०१ अपो देवा
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒पो दे॒वा मधु॑मतीरगृभ्ण॒न्नूर्ज॑स्वती राज॒स्व᳙श्चिता॑नाः। याभि॑र्मि॒त्रावरु॑णाव॒भ्यषि॑ञ्च॒न् याभि॒रिन्द्र॒मन॑य॒न्नत्यरा॑तीः ॥१॥
मूलम् ...{Loading}...
अ॒पो दे॒वा मधु॑मतीरगृभ्ण॒न्नूर्ज॑स्वती राज॒स्व᳙श्चिता॑नाः। याभि॑र्मि॒त्रावरु॑णाव॒भ्यषि॑ञ्च॒न् याभि॒रिन्द्र॒मन॑य॒न्नत्यरा॑तीः ॥१॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒पः। दे॒वाः। मधु॑मती॒रिति॒ मधु॑ऽमतीः। अ॒गृ॒भ्ण॒न्। ऊर्ज॑स्वतीः। राज॒स्व᳙ इति॑ राज॒ऽस्वः᳖। चिता॑नाः। याभिः॑। मि॒त्रावरु॑णौ। अ॒भि। असि॑ञ्चन्। याभिः॑। इन्द्र॑म्। अन॑यन्। अति॑। अरा॑तीः। १।
महीधरः
म०. नवमेऽध्याये वाजपेय-राजसूयसंबन्धि कियदपि कर्मोक्तं । दशमेऽभिषेकार्थजलादानादिराजसूयशेषश्चरकसौत्रामणी चोच्यते । तत्र इडान्तेऽपो गृह्णाति यूपमुत्तरेण नैमित्तिकीरसंभवाद्गत्वेतराः पृथक् पात्रेष्वौदुम्बरेषु ( का० १५ । ४ । २०-२२) ‘सारस्वतीर्गृह्णात्यपो देवाः’ (१५ । ४ । ३३ ) इति । इडाग्रहणं कार्यशेषोपलक्षणम् । देवसूहविषां भागपरिहरणान्ते कृते अभिषेकार्था वक्ष्यमाणा अपो वक्ष्यमाणप्रकारेणौदुम्बरवृक्षपात्रेषु पृथग्गृह्णाति । तत्र विशेषः । निमित्तवशात्प्राप्या नैमित्तिक्यः यथान्तरिक्षात्प्रतिगृह्यातपवर्षाः प्रुष्वाः गोरुल्व्या इत्याद्याः ता राजसूयारम्भात् प्रागेव संपाद्य तदानीं यूपमुत्तरेण गृह्णीयात् । कुतः असंभवात् तदानीमातपवर्षणादेर्निमित्तस्याभावात् इतरा अनैमित्तिकीरपो गत्वा तदानीमेव गृह्णीयात् । तत्र मन्त्रानाह । अपो देवा इति सरस्वतीनदीसंबन्धिनीरप आदौ गृह्णाति । चरकसौत्रामण्याः प्राग्वरुण ऋषिः । अब्देवत्या त्रिष्टुप् । देवा इन्द्रादयो या अपोऽगृभ्णन् गृहीतवन्तः । किंभूता अपः । मधुमतीः मधुरस्वादोपेताः । तथा ऊर्जस्वतीः ऊर्जा विद्यते यासु । विशिष्टान्नरसवतीः । राजस्वः राज्ञः सूयन्ते जनयन्तीति राजस्वः नृपोत्पादिकाः । चितानाः चेतयमानाः सदेवतत्वात्परिदृष्टकारिणीः । पुनस्ता एव विशिनष्टि । याभिरद्भिर्देवा मित्रावरुणौ अभ्यषिञ्चन् मित्रावरुणयोरभिषेकं कृतवन्तः । याभिरद्भिर्देवा इन्द्रं देवमरातीः शत्रून् अत्यनयन् अतीत्य नीतवन्तः इन्द्रं शत्रूनत्यक्रामयन्नित्यर्थः । ‘छन्दसि परेऽपि’ (पा० १ । ४ । ८१) इति अतेरुपसर्गस्य क्रियापदात्परत्वम् । ता अपो गृह्णामीति शेषः ॥ १॥
द्वितीया।
अधिमन्त्रम् (VC)
- आपो देवताः
- वरुण ऋषिः
- निचृद् आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
इसके पश्चात् इस दशवें अध्याय के प्रथम मन्त्र में मनुष्य लोग विद्वानों के अनुकूल चलें, इस विषय का उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोग (देवाः) चतुर विद्वान् लोग (याभिः) जिन क्रियाओं से (मित्रावरुणौ) प्राण तथा उदान को (अभ्यसिञ्चन्) सब प्रकार सींचते और जिन क्रियाओं से (इन्द्रम्) बिजुली को प्राप्त और (अरातीः) शत्रुओं को (अनयन्) जीतते हैं, उन क्रियाओं से (मधुमतीः) प्रशंसनीय मधुरादि गुणयुक्त (ऊर्जस्वतीः) बल पराक्रम बढ़ाने (चितानाः) चेतनता देने और (राजस्वः) ज्ञान-प्रकाश-युक्त राज्य को प्राप्त करानेहारे (अपः) जल वा प्राणों को (अगृभ्णन्) ग्रहण करो ॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि विद्वानों के सहाय से जल वा प्राणों की परीक्षा करके उनसे उपयोग लेवें। शत्रुओं को निवृत्त करके प्रजा के साथ प्राणों के समान प्रीति से वर्त्तें और इन जल तथा प्राणों से उपकार लेवें ॥१॥
दयानन्द-सरस्वती (सं) - विषयः
अथ मनुष्यैर्विदुषामनुकरणेन पदार्थेभ्य उपयोगो ग्राह्य इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यूयं विपश्चितो देवा याभिर्मित्रावरुणावभ्यसिञ्चन्, याभिरिन्द्रमरातीश्चानयन्, ताभिर्मधुमतीरूर्जस्वतीश्चिताना राजस्वोऽपोऽगृभ्णन् गृह्णीत ॥१॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्विद्वत्सहायेनाऽपः सुपरीक्ष्योपयुज्यन्ताम्। शत्रून्निवर्त्य प्रजया सह प्राणवत्प्रियत्वे वर्त्तितव्यमाभ्य उपकारो नेयः ॥१॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी विद्वानांच्या साह्याने जलाची परीक्षा करून व प्राणशक्तीला जाणून त्यांचा उपयोग करून घ्यावा. शत्रूंचे निवारण करून प्रजेबरोबर प्रेमाने (प्राण जसे प्रिय असतात तसे) वागावे व जल आणि प्राण यांच्यापासून लाभ घ्यावा.
०२ वृष्णऽऊर्मिरसि राष्ट्रदा
विश्वास-प्रस्तुतिः ...{Loading}...
वृष्ण॑ऽऊ॒र्मिर॑सि राष्ट्र॒दा रा॒ष्ट्रं मे॑ देहि॒ स्वाहा॑ वृष्ण॑ऽऊर्मिर॑सि राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ देहि वृषसे॒नो᳖ऽसि राष्ट्र॒दा रा॒ष्ट्रं मे॑ देहि॒ स्वाहा॑ वृषसे॒नो᳖ऽसि राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ देहि ॥२॥
मूलम् ...{Loading}...
वृष्ण॑ऽऊ॒र्मिर॑सि राष्ट्र॒दा रा॒ष्ट्रं मे॑ देहि॒ स्वाहा॑ वृष्ण॑ऽऊर्मिर॑सि राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ देहि वृषसे॒नो᳖ऽसि राष्ट्र॒दा रा॒ष्ट्रं मे॑ देहि॒ स्वाहा॑ वृषसे॒नो᳖ऽसि राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ देहि ॥२॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वृष्णः॑। ऊ॒र्मिः। अ॒सि॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। मे॒। दे॒हि॒। स्वाहा॑। वृष्णः॑। ऊ॒र्मिः। अ॒सि॒। रा॒ष्ट्र॒दा इति॑ राष्ट्रऽदाः। रा॒ष्ट्रम्। अ॒मुष्मै॑। दे॒हि॒। वृ॒ष॒से॒न इति॑ वृषऽसे॒नः। अ॒सि॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। मे॒। दे॒हि॒। स्वाहा॑। वृ॒ष॒से॒न इति॑ वृषऽसे॒नः। अ॒सि॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। अ॒मुष्मै॑। दे॒हि॒। २।
महीधरः
म० ‘जुहोत्युत्तरासु चतुर्गृहीतं वृष्ण ऊर्म्यादिभिः स्वाहाकारान्तैः पूर्वैः पूर्वैः प्रतिमन्त्रमुत्तरैरुत्तरैर्गृह्णाति’ ( का० १५ । ४ । ३४) ‘अवगूढात्पशोः पुरुषाद्वा पूर्वापरा ऊर्मी इति’ (१५ । ४ । २३ ) सारस्वतीरादायोत्तरासु षोडशस्वप्सु, वृष्ण ऊर्मिरित्यादिभिः स्वाहान्तैः पूर्वपूर्वमन्त्रैश्चतुर्गृहीताज्यानि गृह्यमाणासु जुहुयात् उत्तरैः स्वाहाहीनैर्मन्त्रैस्ताः क्रमेण गृह्णाति । उत्तरमन्त्रेषु अमुष्मै इति पदस्थाने चतुर्थ्यन्तं यजमाननाम ग्राह्यम् । वृष्ण ऊर्मिरित्यादयो विश्वभृत स्थेत्यन्ता मन्त्राः संहितायां द्विशः पठितास्तेषां पूर्वः पूर्वः स्वाहान्तस्तेनाज्यहोमः उत्तरोत्तरः स्वाहाहीनस्तेनापामादानम् । तत्र गत्वा जले प्रविष्टात्पशोर्नराद्वा यौ पूर्वापरौ कल्लोलौ तौ हुत्वा गृह्णातीति सूत्रार्थः । वृष्ण ऊर्मिरसीत्यादीनि आपः स्वराज इत्यन्तानि यजूंषि लिङ्गोक्तदेवतानि । हे कल्लोल, त्वं वृष्णो वर्षितुः सेक्तुः पशोर्नरस्य वा संबन्धी ऊर्मिः कल्लोलोऽसि । राष्ट्रदाः राष्ट्रं जनपदं ददातीति राष्ट्रदाः स्वभावत एव देशप्रदो भवसि अतो राष्ट्रं मे मह्यं देहि स्वाहा हविर्दत्तमस्तु । एवं हुत्वाथ गृह्णाति वृष्ण ऊर्मिरसि राष्ट्रदा अतोऽमुष्मै यजमानाय राष्ट्रं जनपदं देहि । अमुष्मै इति चतुर्थ्यन्तं यजमाननाम ग्राह्यम् । एवमुपरितना अपि मन्त्रा व्याख्येयाः । अपरोर्मिं गृह्णाति वृषसेनोऽसि वृषा सेचनसमर्था सेना जलराशिरूपा यस्य स वृषसेनः । व्याख्यातमन्यत् ॥ २॥
तृतीया ।
अधिमन्त्रम् (VC)
- वृषा देवता
- वरुण ऋषिः
- स्वराड् ब्राह्मी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब विद्वान् लोग कैसे राजा से क्या-क्या मागें, यह उपदेश अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! जिस कारण आप (वृष्णः) सुख के वर्षाकारक ज्ञान के प्राप्त कराने (राष्ट्रदाः) राज्य के देनेहारे (असि) हैं, इससे (मे) मुझे (स्वाहा) सत्यनीति से (राष्ट्रम्) राज्य को (देहि) दीजिये। (वृष्णः) सुख की वृष्टि करनेवाले राज्य के (ऊर्मिः) जानने और (राष्ट्रदाः) राज्य प्रदान करनेहारे (असि) हैं, (अमुष्मै) उस राज्य की रक्षा करनेवाले को (राष्ट्रम्) न्याय से प्रकाशित राज्य को (देहि) दीजिये। (राष्ट्रदा) राजाओं के कर्मों के देनेहारे (वृषसेनः) बलवान् सेना से युक्त (असि) हैं, (मे) प्रत्यक्ष वर्त्तमान मेरे लिये (स्वाहा) सुन्दर वाणी से (राष्ट्रम्) राज्य को (देहि) दीजिये तथा (राष्ट्रदाः) प्रत्यक्ष राज्य को देनेवाले (वृषसेनः) आनन्दित पुष्टसेना से युक्त (असि) हैं, इससे आप (अमुष्मै) उस परोक्ष पुरुष के लिये (राष्ट्रम्) राज्य को (देहि) दीजिये ॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो राजपुरुष दुष्ट प्राणियों को जीत प्रत्यक्ष और अप्रत्यक्ष श्रेष्ठ पुरुषों का सत्कार करके अधिकार और शोभा को देता है, उसके लिये चक्रवर्त्ती राज्य का अधिकार होना योग्य है ॥२॥
दयानन्द-सरस्वती (सं) - विषयः
अथ विद्वांसः कीदृशं राजानं प्रति किं किं याचेरन्नित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! यतस्त्वं वृष्ण ऊर्मी राष्ट्रदा असि, तस्मान्मे स्वाहा राष्ट्रं देहि। वृष्ण ऊर्मी राष्ट्रदा असि, अमुष्मै राष्ट्रं देहि। राष्ट्रदा वृषसेनोऽसि, स्वाहा राष्ट्रं देहि। राष्ट्रदा वृषसेनोऽसि त्वममुष्मै राष्ट्रं देहि ॥२॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यो मनुष्यो दुष्टान् जित्वा प्रत्यक्षान् श्रेष्ठान् सत्कृत्य राज्याधिकारं राज्यश्रियं ददाति, स चक्रवर्त्ती भवितुं योग्यो जायते ॥२॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जो राजा दुष्टांना जिंकून प्रत्यक्षपणे व अप्रत्यक्षपणे श्रेष्ठ पुरुषांचा सत्कार करतो आणि त्यांचा अधिकार त्यांना देऊन त्याचे भले करतो अशा व्यक्तीलाच चक्रवती राज्याचा अधिकार देणे योग्य ठरते.
०३ अर्थेत स्थ
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒र्थेत॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒र्थेत॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ द॒त्तौज॑स्वती स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहौज॑स्वती स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ द॒त्तापः॑ परिवा॒हिणी॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहापः॑ परिवा॒हिणी॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्ता॒पां पति॑रसि राष्ट्र॒दा रा॒ष्ट्रं मे देहि॒ स्वाहा॒ऽपां पति॑रसि राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ देह्य॒पां गर्भो॑ऽसि राष्ट्र॒दा रा॒ष्ट्रं मे॑ देहि॒ स्वाहा॒ऽपां गर्भो॑ऽसि राष्ट्र्र॒दा रा॒ष्ट्रम॒मुष्मै॑ देहि ॥३॥
मूलम् ...{Loading}...
अ॒र्थेत॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒र्थेत॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ द॒त्तौज॑स्वती स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहौज॑स्वती स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ द॒त्तापः॑ परिवा॒हिणी॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहापः॑ परिवा॒हिणी॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्ता॒पां पति॑रसि राष्ट्र॒दा रा॒ष्ट्रं मे देहि॒ स्वाहा॒ऽपां पति॑रसि राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ देह्य॒पां गर्भो॑ऽसि राष्ट्र॒दा रा॒ष्ट्रं मे॑ देहि॒ स्वाहा॒ऽपां गर्भो॑ऽसि राष्ट्र्र॒दा रा॒ष्ट्रम॒मुष्मै॑ देहि ॥३॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒र्थेत॒ इत्य॑र्थ॒ऽइ॑तः। स्थ॒। रा॒ष्ट्र॒दा इति राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। मे॒। द॒त्त॒। स्वाहा॑। अ॒र्थेत॒ इत्य॑र्थ॒ऽइतः॑। स्थ॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। अ॒मुष्मै॑। द॒त्त॒। ओज॑स्वतीः। स्थ॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। मे॒। द॒त्त॒। स्वाहा॑। ओज॑स्वतीः। स्थ॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। अ॒मु॒ष्मै॑। द॒त्त॒। आपः॑। प॒रिवा॒हिणीः॑। प॒रि॒वा॒हिनी॒रिति॑ परिऽवा॒हिनीः॑। स्थ॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। मे॒। द॒त्त॒। स्वाहा॑। आपः॑। प॒रिवा॒हिणीः॑। प॒रि॒वा॒हिनी॒रिति॑ परिऽवा॒हिनीः॑। स्थ॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। अ॒मुष्मै॑। द॒त्त॒। अ॒पाम्। पतिः॑। अ॒सि॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। मे॒। दे॒हि॒। स्वाहा॑। अ॒पाम्। पतिः॑। अ॒सि॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। अ॒मुष्मै॑। दे॒हि॒। अ॒पाम्। गर्भः॑। अ॒सि॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। मे॒। दे॒हि॒। स्वाहा॑। अ॒पाम्। गर्भः॑। अ॒सि॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। अ॒मुष्मै॑। दे॒हि॒। ३।
महीधरः
म० ‘स्यन्दमाना इति नद्यादिप्रवाहस्था अपो गृह्णाति’ । (का० १५ । ४ । २४ ) अर्थेतः अर्थं प्रयोजनमुद्दिश्य नद्यादेः सकाशाद् यज्ञदेशं यन्ति गच्छन्तीत्यर्थेतः । इणः क्विपि तुगागमः। तथाविधा यूयं राष्ट्रदा देशदात्र्यः स्थ भवथ । मे राष्ट्र दत्त यच्छत । दत्तेति बहुवचनम् अन्यद्व्याख्यातम् ( का० १५। ४ । २५)। प्रतिलोमाः । वहन्तीनां याः प्रतिगच्छन्ति तासु होमादाने । हे आपः, यूयमोजस्वतीः ओजसा बलेन युक्ता भवथ । ‘अपयतीरिति’ ( का० १५ । ४ । २६) वहन्तीनामपां मध्याद्या मार्गान्तरेण गत्वा पुनस्तत्र मिलन्ति ता अपयत्यस्तासु होमादाने । हे आपः, यूयं परिवाहिणीः स्थ परि सर्वतो वहन्तीति परिवाहिण्यः सर्वतोवहनशीला भवथ उक्तमन्यत् (का० १५ । ४ । २७ । ) नदीपतिमिति । -समुद्रस्यापां होमादाने । अपां जलानां पतिः स्वामी पालकोऽसि । (का० १५ । ४ । २९) निवेष्या इति । निवेष्य आवर्तस्तद्भवा निवेष्याः नद्यादौ यत्राम्भोभ्रमस्तत्र होमादाने हे जलभ्रम, त्वमपां गर्भो मध्यवर्ती भवसि ॥ ३ ॥
चतुर्थी।
वाशा-वाशी पाठभेदः
अधिमन्त्रम् (VC)
- अपां पतिर्देवता
- वरुण ऋषिः
- अभिकृतिः, निचृद् जगती
- ऋषभः, निषादः
दयानन्द-सरस्वती (हि) - विषयः
राजा, मन्त्री, सेना और प्रजा के पुरुष आपस में किस प्रकार वर्त्तें, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो तुम लोग (अर्थेतः) श्रेष्ठ पदार्थों को प्राप्त होते हुए (स्वाहा) सत्यनीति से (राष्ट्रदाः) राज्य सेवनेहारे सभासद् (स्थ) हो, वे आप लोग (मे) मुझे (राष्ट्रम्) राज्य को (दत्त) दीजिये, जो तुम लोग (अर्थेतः) पदार्थों को जानते हुए (राष्ट्रदाः) राज्य देनेवाले (स्थ) हो, वे तुम लोग (अमुष्मै) राज्य के रक्षक उस पुरुष को (राष्ट्रम्) राज्य को (दत्त) दीजिये, जो तुम लोग (स्वाहा) सत्यनीति के साथ (ओजस्वतीः) विद्या बल और पराक्रम से युक्त हुई रानी लोग आप (राष्ट्रदाः) राज्य देने हारी (स्थ) हैं, वे (मे) मुझे (राष्ट्रम्) राज्य को (दत्त) दीजिये। जो आप लोग (ओजस्वतीः) जितेन्द्रिय (राष्ट्रदाः) राज्य की देनेवाली (स्थ) हैं, वे आप लोग (अमुष्मै) विद्या, बल और पराक्रम से युक्त पुरुष को (राष्ट्रम्) राज्य को (दत्त) दीजिये। जो तुम लोग (स्वाहा) सत्यनीति से (परिवाहिणीः) अपने तुल्य पतियों के साथ विवाह करनेहारी (आपः) जल तथा प्राण के समान प्यारी (राष्ट्रदाः) राज्य देनेहारी (स्थ) हैं, वे आप लोग (मे) मुझे (राष्ट्रम्) राज्य को (दत्त) दीजिये। जो तुम लोग (परिवाहिणीः) अपने अनुकूल पतियों के साथ प्रसन्न होनेवाली (आपः) आत्मा के समान प्रिय (राष्ट्रदाः) राज्य देनेवाली (स्थ) हैं, वे आप (अमुष्मै) उस ब्रह्मचारी वीर पुरुष को (राष्ट्रम्) राज्य को (दत्त) दीजिये। हे सभाध्यक्ष ! जो आप (राष्ट्रदाः) राज्य देनेहारे (अपाम्) जलाशयों के (पतिः) रक्षक (असि) हैं, सो (मे) मुझे (स्वाहा) सत्यनीति के साथ (राष्ट्रम्) राज्य को (देहि) दीजिए, हे सभापति ! जो आप (स्वाहा) सत्य वचनों से (राष्ट्रदाः) राज्य देनेवाले (अपाम्) प्राणों के (पतिः) रक्षक (असि) हैं, वे (अमुष्मै) उस प्राणियों के पोषक पुरुष को (राष्ट्रम्) राज्य को (देहि) दीजिये। हे वीर पुरुष राजन् ! जो आप (स्वाहा) सत्यनीति के साथ (राष्ट्रदाः) राज्य देनेवाले (अपाम्) सेनाओं के बीच (गर्भः) गर्भ के समान रक्षित (असि) हैं, सो आप (मे) विचारशील मुझे (राष्ट्रम्) राज्य को (देहि) दीजिये। हे राजन् ! जो आप (राष्ट्रदाः) राज्य देनेहारे (अपाम्) प्रजाओं के विषय (गर्भः) स्तुति के योग्य (असि) हैं, सो आप (अमुष्मै) उस प्रशंसित पुरुष को (राष्ट्रम्) राज्य को (देहि) दीजिये ॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो राज्य के अधिकारी पुरुष और उनकी स्त्रियाँ हों, उनको चाहिये कि अपनी उन्नति के लिये दूसरों की उन्नति को सह के सब मनुष्यों को राज्य के योग्य कर और आप भी चक्रवर्त्ती राज्य का भोग किया करें, ऐसा न हो कि ईर्ष्या से दूसरों की हानि करके अपने राज्य का भङ्ग करें ॥३॥
दयानन्द-सरस्वती (सं) - विषयः
पुना राजाऽमात्यसेनाप्रजाजनाः परस्परं कथं वर्त्तेरन्नित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! ये यूयमर्थेतस्सन्तः स्वाहा राष्ट्रदाः स्थ ते मे राष्ट्रं दत्त। ये यूयमर्थेतः सन्तो राष्ट्रदाः स्थ तेऽमुष्मै राष्ट्रं दत्त या यूयं स्वाहौजस्वतीः सत्यो राष्ट्रदाः स्थ ता मे राष्ट्रं दत्त। या ओजस्वती राष्ट्रदाः स्थ ता अमुष्मै राष्ट्रं दत्त। या यूयं स्वाहा परिवाहिणी राष्ट्रदाः स्थ ता मे राष्ट्रं दत्त। या यूयं परिवाहिणीरापो राष्ट्रदाः स्थ ता अमुष्मै राष्ट्रं दत्त। यस्त्वं अपां पतिरसि सोऽमुष्मै राष्ट्रं देहि। यस्त्वं स्वाहा राष्ट्रदा अपां गर्भोऽसि, स त्वं मे राष्ट्रं देहि। यस्त्वं राष्ट्रदा अपां गर्भोऽसि सोऽमुष्मै राष्ट्रं देहि ॥३॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये पुरुषा राजानो या राजस्त्रियश्च स्युस्ताः स्वोत्कर्षार्थं परोत्कर्षसहनं सर्वान् मनुष्यान् विद्यासुशिक्षायुक्तांश्च कृत्वा राज्यभागिनो राज्यसेवन्यश्च स्युः। न खल्वीर्ष्यया परेषां हानिकरणात् स्वराज्यभ्रंशमाकारयेयुः ॥३॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राज्याचे अधिकारी व त्यांच्या स्त्रिया यांनी आपल्या उन्नतीबरोबरच इतरांच्या उन्नतीसाठीही प्रयत्न करावा व सर्व माणसांना राज्यात सहभागी होण्यायोग्य बनवावे आणि स्वतःही चक्रवर्ती राज्य भोगावे. ईर्षेने दुसऱ्याची हानी करून आपल्या राज्यात फूट पाडता कामा नये किंवा राज्य नष्ट होता कामा नये.
०४ सूर्यत्वचस स्थ
विश्वास-प्रस्तुतिः ...{Loading}...
सूर्य॑त्वचस स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒ सूर्य॑त्वचस स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त॒ सूर्य॑वर्चस स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒ सूर्य॑वर्चस स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त॒ मान्दा॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒ मान्दा॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त व्रज॒क्षित॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॑ व्रज॒क्षित॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त॒ वाशा॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒ वाशा॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त॒ शवि॑ष्ठा स्थ राष्ट्र॒दा रा॒ष्ट्रं मे दत्त॒ स्वाहा शवि॑ष्ठा स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त॒ शक्व॑री स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॑ शक्व॑री स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त॒ जन॒भृत॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒ जन॒भृत॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त विश्व॒भृत॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॑ विश्व॒भृत॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ द॒त्तापः॑ स्व॒राज॑ स्थ राष्ट्र॒दा राष्ट्र॒म॒मुष्मै॑ दत्त। मधु॑मती॒र्मधु॑मतीभिः पृच्यन्तां॒ महि॑ क्ष॒त्रं क्ष॒त्रिया॑य वन्वा॒नाऽअना॑धृष्टाः सीदत स॒हौज॑सो॒ महि॑ क्ष॒त्रं क्ष॒त्रिया॑य॒ दध॑तीः ॥४॥
मूलम् ...{Loading}...
सूर्य॑त्वचस स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒ सूर्य॑त्वचस स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त॒ सूर्य॑वर्चस स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒ सूर्य॑वर्चस स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त॒ मान्दा॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒ मान्दा॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त व्रज॒क्षित॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॑ व्रज॒क्षित॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त॒ वाशा॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒ वाशा॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त॒ शवि॑ष्ठा स्थ राष्ट्र॒दा रा॒ष्ट्रं मे दत्त॒ स्वाहा शवि॑ष्ठा स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त॒ शक्व॑री स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॑ शक्व॑री स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त॒ जन॒भृत॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒ जन॒भृत॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त विश्व॒भृत॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॑ विश्व॒भृत॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ द॒त्तापः॑ स्व॒राज॑ स्थ राष्ट्र॒दा राष्ट्र॒म॒मुष्मै॑ दत्त। मधु॑मती॒र्मधु॑मतीभिः पृच्यन्तां॒ महि॑ क्ष॒त्रं क्ष॒त्रिया॑य वन्वा॒नाऽअना॑धृष्टाः सीदत स॒हौज॑सो॒ महि॑ क्ष॒त्रं क्ष॒त्रिया॑य॒ दध॑तीः ॥४॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सूर्यत्वचस॒ इति॒ सूर्य॑ऽत्वचसः। स्थ॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। मे॒। द॒त्त॒। स्वाहा॑। सूर्यत्वचस॒ इति॒ सूर्यऽत्व॒चसः। स्थ॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। अ॒मुष्मै॑। द॒त्त॒। सूर्यवर्चस॒ इति॒ सूर्य॑ऽवर्चसः। स्थ॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। मे॒। द॒त्त॒। स्वाहा॑। सूर्यवर्चस॒ इति॒ सूर्य॑ऽवर्चसः। स्थ॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। अ॒मुष्मै॑। द॒त्त॒। मान्दाः॑। स्थ॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒दाः। रा॒ष्ट्रम्। मे॒। द॒त्त॒। स्वाहा॑। मान्दाः॑। स्थः॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। अ॒मुष्मै॑। द॒त्त॒। व्र॒ज॒क्षित॒ इति॑ व्र॒ज॒ऽक्षितः। स्थ॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। मे॒। द॒त्त। स्वाहा॑। व्र॒ज॒क्षित॒ इति॑ व्रज॒ऽक्षितः॑। स्थ॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। अ॒मुष्मै॑। द॒त्त॒। वाशाः॑। स्थ॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। मे॒। द॒त्त॒। स्वाहा॑। वाशाः॑। स्थ॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। अ॒मुष्मै॑। द॒त्त॒। शवि॑ष्ठाः। स्थ॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। मे॒। द॒त्त॒। स्वाहा॑। शवि॑ष्ठाः। स्थ॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। अ॒मुष्मै॑। द॒त्त॒। शक्व॑रीः। स्थ॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। मे॒। द॒त्त॒। स्वाहा॑। शक्व॑रीः। स्थ॒। राष्ट्रदा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। अ॒मुष्मै॑। द॒त्त॒। ज॒न॒भृत॒ इति॑ जन॒ऽभृतः॑। स्थ॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। मे॒। द॒त्त॒। स्वाहा॑। ज॒न॒भृत॒ इति॑ जन॒ऽभृतः॑। स्थ॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। अ॒मुष्मै॑। द॒त्त॒। वि॒श्व॒भृत॒ इति विश्व॒ऽभृतः॑। स्थ॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। मे॒। द॒त्त॒। स्वाहा॑। वि॒श्व॒भृत॒ इति॑ विश्व॒ऽभृतः॑। स्थ॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। अ॒मुष्मै॑। द॒त्त॒। आपः॑। स्व॒राज॒ इति॑ स्व॒ऽराजः॑। स्थ॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। अ॒मुष्मै॑। द॒त्त॒। मधु॑मती॒रिति॒ मधु॑ऽमतीः। मधु॑मतीभि॒रिति॒ मधु॑मतीऽभिः। पृ॒च्य॒न्ता॒म्। महि॑। क्ष॒त्रम्। क्ष॒त्रियाय॑। व॒न्वा॒नाः। अना॑धृष्टाः। सी॒द॒त॒। स॒हौज॑स॒ इति॑ स॒हऽओ॑जसः। महि॑। क्ष॒त्रम्। क्ष॒त्रिया॑य। दध॑तीः। ४।
महीधरः
म० ‘स्यन्दमानानां स्थावराः प्रत्याताप इति’। ( का० १५ । ४ । ३० ) वहदपां मध्ये याः स्थिराः सदा घर्मे वर्तमानास्तासु होमादाने । हे आपः, यूयं सूर्यत्वचसो भवथ सूर्यस्येव त्वचस्त्वक् यासां ताः सूर्यत्वचसः सदा तापे वर्तमानत्वात् त्वचःशब्दः सान्तस्त्वग्वाची । ‘अन्तरिक्षात्प्रतिगृह्यातपवर्ष्या इति’ (का० १५। ४ । ३१) आतपे वर्षति सति गगनादप आदायादौ संपादिताः सन्ति यूपमुत्तरेण तासु होमादाने। सूर्यस्येव वर्चस्तेजो यासां ताः सूर्यवर्चसः तादृश्यो भवथ । ‘सरस्या इति’ (का० १५ । ४ । ३२) तडागभवास्वप्सु होमादाने । हे आपः, यूयं मान्दाः स्थ । मन्दतेर्मोदनार्थस्य रूपं मन्दन्ते भूतानि यत्र बहूदकत्वात्ता मान्दाः भवथ । ‘कूप्य इति’ । (का. १५ । ४ । ३) कूपे भवाः कूप्यास्तत्र होमादाने । हे आपः, यूयं व्रजक्षितो भवथ । व्रज इति मेघनामसु पठितम् । अत्र तूदकधारणसामर्थ्यात् कूप उच्यते । व्रजे कूपे क्षियन्ति निवसन्ति व्रजक्षितः । (का० १५ । ४ । ३२) प्रुष्वा इति । ‘प्रुष सेचने’ प्रुष्णन्ति ओषधीः सिञ्चन्तीति प्रुष्वाः अवश्यायरूपाः तृणाग्रेषु स्थितास्तासु वस्त्रक्षेपेण या आत्ताः सन्ति ता यूपमुत्तरेण हुत्वा ग्राह्याः । वाशाः स्थ । ‘वश कान्तौ’ उश्यन्ते जनैः काम्यन्तेऽन्ननिष्पत्तिहेतुत्वाद्वाशा यूयं भवथ । ‘मध्विति’ ( का० १५ । ४ । ३२) मधुनि होमादाने । हे मधुरूपा आपः, यूयं शविष्ठाः। शव इति बलनाम। बलिष्ठाः बलदात्र्यो भवथ। त्रिदोषबलशमनत्वाद्बलकरं मधु । ‘गोरुल्व्या इति’ ( का० १५। ४ । ३२) उल्वं गर्भवेष्टनं तत्र भवा उल्व्याः प्रसूयमानधेनुगर्भवेष्टनोत्थजलं पूर्वं गृहीतमस्ति यूपमुत्तरेण तत्र होमादाने । शक्करीः । ‘शक्लृ शक्तौ’ ‘अन्येभ्योऽपि दृश्यन्ते’ (पा० ३ । २ । ७५ ) इति वनिप्प्रत्ययः ‘वनो र च’ ( पा० ४।१।७ इति ङीप् रेफश्च । शक्नुवन्ति वाहदोहादिभिर्जगदुद्धर्तुमिति शक्वर्यो गावस्तत्संबन्धिन्यो यूयं भवथ । ‘पय इति’ ( का० १५ । ४ । ३२) दुग्धस्य होमपूर्वं ग्रहणम् । हे आपः, यूयं जनभृतो भवथ बालभावे जनान् जन्तून् बिभ्रति पुष्णन्तीति जनभृतः । ‘घृतमिति’ ( का० ५ । ४ । ३२ ) घृते होमादाने । हे घृतरूपा आपः, यूयं विश्वभृतः विश्वं सर्वं जगद्देवादिकं बिभ्रति विश्वभृतो भवथ राष्ट्रदाः । एवं सारस्वत्यादयो घृतान्ताः सप्तदशाप उक्ताः । ‘आपः स्वराज इति मरीचीर्गृहीत्वा गृहीत्वाञ्जलिना सर्वासु सᳪं᳭सृजतीति’ ( का० १५ । ४ । ३५) रविकरतप्ता आपो मरीचयस्ता अञ्जलिनादाय पूर्वगृहीतास्वप्सु योजयेत् प्रतिग्रहणमन्त्रः संसर्गस्तूष्णीम् । ‘नात्र होमः षोडशाहुतीर्जुहोति द्वयीषु न जुहोति सारस्वतीषु च मरीचिषु च’ (५। ३ । ४ । २३) इति श्रुतेः । हे आपः, मरीचिरूपा यूयं स्वराजः स्थ स्वेनैव राजन्ते ताः स्वराजः अनन्याश्रितराज्या भवथ । राष्ट्रदाः अतोऽमुष्मै यजमानाय राष्ट्रं देशं दत्त । ‘औदुम्बरे पात्रे समासिञ्चत्येना मधुमतीरिति’ ( का० १५ । ४ । ३६) एनाः सारस्वत्याद्या अप उदुम्बरकाष्ठपात्रे एकीकरोति । मन्त्रावृत्तिः । अब्देवत्यं यजुः । मधुमतीः मधुरसवत्य एता आपो मधुमतीभिर्मधुरस्वादोपेताभिरद्भिः पृच्यन्तां संसृज्यन्ताम् । किंभूता एताः । महि महत् क्षत्रं बलं क्षत्रियाय राज्ञे यजमानाय वन्वानाः संभजमानाः ददत्य इत्यर्थः । वनोतिः संभजनार्थः । ‘मैत्रावरुणधिष्ण्यस्य पुरस्तान्निदधात्यनाधृष्टा सीदतेति’ (का० १५ । ४ । ३७ ) औदुम्बरे पात्रे एकीकृतास्ता अपो मैत्रावरुणधिष्ण्याग्रे सदसि सादयति । अब्देवत्यम् । हे आपः, यूयं सीदत तिष्ठत । किंभूता यूयम् । अनाधृष्टाः अपराभूता रक्षोभिः । सहोजसः ओजसा सहिताः बलयुक्ताः । तथा महि महत्क्षत्रं बलं क्षत्रियाय राज्ञे दधतीः दधत्यः स्थापयन्त्यः ॥ ४ ॥
पञ्चमी।
अधिमन्त्रम् (VC)
- सूर्य्यादयो मन्त्रोक्ता देवताः
- वरुण ऋषिः
- जगती स्वराट् पङ्क्तिः, स्वराट् संकृतिः, भुरिग् आकृतिः, भुरिक् त्रिष्टुप्
- मध्यमः, पञ्चमः, स्वरः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को कैसा हो के किस-किस के लिये क्या-क्या देना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजपुरुषो ! तुम लोग (सूर्य्यत्वचसः) सूर्य के समान अपने न्याय प्रकाश से सब तेज को ढाँकनेवाले होते हुए (स्वाहा) सत्य न्याय के साथ (राष्ट्रदाः) राज्य देनेहारे (स्थ) हो, इसलिये (मे) मुझे (राष्ट्रम्) राज्य को (दत्त) दीजिये। हे मनुष्यो ! जिस कारण (सूर्यत्वचसः) सूर्य्यप्रकाश के समान विद्या पढ़नेवाले होते हुए तुम लोग (राष्ट्रदाः) राज्य देनेहारे (स्थ) हो, इसलिये (अमुष्मै) उस विद्या में सूर्यवत् प्रकाशमान पुरुष के लिये (राष्ट्रम्) राज्य को (दत्त) दीजिये। हे विद्वन् मनुष्यो ! (सूर्यवर्चसः) सूर्य के समान तेजधारी होते हुए तुम लोग (स्वाहा) सत्य वाणी से (राष्ट्रदाः) राज्यदाता (स्थ) हो, इस कारण (मे) तेजस्वी मुझे (राष्ट्रम्) राज्य को (दत्त) दीजिये, जिस कारण (सूर्यवर्चसः) सूर्य्य के समान प्रकाशमान होते हुए आप लोग (राष्ट्रदाः) राज्य देनेहारे (स्थ) हो, इसलिये (अमुष्मै) उस प्रकाशमान पुरुष के लिये (राष्ट्रम्) राज्य को (दत्त) दीजिये। जिस कारण (मान्दाः) मनुष्यों को आनन्द देनेहारे होते हुए आप लोग (स्वाहा) सत्य वचनों के साथ (राष्ट्रदाः) राज्य देनेवाले (स्थ) हो, इसलिये (मे) आनन्द देनेहारे मुझे (राष्ट्रम्) राज्य को (दत्त) दीजिये, जिसलिये आप लोग (मान्दाः) प्राणियों को सुख देनेवाले होके (राष्ट्रदाः) राज्यदाता (स्थ) हो, इसलिये (अमुष्मै) उस सुखदाता जन को (राष्ट्रम्) राज्य को (दत्त) दीजिये। जिस कारण आप लोग (व्रजक्षितः) गौ आदि पशुओं के स्थानों को बसाते हुए (स्वाहा) सत्य क्रियाओं के सहित (राष्ट्रदाः) राज्यदाता (स्थ) हैं, इसलिये (मे) पशुरक्षक मुझे (राष्ट्रम्) राज्य को (दत्त) दीजिये। जिस कारण आप लोग (व्रजक्षितः) स्थान आदि से पशुओं के रक्षक होते हुए (राष्ट्रदाः) राज्य देनेहारे (स्थ) हैं, इससे (अमुष्मै) उस गौ आदि पशुओं के रक्षक पुरुष के लिये राज्य को (दत्त) दीजिये। जिसलिये आप लोग (वाशाः) कामना करते हुए (स्वाहा) सत्यनीति से (राष्ट्रदाः) राज्यदाता (स्थ) हैं, इसलिये (मे) इच्छायुक्त मुझे (राष्ट्रम्) राज्य को (दत्त) दीजिये। जिस कारण आप लोग (वाशाः) इच्छायुक्त होते हए (राष्ट्रदाः) राज्य देनेवाले (स्थ) हैं, इसलिये (अमुष्मै) उस इच्छायुक्त पुरुष के लिये (राष्ट्रम्) राज्य को (दत्त) दीजिये। जिस कारण आप लोग (शविष्ठाः) अत्यन्त बलवाले होते हुए (स्वाहा) सत्य पुरुषार्थ से (राष्ट्रदाः) राज्यदाता (स्थ) हैं, इस कारण (मे) बलवान् मुझे (राष्ट्रम्) राज्य को (दत्त) दीजिये। जिस कारण आप लोग (शविष्ठाः) अति पराक्रमी (राष्ट्रदाः) राज्यदाता (स्थ) हैं, इस कारण (अमुष्मै) उस अति पराक्रमी जन के लिये (राष्ट्रम्) राज्य को (दत्त) दीजिये। हे राणी लोगो ! जिसलिये आप (शक्वरीः) सामर्थ्यवाली होती हुई (स्वाहा) सत्य पुरुषार्थ से (राष्ट्रदाः) राज्य देने हारी (स्थ) हैं, इसलिये (मे) सामर्थ्यवान् मुझे (राष्ट्रम्) राज्य को (दत्त) दीजिये। जिस कारण आप (शक्वरीः) सामर्थ्ययुक्त (राष्ट्रदाः) राज्य देनेवाली (स्थ) हैं, इस कारण (अमुष्मै) उस सामर्थ्ययुक्त पुरुष के लिये (राष्ट्रम्) राज्य को (दत्त) दीजिये। जिसलिये आप लोग (जनभृतः) श्रेष्ठ मनुष्यों का पोषण करने हारी होती हुई (स्वाहा) सत्य कर्मों के साथ (राष्ट्रदाः) राज्य देनेवाली (स्थ) हैं, इसलिये (मे) श्रेष्ठ गुणयुक्त मुझे (राष्ट्रम्) राज्य को (दत्त) दीजिये। जिसलिये आप (जनभृतः) सज्जनों को धारण करनेहारे (राष्ट्रदाः) राज्यदाता (स्थ) हैं, इसलिये (अमुष्मै) उस सत्यप्रिय पुरुष के लिये (राष्ट्रम्) राज्य को (दत्त) दीजिये। हे सभाध्यक्षादि राजपुरुषो ! जिसलिये आप लोग (विश्वभृतः) सब संसार का पोषण करनेवाले होते हुए (स्वाहा) सत्य वाणी के साथ (राष्ट्रदाः) राज्य देनेहारे (स्थ) हैं, इसलिये (मे) सब के पोषक मुझे (राष्ट्रम्) राज्य को (दत्त) दीजिये। जिसलिये आप लोग (विश्वभृतः) विश्व को धारण करनेहारे (राष्ट्रदाः) राज्यदाता (स्थ) हैं, इसलिये (अमुष्मै) उस धारण करनेहारे मनुष्य के लिये (राष्ट्रम्) राज्य को (दत्त) दीजिये। जिस कारण आप लोग (आपः) सब विद्या और धर्म विषय में व्याप्तिवाले होते हुए (स्वाहा) सत्य क्रिया से (राष्ट्रदाः) राज्य देनेहारे (स्थ) हैं, इस कारण (मे) शुभ गुणों में व्याप्त मुझे (राष्ट्रम्) राज्य को (दत्त) दीजिये। जिसलिये आप लोग (आपः) सब विद्या और धर्म मार्ग को जाननेहारे (स्वराजः) आप से आप ही प्रकाशमान (राष्ट्रदाः) राज्यदाता (स्थ) हैं, इसलिये (अमुष्मै) उस धर्मज्ञ पुरुष के लिये (राष्ट्रम्) राज्य को (दत्त) दीजिये। हे सज्जन स्त्री लोगो ! आप को चाहिये कि (क्षत्रियाय) राजपूतों के लिये (महि) बड़े पूजा के योग्य (क्षत्रम्) क्षत्रियों के राज्य को (वन्वानाः) चाहती हुई (सहौजसः) बल-पराक्रम के सहित वर्त्तमान (क्षत्रियाय) राजपूतों के लिये (महि) बड़े (क्षत्रम्) राज्य को (दधतीः) धारण करती हुई (अनाधृष्टाः) शत्रुओं के वश में न आनेवाली (मधुमतीः) मधुर आदि रसवाली ओषधी (मधुमतीभिः) मधुरादि गुणयुक्त वसन्त आदि ऋतुओं से सुखों को (पृच्यन्ताम्) सिद्ध किया करें। हे सज्जन पुरुषो ! तुम लोग इस प्रकार की स्त्रियों को (सीदत) प्राप्त होओ ॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे स्त्री पुरुषो ! जो सूर्य के समान न्याय और विद्या का प्रकाश कर सब को आनन्द देने, गौ आदि पशुओं की रक्षा करने, शुभ गुणों से शोभायमान, बलवान्, अपने तुल्य स्त्रियों से विवाह और संसार का पोषण करनेवाले स्वाधीन हैं, वे ही औरों के लिये राज्य देने और आप सेवन करने में समर्थ होते हैं, अन्य नहीं ॥४॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्याः कीदृशा भूत्वा कस्मै किं किं प्रदद्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे राजपुरुषाः ! यतो यूयं सूर्य्यत्वचसः सन्तः स्वाहा राष्ट्रदा स्थ तस्मान्मे राष्ट्रं दत्त। यतः सूर्य्यत्वचसः सन्तो यूयं राष्ट्रदा स्थ तस्मादमुष्मै राष्ट्रं दत्त। यतो यूयं सूर्य्यवर्चसः सन्तः स्वाहा राष्ट्रदा स्थ तस्मान्मे राष्ट्रं दत्त। यतो यूयं सूर्य्यवर्चसो राष्ट्रदा स्थ तस्मादमुष्मै राष्ट्रं दत्त। यतो यूयं व्रजक्षितः सन्तः स्वाहा राष्ट्रदा स्थ तस्मान्मे राष्ट्रं दत्त। यतो यूयं व्रजक्षितः सन्तो राष्ट्रदा स्थ तस्मादमुष्मै राष्ट्रं दत्त। यतो यूयं वाशाः सन्तः स्वाहा राष्ट्रदा स्थ तस्मान्मे राष्ट्रं दत्त। यतो यूयं वाशाः सन्तो राष्ट्रदा स्थ तस्मादमुष्मै राष्ट्रं दत्त। यतो यूयं शविष्ठाः सन्तः स्वाहा राष्ट्रदा स्थ तस्मान्मे राष्ट्रं दत्त। यतो यूयं शविष्ठा राष्ट्रदा स्थ तस्मादमुष्मै राष्ट्रं दत्त। यतो यूयं शक्वरीः सन्तः स्वाहा राष्ट्रदा स्थ तस्मान्मे राष्ट्रं दत्त। यतो यूयं शक्वरी राष्ट्रदा स्थ तस्मादमुष्मै राष्ट्रं दत्त। यतो यूयं जनभृतः सन्तः स्वाहा राष्ट्रदा स्थ तस्मान्मे राष्ट्रं दत्त। यतो यूयं जनभृतो राष्ट्रदा स्थ तस्मादमुष्मै राष्ट्रं दत्त। यतो यूयं विश्वभृतः सन्तः स्वाहा राष्ट्रदा स्थ तस्मान्मे राष्ट्रं दत्त। यतो यूयं विश्वभृतो राष्ट्रदा स्थ तस्मादमुष्मै राष्ट्रं दत्त। यतो यूयमापः स्वराजः सन्तो राष्ट्रदा स्थ तस्मान्मे राष्ट्रं दत्त। यतो यूयमापः स्वराजः स्थ तस्मादमुष्मै राष्ट्रं दत्त। हे सज्जनाः स्त्रियः ! युष्माभिः क्षत्रियाय महि क्षत्रं वन्वानाः सहौजसः क्षत्रियाय महि क्षत्रं दधतीरनाधृष्टा मधुमतीर्मधुमतीभिः सुखानि पृच्यन्ताम्। हे सज्जनाः पुरुषाः ! यूयमीदृशीः स्त्रियः सीदत प्राप्नुत ॥४॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे स्त्रीपुरुषाः ! हे मनुष्याः सूर्यवन्न्यायप्रकाशकाः सूर्य इव विद्यादीपकाः सर्वेषामानन्दप्रदा गवादिपशुरक्षकाः शुभगुणैः कमनीया बलवन्तः स्वसदृशस्त्रियः विश्वम्भरा स्वाधीनाः सन्ति, तेऽन्येभ्यो राज्यं दातुं सेवितुं च शक्नुवन्ति, नेतर इति यूयं विजानीत ॥४॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे स्री-पुरुषांनो ! सूर्याप्रमणे जे न्याय व विद्यारूपी प्रकाश देऊन सर्वांना आनंदित करतात, गाई इत्यादी पशूंचे रक्षण करतात, बलवान असतात, शुभगुणयुक्त असून आपल्यासारख्याच स्रीशी विवाह करून जगाचे पोषण करण्यास समर्थ असतात तेच राज्य करण्यास समर्थ असतात, अन्य नव्हे.
०५ सोमस्य त्विषिरसि
विश्वास-प्रस्तुतिः ...{Loading}...
सोम॑स्य॒ त्विषि॑रसि॒ तवे॑व मे॒ त्विषि॑भूर्यात्। अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहा॑ सवि॒त्रे स्वाहा॒ सर॑स्वत्यै॒ स्वाहा॑ पू॒ष्णे स्वाहा॒ बृह॒स्पत॑ये॒ स्वाहेन्द्रा॑य॒ स्वाहा॒ घोषा॑य॒ स्वाहा॒ श्लोका॑य॒ स्वाहाँशा॑य॒ स्वाहा॒ भगा॑य॒ स्वाहा॑र्य॒म्णे स्वाहा॑ ॥५॥
मूलम् ...{Loading}...
सोम॑स्य॒ त्विषि॑रसि॒ तवे॑व मे॒ त्विषि॑भूर्यात्। अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहा॑ सवि॒त्रे स्वाहा॒ सर॑स्वत्यै॒ स्वाहा॑ पू॒ष्णे स्वाहा॒ बृह॒स्पत॑ये॒ स्वाहेन्द्रा॑य॒ स्वाहा॒ घोषा॑य॒ स्वाहा॒ श्लोका॑य॒ स्वाहाँशा॑य॒ स्वाहा॒ भगा॑य॒ स्वाहा॑र्य॒म्णे स्वाहा॑ ॥५॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सोम॑स्य। त्विषिः॑। अ॒सि॒। तवे॒वेति तव॑ऽइव। मे॒। त्विषिः॑। भू॒या॒त्। अ॒ग्नये॑। स्वाहा॑। सोमा॑य। स्वाहा॑। स॒वि॒त्रे। स्वाहा॑। सर॑स्वत्यै। स्वाहा॑। पू॒ष्णे। स्वाहा॑। बृह॒स्पत॑ये। स्वाहा॑। इन्द्रा॑य। स्वाहा॑। घोषा॑य। स्वाहा॑। श्लोका॑य। स्वाहा॑। अँशा॑य। स्वाहा॑। भगा॑य। स्वाहा॑। अ॒र्य्य॒म्णे स्वाहा॑। ५।
महीधरः
म० ‘व्याघ्रचर्मास्तृणाति सोमस्य त्विषिरिति’ (का० १५ । ५।१)। मैत्रावरुणधिष्ण्याग्रासादितपालाशादिपात्रचतुष्टयस्य पुरस्ताद्व्याघ्रचर्मास्तृणाति । चर्मदेवत्यम् । हे चर्म, त्वं सोमस्य त्विषिर्दीप्तिरसि भवसि अतस्तवेव त्वत्सदृशी मे मम त्विषिः - कान्तिर्भूयात् ‘यत्र वै सोम इन्द्रमत्यपवत स यत्ततः शार्दूलः समभवत्तेन सोमस्य त्विषिः’ (५। ३ । ५। ३) इति श्रुतेः। ‘पार्थानामग्नये स्वाहेति षट् जुहोति प्रतिमन्त्रम्’ ( का० १५ ।५। ३ ) ‘पार्थानामिन्द्राय स्वाहेति षट् जुहोति प्रतिमन्त्रमिति’ । ( का० १५ । ५। ३४ ) । पार्थसंज्ञानां द्वादशमन्त्राणां मध्ये अग्नय इत्यादीनि षट् पार्थान्यभिषेकादौ जुहोति इन्द्रायेत्यादि षट् अभिषेकान्ते सकृद्गृहीताज्यैः । लिङ्गोक्तानि द्वादश यजूंषि अङ्गतीत्यग्निः । सुनोति सोमः । सूते सुवति प्रेरयति वा सविता । सरः शब्दप्रवाहो यस्याः सा सरस्वती । पुष्णाति पूषा । बृहतां साम्नां पतिर्बृहस्पतिः । इन्दति ईष्टे इन्द्रः । घुष्यति शब्दं करोति घोषः । श्लोक्यते कीर्त्यते जनैरिति श्लोकः । अंशयति विभाजयति पुण्यपापे तत्फलदानेनेति अंशः । ‘अंश विभाजने’ धातुः । भज्यते सेव्यते स भगः । इयर्ति व्याप्नोति विश्वमित्यर्यमा । एतेभ्यः सुहुतमस्तु ॥ ५ ॥
षष्ठी।
अधिमन्त्रम् (VC)
- अग्न्यादयो मन्त्रोक्ता देवताः
- वरुण ऋषिः
- स्वराड् धृतिः
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
राजा लोगों को चाहिये कि सत्यवादी धर्मात्मा राजाओं के समान अपने सब काम करें और क्षुद्राशय, लोभी, अन्यायी तथा लम्पटी के तुल्य कदापि न हों, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! जैसे आप (सोमस्य) ऐश्वर्य्य के (त्विषिः) प्रकाश करनेहारे (असि) हैं, वैसा मैं भी होऊँ, जिससे (तवेव) आप के समान (मे) मेरा (त्विषिः) विद्याओं का प्रकाश होवे, जैसे आप ने (अग्नये) बिजुली आदि के लिये (स्वाहा) सत्य वाणी और प्रियाचरणयुक्त विद्या (सोमाय) ओषधि जानने के लिये (स्वाहा) वैद्यक की पुरुषार्थयुक्त विद्या (सवित्रे) सूर्य्य को समझने के लिये (स्वाहा) भूगोल विद्या (सरस्वत्यै) वेदों का अर्थ और अच्छी शिक्षा जाननेवाली वाणी के लिये (स्वाहा) व्याकरणादि वेदों के अङ्गों का ज्ञान (पूष्णे) प्राण तथा पशुओं की रक्षा के लिये (स्वाहा) योग और व्याकरण की विद्या (बृहस्पतये) बड़े प्रकृति आदि के पति ईश्वर को जानने के लिये (स्वाहा) ब्रह्मविद्या (इन्द्राय) इन्द्रियों के स्वामी जीवात्मा के बोध के लिये (स्वाहा) विचारविद्या (घोषाय) सत्य और प्रियभाषण से युक्त वाणी के लिये (स्वाहा) सत्य उपदेश और व्याख्यान देने की विद्या (श्लोकाय) तत्त्वज्ञान का साधक शास्त्र, श्रेष्ठ काव्य, गद्य और पद्य आदि छन्द रचना के लिये (स्वाहा) तत्त्व और काव्यशास्त्र आदि की विद्या (अंशाय) परमाणुओं के समझने के लिये (स्वाहा) सूक्ष्म पदार्थों का ज्ञान (भगाय) ऐश्वर्य्य के लिये (स्वाहा) पुरुषार्थज्ञान (अर्य्यम्णे) न्यायाधीश होने के लिये (स्वाहा) राजनीति विद्या को ग्रहण करते हैं, वैसे मुझे भी करना अवश्य है ॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को ऐसी इच्छा करनी चाहिये कि जैसे सत्यवादी धर्मात्मा राजा लोगों के गुण, कर्म, स्वभाव होते हैं, वैसे ही हम लोगों के भी होवें ॥५॥
दयानन्द-सरस्वती (सं) - विषयः
राजन्यैराप्तराज्ञामेवाऽनुकरणं कार्यं नेतरेषां क्षुद्राशयलुब्धान्यायाजितेन्द्रियाणामिति उपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! यथा त्वं सोमस्य त्विषिरसि तथाऽहमपि भवेयम्। यतस्तवेव मे त्विषिर्भूयाद् यथा भवताऽग्नये स्वाहा सोमाय स्वाहा सवित्रे स्वाहा सरस्वत्यै स्वाहा पूष्णे स्वाहा बृहस्पतये स्वाहेन्द्राय स्वाहा घोषाय स्वाहा श्लोकाय स्वाहांऽशाय स्वाहा भगाय स्वाहाऽर्य्यम्णे च स्वाहा गृह्यते तथा मयापि गृह्यते ॥५॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैरिदमाशंसितव्यं यथाऽऽप्तानां राज्ञां शुभगुणस्वभावाः सन्ति, तथैव नो भूयासुरिति ॥५॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सर्व माणसांनी ही इच्छा बाळगावी की सत्यवादी, धर्मात्मा राजे लोकांचे जसे गुण, कर्म, स्वभाव असतात तसेच आमचे सर्वांचेही व्हावेत.
०६ पवित्रे स्थो
विश्वास-प्रस्तुतिः ...{Loading}...
प॒वित्रे॑ स्थो वैष्ण॒व्यौ᳖ सविर्तुवः॑ प्रस॒वऽउत्पु॑ना॒म्यच्छि॑द्रेण प॒वित्रे॑ण॒ सूर्य॑स्य र॒श्मिभिः॑। अनि॑भृष्टमसि वा॒चो बन्धु॑स्तपो॒जाः सोम॑स्य दा॒त्रम॑सि॒ स्वाहा॑ राज॒स्वः᳖ ॥६॥
मूलम् ...{Loading}...
प॒वित्रे॑ स्थो वैष्ण॒व्यौ᳖ सविर्तुवः॑ प्रस॒वऽउत्पु॑ना॒म्यच्छि॑द्रेण प॒वित्रे॑ण॒ सूर्य॑स्य र॒श्मिभिः॑। अनि॑भृष्टमसि वा॒चो बन्धु॑स्तपो॒जाः सोम॑स्य दा॒त्रम॑सि॒ स्वाहा॑ राज॒स्वः᳖ ॥६॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प॒वित्रे॒ऽइति॑ प॒वित्रे॑। स्थः॒। वै॒ष्ण॒व्यौ᳖। स॒वि॒तुः। वः॒। प्र॒स॒व इति॑ प्रऽस॒वे। उत्। पु॒ना॒मि॒। अच्छि॑द्रेण। प॒वित्रे॑ण। सूर्य॑स्य। र॒श्मिभि॒रिति॑ र॒श्मिऽभिः॑। अनि॑भृष्ट॒मित्यनि॑ऽभृष्टम्। अ॒सि॒। वा॒चः। बन्धुः॑। त॒पो॒जा इति॑ तपः॒ऽजाः। सोम॑स्य। दा॒त्रम्। अ॒सि॒। स्वाहा॑। रा॒ज॒स्व᳖ इति॑ राज॒ऽस्वः᳖। ६।
महीधरः
म० ‘पवित्रे कृत्वा हिरण्यमेनयोः प्रवयतीति’ (का० १५। ५। ४)। प्रकृतिवत्पवित्रे स्थ इति पवित्रे कृत्वा तयोः स्वर्णं बध्नाति । पवित्रे स्थः व्याख्यातम् [ अध्या० १ क० १२] । ‘ताभ्यामुत्पुनात्यपः सवितुर्व इति’ (का० १५ । ५ । ५)। सहिरण्याभ्यां दर्भपवित्राभ्यां मैत्रावरुणधिष्ण्याग्रासादिता औदुम्बरपात्रस्थाः अभिषेकार्था अप उत्पुनाति सवितुरित्यादिना राजस्व इत्यन्तेन मन्त्रेण । अब्देवत्यम् । सवितुः सर्वप्रेरकस्य परमेश्वरस्य प्रसवेऽनुज्ञायां स्थितोऽहम् अच्छिद्रेण छिद्ररहितेन समीचीनेन पवित्रेण सूर्यस्य किरणैश्चोत्पुनामि हे आपः, वो युष्मान् उत्पवनं करोमि । अनिभृष्टमसि । आपोऽत्राभिधेयाः अतोऽत्रैकवचनान्ता मन्त्रावयवाः श्रुत्या बहुवचनान्ता व्याख्याताः अतः श्रुत्यनुसारेण व्याख्यायते। हे आपः, यूयमनिभृष्टा स्थ । ‘भ्रस्ज पाके’ अयं धातुर्धृष्ट्यर्थे व्याख्यातः । अनिधृष्टाः न नितरां धृष्टाः अपराभूताः रक्षोभिः । वाचो बन्धुः वाण्या बन्धुभूताः ‘यावद्वै प्राणेष्वापो भवन्ति तावद्वाचा वदति’ (५ । ३।४।१६) इति श्रुतेः, ‘आपोमयी वाक्’ इति सामश्रुतेश्च । तथा तपोजाः तपःशब्देनात्राग्निरुच्यते तपसोऽग्नेर्जातास्तपोजाः । ‘अग्नेर्वै धूमो जायते धूमादभ्रमभ्राद्वृष्टिरग्नेर्वा एता जायन्ते तस्मादाह तपोजाः’ (५। ३ । ५ । १७) इति श्रुतेः ‘वायोरग्निरग्नेरापः’ (तैत्ति० आर० ८ । १) इति श्रुत्यन्तरात् सोमस्य दात्रमसि सोमस्य दात्र्यो दानकर्त्र्यो भवथ ‘यदा वा एनमेताभिरभिषुण्वन्त्यथाहुतिर्भवति’ (५। ३ । ५। १८) इति श्रुतेः सोमदात्र्य आपः । स्वाहा राजस्वः स्वाहाकारेण पूताः सत्यः राजस्वो जनस्य राजानं सुवते जनयन्तीति राजस्वो राजजनिका भवथ ॥ ६ ॥
सप्तमी।
अधिमन्त्रम् (VC)
- आपो देवताः
- वरुण ऋषिः
- स्वराड् ब्राह्मी बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
जैसे कुमार पुरुष ब्रह्मचर्य्य से विद्या ग्रहण करें, वैसे कन्या भी पढ़े, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सभापति राजपुरुष ! जिस लिये आप (वाचः) वेदवाणी के (अनिभृष्टम्) भृष्टतारहित आचरण के लिये (बन्धुः) भाई (असि) हैं, (सोमस्य) ओषधियों के काटनेवाले (तपोजाः) ब्रह्मचर्य्यादि तप से प्रसिद्ध (असि) हैं, आप की आज्ञा से (सवितुः) सब जगत् को उत्पन्न करनेहारे ईश्वर के (प्रसवे) उत्पन्न हुए जगत् में (वैष्णव्यौ) सब विद्या, अच्छी शिक्षा, शुभ गुण, कर्म और स्वभाव में व्यापनशील और (पवित्रे) शुद्ध आचरणवाली (स्थः) तुम दोनों हो। हे पढ़ाने, परीक्षा करने और पढ़नेहारी स्त्री लोगो ! मैं (सवितुः) ईश्वर के (प्रसवे) उत्पन्न किये इस जगत् में (सूर्य्यस्य) सूर्य्य की (रश्मिभिः) किरणों के समान (अच्छिद्रेण) छेदरहित (पवित्रेण) विद्या, अच्छी शिक्षा, धर्मज्ञान, जितेन्द्रियता और ब्रह्मचर्य्य आदि करके पवित्र किये हुए से (वः) तुम लोगों को (उत्पुनामि) अच्छे प्रकार पवित्र करता हूँ, तुम लोग (स्वाहा) सत्य क्रिया से (राजस्वः) राजाओं में वीरों को उत्पन्न करनेवाली हो ॥६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे राजा आदि पुरुषो ! तुम लोग इस जगत् में कन्याओं को पढ़ाने के लिये शुद्धविद्या की परीक्षा करनेवाली स्त्री लोगों को नियुक्त करो, जिससे ये कन्या लोग विद्या और शिक्षा को प्राप्त होके जवान हुई प्रिय वर पुरुषों के साथ स्वयंवर विवाह करके वीर पुरुषों को उत्पन्न करें ॥६॥
दयानन्द-सरस्वती (सं) - विषयः
यथा कुमारा ब्रह्मचर्येण विद्या गृह्णीयुस्तथैव कुमार्योऽपि पठेयुरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सभेश राजन् ! यतस्त्वं वाचो निभृष्टं बन्धुरसि सोमस्य दात्रं तपोजा असि। तवाज्ञया सवितुः प्रसवे वैष्णव्यौ पवित्रे स्थः। हे अध्यापकपरिचारिका अध्येत्र्यश्च स्त्रियः ! यथाहं सवितुः प्रसवे सूर्य्यस्य रश्मिभिरिवाच्छिद्रेण पवित्रेण व उत्पुनामि तथा यूयं स्वाहा राजस्वो भवत ॥६॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे राजादयो राजपुरुषाः ! यूयमस्मिन् जगति यथा कुमाराध्यापने सज्जना नियुज्यन्ते, तथा पवित्रविद्यापरीक्षाकारिकाः स्त्रियः कन्यानामध्यापने नियुङ्ग्ध्वम्। यत एत इमाश्च विद्यासुशिक्षाः प्राप्य युवत्यः सत्यः स्वसदृशैः प्रियैर्वरैः पुरुषैः सह स्वयंवरं विवाहं कृत्वा वीरपुरुषान् जनयेयुः ॥६॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे राजांनो मुलींना शिकविण्यासाठी सत्य विद्येची परीक्षा करणाऱ्या स्त्रियांची नियुक्ती करा, ज्यामुळे मुलींना विद्या व शिक्षण मिळेल व तरुणपणी प्रिय अशा व्यक्तीशी (स्वयंवर) विवाह करता येईल व वीर पुरुषांना जन्म देता येईल.
०७ सधमादो द्युम्निनीरापऽएताऽअनाधृष्टाऽअपस्यो
विश्वास-प्रस्तुतिः ...{Loading}...
स॒ध॒मादो॑ द्यु॒म्निनी॒राप॑ऽए॒ताऽअना॑धृष्टाऽअप॒स्यो᳙ वसा॑नाः। प॒स्त्या᳖सु चक्रे॒ वरु॑णः स॒धस्थ॑मपाँ शिशु॑र्मा॒तृत॑मास्व॒न्तः ॥७॥
मूलम् ...{Loading}...
स॒ध॒मादो॑ द्यु॒म्निनी॒राप॑ऽए॒ताऽअना॑धृष्टाऽअप॒स्यो᳙ वसा॑नाः। प॒स्त्या᳖सु चक्रे॒ वरु॑णः स॒धस्थ॑मपाँ शिशु॑र्मा॒तृत॑मास्व॒न्तः ॥७॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स॒ध॒माद॒ इति॑ सध॒ऽमादः॑। द्यु॒म्निनीः॑। आपः॑। ए॒ताः। अना॑धृष्टाः। अ॒प॒स्यः᳙। वसा॑नाः। प॒स्त्या᳖सु। च॒क्रे॒। वरु॑णः। स॒धस्थ॒मिति॑ स॒धऽस्थ॑म्। अ॒पाम्। शिशुः॑। मा॒तृत॑मा॒स्विति॑ मा॒तृऽत॑मासु। अ॒न्तरित्य॒न्तः। ७।
महीधरः
म० ‘अभिषेचनीयेष्वेनां व्यानयति सधमाद इति’ (का० | १५ । ५। ६)। उत्पूता अभिषेकार्था आपोऽभिषेकार्थेषु पालाशौदुम्बरवाटाश्वत्थेषु पात्रेषु पूर्वासादितेषु चतुर्धा विभज्य निनयति । वरुणदेवत्या त्रिष्टुप् । या एता आपो वर्तन्ते । कीदृश्यः । सधमादः सह एकस्मिन् पात्रे माद्यन्ति हृष्यन्ति मादयन्ते प्रीणयन्ति वा ताः सधमादः । सहपूर्वान्मादयतेः क्विप् ‘सध मादस्थयोश्छन्दसि’ ( पा० ६ । ३ । ९६ ) इति सहस्य सधादेशः । द्युम्निनीः द्युम्नं वीर्यमस्ति यासां ता द्युम्निन्यः पूर्वसवर्णदीर्घः । ‘द्युम्नं द्योततेर्यशो वान्नं वा’ ( नि० ५। ५) इति यास्कः । अनाधृष्टाः रक्षोभिरनभिभूताः । अपस्यः । अप इति कर्मनाम । अपसि कर्मणि साध्व्यः अपस्यः । ‘तत्र साधुः’ ( पा० ४ । ४ । ९८ ) इति यत् ‘सुपां सुलुक्’ (पा. ७ । १ । ३९) इति जसः सुरादेशः । वसानाः ‘वस आच्छादने’ वसते आच्छादयन्ति पात्राणीति वसानाः । या एवंविधा आपस्तासु अन्तर्मध्ये वरुणो देवः सधस्थं सहस्थानं चक्रे कृतवान् । सह स्थीयते यस्मिन् तत् सधस्थम् । किंभूतो वरुणः । | अपां शिशुः बालकः । ‘अपां वा एष शिशुर्भवति यो राजसूयेन यजते’ ( ५। ३ । ५। १९ ) इति श्रुतेः वरुणो राजसूययाजित्वादपां शिशुः । किंभूतास्वप्सु । पस्त्यासु पस्त्यमिति गृहनाममु पठितम् । गृहरूपासु सर्वेषामाधारत्वात् तथा मातृतमासु अतिशयेन जगन्निर्मात्रीषु ॥ ७ ॥
अष्टमी।
अधिमन्त्रम् (VC)
- वरुणो देवता
- वरुण ऋषिः
- विराड् आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
राजाओं को यह अवश्य चाहिये कि सब प्रजा और अपने कुल के बालकों को ब्रह्मचर्य्य के साथ विद्या और सुशिक्षायुक्त करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (वरुणः) श्रेष्ठ राजा हो वह (एताः) विद्या और अच्छी शिक्षा को प्राप्त हुर्इं (सधमादः) एक साथ प्रसन्न होनेवाली (द्युम्निनीः) प्रशंसनीय धन कीर्ति से युक्त (अनाधृष्टाः) जो किसी से न दबें (आपः) जल के समान शान्तियुक्त (वसानाः) वस्त्र और आभूषणों से ढपी हुर्इं (पस्त्यासु) घरों के (अपस्यः) कामों में चतुर विद्वान् स्त्री होवें, उन (अपाम्) विद्याओं में व्याप्त स्त्रियों का जो (शिशुः) बालक हो, उसको (मातृतमासु) अति मान्य करनेहारी धायियों के (अन्तः) समीप (सधस्थम्) एक समीप के स्थान में शिक्षा के लिये रक्खे ॥७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजा को चाहिये कि अपने राज्य में प्रयत्न के साथ सब स्त्रियों को विद्वान् और उनसे उत्पन्न हुए बालकों को विद्यायुक्त धाइयों के अधीन करे कि जिससे किसी के बालक विद्या और अच्छी शिक्षा के विना न रहें और स्त्री भी निर्बल न हो ॥७॥
दयानन्द-सरस्वती (सं) - विषयः
राज्ञामिदमावश्यकं यत्सर्वस्याः प्रजायाः स्वकुलस्य चापत्यानि ब्रह्मचर्येण विद्यासुशिक्षान्वितानि कार्य्याणीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यो वरुणो राजा भवेत् स एताः सधमादो द्युम्निनीरनाधृष्टा आपो वसानाः पस्त्यास्वपस्यः स्त्रियो विदुष्यो भवेयुस्तासामपां यः शिशुस्तं मातृतमास्वन्तः सधस्थं समीपस्थं शिक्षार्थं रक्षेत् ॥७॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - राज्ञा प्रयत्नेन स्वराज्ये सर्वाः स्त्रियो विदुष्यः कार्य्यास्तासां सकाशाज्जाता बालका विद्यायुक्तधात्र्यधीनाः कार्य्याः, यतो न कस्याप्यपत्यं विद्यासुशिक्षाहीनं स्त्री निर्बला च स्यात् ॥७॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजाने प्रयत्नपूर्वक आपल्या राज्यातील सर्व स्त्रियांना विदुषी करावे. या स्त्रियांनी जन्म दिलेल्या बालकांना विद्यायुक्त दाईजवळ ठेवावे, कारण कोणतेही बालक विद्या व उत्तम शिक्षण याविना राहता कामा नये. तसेच स्त्री ही दुर्बल राहता कामा नये.
०८ क्षत्रस्योल्बमसि क्षत्रस्य
विश्वास-प्रस्तुतिः ...{Loading}...
क्ष॒त्रस्योल्ब॑मसि क्ष॒त्रस्य॑ ज॒राय्व॑सि क्ष॒त्रस्य॒ योनि॑रसि क्ष॒त्रस्य॒ नाभि॑र॒सीन्द्र॑स्य॒ वार्त्रघ्नमसि मि॒त्रस्या॑सि॒ वरु॑णस्यासि॒ त्वया॒यं वृ॒त्रं व॑धेत्। दृ॒वासि॑ रु॒जासि॑ क्षु॒मासि॑। पा॒तैनं॒ प्राञ्चं॑ पा॒तैनं॒ प्र॒त्यञ्चं॑ पा॒तैनं॑ ति॒र्यञ्चं॑ दि॒ग्भ्यः पा॑त ॥८॥
मूलम् ...{Loading}...
क्ष॒त्रस्योल्ब॑मसि क्ष॒त्रस्य॑ ज॒राय्व॑सि क्ष॒त्रस्य॒ योनि॑रसि क्ष॒त्रस्य॒ नाभि॑र॒सीन्द्र॑स्य॒ वार्त्रघ्नमसि मि॒त्रस्या॑सि॒ वरु॑णस्यासि॒ त्वया॒यं वृ॒त्रं व॑धेत्। दृ॒वासि॑ रु॒जासि॑ क्षु॒मासि॑। पा॒तैनं॒ प्राञ्चं॑ पा॒तैनं॒ प्र॒त्यञ्चं॑ पा॒तैनं॑ ति॒र्यञ्चं॑ दि॒ग्भ्यः पा॑त ॥८॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
क्ष॒त्रस्य॑। उल्ब॑म्। अ॒सि॒। क्ष॒त्रस्य॑। ज॒रायु॑। अ॒सि॒। क्ष॒त्रस्य॑। योनिः॑। अ॒सि॒। क्ष॒त्रस्य॑। नाभिः॑। अ॒सि॒। इन्द्र॑स्य। वार्त्र॑घ्न॒मिति वार्त्र॑ऽघ्नम्। अ॒सि॒। मि॒त्रस्य॑। अ॒सि॒। वरु॑णस्य। अ॒सि॒। त्वया॑। अ॒यम्। वृ॒त्रम्। व॒धे॒त्। दृ॒वा। अ॒सि॒। रु॒जा। अ॒सि॒। क्षु॒मा। अ॒सि॒। पा॒त। ए॒न॒म्। प्राञ्च॑म्। पा॒त। ए॒न॒म्। प्र॒त्यञ्च॑म्। पा॒त। ए॒न॒म्। ति॒र्यञ्च॑म्। दि॒ग्भ्य इति॑ दि॒क्ऽभ्यः पा॒त॒। ८।
महीधरः
म० तार्प्यप्रभृतीनि क्षत्रस्येति प्रतिमन्त्रम्’ (का० १५ । ५। ५) ‘तार्प्यं परिधापयतीति’ (१५ । ५। ७)। तार्प्यपाण्ड्वाधीवासोष्णीषाणि क्रमेण चतुर्भिर्यजुर्भिः परिधत्ते । तार्प्यं क्षौमं वल्कलं घृताक्तवस्त्रं वा तार्प्यदैवतम् । हे तार्प्य, त्वं क्षत्रस्य यजमानस्य उल्बं गर्भाधारभूतमुदकमसि । यजमानो गर्भस्थानीयः । ‘पाण्ड्वं निवस्त इति’ (का० १५ । ५। १२)। रक्तकम्बलं परिधत्ते । पाण्ड्वदैवतम् । क्षत्रस्य गर्भस्थानीयस्य यजमानस्य जरायु गर्भवेष्टनचर्म हे पाण्ड्व, त्वमसि । ‘अधीवासं प्रतिमुच्येति’ (का० १५ । ५। १३) कञ्चुकं गले बध्नाति । अधीवासदैवतम् । हे अधीवास, त्वं क्षत्रस्य योनिरसि गर्भसंभवस्थानं योनिः । ‘उष्णीषᳪं᳭ संवेष्ट्य निवीतेऽवगूहते नाभिदेशे परिहरते वेति’ (का० १५ । ५। १३) शिरोवेष्टनं शिरसि संवेष्ट्य तत्प्रान्तौ परिहितवासोनीव्यां गोपयति नाभिदेशे वेष्टयति वा । उष्णीषदैवतम् । हे उष्णीष, त्वं क्षत्रस्य नाभिर्गर्भबन्धनस्थानमसि नाभ्या सन्नद्धा गर्भा जायन्त इत्याहुः । ‘इन्द्रस्य वार्त्रघ्नमिति धनुरातनोतीति’ (का० १५। ५ । १७)। अध्वर्युर्धनुरधिज्यं करोति । धनुर्दैवतम् । हे धनुः, त्वमिन्द्रस्य संबन्धि वार्र््घ्नं वृत्रोऽनेन हन्यत इति वार्त्रघ्नं वृत्रनाशकं धनुरसि । तदातनोमीति शेषः । ‘मित्रस्य वरुणस्येत्यस्य बाहू विमार्ष्टीति’ (का० १५ । ५। १८) । मित्रस्य वरुणस्येति मन्त्राभ्यामस्य धनुषो बाहू प्रान्तौ करेण प्रत्येकं विमार्ष्टि । बाहुदैवते यजुषी । हे दक्षिणकोटे, त्वं मित्रसंबन्धी भवसि । हे वामबाहो, त्वं वरुणसंबन्धी भवसि । ‘धनुः प्रयच्छति त्वयायमिति’ (का० १५ । ५। १९) । यजमानाय धनुर्ददाति । धनुर्दैवतम् । हे धनुः, अयं यजमानस्त्वया धनुषा कृत्वा वृत्रं शत्रुं वधेत् हन्यात् । ‘दृवासीति प्रतिमन्त्रमादाय तिस्र इषूः प्रयच्छति पातैनमिति प्रतिमन्त्रमिति’ (का० १५ । ५। २०)। दृवासीत्यादिमन्त्रत्रयेण बाणत्रयमादाय पातैनमित्यादिमन्त्रत्रयेण प्रत्येकं यजमानाय ददाति । षड्यजूंषि इषुदेवत्यानि। हे इषो, त्वं दृवासि ‘दॄ विदारणे’ दृणाति शत्रून्विदारयतीति दृवा। हे इषो, त्वं रुजासि ‘रुजो भङ्गे’ रुजति शत्रून्भनक्ति रुजा। हे इषो, त्वं क्षुमासि ‘क्ष्मायी विधूनने’ क्ष्मायति शत्रून् कम्पयतीति क्षुमा । यजमानाय ददाति । हे इषवः, प्राञ्चं प्रागञ्चनं पूर्वदिश्यवस्थितमेनं यजमानं यूयं पात पालयत । प्रत्यञ्चं प्रत्यगञ्चनं पश्चिमदिश्यवस्थितमेनं यजमानं पात । तिर्यञ्चं तिर्यगञ्चनमितस्ततोऽवस्थितमेनं यजमानं पात । दिग्भ्योऽन्याभ्योऽपि दिग्भ्यः सकाशादेनं पात रक्षत ॥ ८ ॥
नवमी।
अधिमन्त्रम् (VC)
- यजमानो देवता
- वरुण ऋषिः
- कृतिः
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
सब प्रजापुरुषों को योग्य है कि सब प्रकार से योग्य सभापति राजा की निरन्तर सब ओर से रक्षा करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! जो आप (क्षत्रस्य) अपने राजकुल में (उल्बम्) बलवान् (असि) हैं, (क्षत्रस्य) क्षत्रिय पुरुष को (जरायु) वृद्धावस्था देनेहारे (असि) हैं, (क्षत्रस्य) राज्य के (योनिः) निमित्त (असि) हैं, (क्षत्रस्य) राज्य के (नाभिः) प्रबन्धकर्त्ता (असि) हैं, (इन्द्रस्य) सूर्य्य के (वार्त्रघ्नम्) मेघ का नाश करनेहारे के समान कर्मकर्त्ता (असि) हैं, (मित्रस्य) मित्र के मित्र (असि) हैं, (वरुणस्य) श्रेष्ठ पुरुषों के साथ श्रेष्ठ (असि) हैं, (दृवा) शत्रुओं के विदारण करनेवाले (असि) हैं, (रुजा) शत्रुओं को रोगातुर करनेहारे (असि) हैं और (क्षुमा) सत्य का उपदेश करनेहारे (असि) हैं, जो (अयम्) यह वीर पुरुष (त्वया) आप राजा के साथ (वृत्रम्) मेघ के समान न्याय के छिपानेवाले शत्रु को (वधेत्) मारे (एनम्) इस (प्राञ्चम्) प्रथम प्रबन्ध करनेवाले (एनम्) राजपुरुष की तुम लोग (दिग्भ्यः) सब दिशाओं से (पात) रक्षा करो, (प्रत्यञ्चम्) पीछे खड़े हुए सेनापति की (पात) रक्षा करो, इस (तिर्य्यञ्चम्) तिरछे खड़े हुए (एनम्) राजपुरुष की (पात) रक्षा करो ॥८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो कन्या और पुत्रों में स्त्री और पुरुषों मे विद्या बढ़ानेवाला कर्म है, वही राज्य का बढ़ाने, शत्रुओं का विनाश और धर्म आदि की प्रवृत्ति करानेवाला होता है। इसी कर्म से सब कालों और सब दिशाओं में रक्षा होती है ॥८॥
दयानन्द-सरस्वती (सं) - विषयः
सर्वाः प्रजाः सर्वथा योग्यं सभेशं राजानं सततं सर्वतो रक्षेयुरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! यस्त्वं क्षत्रस्योल्बमसि क्षत्रस्य जराय्वसि क्षत्रस्य योनिरसि क्षत्रस्य नाभिरसीन्द्रस्य वार्त्रघ्नमसि मित्रस्य मित्रोऽसि वरुणस्य वरोऽसि दृवासि रुजासि क्षुमासि, यस्त्वया सह वृत्रं वधेत्, तमेनं प्राञ्चं सर्वे यूयं दिग्भ्यः पात, तमेनं प्रत्यञ्चं पात तमेनं तिर्य्यञ्चं पात ॥८॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यत्पुत्रीपुत्रेषु स्त्रीनरेषु च विद्यावर्धनं कर्मास्ति, तदेव राज्यवर्धकं शत्रुविनाशकं धर्मादिप्रवर्त्तकं च भवति। अनेनैव सर्वेषु कालेषु सर्वासु दिक्षु रक्षणं भवति ॥८॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - स्त्री, पुरुष, पुत्र, पुत्री यांच्यामध्ये विद्येची वाढ झाल्यास राज्यवृद्धी, शत्रूंचा नाश व धर्माची वाढ होते. यामुळेच सर्वकाळी सर्व स्थानी सर्वांचे रक्षण होते.
०९ आविर्मर्याऽआवित्तोऽअग्निर्गृहपतिरावित्तऽइन्द्रो
विश्वास-प्रस्तुतिः ...{Loading}...
आ॒विर्म॑र्या॒ऽआवि॑त्तोऽअ॒ग्निर्गृ॒हप॑ति॒रावि॑त्त॒ऽइन्द्रो॑ वृ॒द्धश्र॑वा॒ऽआवि॑त्तौ मि॒त्रावरु॑णौ धृतव्र॑ता॒वावि॑त्तः पू॒षा वि॒श्ववे॑दा॒ऽआवि॑त्ते॒ द्यावा॑पृथि॒वी वि॒श्वश॑म्भुवा॒वावि॒त्तादि॑तिरु॒रुश॑र्मा ॥९॥
मूलम् ...{Loading}...
आ॒विर्म॑र्या॒ऽआवि॑त्तोऽअ॒ग्निर्गृ॒हप॑ति॒रावि॑त्त॒ऽइन्द्रो॑ वृ॒द्धश्र॑वा॒ऽआवि॑त्तौ मि॒त्रावरु॑णौ धृतव्र॑ता॒वावि॑त्तः पू॒षा वि॒श्ववे॑दा॒ऽआवि॑त्ते॒ द्यावा॑पृथि॒वी वि॒श्वश॑म्भुवा॒वावि॒त्तादि॑तिरु॒रुश॑र्मा ॥९॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ॒विः। म॒र्य्याः॒। आवि॑त्त॒ इत्याऽवि॑त्तः। अ॒ग्निः। गृ॒हप॑ति॒रिति॑ गृ॒हऽप॑तिः। आवि॑त्त॒ इत्याऽवि॑त्तः। इन्द्रः॑। वृ॒द्धश्र॑वा॒ इति॑ वृ॒द्धऽश्र॑वाः। आवि॑त्ता॒वित्याऽवित्तौ। मि॒त्रावरु॑णौ। धृ॒तव्र॑ता॒विति॑ धृ॒तऽव्र॑तौ। आवि॑त्त॒ इत्याऽवि॑त्तः। पू॒षा। वि॒श्ववे॑दा॒ इति॑ वि॒श्वऽवे॑दाः। आवि॑त्ते॒ इत्याऽवि॑त्ते। द्यावा॑पृथि॒वीऽइति॒ द्यावा॑ऽपृथि॒वी। वि॒श्वश॑म्भुवा॒विति॑ वि॒श्वऽश॑म्भुवौ। आवि॒त्तेत्याऽवि॑त्ता। अदि॑तिः। उ॒रुश॒र्म्मेत्यु॒रुऽश॑र्म्मा। ९।
महीधरः
म०. ‘आविर्मर्या इति वाचयतीति’ (का० १५ । ५ । २१)। इषुसमर्पणानन्तरमाविर्मर्या इत्यादीन् सप्त मन्त्रानाविस्संज्ञान् यजमानं वाचयति । प्रजापतिदैवतम् । मर्या इति मनुष्यनामसु पठितम् । हे मर्या मनुष्या ऋत्विजः, यूयमाविः प्रकटा भवथेति शेषः । सम्यक्कर्मानुतिष्ठतेत्यर्थः । यद्वा हे मर्याः ऋत्विजः, अयं यजमानः आविः प्रकटो युष्मत्समक्षं कथ्यत इति शेषः । आवित्तो अग्निर्गृहपतिः । श्रुत्युक्तैर्विभक्तिव्यत्ययैर्व्याख्यायते गृहपालकायाग्नयेऽयं यजमान आवित्त आवेदितः ज्ञापितः। प्रथमान्तं पदद्वयं प्रतिमन्त्रं चतुर्थ्यर्थे । वृद्धं श्रवो धनं कीर्तिर्वा यस्य स वृद्धश्रवाः तस्मै इन्द्रायायं यजमान आवित्तः । व्रतमिति कर्मनाम । धृतं व्रतं कर्म याभ्यां तौ धृतव्रतौ ताभ्यां धारितकर्मभ्यां मित्रावरुणाभ्यामावित्तौ । आवित्तः आवेदितः । विश्ववेदसे सर्वज्ञाय पूष्णेऽयमावित्तः । विश्वस्य सर्वस्य शं सुखं भवति याभ्यां ते विश्वशंभुवौ ताभ्यां द्यावापृथिवीभ्यामावित्ते । वचनलिङ्गव्यत्ययः आवित्तः । उरु महत् शर्म शरणं सुखं वा यस्याः सा उरुशर्मा तस्यै अदितये आवित्ता आवित्तोऽयं यजमानः । यद्वा यथाश्रुतमेव व्याख्या । गृहपतिरग्निरावित्त आवेदितो यजमानमिति शेषः । एवमग्रेऽपि ॥ ९ ॥
दशमी ।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- वरुण ऋषिः
- भुरिग् अष्टिः
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को चाहिये कि अपना स्वभाव अच्छा करके आप्त विद्वान् आदि को अवश्य प्राप्त होवें, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (मर्य्याः) मनुष्यो ! तुम लोग जो (गृहपतिः) घरों के पालन करनेहारे (अग्निः) प्रसिद्ध अग्नि के समान विद्वान् पुरुष को (आविः) प्रकटता से (आवित्तः) प्राप्त वा निश्चय करके जाना (वृद्धश्रवाः) श्रेष्ठता से सब शास्त्रों को सुने हुए (इन्द्रः) शत्रुओं के मारनेहारे सेनापति को (आविः) प्रकटता से (आवित्तः) प्राप्त हो वा जाना (धृतवतौ) सत्य आदि व्रतों को धारण करनेहारे (मित्रावरुणौ) मित्र और श्रेष्ठ जनों को (आविः) प्रकटता से (आवित्तौ) प्राप्त वा जाना (विश्ववेदाः) सब ओषधियों को जाननेहारे (पूषा) पोषणकर्त्ता वैद्य को (आविः) प्रसिद्धि से (आवित्तः) प्राप्त हुए (विश्वशम्भुवौ) सब के लिये सुख देनेहारे (द्यावापृथिवी) बिजुली और भूमि को (आविः) प्रकटता से (आवित्ते) जाने (उरुशर्म्मा) बहुत सुख देनेवाली (अदितिः) विद्वान् माता को प्रसिद्ध (आवित्ता) प्राप्त हुए तो तुम को सब सुख प्राप्त हो जावें ॥९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जब तक मनुष्य लोग श्रेष्ठ विद्वानों, उत्तम विदुषी माता और प्रसिद्ध पदार्थों के विज्ञान को प्राप्त नहीं होते, तब तक सुख की प्राप्ति और दुःखों की निवृत्ति करने को समर्थ नहीं होते ॥९॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यैः सुशीलतयाऽऽप्तविद्वदादयोऽवश्यं प्राप्तव्या इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मर्य्या युष्माभिर्यदि गृहपतिरग्निराविरावित्तो वृद्धश्रवा इन्द्र आविरावित्तो धृतव्रतौ मित्रावरुणावाविरावित्तौ विश्ववेदाः पूषाऽऽविरावित्तो विश्वशम्भुवौ द्यावापृथिवी आविरावित्ते उरुशर्म्मादितिश्चाविरावित्ता स्यात् तर्हि सर्वाणि सुखानि प्राप्यन्ते ॥९॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यावन्मनुष्याः सद्विदुषः सतीं विदुषीं मातरं सत्यपदार्थविज्ञानं च नाप्नुवन्ति, तावत्सुखवृद्धिं दुःखनिवृत्तिं च कर्तुं न शक्नुवन्ति ॥९॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांना जोपर्यंत श्रेष्ठ विद्वानांचा संग, उत्तम विदुषी माता व पदार्थांचे ज्ञान प्राप्त होऊ शकत नाही तोपर्यंत सुखाची प्राप्ती व दुःखाची निवृत्ती होऊ शकत नाही.
१० अवेष्टा दन्दशूकाः
विश्वास-प्रस्तुतिः ...{Loading}...
अवे॑ष्टा दन्द॒शूकाः॒ प्राची॒मारो॑ह गाय॒त्री त्वा॑वतु रथन्त॒रँ साम॑ त्रि॒वृत् स्तोमो॑ वस॒न्तऽऋ॒तुर्ब्रह्म॒ द्रवि॑णम् ॥१०॥
मूलम् ...{Loading}...
अवे॑ष्टा दन्द॒शूकाः॒ प्राची॒मारो॑ह गाय॒त्री त्वा॑वतु रथन्त॒रँ साम॑ त्रि॒वृत् स्तोमो॑ वस॒न्तऽऋ॒तुर्ब्रह्म॒ द्रवि॑णम् ॥१०॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अवे॑ष्टा॒ इत्यव॑ऽइष्टाः। द॒न्द॒शूकाः॑। प्राची॑म्। आ। रो॒ह॒। गा॒य॒त्री। त्वा॒। अ॒व॒तु॒। र॒थ॒न्त॒रमिति॑ रथम्ऽत॒रम्। साम॑। त्रि॒वृदिति॑ त्रि॒ऽवृत्। स्तोमः॑। व॒स॒न्तः। ऋ॒तुः। ब्रह्म॑। द्रवि॑णम्। १०।
महीधरः
म० ‘अवेष्टा इति लोहायसमाविध्यति केशवास्ये सदोऽन्तरुपविष्टायेति’ (का० १५ । ५ । २२)। सदःसमीपोपविष्टस्य दीर्घकेशनरस्य मुखे ताम्रं क्षिपति । मृत्युनाशनं यजुः । अवपूर्वो यजिर्नाशनार्थः । दन्दशूका अत्यर्थ दशनशीला मृत्युहेतवः सर्पसदृशा यज्ञविघ्नकारिणो राक्षसादयोऽवेष्टाः नाशिता भवन्त्विति शेषः । ‘तद्यो मृत्युर्यो वधस्तमेवैतदतिनयति’ (५। ४ । १।१) इति श्रुतिः ‘सुन्वन्तमाक्रमयन् दिशः प्राचीमारोहेति वाचयति प्रतिमन्त्रं प्रतिदिशं यथालिङ्गमिति’ (का० १५ । ५ । २३ ) । यजमानं यथालिङ्गं प्रतिमन्त्रं प्रतिदिशं दिश आक्रमयन् वाचयति । पञ्च यजूंषि यजमानदेवत्यानि । हे यजमान, त्वं प्राचीं दिशमारोह आक्रमस्व । तथाविधं त्वा छन्दसां मध्ये गायत्री छन्दोऽवतु रक्षतु । साम्नां मध्ये अभि त्वा शूर नोनुम इत्यस्यामृच्युत्पन्नं रथन्तरं साम । (छ० सं० १।३ । १।५१) त्वां रक्षतु । स्तोमानां मध्ये त्रिवृत्स्तोमोऽवतु । ऋतूनां मध्ये वसन्त ऋतुरवतु । ब्रह्म ब्राह्मणजातिस्त्वदीयं द्रविणं धनं रक्षतु । यद्वा धनरूपा ब्राह्मणजातिस्त्वामवतु । ब्राह्मणादीनां धनसाधनत्वाद्धनत्वमुच्यते। त्रिवृत्स्तोमस्य स्वरूपं सामब्राह्मणे ( २५ तमे ब्रा० २।१) आम्नातम् । ‘तिसृभ्यो हिंकरोति स प्रथमया तिसृभ्यो हिंकरोति स मध्यमया तिसृभ्यो हिंकरोति स उत्तमयोद्यतौ त्रिवृतौ विष्टुतिरिति’। अस्यायमर्थः । उपास्मै गायतेत्यादीनि (ऋ० सं० ६। ७ । ३६) तृचात्मकानि त्रीणि सूक्तानि सन्ति तेषु तिसृभिर्ऋग्भिर्गायेत् । काभिस्तिसृभिः । प्रथमया त्रिष्वपि सूक्तेषु या प्रथमा तया स उद्गाता गायेत् । तथा सति तिसृभिर्गीतं भवति सोऽयं प्रथमपर्यायः । द्वितीये पर्याये सूक्तत्रयगतयोत्तमा गायेत् । अनेन प्रकारेण त्रिवृत्स्तोमसंबन्धिनी विशिष्टा स्तुतिः संपद्यते | सेयं स्तुतिरुद्यतीति नाम्ना संपद्यत इत्यर्थः ॥ १० ॥
एकादशी।
अधिमन्त्रम् (VC)
- यजमानो देवता
- वरुण ऋषिः
- विराड् आर्षी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्य क्या करके किस-किस को प्राप्त हों, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! जो आप (अवेष्टाः) विरोधी का सङ्ग करनेवाले (दन्दशूकाः) दूसरों को दुःख देने के लिये काट खानेवाले हैं, उनको जीत के (प्राचीम्) पूर्व दिशा में (आरोह) प्रसिद्ध हों, उस (त्वा) आप को (गायत्री) पढ़ा हुआ गायत्री छन्द (रथन्तरम्) रथों से जिसके पार हों, ऐसा वन (साम) सामवेद (त्रिवृत्) तीन मन, वाणी और शरीर के बलों का बोध करानेवाला (स्तोमः) स्तुति के योग्य (वसन्तः) वसन्त (ऋतुः) ऋतु (ब्रह्म) वेद, ईश्वर और ब्रह्मज्ञानी ब्राह्मणकुलरूप (द्रविणम्) धन (अवतु) प्राप्त होवे ॥१०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य विद्याओं में प्रसिद्ध होते हैं, वे शत्रुओं को जीत के ऐश्वर्य्य को प्राप्त हो सकते हैं ॥१०॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्यैः किं कृत्वा किं किं प्राप्तव्यमित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! यस्त्वं येऽवेष्टा दन्दशूकाः सन्ति, तान् जित्वा प्राचीं दिशमारोह, तं त्वा गायत्री रथन्तरं साम त्रिवृत् स्तोम ऋतुर्वसन्तो ब्रह्म द्रविणं चावतु ॥१०॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्याः विद्यासु प्रादुर्भवन्ति ते शत्रून् विजित्यैश्वर्यं प्राप्नुवन्ति ॥१०॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे विद्या प्राप्त करून कीर्ती मिळवितात ती शत्रूंना जिंकून ऐश्वर्य मिळवू शकतात.
११ दक्षिणामारोह त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
दक्षि॑णा॒मारो॑ह त्रि॒ष्टुप् त्वा॑वतु बृ॒हत्साम॑ पञ्चद॒श स्तोमो॑ ग्री॒ष्मऽऋ॒तुः क्ष॒त्रं द्रवि॑णम् ॥११॥
मूलम् ...{Loading}...
दक्षि॑णा॒मारो॑ह त्रि॒ष्टुप् त्वा॑वतु बृ॒हत्साम॑ पञ्चद॒श स्तोमो॑ ग्री॒ष्मऽऋ॒तुः क्ष॒त्रं द्रवि॑णम् ॥११॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दक्षि॑णाम्। आ। रो॒ह॒। त्रि॒ष्टुप्। त्रि॒स्तुबिति॑ त्रि॒ऽस्तुप्। त्वा॒। अ॒व॒तु॒। बृ॒हत्। साम॑। प॒ञ्च॒द॒श इति॑ पञ्चऽद॒शः। स्तोमः॑। ग्री॒ष्मः। ऋ॒तुः। क्ष॒त्रम्। द्रवि॑णम्। ११।
महीधरः
म० अथ द्वितीयो मन्त्रः । हे यजमान, त्वं दक्षिणां दिशमाक्रम । त्रिष्टुप् छन्दः । त्वामिद्धि हवामहे इत्यस्यामृच्युत्पन्नं बृहत्साम (छ० सं० १ । ३।१।१।५) । | पञ्चदश स्तोमः । ग्रीष्म ऋतुः । द्रविणरूपं क्षत्रं क्षत्रियजातिः एते त्वामवन्तु । क्षत्रं तव द्रविणमवत्विति वा । पञ्चदशस्तोमस्वेवमाम्नातः (२५ तमब्रा० २ । ४) ‘पञ्चभ्यो । हिंकरोति स तिसृभिः स एकया पञ्चभ्यो हिंकरोति स एकया स तिसृभिः स एकया पञ्चभ्यो हिंकरोति स एकया स एकया स तिसृभिः पञ्चपञ्चिनी पञ्चदशस्य विष्टुतिरिति । | पूर्वोक्तस्त्रिवृत्स्तोम एक एव सूक्तत्रयनिष्पाद्यः । अन्ये तु स्तोमा एकेनैव तृचात्मकेन सूक्तेन निष्पाद्यन्ते । तत्रायं क्रमः । प्रथमपर्याये आवृत्तिः पञ्चभिस्तत्रादौ तिसृभिर्ऋग्भिर्गायेत् इतरे द्वे सकृत्सकृद्गायेत् । द्वितीयपर्याये प्रथमां सकृत् मध्यमां तिसृभिः तृतीयां सकृत् । तृतीयपर्याये आद्ये द्वे सकृत् तृतीयां तिसृभिरिति पञ्चदशस्तोमसंबन्धिनी विष्टुतिः पञ्चपञ्चिनीत्यभिधीयत इत्यर्थः ॥ ११॥
द्वादशी।
अधिमन्त्रम् (VC)
- यजमानो देवता
- वरुण ऋषिः
- आर्ची पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह सभापति राजा क्या करके क्या करे, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् राजन् ! जिस (त्वा) आप को (त्रिष्टुप्) इस नाम के छन्द से सिद्ध विज्ञान (बृहत्) बड़ा (साम) सामवेद का भाग (पञ्चदशः) पाँच प्राण अर्थात् प्राण, अपान, व्यान, उदान, समान; पाँच इन्द्रिय अर्थात् श्रोत्र, त्वचा, नेत्र, रसना और घ्राण; पाँच भूत अर्थात् जल, भूमि, अग्नि, वायु और आकाश, इन पन्द्रह की पूर्त्ति करनेहारा (स्तोमः) स्तुति के योग्य (ग्रीष्मः) (ऋतुः) ग्रीष्म ऋतु (क्षत्रम्) क्षत्रियों के धर्म का रक्षक क्षत्रियकुलरूप और (द्रविणम्) राज्य से प्रकट हुआ धन (अवतु) प्राप्त हो। वह आप (दक्षिणाम्) दक्षिण दिशा में (आरोह) प्रसिद्ध हूजिये और शत्रुओं को जीतिये ॥११॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो राजा विद्या को प्राप्त हुआ क्षत्रियकुल को बढ़ावे, उस का तिरस्कार शत्रुजन कभी न कर सकें ॥११॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स सभेशः किं कृत्वा किं कुर्यादित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् राजन् ! यं त्वा त्रिष्टुप् छन्दो बृहत्साम पञ्चदश स्तोमो ग्रीष्म ऋतुः क्षत्रं द्रविणञ्चावतु, स त्वं दक्षिणां दिशमारोह शत्रून् विजयस्व ॥११॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यो राजा प्राप्तविद्यः क्षत्रियकुलं वर्धयेत्, स एव शत्रुभिः कदापि न तिरस्क्रियेत ॥११॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जो राजा विद्यायुक्त बनून क्षत्रिय कुलाची वृद्धी करत असेल त्याचा तिरस्कार शत्रूसुद्धा करू शकत नाही.
१२ प्रतीचीमारोह जगती
विश्वास-प्रस्तुतिः ...{Loading}...
प्र॒तीची॒मारो॑ह॒ जग॑ती त्वावतु वैरू॒पँ साम॑ सप्तद॒श स्तोमो॑ व॒र्षाऽऋ॒तुर्विड् द्रवि॑णम् ॥१२॥
मूलम् ...{Loading}...
प्र॒तीची॒मारो॑ह॒ जग॑ती त्वावतु वैरू॒पँ साम॑ सप्तद॒श स्तोमो॑ व॒र्षाऽऋ॒तुर्विड् द्रवि॑णम् ॥१२॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्र॒तीची॑म्। आ। रो॒ह॒। जग॑ती। त्वा॒। अ॒व॒तु॒। वै॒रू॒पम्। साम॑। स॒प्त॒द॒श इति॑ सप्तऽद॒शः। स्तोमः॑। व॒र्षाः। ऋ॒तुः। विट्। द्रवि॑णम्। १२।
महीधरः
म० अथ तृतीयो मन्त्रः । हे यजमान, त्वं प्रतीची दिशमारोह । जगती छन्दः त्वामवतु । यद्द्याव इन्द्र ते शतमित्यस्यामृच्युत्पन्नं वैरूपं साम (छ० सं० १।३।२।४)। सप्तदशः स्तोमः । वर्षा ऋतुः । विट् वैश्यजातिलक्षणं द्रविणम् । एते त्वामवन्तु । यद्वा वैश्यजातिस्ते द्रविणमवतु । सप्तदशस्तोमस्त्वेवमाम्नातः ( २५ तमब्रा० २ । ७) ‘पञ्चभ्यो हिंकरोति स तिसृभिः स एकया पञ्चभ्यो हिंकरोति स एकया स तिसृभिः स एकया सप्तभ्यो हिंकरोति स एकया स तिसृभिः स तिसृभिर्दशसप्ता सप्तदशस्य विष्टुतिरिति । प्रथमपर्याये प्रथमां त्रिर्गायेत् मध्यमोत्तमे सकृत् । द्वितीयपर्याये प्रथमोत्तमे सकृन्मध्यमां त्रिर्गायेत् । तृतीयपर्याये प्रथमां सकृद्गायेन्मध्यमोत्तमे त्रिरिति सप्तदशस्तोमस्य विविधस्तुतिर्दशसप्तेत्यभिधीयत इत्यर्थः ॥ १२ ॥
त्रयोदशी।
अधिमन्त्रम् (VC)
- यजमानो देवता
- वरुण ऋषिः
- आर्षी अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
राजपुरुषों को चाहिये कि वैश्य कुल को नित्य बढ़ावें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजपुरुष ! जिस (त्वा) आप को (जगती) जगती छन्द में कहा हुआ अर्थ (वैरूपम्) विविध प्रकार के रूपोंवाला (साम) सामवेद का अंश (सप्तदशः) पाँच कर्म इन्द्रिय; पाँच शब्द, स्पर्श, रूप, रस, गन्ध विषय; पाँच महाभूत अर्थात् सूक्ष्म भूत, कार्य्य और कारण इन सत्रह का पूरण करनेवाला (स्तोमः) स्तुतियों का समूह (वर्षाः) वर्षा (ऋतुः) ऋतु (द्रविणम्) द्रव्य और (विट्) वैश्यजन (अवतु) प्राप्त हों। सो आप (प्रतीचीम्) पश्चिम दिशा को (आरोह) आरूढ़ और धन को प्राप्त हूजिये ॥१२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो राजपुरुष राजनीति के साथ वैश्यों की उन्नति करें, वे ही लक्ष्मी को प्राप्त होवें ॥१२॥
दयानन्द-सरस्वती (सं) - विषयः
राजपुरुषैर्नित्यं वैश्यकुलं वर्द्धनीयमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! यं त्वा जगती वैरूपं साम सप्तदश स्तोम ऋतुर्वर्षा द्रविणं विट् चावतु, स त्वं प्रतीचीं दिशमारोह धनं च लभस्व ॥१२॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये राजपुरुषा राजनीत्या वैश्यानुन्नयेयुस्ते श्रियमाप्नुयुः ॥१२॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे राजपुरुष राजनीतीनुसार वैश्य लोकांची उन्नती करण्यास मदत करतात त्यांनाच लक्ष्मी प्राप्त होते.
१३ उदीचीमारोहानुष्टुप् त्वावतु
विश्वास-प्रस्तुतिः ...{Loading}...
उदी॑ची॒मारो॑हानु॒ष्टुप् त्वा॑वतु वैरा॒जँ सामै॑कविँ॒॑श स्तोमः॑ श॒रदृ॒तुः फलं॒ द्रवि॑णम् ॥१३॥
मूलम् ...{Loading}...
उदी॑ची॒मारो॑हानु॒ष्टुप् त्वा॑वतु वैरा॒जँ सामै॑कविँ॒॑श स्तोमः॑ श॒रदृ॒तुः फलं॒ द्रवि॑णम् ॥१३॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उदाची॑म्। आ। रो॒ह॒। अ॒नु॒ष्टुप्। अ॒नु॒स्तुबित्य॑नु॒ऽस्तुप्। त्वा॒। अ॒व॒तु॒। वै॒रा॒जम्। साम॑। ए॒क॒विँ॒श इत्ये॑कऽविँ॒शः। स्तोमः॑। श॒रत्। ऋ॒तुः। फल॑म्। द्रवि॑णम्। १३।
महीधरः
म० अथ चतुर्थो मन्त्रः । हे यजमान, त्वमुदीची दिशमारोह । अनुष्टुप् छन्दः । पिबा सोममिन्द्र मन्दतु त्वा एतस्यामृच्युत्पन्नं वैराजं साम (छ० सं० १।५।१)। एकविंशः स्तोमः । शरदृतुः । फलं यज्ञफललक्षणं द्रविणं धनम् । एते त्वामवन्तु । एकविंशस्तोमस्त्वेवमाम्नातः (२५ तमब्रा० २। १४ ) ‘सप्तभ्यो हिंकरोति स तिसृभिः स तिसृभिः स एकया सप्तभ्यो हिंकरोति स एकया स तिसृभिः स तिसृभिः सप्तभ्यो हिंकरोति स तिसृभिः स एकया स तिसृभिः सप्तसप्तिन्येकविंशस्य विष्टुतिरिति’ । प्रथमपर्याये प्रथममध्यमे त्रिर्गायेदुत्तमा सकृत् । द्वितीयपर्याये प्रथमां सकृद्गायेन्मध्यमोत्तमे त्रिः । तृतीयपर्याये मध्यमा सकृद्गायेत् प्रथमोत्तमे त्रिरित्येकविंशस्तोमस्य विष्टुतिः सप्तसप्तिनीत्युच्यत इत्यर्थः ॥ १३ ॥
चतुर्दशी ।
अधिमन्त्रम् (VC)
- यजमानो देवता
- वरुण ऋषिः
- आर्ची पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर राजा आदि पुरुषों को क्या प्राप्त करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सभापति राजा ! आप (उदीचीम्) उत्तर की दिशा में (आरोह) प्रसिद्धि को प्राप्त हूजिये, जिससे (अनुष्टुप्) जिसको पढ़ के सब विद्याओं से दूसरों की स्तुति करें, वह छन्द (वैराजम्) अनेक प्रकार के अर्थों से शोभायमान (साम) सामवेद का भाग (एकविंशः) सोलह कला, चार पुरुषार्थ के अवयव और एक कर्त्ता इन इक्कीस को पूरण करनेहारा (स्तोमः) स्तुति का विषय (शरत्) शरद् (ऋतुः) ऋतु (द्रविणम्) ऐश्वर्य्य और (फलम्) फलरूप सेवाकारक शूद्रकुल (त्वा) आपको (अवतु) प्राप्त होवे ॥१३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो पुरुष आलस्य को छोड़ सब समय में पुरुषार्थ का अनुष्ठान करते हैं, वे अच्छे फलों को भोगते हैं ॥१३॥
दयानन्द-सरस्वती (सं) - विषयः
पुना राजादिनरैः किं लब्धव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सभापते ! त्वमुदीचीं दिशमारोह। यतोऽनुष्टुप् वैराजं सामैकविंशस्तोम ऋतुः शरद् द्रविणं फलं च त्वाऽवतु ॥१३॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये जना आलस्यं विहाय सर्वदा पुरुषार्थमेवानुतिष्ठन्ते ते सच्छूद्रान् प्राप्य फलवन्तो जायन्ते ॥१३॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे पुरुष आळस सोडून सर्व काळी पुरुषार्थ कारतात त्यांना उत्तम फळ प्राप्त होते.
१४ ऊर्ध्वामारोह पङ्क्तिस्त्वावतु
विश्वास-प्रस्तुतिः ...{Loading}...
ऊ॒र्ध्वामारो॑ह प॒ङ्क्तिस्त्वा॑वतु शाक्वररैव॒ते साम॑नी त्रिणवत्रयस्त्रिँ॒शौ स्तोमौ॑ हेमन्तशिशि॒रावृ॒तू वर्चो॒ द्रवि॑णं॒ प्रत्य॑स्तं॒ नमु॑चेः॒ शिरः॑ ॥१४॥
मूलम् ...{Loading}...
ऊ॒र्ध्वामारो॑ह प॒ङ्क्तिस्त्वा॑वतु शाक्वररैव॒ते साम॑नी त्रिणवत्रयस्त्रिँ॒शौ स्तोमौ॑ हेमन्तशिशि॒रावृ॒तू वर्चो॒ द्रवि॑णं॒ प्रत्य॑स्तं॒ नमु॑चेः॒ शिरः॑ ॥१४॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ऊ॒र्ध्वाम्। आ। रो॒ह॒। प॒ङ्क्तिः। त्वा॒। अ॒व॒तु॒। शा॒क्व॒र॒रै॒वतेऽइति॑ शाक्वररै॒वते। साम॑नी॒ऽइति॑ सामनी। त्रि॒ण॒व॒त्र॒य॒स्त्रिँशौ। त्रि॒न॒व॒त्र॒य॒स्त्रिँ॒शाविति॑ त्रिनवऽत्रयस्त्रिँ॒शौ। स्तोमौ॑। हे॒म॒न्त॒शि॒शि॒रौ। ऋ॒तूऽइत्यृ॒तू। वर्चः॑। द्रवि॑णम्। प्रत्य॑स्त॒मिति॒ प्रति॑ऽअस्तम्। नमु॑चेः। शिरः॑। १४।
महीधरः
म० अथ पञ्चमो मन्त्रः । हे यजमान, ऊर्ध्वां दिशमारोह । पङ्क्तिश्छन्दः । प्रोष्वस्मै पुरोरथमित्येतस्यामृच्युत्पनं शाक्करं साम (छ० सं० २ । ९ । १ । १४ । १) रेवतीर्नः सधमाद इत्येतस्यामृच्युत्पन्नं साम रैवतम् (छ० सं० १। २।२।१।९-२)। त्रिणवत्रयस्त्रिंशौ स्तोमौ । हेमन्तशिशिरावृतू । वर्चस्तेजो ब्रह्मवर्चसं वा द्रविणम् । एते त्वामवन्तु । यद्वा वर्चस्तेजोऽभिमानी देवस्ते धनं रक्षतु । त्रिणवः स्तोम एवमाम्नातः (प. ब्रा० ३ । १) ‘नवभ्यो हिंकरोति स तिसृभिः स पञ्चभिः स एकया नवभ्यो हिंकरोति स एकया स तिसृभिः स पञ्चभिर्नवभ्यो हिंकरोति स पञ्चभिः स एकया स तिसृभिर्वज्रो वै त्रिणव इति’ । प्रथमपर्याये प्रथमां त्रिर्गायेन्मध्यमां पञ्चकृत्वः उत्तमां सकृत् । द्वितीयपर्याये प्रथमां सकृद्गायेन्मध्यमां त्रिरुत्तमां पञ्चकृत्वः। तृतीयपर्याये प्रथमां पञ्चकृत्वो मध्यमां सकृदुत्तमां त्रिर्गायेत् सोऽयं त्रिरावृत्तनवसंख्योपेतत्वात्त्रिणवनामको वज्रसमानः स्तोमः । त्रयस्त्रिंशः स्तोम एवमाम्नातः (प० ब्रा० ३ । ३) ‘एकादशभ्यो हिंकरोति स तिसृभिः स सप्तभिः एकयैकादशभ्यो हिंकरोति स एकया स तिसृभिः स सप्तभिरेकादशभ्यो हिंकरोति स सप्तभिः स एकया स तिसृभिरन्तो वै त्रयस्त्रिंश इति’ । प्रथमपर्याये प्रथमां त्रिर्गायेन्मध्यमां सप्तकृत्व उत्तमां सकृत् । द्वितीयपर्याये प्रथमां सकृन्मध्यमां त्रिरुत्तमां सप्तकृत्वः । तृतीयपर्याये प्रथमां सप्तकृत्वो मध्यमां सकृदुत्तमां त्रिर्गायेत् । सोऽयं त्रयस्त्रिंशः स्तोमः सर्वेषां स्तोमानामन्तः । ‘आक्रम्य पादेन सीसं निरस्यति प्रत्यस्तमिति’ ( का० १५ । ५ । २४ )। व्याघ्रचर्मपश्चाद्भागे निहितं सीसमाक्रम्य पादेन क्षिपेत् । असुरदेवत्यम् । नमुचेरसुरस्य शिरो मस्तकं प्रत्यस्तम् । ‘असु क्षेपणे’ प्रतिगृह्य क्षिप्तं सीसरूपेण ॥ १४ ॥
पञ्चदशी।
अधिमन्त्रम् (VC)
- यजमानो देवता
- वरुण ऋषिः
- भुरिग् जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को चाहिये कि प्रबल विद्या से अनेक पदार्थों को जानें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! आप जो (ऊर्ध्वाम्) ऊपर की दिशा में (आरोह) प्रसिद्ध होवें तो (त्वा) आपको (पङ्क्तिः) पङ्क्ति नाम का पढ़ा हुआ छन्द (शाक्वररैवते) शक्वरी और रेवती छन्द से युक्त (सामनी) सामवेद के पूर्व उत्तर दो अवयव (त्रिणवत्रयस्त्रिंशौ) तीन काल, नव अङ्कों की विद्या और तैंतीस वसु आदि पदार्थ जिन दोनों से व्याख्यान किये गये हैं, उनके पूर्ण करनेवाले (स्तोमौ) स्तोत्रों के दो भेद (हेमन्तशिशिरौ) हेमन्त और शिशिर (ऋतू) ऋतु (वर्चः) ब्रह्मचर्य्य के साथ विद्या का पढ़ना और (द्रविणम्) ऐश्वर्य्य (अवतु) तृप्त करे और (नमुचेः) दुष्ट चोर का (शिरः) मस्तक (प्रत्यस्तम्) नष्ट-भ्रष्ट होवे ॥१४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो सब ऋतुओं में समय के अनुसार आहार-विहार युक्त होके विद्या योगाभ्यास और सत्सङ्गों का अच्छे प्रकार सेवन करते हैं, वे सब ऋतुओं में सुख भोगते हैं और इनको कोई चोर आदि भी पीड़ा नहीं दे सकता ॥१४॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यैरुत्कृष्टविद्ययाऽनेके पदार्था विज्ञातव्या इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! यद्यूर्ध्वा दिशमारोह तर्हि त्वा पङ्क्तिः शाक्वररैवते सामनी त्रिणवत्रयस्त्रिंशौ स्तोमौ हेमन्तशिशिरावृतू वर्चो द्रविणं चावतु, नमुचेः शिरश्च प्रत्यस्तं स्यात् ॥१४॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्या अन्वृतु योग्याऽऽहारविहारस्सन्तो विद्यायोगाभ्याससत्सङ्गान् चरन्ति, ते सर्वेष्वृतुषु सुखं भुञ्जते, न चैभ्यो कश्चिच्चौरः पीडां दातुं शक्नोति ॥१४॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे सर्व ऋतूंमध्ये योग्य आहारविहार करतात, विद्या, योगाभ्यास व सत्संग करतात त्यांना सर्व ऋतूंमध्ये सुख प्राप्त होते. त्यांना कोणीही त्रास देऊ शकत नाही.
१५ सोमस्य त्विषिरसि
विश्वास-प्रस्तुतिः ...{Loading}...
सोम॑स्य॒ त्विषि॑रसि॒ तवे॑व मे॒ त्विषि॑र्भूयात्। मृ॒त्योः पा॒ह्योजो॑ऽसि॒ सहो॑ऽस्य॒मृत॑मसि ॥१५॥
मूलम् ...{Loading}...
सोम॑स्य॒ त्विषि॑रसि॒ तवे॑व मे॒ त्विषि॑र्भूयात्। मृ॒त्योः पा॒ह्योजो॑ऽसि॒ सहो॑ऽस्य॒मृत॑मसि ॥१५॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सोम॑स्य। त्विषिः॑। अ॒सि॒। तवे॒वेति॒ तव॑ऽइव। मे॒। त्विषिः॑। भू॒या॒त्। मृ॒त्योः। पा॒हि॒। ओजः॑। अ॒सि॒। सहः॒। अ॒सि॒। अ॒मृत॑म्। अ॒सि॒। १५।
महीधरः
म०. ‘व्याघ्रचर्मारोहयति सोमस्य त्विषिरिति’ (का० १५ । ५ । २५)। अभिषेकार्थं राजानं व्याघ्रचर्मणि स्थापयेत् । चर्मदेवत्यं व्याख्यातम् (क० ५) । ‘रुक्ममधः पदं कुरुते मृत्योरिति’ ( का० १५ । ५। २६) । पादतले हिरण्यं कुर्यात् । रुक्मदैवतम् । हे सुवर्ण, मृत्योः सकाशान्मां पाहि पालय । ‘शिरसि च नवतर्द्मᳪं᳭ शततर्द्मं वौजोऽसीति’ ( का. १५ । ५ । २७)। नवच्छिद्रं शतच्छिद्रं वा सौवर्णमण्डलं यजमानशिरसि कुर्यात् । रुक्मदैवतम् । हे हिरण्य, त्वमोजोऽसि अमुं जेष्यामीति मनोवृत्तिरोजः तद्रूपं त्वमसि । शारीरं बलं सहस्तद्रूपमसि । अमृतं विनाशरहितं त्वमसि ॥ १५ ॥
षोडशी।
अधिमन्त्रम् (VC)
- परमात्मा देवता
- वरुण ऋषिः
- विराड् आर्ची पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
राजा और प्रजापुरुषों को उचित है कि ईश्वर के समान न्यायाधीश होकर आपस में एक-दूसरे की रक्षा करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे परम आप्त विद्वन् ! जैसे आप (सोमस्य) ऐश्वर्य्य का (त्विषिः) प्रकाश करनेहारे (असि) हैं, (ओजः) पराक्रमयुक्त (असि) हैं, (सहः) बलवान् (असि) हैं (अमृतम्) जन्म-मरणादि धर्म से रहित (असि) हैं, वैसा मैं भी होऊँ। (तवेव) आपके समान (मे) मेरा (त्विषिः) विद्या प्रकाश से भाग्योदय (भूयात्) हो। आप मुझ को (मृत्योः) मृत्यु से (पाहि) बचाइये ॥१५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे पुरुषो ! जैसे धार्मिक विद्वान् अपने को जो इष्ट है, उसी को प्रजा के लिये भी इच्छा करें। जैसे प्रजा के जन राजपुरुषों की रक्षा करें, वैसे राजपुरुष भी प्रजाजनों की निरन्तर रक्षा करें ॥१५॥
दयानन्द-सरस्वती (सं) - विषयः
राजप्रजाजनैरीश्वरवद् वर्त्तित्वा परस्परेषां रक्षणं विधेयमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे परमाप्त ! यथा त्वं सोमस्य त्विषिरस्योजोऽसि सहोऽस्यमृतमसि, तथाऽहं भवेयम्। तवेव मे त्विषिरोजः सहोऽमृतं च भूयात्, त्वं मृत्योर्मा पाहि ॥१५॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे पुरुषाः ! यथाऽऽप्ताः स्वेष्टं प्रजाभ्योऽपीच्छेयुः, यथा प्रजा राजपुरुषान् रक्षेयुस्तथा प्रजाजनान् सततं रक्षन्तु ॥१५॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! धार्मिक विद्वान पुरुषांनी स्वतःला जे इष्ट असेल तसेच प्रजेलाही मिळावे अशी अपेक्षा बाळगावी. ज्याप्रमाणे प्रजा राजाचे रक्षण करते तसेच राजपुरुषांनीही (परमेश्वराप्रमाणे) प्रजेचे निरन्तर रक्षण करावे.
१६ हिरण्यरूपाऽउषसो विरोकऽउभाविन्द्राऽउदिथः
विश्वास-प्रस्तुतिः ...{Loading}...
हिर॑ण्यरूपाऽउ॒षसो॑ विरो॒कऽउ॒भावि॑न्द्रा॒ऽउदि॑थः॒ सूर्यश्च॑। आरो॑हतं वरुण मित्र॒ गर्त्तं॒ तत॑श्चक्षाथा॒मदि॑तिं॒ दितिं॑ च। मि॒त्रो᳖ऽसि॒ वरु॑णोऽसि ॥१६॥
मूलम् ...{Loading}...
हिर॑ण्यरूपाऽउ॒षसो॑ विरो॒कऽउ॒भावि॑न्द्रा॒ऽउदि॑थः॒ सूर्यश्च॑। आरो॑हतं वरुण मित्र॒ गर्त्तं॒ तत॑श्चक्षाथा॒मदि॑तिं॒ दितिं॑ च। मि॒त्रो᳖ऽसि॒ वरु॑णोऽसि ॥१६॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
हिर॑ण्यरूपा॒विति हिर॑ण्यऽरूपौ। उ॒षसः॑। वि॒रो॒क इति॑ विऽरो॒के। उ॒भौ। इ॒न्द्रौ॒। उत्। इ॒थः॒। सूर्यः॑। च॒। आ। रो॒ह॒त॒म्। व॒रु॒ण॒। मि॒त्र॒। गर्त्त॑म्। ततः॑। च॒क्षा॒था॒म्। अदि॑तिम् दिति॑म्। च॒। मि॒त्रः। अ॒सि॒। वरु॑णः। अ॒सि॒। १६।
महीधरः
म० ‘बाहू उद्गृह्णाति हिरण्यरूपा इति’ ( का० १५ । ५ । २८)। यजमानबाहू ऊर्ध्वौ करोति । मित्रावरुणदेवत्या त्रिष्टुप् यजुरन्ता मित्रोऽसीति यजुः । हे वरुण शत्रुनिवारक, दक्षिणबाहो, हे मित्र सखिवत्पालक वामबाहो, तौ युवां गर्तं पुरुषमारोहत मारोहणं कुरुतम् । ‘बाहू वे मित्रावरुणौ पुरुषो गर्तः’ (५। ४ । १ । १५ ) इति श्रुतिरध्यात्मविषयं वाचष्टे । पुरुषारोहणानन्तरमदितिमखण्डितां स्वसेनां दितिं खण्डितां परसेनां चक्षाथां क्रमेणानुग्रहदृष्ट्या समीक्षेथाम् । तौ कौ । यौ युवामुभौ द्वौ उषसो विरोके रात्रेः समाप्तौ उदिथः उदयं कुरुथः । एतेर्लटि मध्यमद्विवचने इथ इति रूपम् । सूर्योदयानन्तरं स्वस्वव्यापारे प्रवर्तेथे इत्यर्थः । सूर्यश्च उदेति ययोर्युवयोः कार्यसंपादनायेत्यर्थः । किंभूतौ युवाम् । हिरण्यरूपौ हिरण्यवद्रूपं ययोस्तौ सुवर्णखचितकटकाद्यलंकारेण हिरण्यवद्भासमानौ । तथा इन्द्रौ सामर्थ्योपेतौ । एवमध्यात्ममर्थः । अधिदैवं त्वयमर्थः । हे वरुण, हे मित्र मित्रावरुणौ देवविशेषौ, युवां गर्तं रथोपरिभागं गर्तसदृशमारोहतम् । परबाणेभ्यो रक्षितुं चर्मकीलकादिभिराच्छादितो रथस्योपरिभागो गर्तसदृशो भवति । रथोऽपि गर्त उच्यते ‘गृणातेः स्तुतिकर्मणः’ (नि०३ । ५) इति यास्कोक्तेर्गर्तो रथः । यौ युवामुषसो विरोके उषःकालानन्तरम् उदिथः उद्गच्छथः सूर्यश्चेत्तदा उदेति । किंभूतौ । हिरण्यरूपौ अतितेजस्विनौ । इन्द्रौ परमेश्वरौ । ततो रथारोहणानन्तरमदितिं दितिं च युवां चक्षाथाम् अदितिमदीनं विहितानुष्ठातारं दितिं दीनं नास्तिकवृत्तं च पश्यतम् । अयं पापी अयं पुण्यवानिति युवां पश्यतमित्यर्थः । अमुमर्थं श्रुतिराह ‘ततः पश्यतᳪं᳭ स्वं चारणं चेत्येवैतदाहेति’ (५ । ४ । १ । १५) ‘मित्रोऽसि वरुणोऽसीति वा’ (का० १५ । ५ । २९) । अनेन मन्त्रेण वा बाहू उद्गृह्णाति । हे वामबाहो, मित्रोऽसि । हे दक्षिणबाहो, त्वं वरुणोऽसि ॥१६॥
सप्तदशी।
अधिमन्त्रम् (VC)
- मित्रावरुणौ देवते
- वरुण ऋषिः
- स्वराड् आर्षी जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
अब विद्वानों को चाहिये कि आप निष्कपट हो और अज्ञानी पुरुषों के लिये सत्य का उपदेश करके उनको बुद्धिमान् विद्वान् बनावें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे उपदेश करनेहारे (मित्र) सब के सुहृद् ! जिसलिये आप (मित्रः) सुख देनेवाले (असि) हैं तथा हे (वरुण) शत्रुओं को मारनेहारे बलवान् सेनापति ! जिसलिये आप (वरुणः) सबसे उत्तम (असि) हैं, इसलिये आप दोनों (गर्त्तम्) उपदेश करनेवाले के घर पर (आरोहतम्) जाओ (अदितिम्) अविनाशी (च) और (दितिम्) नाशवान् पदार्थों का (चक्षाथाम्) उपदेश करो। हे (हिरण्यरूपौ) प्रकाशस्वरूप (उभौ) दोनों (इन्द्रौ) परमैश्वर्य्य करनेहारे जैसे (विरोके) विविध प्रकार की रुचि करानेहारे व्यवहार में (सूर्य्यः) सूर्य्य (च) और चन्द्रमा (उषसः) प्रातः और निशा काल के अवयवों को प्रकाशित करते हैं, वैसे तुम दोनों जन (उदिथः) विद्याओं का उपदेश करो ॥१६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जिस देश में सूर्य्य-चन्द्रमा के समान उपदेश करनेहारे व्याख्यानों से सब विद्याओं का प्रकाश करते हैं, वहाँ सत्याऽसत्य पदार्थों के बोध से सहित होके कोई भी विद्याहीन होकर भ्रम में नहीं पड़ता। जहाँ यह बात नहीं होती, वहाँ अन्धपरम्परा में फँसे हुए मनुष्य नित्य ही क्लेश पाते हैं ॥१६॥
दयानन्द-सरस्वती (सं) - विषयः
अथ विद्वद्भिर्निष्कपटतयाऽज्ञाः सत्यमुपदिश्य विद्वांसो मेधाविनः संपादनीया इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे उपदेशक मित्र ! यतस्त्वं मित्रोऽसि। हे वरुण ! यतस्त्वं वरुणोऽसि ततस्तौ युवां गर्त्तमारोहतम्। अदितिं दितिं च चक्षाथाम्। हे हिरण्यरूपावुभाविन्द्रौ यथा विरोके सूर्य्यश्चन्द्रश्चोषसो विभातस्तथा युवामुदिथो विद्याः प्रभातम् ॥१६॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यत्र देशे सूर्य्यचन्द्रवदुपदेशका व्याख्यानैः सर्वा विद्याः प्रकाशयन्ति, तत्र सत्याऽसत्यपदार्थबोधेन सहितत्वात् कश्चिदप्यविद्यया न विमुह्यति, यत्रेदं न भवति तत्राऽन्धपरम्पराग्रस्ता जनाः प्रत्यहमवनतिं प्राप्नुवन्ति ॥१६॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्या देशात सूर्य-चंद्रासारखे उपदेशक आपल्या उपदेशाने सर्व विद्या प्रकट करतात तेथेच सत्य व असत्य पदार्थांचा बोध होतो व कोणीही अविद्येच्या भ्रमात अडकत नाही. जेथे ही गोष्ट नसते तेथे माणसे अंधश्रद्धेमुळे सदैव त्रास भोगतात.
१७ सोमस्य त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
सोमस्य॑ त्वा द्यु॒म्नेना॒भिषि॑ञ्चाम्य॒ग्नेर्भ्राज॑सा॒ सूर्य॑स्य॒ वर्च॒सेन्द्र॑स्येन्द्रि॒येण॑। क्ष॒त्राणां॑ क्ष॒त्रप॑तिरे॒ध्यति॑ दि॒द्यून् पा॑हि ॥१७॥
मूलम् ...{Loading}...
सोमस्य॑ त्वा द्यु॒म्नेना॒भिषि॑ञ्चाम्य॒ग्नेर्भ्राज॑सा॒ सूर्य॑स्य॒ वर्च॒सेन्द्र॑स्येन्द्रि॒येण॑। क्ष॒त्राणां॑ क्ष॒त्रप॑तिरे॒ध्यति॑ दि॒द्यून् पा॑हि ॥१७॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सोम॑स्य। त्वा॒। द्यु॒म्नेन॑। अ॒भि। सि॒ञ्चा॒मि॒। अ॒ग्नेः। भ्राज॑सा। सूर्य॑स्य। वर्च॑सा। इन्द्र॑स्य। इ॒न्द्रि॒येण॑। क्ष॒त्राणा॑म्। क्ष॒त्रप॑ति॒रिति॑ क्ष॒त्रऽप॑तिः। ए॒धि॒। अति॑। दि॒द्यून्। पा॒हि॒। १७।
महीधरः
म० ‘स्थितं प्राञ्चमभिषिञ्चति पुरोहितोऽध्वर्युर्वा पुरस्तात्पालाशेन प्रथमं पश्चादितरे द्वितीयेन स्वस्तृतीयेनामित्र्यो राजन्यो वैश्यश्चतुर्थेन सोमस्य त्वा द्युम्नेनेति प्रतिमन्त्रमभिषिञ्चामीति सर्वत्र साकाङ्क्षत्वात् क्षत्राणां क्षत्रपतिरेधीति चेमममुष्येति च प्रथमो देवसूवदिति’ ( का० १५ । ५ । ३०-३३) । अस्यार्थः । रुक्मसहितव्याघ्रचर्मणि प्राङ्मुखमवस्थितं राजानं पुरोहितादयः पुरस्तादवस्थायाभिषिञ्चेयुः । पालाशौदुम्बरन्यग्रोधाश्वत्थानि चतुर्विधान्यभिषेकजलपात्राणि स्थापितानि । तत्र पालाशपात्रेण पुरोहिताध्वर्य्वोरन्यतरः प्रथममभिषिञ्चेत् । इतरे स्वादयः पश्चादवस्थिता अभिषिञ्चेयुः । तानेवाह । स्वो राज्ञो भ्राता द्वितीयेनौदुम्बरपात्रेण मित्रभूतः कश्चित् क्षत्रियस्तृतीयेन वटपात्रेण वैश्यश्चतुर्थेनाश्वत्थपात्रेणाभिषिञ्चति । चतुर्णामभिषेक्तॄणां क्रमेण सोमस्याग्नेः सूर्यस्येन्द्रस्य ते चत्वारो मन्त्राः । अभिषिञ्चामीति पदमग्रिमेषु त्रिषु मन्त्रेष्वनुवर्तते । क्षत्राणामित्यवयवोऽपि प्रथमादिमन्त्रषु योज्यः । इमममुष्येति मन्त्रं प्रथमः पुरोहितोऽध्वर्युर्वा देवसूहविःष्विव नामग्रहणयुक्तं पठति । प्रथमग्रहणादन्येषामिमममुष्येति मन्त्रशेषो न भवति ब्राह्मणानाᳪं᳭ राजेति मन्त्रलिङ्गादिति सूत्रार्थः । चतुर्णां मन्त्राणां यजमानो देवता । हे यजमान, सोमस्य द्युम्नेन चन्द्रस्य यशसा त्वा त्वामभिषिञ्चामि तेनाभिषिक्तः सन् क्षत्राणां क्षत्रपतिरेधि क्षत्रियाणां सर्वेषां मध्ये क्षत्रपतिः क्षत्रियेश्वर एधि भव । अति दिद्यून् पाहि । ‘दो अवखण्डने’ द्यन्ति खण्डयन्ति दिद्यवो बाणाः । ‘इषवो वै दिद्यव इषुवधमेवैनमेतदतिनयति’ (५। | ४ । २ । २ ) इति श्रुतेः तानतिक्रम्य शत्रुप्रयुक्तानिष्वादीनपसार्य इमं यजमानं हे सोम, त्वं पाहि पालय ॥ १७ ॥
अष्टादशी।
अधिमन्त्रम् (VC)
- क्षत्रपतिर्देवता
- देववात ऋषिः
- आर्षी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
पूर्वोक्त कार्य्यों की प्रवृत्ति के लिये कैसे पुरुष को राज्याऽधिकार देना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे प्रशंसित गुण, कर्म और स्वभाववाले राजा ! जैसे मैं जिस तुझ को (सोमस्य) चन्द्रमा के समान (द्युम्नेन) यशरूप प्रकाश से (अग्नेः) अग्नि के समान (भ्राजसा) तेज से (सूर्य्यस्य) सूर्य्य के समान (वर्चसा) पढ़ने से और (इन्द्रस्य) बिजुली के समान (इन्द्रियेण) मन आदि इन्द्रियों के सहित (त्वा) आपको (अभिषिञ्चामि) राज्याधिकारी करता हूँ, वैसे वे आप (क्षत्राणाम्) क्षत्रिय कुल में जो उत्तम हों, उनके बीच (क्षत्रपतिः) राज्य के पालनेहारे (अत्येधि) अति तत्पर हूजिये और (दिद्यून्) विद्या तथा धर्म का प्रकाश करनेहारे व्यवहारों की (पाहि) निरन्तर रक्षा कीजिये ॥१७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को चाहिये कि जो शान्ति आदि गुणयुक्त जितेन्द्रिय विद्वान् पुरुष हैं, उसको राज्य का अधिकार देवें और उस राजा को चाहिये कि राज्याऽधिकार को प्राप्त हो अतिश्रेष्ठ होता हुआ विद्या और धर्म आदि के प्रकाश करनेहारे प्रजापुरुषों को निरन्तर बढ़ावे ॥१७॥
दयानन्द-सरस्वती (सं) - विषयः
एतत्प्रवृत्तये कीदृशो राजाभिषेचनीय इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे प्रशस्तगुणकर्मस्वभावयुक्त राजन् ! यथाऽहं यं त्वा त्वां सोमस्येव द्युम्नेनाग्नेरिव भ्राजसा सूर्य्यस्येव वर्चसेन्द्रस्येवेन्द्रियेण त्वाऽभिषिञ्चामि, तथा स त्वं क्षत्राणां क्षत्रपतिरत्येधि दिद्यून् पाहि ॥१७॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्या यः सोमादिगुणयुक्तो विद्वान् जितेन्द्रियो जनो भवेत् तं राजत्वे स्वीकुर्वन्तु। स च राज्यं प्राप्यातिप्रवृद्धः सन् विद्याधर्मप्रकाशकान् राजप्रजाजनान् सततमतिवर्द्धयेत् ॥१७॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. माणसांनी शांत, जितेन्द्रिय व विद्वान पुरुषाला राज्याचा अधिकार द्यावा. राजानेही राज्याधिकार प्राप्त झाल्यावर श्रेष्ठ बनून विद्या व धर्माचा प्रचार करावा आणि प्रजेची सदैव उन्नती करावी.
१८ इमं देवाऽअसपत्नम्
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒मं दे॑वाऽअसप॒त्नँ सु॑वध्वं मह॒ते क्ष॒त्रा॑य मह॒ते ज्यैष्ठ्या॑य मह॒ते जान॑राज्या॒येन्द्र॑स्येन्द्रि॒याय॑। इ॒मम॒मुष्य॑ पु॒त्रम॒मुष्यै॑ पु॒त्रम॒स्यै वि॒शऽए॒ष वो॑ऽमी॒ राजा॒ सोमो॒ऽस्माकं॑ ब्राह्म॒णानाँ॒ राजा॑ ॥१८॥
मूलम् ...{Loading}...
इ॒मं दे॑वाऽअसप॒त्नँ सु॑वध्वं मह॒ते क्ष॒त्रा॑य मह॒ते ज्यैष्ठ्या॑य मह॒ते जान॑राज्या॒येन्द्र॑स्येन्द्रि॒याय॑। इ॒मम॒मुष्य॑ पु॒त्रम॒मुष्यै॑ पु॒त्रम॒स्यै वि॒शऽए॒ष वो॑ऽमी॒ राजा॒ सोमो॒ऽस्माकं॑ ब्राह्म॒णानाँ॒ राजा॑ ॥१८॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इ॒मम्। दे॒वाः॒। अ॒स॒प॒त्नम्। सु॒व॒ध्व॒म्। म॒ह॒ते। क्ष॒त्राय॑। म॒ह॒ते। ज्यैष्ठ्या॑य। म॒ह॒ते। जान॑राज्या॒येति॒ जान॑ऽराज्याय। इन्द्र॑स्य। इ॒न्द्रि॒याय॑। इ॒मम्। अ॒मुष्य॑। पु॒त्रम्। अ॒मुष्यै॑। पु॒त्रम्। अ॒स्यै। वि॒शे। ए॒षः। वः॒। अ॒मी॒ऽइत्य॑मी। राजा॑। सोमः॑। अ॒स्माक॑म्। ब्रा॒ह्म॒णाना॑म्। राजा॑। १८।
महीधरः
म० इमं देवाः । व्याख्यातापि व्याख्यायते । हे देवाः सोमादयः, दशरथस्य पुत्रं कौशल्यायाः पुत्रं कोशलायै विशे प्रजायै तिष्ठन्तमिमं राममसपत्नं शत्रुरहितं कृत्वा महते क्षत्राय महते ज्येष्ठत्वाय महते जानराज्यायेन्द्रस्यैश्वर्याय यूयं सुवध्वं प्रेरयध्वम् । हे अमी कोशलाः, एष रामो वो युष्माकं राजा अस्माकं ब्राह्मणानां तु सोमो राजा । एतावन्तं मन्त्रं पठित्वा पुरोहितोऽध्वर्युर्वाभिषिञ्चेत् । राजभ्रातुर्मन्त्रमाह । अग्नेर्भ्राजसाभिषिञ्चामि क्षत्राणामित्यादि इन्द्रस्येन्द्रियायेत्यन्तो मन्त्रः । हे यजमान, अग्नेर्वैश्वानरस्य भ्राजसा तेजसा त्वामभिषिञ्चामि । क्षत्राणामित्यादेः पूर्ववद्व्याख्या । राजमित्रमन्त्रमाह । सूर्यस्य वर्चसाभिषिञ्चामि । क्षत्राणामित्यादि पूर्ववत् । हे यजमान, सूर्यस्य तेजसा त्वामभिषिञ्चामि । अन्यत्पूर्ववत् । वैश्यमन्त्रमाह । इन्द्रस्येन्द्रियेणाभिषिञ्चामि क्षत्राणामित्यादि पूर्ववत् । हे यजमान, इन्द्रस्य वीर्येण त्वामभिषिञ्चामि क्षत्राणामित्यादि पूर्ववत् । श्रुत्या तु द्युम्नादिशब्दैर्वीर्याण्येव व्याख्यातानि ॥ १८ ॥
एकोनविंशी।
अधिमन्त्रम् (VC)
- यजमानो देवता
- देववात ऋषिः
- स्वराड् ब्राह्मी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
सत्य के उपदेशक विद्वानों को चाहिये कि बाल्यावस्था से लेके अच्छी शिक्षा से राजाओं की कन्या और पुत्रों को श्रेष्ठ आचारयुक्त करें, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (देवाः) वेद शास्त्रों को जाननेहारे सेनापति लोगो ! आप जो (एषः) यह उपदेशक वा सेनापति (वः) तुम्हारा और (अस्माकम्) हमारा (ब्राह्मणानाम्) ईश्वर और वेद के सेवक ब्राह्मणों का (राजा) वेद और ईश्वर की उपासना से प्रकाशमान अधिष्ठाता है, जो (अमी) वे धर्मात्मा राजपुरुष हैं, उनका (सोमः) शुभ गुणों से प्रसिद्ध (राजा) सर्वत्र विद्या, धर्म और अच्छी शिक्षा का करनेहारा है, उस (इमम्) इस (अमुष्य) श्रेष्ठगुणों से युक्त राजपूत के (पुत्रम्) पुत्र को (अमुष्यै) प्रशंसा करने योग्य राजकन्या के (पुत्रम्) पवित्र गुण, कर्म और स्वभाव से माता-पिता की रक्षा करनेवाले पुत्र और (अस्यै) अच्छी शिक्षा करने योग्य इस वर्त्तमान (विशे) प्रजा के लिये तथा (महते) सत्कार करने योग्य (क्षत्राय) क्षत्रिय कुल के लिये (महते) बड़े (ज्यैष्ठ्याय) विद्या और धर्म विषय में श्रेष्ठ पुरुषों के होने के लिये (महते) श्रेष्ठ (जानराज्याय) माण्डलिक राजाओं के ऊपर बलवान् समर्थ होने के लिये (इन्द्रस्य) सब ऐश्वर्य्यों से युक्त धनाढ्य के (इन्द्रियाय) धन बढ़ाने के लिये (असपत्नम्) जिसका कोई शत्रु न हो, ऐसे पुत्र को (सुवध्वम्) उत्पन्न करो ॥१८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो उपदेशक और राजपुरुष सब प्रजा की उन्नति किया चाहें तो प्रजा के मनुष्य राजा और राजपुरुषों की उन्नति करने की इच्छा क्यों न करें। जो राजपुरुष और प्रजापुरुष वेद और ईश्वर की आज्ञा को छोड़ के अपनी इच्छा के अनुकूल प्रवृत्त होवें, तो इनकी उन्नति का विनाश क्यों न हो ॥१८॥
दयानन्द-सरस्वती (सं) - विषयः
सत्योपदेशकैर्विद्वद्भिर्बाल्याऽवस्थामारभ्य सुशिक्षया सर्वे राजकन्याकुमाराः श्रेष्ठाचाराः संपादनीया इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे देवाः ! यूयं य एष उपदेशकः सेनेशो वा वोऽस्माकं च ब्राह्मणानां राजाऽस्ति। येऽमी राजपुरुषाः सन्ति, तेषां सोमो राजाऽस्ति तमिमममुष्य पुत्रममुष्यै पुत्रमस्यै विशे महते क्षत्राय महते ज्यैष्ठ्याय महते जानराज्यायेन्द्रस्येन्द्रियायासपत्नं सुवध्वम् ॥१८॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यद्युपदेशका राजपुरुषाश्च सर्वस्योन्नतिं चिकीर्षेयुस्तर्हि प्रजाराजजना राजपुरुषोन्नतिं कुतो न कर्त्तुमिच्छेयुः। यदि राजप्रजाजना वेदेश्वराज्ञां विहाय स्वेच्छया प्रवर्त्तेरन् तर्ह्येषामनुन्नतिः कुतो न भवेत् ॥१८॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे राजपुरुष व उपदेशक प्रजेची उन्नती करू इच्छितात त्यांच्या उन्नतीची इच्छा प्रजा का बरे बाळगणार नाही? राजपुरुष व प्रजापुरुष जर वेद व ईश्वर यांची आज्ञा सोडून किंवा त्यांची अवहेलना करून आपल्या इच्छेप्रमाणे वर्तन करतील तर त्यांचा नाश का बरे होणार नाही?
१९ प्र पर्वतस्य
विश्वास-प्रस्तुतिः ...{Loading}...
प्र पर्व॑तस्य वृष॒भस्य॑ पृ॒ष्ठान्नाव॑श्चरन्ति स्व॒सिच॑ऽइया॒नाः। ताऽआव॑वृत्रन्नध॒रागुद॑क्ता॒ऽअहिं॑ बु॒ध्न्य᳙मनु॒ रीय॑माणाः। विष्णो॑र्वि॒क्रम॑णमसि॒ विष्णो॒र्विक्रा॑न्तमसि॒ विष्णोः॑ क्रा॒न्तम॑सि॒ ॥१९॥
मूलम् ...{Loading}...
प्र पर्व॑तस्य वृष॒भस्य॑ पृ॒ष्ठान्नाव॑श्चरन्ति स्व॒सिच॑ऽइया॒नाः। ताऽआव॑वृत्रन्नध॒रागुद॑क्ता॒ऽअहिं॑ बु॒ध्न्य᳙मनु॒ रीय॑माणाः। विष्णो॑र्वि॒क्रम॑णमसि॒ विष्णो॒र्विक्रा॑न्तमसि॒ विष्णोः॑ क्रा॒न्तम॑सि॒ ॥१९॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्र। पर्व॑तस्य। वृ॒ष॒भस्य॑। पृ॒ष्ठात्। नावः॑। च॒र॒न्ति॒। स्व॒सिच॒ इति॑ स्व॒ऽसिचः॑। इया॒नाः। ताः। आ। अ॒व॒वृ॒त्र॒न्। अ॒ध॒राक्। उद॑क्ता॒ इत्युत्ऽअ॑क्ताः। अहि॑म्। बु॒ध्न्य᳖म्। अनु॑। रीय॑माणाः। विष्णोः॑। वि॒क्रम॑ण॒मिति॑ वि॒ऽक्रम॑णम्। अ॒सि॒। विष्णोः॑। विक्रा॑न्त॒मिति॒ विऽक्रा॑न्तम्। अ॒सि॒। विष्णोः॑। क्रा॒न्तम्। अ॒सि॒। १९।
महीधरः
म० ‘कण्डूयन्याभिषेकेण प्रतिलिम्पते प्र पर्वतस्येति’ ‘(का. १५। ६ । ८)। यजमानः कृष्णविषाणया कृत्वाभिषेकोदकेन स्वाङ्गलग्नेन स्वाङ्गं लिम्पति । अब्देवत्या त्रिष्टुप् । प्रेत्युपसर्गश्चरन्तीति पदेन संबध्यते । नावः प्रचरन्ति । नूयन्ते स्तूयन्ते स्तोत्रशस्त्रमन्त्रैरिति नावः । यद्वा नुदन्ति प्रेरयन्ति फलप्राप्त्यै ता नावः । आहुतिपरिणामभूता आपः प्रचरन्ति गच्छन्ति आदित्यमण्डलं प्रति । ‘ग्लानुदिभ्यां डौः’ (उ० २। ६४) इति नुदतेडौँप्रत्ययः । किं कृत्वा । वृषभस्य वर्षितुरग्नेः पृष्ठात् पृष्ठप्रदेशात् उत्थायेति शेषः । किंभूतस्य वृषभस्य । पर्वतस्य पर्वाणि पौर्णमास्यमावास्याचातुर्मास्यादीनि विद्यन्ते यस्य स पर्वतस्तस्य ‘तप्पर्वमरुद्भ्यां’ इति तप्प्रत्ययः । किंभूता नावः । स्वसिचः स्वेनैवात्मनैव सिञ्चन्ति विश्वमभिषिञ्चन्ति स्वसिचः । तथा इयानाः यन्तीत्येवंशीला इयानाः । एतेः ‘ताच्छील्यवयोवचनशक्तिषु चानश्’ (पा० ३ । २ । १२९) इति चानश्प्रत्ययः चित्वादन्तोदात्तं पदम् । गमनशीलाः ता हि आदित्यमण्डलं प्राप्य मध्यस्थानमागच्छन्ति मध्यस्थानात्पृथिवीम् । तदुक्तम् । ‘अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः’ (म० ३ । ७६) इति । ता आहुतिपरिणामभूता आप आदित्यमण्डलं प्राप्याधराक् आववृत्रन् अधस्तादावर्तन्ते । वृतेर्णिजन्ताल्लुङि रगागमश्छान्दसः। किंभूतास्ताः । उदक्ताः ऊर्ध्वमक्ताः । ‘अञ्चु गतिपूजनयोः’ । ऊर्ध्वं गताः सत्यः अहिं मेघमनु रीयमाणाः मेघमनुसरन्त्यः। रियतिर्गत्यर्थः । किंभूतमहिम् । बुध्न्यं बुध्नमन्तरिक्षं तत्र भवो बुध्न्यः अन्तरिक्षे वर्तमानम् । यद्वायमर्थः । पर्वतशब्देनादित्य उच्यते । वृषभस्य वर्षितुः पर्वतस्यादित्यस्य पृष्ठादियानाः निर्गच्छन्त्यो नावः स्तुत्या आपः प्रचरन्ति सर्वतो गच्छन्ति । किंभूताः । स्वसिचः स्वयं सेक्त्र्यः आदित्योपरिष्टादापो नाव्या उच्यन्ते । तथा च श्रुतिः ‘नाव्या आप एव यजुष्मत्य इष्टकाः’ (१० । ५। ६ । १४) इत्युपक्रम्य षष्टिश्च वै त्रीणि च शतान्यादित्यं नाव्या अभिक्षरन्तीत्याह’ । ता उदक्ता व्यक्ताः सत्यः बुध्न्यमन्तरिक्षस्थमहिं मेघमनुरीयमाणा अनुप्रविश्य गच्छन्त्यः सत्यः प्रावृट्काले अधराक् अधस्ताद्भूमिं प्रति आववृत्रन् आवर्तन्ते आगच्छन्ति । यद्वायमर्थ ऋचोऽस्याः । वृषभस्य वर्षणसमर्थस्य पर्वतस्य हिमवद्विन्ध्यादेः पृष्ठादियाना गच्छन्त्यो वहन्त्यो नावो नौतार्या महानद्यो गङ्गाद्याः प्रचरन्ति स्वसिचः स्वमात्मीयं यजमानक्षेत्रं सिञ्चन्ति ताः ता एव नावोऽधराक् अधस्तात् आववृत्रन् राजसूययाजिनोऽर्था वर्तन्ते । किंभूताः। उदक्ता अभिषेकपात्रेषु उत्क्षिप्ताः प्रक्षिप्ताः । तथा बुध्न्यं बुध्नशब्देन मूलमुच्यते तत्र भवं बुध्न्यं प्रधानमित्यर्थः । अहिमहन्तारं शत्रूणां यजमानमनुरीयमाणाः यजमानं प्रति सिच्यमानाः । ‘चर्मणि त्रिर्विक्रमयति विष्णोरिति प्रतिमन्त्रमिति’ (का. १५ । ६।९)। अध्वर्युर्यजमानेन व्याघ्रचर्मणि त्रिभिर्मन्त्रैस्त्रिवारं पादप्रक्षेपं कारयेत् । त्रीणि यजूंषि यजमानदेवत्यानि । हे मदीय प्रथमप्रक्रम, त्वं विष्णोर्व्यापनशीलस्य यज्ञपुरुषस्य जगदीश्वरस्य त्रिविक्रमावतारस्य विक्रमणं प्रथमपादप्रक्षेपेण जितो भूलोकोऽसि । हे द्वितीयप्रक्रम, त्वं विष्णोः विक्रान्तं द्वितीयपादप्रक्षेपेण जितमन्तरिक्षमसि । हे तृतीयप्रक्रम, त्वं विष्णोः क्रान्तं तृतीयपादप्रक्षेपेण जितं त्रिविष्टपमसि । इदं मन्त्रत्रयं लोकत्रयजये हेतुभूतं तित्तिरिराह “विष्णुक्रमान्क्रमते विष्णुरेव भूत्वेमांल्लोकानभिजयतीति’ । ‘इमे वै लोका विष्णोर्विक्रान्तं विष्णोर्विक्रमणं विष्णोः क्रान्तम्’ (५ । ४।२।६) इति श्रुतेः ॥ १९ ॥
विंशी।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- देववात ऋषिः
- विराड् ब्राह्मी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर इस जगत् में राजा और प्रजाजनों को किस प्रकार के यान बनाने चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजा के कारीगर पुरुष ! जो तू (स्वसिचः) जिनको अपने लोग जल से सींचते हैं, (इयानाः) चलते हुए (उदक्ताः) फिर-फिर ऊपर को जावें (अहिम्, बुध्न्यम्) अन्तरिक्ष में रहनेवाले मेघ के (अनुरीयमाणाः) पीछे-पीछे चलाने से चलते हुए (नावः) समुद्र के ऊपर नौकाओं के समान चलते हुए विमान (वृषभस्य) वर्षा करनेहारे (पर्वतस्य) मेघ के (पृष्ठात्) ऊपर के भाग से (प्रचरन्ति) चलते हैं, जिनसे तू (विष्णोः) व्यापक ईश्वर के इस जगत् में (विक्रमणम्) पराक्रम सहित (असि) है, (विष्णोः) व्यापक वायु के बीच (विक्रान्तम्) अनेक प्रकार चलने हारा (असि) है और (विष्णोः) व्यापक बिजुली के बीच (क्रान्तम्) चलने का आधार (असि) है, जो (अधराक्) मेघ से नीचे (आववृत्रन्) मेघ के समान विचरते हैं, उन विमानादि यानों को तू सिद्ध कर ॥१९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे मेघ वर्ष के भूमि के तले को प्राप्त होके पुनः आकाश को प्राप्त होता है। वह जल नदियों में जाके पीछे समुद्र को प्राप्त होता है। जो जल के भीतर अर्थात् जिनके ऊपर-नीचे जल होता है, वैसे ही सब कारीगर लोगों को चाहिये कि विमानादि यानों और नौकाओं को बना के भूमि जल और आकाश मार्ग से अभीष्ट देशों में यथेष्ट जाना-आना करें। जब तक ऐसे यान नहीं बनाते, तब तक द्वीप-द्वीपान्तरों में कोई भी नहीं जा सकता। जैसे पक्षी अपने शरीररूप संघात को आकाश में उड़ा ले चलते हैं, वैसे चतुर कारीगर लोगों को चाहिये कि इस अपने शरीर आदि को यानों के द्वारा आकाश में फिरावें ॥१९॥
दयानन्द-सरस्वती (सं) - विषयः
पुनरत्र राजप्रजाजनैः कीदृशानि यानानि रचनीयानीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे राजशिल्पिन् ! यदि त्वया याः स्वसिच इयाना उदक्ता अहिं बुध्न्यमनुरीयमाणा नावो वृषभस्य प्रपर्वतस्य पृष्ठात् प्रचरन्ति याभिस्त्वं विष्णोर्विक्रान्तमसि, विष्णोर्विक्रमणमसि, विष्णोः क्रान्तमसि, या अधरागाववृत्रंस्तास्त्वं साध्नुहि ॥१९॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यथा मेघो वर्षित्वा भूमितलं प्राप्याकाशमाप्नोति, तज्जलं नदीर्गत्वाऽन्ततः समुद्रं प्राप्नोति, तत्पृष्ठे नावो गच्छन्ति। या अप्स्वन्तरर्थाद् यासामुपर्यधो जलं भवति तद्वत् सर्वैः शिल्पिभिर्विमानानि नावश्च यानानि रचयित्वा भूमिजलाऽन्तरिक्षमार्गेणाभीष्टे देशे गमनागमने यथेष्टे कार्य्ये। यावदेतानि न साध्नुवन्ति, तावद् द्वीपद्वीपान्तरं गन्तुं कश्चिदपि न शक्नोति, यथा पक्षिण इदं शरीरमयं संघातं गमयन्ति, तथैव विचक्षणैः शिल्पिभिरेतदाकाशं यानैर्विक्रमणीयम् ॥१९॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - मेघ भूमीवर बरसतो, ते जल नंतर नद्यांमधून वाहते, समुद्राला मिळते. त्यानन्तर ते पुन्हा आकाशात जाते. वर-खाली सर्व ठिकाणी जल असते. त्यामुळे सर्व कारागिरांनी विमान व नौका बनवाव्यात आणि भूमी, जल व आकाशमार्गे इच्छित देशांमध्ये जाणे-येणे करावे. जोपर्यंत अशी याने तयार होत नाहीत तोपर्यंत द्वीपद्वीपान्तरी कोणीही जाऊ शकत नाही. ज्याप्रमाणे पक्षी आकाशात विहार करतात त्याप्रमाणे चतुर तंत्रज्ञ लोकांनी आकाशात विहार करणारी याने तयार करावीत व त्यातून प्रवास करावा.
२० प्रजापते न
विश्वास-प्रस्तुतिः ...{Loading}...
प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ रू॒पाणि॒ परि॒ ता बभू॑व। यत्का॑मास्ते जुहु॒मस्तन्नो॑ऽअस्त्व॒यम॒मुष्य॑ पि॒ताऽसाव॒स्य पि॒ता व॒यँ स्या॑म॒ पत॑यो रयी॒णाँ स्वाहा॑। रुद्र॒ यत्ते॒ क्रिवि॒ परं॒ नाम॒ तस्मि॑न् हु॒तम॑स्यमे॒ष्टम॑सि॒ स्वाहा॑ ॥२०॥
मूलम् ...{Loading}...
प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ रू॒पाणि॒ परि॒ ता बभू॑व। यत्का॑मास्ते जुहु॒मस्तन्नो॑ऽअस्त्व॒यम॒मुष्य॑ पि॒ताऽसाव॒स्य पि॒ता व॒यँ स्या॑म॒ पत॑यो रयी॒णाँ स्वाहा॑। रुद्र॒ यत्ते॒ क्रिवि॒ परं॒ नाम॒ तस्मि॑न् हु॒तम॑स्यमे॒ष्टम॑सि॒ स्वाहा॑ ॥२०॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्रजा॑पत॒ इति॒ प्रजा॑ऽपते। न। त्वत्। ए॒तानि॑। अ॒न्यः। विश्वा॑। रू॒पाणि॑। परि॑। ता। ब॒भू॒व॒। यत्का॑मा॒ इति॒ यत्ऽका॑माः। ते॒। जु॒हु॒मः। तत्। नः॒। अ॒स्तु॒। अ॒यम्। अ॒मुष्य॑। पि॒ता। अ॒सौ। अ॒स्य। पि॒ता। व॒यम्। स्या॒म॒। पत॑यः। र॒यी॒णाम्। स्वाहा॑। रुद्र॑। यत्। ते॒। क्रिवि॑। पर॑म्। नाम॑। तस्मि॑न्। हु॒तम्। अ॒सि॒। अ॒मे॒ष्टमित्य॑माऽइ॒ष्टम्। अ॒सि॒। स्वाहा॑। २०।
महीधरः
म० ‘शालाद्वार्ये जुहोति पुत्रेऽन्वारब्धे प्रजापत इति’ (का. १५ । ६ । ११)। ततः सदसः शालायामागत्य पुत्रेऽन्वारब्धे शालाद्वार्येऽग्नौ जुहोति । प्रजापतिदेवत्या त्रिष्टुप् यजुर्मध्या तृतीयचतुर्थपादमध्येऽयममुष्येति यजुर्युक्ता । हे प्रजापते, त्वत्त्वत्तः अन्यो देवताविशेषः तानि एतानि विश्वा विश्वानि सर्वाणि रूपाणि नानाजातीयानि वर्तमानभूतभविष्यत्कालविषयाणि न परिबभूव परिभवितुं समर्थो नाभूत् । परिभवः सृष्टेरप्युपलक्षणम् । त्वदन्यो देव एतानि भूतानि स्रष्टुं संहर्तुं चाप्यशक्त इत्यर्थः । अतो वयं यत्कामास्ते जुहुमः यः कामो येषां ते यत्कामाः येन कामेन त्वां जुहुमः तत्कामरूपं फलं नोऽस्माकमस्तु । यजुर्व्याख्यायते । अयममुष्य पितेति पुत्रं पित्रीकृत्य तयोर्नाम गृह्णाति । अयं रामोऽमुष्य दशरथस्य पिता । असावस्य पितेति यथायथमेव नामग्रहः । यथा असौ दशरथोऽस्य रामस्य पितेति । सर्वथा सपुत्रा वयं रयीणां धनानां पतयः स्याम भवेम । ‘आग्नीध्रीये पालाशेन शेषान् जुहोति रुद्र यत्त इत्युत्तरार्ध इति’ । ‘पालाशेनाभिषेकपात्रेणाभिषेकोदकशेषानाग्नीध्रीयाग्नेरुत्तरभागे जुहोति’ (का० १५। ६ । १२) । रुद्रदेवत्यम् । हे रुद्र, यत्ते तव क्रिवि कर्तृ हिंसितृ वा परमुत्कृष्टं नामास्ति । ‘क्रिवि हिंसाकरणयोः’ इप्रत्ययः । एवं रुद्रं संबोध्य होमद्रव्यमाह । हे हविः, तस्मिन् रुद्रनाम्नि त्वं हुतमसि अमेष्टं चासि । अमाशब्दो गृहवाची । मदीये गृहे इष्टं दत्तमसि स्वाहा सुहुतमस्तु ॥ २० ॥
एकविंशी।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- देववात ऋषिः
- भुरिग् अतिधृतिः
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को चाहिये कि ईश्वर की उपासना और उसकी आज्ञा पालने से सब कामनाओं को प्राप्त हों, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (प्रजापते) प्रजा के स्वामी ईश्वर ! जो (एतानि) जीव, प्रकृति आदि वस्तु (विश्वा) सब (रूपाणि) इच्छा, रूप आदि गुणों से युक्त हैं (ता) उनके ऊपर आप से (अन्यः) दूसरा कोई (न) नहीं (परिबभूव) जान सकता (ते) आप के सेवन से (यत्कामाः) जिस-जिस पदार्थ की कामनावाले होते हुए (वयम्) हम लोग (जुहुमः) आपका सेवन करते हैं, वह-वह पदार्थ आपकी कृपा से (नः) हम लोगों के लिये (अस्तु) प्राप्त होवे। जैसे आप (अमुष्य) उस परोक्ष जगत् के (पिता) रक्षा करनेहारे हैं, (असौ) सो आप इस प्रत्यक्ष जगत् के रक्षक हैं, वैसे हम लोग (स्वाहा) सत्य वाणी से (रयीणाम्) विद्या और चक्रवर्त्ति राज्य आदि से उत्पन्न हुई लक्ष्मी के (पतयः) रक्षा करनेवाले (स्याम) हों। हे (रुद्र) दुष्टों को रुलानेहारे परमेश्वर ! (ते) आप का जो (क्रिवि) दुःखों से छुड़ाने का हेतु (परम्) उत्तम (नाम) नाम है, (तस्मिन्) उसमें आप (हुतम्) स्वीकार किये (असि) हैं, (अमेष्टम्) घर में इष्ट (असि) हैं, उन आप को हम लोग (स्वाहा) सत्य वाणी से ग्रहण करते हैं ॥२०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे मनुष्यो ! जो सब जगत् में व्याप्त, सब के लिये माता-पिता के समान वर्त्तमान, दुष्टों को दण्ड देनेहारा, उपासना करने को इष्ट है, उसी जगदीश्वर की उपासना करो। इस प्रकार के अनुष्ठान से तुम्हारी सब कामना अवश्य सिद्ध हो जायेंगीं ॥२०॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यैरीश्वरोपासनाऽऽज्ञापालनेन सर्वाः कामनाः प्राप्तव्या इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे प्रजापते ! यान्येतानि विश्वा रूपाणि सन्ति, तानि त्वदन्यो न परिबभूव। ते तव सकाशाद् यत्कामाः सन्तो वयं जुहुमस्तत् तव कृपया नोऽस्तु, यथा त्वममुष्य परोक्षस्य जगतः पिताऽसौ भवानस्य समक्षस्य विश्वस्य पिताऽसि, तथा वयं स्वाहा रयीणां पतयः स्याम। हे रुद्र ! ते तव यत् क्रिवि परं नामाऽस्ति यस्मिंस्त्वं हुतमस्यमेष्टमसि तं वयं स्वाहा जुहुमः ॥२०॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः ! यः सर्वस्मिन् जगति व्याप्तः सर्वान् प्रति मातापितृवद् वर्त्तमानो दुष्टदण्डक उपासितुमिष्टोऽस्ति, तं जगदीश्वरमेवोपाध्वम्। एवमनुष्ठानेन युष्माकं सर्वे कामा अवश्यं सेत्स्यन्ति ॥२०॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे माणसांनो ! जो सर्व जगात व्याप्त आहे, सर्वांना माता व पित्यासमान आहे, दुष्टांना दंड देणारा आहे तोच उपासना करण्यायोग्य असल्यामुळे त्याचीच उपासना करा. या प्रकारच्या अनुष्ठानाने तुमच्या सर्व कामना सिद्ध होतील.
२१ इन्द्रस्य वज्रोऽसि
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र॑स्य॒ वज्रो॑ऽसि मि॒त्रावरु॑णयोस्त्वा प्रशा॒स्त्रोः प्र॒शिषा॑ युनज्मि। अव्य॑थायै त्वा स्व॒धायै॒ त्वाऽरि॑ष्टो॒ अर्जु॑नो म॒रुतां॑ प्रस॒वेन॑ ज॒यापा॑म॒ मन॑सा॒ समि॑न्द्रि॒येण॑ ॥२१॥
मूलम् ...{Loading}...
इन्द्र॑स्य॒ वज्रो॑ऽसि मि॒त्रावरु॑णयोस्त्वा प्रशा॒स्त्रोः प्र॒शिषा॑ युनज्मि। अव्य॑थायै त्वा स्व॒धायै॒ त्वाऽरि॑ष्टो॒ अर्जु॑नो म॒रुतां॑ प्रस॒वेन॑ ज॒यापा॑म॒ मन॑सा॒ समि॑न्द्रि॒येण॑ ॥२१॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इन्द्र॑स्य। वज्रः॑। अ॒सि॒। मि॒त्रावरु॑णयोः। त्वा॒। प्र॒शा॒स्त्रो॑रिति॑ प्रऽशा॒स्त्रोः। प्र॒शिषेति॑ प्र॒ऽशिषा॑। यु॒न॒ज्मि॒। अव्य॑थाय। त्वा॒। स्व॒धायै॑। त्वा॒। अरि॒ष्टः॑। अर्जु॑नः। म॒रुता॑म्। प्र॒स॒वेनेति॑ प्रऽस॒वेन॑। ज॒य॒। आपा॑म। मन॑सा। सम्। इ॒न्द्रि॒येण॑। २१।
महीधरः
म० वाजपेयवद्रथमवहृत्य दक्षिणस्यां वेदिश्रोणौ युनक्ति पूर्ववन्मित्रावरुणयोरिति चतुर्भिरिति’ (का० १५। ६ । १५)। वाजपेये इव रथवाहणाद्रथमिन्द्रस्य वज्रोऽसीति मन्त्रेण भूमाववतार्य मित्रावरुणयोरिति मन्त्रेण चतुर्भिरश्वैर्वाजपेयवदेव युनक्ति । प्रत्यश्वं मन्त्रः इन्द्रस्य वज्रोऽसीत्येव मन्त्रो न वाजपेयसंबन्धी सर्वः । तावन्मात्रस्यैवात्र पाठात् । पूर्ववदिति धूर्गृहीतं दक्षिणश्रोणिदेशे वेद्यामानीय युनक्ति पूर्वं दक्षिणं तत उत्तरं ततो दक्षिणाप्रष्टिं ततः सव्याप्रष्टिम् । अनिर्देशात्त्रयाणां योजने प्राप्ते चतुर्भिरित्युक्तमिति सूत्रार्थः । रथदेवत्यम् । हे रथ, त्वमिन्द्रस्य वज्रोऽसि । युनक्ति । रथदेवत्यम् । प्रशास्त्रोः मित्रावरुणयोः देवयोः प्रशिषा प्रशासनेन हे रथ, त्वां युनज्मि योजयामि । ‘अव्यथायै त्वेति सुन्वन्नारोहतीति’ (का० १५ । ६।१७) यजमानश्चात्वालदेशस्थः रथमारोहति । रथदेवत्यम् । अरिष्टोऽनुपहिंसितः अर्जुनोऽर्जुनतुल्य इन्द्र इत्यर्थः । ‘अर्जुनो ह वै नामेन्द्रः’ (५ । ४ । ३ । ७) इति श्रुतेः । एवंभूतोऽहं हे रथ, त्वा त्वामव्यथायै । ‘व्यथ भयचलनयोः’ । अभयाय अचलनाय वा । स्वधायै अन्नरसाय च त्वामधितिष्ठामि । ‘मरुतामिति दक्षिणधुर्यं प्राजतीति’ (का० १५।६।१८)। यजमानेन सहारूढो यन्ता दक्षिणाश्वं कशया प्रेरयेत् । धुर्यदेवत्यम् । हे धुर्य, मरुतां देवानां प्रसवेनाज्ञया त्वं जय शत्रूनिति शेषः । ‘गवां मध्ये स्थापयत्यपामेति’ (का० १५ । ६ । १९)। पूर्वमेवाहवनीयोत्तरतः स्थापितानां गवां मध्ये तं रथं स्थापयेत् । यजमानदेवत्यम् । वयं मनसा सह अपाम प्राप्तवन्तो यदुपक्रान्तं तत्कर्म ‘धनुरार्त्न्योपस्पृशति गां यजमानः समिन्द्रियेणेति’ (का० १५ । ६ । २०) । धनुःकोट्या गां स्पृशेत् । यजमानदेवत्यम् । वयमिन्द्रियेण वीर्येण सङ्गताः स्मः ॥२१॥
द्वाविंशी।
अधिमन्त्रम् (VC)
- क्षत्रपतिर्देवता
- देववात ऋषिः
- भुरिग् ब्राह्मी बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर विद्वान् पुरुषों को क्या करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! जो आप (अरिष्टः) किसी के मारने में न आनेवाले (अर्जुनः) प्रशंसा के योग्य रूप से युक्त (इन्द्रस्य) परम ऐश्वर्य्यवाले का (वज्रः) शत्रुओं के लिये वज्र के समान (असि) हैं, जिस (त्वा) आपको (अव्यथायै) पीड़ा न होने के लिये (प्रशास्त्रोः) सब को शिक्षा देनेवाले (मित्रावरुणयोः) सभा और सेना के स्वामी की (प्रशिषा) शिक्षा से मैं (युनज्मि) समाहित करता हूँ (मरुताम्) ऋत्विज लोगों के (प्रसवेन) करने से (स्वधायै) अपनी चीज को धारण करना रूप राजनीति के लिये जिस (त्वा) आपका योगाभ्यास से चिन्तन करता हूँ, (मनसा) विचारशील मन (इन्द्रियेण) जीव से सेवन की हुई इन्द्रिय से जिस (त्वा) आपको हम लोग (समापाम) सम्यक् प्राप्त होते हैं, सो आप (जय) दुष्टों को जीत के निश्चिन्त उत्कृष्ट हूजिये ॥२१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्वानों को चाहिये कि राजा और प्रजापुरुषों को धर्म और अर्थ की सिद्धि के लिये सदा शिक्षा देवें, जिससे ये किसी को पीड़ा देने रूप राजनीति से विरुद्ध कर्म न करें। सब प्रकार बलवान् होके शत्रुओं को जीतें, जिससे कभी धन-सम्पत्ति की हानि न होवे ॥२१॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्विद्वद्भिः किं कर्त्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! यस्त्वमरिष्टोऽर्जुन इन्द्रस्य वज्रोऽसि, यं त्वाऽव्यथायै प्रशास्त्रोर्मित्रावरुणयोः प्रशिषाऽहं युनज्मि। मरुतां प्रसवेन स्वधायै यं त्वा युनज्मि। मनसेन्द्रियेण यं त्वा वयं समापाम, स त्वं जय दुष्टान् जित्वोत्कर्ष ॥२१॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - विद्वद्भी राजा प्रजापुरुषाश्च धर्मार्थं सदा प्रशासनीयाः। यत एते पीडां राजनीतिविरुद्धं कर्म नाचरेयुः। सर्वतः प्राप्तबलाः शत्रून् जयेयुः, येन कदाप्यैश्वर्य्यस्य हानिर्न स्यात् ॥२१॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - विद्वानांनी राजा व प्रजा यांना धर्म आणि अर्थ यांच्या प्राप्तीसाठी नेहमी शिक्षण द्यावे. त्यामुळे ते राजनीतीच्या विरुद्ध कुणालाही त्रास देण्याचे काम करणार नाहीत. सर्व प्रकारे बलवान बनून शत्रूंना जिंकावे त्यामुळे धनसंपत्तीचा अपव्यय होणार नाही.
२२ मा तऽइन्द्र
विश्वास-प्रस्तुतिः ...{Loading}...
मा त॑ऽइन्द्र ते व॒यं तु॑राषा॒डयु॑क्तासोऽअब्र॒ह्मता॒ विद॑साम। तिष्ठा॒ रथ॒मधि॒ यं व॑ज्रह॒स्ता र॒श्मीन् दे॑व यमसे॒ स्वश्वा॑न् ॥२२॥
मूलम् ...{Loading}...
मा त॑ऽइन्द्र ते व॒यं तु॑राषा॒डयु॑क्तासोऽअब्र॒ह्मता॒ विद॑साम। तिष्ठा॒ रथ॒मधि॒ यं व॑ज्रह॒स्ता र॒श्मीन् दे॑व यमसे॒ स्वश्वा॑न् ॥२२॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मा। ते॒। इ॒न्द्र॒। ते। व॒यम्। तु॒रा॒षा॒ट्। अयु॑क्तासः। अ॒ब्र॒ह्मता॑। वि। द॒सा॒म॒। तिष्ठ॑। रथ॑म्। अधि॑। यम्। व॒ज्र॒ह॒स्ते॒ति॑ वज्रऽहस्त। आ। र॒श्मीन्। दे॒व॒। य॒म॒से॒। स्वश्वा॒निति॑ सु॒ऽअश्वा॑न्। २२।
महीधरः
म० ‘तावद्भूयो वा गोस्वामिने दत्त्वा पूर्वेण यूपं परीत्यान्तःपात्यदेशे स्थापयति मा त इति’ (का० १५ । ६ । २२) । | स्थापितगवां पतये स्वभ्रात्रे तावत् शतमधिकं वान्यद्दत्त्वा यूपात् पूर्वदिशि परीत्यान्तःपात्यदेशे रथं स्थापयेत् । इन्द्रदेवत्या त्रिष्टुप् संवरणदृष्टा । हे वज्रहस्त, वज्रं हस्ते यस्य तत्संबुद्धिः हे देव दीप्यमान, त्वं यं रथमधितिष्ठ लडर्थे लोट् । अधितिष्ठसि । ‘द्व्यचोऽतस्तिङः’ (पा० ६ । ३ । १३५) इति दीर्घः । यस्य च रश्मीन्प्रग्रहानायमसे आयच्छसि । किंभूतान् रश्मीन् । स्वश्वान् शोभना अश्वा येषु तान् । हे तुराषाट् , तूर्णं सहते शत्रूनभिभवतीति तुराषाट् हे इन्द्र ऐश्वर्ययुक्त, ते त्वदीया वयं ते तव तस्मिन् रथे आयुक्ताः तस्माद्भिन्नाः सन्तो मा विदसाम ‘दसु उपक्षये विविधमुपक्षीणा मा भवाम । तत्र दृष्टान्तः । अब्रह्मतां लुप्तोपमानम् । अब्रह्मतेव ब्रह्म विज्ञानानन्दस्वभावमनश्वरम् तस्य भावो ब्रह्मता न ब्रह्मता अब्रह्मता यथा ब्रह्मभावादन्यद्वस्तु विदस्येदेवं वयं मा विदस्येमहीत्यर्थः ॥ २२॥
त्रयोविंशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- देववात ऋषिः
- विराड् आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
प्रजापुरुषों को राजा के साथ कैसे वर्तना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (देव) प्रकाशमान (इन्द्र) सभापति राजन् ! (वज्रहस्त) जिसके हाथों में वज्र के समान शस्त्र हो, उस आप के साथ (वयम्) हम राजप्रजापुरुष (ते) आप के सम्बन्ध में (अयुक्तासः) अधर्मकारी (मा) न होवें, (ते) आप की (अब्रह्मता) वेद तथा ईश्वर में निष्ठारहितता (मा) न हो और न (विदसाम) नष्ट करें। जो (तुराषाट्) शीघ्रकारी शत्रुओं को सहनेहारे आप जिन (रश्मीन्) घोड़े के लगाम की रस्सी और (स्वश्वान्) सुन्दर घोड़ों को (यमसे) नियम से रखते हैं और जिस (रथम्) रथ के ऊपर (अधितिष्ठ) बैठें, उन घोड़ों और उस रथ के हम लोग भी अधिष्ठाता होवें ॥२२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजा और प्रजा के पुरुषों को योग्य है कि राजा के साथ अयोग्य व्यवहार कभी न करें तथा राजा भी इन प्रजाजनों के साथ अन्याय न करे। वेद और ईश्वर की आज्ञा का सेवन करते हुए सब लोग एक सवारी एक बिछौने पर बैठें और एकसा व्यवहार करनेवाले होवें और कभी आलस्य प्रमाद से ईश्वर और वेदों की निन्दा वा नास्तिकता में न फंसें ॥२२॥
दयानन्द-सरस्वती (सं) - विषयः
प्रजाजनै राजप्रसङ्गे कथं वर्त्तितव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे देवेन्द्र राजन् ! वज्रहस्त वयं ते तव सम्बन्धेऽयुक्तासो मा भवाम, ते तवाब्रह्मता मास्तु, विदसाम यस्तुराषाट् त्वं यान् रश्मीन् स्वश्वान् यमसे यं रथमधितिष्ठ, ताँस्तं च वयमप्यधितिष्ठेम ॥२२॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - राजप्रजाजना राज्ञा सहायोग्यं व्यवहारं कदाचिन्न कुर्य्युः, राजा चैतै सहान्यायं न कुर्यात्। वेदेश्वराज्ञानुष्ठानाः सन्तः सर्वे समानयानासनव्यवहाराः स्युः। न कदाचिदालस्ये प्रमादे वेदेश्वरनिन्दामये नास्तिकत्वे वा वर्त्तेरन् ॥२२॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजा व प्रजा यांनी एकमेकांशी कधीही अयोग्य व्यवहार करता कामा नये. वेद व ईश्वराच्या आज्ञेनुसार सर्वांचे आसन व वाहन एक समान असावे. सर्वांचा एकमेकांशी व्यवहार सारखा असावा. आळसाने व प्रमादाने ईश्वर व वेद यांची कधीही निंदा करू नये किंवा नास्तिक बनू नये.
२३ अग्नये गृहपतये
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्नये॑ गृ॒हप॑तये॒ स्वाहा॒ सोमा॑य॒ वन॒स्पत॑ये॒ स्वाहा म॒रुता॒मोज॑से॒ स्वाहेन्द्र॑स्येन्द्रि॒याय॒ स्वाहा॑। पृथि॑वि मात॒र्मा मा॑ हिँसी॒र्मोऽअ॒हं त्वाम् ॥२३॥
मूलम् ...{Loading}...
अ॒ग्नये॑ गृ॒हप॑तये॒ स्वाहा॒ सोमा॑य॒ वन॒स्पत॑ये॒ स्वाहा म॒रुता॒मोज॑से॒ स्वाहेन्द्र॑स्येन्द्रि॒याय॒ स्वाहा॑। पृथि॑वि मात॒र्मा मा॑ हिँसी॒र्मोऽअ॒हं त्वाम् ॥२३॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒ग्नये॑। गृहप॑तय॒ इति॑ गृहऽप॑तये। स्वाहा॑। सोमा॑य। वन॒स्पत॑ये। स्वाहा॑। म॒रुता॑म्। ओज॑से। स्वाहा॑। इन्द्र॑स्य। इ॒न्द्रि॒याय॑। स्वाहा॑। पृथि॑वि। मा॒तः॒। मा। मा॒। हिँ॒सीः॒। मोऽइति॒ मो। अ॒हम्। त्वाम्। २३।
महीधरः
म० ‘अग्नये गृहपतय इति चत्वारि रथविमोचनीयानि जुहोति प्रतिमन्त्रमिति’ (का० १५। ६ । २३)। रथविमोचनीयसंज्ञाश्चतस्र आहुतीर्जुहोति । चत्वारि यजूंषि लिङ्गोक्तदेवत्यानि । गृहाश्रमपालकायाग्नये स्वाहा सुहुतमस्तु । वनस्पतिरूपिणे सोमाय हविर्दत्तमस्तु । इन्द्रस्येन्द्रसंबन्धिने इन्द्रियाय वीर्याय स्वाहा । मरुतां संबन्धिने ओजसे बलाय हविर्दत्तमस्तु । ‘भूमिमवेक्षते पृथिवि मातरिति’ ( का० १५। ६ । २४)। रथस्थ एव यजमानो भूमिं पश्येत् । भूमिदेवत्यम् । हे मातर्जगन्निर्मात्रि, हे पृथिवि भूमे, त्वं मा मां मा हिंसीः हिंसां मा कार्षीः । अहमपि त्वां पृथिवीं मो मा उ हिंसिषम् ॥२३॥
चतुर्विंशी।
अधिमन्त्रम् (VC)
- अग्न्यादयो मन्त्रोक्ता देवताः
- वामदेव ऋषिः
- जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
अब माता और पुत्र आपस में कैसे सम्वाद करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे प्रजा के मनुष्यो ! जैसे राजा और राजपुरुष हम लोग (गृहपतये) गृहाश्रम के स्वामी (अग्नये) धर्म और विज्ञान से युक्त पुरुष के लिये (स्वाहा) सत्यनीति (सोमाय) सोमलता आदि ओषधि और (वनस्पतये) वनों की रक्षा करनेहारे पीपल आदि के लिये (स्वाहा) वैद्यक शास्त्र के बोध से उत्पन्न हुई क्रिया (मरुताम्) प्राणों वा ऋत्विज लोगों के (ओजसे) बल के लिये (स्वाहा) योगाभ्यास और शान्ति की देने हारी वाणी और (इन्द्रस्य) जीव के (इन्द्रियाय) मन इन्द्रिय के लिये (स्वाहा) अच्छी शिक्षा से युक्त उपदेश का आचरण करते हैं, वैसे ही तुम लोग भी करो। हे (पृथिवि) भूमि के समान बहुत से शुभ लक्षणों से युक्त (मातः) मान्य करने हारी जननी ! तू (मा) मुझ को (मा) मत (हिंसीः) बुरी शिक्षा से दुःख दे और (त्वाम्) तुझ को (अहम्) मैं भी (मो) न दुःख देऊँ ॥२३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजा आदि राजपुरुषों को प्रजा के हित, प्रजापुरुषों को राजपुरुषों के सुख और सब की उन्नति के लिये परस्पर वर्त्तना चाहिये। माता को योग्य है कि बुरी शिक्षा और मूर्खता रूप अविद्या देकर सन्तानों की बुद्धि नष्ट न करे और सन्तानों को उचित है कि अपनी माता के साथ कभी द्वेष न करें ॥२३॥
दयानन्द-सरस्वती (सं) - विषयः
अथ माताऽपत्यानि परस्परं कीदृशं संवदेयुरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे प्रजाजनाः ! यथा राजजना वयं गृहपतयेऽग्नये स्वाहा सोमाय वनस्पतये स्वाहा मरुतामोजसे स्वाहेन्द्रस्येन्द्रियाय स्वाहा चरेम तथा यूयमप्याचरत। हे पृथिवि मातः ! त्वं मा मा हिंसीस्त्वामहं च मो हिंस्याम् ॥२३॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - राजादिराजजनैः प्रजाहिताय प्रजाजनैरेतेषां सुखाय सर्वस्योन्नतये च परस्परं वर्त्तितव्यम्। माता कुशिक्षयाऽविद्यादानेन स्वसन्तानान् नष्टबुद्धीन् कदाचिन्न कुर्य्यात्, सन्तानाश्च मातुरप्रियं नाचरेयुः ॥२३॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजा इत्यादींनी प्रजेच्या हितासाठी व प्रजेने राजाच्या सुखासाठी झटावे. परस्परांनी सर्वांच्या उन्नतीसाठी कार्य करावे. मातेने आपल्या पुत्रांना वाईट शिक्षण व अज्ञान वाढविणारी अविद्या शिकवून सन्तानाची बुद्धी नष्ट करू नये. तसेच सन्तानांनी आपल्या आईचा कधी द्वेष करू नये.
२४ हंसः शुचिषद्
विश्वास-प्रस्तुतिः ...{Loading}...
हँ॒सः शु॑चि॒षद् वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत्। नृ॒षद्व॑र॒सदृ॑त॒सद् व्यो॑म॒सद॒ब्जा गो॒जाऽऋ॑त॒जाऽअ॑द्रि॒जाऽऋ॒तं बृ॒हत् ॥२४॥
मूलम् ...{Loading}...
हँ॒सः शु॑चि॒षद् वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत्। नृ॒षद्व॑र॒सदृ॑त॒सद् व्यो॑म॒सद॒ब्जा गो॒जाऽऋ॑त॒जाऽअ॑द्रि॒जाऽऋ॒तं बृ॒हत् ॥२४॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
हँ॒सः। शु॒चि॒षत्। शु॒चि॒सदिति॑ शु॒चि॒ऽसत्। वसुः॑। अ॒न्त॒रि॒क्ष॒सदित्य॑न्तरिक्ष॒ऽसत्। होता॑। वे॒दि॒षत्। वे॒दि॒सदिति॑ वे॒दि॒ऽसत्। अति॑थिः। दु॒रो॒ण॒सदिति॑ दुरोण॒ऽसत्। नृ॒षत्। नृ॒सदिति॑ नृ॒ऽसत्। व॒र॒सदिति॑ वर॒ऽसत्। ऋ॒त॒सदित्यृ॑त॒ऽसत्। व्यो॒म॒सदिति॑ व्योम॒ऽसत्। अ॒ब्जा इत्य॒प्ऽजाः। गो॒जा इति॑ गो॒ऽजाः। ऋ॒त॒जा इत्यृ॑त॒ऽजाः। अ॒द्रि॒जा इत्य॑द्रि॒ऽजाः। ऋ॒तम्। बृ॒हत्। २४।
महीधरः
म० ‘अवरोहति हᳪं᳭सः शुचिषदिति’ (का० १५ । ६ । २५)। यजमानो रथादवरोहति । सप्रपञ्चपरब्रह्माभिधायिनी सूर्यदेवत्यातिजगती वामदेवदृष्टा । हन्त्यहंकारमिति हंसो भगवानादित्य एवंविधः त्वं प्रत्यवतरामीति वाक्यशेषः। किंभूतो हंसः । शुचिषत् शुचौ दीप्तौ सीदतीति शुचिषत् आदित्यरूपेण । तथा वसुर्वासयिता नराणां प्रवर्तकः। अन्तरिक्षे सीदतीत्यन्तरिक्षसत् वायुरूपेण । होता आह्वाता देवानाम् । वेदौ सीदतीति वेदिषत् अग्निरूपेण । अतिथिः सर्वेषां पूज्यः । दुरोणे यज्ञगृहे सीदतीति दुरोणसत् आहवनीयादिरूपेण । नृषु मनुष्येषु प्राणभावेन सीदतीति नृषत् । वरेषु उत्कृष्टेषु स्थानेषु सीदतीति वरसत् । ऋते यज्ञे सीदतीति ऋतसत् । व्योम्नि आकाशे मण्डलरूपेण सीदतीति व्योमसत् । एवं सर्वत्र स्थितत्वेन स्तुत्वा सर्वत्रोत्पत्तिद्वारेण स्तौति । यः अब्जाः अप्सु उदकेषु जायते मत्स्यादिरूपेणेत्यब्जाः । गवि पृथिव्यां जायते चतुर्विधभूतग्रामरूपेणेति गोजाः । ऋते सत्ये जायत इति ऋतजाः । अद्रौ पाषाणे अग्निरूपेण जायत इत्यद्रिजाः । अद्रिर्मेघो वा अद्रौ मेघे जलरूपेण जायत इति वा । ऋतम् ‘ऋ गतौ’ सर्वत्र गतम् । बृहत् महत्परिवृद्धमपर्यन्तं परब्रह्मरूपो यो हंसस्तं प्रति रथादवतरामीति भावः । यद्वा हंसशब्देन रथ उच्यते । हन्ति पृथिवीमिति हंसः रथः । बृहत् महत् प्रौढमृतं यज्ञं संपादयत्विति शेषः । किंभूतो हंसः । शुचिषत् शुचौ देवयजने
रथवाहने वा सीदतीति । वसुः स्वस्योपरि यजमानं वासयतीति । अन्तरिक्षसत् वृक्षगुल्माद्यनवरुद्धेऽन्तरिक्षे सीदतीति । होता होतृसमानः । तदेव कथमित्यत आह । वेदिषत् वेद्यां सीदतीति । अतिथिः अतिथिवत्पूज्यः । दुरोणसत् दुरोणे यज्ञगृहे सीदतीति । नृषत् नृषु वाहकत्वेन सीदतीति । वरसत् वरे श्रेष्ठे राजगृहे सीदतीति । ऋतसत् ऋते यज्ञे, वाजपेयादौ सीदतीति व्योमसत् । सूर्यं वोढुं व्योमन्याकाशे सीदतीति । अब्जाः ‘अप्सुयोनिर्वा अश्व’ इति श्रुतेरद्भ्यो जातैरश्वैरुपेतत्वादब्जाः । गोजाः गोशब्दवाच्याद्वज्राज्जायत इति गोजाः । ‘इन्द्रो वृत्राय वज्रं प्राहरत् स त्रेधा व्यभवत्तस्य स्फ्यस्तृतीयं रथस्तृतीयं यूपस्तृतीयम्’ इति तैत्तिरीयश्रुतेः । ऋतजाः ऋतं यज्ञमुद्दिश्य जातत्वादृतजाः । अद्रिजाः अद्रिभ्यः पाषाणसदृशकाष्ठेभ्यो जातत्वादद्रिजाः ॥ २४ ॥
पञ्चविंशी।
अधिमन्त्रम् (VC)
- सूर्यो देवता
- वामदेव ऋषिः
- भुरिग् आर्षी जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्य लोग ईश्वर की उपासनापूर्वक सबके लिये न्याय और अच्छी शिक्षा करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! आप लोगों को चाहिये कि जो परमेश्वर (हंसः) सब पदार्थों को स्थूल करता (शुचिषत्) पवित्र पदार्थों में स्थित (वसुः) निवास करता और कराता (अन्तरिक्षसत्) अवकाश में रहता (होता) सब पदार्थ देता ग्रहण करता और प्रलय करता (वेदिषत्) पृथिवी में व्यापक (अतिथिः) अभ्यागत के समान सत्कार करने योग्य (दुरोणसत्) घर में स्थित (नृषत्) मनुष्यों के भीतर रहता (वरसत्) उत्तम पदार्थों में वसता (ऋतसत्) सत्यप्रकृति आदि नामवाले कारण में स्थित (व्योमसत्) पोल में रहता (अब्जाः) जलों को प्रसिद्ध करता (गोजाः) पृथिवी आदि तत्त्वों को उत्पन्न करता (ऋतजाः) सत्यविद्याओं के पुस्तक वेदों को प्रसिद्ध करता (अद्रिजाः) मेघ, पर्वत और वृक्ष आदि को रचता (ऋतम्) सत्यस्वरूप और (बृहत्) सब से बड़ा अनन्त है, उसी की उपासना करो ॥२४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को उचित है कि सर्वत्र व्यापक और पदार्थों की शुद्धि करनेहारे ब्रह्म परमात्मा ही की उपासना करें, क्योंकि उस की उपासना के बिना किसी को धर्म्म, अर्थ, काम, मोक्ष से होनेवाला पूर्ण सुख कभी नहीं हो सकता ॥२४॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यैरीश्वरोपासनेन न्यायसुशिक्षे कार्य्ये इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्या ! भवन्तो यः परमेश्वरो हंसः शुचिषद् वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसन्नृषद् वरसदृतसद् व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहदस्ति तमेवोपासीरन् ॥२४॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैः सर्वव्यापकं पवित्रकरं ब्रह्मैवोपास्यमस्ति। न खल्वेतस्योपासनेन विना किञ्चिदपि पूर्णं धर्मार्थकाममोक्षजं सुखं भवितुं शक्यम् ॥२४॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी सर्वत्र व्यापक असलेल्या व पदार्थांना शुद्ध करणाऱ्या ब्रह्माची उपासना करावी, कारण त्याच्या उपासनेखेरीज कुणालाही धर्म, अर्थ, काम, मोक्ष यांचे पूर्ण सुख प्राप्त होऊ शकत नाही.
२५ इयदस्यायुरस्यायुर्मयि धेहि
विश्वास-प्रस्तुतिः ...{Loading}...
इय॑द॒स्यायु॑र॒स्यायु॒र्मयि॑ धेहि॒ युङ्ङ॑सि॒ वर्चो॑ऽसि॒ वर्चो॒ मयि॑ धे॒ह्यूर्ग॒स्यूर्जं॒ मयि॑ धेहि। इन्द्र॑स्य वां वीर्य॒कृतो॑ बा॒हूऽअ॑भ्यु॒पाव॑हरामि ॥२५॥
मूलम् ...{Loading}...
इय॑द॒स्यायु॑र॒स्यायु॒र्मयि॑ धेहि॒ युङ्ङ॑सि॒ वर्चो॑ऽसि॒ वर्चो॒ मयि॑ धे॒ह्यूर्ग॒स्यूर्जं॒ मयि॑ धेहि। इन्द्र॑स्य वां वीर्य॒कृतो॑ बा॒हूऽअ॑भ्यु॒पाव॑हरामि ॥२५॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इय॑त्। अ॒सि॒। आयुः॑। अ॒सि॒। आयुः॑। मयि॑। धे॒हि॒। युङ्। अ॒सि॒। वर्चः॑। अ॒सि॒। वर्चः॑। मयि॑। धे॒हि॒। ऊर्क्। अ॒सि॒। ऊर्ज॑म्। मयि॑। धे॒हि॒। इन्द्र॑स्य। वा॑म्। वी॒र्य॒कृत॒ इति वीर्य॒ऽकृतः॑। बा॒हू इति॑ बा॒हू। अ॒भ्यु॒पाव॑हरा॒मीत्य॑भिऽ उ॒पाव॑हरामि। २५।
महीधरः
म० ‘उपस्पृशति शतमानावियदसीति’ ( का० १५। ६ । । २९) । शालादक्षिणभागे स्थापितस्य रथवाहनस्य दक्षिणचक्रे बद्धौ शतमानौ शतरक्तिकानिर्मितौ सौवर्णौ मणी यजमानः स्पृशति । द्वादशाक्षरे यजुषी शतमानदेवत्ये । हे रुक्म, त्वमियदसि एतावत्परिमाणं शतरक्तिकापरिमितमसि । आयुरसि जीवनमसि तस्मादायुः शताब्दपरिमितं मयि धेहि । यो हि यदात्मकः स तद्दातुमुत्सहते । यतस्त्वं शतमानमसि ततः शताब्दपरिमितमायुर्मयि रोपय । युङ्ङसि युनक्ति यज्ञं संभारनिचयेन दक्षिणादानेन वेति युङ् वर्चस्तेजस्वी भवसि । अतो मे मम वर्चः तेजो धेहि । ‘तौ ब्रह्मणे दत्त्वोर्गसीति शाखामुपस्पृशतीति’ ( का० १५। ६ । ३० )। तौ शतमानौ ब्रह्मणे दत्त्वा पूर्वोक्तरथवाहने एवोपगूहितारमौदुम्बरीं शाखामुपस्पृशेत् । शाखादेवत्यम् । हे औदुम्बरि शाखे, त्वमूर्गसि अन्नरूपा भवसि । तत ऊर्जमन्नं मयि धेहि स्थापय । ‘इन्द्रस्य वामित्यवहरते बाहू पयस्यायां व्याघ्रचर्मदेशे स्थितायामिति’ (का० १५। ६ । २१) । अध्वर्युयजमानबाहू व्याघ्रचर्मस्थापितायां मैत्रावरुण्यां पयस्यायां नीचौ करोति । बाहुदेवत्यम् । वीर्यकृतो वीर्यकारिणः इन्द्रस्य परमैश्वर्ययुक्तस्य यजमानस्य संबन्धिनौ हे बाहू, अहं वां युवामुपावहरामि मैत्रावरुणीपयस्यां प्रति नीचौ करोमि ॥ २५ ॥
षड्विंशी ।
अधिमन्त्रम् (VC)
- सूर्यो देवता
- वामदेव ऋषिः
- आर्षी जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्य ईश्वर की उपासना क्यों करे, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे परमेश्वर ! आप (इयत्) इतना (आयुः) जीवन (मयि) मुझ में (धेहि) धरिये, जिससे आप (युङ्) सब को समाधि करानेवाले (असि) हैं, (वर्चः) स्वयं प्रकाशस्वरूप (असि) हैं, इस कारण (वर्चः) योगाभ्यास से प्रकट हुए तेज को (मयि) मुझ में (धेहि) धरिये। आप (ऊर्क्) अत्यन्त बलवान् (असि) हैं, इसलिये (ऊर्जम्) बल पराक्रम को (मयि) मेरे में (धेहि) धारण कीजिये। हे राज और प्रजा के पुरुषो ! (वीर्य्यकृतः) बल-पराक्रम को बढ़ानेहारे (इन्द्रस्य) ऐश्वर्य्य और परमात्मा के आश्रय से (वाम्) तुम राजप्रजाओं के (बाहू) बल और पराक्रम को (अभ्युपावहरामि) सब प्रकार तुम्हारे समीप में स्थापन करता हूँ ॥२५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य अपने हृदय में ईश्वर की उपासना करते हैं, वे सुन्दर जीवन आदि के सुखों को भोगते हैं और कोई भी पुरुष ईश्वर के आश्रय के विना पूर्ण बल और पराक्रम को प्राप्त नहीं हो सकता ॥२५॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यैः किमर्थं ब्रह्मोपासनीयमित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे ब्रह्मन् ! त्वमायुरसीयदायुर्मयि धेहि। त्वं युङ्ङसि वर्चोऽसि योगजं वर्चो मयि धेहि। त्वमूर्गस्यूर्जं मयि धेहि। हे राजप्रजाजनौ ! वीर्य्यकृत इन्द्रस्येश्वरस्याश्रयेण वां युवयोर्बाहू बलवीर्य्ये अहमभ्युपावहरामि ॥२५॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - य आत्मस्थं ब्रह्मोपासते ते शोभनं जीवनादिकमश्नुवते। नहि केनचिदीश्वरस्याश्रयमन्तरा पूर्णो बलपराक्रमौ लभ्येते ॥२५॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे अन्तःकरणात ईश्वराचे ध्यान (उपासना) करतात त्यांचे जीवन सुंदर व सुखमय असते. कोणताही माणूस ईश्वराच्या आश्रयाखेरीज पूर्ण बलवान व पराक्रमी बनू शकत नाही.
२६ स्योनासि सुषदासि
विश्वास-प्रस्तुतिः ...{Loading}...
स्यो॒नासि॑ सु॒षदा॑सि क्ष॒त्रस्य॒ योनि॑रसि। स्यो॒नामासी॑द सु॒षदा॒मासी॑द क्ष॒त्रस्य॒ योनि॒मासी॑द ॥२६॥
मूलम् ...{Loading}...
स्यो॒नासि॑ सु॒षदा॑सि क्ष॒त्रस्य॒ योनि॑रसि। स्यो॒नामासी॑द सु॒षदा॒मासी॑द क्ष॒त्रस्य॒ योनि॒मासी॑द ॥२६॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स्यो॒ना। अ॒सि॒। सु॒षदा॑। सु॒सदेति॑ सु॒ऽसदा॑। अ॒सि॒। क्ष॒त्रस्य॑। योनिः॑। अ॒सि॒। स्यो॒नाम्। आ। सी॒द॒। सु॒षदा॑म्। सु॒सदा॒मिति॑ सु॒ऽसदा॑म्। आ। सी॒द॒। क्ष॒त्रस्य॑। योनि॑म्। आ। सी॒द॒। २६।
महीधरः
म० ‘प्राक् स्विष्टकृतः खादिरीमासन्दीं रज्जुं तां व्याघ्रचर्मदेशे निदधाति स्योनासीति’ (का० १५। ६ । ३३-७)। पयस्यायाः स्विष्टकृद्धोमात्प्राक् रज्जुभिर्व्यूतां खादिरीमञ्चिकां व्याघ्रचर्मदेशे मैत्रावरुणधिष्ण्यस्य पुरो निदधाति । आसन्दीदेवत्यम् । हे आसन्दि, त्वं स्योना सुखरूपासि सुखकरी भवसि । सुषदासि सुखेन सीदन्ति यस्यां सा सुषदा सुखेनोपवेष्टुं योग्यासि । ‘अधीवासमस्यामास्तृणाति क्षत्रस्य योनिरिति’ ( का० १५ । ७ । २) । आसन्द्यां वस्त्रमाच्छादयति । अधीवासदैवतम् । हे अधीवास, त्वं क्षत्रस्य क्षत्रियस्य योनिर्मातृवद्धारकत्वेन कारणमसि । ‘सुन्वन्तमस्यामुपवेशयति स्योनामासीदेति’ ( का० १५ । ७ । ३ ) । आसन्द्यां यजमानं स्थापयेत् । यजमानदेवत्यम् हे यजमान, स्योनां सुखकरीमासन्दीमासीद आरोह । सुषदां सुखोपवेशनयोग्यामासीद ।क्षत्रस्य योनिं स्थानमासन्दीमासीद ॥ २६ ॥
सप्तविंशी।
अधिमन्त्रम् (VC)
- आसन्दी राजपत्नी देवता
- शुनःशेप ऋषिः
- भुरिग् अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
स्त्रियों का न्याय, विद्या और उनको शिक्षा स्त्री लोग ही करें और पुरुषों के लिये पुरुष, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राणी ! जिसलिये आप (स्योना) सुखरूप (असि) हैं, (सुषदा) सुन्दर व्यवहार करनेवाली (असि) हैं, (क्षत्रस्य) राज्य के न्याय के (योनिः) करनेवाली (असि) हैं, इसलिये आप (स्योनाम्) सुखकारक अच्छी शिक्षा में (आसीद) तत्पर हूजिये, (सुषदाम्) अच्छे सुख देनेहारी विद्या को (आसीद) अच्छे प्रकार प्राप्त कीजिये तथा कराइये और (क्षत्रस्य) क्षत्रिय कुल की (योनिम्) राजनीति को (आसीद) सब स्त्रियों को जनाइये ॥२६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजाओं की स्त्रियों को चाहिये कि सब स्त्रियों के लिये न्याय और अच्छी शिक्षा देवें और स्त्रियों का न्यायादि पुरुष न करें, क्योंकि पुरुषों के सामने स्त्री लज्जित और भययुक्त होकर यथावत् बोल वा पढ़ ही नहीं सकती ॥२६॥
दयानन्द-सरस्वती (सं) - विषयः
स्त्रीणां न्यायो विद्यासुशिक्षे च स्त्रीभिरेव कार्य्ये नराणां नरैश्चेत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे राज्ञि ! यतस्त्वं स्योनासि सुषदासि क्षत्रस्य योनिं राजनीतिमासीद ॥२६॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - राजपत्नी सर्वासां स्त्रीणां न्यायसुशिक्षे च सदैव कुर्य्यात्। नैतासामेते पुरुषैः कारयितव्ये। कुतः? पुरुषाणां समीपे स्त्रियो लज्जिता भीताश्च भूत्वा यथावद् वक्तुमध्येतुं च न शक्नुवन्त्यतः ॥२६॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजस्त्रियांनी सर्व स्त्रियांना चांगले शिक्षण द्यावे. त्यांना न्याय द्यावा, स्त्रियांचा न्याय पुरुषांनी करू नये, कारण स्त्री पुरुषासमोर लज्जित व भयभीत होऊ शकते. ती योग्य प्रकारे त्यांच्यासमोर बोलू किंवा वाचू शकत नाही.
२७ निषसाद धृतव्रतो
विश्वास-प्रस्तुतिः ...{Loading}...
निष॑साद धृ॒तव्र॑तो॒ वरु॑णः प॒स्त्या᳙स्वा। साम्रा॑ज्याय सु॒क्रतुः॑ ॥२७॥
मूलम् ...{Loading}...
निष॑साद धृ॒तव्र॑तो॒ वरु॑णः प॒स्त्या᳙स्वा। साम्रा॑ज्याय सु॒क्रतुः॑ ॥२७॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नि॒। स॒सा॒द॒। धृ॒तव्र॑त॒ इति॑ धृ॒तऽव्र॑तः। वरु॑णः। प॒रत्या᳖सु। आ। साम्रा॑ज्या॒येति॑ साम्ऽरा॑ज्याय। सु॒क्रतु॒रि॒ति॑ सु॒ऽक्रतुः॑। २७।
महीधरः
म० ‘निषसादेत्युरोऽस्यालभत इति’ (का० १७ । ४ । ७) । अध्वर्युर्यजमानहृदयं स्पृशति । वरुणदेवत्या गायत्री शुनःशेपदृष्टा अष्टषट्सप्तवर्णपादत्वाद्वर्धमाना गायत्री । असौ यजमानः पस्त्यासु विक्षु प्रजासु आ निषसाद । ‘विशो वै पस्त्याः ’ (५। ४ । ४ । ५) इति श्रुतेः। आधिपत्येनोपविवेश। यदासन्द्यां निषण्णः स प्रजास्वेव निषण्ण इत्यर्थः । ‘व्यवहिताश्च’ (पा० १ । ४ । ८२) इति आङ उपसर्गस्य क्रियापदेन व्यवस्थानम् । किंभूतो यजमानः । धृतव्रतः धृतं व्रतं यज्ञलक्षणं कर्म येन स्वीकृतयज्ञः । वरुणः वारयत्यनिष्टमिति वरुणः । तथा सुक्रतुः शोभनसंकल्पः शोभनप्रज्ञो वा । किमर्थं निषसाद । साम्राज्याय सम्राजो भावः साम्राज्यम् । ‘सम्राड्भावाय राज्याय’ (५। ४ । ४ । ५) इति श्रुतेः ॥ २७ ॥
अष्टाविंशी।
अधिमन्त्रम् (VC)
- वरुणो देवता
- शुनःशेप ऋषिः
- पिपीलिकामध्या विराड् गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
राजा के समान राणी भी राजधर्म का आचरण करे, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राणी ! जैसे आपका (धृतव्रतः) सत्य का आचरण और ब्रह्मचर्य आदि व्रतों का धारण करनेहारा (सुक्रतुः) सुन्दर बुद्धि वा क्रिया से युक्त (वरुणः) उत्तमपति (साम्राज्याय) चक्रवर्त्ती राज्य होने और उसके काम करने के लिये (पस्त्यासु) न्यायघरों में (आ) निरन्तर (नि) नित्य ही (ससाद) बैठ के न्याय करे, वैसे तू भी न्यायकारिणी हो ॥२७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे चक्रवर्त्ती राजा चक्रवर्त्ती राज्य की रक्षा के लिये न्याय की गद्दी पर बैठ के पुरुषों का ठीक-ठीक न्याय करे, वैसे ही नित्यप्रति राणी स्त्रियों का न्याय करे। इससे क्या आया कि जैसा नीति, विद्या और धर्म से युक्त पति हो, वैसी ही स्त्री को भी होना चाहिये ॥२७॥
दयानन्द-सरस्वती (सं) - विषयः
राजवद् राजपत्नयोऽपि राजधर्ममाचरेयुरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे राज्ञि ! यथा तव धृतव्रतः सुक्रतुर्वरुणः पतिः साम्राज्याय पस्त्यास्वा निषसाद तथा तत्र त्वमपि न्यायं कुरु ॥२७॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यथा सम्राट् साम्राज्यं पालितुं न्यायासने स्थित्वा पुरुषाणां सत्यं न्यायं कुर्य्यात् तथा राजपत्नी स्त्रीणां नित्यं न्यायं कुर्य्यात्। अतः किमागतं यादृशो नीतिविद्याधर्मयुक्तः स्वामी पुरुषाणां न्यायं कुर्य्यात् तादृश्येव तत्स्त्रिया भवितव्यमिति ॥२७॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्याप्रमाणे चक्रवर्ती राजा आपल्या साम्राज्यरक्षणासाठी न्यायाधीशाच्या गादीवर बसून पुरुषांचा योग्य न्याय करतो. त्याप्रमाणेच राणीनेही सदैव स्त्रियांचा न्याय करावा. यावरून हा निष्कर्ष काढता येतो की पती जसा विद्या व धर्मनीतीचा अवलंब करतो तसाच स्त्रीने (पत्नीनेही) करावा.
२८ अभिभूरस्येतास्ते पञ्च
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒भि॒भूर॑स्ये॒तास्ते॒ पञ्च॒ दिशः॑ कल्पन्तां॒ ब्रह्मँ॒स्त्वं ब्र॒ह्मासि॑ सवि॒तासि॑ स॒त्यप्र॑सवो॒ वरु॑णो॑ऽसि स॒त्यौजा॒ऽइन्द्रो॑ऽसि॒ विशौ॑जा रु॒द्रो᳖ऽसि सु॒शेवः॑। बहु॑कार॒ श्रेय॑स्कर॒ भूय॑स्क॒रेन्द्र॑स्य॒ वज्रो॑ऽसि॒ तेन॑ मे रध्य ॥२८॥
मूलम् ...{Loading}...
अ॒भि॒भूर॑स्ये॒तास्ते॒ पञ्च॒ दिशः॑ कल्पन्तां॒ ब्रह्मँ॒स्त्वं ब्र॒ह्मासि॑ सवि॒तासि॑ स॒त्यप्र॑सवो॒ वरु॑णो॑ऽसि स॒त्यौजा॒ऽइन्द्रो॑ऽसि॒ विशौ॑जा रु॒द्रो᳖ऽसि सु॒शेवः॑। बहु॑कार॒ श्रेय॑स्कर॒ भूय॑स्क॒रेन्द्र॑स्य॒ वज्रो॑ऽसि॒ तेन॑ मे रध्य ॥२८॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒भि॒भुरित्य॑भि॒ऽभूः। अ॒सि॒। ए॒ताः। ते। पञ्च॒। दि॒शः॑। क॒ल्प॒न्ता॒म्। ब्रह्म॑न्। त्वम्। ब्र॒ह्मा। अ॒सि॒। स॒वि॒ता। अ॒सि॒। स॒त्य॑प्रसव॒ इति॑ स॒त्यऽप्र॑सवः। वरु॑णः। अ॒सि॒। स॒त्यौजा॒ इति॑ स॒त्यऽओ॑जाः। इन्द्रः॑। अ॒सि॒। विशौ॑जाः। रु॒द्रः। अ॒सि॒। सु॒शेव॒ इति॑ सु॒ऽशेवः॑। बहु॑का॒रेति॒ बहु॑ऽकार। श्रेय॑स्कर। श्रेयः॑क॒रेति॒ श्रेयः॑ऽकर। भूय॑स्कर। भूयः॑क॒रेति॒ भूयः॑ऽकर। इन्द्र॑स्य। वज्रः॑। अ॒सि॒। तेन॑। मे॒। र॒ध्य॒। २८।
महीधरः
म० ‘अभिभूरित्यस्मै पञ्चाक्षान्पाणावाधायेति’ (का० १५॥ ७।५)। यजमानहस्ते द्यूतसाधनभूतान् पञ्चाक्षान् सौवर्णकपर्दान्निदध्यात् । अक्षा यजमानो वा देवता । चतुर्णामक्षाणां कृतसंज्ञा पञ्चमस्य कलिरिति । यदा पञ्चाप्यक्षा एकरूपाः पतन्ति उत्ताना अवाञ्चो वा तदा देवितुर्जयः । तत्र कलिः सर्वानक्षानमिभवति तं प्रत्युच्यते, तत्संबन्धेन यजमानं प्रति वा । हे अक्ष, यद्वा हे यजमान, त्वमभिभूरसि अभिभविता अभितो व्याप्तोसि । एताः कपर्दिकोपलक्षिताः पञ्च दिशः पूर्वादयश्चतस्र ऊर्ध्वा चेति पञ्च दिशः ते त्वदर्थं कल्पन्तां त्वत्प्रयोजनसमर्था भवन्तु । कले: सर्वाक्षाभिभावकत्वात्सुन्वतोऽपि जयापेक्षित्वात् पञ्चाक्षव्यापकत्वमिति भावः । ‘वरं वृत्वा ब्रह्मन्नित्यामन्त्रयते पञ्चकृत्वः प्रत्याह व्यत्यासᳪं᳭ सविता वरुण इन्द्रो रुद्र इति त्वं ब्रह्मासीत्यादिभिरादिनैवान्त्यमिति’ (का० १५ । ७ । ७ । ९) यजमानो राज्यं मेऽस्वित्यादि द्रव्यं संप्रार्थ्य पञ्चवारं ब्रह्मन्निति मन्त्रेण ब्रह्माणमामन्त्रयते । एवमामन्त्रितो ब्रह्मा त्वं ब्रह्मासीत्यादिभिः सवितासि वरुणोऽसि इन्द्रोऽसि रुद्रोऽसीत्येतैर्मन्त्रैर्व्यत्यासं यजमानं प्रत्याह । तेन चतुर्णामपि मन्त्राणामादौ त्वं ब्रह्मासीति प्रयोगः । व्यत्यासमित्यादौ यजमानो ब्रह्मन्नित्यामन्त्रयते । ब्रह्मा त्वं ब्रह्मासि सवितासि सत्यप्रसव इति प्रत्याह । पुनर्यजमानो ब्रह्मन्निति ब्रह्माणमामन्त्रयते । ब्रह्मा त्वं ब्रह्मासि वरुणोऽसि सत्यौजा इति प्रत्याह । पुनर्यजमानो ब्रह्मन्निति ब्रह्माणमामन्त्रयते ब्रह्मा त्वं ब्रह्मासि इन्द्रोऽसि विशौजा इत्याह । पुनर्यजमानो ब्रह्मन्निति ब्रह्माणमामन्त्रयते । ब्रह्मा वं ब्रह्मासि रुद्रोऽसि सुशेव इत्याह । अन्त्यं च पञ्चमं प्रतिवचनमादिनैव त्वं ब्रह्मासीत्येतावतैव कार्यं ब्रह्मणेति सूत्रार्थः । ब्रह्मन् ब्रह्मदेवत्यम् । यजमानः प्रथमं ब्रह्माणमामन्त्रयते । हे ब्रह्मन् , ऋत्विक् , त्वामामन्त्रय इति शेषः । त्वं ब्रह्मासि । पञ्च यजूंषि यजमानदेवत्यानि । ब्रह्मामन्त्रितो यजमानं प्रत्याह हे यजमान, त्वं ब्रह्मासि महान् भवसि सविता प्रेरकश्चासि । सत्यप्रसवः सत्यः प्रसवोऽनुज्ञा यस्य । द्वितीयं प्रत्याह त्वं ब्रह्मासि वरुणोऽनिष्टनिवारकोऽसि । सत्यौजाः सत्यमोजो यस्य अमोघवीर्योऽसि सत्ये वा ओजो यस्य । तृतीयं प्रत्याह त्वं ब्रह्मासि इन्द्रोऽसि ऐश्वर्यवानसि विशौजाः विक्षु प्रजास्वोजस्तेजो यस्य विडोजा इति प्राप्ते विशौजा इति छान्दसम् । अतएव पदकारो नावग्रहं चकार । चतुर्थं प्रत्याह । त्वं ब्रह्मासि रुद्रोऽसि हे राजन्, त्वं रुद्ररूपोऽसि शत्रूणां रोदनाद्द्रावणाच्च । सुशेवः शेव इति सुखनाम । शोभनं शेवः सुखं यस्मात् शोभनं सुखयिता । त्वं ब्रह्मासीत्येतावदेव पञ्चमं प्रतिवचनम् । ‘बहुकारेति च ह्वयत्येवंनामानमिति’ (का० १५ । ७।१०) । यजमानं बहुकारेत्यादिसुमङ्गलनामानं नरमाकारयति । लिङ्गोक्तदैवतम् । हे बहुकार, बहु कार्यं करोतीति बहुकारः श्रेयः करोतीति श्रेयस्करः भूयो बहुतरं करोतीति भूयस्करः तेषां संबोधनानि हे बहुकारेत्यादि । कल्याणनामन् , त्वामाह्वय इति शेषः । ‘स्फ्यमस्मै प्रयच्छति पुरोहितोऽध्वर्युर्वेन्द्रस्य वज्र इति’ (का. १५ । ७ । ११)। अस्मै यजमानाय स्फ्यं ददाति द्यूतभूमिकरणाय । स्फ्यदेवत्यम् । हे स्फ्य, इन्द्रस्य वज्रस्त्वमसि । ‘इन्द्रो ह यत्र वृत्राय वज्रं प्रजहार’ इत्यादि ‘तस्य स्फ्यस्तृतीयम्’ (१।२ । ४ । १) इति श्रुतेः । तेन हेतुना मे मम यजमानं रध्य । रध्यतिर्वशगमने । वशवर्तिनं कुरु । ‘यो वै राजा ब्राह्मणादबलीयानमित्रेभ्यो वै स बलीयान्भवति’ (५ । ४ । ४ । १५) इति श्रुतेः । यद्वा तेन मे रध्य यस्मात्त्वं वज्ररूपस्तेन कारणेन मम रध्य द्यूतभूमौ परिलेखनरूपं कार्यं साधय ॥ २८ ॥
एकोनत्रिंशी।
अधिमन्त्रम् (VC)
- यजमानो देवता
- शुनःशेप ऋषिः
- विराड् धृतिः
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह राजा कैसा होके किसके लिये क्या करे, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (बहुकार) बहुत सुखों (श्रेयस्कर) कल्याण और (भूयस्कर) बार-बार अनुष्ठान करनेवाले (ब्रह्मन्) आत्मविद्या को प्राप्त हुए जैसे जिस (ते) आपके (एताः) ये (पञ्च) पूर्व आदि चार और ऊपर नीचे एक पाँच (दिशः) दिशा सामर्थ्ययुक्त हों, वैसे मेरे लिये आपकी पत्नी की कीर्ति से भी (कल्पन्ताम्) सुखयुक्त होवें। जैसे आप (अभिभूः) दुष्टों का तिरस्कार करनेवाले (असि) हैं, (सविता) ऐश्वर्य के उत्पन्न करनेहारे (असि) हैं, (सत्यप्रसवः) सत्य कर्म के साथ ऐश्वर्य है जिसका ऐसे (वरुणः) उत्तम स्वभाववाले (असि) हैं (सत्यौजाः) सत्य बल से युक्त (इन्द्रः) सुखों के धारण करनेहारे (असि) हैं (विशौजाः) प्रजाओं की बीच पराक्रमवाले (सुशेवः) सुन्दर सुखयुक्त (रुद्रः) शत्रु और दुष्टों को रुलानेवाले (असि) हैं, (इन्द्रस्य) ऐश्वर्य के (वज्रः) प्राप्त करनेहारे (असि) हैं, वैसे मैं भी होऊँ, जैसे मैं आप के वास्ते ऋद्धि-सिद्धि करूँ, वैसे (तेन) उससे (मे) मेरे लिये (रध्य) कार्य्य करने का सामर्थ्य कीजिये ॥२८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सब मनुष्यों को चाहिये कि जैसा पुरुष सब दिशाओं में कीर्तियुक्त, वेदों को जानने, धनुर्वेद और अर्थवेद की विद्या में प्रवीण, सत्य करने और सब को सुख देनेवाला, धर्मात्मा पुरुष होवे, उसकी स्त्री भी वैसे ही होवे। उनको राजधर्म में स्थापन करके बहुत सुख और बहुत सी शोभा को प्राप्त हों ॥२८॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स राजा कीदृशो भूत्वा कस्मै किं कुर्य्यादित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे बहुकार श्रेयस्कर भूयस्कर ब्रह्मन् ! यथा यस्य ते तवैताः पञ्च दिशः कल्पेरन्, तथा मम भवत्पत्न्याः कल्पन्ताम्। यथा त्वमभिभूरसि सवितासि सत्यप्रसवो वरुणोऽसि सत्यौजा इन्द्रोऽसि विशौजाः सुशेवो रुद्रोऽसीन्द्रस्य वज्रोऽसि, तथाऽहमपि भवेयम्, यथा येन तुभ्यमृद्धिसिद्धी कुर्याम्, तथा त्वं तेन मे रध्य ॥२८॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा पुरुषः सर्वदिक्सुकीर्तिर्वेदविद् प्रवीणः सत्यकारी सर्वस्य सुखप्रदो धार्मिको जनो भवेत् तथा तत् पत्नी स्यात्, ते राजधर्मे स्वीकृत्यास्माद् बहुसुखं बहुश्रियं च प्राप्नुवन्तु ॥२८॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्याप्रमाणे पुरुषाने दिगदिगंतरी, कीर्तिमान, वेदज्ञात, धनुर्वेद व अर्थवेद प्रवीण, सत्यवादी, सुखकारक व धर्मात्मा बनले पाहिजे त्याचप्रमाणे त्याच्या स्त्रीनेही तसेच बनले पाहिजे. सर्व माणसांनी अशा स्त्री-पुरुषांना राज्यावर बसवून सुखप्राप्ती करून घ्यावी.
२९ अग्निः पृथुर्धर्मणस्पतिर्जुषाणोऽअग्निः
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्निः पृ॒थुर्धर्म॑ण॒स्पति॑र्जुषा॒णोऽअ॒ग्निः पृ॒थुर्धर्म॑ण॒स्पति॒राज्य॑स्य वेतु॒ स्वाहा॒। स्वाहा॑कृताः॒ सूर्य॑स्य र॒श्मिभि॑र्यतध्वँ सजा॒तानां॑ मध्य॒मेष्ठ्या॑य ॥२९॥
मूलम् ...{Loading}...
अ॒ग्निः पृ॒थुर्धर्म॑ण॒स्पति॑र्जुषा॒णोऽअ॒ग्निः पृ॒थुर्धर्म॑ण॒स्पति॒राज्य॑स्य वेतु॒ स्वाहा॒। स्वाहा॑कृताः॒ सूर्य॑स्य र॒श्मिभि॑र्यतध्वँ सजा॒तानां॑ मध्य॒मेष्ठ्या॑य ॥२९॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒ग्निः। पृ॒थुः। धर्म॑णः। पतिः॑। जु॒षा॒णः। अ॒ग्निः। पृ॒थुः। धर्म॑णः। पतिः॑। आज्य॑स्य। वे॒तु॒। स्वाहा॑। स्वाहा॑कृता॒ इति॒ स्वाहा॑ऽकृताः। सूर्य॑स्य। र॒श्मिभि॒रिति॑ र॒श्मिऽभिः॑। य॒त॒ध्व॒म्। स॒जा॒ताना॒मिति॑ सऽजा॒ताना॑म्। म॒ध्य॒मेष्ठ्या॑य। म॒ध्यमेस्थ्या॒येति॑ मध्य॒मेऽस्थ्या॑य। २९।
महीधरः
म० ‘द्यूतभूमौ हिरण्यं निधायाभिजुहोति चतुर्गृहीतेनाग्निः पृथुरिति’ ( १५। ७ । १६ ) । एवं कृतायां द्यूतभूमौ कनकं निधाय तदुपरि चतुर्गृहीताज्यं जुहुयात् । अग्निदेवत्यम् । अग्निः आज्यस्य वेतु । कर्मणि षष्ठी । घृतं पिबतु स्वाहा सुहुतमस्तु । किंभूतोऽग्निः । पृथुः देवानां प्रथमत्वाद्विशालः । तथा धर्मणस्पतिः धारणं धर्म जगतो धारणस्य धर्मस्य वा स्वामी। जुषाणः प्रीयमाणः हूयमानं हविः सेवमानो वा । अग्निः पृथुर्धर्मणस्पतिरिति पुनःपाठ आदरार्थः । ‘अक्षान्निवपति स्वाहाकृता इति’ ( का० १५। ७ । १६ ) । पूर्वोक्तपञ्चाक्षान्द्यूतभूमौ क्षिपति । अक्षदेवत्यम् । हे अक्षाः, यूयं स्वाहाकृताः स्वाहाकारपूर्विकयाहुत्या तर्पिताः सन्तः सूर्यस्य रश्मिभिः किरणैर्यतध्वं स्पर्धां कुरुत । सजातानां समानजन्मनां भ्रातॄणां क्षत्रियाणां मध्यमेष्ठ्याय मध्यमप्रदेशे यजमानावस्थानाय च यतध्वं यत्नं कुरुत । यजमानं सर्वक्षत्रियश्रेष्ठं कुरुतेत्यर्थः । मध्ये भवो मध्यमः मध्यमे प्रदेशे तिष्ठतीति मध्यमेष्ठः तस्य भावो मध्यमेष्ठ्यं तस्मै ॥ २९ ॥
त्रिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- शुनःशेप ऋषिः
- भुरिग् ब्राह्मी त्रिष्टुप्
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर राजा और प्रजा के जन किस के समान क्या करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् वा राजपत्नि ! जैसे (पृथुः) महापुरुषार्थयुक्त धर्म का (पतिः) रक्षक (जुषाणः) सेवक (अग्निः) बिजुली के समान व्यापक (सजातानाम्) उत्पन्न पदार्थों के रक्षक के साथ वर्त्तमान पदार्थों के (मध्यमेष्ठ्याय) मध्य में स्थित होके (स्वाहा) सत्य क्रिया से (आज्यस्य) घृत आदि होम के पदार्थों को प्राप्त करता हुआ (सूर्य्यस्य) सूर्य्य की (रश्मिभिः) किरणों के साथ होम किये पदार्थों को फैला के सुख देता है, वैसे (धर्मणः) न्याय के (पतिः) रक्षक (पृथुः) बड़े (जुषाणः) सेवा करनेवाला (अग्निः) तेजस्वी आप राज्य को (वेतु) प्राप्त हूजिये। वैसे ही हे (स्वाहाकृताः) सत्य काम करनेवाले सभासद् पुरुषों वा स्त्री लोगो ! तुम भी (यतध्वम्) प्रयत्न किया करो ॥२९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे राज और प्रजा के पुरुषो तथा राणी वा राणी के सभासदो ! तुम लोग सूर्य्य और प्रसिद्ध विद्युत् अग्नि के समान वर्त्त, पक्षपात छोड़, एक जन्म में मध्यस्थ हो के न्याय करो। वैसे यह अग्नि सूर्य्य के प्रकाश में और वायु में सुगन्धियुक्त द्रव्यों को प्राप्त करा, वायु जल और ओषधियों की शुद्धि द्वारा सब प्राणियों को सुख देता है, वैसे ही न्याययुक्त कर्मों के साथ आचरण करनेवाले होके सब प्रजाओं को सुखयुक्त करो ॥२९॥
दयानन्द-सरस्वती (सं) - विषयः
पुना राजप्रजाजनाः किंवत् किंकुर्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् राज्ञि वा ! यथा पृथुर्धर्मणस्पतिर्जुषाणोऽग्निः सजातानां मध्यमेष्ठ्याय स्वाहाऽऽज्यस्य वेति। सूर्यस्य रश्मिभिः सह हविः प्रसार्य्य सुखयति, तथा धर्मणस्पतिः पृथुर्जुषाणोऽग्निर्भवान् राष्ट्रं वेतु, तथा च हे स्वाहाकृताः सभासत्स्त्रियो यूयमपि प्रयतध्वम् ॥२९॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे राजप्रजाजनाः ! यूयं यथा सूर्यप्रसिद्धविद्युदग्निवद् वर्त्तित्वा पक्षपातं विहाय समानजन्मसु मध्यस्थाः सन्तो न्यायं कुरुत। यथाऽयमग्निः सवितृप्रकाशे वायौ च सुगन्धं द्रव्यं प्राप्य वायुजलौषधिशुद्धिद्वारा सर्वान् प्राणिनः सुखयति तथा न्याययुक्तैः कर्मभिः सहचरिता भूत्वा सर्वाः प्रजाः सुखयत ॥२९॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे राजा व प्रजाजन तसेच राणी व स्त्री सभासदांनो ! सूर्य व विद्युतप्रमाणे भेदभाव न करता माणसांचा समाय न्याय करा. ज्याप्रमाणे हा यज्ञाग्नी सूर्यप्रकाशात वायूपासून सुगंधित द्रव्य प्राप्त करतो, वायू, जल आणि वृक्षवनस्पतींना शुद्ध करून सर्व प्राण्यांना सुख देतो त्याप्रमाणे न्याययुक्त कर्माचे आचरण करून सर्व प्रजेला सुखी करा.
३० सवित्रा प्रसवित्रा
विश्वास-प्रस्तुतिः ...{Loading}...
स॒वि॒त्रा प्र॑सवि॒त्रा सर॑स्वत्या वा॒चा त्वष्ट्रा॑ रू॒पैः पू॒ष्णा प॒शुभि॒रिन्द्रे॑णा॒स्मे बृह॒स्पति॑ना॒ ब्रह्म॑णा॒ वरु॑णे॒नौज॑सा॒ऽग्निना॒ तेज॑सा॒ सोमे॑न॒ राज्ञा॒ विष्णु॑ना दश॒म्या दे॒वत॑या॒ प्रसू॑तः प्रस॑र्पामि ॥३०॥
मूलम् ...{Loading}...
स॒वि॒त्रा प्र॑सवि॒त्रा सर॑स्वत्या वा॒चा त्वष्ट्रा॑ रू॒पैः पू॒ष्णा प॒शुभि॒रिन्द्रे॑णा॒स्मे बृह॒स्पति॑ना॒ ब्रह्म॑णा॒ वरु॑णे॒नौज॑सा॒ऽग्निना॒ तेज॑सा॒ सोमे॑न॒ राज्ञा॒ विष्णु॑ना दश॒म्या दे॒वत॑या॒ प्रसू॑तः प्रस॑र्पामि ॥३०॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स॒वि॒त्रा। प्र॒स॒वि॒त्रेति॑ प्रऽसवि॒त्रा। सर॑स्वत्या। वा॒चा। त्वष्ट्रा॑। रू॒पैः। पू॒ष्णा। प॒शुभि॒रिति॑ प॒शुऽभिः॑। इन्द्रे॑ण। अ॒स्मेऽइत्य॒स्मे। बृह॒स्पति॑ना। ब्रह्म॑णा। वरु॑णेन। ओज॑सा। अ॒ग्निना॑। तेज॑सा। सोमे॑न। राज्ञा॑। विष्णु॑ना। द॒श॒म्या। दे॒वत॑या। प्रसू॑त॒ इति॒ प्रऽसू॑तः। प्र। स॒र्पा॒मि॒। ३०।
महीधरः
म०. ‘पितामहदशगणᳪं᳭ सोमपानाᳪं᳭ संख्याय सर्पणᳪं᳭ सवित्रेति वानुवाकमुक्त्वेति’ ( का० १५ । ८ । १५-१६)। पित्रादयः पूर्वजाः पितामहशब्देनोच्यन्ते । ऋत्विजोऽन्ये विप्राश्च मिलिताः शतसंख्याः सन्तो दशपेययागे सौत्येऽहनि प्रतिसवनं सर्पणात्प्राक् स्वं स्वं सोमयाजिनां पित्रादीनां दशानां गणं गणयित्वा अमुकः प्रथमः सोमपः असौ द्वितीयोऽसौ तृतीय इत्यादिदशमपर्यन्तान् सोमयाजिनो गणयित्वा विभूरसीत्यादिसर्पणं धिष्ण्योपस्थानं कुर्वन्ति । सर्पणं भक्षणकाले सदःप्रवेशो वा । पक्षान्तरमाह सवित्रेति । यद्वा सवित्रा प्रसवित्रेत्येककण्डिकात्मकमनुवाकं पठित्वा शतं विप्राः सर्पणं कुर्वन्ति । दशानां सोमयाजिनामसंभवादयमेव पक्षः श्रेयानिति सूत्रार्थः । सवित्रादिदेवत्यात्यष्टिः । एताभिर्दशभिर्देवताभिः प्रसूत आज्ञप्तोऽहं प्रसर्पामि सर्पणं करोमि । प्रत्येकपाठादेकवचनं सर्पामीति । काभिर्दशभिः प्रसूत इत्यत आह । प्रसवित्रा अभ्यनुज्ञानकारिणा सवित्रा सूर्येण । वाचा वाग्रूपया सरस्वत्या । रूपैरुपलक्षितेन त्वष्ट्रा देवेन । ‘त्वष्टा रूपाणामधिपतिः’ इत्युक्तेः । पशुभिरुपलक्षितेन पूष्णा देवेन । अस्मे अनेन इन्द्रेण । विभक्तेः शेआदेशः । ब्रह्मणा देवयागे ब्रह्मत्वकर्त्रा बृहस्पतिना । ओजसा ओजस्विना वरुणेन । तेजसा तेजस्विना अग्निना । राज्ञा ओषधिविप्राधिपेन दीप्यमानेन वा सोमेन चन्द्रेण । दशम्या दशसंख्यापूरिकया । विष्णुना देवतया यज्ञाधिष्ठात्रा विष्णुरूपेण देवेन । एतैराज्ञप्तः प्रसर्पामीत्यर्थः॥३०॥
इति राजसूयः समाप्तः ॥
एकत्रिंशी।
अधिमन्त्रम् (VC)
- सवित्रादिमन्त्रोक्ता देवताः
- शुनःशेप ऋषिः
- स्वराड् आर्षी जगती
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
राजा वा राणी को कैसे गुणों से युक्त होना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे प्रजा और राजपुरुषो ! जैसे मैं (प्रसवित्रा) प्रेरणा करनेवाले वायु (सवित्रा) सम्पूर्ण चेष्टा उत्पन्न करानेहारे के समान शुभ कर्म (सरस्वत्या) प्रशंसित विज्ञान और क्रिया से युक्त (वाचा) वेदवाणी के समान सत्यभाषण (त्वष्ट्रा) छेदक और प्रतापयुक्त सूर्य के समान न्याय (रूपैः) सुखरूपों (पूष्णा) पृथिवी (पशुभिः) गौ आदि पशुओं के समान प्रजा के पालन (इन्द्रेण) बिजुली (अस्मे) हम (बृहस्पतिना) बड़ों के रक्षक चार वेदों के जाननेहारे विद्वान् के समान विद्या और सुन्दर शिक्षा के प्रचार (ओजसा) बल (वरुणेन) जल के समुदाय (तेजसा) तीक्ष्ण ज्योति के समान शत्रुओं के चलाने (अग्निना) अग्नि (राज्ञा) प्रकाशमान आनन्द के होने (सोमेन) चन्द्रमा (दशम्या) दशसंख्या को पूर्ण करनेवाली (देवतया) प्रकाशमान और (विष्णुना) व्यापक ईश्वर के समान शुभ गुण, कर्म और स्वभाव से (प्रसूतः) प्रेरणा किया हुआ मैं (प्रसर्पामि) अच्छे प्रकार चलता हूँ, वैसे तुम लोग भी चलो ॥३०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य सूर्य्यादि गुणों से युक्त पिता के समान रक्षा करनेहारा हो, वह राजा होने के योग्य है, और जो पुत्र के समान वर्त्ताव करे, वह प्रजा होने योग्य है ॥३०॥
दयानन्द-सरस्वती (सं) - विषयः
कीदृग्गुणैः सह राज्ञा राज्ञ्या वा भवितव्यमित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे राजप्रजाजनाः यथाऽहं प्रसवित्रा सवित्रा सरस्वत्या वाचा त्वष्ट्रा रूपैः पूष्णा पशुभिरिन्द्रेणास्मे ब्रह्मणा बृहस्पतिनौजसा वरुणेन तेजसाऽग्निना राज्ञा सोमेन दशम्या देवतया विष्णुना च सह प्रसूतः सन् प्रसर्पामि तथा यूयमपि प्रसर्पध्वम् ॥३०॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यो जनः सूर्य्यादिगुणयुक्तः पितृवत्प्रजापालकः स्यात्, स राजा भवितुं योग्यः। यश्चैवं पुत्रवद् वर्त्तमानो भवेत् स प्रजा भवितुमर्हति ॥३०॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे माणूस सूर्याप्रमाणे व पित्याप्रमाणे रक्षक असतो तो राजा होण्यायोग्य असतो व पुत्राप्रमाणे वर्तणूक करणारे लोक प्रजा बनण्यायोग्य असतात.
३१ अश्विभ्यां पच्यस्व
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒श्विभ्यां॑ पच्यस्व॒ सर॑स्वत्यै पच्य॒स्वेन्द्रा॑य सु॒त्राम्णे॑ पच्यस्व। वा॒युःपू॒तः प॒वित्रे॑ण प्र॒त्यङ्क्सोमो॒ अति॑स्रुतः। इन्द्र॑स्य॒ युज्यः॒ सखा॑ ॥३१॥
मूलम् ...{Loading}...
अ॒श्विभ्यां॑ पच्यस्व॒ सर॑स्वत्यै पच्य॒स्वेन्द्रा॑य सु॒त्राम्णे॑ पच्यस्व। वा॒युःपू॒तः प॒वित्रे॑ण प्र॒त्यङ्क्सोमो॒ अति॑स्रुतः। इन्द्र॑स्य॒ युज्यः॒ सखा॑ ॥३१॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒श्विभ्या॒मित्य॒श्विऽभ्या॑म्। प॒च्य॒स्व॒। सर॑स्वत्यै। प॒च्य॒स्व॒। इन्द्रा॑य। सु॒त्राम्ण॒ इति॑ सु॒ऽत्राम्णे॑। प॒च्य॒स्व॒। वा॒युः। पू॒तः। प॒वित्रे॑ण। प्र॒त्यङ्। सोमः॑। अति॑स्रुत॒ इत्यति॑ऽस्रु॒तः। इन्द्र॑स्य। युज्यः॑। सखा॑। ३१।
महीधरः
म० अथ राजसूयगतचरकसौत्रामणीमन्त्रा उच्यन्ते । राजसूयप्रान्ते विहिता सौत्रामणी चरकसौत्रामणीत्युच्यते तन्मन्त्राणामश्विनावृषी । ‘पक्त्वौदनं विरूढांचूर्णीकृत्याश्विभ्यां पच्यस्वेति सᳪं᳭सृजतीति’ ( का० १५ । ९ । २५)। विरूढा जाताङ्कुरा अजाताङ्कुराश्च व्रीहयः क्षौमे बद्धाः सन्ति तन्मध्ये अजाताङ्कुराणां व्रीहीणामोदनं पक्त्वा विरूढान्व्रीहींश्चूर्णीकृत्यौदनेन मिश्रयति । त्रीणि यजूंषि सुरादेवत्यानि । हे सुरे, त्वमश्विभ्यां पच्यस्व अश्विनोरर्थाय पाकं कुरु । पाको नाम विपरिणामश्रेष्ठता। सरस्वत्यै देव्यै पच्यस्व । सुष्ठु त्रायत इति सुत्रामा तस्मै सुत्राम्णे शोभनत्राणकर्त्रे सुत्रातव्याय वा इन्द्राय पच्यस्व । यतः सौत्रामण्येन्द्रस्य भैषज्यं कर्तव्यमस्ति । ‘वपामार्जनान्ते कुशैः परिस्रुतं पुनाति वायुः पूत इति’ ( का० १५ । १० । १०)। पशूनां वपामार्जनान्ते कर्मणि कृते दर्भैः सुरां कस्मिंश्चित्पात्रे पुनाति । सोमदेवत्या गायत्री । वायुः ‘सुपां सुलुक्’ (पा० ७।१ । ३९) इत्यादिना तृतीयैकवचनस्य सु आदेशः। सोमो वायुः वायुना पूतः शोधितः पवित्रेण कुशमयेन पूतः सन् प्रत्यङ् नीचैरधोमुखः सन् अतिस्रुतः अतिक्रम्य गतः। किंभूतः । इन्द्रस्य युज्यो योगार्हः सखा सखिभूतः । ‘सोमः पूर्वं पूतिगन्धोऽभूत्ततो देवैर्वायुरुक्तस्त्वं सोमᳪं᳭ सुगन्धं कुर्विति ततो वायुना सोमो दुर्गन्धमपहृत्य सुगन्धः कृतः’ ( १२ । ७ । ३) | इति श्रुत्योक्तं तदयं मन्त्रो वदतीत्यर्थः ॥ ३१॥
द्वात्रिंशी।
अधिमन्त्रम् (VC)
- क्षत्रपतिर्देवता
- शुनःशेप ऋषिः
- आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्य कैसे हो क्या करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजा तथा प्रजापुरुषो ! तुम (अश्विभ्याम्) सूर्य चन्द्रमा के समान अध्यापक और उपदेशक (पच्यस्व) शुद्ध बुद्धिवाले हो (सरस्वत्यै) अच्छी शिक्षायुक्त वाणी के लिये (पच्यस्व) उद्यत हो, (सुत्राम्णे) अच्छी रक्षा करनेहारे (इन्द्राय) परमैश्वर्य के लिये (पच्यस्व) दृढ़ पुरुषार्थ करो, (पवित्रेण) शुद्ध धर्म के आचरण से (वायुः) वायु के समान (पूतः) निर्दोष (प्रत्यङ्) पूजा को प्राप्त (सोमः) अच्छे गुणों से युक्त ऐश्वर्य्यवाले (अतिस्रुतः) अत्यन्त ज्ञानवान् (इन्द्रस्य) परमेश्वर के (युज्यः) योगाभ्यासयुक्त (सखा) मित्र हो ॥३१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्य को चाहिये कि सत्यवादी धर्मात्मा आप्त अध्यापक और उपदेशक से अच्छी शिक्षा को प्राप्त हो, शुद्ध धर्म के आचरण से अपने आत्मा को पवित्र योग के अङ्गों से ईश्वर की उपासना और सम्पत्ति होने के लिये प्रयत्न करके आपस में मित्रभाव से वर्त्तें ॥३१॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनुष्या कीदृशा भूत्वा किं कुर्युरित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे राजप्रजाजन ! त्वमश्विभ्यां पच्यस्व सरस्वत्यै पच्यस्व सुत्राम्ण इन्द्राय पच्यस्व। पवित्रेण वायुरिव पूतः प्रत्यङ् सोमोऽतिस्रुत इन्द्रस्य युज्यः सखा भव ॥३१॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्या आप्तयोरध्यापकोपदेशकयोः सकाशात् सुशिक्षां प्राप्य शुद्धैर्धर्माचरणैः स्वात्मानं पवित्रीकृत्य, योगाङ्गैरीश्वरमुपास्यैश्वर्य्याय प्रयत्य परस्परं सखायो भवन्तु ॥३१॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सत्यवादी, धर्मात्मा, आप्त, अध्यापक व उपदेशक यांच्याकडून माणसांनी चांगले शिक्षण प्राप्त करावे. शुद्ध धर्म आचरणात आणून आपल्या आत्म्याला पवित्र बनवावे व योगांगाच्या साह्याने ईश्वराची उपासना करावी. संपत्ती मिळविण्यासाठी प्रयत्न करावेत व आपापसात मित्र भावना बाळगावी.
३२ कुविदङ्ग यवमन्तो
विश्वास-प्रस्तुतिः ...{Loading}...
कु॒विद॒ङ्ग यव॑मन्तो॒ यवं॑ चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑। इ॒हेहै॑षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नम॑उक्तिं॒ यज॑न्ति। उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्यां॑ त्वा॒ सर॑स्वत्यै॒ त्वेन्द्रा॑य त्वा सु॒त्राम्णे॑ ॥३२॥
मूलम् ...{Loading}...
कु॒विद॒ङ्ग यव॑मन्तो॒ यवं॑ चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑। इ॒हेहै॑षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नम॑उक्तिं॒ यज॑न्ति। उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्यां॑ त्वा॒ सर॑स्वत्यै॒ त्वेन्द्रा॑य त्वा सु॒त्राम्णे॑ ॥३२॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
कु॒वित्। अ॒ङ्ग। यव॑मन्त॒ इति॒ यव॑ऽमन्तः। यव॑म्। चि॒त्। यथा॑। दान्ति॑। अ॒नु॒पू॒र्वमित्य॑नुऽपूर्व॑म्। वि॒यूयेति॑ वि॒ऽयूय॑। इ॒हेहेती॒हऽइ॑ह। ए॒षा॒म्। कृ॒णु॒हि॒। भो॑जनानि। ये। ब॒र्हिषः॑। नम॑उक्ति॒मिति॒ नमः॑ऽउक्तिम्। यज॑न्ति। उ॒प॒या॒मगृ॑हीत इत्यु॑पयाम॒ऽगृ॑हीतः॒। अ॒सि॒। अ॒श्विभ्या॒मित्य॒श्विऽभ्या॑म्। त्वा॒। सर॑स्वत्यै। त्वा॒। इन्द्रा॑य। त्वा॒। सु॒त्राम्ण॒ इति॑ सु॒ऽत्राम्णे॑। ३२।
महीधरः
म० ‘ग्रहं गृह्णाति कुविदङ्गेति त्रीन् वा प्रतिदेवतमेतयैवेति’ ( का० १५ । १० । १२ )। पूतायां सुरायां बदरीफलचूर्णं प्रक्षिप्य कुविदङ्गेत्येकं ग्रहं वैकङ्कतपात्रेण गृह्णाति । यद्वा कुविदङ्गेत्यृचैव त्रीन् ग्रहान्प्रतिदेवतं गृह्णाति । यथा । कुविदङ्ग उपयामगृहीतोऽस्यश्विभ्यां त्वेति प्रथमम् । कुविदङ्ग० उपयामगृहीतोऽसि सरस्वत्यै त्वेति द्वितीयम् । कुविदङ्ग० उपयामगृहीतोऽसीन्द्राय त्वा सुत्राम्ण इति तृतीयम् । तृचं काक्षीवतसुकीर्तिदृष्टम् । आद्या सोमदेवत्याऽनिरुक्ता त्रिष्टुप् । कुविदिति बहुनाम । ‘अङ्गेति क्षिप्रनाम’ ( नि० ५ । १७) चिदिति वितर्के । हे सोम, यथा यवमन्तः । यवा विद्यन्ते येषां ते यवमन्तः । ‘मादुपधायाश्च मतोर्वोऽयवादिभ्यः’ (पा. ८।२।९) इति यवादीनां निषेधान्मतोर्मकारस्य वकाराभावः । बहुयवसंपन्नाः कृषीवलाः । कुवित् बहुलं यवं सर्वं यवमयं सस्यं चित् विचार्य अनुपूर्वमानुपूर्व्येण वियूय पृथक्कृत्य अङ्गं क्षिप्रं दान्ति लुनन्ति । ‘दाप् लवने’ लट् । तथा एषां यजमानानां संबन्धीनि भोजनानि भोज्यानि वस्तूनि इह अस्मिन्नेव यजमाने कृणुहि कुरु । एषां केषाम् । ये यजमाना बर्हिष उपरि स्थिता नमउक्तिं यजन्ति । नम इत्यन्ननाम । उक्तिर्वचनम् । हविर्लक्षणमन्नमादाय उक्तिं याज्यामभिधाय यजन्ति यागं कुर्वन्ति । हे सोम, त्वमुपयामेन गृहीतोऽसि अश्विभ्यां त्वा त्वां गृह्णामि सरस्वत्यै त्वां गृह्णामि सुत्राम्णे रक्षकायेन्द्राय त्वां गृह्णामि ॥ ३२॥
त्रयस्त्रिंशी।
अधिमन्त्रम् (VC)
- क्षत्रपतिर्देवता
- शुनःशेप ऋषिः
- निचृत् ब्राह्मी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
राजा आदि सभा के पुरुष किस के तुल्य क्या-क्या करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अङ्ग) ज्ञानवान् राजन् ! जो (कुवित्) बहुत ऐश्वर्य्यवाले आप (अश्विभ्याम्) विद्या को प्राप्त हुए शिक्षक लोगों के लिये (उपयामगृहीतः) ब्रह्मचर्य के नियमों से स्वीकार किये (असि) हैं, उन (सरस्वत्यै) विद्यायुक्त वाणी के लिये (त्वा) आपको (इन्द्राय) उत्तम ऐश्वर्य के लिये (त्वा) आप को और (सुत्राम्णे) अच्छी रक्षा के लिये (त्वा) आपको हम लोग स्वीकार करते हैं। (ये) जो (बर्हिषः) वृद्धपुरुष (नमउक्तिम्) अन्न के कहने को (यजन्ति) सङ्गत करते हैं, उन के लिये सत्कार के साथ भोजन आदि दीजिये। जैसे (यवमन्तः) बहुत जौ आदि धान्य से युक्त खेती करनेहारे लोग (इहेह) इस-इस व्यवहार में (यवम्) यवादि अन्न को (अनुपूर्वम्) क्रम से (दान्ति) लुनते हैं, भुस से (चित्) भी (यवम्) जवों को (वियूय) पृथक् करके रक्षा करते हैं, वैसे सत्य-असत्य को ठीक-ठीक विचार के इन की रक्षा कीजिये ॥३२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे खेती करनेवाले लोग परिश्रम के साथ पृथिवी से अनेक फलों को उत्पन्न और रक्षा करके भोगते और असार को फेंकते हैं, और जैसे ठीक-ठीक राज्य का भाग राजा को देते हैं, वैसे ही राजा आदि पुरुषों को चाहिये कि अत्यन्त परिश्रम से इनकी रक्षा, न्याय के आचरण से ऐश्वर्य्य को उत्पन्न कर और सुपात्रों के लिये देते हुए आनन्द को भोगें ॥३२॥
दयानन्द-सरस्वती (सं) - विषयः
राजादिसभ्यैः प्रजायै किंवत् किं किं कर्त्तव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अङ्ग राजन् ! यः कुवित् त्वमश्विभ्यामुपयामगृहीतोऽसि तं सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्णे त्वा वयं स्वीकुर्मः। ये बर्हिषो नमउक्तिं यजन्ति, तेभ्यः सत्कारेण भोजनादीनि देहि। यथा यवमन्त इहेह यवमनुपूर्वं दान्ति बुसाच्चिद् यवं वियूय रक्षन्ति, तथैषां सत्यासत्ये विविच्य रक्षणं कृणुहि ॥३२॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा कृषीवलाः परिश्रमेण पृथिव्याः सकाशादनेकानि फलादीन्युत्पाद्य संरक्ष्य भुञ्जते, निस्सारं त्यजन्ति, यथा विहितं भागं राज्ञे ददति, तथैव राजादिभिर्जनैरतिश्रमेणैतान् संरक्ष्य न्यायेनैश्वर्य्यमुत्पाद्य सुपात्रेभ्यो दत्त्वाऽऽनन्दो भोक्तव्यः ॥३२॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. ज्याप्रमाणे शेतकरी परिश्रमाने या भूमीवर फळाफळावळ उत्पन्न करतात, त्यांचे रक्षण करून शुष्क पदार्थ फेकून देतात व राज्याचा कर राजाला देतात त्यासाठी राजानेही अत्यंत परिश्रमाने त्यांचे रक्षण करावे व न्यायाने वागून ऐश्वर्य उत्पन्न करावे व सुपात्रांना द्यावे आणि आनंद प्राप्त करावा.
३३ युवं सुराममश्विना
विश्वास-प्रस्तुतिः ...{Loading}...
यु॒वँ सु॒राम॑मश्विना॒ नमु॑चावासु॒रे सचा॑। वि॒पि॒पा॒ना शु॑भस्पती॒ऽइन्द्रं॒ कर्म॑स्वावतम् ॥३३॥
मूलम् ...{Loading}...
यु॒वँ सु॒राम॑मश्विना॒ नमु॑चावासु॒रे सचा॑। वि॒पि॒पा॒ना शु॑भस्पती॒ऽइन्द्रं॒ कर्म॑स्वावतम् ॥३३॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यु॒वम्। सु॒राम॑म्। अ॒श्वि॒ना॒। नमु॑चौ। आ॒सु॒रे। सचा॑। वि॒पि॒पा॒नेति॑ विऽपि॒पा॒ना। शु॒भः॒। प॒ती॒ऽइति॑ पती। इन्द्र॑म्। कर्म॒स्विति॒ कर्म॑ऽसु। आ॒व॒त॒म्। ३३।
महीधरः
म० ‘ग्रहाणां युवᳪं᳭ सुरामं पुत्रमिवेति’ (का० १५। ६। ८)। युवं सुरामं पुत्रमिवेति द्वे ऋचौ सुराग्रहाणां याज्यानुवाक्ये प्रथमानुवाक्या पुत्रमिवेति याज्या अनुष्टुप् अश्विसरस्वतीन्द्रदेवत्या । हे अश्विना अश्विनौ, युवं युवां कर्मसु निमित्तेषु इन्द्रमावतमपालयतं स्वकर्मक्षममकुरुतमित्यर्थः । अवतेर्लडि मध्यमद्विवचनम् । किंभूतौ युवाम् । असुर एव आसुरस्तस्मिन्नमुचौ नमुचिसंज्ञे आसुरे असुरे दैत्ये स्थितं सुरामं सुष्ठु रमयतीति सुरामं सुष्ठु रमणीयं सोमं सचा सह एकीभूय विपिपाना विपिपानौ विविधं पिबन्तौ विविधं पिबतस्तौ विपिपानौ। पिबतेर्व्यत्ययेन ह्वादित्वे शानच्प्रत्यये रूपम् । तदर्थे श्रुतावितिहासः । (१२ । ३ । ४।१) नमुचिर्नामासुर इन्द्रस्य सखासीत् । स विश्वस्तस्येन्द्रस्य वीर्यं सुरया सोमेन सह पपौ । तत इन्द्रोऽश्विनौ सरस्वतीं चोवाचाऽहं नमुचिना पीतवीर्योऽस्मि ततोऽश्विनौ सरखती चापां फेनरूपं वज्रमिन्द्राय ददुः तेनेन्द्रो नमुचेः शिरश्चिच्छेद ततो लोहितमिश्रः ससुरः सोमस्तदुदरादश्विभ्यां पीत्वा शुद्ध इन्द्रायार्पित इति तदर्पणेनेन्द्रमश्विनावरक्षतामित्यर्थः । पुनः कीदृशौ । शुभः पती शोभनं शुप् ‘शुभ दीप्तौ’ इत्यस्मात् संपदादित्वाद्भावे क्विप् तस्य शुभः शोभनस्य कर्मणः पती पालकौ । ‘षष्ठ्याः पतिपुत्र’ (पा० ८।३ । ४३) इत्यादिना पतिशब्दे परे विसर्गस्य सकारः ॥ ३३ ॥
चतुस्त्रिंशी।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां दशमोऽध्यायः ॥ १० ॥
अधिमन्त्रम् (VC)
- अश्विनौ देवते
- शुनःशेप ऋषिः
- निचृद् अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
सभा और सेनापति प्रयत्न से वैश्यों की रक्षा करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सचा) मिले हुए (विपिनाना) विविध राज्य के रक्षक (शुभः) कल्याणकारक व्यवहार के (पती) पालन करनेहारे (अश्विना) सूर्य्य-चन्द्रमा के समान सभापति और सेनापति (युवम्) तुम दोनों (नमुचौ) जो अपने दुष्ट कर्म को न छोड़े (आसुरे) मेघ के व्यवहार में (कर्मसु) खेती आदि कर्मों में वर्त्तमान (सुरामम्) अच्छी तरह जिस में रमण करें, ऐसे (इन्द्रम्) परमैश्वर्य्यवाले धनी की निरन्तर (आवतम्) रक्षा करो ॥३३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - दुष्टों से श्रेष्ठों की रक्षा के लिये ही राजा होता है। राज्य की रक्षा के विना किसी चेष्टावान् नर की कार्य में निर्विघ्न प्रवृत्ति कभी नहीं हो सकती और न प्रजाजनों के अनुकूल हुए विना राजपुरुषों की स्थिरता होती है। इसलिये वन के सिंहों के समान परस्पर सहायी होके सब राज और प्रजा के मनुष्य सदा आनन्द में रहें ॥३३॥
दयानन्द-सरस्वती (सं) - विषयः
सभासेनेशाभ्यां प्रयत्नतो वणिग्जनाः संरक्ष्या इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सचाः विपिपाना शुभस्पती अश्विना युवं नमुचावासुरे कर्मसु वर्त्तमानं सुराममिन्द्रं सततमावतम् ॥३३॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - दुष्टेभ्यः श्रेष्ठानां रक्षणायैव राजभावः प्रवर्त्तते। नहि राजरक्षणेन विना कस्यचित् कर्मचारिणः कर्मणि निर्विघ्नेन प्रवृत्तिर्भवितुं योग्याऽस्ति, न च खलु प्रजाजनाऽनुकूल्यमन्तरा राजपुरुषाणां सुस्थिरता जायते, तस्माद् वनसिंहवत् परस्परं सहायेन सर्वे राजप्रजाजनाः सदा सुखिनः स्युः ॥३३॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजा हा दुष्टांपासून सज्जनांचे रक्षण करण्यासाठीच असतो. राजाकडून रक्षण होत नसेल तर कोणताही प्रयत्नवादी मनुष्य निर्विघ्नपणे काम करू शकत नाही. प्रजेच्या अनुकूलतेशिवाय राजपुरुष स्थिर राहू शकत नाही त्यासाठी (वनातील सिंहाप्रमाणे) परस्पर साह्य करून राजा व प्रजा यांनी आनंदात राहावे.
३४ पुत्रमिव पितरावश्विनोभेन्द्रावथुः
विश्वास-प्रस्तुतिः ...{Loading}...
पु॒त्रमि॑व पि॒तरा॑व॒श्विनो॒भेन्द्रा॒वथुः॒ काव्यै॑र्दँ॒सना॑भिः। यत्सु॒रामं॒ व्यपि॑बः॒ शची॑भिः॒ सर॑स्वती त्वा मघवन्नभिष्णक् ॥३४॥
मूलम् ...{Loading}...
पु॒त्रमि॑व पि॒तरा॑व॒श्विनो॒भेन्द्रा॒वथुः॒ काव्यै॑र्दँ॒सना॑भिः। यत्सु॒रामं॒ व्यपि॑बः॒ शची॑भिः॒ सर॑स्वती त्वा मघवन्नभिष्णक् ॥३४॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पु॒त्रमि॒वेति॑ पु॒त्रम्ऽइ॑व। पि॒तरौ॑। अ॒श्विना॑। उ॒भा। इन्द्र॑। आ॒वथुः॑। काव्यैः॑। दँ॒सना॑भिः। यत्। सु॒राम॑म्। वि। अपि॑बः। शची॑भिः। सर॑स्वती। त्वा॒ म॒घ॒व॒न्निति॑ मघऽवन्। अ॒भि॒ष्ण॒क्। ३४।
महीधरः
म० त्रिष्टुप् अश्विसरस्वतीन्द्रदेवत्या । हे इन्द्र उभा अश्विना उभौ अश्विनौ त्वामावथुः । अवतेर्लिटि मध्यमद्विवचनं पुरुषव्यत्ययः । आवथुः पालितवन्तौ । कैः । काव्यैः कवीनां मन्त्रद्रष्टॄणां संबन्धिभिर्मन्त्रैः कवीनामिमे काव्यास्तैः । तथा दंसनाभिः । दंस इति कर्मनाम । दंससः करणं दंसना ‘तत्करोति तदाचष्टे’ (पा० ३ । १ । २६ ) इति णिचि जाते ‘ण्यासश्रन्थो युच्’ (पा० ३ । ३ । १०७) इति युच्प्रत्यये दंसनेति रूपम् । दृष्टान्तमाह । पुत्रमिव पितरौ यथा मातापितरौ पुत्रं पालयतस्तथाश्विनौ त्वामावथुः । अश्विनाविन्द्रस्य रक्षणं कृतवन्ताविति कथमवगम्यते तत्राह । यदिति । यद्यस्मात्कारणात् हे इन्द्र, त्वं शचीभिः कर्मभिः । नमुचिवधादिकर्माणि कृत्वेत्यर्थः । सुरामं सुष्ठु रमणीयं सोमं व्यपिबः विशेषेण पीतवानसि । पिबतेर्लङि मध्यमैकवचने रूपम् । हे मघवन् धनवन्निन्द्र, यस्माच्च सरस्वती देवी त्वा त्वामभिष्णक् उपसेवते त्वत्कृतसोमपानेन सरस्वतीकृतत्वत्सेवनेन च अश्विनौ त्वामावतुरिति ज्ञायत इत्यर्थः। ‘भिष्णज् उपसेवायां’ कण्ड्वादिः अस्माल्लङि ‘कण्ड्वादिभ्यो यक्’ (पा० ३।१।२७) इति प्राप्तस्य यको व्यत्ययेन लुक् ‘हल्ड्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल्’ (पा०६।१।६८) इति तिपो लुक् ‘लुङ्लङ्लृङ्क्ष्वडुदात्तः’ (पा० ६।४ । ७१) अडागमः ‘वावसाने (पा० ८ । ४ । ५६) इति जकारस्य ककारः अभिष्णगिति रूपम् ॥ ३४ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे । अगमद्दशमोऽध्यायो राजसूयान्तवर्णनः ॥१०॥
अधिमन्त्रम् (VC)
- अश्विनौ देवते
- शुनःशेप ऋषिः
- भुरिक् पङ्क्तिः
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
राजा और प्रजा को पिता पुत्र के समान वर्त्तना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (मघवन्) विशेष धन के होने से सत्कार के योग्य (इन्द्र) सब सभाओं के मालिक राजन् ! (यत्) जो आप (शचीभिः) अपनी बुद्धियों के बल से (सुरामम्) अच्छा आराम देनेहारे रस को (व्यपिबः) विविध प्रकार से पीवें, उस आप का (सरस्वती) विद्या से अच्छी शिक्षा को प्राप्त हुई, वाणी के समान स्त्री (अभिष्णक्) सेवन करे (अश्विना) राजा से आज्ञा को प्राप्त हुए (उभा) तुम दोनों सेनापति और न्यायाधीश (काव्यैः) परम विद्वान् धर्मात्मा लोगों के लिये (दंसनाभिः) कर्मों से (पितरौ) जैसे माता-पिता (पुत्रमिव) अपने सन्तान की रक्षा करते हैं, वैसे सब राज्य की (आवथुः) रक्षा करो ॥३४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सब अच्छे-अच्छे गुणों से युक्त राजधर्म का सेवनेहारा धर्मात्मा, अध्यापक और पूर्ण युवा अवस्था को प्राप्त हुआ पुरुष, अपने हृदय को प्यारी, अपने योग्य, अच्छे लक्षणों से युक्त, रूप और लावण्य आदि गुणों से शोभायमान, विदुषी स्त्री के साथ विवाह करे, जो कि निरन्तर पति के अनुकूल हो, और पति भी उसके सम्मति का हो। राजा अपने मन्त्री, नौकर और स्त्री के सहित प्रजाओं में सत्पुरुषों की रीति पर पिता के समान और प्रजापुरुष पुत्र के समान राजा के साथ वर्त्तें। इस प्रकार आपस में प्रीति के साथ मिल के आनन्दित होवें ॥३४॥ इस अध्याय में राजा और प्रजा के धर्म का वर्णन होने से इस अध्याय में कहे अर्थ की पूर्व अध्याय के साथ सङ्गति जाननी चाहिये ॥ इति श्रीमत्परिव्राजकाचार्य्याणां श्रीमत्परमविदुषां विरजानन्दसरस्वतीस्वामिनां शिष्येण दयानदसरस्वतीस्वामिना निर्मिते संस्कृतभाषाऽऽर्य्यभाषाभ्यां विभूषिते सुप्रमाणयुक्ते यजुर्वेदभाष्ये दशमोऽध्यायः सम्पूर्णः ॥४॥
दयानन्द-सरस्वती (सं) - विषयः
राजप्रजे पितापुत्रवद् वर्त्तेयातामित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मघवन्निन्द्र यत् वं शचीभिः सुरामं व्यपिबस्तं त्वा सरस्वत्यभिष्णक्। हे अश्विना राजाज्ञापितावुभौ सेनापतिन्यायाधीशौ युवां काव्यैर्दंसनाभिः पितरौ पुत्रमिव सर्वं राज्यमावथुः ॥३४॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सर्वशुभगुणयुक्तो राजधर्ममाश्रितः धार्मिकोऽध्यापको युवा सन् हृद्यां स्वदृशीं विदुषीं सुलक्षणां रूपलावण्यादिगुणैः सुशोभितां स्त्रियमुद्वहेत्। या सततं पत्यनुकूला भवेत्, स्वयं च तदनुकूलः स्यात्। सामात्यभृत्यस्त्रीकः प्रजास्वाप्तरीत्या पितृवद् वर्त्तेत, प्रजाश्च पुत्रवत्। एवं परस्परं प्रेम्णा सहाऽऽह्लादिताः सर्वे स्युरिति ॥३४॥ अत्र राजप्रजाधर्मोक्तत्वादेतदर्थस्य पूर्वाऽध्यायार्थेन सह सङ्गतिरस्तीति बोध्यम् ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - गुणवान, धर्मात्मा, राजधर्माचे पालन करणारा, अध्यापक व पूर्ण युवावस्था प्राप्त झालेल्या पुरुषाने आपल्याला आवडेल अशा रूप व लावण्य इत्यादी गुणांनी युक्त विदुषी स्रीबरोबर विवाह करावा. पत्नी निरंतर पतीच्या अनुकूल असावी व पतीही तिच्या आवडीचा असावा. राजाने आपले मंत्री, नौकर, स्री व प्रजा यांच्याबरोबर सहृदय पित्याप्रमाणे वागावे व प्रजेने राजाबरोबर पुत्रासारखे वागावे. याप्रमाणे आपापसात प्रेमपूर्वक व आनंदाने राहावे.