०१ युञ्जानः प्रथमम्
विश्वास-प्रस्तुतिः ...{Loading}...
यु॒ञ्जा॒नः प्र॑थ॒मं मन॑स्त॒त्त्वाय॑ सवि॒ता धियः॑। अ॒ग्नेर्ज्योति॑र्नि॒चाय्य॑ पृथि॒व्याऽअध्याभ॑रत् ॥१ ॥
मूलम् ...{Loading}...
यु॒ञ्जा॒नः प्र॑थ॒मं मन॑स्त॒त्त्वाय॑ सवि॒ता धियः॑। अ॒ग्नेर्ज्योति॑र्नि॒चाय्य॑ पृथि॒व्याऽअध्याभ॑रत् ॥१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यु॒ञ्जा॒नः। प्र॒थ॒मम्। मनः॑। त॒त्त्वाय॑। स॒वि॒ता। धियः॑। अ॒ग्नेः। ज्योतिः॑। नि॒चाय्येति॑ नि॒चाऽय्य॑। पृ॒थि॒व्याः। अधि॑। आ। अ॒भ॒र॒त्। १।
महीधरः
म० रमाकान्तं नमस्कृत्य गणेशं शारदां गुरुम् । संहितैकादशाध्याये मन्त्रदीपो वितन्यते ॥ एकादशमारभ्याष्टादशाध्यायपर्यन्तमग्निचयनमन्त्राः । तेषां प्रजापतिर्ऋषिः साध्या ऋषयो वा । सोऽग्निः पञ्चचितियुक्तः प्रथमचितिमन्त्राणां प्रजापतिर्ऋषिः द्वितीयचितेर्देवा ऋषयः तृतीयचितेरिन्द्राग्निविश्वकर्माण ऋषयः । चतुर्थचितेर्ऋषय एवर्षयः । पञ्चमचितिमन्त्राणां परमेष्ठी ऋषिः । तथा च श्रुतिः ‘प्रजापतिः प्रथमां चितिमपश्यत् प्रजापतिरेव तस्या आर्षेयं देवा द्वितीयां चितिमपश्यन् देवा एव तस्या आर्षेयमिन्द्राग्नी च विश्वकर्मा च तृतीयां चितिमपश्यंस्त एव तस्या आर्षेयमृषयश्चतुर्थीं चितिमपश्यन्नृषय एव तस्या आर्षेयं परमेष्ठी पञ्चमीं चितिमपश्यत् परमेष्ठ्येव तस्या आर्षेयमिति’ ( ६ । २ । ३ । १०)। चयनं कर्तुमिच्छन् फाल्गुनकृष्णप्रतिपदि पौर्णमासेष्टिं कृत्वा पुरुषाश्वगोऽव्यजानालभ्याजेन यागं कृत्वा पञ्चानां शिरांसि घृताक्तानि प्रथमचितावुपधानार्थं क्वचित्संस्थाप्य तेषां कबन्धान्यज्ञशेषं च मृद्युक्ते तडागादिजले प्रास्येत् । उखार्थमिष्टकार्थं च मृदं जलं च तत एवादेयम् । ततः फाल्गुनकृष्णाष्टम्यामुखासंभरणम् । तदर्थमाहवनीयदक्षिणाग्नी उद्धृत्याहवनीयात् प्राक् कृते चतुष्कोणे गर्ते ततस्तडागान्मृत्पिण्डमानीय भूसमं स्थापयेत् । पिण्डाहवनीयान्तराले सच्छिद्रां वल्मीकमृदं निदध्यात् ।आहवनीयाद्दक्षिणदेशेऽश्वगर्दभाजाः प्राङ्मुखाः प्रागपरा मुञ्जरसनाबद्धाः स्थाप्याः । आहवनीयोत्तरे वैण्व्युभयतस्तीक्ष्णा कल्माषी हिरण्मयी वाभ्रिः स्थाप्या। ततः कर्माह ‘अष्टागृहीतं जुहोति सन्ततमुद्गृह्णन् युञ्जानः’ ! ( का० १६ । २।७) इति । अस्यार्थः । गार्हपत्ये घृतं संस्कृत्य जुहूं स्रुवं च संमृज्य स्रुच्यष्टागृहीतमाज्यमाहवनीये परिस्तरणसमिदाधानपूर्वकं सन्ततमविच्छिन्नधारया स्रुचमूर्ध्वां कुर्वन्नध्वर्युर्जुहोति युञ्जान इत्याद्यष्टकण्डिकाभिः। सान्तत्यं चाष्टर्चान्ते स्वाहाकारपर्यन्तम् । आद्यानुष्टुप् तृतीयः सप्ताक्षरः । अष्टानां सविता ऋषिः देवोऽपि सविता । अथ मन्त्रार्थः । सविता सर्वस्य प्रेरकः प्रजापतिः अग्नेर्ज्योतिः चीयमानस्य वह्नेः सम्बन्धि तेजः निचाय्य पञ्चपशुषु प्रविष्टं निश्चित्योपलभ्य । यद्वा सफलानां कर्मणां साधनभूतं निश्चित्य । पृथिव्याः पशुशरीरान्विताया भूमेः सकाशादध्याभरत् अध्याहृतवान् । इष्टकाः कृत्वाग्निं चितवानित्यर्थः । सवितृशब्देन श्रुतौ प्रजापतिरुक्तः ‘प्रजापतिर्वै युञ्जानः’ (६।३।१।१२) इति श्रुतेः। किंभूतः । प्रथममग्न्यारम्भे मनो युञ्जानः समादधानः युङ्क्तेऽसौ युञ्जानः । किं कृत्वा । धियो बुद्धीरिष्टकादिविषयाणि ज्ञानानि तत्वाय तनित्वा। निस्तार्य मनसा पर्यालोच्य बुद्ध्यावधार्येत्यर्थः। ‘तनु विस्तारे’ ‘समानकर्तृकयोः पूर्वकाले’ ( पा० ६ । ४ । २१) इति क्त्वाप्रत्ययः । अनित्यमागमशासनमितीडागमाभावः । | ‘अनुदात्तोपदेश-’ (पा० ६ । ४ । ३७) इत्यादिना नलोपः ‘क्त्वो यक्’ (पा० ७।१। ४७) इति क्त्वाप्रत्ययान्तस्य यगागमः ॥१॥
द्वितीया।
अधिमन्त्रम् (VC)
- सविता देवता
- प्रजापतिर्ऋषिः
- विराडार्ष्यनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब ग्यारहवें अध्याय का आरम्भ किया जाता है। इसके प्रथम मन्त्र में योगाभ्यास और भूगर्भविद्या का उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (सविता) ऐश्वर्य को चाहनेवाला मनुष्य (तत्त्वाय) उन परमेश्वर आदि पदार्थों के ज्ञान होने के लिये (प्रथमम्) पहिले (मनः) विचारस्वरूप अन्तःकरण की वृत्तियों को और (धियः) धारणारूप अन्तःकरण की वृत्तियों को (युञ्जानः) योगाभ्यास और भूगर्भविद्या में युक्त करता हुआ (अग्नेः) पृथिवी आदि में रहने वाली बिजुली के (ज्योतिः) प्रकाश को (निचाय्य) निश्चय करके (पृथिव्याः) भूमि के (अधि) ऊपर (आभरत्) अच्छे प्रकार धारण करे, वह योगी और भूगर्भ-विद्या का जाननेवाला होवे ॥१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो पुरुष योगाभ्यास और भूगर्भविद्या किया चाहे, वह यम आदि योग के अङ्ग और क्रिया-कौशलों से अपने हृदय को शुद्ध करके तत्त्वों को जानने के लिये बुद्धि को प्राप्त करके और इन को गुण, कर्म तथा स्वभाव से जान के उपयोग लेवे। फिर जो प्रकाशमान सूर्य्यादि पदार्थ हैं, उन का भी प्रकाशक ईश्वर है, उस को जान और अपने आत्मा में निश्चय करके अपने और दूसरों के सब प्रयोजनों को सिद्ध करे ॥१ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ योगाभ्यासभूगर्भविद्योपदेशमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यः सविता मनुष्यस्तत्त्वाय प्रथमं मनो धियश्च युञ्जानोऽग्नेर्ज्योतिर्निचाय्य पृथिव्या अध्याभरत्, स पदार्थविद्याविच्च जायेत ॥१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यो जनो योगं भूगर्भविद्यां च चिकीर्षेत् स यमादिभिः क्रियाकौशलैश्चाऽन्तःकरणं पवित्रीकृत्य तत्त्वानां विज्ञानाय प्रज्ञां समज्यैतानि गुणकर्मस्वभावतो विदित्वोपयुञ्जीत। पुनर्यत् प्रकाशमानानां सूर्य्यादीनां प्रकाशकं ब्रह्मास्ति, तद्विज्ञाय स्वात्मनि निश्चित्य सर्वाणि स्वपरप्रयोजनानि साध्नुयात् ॥१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे पुरुष योगाभ्यास व भूगर्भविद्या जाणू इच्छितात त्यांनी यम इत्यादी योगांगाच्या साह्याने व कार्यकुशलतेने आपल्या अंतःकरणातील शुद्ध तत्त्वाला जाणून सूक्ष्म बुद्धीने (गुण, कर्म, स्वभावाने जाणावे. त्याचा योग्य उपयोग करून घ्यावा. सूर्य इत्यादी जे प्रकाश देणारे पदार्थ आहेत त्यांचा प्रकाशक ईश्वर आहे हे निश्चयाने जाणून आपले व इतरांचे इप्सित साध्य करावे.
०२ युक्तेन मनसा
विश्वास-प्रस्तुतिः ...{Loading}...
यु॒क्तेन॒ मन॑सा व॒यं दे॒वस्य॑ सवि॒तुः स॒वे। स्व॒र्ग्या᳖य॒ शक्त्या॑ ॥२ ॥
मूलम् ...{Loading}...
यु॒क्तेन॒ मन॑सा व॒यं दे॒वस्य॑ सवि॒तुः स॒वे। स्व॒र्ग्या᳖य॒ शक्त्या॑ ॥२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यु॒क्तेन॑। मन॑सा। व॒यम्। दे॒वस्य॑। स॒वि॒तुः। स॒वे। स्व॒र्ग्या᳖येति॑ स्वः॒ऽग्या᳖य॒। शक्त्या॑। २।
महीधरः
म०. गायत्री । तृतीयः पादः पञ्चार्णस्तेन शङ्कुमती । तदुक्तं पिङ्गलेन ‘एकस्मिन् पञ्चके छन्दः शङ्कुमती’ इति । सवितुर्देवस्य प्रजापतेः सवे प्रसवे आज्ञायां वर्तमाना वयं यजमाना युक्तेनेन्द्रियेभ्यो नियमितेनैकाग्रेण मनसा स्वर्ग्याय स्वर्गसाधकाय कर्मणे शक्त्या स्वसामर्थ्येन प्रयत्नं कुर्म इति शेषः ॥ २ ॥
तृतीया ।
अधिमन्त्रम् (VC)
- सविता देवता
- प्रजापतिर्ऋषिः
- शङ्कुमती गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उक्त विषय ही अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे योग और तत्त्वविद्या को जानने की इच्छा करनेहारे मनुष्यो ! जैसे (वयम्) हम योगी लोग (युक्तेन) योगाभ्यास किये (मनसा) विज्ञान और (शक्त्या) सामर्थ्य से (देवस्य) सब को चिताने तथा (सवितुः) समग्र संसार को उत्पन्न करने हारे ईश्वर के (सवे) जगद्रूप इस ऐश्वर्य में (स्वर्ग्याय) सुख प्राप्ति के लिये प्रकाश को अधिकाई से धारण करें, वैसे तुम लोग भी प्रकाश को धारण करो ॥२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो मनुष्य परमेश्वर की इस सृष्टि में समाहित हुए योगाभ्यास ओर तत्त्वविद्या को यथाशक्ति सेवन करें, उनमें सुन्दर आत्मज्ञान के प्रकाश से युक्त हुए योग और पदार्थविद्या का अभ्यास करें, तो अवश्य सिद्धियों को प्राप्त हो जावें ॥२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे योगं तत्त्वविद्यां च जिज्ञासवो मनुष्याः! यथा वयं युक्तेन मनसा शक्त्या च देवस्य सवितुः सवे स्वर्ग्याय ज्योतिराभरेम तथा यूयमप्याभरत ॥२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यदि मनुष्याः परमेश्वरस्य सृष्टौ समाहिताः सन्तो योगं तत्त्वविद्यां च यथाशक्ति सेवेरँस्तेषु प्रकाशितात्मनः सन्तो योगं पदार्थविज्ञानं चाभ्यस्येयुस्तर्हि सिद्धीः कथं न प्राप्नुयुः ॥२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जी माणसे परमेश्वराच्या या सृष्टीत मान्यता पावलेला योगाभ्यास व तत्त्वविद्या यांना यशाशक्ती ग्रहण करतील व आत्मज्ञानाने योगविद्या आणि पदार्थविद्येचा अभ्यास करतील त्यांना निश्चित सिद्धी प्राप्त होतील.
०३ युक्त्वाय सविता
विश्वास-प्रस्तुतिः ...{Loading}...
यु॒क्त्वाय॑ सवि॒ता दे॒वान्त्स्व॑र्य॒तो धि॒या दिव॑म्। बृ॒हज्ज्योतिः॑ करिष्य॒तः स॑वि॒ता प्रसु॑वाति॒ तान् ॥३ ॥
मूलम् ...{Loading}...
यु॒क्त्वाय॑ सवि॒ता दे॒वान्त्स्व॑र्य॒तो धि॒या दिव॑म्। बृ॒हज्ज्योतिः॑ करिष्य॒तः स॑वि॒ता प्रसु॑वाति॒ तान् ॥३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यु॒क्त्वाय॑। स॒वि॒ता। दे॒वान्। स्वः॑। य॒तः। धि॒या। दिव॑म्। बृ॒हत्। ज्योतिः॑। क॒रि॒ष्य॒तः। स॒वि॒ता। प्र। सु॒वा॒ति॒। तान्। ३।
महीधरः
म० अनुष्टुप् द्वितीयः सप्तार्णस्तेनैकोना । सविता तान् प्रसिद्धान् देवान् प्रसुवाति । ‘षू प्रेरणे’ तुदादिः ‘लेटोऽडाटौ’ इत्यडागमः । प्रसौति अभ्यनुजानाति प्रेरयतीत्यर्थः । किं कृत्वा । युक्त्वाय युक्त्वा क्त्वो यक् अग्निकर्मणि संयोज्य । किंभूतान्देवान् धिया बुद्ध्या कर्मणा वा अन्येन दिवं दीव्यति प्रकाशत इति दिवम् ‘इगुपध-’ (पा० ३ । १ । १३५) इति कप्रत्ययः। द्योतनं स्वः स्वर्गं यतो गच्छतः । इणः शत्रन्तस्य यत इति रूपम् । पुनः कीदृशान् । बृहत् महत् ज्योतिः आदित्यलक्षणमात्मत्वेन करिष्यतः संस्कुर्वतः । कीदृशः सविता । सविता प्रेरयिता अन्येन कर्मणा स्वर्गं गच्छतो देवानग्निकर्मणि सविता प्रेरयिता सविता प्रजापतिः तान्देवानिन्द्रियविशेषान्युक्त्वा विषयेभ्यो नियम्य प्रसुवाति प्रकर्षेणाग्निकर्मणि प्रेरयति । कीदृशान् । स्वर्यतः स्वर्गप्राप्त्यै उद्यतान् । तथा बृहत् प्रौढं ज्योतिः चीयमानस्याग्नेस्तेजः धिया दिवं करिष्यतः तत्तदिष्टकादिविषयया प्रज्ञया द्योतमानं कर्तुमुद्यतान् ॥ ३ ॥
चतुर्थी ।
अधिमन्त्रम् (VC)
- सविता देवता
- प्रजापतिर्ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उक्त विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जिन को (सविता) योग के पदार्थों के ज्ञान का करनेहारा जन परमात्मा में मन को (युक्त्वाय) युक्त करके (धिया) बुद्धि से (दिवम्) विद्या के प्रकाश को (स्वः) सुख को (यतः) प्राप्त करानेवाले (बृहत्) बड़े (ज्योतिः) विज्ञान को (करिष्यतः) जो करेंगे उन (देवान्) दिव्य गुणों को (प्रसुवाति) उत्पन्न करे (तान्) उनको अन्य भी (सविता) उत्पादक जन उत्पन्न करे ॥३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो पुरुष योग और पदार्थविद्या का अभ्यास करते हैं, वे अविद्या आदि क्लेशों को हटानेवाले शुद्ध गुणों को प्रकट कर सकते हैं। जो उपदेशक पुरुष से योग और तत्त्वज्ञान को प्राप्त हो के ऐसा अभ्यास करे, वह भी इन गुणों को प्राप्त होवे ॥३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यान् सविता परमात्मनि मनो युक्त्वाय धियां दिवं स्वर्यतो बृहज्ज्योतिः करिष्यतो देवान् प्रसुवाति तानन्योऽपि सविता प्रसुवेत् ॥३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये योगपदार्थविद्ये अभ्यस्यन्ति, तेऽविद्यादिक्लेशानां निवारकान् शुद्धान् गुणान् जनितुं शक्नुवन्ति। य उपदेशकाद्योगं तत्त्वज्ञानं च प्राप्यैवमभ्यस्येत् सोऽप्येतान् प्राप्नुयात् ॥३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे पुरुष योगाभ्यास करतात ते अविद्या इत्यादी दोष दूर करून शुद्ध गुण प्रकट करू शकतात. जे उपदेशकांपासून योग व तत्त्वज्ञान प्राप्त करून अभ्यास करतात त्यांनाही हे गुण प्राप्त होतात.
०४ युञ्जते मनऽउत
विश्वास-प्रस्तुतिः ...{Loading}...
यु॒ञ्जते॒ मन॑ऽउ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑। वि होत्रा॑ दधे वयुना॒विदेक॒ऽइन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः ॥४ ॥
मूलम् ...{Loading}...
यु॒ञ्जते॒ मन॑ऽउ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑। वि होत्रा॑ दधे वयुना॒विदेक॒ऽइन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः ॥४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यु॒ञ्जते॑। मनः॑। उ॒त। यु॒ञ्ज॒ते। धियः॑। विप्राः॑। विप्र॑स्य। बृ॒ह॒तः। वि॒प॒श्चित॒ इति॑ विपः॒ऽचितः॑। वि। होत्राः॑। द॒धे॒। व॒यु॒ना॒वित्। व॒यु॒ना॒विदिति॑ वयुन॒ऽवित्। एकः॑। इत्। म॒ही। दे॒वस्य॑। स॒वि॒तुः। परि॑ष्टुतिः। परि॑स्तुति॒रिति॒ परि॑ऽस्तुतिः। ४।
महीधरः
म० जगती व्याख्यातापि ( पूर्वं अ० ५ क० ४ ) विशेषतो व्याख्यायते । विप्रस्य ब्राह्मणस्य यजमानस्य विशेषेण प्राति पूरयति दक्षिणान्नदानादिनेति विप्रस्तस्य संबन्धिनो विप्रा ऋत्विजो मनो युञ्जते प्रथमं स्वकीयं मनो विषयेभ्यो निवर्त्य समाहितं कुर्वते । उत अपिच । धिय इष्टकादिविषयाणि ज्ञानानि युञ्जते संपादयन्ति । कीदृशस्य विप्रस्य । बृहतः प्रभोः अग्निचयनोद्योगेनाभिवृद्धस्य । तथा विपश्चितः विदुषः प्रयोगाभिज्ञस्य । विप्राः कीदृशाः । होत्राः होमशीलाः जुह्वतीति होत्राः त्रप्रत्ययः कर्मण्यालस्यरहिता इत्यर्थः । नन्विदमृत्विग्यजमानादिकं कुतो जातं तत्राह । एक एव सविता विदधे सर्वमिदं निर्मितवान् । कीदृशः वयुनावित् वयुनानि प्रज्ञानानि वेत्तीति वयुनावित् ‘अन्येषामपि दृश्यते’ (पा० ६।३ । १३७ ) इति दीर्घः विपश्चित् ऋत्विग्यजमानाभिप्रायज्ञः । कथमेक एव सर्वमिदं कृतवानित्यत आह । यतः सवितुर्देवस्य परिष्टुतिर्मही परितः सर्ववेदेषु श्रूयमाणा स्तुतिर्महती । अचिन्त्यः सवितुर्महिमेत्यर्थः ॥ ४ ॥
पञ्चमी।
अधिमन्त्रम् (VC)
- सविता देवता
- प्रजापतिर्ऋषिः
- जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
योगाभ्यास करके मनुष्य क्या करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (होत्राः) दान देने-लेने के स्वभाववाले (विप्राः) बुद्धिमान् पुरुष जिस (बृहतः) बड़े (विपश्चितः) सम्पूर्ण विद्याओं से युक्त आप्त पुरुष के समान वर्त्तमान (विप्रस्य) सब शास्त्रों के जाननेहारे बुद्धिमान् पुरुष से विद्याओं को प्राप्त हुए विद्वानों से विज्ञानयुक्त जन (सवितुः) सब जगत् को उत्पन्न और (देवस्य) सब के प्रकाशक जगदीश्वर की (मही) बड़ी (परिष्टुतिः) सब प्रकार की स्तुति है, उस तत्त्वज्ञान के विषय में जैसे (मनः) अपने चित्त को (युञ्जते) समाधान करते (उत) और (धियः) अपनी बुद्धियों को (युञ्जते) युक्त करते हैं, वैसे ही (वयुनावित्) प्रकृष्टज्ञानवाला (एकः) अन्य के सहाय की अपेक्षा से रहित (इत्) ही मैं (विदधे) विधान करता हूँ ॥४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो नियम से आहार-विहार करने हारे जितेन्द्रिय पुरुष एकान्त देश में परमात्मा के साथ अपने आत्मा को युक्त करते हैं, वे तत्त्वज्ञान को प्राप्त होकर नित्य ही सुख भोगते हैं ॥४ ॥
दयानन्द-सरस्वती (सं) - विषयः
योगाभ्यासं कृत्वा मनुष्याः किं कुर्य्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये होत्रा विप्रा यस्य बृहतो विपश्चित इव वर्तमानस्य विप्रस्य सकाशात् प्राप्तविद्याः सन्तो या सवितुर्देवस्य जगदीश्वरस्य मही परिष्टुतिरस्ति तत्र यथा मनो युञ्जत उत धियो युञ्जते तथा वयुनाविदेक इदहं विदधे ॥४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये युक्ताहारविहारा एकान्ते देशे परमात्मानं युञ्जते, ते तत्त्वविज्ञानं प्राप्य नित्यं सुखं यान्ति ॥४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जी माणसे जितेन्द्रिय असून नियमित आहार-विहार करतात व एकांत स्थानी आपल्या आत्म्याला परमेश्वराशी युक्त करून तत्त्वज्ञानी बनतात ते सदैव सुख भोगतात .
०५ युजे वाम्
विश्वास-प्रस्तुतिः ...{Loading}...
यु॒जे वां॒ ब्रह्म॑ पू॒र्व्यं नमो॑भि॒र्वि श्लोक॑ऽएतु प॒थ्ये᳖व सू॒रेः। शृ॒ण्वन्तु॒ विश्वे॑ऽअ॒मृत॑स्य पु॒त्राऽआ ये धामा॑नि दि॒व्यानि॑ त॒स्थुः ॥५ ॥
मूलम् ...{Loading}...
यु॒जे वां॒ ब्रह्म॑ पू॒र्व्यं नमो॑भि॒र्वि श्लोक॑ऽएतु प॒थ्ये᳖व सू॒रेः। शृ॒ण्वन्तु॒ विश्वे॑ऽअ॒मृत॑स्य पु॒त्राऽआ ये धामा॑नि दि॒व्यानि॑ त॒स्थुः ॥५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यु॒जे। वा॒म्। ब्रह्म॑। पू॒र्व्यम्। नमो॑भि॒रिति॒ नमः॑ऽभिः। वि। श्लोकः॑। ए॒तु॒। प॒थ्ये᳖वेति॑ प॒थ्या᳖ऽइव। सू॒रेः। शृ॒ण्वन्तु॑। विश्वे॑। अ॒मृत॑स्य। पु॒त्राः। आ। ये। धामा॑नि। दि॒व्यानि॑। त॒स्थुः। ५।
महीधरः
म० त्रिष्टुप् आद्यद्वितीयतुर्याणां व्यूहेन पूरणम् । पत्नीयजमानौ वामिति पदेनोच्यते । हे पत्नीयजमानौ, वां युवयोरर्थे नमोभिरन्नैः इदानीं हुतैघृतैः सहितं पूर्व्यं पुरातनैर्महर्षिभिरनुष्ठितं ब्रह्म परिवृढमग्निचयनाख्यं कर्माहं युजे युनज्मि संपादयामि । व्यत्ययेन तुदादित्वाच्छः । यद्वा ब्रह्मशब्देन प्राणाः सप्त ऋषयो ब्राह्मणाश्चोच्यन्ते । वामर्थे पूर्व्यं पुरातनं ब्रह्म ब्राह्मणजातिं नमोभिरन्नैर्युजे योजयामि । अन्नैर्विप्रांस्तर्पयामीत्यर्थः । किमर्थमिति चेत् सूरेः पण्डितस्य यजमानस्य श्लोकः कीर्तिर्व्येतु विविधं गच्छतु लोकद्वयं व्याप्नोतु । ‘व्यवहिताश्च’ (पा० १ । ४ । ८२) इति वि एतु अनयोर्व्यवधानम् । तत्र दृष्टान्तः । पथ्या इव पथोऽनपेता पथ्या यज्ञभागप्रवृत्ता आहुतिर्यथा लोकद्वयं व्याप्नोति एवं यजमानस्य श्लोकं उभयलोकसंचारी भवत्विति भावः । किंच अमृतस्य मरणधर्मरहितस्य प्रजापतेः पुत्रा विश्वे सर्वे देवा यजमानस्य श्लोकं शृण्वन्तु । के । ये दिव्यानि दिवि भवानि स्थानानि आतस्थुः अधिष्ठितवन्तः ते सर्वेऽस्य कीर्तिं शृण्वन्वित्यर्थः ॥५॥
षष्ठी।
अधिमन्त्रम् (VC)
- सविता देवता
- प्रजापतिर्ऋषिः
- भुरिक्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्य लोग ईश्वर की प्राप्ति कैसे करें, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे योगशास्त्र के ज्ञान की इच्छा करनेवाले मनुष्यो ! आप लोग जैसे (श्लोकः) सत्य वाणी से संयुक्त मैं (नमोभिः) सत्कारों से जिस (पूर्व्यम्) पूर्व के योगियों ने प्रत्यक्ष किये (ब्रह्म) सब से बड़े व्यापक ईश्वर को (युजे) अपने आत्मा में युक्त करता हूँ, वह ईश्वर (वाम्) तुम योग के अनुष्ठान और उपदेश करने हारे दोनों को (सूरेः) विद्वान् का (पथ्येव) उत्तम गति के अर्थ मार्ग प्राप्त होता है, वैसे (व्येतु) विविध प्रकार से प्राप्त होवे। जैसे (विश्वे) सब (पुत्राः) अच्छे सन्तानों के तुल्य आज्ञाकारी मोक्ष को प्राप्त हुए विद्वान् लोग (अमृतस्य) अविनाशी ईश्वर के योग से (दिव्यानि) सुख के प्रकाश में होनेवाले (धामानि) स्थानों को (आतस्थुः) अच्छे प्रकार प्राप्त होते हैं, वैसे मैं भी उनको प्राप्त होऊँ ॥५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। योगाभ्यास के ज्ञान को चाहनेवाले मनुष्यों को चाहिये कि योग में कुशल विद्वानों का सङ्ग करें। उन के सङ्ग से योग की विधि को जान के ब्रह्मज्ञान का अभ्यास करें। जैसे विद्वान् का प्रकाशित किया हुआ धर्म मार्ग सब को सुख से प्राप्त होता है, वैसे ही योगाभ्यासियों के सङ्ग से योगविधि सहज में प्राप्त होती है। कोई भी जीवात्मा इस सङ्ग और ब्रह्मज्ञान के अभ्यास के विना पवित्र होकर सब सुखों को प्राप्त नहीं हो सकता, इसीलिये उस योगविधि के साथ ही सब मनुष्य परब्रह्म की उपासना करें ॥५ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्याः परब्रह्मप्राप्तिं कथं कुर्य्युरित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे योगजिज्ञासवो जनाः ! भवन्तो यथा श्लोकोऽहं नमोभिर्यत्पूर्व्यं ब्रह्म युजे, तद्वां सूरेः पथ्येव व्येतु। यथा विश्वे पुत्राः प्राप्तमोक्षा विद्वांसोऽमृतस्य योगेन दिव्यानि धामान्यातस्थुस्तेभ्य एतां योगविद्यां शृण्वन्तु ॥५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। योगं जिज्ञासुभिराप्ता योगारूढा विद्वांसः सङ्गन्तव्याः। तत्सङ्गेन योगविधिं विज्ञाय ब्रह्माभ्यसनीयम्। यथा विद्वत्प्रकाशितो धर्ममार्गः सर्वान् सुखेन प्राप्नोति, तथैव कृतयोगाभ्यासानां सङ्गाद्योगविधिः सहजतया प्राप्नोति, नहि कश्चिदेतत्सङ्गमकृत्वा ब्रह्माभ्यासेन विनाऽऽत्मा पवित्रो भूत्वा सर्वं सुखमश्नुते। तस्माद् योगविधिना सहैव सर्वे परं ब्रह्मोपासताम् ॥५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. योगाचा अभ्यास करणाऱ्या लोकांनी योगकुशल विद्वानांची संगती धरावी. त्यांच्या संगतीने योगविधी जाणून ब्रह्मज्ञानाचा अभ्यास करावा. ज्याप्रमाणे विद्वानांचा मार्ग सर्वांना सुखकारक असतो त्याप्रमाणेच योगाभ्यासींच्या संगतीने योगक्रिया सहज प्राप्त करता येते. कोणताही जीवात्मा अशी संगती व ब्रह्मज्ञान याशिवाय पवित्र होत नाही व सर्व सुख प्राप्त करू शकत नाही. त्यासाठी योगविधीनेच सर्व माणसांनी परमेश्वराची उपासना करावी.
०६ यस्य प्रयाणमन्वन्यऽइद्ययुर्देवा
विश्वास-प्रस्तुतिः ...{Loading}...
यस्य॑ प्र॒याण॒मन्व॒न्यऽइद्य॒युर्दे॒वा दे॒वस्य॑ महि॒मान॒मोज॑सा। यः पार्थि॑वानि विम॒मे सऽएत॑शो॒ रजाँ॑सि दे॒वः स॑वि॒ता म॑हित्व॒ना ॥६ ॥
मूलम् ...{Loading}...
यस्य॑ प्र॒याण॒मन्व॒न्यऽइद्य॒युर्दे॒वा दे॒वस्य॑ महि॒मान॒मोज॑सा। यः पार्थि॑वानि विम॒मे सऽएत॑शो॒ रजाँ॑सि दे॒वः स॑वि॒ता म॑हित्व॒ना ॥६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यस्य॑। प्र॒याण॑म्। प्र॒यान॒मिति॑ प्र॒ऽयान॑म्। अनु॑। अ॒न्ये। इत्। य॒युः। दे॒वाः। दे॒वस्य॑। म॒हि॒मान॑म्। ओज॑सा। यः। पार्थि॑वानि। वि॒म॒म इति॑ विऽम॒मे। सः। एत॑शः। रजाँ॑सि। दे॒वः। स॒वि॒ता। म॒हि॒त्व॒नेति॑ महिऽत्व॒ना। ६।
महीधरः
म०. सावित्री जगती प्रथमस्य व्यूहेन पूरणम् । अन्ये देवा यस्य सवितुः प्रयाणं प्रवृत्तिमनुययुरित् अवश्यमनुगच्छन्त्येव । यत्प्रवृत्तिमनुवर्तन्त इत्यर्थः । अन्ये देवा यस्य देवस्य महिमानं महत्त्वं च ओजसा बलेनानुययुः। यश्च सविता पार्थिवानि रजांसि विममे पृथिवीप्रभृतींस्त्रींल्लोकान्मिमीते । ‘लोका रजांस्युच्यन्ते’ (निरु० ४ । १९) इति यास्कः । स देवः महित्वना स्वकीयेन महाभाग्येन एतशः एतज्जगत्त्रयं स्थावरजङ्गमं प्राणभावेन शेते व्याप्नोतीत्येतशः महेर्महतो भावो महित्वं तेन । भावे छान्दसस्त्वन्प्रत्ययः । यद्वा एतश इत्यश्वनामसु पठितम् । स देव एतशः अश्वरूपेण सर्वं जगदवष्टभ्य स्थितः । ‘उषा वा अश्वस्य मेध्यस्य शिरः’ (१० । ६ । ४ । १) इति श्रुतेः ‘सूरादश्वं वसवो निरतष्टे’ ति वक्ष्यमाणत्वाच्च ( अ० २९ का. १३ ॥ ६ ॥
सप्तमी।
अधिमन्त्रम् (VC)
- सविता देवता
- प्रजापतिर्ऋषिः
- निचृज्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्य किस की उपासना करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे योगी पुरुषो ! तुम को चाहिये कि (यस्य) जिस (देवस्य) सब सुख देने हारे ईश्वर के (महिमानम्) स्तुति विषय को (प्रयाणम्) कि जिस से सब सुख प्राप्त होवे उस के (अनु) पीछे (अन्ये) जीवादि और (देवाः) विद्वान् लोग (ययुः) प्राप्त होवें (यः) जो (एतशः) सब जगत् में अपनी व्याप्ति से प्राप्त हुआ (सविता) सब जगत् का रचने हारा (देवः) शुद्धस्वरूप भगवान् (महित्वना) अपनी महिमा और (ओजसा) पराक्रम से (पार्थिवानि) पृथिवी पर प्रसिद्ध (रजांसि) सब लोकों को (विममे) विमान आदि यानों के समान रचता है (सः) वह (इत्) ही निरन्तर उपासनीय मानना चाहिये ॥६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो विद्वान् लोग सब जगत् के बीच पोल में अपने अनन्त बल से धारण करने, रचने और सुख देने हारे सर्वशक्तिमान् सब के हृदयों में व्यापक ईश्वर की उपासना करते हैं, वे ही सुख पाते हैं, अन्य नहीं ॥६ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्याः कस्योपासनं कुर्य्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे योगिनः ! युष्माभिर्यस्य देवस्य महिमानं प्रयाणमन्वन्ये देवा ययुः। य एतशः सविता देवो भगवान् महित्वनौजसा पार्थिवानि रजांसि विममे, स इदेव सततमुपास्यो मन्तव्यः ॥६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये विद्वांसः सर्वस्य जगतोऽन्तरिक्षेऽनन्तबलेन धर्त्तारं निर्मातारं सुखप्रदं शुद्धं सर्वशक्तिमन्तं सर्वान्तर्यामिणमीश्वरमुपासते, त एव सुखयन्ति नेतरे ॥६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे विद्वान या विश्वाच्या पोकळीत आपले अनन्त बल धारण करणाऱ्या, विश्वाची रचना करणाऱ्या, सुखकारक, शुद्ध, सर्वशक्तिमान व सर्वांच्या अंतःकरणात वास करणाऱ्या व्यापक परमेश्वराची उपासना करतात तेच सुखी होतात, अन्य होत नाहीत.
०७ देव सवितः
विश्वास-प्रस्तुतिः ...{Loading}...
देव॑ सवितः॒ प्रसु॑व य॒ज्ञं प्रसु॑व य॒ज्ञप॑तिं॒ भगा॑य। दि॒व्यो ग॑न्ध॒र्वः के॑त॒पूः केत॑न्नः पुनातु वा॒चस्पति॒र्वाचं॑ नः स्वदतु ॥७ ॥
मूलम् ...{Loading}...
देव॑ सवितः॒ प्रसु॑व य॒ज्ञं प्रसु॑व य॒ज्ञप॑तिं॒ भगा॑य। दि॒व्यो ग॑न्ध॒र्वः के॑त॒पूः केत॑न्नः पुनातु वा॒चस्पति॒र्वाचं॑ नः स्वदतु ॥७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
देव॑। स॒वि॒त॒रिति॑ सवितः। प्र। सु॒व॒। य॒ज्ञम्। प्र। सु॒व॒। य॒ज्ञप॑ति॒मिति॑ य॒ज्ञऽप॑तिम्। भगा॑य। दि॒व्यः। ग॒न्ध॒र्वः। के॒त॒पूरिति॑ केत॒ऽपूः। केत॑म्। नः॒। पु॒ना॒तु॒। वा॒चः। पतिः॑। वाच॑म्। नः॒। स्व॒द॒तु॒। ७।
महीधरः
म० त्रिष्टुप् । व्याख्यातापि (अ० ९ का० १) कथ्यते । हे देव सवितः, यज्ञं प्रसुव प्रकर्षेण प्रेरय यज्ञपतिं यजमानं च भगाय सौभाग्याय प्रसुव । किंच दिव्यो दिवि भवः स्वर्गस्थः केतपूः केतं परचित्ते वर्तमानं ज्ञानं पुनाति शोधयतीति केतपूः ईदृशो गन्धर्वः गां वाचं धारयतीति गन्धर्वः सविता नोऽस्माकं केतं चित्तवर्ति ज्ञानं पुनातु ब्रह्मविवर्तनेन शोधयतु । वाचः वाण्याः पतिः सविता नोऽस्मदीयां वाचं स्वदतु स्वादयतु। | अस्मदुक्ता वाक्तस्मै रोचतामित्यर्थः ॥ ७ ॥
अष्टमी।
अधिमन्त्रम् (VC)
- सविता देवता
- प्रजापतिर्ऋषिः
- आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब किसलिये परमेश्वर की उपासना और प्रार्थना करनी चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (देव) सत्य योगविद्या से उपासना के योग्य शुद्ध ज्ञान देने (सवितः) और सब सिद्धियों को उत्पन्न करने हारे परमेश्वर ! आप (नः) हमारे (भगाय) सम्पूर्ण ऐश्वर्य के लिये (यज्ञम्) सुखों को प्राप्त कराने हारे व्यवहार को (प्रसुव) उत्पन्न कीजिये तथा (यज्ञपतिम्) इस सुखदायक व्यवहार के रक्षक जन को (प्रसुव) उत्पन्न कीजिये (गन्धर्वः) पृथिवी को धरने (दिव्यः) शुद्ध गुण, कर्म और स्वभावों में उत्तम और (केतपूः) विज्ञान से पवित्र करने हारे आप (नः) हमारे (केतम्) विज्ञान को (पुनातु) पवित्र कीजिये और (वाचस्पतिः) सत्य विद्याओं से युक्त वेदवाणी के प्रचार से रक्षा करनेवाले आप (नः) हमारी (वाचम्) वाणी को (स्वदतु) स्वादिष्ठ अर्थात् कोमल मधुर कीजिये ॥७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो पुरुष सम्पूर्ण ऐश्वर्य से युक्त शुद्ध, निर्मल ब्रह्म की उपासना और योगविद्या की प्राप्ति के लिये प्रार्थना करते हैं, वे सब ऐश्वर्य्य को प्राप्त अपने आत्मा को शुद्ध और योगविद्या को सिद्ध कर सकते हैं। जो ईश्वर की वाणी के तुल्य अपनी वाणी को शुद्ध करते हैं, वे सत्यवादी हो के सब क्रियाओं के फलों को प्राप्त होते हैं ॥७ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ किमर्थं परमेश्वर उपास्यः प्रार्थनीयश्चास्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे देव सत्ययोगविद्ययोपासनीय सवितर्भगवन् ! त्वं नो भगाय यज्ञं प्रसुव, यज्ञपतिं प्रसुव। गन्धर्वो दिव्यः केतपूर्भवान्नोऽस्माकं केतं पुनातु, वाचस्पतिर्भवान्नो वाचं स्वदतु ॥७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये सकलैश्वर्य्योपपन्नं शुद्धं ब्रह्मोपासते योगप्राप्तये प्रार्थयन्ते, तेऽखिलैश्वर्य्यं शुद्धात्मानं कर्त्तुं योगं च प्राप्तुं शक्नुवन्ति। ये जगदीश्वरवाग्वत् स्ववाचं शुन्धन्ति, ते सत्यवाचः सन्तः सर्वक्रियाफलान्याप्नुवन्ति ॥७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे संपूर्ण ऐश्वर्ययुक्त शुद्ध व निर्मळ ब्रह्माची उपासना व योगविद्येच्या प्राप्तीसाठी प्रार्थना करतात त्यांना सर्व ऐश्वर्य प्राप्त होते. ते आपल्या आत्म्याला शुद्ध बनवू शकतात व योगसिद्धी प्राप्त करू शकतात. जे परमेश्वराच्या वेदवाणीप्रमाणे आपल्या वाणीची शुद्धी करतात ते सत्यवादी बनतात व त्यांना सर्व कर्माचे (उत्तम) फळ प्राप्त होते.
०८ इमं नो
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒मं नो॑ देव सवितर्य॒ज्ञं प्रण॑य देवा॒व्यँ᳖ सखि॒विदँ॑ सत्रा॒जितं॑ धन॒जितँ॑ स्व॒र्जित॑म्। ऋ॒चा स्तोमँ॒ सम॑र्धय गाय॒त्रेण॑ रथन्त॒रं बृ॒हद् गा॑य॒त्रव॑र्त्तनि॒ स्वाहा॑ ॥८ ॥
मूलम् ...{Loading}...
इ॒मं नो॑ देव सवितर्य॒ज्ञं प्रण॑य देवा॒व्यँ᳖ सखि॒विदँ॑ सत्रा॒जितं॑ धन॒जितँ॑ स्व॒र्जित॑म्। ऋ॒चा स्तोमँ॒ सम॑र्धय गाय॒त्रेण॑ रथन्त॒रं बृ॒हद् गा॑य॒त्रव॑र्त्तनि॒ स्वाहा॑ ॥८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इ॒मम्। नः॒। दे॒व॒। स॒वि॒तः॒। य॒ज्ञम्। प्र। न॒य॒। दे॒वा॒व्य᳖मिति॑ देवऽअ॒व्य᳖म्। स॒खि॒विद॒मिति॑ सखि॒ऽविद॑म्। स॒त्रा॒जित॒मिति॑ सत्रा॒ऽजित॑म्। ध॒न॒जित॒मिति॑ धन॒ऽजित॑म्। स्व॒र्जित॒मिति॑ स्वः॒ऽजित॑म्। ऋ॒चा। स्तोम॑म्। सम्। अ॒र्ध॒य॒। गा॒य॒त्रेण॑। र॒थ॒न्त॒रमिति॑ रथम्ऽत॒रम्। बृ॒हत्। गा॒य॒त्रव॑र्त्त॒नीति॑ गाय॒त्रऽव॑र्त्तनि। स्वाहा॑। ८।
महीधरः
म० अवसानपर्यन्तं यजुः तस्य प्राजापत्या जगती छन्दः । हे सवितर्देव, नोऽस्माकमिमं यज्ञं प्रणय प्रापय । कीदृशं । यज्ञम् । देवाव्यं देवा अव्यन्ते तर्प्यन्ते यस्मिन्नसौ देवावीः तम् । ‘अव प्रीणनादौ’ अस्मादौणादिक ईप्रत्ययः । तथा सखिविदं सखायं स्वनिष्पादकं यजमानं वेत्तीति तम् । ‘विद ज्ञाने’ । सखीनृत्विजो विन्दते प्राप्नोतीति वा सखिवित्तम् ‘विद्लृ लाभे’ सखायो विद्यन्ते यस्मिन्निति वा ‘विद सत्तायाम्’। सत्राजितं सत्राणि द्वादशाहादीनि जयति वशीकरोतीति सत्रजित्तम् तानि हि चीयमानमग्निमपेक्षन्ते । यद्वा सत्राशब्दः सत्यवाची। सत्रा सत्यं ब्रह्म जयतीति । धनजितं धनं गवादि फलरूपेण यो जयति संपादयतीति धनजित् । स्वर्जितं स्वः स्वर्गं जयति फलत्वेन संपादयतीति स स्वर्जित्तम् । किंच ऋचा स्तोमम् गायत्री अवसानरहिता यजुरन्ता स्वाहेति यजुः । हे सवितः, ऋचा स्तोत्रहेतुसामाधारभूतया ऋचा सह स्तोमं त्रिवृदादिकं समर्धय समृद्धं कुरु । गायत्रेण साम्ना सह रथन्तरं साम समर्धय बृहत् साम च समर्धय । कीदृशं बृहत् । गायत्रवर्तनि गायत्रं सामैव वर्तनिर्मार्गो यस्य तत् । बृहत्साम्नो गायत्रं साम वर्त्मभूतमित्यर्थः ॥ ८ ॥
नवमी।
अधिमन्त्रम् (VC)
- सविता देवता
- प्रजापतिर्ऋषिः
- भुरिक् शक्वरी
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (देव) सत्य कामनाओं को पूर्ण करने और (सवितः) अन्तर्यामिरूप से प्रेरणा करने हारे जगदीश्वर ! आप (नः) हमारे (इमम्) पीछे कहे और आगे जिसको कहेंगे उस (देवाव्यम्) दिव्य विद्वान् वा दिव्य गुणों की जिस से रक्षा हो (सखिविदम्) मित्रों को जिस से प्राप्त हों (सत्राजितम्) सत्य को जिससे जीतें (धनजितम्) धन की जिससे उन्नति होवे (स्वर्जितम्) सुख को जिस से बढ़ावें और (ऋचा) ऋग्वेद से जिस की (स्तोमम्) स्तुति हो उस (यज्ञम्) विद्या और धर्म का संयोग कराने हारे यज्ञ को (स्वाहा) सत्य क्रिया के साथ (प्रणय) प्राप्त कीजिये (गायत्रेण) गायत्री आदि छन्द से (गायत्रवर्त्तनि) गायत्री आदि छन्दों की गानविद्या (बृहत्) बड़े (रथन्तरम्) अच्छे यानों से जिस के पार हों, उस मार्ग को (समर्धय) अच्छे प्रकार बढ़ाइये ॥८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य ईर्ष्या द्वेष आदि दोषों को छोड़ ईश्वर के समान सब जीवों के साथ मित्रभाव रखते हैं, वे संपत् को प्राप्त होते हैं ॥८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे देव सवितर्जगदीश ! त्वं न इमं देवाव्यं सखिविदं सत्राजितं धनजितं स्वर्जितमृचा स्तोमं यज्ञं स्वाहा प्रणय गायत्रेण गायत्रवर्त्तनि बृहद्रथन्तरं च समर्धय ॥८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये जना ईर्ष्याद्वेषादिदोषान् विहायेश्वर इव सर्वैः सह सुहृद् भावमाचरन्ति, ते संवर्धितुं शक्नुवन्ति ॥८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे ईर्षा, द्वेष इत्यादी दोष दूर करून ईश्वराप्रमाणे सर्व जीवांबरोबर मित्रभाव ठेवतात त्यांना ऐश्वर्य प्राप्त होते.
०९ देवस्य त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳙ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम्। आद॑दे गाय॒त्रेण॒ छन्द॑साङ्गिर॒स्वत् पृ॑थि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्य᳖मङ्गिर॒स्वदाभ॑र॒ त्रैष्टु॑भेन॒ छन्द॑साङ्गिर॒स्वत् ॥९ ॥
मूलम् ...{Loading}...
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳙ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम्। आद॑दे गाय॒त्रेण॒ छन्द॑साङ्गिर॒स्वत् पृ॑थि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्य᳖मङ्गिर॒स्वदाभ॑र॒ त्रैष्टु॑भेन॒ छन्द॑साङ्गिर॒स्वत् ॥९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दे॒वस्य॑। त्वा॒। स॒वि॒तुः। प्र॒स॒व᳙ इति॑ प्रऽस॒वे᳙। अ॒श्विनोः॑। बा॒हुभ्या॑म्। पू॒ष्णः। हस्ता॑भ्याम्। आ। द॒दे॒। गा॒य॒त्रेण॑। छन्द॑सा। अ॒ङ्गि॒र॒स्वत्। पृ॒थि॒व्याः। स॒धस्था॒दिति॑ स॒धऽस्था॑त्। अ॒ग्निम्। पु॒री॒ष्य᳖म्। अ॒ङ्गि॒र॒स्वत्। आ। भ॒र॒। त्रैष्टु॑भेन। त्रैस्तु॑भे॒नेति॒ त्रैऽस्तु॑भेन। छन्द॑सा। अ॒ङ्गि॒र॒स्वत्। ९।
महीधरः
म०. ‘देवस्य त्वेत्यभ्रिमादाय हस्त अधायेत्येनामभिमन्त्रयते’ (का० १६ । २।८)। अस्यार्थः । देवस्य त्वेति कण्डिकाद्वयात्मकमन्त्रेण वैणवीमभ्रिमादाय हस्त आधायेति ऋचा (क. ११) एनामभ्रिमभिमन्त्रयते । देवस्य त्वा प्रजापतिः साध्या वा ऋषयः सावित्रं यजुः । व्याख्यातम् । आददे अभ्रिर्देवता अतिधृतिश्छन्दः । हे अभ्रे, सवितुर्देवस्य प्रसवे प्रेरणे सति अश्विनोः संबन्धिभ्यां मणिबन्धपर्यन्ताभ्यां बाहुभ्यां पूष्णः संबन्धिभ्यां साङ्गुलिभ्यां हस्ताभ्यां साधनभूताभ्यां गायत्रेण छन्दसा सहायभूतेन युक्तः सन् त्वा त्वामाददे गृह्णामि । तत्र दृष्टान्तः । अङ्गिरस्वत् अङ्गिरोभिस्तुल्यमङ्गिरोवदिति प्राप्ते ‘अयस्मयादीनि छन्दसि’ (पा० १। ४ । २०) इति भसंज्ञायामङ्गिरस्वदिति रुत्वाभावः । आङ्गिरस ऋषयः पूर्वं यथा त्वामगृह्णन् तद्वत् । हे अभ्रे, त्वं गृहीता सती पृथिव्याः सधस्थात् सहस्थानादुत्सङ्गात् अग्निमाभर आहर ‘हृग्रहोर्भश्छन्दसि’ (पा० ८ । २ । ३२ वा० १) इति हस्य भः । त्रैष्टुभेन छन्दसा कृत्वा अङ्गिरस्वत् अङ्गिरसो यथाग्निमाजह्रुः पुनरङ्गिरस्वदिति दृष्टान्तार्थातिशयार्थः ‘अभ्यासे भूयांसमर्थं मन्यन्ते’ (निरु० १० । ४२) इति यास्कोक्तेः । किंभूतमग्निम् । पुरीष्यं ‘पशवो वै पुरीषम्’ (६ । ३ । १ । ३८) इति श्रुतेः पुरीषेभ्यः पशुभ्यो हितः पुरीष्यस्तं पशव्यम् । यद्वा पुरीषशब्देन पांशुरूपा शुष्का मृदुच्यते तदर्हतीति पुरीष्योऽग्निः मृदमादायोखां कृत्वा तस्यामग्निः स्थाप्यते यतोऽतो मृदग्न्योरभेदोपचारेण मृदाहरणमेवाग्यादरहरणमित्यभिप्रायेण पुरीष्यमग्निमाहरेत्युच्यते । अयं चोपचारोऽग्निचयनप्रकरणे सर्वत्रानुवर्तिष्यते ॥ ९ ॥
दशमी।
अधिमन्त्रम् (VC)
- सविता देवता
- प्रजापतिर्ऋषिः
- भुरिगतिशक्वरी
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्य भूमि आदि तत्त्वों से बिजुली का ग्रहण करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् पुरुष ! मैं जिस (त्वा) आप को (देवस्य) सूर्य्य आदि सब जगत् के प्रकाश करने और (सवितुः) सबको ऐश्वर्यव्यवस्था के प्रति प्रेरित करनेवाले के (प्रसवे) निष्पन्न ऐश्वर्य में (अश्विनोः) प्राण और उदान के (बाहुभ्याम्) बल और आकर्षण से तथा (पूष्णः) पुष्टिकारक बिजुली के (हस्ताभ्याम्) धारण और आकर्षण (अङ्गिरस्वत्) अंगारों के समान (आददे) ग्रहण करता हूँ सो आप (गायत्रेण) गायत्री मन्त्र से निकले (छन्दसा) आनन्ददायक अर्थ के साथ (पृथिव्याः) पृथिवी के (सधस्थात्) एक स्थान से (अङ्गिरस्वत्) प्राणों के तुल्य और (त्रैष्टुभेन) त्रिष्टुप् मन्त्र से निकले (छन्दसा) स्वतन्त्र अर्थ के साथ (अङ्गिरस्वत्) चिह्नों के सदृश (पुरीष्यम्) जल को उत्पन्न करने हारे (अग्निम्) बिजुली आदि तीन प्रकार के अग्नि को (आभर) धारण कीजिये ॥९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। मनुष्यों को चाहिये कि ईश्वर की सृष्टि के गुणों को जानने हारे विद्वान् की अच्छे प्रकार सेवा करके पृथिवी आदि पदार्थों में रहनेवाले अग्नि को स्वीकार करें ॥९ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्या भूमितत्त्वादिभ्यो विद्युतं स्वीकुर्य्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! अहं यं त्वा देवस्य सवितुः प्रसवेऽअश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामङ्गिरस्वदाददे, स त्वं गायत्रेण छन्दसा पृथिव्याः सधस्थादङ्गिरस्वत् त्रैष्टुभेन छन्दसाऽङ्गिरस्वत् पुरीष्यमग्निमाभर ॥९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। मनुष्यैरीश्वरसृष्टिगुणविदं विद्वांसं संसेव्य पृथिव्यादिस्थोऽग्निः स्वीकार्य्यः ॥९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. माणसांनी ईश्वरनिर्मित सृष्टीचे गुण जाणणाऱ्या विद्वानांची सेवा करावी व पृथ्वी इत्यादी पदार्थातील अग्नीचा उपयोग जाणावा.
१० अभ्रिरसि नार्यसि
विश्वास-प्रस्तुतिः ...{Loading}...
अभ्रि॑रसि॒ नार्य॑सि॒ त्वया॑ व॒यम॒ग्निँ श॑केम॒ खनि॑तुँ स॒धस्थ॒ आ। जाग॑तेन॒ छन्द॑साङ्गिर॒स्वत् ॥१० ॥
मूलम् ...{Loading}...
अभ्रि॑रसि॒ नार्य॑सि॒ त्वया॑ व॒यम॒ग्निँ श॑केम॒ खनि॑तुँ स॒धस्थ॒ आ। जाग॑तेन॒ छन्द॑साङ्गिर॒स्वत् ॥१० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अभ्रिः॑। अ॒सि॒। नारी॑। अ॒सि॒। त्वया॑। व॒यम्। अ॒ग्निम्। श॒के॒म॒। खनि॑तुम्। स॒धस्थ॒ इति॑ स॒धस्थे॑। आ। जाग॑तेन। छन्द॑सा। अ॒ङ्गि॒र॒स्वत्। १०।
महीधरः
म० त्वमभ्रिरसि उखां निर्मातुं मृत्खननहेतुभूतकाष्ठविशेषोऽसि । नारी असि स्त्रीरूपा चासि । यद्वा न विद्यते अरिः शत्रुर्यस्याः सा नारी । ईष् छान्दसः । खननकाले अश्मादिना तव कुण्ठीभावो नास्तीत्यर्थः । किंच त्वया युक्ता वयं सधस्थे पृथिव्या उत्सङ्गे वर्तमानमग्निं जागतेन छन्दसा खनितुं शकेम शक्ता भवेम । शक्नोतेर्व्यत्ययेन शप् । अङ्गिरस्वदिति दृष्टान्तः पूर्ववत् ॥ १० ॥
एकादशी।
अधिमन्त्रम् (VC)
- सविता देवता
- प्रजापतिर्ऋषिः
- भुरिगनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्य लोग भूमि आदि से सुवर्ण आदि पदार्थों को कैसे प्राप्त होवें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे कारीगर पुरुष ! जो (त्वया) तेरे साथ (सधस्थे) एक स्थान में वर्त्तमान (वयम्) हम लोग जो (अभ्रिः) भूमि खोदने और (नारी) विवाहित उत्तम स्त्री के समान कार्य्यों को सिद्ध करने हारी लोहे आदि की कसी (असि) है, जिससे कारीगर लोग भूगर्भविद्या को जान सकें, उस को ग्रहण करके (जागतेन) जगती मन्त्र से विधान किये (छन्दसा) सुखदायक स्वतन्त्र साधन से (अङ्गिरस्वत्) प्राणों के तुल्य (अग्निम्) विद्युत् आदि अग्नि को (खनितुम्) खोदने के लिये (आशकेम) सब प्रकार समर्थं हों, उस को तू बना ॥१० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को उचित है कि अच्छे खोदने के साधनों से पृथिवी को खोद और अग्नि के साथ संयुक्त करके सुवर्ण आदि पदार्थों को बनावें, परन्तु पहिले भूगर्भ की तत्त्वविद्या को प्राप्त होके ऐसा कर सकते हैं, ऐसा निश्चित जानना चाहिये ॥१० ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यैः कथं भूम्यादेः सुवर्णादीनि प्राप्तव्यानीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे शिल्पिन् ! त्वया सह सधस्थे वर्त्तमाना वयं याऽभ्रिरसि नार्य्यसि यां गृहीत्वा जागतेन छन्दसाऽङ्गिरस्वदग्निं खनितुमाशकेम शक्नुयाम तां त्वं निर्मिमीष्व ॥१० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैः सुसाधनैः पृथिवीं खनित्वाऽग्निना संयोज्य सुवर्णादीनि निर्मातव्यानि, परन्तु पूर्वं भूगर्भतत्त्वविद्यां प्राप्यैवं कर्त्तुं शक्यमिति वेदितव्यम् ॥१० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी योग्य साधने वापरून भूमीचे उत्खनन करावे व सुवर्ण इत्यादी पदार्थ अग्नीच्या साह्याने तयार करावेत. अर्थात त्यासाठी प्रथम भूगर्भविद्या शिकून मग हे कार्य करता येते हे निश्चित जाणावे.
११ हस्तऽआधाय सविता
विश्वास-प्रस्तुतिः ...{Loading}...
हस्त॑ऽआ॒धाय॑ सवि॒ता बिभ्र॒दभ्रिँ॑ हिर॒ण्ययी॑म्। अ॒ग्नेर्ज्योति॑र्नि॒चाय्य॑ पृथि॒व्याऽअध्याभ॑र॒दानु॑ष्टुभेन॒ छन्द॑साङ्गिर॒स्वत् ॥११ ॥
मूलम् ...{Loading}...
हस्त॑ऽआ॒धाय॑ सवि॒ता बिभ्र॒दभ्रिँ॑ हिर॒ण्ययी॑म्। अ॒ग्नेर्ज्योति॑र्नि॒चाय्य॑ पृथि॒व्याऽअध्याभ॑र॒दानु॑ष्टुभेन॒ छन्द॑साङ्गिर॒स्वत् ॥११ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
हस्ते॑। अ॒धायेत्या॒ऽधाय॑। स॒वि॒ता। बिभ्र॑त्। अभ्रि॑म्। हि॒र॒ण्ययी॑म्। अ॒ग्नेः। ज्योतिः॑। नि॒चाय्येति॑ नि॒ऽचाय्य॑। पृ॒थि॒व्याः। अधि॑। आ। अ॒भ॒र॒त्। आनु॑ष्टुभेन। आनु॑स्तुभे॒नेत्यानु॑ऽस्तुभेन। छन्द॑सा। अ॒ङ्गि॒र॒स्वत्। ११।
महीधरः
म० अनुष्टब्यजुरन्ता । आनुष्टुभेनेत्यादि यजुस्तस्य यजुषस्त्रिष्टुप्छन्दः । तृतीयचतुर्थपादयोर्व्यूहेन पूर्तिः । अभ्रिदेवत्या । सविता प्रेरकः प्रजापतिर्हस्ते हिरण्ययीं स्वर्णरूपामभ्रिमाधाय स्थापयित्वा बिभ्रत् तामेव धारयन्सन् अग्नेः संबन्धि ज्योतिर्निचाय्य निश्चित्य दृष्ट्वा पृथिव्याअधि भूमेः सकाशात् आनुष्टुभेन छन्दसा आभरत् आहृतवान् । अङ्गिरस्वदिति पूर्ववत्॥११॥
द्वादशी।
अधिमन्त्रम् (VC)
- सविता देवता
- प्रजापतिर्ऋषिः
- भुरिक् पङ्क्तिः
- पञ्चमः
१२ प्रतूर्त्तं वाजिन्नाद्रव
विश्वास-प्रस्तुतिः ...{Loading}...
प्रतू॑र्त्तं वाजि॒न्नाद्र॑व॒ वरि॑ष्ठा॒मनु॑ सं॒वत॑म्। दि॒वि ते॒ जन्म॑ पर॒मम॒न्तरि॑क्षे॒ तव॒ नाभिः॑ पृथि॒व्यामधि॒ योनि॒रित् ॥१२ ॥
मूलम् ...{Loading}...
प्रतू॑र्त्तं वाजि॒न्नाद्र॑व॒ वरि॑ष्ठा॒मनु॑ सं॒वत॑म्। दि॒वि ते॒ जन्म॑ पर॒मम॒न्तरि॑क्षे॒ तव॒ नाभिः॑ पृथि॒व्यामधि॒ योनि॒रित् ॥१२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्रतू॑र्त्त॒मिति॒ प्रऽतू॑र्त्तम्। वा॒जि॒न्। आ। द्र॒व॒। वरि॑ष्ठाम्। अनु॑। सं॒वत॒मिति॑ स॒म्ऽवत॑म्। दि॒वि। ते॒। जन्म॑। प॒र॒मम्। अ॒न्तरि॑क्षे। तव॑। नाभिः॑। पृ॒थि॒व्याम्। अधि॑। योनिः॑। इत्। १२।
महीधरः
म० ‘अश्वप्रभृतींश्च प्रत्यृचं प्रतूर्तं युञ्जाथां योगे योग इति’ (का० १६ । २ । १०)। ऋक्त्रयेण प्रत्यृचमश्वगर्दभाजानभिमन्त्रयतेऽभ्रिहस्त उपविष्ट एव । अश्वदेवत्या आस्तारपङ्क्तिः नाभानेदिष्ठदृष्टा । यस्या अन्त्यौ द्वादशकावाद्यावष्टकौ सास्तारपङ्क्तिः । ‘वन संभक्तौ’ संवन्यते सम्यग्भज्यते मृद्गृहणार्थ सेव्यत इति संवत् । संपूर्वस्य वनतेः क्विप्येतद्रूपम् । मृत्खननयोग्या भूमिः संवत् । सा च पाषाणाद्यभावेनातिप्रशस्तत्वाद्वरिष्ठेत्युच्यते । हे वाजिन् शीघ्रगामिन्नश्व, वरिष्ठामुत्कृष्टां संवतं भूमिमनुलक्ष्य प्रतूर्तं शीघ्रमाद्रव आगच्छ । ‘नसत्तनिषत्त-’ (पा० ८।२।६१) इत्यादिना क्तान्तो निपातस्वरतेः । ते तवाश्वस्य दिवि द्युलोके परममुत्कृष्टं जन्मादित्यरूपेण भविष्यति आगतस्य सतः । यद्वा ते जन्म दिवि रोहितादिदेवाश्वरूपेण प्रसिद्धम् । अन्तरिक्षे तव नाभिः उदरम् । यद्वा नियुन्नामकवाय्वश्वा अन्तरिक्षे संचरन्ति तद्रूपेणास्यान्तरिक्षवर्तित्वम् । नाभिशब्देन प्रकृष्टं शरीरमुपलक्ष्यते । पृथिव्या अधि उपरि तव योनिः स्थानमित् एव पादावेवेत्यर्थः । भूमौ ते निवासस्थानं प्रत्यक्षं दृश्यते । विराड्रूपेणाश्वः स्तूयते । एवंमहिमा त्वं शीघ्रमागच्छेत्यर्थः ॥ १२॥
त्रयोदशी।
अधिमन्त्रम् (VC)
- वाजी देवता
- नाभानेदिष्ठ ऋषिः
- आस्तारपङ्क्तिः
- पञ्चमः
१३ युञ्जाथा रासभम्
विश्वास-प्रस्तुतिः ...{Loading}...
यु॒ञ्जाथाँ॒ रास॑भं यु॒वम॒स्मिन् यामे॑ वृषण्वसू। अ॒ग्निं भर॑न्तमस्म॒युम् ॥१३ ॥
मूलम् ...{Loading}...
यु॒ञ्जाथाँ॒ रास॑भं यु॒वम॒स्मिन् यामे॑ वृषण्वसू। अ॒ग्निं भर॑न्तमस्म॒युम् ॥१३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यु॒ञ्जाथा॑म्। रास॑भम्। यु॒वम्। अ॒स्मिन्। यामे॑। वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू। अ॒ग्निम्। भर॑न्तम्। अ॒स्म॒युमित्य॑स्म॒ऽयुम्। १३।
महीधरः
म० गर्दभदेवत्या गायत्री कुश्रिदृष्टा । गर्दभं मन्त्रयते । अध्वर्युयजमानावुच्येते । वृषा सेक्ता, गर्दभो वसु धनं ययोस्तौ वृषण्वसू । वर्षतीति वृषा ‘कनिन्यु-’ (उण०१।१५५) इत्यादिना वर्षतेरौणादिकः कनिन्प्रत्ययः । यद्वा यागनिष्पादनद्वारा वृषं फलाभिवर्षुकं वसु धनं ययोस्तौ । नलोपाभाव आर्षः । तयोः संबोधनं हे वृषण्वसू अध्वर्युयजमानौ यजमानदम्पती वा । युवं युवां रासभं गर्दभं युञ्जाथां बध्नीतम् । युजेर्लोष्टि आत्मनेपदे मध्यमद्विवचनं युञ्जाथामिति । क्व । अस्मिन् यागे अस्मिन्नग्निकर्मणि । यद्वा यामो मृद्वहनरूपो नियमविशेषस्तस्मिन्निमित्तभूते सति । कीदृशं रासभम् । अग्निं भरन्तं वोढुं समर्थमित्यर्थः । तथा अस्मयुमस्मान्कामयमानमस्मद्धितैषिणमित्यर्थः । ‘इदंयुरिदंकामयमानः’ (निरु० ६ । ३१) इति यास्कः । अस्मानिच्छतीत्यस्मयुः । ‘सुप आत्मनः क्यच्’ (पा. ३ । १। ८) इति क्यच्प्रत्ययः । अस्मदष्टेरत्वं छान्दसम् ‘क्याच्छन्दसि’ (पा० ३।२।१७०) इति उप्रत्ययः ॥१३॥
चतुर्दशी।
अधिमन्त्रम् (VC)
- वाजी देवता
- कुश्रिर्ऋषिः
- गायत्री
- षड्जः
१४ योगेयोगे तवस्तरम्
विश्वास-प्रस्तुतिः ...{Loading}...
योगे॑योगे त॒वस्त॑रं॒ वाजे॑वाजे हवामहे। सखा॑य॒ऽइन्द्र॑मू॒तये॑ ॥१४ ॥
मूलम् ...{Loading}...
योगे॑योगे त॒वस्त॑रं॒ वाजे॑वाजे हवामहे। सखा॑य॒ऽइन्द्र॑मू॒तये॑ ॥१४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
योगे॑योग॒ इति योगे॑ऽयोगे। त॒वस्त॑र॒मिति॑ त॒वःऽत॑रम्। वाजे॑वाज॒ इति॒ वाजे॑ऽवाजे। ह॒वा॒म॒हे॒। सखा॑यः। इन्द्र॑म्। ऊ॒तये॑। १४।
महीधरः
म० अजदेवत्या गायत्री शुनःशेपदृष्टा । अजं मन्त्रयते । सखायः परस्परसख्यं प्राप्ता ऋत्विग्यजमानाः, वयमिन्द्रमिन्द्रियवन्तं वीर्यवन्तमिन्द्रियप्रदं वा अजमूतये अवनाय रक्षणाय हवामहे आह्वयामः । ह्वः शपि संप्रसारणम् । क्व सति । वाजेवाजे तत्तदन्ने मनुष्याणां देवानां च दातव्ये सति तत्तदन्नप्राप्तिनिमित्तं वा । किंभूतमजम् । योगेयोगे तवस्तरं युज्यतेऽनुष्ठीयत इति योगः कर्म तस्मिन् । तत्तत्कर्मणि तवस्तरं बलवत्तरमुत्साहवन्तम् । तव इति बलनाम । तवो बलमस्यास्तीति तवस्वि ‘अस्माया-’ (पा० ५। २ । १२१) इत्यादिना विन् । अत्यन्तं तवस्वि तवस्तरस्तम् । अतिशये तरप् ‘विन्मतोर्लुक्’ (पा० ५। ३ । ६५) इति तरपि विनो लुक् ॥ १४ ॥
पञ्चदशी।
अधिमन्त्रम् (VC)
- क्षत्रपतिर्देवता
- शुनःशेप ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
प्रजाजन कैसे पुरुष को राजा मानें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सखायः) परस्पर मित्रता रखने हारे लोगो ! जैसे हम लोग (ऊतये) रक्षा आदि के लिये (योगेयोगे) जिस-जिस में युक्त होते हैं, उस-उस तथा (वाजेवाजे) सङ्ग्राम-सङ्ग्राम के बीच (तवस्तरम्) अत्यन्त बलवान् (इन्द्रम्) परमैश्वर्ययुक्त पुरुष को राजा (हवामहे) मानते हैं, वैसे ही तुम लोग भी मानो ॥१४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य परस्पर मित्र हो के एक दूसरे की रक्षा के लिये अत्यन्त बलवान् धर्मात्मा पुरुष को राजा मानते हैं, वे सब विघ्नों से अलग हो के सुख की उन्नति कर सकते हैं ॥१४ ॥
दयानन्द-सरस्वती (सं) - विषयः
प्रजाजनाः कीदृशं राजानमङ्गीकुर्य्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सखायः ! यथा वयमूतये योगेयोगे वाजेवाजे तवस्तरमिन्द्रं हवामहे, तथा यूयमप्येतमाह्वयत ॥१४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये परस्परं मित्रा भूत्वाऽन्योन्यस्य रक्षार्थं बलिष्ठं धार्मिकं राजानं स्वीकुर्वन्ति, ते निर्विघ्नाः सन्तः सुखमेधन्ते ॥१४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे परस्पर मित्र बनतात व एकमेकांच्या रक्षणासाठी अत्यंत बलवान धार्मिक पुरुषाला राजा मानतात त्यांची सर्व विघ्ने दूर होतात व सुख वाढते.
१५ प्रतूर्वन्नेह्यवक्रामन्नशस्ती रुद्रस्य
विश्वास-प्रस्तुतिः ...{Loading}...
प्र॒तूर्व॒न्नेह्य॑व॒क्राम॒न्नश॑स्ती रु॒द्रस्य॒ गाण॑पत्यं मयो॒भूरेहि॑। उ॒र्व᳙न्तरि॑क्षं॒ वी᳖हि स्व॒स्तिग॑व्यूति॒रभ॑यानि कृ॒ण्वन् पू॒ष्णा स॒युजा॑ स॒ह ॥१५ ॥
मूलम् ...{Loading}...
प्र॒तूर्व॒न्नेह्य॑व॒क्राम॒न्नश॑स्ती रु॒द्रस्य॒ गाण॑पत्यं मयो॒भूरेहि॑। उ॒र्व᳙न्तरि॑क्षं॒ वी᳖हि स्व॒स्तिग॑व्यूति॒रभ॑यानि कृ॒ण्वन् पू॒ष्णा स॒युजा॑ स॒ह ॥१५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्र॒तूर्व॒न्निति॑ प्र॒ऽतूर्व॑न्। आ। इ॒हि॒। अ॒व॒क्राम॒न्नित्य॑व॒ऽक्राम॑न्। अश॑स्तीः। रु॒द्रस्य॑। गाण॑पत्य॒मिति॒ गाण॑ऽपत्यम्। म॒यो॒भूरिति॑ मयः॒ऽभूः। आ। इ॒हि॒। उ॒रु। अ॒न्तरि॑क्षम्। वि। इ॒हि॒। स्व॒स्तिग॑व्यूति॒रिति॑ स्व॒स्तिऽग॑व्यूतिः। अभ॑यानि। कृ॒ण्वन्। पू॒ष्णा। स॒युजेति॑ स॒ऽयुजा॑। स॒ह। १५।
महीधरः
म० ‘अनुपस्पृशन्नुत्क्रामयत्येनान् प्राचः प्रतिमन्त्रं प्रतूर्वन्नुर्वन्तरिक्षं पृथिव्याः सधस्थादिति’ (का० १६ । २ । ११)। स्पर्शमकुर्वन्नश्वादीन्भयं दर्शयन्प्राचो गमयति । विराड्रूपा त्रिष्टुप् यजुर्मध्या । उर्वन्तरिक्षं वीहीत्येतावद्यजुः । त्रय एकादशाक्षराश्चतुर्थोऽष्टाक्षरः पादो यस्याः सा विराड्रूपा । अत्र द्वितीयो द्वादशार्णस्तेनैकाधिका । ऋचो मध्ये यजुः । अस्याः पूर्वार्धस्याश्वो देवता । हे अश्व, त्वमेहि आगच्छ । किं कुर्वन् । प्रतूर्वन् तूर्वतिर्वधकर्मा । शत्रून् हिंसन् । अशस्तीः भ्रातृव्यैः क्रियमाणा अपकीर्तीरवक्रामन् पादैरवष्टम्भयन्निवारयन्नित्यर्थः । आगमने को गुण इति चेत् । मयोभूः मयः सुखं भावयतीति मयोभूः अस्माकं सुखं भावयन् सन् रुद्रस्य क्रूरदेवस्य गणवतो गाणपत्यं गणपतित्वमेहि आ समन्तात् प्राप्नुहि । अत्रागमने गणपतित्वं लप्स्यस इति भावः । उर्वन्तरिक्षम् यजुःसहितोत्तरार्धस्य रासभोत्क्रमणे विनियोगः । हे गर्दभ, अभयानि कृण्वन् ऋत्विग्यजमानानां व्याघ्रादिभ्यो भयपरिहारं कुर्वन् सयुजा समानयोगिन्या पूष्णा पृथिव्या सह उरु विस्तीर्णमन्तरिक्षं वीहि विशेषेण प्राप्नुहि । ‘इयं वै पृथिवी पूषा’ (६ । ३ । २ । ८) इति श्रुतेः । सह युङ्क्ते सा सयुक् तया । किंभूतस्त्वम् । स्वस्तिगव्यूतिः । स्वस्तीत्यविनाशनाम । स्वस्ति विनाशरहितो गव्यूतिर्मार्गो यस्य । भयवर्जितप्रभूतयवसोदकमार्गः सन्नागच्छेत्यर्थः । ‘नैकोऽध्वानं प्रपद्येत’ इति न्यायात्पूष्णा सहेत्युक्तिः ॥१५॥
षोडशी।
अधिमन्त्रम् (VC)
- गणपतिर्देवता
- शुनःशेप ऋषिः
- आर्षी
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर राजा क्या करके किस को प्राप्त हो, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! (स्वस्तिगव्यूतिः) सुख के साथ जिस का मार्ग है, ऐसे आप (सयुजा) एक साथ युक्त करनेवाली (पूष्णा) बल पुष्टि से युक्त अपनी सेना के (सह) साथ (अशस्तीः) निन्दित शत्रुओं की सेनाओं को (प्रतूर्वन्) मारते हुए (एहि) प्राप्त हूजिये। शत्रुओं के देशों का (अवक्रामन्) उल्लङ्घन करते हुए (एहि) आइये (मयोभूः) सुख को उत्पन्न करते आप (रुद्रस्य) शत्रुओं को रुलाने हारे अपने सेनापति के (गाणपत्यम्) सेनासमूह के स्वामीपन को (एहि) प्राप्त हूजिये और (अभयानि) अपने राज्य में सब प्राणियों को भयरहित (कृण्वन्) करते हुए (अन्तरिक्षम्) (उरु) परिपूर्ण आकाश को (वीहि) विविध प्रकार से प्राप्त हूजिये ॥१५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजा को अति उचित है कि अपनी सेना को सदैव अच्छी शिक्षा, हर्ष, उत्साह और पोषण से युक्त रक्खे। जब शत्रुओं के साथ युद्ध किया चाहे, तब अपने राज्य को उपद्रवरहित कर युक्ति तथा बल से शत्रुओं को मारे और सज्जनों की रक्षा करके सर्वत्र सुन्दर कीर्ति फैलावे ॥१५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुना राजा किं कृत्वा किं प्राप्नुयादित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! स्वस्तिगव्यूतिस्त्वं पूष्णा सयुजा सहाशस्तीः प्रतूर्वन्नेहि शत्रुदेशानवक्रामन्नेहि मयोभूस्त्वं रुद्रस्य गाणपत्यमेहि। अभयानि कृण्वन् सन्नन्तरिक्षमुरु वीहि ॥१५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - राजा सदैव स्वसेनां सुशिक्षितां हृष्टां पुष्टां रक्षेत्। यदाऽरिभिः सह योद्धुमिच्छेत् तदा स्वराज्यमनुपद्रवं संरक्ष्य युक्त्या बलेन च शत्रून् हिंसेत् वा श्रेष्ठान् पालयित्वा सर्वत्र सत्कीर्तिं प्रसारयेत् ॥१५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजाने आपल्या सेनेला नेहमी प्रशिक्षण द्यावे आणि आनंदी व उत्साही ठेवावे तसेच त्यांचे पोषण करावे. जेव्हा शत्रूंबरोबर युद्ध करावयाचे असेल तेव्हा युक्ती व बल वापरून शत्रूंना नष्ट करावे. आपले राज्य उपद्रवरहित करावे व सज्जनांचे रक्षण करून सर्वत्र चांगली कीर्ती पसरवावी.
१६ पृथिव्याः सधस्थादग्निम्
विश्वास-प्रस्तुतिः ...{Loading}...
पृ॒थि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्य᳖मङ्गिर॒स्वदाभ॑रा॒ग्निं पु॑री॒ष्य᳖मङ्गिर॒स्वदच्छे॑मो॒ऽग्निं पु॑री॒ष्य᳖मङ्गिर॒स्वद्भ॑रिष्यामः ॥१६ ॥
मूलम् ...{Loading}...
पृ॒थि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्य᳖मङ्गिर॒स्वदाभ॑रा॒ग्निं पु॑री॒ष्य᳖मङ्गिर॒स्वदच्छे॑मो॒ऽग्निं पु॑री॒ष्य᳖मङ्गिर॒स्वद्भ॑रिष्यामः ॥१६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पृ॒थि॒व्याः। स॒धस्था॒दिति॑ स॒धऽस्था॑त्। अ॒ग्निम्। पु॒री॒ष्य᳖म्। अ॒ङ्गि॒र॒स्वत्। आ। भ॒र॒। अ॒ग्निम्। पु॒री॒ष्य᳖म्। अ॒ङ्गि॒र॒स्वत्। अच्छ॑। इ॒मः॒। अ॒ग्निम्। पु॒री॒ष्य᳖म्। अ॒ङ्गि॒र॒स्वत्। भ॒रि॒ष्या॒मः॒। १६।
महीधरः
म० अजोत्क्रमणे विनियोगः । यजुः । आसुरी गायत्री आग्नेयी । हे अभ्रे, पृथिव्याः भूमेः सधस्थात् सहस्थानात् पुरीष्यं पशव्यमग्निमङ्गिरस्वदङ्गिरस इवाभर आहर । ‘अग्निषु प्रज्वलत्सु पिण्डं गच्छन्त्यग्निं पुरीष्यमिति’ ( का० १६ । ३ । १२)। त्रिषु अग्निषु दीप्यमानेषु ब्रह्मयजमानाध्वर्यवश्चतुष्कोणश्वभ्रस्थं मृत्तिकापिण्डं प्रति गच्छन्त्यश्वगर्दभाजा अपीति सूत्रार्थः । सामगायत्री छन्दः । पुरीष्यं पशव्यमग्निमङ्गिरस इव वयमच्छेम अच्छ अभिमुखमिमः गच्छामः । ‘अच्छाभेराप्तुमिति शाकपूणिः’ (निरु० ५। २८) इति यास्कः । ‘अनद्धा पुरुषमीक्षते देवपितृमनुष्यानर्थकमग्निं पुरीष्यमिति’ (का० १६ । २ । १४ ) देवपितृमनुष्याणां निष्प्रयोजनोऽनद्धा पुरुषस्तं पश्यतीति सूत्रार्थः । आग्नेयं यजुः । आसुर्यनुष्टुप् । पशव्यमग्निमङ्गिरस इव वयं भरिष्यामः संपादयिष्यामः ॥१६॥
सप्तदशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- शुनःशेप ऋषिः
- भुरिक्पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्य किस पदार्थ से बिजुली का ग्रहण करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! जैसे हम लोग (पृथिव्याः) भूमि और अन्तरिक्ष के (सधस्थात्) एक स्थान से (अङ्गिरस्वत्) प्राणों के समान (पुरीष्यम्) अच्छा सुख देने हारे (अग्निम्) भूमिमण्डल की बिजुली को (अच्छ) उत्तम रीति से (इमः) प्राप्त होते और जैसे (अङ्गिरस्वत्) प्राणों के समान (पुरीष्यम्) उत्तम सुखदायक (अग्निम्) अन्तरिक्षस्थ बिजुली को (भरिष्यामः) धारण करें, वैसे आप भी (अङ्गिरस्वत्) सूर्य्य के समान (पुरीष्यम्) उत्तम सुख देनेवाले (अग्निम्) पृथिवी पर वर्त्तमान अग्नि को (आभर) अच्छे प्रकार धारण कीजिये ॥१६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। मनुष्यों को चाहिये कि विद्वानों के समान काम करें, मूर्खवत् नहीं और सब काल में उत्साह के साथ अग्नि आदि की पदार्थविद्या का ग्रहण करके सुख बढ़ाते रहें ॥१६ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यैः कस्माद् विद्युत् स्वीकार्य्येत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यथा वयं पृथिव्याः सधस्थादङ्गिरस्वत् पुरीष्यमग्निमच्छेमः। यथा चाऽङ्गिरस्वत् पुरीष्यमग्निं भरिष्यामस्तथा त्वमप्यङ्गिरस्वत् पुरीष्यमग्निमाभर ॥१६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। मनुष्यैर्विदुषामेवाऽनुकरणं कर्त्तव्यम्, नाऽविदुषाम्। सर्वदोत्साहेनाग्न्यादिपदार्थविद्यां गृहीत्वा सुखं वर्द्धनीयम् ॥१६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहे. माणसांनी विद्वानांसारखे काम करावे. मूर्खाप्रमाणे करू नये. सदैव उत्साहाने अग्नी इत्यादी पदार्थविद्या ग्रहण करून सुख वाढवावे.
१७ अन्वग्निरुषसामग्रमख्यदन्वहानि प्रथमो
विश्वास-प्रस्तुतिः ...{Loading}...
अन्व॒ग्निरु॒षसा॒मग्र॑मख्य॒दन्वहा॑नि प्रथ॒मो जा॒तवे॑दाः। अनु॒ सूर्य॑स्य पुरु॒त्रा च॑ र॒श्मीननु॒ द्यावा॑पृथि॒वीऽआत॑तन्थ ॥१७ ॥
मूलम् ...{Loading}...
अन्व॒ग्निरु॒षसा॒मग्र॑मख्य॒दन्वहा॑नि प्रथ॒मो जा॒तवे॑दाः। अनु॒ सूर्य॑स्य पुरु॒त्रा च॑ र॒श्मीननु॒ द्यावा॑पृथि॒वीऽआत॑तन्थ ॥१७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अनु॑। अ॒ग्निः। उ॒षसा॑म्। अग्र॑म्। अ॒ख्य॒त्। अनु॑। अहा॑नि। प्र॒थ॒मः। जा॒तवे॑दा॒ इति॑ जा॒तऽवे॑दाः। अनु॑। सूर्य॑स्य। पु॒रु॒त्रेति॑ पुरु॒ऽत्रा। च॒। र॒श्मीन्। अनु॑। द्यावा॑पृथि॒वीऽइति॒ द्यावा॑पृथि॒वी। आ। त॒त॒न्थ॒। १७।
महीधरः
म० ‘वल्मीकवपामादाय छिद्रेण पिण्डमीक्षतेऽन्वग्निरिति’ (का० १६ । २ । १५)। वल्मीकस्य योऽवयव उन्नतत्वेनाभिवृद्धः सा वल्मीकवपा पिण्डाहवनीयान्तराले स्थापितास्ति तां गृहीत्वा तत्स्थाने स्थित्वा तच्छिद्रेण पिण्डं पश्यतीति | सूत्रार्थः । अग्निदेवत्या त्रिष्टुप्पुरोधोदृष्टा प्रथमस्य व्यूहनम् । अग्निरुषामुषःकालानामग्रमुपक्रममन्वख्यत् अनुक्रमेण प्रका शितवान् । जातं जातं वेत्ति वेदयति वा जादवेदाः अयमग्निः प्रथमः मुख्यः सन् अहानि दिनानि अन्वख्यत् । किंच सूर्यस्य रश्मीन् किरणान् पुरुत्रा बहुधा अन्वख्यत् । किंच द्यावापृथिवी उभे अपि अनुक्रमेण आततन्थ आतेनिथ आततान सर्वतो व्याप्तवान् । ‘व्यत्ययो बहुलम्’ (पा० ३ । १ । ८५) इति पुरुषव्यत्ययः ‘बभूथाततन्थ-’ (पा० ७ । २ । ६४) इत्यादिना निपातः । सर्वप्रकाशको लोकस्रष्टा योऽग्निस्तं पश्याम इति शेषः ॥ १७ ॥
अष्टादशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- पुरोधा ऋषिः
- निचृदार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
विद्वान् लोग किस के समान क्या करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! आप जैसे (प्रथमः) (जातवेदाः) उत्पन्न हुए पदार्थों में पहिले ही विद्यमान सूर्य्यलोक और (अग्निः) अग्नि (उषसाम्) उषःकाल से (अग्रम्) पहिले ही (अहानि) दिनों को (अन्वख्यत्) प्रसिद्ध करता है (सूर्य्यस्य) सूर्य्य के (अग्रम्) पहिले (पुरुत्रा) बहुत (रश्मीन्) किरणों को (अन्वाततन्थ) फैलाता (द्यावापृथिवी च) तथा सूर्य्य और पृथिवी लोक को प्रसिद्ध करता है, वैसे विद्या के व्यवहारों की प्रवृत्ति कीजिये ॥१७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे कारण रूप विद्युत् और कार्य्यरूप प्रसिद्ध अग्नि क्रम से सूर्य्य, उषःकाल और दिनों को उत्पन्न करके पृथिवी आदि पदार्थों को प्रकाशित करते हैं, वैसे ही विद्वानों को चाहिये कि सुन्दर शिक्षा दे ब्रह्मचर्य्य विद्या धर्म्म के अनुष्ठान और अच्छे स्वभाव आदि का सर्वत्र प्रचार करके सब मनुष्यों को ज्ञान और आनन्द से प्रकाशयुक्त करें ॥१७ ॥
दयानन्द-सरस्वती (सं) - विषयः
विद्वांसः किंवत्किं कुर्य्युरित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! त्वं यथा प्रथमो जातवेदा अग्निरुषसामग्रमहान्यन्वख्यत् सूर्य्यस्याग्रं पुरुत्रा रश्मीनन्वाततन्थ। द्यावापृथिवी च तथा विद्याव्यवहारानन्वातनुहि ॥१७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा कारणकार्य्याख्यो विद्युदग्निरनुपूर्वं सवित्रुषोदिनानि कृत्वा पृथिव्यादीनि प्रकाशयति, तथा विद्वद्भिः सुशिक्षां कृत्वा ब्रह्मचर्य्यविद्याधर्माऽनुष्ठानसुशीलानि सर्वत्र प्रचार्य सर्वे ज्ञानानन्दाभ्यां प्रकाशनीयाः ॥१७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. ज्याप्रमाणे कारणरूप विद्युत व कार्यरूप अग्नी क्रमाने सूर्य, उषःकाल व दिवस उत्पन्न करून पृथ्वी इत्यादी पदार्थांना प्रकाशित करतात त्याप्रमाणे विद्वानांनी सर्व माणसांना चांगले शिक्षण देऊन ब्रह्मचर्य, विद्या, धर्मानुष्ठान व सुस्वभाव यांचा सर्वत्र प्रसार करून सर्व माणसांना ज्ञानाच्या व आनंदाच्या प्रकाशाने उजळून टाकावे.
१८ आगत्य वाज्यध्वानम्
विश्वास-प्रस्तुतिः ...{Loading}...
आ॒गत्य॑ वा॒ज्यध्वा॑नँ॒ सर्वा॒ मृधो॒ विधू॑नुते। अ॒ग्निँ स॒धस्थे॑ मह॒ति चक्षु॑षा॒ निचि॑कीषते ॥१८ ॥
मूलम् ...{Loading}...
आ॒गत्य॑ वा॒ज्यध्वा॑नँ॒ सर्वा॒ मृधो॒ विधू॑नुते। अ॒ग्निँ स॒धस्थे॑ मह॒ति चक्षु॑षा॒ निचि॑कीषते ॥१८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ॒गत्येत्या॒ऽऽगत्य॑। वा॒जी। अध्वा॑नम्। सर्वाः॑। मृधः॑। वि। धू॒नु॒ते॒। अ॒ग्निम्। स॒धस्थ॒ इति॑ स॒धस्थे॑। म॒ह॒ति। चक्षु॑षा। नि। चि॒की॒ष॒ते॒। १८।
महीधरः
म० ‘आगत्येत्यभिमन्त्रयतेऽश्वमिति’ (का० १६।२।१७)। मृत्पिण्डान्ते तिष्ठन्नश्वमभिमन्त्रयते । अश्वदेवत्यानुष्टुब्मयोभूदृष्टा । वाजी वेगवानयमश्वः अध्वानं मार्गमागत्य प्राप्य सर्वा मृधः सर्वान् संग्रामान् पाप्मनः श्रमान् विधूनुते विविधं कम्पयति । अपनयतीत्यर्थः । ततो विगतश्रमः सन् महति उत्कृष्टे सधस्थे सहस्थाने पृथिव्यां वर्तमानमग्निमग्निहेतुं मृदं चक्षुषा निचिकीषते पश्यति । पश्यत्यर्थश्छान्दसोऽयं धातुः ॥ १८ ॥
एकोनविंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- मयोभूर्ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब सभापति राजा किसके समान क्या करे, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! आप जैसे (वाजी) वेगवान् घोड़ा (अध्वानम्) अपने मार्ग को (आगत्य) प्राप्त हो के (सर्वाः) सब (मृधः) सङ्ग्रामों को (विधूनुते) कंपाता है और जैसे गृहस्थ पुरुष (चक्षुषा) नेत्रों से (महति) सुन्दर (सधस्थे) एक स्थान में (अग्निम्) अग्नि का (निचिकीषते) चयन किया चाहता है, वैसे सब सङ्ग्रामों को कंपाइये और घर-घर में विद्या का प्रचार कीजिये ॥१८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। गृहस्थों को चाहिये कि घोड़ों के समान जाना-आना कर, शत्रुओं को जीत, आग्नेयादि अस्त्रविद्या को सिद्ध कर, अपने बलाऽबल को विचार और राग-द्वेष आदि दोषों की शान्ति करके अधर्मी शत्रुओं को जीतें ॥१८ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ सभेशः किंवत् किं कुर्य्यादित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् राजन् ! भवान् यथा वाज्यश्वोऽध्वानमागत्य सर्वा मृधो विधूनुते, यथा गृहस्थश्चक्षुषा महति सधस्थेऽग्निं निचिकीषते तथा सर्वान् सङ्ग्रामान् विधूनोतु। गृहे गृहे विद्यानिचयं च करोतु ॥१८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। गृहस्था अश्ववद् गत्वागत्य शत्रून् जित्वाग्नेयास्त्रादिविद्यां संपाद्य बलाबलं पर्य्यालोच्य रागद्वेषादीन् शमित्वाऽधार्मिकान् शत्रून् जयेयुः ॥१८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. राजाने येण्याजाण्याची गती घोड्याप्रमाणे वेगवान ठेवावी. शत्रूंना जिंकावे. आग्नेय इत्यादी अस्त्रविद्या सिद्ध करावी, आपल्या बलाबलाचा विचार करावा व राग-द्वेष इत्यादी दोष नाहीसे करून अधार्मिक शत्रूंना जिंकावे.
१९ आक्रम्य वाजिन्
विश्वास-प्रस्तुतिः ...{Loading}...
आ॒क्रम्य॑ वाजिन् पृथि॒वीम॒ग्निमि॑च्छ रु॒चा त्वम्। भूम्या॑ वृ॒त्वाय॑ नो ब्रूहि॒ यतः॒ खने॑म॒ तं व॒यम् ॥१९ ॥
मूलम् ...{Loading}...
आ॒क्रम्य॑ वाजिन् पृथि॒वीम॒ग्निमि॑च्छ रु॒चा त्वम्। भूम्या॑ वृ॒त्वाय॑ नो ब्रूहि॒ यतः॒ खने॑म॒ तं व॒यम् ॥१९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ॒क्रम्येत्या॒ऽक्रम्य॑। वा॒जि॒न्। पृ॒थि॒वीम्। अ॒ग्निम्। इ॒च्छ॒। रु॒चा। त्वम्। भूम्याः॑। वृ॒त्वाय॑। नः॒। ब्रूहि॑। यतः॑। खने॑म। तम्। व॒यम्। १९।
महीधरः
म०. ‘आक्रम्येत्येतेन मृत्पिण्डमधिष्ठापयतीति’ (का० १६ । २ । १८)। एतेनाश्वेन गर्तस्थं मृत्पिण्डमधिष्ठापयति क्रमयति मृत्पिण्डोपर्यश्वस्य सव्यं पदं स्थापयतीत्यर्थः । सूत्रस्य । अश्वदेवत्यानुष्टुप् हे वाजिन् अश्व, पृथिवीं भूमिमाक्रम्याधिष्ठाय पादस्पर्शेन परीक्ष्य रुचा दीप्त्या कृत्वा त्वमग्निमिच्छ अग्नेरन्वेषणं कुरु । अग्निहेतुं मृदं निश्चिन्वित्यर्थः । किंच भूम्या वृत्वाय ‘वृतु वर्तते’ क्त्वाप्रत्ययः । क्त्वो यक् अत्र स्पर्शनार्थः धातूनामनेकार्थत्वात् । भूमेः प्रदेशं स्पृष्ट्वा नोऽस्माकं त्वं ब्रूहि अयं प्रदेशो अग्निहेतुमृद्योग्य इति कथय । यतो यस्मात् प्रदेशाद्वयं तमग्निं खनेन खननेन संपादयाम । यद्वा यतः प्रदेशात्तादृशी मृत्प्राप्यते तं प्रदेशं वयं खनेम विदारयाम ॥ १९ ॥
विंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- मयोभूर्ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्य जन्म पा और विद्या पढ़ के पश्चात् क्या करे, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (वाजिन्) प्रशंसित ज्ञानवाले सभापति विद्वान् राजा ! (त्वम्) आप (रुचा) प्रीति से शत्रुओं को (आक्रम्य) पादाक्रान्त कर (पृथिवीम्) भूमि के राज्य और (अग्निम्) [अग्नि] विद्या की (इच्छ) इच्छा कीजिये और (भूम्याः) पृथिवी के बीच (नः) हम लोगों को (वृत्वाय) स्वीकार करके हमारे लिये (ब्रूहि) भूगर्भ और अग्निविद्या का उपदेश कीजिये (यतः) जिस से (वयम्) हम लोग (तम्) उस विद्या में (खनेम) प्रविष्ट होवें ॥१९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये की भूगर्भ और अग्नि विद्या से पृथिवी के पदार्थों को अच्छे प्रकार परीक्षा करके सुवर्ण आदि रत्नों को उत्साह के साथ प्राप्त होवें और जो पृथिवी को खोदनेवाले नौकर-चाकर हैं, उन को इस विद्या का उपदेश करें ॥१९ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यजन्म प्राप्य विद्या अधीत्यातः किं कर्त्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे वाजिन् विद्वन् सभेश राजस्त्वं रुचा शत्रूनाक्रम्य पृथिवीमग्निं चेच्छ, भूम्या नो वृत्वाय ब्रूहि, यतो वयं तं खनेम ॥१९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्भूगर्भाग्निविद्यया पार्थिवान् पदार्थान् सुपरीक्ष्य सुवर्णादीनि रत्नान्युत्साहेन प्राप्तव्यानि। ये खनितारो भृत्याः सन्ति तान् प्रति तद्विद्योपदेष्टव्या ॥१९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी भूगर्भ व अग्निविद्या याद्वारे पृथ्वीवरील पदार्थांची सूक्ष्म रीतीने परीक्षा करून उत्साहाने सुवर्ण व रत्ने प्राप्त करावीत व उत्खनन करणाऱ्या कामगारांना या विद्या शिकवाव्यात.
२० द्यौस्ते पृष्ठम्
विश्वास-प्रस्तुतिः ...{Loading}...
द्यौस्ते॑ पृ॒ष्ठं पृ॑थि॒वी स॒धस्थ॑मा॒त्मान्तरि॑क्षँ समु॒द्रो योनिः॑। वि॒ख्याय॒ चक्षु॑षा॒ त्वम॒भि ति॑ष्ठ पृतन्य॒तः ॥२० ॥
मूलम् ...{Loading}...
द्यौस्ते॑ पृ॒ष्ठं पृ॑थि॒वी स॒धस्थ॑मा॒त्मान्तरि॑क्षँ समु॒द्रो योनिः॑। वि॒ख्याय॒ चक्षु॑षा॒ त्वम॒भि ति॑ष्ठ पृतन्य॒तः ॥२० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
द्यौः। ते॒। पृ॒ष्ठम्। पृ॒थि॒वी। स॒धस्थ॒मिति॑ स॒धऽस्थ॑म्। आ॒त्मा। अ॒न्तरि॑क्षम्। स॒मु॒द्रः। योनिः॑। वि॒ख्यायेति॑ वि॒ऽख्याय॑। चक्षु॑षा। त्वम्। अ॒भि। ति॒ष्ठ॒। पृ॒त॒न्य॒तः। २०।
महीधरः
म० ‘द्यौस्त इति पृष्ठस्योपरि पाणिं धारयन्ननुपस्पृशन्निति’ (का० १६ । २ । १९) । पिण्डोपरि पदं दधतमश्वमस्पृशंस्तिष्ठन्नध्वर्युर्दक्षिणकरमश्वपृष्ठे धारयन् मन्त्रं पठतीति सूत्रार्थः । | आर्षी । बृहती अश्वदेवत्या । हे अश्व, द्यौः द्युलोकस्ते तव पृष्ठं । पृथिवी भूलोकस्तव सधस्थं सहस्थानं । पादौ अन्तरिक्षमन्तरिक्षलोकस्तवात्मा शरीरान्तर्वर्ती जीवात्मा । समुद्र उदकं तव योनिः उत्पत्तिस्थानम् । ‘अप्सु योनिर्वा अश्वः’ इति श्रुतेः । एवं स्तूयमानस्त्वं चक्षुषा विख्याय उखायोग्यां मृदं विलोक्य पृतन्यतः संग्रामं कर्तुमिच्छतः शत्रून् राक्षसादींस्तस्यां मृदि गूढं स्थितानभितिष्ठ पादैराक्रम्य विनाशय । पृतनामिच्छन्ति ‘सुप आत्मनः क्यच्’ (पा० ३ । १।८) ‘कव्यध्वरपृतनस्यर्चि लोपः’ (पा० ७ । ४ । ३९ ) इति क्यचि परे पृतनाशब्दस्यान्तलोपः ततः शतृप्रत्ययः ॥ २० ॥
एकविंशी।
अधिमन्त्रम् (VC)
- क्षत्रपतिर्देवता
- मयोभूर्ऋषिः
- निचृदार्षी बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्य क्या करके क्या सिद्ध करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् राजन् ! जिस (ते) आप का (द्यौः) प्रकाश के तुल्य विनय (पृष्ठम्) इधर का व्यवहार (पृथिवी) भूमि के समान (सधस्थम्) साथ स्थिति (अन्तरिक्षम्) आकाश के समान अविनाशी धैर्ययुक्त (आत्मा) अपना स्वरूप और (समुद्रः) समुद्र के तुल्य (योनिः) निमित्त है सो (त्वम्) आप (चक्षुषा) विचार के साथ (विख्याय) अपना ऐश्वर्य प्रसिद्ध करके (पृतन्यतः) अपनी सेना को लड़ाने की इच्छा करते हुए मनुष्य के (अभि) सन्मुख (तिष्ठ) स्थित हूजिये ॥२० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो पुरुष न्याय मार्ग के अनुसार उत्साह, स्थान और आत्मा जिसके दृढ़ हों; विचार से सिद्ध करने योग्य जिसके प्रयोजन हों, उसकी सेना वीर होती है, वह निश्चय विजय करने को समर्थ होवे ॥२० ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्याः किं साध्नुयुरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् राजन् ! यस्य ते तव द्यौः पृष्ठं पृथिवी सधस्थमन्तरिक्षमात्मा समुद्रो योनिरस्ति, स त्वं चक्षुषा विख्याय पृतन्यतोऽभितिष्ठ ॥२० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यो न्यायपथानुगामी, दृढोत्साहस्थानात्मा, यस्य प्रयोजनानि विवेकसाध्यानि सन्ति, तस्य वीरसेना जायते, स ध्रुवं विजयं कर्त्तुं शक्नुयात् ॥२० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. ज्या माणसाचा आत्मा न्यायाने वागणारा, उत्साही व दृढ असेल व ज्याचे प्रयोजन विचारपूर्वक असेल, ज्याची सेना वीरश्रीयुक्त असेल त्याचा निश्चितपणे विजय होतो.
२१ उत्क्राम महते
विश्वास-प्रस्तुतिः ...{Loading}...
उत्क्रा॑म मह॒ते सौभ॑गाया॒स्मादा॒स्थाना॑द् द्रविणो॒दा वा॑जिन्। व॒यँ स्या॑म सुम॒तौ पृ॑थि॒व्याऽअ॒ग्निं खन॑न्तऽउ॒पस्थे॑ऽअस्याः ॥२१ ॥
मूलम् ...{Loading}...
उत्क्रा॑म मह॒ते सौभ॑गाया॒स्मादा॒स्थाना॑द् द्रविणो॒दा वा॑जिन्। व॒यँ स्या॑म सुम॒तौ पृ॑थि॒व्याऽअ॒ग्निं खन॑न्तऽउ॒पस्थे॑ऽअस्याः ॥२१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उत्। क्रा॒म॒। म॒ह॒ते। सौभ॑गाय। अ॒स्मात्। आ॒स्थाना॒दित्या॒ऽस्थाना॑त्। द्र॒वि॒णो॒दा इति॑ द्रविणः॒ऽदाः। वा॒जि॒न्। व॒यम्। स्या॒म॒। सु॒म॒ताविति॑ सुऽम॒तौ। पृ॒थि॒व्याः। अ॒ग्निम्। खन॑न्तः। उ॒पस्थ॒ इत्यु॒पऽस्थे॑। अ॒स्याः॒। २१।
महीधरः
म० ‘उत्क्रामेत्युत्क्रमयतीति’ ( का. १६ । २ । १९)। मृत्पिण्डादश्वमुत्तारयतीत्यर्थः । विराडश्वदेवत्या दशार्णचतुष्पादा विराट् पङ्क्तिः। द्वितीय एकादशस्तेनैकाधिका । हे वाजिन् , महते सौभगाय महाभाग्याभिवृद्धयेऽस्मात् आस्थानात् खननप्रदेशाद् यत्र त्वं तिष्ठसि तस्मादुत्क्राम । भगशब्द ऐश्वर्यवाची । शोभनं भगमैश्वर्यं यस्य स सुभगस्तस्य भावः सौभगं तस्मै । कीदृशस्त्वम् । द्रविणोदाः द्रविणो धनं ददातीति द्रविणस्शब्दः सान्तः । त्वयि उत्क्रान्ते वयं पृथिव्याः भूमेः सुमतौ शोभममतौ सानुग्रहे चित्ते स्याम भवेम । कीदृशा वयम् । अस्याः पृथिव्या उपस्थे उत्सङ्गे उपरिभागे अग्निमग्न्यर्थं मृत्पिण्डं खनन्तः खनितुमुद्योगं कुर्वन्तः ॥ २१॥
द्वाविंशी।
अधिमन्त्रम् (VC)
- द्रविणोदा देवता
- मयोभूर्ऋषिः
- आर्षी
- पञ्चमः
२२ उदक्रमीद् द्रविणोदा
विश्वास-प्रस्तुतिः ...{Loading}...
उद॑क्रमीद् द्रविणो॒दा वा॒ज्यर्वाकः॒ सुलो॒कँ सुकृ॑तं पृथि॒व्याम्। ततः॑ खनेम सु॒प्रती॑कम॒ग्निँ स्वो॒ रुहा॑णा॒ऽअधि॒ नाक॑मुत्त॒मम् ॥२२ ॥
मूलम् ...{Loading}...
उद॑क्रमीद् द्रविणो॒दा वा॒ज्यर्वाकः॒ सुलो॒कँ सुकृ॑तं पृथि॒व्याम्। ततः॑ खनेम सु॒प्रती॑कम॒ग्निँ स्वो॒ रुहा॑णा॒ऽअधि॒ नाक॑मुत्त॒मम् ॥२२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उत्। अ॒क्र॒मी॒त्। द्र॒वि॒णो॒दा इति॑ द्रविणः॒ऽदाः। वा॒जी। अर्वा॑। अक॒रित्यकः॑। सु। लो॒कम्। सुकृ॑त॒मिति॒ सुऽकृ॑तम्। पृ॒थि॒व्याम्। ततः॑। ख॒ने॒म॒। सु॒प्रती॑क॒मिति॑ सु॒ऽप्रती॑कम्। अ॒ग्निम्। स्व᳖ इति॑ स्वः᳖। रुहा॑णाः। अधि॑। नाक॑म्। उ॒त्त॒ममित्यु॑त्ऽत॒मम्। २२।
महीधरः
म० ‘उदक्रमीदित्यभिमन्त्रयते’ ( का० १६ । २ । २०)। पिण्डादुत्तारिताश्वं मन्त्रयते । आश्वी त्रिष्टुप् । अर्वा अरणशीलः चञ्चलो द्रविणोदाः धनदाता वाजी अश्वः यत्प्रदेशादुदक्रमीत् उत्क्रान्तवान् पृथिव्यां तं सुलोकं शोभनं लोकं प्रदेशं सुकृतं पुण्यवन्तमकः कृतवान् । करोतेर्लङि ‘बहुलं छन्दसि’ (पा० २।४ । ७३ ) इति शपो लुकि गुणे तिलोपे रूपम् । ततः प्रदेशाद्वयमग्निमग्निहेतुं मृदं खनेम । कीदृशमग्निम् । सुप्रतीकं शोभनं प्रतीकं मुखं यस्य तम् । कीदृशा वयम् । स्वः स्वर्गमधिरुहाणा अधिरोहन्तः अधिरोहणकामा एतत्कर्म कुर्म इति भावः। अधीत्युपरिभावे ऐश्वर्ये वा । किंभूतम् । स्वः । नाकं नास्त्यकं यत्र तं कं सुखमकं दुःखं तद्रहितं तथा उत्तममुत्कृष्टम् ॥ २२ ॥
त्रयोविंशी।
अधिमन्त्रम् (VC)
- द्रविणोदा देवता
- मयोभूर्ऋषिः
- निचृदार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्य इस संसार में किस के समान हो के किस को प्राप्त हों, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे भूगर्भ विद्या के जानने हारे विद्वन् ! (द्रविणोदाः) धनदाता आप जैसे (वाजी) बलवाला (अर्वा) घोड़ा ऊपर को उछलता है, वैसे (पृथिव्याम्) पृथिवी के बीच (अधि) (उदक्रमीत्) सब से अधिक उन्नति को प्राप्त हूजिये (सुकृतम्) धर्माचरण से प्राप्त होने योग्य (सुलोकम्) अच्छा देखने योग्य (उत्तमम्) अति श्रेष्ठ (नाकम्) सब दुःखों से रहित सुख को (अकः) सिद्ध कीजिये (ततः) इसके पश्चात् (स्वः) सुखपूर्वक (रुहाणाः) प्रकट होते हुए हम लोग भी इस पृथिवी पर (सुप्रतीकम्) सुन्दर प्रतीति का विषय (अग्निम्) व्यापक बिजुली रूप अग्नि का (खनेम) खोज करें ॥२२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे मनुष्यो ! जैसे पृथिवी पर घोड़े अच्छी-अच्छी चाल चलते हैं, वैसे हम तुम सब मिल कर पुरुषार्थी हो पृथिवी आदि की पदार्थविद्या को प्राप्त हो और दुःखों को दूर करके सब से उत्तम सुख को प्राप्त हों ॥२२ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्या इह किंवद् भूत्वा किं प्राप्नुयुरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे भूगर्भविद्याविद्विद्वन् ! द्रविणोदा भवान् यथा वाज्यर्वा तथा पृथिव्यामध्युदक्रमीत्, सुलोकं सुकृतमुत्तमं नाकमकः सिद्धं कुर्य्यात्। ततः स्वो रुहाणा वयमप्यस्यां सुप्रतीकमग्निं खनेम ॥२२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः ! सर्वे वयं मिलित्वा यथा पृथिव्यामश्वो विक्रमते तथा पुरुषार्थिनो भूत्वा पृथिव्यादिविद्यां प्राप्य दुःखान्युत्क्राम्य सर्वोत्तमं सुखं प्राप्नुयाम ॥२२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे माणसांनो, भूमीवर ज्याप्रमाणे घोड्याची चाल वेगवान असते तसेच आपण सर्वांनीही गतिमान होऊन पुरुषार्थी बनावे. पृथ्वीवरील पदार्थविद्या प्राप्त करावी व दुःख दूर करून उत्तम सुख प्राप्त करावे.
२३ आ त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
आ त्वा॑ जिघर्मि॒ मन॑सा घृ॒तेन॑ प्रतिक्षि॒यन्तं॒ भुव॑नानि॒ विश्वा॑। पृ॒थुं ति॑र॒श्चा वय॑सा बृ॒हन्तं॒ व्यचि॑ष्ठ॒मन्नै॑ रभ॒सं दृशा॑नम् ॥२३ ॥
मूलम् ...{Loading}...
आ त्वा॑ जिघर्मि॒ मन॑सा घृ॒तेन॑ प्रतिक्षि॒यन्तं॒ भुव॑नानि॒ विश्वा॑। पृ॒थुं ति॑र॒श्चा वय॑सा बृ॒हन्तं॒ व्यचि॑ष्ठ॒मन्नै॑ रभ॒सं दृशा॑नम् ॥२३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ। त्वा॒। जि॒घ॒र्मि॒। मन॑सा। घृ॒तेन॑। प्र॒ति॒क्षि॒यन्त॒मिति॑ प्रतिऽक्षि॒यन्त॑म्। भुव॑नानि। विश्वा॑। पृ॒थुम्। ति॒र॒श्चा। वय॑सा। बृ॒हन्त॑म्। व्यचि॑ष्ठम्। अन्नैः॑। र॒भ॒सम्। दृशा॑नम्। २३।
महीधरः
म० ‘उपविश्य मृदमभिजुहोत्या त्वा जिघर्मीति व्यतिषक्ताभ्यामृग्भ्यामाहुती स्रुवेणाश्वपदे’ (का. १६ । २ । २२)। अस्यार्थः । आज्यं संस्कृत्य पिण्डसमीपे उपविश्य मृदमभि अश्वपदे मृत्पिण्डोपरिस्थिताश्वपदमुद्रायामा त्वा आ विश्वत इति ऋग्भ्यां व्यतिषक्ताभ्यां स्रुवेणाहुती द्वे जुहोति व्यतिषङ्गश्चैवम् । आत्वा जिघर्मीति पूर्वस्याः पूर्वार्धं मर्यश्रीरित्युत्तरस्या उत्तरार्धं पठित्वैकाहुतिः । आ विश्वत इत्युत्तरस्याः पूर्वार्धं पृथुं तिरश्चेति पूर्वस्या उत्तरार्धं च पठित्वा द्वितीयाहुतिरिति । गृत्समददृष्टे अग्नेय्यौ द्वे त्रिष्टुभौ । हे अग्ने, मनसा श्रद्धायुक्तेन चित्तेन घृतेनाज्येन कृत्वा त्वामाजिघर्मि आसिञ्चामि दीपयामि वा । ‘घृ क्षरणदीप्त्योः’ भ्वादिः । कीदृशं त्वाम् । विश्वानि भुवनानि प्रतिक्षियन्तं सर्वाणि भूतानि प्रत्येकं निवसन्तं । ‘क्षि निवासगत्योः’ तुदादिकादस्माच्छतृप्रत्ययः । तिरश्चा पृथुं तिरो ऽञ्चतीति तिर्यक् तेन तिर्यगञ्चनेन ज्योतिषा पृथुं विस्तीर्णं वयसा धूमेन बृहन्तं महान्तम् । ‘इतो वा अयमूर्ध्वं रेतः सिञ्चति धूमᳪं᳭ सामुत्र वृष्टिर्भवति’ इति श्रुतेः । यद्वा तिरश्चा तिर्यक्प्रमाणेन पृथुं विस्तृतमिति बहुदेशव्याप्तिः। वयसा वयउपलक्षितेन कालेन । बृहन्तमिति बहुकालव्याप्तिः । देशकालानवच्छिन्नमित्यर्थः । तथा व्यचिष्ठं व्यचनं व्यचोऽवकाशः सोऽस्यास्तीति व्यचवान् अतिशयेन व्यचवान् व्यचिष्ठः । ‘अतिशायने तमबिष्ठनौ’ (पा० ५। ३ । ५५) इतीष्ठन् ‘विन्मतोर्लुक्’ (पा० ५ । ३ । ६५ ) इतीष्ठनि परे मतुपो लुक् । अन्नैः रभसं ‘रभ राभस्ये’ घृताद्यन्नैः सोत्साहम् अनेकान्नैर्हुतैरप्यस्य शक्तिक्षयो नास्तीति भावः । तथा दृशानं दर्शनीयं दृश्यमानं वा । अन्ये देवा अदृश्या अयं तु दृश्यत इति भावः । दृशेः शानन्प्रत्ययः ॥ २३ ॥
चतुर्विशी।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- गृत्समद ऋषिः
- आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्य व्यापक वायु को किस साधन से जानें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे ज्ञान चाहनेवाले पुरुष ! जैसे मैं (मनसा) मन तथा (घृतेन) घी के साथ (विश्वा) सब (भुवनानि) लोकस्थ वस्तुओं में (प्रतिक्षियन्तम्) प्रत्यक्ष निवास और निश्चयकारक (तिरश्चा) तिरछे चलनेरूप (वयसा) जीवन से (पृथुम्) विस्तारयुक्त (बृहन्तम्) बड़े (अन्नैः) जौ आदि अन्नों के साथ (रभसम्) बलवाले (व्यचिष्ठम्) अतिशय करके फेंकनेवाले (दृशानम्) देखने योग्य वायु के गुणों को (आजिघर्मि) अच्छे प्रकार प्रकाशित करता हूँ, वैसे (त्वा) आप को भी इस वायु के गुणों को धारण कराता हूँ ॥२३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्य अग्नि के द्वारा सुगन्धि आदि द्रव्यों को वायु में पहुँचा उस सुगन्ध से रोगों को दूर कर अधिक अवस्था को प्राप्त होवें ॥२३ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्या व्यापिनं वायुं केन जानीयुरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे जिज्ञासो ! यथाऽहं मनसा घृतेन सह विश्वा भुवनानि प्रतिक्षियन्तं तिरश्चा वयसा पृथुं बृहन्तमन्नैः सह रभसं व्यचिष्ठं दृशानं वायुमाजिघर्मि तथा त्वा त्वामप्येनं धारयामि ॥२३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्या अग्निद्वारा सुगन्ध्यादीनि द्रव्याणि वायौ प्रक्षिप्य तेन युक्तसुगन्धेनारोगीकृत्य दीर्घं जीवनं प्राप्नुवन्तु ॥२३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. माणसांनी यज्ञाग्रीद्वारे सुगंधी पदार्थ वायूत प्रसृत करून त्या सुगंधाने रोग दूर करावेत व आयुष्य वाढवावे.
२४ आ विश्वतः
विश्वास-प्रस्तुतिः ...{Loading}...
आ वि॒श्वतः॑ प्र॒त्यञ्चं॑ जिघर्म्यर॒क्षसा॒ मन॑सा॒ तज्जु॑षेत। मर्य्य॑श्रीः स्पृह॒यद्व॑र्णोऽअ॒ग्निर्नाभि॒मृशे॑ त॒न्वा᳙ जर्भु॑राणः ॥२४ ॥
मूलम् ...{Loading}...
आ वि॒श्वतः॑ प्र॒त्यञ्चं॑ जिघर्म्यर॒क्षसा॒ मन॑सा॒ तज्जु॑षेत। मर्य्य॑श्रीः स्पृह॒यद्व॑र्णोऽअ॒ग्निर्नाभि॒मृशे॑ त॒न्वा᳙ जर्भु॑राणः ॥२४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ। वि॒श्वतः॑। प्र॒त्यञ्च॑म्। जि॒घ॒र्मि॒। अ॒र॒क्षसा॑। मन॑सा। तत्। जु॒षे॒त॒। मर्य्य॑श्रीरिति॒ मर्य्य॑ऽश्रीः। स्पृ॒ह॒यद्व॑र्ण॒ इति॑ स्पृह॒यत्ऽव॑र्णः। अ॒ग्निः। न। अ॒भि॒मृश॒ इत्य॑भि॒ऽमृशे॑। त॒न्वा᳙। जर्भु॑राणः। २४।
महीधरः
म० अहमग्निमाजिघर्मि समन्तात्सिच्चामि दीपयामि च । किंभूतम् । विश्वतः प्रत्यञ्चं सर्वतः प्रत्यगात्मतया प्रतीयमानम् । सोऽग्निः रक्षसा क्रौर्यरहितेन अक्रुध्यमानेन प्रसन्नेन मनसा चित्तेन तत् घृतं जुषेत जुषतां सेवताम् । प्रार्थनायां लिङ् । कीदृशोऽग्निः । मर्यश्रीः मर्यैर्मनुष्यैः श्रीयते आश्रीयते सेव्यते इति मर्यश्रीः मनुष्यैराश्रयणीयः । स्पृहयद्वर्णः स्पृहयन् स्पृहणीयो वर्णो रूपं यस्य । यजमानैः स्पृहणीयरूप इत्यर्थः । अभिमृश्यत इत्यभिमृट् न अभिमृश्यते नाभिमृट् तस्यै नाभिमृशे । चतुर्थी तृतीयार्थे । तनोर्विशेषणम् । नाभिमृशा अभिमर्शनं कर्तुमयोग्यया दाहकत्वात् ईदृश्या तन्वा शरीरेण ज्वालालक्षणेन जर्भुराणः जृम्भत इति जर्भुराणः ‘जभिजृभी गात्रविनामे’ इतस्ततश्च गच्छन् जृभेरौणादिक उराणप्रत्ययः । ईदृशमग्निमाजिघर्मीति योज्यम् ॥ २४ ॥
पञ्चविंशी ।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- गृत्समद ऋषिः
- आर्षी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर वायु और अग्नि कैसे गुणवाले हैं, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य ! (न) जैसे (विश्वतः) सब ओर से (अग्निः) बिजुली और प्राण वायु शरीर में व्यापक होके (अभिमृशे) सहनेवाले के लिये हितकारी हैं, जैसे (तन्वा) शरीर से (जर्भुराणः) शीघ्र हाथ-पाँव आदि अङ्गों को चलाता हुआ (स्पृहयद्वर्णः) इच्छावालों ने स्वीकार किये हुए के समान (मर्य्यश्रीः) मनुष्यों की शोभा के तुल्य वायु के समान वेगवाला होके मैं जिस (प्रत्यञ्चम्) शरीर के वायु को निरन्तर चलानेवाली विद्युत् को (अरक्षसा) राक्षसों की दुष्टता से रहित (मनसा) चित्त से (आजिघर्मि) प्रकाशित करता हूँ, वैसे (तत्) उस तेज को (जुषेत) सेवन कर ॥२४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। हे मनुष्यो ! तुम लोग लक्ष्मी प्राप्त करानेहारे अग्नि आदि पदार्थों को जान और उनको कार्यों में संयुक्त करके धनवान् होओ ॥२४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः कीदृशौ वाय्वग्नी स्त इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - मनुष्यो न यथा विश्वतोऽग्निर्वायुश्चाभिमृशेऽस्ति यथा तन्वा जर्भुराणः स्पृहयद्वर्णो मर्यश्रीरहं यं प्रत्यञ्चमरक्षसा मनसाऽऽजिघर्मि तथा तज्जुषेत ॥२४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। हे मनुष्याः ! यूयं लक्ष्मीप्रापकैरग्न्यादिपदार्थैर्विदितैः कार्य्येषु संयुक्तैः श्रीमन्तो भवत ॥२४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहेत. हे माणसांनो ! ऐश्वर्य प्राप्त करून देणाऱ्या अग्नी इत्यादी पदार्थांना तुम्ही जाणा व त्यांचा उपयोग करून धनवान बना.
२५ परि वाजपतिः
विश्वास-प्रस्तुतिः ...{Loading}...
परि॒ वाज॑पतिः क॒विर॒ग्निर्ह॒व्यान्य॑क्रमीत्। दध॒द् रत्ना॑नि दा॒शुषे॑ ॥२५ ॥
मूलम् ...{Loading}...
परि॒ वाज॑पतिः क॒विर॒ग्निर्ह॒व्यान्य॑क्रमीत्। दध॒द् रत्ना॑नि दा॒शुषे॑ ॥२५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
परि॑। वाज॑पति॒रिति॒ वाज॑ऽपतिः। क॒विः। अ॒ग्निः। ह॒व्यानि॑। अ॒क्र॒मी॒त्। दध॑त्। रत्ना॑नि। दा॒शुषे॑। २५।
महीधरः
म० ‘अभ्र्या पिण्डं त्रिः परिलिखति परिवाजपतिरिति बहिर्बहिरुत्तरयोत्तरयेति’ (का० १६ । २ । २३)। अस्यार्थः । अभ्र्या वारत्रयं मृत्पिण्डं परिलिखति परया परया बहिर्बहिःप्रदेशे यथा तथा । परि वाजपतिरिति प्रथमं लिखति परित्वेति तद्बहिर्द्वितीयं त्वमग्न इति तद्बहिस्तृतीयमित्यर्थः । आग्नेयी गायत्री सोमकदृष्टा । अयमग्निर्हव्यानि नानादेवत्यानि हवींषि पर्यक्रमीत् परिक्रान्तवान् । परिक्रमणं भक्षणार्थ स्वीकरणमित्यर्थः । कीदृशोऽग्निः । वाजपतिः वाजस्यान्नस्य पतिः पालयिता । कविः क्रान्तदर्शनः । किं कुर्वन् हव्यानि पर्यक्रमीत् । दाशुषे हवींषि दत्तवते यजमानाय रत्नानि रमणीयानि धनानि दधत् प्रयच्छन् । ‘दाशृ दाने’ अस्य धातोः ‘दाश्वान्साह्वान्-’ (पा० ६ । १ । १२ ) इत्यादिना क्वसुप्रत्ययान्तो निपातः । दाशति दत्ते स्म इति दाश्वान् तस्मै दाशुषे । दधाति दत्त इति दधत् धाधातुर्दानेऽपि । ‘डुधाञ् विधारणे पुष्टौ दाने’ इति कल्पद्रुमोक्तेः ॥ २५ ॥
षड्विंशी ।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- सोमक ऋषिः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर गृहस्थ कैसा होवे, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! जो (वाजपतिः) अन्न आदि की रक्षा करने हारे गृहस्थों के समान (कविः) बहुदर्शी दाता गृहस्थ पुरुष (दाशुषे) दान देने योग्य विद्वान् के लिये (रत्नानि) सुवर्ण आदि उत्तम पदार्थ (दधत्) धारण करते हुए के समान (अग्निः) प्रकाशमान पुरुष (हव्यानि) देने योग्य वस्तुओं को (परि) सब ओर से (अक्रमीत्) प्राप्त होता है, उस को तू जान ॥२५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। विद्वान् पुरुष को चाहिये कि अग्निविद्या के सहाय से पृथिवी के पदार्थों से धन को प्राप्त हो अच्छे मार्ग में खर्च कर और धर्मात्माओं को दान दे के विद्या के प्रचार से सब को सुख पहुँचावे ॥२५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्गृहस्थः कीदृशो भवेदित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यो वाजपतिः कविर्दाता गृहस्थो दाशुषे रत्नानि दधदिवाग्निर्हव्यानि पर्य्यक्रमीत् तं त्वं जानीहि ॥२५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। विद्वानग्निना पृथिवीस्थपदार्थेभ्यो धनं प्राप्य सुमार्गे सत्पात्रेभ्यो दत्त्वा विद्याप्रचारेण सर्वान् सुखयेत् ॥२५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रत वाचकलुप्तोपमालंकार आहे. विद्वान माणसांनी अग्निविद्येच्या साह्याने पृथ्वीवरील धन प्राप्त करून घ्यावे व चांगल्या कामासाठी खर्च करावे. धर्मात्मा लोकांना दान करावे व विद्येचा प्रसार करून सर्वांना सुख द्यावे.
२६ परि त्वाग्ने
विश्वास-प्रस्तुतिः ...{Loading}...
परि॑ त्वाग्ने॒! पुरव्ँ॑+++(=दुर्गं)+++ व॒यव्ँ
विप्रँ॑ सहस्य! धीमहि ।
धृ॒षद्+++(=धर्षक)+++-व॑र्णन् दि॒वे-दि॑वे
ह॒न्तारं॑ भङ्गु॒राव॑ताम् ॥२६ ॥
मूलम् ...{Loading}...
परि॑ त्वाग्ने॒ पुरं॑ व॒यं विप्रँ॑ सहस्य धीमहि। धृ॒षद्व॑र्णं दि॒वेदि॑वे ह॒न्तारं॑ भङ्गु॒राव॑ताम् ॥२६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
परि॑। त्वा॒। अ॒ग्ने॒। पुर॑म्। व॒यम्। विप्र॑म्। स॒ह॒स्य॒। धी॒म॒हि॒। धृ॒षद्व॑र्ण॒मिति॑ धृ॒षत्ऽव॑र्णम्। दि॒वेदि॑व॒ इति॑ दि॒वेऽदि॑वे। ह॒न्तार॑म्। भ॒ङ्गु॒राव॑ताम्। भ॒ङ्गु॒रव॑ता॒मिति॑ भङ्गु॒रऽव॑ताम्। २६।
महीधरः
म० आग्नेय्यनुष्टुप्यायुदृष्टा परीत्युपसर्गस्य धीमहीत्यनेन संबन्धः । सहस्य सहसि वले भवः सहस्यः बलेन मध्यमानस्य जायमानत्वात्तत्संबोधनं हे सहस्य हे अग्ने, वयं त्वा त्वां परिधीमहि सर्वतो ध्यायामः। ध्यायतेः संप्रसारणं छान्दसमित्युक्तम् । कीदृशं त्वाम् । पुरं पुरीरूपेण स्थितम् आग्नेय्यादिपुराणां रक्षकत्वात् , यद्वा पिपर्ति पालयतीति पूस्तम् । ‘पॄ पालनपूरणयोः’ क्विप् ‘उदोष्ठ्यपूर्वस्य’ (पा. ७ । १। १०२) इति उदादेशे पूरिति रूपम् । तथा विप्रं मेधाविनं ब्राह्मणजातॆ वा । धृषद्वर्णं ‘ञिधृषा प्रागल्भ्ये’ अतो व्यत्ययेन तौदादिकाच्छतृप्रत्ययः । धृष्णोतीति धृषन् प्रगल्भो वर्णो यस्य तम् । असह्यरूपमित्यर्थः । दिवेदिवे प्रतिदिनं भङ्गुरावतां हन्तारं भङ्गुरं भञ्जनीयं पापं तद्येषामस्ति ते भङ्गुरवन्तो विघातका राक्षसादयः । यद्वा | भङ्गुरमनवस्थितं मनो येषां ते भङ्गुरावन्तोऽनवस्थितचित्तवृत्तयस्तेषां विनाशयितारम् । भङ्गुरावतामिति संहितायां दीर्घः॥२६॥
सप्तविंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- पायुर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
कैसा सेनापति करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सहस्य) अपने बल को चाहनेवाले (अग्ने) अग्निवत् विद्या से प्रकाशमान विद्वान् पुरुष ! जैसे (वयम्) हम लोग (दिवेदिवे) प्रतिदिन (भङ्गुरावताम्) खोटे स्वभाववालों के (पुरम्) नगर को अग्नि के समान (हन्तारम्) मारने (धृषद्वर्णम्) दृढ़ सुन्दर वर्ण से युक्त (विप्रम्) विद्वान् (त्वा) आपको (परि) सब प्रकार से (धीमहि) धारण करें, वैसे तू हम को धारण कर ॥२६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। राजा और प्रजा के पुरुषों को चाहिये कि न्याय से प्रजा की रक्षा करने, अग्नि के समान शत्रुओं को मारने और सब काल में सुख देने हारे पुरुष को सेनापति करें ॥२६ ॥
दयानन्द-सरस्वती (सं) - विषयः
कीदृशः सेनापतिः कार्य्य इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सहस्याऽग्ने ! यथा वयं दिवेदिवे भङ्गुरावतां पुरमग्निमिव हन्तारं धृषद्वर्णं विप्रं त्वा परिधीमहि तथा त्वमस्मान् धर ॥२६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। राजप्रजाजनैर्न्यायेन प्रजारक्षकोऽग्निवच्छत्रुहन्ता सर्वदा सुखप्रदः सेनेशो विधेयः ॥२६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. राजा व राजपुरुष यांनी न्यायाने प्रजेचे रक्षण करून अग्नीप्रमाणे शत्रूंचा नाश करून सर्व काळी सुख देणाऱ्या पुरुषाला सेनापती करावे.
२७ त्वमग्ने
विश्वास-प्रस्तुतिः ...{Loading}...
त्वम॑ग्ने॒ द्युभि॒स्त्वमा॑शुशु॒क्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑। त्वं वने॑भ्य॒स्त्वमोष॑धीभ्य॒स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचिः॑ ॥२७ ॥
मूलम् ...{Loading}...
त्वम॑ग्ने॒ द्युभि॒स्त्वमा॑शुशु॒क्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑। त्वं वने॑भ्य॒स्त्वमोष॑धीभ्य॒स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचिः॑ ॥२७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
त्वम्। अ॒ग्ने॒। द्युभि॒रिति॒ द्युऽभिः॑। त्वम्। आ॒शु॒शु॒क्षणिः॑। त्वम्। अ॒द्भ्य इत्य॒त्ऽभ्यः। त्वम्। अश्म॑नः। परि॑। त्वम्। वने॑भ्यः। त्वम्। ओष॑धीभ्यः। त्वम्। नृ॒णाम्। नृ॒प॒त॒ इति॑ नृऽपते। जा॒य॒से॒। शुचिः॑। २७।
महीधरः
म० आग्नेयी त्रिष्टुब् गृत्समददृष्टा प्रथमान्त्यावेकादशार्णौ द्वितीयतृतीयौ दशार्णौ पादौ यदा तदा पङ्क्तिरेव । तृतीयचतुर्थी दशार्णौ यदा तदा विराट्स्थाना त्रिष्टुप् । द्वौ वा वैराजौ नवकस्त्रैष्टुभश्च विराट्स्थानेत्युक्तेः । अथ मन्त्रार्थः । हे नृपते नृणां पालक हे अग्ने, त्वं द्युभिरहोभिर्निमित्तभूतैर्मथ्यमानो जायसे। प्रतिदिनं मथ्यस इत्यर्थः । यद्वा द्युभिः स्वर्गैः निमित्तभूतैस्तत्र तत्र यागशालासु जायसे । त्वमाशुशुक्षणिः आर्द्रा भूमिं शीघ्रमेव शोषयित्वा, यद्वा आशु क्षिप्रं शुचा दीप्त्या क्षणोति हन्ति तमः, सनोति संभजते वा आशुशुक्षणिः । त्वमद्भ्यो वर्षधाराभ्यो विद्युदात्मना जायसे । त्वमश्मनः परि पाषाणस्योपरि पाषाणान्तरसङ्घटनेन जायसे । त्वं वनस्पतिभ्योऽरणिकाष्ठेभ्यो जायसे । त्वमोषधिभ्यो वंशादिभ्यो जायसे वंशद्वयसङ्घर्षणेन । त्वं नृणां मनुष्याणामग्निहोत्रिणां गृहे जायसे । ‘पुत्रो ह्येष सन् स पुनः पिता भवति’ इति श्रुतेः । किंभूतस्त्वम् । शुचिः शुद्धिहेतुः । ‘पुनः पाकान्महीमयम्’ इति स्मृतेः ॥ २७ ॥
अष्टाविंशी
अधिमन्त्रम् (VC)
- अग्निर्देवता
- गृत्समद ऋषिः
- पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर सभाध्यक्ष कैसा होना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (नृपते) मनुष्यों के पालने हारे (अग्ने) अग्नि के समान प्रकाशमान न्यायाधीश राजन् ! (त्वम्) आप (द्युभिः) दिनों के समान प्रकाशमान न्याय आदि गुणों से सूर्य्य के समान (त्वम्) आप (आशुशुक्षणिः) शीघ्र दुष्टों को मारने हारे (त्वम्) आप (अद्भ्यः) वायु वा जलों से (त्वम्) आप (अश्मनः) मेघ वा पाषाणादि से (त्वम्) आप (वनेभ्यः) जङ्गल वा किरणों से (त्वम्) आप (ओषधीभ्यः) सोमलता आदि ओषधियों से (त्वम्) आप (नृणाम्) मनुष्यों के बीच (शुचिः) पवित्र (परि) सब प्रकार (जायसे) प्रसिद्ध होते हो, इस कारण आप का आश्रय लेके हम लोग भी ऐसे ही होवें ॥२७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो राजा, सभासद् वा प्रजा का पुरुष सब पदार्थों से गुण ग्रहण और विद्या तथा क्रिया की कुशलता से उपकार ले सकता है और धर्म के आचरण से पवित्र तथा शीघ्रकारी होता है, वही सब सुखों को प्राप्त हो सकता है, अन्य आलसी पुरुष नहीं ॥२७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः सभेशः कीदृशो भवेदित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे नृपते अग्ने सभाध्यक्ष राजन् ! यस्त्वं द्युभिः सूर्य्य इव त्वमाशुशुक्षणिस्त्वमद्भ्यस्त्वमश्मनस्त्वं वनेभ्यस्त्वमोषधीभ्यस्त्वं नृणां मध्ये शुचिः परिजायसे तस्मात् त्वामाश्रित्य वयमप्येवम्भूता भवेम ॥२७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यो राजा सभ्यः प्रजाजनो वा सर्वेभ्यः पदार्थेभ्यो गुणग्रहणविद्याक्रियाकौशलाभ्यामुपकारान् ग्रहीतुं शक्नोति, धर्माचरणेन पवित्रः शीघ्रकारी च भवति, स सर्वाणि सुखानि प्राप्नोति नेतरोऽलसः ॥२७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जो राजा, सभासद किंवा प्रजापुरुष सर्व पदार्थांचे गुणधर्म जाणून विद्या व कार्यकुशलतेने त्यांचा लाभ करून घेतो व धर्माप्रमाणे वागून पवित्र व गतिमान बनतो तोच सर्व सुख प्राप्त करू शकतो. अन्य आळशी पुरुष ते करू शकत नाही.
२८ देवस्य त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वस्य॑ त्वा सवि॒तुः प्र॑सवे᳙ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम्। पृ॒थि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्य᳖मङ्गिर॒स्वत् ख॑नामि। ज्योति॑ष्मन्तं त्वाग्ने सु॒प्रती॑क॒मज॑स्रेण भा॒नुना॒ दीद्य॑तम्। शि॒वं प्र॒जाभ्योऽहिँ॑सन्तं पृथि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्य᳖मङ्गिर॒स्वत् ख॑नामः ॥२८ ॥
मूलम् ...{Loading}...
दे॒वस्य॑ त्वा सवि॒तुः प्र॑सवे᳙ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम्। पृ॒थि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्य᳖मङ्गिर॒स्वत् ख॑नामि। ज्योति॑ष्मन्तं त्वाग्ने सु॒प्रती॑क॒मज॑स्रेण भा॒नुना॒ दीद्य॑तम्। शि॒वं प्र॒जाभ्योऽहिँ॑सन्तं पृथि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्य᳖मङ्गिर॒स्वत् ख॑नामः ॥२८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दे॒वस्य॑। त्वा॒। स॒वि॒तुः। प्र॒स॒व इति॑ प्रऽस॒वे। अ॒श्विनोः॑। बा॒हुभ्या॑म्। पू॒ष्णः। हस्ता॑भ्याम्। पृ॒थि॒व्याः। स॒धस्था॒दिति॑ स॒धऽस्था॑त्। अ॒ग्निम्। पु॒री॒ष्य᳖म्। अ॒ङ्गि॒र॒स्वत्। ख॒ना॒मि॒। ज्योति॑ष्मन्तम्। त्वा। अ॒ग्ने॒। सु॒प्रती॑क॒मिति॑ सु॒ऽप्रती॑कम्। अज॑स्रेण। भा॒नुना॑। दीद्य॑तम्। शि॒वम्। प्र॒जाभ्य॒ इति॑ प्र॒ऽजाभ्यः॑। अहिँ॑सन्तम्। पृ॒थि॒व्याः। स॒धस्था॒दिति॑ स॒धऽस्था॑त्। अ॒ग्निम्। पु॒री॒ष्य᳖म्। अ॒ङ्गि॒र॒स्वत्। ख॒ना॒मः॒। २८।
महीधरः
म० ‘अभ्याभ् पिण्डं खनति देवस्य त्वेति’ ( का० १६ । २। २३ ) अभ्र्या कृत्वा पिण्डं परितः खनति कण्डिकया। देवस्य त्वा व्याख्यातम् । पृथिव्याः आग्नेयं यजुः अत्यष्टिच्छन्दः । अहं पृथिव्याः सधस्थादुपरिप्रदेशात् पुरीष्यं पशव्यमग्निमङ्गिरस इव खनामि । कीदृशमग्निम् । ज्योतिष्मन्तं ज्वालायुक्तम् । हे अमे, ईदृशं खां पृथिव्याः सहस्थानात् अङ्गिरस इव वयं खनामः । कीदृशम् । सुप्रतीकं सुमुखम् । अजस्रेणानुपक्षीणेन निरन्तरं वर्तमानेन भानुना रश्मिना दीद्यतं दीप्यमानम् । छान्दसो धातुः । प्रजाभ्यः प्रजोपकारार्थं शिवं शान्तमत एवाहिंसन्तं हिंसामकुर्वन्तम् । पुनरुक्तिरादरार्था ॥ २८ ॥
एकोनत्रिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- गृत्समद ऋषिः
- प्रकृतिः
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्य क्या करके किस पदार्थ से बिजुली का ग्रहण करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) भूगर्भ तथा शिल्पविद्या के जानने हारे विद्वान् ! जैसे मैं (सवितुः) सब जगत् के उत्पन्न करने हारे (देवस्य) प्रकाशमान ईश्वर के (प्रसवे) उत्पन्न किये संसार में (अश्विनोः) आकाश और पृथिवी के (बाहुभ्याम्) आकर्षण तथा धारणरूप बाहुओं के समान और (पूष्णः) प्राण के (हस्ताभ्याम्) बल और पराक्रम के तुल्य (त्वा) आप को आगे करके (पृथिव्याः) भूमि के (सधस्थात्) एक स्थान से (पुरीष्यम्) पूर्ण सुख देनेहारे (ज्योतिष्मन्तम्) बहुत ज्योतिवाले (अजस्रेण) निरन्तर (भानुना) दीप्ति से (दीद्यतम्) अत्यन्त प्रकाशमान (पुरीष्यम्) सुन्दर रक्षा करने (अग्निम्) वायु में रहनेवाली बिजुली को (अङ्गिरस्वत्) वायु के समान (खनामि) सिद्ध करता हूँ और जैसे (त्वा) आप का आश्रय लेके हम लोग (पृथिव्याः) अन्तरिक्ष के (सधस्थात्) एक प्रदेश से (अङ्गिरस्वत्) सूत्रात्मा वायु के समान वर्त्तमान (अहिंसन्तम्) जो कि ताड़ना न करे ऐसे (पुरीष्यम्) पालनेहारे पदार्थों में उत्तम (प्रजाभ्यः) प्रजा के लिये (शिवम्) मङ्गलकारक (अग्निम्) अग्नि को (खनामः) प्रकट करते हैं, वैसे सब लोग किया करें ॥२८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो राज्य और प्रजा के पुरुष सर्वत्र रहनेवाले बिजुली रूपी अग्नि को सब पदार्थों से साधन तथा उपसाधनों के द्वारा प्रसिद्ध करके कार्य्यों में प्रयुक्त करते हैं, वे कल्याणकारक ऐश्वर्य्य को प्राप्त होते हैं। कोई भी उत्पन्न हुआ पदार्थ बिजुली की व्याप्ति के बिना खाली नहीं रहता, ऐसा तुम सब लोग जानो ॥२८ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्याः किं कृत्वा कस्माद् विद्युतं गृह्णीयुरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने शिल्पविद्याविद्विद्वन् ! यथाऽहं सवितुर्देवस्य प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां त्वा पुरस्कृत्य पृथिव्याः सधस्थात् पुरीष्यं ज्योतिष्मन्तमजस्रेण भानुना दीद्यतं पुरीष्यमग्निमङ्गिरस्वत् खनामि यथा त्वा त्वामाश्रिता वयं पृथिव्याः सधस्थादङ्गिरस्वदहिंसन्तं पुरीष्यं प्रजाभ्यः शिवमग्निं खनामस्तथा सर्व आचरन्तु ॥२८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये राजप्रजाजनाः सर्वत्र स्थितं विद्युद् रूपमग्निं सर्वेभ्यः पदार्थेभ्यः साधनोपसाधनैः प्रसिद्धीकृत्य कार्येषु प्रयुञ्जते, ते शङ्करमैश्वर्य्यं लभन्ते। नहि किञ्चिदपि प्रजातं वस्तु विद्युद्व्याप्त्या विना वर्त्तत इति विजानन्तु ॥२८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्या राज्यातील प्रजा पुरुष सर्वत्र असलेल्या विद्युतरूपी अग्नीला सर्व पदार्थांमधून साधन व उपसाधनांद्वारे प्रकट करून कार्यात युक्त करतात त्यांना ऐश्वर्य प्राप्त होऊन त्यांचे कल्याण होते. त्यामुळे प्रत्येक पदार्थात विद्युत असते हे सर्व लोकांनी जाणावे.
२९ अपां पृष्ठमसि
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒पां पृ॒ष्ठम॑सि॒ योनि॑र॒ग्नेः स॑मु॒द्रम॒भितः॒ पिन्व॑मानम्। वर्ध॑मानो म॒हाँ२ऽआ च॒ पुष्क॑रे दि॒वो मात्र॑या वरि॒म्णा प्र॑थस्व ॥२९ ॥
मूलम् ...{Loading}...
अ॒पां पृ॒ष्ठम॑सि॒ योनि॑र॒ग्नेः स॑मु॒द्रम॒भितः॒ पिन्व॑मानम्। वर्ध॑मानो म॒हाँ२ऽआ च॒ पुष्क॑रे दि॒वो मात्र॑या वरि॒म्णा प्र॑थस्व ॥२९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒पाम्। पृ॒ष्ठम्। अ॒सि॒। योनिः॑। अ॒ग्नेः। स॒मु॒द्रम्। अ॒भितः॑। पिन्व॑मानम्। वर्ध॑मानः। म॒हान्। आ। च॒। पुष्क॑रे। दि॒वः। मात्र॑या। व॒रि॒म्णा। प्र॒थ॒स्व॒। २९।
महीधरः
म० ‘कृष्णजिनमास्तीर्योत्तरतस्तस्मिन् पुष्करपर्णमपां पृष्ठमिति’ (का० ६ । २ । २४) । अस्यार्थः । मृत्पिण्डोत्तरभागे प्राग्ग्रीवमुत्तरलोम कृष्णाजिनमास्तीर्य तत्रापां पृष्ठमिति पादत्रयात्मकमन्त्रेण कमलिनीपत्रमास्तृणाति । पुष्करपर्णदेवत्या स्वराट्पङ्क्तिः । आद्यौ दशकावन्त्यावेकादशकाविति द्व्यक्षराधिका पङ्क्तिः स्वराट्पङ्क्तिः । द्वाभ्यां विराडित्युक्तेः । अथ मन्त्रार्थः । हे पुष्करपर्ण, त्वमपां जलानां पृष्ठमसि उपर्यवस्थानात् । अग्नेः अग्न्यर्थस्य पिण्डस्य योनिः कारणमसि । समुद्रमभितः उदकस्य परितः पिन्वमानं प्रीतिकरम् । यद्वा पिन्वमानमिति समुद्रविशेषणम् । पिन्वमानं सिञ्चन्तं समुद्रमुदकमभितः वर्धमानं सत् महत् प्रभूतं भवेति शेषः । वर्धमानो महानिति लिङ्गव्यत्ययश्छान्दसः । पुष्करे जले आसीद च । यद्वा पुष्करे आ समन्तात् महत् प्रभूतं सत् वर्धमानं वृद्धियुक्तं त्वमसि । ‘विमार्ष्ट्येनद्दिव इति’ (का० १६ । २ । २५)। एनत्पुष्करपर्णं विपुलं करोति । हे पुष्करपर्ण, दिवो मात्रया द्युलोकस्य परिमाणेन वरिम्णा उरुत्वेन त्वं प्रथस्व विस्तृतं भव । उरोर्भावो वरिमा तेन ‘प्रस्थस्फ-’ (पा० ६ । ४ । १५७ ) इत्यादिना उरोर्वरादेश इमनि ॥ २९ ॥
त्रिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- गृत्समद ऋषिः
- स्वराट् पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्य कैसी बिजुली का ग्रहण करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! जिस कारण (अग्नेः) सर्वत्र अभिव्याप्त बिजुली रूप अग्नि के (योनिः) संयोग-वियोगों के जानने (महान्) पूजनीय (वर्धमानः) विद्या तथा क्रिया की कुशलता से नित्य बढ़नेवाले आप (असि) हैं। इसलिये (अभितः) सब ओर से (पिन्वमानम्) जल वर्षाते हुए (अपाम्) जलों के (पृष्ठम्) आधारभूत (पुष्करे) अन्तरिक्ष में वर्त्तमान (दिवः) दीप्ति के (मात्रया) विभाग से बढ़े हुए (समुद्रम्) अच्छे प्रकार जिस में ऊपर को जल उठते हैं, उस समुद्र (च) और वहाँ के सब पदार्थों को जान के (वरिम्णा) बहुत्व के साथ (आप्रथस्व) अच्छे प्रकार सुखों को विस्तार करनेवाले हूजिये ॥२९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! तुम लोग पृथिवी आदि स्थूल पदार्थों में बिजुली जिस प्रकार वर्त्तमान है, वैसे ही जलों में भी है, ऐसा समझ और उससे उपकार ले के बड़े-बड़े विस्तारयुक्त सुखों को सिद्ध करो ॥२९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्याः कीदृशं विद्युतं गृह्णीयुरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यतोऽग्नेर्योनिर्महान् वर्धमानस्त्वमसि तस्मादभितः पिन्वमानमपां पृष्ठं पुष्करे दिवो मात्रया वर्धमानं समुद्रं तत्स्थान् पदार्थांश्च विदित्वा वरिम्णाऽऽप्रथस्व ॥२९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यूयं यथा मूर्त्तेषु पृथिव्यादिषु पदार्थेषु विद्युद्वर्त्तते, तथाऽप्स्वपि मत्वा तामुपकृत्य विस्तृतानि सुखानि संपादयत ॥२९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! पृथ्वी इत्यादी स्थूल पदार्थांमध्ये विद्युत ज्या प्रकारे विद्यमान असते तशीच ती जलातही असते हे तुम्ही जाणा व तिचा उपयोग करून घ्या आणि सुख वाढवा.
३० शर्म च
विश्वास-प्रस्तुतिः ...{Loading}...
शर्म॑ च॒ स्थो वर्म॑ च॒ स्थोऽछि॑द्रे बहु॒लेऽउ॒भे। व्यच॑स्वती॒ संव॑साथां भृ॒तम॒ग्निं पु॑री॒ष्य᳖म् ॥३० ॥
मूलम् ...{Loading}...
शर्म॑ च॒ स्थो वर्म॑ च॒ स्थोऽछि॑द्रे बहु॒लेऽउ॒भे। व्यच॑स्वती॒ संव॑साथां भृ॒तम॒ग्निं पु॑री॒ष्य᳖म् ॥३० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
शर्म्म॑। च॒। स्थः॒। वर्म्म॑। च॒। स्थः॒। अछि॑द्रे॒ऽइत्यछि॑द्रे। ब॒हु॒लेऽइति॑ बहु॒ले। उ॒भेऽइत्यु॒भे। व्यच॑स्वती॒ऽइति॑ व्यच॑स्वती। सम्। व॒सा॒था॒म्। भृ॒तम्। अ॒ग्निम्। पु॒री॒ष्य᳖म्। ३०।
महीधरः
म० ‘आलभत उभे शर्म च स्थ इति’ ( का० १६ । २ । २३)। ऋगद्वयेन कृष्णाजिनपुष्करपर्णे सहैव स्पृशेदिति सूत्रार्थः । कृष्णाजिनपुष्करपर्णदेवत्ये द्वे अनुष्टभौ । हे कृष्णाजिनपुष्करपर्णे, उभे युवां शं च स्थः अग्नेः सुखकारिणी अपि भवथः । वर्म च स्थः कवचवद्रक्षके अपि भवथः । चौ समुच्चये। कीदृशे युवाम् । अच्छिद्रे छिद्ररहिते सकले बहुले विस्तीर्णे व्यचस्वती व्यचनं व्यचः असुन्प्रत्ययः । तद्वती अवकाशवती । तथाविधे युवां पुरीष्यं पशव्यमग्निं संवसाथां सम्यगाच्छादयतम् । ‘वस आच्छादने’ अदादिः । आच्छाद्य चाग्निं भृतं बिभृतं धारयतम् । बिभर्तेः ‘बहुलं छन्दसि’ (पा० २ । ४ । ७३) इति शपो लुक् ॥ ३०॥
एकत्रिंशी।
अधिमन्त्रम् (VC)
- दम्पती देवते
- गृत्समद ऋषिः
- विराडार्ष्यनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब स्त्री और पुरुष घर में रह के क्या-क्या सिद्ध करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रीपुरुषो ! तुम दोनों (शर्म) गृहाश्रम (च) और उस की सामग्री को प्राप्त हुए (स्थः) हो (वर्म्म) सब ओर से रक्षा (च) और उस के सहायकारी पदार्थों को (उभे) दो (बहुले) बहुत अर्थों को ग्रहण करने हारे (व्यचस्वती) सुख की व्याप्ति से युक्त (अच्छिद्रे) निर्दोष बिजुली और अन्तरिक्ष के समान जिस घर में धर्म, अर्थ के कार्य्य (स्थः) हैं, उस घर में (भृतम्) पोषण करने हारे (पुरीष्यम्) रक्षा करने में उत्तम (अग्निम्) अग्नि को ग्रहण करके (संवसाथाम्) अच्छे प्रकार आच्छादन करके वसो ॥३० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - गृहस्थ लोगों को चाहिये कि ब्रह्मचर्य्य के साथ सत्कार और उपकारपूर्वक क्रिया की कुशलता और विद्या का ग्रहण कर बहुत द्वारों से युक्त, सब ऋतुओं में सुखदायक, सब ओर की रक्षा और अग्नि आदि साधनों से युक्त घरों को बना के उन में सुखपूर्वक निवास करें ॥३० ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ स्त्रीपुरुषाभ्यां गृहे स्थित्वा किं साधनीयमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रीपुरुषौ ! युवां शर्म्म च प्राप्तौ स्थः वर्म्म चोभे बहुले व्यचस्वती अच्छिद्रे विद्युदन्तरिक्ष इव स्थः। तत्र गृहे पुरीष्यमग्निं गृहीत्वा संवसाथाम् ॥३० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - गृहस्थैर्ब्रह्मचर्येण सत्करणोपकरणक्रियाकुशलां विद्यां सङ्गृह्य बहुद्वाराणि सर्वर्त्तुसुखप्रदानि सर्वतोभिरक्षान्वितान्यग्न्यादिसाधनोपेतानि गृहाणि निर्माय तत्र सुखेन वसितव्यम् ॥३० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - गृहस्थांनी ब्रह्मचर्यपूर्वक राहून सर्वांचा सत्कार करावा व सर्वांवर उपकार करावा. त्यांनी कर्मकुशल असावे. विद्येचे ग्रहण करावे व अशी घरे बनवावीत की ती सर्व ऋतूंमध्ये सुखदायक होतील. घरांना पुष्कळ दरवाजे असावेत. घरे अग्नी इत्यादी साधनांनी युक्त असावीत. सर्वांचे रक्षण होईल अशा घरात सुखाने निवास करावा.
३१ संवसाथास्वर्विदा समीचीऽउरसा
विश्वास-प्रस्तुतिः ...{Loading}...
संव॑साथाँस्व॒र्विदा॑ स॒मीची॒ऽउर॑सा॒ त्मना॑। अ॒ग्निम॒न्तर्भ॑रि॒ष्यन्ती॒ ज्योति॑ष्मन्त॒मज॑स्र॒मित् ॥३१ ॥
मूलम् ...{Loading}...
संव॑साथाँस्व॒र्विदा॑ स॒मीची॒ऽउर॑सा॒ त्मना॑। अ॒ग्निम॒न्तर्भ॑रि॒ष्यन्ती॒ ज्योति॑ष्मन्त॒मज॑स्र॒मित् ॥३१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सम्। व॒सा॒था॒म्। स्व॒र्विदेति॑ स्वः॒ऽविदा॑। स॒मीची॒ऽइति॑ स॒मीची॑। उर॑सा। त्मना॑। अ॒ग्निम्। अ॒न्तः। भ॒रि॒ष्यन्ती॒ऽइति॑ भरि॒ष्यन्ती॑। ज्योति॑ष्मन्तम्। अज॑स्रम्। इत्। ३१।
महीधरः
म० हे कृष्णाजिनपुष्करपर्णे, ज्योतिष्मन्तं तेजस्विनमजस्रमित् निरन्तरमेवाग्निमन्तरुदरे भरिष्यन्ती धारयिष्यन्ती युवामुरसात्मना उरोरूपेण भवदीयशरीरेणाग्निं संवसाथां सम्यगाच्छादयतम् । कीदृशे युवाम् । स्वर्विदा विभक्तेराकारः । स्वर्वित्त इति स्वर्विदो यज्ञसूर्यदेवाहर्वाच्यौ । स्वःशब्दः खर्गलाभसाधन इत्यर्थः । तथा समीची सम्यगञ्चने सङ्गते । एकचित्ते इत्यर्थः ॥ ३१॥
द्वात्रिंशी।
अधिमन्त्रम् (VC)
- जायापती देवते
- गृत्समद ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही उक्त विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रीपुरुषो ! तुम दोनों जो (समीची) अच्छे प्रकार पदार्थों को जानने (भरिष्यन्ती) और सब का पालन करने हारे (स्वर्विदा) सुख को प्राप्त होते हुए (ज्योतिष्मन्तम्) अच्छे प्रकाश से युक्त (अन्तः) सब पदार्थों के बीच वर्त्तमान (अग्निम्) बिजुली को (इत्) ही (त्मना) (उरसा) अपने अन्तःकरण से (अजस्रम्) निरन्तर (संवसाथाम्) अच्छी तरह आच्छादन करो तो लक्ष्मी भोग सको ॥३१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो गृहस्थ मनुष्य बिजुली को उत्पन्न करके ग्रहण कर सकते हैं, वे व्यवहार में दरिद्र कभी नहीं होते ॥३१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रीपुरुषौ ! युवां यदि समीची भरिष्यन्ती स्वर्विदा सन्तौ ज्योतिष्मन्तमन्तरग्निमित् त्मनोरसाऽजस्रं संवसाथां तर्हि श्रियमश्नुवाताम् ॥३१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्या विद्युतमुत्पाद्य स्वीकर्त्तुं शक्नुवन्ति, न च ते व्यवहारे दरिद्रा भवन्ति ॥३१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे विद्युत उत्पन्न करून तिचे ग्रहण, त्यांचा उपयोग करू शकतात ती व्यवहारात कधी दरिद्री राहत नाहीत.
३२ पुरीष्योऽसि विश्वभराऽअथर्वा
विश्वास-प्रस्तुतिः ...{Loading}...
पु॒री॒ष्यो᳖ऽसि वि॒श्वभ॑रा॒ऽअथ॑र्वा त्वा प्रथ॒मो निर॑मन्थदग्ने। त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑र्वा॒ निर॑मन्थत ॥ मू॒र्ध्नो विश्व॑स्य वा॒घतः॑ ॥३२ ॥
मूलम् ...{Loading}...
पु॒री॒ष्यो᳖ऽसि वि॒श्वभ॑रा॒ऽअथ॑र्वा त्वा प्रथ॒मो निर॑मन्थदग्ने। त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑र्वा॒ निर॑मन्थत ॥ मू॒र्ध्नो विश्व॑स्य वा॒घतः॑ ॥३२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पु॒री॒ष्यः᳖। अ॒सि॒। वि॒श्वभ॑रा॒ इति॑ वि॒श्वऽभ॑राः। अथ॑र्वा। त्वा॒। प्र॒थ॒मः। निः। अ॒म॒न्थ॒त्। अ॒ग्ने॒। त्वाम्। अ॒ग्ने॒। पुष्क॑रात्। अधि॑। अथ॑र्वा। निः। अ॒म॒न्थ॒त॒। मू॒र्ध्नः। विश्व॑स्य। वा॒घतः॑। ३२।
महीधरः
म० ‘पिण्डं पुरीष्योऽसीति’ (का० १६ । २ । २७) । प्रतिष्ठा गायत्री अष्टौ सप्त षट् चेति प्रतिष्ठेति पिङ्गलोक्तेः । अग्निदेवत्या । हे अग्ने, त्वं पुरीष्यः पशव्योऽसि । विश्वभरा असि विश्वं सर्वं जगद् बिभर्ति धारयति पुष्णाति वा विश्वभराः । असुन्प्रत्ययः । हे अग्ने, प्रथमः इतरेभ्यः पूर्वभावी अथर्वाख्य ऋषिः प्राणो वा त्वा त्वां निरमन्थन्निःशेषेण मथितवान् । पाणिभ्यां परिगृह्णात्येनं दक्षिणोत्तराभ्यां दक्षिणः साभ्रिस्त्वामग्न इति षड्भिः सर्वᳪं᳭ सकृद्धुत्वा पुष्करपर्णे निदधातीति’ (का. १६ । २ । २८)। दक्षिणेनाभ्रिं धृत्वोभाभ्यां कराभ्यां सर्वं पिण्डं त्वामग्न इति षडृचेन सकृद्गृहीत्वा पुष्करपर्णे स्थापयतीति सूत्रार्थः । अग्निदेवत्यास्तिस्रो गायत्र्यो भरद्वाजदृष्टाः । हे अग्ने, अथर्वा प्राणः पुष्करादधि उदकात्सकाशात्त्वां निरमन्थत निःशेषेण मथितवान् । ‘आपो वै पुष्करं प्राणोऽथर्वा’ (६ । ४ । २ । २) इति श्रुतेः । वाघत इति ऋत्विङ्नामसु पठितम् । विश्वस्य सर्वस्य जगतः संबन्धिनो वाघतः ऋषिजस्त्वां मूर्ध्नोऽर्थादरणेः शिरसो निरमन्थन्तेति व्यत्ययः । यद्वा विश्वस्येति षष्ठ्येकवचनं प्रथमाबहुवचनार्थे । विश्वे सर्वे वाघत इत्यर्थः । यद्वा ऋचोऽयमर्थः । हे अग्ने, अथर्वाख्य ऋषिः पुष्करादधि पद्मपत्रस्योपरि त्वां निरमन्थत । कीदृशात्पुष्करात् । मूर्ध्नः उत्तमाङ्गवत्प्रशस्तात् विश्वस्य वाघतः सर्वजगतो वाहकात्पुष्करपर्णमग्निमन्थनयज्ञनिष्पादनद्वारेण सर्वं जगन्निर्वहति ॥ ३२ ॥
त्रयस्त्रिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- भारद्वाज ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
विद्वान् पुरुष बिजुली को कैसे उत्पन्न करे, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) क्रिया की कुशलता को सिद्ध करने हारे विद्वन् ! जो (वाघतः) शास्त्रवित् आप (पुरीष्यः) पशुओं को सुख देने हारे (असि) हैं उस (त्वा) आपको (अथर्वा) रक्षक (प्रथमः) उत्तम (विश्वभराः) सब का पोषक विद्वान् (विश्वस्य) सब संसार के (मूर्ध्नः) ऊपर वर्त्तमान (पुष्करात्) अन्तरिक्ष से (अधि) समीप अग्नि को (निरमन्थत्) नित्य मन्थन करके ग्रहण करता है, वह ऐश्वर्य्य को प्राप्त होता है ॥३२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो इस जगत् में विद्वान् पुरुष होवें वे अपने अच्छे विचार और पुरुषार्थ से अग्नि आदि की पदार्थविद्या को प्रसिद्ध करके सब मनुष्यों को शिक्षा करें ॥३२ ॥
दयानन्द-सरस्वती (सं) - विषयः
विद्वान् विद्युतं कथमुत्पादयेदित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने विद्वन् ! यो वाघतो भवान् पुरीष्योसि, तं त्वाऽथर्वा प्रथमो विश्वभरा विश्वस्य मूर्ध्नो वर्त्तमानात् पुष्करादध्यग्निं निरमन्थत्, स ऐश्वर्य्यमाप्नोति ॥३२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - येऽस्मिन् जगति विद्वांसो भवेयुस्ते सुविचारपुरुषार्थाभ्यामग्न्यादिविद्यां प्रसिद्धीकृत्य सर्वेभ्यः शिक्षेरन् ॥३२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जगातील विद्वान माणसांनी शुभ विचाराने व पुरुषार्थाने अग्नी इत्यादीबाबत पदार्थविद्या प्रकट करून सर्व माणसांना शिक्षित करावे.
३३ तमु त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
तमु॑ त्वा द॒ध्यङ्ङृषिः॑ पु॒त्रऽई॑धे॒ऽअथ॑र्वणः। वृ॒त्र॒हणं॑ पुरन्द॒रम् ॥३३ ॥
मूलम् ...{Loading}...
तमु॑ त्वा द॒ध्यङ्ङृषिः॑ पु॒त्रऽई॑धे॒ऽअथ॑र्वणः। वृ॒त्र॒हणं॑ पुरन्द॒रम् ॥३३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
तम्। ऊ॒ इत्यूँ॑। त्वा॒। द॒ध्यङ्। ऋषिः॑। पु॒त्रः। ई॒धे॒। अथ॑र्वणः। वृ॒त्र॒हण॑म्। वृ॒त्र॒हन॒मिति॑ वृत्र॒ऽहन॑म्। पु॒र॒न्द॒रमिति॑ पुरम्ऽद॒रम्। ३३।
महीधरः
म०. हे अग्ने, अथर्वणः ऋषेः पुत्रः दध्यङ्नामक ऋषिः तमु त्वा। उ एवार्थे । तमेव त्वाम् ईधे प्रज्वालितवान् । कीदृशं त्वाम् । वृत्रहणं वृत्रस्य पाप्मनो हन्तारम् । ‘ब्रह्मभ्रूणवृत्रेषु हनः’ इति (पा० ३ । २। ८७) क्विप् । पुरन्दरं रुद्ररूपेणासुरसंबन्धिनां त्रयाणां पुराणां विदारयितारम् । ‘वाचंयमपुरन्दरौ च’ (पा० ६ । ३ । ६९) इति खशि निपातः ॥ ३३ ॥
चतुस्त्रिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- भारद्वाज ऋषिः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उक्त विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! जैसे (अथर्वणः) रक्षक विद्वान् का (पुत्रः) पवित्र शिष्य (दध्यङ्) सुखदायक अग्नि आदि पदार्थों को प्राप्त हुआ (ऋषिः) वेदार्थ जानने हारा (उ) तर्क-वितर्क के साथ सम्पूर्ण विद्याओं का वेत्ता जिस (वृत्रहणम्) सूर्य्य के समान शत्रुओं को मारने और (पुरन्दरम्) शत्रुओं के नगरों को नष्ट करनेवाले आप को (ईधे) तेजस्वी करता है, वैसे (तम्, त्वा) उन आपको सब विद्वान् लोग विद्या और विनय से उन्नतियुक्त करें ॥३३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो पुरुष वा स्त्री साङ्गोपाङ्ग सार्थक वेदों को पढ़ के विद्वान् वा विदुषी होवें, वे राजपुत्र और राजकन्याओं को विद्वान् और विदुषी करके उन से धर्मानुकूल राज्य तथा प्रजा का व्यवहार करवावें ॥३३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! यथाऽथवर्णः पुत्रो दध्यङ्ङृषिरु सकलविद्याविद् वृत्रहणं पुरन्दरमीधे, तथा तं त्वा सर्वे विद्वांसो विद्याविनयाभ्यां वर्द्धयन्तु ॥३३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये याश्च साङ्गोपाङ्गान् वेदानधीत्य विद्वांसो विदुष्यश्च भवेयुस्ते ताश्च राजपुत्रादीन् राजकन्यादींश्च विदुषो विदुषींश्च संपाद्य ताभिर्धर्मेण राजप्रजाव्यवहारान् कारयेयुः ॥३३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे पुरुष व स्त्री वेदाचे सांगोपांग सफलतापूर्वक अध्ययन करून विद्वान व विदुषी बनतात त्यांनी राजपुत्र व राजकन्या यांना विद्वान व विदुषी करून त्यांच्याकडून धर्मानुकूल राज्य चालवून प्रजेची कामे करावीत.
३४ तमु त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
तमु॑ त्वा पा॒थ्यो वृषा॒ समी॑धे दस्यु॒हन्त॑मम्। ध॒न॒ञ्ज॒यँ रणे॑रणे ॥३४ ॥
मूलम् ...{Loading}...
तमु॑ त्वा पा॒थ्यो वृषा॒ समी॑धे दस्यु॒हन्त॑मम्। ध॒न॒ञ्ज॒यँ रणे॑रणे ॥३४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
तम्। ऊ॒ इत्यूँ॑। त्वा॒। पा॒थ्यः। वृषा॑। सम्। ई॒धे॒। द॒स्यु॒हन्त॑म॒मिति॑ दस्यु॒हन्ऽत॑मम्। ध॒न॒ञ्ज॒यमिति॑ धनम्ऽज॒यम्। रणे॑रण॒ इति॒ रणे॑ऽरणे। ३४।
महीधरः
म० पथि वर्तमानः पाथ्यः सन्मार्गवर्ती, यद्वा पाथसि अन्तरिक्षे हृदयाकाशे भवः पाथ्यः ‘पाथोनदीभ्यां ड्यण’ (पा. ४ । ४ । १११) इति पाथःशब्दात् ड्यणप्रत्ययः । टिलोपः । वृषा सेक्ता मनः हे अग्ने, त्वा त्वां समीधे संदीपयति । मनसा हि ब्रह्मपन्था उपलभ्यते अतः पाथ्यः । ‘मनसैवानुद्रष्टव्यम्’ इति श्रुतेः । ‘मनसैवाभिलष्य स्त्रियाᳪं᳭ रेतः सिञ्चति’ इति । वृषा हि मनः । ‘मनो वै पाथ्यो वृषा’ (६ । ४ । २ । ४) इति श्रुतेः । कीदृशं त्वाम् । दस्युहन्तमम् दस्यून् हन्तीति दस्युहा अतिशयेन दस्युहा दस्युहन्तमस्तम् । ‘नलोपः प्रातिपदिकान्तस्य’ (पा० ८ । २ । ७) इति नलोपे दस्युहन्तम इति प्राप्ते ‘नाद्धस्य’ (पा० ८।२।१७) इति तमपो नुडागमः । अतिशयेन शत्रूणां हन्तारम् । रणेरणे धनञ्जयं तेषु तेषु संग्रामेषु धनस्य जेतारम् ॥ ३४ ॥
पञ्चत्रिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- भारद्वाज ऋषिः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उक्त विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे वीर पुरुष ! जो आप (पाथ्यः) अन्न जल आदि पदार्थों की सिद्धि में कुशल (वृषा) पराक्रमी (रणेरणे) प्रत्येक युद्ध में शूरता आदि युक्त विद्वान् हैं (तम्) पूर्वोक्त पदार्थविद्या जानने (धनञ्जयम्) शत्रुओं से धन जीतने (उ) और (दस्युहन्तमम्) अतिशय करके डाकुओं को मारनेवाले (त्वा) आप को वीरों की सेना राजधर्म्म की शिक्षा से (समीधे) प्रदीप्त करे ॥३४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजा आदि राजपुरुषों को चाहिये कि आप्त धर्मात्मा विद्वानों से विनय और युद्धविद्या को प्राप्त हो प्रजा की रक्षा के लिये चोरों को मार शत्रुओं को जीत कर परम ऐश्वर्य्य की उन्नति करें ॥३४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे वीर ! यस्त्वं पाथ्यो वृषा रणेरणे विद्वान् शौर्य्यादिगुणयुक्तोऽसि, तं धनञ्जयमु दस्युहन्तमं त्वा त्वां वीरसेनया समीधे ॥३४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - राजादयो राजपुरुषा आप्तेभ्यो विद्वद्भ्यो विनयं युद्धविद्यां प्राप्य प्रजारक्षायै चोरान् हत्वा शत्रून् विजित्य परमैश्वर्य्यमुन्नयेयुः ॥३४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजा व राजपुरुषांनी आप्त धर्मात्मा विद्वानांकडून विनयपूर्वक युद्धविद्या शिकावी. प्रजेच्या रक्षणासाठी चोरांचा नाश करू शत्रूंना जिंकून परम ऐश्वर्य मिळवावे.
३५ सीद होतः
विश्वास-प्रस्तुतिः ...{Loading}...
सीद॑ होतः॒ स्वऽउ॑ लो॒के चि॑कि॒त्वान्त्सा॒दया॑ य॒ज्ञँ सु॑कृ॒तस्य॒ योनौ॑। दे॒वा॒वीर्दे॒वान् ह॒विषा॑ यजा॒स्यग्ने॑ बृ॒हद्यज॑माने॒ वयो॑ धाः ॥३५ ॥
मूलम् ...{Loading}...
सीद॑ होतः॒ स्वऽउ॑ लो॒के चि॑कि॒त्वान्त्सा॒दया॑ य॒ज्ञँ सु॑कृ॒तस्य॒ योनौ॑। दे॒वा॒वीर्दे॒वान् ह॒विषा॑ यजा॒स्यग्ने॑ बृ॒हद्यज॑माने॒ वयो॑ धाः ॥३५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सीद॑। हो॒त॒रिति॑ होतः। स्वे। ऊँ॒ इत्यूँ॑। लो॒के। चि॒कि॒त्वान्। सा॒दय॑। य॒ज्ञम्। सु॒कृ॒तस्येति॑ सुऽकृ॒तस्य॑। योनौ॑। दे॒वा॒वीरिति॑ देवऽअ॒वीः। दे॒वान्। ह॒विषा॑। य॒जा॒सि॒। अग्ने॑। बृ॒हत्। यज॑माने। वयः॑। धाः॒। ३५।
महीधरः
म०. आग्नेयी त्रिष्टुप् देवश्रवोदेववाताभ्यां दृष्टा । हे होतः देवानामाह्वातः हे अग्ने, स्वे उ लोके । उ एवार्थे । स्वकीये एव स्थाने कृष्णाजिनाख्ये त्वं सीद उपविश । कीदृशस्त्वम् । चिकित्वान् चेतनवान् स्वाधिकारं जानन् । किंच सुकृतस्य साधुकृतस्य कर्मणो यज्ञस्य योनौ स्थाने कृष्णाजिने यज्ञं सादय स्थापय । ‘अन्येषामपि दृश्यते’ (पा० ६ । ३ । १३७) इति संहितायां क्रियापदस्य दीर्घः । यज्ञे क्रियमाणेऽवघातपेषणसोमनिधानादीनि कृष्णाजिन एव भवन्तीति कृष्णाजिनं सुकृतस्य योनिः ‘कृष्णाजिनं वै सुकृतस्य योनिः’ (६ । ४ । २ । ६) इति श्रुतेः। हे अग्ने, यतो देवावीः देवानवति प्रीणातीति देवावीः त्वं हविषा हव्येन कृत्वा देवान् यजासि यजसि । ‘लेटोऽडाटौ’ (पा. ३। ४ । ९४) इत्याडागमः । पूजयसि अतो यजमाने बृहन्महद्वय आयुरन्नं वा धाः धेहि । दधातेर्लुङि मध्यमैकवचने अधा इति प्राप्ते ‘बहुलं छन्दस्यमाङ्योगेऽपि’ (पा० ६ । ४ । ७५) इत्यडभावः ॥ ३५ ॥
षट्त्रिंशी।
अधिमन्त्रम् (VC)
- होता देवता
- देवश्रवदेववातावृषी
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर विद्वान् का क्या काम है, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) तेजस्वी विद्वन् ! (होतः) दान देनेवाले (चिकित्वान्) विज्ञान से युक्त आप (लोके) देखने योग्य (स्वे) सुख में (सीद) स्थित हूजिये (सुकृतस्य) अच्छे करने योग्य कर्म करने हारे धर्म्मात्मा के (योनौ) कारण में (यज्ञम्) धर्मयुक्त राज्य और प्रजा के व्यवहार को (सादय) प्राप्त कराइये (देवावीः) विद्वानों से रक्षित और शिक्षित होते हुए आप (हविषा) देने-लेने योग्य न्याय से (देवान्) विद्वानों या दिव्य गुणों को (यजासि) सत्कार सेवा संयोग कीजिये (यजमाने) राजा आदि मनुष्यों में बड़ी (वयः) उमर को (धाः) धारण कीजिये ॥३५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्वान् लोगों को चाहिये कि इस जगत् में दो कर्म निरन्तर करें। प्रथम ब्रह्मचर्य्य और जितेन्द्रियता आदि की शिक्षा से शरीर को रोगरहित, बल से युक्त और पूर्ण अवस्थावाला करें। दूसरे विद्या और क्रिया की कुशलता के ग्रहण से आत्मा का बल अच्छे प्रकार साधें कि जिस से सब मनुष्य शरीर और आत्मा के बल से युक्त हुए सब काल में आनन्द भोगें ॥३५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्विदुषः किं कृत्यमस्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! होतश्चिकित्वाँस्त्वं स्वे लोके सीद। सुकृतस्य योनौ यज्ञं सादय। देवावीः सँस्त्वं हविषा देवान् यजासि यजमाने वयोधाः ॥३५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - विद्वद्भिरस्मिन् जगति द्वे कर्मणी सततं कार्य्ये। आद्यं ब्रह्मचर्य्यजितेन्द्रियत्वादिशिक्षया शरीरारोग्यबलादियुक्तं चिरञ्जीवनमुत्तरं विद्याक्रियाकौशलग्रहणेनात्मबलं च संसाध्यम्, यतः सर्वे मनुष्याः शरीरात्मबलयुक्ताः सन्तः सर्वदानन्देयुः ॥३५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - विद्वान लोकांनी या जगात दोन प्रकारचे कर्म करावे. एक म्हणजे ब्रह्मचर्य व जितेन्द्रियता यांच्या साह्याने शरीर रोगरहित, बलयुक्त करून पूर्ण आयुष्य भोगावे. दुसरे म्हणजे विद्या व कर्मकौशल्य यांनी आत्म्याचे बल वाढवावे. सर्व माणसांनी या प्रकारे शरीर व आत्मा यांचे बल वाढवून सर्वकाळी आनंद भोगावा.
३६ नि होता
विश्वास-प्रस्तुतिः ...{Loading}...
नि होता॑ होतृ॒षद॑ने॒ विदा॑नस्त्वे॒षो दी॑दि॒वाँ२ऽअ॑सदत् सु॒दक्षः॑। अद॑ब्धव्रतप्रमति॒र्वसि॑ष्ठः सहस्रम्भ॒रः शुचि॑जिह्वोऽअ॒ग्निः ॥३६ ॥
मूलम् ...{Loading}...
नि होता॑ होतृ॒षद॑ने॒ विदा॑नस्त्वे॒षो दी॑दि॒वाँ२ऽअ॑सदत् सु॒दक्षः॑। अद॑ब्धव्रतप्रमति॒र्वसि॑ष्ठः सहस्रम्भ॒रः शुचि॑जिह्वोऽअ॒ग्निः ॥३६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नि। होता॑। हो॒तृ॒षद॑ने। हो॒तृ॒सद॑न॒ इति॑ होतृ॒सद॑ने। विदा॑नः। त्वे॒षः। दी॒दि॒वानिति॑ दीदि॒ऽवान्। अ॒स॒द॒त्। सु॒दक्ष॒ इति॑ सु॒ऽदक्षः॑। अद॑ब्धव्रतप्रमति॒रित्यद॑ब्धव्रतऽप्रमतिः। वसि॑ष्ठः। स॒ह॒स्र॒म्भ॒र इति॑ सहस्रम्ऽभ॒रः। शुचि॑जिह्व॒ इति॒ शुचि॑ऽजिह्वः। अ॒ग्निः। ३६।
महीधरः
म० आग्नेयी त्रिष्टुप् गृत्समददृष्टा । नित्युपसर्गोऽसददित्यनेन संबध्यते । अग्निः होतृषदने न्यसीदत् । होता यस्मिन् सीदति तद्धोतृषदनम् । होमनिष्पादकयोग्यस्थाने उत्तरवेदिरूपे सम्यगुपविष्टवान् । कीदृशोऽग्निः । होता देवानामाह्वाता । विदानः स्वाधिकारं जानन् । त्वेषः ‘त्विष दीप्तौ’ पचाद्यच् त्वेषतीति त्वेषः दीप्तिमान् । दीदिवान् दीव्यतीति दीदिवान् ‘दिवु क्रीडादौ’ अस्मात् क्वसुः । ‘तुजादीनां दीर्घोऽभ्यासस्य’ (पा० ६ । १ । | ७ ) इत्यभ्यासदीर्घः । ‘लोपो व्योर्वलि’ (पा०६।१।६६) इति वलोपः । होतृधिष्ण्यादौ गमनवान् । सुदक्षः साधुकुशलः क्षिप्रकारी । अदब्धव्रतप्रमतिः ‘दम्भु बधे’ अदब्धमनुपहतं व्रतं कर्म यस्य सोऽदब्धव्रतः प्रकृष्टा मतिर्बुद्धिर्यस्य स प्रमतिः अदब्धश्वासावप्रमतिश्चेति सः । तथा वसिष्ठः वसति स्वस्थान इति वस्ता अत्यन्तं वस्ता वसिष्ठः वस्तृतमः । ‘तुरिष्ठेमेयस्सु’ (पा० ६ । ४ । १५४ ) इतीष्ठनि परे तृचो लोपः । सहस्रंभरः सहस्रं सर्वजनं बिभर्ति पुष्णातीति सहस्रंभरः । शुचिजिह्वः शुचिः शुद्धा होमयोग्या जिह्वा ज्वाला यस्य सः । नानादेवत्यानि हवींष्यभ्यवहरन्नप्युच्छिष्टं न करोतीति भावः ॥ ३६ ॥
सप्तत्रिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- गृत्समद ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों का कर्त्तव्य अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो जन मनुष्यजन्म को पाके (होतृषदने) दानशील विद्वानों के स्थान में (दीदिवान्) धर्मयुक्त व्यवहार का चाहने (त्वेषः) शुभगुणों से प्रकाशमान (विदानः) ज्ञान बढ़ाने की इच्छा रखने (शुचिजिह्वः) सत्यभाषण से पवित्र वाणीयुक्त (सुदक्षः) अच्छे बलवाला (अदब्धव्रतप्रमतिः) रक्षा करने योग्य धर्माचरणरूपी व्रतों से उत्तम बुद्धियुक्त (वसिष्ठः) अत्यन्त वसने (सहस्रम्भरः) असंख्य शुभगुणों को धारण करनेवाला (होता) शुभगुणों का ग्राहक पुरुष निरन्तर (न्यसदत्) स्थित होवे तो वह सम्पूर्ण सुख को प्राप्त हो जावे ॥३६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जब माता-पिता अपने पुत्र तथा कन्याओं को अच्छी शिक्षा देके पीछे विद्वान् और विदुषी के समीप बहुत काल तक स्थितिपूर्वक पढ़वावें, तब वे कन्या और पुत्र सूर्य्य के समान अपने कुल और देश के प्रकाशक हों ॥३६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यकृत्यमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यदि नरो मनुष्यजन्म प्राप्य होतृषदने दीदिवान् त्वेषो विदानः शुचिजिह्वः सुदक्षोऽदब्धव्रतप्रमतिर्वसिष्ठः सहस्रम्भरो होता सततं न्यसदत्, तर्हि समग्रं सुखं प्राप्नुयात् ॥३६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदा मातापितरः स्वपुत्रान् कन्याश्च सुशिक्ष्य पुनर्विदुषो विदुष्यश्च समीपे चिरं संस्थाप्याध्यापयेयुस्तदा ताः सूर्य्य इव कुलदेशोद्दीपकाः स्युः ॥३६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जेव्हा आईवडील आपल्या मुलामुलींना पुष्कळ वर्षे विद्वान व विदुषी यांच्याकडे पाठवून चांगले शिक्षण देतात तेव्हा त्या मुलामुलींनी सूर्याप्रमाणे आपल्या कुळाची व देशाची कीर्ती सर्वत्र पसरवावी.
३७ संसीदस्व महाँ२ऽअसि
विश्वास-प्रस्तुतिः ...{Loading}...
सँसी॑दस्व म॒हाँ२ऽअ॑सि॒ शोच॑स्व देव॒वीत॑मः। वि धू॒मम॑ग्नेऽअरु॒षं मि॑येध्य सृ॒ज प्र॑शस्त दर्श॒तम् ॥३७ ॥
मूलम् ...{Loading}...
सँसी॑दस्व म॒हाँ२ऽअ॑सि॒ शोच॑स्व देव॒वीत॑मः। वि धू॒मम॑ग्नेऽअरु॒षं मि॑येध्य सृ॒ज प्र॑शस्त दर्श॒तम् ॥३७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सम्। सी॒द॒स्व॒। म॒हान्। अ॒सि॒। शोच॑स्व। दे॒व॒वीत॑म॒ इति॑ देव॒ऽवीत॑मः। वि। धू॒मम्। अ॒ग्ने॒। अ॒रु॒षम्। मि॒ये॒ध्य॒। सृ॒ज। प्र॒श॒स्तेति॑ प्रऽशस्त। द॒र्श॒तम्। ३७।
महीधरः
म० आग्नेयी बृहती प्रस्कण्वदृष्टा । तृतीयो द्वादशार्णोऽन्येऽष्टार्णाः । मेध्यशब्दस्य छान्दसो विप्रकर्षः । हे मियेध्य हे मेध्य । यज्ञिय यज्ञार्ह हे प्रशस्त उत्कृष्ट अग्ने, त्वं संसीदस्व पुष्करपर्णे सम्यगुपविश । यस्त्वं महानसि अनेकक्रतुहेतुत्वात् । स त्वं शोचस्व ‘शुच दीप्तौ’ दीप्यस्व । कीदृशस्वम् । देववीतमः देवान् वेति तर्पयति देववीः ‘वी कान्त्यादौ’ क्विप् । अतिशयेन देववीः देववीतमः । किंच दर्शतं दर्शनीयमरुषमरोचनं धूमं विसृज विमुञ्च । वीत्युपसर्गः सृजेत्यनेन संबध्यते । ‘इतो वा अयमूर्ध्वᳪं᳭ रेतः सिञ्चति धूमᳪं᳭ सामुत्र वृष्टिर्भवति’ इति | श्रुतिः ॥ ३७॥
अष्टत्रिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- प्रस्कण्व ऋषिः
- निचृदार्षी बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
इस पठन-पाठन विषय में अध्यापक कैसा होवे, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (प्रशस्त) प्रशंसा के योग्य (मियेध्य) दुष्टों को पृथक् करनेवाले (अग्ने) तेजस्वी विद्वन् ! (देववीतमः) विद्वानों को अत्यन्त इष्ट आप (विधूमम्) निर्मल (दर्शतम्) देखने योग्य (अरुषम्) सुन्दर रूप को (सृज) सिद्ध कीजिये तथा (शोचस्व) पवित्र हूजिये। जिस कारण आप (महान्) बड़े-बड़े गुणों से युक्त विद्वान् (असि) हैं, इसलिए पढ़ाने की गद्दी पर (संसीदस्व) अच्छे प्रकार स्थित हूजिये ॥३७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य विद्वानों का अत्यन्त प्रिय, अच्छे रूप, गुण और लावण्य से युक्त, पवित्र, बड़ा धर्मात्मा, आप्त विद्वान् होवे, वही शास्त्रों के पढ़ाने को समर्थ होता है ॥३७ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथेहाध्यापकः कीदृशः स्यादित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे प्रशस्त मियेध्याग्ने ! देववीतमस्त्वं विधूमं दर्शतमरुषं सृज शोचस्व च, यतस्त्वं महान् विद्वानसि, तस्मादध्यापने संसीदस्व ॥३७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यो मनुष्यो विदुषां प्रियतमः सुरूपगुणलावण्यसंपन्नः पवित्रोपचितो महानाप्तो विद्वान् भवेत्, स एव शास्त्राण्यध्यापयितुं शक्नोति ॥३७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जो मनुष्य विद्वानांमध्ये प्रिय, तेजस्वी, पवित्र, श्रेष्ठ धर्मात्मा, आप्त व विद्वान बनतो तोच शास्त्र शिकवू शकतो.
३८ अपो देवीरुपसृज
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒पो दे॒वीरुप॑सृज॒ मधु॑मतीरय॒क्ष्माय॑ प्र॒जाभ्यः॑। तासा॑मा॒स्थाना॒दुज्जि॑हता॒मोष॑धयः सुपिप्प॒लाः ॥३८ ॥
मूलम् ...{Loading}...
अ॒पो दे॒वीरुप॑सृज॒ मधु॑मतीरय॒क्ष्माय॑ प्र॒जाभ्यः॑। तासा॑मा॒स्थाना॒दुज्जि॑हता॒मोष॑धयः सुपिप्प॒लाः ॥३८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒पः। दे॒वीः। उप॑। सृ॒ज॒। मधु॑मती॒रिति॒ मधु॑ऽमतीः। अ॒य॒क्ष्माय॑। प्र॒जाभ्य॒ इति॑ प्र॒ऽजाभ्यः॑। तासा॑म्। आ॒स्थाना॒दित्या॒ऽस्थाना॑त्। उत्। जि॒ह॒ता॒म्। ओष॑धयः। सु॒पि॒प्प॒ला इति॑ सुऽपिप्प॒लाः। ३८।
महीधरः
म० ‘अपः श्वभ्रेऽवनयत्यपो देवीरिति’ (का० १६ । ३ । २)। मृत्पिण्डगर्ते जलं सिञ्चति । अब्देवत्या न्यङ्कुसारिणी सिन्धुद्वीपदृष्टा । द्वितीयो द्वादशार्णोऽन्ये त्रयोऽष्टार्णा यस्याः सा न्यङ्कुसारिणी । पूर्वर्चोऽग्ने इति संबोधनमध्याह्रियते । द्यौरध्वयुर्वा संबोध्यते । हे अग्ने, यद्वा हे द्यौः, यद्वा हे अध्वर्यो, देवीः देवनशीला अपः उपसृज अस्मिन् खननप्रदेशे आसिञ्च । कीदृशीरपः । मधुमतीः रसवतीः आरोग्यदात्रीः । किमर्थम् । प्रजाभ्यः अयक्ष्माय । पञ्चमी षष्ठ्यर्थे । यक्ष्मणोऽभावोऽयक्ष्मं तस्मै प्रजानामारोग्याय । तासां सिक्तानामपां स्थानात् सुक्षेत्ररूपादस्मात् खननप्रदेशात् । ओषधयः आ समन्तादुज्जिहतामुद्गच्छन्तु। कीदृश्य ओषधयः । सुपिप्पलाः शोभनं पिप्पलं फलं यासां ताः ॥ ३८॥
एकोनचत्वारिंशी।
अधिमन्त्रम् (VC)
- आपो देवताः
- सिन्धुद्वीप ऋषिः
- न्यङ्कुसारिणी बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
आगे जल आदि पदार्थों के शोधने से प्रजा में क्या होता है, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे श्रेष्ठ वैद्य पुरुष ! आप (मधुमतीः) प्रशंसित मधुर आदि गुणयुक्त (देवीः) पवित्र (अपः) जलों को (उपसृज) उत्पन्न कीजिये जिस से (तासाम्) उन जलों के (आस्थानात्) आश्रय से (सुपिप्पलाः) सुन्दर फलोंवाली (ओषधयः) सोमलता आदि ओषधियों को (प्रजाभ्यः) रक्षा करने योग्य प्राणियों के (अयक्ष्माय) यक्ष्मा आदि रोगों की निवृत्ति के लिये (उज्जिहताम्) प्राप्त हूजिये ॥३८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजा को चाहिये कि दो प्रकार के वैद्य रक्खे। एक तो सुगन्ध आदि पदार्थों के होम से वायु वर्षा जल और ओषधियों को शुद्ध करें। दूसरे श्रेष्ठ विद्वान् वैद्य होकर निदान आदि के द्वारा सब प्राणियों को रोगरहित रक्खें। इस कर्म के विना संसार में सार्वजनिक सुख नहीं हो सकता ॥३८ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ जलादिपदार्थशोधनेन प्रजासु किं जायत इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सद्वैद्य ! त्वं मधुमतीर्देवीरप उपसृज यतस्तासामास्थानात् सुपिप्पला ओषधयः प्रजाभ्योऽयक्ष्मायोज्जिहताम् ॥३८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - राज्ञा द्विविधा वैद्याः संरक्षणीयाः। एके सुगन्धादिहोमेन वायुवृष्ट्योषधीः शुद्धाः संपादयेयुः। अपरे सन्तो भिषजो विद्वांसो निदानादिद्वारा सर्वान् प्राणिनोऽरोगान् सततं रक्षयेयुः। नैतत्कर्मणा विना समष्टिसुखं कदाचित् संपद्यते ॥३८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजाजवळ दोन प्रकारचे वैद्य असावेत. एका वैद्याने सुगंधित पदार्थ यज्ञात टाकून वायू, वर्षा, जल व औषधी यांना शुद्ध करावे व दुसऱ्या श्रेष्ठ विद्वान वैद्याने रोगाचे निदान करून सर्व प्राण्यांना रोगरहित करावे. या कर्माखेरीज संसारात सार्वजनिक सुख मिळू शकत नाही.
३९ सं ते
विश्वास-प्रस्तुतिः ...{Loading}...
सं ते॑ वा॒युर्मा॑त॒रिश्वा॑ दधातूत्ता॒नाया॒ हृद॑यं॒ यद्विक॑स्तम्। यो दे॒वानां॒ चर॑सि प्रा॒णथे॑न॒ कस्मै॑ देव॒ वष॑डस्तु॒ तुभ्य॑म् ॥३९ ॥
मूलम् ...{Loading}...
सं ते॑ वा॒युर्मा॑त॒रिश्वा॑ दधातूत्ता॒नाया॒ हृद॑यं॒ यद्विक॑स्तम्। यो दे॒वानां॒ चर॑सि प्रा॒णथे॑न॒ कस्मै॑ देव॒ वष॑डस्तु॒ तुभ्य॑म् ॥३९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सम्। ते॒। वा॒युः। मा॒त॒रिश्वा॑। द॒धा॒तु॒। उ॒त्ता॒नायाः॑। हृद॑यम्। यत्। विक॑स्त॒मिति॒ विऽक॑स्तम्। यः। दे॒वाना॑म्। चर॑सि। प्रा॒णथे॑न। कस्मै॑। दे॒व॒। वष॑ट्। अ॒स्तु॒। तुभ्य॑म्। ३९।
महीधरः
म०. ‘सं त इति वातमपक्षिपति’ (का० १६ । ३।३)। पिण्डगर्ते वायुं प्रेरयति । त्रिष्टुप् अर्धं पृथिवीदेवत्यमर्धं वायुदेवत्यम् । हे पृथिवि, उत्तानायाः ऊर्ध्वाभिमुखेनावस्थितायास्ते तव यद्धृदयं हृदयसदृशं खननस्थानं विकस्तं पिण्डावटरूपेण विकसितम् । इडभाव आर्षः (पा. ७ । २ । ३४) । तत्स्थानं वायुः संदधातु पूर्वोक्तेन जलप्रक्षेपेण तृणादिपूरणेन च वायुर्यथा पूर्वं तथा सम्यक्करोतु । कीदृशो वायुः । मातरिश्वा मातर्यन्तरिक्षे सर्वप्राणिनामवच्छेदकारिणि श्वयति गच्छतीति मातरिश्वा । एवं पृथिवीमुक्त्वा वायुमाह । हे देव, द्योतनादिगुणयुक्त वायो, यस्त्वं देवानामग्न्यादीनां प्राणथेन प्राणभावेन चरसि प्राणानां भावः प्राणथं । भावे छान्दसस्थल्प्रत्ययः । कस्मै प्रजापतिरूपाय | तुभ्यमियं पृथिवी वषडस्तु वषट्कृता भवतु । ‘नो हैतावत्यन्याहुतिरस्ति यथैषा’ (६ । ४ । ३ । ४) इति श्रुतेः ॥ ३९ ॥
चत्वारिंशी।
अधिमन्त्रम् (VC)
- वायुर्देवता
- सिन्धुद्वीप ऋषिः
- विराट्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब स्त्री-पुरुष का कर्त्तव्यकर्म अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे पत्नि राणी ! (उत्तानायाः) बड़े शुभलक्षणों के विस्तार से युक्त (ते) आप का (यत्) जो (विकस्तम्) अनेक प्रकार से शिक्षा को प्राप्त हुआ (हृदयम्) अन्तःकरण हो उस को यज्ञ से शुद्ध हुआ (मातरिश्वा) आकाश में चलनेवाला (वायुः) पवन (संदधातु) अच्छे प्रकार पुष्ट करे। हे (देव) अच्छे सुख देने हारे पति स्वामी ! (यः) जो विद्वान् आप (प्राणथेन) सुख के हेतु प्राणवायु से (देवानाम्) धर्मात्मा विद्वानों का जिस अनेक प्रकार से शिक्षित हृदय को (चरसि) प्राप्त होते हो, उस (कस्मै) सुखस्वरूप (तुभ्यम्) आपके लिये मुझ से (वषट्) क्रिया की कुशलता (अस्तु) प्राप्त होवे ॥३९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - पूर्ण जवान पुरुष जिस ब्रह्मचारिणी कुमारी कन्या के साथ विवाह करे, उस के साथ विरुद्ध आचरण कभी न करे। जो कन्या पूर्ण युवती स्त्री जिस कुमार ब्रह्मचारी के साथ विवाह करे, उस का अनिष्ट कभी मन से भी न विचारे। इस प्रकार दोनों परस्पर प्रसन्न हुए प्रीति के साथ घर के कार्य्य संभालें ॥३९ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ स्त्रीपुरुषयोः कर्त्तव्यकर्माह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे पत्नि ! उत्तानायास्ते यद्विकस्तं हृदयं तद्यज्ञशोधितो मातरिश्वा वायुः संदधातु। हे देव पते स्वामिन् ! यस्त्वं प्राणथेन देवानां यद्विकस्तं हृदयं चरसि, तस्मै कस्मै तुभ्यं मत्तो वषडस्तु ॥३९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - पूर्णयुवा पुरुषो ब्रह्मचारिण्या सह विवाहं कुर्यात् तस्या अप्रियं कदाचिन्नाचरेत्। या स्त्री कन्या ब्रह्मचारिणा सहोपयमं कुर्य्यात् तस्यानिष्टं मनसापि न चिन्तयेत्। एवं प्रमुदितौ सन्तौ परस्परं संप्रीत्या गृहकृत्यानि संसाधयेताम् ॥३९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्या तरुण पुरुषाने ज्या तरुणीबरोबर विवाह केला त्याने तिच्या विरुद्ध कधीही वागू नये व जी युवती ज्या युवकाबरोबर विवाह करेल तिने त्याचे मनानेही अनिष्ट चिंतू नये. याप्रमाणे दोघांनी परस्पर प्रसन्न राहून प्रेमाने घरातील कार्ये करावीत.
४० सुजातो ज्योतिषा
विश्वास-प्रस्तुतिः ...{Loading}...
सुजा॑तो॒ ज्योति॑षा स॒ह शर्म॒ वरू॑थ॒मास॑द॒त् स्वः᳖। वासो॑ऽअग्ने वि॒श्वरू॑पँ॒ संव्य॑यस्व विभावसो ॥४० ॥
मूलम् ...{Loading}...
सुजा॑तो॒ ज्योति॑षा स॒ह शर्म॒ वरू॑थ॒मास॑द॒त् स्वः᳖। वासो॑ऽअग्ने वि॒श्वरू॑पँ॒ संव्य॑यस्व विभावसो ॥४० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सुजा॑त॒ इति॒ सुऽजा॑तः। ज्योति॑षा। स॒ह। शर्म्म॑। वरू॑थम्। आ। अ॒स॒द॒त्। स्व᳖रिति॒ स्वः᳖। वासः॑। अ॒ग्ने॒। वि॒श्वरू॑प॒मिति॑ वि॒श्वऽरू॑पम्। सम्। व्य॒य॒स्व॒। वि॒भा॒व॒सो॒ इति॑ विभाऽवसो। ४०।
महीधरः
म०. ‘आस्तीर्णयोरन्तानुद्गृह्णाति सुजात इति’ ( का० १६ । ३ । ५) अस्यार्थः । आस्तीर्णयोः कृष्णाजिनपुष्करपर्णयोः प्रान्तानूर्ध्वमादत्त इति । अग्निदेवत्यानुष्टुप् द्वितीयो नवार्णः । सुजातः सुष्ठूत्पन्नोऽयमग्निः ज्योतिषा स्वकीयेन तेजसा सह शर्म सुखं यथा भवति तथा स्वः स्वर्गसदृशं वरूथं वरणीयं गृहं कृष्णाजिननिर्मितमासदत् आसीदतु प्राप्नोतु । ‘त्रिवृता मुञ्जयोक्त्रेणोपनह्यति वासो अग्न इति’ (१६ । ३।६)। उद्गृहीतात्कृष्णाजिनपुष्करपर्णयोरन्तान्मुञ्जयोक्त्रेण बध्नात्युत्तरार्धेनेति सूत्रार्थः । हे विभावसो, विभा दीप्तिरेव वसु धनं यस्य स विभावसुः तत्संबोधनं हे विभावसो हे अग्ने, विश्वरूपं बहुप्रकाररूपं विचित्रं वासः वस्त्रं कृष्णाजिनरूपं संव्ययस्व सम्यक् परिधत्स्व । ‘व्येञ् संवरणे’ अस्य रूपम् ॥ ४० ॥
एकचत्वारिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- सिन्धुद्वीप ऋषिः
- भुरिगनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उक्त विषय का उपदेश अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (विभावसो) प्रकाशसहित धन से युक्त (अग्ने) अग्नि के तुल्य तेजस्वी ! (ज्योतिषा) विद्या-प्रकाश के (सह) साथ (सुजातः) अच्छे प्रसिद्ध आप (स्वः) सुखदायक (वरूथम्) श्रेष्ठ (शर्म्म) घर को (आसदत्) अच्छे प्रकार प्राप्त हूजिये (विश्वरूपम्) अनेक चित्र-विचित्ररूपी (वासः) वस्त्र को (संव्ययस्व) धारण कीजिये ॥४० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। विवाहित स्त्री पुरुषों को चाहिये कि जैसे सूर्य्य अपने प्रकाश से सब जगत् को प्रकाशित करता है, वैसे ही अपने सुन्दर वस्त्र और आभूष्णों से शोभायमान होके घर आदि वस्तुओं को सदा पवित्र रक्खें ॥४० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विभावसोऽग्ने ! ज्योतिषा सह सुजातस्त्वं स्वर्वरूथं शर्मासदत् सीद विश्वरूपं वासो संव्ययस्व ॥४० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। विवाहितौ स्त्रीपुरुषौ यथा सूर्य्यो भास्वरतया सर्वं प्रकाशते, तथा सुवस्त्रालङ्कारैरुज्ज्वलौ भूत्वा गृहादीनि वस्तूनि सदा पवित्राणि रक्षेताम् ॥४० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. विवाहित स्त्री-पुरुषांनी जगाला प्रकाशित करणाऱ्या सूर्याप्रमाणे तेजस्वी व सुंदर वस्त्र-आभूषणांनी सुशोभित होऊन घर सदैव निर्मळ ठेवावे.
४१ उदु तिष्ठ
विश्वास-प्रस्तुतिः ...{Loading}...
उदु॑ तिष्ठ स्वध्व॒रावा॑ नो दे॒व्या धि॒या। दृ॒शे च॑ भा॒सा बृ॑ह॒ता सु॑शु॒क्वनि॒राग्ने॑ याहि सुश॒स्तिभिः॑ ॥४१ ॥
मूलम् ...{Loading}...
उदु॑ तिष्ठ स्वध्व॒रावा॑ नो दे॒व्या धि॒या। दृ॒शे च॑ भा॒सा बृ॑ह॒ता सु॑शु॒क्वनि॒राग्ने॑ याहि सुश॒स्तिभिः॑ ॥४१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उत्। ऊँ॒ इत्यूँ॑। ति॒ष्ठ॒। स्व॒ध्व॒रेति॑ सुऽअध्वर। अव॑। नः॒। दे॒व्या। धि॒या। दृ॒शे। च॒। भा॒सा। बृ॒ह॒ता। सु॒शु॒क्वनि॒रिति॑ सुऽशु॒क्वनिः॑। आ। अ॒ग्ने॒। या॒हि॒। सु॒श॒स्तिभि॒रिति॑ सुश॒स्तिऽभिः॑। ४१।
महीधरः
म० ‘उत्तिष्ठति पिण्डमादायोदु तिष्ठेति’ (का० १६ । ३ । ७)। तं पिण्डं गृहीत्वोत्तिष्ठेदिति सूत्रार्थः । अग्निदेवत्या पथ्या बृहती विश्वमनोदृष्टा । तृतीयो द्वादशार्णः अन्ये अष्टार्णाः । हे स्वध्वर, शोभनोऽध्वरो यज्ञो येन सुष्ठु यागनिर्वाहक, हे अग्ने, उत्तिष्ठ । उ उत्तिष्ठैव उत्थाय च देव्या देवनस्वभावया धिया क्रीडापरया बुद्ध्या नोऽस्मानव पालय । ‘द्व्यचोऽतस्तिङः’ (पा. ६ । ३ । १३५) इति संहितायां दीर्घः । किंच हे अग्ने, सुशस्तिभिः शोभनकीर्तिभिः सह । यद्वा साधुशिष्टैरश्वैः कृत्वा आयाहि आगच्छ । किं कर्तुम् । बृहता भासा प्रौढेन तेजसा । दृशे सर्वान्प्राणिनो द्रष्टुम् । ‘दृशे विख्ये च’ (पा० ३ । ४ । ११) इति पश्यतेस्तुमर्थो निपातः । कीदृशस्त्वम् । सुशुक्वनिः साधु शुचो रश्मीन्वनति संभजति सुशुक्वनिः । रश्मिप्रसारक इत्यर्थः । आ अग्ने याहीति पदच्छेदः ॥ ४१ ॥
द्विचत्वारिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- विश्वमना ऋषिः
- भुरिगनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी विद्वानों का कृत्य अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (स्वध्वर) अच्छे माननीय व्यवहार करनेवाले सज्जन विद्वन् गृहस्थ ! आप निरन्तर (उत्तिष्ठ) पुरुषार्थ से उन्नति को प्राप्त हो के अन्य मनुष्यों को प्राप्त सदा किया कीजिये (देव्या) शुद्ध विद्या और शिक्षा से युक्त (धिया) बुद्धि वा क्रिया से (नः) हम लोगों की (अव) रक्षा कीजिये। हे (अग्ने) अग्नि के समान प्रकाशमान ! (सुशुक्वनिः) अच्छे पवित्र पदार्थों के विभाग करने हारे आप (उ) तर्क के साथ (दृशे) देखने को (बृहता) बड़े (भासा) प्रकाशरूप सूर्य्य के तुल्य (सुशस्तिभिः) सुन्दर प्रशंसित गुणों के साथ सब विद्याओं को (आ, याहि) प्राप्त हूजिये (च) और हमारे लिये भी सब विद्याओं को प्राप्त कीजिये ॥४१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। विद्वान् लोगों को चाहिये कि शुद्ध विद्या और बुद्धि के दान से सब मनुष्यों की निरन्तर रक्षा करें, क्योंकि अच्छी शिक्षा के विना मनुष्यों के सुख के लिये और कोई भी आश्रय नहीं है। इसलिये सब को उचित है कि आलस्य और कपट आदि कुकर्मों को छोड़ के विद्या के प्रचार के लिये सदा प्रयत्न किया करें ॥४१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्विद्वत्कृत्यमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्वध्वर सज्जन विद्वन् गृहस्थ ! त्वं सततमुत्तिष्ठ सर्वदा प्रयतस्व देव्या धिया नोऽव। हे अग्ने अग्निवत्प्रकाशमान ! सुशुक्वनिस्त्वमु दृशे बृहता भासा सूर्य्य इव सुशस्तिभिः सर्वा विद्याऽऽयाहि। अस्माँश्च प्रापय ॥४१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। विद्वद्भिः शुद्धविद्याप्रज्ञादानेन सर्वे सततं संरक्ष्याः। नहि सुशिक्षामन्तरा मनुष्याणां सुखायान्यत् किंचिच्छरणमस्ति, तस्मादालस्यकपटादीनि कुकर्माणि विहाय विद्याप्रचाराय सदा प्रयतितव्यम् ॥४१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार अहे. विद्वानांनी सत्य, विद्या, बुद्धिबल यांनी सर्व माणसांचे रक्षण करावे. कारण चांगल्या शिक्षणाखेरीज माणसांना सुख मिळू शकत नाही. यासाठी सर्वांनी आळस व कपट सोडून विद्येचा प्रसार करण्याचा प्रयत्न केला पाहिजे.
४२ ऊर्ध्वऽऊ षु
विश्वास-प्रस्तुतिः ...{Loading}...
ऊ॒र्ध्वऽऊ॒ षु ण॑ऽऊ॒तये॒ तिष्ठा॑ दे॒वो न स॑वि॒ता। ऊ॒र्ध्वो वाज॑स्य॒ सनि॑ता॒ यद॒ञ्जिभि॑र्वा॒घद्भि॑र्वि॒ह्वया॑महे ॥४२ ॥
मूलम् ...{Loading}...
ऊ॒र्ध्वऽऊ॒ षु ण॑ऽऊ॒तये॒ तिष्ठा॑ दे॒वो न स॑वि॒ता। ऊ॒र्ध्वो वाज॑स्य॒ सनि॑ता॒ यद॒ञ्जिभि॑र्वा॒घद्भि॑र्वि॒ह्वया॑महे ॥४२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ऊ॒र्ध्वः। ऊ॒ इत्यूँ॑। सु। नः॒। ऊ॒तये॑। तिष्ठ॑। दे॒वः। न। स॒वि॒ता। ऊ॒र्ध्वः। वाज॑स्य। सनि॑ता। यत्। अ॒ञ्जिभि॒रित्य॒ञ्जिऽभिः॑। वा॒घद्भि॒रिति॑ वा॒घत्ऽभिः॑। वि॒ह्वया॑महे॒ इति॑ वि॒ह्वया॑महे। ४२।
महीधरः
म० ‘ऊर्ध्वबाहुः प्राञ्चं प्रगृह्णात्यूर्ध्व ऊ षु ण इति’ ( का० १६।३। ८)। प्रसारितबाहुः प्राञ्चं पिण्डं गृह्णाति । अग्निदेवत्योपरिष्टाद्बृहती कण्वदृष्टा । चतुर्थः पादो द्वादशार्णोऽन्ये त्रयोऽष्टार्णाः सोपरिष्टाद्बृहती । हे अग्ने, नोऽस्माकमूतये रक्षणाय ऊर्ध्व ऊ सु तिष्ठ ऊर्ध्व एव सुतरामवस्थितो भव । ‘द्व्यचोऽतस्तिङः’ (पा० ६ । ३ । १३५) इति दीर्घः । तिष्ठा इत्यत्र ‘नश्च धातुस्थोरुषुभ्यः’ (पा० ८।४ । २७) इति न इत्यत्र णत्वम् । क इव । देवो न सविता । न इवार्थे । सविता । देव इव । यथा सविता देव ऊर्ध्वः सन्नस्मानवति तद्वत् स त्वमूर्ध्वः सन् वाजस्य सनिता भव अन्नस्य दाता भवेति शेषः । ‘षणु दाने’ । यद्यस्मात्कारणात् अञ्जिभिर्मन्त्राभिव्यञ्जकैर्वाघद्भिः हव्यवाहकैर्ऋत्विग्भिः सह त्वा विह्वयामहे विविधमाह्वयामः तस्मादूर्ध्व एव तिष्ठेति पूर्वत्रान्वयः । अञ्जन्ति व्यक्तीकुर्वन्तीत्यञ्जिनस्तैः । यद्वा अञ्जिभिः द्रव्याणां व्यञ्जकैः रश्मिभिः सहितं त्वां विह्वयामहे । कीदृशैरञ्जिभिः । वाघद्भिः हविषां वोढृभिः ॥ ४२ ॥
त्रिचत्वारिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- कण्व ऋषिः
- उपरिष्टाद् बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उक्त विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे अध्यापक विद्वान् ! आप (ऊर्ध्वः) ऊपर आकाश में रहनेवाले (देवः) प्रकाशक (सविता) सूर्य्य के (न) समान (नः) हमारी (ऊतये) रक्षा आदि के लिये (सुतिष्ठ) अच्छे प्रकार स्थित हूजिये (यत्) जो आप (अञ्जिभिः) प्रकट करने हारे किरणों के सदृश (वाघद्भिः) युद्धविद्या में कुशल बुद्धिमानों के साथ (वाजस्य) विज्ञान के (सनिता) सेवनेहारे हूजिये (उ) उसी को हम लोग (विह्वयामहे) विशेष करके बुलाते हैं ॥४२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। अध्यापक और उपदेशक विद्वान् को चाहिये कि जैसे सूर्य्य, भूमि और चन्द्रमा आदि लोकों से ऊपर स्थित होके, अपनी किरणों से सब जगत् की रक्षा के लिये प्रकाश करता है, वैसे उत्तम गुणों से विद्या और न्याय का प्रकाश करके सब प्रजाओं को सदा सुशोभित करें ॥४२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्विद्वत्कृत्यमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन्नध्यापक ! त्वमूर्ध्वः सविता देवो न न ऊतये सुतिष्ठ सुस्थिरो भव। यद्यस्त्वमञ्जिभिर्वाघद्भिः सह वाजस्य सनिता भव तमु वयं विह्वयामहे ॥४२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। अध्यापकोपदेशका जना यथा सविता भूमिचन्द्रादिभ्य उपरिस्थः सन् स्वज्योतिषा सर्वं संरक्ष्य प्रकाशयति, तथोत्कृष्टगुणैर्विद्यान्यायं प्रकाश्य सर्वाः प्रजाः सदा सुशोभयेयुः ॥४२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. सूर्य जसा भूमी व चंद्र इत्यादी ग्रह गोलांवर आपली प्रकाशकिरणे प्रसृत करतो व त्या प्रकाशाने जगाचे रक्षण करतो तसे अध्यापक व उपदेशक विद्वानांनी आपल्या उत्तम गुणांनी विद्या व न्याय यांच्या द्वारे सर्व प्रजेला उत्तम बनवावे.
४३ स जातो
विश्वास-प्रस्तुतिः ...{Loading}...
स जा॒तो गर्भो॑ऽअसि॒ रोद॑स्यो॒रग्ने॒ चारु॒र्विभृ॑त॒ऽओष॑धीषु। चि॒त्रः शिशुः॒ परि॒ तमाँ॑स्य॒क्तून् प्र मा॒तृभ्यो॒ऽअधि॒ कनि॑क्रदद् गाः ॥४३ ॥
मूलम् ...{Loading}...
स जा॒तो गर्भो॑ऽअसि॒ रोद॑स्यो॒रग्ने॒ चारु॒र्विभृ॑त॒ऽओष॑धीषु। चि॒त्रः शिशुः॒ परि॒ तमाँ॑स्य॒क्तून् प्र मा॒तृभ्यो॒ऽअधि॒ कनि॑क्रदद् गाः ॥४३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सः। जा॒तः। गर्भः॑। अ॒सि॒। रोद॑स्योः। अग्ने॑। चारुः॑। विभृ॑त॒ इति॒ विऽभृ॑तः। ओष॑धीषु। चि॒त्रः। शिशुः॑। परि॑। तमाँ॑सि। अ॒क्तून्। प्र। मा॒तृभ्य॑ इति॑ मा॒तृऽभ्यः॑। अधि॑। कनि॑क्रदत्। गाः॒। ४३।
महीधरः
म० ‘अवहृत्योपरिनाभि धारयन्नश्वप्रभृतीनभिमन्त्रयते स जातः स्थिरो भव शिवो भवेति’ (का० १६ । ३ । ९)। पिण्डं नीचैरवतार्य नाभ्युपरि हस्ताभ्यां धारयन्नश्वगर्दभाजान्स जात इत्यावृत्क्रमेण प्रतिमन्त्रं मन्त्रयते एकैकं पश्यन्नेकैकं मन्त्रं जपतीति सूत्रार्थः । अश्वदेवत्या त्रिष्टुप् त्रितदृष्टा । अश्वमग्नीकृत्य स्तौति । हे अग्ने, स त्वं रोदस्योः द्यावापृथिव्योर्गर्भः सन्निदानीं जातोऽसि । कीदृशस्त्वम् । चारुः शोभनः पूज्यः । ओषधीषु पुरोडाशादिलक्षणासु दातव्यासु विभृतः विहृतः । चित्रः नानावर्णाभिर्ज्वालाभिर्विचित्ररूपः । इदानीमुत्पन्नत्वात् शिशुः शंसनीयो वा । अक्तूनिति लिङ्गव्यत्ययः । अक्तूनि तमांसि रात्र्युपलक्षितानि अन्धकाराणि परि परिहरन् मातृभ्यो अधि ओषधिवनस्पतिभ्यः सकाशात् कनिक्रदत् अत्यन्तं शब्दं कुर्वन् प्रगाः प्रकर्षेण गच्छ । ‘इणो गा लुङि’ (पा. २ । ४ । ४५) | इति गादेशः अडभावश्छान्दसः ‘छन्दसि लुङ्लङ्लिटः ’ (पा० ३ । | ४।६) इति सर्वकाले लुड् । प्रेत्युपसर्गो गा इत्यनेन संबध्यते । ‘दाधर्तिदर्धर्ति-’ (पा० ७ । ४ । ६५) इत्यादिना कनिक्रददिति | यङ्लुगन्तो निपातः ॥ ४३ ॥
चतुश्चत्वारिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- त्रित ऋषिः
- विराट् त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब पिता-पुत्र का व्यवहार अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्वान् ! जो आप जैसे (रोदस्योः) आकाश और पृथिवी में (जातः) प्रसिद्ध (चारुः) सुन्दर (ओषधीषु) सोमलतादि ओषधियों में (विभृतः) विशेष करके धारण वा पोषण किया (चित्रः) आश्चर्य्यरूप (गर्भः) स्वीकार करने योग्य सूर्य्य (मातृभ्यः) मान्य करने हारी माता अर्थात् किरणों से (तमांसि) रात्रियों तथा (अक्तून्) अन्धेरों को (पर्य्यधिकनिक्रदत्) सब ओर से अधिक करके चलता हुआ (गाः) चलाता है, वैसे ही (शिशुः) बालक (गाः) विद्या को प्राप्त होवे ॥४३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे ब्रह्मचर्य्य आदि अच्छे नियमों से उत्पन्न किया पुत्र विद्या पढ़ के माता-पिता को सुख देता है, वैसे ही माता-पिता को चाहिये कि प्रजा को सुख देवें ॥४३ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ जनकापत्यव्यवहारमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! यस्त्वं यथा रोदस्योर्जातश्चारुरोषधीषु विभृतश्चित्रो गर्भोऽर्को मातृभ्यस्तमांस्यक्तून् पर्य्यधिकनिक्रदत् सन् गा गच्छति तथाभूतः शिशुर्गा विद्याः प्राप्नुहि ॥४३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यथा ब्रह्मचर्य्यादिसुनियमैर्जनितः पुत्रो विद्या अधीत्य पितरौ सुखयति, तथैव जनकौ प्रजाः सुखयेताम् ॥४३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्याप्रमाणे ब्रह्मचर्य इत्यादी नियमांनी उत्पन्न केलेला पुत्र विद्या शिकून माता व पिता यांना सुख देतो त्याप्रमाणेच माता व पिता यांनी प्रजेला (संतानांना) सुख द्यावे.
४४ स्थिरो भव
विश्वास-प्रस्तुतिः ...{Loading}...
स्थि॒रो भ॑व वी॒ड्व᳖ङ्गऽआ॒शुर्भ॑व वा॒ज्य᳖र्वन्। पृ॒थुर्भ॑व सु॒षद॒स्त्वम॒ग्नेः पु॑रीष॒वाह॑णः ॥४४ ॥
मूलम् ...{Loading}...
स्थि॒रो भ॑व वी॒ड्व᳖ङ्गऽआ॒शुर्भ॑व वा॒ज्य᳖र्वन्। पृ॒थुर्भ॑व सु॒षद॒स्त्वम॒ग्नेः पु॑रीष॒वाह॑णः ॥४४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स्थि॒रः। भ॒व॒। वी॒ड्व᳖ङ्ग॒ इति॑ वी॒डुऽअ॑ङ्गः। आ॒शुः। भ॒व॒। वा॒जी। अ॒र्व॒न्। पृ॒थुः। भ॒व॒। सु॒षदः॑। सु॒सद॒ इति॑ सु॒ऽसदः॑। त्वम्। अ॒ग्नेः। पु॒री॒ष॒वाह॑णः। पु॒री॒ष॒वाह॑न॒ इति॑ पुरीष॒ऽवाह॑नः। ४४।
महीधरः
म० रासभदेवत्यानुष्टुबुष्णिग्वा । इयर्ति प्रतिपदार्थं गच्छतीत्यर्वा रासभः हे अर्वन् गमनकुशल, स्थिरः चलनरहितः सन् त्वं वीड्वङ्गः दृढकायो भव । वीडुशब्दो दृढार्थः । वीडून्यङ्गानि यस्य सः । आशुः वेगवान्सन् वाजी अन्नहेतुर्भव । पृथुः विस्तीर्णः सन् अग्नेः सुषदः सुखासनः स्वास्थेयो भव । सुखेन सद्यते स्थीयते यस्मिन्स सुषदः । कीदृशस्त्वम् । पुरीषवाहणः पुरीषशब्देन पांशुरूपा मृदुच्यते तां वहतीति पुरीषं पशव्यं यवसं वहतीति वा पुरीषवाहणः । ‘कव्यपुरीषपुरीष्येषु ञ्युट्’ (पा० ३ । २ । ६५) इति ञ्युट्प्रत्ययः ॥ ४४ ॥
पञ्चचत्वारिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- त्रित ऋषिः
- विराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब माता-पिता अपने सन्तानों को किस प्रकार शिक्षा करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अर्वन्) विज्ञानयुक्त पुत्र ! तू विद्याग्रहण के लिये (स्थिरः) दृढ़ (भव) हो (वाजी) नीति को प्राप्त होके (वीड्वङ्गः) दृढ़ अति बलवान् अवयवों से युक्त (आशुः) शीघ्र कर्म करनेवाला (भव) हो (त्वम्) तू (अग्नेः) अग्निसंबन्धी (सुषदः) सुन्दर व्यवहारों में स्थित और (पुरीषवाहणः) पालन आदि शुभ कर्मों को प्राप्त करानेवाला (पृथुः) सुख का विस्तार करने हारा (भव) हो ॥४४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे अच्छे सन्तानो ! तुम को चाहिये कि ब्रह्मचर्य्य सेवन से शरीर का बल और विद्या तथा अच्छी शिक्षा से आत्मा का बल पूर्ण दृढ़ कर स्थिरता से रक्षा करो और आग्नेय आदि अस्त्रविद्या से शत्रुओं का विनाश करो। इस प्रकार माता-पिता अपने सन्तानों को शिक्षा करें ॥४४ ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ पितरौ स्वापत्यानि कथं शिक्षेयातामित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अर्वन् पुत्र ! त्वं विद्याग्रहणाय स्थिरो भव, वाजी वीड्वङ्ग आशुर्भव। त्वमग्नेः सुषदः पुरीषवाहणः पृथुर्भव ॥४४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे सुसन्तानाः ! युष्माभिर्ब्रह्मचर्येण शरीरबलं विद्यासुशिक्षाभ्यामात्मबलं पूर्णं दृढं कृत्वा स्थिरतया रक्षा विधेया। आग्नेयाऽस्त्रादिना शत्रुविनाशश्चेति मातापितरः स्वसन्तानान् सुशिक्षेयुः ॥४४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे उत्तम संतानांनो ! ब्रह्मचर्याने शरीराचे बल व विद्या आणि उत्तम शिक्षण यांनी आत्मबल वाढवा व स्थिरतेने त्यांचे रक्षण करा. आग्नेय अस्त्र-शस्त्र विद्येने शत्रूंचा नाश करा. अशा प्रकारे आई-वडिलांनी आपल्या मुलांना शिक्षण द्यावे.
४५ शिवो भव
विश्वास-प्रस्तुतिः ...{Loading}...
शि॒वो भ॑व प्र॒जाभ्यो॒ मानु॑षीभ्य॒स्त्वम॑ङ्गिरः। मा द्यावा॑पृथि॒वीऽअ॒भि शो॑ची॒र्मान्तरि॑क्षं॒ मा वन॒स्पती॑न् ॥४५ ॥
मूलम् ...{Loading}...
शि॒वो भ॑व प्र॒जाभ्यो॒ मानु॑षीभ्य॒स्त्वम॑ङ्गिरः। मा द्यावा॑पृथि॒वीऽअ॒भि शो॑ची॒र्मान्तरि॑क्षं॒ मा वन॒स्पती॑न् ॥४५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
शि॒वः। भ॒व॒। प्र॒जाभ्य॒ इति॑ प्र॒जाऽभ्यः॑। मानु॑षीभ्यः। त्वम्। अ॒ङ्गि॒रः॒। मा। द्यावा॑पृथि॒वीऽइति॒ द्यावा॑पृथि॒वी। अ॒भि। शो॒चीः॒। मा। अ॒न्तरि॑क्षम्। मा। वन॒स्पती॑न्। ४५।
महीधरः
म० अजदेवत्या पथ्याबृहती । अङ्गिरोभिर्ऋषिभिः पूर्वं संपादितत्वात् अङ्गसौष्ठवाद्वा अङ्गिरा अग्निः तत्संबोधनं हे अङ्गिर अग्निरूप अज, मानुषीभ्यः मनोः संबन्धिभ्यः प्रजाभ्योऽर्थे त्वं शिवः शान्तो भव । ‘अङ्गिरा वा अङ्गिराग्नेयोऽजः’ (६ । ४ । ४ । ४) इति श्रुतेः । किंच द्यावापृथिवी मा अभिशोचीः मा संतापय । तथान्तरिक्षं माभिशोचीः । तथा वनस्पतीन्माभिशोचीः ॥ ४५ ॥
षट्चत्वारिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- त्रित ऋषिः
- विराट् पथ्या बृहती छन्दः
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उन को प्रजा में कैसे वर्त्तना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अङ्गिरः) प्राणों के समान प्रिय सुसन्तान ! (त्वम्) तू (मानुषीभ्यः) मनुष्य आदि (प्रजाभ्यः) प्रसिद्ध प्रजाओं के लिये (शिवः) कल्याणकारी मङ्गलमय (भव) हो (द्यावापृथिवी) बिजुली और भूमि के विषय में (मा) मत (अभिशोचीः) अति शोच कर (अन्तरिक्षम्) अवकाश के विषय में (मा) मत शोच कर और (वनस्पतीन्) वट आदि वनस्पतियों का (मा) शोच मत कर ॥४५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सुसन्तानों को चाहिये कि प्रजा के प्रति मङ्गलाचारी हो के पृथिवी आदि पदार्थों के विषय में शोकरहित होवें, किन्तु इन सब पदार्थों की रक्षा विधान कर उपकार के लिये उत्साह के साथ प्रयत्न करें ॥४५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तैः प्रजासु कथं वर्त्तितव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अङ्गिरः ! त्वं मानुषीभ्यः प्रजाभ्यः शिवो भव, द्यावापृथिवी माभिशोचीरन्तरिक्षं माभिशोचीर्वनस्पतीन् माभिशोचीः ॥४५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सन्तानैः प्रजाः प्रति मङ्गलाचरणेन भूत्वा पृथिव्यादीनां मध्ये निश्शोकैः स्थातव्यम्। किन्त्वेषां रक्षां विधायोपकारायोत्साहतया प्रयतितव्यम् ॥४५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - उत्तम संतानांनी नेहमी लोकांचे कल्याण करावे. भूमी व पदार्थांबाबत अधिक दुःख करू नये. मात्र सर्व पदार्थांचे रक्षण करून जनकल्याणासाठी उत्साहाने प्रयत्न करावा.
४६ प्रैतु वाजी
विश्वास-प्रस्तुतिः ...{Loading}...
प्रैतु॑ वा॒जी कनि॑क्रद॒न्नान॑द॒द्रास॑भः॒ पत्वा॑। भर॑न्न॒ग्निं पु॑री॒ष्यं᳙ मा पा॒द्यायु॑षः पु॒रा। वृषा॒ग्निं वृष॑णं॒ भर॑न्न॒पां गर्भँ॑ समु॒द्रिय॑म्। अग्न॒ऽआया॑हि वी॒तये॑ ॥४६ ॥
मूलम् ...{Loading}...
प्रैतु॑ वा॒जी कनि॑क्रद॒न्नान॑द॒द्रास॑भः॒ पत्वा॑। भर॑न्न॒ग्निं पु॑री॒ष्यं᳙ मा पा॒द्यायु॑षः पु॒रा। वृषा॒ग्निं वृष॑णं॒ भर॑न्न॒पां गर्भँ॑ समु॒द्रिय॑म्। अग्न॒ऽआया॑हि वी॒तये॑ ॥४६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्र। ए॒तु॒। वा॒जी। कनि॑क्रदत्। नान॑दत्। रास॑भः। पत्वा॑। भर॑न्। अ॒ग्निम्। पु॒री॒ष्य᳙म्। मा। पा॒दि॒। आयु॑षः। पु॒रा। वृ॒षा॑। अ॒ग्निम्। वृष॑णम्। भर॑न्। अ॒पाम्। गर्भ॑म्। स॒मु॒द्रिय॑म्। अग्ने॑। आ। या॒हि॒। वी॒तये॑। ४६।
महीधरः
म० ‘धारयत्येषामुपरि पिण्डमनुपस्पृशन् प्रेतु वाजी वृषाग्निमित्यश्वखरयोरिति’ (का० १६ । ३ । १०)। अश्वादीनामुपरि पिण्डं धारयति तानस्पृशन्प्रैतु वाजीत्यश्वोपरि वृषाग्निमिति खरोपरीति सूत्रार्थः । महापङ्क्तिस्त्र्यवसाना अष्टार्णषट्पादा महापङ्तिः त । आद्यावर्धर्चावश्वदेवत्यौ तृतीयोऽर्धर्चो रासभदेवत्यः तृतीयतुर्यौ पादौ व्यूह्यौ । वाजी अश्वः प्रैतु प्रकर्षेण गच्छतु । किं कुर्वन् । कनिक्रदन् अत्यर्थं हेषितशब्दं कुर्वन् । यङ्लुगन्तम् । रासभश्च प्रैतु यवसवाहनार्थम् । किं कुर्वन् । नानदत् सोपहासमुच्यते । गर्दभरटितेन सर्वा दिशो नादयन् । यङ्लुगन्तम् । कीदृशो रासभः । पत्वा पतनशीलः । ‘पत्लृ गतौ’ इत्यस्मात् ‘अन्येभ्योऽपि दृश्यन्ते’ (पा० ३ । २ । ७५) इति | क्वनिप् । अश्वमन्त्रे रासभोपादानं रासभोपहासार्थम् । तथा च श्रुतिः ‘यदश्वस्य यजुषि रासभं निराह तद्रासभे शुचं दधातीति’ (६ । ४ । ४ । ७)। किंच अयमश्वः पुरीष्यं पशव्यमग्निं भरन्धारयन् । आयुषः पुरा कर्मणः पूर्वं । मा पादि मा विनश्यतु । कर्मसमाप्तिपर्यन्तं जीवत्वित्यर्थः । आयुःशब्देन श्रुत्या कर्मोक्तम् । यज्ञसंबन्धेनैवाश्वादीनां स्तुतिः क्रियते । अथ रासभमन्त्रः । वृषा सेक्ता रासभः अग्निं भरन्धारयन्सन् प्रैतु इति शेषः । कीदृशमग्निम् । वृषणं सेक्तारं फलाभिवर्षणसमर्थम् । आहुतिपरिणामेनेति भावः । अपां गर्भम् । जलमध्येऽवस्थानादेवमुच्यते । मेघस्थानां जलानां मध्ये विद्युद्रूपं वा । समुद्रियं समुद्रे वडवाग्निरूपेणोत्पन्नम् । यद्वा समुद्रे अग्निचयने भवः समुद्रियः तम् । ‘त्रयो ह वै समुद्रा अभिर्यजुषां महाव्रतᳪं᳭ साम्नां महदुक्थमृचाम्’ इति श्रुतेः । ‘अग्न आयाहीत्याहृत्य खराच्छागस्यर्तᳪं᳭ सत्यमित्या निधानात्’ (का० १६ । ३ । ११)। अग्न इति मन्त्रेण रासभात्पिण्डमाहृत्य ऋतं सत्यमिति मन्त्रेणाजस्योपरि पिण्डं धारयेत् परिवृते निधानपर्यन्तमिति सूत्रार्थः । एकपदा गायत्री अग्निदेवत्या । हे अग्ने, वीतये हविर्भक्षणाय आयाहि आगच्छ ॥ ४६॥
सप्तचत्वारिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- त्रित ऋषिः
- ब्राह्मी बृहती छन्दः
- मध्यमः
४७ ऋतं सत्यमृतम्
विश्वास-प्रस्तुतिः ...{Loading}...
ऋ॒तँ स॒त्यमृ॒तँ स॒त्यम॒ग्निं पु॑री॒ष्य᳖मङ्गिर॒स्वद्भ॑रामः। ओष॑धयः॒ प्रति॑मोदध्वम॒ग्निमे॒तँ शि॒वमा॒यन्त॑म॒भ्यत्र॑ यु॒ष्माः। व्यस्य॒न् विश्वा॒ऽअनि॑रा॒ऽअमी॑वा नि॒षीद॑न्नो॒ऽअप॑ दुर्म॒तिं ज॑हि ॥४७ ॥
मूलम् ...{Loading}...
ऋ॒तँ स॒त्यमृ॒तँ स॒त्यम॒ग्निं पु॑री॒ष्य᳖मङ्गिर॒स्वद्भ॑रामः। ओष॑धयः॒ प्रति॑मोदध्वम॒ग्निमे॒तँ शि॒वमा॒यन्त॑म॒भ्यत्र॑ यु॒ष्माः। व्यस्य॒न् विश्वा॒ऽअनि॑रा॒ऽअमी॑वा नि॒षीद॑न्नो॒ऽअप॑ दुर्म॒तिं ज॑हि ॥४७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ऋ॒तम्। स॒त्यम्। ऋ॒तम्। स॒त्यम्। अ॒ग्निम्। पु॒री॒ष्य᳖म्। अ॒ङ्गि॒र॒स्वत्। भ॒रा॒मः॒। ओष॑धयः। प्रति॑। मो॒द॒ध्व॒म्। अ॒ग्निम्। ए॒तम्। शि॒वम्। आ॒यन्त॒मित्या॒ऽयन्त॑म्। अ॒भि। अत्र॑। यु॒ष्माः। व्यस्य॒न्निति॑ वि॒ऽअस्य॑न्। विश्वाः॑। अनि॑राः। अमी॑वाः। नि॒षीद॑न्। नि॒सीद॒न्निति॑ नि॒ऽसीद॑न्। नः॒। अप॑। दु॒र्म॒तिमिति॑ दुःऽम॒तिम्। ज॒हि॒। ४७।
महीधरः
म० अग्निदेवत्वं यजुः प्राजापत्या गायत्री । ऋतसत्यशब्दाभ्यामादित्याग्नी विवक्षितौ । ऋतमादित्यः सत्यमग्निः तादृगुभयरूपमग्निमध्याहरामीति शेषः । ऋतं सत्यमिति पुनर्वचनमादरार्थम् । ‘अनद्धापुरुषमीक्षते पूर्ववदग्निं पुरीष्यमिति’ (का. १६ । ३ । १३ ।)। देवपितृकार्यविमुखोऽनद्धापुरुषस्तमध्वर्युरीक्षते अग्निषु ज्वलत्स्वाहवनीयान्ते स्थित इति पूर्ववत् पदेन लभ्यत इति सूत्रार्थः । आग्नेयं यजुः सामगायत्री । पशव्यमग्निमङ्गिरसो मुनय इव भरामः हरामः । ‘उत्तरत आहवनीयस्योद्धतावोक्षिते सिकतोपकीर्ण परिवृत्ते प्राग्द्वारे पिण्डं निदधात्योषधय इति’ (का. १६ । ३ । १४)। उखासंभरणार्थमुद्धृतस्याहवनीयस्योत्तरे पूर्वमेव कृते परिवृते आच्छादितप्रदेशे ओषधय इति मन्त्राभ्यां पिण्डं स्थापयति । कीदृशे परिवृते । उद्धृते कृतोल्लेखने अवोक्षिते सिक्ते प्राग्दिशि द्वारं यस्य तादृशे सिकताव्याप्ते एतादृशे इति सूत्रार्थः । त्रिष्टुबनुष्टभावोषधिदेवत्ये । व्यस्यन्नित्यर्धर्चोऽग्निदैवतः । हे ओषधयः, यूयमेतमग्निं प्रतिमोदध्वमभ्युत्थानादिभिः प्रतिहर्षयत । कीदृशमग्निम् । शिवं शान्तम् । अत्रास्मिन् प्रदेशे स्थिताः युष्माः युष्मानभिमुखीकृत्य आयन्तमागच्छन्तम् । एवमर्धर्चेनोषधीरुक्त्वाथाग्निमाह । हे अग्ने, त्वमत्र निषीदन्निविशमानः सन्नोऽस्माकं दुर्मतिं दुर्बुद्धिं नास्ति दत्तं नास्ति हुतमित्येवमादिकामपजहि अपनय । किं कुर्वन् । विश्वाः सर्वा अनिराः ईतीः अमीवा व्याधींश्च व्यस्यन्निरस्यन् । नास्ति इरा अन्नं याभिस्ता अनिराः । इरेत्यन्ननाम । अतिवृष्ट्याद्याः ॥ ४७ ॥
अष्टचत्वारिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- त्रित ऋषिः
- विराड् ब्राह्मी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को क्या-क्या आचरण करना और क्या-क्या छोड़ना चाहिये, यह विषय अगले मन्त्र में कहा है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सुसन्तानो ! जैसे हम लोग (ऋतम्) यथार्थ (सत्यम्) नाशरहित (ऋतम्) अव्यभिचारी (सत्यम्) सत्पुरुषों में श्रेष्ठ तथा सत्य मानना बोलना और करना (पुरीष्यम्) रक्षा के साधनों में उत्तम (अग्निम्) बिजुली को (अङ्गिरस्वत्) वायु के तुल्य (भरामः) धारण करते हैं (एतम्) इस पूर्वोक्त (आयन्तम्) प्राप्त हुए (शिवम्) मङ्गलकारी (अग्निम्) बिजुली को प्राप्त हो के तुम लोग भी (अभिमोदध्वम्) आनन्दित रहो जो (ओषधयः) जौ आदि ओषधि (युष्माः) तुम्हारे (प्रति) लिये प्राप्त होवें उन को हम लोग धारण करते हैं, वैसे तुम भी करो। हे वैद्य ! आप (विश्वाः) सब (अनिराः) जो निरन्तर देने योग्य नहीं (अमीवाः) ऐसी रोगों की पीड़ा (व्यस्यन्) अनेक प्रकार से अलग करते और (अत्र) इस आयुर्वेदविद्या में (निषीदन्) स्थित हो के (नः) हम लोगों की (दुर्मतिम्) दुष्ट बुद्धि को (अपजहि) सब प्रकार दूर कीजिये, सब इस प्रकार इस वैद्य की प्रार्थना करो ॥४७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! तुम लोगों को उचित है कि यथार्थ अविनाशी परकारण ब्रह्म, दूसरा कारण यथार्थ अविनाशी अव्यक्त जीव, सत्यभाषणादि तथा प्रकृति से उत्पन्न हुए अग्नि और ओषधि आदि पदार्थों के धारण से शरीर के ज्वर आदि रोगों और आत्मा के अविद्या आदि दोषों को छुड़ा के मद्य आदि द्रव्यों के त्याग से अच्छी बुद्धि कर और सुख को प्राप्त हो के नित्य आनन्द में रहो और कभी इससे विपरीत आचरण कर सुख को छोड़ के दुःखसागर में मत गिरो ॥४७ ॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यैः किं किमाचरणीयं किं किं च त्यक्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सन्तानाः ! यथा वयमृतं सत्यमृतं सत्यं पुरीष्यमग्निमङ्गिरस्वद् भरामः। एतमायन्तं शिवमग्निं भृत्वा यूयमप्यभिमोदध्वम्। या ओषधयो युष्माः प्रति प्राप्नुवन्ति ता वयं भरामः। हे वैद्य ! त्वं विश्वा अनिरा अमीवा व्यस्यन्नत्र निषीदन्नो दुर्मतिमपजहि दूरीकुर्वित्येनं प्रार्थयत ॥४७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्या ऋतं सत्यं परं सत्यं कारणं ब्रह्मापरमृतं सत्यमव्यक्तं जीवाख्यं सत्यभाषणादिकं प्रकृतिजमग्न्योषधिसमूहं च विद्यया शरीरस्य ज्वरादिरोगानात्मनोऽविद्यादींश्च निरस्य मादकद्रव्यत्यागेन सुमतिं संपाद्य सुखं प्राप्य नित्यं मोदन्तां मा कदाचिदेतद्विपरीताचरणेन सुखं हित्वा दुःखसागरे पतन्तु ॥४७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! ब्रह्म हे यथार्थ अविनाशी कारण असते हे जाणा. दुसरे यथार्थ अविनाशी कारण अव्यक्त जीव होय. प्रकृतीपासून उत्पन्न झालेला अग्नी व औषधी यांच्याद्वारे शरीरातील ज्वर वगैरे रोग नष्ट करा. सत्यभाषणाने आत्म्याला अविद्य इत्यादी दोषांपासून दूर करून मद्य वगैरे द्रव्यांचा त्याग करा. निर्मळ बुद्धीने सुख प्राप्त करून नित्य आनंदात राहा. याविरुद्ध आचरण कधीही करू नका. सुख सोडून दुःखसागरात कधीही पडू नका.
४८ ओषधयः प्रतिगृभ्णीत
विश्वास-प्रस्तुतिः ...{Loading}...
ओष॑धयः॒ प्रति॑गृभ्णीत॒ पुष्प॑वतीः सुपिप्प॒लाः। अ॒यं वो॒ गर्भ॑ऽऋ॒त्वियः॑ प्र॒त्नँ स॒धस्थ॒मास॑दत् ॥४८ ॥
मूलम् ...{Loading}...
ओष॑धयः॒ प्रति॑गृभ्णीत॒ पुष्प॑वतीः सुपिप्प॒लाः। अ॒यं वो॒ गर्भ॑ऽऋ॒त्वियः॑ प्र॒त्नँ स॒धस्थ॒मास॑दत् ॥४८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ओष॑धयः। प्रति॑। गृ॒भ्णी॒त॒। पुष्प॑वती॒रिति॒ पुष्प॑ऽवतीः। सु॒पि॒प्प॒ला इति॑ सुऽपिप्प॒लाः। अ॒यम्। वः॒। गर्भः॑। ऋ॒त्वियः॑। प्र॒त्नम्। स॒धस्थ॒मिति॑ स॒धऽस्थ॑म्। आ। अ॒स॒द॒त्। ४८।
महीधरः
म० हे ओषधयः, एतमग्निं प्रतिगृभ्णीत गृह्णीत स्वीकुरुत । । यूयं कीदृश्यः पुष्पवतीः ‘वा छन्दसि’ (पा० ६।१।१०६) इति पूर्वसवर्णदीर्घः । पुष्पवत्यः प्रशस्तपुष्पोपेताः । सुपिप्पलाः शोभनं पिप्पलं फलं यासां ताः । किंच ऋत्वियः ऋतव्यः ऋतुः प्राप्तोऽस्य ‘छन्दसि घस्’ (पा० १ । १०६) इति कालप्राप्तौ घस्प्रत्ययः । ऋतुकालीनः प्राप्तकालः वो युष्माकं गर्भो भूत्वाऽयमग्निः प्रत्नं पुरातनं सधस्थं सहस्थानं गर्भयोग्यस्थानमासदत् आसीदति ॥ ४८॥
एकोनपञ्चाशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- त्रित ऋषिः
- भुरिगनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
स्त्रियों को क्या-क्या आचरण करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रियो ! तुम लोग जो (ओषधयः) सोमलता आदि ओषधि हैं जिन से (अयम्) यह (ऋत्वियः) ठीक ऋतु काल को प्राप्त हुआ (गर्भः) गर्भ (वः) तुम्हारे (प्रत्नम्) प्राचीन (सधस्थम्) नियत स्थान गर्भाशय को (आ असदत्) प्राप्त होवे उन (पुष्पवतीः) श्रेष्ठ पुष्पोंवाली (सुपिप्पलाः) सुन्दर फलों से युक्त ओषधियों को (प्रतिगृभ्णीत) निश्चय करके ग्रहण करो ॥४८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - माता-पिता को चाहिये कि अपनी कन्याओं को व्याकरण आदि शास्त्र पढ़ा के वैद्यक शास्त्र पढ़ावें, जिससे ये कन्या लोग रोगों का नाश और गर्भ का स्थापन करनेवाली ओषधियों को जान और अच्छे सन्तानों को उत्पन्न करके निरन्तर आनन्द भोगें ॥४८ ॥
दयानन्द-सरस्वती (सं) - विषयः
स्त्रियोऽपि किं किमाचरेयुरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रियः ! यूयं या ओषधयः सन्ति, याभ्योऽयमृत्वियो गर्भो वः प्रत्नं सधस्थं गर्भाशयमासदत्, ताः पुष्पवतीः सुपिप्पला ओषधीः प्रति गृभ्णीत ॥४८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मातापितृभ्यां कन्याभ्यो व्याकरणादिकमध्याप्य वैद्यकशास्त्रमप्यध्यापनीयम्। यत इमा आरोग्यकारिका गर्भसंपादिनीरोषधीर्विज्ञाय सुसन्तानान्युत्पाद्य सततं प्रमोदेरन् ॥४८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - आई-वडिलांनी आपल्या मुलींना व्याकरण इत्यादी शास्त्र शिकवून वैद्यकशास्रही शिकवावे. ज्यामुळे त्यांना रोगांचा नाश करण्याचे व गर्भ स्थापन करणाऱ्या औषधांचे ज्ञान व्हावे आणि चांगल्या संतानांना जन्म देऊन सदैव आनंद भोगता यावा.
४९ वि पाजसा
विश्वास-प्रस्तुतिः ...{Loading}...
वि पाज॑सा पृ॒थुना॒ शोशु॑चानो॒ बाध॑स्व द्वि॒षो र॒क्षसो॒ऽअमी॑वाः। सु॒शर्म॑णो बृह॒तः शर्म॑णि स्याम॒ग्नेर॒हँ सु॒हव॑स्य॒ प्रणी॑तौ ॥४९ ॥
मूलम् ...{Loading}...
वि पाज॑सा पृ॒थुना॒ शोशु॑चानो॒ बाध॑स्व द्वि॒षो र॒क्षसो॒ऽअमी॑वाः। सु॒शर्म॑णो बृह॒तः शर्म॑णि स्याम॒ग्नेर॒हँ सु॒हव॑स्य॒ प्रणी॑तौ ॥४९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वि। पाज॑सा। पृ॒थुना॑। शोशु॑चानः। बाध॑स्व। द्वि॒षः। र॒क्षसः॑। अमी॑वाः। सु॒शर्म्म॑ण॒ इति॑ सु॒ऽशर्म॑णः। बृ॒ह॒तः। शर्म॑णि। स्या॒म्। अ॒ग्नेः। अ॒हम्। सु॒हव॒स्येति॑ सु॒ऽहव॑स्य। प्रणी॑तौ। प्रनी॑ता॒विति॒ प्रऽनी॑तौ। ४९।
महीधरः
म० वि पाजसेति प्रमुच्यैनमजलोमान्यादाय प्रागुदीचः पशूनुत्सृजति’ (का० १६ । ३ । १५)। वि पाजसेतीति मन्त्रेणैनं पिण्डं कृष्णाजिनबद्धं विस्रंस्य छागरोमाणि गृहीत्वाश्वादीनैशानीं दिशं प्रत्युत्सृजतीति सूत्रार्थः । अग्निदेवत्या त्रिष्टुबुत्कीलदृष्टा । वीत्युपसर्गो बाधस्वेत्यनेन संबध्यते । हे अग्ने, द्विषः शत्रून् रक्षसः राक्षसान् अमीवाः व्याधींश्च त्वं विबाधस्व विशेषेण निवर्तय । कीदृशस्त्वम् । पृथुना विस्तीर्णेन पाजसा बलेन शोशुचानः अत्यन्तं दीप्यमानः । पाज इति बलनाम । शोचतेर्यङन्ताच्छानच्प्रत्ययः । एवं प्रत्यक्षमुक्त्वा परोक्षमाह । अग्ने प्रणीतौ प्रणयने अभ्यनुज्ञायां परिचर्यायां सत्यामहं शर्मणि शरणे सुखे वा स्यां भवेयम् । सुखं प्राप्नुयामित्यर्थः । कीदृशस्याग्नेः । सुशर्मणः साधुशरणस्य शोभनं शर्म सुखं यस्मात्स सुशर्मा तस्य । बृहतः प्रौढस्य । सुहवस्य सुखेनाह्वातुं शक्यस्य । अस्तेर्लिङि उत्तमैकवचने स्यामिति रूपम् ॥ ४९ ॥
पञ्चाशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- उत्कील ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
विवाह के समय स्त्री और पुरुष क्या-क्या प्रतिज्ञा करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे पते ! जो आप (पृथुना) विस्तृत (वि) विविध प्रकार के (पाजसा) बल के साथ (शोशुचानः) शीघ्र शुद्धता से सदा वर्त्तें और (अमीवाः) रोगों के समान प्राणियों की पीड़ा देने हारी (रक्षसः) दुष्ट (द्विषः) शत्रुरूप व्यभिचारिणी स्त्रियों को (बाधस्व) ताड़ना देवें तो मैं (बृहतः) बड़े (सुशर्मणः) अच्छे शोभायमान (सुहवस्य) सुन्दर लेना-देना व्यवहार जिसमें हो, ऐसे (अग्नेः) अग्नि के तुल्य प्रकाशमान आपके (शर्मणि) सुखकारक घर में और (प्रणीतौ) उत्तम धर्मयुक्त नीति में आपकी स्त्री (स्याम्) होऊँ ॥४९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विवाह समय में स्त्री-पुरुष को चाहिये कि व्यभिचार छोड़ने की प्रतिज्ञा कर व्यभिचारिणी स्त्री और लम्पट पुरुषों का सङ्ग सर्वथा छोड़ आपस में भी अति विषयासक्ति को छोड़ और ऋतुगामी होके परस्पर प्रीति के साथ पराक्रमवाले सन्तानों को उत्पन्न करें, क्योंकि स्त्री वा पुरुष के लिये अप्रिय, आयु का नाशक, निन्दा के योग्य कर्म व्यभिचार के समान दूसरा कोई भी नहीं है, इसलिये इस व्यभिचार कर्म को सब प्रकार छोड़ और धर्माचरण करनेवाले हो के पूर्ण अवस्था के सुख को भोगें ॥४९ ॥
दयानन्द-सरस्वती (सं) - विषयः
विवाहसमये स्त्रीपुरुषौ किं किं प्रतिजानीयातामित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे पते ! यदि त्वं पृथुना विपाजसा बलेन सह शोशुचानः सदा वर्त्तेथाः, अमीवा रक्षसो द्विषो बाधस्व, तर्हि बृहतः सुशर्मणः सुहवस्याग्नेस्ते शर्मणि प्रणीतौ चाहं पत्नी स्याम् ॥४९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - विवाहसमये पुरुषेण स्त्रिया च व्यभिचारत्यागस्य प्रतिज्ञां कृत्वा व्यभिचारिणीनां स्त्रीणां लम्पटानां पुरुषाणां च सर्वथा सङ्गं त्यक्त्वा परस्परमप्यतिविषयासक्तिं विहाय ऋतुगामिनौ भूत्वान्योऽन्यं प्रीत्या वीर्यवन्त्यपत्यान्युत्पादयेताम्। नहि व्यभिचारेण तुल्यं स्त्रियाः पुरुषस्य चाप्रियमनायुष्यमकीर्तिकरं कर्म विद्यते, तस्मादेतत् सर्वथा त्यक्त्वा धर्माचारिणौ भूत्वा दीर्घायुषौ स्याताम् ॥४९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - स्त्री - पुरुषांनी विवाहाच्या वेळी व्यभिचार न करण्याची प्रतिज्ञा करावी. व्यभिचारिणी स्त्री व लंपट पुरुषांचा संग सर्वथा सोडून द्यावा. अतिविषयासक्ती सोडावी व ऋतुगामी बनून परस्पर प्रेमाने राहावे आणि पराक्रमी संतानांना निर्माण करावे. कारण व्यभिचाराशिवाय स्री-पुरुषांना अप्रिय वाटणारे, आयुष्याचा नाश करणारे, दुसरे निंदनीय कर्म नाही. त्यासाठी व्यभिचार कर्म सोडून धर्माचरणाने पूर्ण आयुष्याचे सुख भोगावे.
५० आपो हि
विश्वास-प्रस्तुतिः ...{Loading}...
आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ऽऊ॒र्जे द॑धातन। म॒हे रणा॑य॒ चक्ष॑से ॥५० ॥
मूलम् ...{Loading}...
आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ऽऊ॒र्जे द॑धातन। म॒हे रणा॑य॒ चक्ष॑से ॥५० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आपः॑। हि। स्थ। म॒यो॒भुव॒ इति॑ मयः॒ऽभुवः॑। ताः। नः॒। ऊ॒र्जे। द॒धा॒त॒न॒। म॒हे। रणा॑य। चक्ष॑से। ५०।
महीधरः
म० ‘आपो हि ष्ठेति पर्णकषायपक्वमुदकमासिञ्चति पिण्डे’ (का. १६ । ३ । १७) । पलाशत्वक्क्वथितं जलं पिण्डे ऋक्त्रयेण क्षिपेदिति सूत्रार्थः । अब्देवतास्तिस्रो गायत्र्यः सिन्धुद्वीपदृष्टाः । हिशब्दः एवार्थः प्रसिद्ध्यर्थो यस्मादर्थो वा । हे आपः, यूयमेव मयोभुवः सुखस्य भावयित्र्यः स्थ भवथ । मयः सुखं भावयन्ति प्रापयन्ति ता मयोभुवः यस्मात्कारणान्मयोभुवः स्थेति वा स्नानपानादिहेतुत्वेन सुखोत्पादकत्वमपां प्रसिद्धम् तास्तादृश्यो यूयं नोऽस्मानूर्जे रसाय भवदीयरसानुभवार्थं दधातन स्थापयत । ‘तप्तनप्तनथनाश्च’ (पा० ७ । १ । ४५) इति लोण्मध्यमबहुवचनस्य तनबादेशे दधातनेति रूपम् । यथा वयं सर्वस्य भोग्यस्य रसस्य भोक्तारो भवेम तथास्मान्कुरुतेति भावः । किंच महे महते रणाय रमणीयाय चक्षसे दर्शनाय चास्मान्दधातनेत्यनुवर्तते । महद्रमणीयं दर्शनं ब्रह्मसाक्षात्कारलक्षणं तदस्माकं कुरुत । अस्मान् ब्रह्मसाक्षात्कारयोग्यान्कुरुतेति भावः। ऐहिकपारलौकिकसुखं ददतेत्यृचो भावः। ‘मह पूजायाम्’ मह्यते पूज्यत इति मट् क्विप्प्रत्ययः तस्मै महे । ‘रण शब्दे’ रण्यते स्तूयते सर्वैरिति रणम् तस्मै रणाय । चष्टे पश्यति सर्वं येन इति चक्षः चक्षतेरसुन्प्रत्ययः । तस्मै चक्षसे । ‘यस्मिन्ज्ञाते सर्वं विज्ञातं स्यात्’ इति छान्दोग्यश्रुतेः ॥ ५० ॥
एकपञ्चाशी।
अधिमन्त्रम् (VC)
- आपो देवताः
- सिन्धुद्वीप ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब विवाह किये स्त्री और पुरुष आपस में कैसे वर्त्तें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (आपः) जलों के समान शुभ गुणों में व्याप्त होनेवाली श्रेष्ठ स्त्रियो ! जो तुम लोग (मयोभुवः) सुख भोगनेवाली (स्थ) हो (ताः) वे तुम (ऊर्जे) बलयुक्त पराक्रम और (महे) बड़े-बड़े (चक्षसे) कहने योग्य (रणाय) सङ्ग्राम के लिये (नः) हम लोगों को (हि) निश्चय करके (दधातन) धारण करो ॥५० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे स्त्रियाँ अपने पतियों को तृप्त रक्खें, वैसे पति भी अपनी-अपनी स्त्रियों को सदा सुख देवें। ये दोनों युद्धकर्म में भी पृथक्-पृथक् न बसें अर्थात् इकट्ठे ही सदा वर्त्ताव रक्खें ॥५० ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ कृतविवाहाः स्त्रीपुरुषा अन्योन्यं कथं वर्त्तेरन्नित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे जलवद्वर्त्तमाना आप इव याः स्त्रियः ! यूयं मयोभुवः स्थ ता ऊर्जे महे रणाय चक्षसे नो हि दधातन ॥५० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा स्त्रियः स्वपतीन् प्रीणयेयुस्तथैव पतयः स्वस्य स्त्रियः सदा सुखयन्तु। एते युद्धकर्मण्यपि पृथङ् न वसेयुरर्थात् सहैव सदा वर्त्तेरन् ॥५० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. स्त्री आपल्या पतीशी जसा व्यवहार करते तसे पुरुषानेही आपल्या पत्नीशी व्यवहार करून सुख द्यावे. दोघांनी युद्धकर्मातही वेगवेगळे राहू नये, तर सदैव एकत्र राहावे.
५१ यो वः
विश्वास-प्रस्तुतिः ...{Loading}...
यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑। उ॒श॒तीरि॑व मा॒तरः॑ ॥५१ ॥
मूलम् ...{Loading}...
यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑। उ॒श॒तीरि॑व मा॒तरः॑ ॥५१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यः। वः॒। शि॒वत॑म॒ इति॑ शि॒वऽत॑मः। रसः॑। तस्य॑। भा॒ज॒य॒त॒। इ॒ह। नः॒। उ॒श॒तीरि॒वेत्यु॑श॒तीःऽइ॑व। मा॒तरः॑। ५१।
महीधरः
म० हे आपः, वो युष्माकं यः शिवतमः शान्ततमः सुखैकहेतू रसोऽस्ति इहास्मिन्कर्मणि इह लोके वा स्थितान्नोऽस्मान् तस्य रसस्य भाजयत भागिनः कुरुत । तं रसं प्रापयतेति भावः । कर्मणि षष्ठी । तत्र दृष्टान्तः । उशतीर्मातर इव उशन्ति ता उशत्यः ‘वा छन्दसि’ ( पा० ६ । १ । १०६) इति दीर्घः । ‘वश कान्तौ’ इत्यस्माच्छतृप्रत्ययान्तात् ‘उगितश्च’ (पा० ४ । १।६) इति ङीप् । उशत्यः कामयमानाः प्रीतियुक्ता मातरो यथा स्वकीयस्तन्यरसं बालं पाययन्ति | तद्वत् ॥५१॥
द्विपञ्चाशी।
अधिमन्त्रम् (VC)
- आपो देवताः
- सिन्धुद्वीप ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही उक्त विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रियो ! (वः) तुम्हारा और (नः) हमारा (इह) इस गृहाश्रम में (यः) जो (शिवतमः) अत्यन्त सुखकारी (रसः) कर्त्तव्य आनन्द है (तस्य) उस का (मातरः) (उशतीरिव) जैसे कामयमान माता अपने पुत्रों को सेवन करती है, वैसे (भाजयत) सेवन करो ॥५१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - स्त्रियों को चाहिये कि जैसे माता-पिता अपने पुत्रों का सेवन करते हैं, वैसे अपने-अपने पतियों की प्रीतिपूर्वक सेवा करें, ऐसे ही अपनी-अपनी स्त्रियों की पति भी सेवा करें। जैसे प्यासे प्राणियों को जल तृप्त करता है, वैसे अच्छे स्वभाव के आनन्द से स्त्री-पुरुष भी परस्पर प्रसन्न रहें ॥५१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रियः ! वो न इह यः शिवतमो रसोऽस्ति तस्य मातरः पुत्रानुशतीरिव भाजयत ॥५१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - स्त्रीभिर्मातापितरौ पुत्रानिव स्वं स्वं पतिं स्वा स्वा पत्नी प्रीत्या सेवताम्। एवमेव स्वां स्वां स्त्रियं पतिश्च। यथा जलानि तृषातुरान् प्राणिनस्तृप्यन्ति, तथैव सुशीलतयानन्देन तृप्ताः सन्तु ॥५१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्याप्रमाणे आई-वडील आपल्या संतानांशी प्रेमाने वागतात त्याप्रमाणेच स्त्रियांनी आपल्या पतींशी वागून त्यांची सेवा करावी. पतींनीही आपापल्या पत्नींची सेवा करावी. ज्याप्रमाणे तृषार्त प्राण्यांना जल तृप्त करते त्याप्रमाणे चांगल्या स्वभावाच्या स्त्री-पुरुषांनी परस्पर प्रसन्न व आनंदी राहावे.
५२ तस्माऽअंर गमाम
विश्वास-प्रस्तुतिः ...{Loading}...
तस्मा॒ऽअं॑र गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ। आपो॑ ज॒नय॑था च नः ॥५२ ॥
मूलम् ...{Loading}...
तस्मा॒ऽअं॑र गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ। आपो॑ ज॒नय॑था च नः ॥५२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
तस्मै॑। अर॑म्। ग॒मा॒म॒। वः॒। यस्य॑। क्षया॑य। जिन्व॑थ। आपः॑। ज॒नय॑थ। च॒। नः॒। ५२।
महीधरः
म० अलमिति प्राप्ते लकारस्य रेफश्छान्दसः । हे आपः, वो युष्मत्संबन्धिनस्तस्य पर्याप्तिं वयं गमाम गच्छेम । पर्याप्तिर्नाम रसविषये वैतृष्ण्यं सदातृप्तिर्वा । तस्मै इति चतुर्थी षष्ठ्यर्थे । यस्य क्षयाय जिन्वथ ‘क्षयो निवासे’ (पा० ६ । १ । २०१) इत्याद्युदात्तत्वात् क्षयशब्देन निवासः । क्षयायेति चतुर्थी षष्ठ्यर्थे । यस्येत्यनेन सामानाधिकरण्यात् । क्षयस्य निवासस्य जगतामाधारभूतस्य यस्याहुतिपरिणामभूतस्य रसस्यैकदेशेन यूयं ब्रह्मादिस्तम्बपर्यन्तं जगत् जिन्वथ तर्पयथ । जिन्वतिः प्रीतिकर्मा । पञ्चाहुतिपरिणामक्रमेणेति भावः । किंच हे आपः, नोऽस्मान् तत्र भोक्तृत्वेन जनयथ उत्पादयत । आशिषि लोट् तद्रसभोक्तृनस्मान् कुरुतेत्याजानदेवत्वमाशास्यते इति भावः । ‘अन्येषामपि दृश्यते’ (पा० ६ । ३ । १३७) इति संहितायां दीर्घः । यद्वास्या ऋचोऽयमर्थः । यस्य क्षयाय क्षयेण निवासेन यूयं जिन्वथ प्रीता भवथ तस्मै रसाय तद्रसाप्तये वो युष्मानरमत्यर्थं वयं गमाम प्राप्नुमः । किंच हे आपः, यूयं नोऽस्मान् जनयथ प्रजोत्पादनसमर्थान् कुरुथ । गच्छतेर्लुङि उत्तमबहुवचनेऽगमामेति रूपम् । अडभाव आर्षः | ‘बहुलं छन्दसि’ (पा० २ । ४ । ७३ ) इति शपो लुकि लोटि वा रूपम् ॥ ५२॥
त्रिपञ्चाशी।
अधिमन्त्रम् (VC)
- आपो देवताः
- सिन्धुद्वीप ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उक्त विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (आपः) जलों के समान शान्त स्वभाव से वर्त्तमान स्त्रियो ! तुम लोग (नः) हम लोगों के (क्षयाय) निवासस्थान के लिये (जिन्वथ) तृप्त (च) और (जनयथ) अच्छे सन्तान उत्पन्न करो उन (वः) तुम लोगों को हम लोग (अरम्) सामर्थ्य के साथ (गमाम) प्राप्त होवें। (यस्य) जिस धर्मयुक्त व्यवहार की प्रतिज्ञा करो, उसका पालन करनेवाली होओ और उसी का पालन करनेवाले हम लोग भी होवें ॥५२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जिस पुरुष की जो स्त्री वा जिस स्त्री का जो पुरुष हो, वे आपस में किसी का अनिष्ट-चिन्तन कदापि न करें। ऐसे ही सुख और सन्तानों से शोभायमान हो के धर्म्म से घर के कार्य्य करें ॥५२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे आपः ! जलवद्वर्त्तमाना या यूयं नः क्षयाय जिन्वथ च ता वो युष्मान् वयमरं गमाम यस्य प्रतिज्ञातस्य धर्म्यव्यवहारस्य पालिका भवत तस्यैव वयमपि भवेम ॥५२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - पुरुषो यस्याः स्त्रियः पतिर्यस्य या स्त्री पत्नी भवेत् स सा च परस्परस्यानिष्टं कदापि न कुर्य्यात्। एवं सुखसन्तानैरलंकृतौ भूत्वा धर्मेण गृहकृत्यानि कुर्य्याताम् ॥५२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - पुरुष व स्त्री यांनी आपापसात एकमेकांचे अनिष्ट चिंतन कधीही करू नये. त्यांनी संतानयुक्त बनून धार्मिक बनावे व घरातील कार्य योग्यरीत्या पार पाडून सुखी व्हावे.
५३ मित्रः संसृज्य
विश्वास-प्रस्तुतिः ...{Loading}...
मि॒त्रः सँ॒सृज्य॑ पृथि॒वीं भूमिं॑ च॒ ज्योति॑षा स॒ह। सुजा॑तं जा॒तवे॑दसमय॒क्ष्माय॑ त्वा॒ सँसृ॑जामि प्र॒जाभ्यः॑ ॥५३ ॥
मूलम् ...{Loading}...
मि॒त्रः सँ॒सृज्य॑ पृथि॒वीं भूमिं॑ च॒ ज्योति॑षा स॒ह। सुजा॑तं जा॒तवे॑दसमय॒क्ष्माय॑ त्वा॒ सँसृ॑जामि प्र॒जाभ्यः॑ ॥५३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मि॒त्रः। सँ॒सृज्येति॑ स॒म्ऽसृज्य॑। पृ॒थि॒वीम्। भूमि॑म्। च॒। ज्योति॑षा। स॒ह। सुजा॑त॒मिति॒ सुऽजा॑तम्। जा॒तवे॑दस॒मिति॑ जा॒तऽवे॑दसम्। अ॒य॒क्ष्माय॑। त्वा॒। सम्। सृ॒जा॒मि॒। प्र॒जाभ्य॒ इति॑ प्र॒ऽजाभ्यः॑। ५३।
महीधरः
म० ‘अजलोमभिः सᳪं᳭सृजति मित्रः सᳪं᳭सृज्येति’ । (का० १६ । ३ । १८) । अजाद्यानि पूर्वं लोमानि गृहीतानि तैः पिण्डं मिश्रयतीति सूत्रार्थः । मित्रदेवत्योपरिष्टाद्बृहती त्रयोऽष्टार्णाश्चतुर्थो द्वादशार्णः । मित्रः आदित्यो देवः पृथिवीं द्युलोकं भूमिं चेमां मृत्पिण्डरूपां ज्योतिषाजलोमभिः सह संसृज्य एकीकृत्य मह्यमध्वर्यवे प्रयच्छत्विति शेषः । पृथिवीशब्दो द्युलोकान्तरिक्षवाची । इह द्युलोकवाची गृह्यते । अजस्याग्नेयत्वाज्ज्योतिःशब्देनाजलोमान्युच्यन्ते । अहमपि सुजातं शोभनोत्पन्नं जातवेदसं जातप्रज्ञानमजलोमाख्यमग्निं त्वा त्वां संसृजामि पिण्डेन योजयामि । किमर्थं प्रजाभ्यः । चतुर्थी षष्ठ्यर्थे । प्रजानामयक्ष्माय यक्ष्मणो रोगस्याभावोऽयक्ष्मं तस्मै रोगाभावाय ॥ ५३॥
चतुःपञ्चाशी।
अधिमन्त्रम् (VC)
- मित्रो देवता
- सिन्धुद्वीप ऋषिः
- उपरिष्टाद् बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे पते ! जो आप (मित्रः) सब के मित्र होके (प्रजाभ्यः) पालने योग्य प्रजाओं को (अयक्ष्माय) आरोग्य के लिये (ज्योतिषा) विद्या और न्याय की अच्छी शिक्षा के प्रकाश के (सह) साथ (पृथिवीम्) अन्तरिक्ष (च) और (भूमिम्) पृथिवी के साथ (संसृज्य) सम्बन्ध करके मुझ को सुख देते हो। उस (सुजातम्) अच्छे प्रकार प्रसिद्ध (जातवेदसम्) वेदों के जानने हारे (त्वा) आपको मैं (संसृजामि) प्रसिद्ध करती हूँ ॥५३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - स्त्री-पुरुषों को चाहिये कि श्रेष्ठ, गुणवान्, विद्वानों के सङ्ग से शुद्ध आचार का ग्रहण कर शरीर और आत्मा के आरोग्य को प्राप्त हो के अच्छे-अच्छे सन्तानों को उत्पन्न करें ॥५३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे पते ! यस्त्वं मित्रः प्रजाभ्योऽयक्ष्माय ज्योतिषा सह पृथिवीं भूमिं च संसृज्य मां सुखयसि। तं सुजातं जातवेदसं त्वाऽहमप्येतदर्थं संसृजामि ॥५३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - स्त्रीपुरुषाभ्यां सद्गुणविद्वदासङ्गाच्छ्रेष्ठाचारं कृत्वा शरीरात्मनोरारोग्यं संपाद्य सुप्रजा उत्पादनीयाः ॥५३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - स्त्री-पुरुषांनी श्रेष्ठ गुणवान विद्वानांच्या संगतीने शुद्ध आचरण ठेवावे व शरीर आणि आत्मा यांना निरोगी बनवावे व चांगल्या संतानांना जन्म द्यावा.
५४ रुद्राः संसृज्य
विश्वास-प्रस्तुतिः ...{Loading}...
रु॒द्राः सँ॒सृज्य॑ पृथि॒वीं बृ॒हज्ज्योतिः॒ समी॑धिरे। तेषां॑ भा॒नुरज॑स्र॒ऽइच्छु॒क्रो दे॒वेषु॑ रोचते ॥५४ ॥
मूलम् ...{Loading}...
रु॒द्राः सँ॒सृज्य॑ पृथि॒वीं बृ॒हज्ज्योतिः॒ समी॑धिरे। तेषां॑ भा॒नुरज॑स्र॒ऽइच्छु॒क्रो दे॒वेषु॑ रोचते ॥५४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
रु॒द्राः। सँ॒सृज्येति॑ स॒म्ऽसृज्य॑। पृ॒थि॒वीम्। बृ॒हत्। ज्योतिः॑। सम्। ई॒धि॒रे॒। तेषा॑म्। भा॒नुः। अज॑स्रः। इत्। शु॒क्रः। दे॒वेषु॑। रो॒च॒ते॒। ५४।
महीधरः
म० ‘शर्करायोरसाश्मचूर्णैश्च रुद्राः सᳪं᳭सृज्येति’ (का० १६ । ३ । १९) । सूक्ष्मसिकतालोहकिट्टपाषाणचूर्णैः पिण्डं मिश्रयतीति सूत्रार्थः । रुद्रदेवत्यानुष्टुप् । ये रुद्राः, पृथिवीं पार्थिवं पिण्डं संसृज्य शर्करायोरसाश्मचूर्णैः संयोज्य बृहज्योतिः प्रौढमग्निं समीधिरे सम्यक् दीपितवन्तः उखास्थमग्निं सम्यक् पालितवन्तः । तेषां फलमाह । तेषां रुद्राणां शुक्रः शुद्धो देदीप्यमानोऽजस्रः अनुपक्षीण एव देवेषु मध्ये भानुः दीप्तिः रोचते प्रकाशते । इत् एवार्थः ॥ ५४ ॥
पञ्चपञ्चाशी।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- सिन्धुद्वीप ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रीपुरुषो ! जैसे (रुद्राः) प्राणवायु के अवयवरूप समानादि वायु (संसृज्य) सूर्य्य को उत्पन्न करके (पृथिवीम्) भूमि को (बृहत्) बड़े (ज्योतिः) प्रकाश के साथ (समीधिरे) प्रकाशित करते हैं (तेषाम्) उन से उत्पन्न हुआ (शुक्रः) कान्तिमान् (भानुः) सूर्य्य (देवेषु) दिव्य पृथिवी आदि में (अजस्रः) निरन्तर (रोचते) प्रकाश करता है, (इत्) वैसे ही विद्यारूपी न्याय सूर्य्य को उत्पन्न कर के प्रजापुरुषों को प्रकाशित और उन से प्रजाओं में दिव्य सुख का प्रचार करो ॥५४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे वायु सूर्य्य का, सूर्य्य प्रकाश का, प्रकाश नेत्रों से देखने के व्यवहार का कारण है, वैसे ही स्त्री-पुरुष आपस के सुख के साधन-उपसाधन करनेवाले होके सुखों को सिद्ध करें ॥५४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रीपुरुषाः ! यथा रुद्राः सूर्य्यं संसृज्य पृथिवीं बृहज्ज्योतिः समीधिरे तेषां सकाशादुत्पन्नः शुक्रो भानुर्देवेष्वजस्रो रोचत इदिव विद्यान्यायार्कमुत्पाद्य प्रजाजनान् प्रकाशयते, तेभ्यः प्रजासु दिव्यानि सुखानि प्रचारयत ॥५४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा वायुः सूर्य्यस्य सूर्य्यः प्रकाशस्य प्रकाशश्चाक्षुषव्यवहारस्य च कारणमस्ति, तथैव स्त्रीपुरुषाः परस्परस्य सुखस्य साधनोपसाधनकारिणो भूत्वा सुखानि साधयेयुः ॥५४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जसा वायू सूर्याचे कारण आहे व सूर्य प्रकाशाचे कारण आहे व प्रकाश नेत्राने पाहण्याचे कारण आहे, तसेच स्त्री-पुरुषांनी परस्पर सुखाची साधने, उपसाधने बनून सुखी व्हावे.
५५ संसृष्टां वसुभी
विश्वास-प्रस्तुतिः ...{Loading}...
सँसृ॑ष्टां॒ वसु॑भी रु॒द्रैर्धीरैः॑ कर्म॒ण्यां᳙ मृद॑म्। हस्ता॑भ्यां मृ॒द्वीं कृ॒त्वा सि॑नीवा॒ली कृ॑णोतु॒ ताम् ॥५५ ॥
मूलम् ...{Loading}...
सँसृ॑ष्टां॒ वसु॑भी रु॒द्रैर्धीरैः॑ कर्म॒ण्यां᳙ मृद॑म्। हस्ता॑भ्यां मृ॒द्वीं कृ॒त्वा सि॑नीवा॒ली कृ॑णोतु॒ ताम् ॥५५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सँसृ॑ष्टा॒मिति॒ सम्ऽसृ॑ष्टाम्। वसु॑भि॒रिति॒ वसु॑ऽभिः। रु॒द्रैः। धीरैः॑। क॒र्म॒ण्या᳙म्। मृद॑म्। हस्ता॑भ्याम्। मृ॒द्वीम्। कृ॒त्वा। सि॒नी॒वा॒ली। कृ॒णो॒तु॒। ताम्। ५५।
महीधरः
म० ‘सᳪं᳭सृष्टामिति संयौति ऋक्त्रयेण मृत्पिण्डे सम्यक् मिश्रयति’ (का० १६ । ३ । २०) द्वे सिनीवालिदेवत्ये तृतीयादितिदेवत्या तिस्रोऽनुष्टुभः । सिनीवाली चन्द्रकलायुक्तामावास्याभिमानिनी देवता मृदं हस्ताभ्यां मृद्वीं कोमलां कृत्वा पुनस्तां मृदं कर्मण्यामुखाकर्मयोग्यां कृणोतु । कर्म संपद्यते यया सा कर्मण्या ताम् । कीदृशीं मृदम् । धीरैः बुद्धिमद्भिर्वसुभिः रुद्रैश्च संसृष्टां सेवितां शर्करादिभिः संयोजितां वा । धीरस्ति येषां ते धीराः । मत्वर्थे रः ॥ ५५ ॥
षट्पञ्चाशी।
अधिमन्त्रम् (VC)
- सिनीवाली देवता
- सिन्धुद्वीप ऋषिः
- विराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
स्त्रियों को कैसी दासी रखनी चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे पते ! आप जैसे कारीगर मनुष्य (हस्ताभ्याम्) हाथों से (कर्मण्याम्) क्रिया से सिद्ध की हुई (मृदम्) मट्टी को योग्य करता है, वैसे (धीरैः) अच्छा संयम रखने (वसुभिः) जो चौबीस वर्ष ब्रह्मचर्य्य के सेवन से विद्या को प्राप्त हुए (रुद्रैः) और जिन्होंने चवालीस वर्ष ब्रह्मचर्य्य के सेवन से विद्या बल को पूर्ण किया हो, उन्हीं से (संसृष्टाम्) अच्छी शिक्षा को प्राप्त हुई हो, उस ब्रह्मचारिणी युवती को (मृद्वीम्) कोमल गुणवाली (कृणोतु) कीजिये और जो स्त्री (सिनीवाली) प्रेमबद्ध कन्याओं को बलवान् करनेवाली है (ताम्) उसको अपनी स्त्री (कृत्वा) करके सुखी कीजिये ॥५५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे कुम्हार आदि कारीगर लोग जल से मट्टी को कोमल कर उससे घड़े आदि पदार्थ बना के सुख के काम सिद्ध करते हैं, वैसे ही विद्वान् माता-पिता से शिक्षा को प्राप्त हुई हृदय को प्रिय ब्रह्मचारिणी कन्याओं को पुरुष लोग विवाह के लिये ग्रहण कर के सब काम सिद्ध करें ॥५५ ॥
दयानन्द-सरस्वती (सं) - विषयः
स्त्रीभिः किंभूताः सेविका रक्षणीया इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे पते ! भवान् शिल्पी हस्ताभ्यां कर्मण्यां मृदमिव धीरैर्वसुभी रुद्रैर्या शिक्षया संसृष्टां मृद्वीं कृणोतु, या सिनीवाली वर्त्तते तां स्त्रियं कृत्वा सुखयतु ॥५५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा कुलालादिभिः शिल्पिभिर्जलेन मृत्तिकां कोमलां कृत्वा तत्संभूतान् घटादीन् रचयित्वा सुखकार्य्याणि साध्नुवन्ति, तथैव विद्वद्भिर्मातापितृभिः शिक्षिता हृद्याः कन्याः ब्रह्मचारिणी विवाहाय सङ्गृह्य गृहकृत्यानि साध्नुवन्तु ॥५५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसे कुंभार मऊ माती व पाणी यांच्या साह्याने घट इत्यादी तयार करतात व सुख देतात तसे विद्वान माता व पिता यांच्यापासून शिक्षण घेऊन आपल्या अंतःकरणाला प्रिय वाटेल अशा ब्रह्मचारिणी कन्यांबरोबर विवाह करून पुरुषांनी गृहस्थाश्रमातील सर्व कार्ये सिद्ध करावीत.
५६ सिनीवाली सुकपर्दा
विश्वास-प्रस्तुतिः ...{Loading}...
सि॒नी॒वा॒ली सु॑कप॒र्दा सु॑कुरी॒रा स्वौ॑प॒शा। सा तुभ्य॑मदिते म॒ह्योखां द॑धातु॒ हस्त॑योः ॥५६ ॥
मूलम् ...{Loading}...
सि॒नी॒वा॒ली सु॑कप॒र्दा सु॑कुरी॒रा स्वौ॑प॒शा। सा तुभ्य॑मदिते म॒ह्योखां द॑धातु॒ हस्त॑योः ॥५६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सि॒नी॒वा॒ली। सु॒क॒प॒र्देति॑ सुऽकप॒र्दा। सु॒कु॒री॒रेति॑ सुऽकुरी॒रा। स्वौ॒प॒शेति॑ सुऽऔप॒शा। सा। तुभ्य॑म्। अ॒दि॒ते॒। म॒हि॒। आ। उ॒खाम्। द॒धा॒तु॒। हस्त॑योः। ५६।
महीधरः
म० ‘अदितिरदीना देवमाता’ (निरु० ४ । २३) इति यास्कः । हे अदिते देवमातः, हे महि महति, सा पूर्वमन्त्रोक्ता सिनीवाली तुभ्यं तव हस्तयोः उखामादधातु स्थापयतु । कीदृशी सा । सुकपर्दा कपर्दोऽत्र स्त्रीणामुचितः केशबन्धविशेषः । शोभनः कपर्दो यस्याः सा सुकपर्दा । सुकुरीरा स्त्रीभिः शृङ्गारार्थं शिरसि धार्यमाणं कनकाभरणं कुरीरः । शोभनः कुरीरो यस्याः सा सुकुरीरा सुमुकुटा । स्वौपशा सम्यक् उपशेते शयनं कुरुते यैरवयवविशेषैस्ते सर्वेऽप्युपशाः तेषां समूह औपशः । शोभनः शयनविदग्धो विलासचतुर औपशोऽवयवसमूहो यस्याः सा ॥ ५६ ॥
सप्तपञ्चाशी।
अधिमन्त्रम् (VC)
- अदितिर्देवता
- सिन्धुद्वीप ऋषिः
- विराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी पूर्वोक्त विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (महि) सत्कार के योग्य (अदिते) अखण्डित आनन्द भोगनेवाली स्त्री ! जो (सिनीवाली) प्रेम से युक्त (सुकपर्दा) अच्छे केशोंवाली (सुकुरीरा) सुन्दर श्रेष्ठ कर्मों को सेवने हारी और (स्वौपशा) अच्छे स्वादिष्ट भोजन के पदार्थ बनानेवाली जिस (तुभ्यम्) तेरे (हस्तयोः) हाथों में (उखाम्) दाल आदि राँधने की बटलोई को (दधातु) धारण करे (सा) उस का तू सेवन कर ॥५६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - श्रेष्ठ स्त्रियों को उचित है कि अच्छी शिक्षित चतुर दासियों को रक्खें कि जिससे सब पाक आदि की सेवा ठीक-ठीक समय पर होती रहे ॥५६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तदेवाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मह्यदिते ! या सिनीवाली सुकपर्दा सुकुरीरा स्वौपशा यस्यै तुभ्यं हस्तयोरुखां दधातु सा, त्वया संसेव्या ॥५६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सतीभिः स्त्रीभिः सुशिक्षिताश्चतुराः परिचारिका रक्षणीयाः। यतः सर्वाः पाकादिसेवा यथाकालं स्युः ॥५६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - श्रेष्ठ स्त्रियांनी चांगल्या शिक्षित चतुर दासी (पदरी) ठेवाव्यात. त्यामुळे स्वयंपाक इत्यादी सेवा चांगल्या प्रकारे व वेळेवर होत राहील.
५७ उखां कृणोतु
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒खां कृ॑णोतु॒ शक्त्या॑ बा॒हुभ्या॒मदि॑तिर्धि॒या। मा॒ता पु॒त्रं यथो॒पस्थे॒ साग्निं बि॑भर्त्तु॒ गर्भ॒ऽआ। म॒खस्य॒ शिरो॑ऽसि ॥५७ ॥
मूलम् ...{Loading}...
उ॒खां कृ॑णोतु॒ शक्त्या॑ बा॒हुभ्या॒मदि॑तिर्धि॒या। मा॒ता पु॒त्रं यथो॒पस्थे॒ साग्निं बि॑भर्त्तु॒ गर्भ॒ऽआ। म॒खस्य॒ शिरो॑ऽसि ॥५७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उ॒खाम्। कृ॒णो॒तु॒। शक्त्या॑। बा॒हुभ्या॒मिति॑ बा॒हुभ्या॑म्। अदि॑तिः। धि॒या। मा॒ता। पु॒त्रम्। यथा॑। उ॒पस्थ॒ इत्यु॒पऽस्थे॑। सा। अ॒ग्निम्। बि॒भ॒र्त्तु॒। गर्भे॑। आ। म॒खस्य॑। शिरः॑। अ॒सि॒। ५७।
महीधरः
म० अदितिः शक्त्या सामर्थ्येन धिया बुद्ध्या च बाहुभ्यां हस्ताभ्यामुखां कृणोतु करोतु । सा उखा कृता सती गर्भे मध्यभागे आसमन्तात् अग्निं बिभर्तु धारयतु । तत्र दृष्टान्तः । यथा माता जननी उपस्थे उत्सङ्गे पुत्रं बिभर्ति तद्वत् । ‘यजमान उखां करोति मृदमादाय मखस्य शिर इति’ (का० १६ । ३ । २३) । यजमानपत्न्या तत्पिण्डान्मृदमादाय द्वादशाङ्गुलित्रिस्थानलिखिताषाढसंज्ञकेष्टकायां कृतायां यजमानः पिण्डान्मृदमादाय स्वयमेवोखां करोति । एकपशुपक्षे प्रादेशायामविस्तारोर्ध्वां चतुरस्रां पञ्चपशुपक्षे त्रिभागोनत्रयोविंशत्यङ्गुलायामविस्तारामूर्ध्वां प्रादेशेन वेति सूत्रार्थः । मृत्पिण्डदेवत्यं यजुः यजुर्गायत्रीच्छन्दः । हे मृत्पिण्ड, त्वं यज्ञस्य शिरोऽसि आहवनीयो यज्ञस्य शिरस्थयुद्धकरणादिहापि लक्षणया शिरःशब्दः ॥ ५७ ॥
अष्टपञ्चाशी।
अधिमन्त्रम् (VC)
- अदितिर्देवता
- सिन्धुद्वीप ऋषिः
- भुरिग्बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे गृहस्थ पुरुष ! जिस कारण तू (मखस्य) यज्ञ के (शिरः) उत्तमाङ्ग के समान (असि) है इस कारण आप (धिया) बुद्धि वा कर्म से तथा (शक्त्या) पाकविद्या के सामर्थ्य और (बाहुभ्याम्) दोनों बाहुओं से (उखाम्) पकाने की बटलोई को (कृणोतु) सिद्ध कर जो (अदितिः) जननी आपकी स्त्री है (सा) वह (गर्भे) अपनी कोख में (यथा) जैसे (माता) माता (उपस्थे) अपनी गोद में (पुत्रम्) पुत्र को सुखपूर्वक बैठावे, वैसे (अग्निम्) अग्नि के समान तेजस्वी वीर्य्य को (आबिभर्त्तु) धारण करे ॥५७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। कुमार स्त्रीपुरुषों को योग्य है कि ब्रह्मचर्य्य के साथ विद्या और अच्छी शिक्षा को पूर्ण कर, बल-बुद्धि और पराक्रमयुक्त सन्तान उत्पन्न होने के लिये वैद्यकशास्त्र की रीति से बड़ी-बड़ी ओषधियों से पाक बना के और विधिपूर्वक गर्भाधान करके पीछे पथ्य से रहें और आपस में मित्रता के साथ वर्त्त के पुत्रों के गर्भाधानादि कर्म्म किया करें ॥५७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे गृहस्थ ! यतस्त्वं मखस्य शिरोऽसि, तस्माद्भवान् धिया शक्त्या बाहुभ्यामुखां कृणोतु। याऽदितिस्ते स्त्री वर्त्तते, सा गर्भे यथा मातोपस्थे पुत्रं धरति, तथाऽग्निमाबिभर्त्तु ॥५७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। कुमारौ कन्यावरौ ब्रह्मचर्य्येण विद्यासुशिक्षे पूर्णे कृत्वा बलबुद्धिपराक्रमयुक्तसन्तानोत्पादनाय विवाहं कृत्वा वैद्यकशास्त्ररीत्या महौषधिजं पाकं विधाय विधिवद्गर्भाधानं कृत्वोत्तरपथ्यं विदध्याताम्। परस्परं सुहृत्तया वर्त्तित्वाऽपत्यस्य गर्भाधानादिकर्माणि कुर्याताम् ॥५७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. तरुण व तरुणींनी ब्रह्मचर्य पाळून विद्येने युक्त होऊन चांगले शिक्षण पूर्ण करावे. बल, बुद्धी व पराक्रमयुक्त संताने उत्पन्न करावीत. त्यासाठी वैद्यकशास्त्राच्या पद्धतीने चांगली औषधे तयार करून विधिपूर्वक गर्भाधान करावे व पथ्याने राहावे. आपापसात प्रीतिपूर्वक व्यवहार करून पुत्रप्राप्तीसाठी गर्भाधान इत्यादी कार्य करावे.
५८ वसवस्त्वा कृण्वन्तु
विश्वास-प्रस्तुतिः ...{Loading}...
वस॑वस्त्वा कृण्वन्तु गाय॒त्रेण॒ छन्द॑साऽङ्गिर॒स्वद् ध्रु॒वासि॑ पृथि॒व्य᳖सि धा॒रया॒ मयि॑ प्र॒जाँ रा॒यस्पोषं॑ गौप॒त्यँ सु॒वीर्यँ॑ सजा॒तान् यज॑मानाय रु॒द्रास्त्वा॑ कृण्वन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साऽङ्गिर॒स्वद् ध्रु॒वास्य॒न्तरि॑क्षमसि धा॒रया॒ मयि॑ प्र॒जाँ रा॒यस्पोषं॑ गौप॒त्यँ सु॒वीर्यँ॑ सजा॒तान् यज॑मानायाऽऽदि॒त्यास्त्वा॑ कृण्वन्तु॒ जाग॑तेन॒ छन्द॑साऽङ्गिर॒स्वद् ध्रु॒वासि॒ द्यौर॑सि धा॒रया॒ मयि॑ प्र॒जाँ रा॒यस्पोषं॑ गौप॒त्यँ सु॒वीर्यँ॑ सजा॒तान् यज॑मानाय विश्वे॑ त्वा दे॒वाः वैश्वा॑न॒राः कृ॑ण्व॒न्त्वानु॑ष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वद् ध्रु॒वासि॒ दिशो॑ऽसि धा॒रया॒ मयि॑ प्र॒जाँ रा॒यस्पोषं॑ गौप॒त्यँ सु॒वीर्यँ॑ सजा॒तान् यज॑मानाय ॥५८ ॥
मूलम् ...{Loading}...
वस॑वस्त्वा कृण्वन्तु गाय॒त्रेण॒ छन्द॑साऽङ्गिर॒स्वद् ध्रु॒वासि॑ पृथि॒व्य᳖सि धा॒रया॒ मयि॑ प्र॒जाँ रा॒यस्पोषं॑ गौप॒त्यँ सु॒वीर्यँ॑ सजा॒तान् यज॑मानाय रु॒द्रास्त्वा॑ कृण्वन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साऽङ्गिर॒स्वद् ध्रु॒वास्य॒न्तरि॑क्षमसि धा॒रया॒ मयि॑ प्र॒जाँ रा॒यस्पोषं॑ गौप॒त्यँ सु॒वीर्यँ॑ सजा॒तान् यज॑मानायाऽऽदि॒त्यास्त्वा॑ कृण्वन्तु॒ जाग॑तेन॒ छन्द॑साऽङ्गिर॒स्वद् ध्रु॒वासि॒ द्यौर॑सि धा॒रया॒ मयि॑ प्र॒जाँ रा॒यस्पोषं॑ गौप॒त्यँ सु॒वीर्यँ॑ सजा॒तान् यज॑मानाय विश्वे॑ त्वा दे॒वाः वैश्वा॑न॒राः कृ॑ण्व॒न्त्वानु॑ष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वद् ध्रु॒वासि॒ दिशो॑ऽसि धा॒रया॒ मयि॑ प्र॒जाँ रा॒यस्पोषं॑ गौप॒त्यँ सु॒वीर्यँ॑ सजा॒तान् यज॑मानाय ॥५८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वस॑वः। त्वा॒। कृ॒ण्व॒न्तु॒। गा॒य॒त्रेण॑। छन्द॑सा। अ॒ङ्गि॒र॒स्वत्। ध्रु॒वा। अ॒सि॒। पृ॒थि॒वी। अ॒सि॒। धा॒रय॑। मयि॑। प्र॒जामिति॑ प्र॒ऽजाम्। रा॒यः। पोष॑म्। गौ॒प॒त्यम्। सु॒वीर्य्य॒मिति॑ सु॒ऽवीर्य्य॑म्। स॒जा॒तानिति॑ सऽजा॒तान्। यज॑मानाय। रु॒द्राः। त्वा॒। कृ॒ण्व॒न्तु। त्रैष्टु॑भेन। त्रैस्तु॑भे॒नेति॒ त्रैऽस्तु॑भेन। छन्द॑सा। अ॒ङ्गि॒र॒स्वत्। ध्रु॒वा। अ॒सि॒। अ॒न्तरि॑क्षम्। अ॒सि॒। धा॒रय॑। मयि॑। प्र॒जामिति॑ प्र॒ऽजाम्। रा॒यः। पोष॑म्। गौ॒प॒त्यम्। सु॒वीर्य्य॒मिति॑ सु॒ऽवीर्य्य॑म्। स॒जा॒तानिति॑ सऽजा॒तान्। यज॑मानाय। आ॒दि॒त्याः। त्वा॒। कृ॒ण्व॒न्तु॒। जाग॑तेन। छन्द॑सा। अ॒ङ्गि॒र॒स्वत्। ध्रु॒वा। अ॒सि॒। द्यौः। अ॒सि॒। धा॒रय॑। मयि॑। प्र॒जामिति॑ प्र॒ऽजाम्। रा॒यः। पोष॑म्। गौ॒प॒त्यम्। सु॒वीर्य॒मिति॑ सु॒वीर्य॑म्। स॒जा॒तानिति॑ सऽजा॒तान्। यज॑मानाय। विश्वे॑। त्वा॒। दे॒वाः। वै॒श्वा॒न॒राः। कृ॒ण्व॒न्तु॒। आनु॑ष्टुभेन। आनु॑स्तुभे॒नेत्यानु॑ऽस्तुभेन। छन्द॑सा। अ॒ङ्गि॒र॒स्वत्। ध्रु॒वा। अ॒सि॒। दिशः॑। अ॒सि॒। धा॒रय॑। मयि॑। प्र॒जामिति॑ प्र॒ऽजाम्। रा॒यः। पोष॑म्। गौ॒प॒त्यम्। सु॒वीर्य॒मिति॑ सु॒ऽवीर्य॑म्। स॒जा॒तानिति॑ सऽजा॒तान्। यज॑मानाय। ५८।
महीधरः
म० ‘वसवस्त्वेति प्रथयति’ (का० १६ । ३ । २३)। यजमान आत्तां मृदमुखातलाय प्रादेशमात्रविपुलां करोतीति सूत्रार्थः । उखादेवत्या ब्राह्मी अनुष्टुप् । हे उखे, वसवः देवविशेषाः गायत्रेण छन्दसा कृत्वा अङ्गिरस्वत् अङ्गिरस इव त्वा त्वां कृण्वन्तु कुर्वन्तु । यथाङ्गिरोभिर्मुनिभिः कृता तद्वत् । यतस्त्वं कृता सती स्थिरासि पृथिवी चासि अतस्त्वां - वच्मि । यजमानायेति चतुर्थी सप्तम्यर्थे । मयीति सामानाधिकरण्यात् हे उखे, मयि यजमाने प्रजां पुत्रादिकां धारय स्थापय । रायस्पोषं धनस्य पुष्टिं च धारय । गौपत्यं गोपतित्वं धनस्वामित्वं मयि धारय । सुवीर्यं शोभनं वीर्यं वीरकर्म मयि स्थापय । सजातान्समानोदरोत्पन्नान्भ्रातॄन्मयि धारय । ‘अन्तानुन्नीय सर्वतः प्रथमं धातुमादधाति रुद्रास्त्वेति’ (का० १६ ।३ । २७ ) । प्रथनानन्तरं प्रथिततलस्य प्रान्तान्सर्वानूर्ध्वं नीत्वा प्रथमां पिण्डिकामन्तैः संयोजयतीति सूत्रार्थः । उखादेवत्यम् | आर्ष्यनुष्टुप् । हे उखे, रुद्राः त्रैष्टुभेन छन्दसा त्वां कुर्वन्तु । त्वमन्तरिक्षरूपासीति विशेषः । शेषं पूर्ववत् । ‘संलिप्य श्लक्ष्णं कृत्वोत्तरमादित्यास्त्वेति’ (का. १६ । ३ । २८)। तामुखां | शिथिलमृदा लिप्त्वा वारिणा मृदुं कृत्वोत्तरं धातुं द्वितीयपिण्डिकां पूर्वोपरि योजयतीति सूत्रार्थः । उखादेवत्यम् । ब्राह्मी अनुष्टुप् । आदित्या देवाः जागतेन छन्दसा त्वां कुर्वन्तु त्वं द्योरूपासीति विशेषः । शेषा व्याख्या प्राची । “विश्वे त्वेति समीकरोति’ (का. १६ । ३ । २९) । पूर्वोक्तमानां करोतीति सूत्रार्थः । औखम् ब्राह्मी बृहती । विश्वैर्नरैर्नीयन्ते विश्वानरान्नयन्ति वा विश्वेषां नराणां संबन्धिनो वा विश्वेभ्यो नरेभ्यो हिता वा वैश्वानराः एवंभूता विश्वेदेवाः हे उखे, त्वां कुर्वन्तु । आनुष्टुभेन छन्दसा कृत्वा त्वं च दिशो दिग्रूपासि । शेषं पूर्वतुल्यम् ॥ ५८ ॥
एकोनषष्टी।
अधिमन्त्रम् (VC)
- वसुरुद्रादित्यविश्वेदेवा देवताः
- सिन्धुद्वीप ऋषिः
- पूर्वार्द्धस्य स्वराट्संकृतिः, उत्तरार्धस्याभिकृतिः
- गान्धारः, ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर स्त्री-पुरुष क्या करके क्या करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे ब्रह्मचारिणी कुमारी स्त्री ! जो तू (अङ्गिरस्वत्) धनञ्जय प्राणवायु के समतुल्य (ध्रुवा) निश्चल (असि) है और (पृथिव्यसि) विस्तृत सुख करने हारी है उस (त्वा) तुझ को (गायत्रेण) वेद में विधान किये (छन्दसा) गायत्री आदि छन्दों से (वसवः) चौबीस वर्ष ब्रह्मचर्य्य रखनेवाले विद्वान् लोग मेरी स्त्री (कृण्वन्तु) करें। हे कुमार ब्रह्मचारी पुरुष ! जो तू (अङ्गिरस्वत्) प्राणवायु के समान निश्चल है और (पृथिवी) पृथिवी के समान क्षमायुक्त (असि) है जिस (त्वा) तुझ को (वसवः) उक्त वसुसंज्ञक विद्वान् लोग (गायत्रेण) वेद में प्रतिपादन किये (छन्दसा) गायत्री आदि छन्दों से मेरा पति (कृण्वन्तु) करें। सो तू (मयि) अपनी प्रिय पत्नी मुझ में (प्रजाम्) सुन्दर सन्तानों (रायः) धन की (पोषम्) पुष्टि (गौपत्यम्) गौ, पृथिवी वा वाणी के स्वामीपन और (सुवीर्य्यम्) सुन्दर पराक्रम को (धारय) स्थापन कर। मैं तू दोनों (सजातान्) एक गर्भाशय से उत्पन्न हुए सब सन्तानों को (यजमानाय) विद्या देने हारे आचार्य्य को विद्या ग्रहण के लिये समर्पण करें। हे स्त्रि ! जो तू (अङ्गिरस्वत्) आकाश के समान (ध्रुवा) निश्चल (असि) है और (अन्तरिक्षम्) अविनाशी प्रेमयुक्त (असि) है उस (त्वा) तुझको (रुद्राः) रुद्रसंज्ञक चवालीस वर्ष ब्रह्मचर्य्य सेवने हारे विद्वान् लोग (त्रैष्टुभेन) वेद में कहे हुए (छन्दसा) त्रिष्टुप् छन्द से मेरी स्त्री (कृण्वन्तु) करें। हे वीर पुरुष ! जो तू आकाश के समान निश्चल है और दृढ़ प्रेम से युक्त है, जिस तुझ को चवालीस वर्ष ब्रह्मचर्य करने हारे विद्वान् लोग वेद में प्रतिपादन किये त्रिष्टुप् छन्द से मेरा स्वामी करें। वह तू (मयि) अपनी प्रिय पत्नी मुझ में (प्रजाम्) बल तथा सत्य धर्म से युक्त सन्तानों (रायः) राज्यलक्ष्मी की (पोषम्) पुष्टि (गौपत्यम्) पढ़ाने के अधिष्ठातृत्व और (सुवीर्य्यम्) अच्छे पराक्रम को (धारय) धारण कर मैं तू दोनों (सजातान्) एक उदर से उत्पन्न हुए सब सन्तानों को अच्छी शिक्षा देकर वेदविद्या की शिक्षा होने के लिये (यजमानाय) अङ्ग-उपाङ्गों के सहित वेद पढ़ाने हारे अध्यापक को देवें। हे विदुषी स्त्री ! जो तू (अङ्गिरस्वत्) आकाश के समान (ध्रुवा) अचल (असि) है (द्यौः) सूर्य के सदृश प्रकाशमान (असि) है उस (त्वा) तुझ को (आदित्याः) अड़तालीस वर्ष ब्रह्मचर्य्य करके पूर्ण विद्या और बल की प्राप्ति से आप्त सत्यवादी धर्मात्मा विद्वान् लोग (जागतेन) वेद में कहे (छन्दसा) जगती छन्द से मेरी पत्नी (कृण्वन्तु) करें। हे विद्वान् पुरुष ! जो तू आकाश के तुल्य दृढ़ और सूर्य्य के तुल्य तेजस्वी है, उस तुझ को अड़तालीस वर्ष ब्रह्मचर्य्य सेवनेवाले पूर्ण विद्या से युक्त धर्मात्मा विद्वान् लोग वेदोक्त जगती छन्द से मेरा पति करें। वह तू (मयि) अपनी प्रिय भार्य्या मुझ में (प्रजाम्) शुभ गुणों से युक्त सन्तानों (रायः) चक्रवर्त्ति-राज्यलक्ष्मी को (पोषम्) पुष्टि (गौपत्यम्) संपूर्ण विद्या के स्वामीपन और (सुवीर्यम्) सुन्दर पराक्रम को (धारय) धारण कर। मैं तू दोनों (सजातान्) अपने सन्तानों को जन्म से उपदेश करके सब विद्या ग्रहण करने के लिये (यजमानाय) क्रिया-कौशल के सहित सब विद्याओं के पढ़ाने हारे आचार्य को समर्पण करें। हे सुन्दर ऐश्वर्य्ययुक्त पत्नि ! जो तू (अङ्गिरस्वत्) सूत्रात्मा प्राणवायु के समान (ध्रुवा) निश्चल (असि) है और (दिशः) सब दिशाओं में कीर्तिवाली (असि) है, उस तुझ को (वैश्वानराः) सब मनुष्यों में शोभायमान (विश्वे) सब (देवाः) उपदेशक विद्वान् लोग (आनुष्टुभेन) वेद में कहे (छन्दसा) अनुष्टुप् छन्द से मेरे आधीन (कृण्वन्तु) करें। हे पुरुष ! जो तू सूत्रात्मा वायु के सदृश स्थित है (दिशः) सब दिशाओं में कीर्तिवाला (असि) है, जिस (त्वा) तुझ को सब प्रजा में शोभायमान सब विद्वान् लोग मेरे आधीन करें। सो आप (मयि) मुझ में (प्रजाम्) शुभलक्षणयुक्त सन्तानों (रायः) सब ऐश्वर्य्य की (पोषम्) पुष्टि (गौपत्यम्) वाणी की चतुराई और (सुवीर्य्यम्) सुन्दर पराक्रम को (धारय) धारण कर। मैं तू दोनों जने अच्छा उपदेश होने के लिये (सजातान्) अपने सन्तानों को (यजमानाय) सत्य के उपदेशक अध्यापक के समीप समर्पण करें ॥५८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जब स्त्री-पुरुष एक-दूसरे की परीक्षा करके आपस में दृढ़ प्रीतिवाले होवें, तब वेदोक्त रीति से यज्ञ का विस्तार और वेदोक्त नियमाऽनुसार विवाह करके धर्म से सन्तानों को उत्पन्न करें। जब तक कन्या और पुत्र आठ वर्ष के हों, तब तक माता-पिता उनको अच्छी शिक्षा देवें। इस के पीछे ब्रह्मचर्य्य धारण करा के विद्या पढ़ने के लिये अपने घर से बहुत दूर आप्त विद्वान् पुरुषों और आप्त विदुषी स्त्रियों की पाठशालाओं में भेज देवें। वहाँ पाठशाला में जितने धन का खर्च करना उचित हो उतना करें, क्योंकि सन्तानों को विद्यादान के विना कोई उपकार वा धर्म नहीं बन सकता। इसलिये इस का निरन्तर अनुष्ठान किया करें ॥५८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्दम्पती किङ्कृत्वा किङ्कुर्य्यातामित्युपदिश्यते।
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे ब्रह्मचारिणि कुमारिके ! या त्वमङ्गिरस्वद् ध्रुवासि पृथिव्यसि तां त्वा गायत्रेण छन्दसा वसवो मम स्त्रियं कृण्वन्तु। हे कुमार ब्रह्मचारिन् ! यस्त्वङ्गिरस्वद् ध्रुवोऽसि भूमिवत् क्षमावानसि यं त्वा वसवो गायत्रेण छन्दसा मम पतिं कृण्वन्तु स त्वं मयि प्रजां रायस्पोषं गौपत्यं सुवीर्य्यं च धारय। आवां सजातान् संतानान् सर्वान् यजमानाय विद्याग्रहणार्थं समर्पयेव। हे स्त्रि ! या त्वमङ्गिरस्वद् ध्रुवोऽस्यन्तरिक्षमसि तां त्वा रुद्रास्त्रैष्टुभेन छन्दसा मम पत्नीं कृण्वन्तु। हे वीर ! यस्त्वङ्गिरस्वद् ध्रुवोऽस्यन्तरिक्षमसि यं त्वा रुद्रास्त्रैष्टुभेन छन्दसा मम स्वामिनं कृण्वन्तु। स त्वं मयि प्रजां रायस्पोषं गौपत्यं सुवीर्य्यं च धारय। आवां सजातान् सुशिक्ष्य वेदशिक्षाध्ययनाय यजमानाय प्रदद्याव। हे विदुषि ! या त्वमङ्गिरस्वद् ध्रुवाऽसि द्यौरसि तां त्वादित्या जागतेन छन्दसा मम भार्य्यां कृण्वन्तु। हे विद्वन् ! यस्त्वमङ्गिरस्वद् ध्रुवोऽसि द्यौरसि यं त्वादित्या जागतेन छन्दसा ममाधिष्ठातारः कृण्वन्तु। स त्वं मयि प्रजां रायस्पोषं गौपत्यं सुवीर्य्यं च धारय। आवां सजातान् जन्मतः सूपदिश्य सर्वविद्याग्रहणार्थं यजमानाय समर्प्पयेव। हे सुभगे ! या त्वमङ्गिरस्वद् ध्रुवासि दिशोऽसि तां त्वा वैश्वानरा विश्वे देवा आनुष्टुभेन छन्दसा मदधीनां कृण्वन्तु। हे पुरुष ! यस्त्वमङ्गिरस्वद् ध्रुवोऽसि दिशोऽसि यं त्वा वैश्वानरा विश्वेदेवा मदधीनं कृण्वन्तु, स त्वं मयि प्रजां रायस्पोषं गौपत्यं सुवीर्य्यं च धारय। आवां सूपदेशार्थं सजातान् यजमानाय समर्प्पयेव ॥५८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यदा स्त्रीपुरुषौ परस्परं परीक्षां कृत्वाऽन्योन्यं दृढप्रीतौ स्याताम्। तदा वेदविधिना यज्ञं प्रतत्य वेदोक्तनियमान् स्वीकृत्य विवाहं विधाय धर्मेण संतानान्युत्पाद्य यावदष्टवार्षिकाः पुत्राः पुत्र्यश्च भवेयुस्तावन्मातापितरौ तान् सुशिक्षयेतामत ऊर्ध्वं ब्रह्मचर्य्यं ग्राहयित्वा विद्याध्ययनाय स्वगृहादतिदूरे आप्तानां विदुषां विदुषीणां च पाठशालासु प्रेषयेताम्। अत्र यावतो धनस्य व्ययः कर्त्तुं योग्योऽस्ति, तावन्तं कुर्य्याताम्, नहि संतानानां विद्यादानमन्तरा कश्चिदुपकारो धर्मश्चास्ति। तस्मादेतत् सततं समाचरेताम् ॥५८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपामालंकार आहे. स्त्री व पुरुष यांनी एकमेकांची परीक्षा करावी व आपापसात दृढ प्रेम उत्पन्न झाल्यास वेदोक्त रीतीने यज्ञाचा विस्तार करून वेदोक्त नियमांप्रमाणे विवाह करावा व धर्मपूर्वक संतानांना जन्म द्यावा. जेव्हा कन्या व पुत्र आठ आठ वर्षांचे होतील तेव्हा आई-वडिलांनी त्यांना चांगले शिक्षण द्यावे. त्यानंतर ब्रह्मचर्य धारण करून त्यांना विद्या शिकण्यासाठी घरांपासून दूर आप्त विद्वान स्त्री-पुरुषांच्या पाठशाळेत पाठवावे. पाठशाळेमध्ये जितके धन खर्च करणे योग्य आहे तितकेच खर्च करावे. कारण संतानासाठी विद्यादानाखेरीज कोणताही उपकार किंवा धर्म नसतो. म्हणून त्याचे निरंतर अनुष्ठान करावे.
५९ अदित्यै रास्नास्यदितिष्टे
विश्वास-प्रस्तुतिः ...{Loading}...
अदि॑त्यै॒ रास्ना॒स्यदि॑तिष्टे॒ बिलं॑ गृभ्णातु। कृ॒त्वाय॒ सा म॒हीमु॒खां मृ॒न्मयीं॒ योनि॑म॒ग्नये॑। पु॒त्रेभ्यः॒ प्राय॑च्छ॒ददि॑तिः श्र॒पया॒निति॑ ॥५९ ॥
मूलम् ...{Loading}...
अदि॑त्यै॒ रास्ना॒स्यदि॑तिष्टे॒ बिलं॑ गृभ्णातु। कृ॒त्वाय॒ सा म॒हीमु॒खां मृ॒न्मयीं॒ योनि॑म॒ग्नये॑। पु॒त्रेभ्यः॒ प्राय॑च्छ॒ददि॑तिः श्र॒पया॒निति॑ ॥५९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अदि॑त्यै। रास्ना॑। अ॒सि॒। अदि॑तिः। ते॒। बिल॑म्। गृ॒भ्णा॒तु॒। कृ॒त्वाय॑। सा। म॒हीम्। उ॒खाम्। मृ॒न्मयी॒मिति॑ मृ॒त्ऽमयी॑म्। योनि॑म्। अ॒ग्नये॑। पु॒त्रेभ्यः॑। प्र। अ॒य॒च्छ॒त्। अदि॑तिः। श्र॒पया॑न्। इति॑। ५९।
महीधरः
म० ‘वितृतीय उत्तरे वर्तिᳪं᳭ सर्वतः करोत्यदित्यै रास्नेति’ (का० १६ । ३ । ३०) । उखोर्ध्वमानं त्रेधा विभज्योपरि तृतीयभागे सर्वत्र मृन्मयीं मेखलां करोति तलान्मेखलान्तमपि प्रतिदिशं चतुर्वृत्तीरग्रे स्तनयुक्ताः कुर्यादिति सूत्रार्थः । रास्नादेवत्यम् यजुर्गायत्री । हे रेखे, त्वमदित्यै अदितिरूपाया उखाया रास्ना काञ्चीगुणस्थानीयासि । ‘बिलं गृह्णात्यदितिष्ट इति’ ( का० १६ । ४ । ३) । उखाया मुखमालभते । उखादेवत्यम् यजुर्बृहती । हे उखे, अदितिः देवमाता ते तव बिलं मध्यं गृभ्णातु गृह्णातु । ‘कृत्वायेति निदधाति’ (का० १६ । ४ । ४)। एवमुखां निष्पाद्य भूमौ स्थापयतीति सूत्रार्थः । अदितिदेवत्या उष्णिगनुष्टुब् वा । उष्णिक्पक्षे तृतीयपादश्चतुर्दशार्णस्तेन द्य्।धिका अनुष्टुप्पक्षे तृतीयः षडर्णो व्यूह्यः । सा पूर्वोक्ता अदितिः उखां । कृत्वाय क्त्वो यक् । कृत्वा निष्पाद्य पुत्रेभ्यो देवेभ्यः इति वदन्ती प्रायच्छत् । इति किम् । श्रपयान् श्रपयन्तु । ‘श्रा पाके’ णिजन्तः । हे पुत्राः, इमामुखां भवन्तः श्रपयन्तु पचन्तु । ‘इतश्च लोपः परस्मैपदेषु’ (पा० ३ । ४ । ९७ ) इति अन्तीत्यस्येकारलोपे संयोगान्तलोपे च ‘लेटोऽडाटौ’ (पा० ३ । ४ । ९४ ) इत्यडागमे श्रपयानिति रूपम् । कीदृशीमुखाम् । महीं महतीं विशालां मृण्मयीं मृत्कार्यभूताम् अग्नये अग्न्यर्थमग्नेर्वा योनिं स्थानभूताम् ॥ ५९॥
षष्ठी।
अधिमन्त्रम् (VC)
- अदितिर्देवता
- सिन्धुद्वीप ऋषिः
- आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे पढ़ाने हारी विदुषी स्त्री ! जिस कारण तू (अदित्यै) विद्याप्रकाश के लिये (रास्ना) दानशील (असि) है इसलिये (ते) तुझ से (बिलम्) ब्रह्मचर्य्य को धारण (कृत्वाय) करके (अदितिः) पुत्र और कन्या विद्या को (गृभ्णातु) ग्रहण करें सो (सा) तू (अदितिः) माता (मृन्मयीम्) मट्टी की (योनिम्) मिली और पृथक् (महीम्) बड़ी (उखाम्) पकाने की बटलोई को (अग्नये) अग्नि के निकट (पुत्रेभ्यः) पुत्रों को (प्रायच्छत्) देवे। विद्या और अच्छी शिक्षा से युक्त होकर बटलोई में (इति) इस प्रकार (श्रपयान्) अन्नादि पदार्थों को पकाओ ॥५९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - लड़के पुरुषों की और लड़कियाँ स्त्रियों की पाठशाला में जा ब्रह्मचर्य्य की विधिपूर्वक सुशीलता से विद्या और भोजन बनाने की क्रिया सीखें और आहार-विहार भी अच्छे नियम से सेवें। कभी विषय की कथा न सुनें। मद्य, मांस, आलस्य और अत्यन्त निद्रा को त्याग के पढ़ानेवाले की सेवा और उस के अनुकूल वर्त्त के अच्छे नियमों को धारण करें ॥५९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अध्यापिके विदुषि ! यतस्त्वमदित्यै रास्नासि, तस्मात् ते तव सकाशाद् बलं ब्रह्मचर्य्यधारणं कृत्वायादितिर्विद्या गृभ्णातु साऽदितिर्भवती मृन्मयीं योनिं महीमुखामग्नये पुत्रेभ्यश्च प्रायच्छत्। विद्यासुशिक्षाभ्यां युक्ता भूत्वोखामिति श्रपयानन्नादिपाकं कुर्वन्तु ॥५९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - कुमाराः पुरुषशालां कुमार्य्यश्च स्त्रीशालां गत्वा ब्रह्मचर्य्यं विधाय सुशीलतया विद्याः पाकविधिं च गृह्णीयुः। आहारविहारानपि सुनियमेन सेवयेयुः। न कदाचिद्विषयकथां शृणुयुः। मद्यमांसालस्यातिनिद्रां विहायाध्यापकसेवानुकूलताभ्यां वर्त्तित्वा सुव्रतानि धरेयुः ॥५९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - मुलांनी मुलांच्या शाळेत व मुलींनी मुलींच्या शाळेत जावे. ब्रह्मचर्य पाळून सुशील बनावे. विद्या प्राप्त करून भोजन तयार करण्याची क्रिया शिकावी. चांगल्या प्रकारे नियमपूर्वक आहार-विहार करावा. विषयाच्या गोष्टी कधी ऐकू नयेत. मद्य, मांसाचे सेवन करू नये, आळस व अतिनिद्रा सोडावी. शिकविणाऱ्यांची सेवा करून त्यांच्या अनुकूल वागावे व चांगल्या नियमांचे पालन करावे.
६० वसवस्त्वा धूपयन्तु
विश्वास-प्रस्तुतिः ...{Loading}...
वस॑वस्त्वा धूपयन्तु गाय॒त्रेण॒ छन्द॑साङ्गिर॒स्वद् रु॒द्रास्त्वा॑ धूपयन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साङ्गिर॒स्वदा॑दि॒त्यास्त्वा॑ धूपयन्तु॒ जाग॑तेन॒ छन्द॑साङ्गिर॒स्वद् विश्वे॑ त्वा दे॒वा वैश्वान॒रा धू॑पय॒न्त्वानु॑ष्टुभेन॒ छन्द॑साङ्गिर॒स्वदिन्द्र॑स्त्वा धूपयतु॒ वरु॑णस्त्वा धूपयतु॒ विष्णु॑स्त्वा धूपयतु ॥६० ॥
मूलम् ...{Loading}...
वस॑वस्त्वा धूपयन्तु गाय॒त्रेण॒ छन्द॑साङ्गिर॒स्वद् रु॒द्रास्त्वा॑ धूपयन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साङ्गिर॒स्वदा॑दि॒त्यास्त्वा॑ धूपयन्तु॒ जाग॑तेन॒ छन्द॑साङ्गिर॒स्वद् विश्वे॑ त्वा दे॒वा वैश्वान॒रा धू॑पय॒न्त्वानु॑ष्टुभेन॒ छन्द॑साङ्गिर॒स्वदिन्द्र॑स्त्वा धूपयतु॒ वरु॑णस्त्वा धूपयतु॒ विष्णु॑स्त्वा धूपयतु ॥६० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वस॑वः। त्वा॒। धू॒प॒य॒न्तु॒। गा॒य॒त्रेण॑। छन्द॑सा। अ॒ङ्गि॒र॒स्वत्। रु॒द्राः। त्वा॒। धू॒प॒य॒न्तु॒। त्रैष्टु॑भेन। त्रैस्तु॑भेनेति॒ त्रैऽस्तु॑भेन। छन्द॑सा। अ॒ङ्गि॒र॒स्वत्। आ॒दि॒त्याः। त्वा॒। धू॒प॒य॒न्तु॒। जाग॑तेन। छन्द॑सा। अ॒ङ्गि॒र॒स्वत्। विश्वे॑। त्वा॒। दे॒वाः। वै॒श्वा॒न॒राः। धू॒प॒य॒न्तु॒। आनु॑ष्टुभेन। आनु॑स्तुभे॒नेत्यानु॑ऽस्तुभेन। छन्द॑सा। अ॒ङ्गि॒र॒स्वत्। इन्द्रः॑। त्वा॒। धू॒प॒य॒तु॒। वरु॑णः। त्वा॒। धू॒प॒य॒तु॒। विष्णुः॑। त्वा॒। धू॒प॒य॒तु॒। ६०।
महीधरः
म० ‘सप्तभिरश्वशकृद्भिरुखां धूपयति दक्षिणाग्न्यादीप्तेरेकैकेन वसवस्त्वेति प्रतिमन्त्रम्’ (का० १६ । ४ । ८)। दक्षिणाग्नौ प्रदीप्तैः सप्तभिरश्वलण्डैरुखां प्रतिमन्त्रं धूपयत्यध्वर्युः । धूमायमानमेकैकमश्वलण्डमादायैकेकैन मन्त्रेणोखायां मध्ये बहिश्च भ्रामयेदिति सूत्रार्थः । सप्त यजूंष्युखादेवत्यानि त्रीणि ऋग्गायत्र्यः तुर्यं सामजगती पञ्चमसप्तमे यजुरुष्णिहौ षष्ठं यजुरनुष्टुप् । हे उखे, अष्टौ वसवः गायत्रेण छन्दसा अङ्गिरस इव त्वां धूपयन्तु अश्वशकृज्जन्येन धूपेन संस्कुर्वन्तु । रुद्राः एकादश त्रैष्टुभेन छन्दसा अङ्गिरस इव त्वां धू० । आदित्या जागतेन छन्दसा । वैश्वानराः सर्वहिता विश्वेदेवाः आनुष्टुभेन छन्दसा । इन्द्रस्त्वां धूपयतु वरुणो विष्णुश्च । शेषं पूर्ववत् सुगमम् ॥ ६०॥
एकषष्टी।
अधिमन्त्रम् (VC)
- वस्वादयो मन्त्रोक्ता देवताः
- सिन्धुद्वीप ऋषिः
- स्वराट्संकृतिः
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर विद्वान् लोग पढ़ने हारे और उपदेश के योग्य मनुष्यों को कैसे शुद्ध करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे ब्रह्मचारिन् वा ब्रह्मचारिणि ! जो (वसवः) प्रथम विद्वान् लोग (गायत्रेण) वेद के (छन्दसा) गायत्री छन्द से (त्वा) तुझ को (अङ्गिरस्वत्) प्राणों के तुल्य सुगन्धित पदार्थों के समान (धूपयन्तु) संस्कारयुक्त करें (रुद्राः) मध्यम विद्वान् लोग (त्रैष्टुभेन) वेदोक्त (छन्दसा) त्रिष्टुप् छन्द से (अङ्गिरस्वत्) विज्ञान के समान (त्वा) तेरा (धूपयन्तु) विद्या और अच्छी शिक्षा से संस्कार करें (आदित्याः) सर्वोत्तम अध्यापक विद्वान् लोग (जागतेन) (छन्दसा) वेदोक्त जगती छन्द से (अङ्गिरस्वत्) ब्रह्माण्ड के शुद्ध वायु के सदृश (त्वा) तेरा (धूपयन्तु) धर्मयुक्त व्यवहार के ग्रहण से संस्कार करें (वैश्वानराः) सब मनुष्यों में सत्य, धर्म और विद्या के प्रकाश करनेवाले (विश्वे) सब (देवाः) सत्योपदेष्टा विद्वान् लोग (आनुष्टुभेन) वेदोक्त अनुष्टुप् (छन्दसा) छन्द से (अङ्गिरस्वत्) बिजुली के समान (त्वा) तेरा (धूपयन्तु) सत्योपदेश से संस्कार करें (इन्द्रः) परम ऐश्वर्य्ययुक्त राजा (त्वा) तेरा (धूपयतु) राजनीति विद्या से संस्कार करे (वरुणः) श्रेष्ठ न्यायाधीश (त्वा) तुझ को (धूपयतु) न्यायक्रिया से संयुक्त करे और (विष्णुः) सब विद्या और योगाङ्गों का वेत्ता योगीजन (त्वा) तुझ को (धूपयतु) योगविद्या से संस्कारयुक्त करे, तू इन सब की सेवा किया कर ॥६० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सब अध्यापक स्त्री और पुरुषों को चाहिये कि सब श्रेष्ठ क्रियाओं से कन्याओं और पुत्रों को विद्या और शिक्षा से युक्त शीघ्र करें। जिससे ये पूर्ण ब्रह्मचर्य्य ही कर के गृहाश्रम आदि का यथोक्त काल में आचरण करें ॥६० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्विद्वांसोऽध्येतॄनुपदेश्यान् मनुष्यान् कथं शोधयेयुरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे ब्रह्मचारिन् ब्रह्मचारिणि वा ! ये वसवो गायत्रेण छन्दसा त्वाङ्गिरस्वद् धूपयन्तु। रुद्रास्त्रैष्टुभेन छन्दसा त्वाङ्गिरस्वद् धूपयन्तु। आदित्या जागतेन छन्दसा त्वाङ्गिरस्वद् धूपयन्तु। वैश्वानरा विश्वेदेवा आनुष्टुभेन छन्दसा त्वाङ्गिरस्वद् धूपयन्तु। इन्द्रस्त्वा धूपयतु। वरुणस्त्वा धूपयतु। विष्णुस्त्वा धूपयत्वेतांस्त्वं सततं सेवस्व ॥६० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सर्वेऽध्यापका अखिला अध्यापिकाश्च सर्वाभिः सत्क्रियाभिर्ब्रह्मचारिणो ब्रह्मचारिणीश्च विद्यासुशिक्षाभ्यां युक्ताः सद्यः संपादयेयुः। यत एते कृतपूर्णब्रह्मचर्य्या गृहाश्रमादीन् यथाकालमाचरेयुः ॥६० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सर्व स्त्री व पुरुषांनी (अध्यापकांनी) श्रेष्ठ क्रियांद्वारे मुला-मुलींना लवकरात लवकर विद्या व शिक्षणांनी युक्त करावे. त्यामुळे पूर्ण ब्रह्मचर्याचे पालन करून ते योग्य वेळी गृहस्थाश्रमाचे आचरण करतील.
६१ अदितिष्ट्वा देवी
विश्वास-प्रस्तुतिः ...{Loading}...
अदि॑तिष्ट्वा दे॒वी वि॒श्वदे॑व्यावती पृथि॒व्याः स॒धस्थे॑ऽअङ्गिर॒स्वत् ख॑नत्ववट दे॒वानां॑ त्वा॒ पत्नी॑र्दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ऽअङ्गिर॒स्वद् द॑धतूखे धि॒षणा॑स्त्वा दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ऽअङ्गिर॒स्वद॒भी᳖न्धतामुखे॒ वरू॑त्रीष्ट्वा दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ऽअङ्गिर॒स्वच्छ्र॑पयन्तूखे॒ ग्नास्त्वा॑ दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ऽअङ्गिर॒स्वत् प॑चन्तूखे॒ जन॑य॒स्त्वाऽछि॑न्नपत्रा दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ऽअङ्गिर॒स्वत् प॑चन्तूखे ॥६१ ॥
मूलम् ...{Loading}...
अदि॑तिष्ट्वा दे॒वी वि॒श्वदे॑व्यावती पृथि॒व्याः स॒धस्थे॑ऽअङ्गिर॒स्वत् ख॑नत्ववट दे॒वानां॑ त्वा॒ पत्नी॑र्दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ऽअङ्गिर॒स्वद् द॑धतूखे धि॒षणा॑स्त्वा दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ऽअङ्गिर॒स्वद॒भी᳖न्धतामुखे॒ वरू॑त्रीष्ट्वा दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ऽअङ्गिर॒स्वच्छ्र॑पयन्तूखे॒ ग्नास्त्वा॑ दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ऽअङ्गिर॒स्वत् प॑चन्तूखे॒ जन॑य॒स्त्वाऽछि॑न्नपत्रा दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ऽअङ्गिर॒स्वत् प॑चन्तूखे ॥६१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अदि॑तिः। त्वा॒। दे॒वी। वि॒श्वदे॑व्यावती। वि॒श्वदे॑व्यव॒तीति॑ वि॒श्वदे॑व्यऽवती। पृ॒थि॒व्याः। स॒धस्थ॒ इति॑ स॒धऽस्थे॑। अ॒ङ्गि॒र॒स्वत्। ख॒न॒तु॒। अ॒व॒ट॒। दे॒वाना॑म्। त्वा॒। पत्नीः॑। दे॒वीः। वि॒श्वदे॑व्यावतीः। वि॒श्वदे॑व्यवती॒रिति॑ वि॒श्वदे॑व्यऽवतीः। पृ॒थि॒व्याः। स॒धस्थ॒ इति॑ स॒धऽस्थे॑। अ॒ङ्गि॒र॒स्वत्। द॒ध॒तु॒। उ॒खे॒। धि॒षणाः॑। त्वा॒। दे॒वीः। वि॒श्वदे॑व्यावतीः। वि॒श्वदे॑व्यवती॒रिति॑ वि॒श्वदे॑व्यऽवतीः। पृ॒थि॒व्याः। स॒धस्थ॒ इति॑ स॒धऽस्थे॑। अ॒ङ्गि॒र॒स्वत्। अ॒भि। इ॒न्ध॒ता॒म्। उ॒खे॒। वरू॑त्रीः। त्वा॒। दे॒वीः। वि॒श्वदे॑व्यावतीः। वि॒श्वदे॑व्यवती॒रिति॑ वि॒श्वदे॑व्यऽवतीः। पृ॒थि॒व्याः। स॒धस्थ॒ इति॑ स॒धऽस्थे॑। अ॒ङ्गि॒र॒स्वत्। श्र॒प॒य॒न्तु॒। उ॒खे॒। ग्नाः। त्वा॒। दे॒वीः। वि॒श्वदे॑व्यावतीः। वि॒श्वदे॑व्यवती॒रिति॑ वि॒श्वदे॑व्यऽवतीः। पृ॒थि॒व्याः। स॒धस्थ॒ इति॑ स॒धऽस्थे। अ॒ङ्गि॒र॒स्वत्। प॒च॒न्तु॒। उ॒खे॒। जन॑यः। त्वा॒। अच्छि॑न्नपत्रा॒ इत्यच्छि॑न्नऽपत्राः। दे॒वीः। वि॒श्वदे॑व्यावतीः। वि॒श्वदे॑व्यवती॒रिति॑ वि॒श्वदे॑व्यऽवतीः। पृ॒थि॒व्याः। स॒धस्थ॒ इति॑ स॒धऽस्थे॑। अ॒ङ्गि॒र॒स्वत्। प॒च॒न्तु॒। उ॒खे॒। ६१।
महीधरः
म० ‘अभ्र्या श्वभ्रं चतुरस्रं खनत्यदितिष्ट्वेति’ (का. १६ । ४ । ९)। अषाढोखाविश्वज्योतिषां पाकाय चतुरस्रं गर्तमभ्र्या खनतीति सूत्रार्थः । अवटदेवत्यम् प्राजापत्या त्रिष्टुप् । हे अवट गर्त, अदितिर्देवी पृथिव्याः सधस्थे सहस्थाने उपरिभागे त्वा त्वां खनतु । अङ्गिरस इव यथाङ्गिरोभिस्त्वं खातस्तद्वत् । कीदृश्यदितिः । विश्वदेव्यावती विश्वेषां देवानां समूहो विश्वदेव्यम् तद्विद्यते यस्याः सा विश्वदेव्यवती। मन्त्रे ‘सोमाश्व-’ ( पा० ६ । ३ । १३१) इत्यादिना दीर्घः । सर्वैर्देवैः सहिता। विश्वेषु देवेषु साधवो विश्वदेव्याः तेऽस्यां सन्तीति वा । ‘देवानां त्वेत्युखां न्युब्जाम्’ (का० १६ । ४ । ११) इति । अधोमुखामुखामषाढोत्तरतो गर्ते स्थापयतीति सूत्रार्थः । पञ्च यजूंष्युखादेवत्यानि द्वे प्राजापत्ये त्रिष्टुभौ । विश्वदेव्यावतीः विश्वैः देवैः सहिताः देवानां पत्नीः देवीः देवपत्न्यो देव्यो दीप्यमाना ओषधयः पृथिव्याः सधस्थे उपरि अङ्गिरस इव हे उखे, त्वा त्वां दधतु स्थापयन्तु । देवपत्नीशब्देनौषधयः श्रुत्योक्ताः । तथाच श्रुतिः ‘ओषधयो वै देवानां पत्न्यः’ (६ । ५ । ४ । ४) इति । ‘श्रपणेनावच्छाद्य दक्षिणान्यग्निना दीपयति धिषणास्त्वेति’ । (का. १६ । ४ । १२) । उखास्थापनानन्तरं विश्वज्योतिषस्तूष्णीं श्वभ्रेऽवधाय श्रपणैः सर्वमाच्छाद्य दक्षिणाग्नेरानीतेन वह्निनोखां दीपयतीति सूत्रार्थः। विश्वदेवयुक्ता धिषणाः वागभिमानिन्यो देव्यः पृथिव्याः उपरि अङ्गिरस इव हे उखे, त्वामभीन्धतां समन्ताद्दीपयन्तु । ‘वरूत्रीष्ट्वेतीक्षमाणो जपति’ (का० १६ । ४ । १४) । सामर्थ्यादुखोपरिस्थश्रपणे छिद्रं कृत्वा तेनोखां पश्यन् त्रीणि यजूंषि जपतीति सूत्रार्थः । ऋगबृहती । विश्वदेवयुता वरूत्रयो देव्योहोरात्राभिमानिन्यो देवताः पृथिव्या उपरि अङ्गिरस इव हे उखे, त्वां श्रपयन्तु पच्यमानतां संपादयन्तु । ‘अहोरात्राणि वै वरूत्रयोऽहोरात्रैर्हीदᳪं᳭ सर्वं वृतम्’ ( ६ । ५ । ४ । ६) इति श्रुतेर्वरूत्रिशब्देनाहोरात्राणि । ग्नास्त्वा । साम जगती । ‘छन्दाᳪं᳭सि ह वै ग्नाश्छन्दोभिर्हि स्वर्गं लोकं गच्छन्ति’ ( ६ । ५। ४ । ७) इति श्रुतेर्ग्नाशब्देन छन्दांसि । विश्वदेवयुता ग्नादेव्यश्छन्दोभिमानिन्यो देवताः पृथिव्या उपरि हे उखे, अङ्गिरस इव त्वां पचन्तु । जनयस्त्वा । ऋक्पङ्क्तिः । ‘नक्षत्राणि वै जनयः’ (६। ५ । ४ । ८) इति श्रुतेर्जनयो नक्षत्राभिमानिन्यो देवताः हे उखे, त्वां पचन्तु । कीदृश्यो जनयः । अच्छिन्नपत्राः अच्छिन्नं पत्रं पतनं यासां ताः सन्ततयायिन्यः । शिष्टं स्पष्टम् ॥ ६१॥
द्विषष्टी।
अधिमन्त्रम् (VC)
- आदित्यादयो लिङ्गोक्ता देवताः
- सिन्धुद्वीप ऋषिः
- भुरिक्कृतिः, निचृत् प्रकृतिः
- निषादः, धैवतः
६२ मित्रस्य चर्षणीधृतोऽवो
विश्वास-प्रस्तुतिः ...{Loading}...
मि॒त्रस्य॑ चर्षणी॒धृतोऽवो॑ दे॒वस्य॑ सान॒सि। द्यु॒म्नं चि॒त्रश्र॑वस्तमम् ॥६२ ॥
मूलम् ...{Loading}...
मि॒त्रस्य॑ चर्षणी॒धृतोऽवो॑ दे॒वस्य॑ सान॒सि। द्यु॒म्नं चि॒त्रश्र॑वस्तमम् ॥६२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मि॒त्रस्य॑। च॒र्ष॒णी॒धृत॒ इति॑ चर्षणि॒ऽधृतः॑। अवः॑। दे॒वस्य॑। सा॒न॒सि। द्यु॒म्नम्। चि॒त्रश्र॑वस्तम॒मिति॑ चि॒त्रश्र॑वःऽतमम्। ६२।
महीधरः
म० ‘आचरति मित्रस्येति’ (का. १६ । ४ । १५)। पाकान्तं श्रपणं क्षिपतीति सूत्रार्थः । मित्रदेवत्या गायत्री विश्वामित्रदृष्टा । मित्रस्यादित्यस्य अवो रक्षणं द्युम्नं यशोऽन्नं वा वयं स्तुम इति शेषः । याजेमहीति वा । कीदृशस्य मित्रस्य । चर्षणीधृतः चर्षणयो मनुष्यास्तान्धरतीति चर्षणिधृत् तस्य । संहितायां दीर्घः । मनुष्याणां धारयितुः । देवस्य दीप्यमानस्य । कीदृशमवः । सानसि सनातनम् । सानसीति पुराणनाम (निघ० ३ । २७ । ४) फलदानशीलं वा ‘षणु दाने’ इत्यस्य प्रयोगः । कीदृशम् । द्युम्नं चित्रश्रवस्तमं चित्रं विचित्रमनेकैः श्रूयते तचित्रश्रवः ‘श्रु श्रवणे’ अस्मात्कर्मण्यसुन् । अतिशयेन चित्रश्रव इति चित्रश्रवस्तममत्यन्तं श्रवणीयं यशः प्रार्थयामेति भावः ॥ ६२॥
त्रिषष्टी।
अधिमन्त्रम् (VC)
- मित्रो देवता
- विश्वामित्र ऋषिः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
जो जिस पुरुष की स्त्री होवे वह उसके ऐश्वर्य की निरन्तर रक्षा करे, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्री ! तू (चर्षणीधृतः) अच्छी शिक्षा से मनुष्यों का धारण करने हारे (मित्रस्य) मित्र (देवस्य) कमनीय अपने पति के (चित्रश्रवस्तमम्) आश्चर्य्यरूप अन्नादि पदार्थ जिससे हों, ऐसे (सानसि) सेवन योग्य प्राचीन (द्युम्नम्) धन की (अवः) रक्षा कर ॥६२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - घर के काम करने में कुशल स्त्री को चाहिये कि घर के भीतर के सब काम अपने आधीन रख के ठीक बढ़ाया करे ॥६२ ॥
दयानन्द-सरस्वती (सं) - विषयः
या यस्य स्त्री भवेत् सा तस्यैश्वर्यं सततं रक्षेदित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! त्वं चर्षणीधृतो मित्रस्य देवस्य पत्युश्चित्रश्रवस्तमं सानसि द्युम्नमवः ॥६२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - गृहकृत्यकुशलया स्त्रिया सर्वाण्यन्तर्गृहकृत्यानि स्वाधीनानि रक्षित्वा यथावदुन्नेयानि ॥६२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - घरात कार्य करणाऱ्या कुशल स्त्रीने घरातील सर्व काम आपल्या स्वाधीन ठेवून व्यवस्थित व्यवहार करावा.
६३ देवस्त्वा सवितोद्वपतु
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वस्त्वा॑ सवि॒तोद्व॑पतु सुपा॒णिः स्व॑ङ्गु॒रिः सु॑बा॒हुरु॒त शक्त्या॑। अव्य॑थमाना पृथि॒व्यामाशा॒ दिश॒ऽआपृ॑ण ॥६३ ॥
मूलम् ...{Loading}...
दे॒वस्त्वा॑ सवि॒तोद्व॑पतु सुपा॒णिः स्व॑ङ्गु॒रिः सु॑बा॒हुरु॒त शक्त्या॑। अव्य॑थमाना पृथि॒व्यामाशा॒ दिश॒ऽआपृ॑ण ॥६३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दे॒वः। त्वा॒। स॒वि॒ता। उत्। व॒प॒तु॒। सु॒पा॒णिरिति॑ सुऽपा॒णिः। स्व॑ङ्गु॒रिरिति॑ सुऽअङ्गु॒रिः। सु॒बा॒हुरिति॑ सुऽबा॒हुः। उ॒त। शक्त्या॑। अव्य॑थमाना। पृ॒थि॒व्याम्। आशाः॑। दिशः॑। आ। पृ॒ण॒। ६३।
महीधरः
म० ‘उद्वपति श्रपणं देवस्त्वेति’ ( का० १६ । ४ । १८-१९)। भस्मीभूतं श्रपणमुखायाः पराकरोतीति सूत्रार्थः । सवितृदेवत्या बृहती । हे उखे, सविता देवः शक्त्या स्वसामर्थ्येन उत अपि बुद्ध्या च त्वा त्वामुद्वपतु श्रपणाच्छादनात्प्रकाशीकरोतु । उतशब्दाद् बुद्धिरध्याहार्या । कीदृशः सविता । सुपाणिः शोभनौ पाणी हस्तौ यस्य स सुपाणिः । स्वङ्गुरिः शोभना अङ्गुलयः करस्था यस्य स स्वङ्गुलिः । लकारस्य रेफश्छान्दसः । सुबाहुः शोभनौ बाहू भुजौ यस्य स सुबाहुः । मणिबन्धादुपरिभागो बाहुः अधोभागः पाणिः । ‘उखामुत्तानां करोत्यव्यथमानेति’ (का० १६ । ४ । १९–२०)। श्रपणमपाकृत्याषाढां बहिर्निष्काश्योखामुत्तानामूर्ध्वमुखीं करोतीति सूत्रार्थः । हे उखे, सवित्रा उदुप्ता सती अव्यथमाना अचलन्ती व्यथामनाप्नुवन्ती पृथिव्यां स्थिता सती त्वमाशाः प्राच्यादिदिशः आग्नेय्यादिविदिशश्च आपृण आपूरय । आहुतिरसेनेति शेषः ॥ ६३ ॥
चतुःषष्टी।
अधिमन्त्रम् (VC)
- सविता देवता
- विश्वामित्र ऋषिः
- भुरिग्बृहती बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! (सुबाहुः) अच्छे जिसके भुजा (सुपाणिः) सुन्दर हाथ और (स्वङ्गुरिः) शोभायुक्त जिसकी अंगुली हो ऐसा (सविता) सूर्य के समान ऐश्वर्य्यदाता (देवः) अच्छे गुण, कर्म और स्वभावों से युक्त पति (शक्त्या) अपने सामर्थ्य से (पृथिव्याम्) पृथिवी पर स्थित (त्वा) तुझ को (उद्वपतु) वृद्धि के साथ गर्भवती करे। (उत) और तू भी अपने सामर्थ्य से (अव्यथमाना) निर्भय हुई पति के सेवन से अपनी (आशाः) इच्छा और कीर्ति से सब (दिशः) दिशाओं को (आपृण) पूरण कर ॥६३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - स्त्रीपुरुषों को चाहिये कि आपस में प्रसन्न एक-दूसरे को हृदय से चाहनेवाले परस्पर परीक्षा कर अपनी-अपनी इच्छा से स्वयंवर विवाह कर अत्यन्त विषयासक्ति को त्याग, ऋतुकाल में गमन करनेवाले होकर, अपने सामर्थ्य की हानि कभी न करें। क्योंकि इसी से जितेन्द्रिय स्त्री-पुरुषों के शरीर में कोई रोग प्रगट और बल की हानि भी नहीं होती। इसलिये इस का अनुष्ठान अवश्य करना चाहिये ॥६३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! सुबाहुः सुपाणिः स्वङ्गुरिः सवितेव देवः पतिः शक्त्या पृथिव्यां त्वोद्वपतूत शक्त्याऽव्यथमाना सती त्वं पत्युः सेवनेन स्वकीया आशा यशसा दिशश्च आपृण ॥६३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - स्त्रीपुरुषौ परस्परं प्रीतौ हृद्यौ सुपरीक्षितौ स्वेच्छया स्वयंवरं विवाहं कृत्वाऽतिविषयासक्तिं विहाय ऋतुगामिनौ सन्तौ सामर्थ्यहानिं कदाचिन्न कुर्य्याताम्। नहि जितेन्द्रिययोः स्त्रीपुरुषयो रोगप्रादुर्भावो बलहानिश्च जायते। तस्मादेतदनुतिष्ठेताम् ॥६३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - स्त्री-पुरुषांनी आपापसात प्रसन्न राहून एकमेकांवर अंतःकरणपूर्वक प्रेम करून परस्पर परीक्षा करून आपापल्या इच्छेने स्वयंवर विवाह करावा. अत्यंत विषयासक्तीचा त्याग करावा व ऋतुकालीच समागम करावा. आपल्या सामर्थ्याची हानी कधीच करू नये. यामुळेच स्त्री-पुरुष जितेन्द्रिय होतात. शरीर रोगी होत नाही, त्याच्या शक्तीचा ऱ्हास होत नाही. त्यासाठी अशा प्रकारचे अनुष्ठान केले पाहिजे.
६४ उत्थाय बृहती
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒त्थाय॑ बृह॒ती भ॒वोदु॑ तिष्ठ ध्रु॒वा त्वम्। मित्रै॒तां त॑ऽउ॒खां परि॑ ददा॒म्यभि॑त्याऽए॒षा मा भे॑दि ॥६४ ॥
मूलम् ...{Loading}...
उ॒त्थाय॑ बृह॒ती भ॒वोदु॑ तिष्ठ ध्रु॒वा त्वम्। मित्रै॒तां त॑ऽउ॒खां परि॑ ददा॒म्यभि॑त्याऽए॒षा मा भे॑दि ॥६४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उ॒त्थाय॑। बृ॒ह॒ती। भ॒व॒। उत्। ऊँ॒ इत्यूँ॑। ति॒ष्ठ॒। ध्रु॒वा। त्वम्। मित्र॑। ए॒ताम्। ते॒। उ॒खाम्। परि॑। द॒दा॒मि॒। अभि॑त्यै। ए॒षा। मा। भे॒दि॒। ६४।
महीधरः
म० ‘उद्यच्छत्युत्थायेति परिगृह्य’ (का० १६।४।२१-२२)। हस्ताभ्यामुखामादाय पाकादूर्ध्वं निष्काशयतीति सूत्रार्थः । बृहती पूर्वोऽर्धर्च उखादेवत्यः उत्तरार्धो मित्रदेवत्यः । हे उखे, त्वमुत्थायैतस्मादवटाद्बहिरागत्य बृहती महती भव । तत उत्तिष्ठ स्वकर्मणि प्रवर्तस्व । यतः त्वं ध्रुवा स्थिरासि स्वभावतः । उकारः पादपूरणः । ‘पात्रे करोति मित्रैतां त इति’ (का. १६ । ४ । २२) । हस्तगृहीतामुखामुत्तरतः पूर्वस्थापिते कस्मिंश्चित्पात्रे स्थापयतीति सूत्रार्थः । ततो विश्वज्योतिषां तूष्णीमुद्वपनम् । हे मित्र सर्वप्राणिहितकारिन् देव, एतामुखां ते तव परिददामि परित्राणाय प्रयच्छामि । किमर्थम् । अभित्त्यै भेदनं भित्तिः न भित्तिरभित्तिस्तस्यै अभेदनाय । एषा चोखा त्वया गृहीता सती मा भेदि मा भिद्यतां विदीर्णा मास्तु ॥ ६४ ॥
पञ्चषष्टी।
अधिमन्त्रम् (VC)
- मित्रो देवता
- विश्वामित्र ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसी होवे, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विदुषि कन्ये ! (त्वम्) तू (ध्रुवा) मङ्गल कार्य्यों में निश्चित बुद्धिवाली और (बृहती) बड़े पुरुषार्थ से युक्त (भव) हो। विवाह करने के लिये (उत्तिष्ठ) उद्यत हो (उत्थाय) आलस्य छोड़ के उठकर इस पति का स्वीकार कर। हे (मित्र) मित्र ! (ते) तेरे लिये (एताम्) इस (उखाम्) प्राप्त होने योग्य कन्या को (अभित्यै) भयरहित होने के लिये (परिददामि) सब प्रकार देता हूँ (उ) इसलिये तू (एषा) इस प्रत्यक्ष प्राप्त हुई स्त्री को (मा भेदि) भिन्न मत कर ॥६४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - कन्या और वर को चाहिये कि अपनी-अपनी प्रसन्नता से कन्या पुरुष की और पुरुष कन्या की आप ही परीक्षा कर के ग्रहण करने की इच्छा करें। जब दोनों का विवाह करने में निश्चय होवे, तभी माता-पिता और आचार्य आदि इन दोनों का विवाह करें और ये दोनों आपस में भेद वा व्यभिचार कभी न करें, किन्तु अपनी स्त्री के नियम में पुरुष और पतिव्रता स्त्री होकर मिल के चलें ॥६४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः सा कीदृशीत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विदुषि कन्ये ! त्वं ध्रुवा बृहती भव, विवाहायोत्तिष्ठ, उत्थायैतं पतिं स्वीकुरु। हे मित्र ! त एतामुखामभित्यै परिददामि, उ त्वयैषा मा भेदि ॥६४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - कन्या वरश्च स्वप्रियं पुरुषं स्वकान्तां कन्यां च स्वयं परीक्ष्य स्वीकर्त्तुमिच्छेत्। यदा द्वयोर्विवाहकरणे निश्चयः स्यात्, तदैव मातापित्राचार्यादय एतयोर्विवाहं कुर्युरेतौ परस्परं भेदभावं व्यभिचारं च कदाचिन्न कुर्याताम्। किं तु स्वस्त्रीव्रतः पुमान् स्वपतिव्रता स्त्री च सङ्गतौ स्याताम् ॥६४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - स्त्रीने पुरुषाची व पुरुषाने स्त्रीची परीक्षा करून प्रसन्नतेने एकमेकांचा स्वीकार करण्याची इच्छा बाळगावी. जेव्हा दोघांचा विवाह करण्याचा निश्चय होईल तेव्हा माता-पिता, आचार्य इत्यादींनी त्या दोघांचा विवाह करावा. त्या दोघांचा आपापसात मतभेद होता कामा नये किंवा त्यांनी व्यभिचारही करता कामा नये. पुरुषाने स्त्रीच्या आधीन असावे व स्त्रीने पतिव्रता असावे. दोघांनी एकरूप बनून वागावे.
६५ वसवस्त्वाऽऽछृन्दन्तु गायत्रेण
विश्वास-प्रस्तुतिः ...{Loading}...
वस॑व॒स्त्वाऽऽछृ॑न्दन्तु गाय॒त्रेण॒ छन्द॑साऽङ्गिर॒स्वद् रु॒द्रास्त्वाऽऽछृ॑न्दन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साऽङ्गिर॒स्वदा॑दि॒त्यास्त्वाऽऽछृ॑न्दन्तु॒ जाग॑तेन॒ छन्द॑साऽङ्गिर॒स्वद् विश्वे॑ त्वा दे॒वा वै॑श्वान॒राऽऽआछृ॑न्द॒न्त्वानु॑ष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वत् ॥६५ ॥
मूलम् ...{Loading}...
वस॑व॒स्त्वाऽऽछृ॑न्दन्तु गाय॒त्रेण॒ छन्द॑साऽङ्गिर॒स्वद् रु॒द्रास्त्वाऽऽछृ॑न्दन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साऽङ्गिर॒स्वदा॑दि॒त्यास्त्वाऽऽछृ॑न्दन्तु॒ जाग॑तेन॒ छन्द॑साऽङ्गिर॒स्वद् विश्वे॑ त्वा दे॒वा वै॑श्वान॒राऽऽआछृ॑न्द॒न्त्वानु॑ष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वत् ॥६५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वस॑वः। त्वा॒। आ। छृ॒न्द॒न्तु॒। गा॒य॒त्रेण॑। छन्द॑सा। अ॒ङ्गि॒र॒स्वत्। रु॒द्राः। त्वा॒। आ। छृ॒न्द॒न्तु॒। त्रैष्टु॑भेन। त्रैस्तु॑भे॒नेति॒ त्रैऽस्तु॑भेन। छन्द॑सा। अ॒ङ्गि॒र॒स्वत्। आ॒दि॒त्याः। त्वा। आ। छृ॒न्द॒न्तु॒। जाग॑तेन। छन्द॑सा। अ॒ङ्गि॒र॒स्वत्। विश्वे॑। त्वा॒। दे॒वाः। वै॒श्वा॒न॒राः। आ। छृ॒न्द॒न्तु॒। आनु॑ष्टुभेन। आनु॑स्तुभे॒नेत्यानु॑ऽस्तुभेन। छन्द॑सा। अ॒ङ्गि॒र॒स्वत्। ६५।
महीधरः
म०. ‘अजापयसावसिञ्चति वसवस्त्वेति प्रतिमन्त्रमिति’ (का. १६ । ४ । २३)। चतुर्मन्त्रैश्चतुर्वारमजादुग्धमुखायामवनयतीति सूत्रार्थः । उखादेवत्यानि चत्वारि आद्या ऋग्गायत्री । हे उखे, वसवः गायत्रेण छन्दसाङ्गिरस इव त्वा त्वामाच्छृन्दन्तु समन्तासिञ्चन्तु । ‘उच्छृदिर् दीप्तिदेवनयोः’ रुधादिः अत्र सेचनार्थः । रुद्राः । प्राजापत्यानुष्टुप् । रुद्रास्त्वा त्रैष्टुभेन छन्दसा आच्छृन्दन्तु । आदित्याः । ऋग्गायत्री । आदित्याः जगतीच्छन्दसा त्वां छृन्दन्तु । विश्वे । सामजगती। वैश्वानराः सर्वहिता विश्वेदेवा अनुष्टुप्छन्दसा त्वां छृन्दन्तु शेषं स्पष्टम् ॥ ६५ ॥
षट्षष्टी
अधिमन्त्रम् (VC)
- वस्वादयो लिङ्गोक्ता देवताः
- विश्वामित्र ऋषिः
- भुरिग्धृतिः
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उन स्त्री-पुरुषों के प्रति विद्वान् लोग क्या करें, इस विषय का उपदेश अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि वा पुरुष ! (वसवः) प्रथम विद्वान् लोग (गायत्रेण) श्रेष्ठ विद्याओं का जिससे गान किया जावे, उस वेद के विभागरूप स्तोत्र (छन्दसा) गायत्री छन्द से जिस (त्वा) तुझ को (अङ्गिरस्वत्) अग्नि के तुल्य (आछृन्दन्तु) प्रकाशमान करें। (रुद्राः) मध्यम विद्वान् लोग (त्रैष्टुभेन) कर्म, उपासना और ज्ञान जिस से स्थिर हों, उस (छन्दसा) वेद के स्तोत्र भाग से (अङ्गिरस्वत्) प्राण के समान (त्वा) तुझ को (आछृन्दन्तु) प्रज्वलित करें। (आदित्याः) उत्तम विद्वान् लोग (जागतेन) जगत् की विद्या प्रकाश करने हारे (छन्दसा) वेद के स्तोत्रभाग से (त्वा) तुझ को (अङ्गिरस्वत्) सूर्य्य के सदृश तेजधारी (आछृन्दन्तु) शुद्ध करें। (वैश्वानराः) सम्पूर्ण मनुष्यों में शोभायमान (देवाः) सत्य उपदेश देने हारे (विश्वे) सब विद्वान् लोग (आनुष्टुभेन) विद्या ग्रहण के पश्चात् जिस से दुःखों को छुड़ावें उस (छन्दसा) वेदभाग से (त्वा) तुझ को (अङ्गिरस्वत्) समस्त ओषधियों के रस के समान (आछृन्दन्तु) शुद्ध सम्पादित करें ॥६५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्गार है। हे स्त्रीपुरुषो ! तुम दोनों को चाहिये कि जो विद्वान् पुरुष और विदुषी स्त्री लोग तुम को शरीर और आत्मा का बल कराने हारे उपदेश से सुशोभित करें, उनकी सेवा और सत्सङ्ग निरन्तर करो और अन्य तुच्छ बुद्धिवाले पुरुषों वा स्त्रियों का सङ्ग कभी मत करो ॥६५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तौ स्त्रीपुरुषौ प्रति विद्वांसः किं कुर्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि पुरुष वा ! वसवो गायत्रेण छन्दसा यां यं त्वाऽङ्गिरस्वदाछृन्दन्तु। रुद्रास्त्रैष्टुभेन छन्दसा त्वाऽङ्गिरस्वदाछृन्दन्तु। आदित्या जागतेन छन्दसा त्वाऽङ्गिरस्वदाछृन्दन्तु। वैश्वानरा विश्वे देवा आनुष्टुभेन छन्दसा त्वाऽङ्गिरस्वदाछृन्दन्तु ॥६५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्गारः। हे स्त्रीपुरुषौ ! युवां ये याश्च विद्वांसः विदुष्यश्च शरीरात्मबलकारोपदेशेन सुशोभयेयुस्तेषामेव सेवासङ्गौ सततं कुर्याताम्, नेतरेषां क्षुद्राणाम् ॥६५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. हे स्त्री पुरुषांनो ! जे विद्वान पुरुष व स्त्रिया तुमचे शरीर व आत्मा यांचे बल वाढविण्यासाठी उपदेश करून तुम्हाला उत्तम बनवितात त्यांची सेवा व सत्संग सदैव करा. इतर क्षुद्र बुद्धीच्या पुरुष व स्त्रियांचा संग कधी करू नका.
६६ आकूतिमग्निं प्रयुजम्
विश्वास-प्रस्तुतिः ...{Loading}...
आकू॑तिम॒ग्निं प्र॒युजँ॒ स्वाहा॒ मनो॑ मे॒धाम॒ग्निं प्र॒युजँ॒ स्वाहा॑ चि॒त्तं विज्ञा॑तम॒ग्निं प्र॒युजँ॒ स्वाहा॑ वा॒चो विधृ॑तिम॒ग्निं प्र॒युजँ॒ स्वाहा॑ प्र॒जाप॑तये॒ मन॑वे॒ स्वाहा॒ऽग्नये॑ वैश्वान॒राय॒ स्वाहा॑ ॥६६ ॥
मूलम् ...{Loading}...
आकू॑तिम॒ग्निं प्र॒युजँ॒ स्वाहा॒ मनो॑ मे॒धाम॒ग्निं प्र॒युजँ॒ स्वाहा॑ चि॒त्तं विज्ञा॑तम॒ग्निं प्र॒युजँ॒ स्वाहा॑ वा॒चो विधृ॑तिम॒ग्निं प्र॒युजँ॒ स्वाहा॑ प्र॒जाप॑तये॒ मन॑वे॒ स्वाहा॒ऽग्नये॑ वैश्वान॒राय॒ स्वाहा॑ ॥६६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आकू॑तिमित्याऽकू॑तिम्। अ॒ग्निम्। प्र॒युज॒मिति॑ प्र॒ऽयुज॑म्। स्वाहा॑। मनः॑। मे॒धाम्। अ॒ग्निम्। प्र॒युज॒मिति॑ प्र॒ऽयुज॑म्। स्वाहा॑। चि॒त्तम्। विज्ञा॑त॒मिति॒ विऽज्ञा॑तम्। अ॒ग्निम्। प्र॒युज॒मिति॑ प्र॒ऽयुज॑म्। स्वाहा॑। वा॒चः। विधृ॑ति॒मिति॒ विऽधृ॑तिम्। अ॒ग्निम्। प्र॒युज॒मिति॑ प्र॒ऽयुज॑म्। स्वाहा॑। प्र॒जाप॑तय॒ इति॑ प्र॒जाऽप॑तये। मन॑वे। स्वाहा॑। अ॒ग्नये। वै॒श्वा॒न॒राय॑। स्वाहा॑। ६६।
महीधरः
म०. ‘प्राकृतान्यौद्ग्रभणानि हुत्वा सप्ताग्निकान्याकूतिमिति प्रतिमन्त्रम्’ (का० १६ । ४ । ३०) । एवमुखासंभरणं समाप्यान्या अपीष्टकाः कृत्वा फाल्गुनामावास्यायां दीक्षां कृत्वौद्ग्रभणहोमकाले प्राकृतानि सोमयागे कर्तव्यानि ‘आकूत्यै प्रयुजेऽग्नये स्वाहा’ ( अध्या० ४ । क० ७) इत्यादीनि पञ्चौद्ग्रभणानि हुत्वाग्निचयनसंबन्धीनि सप्तौद्ग्रभणानि प्रतिमन्त्रं जुहोतीति सूत्रार्थः । सप्तौद्ग्रभणसंज्ञानि लिङ्गोक्तदेवत्यानि । आकूत्यै यजुः पङ्क्तिः । आकूतिरस्मदीयः संकल्पोऽग्निचयनानुष्ठानविषयः तां प्रति प्रयुङ्क्ते प्रेरयतीति प्रयुक् तं संकल्पप्रेरकमग्निमुद्दिश्य स्वाहा सुहुतमस्तु । आकूतिरेवाग्निरिति सामानाधिकरण्यं वा । मनः । यजुस्त्रिष्टुप् । अनुष्ठेयस्मरणसाधनं मनः श्रुतयोर्मन्त्रतन्त्रयोर्धारणशक्तिर्मेधा तदुभयं प्रति प्रयुजं प्रेरकमग्निमुद्दिश्य स्वाहा । चित्तम् । यजुर्जगती । अविज्ञातस्यानुष्ठानस्य ज्ञानसाधनं चित्तं तेन चित्तेनावगतमनुष्ठानं विज्ञातम् तदुभयं प्रति प्रेरकमग्निमुद्दिश्य सुहुतमस्तु । वाचः । यजुर्जगती । वाचो मन्त्रपाठरूपाया विधृतिं विधारणं प्रति प्रयुजं प्रेरकमग्निमुद्दिश्य स्वाहा सुहुतमिदमस्तु । प्रजापतये । यजुःपङ्क्तिः । मनवे मन्वन्तरकारिणे प्रजापतये प्रजानां पालकाय स्वाहा । विश्वेषां नराणामनुग्राहकाय विश्वानरपुत्राय वाग्नये स्वाहा सुहुतमस्तु ६६
सप्तषष्टी ।
अधिमन्त्रम् (VC)
- अग्न्यादयो मन्त्रोक्ता देवताः
- विश्वामित्र ऋषिः
- विराड्ब्राह्मी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर वे स्त्री-पुरुष क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्री-पुरुषो ! तुम लोग वेद के गायत्री आदि मन्त्रों से (स्वाहा) सत्यक्रिया से (आकूतिम्) उत्साह देनेवाली क्रिया के (प्रयुजम्) प्रेरणा करने हारे (अग्निम्) प्रसिद्ध अग्नि को (स्वाहा) सत्यवाणी से (मनः) इच्छा के साधन को (मेधाम्) बुद्धि और (प्रयुजम्) सम्बन्ध करने हारी (अग्निम्) बिजुली को (स्वाहा) सत्य व्यवहारों से (विज्ञातम्) जाने हुए विषय के (प्रयुजम्) व्यवहारों में प्रयोग किये (अग्निम्) अग्नि के समान प्रकाशित (चित्तम्) चित्त को (स्वाहा) योगक्रिया की रीति से (वाचः) वाणियों की (विधृतिम्) विविध प्रकार की धारणा को (प्रयुजम्) संप्रयोग किये हुए (अग्निम्) योगाभ्यास से उत्पन्न की हुई बिजुली को (प्रजापतये) प्रजा के स्वामी (मनवे) मननशील पुरुष के लिये (स्वाहा) सत्यवाणी को और (अग्नये) विज्ञानस्वरूप (वैश्वानराय) सब मनुष्यों के बीच प्रकाशमान जगदीश्वर के लिये (स्वाहा) धर्मयुक्त क्रिया को युक्त करा के निरन्तर (आछृन्दन्तु) अच्छे प्रकार शुद्ध करो ॥६६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यहाँ पूर्व मन्त्र से (आछृन्दन्तु) इस पद की अनुवृत्ति आती है। मनुष्यों को चाहिये कि पुरुषार्थ से वेदादि शास्त्रों को पढ़ और उत्साह आदि को बढ़ा कर व्यवहार परमार्थ की क्रियाओं के सम्बन्ध से इस लोक और परलोक के सुखों को प्राप्त हों ॥६६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्ते स्त्रीपुरुषाः किं कुर्य्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रीपुरुषाः ! भवन्तो वेदस्थैर्गायत्र्यादिभिश्छन्दोभिः स्वाहा आकूतिं प्रयुजमग्निं स्वाहा मनो मेधां प्रयुजमग्निं स्वाहा चित्तं विज्ञातं प्रयुजमग्निं स्वाहा वाचो विधृतिं प्रयुजमग्निं मनवे प्रजापतये स्वाहाऽग्नये वैश्वानराय स्वाहा च प्रापय्य सततमाछृन्दन्तु ॥६६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्राऽऽछृन्दन्त्विति पदं पूर्वमन्त्रादनुवर्त्तते। मनुष्याः पुरुषार्थेन वेदादिशास्त्राण्यधीत्योत्साहादीनुन्नीय व्यवहारपरमार्थक्रियाप्रयोगेणाभ्युदयिकनिःश्रेयसे समाप्नुवन्तु ॥६६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - येथे यापूर्वीच्या मंत्रातील (आछन्दन्तु) या पदाची अनुवृती झालेली आहे. माणसांनी पुरुषार्थाने वेदादी शास्त्रांचे अध्ययन करून उत्साहाने व्यवहार व परमार्थ साधून इहलोक व परलोक यांचे सुख भोगावे.
६७ विश्वो देवस्य
विश्वास-प्रस्तुतिः ...{Loading}...
विश्वो॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ वुरीत स॒ख्यम्। विश्वो॑ रा॒यऽइ॑षुध्यति द्यु॒म्नं वृ॑णीत पु॒ष्यसे॒ स्वाहा॑ ॥६७ ॥
मूलम् ...{Loading}...
विश्वो॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ वुरीत स॒ख्यम्। विश्वो॑ रा॒यऽइ॑षुध्यति द्यु॒म्नं वृ॑णीत पु॒ष्यसे॒ स्वाहा॑ ॥६७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
विश्वः॑। दे॒वस्य॑। ने॒तुः। मर्त्तः॑। वु॒री॒त॒। स॒ख्यम्। विश्वः॑। रा॒ये। इ॒षु॒ध्य॒ति॒। द्यु॒म्नम्। वृ॒णी॒त॒। पु॒ष्यसे॑। स्वाहा॑। ६७।
महीधरः
म० ऋष्याद्युक्तं व्याख्याता च ( अध्या० ४ । क० ८)। विश्वो मर्तो सर्वो मनुष्यो नेतुः फलप्रापकस्य देवस्य दानादिगुणयुक्तस्य सवितुः सख्यं सखिभावं वुरीत वृणुते प्रार्थयते । विश्वः सर्वो जनः राये धनाय इषुध्यति देवं प्रार्थयते । यात्राकर्मसु पठितः । किंच पुष्यसे पोष्टुं पोषणाय द्युम्नं यशोऽन्नं वा वृणीत सर्वो जनः प्रार्थयते । स्वाहा तस्मै प्रेरकाय सुहुतमस्तु ॥ ६७ ॥
अष्टषष्टी
अधिमन्त्रम् (VC)
- सविता देवता
- आत्रेय ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर गृहस्थों को क्या करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जैसे विद्वान् लोग ग्रहण करते हैं (विश्वः) सब (मर्त्तः) मनुष्य (नेतुः) सब के नायक (देवस्य) सब जगत् के प्रकाशक परमेश्वर के (सख्यम्) मित्रता को (वुरीत) स्वीकार करें (विश्वः) सब मनुष्य (राये) शोभा वा लक्ष्मी के किये (इषुध्यति) बाणादि आयुधों को धारण करें (स्वाहा) सत्यवाणी और (द्युम्नम्) प्रकाशयुक्त यश वा अन्न को (वृणीत) ग्रहण करें और जैसे इससे तू (पुष्यसे) पुष्ट होता है, वैसे हम लोग भी होवें ॥६७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। गृहस्थ मनुष्यों को चाहिये कि परमेश्वर के साथ मित्रता कर सत्य व्यवहार से धन को प्राप्त हो के कीर्ति कराने हारे कर्मों को नित्य किया करें ॥६७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्गृहस्थैः किं कार्य्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यथा विद्वांस्तथा विश्वो मर्त्तो नेतुर्देवस्य सख्यं वुरीत, विश्वो मनुष्यो राय इषुध्यति। स्वाहा द्युम्नं वृणीत यथा चैतेन त्वं पुष्यसे, तथा वयमपि भवेम ॥६७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। गृहस्थैर्मनुष्यैः परमेश्वरेण सह मैत्रीं कृत्वा सत्येन व्यवहारेण श्रियं प्राप्य यशस्वीनि कर्माणि नित्यं कार्य्याणि ॥६७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. माणसाने परमेश्वराशी मैत्री करून व सत्य व्यवहाराने धनप्राप्ती करून नेहमी कीर्ती वाढविणारे कर्म करावे.
६८ मा सु
विश्वास-प्रस्तुतिः ...{Loading}...
मा सु भि॑त्था॒ मा सु रि॒षोऽम्ब॑ धृ॒ष्णु वी॒रय॑स्व॒ सु। अ॒ग्निश्चे॒दं क॑रिष्यथः ॥६८ ॥
मूलम् ...{Loading}...
मा सु भि॑त्था॒ मा सु रि॒षोऽम्ब॑ धृ॒ष्णु वी॒रय॑स्व॒ सु। अ॒ग्निश्चे॒दं क॑रिष्यथः ॥६८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मा। सु। भि॒त्थाः॒। मा। सु। रि॒षः॒। अम्ब॑। धृ॒ष्णु। वी॒रय॑स्व। सु। अ॒ग्निः। च॒। इ॒दम्। क॒रि॒ष्य॒थः॒। ६८।
महीधरः
म० ‘दण्डोच्छ्रयणान्तं कृत्वाध्वर्युयजमानयोरन्यतर उखामाहवनीयेऽधिश्रयति मुञ्जकुलायशणकुलायावस्तीर्णामन्तरेशणां मा सु भित्था इति तिष्ठन्नुदङ् प्राङ्’ (का० १६ । ४ । ३१)। औद्ग्रभणहोमानन्तरं दीक्षणीयाशेषं समाप्य कृष्णाजिनदीक्षादि दण्डोच्छ्रयणान्तं प्राकृतं कर्म कृत्वाध्वर्युर्यजमानो वेशानाभिमुखः प्राग्वा तिष्ठन्नृग्द्वयेन समिद्धे आहवनीये उखामारोपयति । कीदृशीमुखाम् । मुञ्जतृणनिर्मितं पक्षिनीडं मुञ्जकुलायः शणनिर्मितं तच्छणकुलायस्ताभ्यां मध्ये छादितामादौ शणकुलायेन ततोऽन्येनेति सूत्रार्थः । उखादेवत्ये द्वे गायत्रीत्रिष्टुभौ । प्रथमायास्तृतीयपादोऽग्निदैवतः । हे अम्ब मातः उखे, त्वं सुतरां मा भित्थाः भिन्ना विदीर्णा मा भव । इदमभिन्नत्वं सुष्ठु विधेयम् । तथा मा सुतरां रिषः । रिषतिर्हिंसाकर्मा । मा हिंसिता भव मा विनश्यस्व । इदमस्फुटनं सुष्ठु विधेयम् । सर्वात्मना द्वैधीभावो भेदः, लेशस्य पृथग्भावः स्फुटनं तदुभयं तव मा भूदित्यर्थः । किंच हे उखे, धृष्णु प्रगल्भं यथा सुतरां वीरयस्व अग्निधारणलक्षणं वीरकर्म कुरु । किंच अग्निश्चकारात्त्वं चेदमस्मदीयं कर्म आसमाप्तेः करिष्यथः ॥ ६८ ॥
एकोनसप्ततितमी।
अधिमन्त्रम् (VC)
- अम्बा देवता
- आत्रेय ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर माता-पिता के प्रति पुत्रादि क्या-क्या कहें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अम्ब) माता ! तू हम को विद्या से (मा) मत (सुभित्थाः) छुड़ावे और (मा) मत (सुरिषः) दुःख दे (धृष्णु) दृढ़ता से (सुवीरयस्व) सुन्दर आरम्भ किये कर्म्म की समाप्ति कर। ऐसे करते हुए तुम माता और पुत्र दोनों (अग्निः) अग्नि के समान (च) (इदम्) करने योग्य इस सब कर्म्म को (करिष्यथः) आचरण करो ॥६८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - माता को चाहिये कि अपने सन्तानों को अच्छी शिक्षा देवे, जिससे ये परस्पर प्रीतियुक्त और वीर होवें और जो करने योग्य है वही करें, न करने योग्य कभी न करें ॥६८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मातापितरौ प्रति पुत्रादयः किं किं ब्रूयुरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अम्ब ! त्वमस्मान् विद्यातो मा सु भित्था मा सुरिषो धृष्णु सुवीरयस्व चैवं कुर्वन्तौ युवां मातापुत्रावग्निरिवेदं करिष्यथः ॥६८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - माता सुसन्तानान् सुशिक्षेत यत इमे परस्परं प्रीता भवेयुर्वीराश्च यत्कर्त्तव्यं तत्कुर्युरकर्त्तव्यं च नाचरेयुः ॥६८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - मातेने आपल्या मुलांना चांगले शिक्षण द्यावे. ज्यामुळे ते परस्पर प्रेमळ बनतील व वीर होतील. जे करण्यायोग्य आहे तेच करावे. जे करण्यायोग्य नाही ते कधीही करू नये.
६९ दृंहस्व देवि
विश्वास-प्रस्तुतिः ...{Loading}...
दृँह॑स्व देवि पृथिवि स्व॒स्तय॑ऽआसु॒री मा॒या स्व॒धया॑ कृ॒तासि॑। जुष्टं॑ दे॒वेभ्य॑ऽइ॒दम॑स्तु ह॒व्यमरि॑ष्टा॒ त्वमुदि॑हि य॒ज्ञेऽअ॒स्मिन् ॥६९ ॥
मूलम् ...{Loading}...
दृँह॑स्व देवि पृथिवि स्व॒स्तय॑ऽआसु॒री मा॒या स्व॒धया॑ कृ॒तासि॑। जुष्टं॑ दे॒वेभ्य॑ऽइ॒दम॑स्तु ह॒व्यमरि॑ष्टा॒ त्वमुदि॑हि य॒ज्ञेऽअ॒स्मिन् ॥६९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दृँह॑स्व। दे॒वि॒। पृ॒थि॒वि॒। स्व॒स्तये॑। आ॒सु॒री। मा॒या। स्व॒धया॑। कृ॒ता। अ॒सि॒। जुष्ट॑म्। दे॒वेभ्यः॑। इ॒दम्। अ॒स्तु॒। ह॒व्यम्। अरि॑ष्टा। त्वम्। उत्। इ॒हि॒। य॒ज्ञे। अ॒स्मिन्। ६९।
महीधरः
म० कार्ये कारणोपचारो वर्णनार्थः । हे पृथिवि देवि, मृत्कार्यत्वात्पृथिवीत्वं मन्त्रैर्निष्पादितत्वाद्देवतात्वम् । तथाविधे हे उखे, स्वस्तये यजमानस्य क्षेमाय दृंहस्व दृढा भव । कस्मात्त्वमिदमुच्यसे स्वधयान्नेन निमित्तेन त्वमासुरी माया प्राणसंबन्धिनी प्रज्ञा कृतासि । असूनां प्राणानामियमासुरी । यद्वा असुरसंबन्धिनी माया अचिन्त्यरचनारूपं चित्रं वस्तु भूत्वा यद्वत्प्रतिभाति तद्वत् त्वमपि स्तनरचनायुक्ता निष्पन्नासीत्यर्थः । किंच हे उखे, इदं हव्यमुख्येऽग्नौ होष्यमाणं देवेभ्यो जुष्टं प्रियमस्तु । त्वत्प्रसादाद्देवेभ्यो रोचतामित्यर्थः । त्वमपि अरिष्टा अनवखण्डिता सती अस्मिन्यज्ञे वर्तमाने उदिहि उद्गच्छ उद्गता भव ॥ ६९॥
सप्ततितमी।
अधिमन्त्रम् (VC)
- अम्बा देवता
- आत्रेय ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर पति अपनी स्त्री से क्या-क्या कहे, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (पृथिवि) भूमि के समान विद्या के विस्तार को प्राप्त हुई (देवि) विद्या से युक्त पत्नि ! तू ने (स्वस्तये) सुख के लिये (स्वधया) अन्न वा जल से जो (आसुरी) प्राणपोषक पुरुषों की (माया) बुद्धि है, उस को (कृता) सिद्ध की (असि) है। उस से (त्वम्) तू मुझ पति को (दृंहस्व) उन्नति दे (अरिष्टा) हिंसारहित हुई (अस्मिन्) इस (यज्ञे) सङ्ग करने योग्य गृहाश्रम में (उदिहि) प्रकाश को प्राप्त हो। जो तू ने (जुष्टम्) सेवन किया (इदम्) यह (हव्यम्) देने-लेने योग्य पदार्थ है, वह (देवेभ्यः) विद्वानों वा उत्तम गुण होने के लिये (अस्तु) होवे ॥६९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो स्त्री पति को प्राप्त हो के घर में वर्त्तती है, वह अच्छी बुद्धि से सुख के लिये प्रयत्न करे। सब अन्न आदि खाने-पीने के पदार्थ रुचिकारक बनवावे वा बनावे और किसी को दुःख वा किसी के साथ वैरबुद्धि कभी न करे ॥६९ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः पतिः स्वपत्नीं प्रति किं किं वदेदित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे पृथिवि देवि पत्नि ! त्वया स्वस्तये याऽऽसुरी मायाऽस्ति, सा कृतासि, तया त्वं मां पतिं दृंहस्वाऽरिष्टा सत्यस्मिन् यज्ञ उदिहि। यत् त्वयेदं जुष्टं हव्यं कृतमस्ति तद् देवेभ्योऽस्तु ॥६९ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - या स्त्री पतिं प्राप्य गृहे वर्त्तते, तया सुबुद्ध्या सुखाय प्रयत्नो विधेयः। सुसंस्कृतं सर्वमन्नादिप्रीतिकरं संपादनीयम्। न कदाचित् कस्यचिद्धिंसा वैरबुद्धिर्वा क्वचित् कार्या ॥६९ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - विवाहित स्त्रीने पतीच्या घरी उत्तम बुद्धीने वागून सुख मिळविण्याचा प्रयत्न करावा. अन्न व खाण्यापिण्याचे पदार्थ रुचकर बनवावेत किंवा बनवून घ्यावेत. कुणालाही दुःख देऊ नये किंवा कुणाशी वैर ठेवू नये.
७० द्र्वन्नः सर्पिरासुतिः
विश्वास-प्रस्तुतिः ...{Loading}...
द्र्व॑न्नः स॒र्पिरा॑सुतिः प्र॒त्नो होता॒ वरे॑ण्यः। सह॑सस्पु॒त्रोऽअद्भु॑तः ॥७० ॥
मूलम् ...{Loading}...
द्र्व॑न्नः स॒र्पिरा॑सुतिः प्र॒त्नो होता॒ वरे॑ण्यः। सह॑सस्पु॒त्रोऽअद्भु॑तः ॥७० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
द्र्व॑न्नः इति॒ द्रुऽअ॑न्नः। स॒र्पिरा॑सुति॒रिति॑ स॒र्पिःऽआ॑सुतिः। प्र॒त्नः। होता॑। वरे॑ण्यः। सह॑सः। पु॒त्रः। अद्भु॑तः। ७०।
महीधरः
म० ‘अग्नावारूढे त्रयोदशास्यां प्रादेशमात्राः समिध आदधाति घृतक्लिन्नां कार्मुकीं द्र्वन्न इति (का० १६।४।३३-३५)। अभितापादुखायां वह्नौ जाते प्रादेशमितास्त्रयोदशसंख्याकाः समिधो जुहोति ताः क्रमेणाह । घृतक्लिन्नां क्रमुकसमिधमादौ क्रमुको धमनः इति सूत्रार्थः । अग्निदेवत्या गायत्री सोमाहुतिदृष्टा। ईदृशोऽग्निः। कार्मुकीं समिधं भक्षयत्विति शेषः । कीदृशः। द्र्वन्नः ‘पलाशीद्रुद्रुमागमाः’ इति कोशोक्तेर्द्रवो वृक्षा एवान्नमदनीयं यस्य स द्र्वन्नः, सर्पिरासुतिः सर्पिर्घृतमासुतिरासवस्थानीयं मादकं यस्य सः । यद्वा सर्पिराहारत्वेन सूयते प्रक्षिप्यते यस्मिन्सर्पिरासुतिः । प्रत्नः पुरातनः । होता देवानामाह्वाता। वरेण्यः वरणीयः । सहसो बलस्य पुत्रः मन्थनहेतुना बलेनोत्पद्यमानत्वात् । अद्भुतः आश्चर्यरूपः अनन्यसदृश इत्यर्थः ॥ ७० ॥
एकसप्ततितमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- सोमाहुतिर्ऋषिः
- विराड्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह स्त्री अपने पति से कैसे-कैसे कहे, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे पते ! (द्र्वन्नः) वृक्षादि ओषधि ही जिन के अन्न हैं ऐसे (सर्पिरासुतिः) घृत आदि पदार्थों को शोधनेवाले (प्रत्नः) सनातन (होता) देने-लेने हारे (वरेण्यः) स्वीकार करने योग्य (सहसः) बलवान् के (पुत्रः) पुत्र (अद्भुतः) आश्चर्य्य गुण, कर्म और स्वभाव से युक्त आप सुख होने के लिये इस गृहाश्रम के बीच शोभायमान हूजिये ॥७० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यहाँ पूर्व मन्त्र से (स्वस्तये) (अस्मिन्) (यज्ञे) (उदिहि) इन चार पदों की अनुवृत्ति आती है। कन्या को उचित है कि जिस का पिता ब्रह्मचर्य्य से बलवान् हो और जो पुरुषार्थ से बहुत अन्नादि पदार्थों को इकट्ठा कर सके, उस शुद्ध स्वभाव से युक्त पुरुष के साथ विवाह करके निरन्तर सुख भोगे ॥७० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः सा स्वभर्त्तारं प्रति कथं कथं संवदेतेत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे पते ! द्र्वन्नः सर्पिरासुतिः प्रत्नो होता वरेण्यः सहसस्पुत्रोऽद्भुतः त्वं स्वस्तयेऽस्मिन् यज्ञ उदिहि उदितो भव ॥७० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र स्वस्तये अस्मिन् यज्ञ उदिहीति पदचतुष्टयं पूर्वतोऽनुवर्त्तते। कन्यया यस्य पिता कृतब्रह्मचर्यो बलवान् भवेद्, यः पुरुषार्थेन बहून्यन्नादीन्यर्जयितुं शक्नुयात्, पवित्रस्वभावः पुरुषो भवेत्, तेन साकं विवाहं कृत्वा सततं सुखं भोक्तव्यम् ॥७० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - येथे पूर्वीच्या मंत्रातील (स्वस्तये) (अस्मिन) (यज्ञे) (उदिहि) या चार पदांची अनुवृत्ती झालेली आहे. ज्याचा पिता ब्रह्मचर्याने बलयुक्त असेल व जो आपल्या पुरुषार्थाने पुष्कळ अन्न वगैरे पदार्थ एकत्र करू शकेल. त्या चांगल्या स्वभावाच्या पुरुषाबरोबर विवाह करून सतत सुख भोगावे.
७१ परस्याऽअधि संवतोऽवराँ२ऽअभ्यातर
विश्वास-प्रस्तुतिः ...{Loading}...
पर॑स्या॒ऽअधि॑ सं॒वतोऽव॑राँ२ऽअ॒भ्यात॑र। यत्रा॒हमस्मि॒ ताँ२ऽअ॑व ॥७१ ॥
मूलम् ...{Loading}...
पर॑स्या॒ऽअधि॑ सं॒वतोऽव॑राँ२ऽअ॒भ्यात॑र। यत्रा॒हमस्मि॒ ताँ२ऽअ॑व ॥७१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पर॑स्याः। अधि॑। सं॒वत॒ इति॑ स॒म्ऽवतः॑। अव॑रान्। अ॒भि। आ। त॒र॒। यत्र॑। अ॒हम्। अस्मि॑। तान्। अ॒व॒। ७१।
महीधरः
म० ‘वैकङ्कतीं परस्या इति’ (का० १६ । ४ । ३६)। | विकङ्कततरुसमिधं जुहोतीति सूत्रार्थः । आग्नेयी गायत्री विरूपदृष्टा । इत अध्यायान्तमाग्नेय्यः । संवत् इति संग्रामनामसु पठितम् । संपूर्वस्य वनतेर्गत्यर्थस्य क्विप् । संवन्वते संगच्छन्ते योधा यत्र सा संवत् । परस्याः शत्रुसंबन्धिन्याः संवतः संग्रामात् अवरानस्मदीयान् जनानभ्यातर अभिमुखमागच्छ दुःखात्तारयेत्यर्थः । किंच यत्र जनपदे अहमस्मि भवामि तानव पालय तर्पय वा ॥ ७१ ॥
द्विसप्ततितमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- विरूप ऋषिः
- विराड्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर पति अपनी स्त्री को क्या-क्या उपदेश करे, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे कन्ये ! जिस (परस्याः) उत्तम कन्या तेरा मैं (अधि) स्वामी हुआ चाहता हूँ सो तू (संवतः) संविभाग को प्राप्त हुए (अवरान्) नीच स्वभावों को (अभ्यातर) उल्लङ्घन और (यत्र) जिस कुल में (अहम्) मैं (अस्मि) हूँ (तान्) उन उत्तम मनुष्यों की (अव) रक्षा कर ॥७१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - कन्या को चाहिये कि अपने से अधिक बल और विद्यावाले वा बराबर के पति को स्वीकार करे, किन्तु छोटे वा न्यून विद्यावाले को नहीं। जिस के साथ विवाह करे उसके सम्बन्धी और मित्रों को सब काल में प्रसन्न रक्खे ॥७१ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः पतिः स्वपत्नीं प्रति किं किमुपदिशेदित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे कन्ये ! यस्याः परस्यास्तवाहमधिष्ठाता भवितुमिच्छामि, सा त्वं संवतोऽवरानभ्यातर, यत्र कुलेऽहमस्मि तानव ॥७१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - कन्यया स्वस्या उत्कृष्टस्तुल्यो वा वरः स्वीकार्य्यः, न नीचः। यस्य पाणिग्रहणं कुर्य्यात्, तस्य सम्बन्धिनो मित्राणि च सर्वदा सन्तोषणीयानि ॥७१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - मुलींनी आपल्यापेक्षा अधिक बलवान व विद्यायुक्त किंवा बरोबरीच्या पतीचा स्वीकार करावा. परन्तु न्यून असलेल्या किंवा कमतरता असलेल्या व कमी शिकलेल्याशी विवाह करू नये. ज्याच्याबरोबर विवाह केला त्याच्या नातेवाइकांना व मित्रांना सर्वकाळी प्रसन्न ठेवावे.
७२ परमस्याः परावतो
विश्वास-प्रस्तुतिः ...{Loading}...
प॒र॒मस्याः॑ परा॒वतो॑ रो॒हिद॑श्वऽइ॒हाग॑हि। पु॒री॒ष्यः᳖ पुरुप्रि॒योऽग्ने॒ त्वं त॑रा॒ मृधः॑ ॥७२ ॥
मूलम् ...{Loading}...
प॒र॒मस्याः॑ परा॒वतो॑ रो॒हिद॑श्वऽइ॒हाग॑हि। पु॒री॒ष्यः᳖ पुरुप्रि॒योऽग्ने॒ त्वं त॑रा॒ मृधः॑ ॥७२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प॒र॒मस्याः॑। प॒रा॒वत॒ इति॑ परा॒ऽवतः॑। रो॒हिद॑श्व॒ इति॑ रो॒हित्ऽअ॑श्वः। इ॒ह। आ। ग॒हि॒। पु॒री॒ष्यः᳖। पु॒रु॒प्रि॒य इति॑ पुरुऽप्रि॒यः। अग्ने॑। त्वम्। त॒र॒। मृधः॑। ७२।
महीधरः
म० ‘औदुम्बरीं परमस्या इति’ (का० १६ । ४ । ३७)। उदुम्बरतरुसमिधं तृतीयामादधातीति सूत्रार्थः । अनुष्टुब्वारुणीदृष्टा । हे अग्ने, परमस्याः परावतोऽत्यन्तदूरदेशादिहास्मिन्कर्मणि त्वमागहि आगच्छ । गच्छतेः शपि लुप्ते अनुदात्तोपदेशे मलोपे आगहीति रूपम् । परावत इति दूरनामसु पठितम् । परमाशब्दस्य सर्वनामत्वमार्षम् । परमा उत्कृष्टातिशयिता या परावत् । अतिदूरमित्यर्थः । आगत्य च मृधः संग्रामान् तर अतिलङ्घय । शत्रून्विनाशयेत्यर्थः । ‘द्व्यचोऽतस्तिङः’ (पा० ६ । ३ । १३५) इति दीर्घः । कीदृशस्त्वम् । रोहिदश्वः ‘रोहितोग्नेऽर्हरित आदित्यस्य’ इति निघण्टूक्तेः रोहितोऽग्नेरश्वाः रोहितः तत्संज्ञा अश्वा यस्य स रोहिदश्वः । पुरीष्यः पशव्यः पुरुप्रियः पुरूणां बहूनां प्रियो वल्लभः ॥ ७२ ॥
त्रिसप्ततितमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वारुणिर्ऋषिः
- भुरिगुष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह स्त्री अपने स्वामी से क्या-क्या कहे, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) पावक के समान तेजस्विन् विज्ञानयुक्त पते ! (रोहिदश्वः) अग्नि आदि पदार्थों से युक्त वाहनों से युक्त (पुरीष्यः) पालने में श्रेष्ठ (पुरुप्रियः) बहुत मनुष्यों की प्रीति रखनेवाले (त्वम्) आप (इह) इस गृहाश्रम में (परावतः) दूर देश से (परमस्याः) अति उत्तम गुण, रूप और स्वभाववाली कन्या की कीर्ति सुन के (आगहि) आइये और उस के साथ (मृधः) दूसरों के पदार्थों की आकाङ्क्षा करने हारे शत्रुओं का (तर) तिरस्कार कीजिये ॥७२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि अपनी कन्या वा पुत्र का समीप देश में विवाह कभी न करें। जितना ही दूर विवाह किया जावे, उतना ही अधिक सुख होवे, निकट करने में कलह ही होता है ॥७२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः सा स्वस्वामिनं प्रति किं किमादिशेदित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने पावक इव तेजस्विन् स्वामिन् ! रोहिदश्वः पुरीष्यः पुरुप्रियस्त्वमिह परावतो देशात् परमस्याः कन्यायाः कीर्त्तिं श्रुत्वाऽऽगहि तया प्राप्तया सह मृधस्तर ॥७२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैः स्वस्याः कन्यायाः पुत्रस्य वा समीपदेशे विवाहः कदाचिन्नैव कार्य्यः। यावद्दूरे विवाहः क्रियते तावदेवाऽधिकं सुखं जायते, निकटे कलह एव ॥७२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसाने आपल्या मुलाचा किंवा मुलीचा जवळच्या प्रदेशातील मुलामुलींबरोबर विवाह कधीही करू नये. जेवढा दूर विवाह केला तेवढे अधिक सुख होते. जवळ विवाह केल्यास कलहच निर्माण होतो.
७३ यदग्ने कानि
विश्वास-प्रस्तुतिः ...{Loading}...
यद॑ग्ने॒ कानि॒ कानि॑ चि॒दा ते॒ दारु॑णि द॒ध्मसि॑। सर्वं॒ तद॑स्तु ते घृ॒तं तज्जु॑षस्व यविष्ठ्य ॥७३ ॥
मूलम् ...{Loading}...
यद॑ग्ने॒ कानि॒ कानि॑ चि॒दा ते॒ दारु॑णि द॒ध्मसि॑। सर्वं॒ तद॑स्तु ते घृ॒तं तज्जु॑षस्व यविष्ठ्य ॥७३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यत्। अ॒ग्ने॒। कानि॑। कानि॑। चि॒त्। आ। ते॒। दारु॑णि। द॒ध्मसि॑। सर्व॑म्। तत्। अ॒स्तु॒। ते॒। घृ॒तम्। तत्। जु॒ष॒स्व॒। य॒वि॒ष्ठ्य॒। ७३।
महीधरः
म० ‘अपरशुवृक्णां यदग्न इति’ (का० १६ । ४ । ३८) कुठारं विना छिन्नां वातादिना भग्नां यज्ञियतरुसमिधं चतुर्थीमादधातीति सूत्रार्थः । द्वे अनुष्टुभौ जमदग्निदृष्टे, अतिशयेन युवा यविष्ठः यविष्ठ एव यविष्ठ्यः । स्वार्थे यत्प्रत्ययः । हे यविष्ठ्य हे युवतम हे अग्ने, कानि कानिचित् यानि कानि दारूणि काष्ठानि ते तव । सप्तम्यर्थे षष्ठी । त्वयि यत् आदध्मसि आदध्मः आरोपयामः । इदन्तो मसि । तत्सर्वं काष्ठजातं ते त्वदर्थं घृतं घृतवत्प्रियमस्तु । तद्दारुजातं त्वं जुषस्व सेवस्व ॥ ७३॥
चतुःसप्ततितमी ।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- जमदग्निर्ऋषिः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर स्त्रीपुरुषों के प्रति सम्बन्धी लोग क्या-क्या प्रतिज्ञा करें और करावें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (यविष्ठ्य) अत्यन्त युवावस्था को प्राप्त हुए (अग्ने) अग्नि के समान तेजस्वी विद्वान् पुरुष वा स्त्री ! आप जैसे (कानि कानिचित्) कोई-कोई भी वस्तु (ते) तेरी हैं, वे हम लोग (दारुणि) काष्ठ के पात्र में (आ दध्मसि) धारण करें (यत्) जो कुछ हमारी चीज है (तत्) सो (सर्वम्) सब (ते) तेरी (अस्तु) होवे, जो हमारा (घृतम्) घृतादि उत्तम पदार्थ है, (तत्) उस को तू (जुषस्व) सेवन कर। जो कुछ तेरा पदार्थ है, सो सब हमारा हो, जो तेरा घृतादि पदार्थ है, उसको हम ग्रहण करें ॥७३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ब्रह्मचारी आदि मनुष्य अपने सब पदार्थ सब के उपकार के लिये रक्खें, किन्तु ईर्ष्या से आपस में कभी भेद न करें, जिस से सब के लिये सब सुखों की वृद्धि होवे और विघ्न न उठें। इसी प्रकार स्त्री-पुरुष भी परस्पर वर्त्तें ॥७३ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स्त्रीपुरुषौ प्रति सम्बन्धिनः किं किं प्रतिजानीरन्नित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे यविष्ठ्याग्ने विद्वान् पते स्त्रि वा ! यथा कानि कानिचिद्वस्तूनि ते सन्ति, तद्वद्वयं दारुण्यादध्मसि। यदस्माकं वस्त्वस्ति तत्सर्वं तेऽस्तु यदस्माकं घृतं तत्त्वं जुषस्व। यत्ते वस्त्वस्ति तत्सर्वमस्माकमस्तु, यत्ते घृतादिकं वस्त्वस्ति तद्वयं गृह्णीमः ॥७३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ब्रह्मचर्यादिभिर्मनुष्यैः स्वकीयाः सर्वे पदार्थाः सर्वार्था निधातव्याः। न कदाचिदीर्ष्यया परस्परं भेत्तव्यम्, यतः सर्वेषां सर्वाणि सुखानि वर्धेरन्, विघ्नाश्च नोत्तिष्ठेरन्नेवं स्त्रीपुरुषावपि परस्परं वर्त्तेयाताम् ॥७३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ब्रह्मचारी माणसांनी आपल्याजवळील सर्व पदार्थांनी सर्वांवर उपकार करावा. ईर्षेने आपापसात कधीही भेदभाव करू नये. ज्यामुळे सर्वांच्या सुखाची वृद्धी व्हावी व विघ्न निर्माण होऊ नये अशा प्रकारेच स्त्री-पुरुषांनीही परस्पर वागावे.
७४ यदत्त्युपजिह्विका यद्वम्रोऽअतिसर्पति
विश्वास-प्रस्तुतिः ...{Loading}...
यदत्त्यु॑प॒जिह्वि॑का॒ यद्व॒म्रोऽअ॑ति॒सर्प॑ति। सर्वं॒ तद॑स्तु ते घृ॒तं तज्जु॑षस्व यविष्ठ्य ॥७४ ॥
मूलम् ...{Loading}...
यदत्त्यु॑प॒जिह्वि॑का॒ यद्व॒म्रोऽअ॑ति॒सर्प॑ति। सर्वं॒ तद॑स्तु ते घृ॒तं तज्जु॑षस्व यविष्ठ्य ॥७४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यत्। अत्ति॑। उ॒प॒जिह्वि॑केत्यु॑प॒ऽजिह्वि॑का। यत्। व॒म्रः। अ॒ति॒सर्प॒तीत्य॑ति॒ऽसर्प॑ति। सर्व॑म्। तत्। अ॒स्तु॒। ते॒। घृ॒तम्। तत्। जु॒ष॒स्व॒। य॒वि॒ष्ठ्य॒। ७४।
महीधरः
म० ‘अधःशयां यदतीति’ (का० १६ । ४ । ३९) । अधो नीचे देशे शेते तां भूलग्नां समिधं पञ्चमीमादधाति । उपजिह्विका उपदीपिका पिपीलिकासदृशः क्षुद्रजीवः यद्दारु अत्ति भक्षयति अधःशयत्वादेव । वम्रो वल्मीकश्च यद्दारु अति सर्पति अतिव्याप्नोति अतीत्यनुवर्तते तत्सर्वं ते घृतमस्तु इति पूर्ववत् ॥ ७४ ॥
पञ्चसप्ततितमी ।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- जमदग्निर्ऋषिः
- विराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (यविष्ठ्य) अत्यन्त युवावस्था को प्राप्त हुए पते ! आप और (उपजिह्विका) जिसकी जिह्वा इन्द्रिय अनुकूल अर्थात् वश में हो ऐसी स्त्री (यत्) जो (अति) भोजन करे (यत्) जो (वम्रः) मुख से बाहर निकाला प्राणवायु (अतिसर्पति) अत्यन्त चलता है (तत्) वह (सर्वम्) सब (ते) तेरा (अस्तु) होवे। जो तेरा (घृतम्) घी आदि उत्तम पदार्थ है (तत्) उस को (जुषस्व) सेवन किया कर ॥७४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जिस पुरुष से पुरुष वा स्त्री का व्यवहार सिद्ध होता हो, उस के अनुकूल स्त्री-पुरुष दोनों वर्त्तें। जो स्त्री का पदार्थ है, वह पुरुष का और जो पुरुष का है, वह स्त्री का भी होवे। इस विषय में कभी द्वेष नहीं करना चाहिये, किन्तु आपस में मिलकर आनन्द भोगें ॥७४ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे यविष्ठ्य ! त्वमुपजिह्विका च यदत्ति वम्रो यदतिसर्पति तत्सर्वं तेऽस्तु, यत्ते घृतमस्ति तत्त्वं जुषस्व ॥७४ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यत्प्रति पतिः प्रवर्त्तते स्त्री वा तदनुकूलौ दम्पती स्याताम्। यत्स्त्रियाः स्वं तत्पुरुषस्य यत्पुरुषस्य तत्स्त्रिया भवतु, नात्र कथंचिद् द्वेषो विधेयः, किंतु परस्परं मिलित्वाऽऽनन्दं भुञ्जीयाताम् ॥७४ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - स्त्री व पुरुष यांचा परस्पर व्यवहार अनुकूल असावा. तसेच ज्याच्यामुळे त्यांचा व्यवहार सिद्ध होतो त्याच्याही अनुकूल वागावे. जो पदार्थ स्त्रीचा आहे तो पुरुषाचा व जो पुरुषाचा आहे तो स्त्रीचा असावा. द्वेषभाव नसावा. परस्पर मिळून आनंद भोगावा.
७५ अहरहरप्रयावं भरन्तोऽश्वायेव
विश्वास-प्रस्तुतिः ...{Loading}...
अह॑रह॒रप्र॑यावं॒ भर॒न्तोऽश्वा॑येव॒ तिष्ठ॑ते घा॒सम॑स्मै। रा॒यस्पोषे॑ण॒ समि॒षा मद॒न्तोऽग्ने॒ मा ते॒ प्रति॑वेशा रिषाम ॥७५ ॥
मूलम् ...{Loading}...
अह॑रह॒रप्र॑यावं॒ भर॒न्तोऽश्वा॑येव॒ तिष्ठ॑ते घा॒सम॑स्मै। रा॒यस्पोषे॑ण॒ समि॒षा मद॒न्तोऽग्ने॒ मा ते॒ प्रति॑वेशा रिषाम ॥७५ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अह॑रह॒रित्यहः॑ऽअहः। अप्र॑याव॒मित्यप्र॑ऽयावम्। भर॑न्तः। अश्वा॑ये॒वेत्यश्वा॑यऽइव। तिष्ठ॑ते। घा॒सम्। अ॒स्मै॒। रा॒यः। पोषे॑ण। सम्। इ॒षा। मद॑न्तः। अग्ने॑। मा। ते॒। प्रति॑वेशा॒ इति॒ प्रति॑ऽवेशाः। रि॒षा॒म॒। ७५।
महीधरः
म० ‘पालाशीः प्रत्यृचमहरहरिति’ (का. १६ । ४ । ४० ) । अष्टर्ग्भिः प्रत्यृचमष्टौ पालाशीः प्रादेशमिताः समिध उख्येऽग्नावादधातीति सूत्रार्थः । द्वे त्रिष्टुभौ नाभानेदिष्ठदृष्टे । हे अग्ने, तव प्रतिवेशाः प्रातिवेशिकाः प्रत्यासन्नाः त्वदाश्रयाः सन्तो वयं मा रिषाम मा हिंसनं प्राप्नुमः मा विनश्येमेत्यर्थः । किं कुर्वन्तः । अहरहः प्रत्यहं संततमप्रयावमप्रमत्तं यथा तथा अस्मै अग्नये घासं समिद्रूपं भक्ष्यं भरन्तः संपादयन्तः प्रयवणं प्रयावः ‘यु मिश्रणे’ घञ्प्रत्ययः । नास्ति प्रयावः प्रमादो यस्यां क्रियायाम् । तत्र दृष्टान्तः । अश्वायेव तिष्ठते वाजिशालायामवस्थितायाश्वाय यथा प्रत्यहमप्रमादेन घासं यच्छन्ति तद्वत् । पुनः किं कुर्वतः । रायः पोषेण धनस्य पुष्ट्या दक्षिणालक्षणेन इषा अन्नेन च संमदन्तः हर्ष कुर्वन्तः । त्वामुत्साहयन्त इत्यर्थः ॥ ७५ ॥
षट्सप्ततितमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- नाभानेदिष्ठ ऋषिः
- विराट् त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर गृहस्थ लोग आपस में कैसे वर्त्तें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्वन् पुरुष ! (अहरहः) नित्यप्रति (तिष्ठते) वर्त्तमान (अश्वायेव) जैसे घोड़े के लिये घास आदि खाने का पदार्थ आगे धरते हैं, वैसे (अस्मै) इस गृहस्थ पुरुष के लिये (अप्रयावम्) अन्याय से पृथक् गृहाश्रम के योग्य (घासम्) भोगने योग्य पदार्थों को (भरन्तः) धारण करते हुए (रायः) धन की (पोषेण) पुष्टि तथा (इषा) अन्नादि से (संमदन्तः) सम्यक् आनन्द को प्राप्त हुए (प्रतिवेशाः) धर्म्मविषयक प्रवेश के निश्चित हम लोग (ते) तेरे ऐश्वर्य्य को (मा रिषाम) कभी नष्ट न करें ॥७५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। गृहस्थ मनुष्यों को चाहिये कि जैसे घोड़े आदि पशुओं के खाने के लिये जौ, दूध आदि पदार्थों को पशुओं के पालक नित्य इकट्ठे करते हैं, वैसे अपने ऐश्वर्य्य को बढ़ाके सुख देवें और धन के अहङ्कार से किसी के साथ ईर्ष्या कभी न करें, किन्तु दूसरों की वृद्धि सुन वा देख के सदा आनन्द मानें ॥७५ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनगृर्हस्थाः परस्परं कथं वर्त्तेरन्नित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! अहरहस्तिष्ठतेऽश्वायेवास्मा अप्रयावं घासं भरन्तो रायस्पोषेणेषा संमदन्तः प्रतिवेशाः सन्तो वयं त ऐश्वर्य्यं मा रिषाम ॥७५ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। गृहस्था यथा अश्वादिपशूनां भोजनार्थं यवदुग्धादिकमश्वपालका नित्यं संचिन्वन्ति, तथैश्वर्य्यं समुन्नीय सुखयेयुः। धनमदेन केनचित् सहेर्ष्यां कदाचिन्न कुर्य्युः, परस्योत्कर्षं श्रुत्वा दृष्ट्वा च सदा हृष्येयुः ॥७५ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. ज्याप्रमाणे घोड्यांसाठी त्याचे मालक खाण्याचे पदार्थ साठवून ठेवतात त्याप्रमाणे गृहस्थांनी आपले ऐश्वर्य वाढवून (सर्वांना) सुख द्यावे. धनाचा अहंकार बाळगून कुणाशी ईर्षेने वागू नये. उलट दुसऱ्याची उन्नती व धन पाहून नेहमी आनंद मानावा.
७६ नाभा पृथिव्याः
विश्वास-प्रस्तुतिः ...{Loading}...
नाभा॑ पृथि॒व्याः स॑मिधा॒नेऽअ॒ग्नौ रा॒यस्पोषा॑य बृह॒ते ह॑वामहे। इ॒र॒म्म॒दं बृ॒हदु॑क्थं॒ यज॑त्रं॒ जेता॑रम॒ग्निं पृत॑नासु सास॒हिम् ॥७६ ॥
मूलम् ...{Loading}...
नाभा॑ पृथि॒व्याः स॑मिधा॒नेऽअ॒ग्नौ रा॒यस्पोषा॑य बृह॒ते ह॑वामहे। इ॒र॒म्म॒दं बृ॒हदु॑क्थं॒ यज॑त्रं॒ जेता॑रम॒ग्निं पृत॑नासु सास॒हिम् ॥७६ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नाभा॑। पृ॒थि॒व्याः। स॒मि॒धा॒न इति॑ सम्ऽइधा॒ने। अ॒ग्नौ। रा॒यः। पोषा॑य। बृ॒ह॒ते। ह॒वा॒म॒हे॒। इ॒र॒म्म॒दमिती॑रम्ऽम॒दम्। बृ॒हदु॑क्थ॒मिति॑ बृ॒हत्ऽउ॑क्थम्। यज॑त्रम्। जेता॑रम्। अ॒ग्निम्। पृत॑नासु। सा॒स॒हिम्। सा॒स॒हिमिति॑ सस॒हिम्। ७६।
महीधरः
म० ‘एषा ह नाभिः पृथिव्यै यत्रैष एतत्समिध्यते’ (६। ६।३। ९) इति श्रुतेः । पृथिव्या नाभा नाभौ । विभक्तेराकारः । पृथिवीरूपाया उखाया मध्ये समिधाने दीप्यमाने अग्नौ आहवनीयाख्ये अग्निं तदभिमानिनं देवं वयं हवामहे आह्वयामः । किमर्थम् । बृहते रायः पोषाय प्रौढाय धनपोषणाय । कीदृशमग्निम् । इरंमदम् इरया अन्नेन माद्यति तृप्यति तुष्यतीति इरंमदस्तम् ‘उग्रम्पश्य-’ (पा. ३ । ३ । ३७) इत्यादिना खशि निपातः। बृहदुक्थं बृहन्ति महान्ति उक्थानि शस्त्राणि यस्य तम् । यजत्रं यजनीयम् । पृतनासु संग्रामेषु जेतारं जयशीलम् । सासहिं सहतेऽभिभवतीति सासहिस्तं सोढारमस्मच्छत्रूणामभिभवितारम् । अग्नावित्याहवनीयविषयोऽग्निशब्दः जेतारमग्निमित्यधिष्ठात्रग्निविषयः ॥ ७६ ॥
सप्तसप्ततितमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- नाभानेदिष्ठ ऋषिः
- स्वराडार्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर ये मनुष्य लोग आपस में कैसे संवाद करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे गृही लोगो ! जैसे हम लोग (बृहते) बड़े (रायः) लक्ष्मी के (पोषाय) पुष्ट करने हारे पुरुष के लिये (पृथिव्याः) पृथिवी के (नाभा) बीच (समिधाने) अच्छे प्रकार प्रज्वलित हुए (अग्नौ) अग्नि में और (पृतनासु) सेनाओं में (सासहिम्) अत्यन्त सहनशील (इरम्मदम्) अन्न से आनन्दित होनेवाले (बृहदुक्थम्) बड़ी प्रशंसा से युक्त (यजत्रम्) सङ्ग्राम करने योग्य (अग्निम्) बिजुली के समान शीघ्रता करने हारे (जेतारम्) विजयशील सेनापति पुरुष को (हवामहे) बुलाते हैं, वैसे तुम लोग भी इसको बुलाओ ॥७६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - पृथिवी का राज्य करते हुए मनुष्यों को चाहिये कि आग्नेय आदि अस्त्रों और तलवार आदि शस्त्रों का सञ्चय कर और पूर्ण बुद्धि तथा शरीरबल से युक्त पुरुष को सेनापति कर के निर्भयता के साथ वर्तें ॥७६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनरेते परस्परं कथं संवदेरन्नित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे गृहिणो ! यथा वयं बृहते रायस्पोषाय पृथिव्या नाभा समिधानेऽग्नौ पृतनासु सासहिमिरम्मदं बृहदुक्थं यजत्रमग्निमिव जेतारं सेनापतिं हवामहे तथा यूयमप्याह्वयत ॥७६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - भूमिराज्यं कुर्वद्भिर्जनैः शस्त्रास्त्राणि संचित्य पूर्णबुद्धिविद्याशरीरात्मबलसहितं पुरुषं सेनापतिं विधाय निर्भयतया प्रवर्तन्ताम् ॥७६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - पृथ्वीवर राज्य करून माणसांनी आग्नेय इत्यादी अस्त्रे व तलवार इत्यादी शस्त्रांचा संचय करावा व पूर्ण बुद्धी आणि शरीरबल यांनी युक्त पुरुषाला सेनापती करून निर्भयतेने वावरावे.
७७ याः सेनाऽअभीत्वरीराव्याधिनीरुगणाऽउत
विश्वास-प्रस्तुतिः ...{Loading}...
याः सेना॑ऽअ॒भीत्व॑रीराव्या॒धिनी॒रुग॑णाऽउ॒त। ये स्ते॒ना ये च॒ तस्क॑रा॒स्ताँस्ते॑ऽअ॒ग्नेऽपि॑दधाम्या॒स्ये᳖ ॥७७ ॥
मूलम् ...{Loading}...
याः सेना॑ऽअ॒भीत्व॑रीराव्या॒धिनी॒रुग॑णाऽउ॒त। ये स्ते॒ना ये च॒ तस्क॑रा॒स्ताँस्ते॑ऽअ॒ग्नेऽपि॑दधाम्या॒स्ये᳖ ॥७७ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
याः। सेनाः॑। अ॒भीत्व॑री॒रित्य॑भि॒ऽइत्व॑रीः। आ॒व्या॒धिनी॒रित्या॑ऽव्या॒धिनीः॑। उग॑णाः। उ॒त। ये। स्ते॒नाः। ये। च॒। तस्क॑राः। तान्। ते॒। अ॒ग्ने॒। अपि॑। द॒धा॒मि॒। आ॒स्ये᳖। ७७।
महीधरः
म० षडनुष्टुभः । याः काश्चित्परकीयाः सेनाः अभीत्वरीरभीत्वर्यः अभियायिन्यः अस्मदाभिमुख्येनागमनशीलाः अभियन्ति ता अभित्वर्यः । ‘इण्नशजिसर्तिभ्यः क्वरप्’ (पा० ३। २।१६३ ) इति क्वरप् ‘ह्रस्वस्य पिति-’ (पा०६।१।७१) इति तुक् ‘टिड्ढाणञ्द्वयसज्-’ (पा० ४ । १।१५) इत्यादिना ङीप् । उतशब्दोऽप्यर्थे । उतापि च याः सेनाः आव्याधिनीः आ समन्ताद्विध्यन्ति ताः सर्वतोऽस्मांस्ताडयन्त्यः। उगणाः उद्गूर्णगणाः । पृषोदरादिपाठान्मध्यमपदलोपः । उद्यतायुधगणोपेता बहुस्तोमा इत्यर्थः । ये च स्तेनाः गुप्तचराः ये च तस्कराः प्रकटचोराः ‘तस्करस्तत्करोति यत्पापकम्’ (नि० ३ । १४) इति नैरुक्ताः । हे अग्ने, तान् पूर्वोक्तान्सेनादीन् ते तव आस्ये मुखे अपिदधामि प्रक्षिपामि भक्षणाय । दुष्टान्सर्वान्भक्षयेत्यर्थः ॥ ७७ ॥
अष्टसप्ततितमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- नाभानेदिष्ठ ऋषिः
- भुरिगनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
राजपुरुषों को योग्य है कि अपने प्रयत्न से चोर आदि दुष्टों का वार-वार निवारण करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सेना और सभा के स्वामी ! जैसे मैं (याः) जो (अभीत्वरीः) सम्मुख होके युद्ध करने हारी (आव्याधिनीः) बहुत रोगों से युक्त वा ताड़ना देने हारी (उगणः) शस्त्रों को लेके विरोध में उद्यत हुई (सेनाः) सेना हैं उन (उत) और (ये) जो (स्तेनाः) सुरङ्ग लगा के दूसरों के पदार्थों को हरनेवाले (च) और (ये) जो (तस्कराः) द्यूत आदि कपट से दूसरों के पदार्थ लेने हारे हैं (तान्) उनको (ते) इस (अग्ने) अग्नि के (आस्ये) जलती हुई लपट में (अपिदधामि) गेरता हूँ, वैसे तू भी इन को इस में धरा कर ॥७७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। धर्मात्मा राजपुरुषों को चाहिये कि जो अपने अनुकूल सेना और प्रजा हों उनका निरन्तर सत्कार करें और जो सेना तथा प्रजा विरोधी हों तथा डाकू, चोर, खोटे वचन बोलने हारे, मिथ्यावादी, व्यभिचारी मनुष्य होवें, उन को अग्नि से जलाने आदि भयंकर दण्डों से शीघ्र ताड़ना देकर वश में करें ॥७७ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः पुनरेते चोरादीन् प्रयत्नेन निवर्त्तयेयुरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सेनासभापते ! यथाऽहं या अभीत्वरीराव्याधिनीरुगणाः सेनाः सन्ति, ता उत ये स्तेना ये तस्कराश्च सन्ति, ताँस्तेऽस्याग्नेः पावकस्यास्येऽपिदधामि, तथा त्वमेतानीह धेहि ॥७७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। धार्मिकै राजपुरुषैर्या अनूकूलाः सेनाः प्रजाश्च सन्ति, ताः सततं संपूज्या, या विरोधिन्यो ये च दस्य्वादयश्चोरा दुष्टवाचोऽनृतवादिनो व्यभिचारिणो मनुष्या भवेयुः, तानग्निदाहाद् उद्वेजनकरैर्दण्डैर्भृशं ताडयित्वा वशं नेयाः ॥७७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. धर्मात्मा राजपुरुषांनी आपल्याला अनुकूल असलेल्या सेनेचा व प्रजेचा सदैव सत्कार करावा व जी सेना व प्रजा विरोधी असेल आणि डाकू, चोर, खोटे बोलणारे व मिथ्यावादी, व्यभिचारी माणसे असतील तर त्यांना अग्नीमध्ये दहन करण्याची भयंकर शिक्षा द्यावी व आपल्या ताब्यात ठेवावे.
७८ दंष्ट्राभ्यां मलिम्लूञ्जम्भ्यैस्तस्कराँ२ऽउत
विश्वास-प्रस्तुतिः ...{Loading}...
दँष्ट्रा॑भ्यां म॒लिम्लू॒ञ्जम्भ्यै॒स्तस्क॑राँ२ऽउ॒त। हनु॑भ्याँ॒ स्ते॒नान् भ॑गव॒स्ताँस्त्वं खा॑द॒ सुखा॑दितान् ॥७८ ॥
मूलम् ...{Loading}...
दँष्ट्रा॑भ्यां म॒लिम्लू॒ञ्जम्भ्यै॒स्तस्क॑राँ२ऽउ॒त। हनु॑भ्याँ॒ स्ते॒नान् भ॑गव॒स्ताँस्त्वं खा॑द॒ सुखा॑दितान् ॥७८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दँष्ट्रा॑भ्याम्। म॒लिम्लू॑न्। जम्भ्यैः॑। तस्क॑रान्। उ॒त। हनु॑भ्या॒मिति॒ हनु॑ऽभ्याम्। स्ते॒नान्। भ॒ग॒व॒ इति॑ भगऽवः। तान्। त्वम्। खा॒द॒। सुखा॑दिता॒निति॒ सुऽखा॑दितान्। ७८।
महीधरः
म० गुप्ताः प्रकटाश्चेति द्विविधाश्चोराः । प्रकटा अपि पुनर्द्विविधाः । अरण्ये मार्गे च प्रहृत्य प्रत्यहमेव पलायमानाः प्रकटाः । ततोऽप्यतिप्रकटा निर्भया ग्रामेष्वेवागत्य वन्दीकाराः ते अत्र मलिम्लुच उच्यन्ते । मलं पापाधिक्यमेषामस्तीति ‘मलिनाः तथाविधा भूत्वा म्लोचन्ति जने वने वा अदृश्या भवन्तीति मलिम्लुचः । दन्तपङ्क्तिमध्ये याभ्यां तीक्ष्णदन्ताभ्य क्रमुकादिकं भक्ष्यते ते दंष्ट्रे राक्षसीसंज्ञे । ततः पुरोवर्तिनो बहिर्दृश्यमाना दन्ता जम्भ्याः जम्भावृत्तिमाश्रिता जम्भ्याः । दन्तलीने तु हनू । दंष्ट्राभ्यां मलिम्लून्पीडयित्वा जम्भ्यैस्तस्करानपि पीडयित्वा हनुभ्यां स्तेनान् पीडयित्वा हे भगवः भगवन्महदैश्वर्ययुक्त पूजनीय, तान्सर्वान्पूर्वोक्तान्सुखादितान् सुष्ठु खादितान्भक्षितान्पुनर्जीवनरहिता यथा भवन्ति तथा खाद भक्षय । सुखादितानपेतान्कृत्वेति वा ॥ ७८ ॥
एकोनाशीतितमी।
उ० जनेषु मलिम्लुचः जनेषु स्तेनासः ‘आज्जसेरसुक्’ तस्कराः । वने वनाश्रिताः येच कक्षेषु नदीपर्वतकक्षेषु अघायवः । ‘छन्दसि परेच्छायामिति वक्तव्यम्’ इत्यघशब्दात्क्यच् ‘क्याच्छन्दसि’ इति उप्रत्ययः। अघं परस्मै इच्छन्तीत्यघायवः तान् तव दधामि स्थापयामि जम्भयोः भक्षणाय ॥ ७९ ॥
अधिमन्त्रम् (VC)
- अग्निर्देवता
- नाभानेदिष्ठ ऋषिः
- भुरिगुष्णिक्
- ऋषभः
७९ ये जनेषु
विश्वास-प्रस्तुतिः ...{Loading}...
ये जने॑षु म॒लिम्ल॑व स्ते॒नास॒स्तस्क॑रा॒ वने॑। ये कक्षे॑ष्वघा॒यव॒स्ताँस्ते॑ दधामि॒ जम्भ॑योः ॥७९ ॥
मूलम् ...{Loading}...
ये जने॑षु म॒लिम्ल॑व स्ते॒नास॒स्तस्क॑रा॒ वने॑। ये कक्षे॑ष्वघा॒यव॒स्ताँस्ते॑ दधामि॒ जम्भ॑योः ॥७९ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ये। जने॑षु। म॒लिम्ल॑वः। स्ते॒नासः॑। तस्क॑राः। वने॑। ये। कक्षे॑षु। अ॒घा॒यवः॑। अ॒घ॒यव॒ इत्य॑घ॒ऽयवः॑। तान्। ते॒। द॒धा॒मि॒। जम्भ॑योः। ७९।
महीधरः
म० जनेषु ग्रामवर्तिषु ये मलिम्लुचः पूर्वोक्ता वन्दीकाराः ये च वने स्तेनासः स्तेनाः ‘आज्जसेरसुक्’ (पा. ७ । १।५०) इत्यसुक् । गुप्तचोराः तस्कराः प्रकटचोराः । ये च कक्षेषु नदीपर्वतगहनेषु अघायवः परेषां पापाभिलाषुकाः हे अग्ने, तान् चतुर्विधान् ते तव जम्भयोः दंष्ट्रयोर्दधामि स्थापयामि भक्षणायेत्यर्थः । अघं परस्येच्छन्ति ते अघायवः ‘छन्दसि परेच्छायामिति वक्तव्यम्’ इति अघशब्दात्क्यच् । ‘क्याच्छन्दसि’ (पा० ३ । २ । १७० ) इति उप्रत्ययः ॥ ७९ ॥
अशीतितमी।
(भस्मसा – मस्मसा पाठभेदः)
अधिमन्त्रम् (VC)
- सेनापतिर्देवता
- नाभानेदिष्ठ ऋषिः
- निचृदनुष्टुप्
- गान्धारः
८० योऽअस्मभ्यमरातीयाद्यश्च नो
विश्वास-प्रस्तुतिः ...{Loading}...
योऽअ॒स्मभ्य॑मराती॒याद्यश्च॑ नो॒ द्वे॑षते॒ जनः॑। निन्दा॒द्योऽअ॒स्मान् धिप्सा॑च्च॒ सर्वं॒ तं भ॑स्म॒सा कु॑रु ॥८० ॥
मूलम् ...{Loading}...
योऽअ॒स्मभ्य॑मराती॒याद्यश्च॑ नो॒ द्वे॑षते॒ जनः॑। निन्दा॒द्योऽअ॒स्मान् धिप्सा॑च्च॒ सर्वं॒ तं भ॑स्म॒सा कु॑रु ॥८० ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यः। अ॒स्मभ्य॑म्। अ॒रा॒ती॒यात्। अ॒रा॒ति॒यादित्य॑राति॒ऽयात्। यः। च॒। नः॒। द्वेष॑ते। जनः॑। निन्दा॑त्। यः। अ॒स्मान्। धिप्सा॑त्। च॒। सर्व॑म्। तम्। भ॒स्म॒सा। कु॒रु॒। ८०।
महीधरः
म० पूर्व चोरभेदा दर्शिताः इदानीं शत्रुभेदा उच्यन्ते । ते चतुर्विधाः अरातयो द्वेषिणो निन्दका जिघांसवश्चेति । तत्र दातव्यत्वेन प्राप्तं धनं यो न ददाति सोऽरातिः । कार्यविघातं यः करोति स द्वेषी । वाग्दौर्जन्यमात्रं यः करोति स निन्दकः । हन्तुकामश्चतुर्थः । तान् अग्नये समर्पयति । यो नरः अस्मभ्यमस्मदर्थे अरातीयात् अरातिरिवाचरति अरातीयति अरातित्वमिच्छति । आचारे इच्छायां वा क्यच्प्रत्ययः । यश्च जनो नोऽस्मान्द्वेषते कार्यनाशेनाप्रीतिमुत्पादयति ‘द्विष अप्रीतौ’ ‘बहुलं छन्दसि’ (पा० २।४ । ७३) इति शपो लुगभावः । योऽप्यन्योऽस्मान्निन्दात् निन्दति वाचा दुःखं ददाति । यश्चापरोऽस्मान् धिप्सात् धिप्सति । दम्भितुमिच्छति जिघांसति । दम्भेः सनन्तस्य ‘दम्भ इच्च’ (पा० ७ । ४ । ५६ ) इत्यभ्यासलोप इकारश्च । ‘इतश्च लोपः परस्मैपदेषु’ (पा० ३ । ४ । ९७ ) इतीकारलोपः ‘लेटोऽडाटौ’ (पा० ३ । ४ । ९४) इत्याडागमोऽरातीयादित्यादिषु त्रिष्वपि । हे अग्ने, तं सर्वं जनं चतुर्विधं मस्मसा कुरु चूर्णीकुरु चर्वित्वा भक्षयेत्यर्थः । मस्मसाशब्दो डाजन्तो निपातः चर्वणजन्यशब्दानुकरणवाची ॥ ८०॥
एकाशीतितमी।
अधिमन्त्रम् (VC)
- अध्यापकोपदेशकौ देवते
- नाभानेदिष्ठ ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वही विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सभा और सेना के स्वामिन् ! आप (यः) जो (जनः) मनुष्य (अस्मभ्यम्) हम धर्मात्माओं के लिये (अरातीयात्) शत्रुता करे (यः) जो (नः) हमारे साथ (द्वेषते) दुष्टता करे (च) और हमारी (निन्दात्) निन्दा करे (यः) जो (अस्मान्) हम को (धिप्सात्) दम्भ दिखावे (च) और हमारे साथ छल करे (तम्) उस (सर्वम्) सब को (भस्मसा) जला के सम्पूर्ण भस्म (कुरु) कीजिये ॥८० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अध्यापक, उपदेशक और राजपुरुषों को चाहिये कि पढ़ाने, शिक्षा, उपदेश और दण्ड से निरन्तर विरोध का विनाश करें ॥८० ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सभासेनेश ! त्वं यो जनोऽस्मभ्यमरातीयाद्, यो नो द्वेषते निन्दाच्च योऽस्मान् धिप्साच्छलेच्च, तं सर्वं भस्मसा कुरु ॥८० ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अध्यापकोपदेशकराजपुरुषाणामिदं योग्यमस्ति यदध्यापनेन शिक्षयोपदेशेन दण्डेन च विरोधस्य सततं विनाशकरणमिति ॥८० ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - अध्यापक, उपदेशक, राजपुरुष यांनी अध्यापन करून शिक्षणाद्वारे उपदेश करून व शिक्षा करून विरोध मोडून काढावा.
८१ संशितं मे
विश्वास-प्रस्तुतिः ...{Loading}...
सँशि॑तं मे॒ ब्रह्म॒ सँशि॑तं वी॒र्यं᳙ बल॑म्। सँशि॑तं क्ष॒त्रं जि॒ष्णु यस्या॒हमस्मि॑ पु॒रोहि॑तः ॥८१ ॥
मूलम् ...{Loading}...
सँशि॑तं मे॒ ब्रह्म॒ सँशि॑तं वी॒र्यं᳙ बल॑म्। सँशि॑तं क्ष॒त्रं जि॒ष्णु यस्या॒हमस्मि॑ पु॒रोहि॑तः ॥८१ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सँशि॑त॒मिति॒ सम्ऽशि॑तम्। मे॒। ब्रह्म॑। सँशि॑त॒मिति॒ सम्ऽशि॑तम्। वी॒र्य᳙म्। बल॑म्। सँशि॑त॒मिति॒ सम्ऽशि॑तम्। क्ष॒त्रम्। जि॒ष्णु। यस्य॑। अ॒हम्। अस्मि॑। पु॒रोहि॑त॒ इति॑ पु॒रःऽहि॑तः। ८१।
महीधरः
म० ‘उपोत्तमां क्षत्रियस्येच्छन्नुत्तमां पुरोहितस्य’ (का. १६ । ४१।४-४२) । क्षत्रिययजमानस्य द्वादशीं संशितमित्येतामिच्छया दधाति पुरोहितयजमानस्यान्त्यामुदेषामित्येतामिच्छया दधाति एकादश नित्याः सर्वासामृचामन्ते स्वाहाकारश्चेति सूत्रार्थः । मे मदीयं ब्रह्म ब्राह्मण्यं संशितं सम्यक् तीक्ष्णीकृतम् शास्त्रीयमार्गवर्ति कृतमित्यर्थः । ‘शो तनूकरणे’ क्तान्तः । वीर्यमिन्द्रियशक्तिः, बलं शरीरशक्तिः, तदुभयं संशितं स्वकार्यक्षमं कृतम् । तथा यस्य क्षत्रस्याहं पुरोहितोस्मि भवामि तन्मदीयं क्षत्रं क्षत्रजातं जिष्णु जयनशीलं यथा भवति तथा संशितं तीव्रं कृतम् ॥ ८१ ॥
द्व्यशीतितमी।
अधिमन्त्रम् (VC)
- पुरोहितयजमानौ देवते
- नाभानेदिष्ठ ऋषिः
- निचृदार्षी पङ्क्तिः
- पञ्चमः
८२ उदेषां बाहूऽअतिरमुद्वर्चोऽअथो
विश्वास-प्रस्तुतिः ...{Loading}...
उदे॑षां बा॒हूऽअ॑तिर॒मुद्वर्चो॒ऽअथो॒ बल॑म्। क्षि॒णोमि॒ ब्रह्म॑णा॒मित्रा॒नुन्न॑यामि॒ स्वाँ२अ॒हम् ॥८२ ॥
मूलम् ...{Loading}...
उदे॑षां बा॒हूऽअ॑तिर॒मुद्वर्चो॒ऽअथो॒ बल॑म्। क्षि॒णोमि॒ ब्रह्म॑णा॒मित्रा॒नुन्न॑यामि॒ स्वाँ२अ॒हम् ॥८२ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उत्। ए॒षा॒म्। बा॒हूऽइति॑ बा॒हू। अ॒ति॒र॒म्। उत्। वर्चः॑। अथो॒ऽइत्यथो॑। बल॑म्। क्षि॒णोमि॑। ब्रह्म॑णा। अ॒मित्रा॑न्। उत्। न॒या॒मि॒। स्वान्। अ॒हम्। ८२।
महीधरः
म० एषां स्वकीयानां राजब्राह्मणादीनां मध्ये एकैकस्य बाहू भुजौ उदतिरमुत्कर्षेण वर्धितवानस्मि । तिरतिर्वृद्ध्यर्थः । लौकिकोक्तिरियम् । लोके हि योऽन्यस्मादुत्कृष्टो भवति जना एवं वदन्ति अयं स्वहस्तमुपरि कृतवानिति । वर्चः कान्तिः तामप्युदतिरम् । अथो अपि च बलं शरीरशक्तिमुदतिरम् । ब्रह्मणा मन्त्रसामर्थ्येन अमित्रान्शत्रून् क्षिणोमि क्षीणान्करोमि । स्वान्स्वकीयान्पुरुषान्पुत्रपौत्रादीनहमुन्नयामि उत्कर्षं प्रापयामि । एवं त्रयोदश समिन्मन्त्रा उक्ताः ॥ ८२ ॥
त्र्यशीतितमी।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां एकादशोऽध्यायः॥११॥
अधिमन्त्रम् (VC)
- सभापतिर्यजमानो देवता
- नाभानेदिष्ठ ऋषिः
- विराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर यजमान पुरोहित के साथ कैसे वर्त्ते, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अहम्) मैं यजमान वा पुरोहित (ब्रह्मणा) वेद और ईश्वर के ज्ञान देने से (एषाम्) इन पूर्वोक्त चोर आदि दुष्टों के (बाहू) बल और पराक्रम को (उदतिरम्) अच्छे प्रकार उल्लङ्घन करूँ (वर्चः) तेज तथा (बलम्) सामर्थ्य को और (अमित्रान्) शत्रुओं को (उत्क्षिणोमि) मारता हूँ (अथो) इस के पश्चात् (स्वान्) अपने मित्रों के तेज और सामर्थ्य को (उन्नयामि) वृद्धि के साथ प्राप्त करूँ ॥८२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजा आदि यजमान तथा पुरोहितों को चाहिये कि पापियों के सब पदार्थों का नाश और धर्मात्माओं के सब पदार्थों की वृद्धि सदैव सब प्रकार से किया करें ॥८२ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्यजमानः पुरोहितं प्रति कथं वर्त्तेतेत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - अहं यजमानः पुरोहितो वा ब्रह्मणैषां बाहू उदतिरम्। वर्चो बलममित्रांश्चोत्क्षिणोम्यथो स्वान् सुहृदो वर्चो बलं चोन्नयामि प्रापयामि ॥८२ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - राजादिभिर्यजमानैः पुरोहितादिभिश्च पापिनां सर्वस्वक्षयो धर्मात्मनां सर्वस्ववृद्धिश्च सर्वथा कार्य्या ॥८२ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजा, यजमान व पुरोहित यांनी सदैव पापी लोकांच्या सर्व वस्तूंचा नाश करावा. धार्मिक लोकांच्या वस्तूंची सदैव वृद्धी करावी.
८३ अन्नपतेऽन्नस्य नो
विश्वास-प्रस्तुतिः ...{Loading}...
अन्न॑प॒तेऽन्न॑स्य नो देह्यनमी॒वस्य॑ शु॒ष्मिणः॑। प्रप्र॑ दा॒तारं॑ तारिष॒ऽऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे ॥८३ ॥
मूलम् ...{Loading}...
अन्न॑प॒तेऽन्न॑स्य नो देह्यनमी॒वस्य॑ शु॒ष्मिणः॑। प्रप्र॑ दा॒तारं॑ तारिष॒ऽऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे ॥८३ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अन्न॑पत॒ इत्यन्न॑ऽपते। अन्न॑स्य। नः॒। दे॒हि॒। अ॒न॒मी॒वस्य॑। शु॒ष्मिणः॑। प्र॒प्रेति॒ प्रऽप्र॑। दा॒तार॑म्। ता॒रि॒षः॒। ऊर्ज॑म्। नः॒। धे॒हि॒। द्वि॒पद॒ इति॑ द्वि॒ऽपदे॑। चतु॑ष्पदे। चतुः॑ऽपद॒ इति॒ चतुः॑ऽपदे। ८३।
महीधरः
म०. ‘न्यज्य समिधं व्रते प्रत्ते प्रत्तेऽन्नपत इत्याधानम्’ (का० १६ । ६।८) । अध्वर्युणा व्रतपयसि दत्ते तत्र समिधमभ्यज्य दीक्षित उख्येऽग्नावादध्यात् । प्रत्ते इति वीप्सा प्रतिव्रतं समिदाधानप्राप्त्यर्था इति सूत्रार्थः। आग्नेयी उपरिष्टाद्बृहती अष्टार्णत्रिपादा चतुर्थो द्वादशार्णः । हे अन्नपते अन्नस्य पालक अग्ने, नोऽस्मभ्यमन्नस्य देहि । कर्मणि षष्ठी । अन्नं प्रयच्छ । यद्वान्नस्य स्वमंशं देहि । कीदृशस्यान्नस्य । अनमीवस्य नास्ति अमीवा व्याधिर्येन तदनमीवं तस्य । शुष्मिणः शुष्ममिति बलनाम । शुष्मं बलं विद्यते यस्मात्तत् शुष्मि तस्य । रोगनाशकं बलहेत्वन्नं प्रयच्छेत्यर्थः । किंच दातारं प्रतारिषः अन्नस्य दातारं प्रकर्षेण वर्धय । ‘प्रसमुपोदः पादपूरणे’ (पा०८।१। ६) इति पादपूर्त्यै प्रोपसर्गस्य द्वित्वम् । अतिशयार्थं वोपसर्गाभ्यासः ‘अभ्यासे भूयांसमर्थं मन्यन्ते’ (नि. १० । ४२) इति यास्कोक्तेः ‘तॄ प्लवनतरणयोः’ लेटो मध्यमैकवचनं ‘सिब्बहुलं लेटि’ (पा.३ । १।३४ ) इति सिप्प्रत्ययः । ‘आर्धधातुकस्य’ (पा० ७ । २ । ३५) इतीट् छन्दसि धातोर्वृद्धिः ‘लेटोऽडाटौ’ (पा० ३ । ४ । ९४) इति अडागमः ‘इतश्च लोपः’ (पा० ३ । ४ । ९७) इति लेट इकारलोपे रुत्वविसर्गौ । तारिष इति रूपम् । किंच नोऽस्माकं द्विपदे मनुष्ये पुत्रादौ चतुष्पदे गवादौ च ऊर्जमन्नं धेहि धारय । यद्वा द्वौ पादौ यस्य स द्विपात्तस्मै द्विपदे । चत्वारः पादा यस्य स चतुष्पात् तस्मै ‘पादः पत्’ (पा० ६ । ४ । १३०) ‘पादस्य लोपोऽहस्त्यादिभ्यः’ (पा० ५। ४ । १३८) इति अन्तलोपे पदादेशः । द्विपदे मनुष्याय चतुष्पदे गवादये अन्नं धेहि देहि जातावेकवचनम् । सर्वेभ्यो नरपशुभ्योऽन्नं देहीत्यर्थः ॥ ८३ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे । उखादिसमिदाध्यन्तोऽध्याय एकादशोऽगमत् ॥ ११ ॥
अधिमन्त्रम् (VC)
- यजमानपुरोहितौ देवते
- नाभानेदिष्ठ ऋषिः
- उपरिष्टाद् बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
अब मनुष्यों को इस संसार में कैसे-कैसे वर्त्तना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अन्नपते) ओषधि अन्नों के पालन करने हारे यजमान वा पुरोहित ! आप (नः) हमारे लिये (अनमीवस्य) रोगों के नाश से सुख को बढ़ाने (शुष्मिणः) बहुत बलकारी (अन्नस्य) अन्न को (प्रप्रदेहि) अतिप्रकर्ष के साथ दीजिये और इस अन्न के (दातारम्) देने हारे को (तारिषः) तृप्त कर तथा (नः) हमारे (द्विपदे) दो पगवाले मनुष्यादि तथा (चतुष्पदे) चार पगवाले गौ आदि पशुओं के लिये (ऊर्जम्) पराक्रम को (धेहि) धारण कर ॥८३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि सदैव बलकारी आरोग्य अन्न आप सेवें, और दूसरों को देवें। मनुष्य तथा पशुओं के सुख और बल बढ़ावें, जिससे ईश्वर की सृष्टि के क्रमाऽनुकूल आचरण से सब के सुखों की सदा उन्नति होवे ॥८३ ॥ इस अध्याय में गृहस्थ राजा के पुरोहित सभा और सेना के अध्यक्ष और प्रजा के मनुष्यों को करने योग्य कर्म आदि के वर्णन से इस अध्याय में कहे अर्थ की पूर्व अध्याय के अर्थ के साथ सङ्गति जाननी चाहिये ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ मनुष्यैः कथं कथं वर्त्तितव्यमित्युपदिश्यते
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अन्नपते यजमान पुरोहित वा ! त्वं नोऽनमीवस्य शुष्मिणोऽन्नस्य प्रप्रदेहि। अस्याऽन्नस्य दातारं तारिषः। नोऽस्माकं द्विपदे चतुष्पदे ऊर्जं धेहि ॥८३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैः सदैवारोग्यबलकारकमन्नं स्वैर्भोक्तव्यमन्येभ्यः प्रदातव्यं च। मनुष्याणां पशूनां च सुखबले संवर्धनीये, यत ईश्वरसृष्टिक्रमानुकूलाचरणेन सर्वेषां सुखोन्नतिः सदा वर्धेत ॥८३ ॥ अथ गृहस्थराजपुरोहितसभासेनाधीशप्रजाजनकर्तव्यकर्मादिवर्णनादेतदध्यायोक्तार्थस्य पूर्वाध्यायोक्तार्थेन सह सङ्गतिरस्तीत्यवगन्तव्यम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्याणां श्रीमत्परमविदुषां विरजानन्दसरस्वतीस्वामिनां शिष्येण दयानदसरस्वतीस्वामिना निर्मिते संस्कृतार्य्यभाषाभ्यां विभूषिते सुप्रमाणयुक्ते यजुर्वेदभाष्य एकादशोऽध्यायः सम्पूर्णः ॥१॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी सदैव बल व आरोग्य वाढविणारे अन्न खावे व इतरांनाही द्यावे. माणसे व पशू यांचे सुख वाढवावे. शक्ती वाढवावी. ईश्वराच्या सृष्टिक्रमानुसार वर्तन केल्याने सर्वांच्या सुखात सदैव वाढ होते.