण करता है, जिस (सुतम्) सिद्ध हुए पदार्थ को (जठरे) पेट में मैं (दधे) धारण करता हूँ, (सः) वह मैं (वावशानः) शीघ्र कामना करता हुआ (सहस्रियम्) साथ वर्त्तमान अपनी स्त्री को धारण करता हूँ, आप के साथ (वाजम्) अन्न आदि पदार्थों को (अत्यम्) व्याप्त होने योग्य के (न) समान (सप्तिम्) घोड़े को (दधे) धारण करता हूँ, वैसा ही तू भी हो ॥४७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार और उपमालङ्कार हैं। जैसे बिजुली और सूर्य, सब रसों का ग्रहण कर जगत् को रसयुक्त करते हैं वा जैसे पति के साथ स्त्री और स्त्री के साथ पति आनन्द भोगते हैं, वैसे मैं इस सब को धारण करता हूँ। जैसे श्रेष्ठ गुणों से युक्त आप प्रशंसा के योग्य हो, वैसें मैं भी प्रशंसा के योग्य होऊँ ॥४७ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यैरुत्तमाचरणानुकरणं कार्य्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे जातवेदः ! यथा ससवान्सँस्त्वं स्तूयसेऽयमग्निरिन्द्रश्च यस्मिन् सोमं दधाति, यं सुतं जठरेऽहं दधे, सोऽहं वावशानः सन् सहस्रियं दधे। त्वया सह वाजमत्यं न सप्तिं दधे, तादृशस्त्वं भव ॥४७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। यथा विद्युत्सूर्यौ सर्वान् रसान् गृहीत्वा जगद्रसयतो यथा पत्या सह स्त्री स्त्रिया सह पतिश्चानन्दं भुङ्क्ते, तथाऽहमेतद्दधे। यथा सद्गुणैर्युक्तस्त्वं स्तूयसे, तथाऽहमपि प्रशंसितो भवेयम् ॥४७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार व उपमालंकार आहेत. जसे विद्युत व सूर्य सर्व रसांचे ग्रहण करून जगाला रसयुक्त बनवितात किंवा जसे पती-पत्नी एकमेकांसोबत आनंद उपभोगतात तसे मी या सर्व गोष्टींचा अंगीकार करतो. जसे श्रेष्ठ गुणांनी युक्त विद्वान प्रशंसा करण्यायोग्य असतात तसे मीही (जिज्ञासू माणसाने) प्रशंसायोग्य बनावे.
४८ अग्ने यत्ते
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने॒ यत्ते॑ दि॒वि वर्चः॑ पृथि॒व्यां यदोष॑धीष्व॒प्स्वा य॑जत्र। येना॒न्तरि॑क्षमु॒र्वा᳖त॒तन्थ॑ त्वे॒षः स भा॒नुर॑र्ण॒वो नृ॒चक्षाः॑ ॥४८ ॥
मूलम् ...{Loading}...
अग्ने॒ यत्ते॑ दि॒वि वर्चः॑ पृथि॒व्यां यदोष॑धीष्व॒प्स्वा य॑जत्र। येना॒न्तरि॑क्षमु॒र्वा᳖त॒तन्थ॑ त्वे॒षः स भा॒नुर॑र्ण॒वो नृ॒चक्षाः॑ ॥४८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अग्ने॑। यत्। ते॒। दि॒वि। वर्चः॑। पृ॒थि॒व्याम्। यत्। ओष॑धीषु। अ॒प्स्वित्य॒प्ऽसु। आ। य॒ज॒त्र॒। येन॑। अ॒न्तरि॑क्षम्। उ॒रु। आ॒त॒तन्थेत्या॑ऽत॒तन्थ॑। त्वे॒षः। सः। भा॒नुः। अ॒र्ण॒वः। नृ॒चक्षा॒ इति॑ नृ॒ऽचक्षाः॑। ४८।
महीधरः
म०. हे अग्ने, दिवो द्युलोकस्य संबन्धि अर्णमुदकं त्वमच्छाजिगासि आभिमुख्येन गच्छसि ‘गा स्तुतिगत्योः’ ह्वादिः । अभ्यासेत्वं छान्दसम् । ‘अच्छाभेराप्तुमिति शाकपूणिः’ (निरु. ५। ३१) ‘निपातस्य च’ (पा० ६ । ३ । १३६) इत्यच्छेत्यस्य संहितायां दीर्घः । ‘आपो वा अस्य दिवोर्णस्ता एष धूमेनाच्छैति’ (७।१।१।२४ ) इति श्रुतिः। किंच ये देवा धिष्ण्या ऊचिषे ऊचिरे उच्यन्ते धियो बुद्धीरिन्द्रियाणि इष्णन्ति प्रेरयन्ति धिष्ण्याः प्राणरूपा देवाः तान् देवांश्च त्वमच्छा जिगासि अभिगच्छसि । ऊचिषे ब्रूञः कर्मणि लिट् पुरुषवचनयोर्व्यत्ययः । ‘प्राणा वै देवा धिष्ण्यास्ते हि सर्वा धिय इष्णन्ति’ (७।१।१।२४) इति श्रुतेः । किंच रोचने दीप्तिरूपे मण्डले वर्तमानस्य सूर्यस्य परस्तादुपरिष्टाद्या आप उप उपतिष्ठन्ते अवस्ताद्रवेरधस्ताच्च या आप उपतिष्ठन्ते ता आपश्च त्वमभिजिगासीत्यन्वयः । त्वमेवैतै रूपैः परिणमसीति भावः ॥ ४९ ॥
पञ्चाशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- विश्वामित्र ऋषिः
- भुरिगार्षी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अध्यापक लोगों को निष्कपटता से सब विद्यार्थीजन पढ़ाने चाहियें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (यजत्र) सङ्गम करने योग्य (अग्ने) विद्वन् (यत्) जिस (ते) आप का अग्नि के समान (दिवि) द्योतनशील आत्मा में (वर्चः) विज्ञान का प्रकाश (यत्) जो (पृथिव्याम्) पृथिवी (ओषधीषु) यवादि ओषधियों और (अप्सु) प्राणों वा जलों में (वर्चः) तेज है, (येन) जिससे (नृचक्षाः) मनुष्यों को दिखानेवाला (भानुः) सूर्य (अर्णवः) बहुत जलों को वर्षाने हारा (त्वेषः) प्रकाश है, (येन) जिससे (अन्तरिक्षम्) आकाश को (उरु) बहुत (आ ततन्थ) विस्तारयुक्त करते हो, (सः) सो आप वह सब हम लोगों में धारण कीजिये ॥४८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यहाँ वाचकलुप्तोपमालङ्कार है। इस जगत् में जिस को सृष्टि के पदार्थों का विज्ञान जैसा होवे, वैसा ही शीघ्र दूसरों को बतावें। जो कदाचित् दूसरों को न बतावे, तो वह नष्ट हुआ किसी को प्राप्त नहीं हो सके ॥४८ ॥
दयानन्द-सरस्वती (सं) - विषयः
अध्यापकैर्निष्कपटत्वेन सर्वे विद्यार्थिनः पाठनीया इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे यजत्राग्ने ! यद्यस्य ते तवाऽग्नेरिव दिवि वर्चः यत् पृथिव्यामोषधीष्वप्सु वर्चोऽस्ति, येन नृचक्षा भानुरर्णवस्त्वेषो येनान्तरिक्षमुर्वाततन्थ, तथा स त्वं तदस्मासु धेहि ॥४८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यस्मिन् जगति यस्य सृष्टिपदार्थविज्ञानं यादृशं स्यात् तादृशं सद्योऽन्यान् ग्राहयेत्। यदि न ग्राहयेत् तर्हि तन्नष्टं सदन्यैः प्राप्तुमशक्यं स्यात् ॥४८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - येथे वाचकलुप्तोपमालंकार आहे. या जगाचे किंवा सृष्टीचे ज्याला ज्ञान होते त्याने दुसऱ्यांना शिकवावे. इतरांना ते ज्ञान दिले नाही तर ते नष्ट होते व कुणालाही प्राप्त होऊ शकत नाही.
४९ अग्ने दिवोऽअर्णमच्छा
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने॑ दि॒वोऽअर्ण॒मच्छा॑ जिगा॒स्यच्छा॑ दे॒वाँ२ऽऊ॑चिषे॒ धिष्ण्या॒ ये। या रो॑च॒ने प॒रस्ता॒त् सूर्य॑स्य॒ याश्चा॒वस्ता॑दुप॒तिष्ठ॑न्त॒ऽआपः॑ ॥४९ ॥
मूलम् ...{Loading}...
अग्ने॑ दि॒वोऽअर्ण॒मच्छा॑ जिगा॒स्यच्छा॑ दे॒वाँ२ऽऊ॑चिषे॒ धिष्ण्या॒ ये। या रो॑च॒ने प॒रस्ता॒त् सूर्य॑स्य॒ याश्चा॒वस्ता॑दुप॒तिष्ठ॑न्त॒ऽआपः॑ ॥४९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अग्ने॑। दि॒वः। अर्ण॑म्। अच्छ॑। जि॒गा॒सि॒। अच्छ॑। दे॒वान्। ऊ॒चि॒षे॒। धिष्ण्याः॑। ये। याः। रो॒च॒ने। प॒रस्ता॑त्। सूर्य॑स्य। याः। च॒। अ॒वस्ता॑त्। उ॒प॒तिष्ठ॑न्त॒ इत्यु॑प॒ऽतिष्ठ॑न्ते। आपः॑। ४९।
महीधरः
म० अनुष्टुप् बहुवचनमिष्टकापेक्षम् । अग्नयः एते इष्टकारूपा यज्ञमस्मदीयमिमं यागं जुषन्तां सेवन्ताम् । अनमीवा नास्ति अमीवा व्याधिरशनायाबुभुक्षारूपो याभिस्ता अनमीवाः क्षुधातृष्णानिवर्तिकाः महीः महतीः बहुला इषः अन्नभक्तीश्चाग्नयो जुषन्ताम् । कीदृशा अग्नयः । पुरीष्यासः पुरीषेभ्यः पशुभ्यो हिताः पुरीष्याः । आज्जसेरसुक् । तथा प्रावणेभिः प्रवणैः प्रकर्षेण वनन्ति संभजन्ति विषयानिति प्रावणानि मनांसि तैः सजोषसः समानप्रीतयः । मनसा प्रीतियुक्ता इत्यर्थः । ‘अन्येषामपि दृश्यते’ (पा० ६ । ३ । १३७) इति संहितायां प्रावणेति दीर्घः । ‘बहुलं छन्दसि’ इत्येत्वम् । तथा अद्रुहः न द्रुह्यन्तीत्यद्रुहः अहिंसितारः परस्परं प्रीतियुताः ॥ ५० ॥
एकपञ्चाशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- विश्वामित्र ऋषिः
- भुरिगार्षी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्वान् ! जो आप (दिवः) प्रकाश से (अर्णम्) विज्ञान को (याः) जो (आपः) प्राण वा जल (सूर्यस्य) सूर्य्य के (रोचने) प्रकाश में (परस्तात्) पर है (च) और (याः) जो (अवस्तात्) नीचे (उपतिष्ठन्ते समीप में स्थित हैं, उनको (अच्छ) सम्यक् (जिगासि) स्तुति करते हो, (ये) जो (धिष्ण्याः) बोलनेवाले हैं, उन (देवान्) दिव्यगुण विद्यार्थियों वा विद्वानों के प्रति विज्ञान को (अच्छ) अच्छे प्रकार (ऊचिषे) कहते हो, सो आप हमारे लिये उपदेश कीजिये ॥४९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो अच्छे विचार से बिजुली और सूर्य के किरणों में ऊपर-नीचे रहनेवाले जलों और वायुओं के बोध को प्राप्त होते हैं, वे दूसरों को भी निरन्तर उपदेश करें ॥४९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! यस्त्वं दिवोऽर्णं या आपः सूर्यस्य रोचने परस्ताद् याश्चावस्तादुपतिष्ठन्ते, ता अच्छ जिगासि। ये धिष्ण्याः सन्ति, तान् देवान् प्रत्यर्णमच्छोचिषे, स त्वमस्माकमुपदेष्टा भव ॥४९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये सुविचारेण विद्युतः सूर्य्यकिरणेषूपर्य्यधःस्थानां जलानां वायूनां च बोधं यथा प्राप्नुवन्ति, तेऽन्यान् प्रति सम्यगुपदिशन्तु ॥४९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्यांना विद्युत व सूर्यकिरणांमध्ये, वर, खाली असणाऱ्या जलाचा व वायूचा चांगल्या प्रकारे बोध होतो त्यांनी ते उत्तम ज्ञान इतरांनाही द्यावे.
५० पुरीष्यासोऽअग्नयः प्रावणेभिः
विश्वास-प्रस्तुतिः ...{Loading}...
पु॒री॒ष्या᳖सोऽअ॒ग्नयः॑ प्राव॒णेभिः॑ स॒जोष॑सः। जु॒षन्तां॑ य॒ज्ञम॒द्रुहो॑ऽनमी॒वाऽइषो॑ म॒हीः ॥५० ॥
मूलम् ...{Loading}...
पु॒री॒ष्या᳖सोऽअ॒ग्नयः॑ प्राव॒णेभिः॑ स॒जोष॑सः। जु॒षन्तां॑ य॒ज्ञम॒द्रुहो॑ऽनमी॒वाऽइषो॑ म॒हीः ॥५० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पु॒री॒ष्या᳖सः। अ॒ग्नयः॑। प्रा॒व॒णेभिः॑। प्र॒व॒णेभि॒रिति॑ प्रऽव॒णेभिः॑। स॒जोष॑स॒ इति॑ स॒ऽजोष॑सः। जु॒षन्ता॑म्। य॒ज्ञम्। अ॒द्रुहः॑। अ॒न॒मी॒वाः। इषः॑। म॒हीः। ५०।
महीधरः
म० ‘इडामग्न इति पश्चिमे प्रतिमन्त्रमुत्तरतः’ (का० १७ । १।११) इडामग्न इति ऋग्द्वयेन प्रतिमन्त्रं पश्चिमे द्वे पादमात्र्यौ पद्ये तिरश्च्यौ उदग्लक्षणे उपदध्यात् उत्तरतोऽवस्थितो दक्षिणामुखः इडामिति दक्षिणाम् अयं त इत्युत्तरामिति सूत्रार्थः । द्वे आग्नेय्यौ त्रिष्टुबनुष्टुभौ । हे अग्ने, हवमानाय यजमानाय साध साधय संपादय ‘छन्दस्युभयथा’ (पा० ३ । ४ । ११७) इडामन्नम् । शप आर्धधातुकष्टिलोपः। ह्वयति आह्वयति देवान् जुहोति वा हवमानः तस्मै । यत्तु श्रुत्योक्तं ‘पशवो वा इडा’ (७।१।१।२७) इति तद्बलीवर्दैरन्नस्योत्पाद्यमानत्वात् । किंभूतामिडाम् । पुरुदंसं दंस इति कर्मनामसु पठितम् । पुरूणि बहूनि दंसांसि कर्माणि यया सा पुरुदंसाः तां पुरुदंससमिति प्राप्ते टिलोपश्छान्दसः । बहुकर्मसाधनभूतमन्नं देहीत्यर्थः । तथा शश्वत्तममत्यन्तमविच्छेदेन वर्तमानमनपायिनं गोः सनिं धेनुसंबन्धि दानं पयोदधिघृतादिकं सर्वदा देहीत्यर्थः । किंच नोऽस्माकं यजमानानां सूनुः पुत्रः स्यादस्तु । कीदृशः सूनुः । तनयः औरसः पुत्रस्य सूनुशब्देनोक्तत्वाद्दत्तपुत्रादिव्यावृत्त्यै तनयशब्दः । यद्वा तनोत्यग्निहोत्रादिकर्माणीति तनयः । तथा विजावा विविधं जायते, पुत्रादिद्वारेति विजावा प्रजावान् ‘विड्वनोरनुनासिकस्यात्’ (पा० ६ । ४ । ४१) इति धातोराकारः । हे अग्ने, ते तव सान्नगोपुत्रदानविषया सुमतिः - शोभना बुद्धिरनुग्रहेणास्मे अस्मासु भूतु भवतु । यजमानेभ्यस्तयान्नादि देयमिति भावः । व्यत्ययेन शपो लुक् । अस्मे विभक्तेः शेआदेशे त्यदाद्यत्वम् ॥ ५१ ॥
द्विपञ्चाशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- विश्वामित्र ऋषिः
- आर्ची पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को द्वेषादिक छोड़ के आनन्द में रहना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - सब मनुष्यों को चाहिये कि (प्रावणेभिः) विज्ञानों के साथ वर्त्तमान हुए (अनमीवाः) रोगरहित (अद्रुहः) द्रोह से पृथक् (सजोषसः) एक प्रकार की सेवा और प्रीतिवाले (पुरीष्यासः) पूर्ण गुणक्रियाओं में निपुण (अग्नयः) अग्नि के समान वर्तमान तेजस्वी विद्वान् लोग (यज्ञम्) विद्याविज्ञान दान और ग्रहणरूप यज्ञ और (महीः) बड़ी-बड़ी (इषः) इच्छाओं को (जुषन्ताम्) सेवन करें ॥५० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे बिजुली अनुकूल हुई समान भाव से सब पदार्थों का सेवन करती है, वैसे ही रोगद्रोहादि दोषों से रहित आपस में प्रीतिवाले होके विद्वान् लोग विज्ञान बढ़ानेवाले यज्ञ को विस्तृत करके बड़े-बड़े सुखों को निरन्तर भोगें ॥५० ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यैर्द्वेषादिकं विहायानन्दितव्यमित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - सर्वे मनुष्याः प्रावणेभिः सह वर्त्तमाना अनमीवा अद्रुहः सजोषसः पुरीष्यासोऽग्नय इव सन्तो यज्ञं महीरिषो जुषन्ताम् ॥५० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा विद्युदविरुद्धा सती समानसत्तया सर्वान् पदार्थान् सेवते, तथैव रोगद्रोहादिदोषै रहिताः परस्परं प्रीतिमन्तो भूत्वा विज्ञानवृद्धिकरं यज्ञं प्रतत्य महान्ति सुखानि सततं भुञ्जीरन् ॥५० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जशी विद्युत सर्व पदार्थांत समान असते तसे विद्वान लोकांनी रोग, द्रोह इत्यादी दोषांनी रहित होऊन आपापसात प्रेमाने राहून विज्ञानमय यज्ञ विस्तृत करावा आणि खूप सुख भोगावे.
५१ इडामग्ने पुरुदंसंसनिम्
विश्वास-प्रस्तुतिः ...{Loading}...
इडा॑मग्ने पुरु॒दँसँ॑स॒निं गोः श॑श्वत्त॒मँ हव॑मानाय साध। स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाऽग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥५१ ॥
मूलम् ...{Loading}...
इडा॑मग्ने पुरु॒दँसँ॑स॒निं गोः श॑श्वत्त॒मँ हव॑मानाय साध। स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाऽग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥५१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इडा॑म्। अ॒ग्ने॒। पु॒रु॒दँस॒मिति॑ पुरु॒ऽदँस॑म्। स॒निम्। गोः। श॒श्व॒त्त॒ममिति॑ शश्वत्ऽत॒मम्। हव॑मानाय। सा॒ध॒। स्यात्। नः॒। सु॒नुः। तन॑यः। वि॒जावेति॑ वि॒जाऽवा॑। अग्ने॑। सा। ते॒। सु॒म॒तिरिति॑ सुऽम॒तिः। भू॒तु॒। अ॒स्मेऽइत्य॒स्मे। ५१।
महीधरः
म० व्याख्याता [ अध्या० ३ क० १४ ] ॥ ५२ ॥
त्रिपञ्चाशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- विश्वामित्र ऋषिः
- भुरिगार्षी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्य गर्भाधानादि संस्कारो से बालकों का संस्कार करें, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्वन् ! (ते) आपकी (सा) वह (सुमतिः) सुन्दर बुद्धि (अस्मे) हम लोगों के लिये (भूतु) होवे, जिससे आपका (नः) और हमारा जो (विजावा) विविध प्रकार के ऐश्वर्यों का उत्पादक (सूनुः) उत्पन्न होनेवाला (तनयः) पुत्र (स्यात्) होवे, उस बुद्धि से उस (हवमानाय) विद्या ग्रहण करते हुए के लिये (इडाम्) स्तुति के योग्य वाणी को (गौः) वाणी के सम्बन्ध (शश्वत्तमम्) अनादि रूप अत्यन्त वेदज्ञान को और (पुरुदंसम्) बहुत कर्म जिससे सिद्ध हों, ऐसे (सनिम्) ऋग्वेदादि वेदविभाग को (साध) सिद्ध कीजिये और (अग्ने) हे अध्यापक ! हम लोग भी सिद्ध करें ॥५१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - माता-पिता और आचार्य्य को चाहिये कि सावधानी से गर्भाधान आदि संस्कारों की रीति के अनुकूल अच्छे सन्तान उत्पन्न करके उन में वेद, ईश्वर और विद्यायुक्त बुद्धि उत्पन्न करें, क्योंकि ऐसा अन्यधर्म अपत्यसुख का हितकारी कोई नहीं है, ऐसा निश्चय रखना चाहिये ॥५१ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यैर्गर्भाधानादिसंस्कारैरपत्यानि संस्कर्तव्यानीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! ते सा सुमतिरस्मे भूतु यया ते नोऽस्माकं च यो विजावा सूनुस्तनयः स्यात्। तया त्वं तस्मै हवमानायेडां गोः शश्वत्तमं पुरुदंसं सनिं साधाग्ने वयं च साध्नुयाम ॥५१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मातापितृभ्यामाचार्य्येण च सावधानतया गर्भाधानादिसंस्काररीत्या सुसन्तानानुत्पाद्य वेदेश्वरविद्यायुक्ता धीरुत्पाद्या। नहीदृशोऽन्यो धर्मोऽपत्यसुखनिधिर्वर्त्तत इति निश्चेतव्यम् ॥५१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माता-पिता यांनी अतिदक्षतेने गर्भाधान इत्यादी संस्कारानुसार चांगली संताने उत्पन्न करावीत, तसेच आचार्य आणि माता-पिता यांनी त्यांच्यामध्ये वेद व ईश्वराला जाणणारी विद्यायुक्त बुद्धी उत्पन्न करावी. कारण अपत्याला सुख देणारा यापेक्षा वेगळा कोणताही कल्याणकारी धर्म नाही हे निश्चयपूर्वक जाणावे.
५२ अयं ते
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒यं ते॒ योनि॑र्ऋ॒त्वियो॒ यतो॑ जा॒तोऽअरो॑चथाः। तं जा॒नन्न॑ग्न॒ऽआ रो॒हाथा॑ नो वर्धया र॒यिम् ॥५२ ॥
मूलम् ...{Loading}...
अ॒यं ते॒ योनि॑र्ऋ॒त्वियो॒ यतो॑ जा॒तोऽअरो॑चथाः। तं जा॒नन्न॑ग्न॒ऽआ रो॒हाथा॑ नो वर्धया र॒यिम् ॥५२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒यम्। ते॒। योनिः॑। ऋ॒त्वियः॑। यतः॑। जा॒तः। अरो॑चथाः। तम्। जा॒नन्। अ॒ग्ने॒। आ। रो॒ह॒। अथ॑। नः॒। व॒र्ध॒य॒। र॒यिम्। ५२।
महीधरः
म० ‘चिदसीति पूर्वे दक्षिणतः प्रतिमन्त्रम्’ । (का० १७॥ १ । १२) तदुत्तरतोऽपरमार्गेण दक्षिणां मत्वा चिदसीति प्रतिमन्त्रं पूर्वे तिरश्चौ उदग्लक्षणे दक्षिणे स्थित उदङ्मुख उपदधाति चिदसीत्युत्तरां परिचिदसीति दक्षिणाम् । इष्टकादैवत्ये द्वे यजुषी । चीयत इति चित् । हे इष्टके, त्वं चिता स्थापितासि । यद्वा चिनोति भोगान्संपादयतीति चित् त्वं भोगसंपादिकासि । तया प्रसिद्धया देवतया वाग्रूपया सादिता सती अङ्गिरस्वत्प्राणवत् प्राणा यथा सर्वाङ्गेषु स्थितास्तथा ध्रुवा स्थिरा सती त्वं सीद निविशस्व । तया देवतयेति ‘वाग्वै सा देवताङ्गिरस्वदिति प्राणो वा अङ्गिरा’ इति श्रुतेः। द्वितीयामुपदधाति । परिचित्परितः सर्वतः चीयते परितो भोगांश्चिनोतीति वा त्वं परिचिदसि । तया देवतयेति व्याख्यातम् ॥५३॥
चतुःपञ्चाशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- विश्वामित्र ऋषिः
- निचृदार्ष्यनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब माता-पिता और पुत्रादिकों को पस्पर क्या करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) अग्नि के समान शुद्ध अन्तःकरणवाले विद्वन् पुरुष ! जो (ते) आपका (ऋत्वियः) ऋतुकाल में प्राप्त हुआ (अयम्) यह प्रत्यक्ष (योनिः) दुःखों का नाशक और सुखदायक व्यवहार है, (यतः) जिससे (जातः) उत्पन्न हुए आप (अरोचथाः) प्रकाशित होवें, (तम्) उसको (जानन्) जानते हुए आप (आरोह) शुभगुणों पर आरूढ़ हूजिये, (अथ) इस के पश्चात् (नः) हम लोगों के लिये (रयिम्) प्रशंसित लक्ष्मी को (वर्धय) बढ़ाइये ॥५२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे माता-पिता और आचार्य्य ! तुम लोग पुत्र और कन्याओं को धर्मानुकूल सेवन किये ब्रह्मचर्य से श्रेष्ठविद्या को प्रसिद्ध कर उपदेश करो। हे सन्तानो ! तुम लोग सत्यविद्या और सदाचार के साथ हम को अच्छी सेवा और धन से निरन्तर सुखयुक्त करो ॥५२ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ जन्यजनकानां कर्त्तव्यं कर्माह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! त्वं यस्ते तव ऋत्वियोऽयं योनिरस्ति, यतो जातस्त्वमरोचथाः। तं जानँस्त्वमारोहाथ नो रयिं वर्धय ॥५२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मातापित्राचार्य्याः ! यूयं पुत्रान् पुत्रीश्च धर्म्येण ब्रह्मचर्य्येण सेवितेन सद्विद्या जनयित्वोपदिशत। हे सन्तानाः ! यूयं सद्विद्यया सदाचारेणास्मान् सुसेवया धनेन च सततं सुखयतेति ॥५२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माता-पिता व आचार्य ! तुम्ही पुत्र व कन्या यांना धर्माने प्राप्त केलेल्या (ब्रह्मचर्यपूर्वक) श्रेष्ठ विद्येचा उपदेश करा. हे संतानांनो ! तुम्ही सत्य विद्या व सदाचाराने वागून आमची (माता व पिता) सेवा करा आणि धन देऊन सदैव सुखी करा.
५३ चिदसि तया
विश्वास-प्रस्तुतिः ...{Loading}...
चिद॑सि॒ तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वा सी॑द। परि॒चिद॑सि॒ तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वा सी॑द ॥५३ ॥
मूलम् ...{Loading}...
चिद॑सि॒ तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वा सी॑द। परि॒चिद॑सि॒ तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वा सी॑द ॥५३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
चित्। अ॒सि॒। तया॑। दे॒वत॑या। अ॒ङ्गि॒र॒स्वत्। ध्रु॒वा। सी॒द॒। प॒रि॒चिदिति॑ परि॒ऽचित्। अ॒सि॒। तया॑। दे॒वत॑या। अ॒ङ्गि॒र॒स्वत्। ध्रु॒वा। सी॒द॒। ५३।
महीधरः
म० तिसृषु लोकंपृणासु मन्त्रो दशसु च द्वयोर्वा दशस्वेकस्यां च’ (का० १७।१।१७) । आदौ तिसृषु लोकंपृणेष्टकासु तूष्णीमुपहितासु लोकंपृणेत्यभिमन्त्रणम् ततो दशसु मन्त्रः यद्वादौ द्वयोर्लोकंपृणयोर्मन्त्रस्ततो दशसु तत एकस्याम् एवमेकविंशतीष्टका गार्हपत्ये स्युरिति सूत्रार्थः । लोकंपृणादेवत्यानुष्टुप् । हे लोकंपृणेष्टके, त्वं लोकं पृण गार्हपत्यचयनदेशे पूर्वेष्टकाभिरनाक्रान्तं स्थानं पूरय । तथा छिद्रं पृण किंचिदपि छिद्रं यथा न दृश्यते तथा संश्लिष्टा भवेत्यर्थः । ‘पृण तृप्तौ’ तुदादिः । अथो अपिच ध्रुवा दृढा सती त्वं सीद तिष्ठ । किंच इन्द्राग्नी बृहस्पतिश्चैते देवा अस्मिन् योनौ स्थाने त्वा त्वां असीषदन् सादितवन्तः सदेश्चङ् । नहि मानुषोऽध्वर्युस्तां सादयितुं शक्य इति भावः ॥ ५४ ॥
पञ्चपञ्चाशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- विश्वामित्र ऋषिः
- स्वराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
कन्याओं को क्या करके क्या करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे कन्ये ! जो तू (चित्) चिताई (असि) हुई (तया) उस (देवतया) दिव्यगुण प्राप्त कराने हारी विद्वान् स्त्री के साथ (अङ्गिरस्वत्) प्राणों के तुल्य (ध्रुवा) निश्चल (सीद) स्थिर हो, हे ब्रह्मचारिणि ! जो तू (परिचित्) विविध विद्या को प्राप्त हुई (असि) है, सो तू (तया) उस (देवतया) धर्मानुष्ठान से युक्त दिव्यसुखदायक क्रिया के साथ (अङ्गिरस्वत्) ईश्वर के समान (ध्रुवा) अचल (सीद) अवस्थित हो ॥५३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सब माता-पिता और पढ़ानेहारी विदुषी स्त्रियों को चाहिये कि कन्याओं को सम्यक् बुद्धिमती करें। हे कन्या लोगो ! तुम जो पूर्ण अखण्डित ब्रह्मचर्य से सम्पूर्ण विद्या और अच्छी शिक्षा को प्राप्त युवती होकर, अपने तुल्य वरों के साथ स्वयंवर विवाह करके, गृहाश्रम का सेवन करो, तो सब सुखों को प्राप्त हो और सन्तान भी अच्छे होवें ॥५३ ॥
दयानन्द-सरस्वती (सं) - विषयः
कन्याभिः किं कृत्वा किं कार्य्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे कन्ये ! या चिदसि सा त्वं तया देवतया सहाङ्गिरस्वत् ध्रुवा सीद। हे ब्रह्मचारिणि ! त्वं परिचिदसि सा तया देवतया सहाङ्गिरस्वद् ध्रुवा सीद ॥५३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सर्वैर्मातापित्रादिभिरध्यापिकाभिर्विदुषीभिश्च कन्याः सम्बोधनीयाः। भो कन्याः ! यूयं यदि पूर्णेनाखण्डितेन ब्रह्मचर्य्येणाखिला विद्याः सुशिक्षाः प्राप्य युवतयो भूत्वा स्वसदृशैर्वरैः स्वयंवरविवाहं कृत्वा गृहाश्रमं कुर्यात, तर्हि सर्वाणि सुखानि लभेध्वं सुसन्तानाश्च जायेरन् ॥५३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सर्व माता-पिता व अध्यापन करणाऱ्या विदुषी स्त्रियांनी मुलींना सम्यक बुद्धिमान करावे. हे कन्यांनो ! तुम्ही पूर्ण अखंडित ब्रह्मचर्य पालन करून संपूर्ण विद्या व चांगले शिक्षण प्राप्त करून युवावस्थेत आपल्यासारख्याच वराशी स्वयंवर विवाह करून गृहस्थाश्रम स्वीकाराल तर सर्व सुख प्राप्त होईल व संतानेही चांगली होतील.
५४ लोकं पृण
विश्वास-प्रस्तुतिः ...{Loading}...
लो॒कं पृ॑ण छि॒द्रं पृ॒णाथो॑ सीद ध्रु॒वा त्वम्। इ॒न्द्रा॒ग्नी त्वा॒ बृह॒स्पति॑र॒स्मिन् योना॑वसीषदन् ॥५४ ॥
मूलम् ...{Loading}...
लो॒कं पृ॑ण छि॒द्रं पृ॒णाथो॑ सीद ध्रु॒वा त्वम्। इ॒न्द्रा॒ग्नी त्वा॒ बृह॒स्पति॑र॒स्मिन् योना॑वसीषदन् ॥५४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
लो॒कम्। पृ॒ण॒। छि॒द्रम्। पृ॒ण॒। अथो॒ऽइत्यथो॑। सी॒द॒। ध्रु॒वा। त्वम्। इ॒न्द्रा॒ग्नीऽइती॑न्द्रा॒ग्नी। त्वा॒। बृह॒स्पतिः॑। अ॒स्मिन्। योनौ॑। अ॒सी॒ष॒द॒न्। अ॒सी॒ष॒द॒न्नित्य॑सीसदन्। ५४।
महीधरः
म० ‘नित्ये सादनसूददोहसा उपधानादुत्तरे तया देवतया ता अस्येति’ (का. १६ । ७ । १४) तया देवतयेति सादनम् । ता अस्येति सूददोहसाधिवदनम् । एते नित्ये सर्वत्रेति सूत्रार्थः । इन्द्रपुत्रप्रियमेधदृष्टाब्देवत्यानुष्टुप् । दिवो द्युलोकसंबन्धिनो दिवश्च्युता वा सूददोहसः सूदाश्च दोहसश्च ते सूददोहसः सूदेन जलेन सहिता दोहसोऽन्नानि अन्नयुक्ता आपः ताः प्रसिद्धा अस्य विशो यज्ञस्य संबन्धिनं सोममाश्रीणन्ति सम्यग्मिश्रयन्ति पक्कं कुर्वन्ति वा ‘श्री पाके’ क्र्यादिः । ‘आपो वै सूदोऽन्नं दोहः’ (८ । ७ । ३ । २१) ‘यज्ञो वै विशः’ (८ । ७ । ३ । २१) इति च श्रुतिः । कीदृशाः ॥ सूददोहसः पृश्नयः नानाविधाः । यद्वा ‘अन्नं वै पृश्नी’ (८। ७ । ३ । २१) इति श्रुतेरन्नरूपाः अत्रागत्य व्रीह्यादिधान्य निष्पादका इत्यर्थः । कदा श्रीणन्ति देवानां जन्मन् जन्मनि संवत्सरे ‘संवत्सरो वै देवानां जन्म’ (८।७।३ । २१) इति श्रुतेः । संवत्सरे संवत्सरे सोमयागस्तदभिप्रायमेतत् । ‘सव नानि वै त्रीणि रोचनानि’ (८ । ७ । ३ । २१) इति श्रुतिः । | यज्ञपरिणामभूता अन्नोत्पादिका आपो दिवः सकाशादस्मिल्ँ लोके पतित्वौषधिवनस्पत्यन्नभूताः सत्यः सोमस्योपस्कुर्वन्तीति भावः ॥ ५५ ॥
षट्पञ्चाशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- विश्वामित्र ऋषिः
- विराडार्षीनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे कन्ये ! जिस (त्वा) तुझ को (योनौ) बन्ध के छेदक मोक्षप्राप्ति के हेतु (अस्मिन्) इस विद्या के बोध में (इन्द्राग्नी) माता-पिता तथा (बृहस्पतिः) बड़ी-बड़ी वेदवाणियों की रक्षा करनेवाली अध्यापिका स्त्री (असीषदन्) प्राप्त करावें, उसमें (त्वम्) तू (ध्रुवा) दृढ़ निश्चय के साथ (सीद) स्थित हो, (अथो) इसके अनन्तर (छिद्रम्) छिद्र को (पृण) पूर्ण कर और (लोकम्) देखने योग्य प्राणियों को (पृण) तृप्त कर ॥५४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - माता-पिता और आचार्यों को चाहिये कि इस प्रकार की धर्म्मयुक्त विद्या और शिक्षा करें कि जिसको ग्रहण कर कन्या लोग चिन्तारहित हों। सब बुरे व्यसनों को त्याग और समावर्तन संस्कार के पश्चात् स्वयंवर विवाह करके पुरुषार्थ के साथ आनन्द में रहें ॥५४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे कन्ये ! यां त्वा योनाविस्मिन्निन्द्राग्नी बृहस्पतिश्चासीषदन्, तस्मिन् त्वं ध्रुवा सीदाथो छिद्रं पृण लोकं पृण ॥५४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मातापित्राचार्यैरीदृशी धर्म्या विद्याशिक्षा क्रियेत, यां स्वीकृत्य सर्वाः कन्या निश्चिन्ता भूत्वा, सर्वाणि दुर्व्यसनानि त्यक्त्वा समावर्त्तनानन्तरं स्वयंवरं विवाहं कृत्वा सुपुरुषार्थेनानन्दयेयुः ॥५४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माता-पिता व आचार्य यांनी अशा प्रकारचे धर्मयुक्त शिक्षण व विद्या द्यावी की जे ग्रहण करून मुली चिंतारहित व्हाव्यात. सर्व वाईट व्यसनांचा त्याग करून समावर्तन संस्कारानंतर विवाह करून आनंदी राहाव्यात.
५५ ताऽअस्य सूददोहसः
विश्वास-प्रस्तुतिः ...{Loading}...
ताऽअ॑स्य॒ सूद॑दोहसः॒ सोमँ॑ श्रीणन्ति॒ पृश्न॑यः। जन्म॑न् दे॒वानां॒ विश॑स्त्रि॒ष्वा रो॑च॒ने दि॒वः ॥५५ ॥
मूलम् ...{Loading}...
ताऽअ॑स्य॒ सूद॑दोहसः॒ सोमँ॑ श्रीणन्ति॒ पृश्न॑यः। जन्म॑न् दे॒वानां॒ विश॑स्त्रि॒ष्वा रो॑च॒ने दि॒वः ॥५५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ताः। अ॒स्य॒। सूद॑दोहस॒ इति॒ सूद॑ऽदोहसः। सोम॑म्। श्री॒ण॒न्ति॒। पृश्न॑यः। जन्म॑न्। दे॒वाना॑म्। विशः॑। त्रि॒षु। आ। रो॒च॒ने। दि॒वः। ५५।
महीधरः
म० ‘चात्वालदेशात्पुरीषं निवपतीन्द्र विश्वा इति’ (का० १७ । १ । १८)। चात्वालस्थानात् मृदमानीय गार्हपत्यचितेरुपरि क्षिपति । इन्द्रदेवत्या मधुच्छन्दसुतजेतृदृष्टानुष्टुप् । | विश्वाः सर्वा गिरः स्तुतयः ऋग्यजुःसामरूपा इन्द्रमवीवृधन् वर्धयन्ति । कीदृशमिन्द्रम् । समुद्रव्यचसं समुद्रवद् व्यचो व्याप्तिर्यस्य तं समुद्रवद्व्यापकं विविधाञ्चनं नानागतिमित्यर्थः । अक्षोभ्यगतिं वा । रथीनां रथयुक्तानां सर्वेषां मध्ये रथीतममत्यन्तं रथयुतं रथयुद्धे लब्धातिशयमित्यर्थः । ‘ईद्रथिनः’ (पा० ८ । २ । १७) इति घे परे रथिन ईदादेशः । तथा वाजानामन्नानां पतिं स्वामिनं सत्पतिं स्वधर्मवर्तिनां च प्रतिपालकम् ॥ ५६ ॥
सप्तपञ्चाशी।
अधिमन्त्रम् (VC)
- आपो देवताः
- प्रियमेधा ऋषिः
- विराडार्षीनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उसी विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (देवानाम्) दिव्य विद्वान् पतियों की (सूददोहसः) सुन्दर रसोइया और गौ आदि के दुहनेवाले सेवकोंवाली (पृश्नयः) कोमल शरीर सूक्ष्म अङ्गयुक्त स्त्री, दूसरे (जन्मन्) विद्यारूप जन्म में विदुषी होके (दिवः) दिव्य (अस्य) इस गृहाश्रम के (सोमम्) उत्तम ओषधियों के रस से युक्त भोजन (श्रीणन्ति) पकाती हैं, (ताः) वे ब्रह्मचारिणी (आरोचने) अच्छे रुचिकारक व्यवहार में (त्रिषु) तीनों अर्थात् गत, आगामी और वर्त्तमान कालविभागों में सुख देनेवाली होती तथा (विशः) उत्तम सन्तानों को भी प्राप्त होती हैं ॥५५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जब अच्छी शिक्षा को प्राप्त हुए युवा विद्वानों की अपने सदृश रूप और गुण से युक्त स्त्री होवें, तो गृहाश्रम में सर्वदा सुख और अच्छे सन्तान उत्पन्न होवें। इस प्रकार किये विना संसार का सुख और शरीर छूटने के पश्चात् मोक्ष कभी प्राप्त नहीं हो सकता ॥५५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - या देवानां सूददोहसः पृश्नयः पत्न्यो जन्मन् द्वितीये विद्याजन्मनि विदुष्यो भूत्वा दिवोऽस्य सोमं श्रीणन्ति, ता आरोचने त्रिषु सुखदा भवन्ति, विशश्च प्राप्नुवन्ति ॥५५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदा सुशिक्षितानां विदुषां यूनां स्वसदृशा रूपगुणसम्पन्नाः स्त्रियो भवेयुस्तदा गृहाश्रमे सर्वदा सुखं सुसन्तानाश्च जायेरन्। नह्येवं विना वर्त्तमानेऽभ्युदयो मरणानन्तरं निःश्रेयसं च प्राप्तुं शक्यम् ॥५५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जर उत्तम शिक्षणयुक्त तरुण विद्वानांना त्यांच्यासारख्याच रूपगुणांनी युक्त स्त्रिया मिळतील तर त्यांचा गृहस्थाश्रम सर्व दृष्टीने सुखी होईल व उत्तम संतानांची प्राप्ती होईल. याप्रमाणे न झाल्यास सांसारिक सुखही मिळू शकत नाही व शरीर त्यागानंतर मोक्षही प्राप्त होऊ शकत नाही.
५६ इन्द्रं विश्वाऽअवीवृधन्त्समुद्रव्यचसम्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रं॒ विश्वा॑ऽअवीवृधन्त्समु॒द्रव्य॑चसं॒ गिरः॑। र॒थीत॑मँ र॒थीनां॒ वाजा॑नाँ॒ सत्प॑तिं॒ पति॑म् ॥५६ ॥
मूलम् ...{Loading}...
इन्द्रं॒ विश्वा॑ऽअवीवृधन्त्समु॒द्रव्य॑चसं॒ गिरः॑। र॒थीत॑मँ र॒थीनां॒ वाजा॑नाँ॒ सत्प॑तिं॒ पति॑म् ॥५६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इन्द्र॑म्। विश्वाः॑। अ॒वी॒वृ॒ध॒न्। स॒मु॒द्रव्य॑चस॒मिति॑ समु॒द्रऽव्य॑चसम्। गिरः॑। र॒थीत॑मम्। र॒थित॑म॒मिति॑ र॒थिऽत॑मम्। र॒थीना॑म्। र॒थिना॒मिति॑ र॒थिना॑म्। वाजा॑नाम्। सत्प॑ति॒मिति॒ सत्ऽपति॑म्। पति॑म्। ५६।
महीधरः
म० ‘समंबिलां कृत्वोख्यं निवपति समितमिति’ (का० १७ । १ । १९) । समं बिलं यस्याः सा समंबिला। विभक्त्यलुक् छान्दसः । गार्हपत्यचितिं मृत्पूरणेन परिश्रित्समां कृत्वा तन्मध्ये नीचैरुख्याग्निं स्थापयति चतुर्मन्त्रैः । चतस्रो द्व्यग्निदेवत्याः । समितम् उष्णिगेकाधिका अनियताक्षरपादत्वेऽप्यष्टाविंशत्यक्षरत्वात् । हे चित्योख्याग्नी, युवां समितं संगच्छतम् । ‘इण् गतौ’ संगतौ भवतम् । संकल्पेथां च एकसंकल्पौ भवतम् । यद्वा संकल्पनं यज्ञनिष्पादनं कुरुतम् । कीदृशौ युवाम् । संप्रियौ संप्रीणीतस्तौ ‘इगुपध-’ (पा० ३ । १।१३५) इति कः । सम्यक् परस्परं प्रीतियुक्तौ । रोचिष्णू दीप्यमानौ ‘अलंकृञ्-’ (पा० ३ । २ । १३६ ) इत्यादिना इष्णुच् । सुमनस्यमानौ शोभनं मनः कुरुतस्तौ वा । सुमनस्येते तौ सुमनस्यमानौ । सुब्धातुः क्यङन्ताच्छानच् । परस्परं शोभनचित्तवन्तौ । इषमन्नमूर्जमुपसेचनं घृतादि चाभिसंवसानौ अभ्यवहरन्तौ भुञ्जानौ अभितः सम्यक् संपादयन्तौ वा । वस्तेरर्थान्तरे वृत्तिः ॥ ५७ ॥
अष्टपञ्चाशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- सुतजेतृमधुच्छन्दा ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
कुमार और कुमारियों को इस प्रकार करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रीपुरुषो ! जैसे (विश्वाः) सब (गिरः) वेदविद्या से संस्कार की हुई वाणी (समुद्रव्यचसम्) समुद्र की व्याप्ति जिसमें हो उन (वाजानाम्) संग्रामों और (रथीनाम्) प्रशंसित रथोंवाले वीर पुरुषों में (रथीतमम्) अत्यन्त प्रशंसित रथवाले (सत्पतिम्) सत्य, ईश्वर, वेद, धर्म वा श्रेष्ठ पुरुषों के रक्षक (पतिम्) सब ऐश्वर्य के स्वामी को (अवीवृधन्) बढ़ावें और (इन्द्रम्) परम ऐश्वर्य्य को बढ़ावें, वैसे सब प्राणियों को बढ़ाओ ॥५६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो कुमार और कुमारी दीर्घ ब्रह्मचर्य सेवन से साङ्गोपाङ्ग वेदों को पढ़ और अपनी-अपनी प्रसन्नता से स्वयंवर विवाह करके ऐश्वर्य के लिये प्रयत्न करें, धर्मयुक्त व्यवहार से व्यभिचार को छोड़ के सुन्दर सन्तानों को उत्पन्न करके परोपकार करने में प्रयत्न करें, वे इस संसार और परलोक में सुख भोगें, और इनसे विरुद्ध जनों को सुख नहीं हो सकता ॥५६ ॥
दयानन्द-सरस्वती (सं) - विषयः
कुमारकुमारिभिरित्थं कर्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रीपुरुषाः ! यूयं यथा विश्वा गिरः समुद्रव्यचसं वाजानां रथीनां मध्ये रथीतमं सत्पतिं पतिमवीवृधँस्तथा सर्वान् वर्धयत ॥५६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये कुमारा याश्च कुमार्य्यो दीर्घेण ब्रह्मचर्य्येण साङ्गोपाङ्गान् वेदानधीत्य स्वप्रसन्नतया स्वयंवरं विवाहं कृत्वैश्वर्य्याय प्रयतेरन्। धर्म्येण व्यवहारेणाव्यभिचारतया सुसन्तानानुत्पाद्य परोपकारे प्रवर्त्तेरँस्त इहामुत्र सुखमश्नुवीरन्, न चेतरेऽविद्वांसः ॥५६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - युवक व युवती यांनी दीर्घ ब्रह्मचर्य सेवन करून वेदांचे सांगोपांग अध्ययन करून प्रसन्नतेने स्वयंवर विवाह करावा व ऐश्वर्यासाठी प्रयत्न करावा. धर्मयुक्त व्यवहार करावा व व्यभिचार करू नये. उत्तम संतानांना जन्म द्यावा, तसेच परोपकारी बनण्याचा प्रयत्न करावा आणि इहलोक व परलोकांचे सुख भोगावे. याविरुद्ध वागणाऱ्या लोकांना हे सुख मिळू शकत नाही.
५७ समितं सङ्कल्पेथा
विश्वास-प्रस्तुतिः ...{Loading}...
समि॑तँ॒ संक॑ल्पेथाँ॒ संप्रि॑यौ रोचि॒ष्णू सु॑मन॒स्यमा॑नौ। इष॒मूर्ज॑म॒भि सं॒वसा॑नौ ॥५७ ॥
मूलम् ...{Loading}...
समि॑तँ॒ संक॑ल्पेथाँ॒ संप्रि॑यौ रोचि॒ष्णू सु॑मन॒स्यमा॑नौ। इष॒मूर्ज॑म॒भि सं॒वसा॑नौ ॥५७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सम्। इ॒त॒म्। सम्। क॒ल्पे॒था॒म्। संप्रि॑या॒विति॒ सम्ऽप्रि॑यौ। रो॒चि॒ष्णूऽइति॑ रोचि॒ष्णू। सु॒म॒न॒स्यमा॑नाविति॑ सुऽमन॒स्यमा॑नौ। इष॑म्। ऊर्ज॑म्। अ॒भि। सं॒वसा॑ना॒विति॑ स॒म्ऽवसा॑नौ। ५७।
महीधरः
म० उपरिष्टाद्बृहती अष्टसप्तनवत्रयोदशाक्षरपादत्वादेकाधिका । हे पूर्वोक्तावग्नी, वां युवयोर्मनांसि बहुवचनत्वान्मनोबुद्ध्यहंकारानहं समाकरं सर्वतः सङ्गतान्करोमि । करोतेर्लङ्युत्तमबहुवचने शपि अकरमिति रूपम् । तथा व्रता व्रतानि कर्माणि समाकरम् । व्रतमिति कर्मनाम ( निघ० २ । १ । ७) तथा चित्तानि च मनोगतसंस्कारान्समाकरम् । उकारः समुच्चयार्थः । एवं मनःकर्मसंस्कारैरेकीकृतैरेकीभूतमग्निं प्रार्थये हे पुरीष्य, पशव्य हे अग्ने, त्वं नोऽस्माकम् अधिपातीति अधिपाः पालको भव । इषमन्नमूर्ज तदुपसेचनं दध्यादि च यजमानाय धेहि देहि ॥ ५८ ॥
एकोनषष्टी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- मधुच्छन्दा ऋषिः
- भुरिगुष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
पश्चात् विवाह करके कैसे वर्त्तें, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विवाहित स्त्रीपुरुषो ! तुम (संप्रियौ) आपस में सम्यक् प्रीतिवाले (रोचिष्णू) विषयासक्ति से पृथक् प्रकाशमान (सुमनस्यमानौ) मित्र विद्वान् पुरुषों के समान वर्त्तमान (संवसानौ) सुन्दर वस्त्र और आभूषणों से युक्त हुए (इषम्) इच्छा से (समितम्) इकट्ठे प्राप्त होओ और (ऊर्जम्) पराक्रम को (अभि) सन्मुख (संकल्पेथाम्) एक अभिप्राय में समर्पित करो ॥५७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो स्त्रीपुरुष सर्वथा विरोध को छोड़ के एक-दूसरे की प्रीति में तत्पर, विद्या के विचार से युक्त तथा अच्छे-अच्छे वस्त्र और आभूषण धारण करनेवाला होके प्रयत्न करें, तो घर में कल्याण और आरोग्य बढ़े, और जो परस्पर विरोधी हों, तो दुःखसागर में अवश्य डूबें ॥५७ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ विवाहं कृत्वा कथं वर्त्तिव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विवाहितौ स्त्रीपुरुष ! युवां संप्रियौ रोचिष्णू सुमनस्यमानौ संवसानौ सन्ताविषं समितमूर्जमभि संकल्पेथाम् ॥५७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदि स्त्रीपुरुषौ सर्वथा विरोधं विहायान्योन्यस्य प्रियाचरणे रतौ, विद्याविचारयुक्तौ सुवस्त्रालंकृतौ भूत्वा प्रयतेताम्, तदा गृहे कल्याणमारोग्यं वर्धेताम्। यदि च विद्वेषिणौ भवेताम्, तदा दुःखसागरे संमग्नौ भवेताम् ॥५७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे स्त्री-पुरुष सर्वस्वी विरोध सोडून एकमेकांवर प्रीती करतात व विद्यायुक्त बनतात, चांगली वस्त्रे व आभूषणांनी अलंकृत होऊन प्रेमाने राहतात तेव्हा त्यांच्या कुटुंबाचे कल्याण होते व आरोग्य वाढते. जर ते परस्परविरोधी असतील तर निश्चितपणे दुःखसागरात बुडतात.
५८ सं वाम्
विश्वास-प्रस्तुतिः ...{Loading}...
सं वां॒ मनाँ॑सि॒ सं व्र॒ता समु॑ चि॒त्तान्याक॑रम्। अग्ने॑ पुरीष्याधि॒पा भ॑व॒ त्वं न॒ इष॒मूर्जं॒ यज॑मानाय धेहि ॥५८ ॥
मूलम् ...{Loading}...
सं वां॒ मनाँ॑सि॒ सं व्र॒ता समु॑ चि॒त्तान्याक॑रम्। अग्ने॑ पुरीष्याधि॒पा भ॑व॒ त्वं न॒ इष॒मूर्जं॒ यज॑मानाय धेहि ॥५८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सम्। वा॒म्। मनाँ॑सि। सम्। व्र॒ता। सम्। ऊँ॒ इत्यूँ॑। चि॒त्तानि॑। आ। अ॒क॒र॒म्। अग्ने॑। पु॒री॒ष्य॒। अ॒धि॒पा इत्य॑धि॒ऽपाः। भ॒व॒। त्वम्। नः॒। इष॑म्। ऊर्ज॑म्। यज॑मानाय। धे॒हि॒। ५८।
महीधरः
म० उख्याग्निदेवत्योष्णिक आर्ष्येकाधिका अनियताक्षरपादत्वात् । हे अग्ने, त्वं पुरीष्यः पशव्योऽसि । रयिमान् धनवान् | पुष्टिमान् पोषयुक्तश्चासि । अतः सर्वा दिशः शिवाः शान्ताः कृत्वा इहास्मिंश्चयने स्वं योनिं स्वकीयं स्थानमासदः प्राप्नुहि ॥ ५९ ॥
षष्टी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- मधुच्छन्दा ऋषिः
- भुरिगुपरिष्टाद् बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
अध्यापक और उपदेशक लोगों को चाहिये कि जितना सामर्थ्य हो उतना ही वेदों को पढ़ावें और उपदेश करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रीपुरुषो ! जैसे मैं आचार्य (वाम्) तुम दोनों के (संमनांसि) एक धर्म्म में तथा संकल्प-विकल्प आदि अन्तःकरण की वृत्तियों को (संव्रता) सत्यभाषणादि (उ) औैर (सम्, चित्तानि) सम्यक् जाने हुए कर्मों में (आ) अच्छे प्रकार (अकरम्) करूँ, वैसे तुम दोनों मेरी प्रीति के अनुकूल विचारो। हे (पुरीष्य) रक्षा के योग्य व्यवहारों में हुए (अग्ने) उपदेशक आचार्य वा राजन् ! (त्वम्) आप (नः) हमारे (अधिपाः) अधिक रक्षा करनेहारे (भव) हूजिये (यजमानाय) धर्मानुकूल सत्सङ्ग के स्वभाववाले पुरुष वा ऐसी स्त्री के लिये (इषम्) अन्न आदि उत्तम पदार्थ और (ऊर्जम्) शरीर तथा आत्मा के बल को (धेहि) धारण कीजिये ॥५८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - उपदेशक मनुष्यों को चाहिये कि जितना सामर्थ्य हो उतना सब मनुष्यों का एक धर्म्म, एक कर्म्म, एक प्रकार की चितवृत्ति और बराबर सुख दुःख, जैसे हो, वैसे ही शिक्षा करें। सब स्त्री-पुरुषों को योग्य है कि आप्त विद्वान् ही को उपदेशक और अध्यापक मान के सेवन करें और उपदेशक वा अध्यापक इनके ऐश्वर्य्य और पराक्रम को बढ़ावें। सब मनुष्यों के एक धर्म आदि के विना आत्माओं में मित्रता नहीं होती और मित्रता के विना निरन्तर सुख भी नहीं हो सकता ॥५८ ॥
दयानन्द-सरस्वती (सं) - विषयः
अध्यापकोपदेशका यावत्सामर्थ्यं तावद् वेदाध्यापनोपदेशौ कुर्य्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रीपुरुषौ ! यथाऽहमाचार्यो वां संमनांसि संव्रता सञ्चित्तान्याकरम्, तथा युवां मम प्रियमाचरेतम्। हे पुरीष्याग्ने ! त्वं नोऽधिपा भव, यजमानायेषमूर्जं च धेहि ॥५८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - उपदेशका यावच्छक्यन्तावत् सर्वेषामैकधर्म्यमैककर्म्यमेकनिष्ठां तुल्यसुखदुःखे यथा स्यात् तथा शिक्षयेयुः। सर्वे स्त्रीपुरुषा आप्तविद्वांसमेवोपदेष्टारमध्यापकं सेवेरन्, स चैतेषामैश्वर्यपराक्रमवृद्धिं कुर्यात्। नैकधर्मादिभिर्विनाऽत्मसु सौहार्दं जायते, नैतेन विना सततं सुखं च ॥५८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - उपदेशकांनी सर्व माणसांना त्यांच्या सामर्थ्यानुसार समान संकल्प, समान कर्म, सम्यक समान चित्तवृत्ती व सुख-दुःख समान मानण्याचे शिक्षण द्यावे. सर्व स्त्री-पुरुषांनी आप्त विद्वानांनाच उपदेशक व अध्यापक मानावे, तसेच उपदेशक व अध्यापक यांनी त्यांचा पराक्रम व ऐश्वर्य वृद्धिंगत होईल अशी प्रेरणा त्यांना द्यावी. सर्व माणसांचा धर्म एक असल्याखेरीज अंतःकरणापासून मैत्री होत नाही व मैत्रीखेरीज सदैव सुख प्राप्त होत नाही.
५९ अग्ने त्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने॒ त्वं पु॑री॒ष्यो᳖ रयि॒मान् पु॑ष्टि॒माँ२ऽअ॑सि। शि॒वाः कृ॒त्वा दिशः॒ सर्वाः॒ स्वं योनि॑मि॒हास॑दः ॥५९ ॥
मूलम् ...{Loading}...
अग्ने॒ त्वं पु॑री॒ष्यो᳖ रयि॒मान् पु॑ष्टि॒माँ२ऽअ॑सि। शि॒वाः कृ॒त्वा दिशः॒ सर्वाः॒ स्वं योनि॑मि॒हास॑दः ॥५९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अग्ने॒। त्वम्। पु॑री॒ष्यः᳖। र॒यि॒मानिति॑ रयि॒ऽमान्। पु॒ष्टि॒मानिति॑ पुष्टि॒ऽमान्। अ॒सि॒। शि॒वाः। कृ॒त्वा। दिशः॑। सर्वाः॑। त्वम्। योनि॑म्। इ॒ह। आ। अ॒स॒दः॒। ५१।
महीधरः
म० आर्षी पङ्क्तिः अनियताक्षरपादत्वात् द्व्यग्निदेवत्या | ( अध्या० ५ क० ३) पुनर्व्याख्यायते । हे जातवेदसौ अग्नी, यज्ञमस्मदीयं कर्म युवां मा हिंसिष्टं मा विनाशयतम् । यज्ञ
पतिं यजमानं च मा हिंसिष्टम् । अद्यास्मिन् कर्मदिने नोऽस्मभ्यं शिवौ शान्तौ युवां भवतम् । किंच युवां नोऽस्मदर्थं समनसौ सचेतसौ अरेपसौ च भवतम् । मनसा सहितौ समानचित्तौ । अन्यविषयं मनो हित्वास्मदनुग्रहाभिमुखत्वं समनस्त्वम् । अस्मदनुग्रहेऽन्योन्यविप्रतिपत्तिराहित्यं सचेतस्त्वम् । अरेपसौ निष्पापो अस्माकं प्रामादिकापराधसत्त्वे कोपाभावो निष्पापत्वम् ईदृशावस्मभ्यं भवतमित्यर्थः ॥ ६० ॥
एकषष्टी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- मधुच्छन्दा ऋषिः
- भुरिगुष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
किनको पढ़ाने और उपदेश के लिये नियुक्त करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) उपदेशक विद्वन् ! जिससे (त्वम्) आप (इह) इस संसार में (पुरीष्यः) एक मत के पालने में तत्पर (रयिमान्) विद्या विज्ञान और धन से युक्त और (पुष्टिमान्) प्रशंसित शरीर और आत्मा के बल से सहित (असि) हैं, इसलिये (सर्वाः) सब (दिशः) उपदेश के योग्य प्रजा (शिवाः) कल्याणरूपी उपदेश से युक्त (कृत्वा) करके (स्वम्) अपने (योनिम्) सुखदायक दुःखनाशक उपदेश के घर को (आसदः) प्राप्त हूजिये ॥५९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजा और प्रजाजनों को चाहिये कि जो जितेन्द्रिय धर्मात्मा परोपकार में प्रीति रखनेवाले विद्वान् होवें, उनको प्रजा में धर्मोपदेश के लिये नियुक्त करें और उपदेशकों को चाहिये कि प्रयत्न के साथ सबको अच्छी शिक्षा से एकधर्म में निरन्तर विरोध को छुड़ा के सुखी करें ॥५९ ॥
दयानन्द-सरस्वती (सं) - विषयः
केऽध्यापनोपदेशाय नियोजनीया इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! यतस्त्वमिह पुरीष्यो रयिमान् पुष्टिमानसि, तस्मात् सर्वा दिशः शिवाः कृत्वा स्वं योनिमासदः ॥५९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - राजप्रजाजनैर्येऽत्र जितेन्द्रिया धार्मिकाः परोपकारप्रिया विद्वांसो भवेयुस्ते प्रजासु धर्मोपदेशाय नियोजनीयाः। उपदेशकाश्च प्रयत्नेन सर्वान् शिक्षयैकधर्मयुक्तान् सततमविरोधिनः सुखिनः सम्पादयेयुः ॥५९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजा व प्रजानन यांनी जितेंद्रिय, धर्मात्मा, परोपकारी विद्वानांना धर्माचा उपदेश करण्यासाठी नियुक्त करावे. उपदेशकांनी प्रयत्नपूर्वक सर्वांना शिक्षण देऊन सदैव विरोध सोडून समविचाराने राहावे व सर्वांना सुखी करावे.
६० भवतन्नः समनसौ
विश्वास-प्रस्तुतिः ...{Loading}...
भव॑तन्नः॒ सम॑नसौ॒ सचे॑तसावरे॒पसौ॑। मा य॒ज्ञँ हिँ॑सिष्टं॒ मा य॒ज्ञप॑तिं जातवेदसौ शि॒वौ भ॑वतम॒द्य नः॑ ॥६० ॥
मूलम् ...{Loading}...
भव॑तन्नः॒ सम॑नसौ॒ सचे॑तसावरे॒पसौ॑। मा य॒ज्ञँ हिँ॑सिष्टं॒ मा य॒ज्ञप॑तिं जातवेदसौ शि॒वौ भ॑वतम॒द्य नः॑ ॥६० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
भव॑तम्। नः॒। सम॑नसा॒विति॒ सऽम॑नसौ। सचे॑तसा॒विति॒ सऽचे॑तसौ। अ॒रे॒पसौ॑। मा। य॒ज्ञम्। हिँ॒सि॒ष्ट॒म्। मा। य॒ज्ञप॑ति॒मिति॑ य॒ज्ञऽप॑तिम्। जा॒त॒वे॒द॒सा॒विति॑ जातऽवेदसौ। शि॒वौ। भ॒व॒त॒म्। अ॒द्य। नः॒। ६०।
महीधरः
म०. ‘सिकताभिः समंबिलां कृत्वा मातेव पुत्रमिति शिक्याद्विमुच्याभ्रिवन्निधायासिञ्चति पयोमध्ये तूष्णीम्’ (का० १७.१.३१)। शून्यामुखां सिकताभिः संपूर्य मातेवेति मन्त्रेण शिक्यात्पृथक्कत्वाभ्रिवदिति स्थापिताग्नेरुत्तरेऽरत्निमात्रे गार्हपत्यचितेरुपर्येवोखां निधाय तन्मध्ये तूष्णीं दुग्धं सिञ्चेदिति सूत्रार्थः । उखादेवत्या त्रिष्टुप् । तृतीयो नवकः । । चतुर्थो द्वादशकः । पृथिवी भूरूपा मृण्मयी या उखा पुरीष्यं पशव्यमग्निं स्वे योनौ स्वकीयगर्भस्थाने अभाः अभार्षीत् धृतवती । भृञो लुङि ‘बहुलं छन्दसि’ (पा० ७ । ३ । ९७) इतीडागमाभावे सिचो विसर्गे तिपि लुप्ते रूपम् । माता पुत्रमिव यथा माता पुत्रमुत्सङ्गे बिभर्ति । प्रजापतिः कृतकृत्यां तामुखां विमुञ्चतु शिक्यपाशाद्विमुक्तां करोतु । कीदृशः प्रजापतिः । विश्वैर्देवैर्ऋतुभिश्च संविदानः संवित्त इति ऐकमत्यं गतः अहो महत्कर्मोखया कृतमिति संवादं कुर्वन् । विश्वकर्मा विश्वं सृष्टिरूपं कर्म यस्यासौ विश्वकर्मा ॥ ६१ ॥
द्विषष्टी।
अधिमन्त्रम् (VC)
- दम्पती देवते
- मधुच्छन्दा ऋषिः
- आर्षी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर सब को चाहिये कि विद्या देने लिये आप्त विद्वानों की प्रार्थना करें, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विवाह किये हुए स्त्रीपुरुषो ! तुम दोनों (नः) हम लोगों के लिये (समनसौ) एक से विचार और (सचेतसौ) एक से बोधवाले (अरेपसौ) अपराधरहित (भवतम्) हूजिये। (यज्ञम्) प्राप्त होने योग्य धर्म को (मा) मत (हिंसिष्टम्) बिगाड़ो और (यज्ञपतिम्) उपदेश से धर्म के रक्षक पुरुष को (मा) मत मारो। (अद्य) आज (नः) हमारे लिये (जातवेदसौ) सम्पूर्ण विज्ञान को प्राप्त हुए (शिवौ) मङ्गलकारी (भवतम्) हूजिये ॥६० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - स्त्रीपुरुषजनों को चाहिये कि सत्य उपदेश और पढ़ाने के लिये सब विद्याओं से युक्त, प्रगल्भ, निष्कपट, धर्मात्मा, सत्यप्रिय पुरुषों की नित्य प्रार्थना और उन की सेवा करें और विद्वान् लोग सब के लिये ऐसा उपदेश करें कि जिससे सब धर्माचरण करनेवाले हो जावें ॥६० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः सर्वैर्विद्याप्रदानायाप्ता विद्वांसः प्रार्थनीया इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विवाहितौ स्त्रीपुरुषौ ! युवां नः समनसौ सचेतसावरेपसौ भवतम्। यज्ञं मा हिंसिष्टं यज्ञपतिं मा हिंसिष्टम्। अद्य नो जातवेदसौ शिवौ भवतम् ॥६० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - स्त्रीपुरुषजनैः सत्योपदेशायाध्यापनाय पूर्णविद्याः प्रगल्भा निष्कपटा आप्ता नित्यं प्रार्थनीयाः, विद्वांसस्तु सर्वेभ्य एवमुपदिशेयुर्यतः सर्वे धर्माचारिणः स्युः ॥६० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - स्री-पुरुषांनी सत्य उपदेश करणाऱ्या, सर्व विद्यांनी युक्त, प्रगल्भ, निष्कपट, धर्मात्मा, सत्यप्रिय अशा पुरुषांची सदैव प्रार्थना करावी व सेवा करावी. विद्वान लोकांनी सर्वांना उपदेश करून धर्माचरणी बनवावे.
६१ मातेव पुत्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
मा॒तेव॑ पुत्रं पृ॑थि॒वी पु॑री॒ष्य᳖म॒ग्निँ स्वे योना॑वभारु॒खा। तां विश्वै॑र्दे॒वैर्ऋ॒तुभिः॑ संविदा॒नः प्र॒जाप॑तिर्वि॒श्वक॑र्म्मा॒ वि मु॑ञ्चतु ॥६१ ॥
मूलम् ...{Loading}...
मा॒तेव॑ पुत्रं पृ॑थि॒वी पु॑री॒ष्य᳖म॒ग्निँ स्वे योना॑वभारु॒खा। तां विश्वै॑र्दे॒वैर्ऋ॒तुभिः॑ संविदा॒नः प्र॒जाप॑तिर्वि॒श्वक॑र्म्मा॒ वि मु॑ञ्चतु ॥६१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मा॒तेवेति॑ मा॒ताऽइ॑व। पु॒त्रम्। पृ॒थि॒वी। पु॒री॒ष्य᳖म्। अ॒ग्निम्। स्वे। यौनौ॑। अ॒भाः॒। उ॒खा। ताम्। विश्वैः॑। दे॒वैः॒। ऋ॒तुभि॒रित्यृ॒तुऽभिः॑। सं॒वि॒दा॒न इति॑ सम्ऽविदा॒नः। प्र॒जाप॑ति॒रिति॑ प्र॒जाऽप॑तिः। वि॒श्वक॒र्म्मेति॑ वि॒श्वऽक॑र्मा। वि। मु॒ञ्च॒तु॒। ६१।
महीधरः
म० ‘नैर्ऋतीः कृष्णास्तुषपक्वास्तिस्रोऽलक्षणाः पादमात्रीर्हविष्यासन्नहोमवद्देशे दक्षिणोत्तराः कृत्वा दक्षिणामुखोऽनुपस्पृशन्नसुन्वन्तमिति प्रत्यूचं पराचीः’ (का० १७ । १ । २३ )। ततोऽध्वर्युः राजसूये हविष्यासन्नहोमे यादृशो देशस्तादृशे वयं प्रदीर्णे इरिणे वा असुन्वन्तमिति प्रत्यूचं तिस्रो नैर्ऋतिसंज्ञा इष्टका दक्षिणोत्तराः कृत्वा ततस्ता अस्पृशत्रुपदधाति । कीदृशीः । पाकेन कृष्णवर्णाः तुरेव पक्काः लक्षणहीनाः पद्याः पराचीः अनात्ममुखीः । वयं दक्षिणामुखः पूर्वमुत्तरां निधाय ततो दक्षिणे द्वे इति सूत्रार्थः । तिस्रो निक्रतिदेवत्यास्त्रिष्टुभः । हे निर्ऋते, असुन्वन्तं सोमयागमकुर्वाणम् अयजमानमन्यहविर्यज्ञर्यजनमकुर्वाणं च खमिच्छ प्रतिगच्छ तं गृहाणेत्यर्थः । किंच स्तेनो गुप्तचोरः तस्करः प्रकटचोरः तयोरित्यां गतिमन्विहि अनुगच्छ । पृष्ठतो गत्वा तावपि गृहाणेत्यर्थः । सर्वथा सोमं सुन्वन्यो हविर्यज्ञैश्च यजयोऽस्मदन्यमिच्छ न खस्मानिच्छ । सा दुष्टशिक्षा ते तवेत्या गतिश्चर्या हे देवि निते, एवंभूतायै तुभ्यं नमोऽस्तु ॥ ६२ ॥
त्रिषष्टी।
अधिमन्त्रम् (VC)
- पत्नी देवता
- मधुच्छन्दा ऋषिः
- आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
माता किस के तुल्य सन्तानों को पालती है, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (उखा) जानने योग्य (पृथिवी) भूमि के समान वर्त्तमान विदुषी स्त्री (स्वे) अपने (यौनौ) गर्भाशय में (पुरीष्यम्) पुष्टिकारक गुणों में हुए (अग्निम्) बिजुली के तुल्य अच्छे प्रकाश से युक्त गर्भरूप (पुत्रम्) पुत्र को (मातेव) माता के समान (अभाः) पुष्ट वा धारण करती है, (ताम्) उसको (संविदानः) सम्यक् बोध करता हुआ (विश्वकर्मा) सब उत्तम कर्म करनेवाला (प्रजापतिः) परमेश्वर (विश्वैः) सब (देवैः) दिव्य गुणों और (ऋतुभिः) वसन्त आदि ऋतुओं के साथ निरन्तर दुःख से (वि, मुञ्चतु) छुड़ावे ॥६१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे माता सन्तानों को उत्पन्न कर पालती है, वैसे ही पृथिवी कारणरूप बिजुली को प्रसिद्ध करके रक्षा करती है। जैसे परमेश्वर ठीक-ठीक पृथिवी आदि के गुणों को जानता और नियत समय पर ऋतु आदि और पृथिवी आदि को धारण कर अपनी-अपनी नियत परिधि में चला के प्रलय समय में सब को भिन्न करता है, वैसे ही विद्वानों को चाहिये कि अपनी बुद्धि के अनुसार इन सब पदार्थों को जना के कार्य्यसिद्धि के लिय प्रयत्न करें ॥६१ ॥
दयानन्द-सरस्वती (सं) - विषयः
माता किंवत् सन्तानान् पालयतीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - योखा पृथिवीवद्वर्त्तमाना स्त्री योनौ पुरीष्यमग्निं पुत्रं मातेवाभा धरति, तां संविदानो विश्वकर्मा प्रजापतिर्विश्वैर्देवैर्ऋतुभिः सह सततं दुःखाद् विमुञ्चतु पृथग् रक्षतु ॥६१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा जननी सन्तानानुत्पाद्य पालयति, तथैव पृथिवी कारणस्थां विद्युतं प्रकटय्य रक्षति। परमेश्वरो याथातथ्येन पृथिव्यादिगुणान् जानाति प्रतिनियतसमयमृत्वादीन् पृथिव्यादींश्च धृत्वा स्वस्वनियतपरिधौ चालयित्वा प्रलयसमये भिनत्ति, तथैव विद्वद्भिर्यथाबुद्ध्येतान् विदित्वा कार्य्यसिद्धये प्रयतितव्यम् ॥६१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जशी माता संतानांना जन्म देऊन त्यांचे पालन करते, तसेच पृथ्वी कारणरूपी विद्युतला प्रकट करून रक्षण करते. जसे परमेश्वराला पृथ्वी इत्यादींच्या गुणांचे ज्ञान असून निश्चित वेळी ऋतू निर्मिती करून पृथ्वी इत्यादींना तो धारण करून आपापल्या कक्षेत फिरवितो व प्रलयाच्या वेळी सर्वांना वेगवेगळे करतो तसे विद्वानांनीही आपल्या बुद्धीनुसार या सर्व पदार्थांना जाणून कार्यसिद्धीसाठी प्रयत्न करावेत.
६२ असुन्वन्तमयजमानमिच्छ स्तेनस्येत्यामन्विहि
विश्वास-प्रस्तुतिः ...{Loading}...
असु॑न्वन्त॒मय॑जमानमिच्छ स्ते॒नस्ये॒त्यामन्वि॑हि॒ तस्क॑रस्य। अ॒न्यम॒स्मदि॑च्छ॒ सा त॑ऽइ॒त्या नमो॑ देवि निर्ऋते॒ तुभ्य॑मस्तु ॥६२ ॥
मूलम् ...{Loading}...
असु॑न्वन्त॒मय॑जमानमिच्छ स्ते॒नस्ये॒त्यामन्वि॑हि॒ तस्क॑रस्य। अ॒न्यम॒स्मदि॑च्छ॒ सा त॑ऽइ॒त्या नमो॑ देवि निर्ऋते॒ तुभ्य॑मस्तु ॥६२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
असु॑न्वन्तम्। अय॑जमानम्। इ॒च्छ॒। स्ते॒नस्य॑। इ॒त्याम्। अनु॑। इ॒हि॒। तस्क॑रस्य। अ॒न्यम्। अ॒स्मत्। इ॒च्छ॒। सा। ते॒। इ॒त्या। नमः॑। दे॒वि॒। नि॒र्ऋ॒त॒ इति॑ निःऽऋते। तुभ्य॑म्। अ॒स्तु॒। ६२।
महीधरः
म० ‘निर्ऋतिः कृच्छ्रापतिः। ‘स्यादलक्ष्मीस्तु निर्ऋतिः’ इत्यभिधानात् भूमिर्वा, निर्ऋतिदिगभिमानिनी देवता वा । | ‘अलक्ष्म्यां दिक्पतौ चापि निर्ऋतिर्निरुपद्रवे’ इति कोशात् । तिग्मं तीक्ष्णं दुःसहं तेजो यस्याः सा तिग्मतेजाः तस्याः संबोधने हे तिग्मतेजः, हे निर्ऋते, तुभ्यं सु सुतरां नमोऽस्तु । अयस्मयमयोमयम् ‘अयस्मयादीनि छन्दसि’ (पा० १।४।२०) इति सत्वम् । लोहपाशवद्दृढमेतं बन्धं जीवत्वेन जन्ममृतिरूपमज्ञानं त्वं विचृत विच्छिन्धि नाशय । ‘चृती ग्रन्थे’ तुदादिः। ‘द्व्यचोऽतस्तिङः’ ( पा० ६।३।१३५) इति संहितायां दीर्घः । किंच यमेन अग्निना यम्या पृथिव्या च संविदाना ऐकमत्यं गता सती उत्तमे उत्कृष्टे नाके सर्वसुखोपेते दुःखमात्रहीने स्वर्गे एनं यजमानमधिरोहय स्थापय ॥ ६३ ॥
चतुःषष्टी।
अधिमन्त्रम् (VC)
- निर्ऋतिर्देवता
- मधुच्छन्दा ऋषिः
- निचृत् त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
स्त्री लोग कैसे पतियों की इच्छा न करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (निर्ऋते) पृथिवी के तुल्य वर्त्तमान (देवि) विदुषी स्त्री ! तू (अस्मत्) हम से भिन्न (स्तेनस्य) अप्रसिद्ध चोर और (तस्करस्य) प्रसिद्ध चोर के सम्बन्धी को छोड़ के (अन्यम्) भिन्न को (इच्छ) इच्छा कर और (असुन्वन्तम्) अभिषव आदि क्रियाओं के अनुष्ठान से रहित (अयजमानम्) दानधर्म से रहित पुरुष की (इच्छ) इच्छा मत कर और तू जिस (इत्याम्) प्राप्त होने योग्य क्रिया को (अन्विहि) ढूँढे (सा) वह (इत्या) क्रिया (ते) तेरी हो तथा उस (तुभ्यम्) तेरे लिये (नमः) अन्न वा सत्कार (अस्तु) होवे ॥६२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे स्त्रियो ! तुम लोगों को चाहिये कि पुरुषार्थरहित चोरों के सम्बन्धी पुरुषों को अपने पति करने की इच्छा न करो, आप्त पुरुषों की नीति के तुल्य नीतिवाले पुरुषों को ग्रहण करो। जैसे पृथिवी अनेक उत्तम फलों के दान से मनुष्यों को संयुक्त करती है, वैसी होओ। ऐसे गुणोंवाली तुम को हम लोग नमस्कार करते हैं। जैसे हम लोग आलसी और चोरों के साथ न वर्त्तें, वैसे तुम लोग भी मत वर्त्तो ॥६२ ॥
दयानन्द-सरस्वती (सं) - विषयः
स्त्रियः कीदृशान् पतीन् नेच्छेयुरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे निर्ऋते देवि ! त्वमस्मत्स्तेनस्य तस्करस्य सम्बन्धिनं विहायान्यमिच्छासुन्वन्तमयजमानं मेच्छ। यामित्यामन्विहि सेत्या तेऽस्तु, नमश्च तस्यै तुभ्यमस्तु ॥६२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे स्त्रियः ! यूयमपुरुषार्थिनः स्तेनसम्बन्धिनः पुरुषान् पतीन् मेच्छत, आप्तनीतीन् गृह्णीत। यथा पृथिव्यनेकोत्तमफलप्रदानेन जनान् रञ्जयति, तथा भवत। एवंभूताभ्यो युष्मभ्यं वयं नमः कुर्मः। यथा वयमलसेभ्यः स्तेनेभ्यश्च पृथग् वर्त्तेमहि, तथा यूयमपि वर्त्तध्वम् ॥६२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे स्त्रियांनो ! पुरुषार्थहीन चोर पुरुषांच्या नातेवाइकांना आपले पती बनवू नका. आप्त पुरुषाच्या नीतीनुसार नीतिमान पुरुषांचा स्वीकार करा. जशी पृथ्वी अनेक उत्तम फळांचे माणसांना दान करते तसे तुम्ही बना. अशा गुणवती स्त्रियांना आम्ही वंदन करतो. जसे आम्ही आळशी चोर लोकांशी संबंध ठेवत नाही, तसे तुम्ही आळशी चोर लोकांशी संबंध ठेवू नका.
६३ नमः सु
विश्वास-प्रस्तुतिः ...{Loading}...
नमः॒ सु ते॑ निर्ऋते तिग्मतेजोऽय॒स्मयं॒ विचृ॑ता ब॒न्धमे॒तम्। य॒मेन॒ त्वं य॒म्या सं॑विदा॒नोत्त॒मे नाके॒ऽअधि॑ रोहयैनम् ॥६३ ॥
मूलम् ...{Loading}...
नमः॒ सु ते॑ निर्ऋते तिग्मतेजोऽय॒स्मयं॒ विचृ॑ता ब॒न्धमे॒तम्। य॒मेन॒ त्वं य॒म्या सं॑विदा॒नोत्त॒मे नाके॒ऽअधि॑ रोहयैनम् ॥६३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नमः। सु। ते॒। नि॒र्ऋ॒त॒ इति॑ निःऽऋते। ति॒ग्म॒ते॒ज॒ इति॑ तिग्मऽतेजः। अ॒य॒स्मय॑म्। वि। चृ॒त॒। ब॒न्धम्। ए॒तम्। य॒मेन॑। त्वम्। य॒म्या। सं॒वि॒दा॒नेति॑ सम्ऽविदा॒ना। उ॒त्त॒म इत्यु॑त्ऽत॒मे। नाके॑। अधि॑। रो॒ह॒य॒। ए॒न॒म्। ६३।
महीधरः
म० हे घोरे विषमशीले क्रूररूपे निर्ऋतिदेवि, यस्याः ते तव आसन् आस्ये मुखे अहं जुहोमि आहुतिवदिष्टकामुपदधामि । किमर्थम् । एषां बन्धानां यजमानस्य स्वर्गाप्तिप्रतिबन्धकानां पापानामवसर्जनाय । किंच जनो जन्तुमात्रो यां त्वा त्वां भूमिरिति प्रमन्दते स्तौति शास्त्रानभिज्ञत्वात् । ‘मदिङ् स्वपने जाड्ये मदे मोदे स्तुतौ गतौ’ इति धातुः । त्वं तु | निर्ऋतिः । अहं तु शास्त्रज्ञतया तादृशीं त्वा त्वां विश्वतः सर्वथापि निर्ऋतिमेव परिवेद सम्यग्जानामि । निर्ऋतिशब्दस्यायमर्थः सर्वदेवसाधारणाद्देवयजनान्निष्कृष्य स्वतन्त्रदेशे विदीर्णादौ ऋतिः प्राप्तिर्यस्याः सा निर्ऋतिरिति । इदं प्रकारद्वयं वेदेति विश्वत इत्युक्तम् ॥ ६४ ॥
पञ्चषष्टी।
अधिमन्त्रम् (VC)
- निर्ऋतिर्देवता
- मधुच्छन्दा ऋषिः
- भुरिगार्षी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर ये स्त्री कैसी हों, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (निर्ऋते) निरन्तर सत्य आचरणों से युक्त स्त्री ! जिस (ते) तेरे (तिग्मतेजः) तीव्र तेजोंवाले (अयस्मयम्) सुवर्णादि और (नमः) अन्नादि पदार्थ हैं सो (त्वम्) तू (एतम्) इस (बन्धम्) बाँधने के हेतु अज्ञान का (सुविचृत) अच्छे प्रकार छेदन कर (यमेन) न्यायाधीश तथा (यम्या) न्याय करने हारी स्त्री के साथ (संविदाना) सम्यक् बुद्धियुक्त होकर (एनम्) इस अपने पति को (उत्तमे) उत्तम (नाके) आनन्द भोगने में (अधिरोहय) आरूढ़ कर ॥६३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे स्त्रियो ! तुम को चाहिये कि जैसे यह पृथिवी अग्नि तथा सुवर्ण अन्नादि पदार्थों से सम्बन्ध रखती है, वैसे तुम भी होओ। जैसे तुम्हारे पति न्यायाधीश होकर अपराधी और अपराधरहित मनुष्यों का सत्य-न्याय से विचार करके अपराधियों को दण्ड देते और अपराधरहितों का सत्कार करते हैं, तुम लोगों के लिये अत्यन्त आनन्द देते हैं, वैसे तुम लोग भी होओ ॥६३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनरेताः कथं भवेयुरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे निर्ऋते ! यस्यास्ते तिग्मतेजोऽयस्मयं नमोऽस्ति, सा त्वमेतं बन्धं सुविचृत। यमेन यम्या सह च संविदाना सत्येनं पतिमुत्तमे नाकेऽधिरोहय ॥६३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे स्त्रियः ! यूयं यथेयं पृथिवी तेजः सुवर्णान्नादिसम्बन्धास्ति तथा भवत। यथा युष्माकं पतयो न्यायाधीशा भूत्वा सापराधानपराधिनां सत्यन्यायेन विवेचनं कृत्वा सापराधान् दण्डयन्ति, निरपराधिनः सत्कुर्वन्ति, युष्माननुत्तमानानन्दान् प्रददति, तथा यूयमपि भवत ॥६३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे स्त्रियांनो ! जशी ही पृथ्वी, अग्नी, सुवर्ण आणि अन्न इत्यादी पदार्थांनी युक्त असते तसे तुम्हीही व्हा. जसे तुमचे पती न्यायाधीश बनून अपराधी व निरपराधी व्यक्तींचा सत्य न्यायाने विचार करतात आणि गुन्हेगारांना शिक्षा व गुन्हेगार नसणाऱ्या व्यक्तींचा खरा न्याय करतात व तुम्हाला अत्यंत आनंदी करतात तसे तुम्हीही बना.
६४ यस्यास्ते घोरऽआसञ्जुहोम्येषाम्
विश्वास-प्रस्तुतिः ...{Loading}...
यस्या॑स्ते घोरऽआ॒सञ्जु॒होम्ये॒षां ब॒न्धाना॑मव॒सर्ज॑नाय। यां त्वा॒ जनो॒ भूमि॒रिति॑ प्र॒मन्द॑ते॒ निर्ऋ॑तिं त्वा॒हं परि॑ वेद वि॒श्वतः॑ ॥६४ ॥
मूलम् ...{Loading}...
यस्या॑स्ते घोरऽआ॒सञ्जु॒होम्ये॒षां ब॒न्धाना॑मव॒सर्ज॑नाय। यां त्वा॒ जनो॒ भूमि॒रिति॑ प्र॒मन्द॑ते॒ निर्ऋ॑तिं त्वा॒हं परि॑ वेद वि॒श्वतः॑ ॥६४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यस्याः॑। ते॒। घो॒रे॒। आ॒सन्। जु॒होमि॑। ए॒षाम्। ब॒न्धाना॑म्। अ॒व॒सर्ज॑ना॒येत्य॑व॒ऽसर्ज॑नाय। याम्। त्वा॒। जनः॑। भूमिः॑। इति॑। प्र॒मन्द॑त॒ इति॑ प्र॒ऽमन्द॑ते। निर्ऋ॑ति॒मिति॒ निःऽऋ॑तिम्। त्वा॒। अ॒हम्। परि॑। वे॒द॒। वि॒श्वतः॑। ६४।
महीधरः
म० ‘शिक्यरुक्मपाशेण्ड्वासन्दीः परेणास्यति यं त इति’ ( का० १७ । २ । ४ )। शिक्यं रुक्मपाशं इण्ड़्वे आसन्दीं च नैर्ऋतीष्टकातः पश्चात्क्षिपति । यजमानदेवत्या त्रिष्टुप् । यजमानं प्रत्युच्यते । हे यजमान, निर्ऋतिर्देवी ते तव ग्रीवासु कण्ठावयवेषु यं पाशं शिक्यरूपमाबबन्ध आसमन्ताद्बद्धवती । कीदृशं पाशम् । अविचृत्यं ‘चृती छेदने’ अच्छेद्यं दृढं तं ग्रीवास्थं ते तव पाशमनेन मन्त्रेणाहं विष्यामि विमुञ्चामि । स्यतिरुपस्पृष्टो विमोचनार्थः । कस्मात् स्थानाद्विमुञ्चामि आयुषोऽग्नेर्मध्याद्गार्हपत्यचितिस्थानात् न संप्रति इदानीमेव पाशं दूरीकरोमीत्यर्थः । नकारः संप्रत्यर्थः । ‘अग्निर्वा आयुस्तस्यैतन्मध्यं तच्चितो गार्हपत्यो भवत्यचित आहवनीय’ (७।२।१।१५) इति श्रुतेरायुःशब्देनात्राग्निरुच्यते । अथ पाशविमोकानन्तरं प्रसूतः निर्ऋत्यानुज्ञातः सन् अग्निरूपमाश्रित्य हे यजमान, एतं पितुमन्नमद्धि भक्षय । ‘उदपात्रं निषिच्यान्तरात्मेष्टकमुत्तिष्ठन्ति नमो भूत्या इति’ (का. १७ । २ । ४)। शिक्यादिनिरसनानन्तरमात्मनो नैर्ऋतीष्टकानां च मध्ये जलपूर्णं चमसं तूष्णीं निनीय ब्रह्मयजमानाध्वर्यवो नम इति मन्त्रेणोत्तिष्ठन्ति नैर्ऋतीसमीपादिति सूत्रार्थः । भूतिदेवत्यैकपदा विराट् । या देवी इदमग्निलक्षणं कर्म चकार कृतवती तस्यै भूत्यै श्रीरूपिण्यै देव्यै नमो नमस्कारोऽस्तु ॥ ६५ ॥
षट्षष्टी।
अधिमन्त्रम् (VC)
- निर्ऋतिर्देवता
- मधुच्छन्दा ऋषिः
- आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
किस प्रयोजन के लिये स्त्री पुरुष संयुक्त होवें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (घोरे) दुष्टों को भय करने हारी स्त्री ! (यस्याः) जिस सुन्दर नियम युक्त (ते) तेरे (आसन्) मुख में (एषाम्) इन (बन्धानाम्) दुःख देते हुए रोकनेवालों के (अवसर्जनाय) त्याग के लिये अमृतरूप अन्नादि पदार्थों को (जुहोमि) देता हूँ, जो (जनः) मनुष्य (भूमिरिति) पृथिवी के समान (याम्) जिस (त्वा) तुझ को (प्रमन्दते) आनन्दित करता है, उस तुझ को (अहम्) मैं (विश्वतः) सब ओर से (निर्ऋतिम्) पृथिवी के समान (त्वा) (परि) सब प्रकार से (वेद) जानूँ, सो तू भी इस प्रकार मुझ को जान ॥६४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। जैसे पति अपने आनन्द के लिये स्त्रियों का ग्रहण करते हैं, वैसे ही स्त्री भी पतियों का ग्रहण करें। इस गृहाश्रम में पतिव्रता स्त्री और स्त्रीव्रत पति सुख का कोश होता है। खेतरूप स्त्री और बीजरूप पुरुष है, जो इन शुद्ध बलवान् दोनों के समागम से उत्तम विविध प्रकार के सन्तान हों, तो सर्वदा कल्याण ही बढ़ता रहता है, ऐसा जानना चाहिये ॥६४ ॥
दयानन्द-सरस्वती (सं) - विषयः
कस्मै प्रयोजनाय दम्पती भवेतामित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे घोरे पत्नि ! यस्यास्त आसन्नेषां बन्धानामवसर्जनायामृतात्मकमन्नादिकं जुहोमि, यो जनो भूमिरिति यां त्वा प्रमन्दते, तामहं विश्वतो निर्ऋतिमिव त्वा परि वेद, सा त्वमित्थं मां विद्धि ॥६४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। यथा पतयः स्वानन्दाय स्त्रियो गृह्णन्ति, तथैव तस्मै स्त्रियोऽपि पतीन् गृह्णीयुः। अत्र गृहाश्रमे पतिव्रता स्त्री स्त्रीव्रतः पतिश्च सुखनिधिरिव भवति। क्षेत्रभूता स्त्री बीजरूपः पुमान्, यद्येतयोः शुद्धयोर्बलवतोः समागमेनोत्तमा विविधाः प्रजा जायेरँस्तर्हि सर्वदा भद्रं भवतीति वेद्यम् ॥६४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहेत. जसे पती आपल्या आनंदासाठी स्त्रियांचा स्वीकार करतात तसे स्त्रियांनीही पतींचा स्वीकार करावा. गृहस्थाश्रमात पतिव्रता स्त्री व पत्नीव्रत पती हा सुखाचा कोश असतो. बलवान व शुद्ध स्त्रीरूपी भूमी व पुरुषरूपी बीज या दोघांच्या समागमाने उत्तम व विविध प्रकारची संताने झाली तर नेहमी कल्याण होते हे जाणले पाहिजे.
६५ यं ते
विश्वास-प्रस्तुतिः ...{Loading}...
यं ते॑ दे॒वी निर्ऋ॑तिराब॒बन्ध॒ पाशं॑ ग्री॒वास्व॑विचृ॒त्यम्। तं ते॒ विष्या॒म्यायु॑षो॒ न मध्या॒दथै॒तं पि॒तुम॑द्धि॒ प्रसू॑तः। नमो॒ भूत्यै॒ येदं च॒कार॑ ॥६५ ॥
मूलम् ...{Loading}...
यं ते॑ दे॒वी निर्ऋ॑तिराब॒बन्ध॒ पाशं॑ ग्री॒वास्व॑विचृ॒त्यम्। तं ते॒ विष्या॒म्यायु॑षो॒ न मध्या॒दथै॒तं पि॒तुम॑द्धि॒ प्रसू॑तः। नमो॒ भूत्यै॒ येदं च॒कार॑ ॥६५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यम्। ते॒। दे॒वी। निर्ऋ॑ति॒रिति॒ निःऽऋ॑तिः। आ॒ब॒बन्धेत्या॑ऽब॒बन्ध॑। पाश॑म्। ग्री॒वासु॑। अ॒वि॒चृ॒त्यमित्य॑विऽचृ॒त्यम्। तम्। ते॒। वि। स्या॒मि॒। आयु॑षः। न। मध्या॑त्। अथ॑। ए॒तम्। पि॒तुम्। अ॒द्धि॒। प्रसू॑त॒ इति॒ प्रऽसू॑तः। नमः॑। भूत्यै॑। या। इ॒दम्। च॒कार॑। ६५।
महीधरः
म० ‘अनपेक्षमेत्य शालाद्वार्योपस्थानं निवेशन इति’ ( का० १७ । २ । ६)। ब्रह्मयजमानाध्वर्यवो नैर्ऋत्युपधानदेशात् पश्चादपश्यन्तः शालां गच्छन्ति । अध्वर्युरेत्य शालाद्वारि भवं गार्हपत्याचितिरूपमग्निमुपतिष्ठते । विश्वावसुगन्धर्वदृष्टेन्द्रदेवत्या त्रिष्टुप् । अयमग्निः विश्वा विश्वानि रूपा रूपाणि अभिचष्टे पश्यति आहवनीयातिप्रणीताग्नीध्रधिष्ण्यादीनि सर्वाणि रूपाणि सर्वतः पश्यति । कीदृशानि रूपाणि । शचीभिः स्वैः स्वैः कर्मभिर्युक्तानीति शेषः । कीदृशोऽग्निः । निवेशनः निवेशयति यजमानं स्वगृहे स्थापयतीति निवेशनः । तथा वसूनां धनानां संगमनः संगमयति प्रापयतीति संगमनः प्रजापशुरूपधनप्रापकः । सत्यधर्मा सत्योऽवश्यंभाविफलोपेतो धर्मोऽग्निहोत्रादिलक्षणो यस्यासौं सत्यधर्मा । क इव । सविता देव इव । यथा सविता सूर्यो देवः सर्वाणि रूपाणि अभिचष्टे । यश्चाग्निः पश्रीनां । विभक्तिव्यत्ययः । पथिभिः परिपन्थिभिः सह समरे संग्रामे इन्द्रो न इन्द्र इव तस्थौ स्थितवान् यथेन्द्रो युद्धे तिष्ठति तद्वत् तं वयं स्तुम इति शेषः । पथिशब्दस्य परिपन्थिवाचकवाद्भस्य टेरिति ( पा० ७ । १ । ८८ ) टिलोपाभावे छान्दसे दीर्घे पथीनामिति रूपम् ॥ ६६ ॥
सप्तषष्टी।
अधिमन्त्रम् (VC)
- यजमानो देवता
- मधुच्छन्दा ऋषिः
- आर्षी जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
विवाह समय में कैसी कैसी प्रतिज्ञा करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - स्त्री कहे कि हे पते ! (निर्ऋतिः) पृथिवी के समान मैं (ते) तेरे (ग्रीवासु) कण्ठों में (अविचृत्यम्) न छोड़ने योग्य (यम्) जिस (पाशम्) धर्मयुक्त बन्धन को (आबबन्ध) अच्छे प्रकार बाँधती हूँ, (तम्) उसको (ते) तेरे लिये भी प्रवेश करती हूँ (आयुषः) अवस्था के साधन अन्न के (न) समान (वि, स्यामि) प्रविष्ट होती हूँ। (अथ) इसके पश्चात् (मध्यात्) मैं तू दोनों में से कोई भी नियम से विरूद्ध न चले। जैसे मैं (एतम्) इस (पितुम्) अन्नादि पदार्थ को भोगती हूँ, वैसे (प्रसूतः) उत्पन्न हुआ तू इस अन्नादि को (अद्धि) भोग। हे स्त्री ! (या) जो (देवी) दिव्य गुणवाली तू (इदम्) इस पतिव्रतरूप धर्म से संस्कार किये हुए प्रत्यक्ष नियम को (चकार) करे, उस (भूत्यै) ऐश्वर्य्य करने हारी तेरे लिये (नमः) अन्नादि पदार्थ को देता हूँ ॥६५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। विवाह समय में जिन व्यभिचार के त्याग आदि नियमों को [स्वीकार] करें, उनसे विरुद्ध कभी न चलें, क्योंकि पुरुष जब विवाहसमय में स्त्री का हाथ ग्रहण करता है, तभी पुरुष का जितना पदार्थ है, वह सब स्त्री का और जितना स्त्री का है, वह सब पुरुष का समझा जाता है। जो पुरुष अपनी विवाहित स्त्री को छोड़ अन्य स्त्री के निकट जावे वा स्त्री दूसरे पुरुष की इच्छा करे, तो वे दोनों चोर के समान पापी होते हैं, इसलिये स्त्री की सम्मति के विना पुरुष और पुरुष की आज्ञा के विना स्त्री कुछ भी काम न करे, यही स्त्री-पुरुषों में परस्पर प्रीति बढ़ानेवाला काम है कि जो व्यभिचार को सब समय में त्याग दें ॥६५ ॥
दयानन्द-सरस्वती (सं) - विषयः
विवाहसमये कीदृशीः प्रतिज्ञाः कुर्य्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे पते ! निर्ऋतिरिवाहं ते तव यं ग्रीवास्वविचृत्यं पाशमाबबन्ध, तं ते तवाप्यहं विष्यामि। आयुषोऽन्नस्य न विष्यामि। अथावयोर्मध्यात् कश्चिदपि नियमात् पृथङ् न गच्छेत्। यथाऽहमेतं पितुमद्मि, तथा प्रसूतः सँस्त्वमेनमद्धि। हे स्त्रि ! या देवी त्वमिदं पतिव्रताधर्मेण सुसंस्कृतं चकार, तस्यै भूत्यै नमोऽहं करोमि ॥६५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। विवाहसमये यानव्यभिचाराख्यादीन् नियमान् कुर्य्युस्तेभ्योऽन्यथा कदाचिन्नाचरेयुः। कुतः? यदा पाणिं गृह्णन्ति तदा पुरुषस्य यावत्स्वं तावत्सर्वं स्त्रियाः, यावत् स्त्रियास्तावदखिलं पुरुषस्यैव भवति। यदि पुरुषो विवाहितां विहायाऽन्यस्त्रीगो भवेत्, स्त्री च परपुरुषगामिनी स्यात् तावुभौ स्तेनवत् पापात्मानौ स्याताम्। अतः स्त्रिया अनुमतिमन्तरा पुरुषः पुरुषाज्ञया च विना स्त्री किञ्चिदपि कर्म न कुर्यात्, इदमेव स्त्रीपुरुषयोः प्रीतिकरं कर्म यदव्यभिचरणमिति ॥६५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. विवाहाच्या वेळी व्यभिचाराचा त्याग करण्याचा नियम असून त्याविरुद्ध कधीही वर्तन करू नये. कारण पुरुष जेव्हा विवाहाच्या वेळी स्त्रीचे पाणिग्रहण करतो तेव्हा पुरुषाच्या सर्व पदार्थांवर स्त्रीचा हक्क असतो व स्त्रीच्या सर्व पदार्थांवर पुरुषाचा हक्क असतो. त्यामुळे जो पुरुष विवाहित स्त्रीला सोडून दुसऱ्या स्त्रीकडे जातो किंवा स्त्री दुसऱ्या पुरुषाची इच्छा करते ते दोघेही चोराप्रमाणे पापी असतात. त्यासाठी स्त्रीच्या संमतीशिवाय पुरुष व पुरुषाच्या आज्ञेशिवाय स्त्रीने कोणतेही काम करू नये. हेच स्त्री-पुरुषांच्या प्रीती वाढविण्याचे काम होय. त्यासाठी व्यभिचाराचा सर्वकाळी त्याग करावा.
६६ निवेशनः सङ्गमनो
विश्वास-प्रस्तुतिः ...{Loading}...
नि॒वेश॑नः स॒ङ्गम॑नो॒ वसू॑नां॒ विश्वा॑ रू॒पाभिच॑ष्टे॒ शची॑भिः। दे॒वऽइ॑व सवि॒ता स॒त्यध॒र्मेन्द्रो॒ न त॑स्थौ सम॒रे प॑थी॒नाम् ॥६६ ॥
मूलम् ...{Loading}...
नि॒वेश॑नः स॒ङ्गम॑नो॒ वसू॑नां॒ विश्वा॑ रू॒पाभिच॑ष्टे॒ शची॑भिः। दे॒वऽइ॑व सवि॒ता स॒त्यध॒र्मेन्द्रो॒ न त॑स्थौ सम॒रे प॑थी॒नाम् ॥६६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नि॒वेश॑न॒ इति॑ नि॒ऽवेश॑नः। स॒ङ्गम॑न॒ इति॑ स॒म्ऽगम॑नः। वसू॑नाम्। विश्वा॑। रू॒पा। अ॒भि। च॒ष्टे॒। शची॑भिः। दे॒व इ॒वेति॑ दे॒वःऽइ॑व। स॒वि॒ता। स॒त्यध॒र्मेति॑ स॒त्यऽध॑र्मा। इन्द्रः॑। न। त॒स्थौ॒। स॒म॒र इति॑ सम्ऽअ॒रे। प॒थी॒नाम्। ६६।
महीधरः
म० ‘दक्षिणामग्निश्रोणिमपरेण तिष्ठन् युज्यमानमभिमन्त्रयते सीरा युञ्जन्तीति’ (का० १७ । २ । ११)। चितेर्दक्षिणश्रोणेः पश्चिमे तिष्ठन्नध्वर्युः प्रतिप्रस्थात्रोत्तरांसपूर्वे षड्भिर्वा दशभिश्चतुर्विंशत्या वा वृषैर्युज्यमानमौदुम्बरं हलं द्वाभ्यामभिमन्त्रयते । सीरदेवत्ये सोमपुत्रबुधदृष्टे द्वे गायत्रीत्रिष्टुभौ । धीराः धीमन्तोऽग्निक्षेत्रविदः कवयः कृषिकर्माभिज्ञाः सीरा सीराणि हलानि युञ्जन्ति वृषैर्योजयन्ति । युगा युगानि पृथक् नाना वितन्वते विस्तारयन्ति । किं कर्तुम् । देवेषु सुम्नया सुम्नमिति सुखनाम । ततो द्वितीयैकवचनस्य ‘सुपां सुलुक्’ (पा० ७ । १ । ३९) इति यादेशः । सुम्नं सुखं कर्तुमिति शेषः । देवानां सुम्नं कर्तुं युञ्जन्तीत्यर्थः । चतुर्थ्या यादेशो वा। देवानां सुम्नया युञ्जन्ति । सीरकविपदयोबहुत्वं पूजार्थम् । तयोरेकत्वाद्युगानि बहूनि सन्ति ॥ ६७ ॥
अष्टषष्टी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- विश्वावसुर्ऋषिः
- विराडार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
कैसे स्त्री पुरुष गृहाश्रम करने के योग्य होते हैं, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (सत्यधर्मा) सत्यधर्म से युक्त (सविता) सब जगत् के रचनेवाले (देव इव) ईश्वर के समान (निवेशनः) स्त्री का साथी (सङ्गमनः) शीघ्रगति से युक्त (शचीभिः) बुद्धि वा कर्मों से (वसूनाम्) पृथिवी आदि पदार्थों के (विश्वा) सब (रूपा) रूपों को (अभिचष्टे) देखता है, (इन्द्रः) सूर्य्य के (न) समान (समरे) युद्ध में (पथीनाम्) चलते हुए मनुष्यों के सम्मुख (तस्थौ) स्थित होवे, वही गृहाश्रम के योग्य होता है ॥६६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में दो उपमालङ्कार हैं। मनुष्यों को योग्य है कि जैसे ईश्वर ने सब के उपकार के लिये कारण से कार्यरूप अनेक पदार्थ रच के उपयुक्त करे हैं; जैसे सूर्य मेघ के साथ युद्ध करके जगत् का उपकार करता है, वैसे रचनाक्रम के विज्ञान और सुन्दर क्रिया से पृथिवी आदि पदार्थों से अनेक व्यवहार सिद्ध कर प्रजा को सुख देवें ॥६६ ॥
दयानन्द-सरस्वती (सं) - विषयः
कीदृशाः स्त्रीपुरुषा गृहाश्रमं कर्तुं योग्याः सन्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यः सत्यधर्मा सविता देव इव निवेशनः सङ्गमनः शचीभिर्वसूनां विश्वा रूपाऽभिचष्टे। इन्द्रो न समरे पथीनां सम्मुखे तस्थौ, स एव गृहाश्रमाय योग्यो जायते ॥६६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारौ। यथेश्वरेण मनुष्योपकाराय कारणात् कार्य्याख्या अनेके पदार्था रचिता उपयुज्यन्ते, यथा सूर्यो मेघेन सह युद्धाय वर्त्तते, तथा मनुष्यैः सृष्टिक्रमविज्ञानेन सुक्रियया च भूम्यादिपदार्थेभ्योऽनेके व्यवहाराः संसाधनीयाः ॥६६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. माणसांनी हे जाणावे की ईश्वराने कारणापासून कार्यरूपाने अनेक उपयोगी पदार्थ निर्माण करून सर्वांवर उपकार केलेले आहेत. जसा सूर्य मेघांबरोबर युद्ध करून जगावर उपकार करतो तसे माणसांनी उत्पत्ती विज्ञान जाणून उत्तम क्रिया करून पृथ्वी इत्यादींद्वारे अनेक व्यवहार सिद्ध करून प्रजेला सुखी करावे.
६७ सीरा युञ्जन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
सीरा॑ युञ्जन्ति क॒वयो॑ यु॒गा वित॑न्वते॒ पृथ॑क्। धीरा॑ दे॒वेषु॑ सुम्न॒या ॥६७ ॥
मूलम् ...{Loading}...
सीरा॑ युञ्जन्ति क॒वयो॑ यु॒गा वित॑न्वते॒ पृथ॑क्। धीरा॑ दे॒वेषु॑ सुम्न॒या ॥६७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सीरा॑। यु॒ञ्ज॒न्ति॒। क॒वयः॑। यु॒गा। वि। त॒न्व॒ते॒। पृथ॑क्। धीराः॑। दे॒वेषु॑। सु॒म्न॒येति॑ सुम्न॒ऽया। ६७।
महीधरः
म० हे कर्षकाः, सीराः सीराणि हलानि युनक्त युङ्क्त योजयत । ‘तप्तनप्तनथनाश्च’ (पा. ७ । १। ४५) इति थस्य तबादेशे श्नसोरल्लोपाभावे युनक्तेति रूपम् । युगा युगानि वितनुध्वं शम्यायोक्त्रादिभिर्विस्तारयत । ततः कृते कर्षणेन संस्कृते इह अस्मिन्योनौ स्थाने बीजं व्रीह्यादिकं यूयं वपत । कया । गिरा या ओषधीरित्यादिकया (क० ७५) वेदमन्त्रवाचा चकाराच्चमसेन च। किंच ‘वाग्वै गीरन्नᳪं᳭ श्रुष्टिः ’ (७।२।२ । ५) इति श्रुतेः श्रुष्टिः अन्नजातिर्व्रीह्यादिका सभरा असत् भरणं भरः पुष्टिः । भृञोऽसुन्प्रत्ययः । भरसा फलपुष्ट्या सह वर्तमाना सभराः पुष्टा अस्तु । ‘इतश्च लोपः परस्मैपदेषु’ (पा० ३ । ४ । ९७) इतीकारलोपेऽडागमेऽसदिति रूपम् । पक्वं धान्यं नेदीय इत् अतिशयेनान्तिकं नेदीयः ‘अन्तिकबाढयोर्नेदसाधौ’ (पा० ५। ३ । ६३ ) इत्यन्तिकस्येयसुनि प्रत्यये नेदादेशः । इत् एवार्थे । नेदीय इत् अन्तिकतममेवात्यल्पकालमेव पक्वं धान्यं सृण्यः । सृणिशब्दोऽत्र दात्रार्थः । सृण्या लवनसाधनेन दात्रेण लूनमिति शेषः । दात्रेण छिन्नं सत् नः अस्मान्प्रति आ इयात् आगच्छतु अल्पकालेन पक्वमस्मद्गृहमागच्छत्वित्यर्थः ॥ ६८ ॥
एकोनसप्ततितमी।
अधिमन्त्रम् (VC)
- कृषीवलाः कवयो वा देवताः
- विश्वावसुर्ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब खेती और योग करने की विद्या अगले मन्त्र में कही है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (धीराः) ध्यानशील (कवयः) बुद्धिमान् लोग (सीरा) हलों और (युगा) जुआ आदि को (युञ्जन्ति) युक्त करते और (सुम्नया) सुख के साथ (देवेषु) विद्वानों में (पृथक्) अलग (वितन्वते) विस्तारयुक्त करते, वैसे सब लोग इस खेती कर्म का सेवन करें ॥६७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को चाहिये कि विद्वानों की शिक्षा से कृषिकर्म की उन्नति करें। जैसे योगी नाडि़यो में परमेश्वर को समाधियोग से प्राप्त होते हैं, वैसे ही कृषिकर्म द्वारा सुखों को प्राप्त होवें ॥६७ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ कृषियोगविद्या आह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा धीराः कवयः सीरा युगा च युञ्जन्ति, सुम्नया देवेषु पृथग् वितन्वते, तथा सर्वैरेतदनुष्ठेयम् ॥६७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैरिह विद्वच्छिक्षया कृषिकर्मोन्नेयम्, यथा योगिनो नाडीषु परमेश्वरं समाधियोगेनोपकुर्वन्ति, तथैव कृषिकर्मद्वारा सुखोपयोगः कर्त्तव्यः ॥६७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकर आहे. माणसांनी विद्वानांकडून शिक्षित होऊन कृषीची उन्नती करावी. जसे योगी समाधीयोगाच्या साह्याने परमेश्वराला प्राप्त करतात, तसेच कृषिकर्माद्वारे सुख प्राप्त करावे.
६८ युनक्त सीरा
विश्वास-प्रस्तुतिः ...{Loading}...
यु॒नक्त॒ सीरा॒ वि यु॒गा त॑नुध्वं कृ॒ते योनौ॑ वपते॒ह बीज॑म्। गि॒रा च॑ श्रु॒ष्टिः सभ॑रा॒ अस॑न्नो॒ नेदी॑य॒ऽइत्सृ॒ण्यः᳖ प॒क्वमेया॑त् ॥६८ ॥
मूलम् ...{Loading}...
यु॒नक्त॒ सीरा॒ वि यु॒गा त॑नुध्वं कृ॒ते योनौ॑ वपते॒ह बीज॑म्। गि॒रा च॑ श्रु॒ष्टिः सभ॑रा॒ अस॑न्नो॒ नेदी॑य॒ऽइत्सृ॒ण्यः᳖ प॒क्वमेया॑त् ॥६८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यु॒नक्त॑। सीरा॑। वि। यु॒गा। त॒नु॒ध्व॒म्। कृ॒ते। योनौ॑। व॒प॒त॒। इ॒ह। बीज॑म्। गि॒रा। च॒। श्रु॒ष्टिः। सभ॑रा॒ इति॒ सऽभ॑राः। अस॑त्। नः॒। नेदी॑यः। इत्। सृ॒ण्यः᳖। प॒क्वम्। आ। इ॒या॒त्। ६८।
महीधरः
म०. ‘आत्मनि कृषत्यनुपरिश्रिच्छुनᳪं᳭ सुफाला इति प्रत्यृचम्’ ( का० १७ । २ । १२) । चितिस्थाने परिश्रित्समीपे चतुर्ऋग्भिर्दक्षिणपश्चिमोत्तरपूर्वेषु चतस्रः सीताः कृषति । कुमारहारितदृष्टाः सीतादेवत्याश्चतस्रः । द्वे त्रिष्टुभौ तृतीया पङ्क्तिः चतुर्थ्यनुष्टुप् । सु शोभनाः फालाः सीराग्रस्था लोहविशेषाः शुनं सुखं यथा तथा भूमिं विकृषन्तु विलिखन्तु । शुनमिति सुखनाम । ‘फालः सीरोपकरणोत्प्लवयोः फालमंशुके’ इति कोशः । कीनाशा हलिनः शुनं सुखेन वाहैः वृषभैः सह अभियन्तु अभिगच्छन्तु । हे शुनासीरा शुनासीरौ हे वाय्वादित्यौ, अस्मे अस्माकमोषधीः व्रीह्यादिकाः सुपिप्पलाः शोभनफलाः युवां कर्तन कुरुत । कुरुतमिति वचनव्यत्ययः । थस्य तनबादेशे शपि लुप्ते गुणे कृते कर्तनेति रूपम् । ‘कीनाशः कर्षके क्षुद्रे कृतान्तोपांशुघातिनोः’ इति कोशः । शुनश्च | सीरश्च शुनासीरौ ‘देवताद्वन्द्वे च’ (पा० ६ । ३ । २६) इति पूर्वपददीर्घः । शुनो वायुः सीर आदित्यः । ‘शुनो वायुः शु इत्यन्तरिक्षे सीर आदित्यः सरणात्’ (निरु० ९।४०) इति यास्कोक्तेः । कीदृशौ शुनासीरौ । हविषा जलेन तोशमाना। तोशतिर्वधकर्मा । भूमिं घ्नन्तौ जलेन भूमिं सिञ्चन्तौ सन्तावोषधीः सफलाः कुरुतमिति भावः । पिप्पलं फलम् ॥ ६९॥
सप्ततितमी।
अधिमन्त्रम् (VC)
- कृषीवलाः कवयो वा देवताः
- विश्वावसुर्ऋषिः
- विराडार्षी
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोग (इह) इस पृथिवी वा बुद्धि में साधनों को (वितनुध्वम्) विविध प्रकार से विस्तारयुक्त करो (सीरा) खेती के साधन हल आदि वा नाड़ियाँ और (युगा) जुआओं को (युनक्त) युक्त करो (कृते) हल आदि से जोते वा योग के अङ्गों से शुद्ध किये अन्तःकरण (योनौ) खेत में (बीजम्) यव आदि वा सिद्धि के मूल को (वपत) बोया करो। (गिरा) खेती विषयक कर्मों की उपयोगी सुशिक्षित वाणी (च) और अच्छे विचार से (सभराः) एक प्रकार के धारण और पोषण में युक्त (श्रुष्टिः) शीघ्र हूजिये, जो (सृण्यः) खेतों में उत्पन्न हुए यव आदि अन्न जाति के पदार्थ हैं, उनमें जो (नेदीयः) अत्यन्त समीप (पक्वम्) पका हुआ (असत्) होवे, वह (इत्) ही (नः) हम लोगों को (आ) (इयात्) प्राप्त होवे ॥६८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! तुम लोगों को उचित है कि विद्वानों से योगाभ्यास और खेती करने हारों से कृषिकर्म की शिक्षा को प्राप्त हो और अनेक साधनों को बना के खेती और योगाभ्यास करो। इससे जो अन्नादि पका हो, उस-उस का ग्रहण कर भोजन करो और दूसरों को कराओ ॥६८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यूयमिह साधनानि वितनुध्वं सीरा युगा युनक्त। कृते योनौ बीजं वपत, गिरा च सभराः श्रुष्टिर्भवत, याः सृण्यः सन्ति ताभ्यो यन्नेदीयोऽसत् पक्वं भवेत् तदिदेव न एयात् ॥६८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यूयं विद्वद्भ्यः कृषीवलेभ्यश्च कृषियोगकर्मशिक्षां प्राप्यानेकानि साधनानि सम्पाद्य कृषिं योगं च कुरुत। तस्माद् यद् यत् पक्वं स्यात्, तत्तद् गृहीत्वोपभुङ्ग्ध्वं भोजयत वा ॥६८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! तुम्ही विद्वानांकडून योगाभ्यास व कृषितज्ज्ञाकडून शेतीकामाचे शिक्षण घ्या. अनेक साधनांनी युक्त होऊन शेती व योगाभ्यास करा. त्यामुळे जे अन्न प्राप्त होईल त्याचे सेवन करून इतरांनाही द्या.
६९ शुनं सु
विश्वास-प्रस्तुतिः ...{Loading}...
शु॒नँ सु फाला॒ वि कृ॑षन्तु॒ भूमिँ॑ शु॒नं की॒नाशा॑ऽअ॒भि य॑न्तु वा॒हैः। शुना॑सीरा ह॒विषा॒ तोश॑माना सुपिप्प॒लाऽओष॑धीः कर्त्तना॒स्मे ॥६९ ॥
मूलम् ...{Loading}...
शु॒नँ सु फाला॒ वि कृ॑षन्तु॒ भूमिँ॑ शु॒नं की॒नाशा॑ऽअ॒भि य॑न्तु वा॒हैः। शुना॑सीरा ह॒विषा॒ तोश॑माना सुपिप्प॒लाऽओष॑धीः कर्त्तना॒स्मे ॥६९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
शु॒नम्। सु। फालाः॑। वि। कृ॒ष॒न्तु। भूमि॑म्। शु॒नम्। की॒नाशाः॑। अ॒भि। य॒न्तु॒। वा॒हैः। शुना॑सीरा। ह॒विषा॑। तोश॑माना। सु॒पि॒प्प॒ला इति॑ सुऽपि॒प्प॒लाः। ओष॑धीः। क॒र्त्त॒न॒। अ॒स्मेऽइत्य॒स्मे। ६९।
महीधरः
म० सीता लाङ्गलपद्धतिर्मधुना मधुरेण घृतेनोदकेन समज्यतां संसिच्यतां सिक्ता भवतु । कीदृशी सीता । विश्वैर्देवैर्मरुद्भिश्चानुमता अनुज्ञाता अङ्गीकृता वा । एवं परोक्षमुक्त्वा प्रत्यक्षमाह हे सीते, ऊर्जस्वती अन्नवती सा त्वं पयसा पयोदधिघृतादिभिः पिन्वमाना दिशः पूरयन्ती सती पयसा दुग्धादिभिः सह अभ्याववृत्स्व अस्मदभिमुखमावृत्ता भव । अस्माकमनुकूला भवेत्यर्थः । वृतेः ‘बहुलं छन्दसि’ (पा० २ । ४ । ७६ ) इति शपः श्नौ सति लोटि ववृत्स्वेति रूपम् ॥ ७० ॥
एकसप्ततितमी।
अधिमन्त्रम् (VC)
- कृषीवला देवताः
- कुमारहारित ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (कीनाशाः) परिश्रम से क्लेशभोक्ता खेती करने हारे हैं, वे (फालाः) जिनसे पृथिवी को जोतें, उन फालों से (वाहैः) बैल आदि के साथ वर्त्तमान हल आदि से (भूमिम्) पृथिवी को (विकृषन्तु) जोतें और (शुनम्) सुख को (अभियन्तु) प्राप्त होवें। (हविषा) शुद्ध किये घी आदि से शुद्ध (तोशमाना) सन्तोषकारक (शुनासीरा) वायु और सूर्य्य के समान खेती के साधन (अस्मे) हमारे लिये (सुपिप्पलाः) सुन्दर फलों से युक्त (ओषधीः) जौ आदि (कर्त्तन) करें और उन ओषधियों से (सु) सुन्दर (शुनम्) सुख भोगें ॥६९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो चतुर खेती करने हारे गौ और बैल आदि की रक्षा करके विचार के साथ खेती करते हैं, वे अत्यन्त सुख को प्राप्त होते हैं। इन खेतों में विष्ठा आदि मलीन पदार्थ नहीं डालने चाहिये, किन्तु बीज भी सुगन्धि आदि से युक्त करके ही बोवें कि जिससे अन्न भी रोगरहित उत्पन्न होकर मनुष्यादि के बल और बुद्धि को बढ़ावें ॥६९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये कीनाशास्ते फाला वाहैः सह वर्त्तमानैर्हलादिभिर्भूमिं विकृषन्तु, शुनमभियन्तु। हविषा तोशमाना शुनासीरेवास्मे सुपिप्पला ओषधीः कर्त्तन। ताभिः सु शुनं च ॥६९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये चतुराः कृषिकारा गोवृषभादीन् संरक्ष्य विचारेण कृषिं कुर्वन्ति, तेऽत्यन्तं सुखं लभन्ते। नात्र क्षेत्रेऽमेध्यं किंचित् प्रक्षेप्यम्। किन्तु बीजान्यपि सुगन्ध्यादियुक्तानि कृत्वैव वपन्तु, यतोऽन्नान्यारोग्यकराणि भूत्वा बलबुद्धी वर्धयेयुः ॥६९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे चतुर शेतकरी गाय व बैल इत्यादींचे रक्षण करून विचारपूर्वक शेती करतात ते अत्यंत सुखी होतात. शेतामध्ये विष्ठा इत्यादी मलीन पदार्थ टाकू नयेत, तर सुगंधीयुक्त बीज पेरावे. ज्यामुळे धान्य रोगरहित शुद्ध रूपाने उत्पन्न होऊन मनुष्याची बुद्धी वाढते.
७० घृतेन सीता
विश्वास-प्रस्तुतिः ...{Loading}...
घृ॒तेन॒ सीता॒ मधु॑ना॒ सम॑ज्यतां॒ विश्वै॑र्दे॒वैरनु॑मता म॒रुद्भिः॑। ऊर्ज॑स्वती॒ पय॑सा॒ पिन्व॑माना॒स्मान्त्सी॑ते॒ पय॑सा॒भ्या व॑वृत्स्व ॥७० ॥
मूलम् ...{Loading}...
घृ॒तेन॒ सीता॒ मधु॑ना॒ सम॑ज्यतां॒ विश्वै॑र्दे॒वैरनु॑मता म॒रुद्भिः॑। ऊर्ज॑स्वती॒ पय॑सा॒ पिन्व॑माना॒स्मान्त्सी॑ते॒ पय॑सा॒भ्या व॑वृत्स्व ॥७० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
घृ॒तेन॑। सीता॑। मधु॑ना। सम्। अ॒ज्य॒ता॒म्। विश्वैः॑। दे॒वैः। अनु॑म॒तेत्यनु॑ऽमता। म॒रुद्भि॒रिति॑ म॒रुत्ऽभिः॑। ऊर्ज॑स्वती। पय॑सा। पिन्व॑माना। अ॒स्मान्। सी॒ते॒। पय॑सा। अ॒भि। आ। व॒वृ॒त्स्व॒। ७०।
महीधरः
म० तत् पूर्वोक्तं लाङ्गलं हलं गां धेनुमविं छागविशेषं रथवाहनं रथवाहकमश्वादिकं च उद्वपति उद्गमयति प्रापयति । रथं वाहयति प्रापयतीति रथवाहनम् । कृषिसमृद्धावेव गवादिकं यजमानस्य सुलभमिति भावः । अतएव लाङ्गलं गवादिप्रापकम् । कीदृशं लाङ्गलम् । पवीरवत् । पविर्धारास्यास्तीति पवीरं फालः । रो मत्वर्थः। पवीरमस्यास्तीति पवीरवत् फालसंयुक्तम् । तथा सुशेवम् । शेवमिति सुखनाम शोभनसुखकरं शोभनं शेवं यस्मात् । तथा सोमपित्सरु सोमं पिबतीति सोमपाः यजमानः तस्मिन् सोमपि यजमाननिमित्तं त्सरति भूमिं खनतीति सोमपित्सरु । यद्वा सोमपि यजमाने त्सरति नाशयति पापमिति सोमपित्सरु । ‘त्सर छद्मगतौ’ इति धातोरुप्रत्ययः शीलार्थः । ‘हलदन्तात्सप्तम्या’ (पा० ६ । ३ । ९) इति विभक्तेरलुक् ‘आतो धातोः’ (पा० ६ । ४ । १४०) इति आलोपे हलन्तत्वात् । यद्वा सोमः पीयतेऽनेनेति सोमपिश्चमसः तस्य त्सरु निष्पादकम् । नहि लाङ्गलकर्मविना सोमचमसाः स्युः । ईदृशं लाङ्गलं गवादि गमयतीत्यर्थः । कीदृशीं | गामविं च । प्रफर्व्यं फर्वतिर्गतिकर्मा । प्रकर्षेण फर्वति गच्छति प्रफर्वी तां प्रफर्व्य ‘वा छन्दसि’ (पा० ६ । १ । १०६) | इत्यमि पूर्वरूपभावे यणादेशः । युवतित्वादतिवेगवतीमित्यर्थः । तथा पीवरीं स्थूलां पुष्टाङ्गीम् । कीदृशं रथवाहनम् । प्रस्थावत् | प्रस्था प्रस्थानं गतिरस्यास्तीति प्रस्थावत्प्रयाणसमर्थमुत्कृष्टजवोपेतमित्यर्थः ॥ ७१ ॥
द्विसप्ततितमी।
अधिमन्त्रम् (VC)
- कृषीवला देवताः
- कुमारहारित ऋषिः
- आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (विश्वैः) सब (देवैः) अन्नादि पदार्थों की इच्छा करनेवाले विद्वान् (मरुद्भिः) मनुष्यों की (अनुमता) आज्ञा से प्राप्त हुआ (पयसा) जल वा दुग्ध से (ऊर्जस्वती) पराक्रम सम्बन्धी (पिन्वमाना) सींचा वा सेवन किया हुआ (सीता) पटेला (घृतेन) घी तथा (मधुना) सहत वा शक्कर आदि से (समज्यताम्) संयुक्त करो। (सीते) पटेला (अस्मान्) हम लोगों को घी आदि पदार्थों से संयुक्त करेगा, इस हेतु से (पयसा) जल से (अभ्याववृत्स्व) बार-बार वर्त्ताओ ॥७० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सब विद्वानों को चाहिये कि किसान लोग विद्या के अनुकूल घी, मीठा और जल आदि से संस्कार कर स्वीकार की हुई खेत की पृथिवी को अन्न को सिद्ध करनेवाली करें। जैसे बीज सुगन्धि आदि युक्त करके बोते हैं, वैसे पृथिवी को भी संस्कारयुक्त करें ॥७० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - विश्वैर्देवैर्मरुद्भिर्युष्माभिरनुमता पयसोर्जस्वती पिन्वमाना सीता घृतेन मधुना समज्यताम्। सा सीते सीतास्मान् घृतादिना संयोक्ष्यतीति पयसाऽभ्याववृत्स्व अभ्यावर्त्तताम् ॥७० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सर्वे विद्वांसः कृषीवला विद्ययानुज्ञाता घृतमधुजलादिना सुसंस्कृतामनुमतां क्षेत्रभूमिमन्नसुसाधिकां कुर्वन्तु, यथा सुगन्धादियुक्तानि बीजानि कृत्वा वपन्ति, तथैव तामपि सुगन्धेन संस्कृतां कुर्वन्तु ॥७० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सर्व विद्वानांनी त्यांच्या विद्येनुसार शेतकऱ्यांना घृत, मध, जल इत्यादींनी संस्कारित केलेली शेतीची जमीन सुपीक होते हे सिद्ध करून दाखवावे. जसे बीज सुगंधी करून पेरतात तसे पृथ्वीलाही संस्कारित करावे.
७१ लाङ्गलं पवीरवत्
विश्वास-प्रस्तुतिः ...{Loading}...
लाङ्ग॑लं॒ पवी॑रवत् सु॒शेवँ॑ सोम॒पित्स॑रु। तदुद्व॑पति॒ गामविं॑ प्रफ॒र्व्यं᳖ च॒ पीव॑रीं प्र॒स्थाव॑द् रथ॒वाह॑णम् ॥७१ ॥
मूलम् ...{Loading}...
लाङ्ग॑लं॒ पवी॑रवत् सु॒शेवँ॑ सोम॒पित्स॑रु। तदुद्व॑पति॒ गामविं॑ प्रफ॒र्व्यं᳖ च॒ पीव॑रीं प्र॒स्थाव॑द् रथ॒वाह॑णम् ॥७१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
लाङ्ग॑लम्। पवी॑रवत्। सु॒शेव॒मिति॑ऽसु॒ऽशेव॑म्। सो॒म॒पित्स॒र्विति॑ सोम॒पिऽत्स॑रु। तत्। उत्। व॒प॒ति॒। गाम्। अवि॑म्। प्र॒फ॒र्व्य᳖मिति॑ प्रऽफ॒र्व्य᳖म्। च॒। पीव॑रीम्। प्र॒स्थाव॒दिति॑ प्र॒स्थाऽव॑त्। र॒थ॒वाह॑नम्। र॒थ॒वाह॑न॒मिति॑ रथ॒ऽवाह॑नम्। ७१।
महीधरः
म० कामान्मनोरथान्दुग्धे पूरयति कामदुघा । ‘दुहः कब् घश्च’ (पा० ३ । २ । ७० ) इति कप्प्रत्ययो घान्तादेशश्च तस्याः संबुद्धौ हे कामदुघे लाङ्गलपद्धते, मित्रादिपूषान्तदेवानामर्थे प्रजार्थमोषधिनिष्पत्त्यर्थं च काममपेक्षितं भोगं धुक्ष्व संपादय ॥ ७२ ॥
त्रिसप्ततितमी।
अधिमन्त्रम् (VC)
- कृषीवला देवताः
- कुमारहारित ऋषिः
- विराट्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे किसानो ! तुम लोग जो (सोमपित्सरु) जौ आदि ओषधियों के रक्षकों को टेढ़ा चलावे (पवीरवत्) प्रशंसित फाल से युक्त (सुशेवम्) सुन्दर सुखदायक (लाङ्गलम्) फाले के पीछे जो दृढ़ता के लिये काष्ठ लगाया जाता है, वह (च) और (प्रफर्व्यम्) चलाने योग्य (प्रस्थावत्) प्रशंसित प्रस्थानवाला (रथवाहनम्) रथ के चलने का साधन है, जिससे (अविम्) रक्षा आदि के हेतु (पीवरीम्) सब पदार्थों को भुगाने का हेतु स्थूल (गाम्) पृथिवी को (उद्वपति) उखाड़ते हैं (तत्) उसको तुम भी सिद्ध करो ॥७१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - किसान लोगों को उचित है कि मोटी मट्टी अन्न आदि की उत्पत्ति से रक्षा करने हारी पृथिवी की अच्छे प्रकार परीक्षा करके हल आदि साधनों से जोत, एकसार कर, सुन्दर संस्कार किये बीज [बो] के उत्तम धान्य उत्पन्न करके भोगें ॥७१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे कृषीवलाः ! यूयं सोमपित्सरु पवीरवत् सुशेवं लाङ्गलं प्रफर्व्यं प्रस्थावद् रथवाहनं चास्ति, येनाविं पीवरीं गामुद्वपति तद्यूयं साध्नुत ॥७१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - कृषीवलैः स्थूलमृत्स्नामन्नाद्युत्पादनेन रक्षिकां सुपरीक्ष्य हलादिसाधनैः संकृष्य समीकृत्य सुसंस्कृतानि बीजानि समुप्योत्तमानि धान्यान्युत्पाद्य भोक्तव्यानि ॥७१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - शेतकऱ्यांनी अन्न इत्यादी उत्पन्न करण्यासाठी व भूमीचे रक्षण व्हावे यासाठी जमिनीची चांगली परीक्षा करावी. नांगर इत्यादींनी जमीन नांगरून समतल करावी. संस्कारित बीज पेरून उत्तम धान्य उत्पन्न करावे व त्यांचा उपभोग घ्यावा.
७२ कामं कामदुघे
विश्वास-प्रस्तुतिः ...{Loading}...
कामं॑ कामदुघे धुक्ष्व मि॒त्राय॒ वरु॑णाय च। इन्द्रा॑या॒श्विभ्यां॑ पू॒ष्णे प्र॒जाभ्य॒ऽओष॑धीभ्यः ॥७२ ॥
मूलम् ...{Loading}...
कामं॑ कामदुघे धुक्ष्व मि॒त्राय॒ वरु॑णाय च। इन्द्रा॑या॒श्विभ्यां॑ पू॒ष्णे प्र॒जाभ्य॒ऽओष॑धीभ्यः ॥७२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
काम॑म्। का॒म॒दु॒घ॒ इति॑ कामऽदुघे। धु॒क्ष्व॒। मि॒त्राय॑। वरु॑णाय। च॒। इन्द्रा॑य। अ॒श्विभ्या॒मित्य॒श्विऽभ्या॑म्। पू॒ष्णे। प्र॒जाभ्य॒ इति॑ प्र॒जाऽभ्यः॑। ओष॑धीभ्यः। ७२।
महीधरः
म० ‘अनडुहो विमुच्य विमुच्यध्वमिति पशुवदुत्सृज्य दक्षिणाकालेऽध्वर्यवे ददाति’ (का० १७ । २ । २०-२१)। वृषान्हलाद्वियोज्य पशुवदित्यैशानीं दिशं प्रति विसृजत्यध्वर्युः यजमानश्च सुत्यायां ससीरांस्तानध्वर्यवे ददातीति सूत्रार्थः । विमोचने मन्त्रः वृषदेवत्यार्षी गायत्री पादानियमात् । हे देवयानाः, देवतार्थकर्मकारिणः, देवार्थं यानं कृष्याद्युद्यमो येषां ते । यद्वा देवयानमार्गहेतुभूताः कर्मद्वारा तत्प्रापकाः । हे अघ्न्या अहन्तव्या गावो बलीवर्दाः, यूयं विमुच्यध्वम् । मुचेः कर्मकर्तरि यक् लोटि । जगत्स्थितिहेतुं कृषिमेवं निष्पाद्य कृतकृत्याः सन्तो युगात्पृथग्भवतेत्यर्थः । अस्य तमसः क्षुत्पिपासाद्युद्भूतस्य दुःखस्य पारं समाप्तिं वयमगन्म प्राप्ताः । गच्छतेर्लङि शपि लुप्ते रूपम् । तदुक्तं ‘योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येतीति’ (बृह. ३ । २ । १।) । दुःखपारमेव स्पष्टयति । वयं ज्योतिरापाम परमात्मलक्षणं यज्ञरूपं वा तेजः प्राप्ताः । आप्नोतेर्लुङि ‘पुषादि-’ (पा० ३ । १ । ५५) इत्यादिना अङ्प्रत्ययः ॥ ७३ ॥
चतुःसप्ततितमी ।
अधिमन्त्रम् (VC)
- मित्रादयो लिङ्गोक्ता देवताः
- कुमारहारित ऋषिः
- आर्ची पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
पकानेहारी स्त्री अच्छे यत्न से सुन्दर अन्न और व्यञ्जनों को बनावे, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (कामदुघे) इच्छा को पूर्ण करने हारी रसोइया स्त्री ! तू पृथिवी के समान सुन्दर संस्कार किये अन्नों से (मित्राय) मित्र (वरुणाय) उत्तम विद्वान् (च) अतिथि अभ्यागत (इन्द्राय) परम ऐश्वर्य्य से युक्त (अश्विभ्याम्) प्राण-अपान (पूष्णे) पुष्टिकारक जन (प्रजाभ्यः) सन्तानों और (ओषधीभ्यः) सोमलता आदि ओषधियों से (कामम्) इच्छा को (धुक्ष्व) पूर्ण कर ॥७२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो स्त्री वा पुरुष भोजन बनावे, उसको चाहिये कि पकाने की विद्या सीख, प्रिय पदार्थ पका और उनका भोजन करा के सब को रोगरहित रक्खें ॥७२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पाचिका स्त्री प्रयत्नेन सुसंस्कृतान्यन्नानि व्यञ्जनानि कुर्यादित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे कामदुघे पाचिके त्वं भूमिरिव सुसंस्कृतैरन्नैर्मित्राय वरुणाय चेन्द्रायाश्विभ्यां पूष्णे प्रजाभ्य ओषधीभ्यः कामं धुक्ष्व ॥७२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - या स्त्री वा पुरुषः पाकं कुर्य्यात् तां तं च पाकविद्यां सुशिक्ष्य हृद्यान्यन्नानि निर्माय संभोज्य सर्वान् रोगान् दूरीकुर्यात् ॥७२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे स्त्री - पुरुष अन्न तयार करतात त्यांनी पाककलेची विद्या जाणावी व चांगले पदार्थ तयार करून सर्वांना भोजन द्यावे व निरोगी करावे.
७३ विमुच्यध्वमघ्न्या देवयानाऽअगन्म
विश्वास-प्रस्तुतिः ...{Loading}...
विमु॑च्यध्वमघ्न्या देवयाना॒ऽअग॑न्म॒ तम॑सस्पा॒रम॒स्य। ज्योति॑रापाम ॥७३ ॥
मूलम् ...{Loading}...
विमु॑च्यध्वमघ्न्या देवयाना॒ऽअग॑न्म॒ तम॑सस्पा॒रम॒स्य। ज्योति॑रापाम ॥७३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वि। मु॒च्य॒ध्व॒म्। अ॒घ्न्याः॒। दे॒व॒या॒ना॒ इति॑ देवऽयानाः। अग॑न्म। तम॑सः। पा॒रम्। अ॒स्य। ज्योतिः॑। आ॒पा॒म॒। ७३।
महीधरः
म० ‘पञ्चगृहीतेनोद्गृह्णन्नभिजुहोति सजूरब्द इति’ (का० १७। ३ । ३)। तदानीं संस्कृतेन जुह्वा पञ्चगृहीतेनाज्येन कृष्टात्ममध्यस्थापितकुशस्तम्बे स्रुचमूर्ध्वां कुर्वञ्जुहोति लिङ्गोक्तदेवतं यजुर्ब्राह्म्यनुष्टुप्छन्दस्कम् । अब्दः अपो जलानि ददातीत्यब्दः संवत्सरः उषाः प्रातरधिष्ठात्री देवता अश्विना अश्विनौ देवभिषजौ सूरः सूर्यः वैश्वानरः अग्निश्च एभ्योऽब्दादिदेवेभ्यो घृतेन स्वाहा इदं घृतं तेभ्यः सुहुतमस्तु । तेषां प्रत्येकं विशेषणानि । कीदृशोऽब्दः । अयवोभिः सजू: यवाश्चायवाश्चार्धमासा मासाश्चोच्यन्ते जोषणं जुट् प्रीतिः सह जुषा वर्तते समाना जुट् वा यस्य सजूः । जुषतेः संपदादित्वाद्भावे क्विप्। मासार्धमासैः प्रीतियुक्त इत्यर्थः । कीदृश्युषाः । अरुणीभिः अरुणवर्णाभिः गोभिः सजूः प्रीतियुता । कीदृशावश्विनौ । दंसोभिः कर्मभिश्चिकित्सादिभिः सजोषसौ प्रीतौ । कीदृशः सूरः । एतशेनाश्वेन सजूः तुष्टः । कीदृशोऽग्निः । इडया पृथिव्या सजूः प्रीतः तदधिष्ठातृत्वात् । आग्नेयी हि पृथिवी इडाशब्देन गौर्वागन्नं चोच्यते ॥ ७४ ॥
पञ्चसप्ततितमी।
अधिमन्त्रम् (VC)
- अघ्न्या देवताः
- कुमारहारित ऋषिः
- भुरिगार्षी गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को गौ आदि पशुओं को बढ़ा, उन से दूध घी आदि की वृद्धि कर आनन्द में रहना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे तुम लोग (अघ्न्याः) रक्षा के योग्य (देवयानाः) दिव्य भोगों की प्राप्ति की हेतु गौओं को प्राप्त हो, सुन्दर संस्कार किये अन्नों का भोजन करके रोगों से (विमुच्यध्वम्) पृथक् रहते हो, वैसे हम लोग भी बचें। जैसे तुम लोग (तमसः) रात्रि के (पारम्) पार को प्राप्त होते हो, वैसे हम भी (अगन्म) प्राप्त होवें। जैसे तुम लोग (अस्य) इस सूर्य्य के (ज्योतिः) प्रकाश को व्याप्त होते हो, वैसे हम भी (वि) (आपाम) व्याप्त होवें ॥७३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को चाहिये कि गौ आदि पशुओं को भी न मारें और न मरवावें तथा न किसी को मारने दें। जैसे सूर्य्य के उदय से रात्रि निवृत्त होती है, वैसे वैद्यकशास्त्र की रीति से पथ्य अन्नादि पदार्थों का सेवन कर रोगों से बचें ॥७३ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यैर्गवादिपशुवृद्धिं कृत्वा पयोघृतादीनि वर्द्धयित्वानन्दितव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा यूयं अघ्न्या देवयानाः प्राप्य सुसंस्कृतान्यन्नानि भुक्त्वा रोगेभ्यो विमुच्यध्वम्, तथा वयमपि विमुच्येमहि। यथा यूयं तमसः पारं प्राप्नुत, तथा वयमप्यगन्म। यथा यूयमस्य ज्योतिर्व्याप्नुत, तथा वयमप्यापाम ॥७३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्या गवादीन् पशून् कदाचिन्न हन्युर्न घातयेयुश्च। यथा सूर्योदयाद् रात्रिर्निवर्त्तते, तथा वैद्यकशास्त्ररीत्या पथ्यान्यन्नानि संसेव्य रोगेभ्यो निवर्त्तन्ताम् ॥७३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. माणसांनी गाई इत्यादी पशूंना कधी मारू नये व इतरांनाही मारू देऊ नये. जसे सूर्याचा उदय झाल्यानंतर रात्रीचा लोप होतो तसे वैद्यकशास्त्राच्या पद्धतीने पथ्य व अन्न इत्यादी पदार्थांचे सेवन केल्यास रोग नष्ट हातात.
७४ सजूरब्दोऽअयवोभिः सजूरुषाऽअरुणीभिः
विश्वास-प्रस्तुतिः ...{Loading}...
स॒जूरब्दो॒ऽअय॑वोभिः स॒जूरु॒षाऽअरु॑णीभिः। स॒जोष॑साव॒श्विना॒ दँसो॑भिः स॒जूः सूर॒ऽएत॑शेन स॒जूर्वै॑श्वान॒रऽइड॑या घृ॒तेन॒ स्वाहा॑ ॥७४ ॥
मूलम् ...{Loading}...
स॒जूरब्दो॒ऽअय॑वोभिः स॒जूरु॒षाऽअरु॑णीभिः। स॒जोष॑साव॒श्विना॒ दँसो॑भिः स॒जूः सूर॒ऽएत॑शेन स॒जूर्वै॑श्वान॒रऽइड॑या घृ॒तेन॒ स्वाहा॑ ॥७४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स॒जूरिति॑ स॒ऽजूः। अब्दः॑। अय॑वोभि॒रित्यय॑वःऽभिः। स॒जूरिति॑ स॒ऽजूः। उ॒षाः। अरु॑णीभिः। स॒जोष॑सा॒विति॑ स॒जोष॑ऽसौ। अ॒श्विना॑। दँसो॑भि॒रिति॒ दँसः॑ऽभिः। स॒जूरिति॑ स॒ऽजूः। सूरः॑। एत॑शेन। स॒जूरिति॑ स॒ऽजूः। वै॒श्वा॒न॒रः। इड॑या। घृ॒तेन॑। स्वाहा॑। ७४।
महीधरः
म० ‘या ओषधीरिति तृचैर्वपत्युदपात्रवत्’ (का० १७ । ३ । ८)। पञ्चभिस्तृचैश्चमसेन सर्वौषधं वपति उदपात्रवदिति चतुश्चतुःसीतासु यथाकृष्टम् । अथर्वपुत्रभिषग्दृष्टा ओषधिदेवत्या यो अस्मानभिदासतीत्यन्ताः (१०१) सप्तविंशतिरनुष्टुभः मुञ्चन्तु मेत्याद्या ( ९० ) द्वादश बन्धुदृष्टाः कुत्रापि कर्मण्यनियुक्ताः । पादानां न्यूनाधिक्ये व्यूहाधिक्ये कार्ये । युगशब्दः कालवाची । त्रयाणां युगानां समाहारस्त्रियुगं त्रिकालं वसन्ते प्रावृषि शरदि च । पुरा सृष्ट्यादौ या ओषधीः ओषधयः पूर्वाः प्रथमा भाविनीभ्यः ओषधीभ्यः आद्याः जाता उत्पन्नाः । किमर्थं । देवेभ्यः ऋतुभ्यः। ‘ऋतवो वै देवाः’ (७ । २ । ४ । २६) इति श्रुतेः। ऋतव ओषधियुताः कर्तव्या एतदर्थम् । बभ्रूणां जगज्जनभरणसमर्थानां पाकेन पिङ्गलवर्णानां वा तासामोषधीनां शतं सप्त च धामानि अहं मनै नु मन्य एव जाने । मन्यतेर्लिटि आत्मनेपदे उत्तमैकवचने शपि ‘एत ऐ’ (पा० ३ । ४ । ९३) इति रूपम् । संवत्सरोपलक्षितमेकैकं स्थानं ‘शतायुर्वै पुरुषः’ इति श्रुतेः शतं धामानि वर्षात्मकानि शिरःस्थानि मुखदृङ्नासाख्यानि सप्त स्थानानि च ‘य एवेमे सप्त शीर्षन् प्राणास्तानेतदाह’ (७ । २ । ४ । २६) इति श्रुतेः । नराणां शतवर्षपर्यन्तमिन्द्रियाणामोषधिभिस्तर्प्यमाणत्वादोषधीनां तत्स्थानत्वम् । यद्वा शतं धामानि स्थानभेदान् जातिभेदानसंख्यान् विशेषतश्च सप्त भेदान्याम्यानारण्यांश्च व्रीह्यादीन्नीवारादींश्चाहं जाने ॥ ७५ ॥
षट्सप्ततितमी।
अधिमन्त्रम् (VC)
- अश्विनौ देवते
- कुमारहारित ऋषिः
- आर्षी जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को किस प्रकार परस्पर सुखी होना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! हम सब लोग स्त्री-पुरुष जैसे (अयवोभिः) एकरस क्षणादि काल के अवयवों से (सजूः) संयुक्त (अब्दः) वर्ष (अरुणीभिः) लाल कान्तियों के (सजूः) साथ वर्त्तमान (उषाः) प्रभात समय (दंसोभिः) कर्मों से (सजोषसौ) एकसा वर्त्ताववाले (अश्विना) प्राण और अपान के समान स्त्री-पुरुष वा (एतशेन) चलते घोड़े के समान व्याप्तिशील वेगवाले किरणनिमित्त पवन के (सजूः) साथ वर्त्तमान (सूरः) सूर्य (इडया) अन्न आदि का निमित्तरूप पृथिवी वा (घृतेन) जल से (स्वाहा) सत्य वाणी के (सजूः) साथ (वैश्वानरः) बिजुलीरूप अग्नि वर्त्तमान है, वैसे ही प्रीति से वर्त्तें ॥७४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों में जितनी परस्पर मित्रता हो उतना ही सुख और जितना विरोध उतना ही दुःख होता है। उस से सब लोग स्त्रीपुरुष परस्पर उपकार करने के साथ ही सदा वर्त्तें ॥७४ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यैः कथं कृत्वा सुखयितव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! वयं सर्वे स्त्रीपुरुषा यथाऽयवोभिः सजूरब्दोऽरुणीभिः सजूरुषा दंसोभिः सजोषसावश्विनेव एतशेनेव सजूः सूर इडया घृतेन स्वाहा सजूर्वैश्वानरश्च वर्तते, तथैव प्रीत्या वर्त्तेमहि ॥७४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्येषु यावत् परस्परं सौहार्दं तावदेव सुखम्। यावद् दौहार्दं तावदेव दुःखं च जायते, तस्मात् सर्वैः स्त्रीपुरुषः परोपकारक्रियया सहैव सदा वर्त्तितव्यम् ॥७४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांमध्ये जितकी परस्पर मैत्री असेल तितके सुख मिळते व जितका विरोध असेल तितके दुःख होते. त्यासाठी सर्व स्त्री-पुरुषांनी परस्पर उपकार होईल असे वर्तन करावे.
७५ या ओषधीः
विश्वास-प्रस्तुतिः ...{Loading}...
या ओष॑धीः॒ पूर्वा॑ जा॒ता दे॒वेभ्य॑स्त्रियु॒गं पु॒रा। मनै॒ नु ब॒भ्रूणा॑म॒हँ श॒तं धामा॑नि स॒प्त च॑ ॥७५ ॥
मूलम् ...{Loading}...
या ओष॑धीः॒ पूर्वा॑ जा॒ता दे॒वेभ्य॑स्त्रियु॒गं पु॒रा। मनै॒ नु ब॒भ्रूणा॑म॒हँ श॒तं धामा॑नि स॒प्त च॑ ॥७५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
याः। ओष॑धीः। पूर्वाः॑। जा॒ताः। दे॒वेभ्यः॑। त्रि॒यु॒गमिति॑ त्रिऽयु॒गम्। पु॒रा। मनै॑। नु। ब॒भ्रूणा॑म्। अ॒हम्। श॒तम्। धामा॑नि। स॒प्त। च॒। ७५।
महीधरः
म० हे अम्ब, मातृस्थाना ओषधयः वो युष्माकं धामानि जातिभेदाः क्षेत्राणि वा जन्मानि वा शतं सन्ति । उत अपिच वो युष्माकं रुहः रोहन्तीति रुहः प्ररोहा अङ्कुराः सहस्रं सन्ति । शतसहस्रपदाभ्यामपरिमितत्वमुच्यते । अध अथ ‘निपातस्य च’ (पा० ६।३ । १३६) इति संहितायां दीर्घः। शतं क्रत्वः कर्माणि याभिस्ताः शतक्रतवः ‘जसि च’ (पा० ७ । ३ । १०९) प्राप्तगुणस्याभावे छान्दसो यणादेशः । अथैवं सति हे शतक्रत्व, यूयं मे मम इमं यजमानमगदं क्षुत्पिपासादिषडूर्मिरोगरहितं कृत कुरुत । करोतेः शपो लुक् ॥ ७६ ॥
सप्तसप्ततितमी।
अधिमन्त्रम् (VC)
- वैद्यो देवता
- भिषगृषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को अवश्य ओषधिसेवन कर रोगों से बचना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अहम्) मैं (याः) जो (ओषधीः) सोमलता आदि ओषधी (देवेभ्यः) पृथिवी आदि से (त्रियुगम्) तीन वर्ष (पुरा) पहिले (पूर्वाः) पूर्ण सुख दान में उत्तम (जाताः) प्रसिद्ध हुई, जो (बभ्रूणाम्) धारण करने हारे रोगियों के (शतम्) सौ (च) और (सप्त) सात (धामानि) जन्म वा नाडि़यों के मर्मों में व्याप्त होती हैं, उन को (नु) शीघ्र (मनै) जानूँ ॥७५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को योग्य है कि जो पृथिवी और जल में ओषधी उत्पन्न होती हैं, उन तीन वर्ष के पीछे ठीक-ठीक पकी हुई को ग्रहण कर वैद्यकशास्त्र के अनुकूल विधान से सेवन करें। सेवन की हुई वे ओषधी शरीर के सब अंशों में व्याप्त हो के शरीर के रोगों को छुड़ा सुखों को शीघ्र करती हैं ॥७५ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यैरवश्यमौषधसेवनं कृत्वारोगैर्वर्तितव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - अहं या ओषधीर्देवेभ्यस्त्रियुगं पुरा पूर्वा जाता, या बभ्रूणां शतं सप्त च धामानि मर्माणि व्याप्नुवन्ति, ता नु मनै शीघ्रं जानीयाम् ॥७५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्याः पृथिव्यामप्सु चौषधयो जायन्ते, गतत्रिवर्षा भवेयुस्ताः सङ्गृह्य यथावैद्यकशास्त्रविधि संसेव्याः, ता भुक्ताः सत्यः सर्वाणि मर्माण्यभिव्याप्य रोगान्निवार्य शरीरसुखानि सद्यो जनयन्ति ॥७५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - पृथ्वीवर व जलामध्ये जी औषधी तयार होते ती तीन वर्षांपूर्वीची परिपक्व झालेली असावी. माणसांनी वैद्यक शास्राप्रमाणे ती सेवन करावी. अशी औषधी सर्व अंगांगात भिनून तत्काळ रोग नाहीसे करून सुखी करते.
७६ शतं वोऽअम्ब
विश्वास-प्रस्तुतिः ...{Loading}...
श॒तं वो॑ऽअम्ब॒ धामा॑नि स॒हस्र॑मु॒त वो॒ रुहः॑। अधा॑ शतक्रत्वो यू॒यमि॒मं मे॑ऽअग॒दं कृ॑त ॥७६ ॥
मूलम् ...{Loading}...
श॒तं वो॑ऽअम्ब॒ धामा॑नि स॒हस्र॑मु॒त वो॒ रुहः॑। अधा॑ शतक्रत्वो यू॒यमि॒मं मे॑ऽअग॒दं कृ॑त ॥७६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
श॒तम्। वः॒। अ॒म्ब॒। धामा॑नि। स॒हस्र॑म्। उ॒त। वः॒। रुहः॑। अध॑। श॒त॒क्र॒त्व॒ इति॑ शतऽक्रत्वः। यू॒यम्। इ॒मम्। मे॒। अ॒ग॒द॒म्। कृ॒त॒। ७६।
महीधरः
म० हे ओषधीः हे ओषधयः, यूयं प्रतिमोदध्वं हृष्टा भवत । कीदृश्यो यूयम् । पुष्पवतीः पुष्पैरुपेताः । प्रसूवरीः फलप्रसववत्यः प्रसुवते जनयन्ति फलानीति प्रसूवरीः ‘अन्येभ्योऽपि दृश्यन्ते’ (पा. ३ । २ । ७५) इति सूतेर्वनिपि प्रत्यये ‘वनो र च’ (पा० ४ । १ । ७) इति ङीप् रान्तादेशश्च । अश्वा इव सजित्वरीः सह जयन्ति तच्छीलाः ‘इण्नशजि-’ (पा० ३ । २ । १६३ ) इति क्वरप् ‘टिड्ढाणञ्-’ (पा० ४ । १ । १५) इति ङीप् । यथाश्वाः संग्रामे जयशीलाः तद्वत्फलपर्यन्तत्वाज्जयशीलाः । ‘वा छन्दसि’ (पा. ६ । १ । १०६) इति सर्वत्र पूर्वसवर्णदीर्घः । वीरुधः विविधं रुन्धन्ति निवारयन्ति व्याधिमिति वीरुधः ‘नहिवृतिवृधि-’ (पा० ६।३ । ११६) इत्यादिना उपसर्गदीर्घः । यद्वा विविधं रोहन्ति प्ररोहन्तीति वीरुधः । विरुहः क्वौ धान्तादेशो । वेर्दीर्घः इति धान्तादेश उपसर्गदीर्घश्च । पारयिष्णवः ‘पारतीर कर्मसमाप्तौ’ चुरादिरदन्तो धातुः । पारयन्ति फलपाकान्तत्वं परित्यज्य बहुकालं कर्मपरायणशीलाः पारयिष्णवः ‘णेश्छन्दसि’ (पा० ३ । २ । १३७) इतीष्णुच्प्रत्ययः ॥७७ ॥
अष्टसप्ततितमी ।
अधिमन्त्रम् (VC)
- वैद्यो देवता
- भिषगृषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्य क्या करके किस को सिद्ध करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (शतक्रत्वः) सैकड़ों प्रकार की बुद्धि वा क्रियाओं से युक्त मनुष्यो ! (यूयम्) तुम लोग जिन के (शतम्) सैकड़ों (उत) वा (सहस्रम्) हजारहों (रुहः) नाड़ियों के अंकुर हैं, उन ओषधियों से (मे) मेरे (इमम्) इस शरीर को (अगदम्) नीरोग (कृत) करो। (अधा) इसके पश्चात् (वः) आप अपने शरीरों को भी रोगरहित करो, जो (वः) तुम्हारे असंख्य (धामानि) मर्म्म स्थान हैं, उनको प्राप्त होओ। हे (अम्ब) माता ! तू भी ऐसा ही आचरण कर ॥७६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि सबसे पहिले ओषधियों का सेवन, पथ्य का आचरण और नियमपूर्वक व्यवहार करके शरीर को रोगरहित करें, क्योंकि इसके विना धर्म्म, अर्थ, काम और मोक्षों का अनुष्ठान करने को कोई भी समर्थ नहीं हो सकता ॥७६ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्याः किं कृत्वा किं साधयेयुरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे शतक्रत्वः ! यूयं यासां शतमुत सहस्रं रुहः सन्ति, ताभिर्मे ममेमं देहमगदं कृत। अध स्वयं वो देहानगदान् कुरुत। यानि वोऽसंख्यानि धामानि तानि प्राप्नुत। हे अम्ब ! त्वमप्येवमाचर ॥७६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्याणामिदमादिमं कर्त्तव्यं कर्म्मास्ति यदोषधिसेवनं पथ्याचरणं सुनियमव्यवहरणं च कृत्वा शरीरारोग्यसम्पादनम्। नह्येतेन विना धर्मार्थकाममोक्षाणामनुष्ठानं कर्त्तुं कश्चिदपि शक्नोति ॥७६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी सर्व प्रथम औषधांचे सेवन, पथ्याचे आचरण व नियमपूर्वक व्यवहार करून शरीर निरोगी बनवावे. कारण त्याशिवाय धर्म, अर्थ, काम, मोक्ष यांचे अनुष्ठान कोणीही समर्थपणे करू शकत नाही.
७७ ओषधीः प्रतिमोदध्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
ओष॑धीः॒ प्रति॑मोदध्वं॒ पुष्प॑वतीः प्र॒सूव॑रीः। अश्वा॑ऽइव स॒जित्व॑रीर्वी॒रुधः॑ पारयि॒ष्ण्वः᳖ ॥७७ ॥
मूलम् ...{Loading}...
ओष॑धीः॒ प्रति॑मोदध्वं॒ पुष्प॑वतीः प्र॒सूव॑रीः। अश्वा॑ऽइव स॒जित्व॑रीर्वी॒रुधः॑ पारयि॒ष्ण्वः᳖ ॥७७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ओष॑धीः। प्रति॑। मो॒द॒ध्व॒म्। पुष्प॑वती॒रिति॒ पुष्प॑ऽवतीः। प्र॒सूव॑री॒रिति॑ प्र॒ऽसूव॑रीः। अश्वाः॑ऽइ॒वेत्यश्वाः॑ऽइव। स॒जित्व॑री॒रिति॑ स॒ऽजित्व॑रीः। वी॒रुधः॑। पा॒र॒यि॒ष्ण्वः᳖। ७७।
महीधरः
म० हे ओषधीः ओषधयः, हे मातरः जगन्निर्मात्र्यः, भोजनदानव्याध्यपगमादिभिरुपकर्त्र्यः हे देवीः देव्यः, वो युष्मान् प्रति इति अमुना वक्ष्यमाणविधिना तत् प्रसिद्धं मदभीष्टमुपब्रुवे वच्मि प्रार्थयामि । इति किम् तदाह । हे पुरुष यज्ञपुरुष, तव प्रसादादश्वं हयं गां धेनुं वासो वस्त्रमात्मानं शरीरमहं सनेयं संभजेयम् । ‘वन षण संभक्तौ’ लिङ् । यज्ञपुरुषं प्रति मया यदश्वादिकं प्रार्थ्यते तदोषधिभिरनुमन्तव्यमित्योषधिप्रार्थनमिति भावः ॥ ७८ ॥
एकोनाशीतितमी ॥
अधिमन्त्रम् (VC)
- वैद्यो देवता
- भिषगृषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
कैसी ओषधियों का सेवन करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोग (अश्वा इव) घोड़ों के समान (सजित्वरीः) शरीरों के साथ संयुक्त रोगों को जीतनेवाली (वीरुधः) सोमलता आदि (पारयिष्ण्वः) दुःखों से पार करने के योग्य (पुष्पवतीः) प्रशंसित पुष्पों से युक्त (प्रसूवरीः) सुख देने हारी (ओषधीः) ओषधियों को प्राप्त होकर (प्रतिमोदध्वम्) नित्य आनन्द भोगो ॥७७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे घोड़ों पर चढ़े वीर पुरुष शत्रुओं को जीत, विजय को प्राप्त हो के आनन्द करते हैं, वैसे श्रेष्ठ ओषधियों के सेवन और पथ्याहार करने हारे जितेन्द्रिय मनुष्य रोगों से छूट आरोग्य को प्राप्त हो के नित्य आनन्द भोगते हैं ॥७७ ॥
दयानन्द-सरस्वती (सं) - विषयः
कीदृश्य ओषधयः सेव्या इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्या यूयमश्वा इव सजित्वरीर्वीरुधः पारयिष्ण्वः पुष्पवतीः प्रसूवरीरोषधीः संसेव्य प्रतिमोदध्वम् ॥७७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथाऽश्वारूढा वीराः शत्रून् जित्वा विजयं प्राप्याऽऽनन्दन्ति, तथा सदौषधसेविनः पथ्यकारिणो जितेन्द्रिया जना आरोग्यमवाप्य नित्यं मोदन्ते ॥७७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जसे घोड्यावर स्वार होऊन वीर पुरुष शत्रूंना जिंकतात व विजय प्राप्त करून आनंदी होतात तसे श्रेष्ठ औषधांच्या सेवनाने व पथ्याहाराने जितेंद्रिय माणसे रोगांपासून मुक्त होऊन सदैव आनंदी राहतात.
७८ ओषधीरिति मातरस्तद्वो
विश्वास-प्रस्तुतिः ...{Loading}...
ओष॑धी॒रिति॑ मातर॒स्तद्वो॑ देवी॒रुप॑ ब्रुवे। स॒नेय॒मश्वं॒ गां वास॑ऽआ॒त्मानं॒ तव॑ पूरुष ॥७८ ॥
मूलम् ...{Loading}...
ओष॑धी॒रिति॑ मातर॒स्तद्वो॑ देवी॒रुप॑ ब्रुवे। स॒नेय॒मश्वं॒ गां वास॑ऽआ॒त्मानं॒ तव॑ पूरुष ॥७८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ओष॑धीः। इति॑। मा॒त॒रः॒। तत्। वः॒। दे॒वीः॒। उप॑। ब्रु॒वे॒। स॒नेय॑म्। अश्व॑म्। गाम्। वासः॑। आ॒त्मान॑म्। तव॑। पू॒रु॒ष॒। पु॒रु॒षेति॑ पुरुष। ७८।
महीधरः
म० हे ओषधयः, वो युष्माकमश्वत्थे आश्वथ्यामुपभृति स्रुचि निषदनं स्थानं भवति हविषां तत्र स्थापनात् । किंच वो युष्माकं पर्णे पलाशे पर्णमय्यां जुह्वां वसतिः स्थितिः कृता । । अध्वर्युणा होमार्थ जुह्वां स्थापनात् अश्वत्थपर्णशब्दाभ्यां तद्वितप्रत्ययलोपश्छान्दसः । “अथापि तद्धितेन कृत्स्नवन्निगमो भवन्ति’ (नि० २।५) इति यास्कोक्तेः । हविर्भूता ओषधयः प्रार्थ्यन्ते । किलेति विद्याप्रकर्षे । इत् एवार्थे । हे हविर्भूता ओषधयः, यूयमग्नौ हुताः सत्यो गोभाजः असथ भवथ । गामादित्यं भजन्तीति गोभाजः । ‘अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते’ इति श्रुतेः । यद्वा अश्वत्थे वो निषदनमश्वत्थे फलिते सर्वौषधीनां फलवत्त्वात् पर्णे वो वसतिः कृता पलाशे च फलिते व्रीह्यादीनां फलितत्वात् । अतएव यूयमुप्ताः सत्यो गोभाजो भूमिभाज एव किलासथ भवथ । ‘गौर्नादित्ये बलीवर्दे मखभेदर्षिभेदयोः । स्त्रियां स्याद्दिशि भारत्यां भूमौ च सुरभावपि’ इति कोशात् । किमर्थमिदमित्यत आह । यत् यस्मात्कारणात् पुरुषं यजमानं यूयं सनवथ सेवध्वमन्नदानेन पोषयथ तस्मादश्वत्थादिस्थानमित्यर्थः । अश्वत्थे पलाशे च वः स्थानम् । देवाधिष्ठानादश्वत्थो लोके नतिप्रदक्षिणादिना पूज्यते पलाशश्चेध्मादिरूपेण । एवमश्वत्थादिरूपेण यूयं भूभाजः स्थ । शेषं पूर्ववत् । अस्तेः शपि असथेति रूपं लटि । सनवतिः परिचर्यार्थः ॥ ७९ ॥
अशीतितमी।
अधिमन्त्रम् (VC)
- चिकित्सुर्देवता
- भिषगृषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर पिता और पुत्र आपस में कैसे वर्त्तें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (ओषधीः) ओषधियों के (इति) समान सुखदायक (देवीः) सुन्दर विदुषी स्त्री (मातरः) माता ! मैं पुत्र (वः) तुम को (तत्) श्रेष्ठ पथ्यरूप कर्म्म (उपब्रुवे) समीपस्थित होकर उपदेश करूँ। हे (पूरुष) पुरुषार्थी श्रेष्ठ सन्तान ! मैं माता (तव) तेरे (अश्वम्) घोड़े आदि (गाम्) गौ आदि वा पृथिवी आदि (वासः) वस्त्र आदि वा घर और (आत्मानम्) जीव को निरन्तर (सनेयम्) सेवन करूँ ॥७८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे जौ आदि ओषधी सेवन की हुई शरीरों को पुष्ट करती हैं, वैसे ही माता विद्या, अच्छी शिक्षा और उपदेश से सन्तानों को पुष्ट करें। जो माता का धन है, वह भाग सन्तान का और जो सन्तान का है, वह माता का, ऐसे सब परस्पर प्रीति से वर्त्त कर निरन्तर सुख को बढ़ावें ॥७८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः पित्रपत्यानि परस्परं कथं वर्त्तेरन्नित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे ओषधीरिति देवीर्मातरोऽहं तनयो वस्तत्पत्थ्यं वच उपब्रुवे। हे पुरुष ! सुसन्तानाऽहं माता तवाश्वं गां वास आत्मानं च सततं सनेयम् ॥७८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा यवादय ओषधयः सेविताः शरीराणि पुष्यन्ति, तथैव जनन्यो विद्यासुशिक्षोपदेशेनाऽपत्यानि सुपोषयेयुः। यन्मातुरैश्वर्यं तद्दायोऽपत्यस्य यदपत्यस्यैतन्मातुरस्ति, एवं सर्वे सुप्रीत्या वर्त्तित्वा परस्परस्य सुखानि सततं वर्धयेयुः ॥७८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जसे जव इत्यादी धान्य व औषधी खाल्ल्याने शरीर पुष्ट होते, तसेच मातेने विद्या, चांगले शिक्षण व उपदेश यांनी संतानांना पुष्ट करावे. जे मातेचे पैतृक धन आहे ते संतानांचे असते व जे संतानाचे असते ते मातेचे होय. अशा प्रकारे सर्वांनी परस्पर प्रेमाने राहून निरंतर सुख वाढवावे.
७९ अश्वत्थे वो
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒श्व॒त्थे वो॑ नि॒षद॑नं प॒र्णे वो॑ वस॒तिष्कृ॒ता। गो॒भाज॒ऽइत् किला॑सथ॒ यत् स॒नव॑थ॒ पूरु॑षम् ॥७९ ॥
मूलम् ...{Loading}...
अ॒श्व॒त्थे वो॑ नि॒षद॑नं प॒र्णे वो॑ वस॒तिष्कृ॒ता। गो॒भाज॒ऽइत् किला॑सथ॒ यत् स॒नव॑थ॒ पूरु॑षम् ॥७९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒श्व॒त्थे। वः॒। नि॒षद॑नम्। नि॒सद॑न॒मिति॑ नि॒ऽसद॑नम्। प॒र्णे। वः॒। व॒स॒तिः। कृ॒ता। गो॒भाज॒ इति॑ गो॒ऽभाजः॑। इत्। किल॑। अ॒स॒थ॒। यत्। स॒नव॑थ। पूरु॑षम्। पुरु॑ष॒मिति॒ पुरु॑षम्। ७९।
महीधरः
म०. हे ओषधीः ओषधयः, यत्र विप्रे भैषज्यकर्तरि ब्राह्मणे यूयं समग्मत संगच्छत रोगं जेतुम् । के इव राजान इव । यथा राजानः समितौ युद्धे शत्रून् जेतुं समागच्छन्ति । गमेर्लुङि मध्यमबहुवचने ‘पुषादि-’ (पा० ३ । १।५५) इत्यङि ‘गमहन-’ (पा० ६ । ४ । ९८) इत्युपधालोपे छान्दसेऽग्मतेति रूपम् । स भवदाश्रितो विप्रः भिषग्वैद्य उच्यते कथ्यते । कीदृशो विप्रः । रक्षोहा रक्षांसि हन्तीति रक्षोघ्नं पुरोडाशं कृत्वा रक्षसां हन्ता रक्षःकृतोपद्रवनाशकः । तथा अमीवचातनः अमीवान् रोगान् चातयति नाशयतीति अमीवचातनः ओषधदानै रोगनाशकः । चातयतिर्नाशनार्थः धातूनामनेकार्थत्वात् ॥ ८० ॥
एकाशीतितमी।
अधिमन्त्रम् (VC)
- वैद्यो देवता
- भिषगृषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्य लोग नित्य कैसा विचार करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! ओषधियों के समान (यत्) जिस कारण (वः) तुम्हारा (अश्वत्थे) कल रहे वा न रहे, ऐसे शरीर में (निषदनम्) निवास है; और (वः) तुम्हारा (पर्णे) कमल के पत्ते पर जल के समान चलायमान संसार में ईश्वर ने (वसतिः) निवास (कृता) किया है, इससे (गोभाजः) पृथिवी को सेवन करते हुए (किल) ही (पूरुषम्) अन्न आदि से पूर्ण देहवाले पुरुष को (सनवथ) ओषधि देकर सेवन करो और सुख को प्राप्त होते हुए (इत्) इस संसार में (असथ) रहो ॥७९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को ऐसा विचारना चाहिये कि हमारे शरीर अनित्य और स्थिति चलायमान है, इससे शरीर को रोगों से बचा कर धर्म्म, अर्थ, काम तथा मोक्ष का अनुष्ठान शीघ्र करके अनित्य साधनों से नित्य मोक्ष के सुख को प्राप्त होवें। जैसे ओषधि और तृण आदि फल, फूल, पत्ते, स्कन्ध और शाखा आदि से शोभित होते हैं, वैसे ही रोगरहित शरीरों से शोभायमान हों ॥७९ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्याः प्रत्यहं कीदृशं विचारं कुर्य्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! ओषधय इव यद्वोऽश्वत्थे निषदनं वः पर्णे वसतिः कृताऽस्ति, तस्माद् गोभाजः किल पूरुषं सनवथ सुखिन इदसथ ॥७९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैरेवं भावनीयमस्माकं शरीराण्यनित्यानि, स्थितिश्चञ्चलास्ति, तस्माच्छरीरमरोगिनं संरक्ष्य धर्मार्थकाममोक्षाणामनुष्ठानं सद्यः कृत्वाऽनित्यैः साधनैर्नित्यं मोक्षसुखं खलु लब्धव्यम्। यथौषधितृणादीनि पत्रपुष्पफलमूलस्कन्धशाखादिभिः शोभन्ते, तथैव नीरोगाणि शोभमानानि भवन्ति ॥७९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी असा विचार करावा की, आपले शरीर अनित्य आहे व स्थिती परिवर्तनशील आहे त्यामुळे शरीर रोगापासून वाचवावे व धर्म, अर्थ, काम, मोक्षाचे अनुष्ठान करावे आणि अनित्य साधनांनी नित्य मोक्षाचे सुख प्राप्त करावे. जसे वृक्ष व तृण इत्यादी फळे, फुले, पाने, फांद्या इत्यादींनी सुशोभित दिसतात तसेच निरोगी शरीराने शोभायमान व्हावे.
८० यत्रौषधीः समग्मत
विश्वास-प्रस्तुतिः ...{Loading}...
यत्रौष॑धीः स॒मग्म॑त॒ राजा॑नः॒ समि॑ताविव। विप्रः॒ सऽउ॑च्यते भि॒षग् र॑क्षो॒हामी॑व॒चात॑नः ॥८० ॥
मूलम् ...{Loading}...
यत्रौष॑धीः स॒मग्म॑त॒ राजा॑नः॒ समि॑ताविव। विप्रः॒ सऽउ॑च्यते भि॒षग् र॑क्षो॒हामी॑व॒चात॑नः ॥८० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यत्र॑। ओष॑धीः। स॒मग्म॒तेति॑ स॒म्ऽअग्मत्। राजा॑नः। समि॑तावि॒वेति॒ समि॑तौऽइव। विप्रः॑। सः। उ॒च्य॒ते॒। भि॒षक्। र॒क्षो॒हेति॑ रक्षः॒ऽहा। अ॒मी॒व॒चात॑न॒ इत्य॑मीव॒ऽचात॑नः। ८०।
महीधरः
म० अस्मै अस्य यजमानस्य अरिष्टतातये । रिषतिर्विनाशार्थः । रेषणं रिष्टम् भावे क्तः । न रिष्टमरिष्टमनाशो मङ्गलमित्यर्थः । तस्य कारणमरिष्टतातिः । ‘शिवशमरिष्टस्य करे’ (पा. ४ । ४ । १४३ । ) इति तातिप्रत्ययः । यद्वा तननं तातिर्विस्तारः तस्मै यजमानस्य शुभकरणाय सर्वा ओषधीरहमा अवित्सि समन्ताद्वेद्मि जानामि । वेत्तेर्लुङि आत्मनेपदे उत्तमैकवचने इडभावे अवित्सीति रूपम् । अस्मै यजमानार्थं वेद्मीति वा । तद्विशेषणम् । अरिष्टं शुभं करोति तनोति वारिष्टतातिस्तस्मै । सर्वाः का इत्यत आह । अश्वावतीमश्वा अस्यां सन्तीत्यश्ववती ताम् अश्वसंपादिनीं कांचित् ओषधिसमृद्धौ सत्यां धनद्वारेणाश्वलाभात् । अन्यां सोमवतीं सोमयागोऽस्यामस्तीति सोमवती तां सोमसंपादिनीं ‘मन्त्रे सोमाश्व-’ (पा. ६ । ३ । १३१) इत्यादिनाश्वसोमयोर्दीर्घः । ऊर्जयन्तीम् ‘ऊर्ज बलप्राणनयोः’ बलसंपादिनीं जीवयन्तीं वा ऊर्जयन्तीति । उदोजसमुद्गतमोजो यस्याः सा उदोजास्तां तेजःसंपादिनीम् । एवं नानाकार्यकारिणीः सर्वा ओषधीः जानामीत्यर्थः । यद्वा अश्वावतीमित्यादीनि बहुवचनान्तानि कार्याणि ओषधीरित्यस्य विशेषणत्वात् ॥ ८१॥
द्व्यशीतितमी ।
अधिमन्त्रम् (VC)
- ओषधयो देवताः
- भिषगृषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
बार-बार श्रेष्ठ वैद्यों का सेवन करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोग (यत्र) जिन स्थलों में (ओषधीः) सोमलता आदि ओषधी होती हों, उन को जैसे (राजानः) राजधर्म से युक्त वीरपुरुष (समिताविव) युद्ध में शत्रुओं को प्राप्त होते हैं, वैसे (समग्मत) प्राप्त हों, जो (रक्षोहा) दुष्ट रोगों का नाशक (अमीवचातनः) रोगों को निवृत्त करनेवाला (विप्रः) बुद्धिमान् (भिषक्) वैद्य हो, (सः) वह तुम्हारे प्रति (उच्यते) ओषधियों के गुणों का उपदेश करे और ओषधियों का तथा उस वैद्य का सेवन करो ॥८० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे सेनापति से शिक्षा को प्राप्त हुए राजा के वीर पुरुष अत्यन्त पुरुषार्थ से देशान्तर में जा शत्रुओं को जीत के राज्य को प्राप्त होते हैं, वैसे श्रेष्ठ वैद्य से शिक्षा को प्राप्त हुए तुम लोग ओषधियों की विद्या को प्राप्त होओ। जिस शुद्ध देश में ओषधि हों, वहाँ उन को जान के उपयोग में लाओ और दूसरों के लिये भी बताओ ॥८० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः पुनः सद्वैद्यसेवनं कार्य्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यूयं यत्रौषधीः सन्ति ता राजानः समिताविव समग्मत, यो रक्षोहाऽमीवचातनो विप्रो भिषग्भवेत् स युष्मान् प्रत्युच्यत उच्येत, तद्गुणान् प्रकाशयेत्, तास्तं च सदा सेवध्वम् ॥८० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा सेनापतिसुशिक्षिता राज्ञो वीरपुरुषाः परमप्रयत्नेन देशान्तरं गत्वा शत्रून् विजित्य राज्यं प्राप्नुवन्ति, तथा सद्वैद्यसुशिक्षिता यूयमोषधिविद्यां प्राप्नुत। यस्मिन् शुद्धे देश ओषधयः सन्ति, ता विज्ञायोपयुङ्ग्ध्वमन्येभ्यश्चोपदिशत ॥८० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसे सेनापतींकडून प्रशिक्षित झालेले राज्यातील वीर पुरुष देशोदेशी जाऊन अत्यंत पुरुषार्थाने शत्रूंना जिंकून राज्य प्राप्त करतात, तसेच श्रेष्ठ वैद्याकडून शिक्षण घेऊन तुम्ही लोक औषधी विद्या प्राप्त करा व ज्या देशात शुद्ध औषधी असेल त्यांचे ज्ञान प्राप्त करून त्यांचा उपयोग करा व इतरांनाही तसे करावयास सांगा.
८१ अश्वावती सोमावतीमूर्जयन्तीमुदोजसम्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒श्वा॒व॒तीँ सो॑माव॒तीमू॒र्जय॑न्ती॒मुदो॑जसम्। आवि॑त्सि॒ सर्वा॒ऽओष॑धीर॒स्माऽअ॑रि॒ष्टता॑तये ॥८१ ॥
मूलम् ...{Loading}...
अ॒श्वा॒व॒तीँ सो॑माव॒तीमू॒र्जय॑न्ती॒मुदो॑जसम्। आवि॑त्सि॒ सर्वा॒ऽओष॑धीर॒स्माऽअ॑रि॒ष्टता॑तये ॥८१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒श्वा॒व॒तीम्। अ॒श्वा॒व॒तीमित्य॑श्वऽव॒तीम्। सो॒मा॒व॒तीम्। सो॒म॒व॒तीमिति॑ सो॑मऽव॒तीम्। ऊ॒र्जय॑न्तीम्। उदो॑जस॒मित्युत्ऽओ॑जसम्। आ। अ॒वि॒त्सि॒। सर्वाः॑। ओष॑धीः। अ॒स्मै। अ॒रि॒ष्टता॑तय॒ इत्य॑रि॒ष्टऽता॑तये। ८१।
महीधरः
म० हे पुरुष यज्ञपुरुष, तवात्मानं त्वदीयं शरीरं प्रति धनं सनिष्यन्तीनाम् ‘षणु दाने’ हवीरूपं धनं दातुमिच्छन्तीनामोषधीनां शुष्मा बलानि सामर्थ्यानि उदीरते उद्गच्छन्ति प्रकाशीभवन्ति । गावो गोष्ठादिव यथा गोष्ठात् स्वस्थानाद् गावोऽरण्यदेशं प्रति उद्गच्छन्ति तद्वत् । ‘ईर कम्पे अदादिः ॥८२॥
त्र्यशीतितमी।
अधिमन्त्रम् (VC)
- वैद्यो देवता
- भिषगृषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को नित्य पुरुषार्थ बढ़ाना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे मैं (अरिष्टतातये) दुःखदायक रोगों के छुड़ाने के लिये (अश्वावतीम्) प्रशंसित शुभगुणों से युक्त (सोमावतीम्) बहुत रस से सहित (उदोजसम्) अति पराक्रम बढ़ाने हारी (ऊर्जयन्तीम्) बल देती हुई श्रेष्ठ ओषधीयों को (आ) सब प्रकार (अवित्सि) जानूँ कि जिससे (सर्वाः) सब (ओषधीः) ओषधी (अस्मै) इस मेरे लिये सुख देवें, इसलिये तुम लोग भी प्रयत्न करो ॥८१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को चाहिये कि रोगों का निदान, चिकित्सा, ओषधि और पथ्य के सेवन से निवारण करें तथा ओषधियों के गुणों का यथावत् उपयोग लेवें कि जिससे रोगों की निवृत्ति होकर पुरुषार्थ की वृद्धि होवे ॥८१ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यैः सदा पुरुषार्थ उन्नेय इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथाऽहमरिष्टतातयेऽश्वावतीं सोमावतीमुदोजसमूर्जयन्तीं महौषधीमावित्सि, सर्वा ओषधीरस्मै यूयमपि प्रयतध्वम् ॥८१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्याणामादिममिदं कर्माऽस्ति यद्रोगाणां निदानचिकित्सौषधपथ्यसेवनमोषधीनां गुणज्ञानं यथावदुपयोजनं च यतो रोगनिवृत्या निरन्तरं पुरुषार्थोन्नतिः स्यादिति ॥८१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. माणसांनी रोगनिदान करून चिकित्सा करावी व औषध आणि पथ्यसेवन यांनी रोगनिवारण करावे. औषधांचा गुण जाणून त्याचा यथायोग्य उपयोग करावा व रोगांचा नाश करून पुरुषार्थ वाढवावा.
८२ उच्छुष्मा ओषधीनाम्
विश्वास-प्रस्तुतिः ...{Loading}...
उच्छुष्मा॒ ओष॑धीनां॒ गावो॑ गो॒ष्ठादि॑वेरते। धनँ॑ सनि॒ष्यन्ती॑नामा॒त्मानं॒ तव॑ पूरुष ॥८२ ॥
मूलम् ...{Loading}...
उच्छुष्मा॒ ओष॑धीनां॒ गावो॑ गो॒ष्ठादि॑वेरते। धनँ॑ सनि॒ष्यन्ती॑नामा॒त्मानं॒ तव॑ पूरुष ॥८२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उत्। शुष्माः॑। ओष॑धीनाम्। गावः॑। गो॒ष्ठादि॑व। गो॒स्थादि॒वेति॑ गो॒स्थात्ऽइ॑व। ई॒र॒ते॒। धन॑म्। स॒नि॒ष्यन्ती॑नाम्। आ॒त्मान॑म्। तव॑। पू॒रु॒ष॒। पु॒रु॒षेति॑ पुरुष। ८२।
महीधरः
म० हे ओषधयः, वो युष्माकमिष्कृतिर्नाम निष्कृतिनाम्नी माता जननी । निष्करोति व्याधिं नाशयतीति निष्कृतिः । ‘निशब्दो बहुलम्’ ( ३ । १ । १७) इति प्रातिशाख्यसूत्रेणोपसर्गैकदेशनकारलोपः । अथो अपि च यूयमपि निष्कृतीः निष्कृतयः स्थ व्याधिनिष्क्रमणकारिण्यो भवथ निष्कृतिमातृरूपत्वात् । किंच सीराः सह इरया अन्नेन वर्तन्त इति सीराः । सहस्य सादेशे टिलोप इकारदीर्घश्च छान्दसः । यद्वा सीराः क्षुधादीनामपसारयित्र्यः । यद्वा सीरं हलं निष्पादकत्वेन यासु ताः सीराः । पतत्रिणीः पतत्रं पतनं गमनं विद्यते यासां ताः पतत्रिण्यः प्रसरणशीलाश्च स्थन भवथ । ‘वा छन्दसि’ ( पा० ६। १।१०६) इति दीर्घः ‘तप्तनप्त-’ (पा. ७ । १ । ४५) इत्यादिना थस्य थनादेशः । यत् यस्मात् आमयति ‘अम रोगे’ चुरादिः शत्रन्तः । रुजति आमयाविनि नरे स्थितं रोगं निष्कृथ नाशयथ । यद्वा यत् क्षुधादिकं रोगवद् बाधते तद्यूयं निष्कृथ । करोतेः शपि लुप्ते लटि रूपम् ॥ ८३ ॥
चतुरशीतितमी।
अधिमन्त्रम् (VC)
- ओषधयो देवताः
- भिषगृषिः
- विराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
ओषधियों का क्या निमित्त है, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (पूरुष) पुरुष-शरीर में सोनेवाले वा देहधारी ! (धनम्) ऐश्वर्य्य बढ़ानेवाले को (सनिष्यन्तीनाम्) सेवन करती हुई (ओषधीनाम्) सोमलता वा जौ आदि ओषधियों के सम्बन्ध से जैसे (शुष्माः) प्रशंसित बल करने हारी (गावः) गौ वा किरण (गोष्ठादिव) अपने स्थान से बछड़ों वा पृथिवी को प्राप्त होती हैं, वैसे ओषधियों का तत्त्व (तव) तेरे (आत्मानम्) आत्मा को (उदीरते) प्राप्त होता है, उन सब की तू सेवा कर ॥८२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। हे मनुष्यो ! जैसे रक्षा की हुई गौ अपने दूध आदि से अपने बच्चों और मनुष्य आदि को पुष्ट करके बलवान् करती है, वैसे ही ओषधियाँ तुम्हारे आत्मा और शरीर को पुष्ट कर पराक्रमी करती हैं। जो कोई न खावे तो क्रम से बल और बुद्धि की हानि हो जावे। इसलिये ओषधी ही बल बुद्धि का निमित्त है ॥८२ ॥
दयानन्द-सरस्वती (सं) - विषयः
किन्निमित्ता ओषधयः सन्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे पूरुष ! या धनं सनिष्यन्तीनामोषधीनां शुष्मा गावो गोष्ठादिव तवात्मानमुदीरते, तास्त्वं सेवस्व ॥८२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। हे मनुष्याः ! यथा सम्पालिता गावो दुग्धादिभिः स्ववत्सान् मनुष्यादींश्च सम्पोष्य बलयन्ति, तथैवौषधयो युष्माकमात्मशरीरे सम्पोष्य पराक्रमयन्ति। यदि कश्चिदन्नादिकमौषधं न भुञ्जीत, तर्हि क्रमशो बलविज्ञानह्रासं प्राप्नुयात्, तस्मादेता एतन्निमित्ताः सन्तीति वेद्यम् ॥८२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. हे माणसांनो ! जशा पाळीव गाई आपल्या पाडसांना व माणसांना दुधाने पुष्ट व बलवान करतात तशी औषधेही (सोमलता वगैरे) आत्मा व शरीर यांना पुष्ट करून पराक्रमी बनवितात. याप्रमाणे औषधांचे सेवन न केल्यास क्रमाने बल व बुद्धी यांची हानी होते. त्यामुळे औषध हेच बल व बुद्धीचे निमित्त आहे.
८३ इष्कृतिर्नाम वो
विश्वास-प्रस्तुतिः ...{Loading}...
इष्कृ॑ति॒र्नाम॑ वो मा॒ताथो॑ यू॒यँ स्थ॒ निष्कृ॑तीः। सी॒राः प॑त॒त्रिणी॑ स्थन॒ यदा॒मय॑ति॒ निष्कृ॑थ ॥८३ ॥
मूलम् ...{Loading}...
इष्कृ॑ति॒र्नाम॑ वो मा॒ताथो॑ यू॒यँ स्थ॒ निष्कृ॑तीः। सी॒राः प॑त॒त्रिणी॑ स्थन॒ यदा॒मय॑ति॒ निष्कृ॑थ ॥८३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इष्कृ॑तिः। नाम॑। वः॒। मा॒ता। अथो॒ऽइत्यथो॑। यू॒यम्। स्थ॒। निष्कृ॑तीः। निष्कृ॑ती॒रिति॒ निःऽकृ॑तीः। सी॒राः। प॒त॒त्रिणीः॑। स्थ॒न॒। यत्। आ॒मय॑ति। निः। कृ॒थ॒। ८३।
महीधरः
म० परि सर्वतो रोगानधिष्ठाय तिष्ठन्तीति परिष्ठाः रोगनाशिका विश्वाः सर्वाः ओषधीः ओषधयो यदा अत्यक्रमुः आक्रमन्ते भक्षिताः सत्यो देहं व्याप्नुवन्ति । क्रमतेर्लङि अन उश् छान्दसः । तत्र दृष्टान्तः स्तेन इव व्रजम् । यथा रात्रौ स्तेनश्चोरो गोष्ठमाक्रमते गोशालायां गामपहर्तुं सर्वत्र गच्छति तद्वत् यदौषधयो रोगमपहर्तुं देहमाक्रमन्ते तदा तन्वः शरीरस्य यत् किंच यत्किमपि रपः पापं शिरोव्यथागुल्मातिसारादिरूपं पापफलं यत् किंचिदस्ति तत्सर्वं प्राचुच्यवुः प्रच्यावयन्ति नाशयन्ति ‘च्यु गतौ’ लुङि ‘णिश्रिद्रुस्रुभ्यः कर्तरि चङ्’ (पा० ३ । १ । ४८) इति चङ्प्रत्यये रूपम् । ‘रपो रिप्रमिति पापनामनी भवतः’ ( नि० ४ । २१) इति यास्कः॥८४ ॥
पञ्चाशीतितमी।
अधिमन्त्रम् (VC)
- वैद्या देवताः
- भिषगृषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अच्छे प्रकार सेवन की हुई ओषधी क्या करती हैं। यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (यूयम्) तुम लोग जो (वः) तुम्हारी (इष्कृतिः) कार्य्यसिद्धि करने हारी (माता) माता के समान ओषधी (नाम) प्रसिद्ध है, उसकी सेवा के तुल्य सेवन की हुई ओषधियों को जाननेवाले (स्थ) होओ (पतत्रिणीः) चलनेवाली (सीराः) नदियों के समान (निष्कृतीः) प्रत्युपकारों को सिद्ध करनेवाले (स्थन) होओ। (अथो) इसके अनन्तर (यत्) जो क्रिया वा ओषधी अथवा वैद्य (आमयति) रोग बढ़ावे, उसको (निष्कृथ) छोड़ो ॥८३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे मनुष्यो ! जैसे माता-पिता तुम्हारी सेवा करते हैं, वैसे तुम भी उनकी सेवा करो। जो-जो काम रोगकारी हो, उस-उस को छोड़ो। इस प्रकार सेवन की हुई ओषधी माता के समान प्राणियों को पुष्ट करती है ॥८३ ॥
दयानन्द-सरस्वती (सं) - विषयः
सुसेविता ओषधयः किं कुर्वन्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यूयं या व इष्कृतिर्मातेवौषधिर्नाम वर्त्तते, तस्याः सेवका इवौषधीः सेवितारः स्थ। पतत्रिणीः सीराः नद्य इव निष्कृतीः सम्पादयन्तः स्थनाथो यदाऽऽमयति तान्निष्कृथ ॥८३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः ! यथा मातापितरौ युष्मान् सेवन्ते, तथा यूयमप्येतान् सेवध्वम्। यद्यत्कर्म रोगाविष्करं भवति तत्तत् त्यजत। एवं सुसेविता ओषधयः प्राणिनो मातृवत् पोषयन्ति ॥८३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे माणसांनो ! माता - पिता जशी तुमची सेवा करतात तशी तुम्हीही त्यांची सेवा करा. जे जे काम रोग निर्माण करणारे असेल त्याचा त्याग करा. याप्रमाणे औषधांचे (सोमलता वगैरे) सेवन करण्याने मातेप्रमाणे ती प्राण्यांना पुष्ट करते.
८४ अति विश्वाः
विश्वास-प्रस्तुतिः ...{Loading}...
अति॒ विश्वाः॑ परि॒ष्ठा स्ते॒नऽइ॑व व्र॒जम॑क्रमुः। ओष॑धीः॒ प्राचु॑च्यवु॒र्यत्किं च॑ त॒न्वो᳙ रपः॑ ॥८४ ॥
मूलम् ...{Loading}...
अति॒ विश्वाः॑ परि॒ष्ठा स्ते॒नऽइ॑व व्र॒जम॑क्रमुः। ओष॑धीः॒ प्राचु॑च्यवु॒र्यत्किं च॑ त॒न्वो᳙ रपः॑ ॥८४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अति॑। विश्वाः॑। प॒रि॒ष्ठाः। प॒रि॒स्था इति॑ परि॒ऽस्थाः। स्ते॒नइ॒वेति॑ स्ते॒नःऽइ॑व। व्र॒जम्। अ॒क्र॒मुः॒। ओष॑धीः। प्र। अ॒चु॒च्य॒वुः। यत्। किम्। च॒। त॒न्वः᳖। रपः॑। ८४।
महीधरः
म० यत् यदा इमा ओषधीः वाजयन्पूजयन्मानयन्सन् ’ अहं हस्ते स्वकरे आदधे स्थापयामि तदैव यक्ष्मस्य व्याधेरात्मा स्वरूपं पुरा भक्षणात्प्रागेव नश्यति किं पुनर्भक्षणेनेति भावः । तत्र दृष्टान्तः । जीवगृभो यथा जीवन्सन्नेव यो हिंसार्थं गृह्यते आघातस्थानं नीयते स जीवगृप् तस्य जीवगृभो वधात्प्रागेवातिविषदान्मृतोऽहमिति मन्यमानस्य मनुष्यस्यात्मा यथा नश्यति नष्टप्रायो भवति तथौषधौ हस्ते धृतायां व्याधेरात्मा नश्यतीत्यर्थः ॥ ८५॥
षडशीतमी।
अधिमन्त्रम् (VC)
- वैद्या देवताः
- भिषगृषिः
- विराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
कैसे रोग निवृत्त होते हैं, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोग जो (परिष्ठाः) सब ओर से स्थित (विश्वा) सब (ओषधीः) सोमलता और जौ आदि ओषधी (व्रजम्) जैसे गोशाला को (स्तेन इव) भित्ति फोड़ के चोर जावे, वैसे पृथिवी फोड़ के (अत्यक्रमुः) निकलती हैं, (यत्) जो (किञ्च) कुछ (तन्वः) शरीर का (रपः) पापों के फल के समान रोगरूप दुःख है, उस सब को (प्राचुच्यवुः) नष्ट करती हैं, उन ओषधियों को युक्ति से सेवन करो ॥८४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे गौओं के स्वामी से धमकाया हुआ चोर भित्ति को फाँद के भागता है, वैसे ही श्रेष्ठ ओषधियों से ताड़ना किये रोग नष्ट हो के भाग जाते हैं ॥८४ ॥
दयानन्द-सरस्वती (सं) - विषयः
कथं रोगा निवर्त्तन्त इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यूयं याः परिष्ठा विश्वा ओषधीर्व्रजं स्तेन इवात्यक्रमुः, यत् किं च तन्वो रपस्तत्सर्वं प्राचुच्यवुस्ता युक्त्योपयुञ्जीध्वम् ॥८४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा चोरो गोस्वामिना धर्षितः सन् आभीरघोषमुल्लङ्घ्य पलायते, तथैव सदौषधैस्ताडिता रोगा नश्यन्ति ॥८४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जसा गाईचा मालक चोराला दरडावतो तेव्हा तो भिंतीवरून उडी मारून पळून जातो, तसे श्रेष्ठ औषधांचा मारा केल्यास रोग नष्ट होऊन पळून जातो.
८५ यदिमा वाजयन्नहमोषधीर्हस्तऽआदधे
विश्वास-प्रस्तुतिः ...{Loading}...
यदि॒मा वा॒जय॑न्न॒हमोष॑धी॒र्हस्त॑ऽआद॒धे। आ॒त्मा यक्ष्म॑स्य नश्यति पु॒रा जी॑व॒गृभो॑ यथा ॥८५ ॥
मूलम् ...{Loading}...
यदि॒मा वा॒जय॑न्न॒हमोष॑धी॒र्हस्त॑ऽआद॒धे। आ॒त्मा यक्ष्म॑स्य नश्यति पु॒रा जी॑व॒गृभो॑ यथा ॥८५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यत्। इ॒माः। वा॒जय॑न्। अ॒हम्। ओष॑धीः। हस्ते॑। आ॒द॒ध इत्या॑ऽद॒धे। आ॒त्मा। यक्ष्म॑स्य। न॒श्य॒ति॒। पु॒रा। जी॒व॒गृभ॒ इति॑ जीव॒ऽगृभः॑। य॒था॒। ८५।
महीधरः
म०. हे ओषधीः ओषधयः, यस्य रोगिणः अङ्गमङ्गं प्रत्यङ्गं ‘सर्वाण्यङ्गानि परुष्परुः । परुःशब्दः पर्ववचनः । प्रतिपरुः सर्वाणि पर्वाणि ग्रन्थीन् यूयं प्रसर्पथ प्रगच्छथ व्याप्नुथ ततोऽङ्गपर्वसमुदायात् यक्ष्मं रोगं यूयं विबाधध्वे निवर्तयथ व्याधिनाशं कुरुध्वे । तत्र दृष्टान्तः । उग्रो मध्यमशीरिव मध्ये देहमध्ये भवं मध्यमं मर्मभागं शृणाति हिनस्ति मध्यमशीः ‘शॄ हिंसायाम्’ क्विप् । ‘ऋत इद्धातोः’ (पा० ७ । १ । १००) इति इदादेशः ‘उरण् रपरः’ (पा. १।१। ५१) इति रेफः । मर्मघातकः उग्र उत्कृष्टो बद्धगोधाङ्गुलित्राण उद्गूर्णशस्त्रः क्षत्रियो यथा शत्रुं बाधते । यद्वा उग्रो रुद्रो मध्यमेन त्रिशूलमध्यभागेन शृणातीति मध्यमशीः यथा युगान्ते जगद्बाधते तद्वद् यूयमपि रोगिणो देहं प्रविष्टा व्याधिं विबाधध्व इत्यर्थः ॥८६॥
सप्ताशीतितमी।
अधिमन्त्रम् (VC)
- वैद्यो देवता
- भिषगृषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (यथा) जिस प्रकार (पुरा) पूर्व (वाजयन्) प्राप्त करता हुआ (अहम्) मैं (यत्) जो (इमाः) इन (ओषधीः) ओषधियों को (हस्ते) हाथ में (आदधे) धारण करता हूँ, जिनसे (जीवगृभः) जीव के ग्राहक व्याधि और (यक्ष्मस्य) क्षय=राजरोग का (आत्मा) मूलतत्त्व (नश्यति) नष्ट हो जाता है, उन ओषधियों को श्रेष्ठ युक्तियों से उपयोग में लाओ ॥८५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को चाहिये कि सुन्दर हस्तक्रिया से ओषधियों को सिद्ध कर ठीक-ठीक क्रम से उपयोग में ला और क्षय आदि बड़े रोगों को निवृत्त करके आनन्द के लिये प्रयत्न करें ॥८५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा पुरा वाजयन्नहं ओषधीर्हस्त आदधे याभ्यो जीवगृभो यक्ष्मस्यात्मा नश्यति, ताः सद्युक्त्योपयुञ्जताम् ॥८५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैः सुहस्तक्रिययौषधीः संसाध्य यथाक्रममुपयोज्य यक्ष्मादिरोगान्निवार्य्य नित्यमानन्दाय प्रयतितव्यम् ॥८५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. माणसांनी स्वतः औषध तयार करून योग्य रीतीने उपयोगात आणावे व क्षयरोग इत्यादी भयंकर रोगांना नष्ट करून सदैव आनंद प्राप्त करण्याचा प्रयत्न करावा.
८६ यस्यौषधीः प्रसर्पथाङ्गमङ्गम्
विश्वास-प्रस्तुतिः ...{Loading}...
यस्यौ॑षधीः प्र॒सर्प॒थाङ्ग॑मङ्गं॒ परु॑ष्परुः। ततो॒ यक्ष्मं॒ विबा॑धध्वऽउ॒ग्रो म॑ध्यम॒शीरि॑व ॥८६ ॥
मूलम् ...{Loading}...
यस्यौ॑षधीः प्र॒सर्प॒थाङ्ग॑मङ्गं॒ परु॑ष्परुः। ततो॒ यक्ष्मं॒ विबा॑धध्वऽउ॒ग्रो म॑ध्यम॒शीरि॑व ॥८६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यस्य॑। ओष॑धीः। प्र॒सर्प॒थेति॑ प्र॒ऽसर्प॑थ। अङ्ग॑मङ्ग॒मित्यङ्ग॑म्ऽअङ्गम्। प॑रुष्परुः। परुः॑परु॒रिति॒ परुः॑ऽपरुः। ततः॑। यक्ष्म॑म्। वि। बा॒ध॒ध्वे॒। उ॒ग्रः। म॒ध्य॒म॒शीरि॒वेति॑ मध्यम॒शीःऽइ॑व। ८६।
महीधरः
म० हे यक्ष्मरोग, त्वं चाषेण पक्षिणा साकं सह प्रपत प्रकर्षेण गच्छ । किंभूतेन चाषेण । किकिदीविना । किकीति शब्दानुकरणम् । किकीति शब्देन दीव्यति क्रीडतीति किकीदीविस्तेन । चाषस्तवोचितः सार्थः । वातस्य ध्राज्या गत्या साकं प्रपत वातगतिवत्पलायस्वेत्यर्थः । किंच निहाकया साकं नश्य नष्टो भव । निहन्ति कायमिति निहाका निर्ऋतिः कृच्छ्रापत्तिस्तया सह नश्य । यद्वा शब्दानुकरणमिदं । हा कष्टं कया ओषध्या निहतोऽहमिति शब्दं कुर्वन् हे यक्ष्म, त्वं नश्य । अर्थान्तरं वा। कफावरुद्धकण्ठोत्थध्वनेरनुकरणार्थः किकिशब्दः । किकिना कण्ठध्वनिना दीव्यतीति किकीदिविः श्लेष्मरोगः । ‘चष वधे’ चषति व्याकुलं कृत्वा हन्ति चाषः पित्तरोगः । वातस्य ध्राजिर्वातरोगः । हे यक्ष्म रोगराज, त्वं कफपित्तवातरोगैः सह प्रपत गच्छ । यया पीडया कया रुजा निहतोऽस्मि हा कष्टमिति शब्दं करोति सा निहाका सर्वाङ्गवेदना तया साकं हे यक्ष्म, त्वं नश्य ॥ ८७ ॥
अष्टाशीतितमी।
अधिमन्त्रम् (VC)
- वैद्यो देवता
- भिषगृषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
ठीक-ठीक सेवन की हुई ओषधी रोगों को कैसे न नष्ट करे, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोग (यस्य) जिसके (अङ्गमङ्गम्) सब अवयवों और (परुष्परुः) मर्म-मर्म के प्रति वर्त्तमान है, उसके उस (उग्रः) तीव्र (यक्ष्मम्) क्षय रोग को (मध्यमशीरिव) बीच के मर्मस्थानों को काटते हुए के समान (विबाधध्वे) विशेष कर निवृत्त कर (ततः) उसके पश्चात् (ओषधीः) ओषधियों को (प्रसर्पथ) प्राप्त होओ ॥८६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य लोग शास्त्र के अनुसार ओषधियों का सेवन करें, तो सब अवयवों से रोगों को निकाल के सुखी रहते हैं ॥८६ ॥
दयानन्द-सरस्वती (सं) - विषयः
यथायोग्यं सेवितमौषधं रोगान् कथं न नाशयेदित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यूयं यस्याङ्गमङ्गं परुष्परुः प्रति वर्त्तमानं उग्रो यक्ष्मं मध्यमशीरिव विबाधध्वे। तत ओषधीः प्रसर्पथ विजानीत तान् वयं सेवेमहि ॥८६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदि शास्त्राऽनुसारेणौषधानि सेवेरँस्तर्ह्यङ्गादङ्गाद् रोगान् निःसार्याऽरोगिनो भवन्ति ॥८६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे शास्त्रानुसार औषधांचे सेवन करतात त्यांच्या सर्व अवयवांचे रोग नष्ट होतात व ती सुखी होतात.
८७ साकं यक्ष्म
विश्वास-प्रस्तुतिः ...{Loading}...
सा॒कं य॑क्ष्म॒ प्रप॑त॒ चाषे॑ण किकिदी॒विना॑। सा॒कं वात॑स्य॒ ध्राज्या॑ सा॒कं न॑श्य नि॒हाक॑या ॥८७ ॥
मूलम् ...{Loading}...
सा॒कं य॑क्ष्म॒ प्रप॑त॒ चाषे॑ण किकिदी॒विना॑। सा॒कं वात॑स्य॒ ध्राज्या॑ सा॒कं न॑श्य नि॒हाक॑या ॥८७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सा॒कम्। य॒क्ष्म॒। प्र। प॒त॒। चाषे॑ण। कि॒कि॒दी॒विना॑। सा॒कम्। वात॑स्य। ध्राज्या॑। सा॒कम्। न॒श्य॒। नि॒हाक॒येति॑ नि॒ऽहाक॑या। ८७।
महीधरः
म० हे ओषधयः, वो युष्माकं मध्ये अन्या काचिदोषधिव्यक्तिरन्यामोषधिव्यक्तिमवतु । तथा रक्षिता अन्यापि अन्यस्या रक्षिकाया उपावत उपावतु उप समीपमागत्य पालयतु । पुरुषवचनव्यत्ययः । अन्यान्यस्याः प्रभावमवतु वा । ताः सर्वास्तथाविधा ओषधयो यूयं संविदानाः परस्परैकमत्यं गताः सत्यो मे ममेदं वचो वाक्यं प्रार्थनारूपं प्रावत प्रकर्षेण रक्षत ॥ ८८ ॥
एकोननवतितमी ।
अधिमन्त्रम् (VC)
- वैद्यो देवता
- भिषगृषिः
- विराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
कैसे-कैसे रोगों को नष्ट करें, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे वैद्य विद्वन् पुरुष ! (किकिदीविना) ज्ञान बढ़ाने हारे (चाषेण) आहार से (साकम्) ओषधियुक्त पदार्थों के साथ (यक्ष्म) राजरोग (प्रपत) हट जाता है, जैसे उस (वातस्य) वायु की (ध्राज्या) गति के (साकम्) साथ (नश्य) नष्ट हो और (निहाकया) निरन्तर छोड़ने योग्य पीड़ा के (साकम्) साथ दूर हो, वैसा प्रयत्न कर ॥८७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि ओषधियों का सेवन योगाभ्यास और व्यायाम के सेवन से रोगों को नष्ट कर सुख से वर्त्तें ॥८७ ॥
दयानन्द-सरस्वती (सं) - विषयः
कथं कथं रोगा निहन्तव्या इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे चिकित्सक विद्वन् ! किकिदीविना चाषेण साकं यक्ष्म प्रपत, यथा तस्य वातस्य ध्राज्या साकमयं नश्य, निहाकया साकं दूरीभवेत्, तदर्थं प्रयतस्व ॥८७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैरौषधसेवनप्राणायामव्यायामै रोगान् निहत्य सुखेन वर्त्तिव्यम् ॥८७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी औषधांचे सेवन, प्राणायाम व व्यायाम करून रोग नष्ट करावेत आणि सुखी व्हावे.
८८ अन्या वोऽअन्यामवत्वन्यान्यस्याऽउपावत
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒न्या वो॑ऽअ॒न्याम॑वत्व॒न्यान्यस्या॒ऽउपा॑वत। ताः सर्वाः॑ संविदा॒नाऽइ॒दं मे॒ प्राव॑ता॒ वचः॑ ॥८८ ॥
मूलम् ...{Loading}...
अ॒न्या वो॑ऽअ॒न्याम॑वत्व॒न्यान्यस्या॒ऽउपा॑वत। ताः सर्वाः॑ संविदा॒नाऽइ॒दं मे॒ प्राव॑ता॒ वचः॑ ॥८८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒न्या। वः॒। अ॒न्याम्। अ॒व॒तु॒। अ॒न्या। अ॒न्यस्याः॑। उप॑। अ॒व॒त॒। ताः। सर्वाः॑। सं॒वि॒दा॒ना इति॑ सम्ऽवि॒दा॒नाः। इ॒दम्। मे॒। प्र। अ॒व॒त॒। वचः॑। ८८।
महीधरः
म० या ओषधयः फलिनीः फलिन्यः फलयुक्ताः याश्चाफलाः फलरहिताः याश्चापुष्पाः पुष्परहिताः याश्च पुष्पिणीः पुष्पिण्यः पुष्पयुक्ताः ताः सर्वा ओषधयो बृहस्पतिप्रसूता बृहस्पतिप्रेरिताः सत्यो नोऽस्मानंहसः पापाद्रोगरूपान्मुञ्चन्तु पृथक् कुर्वन्तु ॥ ८९ ॥
एवमोषधिवापार्थानि पञ्च तृचानि समाप्तानि
नवतितमी।
अधिमन्त्रम् (VC)
- वैद्या देवताः
- भिषगृषिः
- विराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
युक्ति से मिलाई हुई ओषधियाँ रोगों को नष्ट करती हैं, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रियो ! (संविदानाः) आपस में संवाद करती हुई तुम लोग (मे) मेरे (इदम्) इस (वचः) वचन को (प्रावत) पालन करो, (ताः) उन (सर्वाः) सब ओषधियों की (अन्या) दूसरी (अन्यस्याः) दूसरी की रक्षा के समान (उपावत) समीप से रक्षा करो। जैसे (अन्या) एक (अन्याम्) दूसरी की रक्षा करती है, वैसे (वः) तुम लोगों को पढ़ाने हारी स्त्री (अवतु) तुम्हारी रक्षा करे ॥८८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे श्रेष्ठ नियमवाली स्त्री एक-दूसरे की रक्षा करती हैं, वैसे ही अनुकूलता से मिलाई हुई ओषधी सब रोगों से रक्षा करती हैं। हे स्त्रियो ! तुम लोग ओषधिविद्या के लिये परस्पर संवाद करो ॥८८ ॥
दयानन्द-सरस्वती (सं) - विषयः
युक्त्या संमेलिता ओषधयो रोगनाशिका जायन्त इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रियः ! संविदाना यूयमिदं मे वचः प्रावत, तास्सर्वा ओषधीरन्या अन्यस्या इवोपावत। यथाऽन्याऽन्यां रक्षति, तथा वोऽध्यापिकाऽवतु ॥८८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा सद्वृत्ताः स्त्रियोऽन्या अन्यस्या रक्षणं कुर्वन्ति, तथैवानुकूल्येन संमिलिता ओषधयः सर्वेभ्यो रोगेभ्यो रक्षन्ति। हे स्त्रियः ! यूयमोषधिविद्यायै परस्परं संवदध्वम् ॥८८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. ज्याप्रमाणे चांगले नियम पाळणारी स्त्री इतरांचे रक्षण करते त्याप्रमाणे योग्य प्रमाणात मिसळलेले औषध सर्व रोगांपासून बचाव करते. हे स्त्रियांनो ! तुम्ही औषधाविद्या जाणण्यासाठी परस्पर संवाद साधून विचार विनिमय करा.
८९ याः फलिनीर्याऽअफलाऽअपुष्पा
विश्वास-प्रस्तुतिः ...{Loading}...
याः फ॒लिनी॒र्याऽअ॑फ॒लाऽअ॑पु॒ष्पा याश्च॑ पु॒ष्पिणीः॑। बृह॒स्पति॑प्रसूता॒स्ता नो॑ मुञ्च॒न्त्वँह॑सः ॥८९ ॥
मूलम् ...{Loading}...
याः फ॒लिनी॒र्याऽअ॑फ॒लाऽअ॑पु॒ष्पा याश्च॑ पु॒ष्पिणीः॑। बृह॒स्पति॑प्रसूता॒स्ता नो॑ मुञ्च॒न्त्वँह॑सः ॥८९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
याः। फ॒लिनीः॑। याः। अ॒फ॒लाः अ॒पु॒ष्पाः। याः। च॒। पु॒ष्पिणीः॑। बृह॒स्पति॑प्रसूता॒ इति॒ बृह॒स्पति॑ऽप्रसूताः। ताः। नः॒। मु॒ञ्च॒न्तु। अँह॑सः। ८९।
महीधरः
म० अथानारभ्याधीता मन्त्राः। शपथनिमित्तात्किल्बिषात्पापादोषधयो मा मां मुञ्चन्तु पृथक्कुर्वन्तु । अथो अपिच वरुण्यात् वरुणे भवं वरुण्यं तस्माद्वरुणापराधनिमित्तात्पापान्मां मुञ्चन्तु । उतापि च यमस्य संबन्धिनः पड़्वीशात् । पड्वीशशब्दो बन्धनवाची । यमबन्धननिमित्तात्पापान्मां मुञ्चन्तु । अथो अपिच सर्वस्माद्देवकिल्बिषाद्देवापराधनिमित्तात्पापान्मां मुञ्चन्तु ॥ ९० ॥
एकनवतितमी।
अधिमन्त्रम् (VC)
- वैद्या देवताः
- भिषगृषिः
- विराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
रोगों के निवृत्त होने के लिये ही ओषधी ईश्वर ने रची है, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (याः) जो (फलिनीः) बहुत फलों से युक्त (याः) जो (अफलाः) फलों से रहित (याः) जो (अपुष्पाः) फूलों से रहित (च) और जो (पुष्पिणीः) बहुत फूलोंवाली (बृहस्पतिप्रसूताः) वेदवाणी के स्वामी ईश्वर के द्वारा उत्पन्न की हुई औषधियाँ (नः) हमको (अंहसः) दुःखदायी रोग से जैसे (मुञ्चन्तु) छुड़ावें (ताः) वे तुम लोगों के भी वैसे रोगों से छुड़ावें ॥८९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को चाहिये कि जो ईश्वर ने सब प्राणियों की अधिक अवस्था और रोगों की निवृत्ति के लिये ओषधी रची हैं, उनसे वैद्यकशास्त्र में कही हुई रीतियों से सब रोगों को निवृत्त कर और पापों से अलग रह कर धर्म में नित्य प्रवृत्त रहें ॥८९ ॥
दयानन्द-सरस्वती (सं) - विषयः
रोगनिवारणार्था एवौषधय ईश्वरेण निर्मिता इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! या फलिनीर्याः अफला या अपुष्पा याश्च पुष्पिणीर्बृहस्पतिप्रसूता ओषधयो नोंऽहसो यथा मुञ्चन्तु, ता युष्मानपि मोचयन्तु ॥८९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैर्या ईश्वरेण सर्वेषां प्राणिनां जीवनाय रोगनिवारणाय चौषधयो निर्मिताः, ताभ्यो वैद्यकशास्त्रोक्तोपयोगेन सर्वान् रोगान् हत्वा पापाचाराद् दूरे स्थित्वा धर्मे नित्यं प्रवर्त्तितव्यम् ॥८९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. माणसांनी हे जाणावे की सर्व प्राण्यांचे आयुष्य अधिक वाचावे व रोगांची निवृत्ती व्हावी यासाठी परमेश्वराने औषधांची निर्मिती केलेली आहे. तेव्हा त्यांनी वैद्यकशास्त्राच्या नियमांप्रमाणे सर्व रोगांना दूर करून पापापासून दूर राहून धर्मामध्ये नेहमी प्रवृत्त राहावे.
९० मुञ्चन्तु मा
विश्वास-प्रस्तुतिः ...{Loading}...
मु॒ञ्चन्तु॑ मा शप॒थ्या᳙दथो॑ वरु॒ण्या᳖दु॒त। अथो॑ य॒मस्य॒ पड्वी॑शात् सर्व॑स्माद् देवकिल्वि॒षात् ॥९० ॥
मूलम् ...{Loading}...
मु॒ञ्चन्तु॑ मा शप॒थ्या᳙दथो॑ वरु॒ण्या᳖दु॒त। अथो॑ य॒मस्य॒ पड्वी॑शात् सर्व॑स्माद् देवकिल्वि॒षात् ॥९० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मु॒ञ्चन्तु॑। मा॒। श॒प॒थ्या᳙त्। अथो॒ऽइत्यथो॑। व॒रु॒ण्या᳖त्। उ॒त। अथो॒ऽइत्यथो॑। य॒मस्य॑। पड्वी॑शात्। सर्व॑स्मात्। दे॒व॒कि॒ल्वि॒षादिति॑ देवऽकि॒ल्वि॒षात्। ९०।
महीधरः
म० दिवः परि द्युलोकात्सकाशादवपतन्तीरवपतन्त्योऽधस्ताद्भूमौ गच्छन्त्यः ओषधयः अवदन् परस्परं वचनमुक्तवत्यः । किं तदाह । जीवतीति जीवस्तं यं जीवमनुत्क्रान्तप्राणं पुरुषं वयमश्नवामहै ‘अशूङ् व्याप्तौ’ लोट् व्याप्नुमः स पुरुषो न रिष्यति न नश्यति । रिष्यतीत्यत्र ‘लेटोऽडाटौ’ (पा० ३ । ४ । ९४ ) इत्याडागमः । पूरुष इति छान्दसो दीर्घः सर्वत्र ॥९१॥
द्विनवतितमी ।
उ० या ओषधीः या ओषधयः सोमराज्ञ्यः सोमो राजा यासामिति सोमराज्ञ्यः । बह्व्यः अनन्ताः । शतविचक्षणाः बहुवीर्याः । बहवो वा स्तोतारो विचक्षणा यासां बहुविचक्षणाः। तासामोषधीनां मध्ये त्वं भवसि उत्तमा यतः अतः अलंकामाय भव । शं च सुखं च हृदयाय भव ॥९२॥
अधिमन्त्रम् (VC)
- वैद्या देवताः
- भिषगृषिः
- विराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
कौन-कौन ओषधि किस-किस से छुड़ाती है, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् लोगो ! आप जैसे वे महौषधि रोगों से पृथक् करती हैं, (शपथ्यात्) शपथसम्बन्धी कर्म (अथो) और (वरुण्यात्) श्रेष्ठों में हुए अपराध से, (अथो) इसके पश्चात् (यमस्य) न्यायाधीश के (पड्वीशात्) न्याय के विरुद्ध आचरण से, (उत) और (सर्वस्मात्) सब (देवकिल्विषात्) विद्वानों के विषय में अपराध से (मा) मुझको (मुञ्चन्तु) पृथक् रक्खें, वैसे तुम लोगों को भी पृथक् रक्खें ॥९० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को चाहिये कि प्रमादकारक पदार्थों को छोड़ के अन्य पदार्थों का भोजन करें और कभी सौगन्द, श्रेष्ठों का अपराध, न्याय से विरोध और मूर्खों के समान ईर्ष्या न करें ॥९० ॥
दयानन्द-सरस्वती (सं) - विषयः
किं किमौषधं कस्मात् कस्मान्मुञ्चतीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वांसः ! भवन्तो यथौषधयो रोगात् पृथग् रक्षन्ति, तथा शपथ्यादथो वरुण्यादथो यमस्य पड्वीशादुत सर्वस्माद् देवकिल्विषान्मा मुञ्चन्तु पृथग् रक्षन्तु, तथा युष्मानपि रोगेभ्यो मुञ्चन्तु ॥९० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैः प्रमादकार्य्यौषधं विहायान्यद् भोक्तव्यम्, न कदाचिच्छपथः कार्य्यः, श्रेष्ठापराधान्न्यायविरोधात् पापाचरणाद् विद्वदीर्ष्याविषयात् पृथग् भूत्वाऽऽनुकूल्येन वर्त्तितव्यमिति ॥९० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. माणसांनी अभक्ष्य (प्रमाद वाढविणाऱ्या) पदार्थांचा त्याग करून अन्य पदार्थांचे भोजन करावे व शपथ घेण्याचे कर्म, श्रेष्ठांकडून होणारा अपराध, न्यायाचा विरोध, मूर्खाप्रमाणे ईर्षा या सर्वांपासून दूर राहावे.
९१ अवपतन्तीरवदन् दिवऽओषधयस्परि
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒व॒पत॑न्तीरवदन् दि॒वऽओष॑धय॒स्परि॑। यं जी॒वम॒श्नवा॑महै॒ न स रि॑ष्याति॒ पूरु॑षः ॥९१ ॥
मूलम् ...{Loading}...
अ॒व॒पत॑न्तीरवदन् दि॒वऽओष॑धय॒स्परि॑। यं जी॒वम॒श्नवा॑महै॒ न स रि॑ष्याति॒ पूरु॑षः ॥९१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒व॒पत॑न्ती॒रित्य॑व॒ऽपत॑न्तीः। अ॒व॒द॒न्। दि॒वः। ओष॑धयः। परि॑। यम्। जी॒वम्। अ॒श्नवा॑महै। नः। सः। रि॒ष्या॒ति॒। पूरु॑षः। पूरु॑ष॒ इति॒ पुरु॑षः। ९१।
महीधरः
म० सोमो राजा यासां ताः सोमराज्ञ्यः बह्व्यः बह्व्योऽनन्ताः शतविचक्षणाः शतमसंख्यं विचक्षणाश्चतुराः बहुवीर्या वा शतं विचक्षणाः स्तोतारो यासामिति वा एवंभूता या ओषधीः ओषधयः सन्ति तासामोषधीनां मध्ये हे ओषधे, त्वमुत्तमा उत्कृष्टा यतोऽसि भवसि अतः कामायेप्सिताय अरमलं पर्याप्ता भव । हृदे हृदयाय शं सुखकारिणी भव ॥ ९२ ॥
त्रिनवतितमी।
अधिमन्त्रम् (VC)
- वैद्या देवताः
- वरुण ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अध्यापक लोग सब को उत्तम ओषधि जनावें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हम लोग जो (दिवः) प्रकाश से (अवपतन्तीः) नीचे को आती हुई (ओषधयः) सोमलता आदि ओषधि हैं, जिनका विद्वान् लोग (पर्य्यवदन्) सब ओर से उपदेश करते हैं, जिनसे (यम्) जिस (जीवम्) प्राणधारण को (अश्नवामहै) प्राप्त होवें, (सः) वह (पूरुषः) पुरुष (न) कभी न (रिष्याति) रोगों से नष्ट होवे ॥९१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्वान् लोग सब मनुष्यों के लिये दिव्य ओषधिविद्या को देवें, जिससे सब लोग पूरी अवस्था को प्राप्त होवें। इन ओषधियों को कोई भी कभी नष्ट न करे ॥९१ ॥
दयानन्द-सरस्वती (सं) - विषयः
अध्यापकाः सर्वेभ्य उत्तमौषधिविज्ञानं कारयेयुरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - वयं या दिवोऽवपतन्तीरोषधयः सन्ति, या विद्वांसः पर्यवदन्, याभ्यो यं जीवमश्नवामहै, याः संसेव्य स पूरुषो न रिष्यति, कदाचिद् रोगैर्हिंसितो न भवेत् ॥९१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - विद्वांसोऽखिलेभ्यो मनुष्येभ्यो दिव्यौषधीनां विद्यां प्रदद्युः, यतोऽलं जीवनं सर्वे प्राप्नुयुः। एता ओषधीः केनापि कदाचिन्नैव विनाशनीयाः ॥९१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - विद्वान लोकांनी सर्व माणसांना दिव्य औषध विद्या शिकवावी, ज्यामुळे ते पूर्ण आयुष्य भोगतील. हे औषध कधीही कोणीही नष्ट करू नये.
९२ याऽओषधीः सोमराज्ञीर्बह्वीः
विश्वास-प्रस्तुतिः ...{Loading}...
याऽओष॑धीः॒ सोम॑राज्ञीर्ब॒ह्वीः श॒तवि॑चक्षणाः। तासा॑मसि॒ त्वमु॑त्त॒मारं॒ कामा॑य॒ शँ हृ॒दे ॥९२ ॥
मूलम् ...{Loading}...
याऽओष॑धीः॒ सोम॑राज्ञीर्ब॒ह्वीः श॒तवि॑चक्षणाः। तासा॑मसि॒ त्वमु॑त्त॒मारं॒ कामा॑य॒ शँ हृ॒दे ॥९२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
या। ओष॑धीः। सोम॑राज्ञी॒रिति॒ सोम॑ऽराज्ञीः। ब॒ह्वीः। श॒तवि॑चक्षणा॒ इति॑ श॒तऽवि॑ऽचक्षणाः। तासा॑म्। अ॒सि॒। त्वम्। उ॒त्त॒मेत्यु॑त्ऽत॒मा। अर॑म्। कामा॑य। शम्। हृदे। १२।
महीधरः
म० सोमराज्ञ्यो या ओषधयः पृथिवीमनु विष्ठिताः विविधं स्थिताः बृहस्पतिप्रसूताः बृहस्पतिना प्रेरिताः ता ओषधयोऽस्यै ओषध्यै मद्गृहीतायै वीर्यं संदत्त सामर्थ्यं प्रयच्छत । इयं बहुवीर्या भवत्विति भावः ॥ ९३ ॥
चतुर्नवतितमी।
अधिमन्त्रम् (VC)
- वैद्या देवताः
- वरुण ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
स्त्री लोग अवश्य ओषधिविद्या ग्रहण करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! जिससे (त्वम्) तू (याः) जो (शतविचक्षणाः) असंख्यात शुभगुणों से युक्त (बह्वीः) बहुत (सोमराज्ञीः) सोम जिनमें राजा अर्थात् सर्वोत्तम (ओषधीः) ओषधि हैं, (तासाम्) उन के विषय में (उत्तमा) उत्तम विदुषी (असि) है, इससे (शम्) कल्याणकारिणी (हृदे) हृदय के लिये (अरम्) समर्थ (कामाय) इच्छासिद्धि के लिये योग्य होती है, हमारे लिये उन का उपदेश कर ॥९२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - स्त्रियों को चाहिये कि ओषधिविद्या का ग्रहण अवश्य करें, क्योंकि इसके विना पूर्ण कामना सुख प्राप्ति और रोगों की निवृत्ति कभी नहीं हो सकती ॥९२ ॥
दयानन्द-सरस्वती (सं) - विषयः
स्त्रीभिरवश्यमोषधिविद्या ग्राह्या इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! यतस्त्वं याः शतविचक्षणा बह्वीः सोमराज्ञीरोषधीः सन्ति, तासामुत्तमा विदुष्यसि, तस्माच्छं हृदेऽरं कामाय भवितुमर्हसि ॥९२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - स्त्रीभिरवश्यमोषधिविद्या ग्राह्या नैतामन्तरा पूर्णं कामसुखं लब्धुं शक्यम्, रोगान्निवर्त्तयितुं च ॥९२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - स्त्रियांनी अवश्य औषधांची विद्या शिकावी. कारण त्याशिवाय पूर्णकामना, सुखप्राप्ती व रोगांचा नाश कधीही होऊ शकत नाही.
९३ याऽओषधीः सोमराज्ञीर्विष्ठिताः
विश्वास-प्रस्तुतिः ...{Loading}...
याऽओष॑धीः॒ सोम॑राज्ञी॒र्विष्ठि॑ताः पृथि॒वीमनु॑। बृह॒स्पति॑प्रसूताऽअ॒स्यै संद॑त्त वी॒र्य्य᳖म् ॥९३ ॥
मूलम् ...{Loading}...
याऽओष॑धीः॒ सोम॑राज्ञी॒र्विष्ठि॑ताः पृथि॒वीमनु॑। बृह॒स्पति॑प्रसूताऽअ॒स्यै संद॑त्त वी॒र्य्य᳖म् ॥९३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
याः। ओष॑धीः। सोम॑राज्ञी॒रिति॒ सोम॑ऽराज्ञीः। विष्ठि॑ताः। विस्थि॑ता॒ इति॑ विऽस्थि॑ताः। पृ॒थि॒वीम्। अनु॑। बृह॒स्पति॑प्रसूता॒ इति॑ बृह॒स्पति॑ऽप्रसूताः। अ॒स्यै। सम्। द॒त्त॒। वी॒र्य्य᳖म्। १३।
महीधरः
म० या ओषधय इदं मद्वचनं प्रार्थनारूपमुप समीपस्थाः शृण्वन्ति याश्चान्याः दूरं परागताः दूरे व्यवस्थिता व्यवहिताः सत्यः ईषत् शृण्वन्ति हे वीरुधः, विविधरोहणा ओषधयः, ताः सर्वाः समीपदूरस्थाः सङ्गत्य सङ्गता भूत्वा अस्यै ओषध्यै यूयं वीर्यं संदत्त प्रयच्छत ॥ ९४ ॥
पञ्चनवतितमी।
अधिमन्त्रम् (VC)
- ओषधयो देवताः
- वरुण ऋषिः
- विराडार्ष्यनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
कैसे सन्तानों को उत्पन्न करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विवाहित पुरुष ! (याः) जो (सोमराज्ञीः) सोम जिनमें उत्तम है, वे (बृहस्पतिप्रसूताः) बड़े कारण के रक्षक ईश्वर की रचना से उत्पन्न हुई (ओषधीः) ओषधियाँ (पृथिवीम्) (अनु) भूमि के ऊपर (विष्ठिताः) विशेषकर स्थित हैं, उनसे (अस्यै) इस स्त्री के लिये (वीर्य्यम्) बीज का दान दे। हे विद्वानो ! आप इन ओषधियों का विज्ञान सब मनुष्यों के लिये (संदत्त) अच्छे प्रकार दिया कीजिये ॥९३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - स्त्रीपुरुषों को उचित है कि बड़ी-बड़ी ओषधियों का सेवन करके सुन्दर नियमों के साथ गर्भ धारण करें और ओषधियों का विज्ञान विद्वानों से सीखें ॥९३ ॥
दयानन्द-सरस्वती (सं) - विषयः
कथं सन्तानोत्पत्तिः कार्य्येत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विवाहितपुरुष ! याः सोमराज्ञीर्बृहस्पतिप्रसूता ओषधीः पृथिवीमनु विष्ठिताः सन्ति, ताभ्योऽस्यै वीर्य्यं देहि। हे विद्वांसः ! यूयमेतासां विज्ञानं सर्वेभ्यः संदत्त ॥९३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - स्त्रीपुरुषाभ्यां महौषधीः संसेव्य सुनियमेन गर्भाधानमनुधेयम्। ओषधिविज्ञानं विद्वद्भ्यः संग्राह्यम् ॥९३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - स्त्री-पुरुषांनी चांगल्या औषधांचे सेवन करावे. चांगल्या नियमांचे पालन करून गर्भाधान करावे आणि विद्वानांकडून औषधांचे विज्ञान शिकावे.
९४ याश्चेदमुपशृण्वन्ति याश्च
विश्वास-प्रस्तुतिः ...{Loading}...
याश्चे॒दमु॑पशृ॒ण्वन्ति॒ याश्च॑ दू॒रं परा॑गताः। सर्वाः॑ सं॒गत्य॑ वीरुधो॒ऽस्यै संद॑त्त वी॒र्य्य᳖म् ॥९४ ॥
मूलम् ...{Loading}...
याश्चे॒दमु॑पशृ॒ण्वन्ति॒ याश्च॑ दू॒रं परा॑गताः। सर्वाः॑ सं॒गत्य॑ वीरुधो॒ऽस्यै संद॑त्त वी॒र्य्य᳖म् ॥९४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
याः। च॒। इ॒दम्। उ॒प॒शृ॒ण्वन्तीत्यु॑पऽशृ॒ण्वन्ति॑। याः। च॒। दू॒रम्। परा॑गता॒ इति॒ परा॑ऽगताः। सर्वाः॑। सं॒गत्येति॑ सम्ऽगत्य॑। वी॒रु॒धः॒। अ॒स्यै। सम्। द॒त्त॒। वी॒र्य्य᳖म्। ९४।
महीधरः
म० हे ओषधयः, वो युष्माकं खनिता चिकित्सायै युष्मन्मूलं ग्रहीतुं खननकर्ता मा रिषत् मा विनश्यतु । यस्मै च रुग्णाय चिकित्सार्थं वो युष्मानहं खनामि युष्मन्मूलमादातुं खननं करोमि स च मा रिषत् । किंबहुनास्माकं संबन्धि द्विपात् स्त्रीपुंसं चतुष्पाद्गवादि प्राणिजातं सर्वमनातुरं रोगरहितमस्तु । द्वौ पादौ यस्य चत्वारः पादा यस्य ‘संख्यासुपूर्वस्य’ (पा०. ५। ४ । १४० ) इति पादशब्दस्यान्तलोपः ॥ ९५॥
षटूनवतितमी।
अधिमन्त्रम् (VC)
- भिषजो देवताः
- वरुण ऋषिः
- विराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
शुद्ध देशों से ओषधियों का ग्रहण करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वानो ! आप लोग (याः) जो (च) विदित हुई और जिनको (उपशृण्वन्ति) सुनते हैं, (याः) जो (च) समीप हों, और जो (दूरम्) दूर देश में (परागताः) प्राप्त हो सकती हैं, उन (सर्वाः) सब (वीरुधः) वृक्ष आदि ओषधियों को (सङ्गत्य) निकट प्राप्त कर (इदम्) इस (वीर्य्यम्) शरीर के पराक्रम को वैद्य मनुष्य लोग जैसे सिद्ध करते हैं, वैसे उन ओषधियों का विज्ञान (अस्यै) इस कन्या को (संदत्त) सम्यक् प्रकार से दीजिये ॥९४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! तुम लोग, जो ओषधियाँ दूर वा समीप में रोगों को हरने और बल करने हारी सुनी जाती हैं, उनको उपकार में ला के रोगरहित होओ ॥९४ ॥
दयानन्द-सरस्वती (सं) - विषयः
शुद्धेभ्यो देशेभ्य ओषधयः संग्राह्या इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वांसः ! भवन्तो याश्चोपशृण्वन्ति, याश्च दूरं परागतास्ताः सर्वा वीरुधः सङ्गत्येदं वीर्य्यं प्रसाध्नुवन्ति, तासां विज्ञानमस्यै कन्यायै संदत्त ॥९४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! या ओषधयो दूरसमीपस्था रोगापहारिण्यो बलकारिण्यः श्रूयन्ते, ता उपयुज्यारोगिणो भवत ॥९४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! जवळ असलेल्या किंवा दूर असलेल्या रोगनाशक व बलदायक अशा औषधांचे ज्ञान प्राप्त करून त्यांचा उपयोग करून निरोगी बना.
९५ मा वो
विश्वास-प्रस्तुतिः ...{Loading}...
मा वो॑ रिषत् खनि॒ता यस्मै॑ चा॒हं खना॑मि वः। द्वि॒पाच्चतु॑ष्पाद॒स्मा॒कँ सर्व॑मस्त्वनातु॒रम् ॥९५ ॥
मूलम् ...{Loading}...
मा वो॑ रिषत् खनि॒ता यस्मै॑ चा॒हं खना॑मि वः। द्वि॒पाच्चतु॑ष्पाद॒स्मा॒कँ सर्व॑मस्त्वनातु॒रम् ॥९५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मा। वः॒। रि॒ष॒त्। ख॒नि॒ता। यस्मै॑। च॒। अ॒हम्। खना॑मि। वः॒। द्वि॒पादिति॑ द्वि॒ऽपात्। चतु॑ष्पात्। चतुः॑पा॒दिति॒ चतुः॑ऽपात्। अ॒स्माक॑म्। सर्व॑म्। अ॒स्तु॒। अ॒ना॒तु॒रम्। ९५।
महीधरः
म०. राज्ञा स्वस्वामिना सोमेन सह ओषधयः देवताः समवदन्त संवादं कृतवत्यः । कथं संवादस्तमाह । ब्राह्मणो यस्मै रुग्णाय कृणोति अस्मन्मूलादिना चिकित्सां करोति ‘कृ कृतौ’ स्वादिः । हे राजन् स्वामिन् सोम, तं रुग्णं नरं वयं पारयामसि पारयामः । ‘इदन्तो मसि’ (पा० ७।१ । ४६ )। सोम संवादो व्याधिनाशदार्ढ्यार्थः ॥ ९६ ॥
सप्तनवतितमी।
अधिमन्त्रम् (VC)
- वैद्या देवताः
- वरुण ऋषिः
- विराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
कोई भी मनुष्य ओषधियों की हानि न करे, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (अहम्) मैं (यस्मै) जिस प्रयोजन के लिये ओषधी को (खनामि) उपाड़ता वा खोदता हूँ, वह (खनिता) खोदी हुई (वः) तुम को (मा) न (रिषत्) दुःख देवे, जिससे (वः) तुम्हारे (च) और (अस्माकम्) हमारे (द्विपात्) दो पगवाले मनुष्य आदि तथा (चतुष्पात्) गौ आदि (सर्वम्) सब प्रजा उस ओषधि से (अनातुरम्) रोगों के दुःखों से रहित (अस्तु) होवें ॥९५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो पुरुष जिन ओषधियों को खोदे, वह उनकी जड़ न मेटे। जितना प्रयोजन हो उतनी लेकर नित्य रोगों को हटाता रहे, ओषधियों की परम्परा को बढ़ाता रहे कि जिससे सब प्राणी रोगों के दुःखों से बच के सुखी होवें ॥९५ ॥
दयानन्द-सरस्वती (सं) - विषयः
केनाप्योषधयो नैव ह्रासनीया इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! अहं यस्मै यामोषधीं खनामि सा खनिता सती वो युष्मान् मा रिषत्। यतो वोऽस्माकं च सर्वं द्विपाच्चतुष्पादनातुरमस्तु ॥९५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - य ओषधीः खनेत् स ता निर्बीजा न कुर्य्यात्। यावत् प्रयोजनं तावदादाय प्रत्यहं रोगान् निवारयेदोषधिसन्ततिं च वर्धयेत्, येन सर्वे प्राणिनो रोगकष्टमप्राप्य सुखिनः स्युः ॥९५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी वृक्षौषधी तोडून घेतल्यानंतर त्यांची मुळे नष्ट करू नयेत. जेवढे आवश्यक असेल तेवढेच घेऊन सदैव रोग नष्ट करावेत. औषधी सतत वाढवावी त्यामुळे सर्व प्राणी रोगरूपी दुःखांपासून बचाव करून सुखी होतील.
९६ ओषधयः समवदन्त
विश्वास-प्रस्तुतिः ...{Loading}...
ओष॑धयः॒ सम॑वदन्त॒ सोमे॑न स॒ह राज्ञा॑। यस्मै॑ कृ॒णोति॑ ब्राह्म॒णस्तँ रा॑जन् पारयामसि ॥९६ ॥
मूलम् ...{Loading}...
ओष॑धयः॒ सम॑वदन्त॒ सोमे॑न स॒ह राज्ञा॑। यस्मै॑ कृ॒णोति॑ ब्राह्म॒णस्तँ रा॑जन् पारयामसि ॥९६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ओष॑धयः। सम्। अ॒व॒द॒न्त॒। सोमे॑न। स॒ह। राज्ञा॑। यस्मै॑। कृ॒णोति॑। ब्रा॒ह्म॒णः। तम्। रा॒ज॒न्। पा॒र॒या॒म॒सि॒। १६।
महीधरः
म० हे ओषधे, त्वं बलासस्य क्षयव्याधेर्नाशयित्री नाशकर्त्री असि भवसि । बलमस्यति क्षिपतीति बलासः क्षयः । अर्शसो गुदव्याधेश्च नाशिकासि । उपचिताम् उपचिन्वन्ति शरीरं वर्धयन्तीत्युपचितः क्विप् । श्वयथुगडुश्लीपदादयः तेषां च नाशिकासि । अथो अपिच शतस्य यक्ष्माणां बहूनां व्याधीनां पाकारोः मुखपाकक्षतादेश्च नाशनी नाशकर्त्री त्वंवं भबसि । पाको मुखपाकः अरुः क्षतमुच्यते । पाकेनारुः पाकारुत्तस्य । यद्वा पाकोऽन्नपाकस्तस्यारुर्व्यथा मन्दाग्नित्वं तस्य नाशनी त्वमसि ॥ ९७ ॥
अष्टनवतितमी।
अधिमन्त्रम् (VC)
- वैद्या देवताः
- वरुण ऋषिः
- अनुष्टुप्
- गान्धारः
९७ नाशयित्री बलासस्यार्शसऽउपचितामसि
विश्वास-प्रस्तुतिः ...{Loading}...
ना॒श॒यि॒त्री ब॒लास॒स्यार्श॑सऽउप॒चिता॑मसि। अथो॑ श॒तस्य॒ यक्ष्मा॑णां पाका॒रोर॑सि॒ नाश॑नी ॥९७ ॥
मूलम् ...{Loading}...
ना॒श॒यि॒त्री ब॒लास॒स्यार्श॑सऽउप॒चिता॑मसि। अथो॑ श॒तस्य॒ यक्ष्मा॑णां पाका॒रोर॑सि॒ नाश॑नी ॥९७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ना॒श॒यि॒त्री। बलास॑स्य। अर्श॑सः। उ॒प॒चिता॒मित्यु॑प॒ऽचिता॑म्। अ॒सि॒। अथोऽइत्यथो॑। श॒तस्य॑। यक्ष्मा॑णाम्। पा॒का॒रोरिति॑ पाकऽअ॒रोः। अ॒सि॒। नाश॑नी। ९७।
महीधरः
म० हे ओषधे, गन्धर्वाः देवविशेषाः त्वामखनन् स्वेष्टकार्यसिद्ध्यर्थं खननमकुर्वन् । इन्द्रश्च त्वामखनत् । बृहस्पतिश्च त्वामखनत् । हे ओषधे, सोमो राजा त्वां च विद्वान् त्वत्सामर्थ्यं जानन्सन् त्वामुपयुज्य यस्मात् महाव्याधेरमुच्यत मुक्तोऽभवत् ॥ ९८॥
एकोनशततमी।
अधिमन्त्रम् (VC)
- भिषग्वरा देवताः
- वरुण ऋषिः
- अनुष्टुप्
- गान्धारः
९८ त्वां गन्धर्वाऽअखनँस्त्वामिन्द्रस्त्वाम्
विश्वास-प्रस्तुतिः ...{Loading}...
त्वां ग॑न्ध॒र्वाऽअ॑खनँ॒स्त्वामिन्द्र॒स्त्वां बृह॒स्पतिः॑। त्वामो॑षधे॒ सोमो॒ राजा॑ वि॒द्वान् यक्ष्मा॑दमुच्यत ॥९८ ॥
मूलम् ...{Loading}...
त्वां ग॑न्ध॒र्वाऽअ॑खनँ॒स्त्वामिन्द्र॒स्त्वां बृह॒स्पतिः॑। त्वामो॑षधे॒ सोमो॒ राजा॑ वि॒द्वान् यक्ष्मा॑दमुच्यत ॥९८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
त्वाम्। ग॒न्ध॒र्वाः। अ॒ख॒न॒न्। त्वाम्। इन्द्रः॑। त्वाम्। बृह॒स्पतिः॑। त्वाम्। ओ॒ष॒धे॒। सोमः॑। राजा॑। वि॒द्वान्। यक्ष्मा॑त्। अ॒मु॒च्य॒त॒। ९८।
महीधरः
म० हे ओषधे, यतः त्वं सहमानासि शत्रूनभिभवन्ती भवसि अतो मे अरातीः अदानशीलाः शत्रुसेनाः सहस्व अभिभव । नास्ति रातिर्दानं यासां ता अरातयस्ताः । पृतनायतः संग्रामकामांश्च सहस्व पृतनां संग्रामं कामयन्ते ते पृतनायन्तस्तान् । ‘सुप आत्मनः क्यच्’ (पा० ३ । १ । ८) इति क्यजन्ताच्छतृप्रत्ययः । किंच सर्वं पाप्मानमशुभं सहस्व । सहतिरभिभवार्थः ॥ ९९॥
शततमी।
अधिमन्त्रम् (VC)
- वैद्या देवताः
- वरुण ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
कौन-कौन ओषधि का खनन करता है, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोग जिस ओषधी से रोगी (यक्ष्मात्) क्षयरोग से (अमुच्यत) छूट जाय और जिस (ओषधे) ओषधि को उपयुक्त करो (त्वाम्) उसको (गन्धर्वाः) गानविद्या में कुशल पुरुष (अखनन्) ग्रहण करें, (त्वाम्) उसको (इन्द्रः) परम ऐश्वर्य से युक्त मनुष्य, (त्वाम्) उसको (बृहस्पतिः) वेदज्ञ जन और (त्वाम्) उसको (सोमः) सुन्दर गुणों से युक्त (विद्वान्) सब शास्त्रों का वेत्ता (राजा) प्रकाशमान राजा (त्वाम्) उस ओषधि को खोदे ॥९८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो कोई ओषधि जड़ों से, कोई शाखा आदि से, कोई पुष्पों, कोई पत्तों, कोई फलों और कोई सब अवयवों करके रोगों को बचाती हैं, उन ओषधियों का सेवन मनुष्यों को यथावत् करना चाहिये ॥९८ ॥
दयानन्द-सरस्वती (सं) - विषयः
कः क ओषधिं खनतीत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यया सेवितया रोगी यक्ष्मादमुच्यत, यामोषधे ओषधिं यूयमुपयुङ्ग्ध्वम्, त्वां तां गन्धर्वा अखनँस्त्वां तामिन्द्रस्त्वां तां बृहस्पतिस्त्वां तां सोमो विद्वान् राजा च त्वां तां खनेत् ॥९८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - याः काश्चिदोषधयो मूलेन काश्चिच्छाखादिना काश्चित् पुष्पेण काश्चित् पत्रेण काश्चित् फलेन काश्चित् सर्वाङ्गैः रोगान् मोचयन्ति, तासां सेवनं मनुष्यैर्यथावत् कार्यम् ॥९८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - एखाद्या वृक्षाचे मूळ, फांदी, फुले, फळे इत्यादी पदार्थ निरनिराळ्या अवयवांचे रोग नाहीसे करतात. अवयवांचा रोगांपासून बचाव करतात. या औषधांचे माणसांनी यथायोग्य सेवन केले पाहिजे.
९९ सहस्व मेऽअरातीः
विश्वास-प्रस्तुतिः ...{Loading}...
सह॑स्व मे॒ऽअरा॑तीः॒ सह॑स्व पृतनाय॒तः। सह॑स्व॒ सर्वं॑ पा॒प्मानँ॒ सह॑मानास्योषधे ॥९९ ॥
मूलम् ...{Loading}...
सह॑स्व मे॒ऽअरा॑तीः॒ सह॑स्व पृतनाय॒तः। सह॑स्व॒ सर्वं॑ पा॒प्मानँ॒ सह॑मानास्योषधे ॥९९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सह॑स्व। मे॒। अरा॑तीः। सह॑स्व। पृ॒त॒ना॒य॒त इति॑ पृतनाऽय॒तः। सह॑स्व। सर्व॑म्। पा॒प्मान॑म्। सह॑माना। अ॒सि॒। ओ॒ष॒धे॒। ९९।
महीधरः
म०. हे ओषधे, ते तव खनिता खननकर्ता दीर्घायुर्भूयादिति शेषः । यस्मै चातुराय नरायाहं त्वां खनामि सोऽपि दीर्घायुरस्तु । अथो अपिच त्वं दीर्घायुरखण्डितजीवना भूत्वा शतवल्शा बह्वङ्कुरा सती विरोहताद्विरोह बह्वङ्कुरोत्पद्यस्व । ‘तुह्योस्तातङ्’ (पा० ७। १ । ३५) इति तातङ् । वल्शशब्दोऽङ्कुरवाची । शतं वल्शाः यस्याः सा शतवल्शा ॥ १०० ॥
एकोत्तरशततमी॥
अधिमन्त्रम् (VC)
- ओषधिर्देवता
- वरुण ऋषिः
- विराडनुष्टुप्
- गान्धारः