०१ देव सवितः
विश्वास-प्रस्तुतिः ...{Loading}...
देव॑ सवितः॒ प्रसु॑व य॒ज्ञं प्रसु॑व य॒ज्ञप॑तिं॑ भगा॑य। दि॒व्यो ग॑न्ध॒र्वः के॑त॒पूः केतं॑ नः पुनातु वा॒चस्पति॒र्वाजं॑ नः स्वदतु॒ स्वाहा॑ ॥१॥
मूलम् ...{Loading}...
देव॑ सवितः॒ प्रसु॑व य॒ज्ञं प्रसु॑व य॒ज्ञप॑तिं॑ भगा॑य। दि॒व्यो ग॑न्ध॒र्वः के॑त॒पूः केतं॑ नः पुनातु वा॒चस्पति॒र्वाजं॑ नः स्वदतु॒ स्वाहा॑ ॥१॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
देव॑। स॒वि॒त॒रिति॑ सवितः। प्र। सु॒व॒। य॒ज्ञम्। प्र। सु॒व॒। य॒ज्ञप॑ति॒मिति॑ य॒ज्ञऽप॑तिम्। भगा॑य। दि॒व्यः। ग॒न्ध॒र्वः। के॒त॒पूरिति॑ केत॒ऽपूः। केत॑म्। नः॒। पु॒ना॒तु॒। वा॒चः। पतिः॑। वाज॑म्। नः॒। स्व॒द॒तु॒। स्वाहा॑। १।
महीधरः
म० चतुर्थाध्यायमारभ्याष्टमान्तमध्यायपञ्चके अग्निष्टोममन्त्रास्तदीयप्रासङ्गिका मन्त्राश्चोक्ताः । नवमेऽध्याये वाजपेयमन्त्रा उच्यन्ते चतुस्त्रिंशत्कण्डिकापर्यन्तम् । तेषां बृहस्पतीन्द्रावृषी । तत्र ‘देव सवितरिति जुहोति यजत्यादिष्विति’ ( का० १४ । १ । ११) । वाजपेयाङ्गभूतानां यजतीनां दीक्षणीयाप्रापणीयादीनामादिषु सकृद्गृहीतमाज्यं जुहोति । सवितृदेवत्या त्रिष्टुप् । हे सवितः सर्वस्य प्रेरकान्तर्यामिन्, हे देव दीप्यमान, यज्ञं वाजपेयलक्षणं यागं प्रसुव अभ्यनुजानीहि प्रवर्तयेत्यर्थः । यज्ञपतिं यजमानं भगाय भजनीयायानुष्ठानरूपायैश्वर्याय प्रसुव प्रेरय । एवं मण्डलाधिष्ठातारं पुरुषमुक्त्वेदानीं मण्डलं प्रत्याह । त्वत्प्रसादाद्दिवि भवो दिव्यो गन्धर्वो गवां रश्मीनां धारयिता केतपूः केतशब्देनान्नमुच्यते । केतमन्नं पुनातीति केतपूः । अन्नस्य पावयिता सूर्यमण्डलरूपो देवो नोऽस्माकं केतमन्नं पुनातु शोधयतु । किंच त्वत्प्रसादाद्वाचस्पतिः प्रजापतिर्नोऽस्माकं वाजमन्नं हविर्लक्षणं स्वदतु आस्वादयतु स्वाहा सुहुतमस्तु ॥ १ ॥
द्वितीया।
अधिमन्त्रम् (VC)
- सविता देवता
- इन्द्राबृहस्पती ऋषी
- स्वराड् आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
विद्वान् लोग चक्रवर्ती राजा को कैसा-कैसा उपदेश करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (देव) दिव्यगुणयुक्त (सवितः) सम्पूर्ण ऐश्वर्य्यवाले राजन् ! आप (भगाय) सब ऐश्वर्य्य की प्राप्ति के लिये (स्वाहा) वेदवाणी से (यज्ञम्) सब को सुख देनेवाले राजधर्म का (प्र) (सुव) प्रचार और (यज्ञपतिम्) राजधर्म के रक्षक पुरुष को (प्र) (सुव) प्रेरणा कीजिये, जिससे (दिव्यः) प्रकाशमान दिव्य गुणों में स्थित (गन्धर्वः) पृथिवी को धारण और (केतपूः) बुद्धि को शुद्ध करनेवाला (वाचस्पतिः) पढ़ने-पढ़ाने और उपदेश से विद्या का रक्षक सभापति राजपुरुष है, वह (नः) हमारी (केतम्) बुद्धि को (पुनातु) शुद्ध करे और हमारे (वाजम्) अन्न को सत्य वाणी से (स्वदतु) अच्छे प्रकार भोगे ॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - न्याय से प्रजा का पालन और विद्या का दान करना ही राजपुरुषों का यज्ञ करना है ॥१॥
दयानन्द-सरस्वती (सं) - विषयः
विद्वद्भिश्चक्रवर्त्ती कथं कथमुपदेष्टव्य इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे देव सवितस्त्वं भगाय स्वाहा यज्ञं प्रसुव, यज्ञपतिं प्रसुव, यतो दिव्यो गन्धर्वः केतपूर्वाचस्पतिः स्वाहा नः केतं पुनातु, नः स्वाहा वाजं स्वदतु ॥१॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - न्यायेन प्रजापालनं विद्याप्रदानकरणमेव राज्ञां यज्ञोऽस्ति ॥१॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजपुरुषांचा यज्ञ म्हणजे न्यायाने प्रजापालन व विद्येचा प्रसार होय.
०२ ध्रुवसदं त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
ध्रु॒व॒सदं॑ त्वा नृ॒षदं॑ मनः॒सद॑मुपया॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम्। अ॒प्सुषदं॑ त्वा घृत॒सदं॑ व्योम॒सद॑मुपया॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम्। पृ॒थि॒वि॒सदं॑ त्वाऽन्तरिक्ष॒सदं॑ दिवि॒सदं॑ देव॒सदं॑ नाक॒सद॑मुपया॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम् ॥२॥
मूलम् ...{Loading}...
ध्रु॒व॒सदं॑ त्वा नृ॒षदं॑ मनः॒सद॑मुपया॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम्। अ॒प्सुषदं॑ त्वा घृत॒सदं॑ व्योम॒सद॑मुपया॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम्। पृ॒थि॒वि॒सदं॑ त्वाऽन्तरिक्ष॒सदं॑ दिवि॒सदं॑ देव॒सदं॑ नाक॒सद॑मुपया॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम् ॥२॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ध्रु॒व॒सद॒मिति॑ ध्रु॒व॒ऽसद॑म्। त्वा॒। नृ॒षद॑म्। नृ॒सद॒मिति॑ नृ॒ऽसद॑म्। म॒नः॒सदमिति॑ मनःऽसद॑म्। उ॒प॒या॒मगृ॑हीत इत्यु॑पया॒मगृ॑हीतः। अ॒सि॒। इन्द्रा॑य। त्वा॒। जुष्ट॑म्। गृ॒ह्णा॒मि॒। ए॒षः। ते॒। योनिः॑। इन्द्रा॑य। त्वा॒। जुष्ट॑तम॒मिति॒ जुष्ट॑ऽतमम्। अ॒प्सु॒षद॑म्। अ॒प्सु॒सद॒मित्य॑प्सु॒ऽसद॑म्। त्वा॒। घृ॒त॒सद॒मिति॑ घृत॒ऽसद॑म्। व्यो॒म॒सद॒मिति॑ व्योम॒ऽसद॑म्। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मगृ॑हीतः। अ॒सि॒। इन्द्रा॑य। त्वा॒। जुष्ट॑म्। गृ॒ह्णा॒मि॒। ए॒षः। ते॒। योनिः॑। इन्द्रा॑य। त्वा॒। जुष्ट॑तम॒मिति॒ जुष्ट॑ऽतमम्। पृ॒थि॒वि॒सद॒मिति॑ पृथिविऽसद॑म्। त्वा॒। अ॒न्त॒रि॒क्ष॒सद॒मित्यन्त॑रिक्ष॒ऽसद॑म्। दि॒वि॒सद॒मिति॑ दिवि॒ऽसद॑म्। दे॒वसद॒मिति॑ देव॒ऽसद॑म्। ना॒क॒सद॒मिति॑ नाक॒ऽसद॑म्। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मगृही॑तः। अ॒सि॒। इन्द्रा॑य। त्वा॒। जुष्ट॑म्। गृ॒ह्णा॒मि॒। ए॒षः। ते॒। योनिः॑। इन्द्रा॑य। त्वा॒। जुष्ट॑तम॒मिति॒ जुष्ट॑ऽतमम्। २।
महीधरः
म० ‘प्रातःसवनेऽतिग्राह्यान् गृहीत्वा षोडशिनं पञ्च चैन्द्रान्ध्रुवसदमिति प्रतिमन्त्रमिति’ ( का० १४ । १ । २६१ )। प्रातःसवन आग्रयणानन्तरं त्रीनतिग्राह्यानादाय षोडशिनं चादाय पञ्चेन्द्रदेवत्यान्ग्रहान्गृह्णीयात् । त्रीणि यजूंषीन्द्रदेवत्यानि । हे सोम, त्वम् उपयामयतीत्युपयामो ग्रहस्तेन गृहीतोऽसि । इन्द्राय जुष्टं प्रियं वा त्वां गृह्णामि । किंभूतं त्वाम् । ध्रुवसदं ध्रुवे स्थिरेऽस्मिन् लोके सीदतीति ध्रुवसत्तम् । | नृषु मनुष्येषु सीदतीति नृषत्तम् । मनसि सीदतीति मनःसत्तम् । । सोमाहुतिपरिणामभूतो रस एषु लोकेष्वावर्तमानः सोमाध्यस्त उच्यते । सादयति हे ग्रह, एष खरप्रदेशस्तव स्थानम् । इन्द्राय प्रियतमं त्वां सादयामीति शेषः । अथ द्वितीयम् । अप्सुषदमुदकसदं घृते सीदतीति व्योम्नि अन्तरिक्षे सीदतीति । शेषो व्याख्यातः । अथ तृतीयम् । पृथिव्यामन्तरिक्षे दिवि स्वर्गे देवेषु नास्ति अकं दुःखं यस्मिन् तस्मिन्नाके सुखान्विते स्वर्गविशेषे सीदतीति तादृशम् । शेषमृजु ॥ २ ॥
तृतीया।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- बृहस्पतिर्ऋषिः
- आर्षी पङ्क्तिः, विकृतिः
- पञ्चमः, मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्य लोग किस प्रकार के पुरुष को राज्याऽधिकार में स्वीकार करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे चक्रवर्ति राजन् ! मैं (इन्द्राय) परमैश्वर्ययुक्त परमात्मा के लिये जो आप (उपयामगृहीतः) योगविद्या के प्रसिद्ध अङ्ग यम के सेवनेवाले पुरुषों से स्वीकार किये (असि) हो। उस (ध्रुवसदम्) निश्चल विद्या विनय और योगधर्मों में स्थित (नृषदम्) नायक पुरुषों में अवस्थित (मनःसदम्) विज्ञान में स्थिर (जुष्टम्) प्रीतियुक्त (त्वा) आपको (गृह्णामि) स्वीकार करता हूँ। जिस (ते) आप का (एषः) यह (योनिः) सुखनिमित्त है, उस (जुष्टतमम्) अत्यन्त सेवनीय (त्वा) आपका (गृह्णामि) धारण करता हूँ। हे राजन् ! मैं (इन्द्राय) ऐश्वर्य्य धारण के लिये जो आप (उपयामगृहीतः) प्रजा और राजपुरुषों ने स्वीकार किये (असि) हो। उस (अप्सुसदम्) जलों के बीच चलते हुए (घृतसदम्) घी आदि पदार्थों को प्राप्त हुए और (व्योमसदम्) विमानादि यानों से आकाश में चलते हुए (जुष्टम्) सब के प्रिय (त्वा) आपका (गृह्णामि) ग्रहण करता हूँ। हे सब की रक्षा करनेहारे सभाध्यक्ष राजन् ! जिस (ते) आप का (एषः) यह (योनिः) सुखदायक घर है, उस (जुष्टतमम्) अति प्रसन्न (त्वा) आपको (इन्द्राय) दुष्ट शत्रुओं के मारने के लिये (गृह्णामि) स्वीकार करता हूँ। हे सब भूमि में प्रसिद्ध राजन् ! मैं (इन्द्राय) विद्या योग और मोक्षरूप ऐश्वर्य्य की प्राप्ति के लिये जो आप (उपयामगृहीतः) साधन-उपसाधनों से युक्त (असि) हो, उस (पृथिविसदम्) पृथिवी में भ्रमण करते हुए (अन्तरिक्षसदम्) आकाश में चलनेवाले (दिविसदम्) न्याय के प्रकाश में नियुक्त (देवसदम्) धर्मात्मा और विद्वानों के मध्य में अवस्थित (नाकसदम्) सब दुःखों से रहित परमेश्वर और धर्म्म में स्थिर (जुष्टम्) सेवनीय (त्वा) आपको (गृह्णामि) स्वीकार करता हूँ। हे सब सुख देने और प्रजापालन करनेहारे राजपुरुष ! जिस (ते) तेरा (एषः) यह (योनिः) रहने का स्थान है, उस (जुष्टतमम्) अत्यन्त प्रिय (त्वा) आपको (इन्द्राय) समग्र सुख देने के लिये (गृह्णामि) ग्रहण करता हूँ ॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे राजप्रजाजनो ! जैसे सर्वव्यापक परमेश्वर सम्पूर्ण ऐश्वर्य्य भोगने के लिये जगत् रच के सब के लिये सुख देता, वैसा ही आचरण तुम लोग भी करो कि जिस से धर्म, अर्थ, काम और मोक्ष फलों की प्राप्ति सुगम होवे ॥२॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्याः कीदृशं राजानं स्वीकुर्य्युरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सम्राडहमिन्द्राय यस्त्वमुपयामगृहीतोऽसि तं ध्रुवसदं नृषदं मनः सदं जुष्टं त्वा गृह्णामि। यस्यैष ते योनिरस्ति तं जुष्टतमं त्वेन्द्राय गृह्णामि। हे राजन्नहमिन्द्राय यस्त्वमुपयामगृहीतोऽसि तमप्सुसदं घृतसदं व्योमसदं जुष्टं त्वा गृह्णामि। हे सर्वरक्षक सभाध्यक्ष ! यस्यैष ते योनिरस्ति तं जुष्टतमं त्वेन्द्राय गृह्णामि। हे सार्वभौम राजन्नहमिन्द्राय यस्त्वमुपयामगृहीतोऽसि पृथिविसदमन्तरिक्षसदं दिविसदं देवसदं नाकसदं जुष्टं त्वा गृह्णामि। हे सर्वसुखप्रद प्रजापते ! यस्यैष ते योनिरस्ति तं जुष्टतमं त्वेन्द्राय गृह्णामि ॥२॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे राजप्रजाजनाः ! यथा सर्वव्यापकेन परमेश्वराय सर्वैश्वर्य्याय जगन्निर्माय सर्वेभ्यः सुखं दीयते, तथा यूयमप्याचरत, यतो धर्मार्थकाममोक्षफलानां प्राप्तिः सुगमा स्यात् ॥२॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे राजा व प्रजाजनांनो ! ज्याप्रमाणे सर्वव्यापक परमेश्वर सर्वांना संपूर्ण ऐश्वर्य भोगण्यासाठी जगाची निर्मिती करून सुख देतो त्याप्रमाणे तुम्हीही वागा. यामुळे धर्म, अर्थ, काम, मोक्ष सहजतेने प्राप्त होईल.
०३ अपा रसमुद्वयसम्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒पाँ रस॒मुद्व॑यसँ॒ सूर्ये॒ सन्तँ॑ स॒माहि॑तम्। अ॒पाँ रस॑स्य॒ यो रस॒स्तं वो॑ गृह्णाम्युत्त॒ममु॑पया॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम् ॥३॥
मूलम् ...{Loading}...
अ॒पाँ रस॒मुद्व॑यसँ॒ सूर्ये॒ सन्तँ॑ स॒माहि॑तम्। अ॒पाँ रस॑स्य॒ यो रस॒स्तं वो॑ गृह्णाम्युत्त॒ममु॑पया॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम् ॥३॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒पाम्। रस॑म्। उद्व॑यस॒मित्युत्ऽवय॑सम्। सूर्ये॑। सन्त॑म्। स॒माहि॑त॒मिति॑ स॒म्ऽआहि॑तम्। अ॒पाम्। रस॑स्य। यः। रसः॑। तम्। वः॒। गृ॒ह्णा॒मि॒। उ॒त्त॒ममित्यु॑त्ऽत॒मम्। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। इन्द्रा॑य। त्वा॒। जुष्ट॑म्। गृ॒ह्णा॒मि॒। ए॒षः। ते॒। योनिः॑। इन्द्रा॑य। त्वा। जुष्ट॑तम॒मिति॒ जुष्ट॑ऽतमम्। ३।
महीधरः
म० अथ चतुर्थम् । रसदेवत्यानुष्टुप् सूर्ये समाहितं समारोपितं स्थापितं सन्तमपामुदकानां रसं सारं वायुमहं गृह्णामि । ‘एष वा अपाᳪं᳭ रसो योऽयं पवते’ (५।१।२।६) इति श्रुतेः। किंभूतं रसम् । उद्वयसमुद्गतं वयोऽन्नं यस्माद्वायोःस उद्वयास्तम् । वायुनैव धान्यानि निष्पद्यन्ते । किंच अपां रसस्य वायोर्यो रसः सारः प्रजापतिर्हिरण्यगर्भः स हि यज्ञलोककालाग्निवायुसूर्यर्ग्यजुःसामादिवपुः हे देवाः, वो युष्मदर्थं तं प्रजापतिमहं गृह्णामि । किंभूतम् । उत्तममुत्कृष्टतमम् । वःशब्दोऽनर्थको वा। सोमरूपेण वायुं तदभिमानिनं प्रजापतिं च गृह्णामीत्यर्थः। उपयामेति व्याख्यातम् । एष त इति सादनम् ॥ ३ ॥
चतुर्थी।
अधिमन्त्रम् (VC)
- सम्राड् देवता
- तापस ऋषिः
- निचृद् अति शक्वरी
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर प्रजाजनों को कैसा पुरुष राजा मानना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! मैं (इन्द्राय) ऐश्वर्य्यप्राप्ति के लिये (वः) तुम्हारे लिये (सूर्य्ये) सूर्य के प्रकाश में (सन्तम्) वर्त्तमान (समाहितम्) सर्व प्रकार चारों ओर धारण किये (उद्वयसम्) उत्कृष्ट जीवन के हेतु (अपाम्) जलों के (रसम्) सार का ग्रहण करता हूँ, (यः) जो (अपाम्) जलों के (रसस्य) सार का (रसः) वीर्य धातु है, (तम्) उस (उत्तमम्) कल्याणकारक रस का तुम्हारे लिये (गृह्णामि) स्वीकार करता हूँ, जो आप (उपयामगृहीतः) साधन तथा उपसाधनों से स्वीकार किये गये (असि) हो, उस (इन्द्राय) परमेश्वर की प्राप्ति के लिये (जुष्टम्) प्रीतिपूर्वक वर्त्तनेवाले आप का (गृह्णामि) ग्रहण करता हूँ, जिस (ते) आप का (एषः) यह (योनिः) घर है, उस (जुष्टतमम्) अत्यन्त सेवनीय (त्वा) आप को (इन्द्राय) परम सुख होने के लिये (गृह्णामि) ग्रहण करता हूँ ॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजा को चाहिये कि अपने नौकर प्रजापुरुषों को शरीर और आत्मा के बल बढ़ाने के लिये ब्रह्मचर्य, ओषधि, विद्या और योगाभ्यास के सेवन में नियुक्त करे, जिससे सब मनुष्य रोगरहित होकर पुरुषार्थी होवें ॥३॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः प्रजाजनैः कथंभूतो जनो राजा माननीय इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे राजन्नहमिन्द्राय वः सूर्य्ये सन्तं समाहितमुद्वयसमपां रसं गृह्णामि। योऽपां रसस्य रसस्तमुत्तमं वो गृह्णामि, यस्यैष ते योनिरस्ति तमिन्द्राय जुष्टतमं त्वा गृह्णामि ॥३॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - राजा स्वभृत्यप्रजाजनान् शरीरात्मबलवर्धनाय ब्रह्मचर्य्यौषधविद्यायोगाभ्याससेवने नियुञ्जीत, यतः सर्वे रोगरहिताः सन्तः पुरुषार्थिनः स्युः ॥३॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजाने शरीर व आत्म्याचे बल वाढविण्यासाठी राज्यातील कर्मचाऱ्यांना ब्रह्मचर्य, औषधविद्या व योगाभ्यासात युक्त करावे, त्यामुळे सर्व माणसे रोगरहित व पुरुषार्थी होतील.
०४ ग्रहाऽऊर्जाहुतयो व्यन्तो
विश्वास-प्रस्तुतिः ...{Loading}...
ग्रहा॑ऽऊर्जाहुतयो॒ व्यन्तो॒ विप्रा॑य म॒तिम्। तेषां॒ विशि॑प्रियाणां वो॒ऽहमिष॒मूर्जँ॒ सम॑ग्रभमुपया॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम्। स॒म्पृचौ॑ स्थः॒ सं मा॑ भ॒द्रेण॑ पृङ्क्तं वि॒पृचौ॑ स्थो॒ वि मा॑ पा॒प्मना॑ पृङ्क्तम् ॥४॥
मूलम् ...{Loading}...
ग्रहा॑ऽऊर्जाहुतयो॒ व्यन्तो॒ विप्रा॑य म॒तिम्। तेषां॒ विशि॑प्रियाणां वो॒ऽहमिष॒मूर्जँ॒ सम॑ग्रभमुपया॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम्। स॒म्पृचौ॑ स्थः॒ सं मा॑ भ॒द्रेण॑ पृङ्क्तं वि॒पृचौ॑ स्थो॒ वि मा॑ पा॒प्मना॑ पृङ्क्तम् ॥४॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ग्रहाः॑। ऊ॒र्जा॒हु॒त॒य॒ इत्यू॑र्जाऽआहुतयः। व्यन्तः॑। विप्रा॑य। म॒तिम्। तेषा॑म्। विशि॑प्रियाणा॒मिति॒ विऽशि॑प्रियाणाम्। वः॒। अ॒हम्। इष॑म्। ऊर्ज॑म्। सम्। अ॒ग्र॒भ॒म्। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। इन्द्रा॑य। त्वा॒। जुष्ट॑म्। गृ॒ह्णा॒मि॒। ए॒षः। ते॒। योनिः॑। इन्द्रा॑य। त्वा॒। जुष्ट॑तम॒मिति॒ जुष्ट॑ऽतमम्। स॒म्पृचा॒विति॑ स॒म्ऽपृचौ॑। स्थः॒। सम्। मा॒। भ॒द्रेण॑। पृ॒ङ्क्त॒म्। वि॒पृचा॒विति॑ वि॒ऽपृचौ॑। स्थः॒। वि। मा॒। पा॒प्मना॑। पृ॒ङ्क्त॒म्। ४।
महीधरः
म०. अथ पञ्चमम् । ग्रहदेवत्यानुष्टुप् । हे ग्रहाः, तेषां वो युष्माकं संबन्धिनमिषमन्नमूर्जं रसं चाहं समग्रभं समग्रभं सम्यग्गृह्णामि । किंभूतानां । विशिप्रियाणाम् । शिप्रे हनू नासिके वा । इह तु हनू । शिप्रयोर्हन्वोः कर्म शिप्रियं हनुचलनम् । विगतं शिप्रियं येषु ग्रहेषु ते विशिप्रियाः सम्यगभिषुताः सुपूताश्च । तत्र हि हन्वोर्व्यापारो नास्ति सुपेयत्वात् । तेषां केषां । ये यूयमूर्जाहुतयः ऊर्जमन्नरसमाह्वयन्ति ये यैर्वा ते ऊर्जाहुतयः । तथा विप्राय मेधाविने इन्द्राय मतिं विशिष्टबुद्धिं व्यन्तः जानन्तो गमयन्तो वा । वीत्यस्य गतिकर्मणो धातोः शतृप्रत्यये रूपम् । उपयाम० एष ते इति व्याख्याते ( का० १४ । २ । । ७)। उपर्युपर्यक्षमध्वर्युर्धारयत्यधोऽधो नेष्टा संपृचाविति । अध्वर्युः सोमग्रहमक्षोपरि धारयति नेष्टा सुराग्रहमक्षाधस्तात् । सहैव धारणं मन्त्रपाठश्च । ग्रहदेवते यजुषी । हे सोमसुराग्रहौ, यौ युवां संपृचौ स्थः संपृक्तौ भवथः । ‘पृची संपर्के’ क्विप् । तौ युवां मा मां भद्रेण भन्दनीयेन कल्याणेन संपृङ्क्तं संसृजतं संयोजयतम् । ‘विपृचावित्याहरते’ ( का० १४ । २ । ८) इति । अध्वर्युनेष्टारौ स्वं स्वं ग्रहं स्वसमीपमानयतः । हे ग्रहौ, यतो युवां विपृचौ वियुक्तौ स्थः ततो मा मां पाप्मना विपृङ्क्तं वियोजयतम् ॥ ४ ॥
पञ्चमी।
अधिमन्त्रम् (VC)
- राजधर्मराजादयो देवताः
- बृहस्पतिर्ऋषिः
- भुरिक् कृतिः
- निषादः
०५ इन्द्रस्य वज्रोऽसि
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र॑स्य॒ वज्रो॑ऽसि वाज॒सास्त्वया॒यं वाजँ॑ सेत्। वाज॑स्य॒ नु प्र॑स॒वे मा॒तरं॑ म॒हीमदि॑तिं॒ नाम॒ वच॑सा करामहे। यस्या॑मि॒दं विश्वं॒ भुव॑नमावि॒वेश॒ तस्यां॑ नो दे॒वः स॑वि॒ता धर्म॑ साविषत् ॥५॥
मूलम् ...{Loading}...
इन्द्र॑स्य॒ वज्रो॑ऽसि वाज॒सास्त्वया॒यं वाजँ॑ सेत्। वाज॑स्य॒ नु प्र॑स॒वे मा॒तरं॑ म॒हीमदि॑तिं॒ नाम॒ वच॑सा करामहे। यस्या॑मि॒दं विश्वं॒ भुव॑नमावि॒वेश॒ तस्यां॑ नो दे॒वः स॑वि॒ता धर्म॑ साविषत् ॥५॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इन्द्र॑स्य। वज्रः॑। अ॒सि॒। वा॒ज॒सा इति॑ वाज॒ऽसाः। त्वया॑। अ॒यम्। वाज॑म्। से॒त्। वाज॑स्य। नु। प्र॒स॒व इति॑ प्रऽस॒वे। मा॒तर॑म्। म॒हीम्। अदि॑तिम्। नाम॑। वचसा॑। क॒रा॒म॒हे॒। यस्या॑म्। इ॒दम्। विश्व॑म्। भुव॑नम्। आ॒वि॒वेशत्या॑ऽवि॒वेश॑। तस्या॑म्। नः॒। दे॒वः। स॒वि॒ता। धर्म॑। सा॒वि॒ष॒त्। ५।
महीधरः
म० ‘मरुत्वतीयान्त इन्द्रस्य वज्र इति रथावहरणमिति’ ( का० १४ । ३ । १)। महामरुत्वतीयान्ते माहेन्द्रात्पूर्वं रथवाहनाच्छकटाद्रथमवतारयति। रथदेवत्यं यजुः। हे रथ, त्वमिन्द्रस्य वज्रोऽसि । इन्द्रेण यदा वृत्राय वज्रं प्रहृतं तत्त्रिधा जातं तस्यैको भागो रथ इति ‘इन्द्रो ह यत्र वृत्राय वज्रं प्रजहार’ (१।२।४।१) इत्यादिश्रुत्या उक्तम् । किंभूतस्त्वम् । वाजसाः वाजमन्नं सनोति ददातीति वाजसाः । ‘षणु दाने’ विट्प्रत्ययः ‘विड्वनोरनुनासिकस्यात्-’ (पा० ६।४।४१) इत्याकारः । किंच अयं यजमानस्त्वया वज्रीभूतेन सहायेन वाजमन्नं सेत् । सनोतेः सिनोतेर्वा रूपम् । अन्नं सनुयात्संभजेत । यद्वा सिनुयाद्बध्नीयात्। बह्वन्नवान्भूयादित्यर्थः । ‘चात्वालमावर्तयति वाजस्येति धूर्गृहीतमिति’ (का० १४।३।२) । अवतारितं रथं धुरि गृहीत्वा चात्वालाद्दक्षिणेनानीय वेद्यां स्थापयेत् । पृथिवीदेवत्यातिजगती अन्त्यः पादः सवितृदेवत्यः । नु एवार्थे । वाजस्यान्नस्य प्रसवेऽनुज्ञायामेव वर्तमाना वयं यां भूमिं नाम प्रसिद्धं यथा तथा वचसा वेदवाक्येन एवंविधामनुकूलां करामहे कृतवन्तः कुर्महे वा । करोतेः शपि रूपम् । किंभूतां भूमिम् । मातरं जगन्निर्मात्रीं महीं महतीं महनीयां वा अदितिमदीनामखण्डितां वा । किंच इदं विश्वं भुवनं सर्वं भूतजातं यस्यां भूमावाविवेश आविष्टम् । सविता देवस्तस्यां भूमावेव नोऽस्माकं घर्मं धारणमवस्थानं साविषत् प्रसुवतां प्रेरयतु । ‘षू प्रेरणे’ इति धातोर्णिजन्तस्य लेटि साविषदिति रूपम् ‘सिब्बहुलं लेटि’ (पा० ३ । १ । ३४) ‘लेटोऽडाटौ’ (पा० ३ । ४ । ९४ ) ‘इतश्च लोपः परस्मैपदेषु’ ( पा० ३ । ४ । ९७ ) इति सूत्रैः ॥ ५॥
षष्ठी।
अधिमन्त्रम् (VC)
- सविता देवता
- बृहस्पतिर्ऋषिः
- भुरिग् अष्टिः
- मध्यमः
०६ अप्स्वन्तरमृतमप्सु भेषजमपामुत
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒प्स्व᳙न्तर॒मृत॑म॒प्सु भे॑ष॒जम॒पामु॒त प्रश॑स्ति॒ष्वश्वा॒ भव॑त वा॒जिनः॑। देवी॑रापो॒ यो व॑ऽऊ॒र्मिः प्रतू॑र्तिः क॒कुन्मा॑न् वाज॒सास्तेना॒यं वाजँ॑ सेत् ॥६॥
मूलम् ...{Loading}...
अ॒प्स्व᳙न्तर॒मृत॑म॒प्सु भे॑ष॒जम॒पामु॒त प्रश॑स्ति॒ष्वश्वा॒ भव॑त वा॒जिनः॑। देवी॑रापो॒ यो व॑ऽऊ॒र्मिः प्रतू॑र्तिः क॒कुन्मा॑न् वाज॒सास्तेना॒यं वाजँ॑ सेत् ॥६॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒प्स्वित्य॒प्ऽसु। अ॒न्तः। अ॒मृत॑म्। अ॒प्स्वित्य॒प्ऽसु। भे॒ष॒जम्। अ॒पाम्। उ॒त। प्रश॑स्ति॒ष्विति॒ प्रऽश॑स्तिषु। अश्वाः॑। भव॑त। वा॒जिनः॑। देवीः॑। आ॒पः॒। यः। वः॒। ऊ॒र्मिः। प्रतू॑र्त्तिरिति॒ प्रऽतू॑र्त्तिः। क॒कुन्मा॒निति॑ क॒कुत्ऽमा॑न्। वा॒ज॒सा इति॑ वाज॒ऽसाः। तेन॑। अ॒यम्। वाज॑म्। से॒त्। ६।
महीधरः
म० ‘अश्वान् प्रोक्षत्यपोऽवनीयमानान् स्नातान्वागतानप्स्वन्तरिति देवीराप इति वा समुच्चयो वेति’ (का० १४ । ३ । ३ । ५) स्नानार्थमपो नीयमानान् स्नात्वागतान्वाश्वानप्स्वन्तरिति देवीराप इति मन्त्रेण वोभाभ्यां वा प्रोक्षेत् । अश्वदेवत्यावसानरहिता पुरउष्णिक् । अस्याः पाद आद्यो द्वादशाक्षरो द्वावष्टाक्षरौ । अप्सु उदकेषु अन्तर्मध्ये अमृतमवस्थितमप्सु भेषजमारोग्यपुष्टिकरमोषधं चावस्थितम् । हे अश्वाः, यूयं तत्रामृतभेषजयुतास्वप्सु वाजिनोऽन्नवन्तो भवत । उतापि च अपां प्रशस्तिषु प्रशस्तेषु भागेषु यूयं भवत । द्वितीयः प्रोक्षणमन्त्रः अब्देवत्यं यजुः । हे देवीः देव्यो दीप्यमाना आपः, वो युष्माकं य ऊर्मिः कल्लोलस्तेन सिक्तोऽयमश्वो वाजमन्नं सेत् सनुयाद् बध्नीयाद्वा । किंभूत ऊर्मिः । प्रतूर्तिः प्रकृष्टा तूर्तिर्वेगो यस्य प्रत्वरणशीलः। तथा ककुन्मान् ककुच्छब्देन वृषभस्कन्धे उन्नतप्रदेश उच्यते । सादृश्ये मतुप् । तत्सामान्यादुदकनिचयैः संयुक्तो बहुलोदकसंघातवान्ककुन्मानित्युच्यते । तथा वाजसाः अन्नस्य दाता ॥ ६ ॥
सप्तमी।
अधिमन्त्रम् (VC)
- अश्वो देवता
- बृहस्पतिर्ऋषिः
- भुरिग् जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर स्त्री-पुरुषों को कैसा होना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (देवीः) दिव्यगुणवाली (आपः) अन्तरिक्ष में व्यापक स्त्री-पुरुष लोगो ! तुम (यः) जो (वः) तुम्हारा (समुद्रस्य) सागर के (ककुन्मान्) प्रशस्त चञ्चल गुणों से युक्त (वाजसाः) सङ्ग्रामों के सेवने के हेतु (प्रतूर्त्तिः) अतिशीघ्र चलनेवाला समुद्र के (ऊर्मिः) आच्छादन करनेहारे तरङ्गों के समान पराक्रम और जो (अप्सु) प्राण के (अन्तः) मध्य में (अमृतम्) मरणधर्मरहित कारण और जो (अप्सु) जलों के मध्य अल्पमृत्यु से छुड़ानेवाला (भेषजम्) रोगनिवारक ओषध के समान गुण है, जिससे (अयम्) यह सेनापति (वाजम्) सङ्ग्राम और अन्न का प्रबन्ध करे (तेन) उससे (अपाम्) उक्त प्राणों और जलों की (प्रशस्तिषु) गुण प्रशंसाओं में (वाजिनः) प्रशंसित बल और पराक्रमवाले (अश्वाः) कुलीन घोड़ों के समान वेगवाले (भवत) हूजिये ॥६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। स्त्रियों को चाहिये कि समुद्र के समान गम्भीर, जल के समान शान्तस्वभाव, वीरपुत्रों को उत्पन्न करने, नित्य ओषधियों को सेवने और जलादि पदार्थों को ठीक-ठीक जाननेवाली होवें। इसी प्रकार जो पुरुष वायु और जल के गुणों के वेत्ता पुरुषों से संयुक्त होते हैं, वे रोगरहित होकर विजयकारी होते हैं ॥६॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स्त्रीपुरुषैः कथं भवितव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे देवीरापो देवा विद्वांसश्व यूयं यो वः समुद्रस्य ककुन्मान् वाजसाः प्रतूर्तिरूर्मिरिव पराक्रमोऽस्ति, यदप्स्वन्तरमृतमप्सु भेषजं चास्ति, येनायं वाजं सेत्, तेनाऽपां प्रशस्तिषु वाजिनोऽश्वा इव भवत ॥६॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। स्त्रियः सागर इव गम्भीरा जलमिव शान्तस्वभावा वीरप्रसवाः सदौषधसेविन्यो जलादिपदार्थाभिज्ञाः स्युरेवं ये पुरुषा वायुजलवेतृभिः सह सम्प्रयुञ्जते, तास्ते चारोगाः सन्तो विजयिनश्च स्युः ॥६॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. स्त्रियांनी समुद्राप्रमाणे गंभीर, जलाप्रमाणे शांत स्वभावाचे असावे. वीर पुरुषांना उत्पन्न करावे. नेहमी औषधांचे सेवन करून जल इत्यादी पदार्थांचे यथायोग्य ज्ञान मिळवावे. याप्रमाणेच जे पुरुष वायू व जल यांचे ज्ञान असणाऱ्या विद्वानांच्या संगतीत राहतात ते रोगरहित होतात व त्यांचा विजय होतो.
०७ वातो वा
विश्वास-प्रस्तुतिः ...{Loading}...
वातो॑ वा॒ मनो॑ वा गन्ध॒र्वाः स॒प्तविँ॑शतिः। तेऽअग्रेऽश्व॑मयुञ्जँ॒स्तेऽअ॑स्मिन् ज॒वमाद॑धुः ॥७॥
मूलम् ...{Loading}...
वातो॑ वा॒ मनो॑ वा गन्ध॒र्वाः स॒प्तविँ॑शतिः। तेऽअग्रेऽश्व॑मयुञ्जँ॒स्तेऽअ॑स्मिन् ज॒वमाद॑धुः ॥७॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वातः॑। वा॒। मनः॑। वा॒। ग॒न्ध॒र्वाः। स॒प्तविँ॑शति॒रिति॑ स॒प्तऽविँ॑शतिः। ते। अग्रे॑। अश्व॑म्। अ॒यु॒ञ्ज॒न्। ते। अ॒स्मि॒न्। ज॒वम्। आ। अ॒द॒धुः॒। ७।
महीधरः
म० ‘दक्षिणं युनक्ति वातो वेति’ (का० १४ । ३ । ६)। दक्षिणमश्वं रथे योजयेत् । अश्वदेवत्या उष्णिक् । वाशब्दौ समुच्चयार्थौ । वातो वायुर्मन इन्द्रियं सप्तविंशतिर्नक्षत्राणि गन्धर्वा गोभूमेर्धर्तारः ते वातादयोऽग्रे पूर्वमश्वमयुञ्जन् रथे योजितवन्तः । ते च वातादयोऽस्मिन्नश्वे जवं वेगमादधुः स्थापितवन्तः ॥७ ॥
अष्टमी।
अधिमन्त्रम् (VC)
- सेनापतिर्देवता
- बृहस्पतिर्ऋषिः
- उष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्य लोग किस प्रकार क्या करके वेगवाले हों, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो विद्वान् लोग (वातः) वायु के (वा) समान (मनः) मन के (वा) समतुल्य और जैसे (सप्तविंशतिः) सत्ताईस (गन्धर्वाः) वायु, इन्द्रिय और भूतों के धारण करनेहारे (अस्मिन्) इस जगत् में (अग्रे) पहिले (अश्वम्) व्यापकता और वेगादि गुणों को (अयुञ्जन्) संयुक्त करते हैं, (ते) वे ही (जवम्) उत्तम वेग को (आदधुः) धारण करते हैं ॥७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो एक समष्टि वायु; प्राण, अपान, व्यान, उदान, समान, नाग, कूर्म, कृकल, देवदत्त और धनञ्जय दश; बारहवाँ मन तथा इस के साथ श्रोत्र आदि दश इन्द्रिय और पाँच सूक्ष्मभूत ये सब २७ सत्ताईस पदार्थ ईश्वर ने इस जगत् में पहिले रचे हैं, जो पुरुष इनके गुण, कर्म और स्वभाव को ठीक-ठीक जान और यथायोग्य कार्य्यों में संयुक्त करके अपनी-अपनी ही स्त्री के साथ क्रीड़ा करते हैं, वे सम्पूर्ण ऐश्वर्य्य को संचित कर राज्य के योग्य होते हैं ॥७॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्याः कथं किं कृत्वा वेगवन्तो भवेयुरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये विद्वांसो वातो वा मनो वा यथा सप्तविंशतिर्गन्धर्वा अस्मिन् जगत्यग्रेऽश्वमयुञ्जँस्ते खलु जवमादधुः ॥७॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यान्येकः समष्टिर्वायुः; प्राणाऽपानव्यानोदानसमाननागकूर्मकृकलदेवदत्तधनञ्जया दश; द्वादशं मनस्तत्सहचरितानि श्रोत्रादीनि दशेन्द्रियाणि पञ्च सूक्ष्मभूतानि च मिलित्वा सप्तविंशति, पूर्वमीश्वरेणास्मिन् जगति वेगवन्ति निर्मितानि, य एतानि यथागुणकर्मस्वभावं विज्ञाय यथायोग्यं कार्य्येषु संप्रयुज्य स्वस्त्रीभिरेव साकं रमन्ते, तेऽखिलमैश्वर्य्यं जनयित्वा राज्यं कर्त्तुमर्हन्ति ॥७॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - प्राण, अपान, व्यान, उदान, समान, नाग, कूर्म, कृकल, देवदत्त व धनंजय हे दहा व समाष्टिवायू अकरा, बारावे मन त्याबरोबरच श्रोत्र इत्यादी दहा इंद्रिये व पाच सूक्ष्म व स्थूल भूत हे सर्व २७ पदार्थ ईश्वराने या जगात प्रथम उत्पन्न केलेले आहेत. जे पुरुष वरील पदार्थांचे गुण, कर्म, स्वभाव जाणून त्यांना यथायोग्य कार्यात युक्त करतात व आपल्या स्त्रीशी एकनिष्ठ असतात त्यांच्याजवळ संपूर्ण ऐश्वर्य येते व ते राज्य करण्यायोग्य असतात.
०८ वातरंहा भव
विश्वास-प्रस्तुतिः ...{Loading}...
वात॑रँहा भव वाजिन् यु॒ज्यमा॑न॒ऽइन्द्र॑स्येव॒ दक्षि॑णः श्रि॒यैधि॑। यु॒ञ्जन्तु॑ त्वा म॒रुतो॑ वि॒श्ववे॑दस॒ऽआ ते॒ त्वष्टा॑ प॒त्सु ज॒वं द॑धातु ॥८॥
मूलम् ...{Loading}...
वात॑रँहा भव वाजिन् यु॒ज्यमा॑न॒ऽइन्द्र॑स्येव॒ दक्षि॑णः श्रि॒यैधि॑। यु॒ञ्जन्तु॑ त्वा म॒रुतो॑ वि॒श्ववे॑दस॒ऽआ ते॒ त्वष्टा॑ प॒त्सु ज॒वं द॑धातु ॥८॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वात॑रँहा॒ इति वात॑ऽरँहाः। भ॒व॒। वाजि॑न्। युज्यमा॑नः। इन्द्र॑स्ये॒वेतीन्द्र॑स्यऽइव। दक्षि॑णः। श्रि॒या। ए॒धि॒। यु॒ञ्जन्तु॑। त्वा॒। म॒रुतः॑। वि॒श्ववे॑दस॒ इति॑ वि॒श्वऽवे॑दसः। आ। ते॒। त्वष्टा॑। प॒त्स्विति॑ प॒त्ऽसु। ज॒वम्। द॒धा॒तु॒। ८।
महीधरः
म० ‘उत्तरं वातरᳪं᳭हा इति’ ( का० १४ । ३ । ७)। उत्तरमश्वं युनक्ति । अश्वदेवत्या त्रिष्टुप् । हे वाजिन् वेगवन्नश्व, युज्यमानः सन् त्वं वातरंहा वातवद्वेगयुक्तो भव वातस्येव रंहो यस्य । किंच दक्षिणो दक्षिणभागे स्थितस्त्वमिन्द्रस्याश्व इव श्रिया शोभया युक्त एधि भव । किंच विश्ववेदसः सर्वज्ञाः सर्वधना वा मरुतः हे अश्व, त्वां युञ्जन्तु रथे नियोजयन्तु । | किंच त्वष्टा देवः हे अश्व, ते तव पत्सु पादेषु जवं वेगमादधातु स्थापयतु ॥८॥
नवमी।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- बृहस्पतिर्ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
उस राजा को विद्वान् लोग क्या-क्या उपदेश करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (वाजिन्) शास्त्रोक्त क्रियाकुशलता के प्रशस्त बोध से युक्त राजन् ! जिस (त्वा) आप को (विश्ववेदसः) समस्त विद्याओं के जाननेहारे (मरुतः) विद्वान् लोग राज्य और शिल्पविद्याओं के कार्य्यों में (युञ्जन्तु) युक्त और (त्वष्टा) वेगादि गुणविद्या का जाननेहारा मनुष्य (ते) आपके (पत्सु) पगों में (जवम्) वेग को (आदधातु) अच्छे प्रकार धारण करे। वह आप (वातरंहाः) वायु के समान वेगवाले (भव) हूजिये और (युज्यमानः) सावधान होके (दक्षिणः) प्रशंसित धर्म से चलने के बल से युक्त होके (इन्द्रस्येव) परम ऐश्वर्य्यवाले राजा के समान (श्रिया) शोभायुक्त राज्य सम्पत्ति वा राणी के सहित (एधि) वृद्धि को प्राप्त हूजिये ॥८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। राजसम्बन्धी स्त्री-पुरुषो ! आप लोग अभिमानरहित और निर्मत्सर अर्थात् दूसरों की उन्नति देखकर प्रसन्न होनेवाले होकर विद्वानों के साथ मिल के राजधर्म की रक्षा किया करो तथा विमानादि यानों में बैठ के अपने अभीष्ट देशों में जा जितेन्द्रिय हो और प्रजा को निरन्तर प्रसन्न कर के श्रीमान् हुआ कीजिये ॥८॥
दयानन्द-सरस्वती (सं) - विषयः
तं राजानं विद्वांसः किं किमुपदिशेयुरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे वाजिन् ! यं त्वा विश्ववेदसो मरुतो राज्यशिल्पकार्य्येषु युञ्जन्तु, त्वष्टा ते तव पत्सु जवमादधातु, स त्वं वातरंहा भव, युज्यमानस्त्वं दक्षिण इन्द्रस्येव श्रिया सहैधि ॥८॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। हे राजस्त्रीपुरुषाः ! यूयं निरभिमानिनो निर्मत्सरा भूत्वा विद्वत्सङ्गेन राज्यधर्मं पालयित्वा विमानादियानेषु स्थित्वाऽभीष्टदेशेषु गत्वागत्य जितेन्द्रियाः सन्तः प्रजाः सततं प्रसाद्य श्रीमन्तो भवत ॥८॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. राज्याशी संबंधित स्त्री-पुरुषांनो ! तुम्ही अभिमानरहित व द्वेषरहित व्हा, अर्थात दुसऱ्यांची उन्नती पाहून प्रसन्न व्हा. विद्वानांबरोबर राहून राजधर्माचे रक्षण करा. विमानात प्रवास करून इच्छित स्थळी जा. जितेन्द्रिय व्हा व प्रजेला सतत प्रसन्न करून श्रीमान बना.
०९ जवो यस्ते
विश्वास-प्रस्तुतिः ...{Loading}...
ज॒वो यस्ते॑ वाजि॒न्निहि॑तो॒ गुहा॒ यः श्ये॒ने परी॑त्तो॒ऽअच॑रच्च॒ वाते॑। तेन॑ नो वाजि॒न् बल॑वा॒न् बले॑न वाज॒जिच्च॒ भव॒ सम॑ने च पारयि॒ष्णुः। वाजि॑नो वाजजितो॒ वाजँ॑ सरि॒ष्यन्तो॒ बृह॒स्पते॑र्भा॒गमव॑जिघ्रत ॥९॥
मूलम् ...{Loading}...
ज॒वो यस्ते॑ वाजि॒न्निहि॑तो॒ गुहा॒ यः श्ये॒ने परी॑त्तो॒ऽअच॑रच्च॒ वाते॑। तेन॑ नो वाजि॒न् बल॑वा॒न् बले॑न वाज॒जिच्च॒ भव॒ सम॑ने च पारयि॒ष्णुः। वाजि॑नो वाजजितो॒ वाजँ॑ सरि॒ष्यन्तो॒ बृह॒स्पते॑र्भा॒गमव॑जिघ्रत ॥९॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ज॒वः। यः। ते॒। वा॒जि॒न्। निहि॑त॒ इति॑ निऽहि॑तः। गुहा॑। यः। श्ये॒ने। परी॑त्तः। अच॑रत्। च॒। वाते॑। ते॑न। नः॒। वा॒जि॒न्। बल॑वा॒निति॒ बल॑ऽवान्। बले॑न। वा॒ज॒जिदिति॑ वाज॒ऽजित्। च॒। भव॑। सम॑ने। च॒। पा॒र॒यि॒ष्णुः। वाजि॑नः। वा॒ज॒जि॒त इति॑ वाजऽजितः। वाज॑म्। स॒रि॒ष्यन्तः॑। बृह॒स्पतेः॑। भा॒गम्। अव॑। जि॒घ्र॒त॒। ९।
महीधरः
म० ‘दक्षिणाप्रष्टिं जवो यस्त इति’ (का. १४ । ३ । ८)। दक्षिणायां धुरि प्रकृष्टं देशमश्नुत इति दक्षिणाप्रष्टिस्तादृशं तृतीयमश्वं युनक्ति । अश्वदेवत्या जगती । हे वाजिन्नश्व, यस्ते तव जवो वेगः गुहा गुहायां हृदयप्रदेशे निहितोऽवस्थापितः । ‘सुपां सुलुक्’ ( पा० ७ । १ । ३९) इति गुहाशब्दात् ङेर्लुक् । श्येने श्येनाख्ये पक्षिणि यो जवः परीत्तः त्वयैव परिदत्तः सन् अचरत् चरति प्रवर्तते । यश्च ते जवः परिदत्तः सन् वाते अचरत् वायौ चरति । परिपूर्वाद्ददातेर्निष्ठायां ‘अच उपसर्गात्तः’ (पा. ७ । ४ । ४७) इति तादेशे ‘दस्ति’ ( पा० ६ । ३ । १२४ ) इति दादेशे तकारे परे इगन्तोपसर्गस्य दीर्घे परीत्त इति । हे वाजिन् , तेन त्रिविधेन बलेन वेगलक्षणेन बलवान्वेगवान्सन्नोऽस्माकं वाजजित् अन्नस्य जेता भव । च पुनः समने सङ्ग्रामे पारयिष्णुः पारयिता च पारप्रापको भव । ‘पार तीर कर्मसमाप्तौ’ इत्यस्माच्चुरादिणिजन्तात् ‘णेश्छन्दसि’ (पा० ३ । २ । १३७ ) इतीष्णुप्रत्ययः । ‘बार्हस्पत्यमेनानाघ्रापयति वाजिन इति’ (का० १४ । ३ । १०) । बार्हस्पत्यं चरुमश्वानाघ्रापयेत् । अश्वदेवत्यं यजुः । वाजजितोऽन्नस्य जेतारो वाजमन्नं प्रति सरिष्यन्तो गमिष्यन्तो हे वाजिनोऽश्वाः, यूयं बृहस्पतेर्भागं चरुमवजिघ्रत आघ्राणं कुरुत ॥ ९॥
दशमी ।
अधिमन्त्रम् (VC)
- वीरो देवता
- बृहस्पतिर्ऋषिः
- धृतिः
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह राजा कैसा होवे, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (वाजिन्) श्रेष्ठ शास्त्रबोध और योगाभ्यास से युक्त सेना वा सभा के स्वामी राजन् ! (ते) आप का (यः) जो (जवः) वेग (गुहा) बुद्धि में (निहितः) स्थित है, (यः) जो (श्येने) पक्षी में जैसा (परीत्तः) सब और दिया हुआ (च) और जैसे (वाते) वायु में (अचरत्) विचरता है, (तेन) उससे (नः) हम लोगों के (बलेन) सेना वा पराक्रम से (बलवान्) बहुत बल से युक्त (भव) हूजिये। हे (वाजिन्) वेगयुक्त राजपुरुष ! उसी बल से (समने) सङ्ग्राम में (पारयिष्णुः) दुःख के पार करने और (वाजजित्) सङ्ग्राम के जीतनेवाले हूजिये। हे (वाजिनः) प्रशंसित वेग से युक्त योद्धा लोगो ! तुम (बृहस्पतेः) बड़ों की रक्षा करनेहारे सभाध्यक्ष की (भागम्) सेवा को प्राप्त हो के (वाजम्) बोध वा अन्नादि पदार्थों को (सरिष्यन्तः) प्राप्त होते हुए (वाजजितः) सङ्ग्राम के जीतनेहारे होओ और सुगन्धियुक्त पदार्थों का (अवजिघ्रत) सेवन करो ॥९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। राजा को चाहिये कि शरीर और आत्मा के पूर्ण बल को पा और शत्रुओं के जीतने में श्येन पक्षी और वायु के तुल्य शीघ्रकारी हो के, अपने सब सभासद् सेना के पुरुष और सब नौकरों को अच्छे शिक्षित बल तथा सुख को युक्त कर, धर्मात्माओं की निरन्तर रक्षा करे और सब राजा प्रजा के पुरुषों को चाहिये कि इस प्रकार के हों और शत्रुओं को जीत के परस्पर प्रसन्न रहें ॥९॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स राजा कीदृशो भवेदित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे वाजिन् सेनाध्यक्ष राजन् ! ते तव जवो गुहा निहितो यः श्येने इव परीत्तो वाते इवाचरच्च, तेन नो बलेन बलवान् भव। हे वाजिन् ! तेन च समने पारयिष्णुर्वाजजिच्च भव। हे वाजिनो योद्धारः ! यूयं बृहस्पतेः सेवनं प्राप्य वाजं सरिष्यन्तः सन्तो भवत, सुगन्धानवजिघ्रत ॥९॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। राजा पूर्णं शरीरात्मबलं संप्राप्य श्येनवद्वायुवच्छत्रुविजये यशस्वी भूत्वा स्वामात्यान् सेनास्थान् सर्वान् भृत्यांश्च सुशिक्षितान् बलसुखयुक्तान् धार्मिकान् सततं रक्षेत सर्वे राजप्रजाजनाः शत्रून् विजित्य परस्परं प्रीणन्तु ॥९॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. राजाने शरीर व आत्मा बलयुक्त करावा. शत्रूंना जिंकण्यासाठी श्येन पक्षी व वायूप्रमाणे गतिमान व्हावे. आपल्या सेनेतील लोकांना व सर्व नोकरांना प्रशिक्षण देऊन बलवान करावे व सुखी करावे धार्मिक लोकांचे सतत रक्षण करावे. राजा व प्रजा यांनी अशा प्रकारे वागून शत्रूंना जिंकावे व परस्पर प्रसन्न राहावे.
१० देवस्याहं सवितुः
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वस्या॒हँ स॑वि॒तुः स॒वे स॒त्यस॑वसो॒ बृहस्पते॑रुत्त॒मं नाकँ॑ रुहेयम्। दे॒वस्या॒हँ स॑वि॒तुः स॒वे स॒त्यस॑वस॒ऽइन्द्र॑स्योत्त॒मं ना॑कँरुहेयम्। दे॒वस्या॒हँ स॑वि॒तुः स॒वे स॒त्यप्र॑सवसो॒ बृह॒स्पते॑रुत्त॒मं नाक॑मरुहम्। दे॒वस्या॒हँ स॑वि॒तुः स॒वे स॒त्यप्र॑सवस॒ऽइन्द्र॑स्योत्त॒मं नाक॑मरुहम् ॥१०॥
मूलम् ...{Loading}...
दे॒वस्या॒हँ स॑वि॒तुः स॒वे स॒त्यस॑वसो॒ बृहस्पते॑रुत्त॒मं नाकँ॑ रुहेयम्। दे॒वस्या॒हँ स॑वि॒तुः स॒वे स॒त्यस॑वस॒ऽइन्द्र॑स्योत्त॒मं ना॑कँरुहेयम्। दे॒वस्या॒हँ स॑वि॒तुः स॒वे स॒त्यप्र॑सवसो॒ बृह॒स्पते॑रुत्त॒मं नाक॑मरुहम्। दे॒वस्या॒हँ स॑वि॒तुः स॒वे स॒त्यप्र॑सवस॒ऽइन्द्र॑स्योत्त॒मं नाक॑मरुहम् ॥१०॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दे॒वस्य॑। अ॒हम्। स॒वि॒तुः। स॒वे। स॒त्यस॑वस॒ इति॑ स॒त्यऽस॑वसः। बृह॒स्पतेः॑। उ॒त्त॒ममित्यु॑त्ऽत॒मम्। नाक॑म्। रु॒हे॒य॒म्। दे॒वस्य॑। अ॒हम्। स॒वि॒तुः। स॒वे। स॒त्यस॑वस॒ इति॑ स॒त्यऽसव॑सः। इन्द्र॑स्य। उ॒त्त॒ममित्यु॑त्ऽत॒मम्। नाक॑म्। रु॒हे॒य॒म्। दे॒वस्य॑। अ॒हम्। स॒वि॒तुः। स॒वे। स॒त्यप्र॑सवस॒ इति॑ स॒त्यऽप्र॑सवसः। बृह॒स्पतेः॑। उ॒त्त॒ममित्यु॑त्ऽत॒मम्। नाक॑म्। अ॒रु॒ह॒म्। दे॒वस्य॑। अ॒हम्। स॒वि॒तुः। स॒वे। स॒त्यप्र॑सवस॒ इति॑ स॒त्यऽप्र॑सवसः। इन्द्र॑स्य। उ॒त्त॒ममित्यु॑त्ऽत॒मम्। नाक॑म्। अ॒रु॒ह॒म्। १०।
महीधरः
म० ‘देवस्याहमिति ब्रह्मा रथचक्रमारोहत्युत्करे नाभिमात्रे स्थाणौ स्थितमिति’ ( का० १४ । ३ । १२)। उत्करप्रदेशे निखातस्य नाभिमात्रकाष्ठस्याग्रे स्थितं रथचक्रं ब्रह्मारोहेत् । ब्राह्मणकर्तृके वाजपेये लिङ्गोक्तदेवतम् । सत्यसवसः सत्याभ्यनुज्ञस्य सवितुर्देवस्य सवेऽनुज्ञायां वर्तमानोऽहं बृहस्पतेः संबन्धिनमुत्तममुत्कृष्टं नाकं स्वर्गं रुहेयमारोहामि । क्षत्रियवाजपेये चक्रारोहमन्त्रः । तत्र इन्द्रस्य नाकं रुहेयमिति विशेषः । | ‘आगतेषु ब्रह्मावरोहति देवस्याहमिति’ (का० १४ । ४ । ८)। यजमानादीनां सप्तदशरथेषु सप्तदशशरप्रक्षेपप्रदेशे निखातामौदुम्बरीं शाखां प्रदक्षिणीकृत्य देवयजनदेशमागतेषु सत्सु ब्रह्मा रथचक्रादवरोहति । विप्रयज्ञे पूर्वमन्त्रेण क्षात्रे उत्तरेण । सत्यं प्रकृष्टं च सवो यस्येति सत्यप्रसवाः । अत्र प्रशब्दः प्रकर्षद्योतकः । अरुहमिति भूतकालः नाकमारूढवानस्मीत्यर्थः । शेषं पूर्ववत् ॥ १० ॥
एकादशी।
अधिमन्त्रम् (VC)
- इन्द्राबृहस्पती देवते
- बृहस्पतिर्ऋषिः
- विराड् उत्कृतिः
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्य लोगों को उचित है कि विद्वानों का अनुकरण करें, मूढ़ों का नहीं, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजा और प्रजा के पुरुषो ! जैसे (अहम्) मैं सभाध्यक्ष राजा (सत्यसवसः) जिसका ऐश्वर्य्य और जगत् का कारण सत्य है, उस (देवस्य) सब ओर से प्रकाशमान (बृहस्पतेः) बड़े प्रकृत्यादि पदार्थों के रक्षक (सवितुः) सब जगत् को उत्पन्न करनेहारे जगदीश्वर के (सवे) उत्पन्न किये जगत् में (उत्तमम्) सब से उत्तम (नाकम्) सब दुःखों से रहित सच्चिदानन्द स्वरूप को (रुहेयम्) आरूढ़ होऊँ। हे राजा के सभासद् लोगो ! जैसे (अहम्) मैं परोपकारी पुरुष (सत्यसवसः) सत्य न्याय से युक्त (देवस्य) सब सुख देने (सवितुः) सम्पूर्ण ऐश्वर्य्य के उत्पन्न करनेहारे (इन्द्रस्य) परम ऐश्वर्य्य के सहित चक्रवर्ती राजा के (सवे) ऐश्वर्य्य में (उत्तमम्) प्रशंसा के योग्य (नाकम्) दुःखरहित भोग को प्राप्त हो के (रुहेयम्) आरूढ़ होऊँ। हे पढ़ने-पढ़ानेहारे विद्याप्रिय लोगो ! जैसे (अहम्) मैं विद्या चाहनेहारा जन (सत्यप्रसवसः) जिससे अविनाशी प्रकट बोध हो, उस (देवस्य) सम्पूर्ण विद्या और शुभ गुण, कर्म और स्वभाव के प्रकाश से युक्त (सवितुः) समग्र विद्याबोध के उत्पन्नकर्त्ता (बृहस्पतेः) उत्तम वेदवाणी की रक्षा करनेहारे वेद, वेदाङ्गोपाङ्गों के पारदर्शी के (सवे) उत्पन्न किये विज्ञान में (उत्तमम्) सब से उत्तम (नाकम्) सब दुःखों से रहित आनन्द को (अरुहम्) आरूढ़ हुआ हूँ। हे विजयप्रिय लोगो ! जैसे (अहम्) मैं योद्धा मनुष्य (सत्यप्रसवसः) जिससे सत्य, न्याय, विनय और विजयादि उत्पन्न हों, उस (देवस्य) धनुर्वेद युद्धविद्या के प्रकाशक (सवितुः) शत्रुओं के विजय में प्रेरक (इन्द्रस्य) दुष्ट शत्रुओं को विदीर्ण करनेहारे पुरुष की (सवे) प्रेरणा में (उत्तमम्) विजयनामक उत्तम (नाकम्) सब सुख देनेहारे सङ्ग्राम को (अरुहम्) आरूढ़ हुआ हूँ, वैसे आप भी सब लोग आरूढ़ हूजिये ॥१०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। सब राजा और प्रजा के पुरुषों को चाहिये कि परस्पर विरोध को छोड़, ईश्वर चक्रवर्ती राज्य और समग्र विद्याओं का सेवन करके, सब उत्तम सुखों को प्राप्त हों और दूसरों को प्राप्त करावें ॥१०॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यैर्विदुषामेवाऽनुकरणं कार्य्यं न मूढानामित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे प्रजाराजजनाः ! यथाऽहं सत्यसवसो देवस्य बृहस्पतेः सवितुर्जगदीश्वरस्य सव उत्तमं नाकं रुहेयम्। हे राजामात्यपुरुषाः ! यथाऽहं सत्यवसो देवस्य सवितुरिन्द्रस्य सम्राजः सव उत्तमं नाकं रुहेयम्। हे अध्येताध्यापका विद्याप्रिया जनाः ! यथाऽहं सत्यप्रसवसः सवितुर्देवस्य बृहस्पतेरुत्तमं नाकमरुहम्। हे विजयाभिकाङ्क्षिणो योद्धारो वीराः। यथाहं सत्यप्रसवसो देवस्य सवितुरिन्द्रस्य सव उत्तमं नाकमरुहं तथा यूयमप्यारोहत ॥१०॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। राजप्रजाजनैः परस्परविरोधेनेश्वरचक्रवर्त्तिराज्यसमग्रविद्याः सम्भज्य सर्वाण्युत्तमानि सुखानि प्राप्तव्यानि प्रापयितव्यानि च ॥१०॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. राजा व प्रजा यांनी परस्पर विरोध सोडून ईश्वर, चक्रवर्ती राज्य व संपूर्ण विद्या यांचे ग्रहण करावे. उत्तम सुख प्राप्त करून इतरांनाही सुखी करावे.
११ बृहस्पते वाजम्
विश्वास-प्रस्तुतिः ...{Loading}...
बृह॑स्पते॒ वाजं॑ जय॒ बृह॒स्पत॑ये॒ वाचं॑ वदत॒ बृह॒स्पतिं॒ वाजं॑ जापयत। इन्द्र॒ वाजं॑ ज॒येन्द्रा॑य॒ वाचं॑ वद॒तेन्द्रं॒ वाजं॑ जापयत ॥११॥
मूलम् ...{Loading}...
बृह॑स्पते॒ वाजं॑ जय॒ बृह॒स्पत॑ये॒ वाचं॑ वदत॒ बृह॒स्पतिं॒ वाजं॑ जापयत। इन्द्र॒ वाजं॑ ज॒येन्द्रा॑य॒ वाचं॑ वद॒तेन्द्रं॒ वाजं॑ जापयत ॥११॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
बृह॑स्पते। वाज॑म्। ज॒य॒। बृह॒स्पत॑ये। वाच॑म्। व॒द॒त॒। बृह॒स्पति॑म्। वाज॑म्। जा॒प॒य॒त॒। इन्द्र॑। वाज॑म्। ज॒य॒। इन्द्रा॑य। वाच॑म्। व॒द॒त॒। इन्द्र॑म्। वाज॑म्। जा॒प॒य॒त॒। ११।
महीधरः
म० ‘बृहस्पते वाजमित्येकं दुन्दुभिमाहन्ति तूष्णीमितरानिति’ (का. १४ । ३ । १५) अनुवेद्युच्छ्रितस्थाण्वारोपितसप्तदशदुन्दुभीनां मध्ये एकं मन्त्रेणाहन्ति षोडश तूष्णीम् । यजुः विप्रयज्ञे मन्त्रः हे दुन्दुभयः, यूयं बृहस्पतये इति वाचं वदत । किम् । यत् हे बृहस्पते, त्वं वाजमन्नं जय । किंच हे दुन्दुभयः, यूयमेव बृहस्पतिं वाजमन्नं जापयत । बृहस्पतिनान्नजयं कारयतेत्यर्थः । ‘जि जये’ इत्यस्य हेतुमण्णिचि ‘क्रीङ्जीनां णौ’ (पा०६।१ । ४८) इति धातोराकारे कृते ‘अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुग्णौ’ (पा. ७ । ३ । ३६) इति पुगागमे लोण्मध्यमबहुवचने जापयतेति रूपम् । क्षत्रयज्ञे दुन्दुभिवादनमन्त्रः । हे दुन्दुभयः, यूयमिन्द्रायेति वाचं वदत यत् हे इन्द्र, त्वं वाजं जय । इन्द्रवाजं यूयं जापयतेति पूर्ववत् ॥ ११॥
द्वादशी।
अधिमन्त्रम् (VC)
- इन्द्राबृहस्पती देवते
- बृहस्पतिर्ऋषिः
- जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
अब उपदेश करने और सुननेवालों का विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (बृहस्पते) सम्पूर्ण विद्याओं का प्रचार और उपदेश करनेहारे राजपुरुष ! आप (वाजम्) विज्ञान वा सङ्ग्राम को (जय) जीतो। हे विद्वानो ! तुम लोग इस (बृहस्पतये) राजपुरुष के लिये (वाचम्) वेदोक्त सुशिक्षा से प्रसिद्ध वाणी को (वदत) पढ़ाओ और उपदेश करो इस (बृहस्पतिम्) राजा वा सर्वोत्तम अध्यापक को (वाजम्) विद्याबोध व युद्ध को (जापयत) बढ़ाओ और जिताओ। हे (इन्द्र) विद्या के ऐश्वर्य्य का प्रकाश वा शत्रुओं को विदीर्ण करनेहारे राजपुरुष ! आप (वाजम्) परम ऐश्वर्य्य वा शत्रुओं के विजयरूपी युद्ध को (जय) जीतो। हे युद्धविद्या में कुशल विद्वानो ! तुम लोग इस (इन्द्राय) परम ऐश्वर्य्य को प्राप्त करनेवाले राजपुरुष के लिये (वाजम्) राजधर्म का प्रचार करनेहारी वाणी को (वदत) कहो, इस (इन्द्रम्) राजपुरुष को (वाजम्) सङ्ग्राम को (जापयत) जिताओ ॥११॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। राजा को ऐसा प्रयत्न करना चाहिये कि जिस से वेदविद्या का प्रचार और शत्रुओं का विजय सुगम हो और उपदेशक तथा योद्धा लोग ऐसा प्रयत्न करें कि जिस राज्य में वेदादिशास्त्र पढ़ने-पढ़ाने की प्रवृत्ति और अपना राजा विजयरूपी आभूषणों से सुशोभित होवे कि जिससे अधर्म का नाश और धर्म की वृद्धि अच्छे प्रकार से स्थिर होवे ॥११॥
दयानन्द-सरस्वती (सं) - विषयः
अथोपदेष्टृविधिमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे बृहस्पते सर्वविद्याध्यापकोपदेशक वा ! त्वं वाजं जय। हे विद्वांसः ! यूयमस्मै बृहस्पतये वाचं वदतेमं बृहस्पतिं वाजं जापयत। हे इन्द्र ! त्वं वाजं जय। हे युद्धविद्याकुशला विद्वांसः ! यूयमस्मा इन्द्राय वाचं वदतेममिन्द्रं वाजं जापयत ॥११॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। राजा तथा प्रयतेत यथा वेदविद्याप्रचारः शत्रुविजयश्च सुगमः स्यात्। उपदेशका योद्धारश्चेत्थं प्रयतेरन्, यतो राज्ये वेदादिशास्त्राध्ययनाऽध्यापनप्रवृत्तिः स्वराजा विजयाऽलङ्कृतो भवेद्, येन धर्मवृद्धिरधर्महानिश्च सुतिष्ठेत् ॥११॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. राजाने वेदविद्येचा प्रसार होईल व शत्रूंवर सहज विजय प्राप्त करता येईल असा प्रयत्न करावा. उपदेशक व योद्धे वगैरेंनी असा प्रयत्न करावा की राज्यामध्ये वेदादी शास्त्रांचे अध्ययन व अध्यापन याबाबत रुची निर्माण व्हावी. राजा हा विजयरूपी आभूषणांनी सुशोभित असावा. ज्यामुळे अधर्माचा नाश व धर्माची वृद्धी व्हावी.
१२ एषा वः
विश्वास-प्रस्तुतिः ...{Loading}...
ए॒षा वः॒ सा स॒त्या सं॒वाग॑भू॒द् यया॒ बृह॒स्पतिं॒ वाज॒मजी॑जप॒ताजी॑जपत॒ बृह॒स्पतिं॒ वाजं॒ वन॑स्पतयो॒ विमु॑च्यध्यम्। ए॒षाः वः॒ सा स॒त्या सं॒वाग॑भू॒द् ययेन्द्रं॒ वाज॒मजी॑जप॒ताजी॑जप॒तेन्द्रं॒ वाजं॒ वन॑स्पतयो॒ विमु॑च्यध्वम् ॥१२॥
मूलम् ...{Loading}...
ए॒षा वः॒ सा स॒त्या सं॒वाग॑भू॒द् यया॒ बृह॒स्पतिं॒ वाज॒मजी॑जप॒ताजी॑जपत॒ बृह॒स्पतिं॒ वाजं॒ वन॑स्पतयो॒ विमु॑च्यध्यम्। ए॒षाः वः॒ सा स॒त्या सं॒वाग॑भू॒द् ययेन्द्रं॒ वाज॒मजी॑जप॒ताजी॑जप॒तेन्द्रं॒ वाजं॒ वन॑स्पतयो॒ विमु॑च्यध्वम् ॥१२॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ए॒षा। वः॒। सा। स॒त्या। सं॒वागिति॑ स॒म्ऽवाक्। अ॒भू॒त्। यया॑। बृह॒स्प॑तिम्। वाज॑म्। अजी॑जपत। अजी॑जपत। बृह॒स्पति॑म्। वाज॑म्। वन॑स्पतयः। वि। मु॒च्य॒ध्व॒म्। ए॒षा। वः॒। सा। स॒त्या। संवागिति॑ स॒म्ऽवाक्। अ॒भू॒त्। यया॑। इन्द्र॑म्। वाज॑म्। अजी॑जपत। अजी॑जपत। इन्द्र॑म्। वाज॑म्। वन॑स्पतयः। वि। मु॒च्य॒ध्व॒म्। १२।
महीधरः
म० एषा व इति मन्त्रहतमवहरते तूष्णीमितरानिति’ ( का० १४ । ४ । ९ । १० ) सप्तदशदुन्दुभीनां मध्ये मन्त्रवादितं मन्त्रेणावतारयति षोडश तूष्णीं स्थाणुभ्यः । पूर्वो मन्त्रो विप्रयज्ञे उत्तरः क्षात्रे । हे दुन्दुभयः, वो युष्माकमेषा वाक् सत्या समभूत् तथ्या जाता । यया वाचा बृहस्पतिं वाजमजीजपत । पुनर्बृहस्पतिं वाजमजीजपत ‘अभ्यासे भूयांसमर्थं मन्यन्ते’ ( नि० १० । ४२) इति यास्कोक्तेर्भूयानर्थो ग्राह्यः । अत्यन्तं बृहस्पतिमन्नजयं कारितवन्तो यूयं यया वाचा सा सत्या जातेत्यर्थः । जयतेर्णिजन्तस्य लुङि मध्यमबहुवचनेऽजीजपतेति रूपम् । हे वनस्पतयो वनस्पतिविकारा दुन्दुभयः, यूयं विमुच्यध्वं कृतकृत्याः सन्तो विमोचनं कुरुत । क्षात्रे यज्ञे उत्तरो मन्त्रः। यया वाचा इन्द्रं वाजमजीजपत सा सत्याभूदतो यूयं विमुच्यध्वं तुल्यम् ॥ १२ ॥
त्रयोदशी।
अधिमन्त्रम् (VC)
- इन्द्राबृहस्पती देवते
- बृहस्पतिर्ऋषिः
- स्वराड् अति धृतिः
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को अति उचित है कि सब समय में सब प्रकार से सत्य ही बोलें, यह उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (वनस्पतयः) किरणों के समान न्याय के पालनेहारे राजपुरुषो ! तुम लोग (यया) जिस से (बृहस्पतिम्) वेदशास्त्र के पालनेहारे विद्वान् को (वाजम्) वेदशास्त्र के बोध को (अजीजपत) बढ़ाओ (बृहस्पतिम्) बड़े राज्य के रक्षक राजपुरुष के (वाजम्) सङ्ग्राम को (अजीजपत) जिताओ (सा) वह (एषा) पूर्व कही वा आगे जिस को कहेंगे (वः) तुम लोगों की (संवाक्) राजनीति में स्थित अच्छी वाणी (सत्या) सत्यस्वरूप (अभूत्) होवे। हे (वनस्पतयः) सूर्य की किरणों के समान न्याय के प्रकाश से प्रजा की रक्षा करनेहारे राजपुरुषो ! तुम लोग (यया) जिससे (इन्द्रम्) परम ऐश्वर्य प्राप्त करानेहारे सेनापति को (वाजम्) युद्ध को (अजीजपत) जिताओ (इन्द्रम्) परम ऐश्वर्ययुक्त पुरुष को (वाजम्) अत्युत्तम लक्ष्मी को प्राप्त करनेहारे उद्योग को (अजजीपत) अच्छे प्रकार प्राप्त करावें, (सा) वह (एषा) आगे-पीछे जिसका प्रतिपादन किया है (वः) तुम लोगों की (संवाक्) विनय और पुरुषार्थ का अच्छे प्रकार प्रकाश करनेवाली वाणी (सत्या) सदा सत्यभाषणादि लक्षणों से युक्त (अभूत्) होवे ॥१२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजा, उस के नौकर और प्रजापुरुषों को उचित है कि अपनी प्रतिज्ञा और वाणी को असत्य होने कभी न दें, जितना कहें उतना ठीक-ठीक करें। जिसकी वाणी सब काल में सत्य होती है, वही पुरुष राज्याधिकार के योग्य होता है, जब तक ऐसा नहीं होता, तब तक उन राजा और प्रजा के पुरुषों का विश्वास और वे सुखों को नहीं बढ़ा सकते ॥१२॥
दयानन्द-सरस्वती (सं) - विषयः
अथ मनुष्यैः सर्वदा सर्वथा सत्यं वक्तव्यं श्रोतव्यं चेत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे वनस्पतयः ! यूयं यया बृहस्पतिं वाजमजीजपत बृहस्पतिमजीजपत सैषा वः संवाक् सत्याऽभूत्। हे वनस्पतयः ! यूयं ययेन्द्रं वाजमजीजपतेन्द्रमजीजपत सैषा वः संवाक् सत्याऽभूत् ॥१२॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - नैव कदाचिदपि राजा राजाऽमात्यभृत्याः प्रजाजनाश्च स्वकीयां प्रतिज्ञां वाचं चासत्यां कुर्य्युः। यावतीं ब्रूयुस्तावतीं तथ्यामेव कुर्य्युः। यस्य वाणी सर्वदा सत्याऽस्ति, स एव सम्राड् भवितुमर्हति, यावदेवं न भवति तावद् राजप्रजाजना विश्वसिताः सुखस्योत्कर्षकाश्च भवितुं नार्हन्ति ॥१२॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजा, त्याचे सेवक व प्रजा यांनी आपली प्रतिज्ञा व आपली वाणी असत्य ठरेल असे वागू नये. जशी वाणी तशीच करणी असावी. ज्याची वाणी सर्व काळी सत्य ठरते त्याच व्यक्तीला राज्य करण्याचा अधिकार असतो. जोपर्यंत असे होत नाही तोपर्यंत राजा व प्रजा यांचा परस्परांवर विश्वास नसतो व सुखाची वृद्धीही होत नाही.
१३ देवस्याहं सवितुः
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वस्या॒हँ स॑वि॒तुः स॒वे स॒त्यप्र॑सवसो॒ बृह॒स्पते॑र्वाज॒जितो॒ वाजं॑ जेषम्। वाजि॑नो वाज॒जि॒तोऽध्व॑न स्कभ्नु॒वन्तो॒ योज॑ना॒ मिमा॑नाः॒ काष्ठां॑ गच्छत ॥१३॥
मूलम् ...{Loading}...
दे॒वस्या॒हँ स॑वि॒तुः स॒वे स॒त्यप्र॑सवसो॒ बृह॒स्पते॑र्वाज॒जितो॒ वाजं॑ जेषम्। वाजि॑नो वाज॒जि॒तोऽध्व॑न स्कभ्नु॒वन्तो॒ योज॑ना॒ मिमा॑नाः॒ काष्ठां॑ गच्छत ॥१३॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दे॒वस्य॑। अ॒हम्। स॒वि॒तुः। स॒वे। स॒त्यप्र॑सव॒ इति॑ स॒त्यऽप्र॑सवः। बृह॒स्पतेः॑। वा॒ज॒जित॒ इति॑ वाज॒ऽजितः॑। वाज॑म्। जे॒ष॒म्। वाजि॑नः। वा॒ज॒जित॒ इति॑ वाज॒ऽजितः॑। अध्व॑नः। स्क॒भ्नु॒वन्तः॑। योज॑नाः। मिमा॑नाः। काष्ठा॑म्। ग॒च्छ॒त॒। १३।
महीधरः
म० ‘देवस्याहमिति यजुर्युक्तमारोहति यजमानः’ ( का० | १४ । ३ । १८ ) मन्त्रयुक्तं रथं यजमान आरोहेत् । सत्यप्रसवसः सत्याभ्यनुज्ञस्य सवितुर्देवस्य सवेऽनुज्ञायां वर्तमानोऽहं वाजजितोऽन्नजेतुर्बृहस्पतेः संबन्धिनं वाजमन्नं जेषं जयेयं । जयतेर्लेटि उत्तमैकवचने ‘लेटोऽडाटौ’ (पा० ३ । ४ । ९४ ) इत्यडागमे ‘सिब्बहुलं लेटि’ (पा० ३ । १ । ३४) इति सिप् प्रत्ययः ‘इतश्च लोपः परस्मैपदेषु’ (पा० ३ । ४ । ९७ ) इति मिप इकारलोपे गुणे च जेषमिति रूपम् । यद्वा लुङि अङि उत्तमैकवचनेऽडभावे । ‘वाजिन इति वाचयतीति’ ( का० १४ । ३ । २२)। हे वाजिनोऽश्वाः, यूयं काष्ठां गच्छत आज्यन्तं प्राप्नुत । उत्कर्ष गच्छतेत्यर्थः । आज्यन्तोऽपि काष्ठोच्यते । ‘क्रान्त्वा स्थितो भवति’ (नि. २ । १८ ) इति यास्कोक्तेः । ‘काष्ठोत्कर्षे स्थितौ दिशि’ इत्यभिधानाच्च । किंभूता यूयम् । वाजजितः अन्नस्य जेतारः । तथा अध्वनो मार्गान् स्कभ्नुवन्तः रुन्धन्तः क्षोभयन्तः। स ह्यश्वस्वभावः । तथा योजना योजनानि मिमानाः अतिशीघ्रतया परिच्छिन्दन्तः ॥ १३ ॥
चतुर्दशी।
अधिमन्त्रम् (VC)
- सविता देवता
- बृहस्पतिर्ऋषिः
- निचृद् अति जगती
- निषादः
१४ एष स्य
विश्वास-प्रस्तुतिः ...{Loading}...
ए॒ष स्य वा॒जी क्षि॑प॒णिं तु॑रण्यति ग्री॒वायां॑ ब॒द्धोऽअ॑पिक॒क्षऽआ॒सनि॑। क्रतुं॑ दधि॒क्राऽअनु॑ सँ॒सनि॑ष्यदत् प॒थामङ्काँ॒स्यन्वा॒पनी॑फण॒त् स्वाहा॑ ॥१४॥
मूलम् ...{Loading}...
ए॒ष स्य वा॒जी क्षि॑प॒णिं तु॑रण्यति ग्री॒वायां॑ ब॒द्धोऽअ॑पिक॒क्षऽआ॒सनि॑। क्रतुं॑ दधि॒क्राऽअनु॑ सँ॒सनि॑ष्यदत् प॒थामङ्काँ॒स्यन्वा॒पनी॑फण॒त् स्वाहा॑ ॥१४॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ए॒षः। स्यः। वा॒जी। क्षि॒प॒णिम्। तु॒र॒ण्य॒ति॒। ग्री॒वाया॑म्। ब॒द्धः। अ॒पि॒क॒क्ष इत्य॑पिऽक॒क्षे। आ॒सनि॑। क्रतु॑म्। द॒धि॒क्रा इति॑ दधि॒ऽक्राः। अनु॑। सँ॒सनि॑ष्यदत्। सँ॒सनि॑स्यद॒दिति॑ स॒म्ऽसनि॑स्यदत्। प॒थाम्। अङ्काँ॑सि। अनु॑। आ॒पनी॑फण॒दित्या॒ऽपनी॑फणत्। स्वाहा॑। १४।
महीधरः
म० “एष स्य इति प्रत्यृचं जुहोत्यनुमन्त्रयते वेति’ ( का० १४ । ४ । ३-४)। ऋग्द्वयेनाज्यं जुहोत्यश्वाननुमन्त्रयते वा। अश्वदेवत्ये जगत्यौ दधिक्रावदृष्टे । त्यच्छब्दस्तच्छब्दपर्यायः। छान्दसः स्यः । एष वाजी सोऽयमश्वः क्षिपणिम् क्षिप्यते प्रेर्यतेऽनया सा क्षिपणिस्तां कशां कशाघातमनु तुरण्यति तूर्णमध्वानमश्नुते । यद्वा क्षिपणिं तुरण्यति कशां त्वरयति । कशायास्त्वरया शीघ्रं धावतीत्यर्थः । किंभूतोऽश्वः । ग्रीवायामपि कक्षे आसनि आस्ये च बद्धः तत्तदुचितरज्जुविशेषैः । ‘पद्दन्न-’ (पा० ६ । १। ६३ ) इत्यादिना आस्यशब्दस्यासन्नादेशः सप्तम्याम् । ग्रीवायामुरोवध्रेण बद्धः । कक्षयोः समीपे अपिकक्षं पर्याणदेशस्तत्र सन्नाहरज्ज्वा बद्धः । आस्ये मुखे कविकया बद्धः । तथा दधिक्राः दधाति अश्ववारमिति दधिः । ‘आदृगम-’ (पा० ३ । २ । १७१) इति किप्रत्ययः । दधिः सन् क्रमतेऽध्वानमिति दधिक्राः। विटि क्रमतेराकारः। यद्वा दधीन्धारकान्मार्गावरोधानद्रिपाषाणगर्तकण्टकादीनप्यतिक्रामतीति दधिकाः। तथा क्रतुं सादिनोऽभिप्रायमनु संसनिष्यदत्सम्यगनुसंदधानः सादिसंकल्पानुसारेण गच्छन् ‘दाधर्तिदर्धर्ति-’ (पा० ७। ४ । ६५) इत्यादिना स्यन्दतेर्यङ्लुकि निपातोऽयम् । तथा पथां मार्गाणामङ्कांसि लक्षणानि कुटिलानि निम्नोन्नतानि अन्वापनीफणत् अतिशीघ्रं प्राप्नुवन् । समत्वमापादयन्नित्यर्थः । अन्वाङ्पूर्वस्य फणतेर्गत्यर्थस्य यङ्लुकि निपातः । पूर्ववत् । एवंविधाऽश्वस्तुतीति संबन्धः । स्वाहा सुहुतमस्तु ॥ १४
पञ्चदशी।
अधिमन्त्रम् (VC)
- बृहस्पतिर्देवता
- दधिक्रावा ऋषिः
- जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
जब सेना और सेनापति अच्छे शिक्षित होकर परस्पर प्रीति करनेवाले होवें, तभी विजय प्राप्त होवे, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जैसे (स्यः) वह (एषः) और यह (वाजी) वेगयुक्त (आसनि) मुख और (ग्रीवायाम्) कण्ठ में (बद्धः) बँधा (क्रतुम्) कर्म अर्थात् गति को (संसनिष्यदत्) अतीव फैलाता हुआ (पथाम्) मार्गों के (अङ्कांसि) चिह्नों को (अनु) समीप (आपनीफणत्) अच्छे प्रकार चलता हुआ (दधिक्राः) धारण करनेहारों का चलानेहारा घोड़ा (क्षिपणिम्) सेना को जाता है, वैसे ही (अपिकक्षे) इधर-उधर के ठीक-ठीक अवयवों में सेनापति अपनी सेना को (स्वाहा) सत्य वाणी से (तुरण्यति) वेगयुक्त करता है ॥१४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। सेनापति से रक्षा को प्राप्त हुए वीरपुरुष घोड़ों के समान दौड़ते हुए शीघ्र शत्रुओं को मार सकते हैं। जो सेनापति उत्तम कर्म्म करनेहारे अच्छे शिक्षित वीर पुरुषों के साथ ही युद्ध करता हुआ, प्रशंसित होता हुआ विजय को प्राप्त होता है, अन्यथा पराजय ही होता है ॥१४॥
दयानन्द-सरस्वती (सं) - विषयः
यदा सेनासेनेशौ सुशिक्षितौ परस्परं प्रीतियुक्तौ स्यातां तदैव विजयलाभः स्यादित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यथैष स्योऽसौ वाज्यासनि ग्रीवायां बद्धः क्रतुं संसनिष्यददपिकक्षे पथामङ्कांस्यन्वापनीफणद् दधिक्राः क्षिपणिं गच्छति, तथा सेनेशः स्वाहा स्वसेनां पराक्रमयेत् ॥१४॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। सेनापतिरक्षिता वीरा अश्ववद्धावन्तः सद्यः शत्रून् हन्तुं शक्नुवन्ति, सेनापतिः सुकर्मकारिभिः संशिक्षितैर्वीरैः सहैव युद्ध्यमानः सन् प्रशंसितो विजयते, नाऽन्यथा ॥१४॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. सेनापतीच्या आधिपत्याखाली वीर पुरुष घोड्यांप्रमाणे चाल करून शत्रूंना तत्काळ मारू शकतात. जो सेनापती प्रशिक्षित वीर पुरुषांच्या मदतीने युद्ध करतो तोच उत्तम विजय प्राप्त करू शकतो. अन्यथा त्याचा पराजयच होतो.
१५ उत स्मास्य
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒त स्मा॑स्य॒ द्रव॑तस्तुरण्य॒तः प॒र्णं॑ न वेरेनु॑वाति प्रग॒र्धिनः॑। श्ये॒नस्ये॑व॒ ध्रज॑तोऽअङ्क॒सं परि॑ दधि॒क्राव्णः॑ स॒होर्जा तरि॑त्रतः॒ स्वाहा॑ ॥१५॥
मूलम् ...{Loading}...
उ॒त स्मा॑स्य॒ द्रव॑तस्तुरण्य॒तः प॒र्णं॑ न वेरेनु॑वाति प्रग॒र्धिनः॑। श्ये॒नस्ये॑व॒ ध्रज॑तोऽअङ्क॒सं परि॑ दधि॒क्राव्णः॑ स॒होर्जा तरि॑त्रतः॒ स्वाहा॑ ॥१५॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उ॒त। स्म॒। अ॒स्य॒। द्रव॑तः। तु॒र॒ण्य॒तः। प॒र्णम्। न। वेः। अनु॑। वा॒ति॒। प्र॒ग॒र्धिन॒ इति॑ प्रऽग॒र्धिनः॑। श्ये॒नस्ये॒वेति॑ श्ये॒नस्य॑ऽइव। ध्रज॑तः। अ॒ङ्क॒सम्। परि॑। द॒धि॒क्राव्ण॒ इति॑ दधि॒ऽक्राव्णः॑। स॒ह। ऊ॒र्जा। तरित्र॑तः स्वाहा॑। १५।
महीधरः
म० उत स्म अपिच अस्याश्वस्य अङ्कसं शृङ्गारचिह्नं वस्त्रचामरादिकं परि सर्वस्मिन्नपि देहे वर्तमानं सत् अनुवाति गच्छन्तमश्वमनु उत्क्षिप्तत्वेन दृश्यमानं गच्छति । कस्य किमिव । वेः पक्षिणः पर्णं न पक्ष इव यथा त्वरया गच्छतः पक्षिणः पक्ष उत्क्षिप्तो गच्छन्नवलोक्यते तथा धावतोऽश्वस्यांकसरूपं वस्त्रचामरादिकं विस्पष्टमवलोक्यत इत्यर्थः । किंभूतस्याश्वस्य । | द्रवतो गच्छतः तथा तुरण्यतस्त्वरयतः प्रगर्धिनः प्रगृध्यतीति प्रगर्धी अवधिं प्राप्तुं काङ्क्षतः पक्षिमात्रस्य पर्णमङ्कसदृष्टान्तत्वेनाभिहितम् । शीघ्रधावने श्येनदृष्टान्त उच्यते । श्येनस्येव ध्रजतो गच्छतो वेगेन ‘ध्रज गतौ’ दधिक्राव्णः दधीन्क्रमते दधिक्रावा धारकपर्वताद्यतिक्रामिणः। ‘अन्येभ्योऽपि दृश्यन्ते’ (पा० ३ । २ । ७५ ) इति क्रमतेर्वनिपि विड्वनोः-’ (पा० ६ । ४ । ४१ ) इति आकारः । ऊर्जा बलेन सह तरित्रतः मार्गं भृशं तरतः यङ्लुकि निपातोऽयम् । स्वाहा सुहुतमस्तु ॥ १५ ॥
षोडशी।
अधिमन्त्रम् (VC)
- बृहस्पतिर्देवता
- दधिक्रावा ऋषिः
- जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
सेनापति आदि राजपुरष कैसा पराक्रम करें, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजपुरुषो ! जो (ऊर्जा) पराक्रम और (स्वाहा) सत्यक्रिया के (सह) साथ (अस्य) इस (द्रवतः) रसप्रद वृक्ष का पत्ता और (तुरण्यतः) शीघ्र उड़नेवाले (वेः) पक्षी के (पर्णम्) पंखों के (न) समान (उत) और (प्रगर्धिनः) अत्यन्त इच्छा करने (ध्रजतः) चाहते हुए (श्येनस्येव) बाज पक्षी के समान तथा (तरित्रतः) अति शीघ्र चलते हुए (दधिक्राव्णः) घोड़े के सदृश (अङ्कसम्) अच्छे लक्षणयुक्त मार्ग में (परि) (अनु) (वाति) सब प्रकार अनुकूल चलता है, (स्म) वही पुरुष शत्रुओं को जीत सकता है ॥१५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार है। जो वीर पुरुष नीलकण्ठ श्येनपक्षी और घोड़े के समान पराक्रमी होते हैं, उनके शत्रु लोग सब ओर से विलीन हो जाते हैं ॥१५॥
दयानन्द-सरस्वती (सं) - विषयः
सेनापत्यादयः कथं पराक्रमेरन्नित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे राजप्रजनाः ! य ऊर्जा स्वाहाऽस्य द्रवतस्तुरण्यतो वेः पर्णं नोत प्रगर्धिनो ध्रजतः श्येनस्येव तरित्रतो दधिक्राव्ण इवाङ्कसं पर्यनुवाति स्म स एव शत्रुं जेतुं शक्नोति ॥१५॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। ये वीराः ! नीलकण्ठपक्षिवच्छ्येनवदश्ववच्च पराक्रमन्ते, तेषां शत्रवः सर्वतो निलीयन्ते ॥१५॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहेत. जे वीर पुरुष नीलकंठ, श्येन पक्षी व घोड्याप्रमाणे पराक्रमी असतात त्यांच्या शत्रूंचा सर्वस्वी विनाश होतो.
१६ शन्नो भवन्तु
विश्वास-प्रस्तुतिः ...{Loading}...
शन्नो॑ भवन्तु वा॒जिनो॒ हवे॑षु दे॒वता॑ता मि॒तद्र॑वः स्व॒र्काः। ज॒म्भय॒न्तोऽहिं॒ वृकँ॒ रक्षाँ॑सि॒ सने॑म्य॒स्मद्यु॑यव॒न्नमी॑वाः ॥१६॥
मूलम् ...{Loading}...
शन्नो॑ भवन्तु वा॒जिनो॒ हवे॑षु दे॒वता॑ता मि॒तद्र॑वः स्व॒र्काः। ज॒म्भय॒न्तोऽहिं॒ वृकँ॒ रक्षाँ॑सि॒ सने॑म्य॒स्मद्यु॑यव॒न्नमी॑वाः ॥१६॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
शम्। नः॒। भ॒व॒न्तु॒। वा॒जिनः॑। हवे॑षु। दे॒वता॒तेति॑ दे॒वऽताता॑। मि॒तद्र॑व॒ इति॑ मि॒तऽद्र॑वः। स्व॒र्का इति॑ सुऽअ॒र्काः। ज॒म्भय॑न्तः। अहि॑म्। वृक॑म्। रक्षाँ॑सि। सने॑मि। अ॒स्मत्। यु॒य॒व॒न्। अमी॑वाः। १६।
महीधरः
म० ‘उत्तरेण तृचेन चेति’ ( का० १४ । ४ । ५) शं न इति ऋक्त्रयेणाज्यहोमोऽश्वाभिमन्त्रणं वा । अश्वदेवत्या विराड्वसिष्ठदृष्टा दशाक्षरचतुःपादा । देवानां कर्म देवतातिः ‘सर्वदेवात्तातिल’ (पा० ४ । ४ । १४२ ) इति देवशब्दात् कर्मणि तातिल्प्रत्ययः ‘लिति’ (पा० ६ । १।१९३) इति प्रत्ययात्पूर्वस्य वकारस्योदात्तत्वम् । तस्य सप्तम्यां ‘सुपां सुलुक्’ (पा. ७ । १ । ३९) इत्यादिना ङेराकारः। देवताता देवतातौ यज्ञे हवेषु आह्वानेषु सत्सु वाजिनोऽश्वा नोऽस्माकं शं सुखकरा भवन्तु । किंभूताः । मितद्रवः मितं परिमितं द्रवन्ति गच्छन्तीति मितद्रवः । क्विपि तुगभाव आर्षः । स्वर्काः शोभनोऽर्को येषां ते सुरुचः स्वञ्चना वा । तथा अहिं सर्पं वृकमरण्यश्वानं रक्षांसि राक्षसान् च जम्भयन्तो नाशयन्तः । किंच तेऽश्वा अस्मत्सकाशात्सनेमि क्षिप्रम् अमीवा व्याधीन्युयवन् पृथक्कुर्वन्तु । ‘यु पृथग्भावे’ अस्य ह्वादित्वे लङि रूपम् गुणाडभावावार्षौ । सनेमीति पुराणनाम । इह तु क्षिप्रवाचकः॥१६॥
सप्तदशी।
अधिमन्त्रम् (VC)
- बृहस्पतिर्देवता
- वसिष्ठ ऋषिः
- भुरिक् पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
कौन पुरुष प्रजा के पालने और शत्रुओं के विनाश करने में समर्थ होते हैं, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (मितद्रवः) नियम से चलने (स्वर्काः) जिन का अन्न वा सत्कार सुन्दर हो, वे योद्धा लोग (अहिम्) मेघ के समान चेष्टा करते और बढ़े हुए (वृकम्) चोर और (रक्षांसि) दूसरों को क्लेश देनेहारे डाकुओं के (जम्भयन्तः) हाथ-पाँव तोड़ते हुए (वाजिनः) श्रेष्ठ युद्धविद्या के जाननेवाले वीर पुरुष (नः) हम (देवताता) विद्वान् लोगों के कर्मों तथा (हवेषु) सङ्ग्रामों में (सनेमि) सनातन (शम्) सुख को (भवन्तु) प्राप्त होवें (अस्मत्) हमारे लिये (अमीवाः) रोगों के समान वर्त्तमान शत्रुओं को (युयवन्) पृथक् करें ॥१६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - श्रेष्ठ प्रजापुरुषों के पालने में तत्पर और रोगों के समान शत्रुओं के नाश करनेहारे राजपुरुष ही सब को सुख दे सकते हैं, अन्य नहीं ॥१६॥
दयानन्द-सरस्वती (सं) - विषयः
के प्रजापालने शत्रुविनाशने च शक्तिमन्तो भवन्तीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये मितद्रवः स्वर्का अहिं वृकं रक्षांसि च जम्भयन्तो वाजिनो वीरा नो देवताता हवेषु सनेमि शम्भवन्तु, तेऽस्मदमीवा इव वर्त्तमानानरीन् युयवन् ॥१६॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये श्रेष्ठाः प्रजापालने व्याधिवच्छत्रूणां विनाशका न्यायकारिणो राजजनाः सन्ति, त एव सर्वेषां सुखं कर्तुं शक्नुवन्ति ॥१६॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - रोगांचा जसा नाश केला जातो तसे शत्रूंना नष्ट करणारे व प्रजेचे पालन करण्यात तत्पर असणारे राजपुरुषच सर्वांना सुख देऊ शकतात, इतर लोक असे सुख देऊ शकत नाहीत.
१७ ते नोऽअर्वन्तो
विश्वास-प्रस्तुतिः ...{Loading}...
ते नो॒ऽअर्व॑न्तो हवन॒श्रुतो॒ हवं॒ विश्वे॑ शृण्वन्तु वा॒जिनो॑ मि॒तद्र॑वः। स॒ह॒स्र॒सा मे॒धसा॑ता सनि॒ष्यवो॑ म॒हो ये धनँ॑ समि॒थेषु॑ जभ्रि॒रे ॥१७॥
मूलम् ...{Loading}...
ते नो॒ऽअर्व॑न्तो हवन॒श्रुतो॒ हवं॒ विश्वे॑ शृण्वन्तु वा॒जिनो॑ मि॒तद्र॑वः। स॒ह॒स्र॒सा मे॒धसा॑ता सनि॒ष्यवो॑ म॒हो ये धनँ॑ समि॒थेषु॑ जभ्रि॒रे ॥१७॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ते। नः॒। अर्व॑न्तः। ह॒व॒न॒श्रुत॒ इति॑ हवन॒ऽश्रुतः॑। हव॑म्। विश्वे॑ शृ॒ण्व॒न्तु॒। वा॒जि॑नः। मितद्र॑व॒ इति॑ मि॒तऽद्र॑वः। स॒ह॒स्र॒सा इति॑ स॒हस्र॒ऽसाः। मे॒धसा॒तेति॑ मे॒धऽसा॑ता। स॒नि॒ष्यवः॑। स॒हः। ये। धन॑म्। स॒मि॒थेष्विति॑ सम्ऽइ॒थेषु॒। ज॒भ्रि॒रे। १७।
महीधरः
म० अश्वदेवत्या जगती नाभानेदिष्ठदृष्टा । विश्वे सर्वे ते वाजिनोऽश्वा नोऽस्माकं हवमाह्वानं शृण्वन्तु । किंभूता अर्वन्तः। इ-यति कुटिलं गच्छन्तीत्यर्वन्तः । ‘ऋ गतौ’ इत्यस्माद्वनिप् ‘अर्वणस्त्रसावनञः’ (पा० ६ । ४ । १२७) इति त्रन्तादेशे रूपम् । हवनश्रुतः हवनमाह्वानं शृण्वन्तीति हवनश्रुतः । मितद्रवः यजमानचित्तानुकूल्येन परिमितगामिनः । सहस्रसाः सहस्रस्यानेकजनतृप्तिक्षमस्य महतोऽन्नराशेः सनितारो दातारः । मेधसाता सनिष्यवः मेधो यज्ञः सन्यते संभज्यते यत्र सा मेधसातिर्यज्ञशाला । ङेर्डाकारः । तस्यां सनिष्यवः संभक्तारः पूरयितारः । ते के । येऽश्वाः समिथेषु संग्रामेषु महः महत्पूज्यं वा धनं जभ्रिरे जह्रिरे आहृतवन्तः ॥ १७ ॥
अष्टादशी।
अधिमन्त्रम् (VC)
- बृहस्पतिर्देवता
- नाभानेदिष्ठ ऋषिः
- जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
प्रजाजन अपनी रक्षा के लिये कर देवें और इसलिये राजपुरुष ग्रहण करें, अन्यथा नहीं, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ये) जो (अर्वन्तः) ज्ञानवान् (हवनश्रुतः) ग्रहण करने योग्य शास्त्रों को सुनने (वाजिनः) प्रशंसित बुद्धिमान् (मितद्रवः) शास्त्रयुक्त विषय को प्राप्त होने (सहस्रसाः) असंख्य विद्या के विषयों को सेवने और (सनिष्यवः) अपने आत्मा की सुन्दर भक्ति करनेहारे राजपुरुष (मेधसाता) समागमों के दान से युक्त (समिथेषु) सङ्ग्रामों में (नः) हमारे बड़े (धनम्) ऐश्वर्य्य को (जभ्रिरे) धारण करें, वे (विश्वे) सब विद्वान् लोग हमारा (हवम्) पढ़ने-पढ़ाने से होनेवाले योग्य बोध शब्दों और वादी-प्रतिवादियों के विवाद को (शृण्वन्तु) सुनें ॥१७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो वे राजपुरुष हम लोगों से कर लेते हैं, वे हमारी निरन्तर रक्षा करें, नहीं तो न लें, हम भी उन को कर न देवें। इस कारण प्रजा की रक्षा और दुष्टों के साथ युद्ध करने के लिये ही कर देना चाहिये, अन्य किसी प्रयोजन के लिये नहीं, यह निश्चित है ॥१७॥
दयानन्द-सरस्वती (सं) - विषयः
प्रजाजनाः स्वरक्षार्थमेव करं दद्युस्तदर्थमेव राजजना गृह्णन्तु नान्यथेत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - येऽर्वन्तो हवनश्रुतो वाजिनो मितद्रवः सहस्रसाः सनिष्यवो राजजना मेधसाता समिथेषु नो महो धनं जभ्रिरे, ते विश्वेऽस्माकं हवं शृण्वन्तु ॥१७॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - य इमे राजपुरुषा अस्माकं सकाशात् करं गृह्णन्ति, तेऽस्मान् सततं रक्षन्तु, नोचेन्मा गृह्णन्तु, वयमपि तेभ्यः करं नैव दद्याम। अतः प्रजारक्षयाणायैव करदानं दुष्कर्मिभिः सह योद्धुं च नान्यदर्थमिति निश्चयः ॥१७॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजपुरुष आपल्यापासून जो कर वसूल करतात त्यासाठी त्यांनी आपले सतत रक्षण केले पाहिजे, अन्यथा त्यांना कर देऊ नये. कारण प्रजेचे रक्षण व दुष्टांबरोबर युद्ध यासाठीच कर दिला जातो. याशिवाय कर देण्याचे इतर कोणतेही प्रयोजन नाही हे निश्चित होय.
१८ वाजेवाजेऽवत वाजिनो
विश्वास-प्रस्तुतिः ...{Loading}...
वाजे॑वाजेऽवत वाजिनो नो॒ धने॑षु विप्राऽअमृताऽऋतज्ञाः। अ॒स्य मध्वः॑ पिबत मा॒दय॑ध्वं तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानैः॑ ॥१८॥
मूलम् ...{Loading}...
वाजे॑वाजेऽवत वाजिनो नो॒ धने॑षु विप्राऽअमृताऽऋतज्ञाः। अ॒स्य मध्वः॑ पिबत मा॒दय॑ध्वं तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानैः॑ ॥१८॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वाजे॑वाज॒ इति॒ वाजे॑ऽवाजे। अ॒व॒त॒। वा॒जि॒नः। नः॒। धने॑षु। वि॒प्राः॒। अ॒मृ॒ताः॒। ऋ॒त॒ज्ञा॒ इत्यृ॑तऽज्ञाः। अ॒स्य। मध्वः॑। पि॒ब॒त॒। मा॒दय॑ध्वम्। तृ॒प्ताः। या॒त॒। प॒थिभि॒रिति॑ प॒थिऽभिः॑। दे॒व॒यानै॒रिति॑ देव॒यानैः॑। १८।
महीधरः
म० अश्वदेवत्या त्रिष्टुब् वसिष्ठदृष्टा । हे वाजिनोऽश्वाः, वाजेवाजे सर्वस्मिन्नन्ने उपस्थिते सति धनेषु चोपस्थितेषु सत्सु नोऽस्मानवत पालयत । किंभृता यूयम् । विप्रा मेधाविनः परिदृष्टकारिणः अमृता अमरणधर्माणः ऋतज्ञाः सत्यज्ञाः यज्ञज्ञा वा । किंच अस्य मध्वः पिबत । कर्मणि षष्ठी। इदं मधु धावनात्पूर्वं पश्चाच्चावघ्रायमाणं नैवारचरुलक्षणं मधुरं हविः पिबत । पीत्वा च मादयध्वं तृप्ता भवत । ततस्तृप्ताः सन्तो देवयानैर्देवाधिष्ठितैः पथिभिर्मार्गैर्यात गच्छत ॥ १८ ॥
एकोनविंशी।
अधिमन्त्रम् (VC)
- बृहस्पतिर्देवता
- वसिष्ठ ऋषिः
- निचृत् त्रिष्टुप्
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
अब ये राजा और प्रजा के पुरुष आपस में कैसे वर्त्तें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (ऋतज्ञाः) सत्यविद्या के जाननेहारे (अमृताः) अपने-अपने स्वरूप से नाशरहित जीते ही मुक्तिसुख को प्राप्त (वाजिनः) वेगयुक्त (विप्राः) विद्या और अच्छी शिक्षा से बुद्धि को प्राप्त हुए विद्वान् राजपुरुषो ! तुम लोग (वाजेवाजे) सङ्ग्राम-सङ्ग्राम के बीच (नः) हमारी (अवत) रक्षा करो (अस्य) इस (मध्वः) मधुर रस को (पिबत) पीओ। हमारे धनों से (तृप्ताः) तृप्त होके (मादयध्वम्) आनन्दित होओ और (देवयानैः) जिनमें विद्वान् लोग चलते हैं, उन (पथिभिः) मार्गों से सदा (यात) चलो ॥१८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजपुरुषों को चाहिये कि वेदादि शास्त्रों को पढ़ और सुन्दर शिक्षा से ठीक-ठीक बोध को प्राप्त होकर, धर्मात्मा विद्वानों के मार्ग से सदा चलें, अन्य मार्ग से नहीं। तथा शरीर और आत्मा का बल बढ़ाने के लिये वैद्यक शास्त्र से परीक्षा किये और अच्छे प्रकार पकाये हुए अन्न आदि से युक्त रसों का सेवन कर प्रजा की रक्षा से ही आनन्द को प्राप्त होवें और प्रजापुरुषों को निरन्तर प्रसन्न रक्खें ॥१८॥
दयानन्द-सरस्वती (सं) - विषयः
अथैते परस्परस्मिन् कथं वर्तेरन्नित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे ऋतज्ञा अमृता वाजिनो विप्राः ! यूयं वाजेवाजे नोऽवत। अस्य मध्वः पिबताऽस्माकं धनैस्तृप्ताः सन्तो मादयध्वम्। देवयानैः पथिभिः सततं यात ॥१८॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - राजपुरुषैर्वेदादीनि शास्त्राण्यधीत्य सुशिक्षया यथार्थं बोधं प्राप्य धार्म्मिकाणां विदुषां मार्गेण सदा गन्तव्यम्, नेतरेषाम्। शरीरात्मबलपालनेनैव सततमानन्दितव्यम्, प्रजाजनाः स्वधनैरेतान् सततं तर्पयन्तु ॥१८॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजपुरुषांनी वेद इत्यादी शास्त्रांचे अध्ययन करून चांगल्या प्रकारचे शिक्षण घ्यावे व यथायोग्य ज्ञान प्राप्त करून धार्मिक विद्वानांच्या मार्गाने चालावे. इतर मार्गाने जाऊ नये. शरीर व आत्म्याने बल वाढविण्यासाठी वैद्यक शास्त्रानुसार अन्न इत्यादींचे ग्रहण करावे. प्रजेचे रक्षण करण्यात आनंद मानावा व प्रजेला नेहमी प्रसन्न ठेवावे.
१९ आ मा
विश्वास-प्रस्तुतिः ...{Loading}...
आ मा॒ वाज॑स्य प्रस॒वो ज॑गम्या॒देमे द्यावा॑पृथि॒वी वि॒श्वरू॑पे। आ मा॑ गन्तां पि॒तरा॑ मा॒तरा॒ चा मा॒ सोमो॑ऽअमृत॒त्त्वेन॑ गम्यात्। वाजि॑नो वाजजितो॒ वाजँ॑ ससृ॒वाँसो॒ बृह॒स्पते॑र्भा॒गमव॑जिघ्रत निमृजा॒नाः ॥१९॥
मूलम् ...{Loading}...
आ मा॒ वाज॑स्य प्रस॒वो ज॑गम्या॒देमे द्यावा॑पृथि॒वी वि॒श्वरू॑पे। आ मा॑ गन्तां पि॒तरा॑ मा॒तरा॒ चा मा॒ सोमो॑ऽअमृत॒त्त्वेन॑ गम्यात्। वाजि॑नो वाजजितो॒ वाजँ॑ ससृ॒वाँसो॒ बृह॒स्पते॑र्भा॒गमव॑जिघ्रत निमृजा॒नाः ॥१९॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ। मा॒। वाज॑स्य। प्र॒स॒व इति॑ प्रऽस॒वः। ज॒ग॒म्या॒त्। आ। इ॒मेऽइती॒मे। द्यावा॑पृथि॒वीऽइति॒ द्यावा॑पृथि॒वी। वि॒श्वरू॑पे॒ऽइति॑ वि॒श्वऽरू॑पे। आ। मा॒। ग॒न्ता॒म्। पि॒तरा॑मा॒तरा॑। च॒। आ। मा॒। सोमः॑। अ॒मृ॒त॒त्वेनेत्य॑मृ॒तऽत्वेन॑। ग॒म्या॒त्। वाजि॑नः। वा॒ज॒जित॒ इति॑ वाजऽजितः। वाज॑म्। स॒सृ॒वाँस॒ इति॑ ससृ॒वाँसः॑। बृह॒स्पतेः॑। भा॒गम्। अव॑। जि॒घ्र॒त॒। नि॒मृ॒जा॒ना इति॑ निऽमृजा॒नाः। १९।
महीधरः
म०. ‘अवरुह्य नैवारमालभते तीर्थे स्थितमामा वाजस्येति’ ( का० १४ । ४ । ११ ) यजमानो रथादवतीर्य चात्वालोत्करान्तरे स्थितं नैवारं चरुं स्पृशति । प्रजापतिदेवत्या त्रिष्टुब् वसिष्ठदृष्टा । वाजस्यान्नस्य प्रसव उत्पत्तिर्मा मामाजगम्यात् आगच्छतु । गच्छतेर्व्यत्ययेन ह्वादित्वे लिङि रूपम् । आ इमे विश्वरूपे सर्वरूपात्मिके इमे द्यावापृथिव्यौ मां प्रत्यागच्छेताम् । पितरा मातरा । ‘पितरामातरा च छन्दसि’ (पा० ६ । ३ । ३३) इति द्विरूपैकशेषो निपात्यते। अस्मदीयः पिता माता च मा मां प्रति आगन्तामागच्छताम् । व्यत्ययेनादादित्वे लोटि रूपम् । सोमश्चामृतत्वेन सहितो मा मामागम्यात् । चतुर्थ्यर्थे तृतीया । अमृतत्वाय मम देवत्वजन्मने सोमो मां प्रत्यागच्छेत् । लिङि रूपम् । ‘यजुर्युक्तानाघ्रापयति वाजिन इति’ ( का० १४ । ४ १२) इति । मन्त्रेण युक्तानश्वान्नैवारचरुमाघ्रापयेत् । अश्वदेवत्यं यजुः । हे वाजिनोऽश्वाः, यूयं बृहस्पतेः संबन्धिनं भागं चरुमवजिघ्रत आघ्राणं कुरुत । किंभूताः । वाजजितः वाजस्यान्नस्य जेतारः । वाजमन्नं जेतुं ससृवांसः सृतवन्तो गतवन्तः । सर्तेः क्वसुप्रत्यये रूपम् । निमृजानाः ‘मृजूष् शुद्धौ’ शानच्प्रत्ययः। शोधयन्तः चरुमेनं यजमानं वा पुनन्त इत्यर्थः ॥ १९ ॥
विंशी ।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- वसिष्ठ ऋषिः
- निचृद् धृतिः
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को धर्माचरण से किस-किस पदार्थ की इच्छा करनी चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे पूर्वोक्त विद्वान् लोगो ! जिन आप लोगों के सहाय से (वाजस्य) वेदादि शास्त्रों के अर्थों के बोधों का (प्रसवः) सुन्दर ऐश्वर्य्य (मा) मुझ को (जगम्यात्) शीघ्र प्राप्त होवे (इमे) ये (विश्वरूपे) सब रूप विषयों के सम्बन्धी (द्यावापृथिवी) प्रकाश और भूमि का राज्य (च) और (अमृतत्वेन) सब रोगों की निवृत्तिकारक गुण के साथ (सोमः) सोमवल्ली आदि ओषधि विज्ञान मुझको प्राप्त हो और (पितरामातरा) विद्यायुक्त पिता-माता मुझको (आगन्ताम्) प्राप्त होवें, वे आप (वाजिनः) प्रशंसित बलवान् (वाजजितः) सङ्ग्राम के जीतनेवाले (वाजम्) सङ्ग्राम को प्राप्त होते हुए (निमृजानाः) निरन्तर शुद्ध हुए तुम लोग (बृहस्पतेः) बड़ी सेना के स्वामी के (भागम्) सेवने योग्य भाग को (अवजिघ्रत) निरन्तर प्राप्त होओ ॥१९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य विद्वान् के साथ विद्या और उत्तम शिक्षा को प्राप्त हो के धर्म का आचरण करते हैं, उन को इस लोक और परलोक में परमैश्वर्य का साधक राज्य, विद्वान् माता-पिता और नीरोगता प्राप्त होती है। जो पुरुष विद्वानों का सेवन करते हैं, वे शरीर और आत्मा की शुद्धि को प्राप्त हुए सब सुखों को भोगते हैं। इससे विरुद्ध चलनेहारे नहीं ॥१९॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यैर्धर्माचरणेन किं किमेष्टव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे पूर्वोक्ता विद्वांसः ! येषां भवतां सहायेन वाजस्य प्रसवो मा जगम्यात् समन्तात् प्राप्नुयादिमे विश्वरूपे द्यावापृथिवी चामृतत्वेन सोमो गम्यात्। पितरामातरा चागन्ताम् ॥ ते वाजिनो वाजजितो वाजं ससृवांसो निमृजानाः सन्तो यूयं बृहपस्तेर्भागमवजिघ्रत ॥१९॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्या विद्वत्सङ्गेन विद्यासुशिक्षे प्राप्य धर्ममाचरन्ति, तानिहामुत्र परमैश्वर्य्यसाधकं राज्यम्, विद्वांसौ मातापितरौ, रोगराहित्यं च प्राप्नोति। ये विदुषां सेवनं कुर्वन्ति, ते शरीरात्मबलं प्राप्ताः सन्तः सर्वाणि सुखानि प्राप्नुवन्ति, नातो विरुद्धाचरणा एतत्सर्वमाप्तुं शक्नुवन्ति ॥१९॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे विद्वानांच्या संगतीने विद्या व उत्तम शिक्षण प्राप्त करतात व त्यानुसार धार्मिक वर्तन करतात ते इहलोकी व परलोकी महान ऐश्वर्याचे साधक बनतात व त्यांना राज्य, विद्वान माता-पिता आणि आरोग्य प्राप्त होते. जे पुरुष विद्वानांच्या संगतीत राहतात त्यांच्या शरीर व आत्म्याची शुद्धी होते व ते सुखी होतात. याविरुद्ध वागणारे सुखी होत नाहीत.
२० आपये स्वाहा
विश्वास-प्रस्तुतिः ...{Loading}...
आ॒पये॒ स्वाहा॑ स्वा॒पये॒ स्वा॒हा॑ऽपि॒जाय॒ स्वाहा॒ क्रत॑वे॒ स्वाहा॒ वस॑वे॒ स्वा॒हा॑ह॒र्पत॑ये॒ स्वाहाह्ने॑ मु॒ग्धाय॒ स्वाहा॑ मु॒ग्धाय॑ वैनँशि॒नाय॒ स्वाहा॑ विनँ॒शिन॑ऽआन्त्याय॒नाय॒ स्वाहाऽनन्त्या॑य भौव॒नाय॒ स्वाहा॒ भुव॑नस्य॒ पत॑ये॒ स्वाहाऽधि॑पतये॒ स्वाहा॑ ॥२०॥
मूलम् ...{Loading}...
आ॒पये॒ स्वाहा॑ स्वा॒पये॒ स्वा॒हा॑ऽपि॒जाय॒ स्वाहा॒ क्रत॑वे॒ स्वाहा॒ वस॑वे॒ स्वा॒हा॑ह॒र्पत॑ये॒ स्वाहाह्ने॑ मु॒ग्धाय॒ स्वाहा॑ मु॒ग्धाय॑ वैनँशि॒नाय॒ स्वाहा॑ विनँ॒शिन॑ऽआन्त्याय॒नाय॒ स्वाहाऽनन्त्या॑य भौव॒नाय॒ स्वाहा॒ भुव॑नस्य॒ पत॑ये॒ स्वाहाऽधि॑पतये॒ स्वाहा॑ ॥२०॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ॒पये॑। स्वाहा॑। स्वा॒पय॒ इति॑ सुऽआ॒पये॑। स्वाहा॑। अ॒पि॒जायेत्य॑पि॒ऽजाय॑। स्वाहा॑। क्रत॑वे। स्वाहा॑। वस॑वे। स्वाहा॑। अ॒ह॒र्पत॑ये। अ॒हः॒ऽप॑तय॒ इत्य॑हः॒ऽपत॑ये। स्वाहा॑। अह्ने॑। मु॒ग्धाय॑। स्वाहा॑। मु॒ग्धाय॑। वै॒नँ॒शि॒नाय॑। स्वाहा॑। वि॒नँ॒शिन॒ इति॑ विनँ॒शिने॑। आ॒न्त्या॒य॒नायेत्या॑न्त्यऽआय॒नाय। स्वाहा॑। आन्त्या॑य। भौ॒व॒नाय॑। स्वाहा॑। भुव॑नस्य। पत॑ये। स्वाहा॑। अधि॑पतय॒ इत्यधि॑ऽपतये। स्वाहा॑। २०।
महीधरः
म० ‘द्वादश स्रुवाहुतीर्जुहोत्यापये स्वाहेति प्रतिमन्त्रं वाचयति वेति’ ( का० १४।५।१) प्राजापत्यानि द्वादश यजूंषि । संवत्सराभिमानी प्रजापतिः स्तूयते तस्यैवैतानि नामानि । आप्नोतीत्यापिस्तस्मै सुहुतमस्तु । शोभनमाप्नोतीति स्वापिः तस्मै । अपि जायते पुनःपुनरुत्पद्यते इत्यपिजस्तस्मै स्वाहा । क्रतुः संकल्पो भोगादिविषयो यज्ञो वा तस्मै । वसवे निवासहेतवे । अह्नां दिवसानां पतिरहर्पतिस्तस्मै । अतश्चत्वारि नामान्युभयविशेषणविशिष्टानि । ‘मुह वैचित्ये’ मुह्यतीति मुग्धस्तस्मै । अह्ने दिवसाय । विनश्यन्तीति विनंशिनः विनाशशीलाः पदार्थाः । ‘मस्जिनशोर्झलि’ (पा० ७।१।६० ) इति छान्दसत्वादझल्यपि नुमागमः । विनंशिषु भवो वैनंशिनस्तस्मै । मुग्धाय मोहकाय स्वाहा । अन्ते भवमन्त्यमन्त्यं च तदयनं च अन्त्यायनमन्त्यस्थानं तत्र भव आन्त्यायनस्तस्मै विनंशिने विनाशशीलाय स्वाहा । अन्ते भवोऽन्त्यः भुवने भवो भौवनस्तदुभयविशिष्टाय स्वाहा । भुवनस्य पतये जगतः पालयित्रे । अधिपतये सर्वलोकानां स्वामिने स्वाहा सुहुतमस्तु ॥ २० ॥
एकविंशी।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- वसिष्ठ ऋषिः
- भुरिक् कृतिः
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
विद्या और अच्छी शिक्षा से युक्त वाणी से मनुष्यों को क्या-क्या प्राप्त होता है, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वानो ! तुम लोग जैसे मुझको (आपये) सम्पूर्ण विद्या की प्राप्ति के लिये (स्वाहा) सत्य क्रिया (स्वापये) सुखों की अच्छी प्राप्ति के वास्ते (स्वाहा) धर्मयुक्त क्रिया (क्रतवे) बुद्धि बढ़ाने के लिये (स्वाहा) पढ़ाने की प्रवृत्ति करानेहारी क्रिया (अपिजाय) निश्चय करके प्रकट होने के लिये (स्वाहा) पुरुषार्थ क्रिया (वसवे) विद्यानिवास के लिये (स्वाहा) सत्य वाणी (अहर्पतये) पुरुषार्थपूर्वक गणितविद्या से दिन पालने के लिये (स्वाहा) कालगति को जाननेहारी वाणी (मुग्धाय) मोहप्राप्ति के निमित्त (अह्ने) दिन होने के लिये (स्वाहा) विज्ञानयुक्त वाणी (वैनंशिनाय) नष्टस्वभावयुक्त कर्मों में रहनेहारे (मुग्धाय) मूर्ख के लिये (स्वाहा) चितानेवाली वाणी (आन्त्यायनाय) नीच प्राप्तिवाले (विनंशिने) नष्टस्वभावयुक्त पुरुष के लिये (स्वाहा) नष्ट-भ्रष्ट कर्मों का निवारण करनेहारी वाणी (आन्त्याय) अधोगति में होनेवाले (भौवनाय) लोगों के बीच समर्थ पुरुष के लिये (स्वाहा) पदार्थों की जाननेहारी वाणी (भुवनस्य पतये) संसार के स्वामी ईश्वर के लिये (स्वाहा) योगविद्या को प्रकट करनेहारी बुद्धि और (अधिपतये) सब अधिष्ठाताओं के ऊपर रहनेवाले पुरुष के लिये (स्वाहा) सब व्यवहारों को जनानेहारी वाणी (गम्यात्) प्राप्त होवे, वैसा प्रयत्न आलस्य छोड़ के किया करो ॥२०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि सब विद्याओं की प्राप्ति आदि प्रयोजनों के लिये विद्या और अच्छी शिक्षा से युक्त वाणी को प्राप्त होवें कि जिससे सब सुख सदा मिलते रहें ॥२०॥
दयानन्द-सरस्वती (सं) - विषयः
विद्यासुशिक्षितया वाचा मनुष्याणां किं किं प्राप्नोतीत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वांसः ! यूयं यथा मामापये स्वाहा स्वापये स्वाहाऽपिजाय स्वाहा क्रतवे स्वाहा वसवे स्वाहाऽहर्पतये स्वाहा मुग्धायाह्ने स्वाहा मुग्धाय वैनंशिनाय स्वाहा। आन्त्यायनाय विनंशिने स्वाहाऽऽन्त्याय भौवनाय स्वाहा भुवनस्य पतये स्वाहाऽधिपतये च स्वाहा प्राप्नुयात् तथा प्रयतध्वम् ॥२०॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैः सकलविद्याप्राप्त्यादिप्रयोजनाय विद्यासुशिक्षायुक्ता वाणी प्राप्तव्याः, यतः सर्वाणि सुखानि प्राप्नुयुः ॥२०॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी संपूर्ण विद्याप्राप्तीचे प्रयोजन सिद्ध करण्यासाठी विद्येने युक्त चांगली शिक्षित (सुसंस्कारित) वाणी प्राप्त करून घ्यावी (प्रयोगात आणावी) ज्यामुळे सर्वांना नेहमी सुख प्राप्त होईल.
२१ आयुर्यज्ञेन कल्पताम्
विश्वास-प्रस्तुतिः ...{Loading}...
आयु॑र्य॒ज्ञेन॑ कल्पतां प्रा॒णो य॒ज्ञेन॑ कल्पतां॒ चक्षु॑र्य॒ज्ञेन॑ कल्पताँ॒ श्रोत्रं॑ य॒ज्ञेन॑ कल्पतां पृ॒ष्ठं य॒ज्ञेन॑ कल्पतां य॒ज्ञो य॒ज्ञेन॑ कल्पताम्। प्र॒जाप॑तेः प्र॒जाऽअ॑भूम॒ स्व᳖र्देवाऽअगन्मा॒मृता॑ऽअभूम ॥२१॥
मूलम् ...{Loading}...
आयु॑र्य॒ज्ञेन॑ कल्पतां प्रा॒णो य॒ज्ञेन॑ कल्पतां॒ चक्षु॑र्य॒ज्ञेन॑ कल्पताँ॒ श्रोत्रं॑ य॒ज्ञेन॑ कल्पतां पृ॒ष्ठं य॒ज्ञेन॑ कल्पतां य॒ज्ञो य॒ज्ञेन॑ कल्पताम्। प्र॒जाप॑तेः प्र॒जाऽअ॑भूम॒ स्व᳖र्देवाऽअगन्मा॒मृता॑ऽअभूम ॥२१॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आयुः॑। य॒ज्ञेन॑। क॒ल्प॒ता॒म्। प्रा॒णः। य॒ज्ञेन॑। क॒ल्प॒ता॒म्। चक्षुः॑। य॒ज्ञेन॑। क॒ल्प॒ता॒म्। श्रोत्र॑म्। य॒ज्ञेन॑। क॒ल्प॒ता॒म्। पृ॒ष्ठम्। य॒ज्ञेन॑। क॒ल्प॒ता॒म्। य॒ज्ञः। य॒ज्ञेन॑। क॒ल्प॒ता॒म्। प्र॒जाप॑ते॒रिति॑ प्र॒जाऽप॑तेः। प्र॒जा इति॑ प्र॒ऽजाः। अ॒भू॒म॒। स्वः॑। दे॒वाः॒। अ॒ग॒न्म॒। अ॒मृताः॑। अ॒भू॒म॒। २१।
महीधरः
म० षट् चोत्तराः षट् आयुर्यज्ञेनेत्याद्याश्चशब्दाज्जुहोति वाचयति वा’ ( का० १४।५।२) प्राजापत्यानि षड्यजूंषि । | मदीयमायुर्यज्ञेन वाजपेयाख्येन कल्पतां क्लृप्तं भवतु । मुखनासिकाप्रभवः पञ्चवृत्तिकः प्राणवायुरप्यनेन यज्ञेन क्लृप्तो भवतु । चक्षुरिन्द्रियं यज्ञेन क्लृप्तं भवतु । श्रोत्रेन्द्रियं यज्ञेन क्लृप्तमस्तु । पृष्ठं रथन्तरादिकं शरीरस्य पृष्टं वा यज्ञेन कल्पताम्। यज्ञेन मदीयेन वाजपेयाख्येन यज्ञो यज्ञाधिष्ठाता विष्णुः कल्पताम् । ‘प्रजापतेरित्यारोहत इति’ ( का० १४ । | ५। ६) पत्नीयजमानौ निश्रेण्या यूपमारोहतः । यजमानदेवत्यानि त्रीणि यजूंषि । वयं प्रजापतेः संबन्धिन्यः प्रजा अभूम अपत्यानि जातानि । ‘स्वरिति गोधूममालभत इति’ 1(१४ । ५ । ७)। स्वरिति गोधूमपिष्टनिर्मितं चषालं यजमानः स्पृशेत् । हे देवाः, वयं स्वः स्वर्गमगन्म प्राप्ताः । ‘शिरसा यूपमुज्जिहीतेऽमृता इति’ ( १४ । ५ । ८ )। यूपादूर्ध्वं शिरः करोति । वयममृता मरणधर्मरहिता अभूम संभूताः ॥ २१ ॥
द्वाविंशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- वसिष्ठ ऋषिः
- अत्यष्टिः
- गान्धारः
२२ अस्मे वोऽअस्त्विन्द्रियमस्मे
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒स्मे वो॑ऽअस्त्विन्द्रि॒यम॒स्मे नृ॒म्णमु॒त क्रतु॑र॒स्मे वर्चाँ॑सि सन्तु वः। नमो॑ मा॒त्रे पृ॑थि॒व्यै नमो॑ मा॒त्रे पृ॑थि॒व्याऽइ॒यं ते॒ राड्य॒न्तासि॒ यम॑नो ध्रु॒वो᳖ऽसि ध॒रुणः॑। कृ॒ष्यै त्वा॒ क्षेमाय॑ त्वा र॒य्यै त्वा॒ पोषा॑य त्वा ॥२२॥
मूलम् ...{Loading}...
अ॒स्मे वो॑ऽअस्त्विन्द्रि॒यम॒स्मे नृ॒म्णमु॒त क्रतु॑र॒स्मे वर्चाँ॑सि सन्तु वः। नमो॑ मा॒त्रे पृ॑थि॒व्यै नमो॑ मा॒त्रे पृ॑थि॒व्याऽइ॒यं ते॒ राड्य॒न्तासि॒ यम॑नो ध्रु॒वो᳖ऽसि ध॒रुणः॑। कृ॒ष्यै त्वा॒ क्षेमाय॑ त्वा र॒य्यै त्वा॒ पोषा॑य त्वा ॥२२॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒स्मेऽइत्य॒स्मे। वः। अ॒स्तु॒। इ॒न्द्रि॒यम्। अ॒स्मेऽइत्य॒स्मे। नृ॒म्णम्। उ॒त। क्रतुः॑। अ॒स्मेऽइत्य॒स्मे। वर्चाँ॑सि। स॒न्तु॒। वः॒। नमः॑। मा॒त्रे। पृ॒थि॒व्यै। नमः॑। मा॒त्रे। पृ॒थि॒व्यै। इ॒यम्। ते॒। राट्। य॒न्ता। अ॒सि॒। यम॑नः। ध्रु॒वः। अ॒सि॒। ध॒रुणः॑। कृ॒ष्यै। त्वा॒। क्षेमा॑य। त्वा॒। र॒य्यै। त्वा॒। पोषा॑य। त्वा॒। २२।
महीधरः
म० ‘अस्मे व इति दिशो वीक्षत इति’ (१४।५।९) यूपारूढ एव यजमानो दिशः पश्यति । दिग्देवत्यम् । हे दिशः, वो युष्मत्संबन्धि इन्द्रियं वीर्यमस्मे अस्मास्वस्तु । नृम्णं धनं युष्मत्संबन्धि अस्मे अस्मास्वस्तु । उत अपि च क्रतुः कर्म युष्मत्संबन्धि अस्मास्वस्तु । वो युष्माकं वर्चांसि तेजांसि अस्मे अस्मासु सन्तु भवन्तु । अस्माकं संबन्धि युष्मत्सामर्थ्यमस्त्विति भावः । ‘नमो मात्र इति भूमिमवेक्षत इति’ ( १४ । ५ । १२)। यूपारूढ एव यजमानो भूमिं पश्यति । पृथिवीदेवत्यम् । मात्रे मातृरूपायै पृथिव्यै नमो नमस्कारोऽस्तु । ‘अभ्यासे भूयांसमर्थं मन्यन्ते’ (निरु० १० । ४२ ) इति द्विरुक्तिः । ‘उत्तरवेदिमपरेणौदुम्बरीमासन्दीं बस्तचर्मणा स्तृणातीयं त इति’ ( का० १४ । ५। १३ ) आसन्दीदेवत्यम् । हे आसन्दि, ते तव इयं राट् इदं राज्यं राजनं राट् । संपदादित्वाद्भावे स्त्रियां क्विप् । अभिषिक्तासि त्वमिति भावः । ‘सुन्वन्तमस्यामुपवेशयति यन्तासीति’ ( का० १४ । ५ । १४ ) । आसन्द्यां यजमानमुपवेशयेत् । यजमानदेवत्यम् । हे यजमान, त्वं यन्ता सर्वस्य नियन्तासि । यमनः स्वयं संयमनकर्ता भवसि । अनवच्छिन्नं तव यमनमिति भावः । तथा ध्रुवः स्थिरोऽसि धरुणो धारकोऽसि । कृष्यै कर्षणाय कृषिसिद्ध्यर्थं त्वा त्वामुपवेशयामीति सर्वत्र शेषः । क्षेमाय लब्धपरिपालनाय त्वामुप० । रय्यै धनाय त्वामुप० । पोषाय पशुपुत्रादिपुष्ट्यै त्वामुप० ॥२२॥
त्रयोविंशी ।
अधिमन्त्रम् (VC)
- दिशो देवताः
- वसिष्ठ ऋषिः
- निचृद् अत्यष्टिः
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
ईश्वर की आज्ञा के अनुकूल मनुष्यों को संसार में कैसे वर्तना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य ! मैं ईश्वर (कृष्यै) खेती के लिये (त्वा) तुझे (क्षेमाय) रक्षा के लिये (त्वा) तुझे (रय्यै) सम्पत्ति के लिये (त्वा) तुझे और (पोषाय) पुष्टि के लिये (त्वा) तुझ को नियुक्त करता हूँ। जो तू (ध्रुवः) दृढ़ (यन्ता) नियमों से चलनेहारा (असि) है, (धरुणः) धारण करनेवाला (यमनः) उद्योगी (असि) है, जिस (ते) तेरी (इयम्) यह (राट्) शोभायुक्त है, इस (मात्रे) मान्य की हेतु (पृथिव्यै) पृथिवीयुक्त भूमि से (नमः) अन्नादि पदार्थ प्राप्त हों, इस (मात्रे) मान्य देने हारी (पृथिव्यै) पृथिवी को अर्थात् भूगर्भविद्या को जानके इससे (नमः) अन्न जलादि पदार्थ प्राप्त कर तुम सब लोग परस्पर ऐसे कहो और वर्तो कि जो (अस्मे) हमारे (इन्द्रियम्) मन आदि इन्द्रिय हैं, वे (वः) तुम्हारे लिये हों, जो (अस्मे) हमारा (नृम्णम्) धन है, वह (वः) तुम्हारे लिये हो (उत) और जो (अस्मे) हमारे (क्रतुः) बुद्धि वा कर्म हैं, वे (वः) तुम्हारे हित के लिये हों, जो हमारे (वर्चांसि) पढ़ा-पढ़ाया और अन्न हैं, वे (वः) तुम्हारे लिये (सन्तु) हों, जो यह सब तुम्हारा है, वह हमारा भी हो, ऐसा आचरण आपस में करो ॥२२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों के प्रति ईश्वर की यह आज्ञा है कि तुम लोग सदैव पुरुषार्थ में प्रवृत्त रहो और आलस्य मत करो और जो पृथिवी से अन्न आदि उत्पन्न हों, उनकी रक्षा करके यह सब जिस प्रकार परस्पर उपकार के लिये हो, वैसा यत्न करो। कभी विरोध मत करो, कोई अपना कार्य्य सिद्ध करे, उसका तुम भी किया करो ॥२२॥
दयानन्द-सरस्वती (सं) - विषयः
ईश्वराज्ञातो मनुष्यैरिह कथं वर्त्तितव्यमित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याऽहमीश्वरः कृष्यै त्वा क्षेमाय त्वा रय्यै त्वा पोषाय त्वा नियुञ्जामि, यस्त्वं ध्रुवो यन्तासि धरुणो यमनोऽसि यस्य ते तवेयं राडस्ति। अस्यै मात्रे पृथिव्यै नमोऽस्यै मात्रे पृथिव्यै नमो विधेहि। सर्वे यूयं यदस्मे इन्द्रियं तद्वोऽस्तु, यदस्मे नृम्णं तद्वोऽस्तु, उतापि योऽस्मे क्रतुः स वोऽस्तु। यान्यस्माकं वर्चांसि तानि वः सन्तु। यदेतत्सर्वं वोऽस्तु तदस्माकमस्त्वित्येवं परस्परं यूयं समाचरत ॥२२॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यान् प्रतीश्वरस्येमाज्ञाऽस्ति भवन्तः सदैव सत्कर्मसु प्रयतन्ताम्, आलस्यं मा कुर्वताम्, पृथिव्याः सकाशादन्नादीन्युत्पाद्य संरक्ष्यैतत्सर्वं परस्परमुपकाराय यथा स्यात् तथा तद्धितं विदधताम् ॥२२॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ईश्वर माणसांना असा आदेश देतो की तुम्ही सदैव पुरुषार्थी व्हा. आळस सोडा. पृथ्वीवर अन्न वगैरे जे पदार्थ उत्पन्न होतात त्यांचे रक्षण करून परस्परांवर उपकार होतील असा प्रयत्न करा. कधी विरोध करू नका. जर एखाद्याने तुम्हाला साह्य केले तर तुम्हीही त्याला साह्य करा.
२३ वाजस्येमं प्रसवः
विश्वास-प्रस्तुतिः ...{Loading}...
वाज॑स्ये॒मं प्र॑स॒वः सु॑षु॒वेऽग्रे॒ सोमँ॒ राजा॑न॒मोष॑धीष्व॒प्सु। ताऽअ॒स्मभ्यं॒ मधु॑मतीर्भवन्तु व॒यँ रा॒ष्ट्रे जा॑गृयाम पु॒रोहि॑ताः॒ स्वाहा॑ ॥२३॥
मूलम् ...{Loading}...
वाज॑स्ये॒मं प्र॑स॒वः सु॑षु॒वेऽग्रे॒ सोमँ॒ राजा॑न॒मोष॑धीष्व॒प्सु। ताऽअ॒स्मभ्यं॒ मधु॑मतीर्भवन्तु व॒यँ रा॒ष्ट्रे जा॑गृयाम पु॒रोहि॑ताः॒ स्वाहा॑ ॥२३॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वाज॑स्यः। इ॒मम्। प्र॒स॒व इति॑ प्रऽस॒वः। सु॒षु॒वे। सु॒सु॒व॒ इति सुसुवे। अग्रे॑। सोम॑म्। राजा॑नम्। ओष॑धीषु। अ॒प्स्वित्य॒प्ऽसु। ताः। अ॒स्मभ्य॑म्। मधु॑मती॒रिति॒ मधु॑ऽमतीः। भ॒व॒न्तु॒। व॒यम्। रा॒ष्ट्रे। जा॒गृ॒या॒म॒। पु॒रोहि॑ता॒ इति॑ पु॒रःऽहि॑ताः। स्वाहा॑। २३।
महीधरः
म० ‘स्रुवेण संभृताज्जुहोति वाजस्येममिति प्रतिमन्त्रमिति (का० १४ । ५। २१)। औदुम्बरपात्रे एकीकृताद्दुग्धव्रीह्यादिधान्यात्स्रुवेणाहवनीये सप्त मन्त्रैर्जुहोति । तिस्रस्त्रिष्टुभः प्रजापतिदेवत्याः । प्रसूतेऽसौ प्रसवः पचादित्वादच् वाजस्यान्नस्य प्रसव उत्पादकः प्रजापतिः अग्रे सृष्ट्यादौ ओषधीषु अप्सु च वर्तमानमिमं सोमं वल्लीरूपं राजानं दीप्तिमन्तं पदार्थं सुषुवे उत्पादयामास । ता इत्थंभूताः सोमस्य जनयित्र्य ओषधय आपश्चास्मभ्यमस्मदर्थं मधुमतीर्मधुमत्यो रसवत्यो माधुर्योपेता भवन्तु भोगयोग्या भवन्तु । वयं च ताभिरभिषिक्ता राष्ट्रे स्वकीये देशे जागृयाम अप्रमत्ता भवाम । पुरोहिताः यागानुष्ठानादौ पुरोगामिनः प्रधाना इत्यर्थः । स्वाहा सुहुतमस्तु ॥ २३ ॥
चतुर्विंशी।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- वसिष्ठ ऋषिः
- स्वराट् त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उन को इस विषय में कैसा होना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य लोगो ! जैसे मैं (अग्रे) प्रथम (प्रसवः) ऐश्वर्य्ययुक्त होकर (वाजस्य) वैद्यकशास्त्र बोधसम्बन्धी (इमम्) इस (सोमम्) चन्द्रमा के समान सब दुःखों के नाश करनेहारे (राजानम्) विद्या न्याय और विनयों से प्रकाशमान राजा को (सुषुवे) ऐश्वर्य्ययुक्त करता हूँ, जैसे उसकी रक्षा में (ओषधीषु) पृथिवी पर उत्पन्न होनेवाली यव आदि ओषधियों और (अप्सु) जलों के बीच में वर्त्तमान ओषधी हैं, (ताः) वे (अस्मभ्यम्) हमारे लिये (मधुमतीः) प्रशस्त मधुर वाणीवाली (भवन्तु) हों, जैसे (स्वाहा) सत्य क्रिया के साथ (पुरोहिताः) सब के हितकारी हम लोग (राष्ट्रे) राज्य में निरन्तर (जागृयाम) आलस्य छोड़ के जागते रहें, वैसे तुम भी वर्ता करो ॥२३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - शिष्ट मनुष्यों को योग्य है कि सब विद्याओं को चतुराई, रोगरहित और सुन्दर गुणों में शोभायमान पुरुष को राज्याधिकार देकर, उसकी रक्षा करनेवाला वैद्य ऐसा प्रयत्न करे कि जिससे इसके शरीर बुद्धि और आत्मा में रोग का आवेश न हो। इसी प्रकार राजा और वैद्य दोनों सब मन्त्री आदि भृत्यों और प्रजाजनों को रोगरहित करें, जिससे ये राज्य के सज्जनों के पालने और दुष्टों के ताड़ने में प्रयत्न करते रहें, राजा और प्रजा के पुरुष परस्पर पिता पुत्र के समान सदा वर्त्तें ॥२३॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तैरत्र कथं भवितव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथाऽहमग्रे प्रसवः सन् वाजस्येमं सोमं राजानं सुषुवे, यथा तद्रक्षणेन या ओषधीष्वप्स्वोषधयः सन्ति, ताः अस्मभ्यं मधुमतीर्भवन्तु। यथा स्वाहा पुरोहिता वयं राष्ट्रे सततं तथा यूयमपि वर्त्तध्वम् ॥२३॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - शिष्टा मनुष्याः सर्वविद्याचातुर्य्यारोग्यसहितं सोम्यादिगुणालङ्कृतं राजानं संस्थाप्य तद्रक्षको वैद्य एवं प्रवर्त्तेत, यथाऽस्य शरीरे बुद्धावात्मनि च रोगावेशो न स्यात्। इत्थमेव राजवैद्यौ सर्वानमात्यादीन् भृत्यानरोगान् सम्पादयेताम्। यत एते राज्यस्थसज्जनपालने दुष्टताडने सदा प्रयतेरन्, राजा प्रजा च पिता पुत्रवत् सदा वर्त्तेयाताम् ॥२३॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सभ्य माणसांनी सर्व विद्यांमध्ये चतुर रोगरहित सुंदर गुणांनी युक्त अशा पुरुषाला राज्याधिकार द्यावा व त्याचे शरीर, बुद्धी, आत्मा रोगरहित व्हावेत असा वैद्याने प्रयत्न करावा. त्याप्रमाणेच राजा व वैद्य यांनी मंत्री, नोकर व प्रजा यांनाही रोगरहित करावे. ज्यामुळे त्यांना राज्यातील सज्जनांचे पालन व दुष्टांचे ताडन करण्याचा प्रयत्न करता येईल. राजा व प्रजा यांनी परस्पर पिता व पुत्र याप्रमाणे व्यवहार करावा.
२४ वाजस्येमां प्रसवः
विश्वास-प्रस्तुतिः ...{Loading}...
वाज॑स्ये॒मां प्र॑स॒वः शि॑श्रिये॒ दिव॑मि॒मा च॒ विश्वा॒ भुव॑नानि स॒म्राट्। अदि॑त्सन्तं दापयति प्रजा॒नन्त्स नो॑ र॒यिँ सर्व॑वीरं॒ निय॑च्छतु॒ स्वाहा॑ ॥२४॥
मूलम् ...{Loading}...
वाज॑स्ये॒मां प्र॑स॒वः शि॑श्रिये॒ दिव॑मि॒मा च॒ विश्वा॒ भुव॑नानि स॒म्राट्। अदि॑त्सन्तं दापयति प्रजा॒नन्त्स नो॑ र॒यिँ सर्व॑वीरं॒ निय॑च्छतु॒ स्वाहा॑ ॥२४॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वाज॑स्य। इ॒माम्। प्र॒स॒व इति॑ प्रऽस॒वः। शि॒श्रि॒ये॒। दिव॑म्। इ॒मा। च॒। विश्वा॑। भुव॑नानि। स॒म्राडिति॑ स॒म्ऽराट्। अदि॑त्सन्तम्। दा॒प॒य॒ति॒। प्र॒जा॒नन्निति॑ प्रऽजा॒नन्। सः। नः॒। र॒यिम्। सर्ववीर॒मिति॒ सर्व॑ऽवीर॒म्। नि। य॒च्छ॒तु॒। स्वाहा॑। २४।
महीधरः
म० वाजस्यान्नस्य प्रसव उत्पादक ईश्वर इमां पृथिवीं दिवं द्युलोकं च इमा इमानि विश्वा विश्वानि सर्वाणि भुवनानि भूतजातानि च शिश्रिये आश्रितवान् । स च सम्राट् सर्वेषां भुवनानां राजा भूत्वा अदित्सन्तं हविर्दातुमनिच्छन्तं मां प्रजानन् अवगच्छन् मदीयबुद्धिप्रेरणेन हविर्दापयति । ततो नोऽस्मभ्यं सर्ववीरं सर्वैः पुत्रभृत्यादिभिर्युक्तं रयिं धनं नियच्छतु नियमनेन ददातु ‘दाण् दाने’ ‘पाघ्राध्मा-’ (पा० ७।३। ७८ ) इत्यादिना यच्छादेशः । स्वाहा सुहुतमस्तु ॥ २४ ॥
पञ्चविंशी।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- वसिष्ठ ऋषिः
- जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
राजा किसका आश्रय लेकर किसके साथ क्या करे, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य लोगो ! जैसे (वाजस्य) राज्य के मध्य में (प्रसवः) उत्पन्न हुए (सम्राट्) अच्छे प्रकार राजधर्म में प्रवर्त्तमान मैं (इमाम्) इस भूमि को (दिवम्) प्रकाशित और (इमा) इन (विश्वा) सब और (भुवनानि) घरों को (शिश्रिये) अच्छे प्रकार आश्रय करता हूँ, वैसे तुम भी इस को अच्छे प्रकार शोभित करो और जो (स्वाहा) धर्म्मयुक्त सत्यवाणी से (प्रजानन्) जानता हुआ (अदित्सन्तम्) राज्यकर देने की इच्छा न करनेवाले से (दापयति) दिलाता है, (सः) सो (नः) हमारे (सर्ववीरम्) सब वीरों को प्राप्त करानेहारे (रयिम्) धन को (नियच्छतु) ग्रहण करे ॥२४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्य लोगो ! मूल राज्य के बीच सनातन राजनीति को जान कर, जो राज्य की रक्षा करने को समर्थ हो, उसी को चक्रवर्त्ती राजा करो और जो कर देनेवालों से कर दिलावे, वह मन्त्री होने को योग्य होवे। जो शत्रुओं को बाँधने में समर्थ हो, उसे सेनापति नियुक्त करो और जो विद्वान् धार्मिक हो, उसे न्यायाधीश वा कोषाध्यक्ष करो ॥२४॥
दयानन्द-सरस्वती (सं) - विषयः
राजा किमाश्रित्य केन किं कुर्य्यादित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा वाजस्य मध्ये प्रसवः सम्राडहमिमां दिवमिमा विश्वा भुवनानि च शिश्रिये, तथा यूयमप्येनमेतानि चाश्रयत। यः स्वाहा प्रजानन्नदित्सन्तं दापयति स नः सर्ववीरं रयिं नियच्छतु ॥२४॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यो मूलस्य राज्यस्य मध्ये सनातनीं राजनीतिं विदित्वा राज्यं संरक्षितुं शक्नुयात्, तमेव चक्रवर्तिनं राजानं कुरुत। यः करस्यादातुः करं दापयेत्, सोऽमात्यो भवितुमर्हेत। यः शत्रून् निग्रहीतुं शक्नुयात्, तं सेनापतिं कुरुत। यो विद्वान् धार्मिको भवेत् तं न्यायाधीशं कोशाध्यक्षं वा कुरुत ॥२४॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! जो राज्यामध्ये उत्तम राजधर्म किंवा राजनीती जाणणारा व राज्याचे रक्षण करणारा असेल त्याला चक्रवर्ती राजा करा. कर देण्यास जे टाळाटाळ करतात त्यांच्याकडून कर वसूल करण्याची क्षमता ज्याच्यात असेल त्याला मंत्री करा. जो शत्रूंना बंधनात ठेवू शकेल त्याला सेनापती करा. जो विद्वान व धार्मिक असेल त्याला न्यायाधीश किंवा कोषाध्यक्ष करा.
२५ वाजस्य नु
विश्वास-प्रस्तुतिः ...{Loading}...
वाज॑स्य॒ नु प्र॑स॒व आब॑भूवे॒मा च॒ विश्वा॒ भुव॑नानि स॒र्वतः॑। सने॑मि॒ राजा॒ परि॑याति वि॒द्वान् प्र॒जां पुष्टिं॑ व॒र्धय॑मानोऽअ॒स्मे स्वाहा॑ ॥२५॥
मूलम् ...{Loading}...
वाज॑स्य॒ नु प्र॑स॒व आब॑भूवे॒मा च॒ विश्वा॒ भुव॑नानि स॒र्वतः॑। सने॑मि॒ राजा॒ परि॑याति वि॒द्वान् प्र॒जां पुष्टिं॑ व॒र्धय॑मानोऽअ॒स्मे स्वाहा॑ ॥२५॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वाज॑स्य। नु। प्र॒स॒व इति॑ प्रऽस॒वः। आ। ब॒भू॒व॒। इ॒मा। च॒। विश्वा॑। भुव॑नानि। स॒र्वतः॑। सने॑मि। राजा॑। परि॑। या॒ति॒। वि॒द्वान्। प्र॒जामिति॑ प्र॒ऽजाम्। पुष्टि॑म्। व॒र्धय॑मानः। अ॒स्मेऽइत्य॒स्मे। स्वाहा॑। २५।
महीधरः
म० नु इति विस्मये । वाजस्य प्रसवः प्रजापतिः इमा इमानि विश्वा विश्वानि सर्वाणि भुवनानि भूतानि सर्वतोऽवस्थितानि हिरण्यगर्भादिस्तम्बपर्यन्तानि आबभूव संभावितवान् । उत्पादितवानित्यर्थः । सनेमीति पुराणनाम । सनेमि चिरंतनो राजा दीप्तः सन् परियाति सर्वतः स्वेच्छया गच्छति । किंभूतः। विद्वान्स्वाधिकारं जानन् । तथा अस्मे अस्मासु प्रजां पुत्रादिसन्ततिं पुष्टिं धनपोषं च वर्धयमानः वर्धयन्स्वाहा सुहुतमस्तु ॥ २५॥
षड्विंशी।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- वसिष्ठ ऋषिः
- स्वराट् त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर राजा कैसा हो, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (वाजस्य) वेदादि शास्त्रों से उत्पन्न बोध को (स्वाहा) सत्यनीति से (प्रसवः) प्राप्त होकर (विद्वान्) सम्पूर्ण विद्या को जाननेवाला पुरुष (आ) अच्छे प्रकार (बभूव) होवे (च) और (इमा) इन (विश्वा) सब (भुवनानि) माण्डलिक राजनिवास स्थानों और (सनेमि) सनातन नियम धर्मसहित वर्त्तमान (प्रजाम्) पालने योग्य प्रजाओं को (पुष्टिम्) पोषण (नु) शीघ्र (वर्धयमानः) बढ़ाता हुआ (परि) सब ओर से (याति) प्राप्त होता है, वह (अस्मे) हम लोगों का राजा होवे ॥२५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ईश्वर सब को उपदेश करता है कि हे मनुष्य लोगो ! तुम जो प्रशंसित गुण, कर्म, स्वभाववाला, राज्य की रक्षा में समर्थ हो, उसको सभाध्यक्ष करके आप्तनीति से चक्रवर्त्ती राज्य करो ॥२५॥
दयानन्द-सरस्वती (सं) - विषयः
पुना राजा कीदृशो भवेदित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यो वाजस्य स्वाहा प्रसवो विद्वानाबभूवेमा विश्वा भुवनानि सनेमि च प्रजां पुष्टिं नु वर्धयमानः परियाति सो अस्मे राजा भवतु ॥२५॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ईश्वरोऽभिवदति−हे मनुष्या ! यूयं प्रशंसितगुणकर्मस्वभावो राज्यं रक्षितुं समर्थो भवेत् तं सभाध्यक्षं कृत्वाऽऽप्तनीत्या साम्राज्यं कुरुतेति ॥२५॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ईश्वर माणसांना उपदेश करतो की ज्याचा गुण, कर्म, स्वभाव राज्यरक्षणासाठी योग्य असेल त्याला राजा करून विद्वानांच्या नीतीनुसार चक्रवर्ती राज्य भोगा.
२६ सोमं राजानमवसेऽग्निमन्वारभामहे
विश्वास-प्रस्तुतिः ...{Loading}...
सोमँ॒ राजा॑न॒मव॑से॒ऽग्निम॒न्वार॑भामहे। आ॒दि॒त्यान् विष्णुँ॒ सूर्य्यं॑ ब्र॒ह्माणं॑ च॒ बृह॒स्पतिँ॒ स्वाहा॑ ॥२६॥
मूलम् ...{Loading}...
सोमँ॒ राजा॑न॒मव॑से॒ऽग्निम॒न्वार॑भामहे। आ॒दि॒त्यान् विष्णुँ॒ सूर्य्यं॑ ब्र॒ह्माणं॑ च॒ बृह॒स्पतिँ॒ स्वाहा॑ ॥२६॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सोम॑म्। राजा॑नम्। अव॑से। अ॒ग्निम्। अ॒न्वार॑भामह॒ इत्य॑नु॒ऽआर॑भामहे। आ॒दि॒त्यान्। विष्णु॑म्। सूर्य॑म्। ब्र॒ह्मा॑णम्। च॒। बृह॒स्पति॑म्। स्वाहा॑। २६।
महीधरः
म०. तिस्रोऽनुष्टुभस्तापसदृष्टाः प्रथमा सोमाग्न्यादित्यविष्णुसूर्यबृहस्पतिदेवत्या । अवसे रक्षणार्थं तर्पणाय वा सोमं राजानमग्निं वैश्वानरमादित्यान्द्वादश विष्णुं सूर्यं ब्रह्माणं बृहस्पतिं चान्वारभामहे अन्वारम्भणमाह्वानं कुर्महे । स्वाहा सुहुतमस्तु ॥ २६ ॥
सप्तविंशी।
अधिमन्त्रम् (VC)
- सोमाग्न्यादित्यविष्णुसूर्य्यबृहस्पतयो देवताः
- तापस ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर कैसे राजा को स्वीकार करें, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य लोगो ! जैसे हम लोग (स्वाहा) सत्यवाणी से (अवसे) रक्षा आदि के अर्थ (विष्णुम्) व्यापक परमेश्वर (सूर्य्यम्) विद्वानों में सूर्य्यवत् विद्वान् (ब्रह्माणम्) साङ्गोपाङ्ग चार वेदों को पढ़नेवाले (बृहस्पतिम्) बड़ों के रक्षक (अग्निम्) अग्नि के समान शत्रुओं को जलानेवाले (सोमम्) शान्त गुणसम्पन्न (राजानम्) धर्माचरण से प्रकाशमान राजा और (आदित्यान्) विद्या के लिये जिसने अड़तालीस वर्ष तक ब्रह्मचर्य्य रहकर पूर्ण विद्या पढ़, सूर्यवत् प्रकाशमान विद्वानों के सङ्ग से विद्या पढ़ के गृहाश्रम का (अन्वारभामहे) आरम्भ करें, वैसे तुम भी किया करो ॥२६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ईश्वर की आज्ञा है कि सब मनुष्य रक्षा आदि के लिये ब्रह्मचर्य्य व्रतादि से विद्या के पारगन्ता विद्वानों के बीच, जिसने अड़तालीस वर्ष ब्रह्मचर्य्य व्रत किया हो, ऐसे राजा को स्वीकार करके सच्ची नीति को बढ़ावें ॥२६॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः कीदृशं राजानं स्वीकुर्य्युरित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! यथा वयं स्वाहाऽवसे सह वर्त्तमानं विष्णुं सूर्य्यं ब्रह्माणं बृहस्पतिमग्निं सोमं राजानमादित्याँश्चान्वारभामहे तथा यूयमप्यारभध्वम् ॥२६॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ईश्वराज्ञाऽस्ति सर्वे मनुष्या रक्षणाद्याय ब्रह्मचर्य्यादिना विद्यापारगान् विदुषस्तन्मध्य उत्तमं सूर्य्यादिगुणसम्पन्नं राजानं च स्वीकृत्य सत्यां नीतिं वर्धयन्त्विति ॥२६॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ईश्वराची अशी आज्ञा आहे की सर्वांच्या रक्षणासाठी ब्रह्मचर्य व्रत पालन करून विद्येत निष्णात असलेल्या विद्वानांमध्ये राहून ज्याने अठ्ठेचाळीस वर्षे ब्रह्मचर्य व्रत पालन केलेले आहे अशा व्यक्तीला राजा म्हणून निवडावे व उत्तम नीतिमूल्ये वृद्धिंगत करावीत.
२७ अर्यमणं बृहस्पतिमिन्द्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒र्य॒मणं॒ बृह॒स्पति॒मिन्द्रं॒ दाना॑य चोदय। वाचं॒ विष्णुँ॒ सर॑स्वतीँ सवि॒तारं॑ च वा॒जिनँ॒ स्वाहा॑ ॥२७॥
मूलम् ...{Loading}...
अ॒र्य॒मणं॒ बृह॒स्पति॒मिन्द्रं॒ दाना॑य चोदय। वाचं॒ विष्णुँ॒ सर॑स्वतीँ सवि॒तारं॑ च वा॒जिनँ॒ स्वाहा॑ ॥२७॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒र्य्य॒मण॑म्। बृह॒स्पति॑म्। इन्द्र॑म्। दाना॑य। चो॒द॒य॒। वाच॑म्। विष्णु॑म्। सर॑स्वतीम्। स॒वि॒तार॑म्। च॒। वा॒जिन॑म्। स्वाहा॑। २७।
महीधरः
म० अर्यमबृहस्पतीन्द्रवाग्विष्णुसरस्वतीसवितृदेवत्या । हे ईश्वर, त्वमर्यमादीन्देवान्दानाय धनप्रदानार्थं चोदय प्रेरय । बृहस्पतिमिन्द्रं देवेशं वाचं वागधिष्ठात्रीं सरस्वतीं विष्णुं सवितारं सर्वस्य प्रसवकर्तारं सूर्यम् । वाजिनमन्नवन्तमिति सर्वेषां विशेषणम् । वाजिनं देवाश्वं वा । स्वाहा सुहुतमस्तु ॥ २७ ॥
अष्टाविंशी।
अधिमन्त्रम् (VC)
- अर्य्यमादिमन्त्रोक्ता देवताः
- तापस ऋषिः
- स्वराड् अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर राजा किनको किसमें प्रेरणा करे, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! आप (स्वाहा) सत्यनीति से (दानाय) विद्यादि दान के लिये (अर्यमणम्) पक्षपातरहित न्याय करने (बृहस्पतिम्) सब विद्याओं को पढ़ाने (इन्द्रम्) बड़े ऐश्वर्य्ययुक्त (वाचम्) वेदवाणी (विष्णुम्) सब के अधिष्ठाता (सवितारम्) वेदविद्या तथा सब ऐश्वर्य उत्पन्न करने (वाजिनम्) अच्छे बल वेग से युक्त शूरवीर और (सरस्वतीम्) बहुत प्रकार वेदादि शास्त्र विज्ञानयुक्त पढ़ानेवाली विदुषी स्त्री को अच्छे कर्मों में (चोदय) सदा प्रेरणा किया कीजिये ॥२७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ईश्वर सब से कहता है कि राजा आप धर्मात्मा विद्वान् होकर सब न्याय के करनेवाले मनुष्यों को विद्या धर्म्म बढ़ाने के लिये निरन्तर प्रेरणा करे, जिससे विद्या धर्म की बढ़ती से अविद्या और अधर्म दूर हों ॥२७॥
दयानन्द-सरस्वती (सं) - विषयः
पुना राजा कान् कस्मिन् प्रेरयेदित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे राजँस्त्वं स्वाहा दानायार्य्यमणं बृहस्पतिमिन्द्रं वाचं विष्णुं सवितारं वाजिनं सरस्वतीं च सत्कर्मसु सदा चोदय ॥२७॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ईश्वरोऽभिवदति राजा स्वयं धार्मिको विद्वान् भूत्वा सर्वान्न्यायाधीशान् मनुष्यान् विद्याधर्मवर्धनाय सततं प्रेरयेद् यतो विद्याधर्मवृद्ध्याऽविद्याऽधर्मौ निवृत्तौ स्याताम् ॥२७॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ईश्वर सर्वांना असा उपदेश करतो की राजाने स्वतः धार्मिक विद्वान बनले पाहिजे. न्यायी लोकांना विद्या व धर्माची वृद्धी करण्याची सतत प्रेरणा दिली पाहिजे. त्यामुळे विद्येची वृद्धी होईल व अविद्या आणि अधर्म नाहीसे होतील.
२८ अग्नेऽअच्छा वदेह
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने॒ऽअच्छा॑ वदे॒ह नः॒ प्रति॑ नः सु॒मना॑ भव। प्र नो॑ यच्छ सहस्रजि॒त् त्वँ हि ध॑न॒दाऽअसि॒ स्वाहा॑ ॥२८॥
मूलम् ...{Loading}...
अग्ने॒ऽअच्छा॑ वदे॒ह नः॒ प्रति॑ नः सु॒मना॑ भव। प्र नो॑ यच्छ सहस्रजि॒त् त्वँ हि ध॑न॒दाऽअसि॒ स्वाहा॑ ॥२८॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अग्ने॑। अच्छ॑। व॒द॒। इ॒ह। नः॒। प्रति॑। नः॒। सु॒मना॒ इति॑ सु॒ऽमनाः॑। भ॒व॒। प्र। नः॒। य॒च्छ॒। स॒ह॒स्र॒जि॒दिति॑ सहस्रऽजित्। त्वम्। हि। ध॒न॒दा॒ इति॑ धन॒ऽदाः। असि॒। स्वाहा॑। २८।
महीधरः
म० अग्निदेवत्या । हे अग्ने, इहास्मिन्कर्मणि नोऽस्माकमच्छ वद आभिमुख्येन ब्रूहि हितमिति शेषः । ‘निपातस्य च’ (पा० ६ । ३ । १३६ ) इति संहितायां दीर्घोऽच्छशब्दस्य । किंच नोऽस्मान्प्रति सुमनाः करुणार्द्रचित्तो भव । हे सहस्रजित् सहस्रस्य बहुनो वसुनो जेतः, सहस्राणां योधानां वा जेतः, हि यस्मात्त्वं स्वभावतो धनदा धनस्य दातासि अतस्त्वं नोऽस्मभ्यं प्रयच्छ धनं देहि स्वाहा ॥ २८ ॥
एकोनत्रिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- तापस ऋषिः
- भुरिग् अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह राजा क्या करे, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्वन् ! आप (इह) इस समय में (स्वाहा) सत्य वाणी से (नः) हम को (अच्छ) अच्छे प्रकार (वद) सत्य उपदेश कीजिये (नः) हमारे ऊपर (सुमनाः) मित्रभावयुक्त (भव) हूजिये (हि) जिससे आप (सहस्रजित्) विना सहाय हजार को जीतने (धनदाः) ऐश्वर्य्य देनेवाले (असि) हैं, इससे (नः) हमारे लिये (प्रयच्छ) दीजिये ॥२८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ईश्वर उपदेश करता है कि राजा, प्रजा और सेनाजन मनुष्यों से सदा सत्य प्रिय वचन कहे, उनको धन दे, उनसे धन ले। शरीर आत्मा का बल बढ़ा और नित्य शत्रुओं को जीतकर धर्म से प्रजा को पाले ॥२८॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स राजा किं किं कुर्य्यादित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! त्वमिह स्वाहा नोऽच्छ वद, नोऽस्मान् प्रति सुमना भव। त्वं हि सहस्रजिद् धनदा असि, तस्मान्नः सुखं प्रयच्छ ॥२८॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ईश्वर आह राजा प्रजासेनाजनान् प्रति सदा सत्यं प्रियं च दद्याद् गृह्णीयाच्च, शरीरात्मबलं वर्धित्वा नित्यं शत्रून् जित्वा धर्मेण प्रजाः पालयेदिति ॥२८॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ईश्वर असा उपदेश करतो की राजाने प्रजा व सेना यांच्याबरोबर नेहमी सत्य व मधुर बोलावे व त्यांना धन देऊन मदत करावी (प्रजेकडून) धन घ्यावे. शरीर व आत्म्याचे बल वाढवावे व सदैव शत्रूंना जिंकून धर्माने प्रजेचे पालन करावे.
२९ प्र नो
विश्वास-प्रस्तुतिः ...{Loading}...
प्र नो॑ यच्छत्वर्य॒मा प्र पू॒षा बृह॒स्पतिः॑। प्र वाग्दे॒वी द॑दातु नः॒ स्वाहा॑ ॥२९॥
मूलम् ...{Loading}...
प्र नो॑ यच्छत्वर्य॒मा प्र पू॒षा बृह॒स्पतिः॑। प्र वाग्दे॒वी द॑दातु नः॒ स्वाहा॑ ॥२९॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्र। नः॒। य॒च्छ॒तु॒। अ॒र्य्य॒मा। प्र। पू॒षा। प्र। बृह॒स्पतिः॑। प्र। वाक्। दे॒वी। द॒दा॒तु॒। नः॒। स्वाहा॑। २९।
महीधरः
म०. गायत्री अर्यमपूषबृहस्पतिवाग्देवत्या । अर्यमा सूर्यविशेषो नोऽस्मभ्यं प्रयच्छतु अभीष्टं ददातु । पूषा प्रयच्छतु । उपसर्गावृत्त्या क्रियापदावृत्तिः । बृहस्पतिः प्रयच्छतु। देवी दीप्यमाना वाक् नोऽस्मभ्यं ददातु स्वाहा ॥ २९ ॥
त्रिंशी।
अधिमन्त्रम् (VC)
- अर्य्यमादिमन्त्रोक्ता देवताः
- तापस ऋषिः
- भुरिग् आर्षी गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
प्रजा और सन्तानों से राजा और माता आदि कैसे वर्तें, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जैसे (अर्य्यमा) न्यायाधीश (नः) हमारे लिये उत्तम शिक्षा (प्रयच्छतु) देवे, जैसे (पूषा) पोषण करनेवाला शरीर और आत्मा की पुष्टि की शिक्षा (प्र) अच्छे प्रकार देवे, जैसे (बृहस्पतिः) विद्वान् (प्र) (स्वाहा) अत्युत्तम विद्या देवे, जैसे (वाक्) उत्तम विद्या सुशिक्षा सहित वाणीयुक्त (देवी) प्रकाशमान पढ़ानेवाली माता हमारे लिये सत्यविद्यायुक्त वाणी का (प्रददातु) उपदेश सदा किया करे ॥२९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यहाँ जगदीश्वर उपदेश करता है कि राजा आदि सब पुरुष और माता आदि स्त्री सदा प्रजा और पुत्रादिकों को सत्य-सत्य उपदेश कर विद्या और अच्छी शिक्षा को निरन्तर ग्रहण करावें, जिससे प्रजा और पुत्र-पुत्री आदि सदा आनन्द में रहें ॥२९॥
दयानन्द-सरस्वती (सं) - विषयः
राजा मात्रादयश्च प्रजाः किं किमुपदिशेयुरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यथाऽर्यमा नोऽस्मभ्यं सुशिक्षां प्रयच्छतु, यथा पूषा पुष्टिं प्रददातु, यथा बृहस्पतिः स्वाहा प्रार्पयतु, तथा वाग्देवी माताऽस्मभ्यं विद्यां ददातु ॥२९॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्राऽऽह जगदीश्वरः। राजादयः सर्वे पुरुषा मात्रादिस्त्रियश्च सर्वदा प्रजाः पुत्रादीन् प्रति सत्युमपदेशं कुर्य्युर्विद्यां सुशिक्षां च सततं ग्राहयेयुर्यतः प्रजाः सदाऽऽनन्दिताः स्युः ॥२९॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जगदीश्वर असा उपदेश करतो की राजपुरुषांनी प्रजेला व मातांनी आपल्या पुत्रांना सत्य उपदेश करून विद्या व चांगले शिक्षण द्यावे. ज्यामुळे प्रजा व संतती सदैव आनंदात राहतील.
३० देवस्य त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳙ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम्। सर॑स्वत्यै वा॒चो य॒न्तुर्य॒न्त्रिये॑ दधामि॒ बृह॒स्पते॑ष्ट्वा॒ साम्रा॑ज्येना॒भिषि॑ञ्चाम्यसौ ॥३०॥
मूलम् ...{Loading}...
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳙ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम्। सर॑स्वत्यै वा॒चो य॒न्तुर्य॒न्त्रिये॑ दधामि॒ बृह॒स्पते॑ष्ट्वा॒ साम्रा॑ज्येना॒भिषि॑ञ्चाम्यसौ ॥३०॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दे॒वस्य॑। त्वा॒। स॒वि॒तुः। प्र॒स॒व इति॑ प्रऽस॒वे। अ॒श्विनोः॑। बा॒हुभ्या॒मिति॑ बा॒हुऽभ्याम्। पू॒ष्णः। हस्ता॑भ्याम्। सर॑स्वत्यै। वा॒चः। य॒न्तुः। य॒न्त्रिये॑। द॒धा॒मि॒। बृह॒स्पतेः॑। त्वा॒। साम्रा॑ज्ये॒नेति॒ साम्ऽरा॑ज्येन। अ॒भि। सि॒ञ्चा॒मि॒। अ॒सौ॒। ३०।
महीधरः
म० शेषेणाभिषिञ्चति यजमानं देवस्य त्वेति’ । (का. । १४ । ५ । २२ ) होमद्रव्यशेषेण यजमानं शिरसि सिञ्चेत् । यजमानदेवत्यम् । सवितुर्देवस्य प्रसवे वर्तमानोऽहमश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां त्वा त्वां वाचो वाण्या यन्तुर्यन्त्र्या। पुंस्त्वमार्षम् । नियमनकर्त्र्याः । सरस्वत्यै षष्ठ्यर्थे चतुर्थी । सरस्वत्याः यन्त्रिये नियमने ऐश्वर्ये दधामि स्थापयामि । किंच बृहस्पतेः साम्राज्येन सम्राड्भावेन त्वा त्वामभिषिञ्चामि । असाविति तन्नामग्रहणम् ॥ ३० ॥
एकत्रिंशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- बृहस्पतिर्ऋषिः
- जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर कहाँ कैसे को राजा करें, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सब अच्छे गुण कर्म्म स्वभावयुक्त विद्वन् ! (असौ) यह मैं (सवितुः) सब जगत् के उत्पन्न करनेवाले ईश्वर (देवस्य) प्रकाशमान जगदीश्वर के (प्रसवे) उत्पन्न किये संसार में (सरस्वत्यै) अच्छे प्रकार शिल्पविद्यायुक्त (वाचः) वेदवाणी के मध्य (अश्विनोः) सूर्य्य-चन्द्रमा के बल और आकर्षण के समान (बाहुभ्याम्) भुजाओं से (पूष्णः) वायु के समान धारण-पोषण गुणयुक्त (हस्ताभ्याम्) हाथों से (त्वा) तुम को (दधामि) धारण करता हूँ और (बृहस्पतेः) बड़े विद्वान् के (यन्त्रिये) कारीगरी विद्या से सिद्ध किये राज्य में (साम्राज्येन) चक्रवर्ती राजा के गुण से सहित (त्वा) तुझ को (अभि) सब ओर से (सिञ्चामि) सुगन्धित रसों से मार्जन करता हूँ ॥३०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को योग्य है कि ईश्वर में प्रेमी, बल, पराक्रम, पुष्टियुक्त, चतुर, सत्यवादी, जितेन्द्रिय, धर्मात्मा, प्रजापालन में समर्थ विद्वान् को अच्छे प्रकार परीक्षा कर सभा का स्वामी करने के लिये अभिषेक करके राजधर्म की उन्नति अच्छे प्रकार नित्य किया करें ॥३०॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः क्व कीदृशं राजानं कुर्य्युरित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अखिलशुभगुणकर्मस्वभावयुक्त विद्वन् ! असावहं सवितुर्देवस्य जगदीश्वरस्य प्रसवे सरस्वत्यै वाचोऽश्विनोर्बाहूभ्यां पूष्णो हस्ताभ्यां त्वा दधामि, यन्तुर्बृहस्पतेर्यन्त्रिये साम्राज्येन त्वाभिषिञ्चामि ॥३०॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैरीश्वरप्रियं बलवीर्यपुष्टियुक्तं प्रगल्भं सत्यवादिनं जितेन्द्रियं धार्मिकं प्रजापालनक्षमं विद्वांसं सुपरीक्ष्य सभाया अधिष्ठातृत्वेनाभिषिच्य राजधर्म उन्नेयः ॥३०॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी ईश्वरभक्त, बलवान, पराक्रमी, निरोगी, चतुर, सत्यवादी, जितेन्द्रिय, धर्मात्मा, प्रजापालन करण्यास समर्थ व विद्वान असलेल्या अशा माणसाची परीक्षा करून त्याला राजा म्हणून निवडावे व सतत राजधर्म वृद्धिंगत करावा.
३१ अग्निरेकाक्षरणे प्राणमुदजयत्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्निरेका॑क्षरणे प्रा॒णमुद॑जय॒त् तमुज्जे॑षम॒श्विनौ॒ द्व्य᳖क्षरेण द्वि॒पदो॑ मनु॒ष्या᳙नुद॑जयतां॒ तानुज्जे॑षं॒ विष्णु॒स्त्र्य᳖क्षरेण॒ त्रील्ँ लो॒कानुद॑जय॒त् तानुज्जे॑षंँ॒ सोम॒श्चतु॑रक्षरेण॒ चतु॑ष्पदः प॒शूनुद॑जय॒त् तानुज्जे॑षम् ॥३१॥
मूलम् ...{Loading}...
अ॒ग्निरेका॑क्षरणे प्रा॒णमुद॑जय॒त् तमुज्जे॑षम॒श्विनौ॒ द्व्य᳖क्षरेण द्वि॒पदो॑ मनु॒ष्या᳙नुद॑जयतां॒ तानुज्जे॑षं॒ विष्णु॒स्त्र्य᳖क्षरेण॒ त्रील्ँ लो॒कानुद॑जय॒त् तानुज्जे॑षंँ॒ सोम॒श्चतु॑रक्षरेण॒ चतु॑ष्पदः प॒शूनुद॑जय॒त् तानुज्जे॑षम् ॥३१॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒ग्निः। एका॑क्षरे॒णेत्येक॑ऽअक्षरेण। प्रा॒णम्। उत्। अ॒ज॒य॒त्। तम्। उत्। जे॒ष॒म्। अ॒श्विनौ॑। द्व्य॑क्षरे॒णेति॒ द्विऽअ॑क्षरेण। द्वि॒पद॑ इति॒ द्वि॒ऽपदः॑। म॒नु॒ष्या᳖न्। उत्। अ॒ज॒य॒ता॒म्। तान्। उत्। जे॒ष॒म्। विष्णुः॑। त्र्य॑क्षरे॒णेति॒ त्रिऽअ॑क्षरेण। त्रीन्। लो॒कान्। उत्। अ॒ज॒य॒त्। तान्। उत्। जे॒ष॒म्। सोमः॑। चतु॑रक्षरे॒णेति॒ चतुः॑ऽअक्षरेण। चतु॑ष्पदः। चतुः॑पद इति॒ चतुः॑ऽपदः। प॒शून्। उत्। अ॒ज॒य॒त्। तान्। उत्। जे॒ष॒म्। ३१।
महीधरः
म० ‘अग्निरेकाक्षरेणेत्यनुवाकं द्वादशवत् कृत्वेति’ । ( का० १४ । ५ । २६) चतुःकण्डिकात्मकमनुवाकं द्वादशवत् द्वादश स्रुवाहुतीर्जुहोत्यापये स्वाहेति प्रतिमन्त्रं वाचयति वेति यत्पूर्वमुक्तं तद्वत्कृत्वेत्यर्थः । तेनेतैर्मन्त्रैर्जुहोति सप्तदश मन्त्रान् वाचयति वेत्यर्थः । एते मन्त्रा उज्जितिसंज्ञाः । सप्तदश यजूंषि लिङ्गोक्तदेवतानि । ओश्रावयेति चतुरक्षरं अस्तु श्रौषडिति चतुरक्षरं यजेति द्यक्षरं येयजामह इति पञ्चाक्षरं द्व्यक्षरो वषट्कारः एष सप्तदशाक्षरात्मकः प्रजापतिरधियज्ञं समासव्यासाभ्यामुज्जीयते । अग्निरेकाक्षरेण छन्दसा प्राणं पञ्चवृत्तिकमुदजयत् उत्कृष्टं जितवान् । तथाहमपि तादृशं तं प्राणमुज्जेषमुत्कृष्टं जयेयं वशीकुर्यामित्यर्थः । अश्विनौ देवो द्व्यक्षरेण अक्षरद्वयात्मकेन छन्दसा द्विपदः पादद्वयोपेतान्मनुष्यानुदजयतां जितवन्तौ तथाहमपि तेनैव द्व्यक्षरेण छन्दसा तान् तादृशान्मनुष्यानुज्जेषमधिकं जयेयम् । विष्णुस्त्र्यक्षरेणाक्षरत्रयात्मकेन छन्दसा त्रीन्भूरादीन् लोकानुदजयत् अहमपि ताल्ँ लोकानुज्जेषम् । सोमोऽक्षरचतुष्टयात्मकेन छन्दसा चतुःपदः पादचतुष्टयोपेतान्पशूनुदजयत् अहमपि तेन तान्पशूनुज्जेषम् ॥ ३१ ॥
द्वात्रिंशी।
अधिमन्त्रम् (VC)
- अग्न्यादयो मन्त्रोक्ता देवताः
- तापस ऋषिः
- स्वराड् अति धृतिः
- षड्जः
३२ पूषा पञ्चाक्षरेण
विश्वास-प्रस्तुतिः ...{Loading}...
पू॒षा पञ्चा॑क्षरेण॒ पञ्च॒ दिश॒ऽउद॑जय॒त् ताऽउज्जे॑षँ सवि॒ता षड॑क्षरेण॒ षड् ऋ॒तूनुद॑जय॒त् तानुज्जे॑षं म॒रुतः स॒प्ताक्ष॑रेण स॒प्त ग्रा॒म्यान् प॒शूनुद॑जयँ॒स्तानुज्जे॑षं॒ बृह॒स्पति॑र॒ष्टाक्ष॑रेण गाय॒त्रीमुद॑जय॒त् तामुज्जे॑षम् ॥३२॥
मूलम् ...{Loading}...
पू॒षा पञ्चा॑क्षरेण॒ पञ्च॒ दिश॒ऽउद॑जय॒त् ताऽउज्जे॑षँ सवि॒ता षड॑क्षरेण॒ षड् ऋ॒तूनुद॑जय॒त् तानुज्जे॑षं म॒रुतः स॒प्ताक्ष॑रेण स॒प्त ग्रा॒म्यान् प॒शूनुद॑जयँ॒स्तानुज्जे॑षं॒ बृह॒स्पति॑र॒ष्टाक्ष॑रेण गाय॒त्रीमुद॑जय॒त् तामुज्जे॑षम् ॥३२॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पू॒षा। पञ्चा॑क्षरे॒णेति॒ पञ्च॑ऽअक्षरेण। पञ्च॑। दिशः॑। उत्। अ॒ज॒य॒त्। ताः। उत्। जे॒ष॒म्। स॒वि॒ता। षड॑क्षरे॒णेति॒ षट्ऽअ॑क्षरेण। षट्। ऋ॒तून्। उत्। अ॒ज॒य॒त्। तान्। उत्। जे॒ष॒म्। म॒रुतः॑। स॒प्ताक्ष॑रे॒णेति॑ स॒प्तऽअ॑क्षरेण। स॒प्त। ग्रा॒म्यान्। प॒शून्। उत्। अ॒ज॒य॒न्। तान्। उत्। जे॒ष॒म्। बृह॒स्पतिः॑। अ॒ष्टाक्ष॑रे॒णेत्य॒ष्टऽअक्ष॑रेण। गा॒य॒त्रीम्। उत्। अ॒ज॒य॒त्। ताम्। उत्। जे॒ष॒म्। ३२।
महीधरः
म० पूषा देवः पञ्चाक्षरेण छन्दसा पञ्चसंख्याः पूर्वाद्याश्चतस्रोऽवान्तरदिशं चेति पञ्च दिश उदजयत् अहमपि ता दिशो जयेयम्। सविता सर्वस्य प्रेरको देवः षडक्षरेण छन्दसा षट्संख्यानृतूनुदजयत् तानृतूनहमुज्जेषम् । मरुतो देवाः सप्ताक्षरेण छन्दसा सप्तसंख्यान् ग्राम्यान् पशून् गवादीनुदजयन् अहं तान् ग्राम्यान्पशूञ्जयेयम् । बृहस्पतिरष्टाक्षरात्मकेन छन्दसा गायत्रीच्छन्दोभिमानिनीं देवतामुदजयत् तां तादृशीं गायत्रीं जयेयम् ॥ ३२ ॥
त्रयस्त्रिंशी।
अधिमन्त्रम् (VC)
- पूषादयो मन्त्रोक्ता देवताः
- तापस ऋषिः
- कृतिः
- निषादः
३३ मित्रो नवाक्षरेण
विश्वास-प्रस्तुतिः ...{Loading}...
मि॒त्रो नवा॑क्षरेण त्रि॒वृतँ॒ स्तोम॒मुद॑जय॒त् तमुज्जे॑षं॒ वरु॑णो॒ दशा॑क्षरेण वि॒राज॒मुद॑जय॒त् तामुज्जे॑ष॒मिन्द्र॒ऽएका॑दशाक्षरेण त्रि॒ष्टुभ॒मुद॑जय॒त् तामुज्जे॑षं॒ विश्वे॑ दे॒वा द्वाद॑शाक्षरेण॒ जग॑ती॒मुद॑जयँ॒स्तामुज्जे॑षम् ॥३३॥
मूलम् ...{Loading}...
मि॒त्रो नवा॑क्षरेण त्रि॒वृतँ॒ स्तोम॒मुद॑जय॒त् तमुज्जे॑षं॒ वरु॑णो॒ दशा॑क्षरेण वि॒राज॒मुद॑जय॒त् तामुज्जे॑ष॒मिन्द्र॒ऽएका॑दशाक्षरेण त्रि॒ष्टुभ॒मुद॑जय॒त् तामुज्जे॑षं॒ विश्वे॑ दे॒वा द्वाद॑शाक्षरेण॒ जग॑ती॒मुद॑जयँ॒स्तामुज्जे॑षम् ॥३३॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मि॒त्रः। नवा॑क्षरे॒णेति॒ नव॑ऽअक्षरेण। त्रि॒वृत॒मिति॒ त्रि॒ऽवृत॑म्। स्तोम॑म्। उत्। अ॒ज॒य॒त्। तम्। उत्। जे॒ष॒म्। वरु॑णः। दशा॑क्षरे॒णेति॒ दश॑ऽअक्षरेण। वि॒राज॒मिति॒ वि॒ऽराज॑म्। उत्। अ॒ज॒य॒त्। ताम्। उत्। जे॒ष॒म्। इन्द्रः॑। एका॑दशाक्षरे॒णेत्येका॑दशऽअक्षरेण। त्रि॒ष्टुभ॑म्। त्रि॒स्तुभ॒मिति॑ त्रि॒ऽस्तुभ॑म्। उत्। अ॒ज॒य॒त्। ताम्। उत्। जे॒ष॒म्। विश्वे॑। दे॒वाः। द्वाद॑शाक्षरे॒णेति॒ द्वाद॑शऽअक्षरेण। जग॑तीम्। उत्। अ॒ज॒य॒न्। ताम्। उत्। जे॒ष॒म्। ३३।
महीधरः
म० मित्रो देवो नवाक्षरेण छन्दसा त्रिवृतं स्तोममुदजयत्तं तादृशं स्तोममहं जयेयम् । वरुणो देवो दशाक्षरेण छन्दसा विराजम् दशाक्षरा विराडिति श्रुतिप्रसिद्धां तदभिमानिनीं देवतामुदजयत्तां विराजमहमप्युज्जेषम् । इन्द्रो देव एकादशाक्षरेण छन्दसा त्रिष्टुप्छन्दोऽभिमानिनीं देवतामुदजयत् तां त्रिष्टुभमहमुज्जेषम् । विश्वेदेवा द्वादशाक्षरेण छन्दसा जगत्यभिमानिदेवतामुदजयन् अहमपि तां जगतीं जयेयम् ॥ ३३ ॥
चतुस्त्रिंशी।
अधिमन्त्रम् (VC)
- मित्रादयो मन्त्रोक्ता देवताः
- तापस ऋषिः
- कृतिः
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
राजा के सत्याचार के अनुसार प्रजा और प्रजा के अनुसार राजा करे, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! (मित्रः) सब के हितकारी आप जैसे (नवाक्षरेण) नव अक्षर की याजुषी बृहती से जिस (त्रिवृतम्) कर्म्म, उपासना और ज्ञान के (स्तोमम्) स्तुति के योग्य को (उदजयत्) उत्तमता से जानते हो, वैसे (तम्) उसको मैं भी (उज्जेषम्) अच्छे प्रकार जानूँ। हे प्रशंसा के योग्य सभेश ! (वरुणः) सब प्रकार से श्रेष्ठ आप (दशाक्षरेण) दश अक्षरों की याजुषी पङ्क्ति से जिस (विराजम्) विराट् छन्द से प्रतिपादित अर्थ को (उदजयत्) प्राप्त हुए हो, वैसे (ताम्) उसको मैं भी (उज्जेषम्) प्राप्त होऊँ (इन्द्रः) परम ऐश्वर्य्य देनेवाले आप जैसे (एकादशाक्षरेण) ग्यारह अक्षरों की आसुरी पङ्क्ति से जिस (त्रिष्टुभम्) त्रिष्टुप् छन्दवाची को (उदजयत्) अच्छे प्रकार जानते हो, वैसे (ताम्) उसको मैं भी (उज्जेषम्) अच्छे प्रकार जानूँ। हे सभ्य जनो (विश्वे) सब (देवाः) विद्वानो ! आप जैसे (द्वादशाक्षरेण) बारह अक्षरों की साम्नी गायत्री से जिस (जगतीम्) जगती से कही हुई नीति का (उदजयन्) प्रचार करते हो, वैसे (ताम्) उसको मैं भी (उज्जेषम्) प्रचार करूँ ॥३३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजपुरुषों को चाहिये कि सब प्राणियों में मित्रता से अच्छे प्रकार शिक्षा कर इन प्रजाजनों को उत्तम गुणयुक्त विद्वान् करें, जिससे ये ऐश्वर्य्य के भागी होकर राजभक्त हों ॥३३॥
दयानन्द-सरस्वती (सं) - विषयः
राज्ञः सत्याचाराऽनुकरणं प्रजया प्रजयाश्च राज्ञा कार्य्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! मित्रो भवान् यथा नवाक्षरेण छन्दसा यं त्रिवृतं स्तोममुदजयत्, तथा तमहमप्युज्जेषम्। हे प्रशंसनीय सभेश ! वरुणो भवान् यथा दशाक्षरेण छन्दसा यां विराजमुदजयत्, तथाहमप्युज्जेषम्। हे परमैश्वर्यप्रदेन्द्रो भवान् यथैकादशाक्षरेण यां त्रिष्टुभमुदजयत् तथा तामहमप्युज्जेषम्। हे सभाजना विश्वे देवाः ! भवन्तो यथा द्वादशाक्षरेण यां जगतीमुदजयँस्तामहमप्युज्जेषम् ॥३३॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - राजजनाः सर्वेषु प्राणिषु मैत्रीं विधाय सुशिक्षयोत्कृष्टान् विदुषः सम्पादयेयुर्यतस्ते ऐश्वर्य्यभागिनो भूत्वा राजभक्ता भवेयुः ॥३३॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजपुरुषांनी सर्व प्राण्यांशी मैत्री करावी. चांगल्या प्रकारे शिक्षण देऊन प्रजेला उत्तम गुणांनी युक्त करावे व विद्वान बनवावे. त्यामुळे ते ऐश्वर्यसंपन्न बनून राजभक्त होतील.
३४ वसवस्त्रयोदशाक्षरेण त्रयोदशम्
विश्वास-प्रस्तुतिः ...{Loading}...
वस॑व॒स्त्रयो॑दशाक्षरेण त्रयोद॒शँ स्तोम॒मुद॑जयँ॒स्तमुज्जे॑षँ रु॒द्राश्चतु॑र्दशाक्षरेण चतुर्द॒शँ स्तोम॒मुद॑जयँ॒स्तमुज्जे॑षमादि॒त्याः पञ्च॑दशाक्षरेण पञ्चद॒शँ स्तोम॒मुद॑जयँ॒स्तामुज्जे॑ष॒मदि॑तिः॒ षोड॑शाक्षरेण षोड॒शँस्तोम॒मुद॑जय॒त् तमुज्जे॑षं प्र॒जाप॑तिः स॒प्तद॑शाक्षरेण सप्तद॒शँ स्तोम॒मुद॑जय॒त् तमुज्जे॑षम् ॥३४॥
मूलम् ...{Loading}...
वस॑व॒स्त्रयो॑दशाक्षरेण त्रयोद॒शँ स्तोम॒मुद॑जयँ॒स्तमुज्जे॑षँ रु॒द्राश्चतु॑र्दशाक्षरेण चतुर्द॒शँ स्तोम॒मुद॑जयँ॒स्तमुज्जे॑षमादि॒त्याः पञ्च॑दशाक्षरेण पञ्चद॒शँ स्तोम॒मुद॑जयँ॒स्तामुज्जे॑ष॒मदि॑तिः॒ षोड॑शाक्षरेण षोड॒शँस्तोम॒मुद॑जय॒त् तमुज्जे॑षं प्र॒जाप॑तिः स॒प्तद॑शाक्षरेण सप्तद॒शँ स्तोम॒मुद॑जय॒त् तमुज्जे॑षम् ॥३४॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वस॑वः। त्रयो॑दशाक्षरे॒णेति॒ त्रयो॑दशऽअक्षरेण। त्र॒यो॒द॒शमिति॑ त्रयःऽद॒शम्। स्तोम॑म्। उत्। अ॒ज॒य॒न्। तम्। उत्। जे॒ष॒म्। रु॒द्राः। चतु॑र्दशाक्षरे॒णेति॒ चतु॑र्दशऽअक्षरेण। च॒तु॒र्द॒शमिति॑ चतुःऽद॒शम्। स्तोम॑म्। उत्। अ॒ज॒य॒न्। तम्। उत्। जे॒ष॒म्। आ॒दि॒त्याः। पञ्च॑दशाक्षरे॒णेति॒ पञ्च॑दशऽअक्षरेण। प॒ञ्च॒द॒शमिति॒ पञ्चऽद॒शम्। स्तोम॑म्। उत्। अ॒ज॒य॒न्। तम्। उत्। जे॒ष॒म्। अदि॑तिः। षोड॑शाक्षरे॒णेति॒ षोड॑शऽअक्षरेण। षो॒ड॒शम्। स्तोम॑म्। उत्। अ॒ज॒यत्। तम्। उत्। जे॒ष॒म्। प्र॒जाप॑ति॒रिति॑ प्र॒जाऽप॑तिः। स॒प्त॑दशाक्षरे॒णेति स॒प्तद॑शऽअक्षरेण। स॒प्त॒द॒श॒मिति॑ सप्तऽद॒शम्। स्तोम॑म्। उत्। अ॒ज॒य॒त्। तम्। उत्। जे॒ष॒म्। ३४।
महीधरः
म० वसवस्त्रयोदशाक्षरेण छन्दसा त्रयोदशं स्तोममुदजयन् तं स्तोमं जयेयम् । रुद्रा देवाश्चतुर्दशाक्षरेण छन्दसा चतुर्दशं स्तोममुदजयन् तं स्तोममहमपि जयेयम् । आदित्या देवाः पञ्चदशाक्षरेण छन्दसा पञ्चदशं स्तोममुदजयन् तं स्तोमं जयेयम् । अदितिर्देवमाता षोडशाक्षरेण छन्दसा षोडशं स्तोममुदजयत् तेनाहमपि तं स्तोममुज्जेषम् । प्रजापतिः सप्तदशाक्षरेण छन्दसा सप्तदशाख्यं स्तोममुदजयत् तं स्तोमं तेन छन्दसाहमपि जयेयम् । एतान्मन्त्राञ्जपेदेतैर्जुहुयाद्वा ॥ ३४ ॥
इति वाजपेयमन्त्राः समाप्ताः ॥
पञ्चत्रिंशी।
अधिमन्त्रम् (VC)
- वस्वादयो मन्त्रोक्ता देवताः
- तापस ऋषिः
- निचृद् जगती, निचृद् धृतिः
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी राजा और प्रजा के धर्म्म कार्य्य का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजादि सभ्यजनो ! (वसवः) चौबीस वर्ष तक ब्रह्मचर्य्य से विद्या पढ़नेवाले विद्वानो ! आप लोग जैसे (त्रयोदशाक्षरेण) तेरह अक्षरों की आसुरी अनुष्टुप् वेदस्थ छन्द से जिस (त्रयोदशम्) दश प्राण, जीव, महत्तत्त्व और अव्यक्त कारणरूप (स्तोमम्) प्रशंसा के योग्य पदार्थ समूह को (उदजयन्) श्रेष्ठता से जानें, वैसे (तम्) उसको मैं भी (उज्जेषम्) उत्तमता से जानूँ। हे बल, पराक्रम और पुरुषार्थयुक्त (रुद्राः) चवालीस वर्ष पर्यन्त ब्रह्मचर्य्य से विद्या पढ़नेहारे विद्वानो ! जैसे आप (चतुर्दशाक्षरेण) चौदह अक्षरों की साम्नी उष्णिक् छन्द से (चतुर्दशम्) दश इन्द्रिय, मन, बुद्धि, चित्त और अहंकाररूप (स्तोमम्) प्रशंसा के योग्य पदार्थविद्या को (उदजयन्) प्रशंसित करें, वैसे मैं भी (तम्) उसको (उज्जेषम्) प्रशंसित करूँ। हे (आदित्याः) अड़तालीस वर्ष ब्रह्मचर्य्य से समस्त विद्याओं को ग्रहण करनेहारे पूर्ण विद्या से शरीर और आत्मा के समस्त बल से युक्त सूर्य्य के समान प्रकाशमान विद्वानो ! आप लोग जैसे (पञ्चदशाक्षरेण) पन्द्रह अक्षरों की आसुरी गायत्री से (पञ्चदशम्) चार वेद, चार उपवेद अर्थात् आयुर्वेद, धनुर्वेद, गान्धर्ववेद (गानविद्या) तथा अर्थवेद (शिल्पशास्त्र) छः अङ्ग (शिक्षा, कल्प, व्याकरण, निरुक्त, छन्द और ज्योतिष) मिल के चौदह, उनका संख्यापूरक पन्द्रहवाँ क्रियाकुशलतारूप (स्तोमम्) स्तुति के योग्य को (उदजयन्) अच्छे प्रकार से जानें, वैसे मैं भी (तम्) उसको (उज्जेषम्) अच्छे प्रकार से जानूँ। हे (अदितिः) आत्मारूप से नाशरहित सभाध्यक्ष राजा की विदुषी स्त्री अखण्डित ऐश्वर्ययुक्त ! आप जैसे (षोडशाक्षरेण) सोलह अक्षर की साम्नी अनुष्टुप् से (षोडशम्) प्रमाण, प्रमेय, संशय, प्रयोजन, दृष्टान्त, सिद्धान्त, अवयव, तर्क, निर्णय, वाद, जल्प, वितण्डा, हेत्वाभास, छल, जाति और निग्रहस्थान इन सोलह पदार्थों की व्याख्यायुक्त (स्तोमम्) प्रशंसा के योग्य को (उदजयत्) उत्तमता से जानें, वैसे मैं भी (तम्) उसको (उज्जेषम्) उत्तमता से जानूँ। हे नरेश ! (प्रजापतिः) प्रजा के रक्षक आप जैसे (सप्तदशाक्षरेण) सत्रह अक्षरों की निचृदार्षी छन्द से (सप्तदशम्) चार वर्ण, चार आश्रम, सुनना, विचारना, ध्यान करना, अप्राप्त की इच्छा, प्राप्त का रक्षण, रक्षित का बढ़ाना, बढ़े हुए को अच्छे मार्ग सबके उपकार में खर्च करना, यह चार प्रकार का पुरुषार्थ और मोक्ष के अनुष्ठानरूप (स्तोमम्) अच्छे प्रकार प्रशंसनीय को उत्तमता से जानें, वैसे मैं भी उसको (उज्जेषम्) उत्तमता से जानूँ ॥३४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्य लोगो ! इन चार मन्त्रों से जितना राजा और प्रजा का धर्म कहा, उसका अनुष्ठान कर तुम सुखी होओ ॥३४॥
दयानन्द-सरस्वती (सं) - विषयः
पुनरपि राजप्रजाधर्मकृत्यमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे राजादयः सभ्या वसवो जनाः ! भवन्तो यथा त्रयोदशाक्षरेण यं त्रयोदशं स्तोममुदजयंस्तथाऽहमप्युज्जेषम्। हे बलवीर्य्यवन्तः पुरुषार्थिनो रुद्राः ! भवन्तो यथा चतुर्दशाक्षरेण यं चतुर्दशं स्तोममुदजयंस्तथा तमहमप्युज्जेषम्। हे पूर्णविद्यया शरीरात्माखिलबला आदित्याः ! भवन्तो यथा पञ्चदशाक्षरेण यं पञ्चदशं स्तोममुदजयँस्तथा तमहमप्युज्जेषम्। हे सभाध्यक्षस्य राज्ञः पत्न्यदिते अखण्डितैश्वर्य्या भवती यथा षोडशाक्षरेण यं षोडशं स्तोममुदजयत्, तथा तमहमप्युज्जेषम्। हे सर्वाभिरक्षक सज्जन नरेश प्रजापतिर्भवान् यथा सप्तदशाक्षरेण यं सप्तदशं स्तोममुदजयत् तथा तमहमप्युज्जेषम् ॥३४॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्या ! एतैश्चतुर्भिर्मन्त्रैर्यावान् राजप्रजाधर्मो विहितस्तमनुष्ठाय यूयं सुखिनो भवत ॥३४॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! या चार मंत्रांतून राजा व प्रजेचा जेवढा धर्म सांगितलेला आहे त्याचे पालन करून तुम्ही सुखी व्हा.
३५ एष ते
विश्वास-प्रस्तुतिः ...{Loading}...
ए॒ष ते॑ निर्ऋते भा॒गस्तं जु॑षस्व॒ स्वाहा॒ऽग्निने॑त्रेभ्यो दे॒वेभ्यः॑ पुरः॒सद्भ्यः॒ स्वाहा॑ य॒मने॑त्रेभ्यो दे॒वेभ्यो॑ दक्षिणा॒सद्भ्यः॒ स्वाहा॑ वि॒श्वदे॑वनेत्रेभ्यो दे॒वेभ्यः॑ पश्चा॒त्सद्भ्यः॒ स्वाहा॑ मि॒त्रावरु॑णनेत्रेभ्यो वा म॒रुन्ने॑त्रेभ्यो वा दे॒वेभ्य॑ऽउत्तरा॒सद्भ्यः॒ स्वाहा॒ सोम॑नेत्रेभ्यो दे॒वेभ्य॑ऽउपरि॒सद्भ्यो॒ दुव॑स्वद्भ्यः॒ स्वाहा॑ ॥३५॥
मूलम् ...{Loading}...
ए॒ष ते॑ निर्ऋते भा॒गस्तं जु॑षस्व॒ स्वाहा॒ऽग्निने॑त्रेभ्यो दे॒वेभ्यः॑ पुरः॒सद्भ्यः॒ स्वाहा॑ य॒मने॑त्रेभ्यो दे॒वेभ्यो॑ दक्षिणा॒सद्भ्यः॒ स्वाहा॑ वि॒श्वदे॑वनेत्रेभ्यो दे॒वेभ्यः॑ पश्चा॒त्सद्भ्यः॒ स्वाहा॑ मि॒त्रावरु॑णनेत्रेभ्यो वा म॒रुन्ने॑त्रेभ्यो वा दे॒वेभ्य॑ऽउत्तरा॒सद्भ्यः॒ स्वाहा॒ सोम॑नेत्रेभ्यो दे॒वेभ्य॑ऽउपरि॒सद्भ्यो॒ दुव॑स्वद्भ्यः॒ स्वाहा॑ ॥३५॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ए॒षः। ते॑ नि॒र्ऋ॒त इति॑ निःऽऋते। भा॒गः। तम्। जु॒ष॒स्व॒। स्वाहा॑। अ॒ग्निने॑त्रेभ्य॒ इत्य॒ग्निऽने॑त्रेभ्यः। दे॒वेभ्यः॑। पु॒रः॒सद्भ्य॒ इति॑ पुरःसत्ऽभ्यः॑। स्वाहा॑। य॒मने॑त्रेभ्य॒ इति॑ य॒मऽने॑त्रेभ्यः। दे॒वेभ्यः॑। द॒क्षि॒णा॒सद्भ्य॒ इति॑ दक्षिणा॒सत्ऽभ्यः॑। स्वाहा॑। वि॒श्वदे॑वनेत्रेभ्य॒ इति॑ वि॒श्वदे॑वऽनेत्रेभ्यः। दे॒वेभ्यः॑। प॒श्चात्सद्भ्य॒ इति॑ पश्चा॒त्सत्ऽभ्यः॑। स्वाहा॑। मि॒त्रावरु॑णनेत्रेभ्य॒ इति॑ मि॒त्रावरु॑णऽनेत्रेभ्यः। वा॒। म॒रुन्ने॑त्रेभ्य॒ इति॑ म॒रुत्ऽने॑त्रेभ्यः। वा॒। दे॒वेभ्यः॑। उ॒त्त॒रा॒सद्भ्य॒ इत्यु॑त्तरा॒सत्ऽभ्यः॑। स्वाहा॑। सोम॑नेत्रेभ्य॒ इति॑ सोम॑ऽनेत्रेभ्यः। दे॒वेभ्यः॑। उ॒प॒रि॒सद्भ्य॒ इत्यु॑परि॒सत्ऽभ्यः॑। दुव॑स्वद्भ्य॒ इति॑ दुव॑स्वत्ऽभ्यः। स्वाहा॑। ३५।
महीधरः
म० अथ राजसूयमन्त्राः । तेषां वरुण ऋषिः । ‘अष्टाकपालोऽनुमत्यै शम्यायाः पश्चाद्धविष्यमन्नᳪं᳭स्रुवे कृला दक्षिणाग्न्युल्मुकमादाय दक्षिणा गत्वा स्वयमप्रदीर्ण इरिणे वाग्नौ जुहोत्येष ते निर्ऋत इति’ (का० १५ । १ । ९-१०)। फाल्गुनाद्यदशम्यामनुमत्यै अष्टाकपालः पुरोडाशो भवति तदर्थं गृहीतहविषः पेषणकाले दृषदधस्तान्निहितशम्यापश्चाद्भागे पन्नं पतितं यद्धविस्तण्डुलपिष्टरूपं तत् स्रुवे निधाय दक्षिणाग्नेरुल्मुकमादाय दक्षिणस्यां दिशि गत्वा स्वयं स्फुटिते भूभागे ऊषरे वोल्मुकाग्निं संस्थाप्य तद्धविर्जुहोतीति सूत्रार्थः । पृथिवीदेवत्यम् । निर्ऋतिरत्र पृथिवी । हे निर्ऋते पृथिवि, एष पिष्टरूपस्ते तव भागः तं भागं त्वं जुषस्व सेवस्व स्वाहा सुहुतमस्तु । ‘पञ्चवातीयमाहवनीयं प्रतिदिशं व्यूह्य मध्ये च स्रुवेणाग्निषु जुहोत्यग्मिनेत्रेभ्य इति प्रतिमन्त्रमिति’ (का० १५। १ ।२०)। एवं वर्षमिष्टाः कृत्वा पञ्चवातीयाख्यं कर्म विधेयं तत्राहवनीयं प्रागादिदिक्षु कृत्वा मध्ये चावशिष्य स्रुवेणाज्यं पञ्चस्वग्निषु यथालिङ्गं जुहोति। अध्यायसमाप्तिपर्यन्तं देवा ऋषयः । दश यजूंषि देवदेवत्यानि । अग्निर्नता येषां ते अग्निनेत्रास्तेभ्यः । पुरः पुरस्तात्पूर्वस्यां दिशि सीदन्तीति पुरःसदस्तेभ्यो देवेभ्यः स्वाहा सुहुतमस्तु । अथ दक्षिणे जुहोति । यमनेत्रेभ्यः यमो नेता येषां तेभ्यः । दक्षिणस्यां सीदन्तीति दक्षिणासदस्तेभ्यो देवेभ्यः स्वाहा । अथ पश्चाज्जुहोति । विश्वदेवनेत्रेभ्यः विश्वेदेवा नेतारो येषां तेभ्यः पश्चात्सीदन्तीति पश्चात्सदस्तेभ्यः स्वाहा । अथोत्तरार्धे जुहोति । मित्रावरुणनेत्रेभ्यः मित्रावरुणौ नेतारौ येषां ते मित्रावरुणनेत्राः। वा यद्वा मरुतो नेतारो येषां ते मरुन्नेत्राः । उत्तरस्यां सीदन्तीत्युत्तरासद उत्तरभागार्थास्तेभ्यो देवेभ्यः स्वाहा । अत्र मित्रावरुणनेत्रेभ्यो देवेभ्य उत्तरासद्भ्यः मरुन्नेत्रेभ्यो देवेभ्य उत्तरासद्भ्य इति मन्त्रयोर्विकल्पः । मध्ये जुहोति । सोमनेत्रेभ्यः सोमो नेता येषां तेभ्यः। उपरि सीदन्ति तिष्ठन्तीत्युपरिसदस्ते। दुवस्वद्भ्यः परिचर्यावद्भ्यः । यद्वात्र दुवःशब्देन हव्यं तद्येषामस्ति ते दुवस्वन्तस्तेभ्यो देवेभ्यः स्वाहा ॥ ३५॥
षट्त्रिंशी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- वरुण ऋषिः
- विराड् उत्कृतिः
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
कैसा मनुष्य चक्रवर्त्ती राज्य सेवने को योग्य होता है, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (निर्ऋते) सदैव सत्याचरणयुक्त राजन् ! (ते) आप का जो (एषः) यह (भागः) सेवने योग्य है, उसको (अग्निनेत्रेभ्यः) अग्नि के प्रकाश के समान नीतियुक्त (देवेभ्यः) विद्वानों से (स्वाहा) सत्य वाणी (पुरःसद्भ्यः) जो प्रथम सभा वा राज्य में स्थित हो, उन (देवेभ्यः) न्यायाधीश विद्वानों से (स्वाहा) धर्मयुक्त क्रिया (यमनेत्रेभ्यः) जिनकी वायु के समान सर्वत्र गति (दक्षिणासद्भ्यः) जो दक्षिण दिशा में राजप्रबन्ध के लिये स्थित हों, उन (देवेभ्यः) विद्वानों से (स्वाहा) दानक्रिया (विश्वेदेवनेत्रेभ्यः) सब विद्वानों के तुल्य नीति के ज्ञानी (पश्चात्सद्भ्यः) जो पश्चिम दिशा में राजकर्मचारी हों, उन (देवेभ्यः) दिव्य सुख देनेहारे विद्वानों से (स्वाहा) उत्साहकारक वाणी (मित्रावरुणनेत्रेभ्यः) प्राण और अपान के समान वा (मरुन्नेत्रेभ्यः) ऋत्विक् यज्ञ के कर्त्ता (वा) सत्पुरुष के समान न्यायकारक (वा) वा (उत्तरासद्भ्यः) जो उत्तर दिशा में न्यायधीश हों, उन (देवेभ्यः) विद्वानों से (स्वाहा) दूतकर्म की कुशल क्रिया (सोमनेत्रेभ्यः) चन्द्रमा के समान ऐश्वर्य्ययुक्त होकर सब को आनन्ददायक (उपरिसद्भ्यः) विद्या, विनय, धर्म और ईश्वर की सेवा करनेहारे (देवेभ्यः) विद्वानों से (स्वाहा) आप्त पुरुषों की वाणी को प्राप्त हो के तू सदा धर्म का (जुषस्व) सेवन किया कर ॥३५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे राजन् सभाध्यक्ष ! जब आप सब ओर से उत्तम विद्वानों से युक्त होकर सब प्रकार की शिक्षा को प्राप्त सभा का करनेहारा सेना का रक्षक उत्तम सहाय से सहित होकर सनातन वेदोक्त राजधर्मनीति से प्रजा का पालन कर इस लोक और परलोक में सुख ही को प्राप्त होवे, जो कर्म से विरुद्ध रहेगा तो तुझ को सुख भी न होगा। कोई भी मनुष्य मूर्खों के सहाय से सुख की वृद्धि नहीं कर सकता और न कभी विद्वानों के अनुसार चलनेवाला मनुष्य सुख को छोड़ देता है। इससे राजा सर्वदा विद्या, धर्म और आप्त विद्वानों के सहाय से राज्य की रक्षा किया करे। जिसकी सभा वा राज्य में पूर्ण विद्यायुक्त धार्मिक मनुष्य सभासद् वा कर्मचारी होते हैं और जिसके सभा वा राज्य में मिथ्यावादी, व्यभिचारी, अजितेन्द्रिय, कठोर वचनों के बोलनेवाले, अन्याकारी, चोर और डाकू आदि नहीं होते और आप भी इसी प्रकार का धार्मिक हो तो वही पुरुष चक्रवर्त्ती राज्य करने के योग्य होता है, इससे विरुद्ध नहीं ॥३५॥
दयानन्द-सरस्वती (सं) - विषयः
कीदृग्जनः साम्राज्यं सेवितुं योग्यो जायत इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे निर्ऋते राजँस्ते तव य एष भागो भजनीयो न्यायोऽस्ति, तमग्निनेत्रेभ्यो देवेभ्यः स्वाहा पुरःसद्भ्यो देवेभ्यः स्वाहा। यमनेत्रेभ्यो दक्षिणासद्भ्यो देवेभ्यः स्वाहा। विश्वदेवनेत्रेभ्यः पश्चात्सद्भ्यो देवेभ्यः स्वाहा। मित्रावरुणनेत्रेभ्यो वा मरुन्नेत्रेभ्यो वोत्तरासद्भ्यो देवेभ्यः स्वाहा। सोमनेत्रेभ्यः उपरिसद्भ्यो दुवस्वद्भ्यो देवेभ्यः स्वाहा च प्राप्य त्वं धर्मेण राज्यं सदा जुषस्व ॥३५॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे राजन् सभाध्यक्ष ! यदा भवान् सर्वतो विद्वद्वरेभ्यः परिवृतः प्राप्तशिक्षः कृतसभो रक्षितसेनः सुसहायः सन् सनातया वेदोक्त्या राजधर्मनीत्या प्रजाः पालयेत्, तदैवेहामुत्र सुखमेव प्राप्नुयात्। एतद्विरुद्धश्चेत् तर्हि ते कुतः सुखमिति नहि मूर्खसहायः सुखमेधते, न खलु विद्वदुपदेशानुगामी कदाचित् सुखं जहाति, अस्माद्राजा सदैव विद्याधर्माप्तसहायेन राज्यं रक्षेत्। यस्य सभायां राज्ये वा पूर्णविद्या धर्मिका वर्त्तन्ते, मिथ्यावादिनो व्यभिचारिणोऽजितेन्द्रियाः परुषवाचोऽन्यायाचाराः स्तेना दस्यवश्च न सन्ति, स्वयमप्येवं भूतोऽस्ति, स एव चक्रवर्त्तिराज्यं कर्त्तुमर्हति, नातो विरुद्धो जन इति बोध्यम् ॥३५॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे राजा ! सर्व तऱ्हेने विद्वानांच्या संगतीत राहून, सर्व प्रकारचे शिक्षण घेऊन, सभेचे व्यवस्थापन करून, सेनेचा रक्षक बनून, सर्वांची उत्तम मदत स्वीकारून वेदोक्त राजनीतीने प्रजेचे पालन केल्यास इहलोक व परलोकामध्ये सुख मिळले. याविरुद्ध कर्म केल्यास सुख मिळणार नाही. कोणत्याही माणसाला मूर्खांच्या संगतीत सुख प्राप्त होत नाही व विद्वानांच्या संगतीत सुख नष्ट होत नाही. त्यासाठी राजाने नेहमी विद्या, धर्म व आप्त विद्वानांच्या साह्याने राज्याचे रक्षण करावे. ज्याच्या राज्यामध्ये पूर्ण विद्यायुक्त धार्मिक माणसे सभासद किंवा कर्मचारी असतात आणि मिथ्यावादी व्यभिचारी, अजितेन्द्रिय, कठोर वचनी, अन्यायी, चोर व डाकू इत्यादी नसतात तसेच स्वतः ही जो धार्मिक असतो तोच पुरुष चक्रवर्ती राज्य करण्यायोग्य असतो. याविरुद्ध आचरण करणारा पुरुष राजा बनण्यायोग्य नसतो.
३६ ये देवाऽअग्निनेत्राः
विश्वास-प्रस्तुतिः ...{Loading}...
ये दे॒वाऽअ॒ग्निने॑त्राः पुरः॒सद॒स्तेभ्यः॒ स्वाहा॒ ये दे॒वा य॒मने॑त्रा दक्षिणा॒सद॒स्तेभ्यः॒ स्वाहा॒ ये दे॒वा वि॒श्वदे॑वनेत्राः पश्चा॒त्सद॒स्तेभ्यः॒ स्वाहा॒ ये दे॒वा मि॒त्रावरु॑णनेत्रा वा म॒रुन्ने॑त्रा वोत्तरा॒सद॒स्तेभ्यः॒ स्वाहा॒ ये दे॒वाः सोम॑नेत्राऽउपरि॒सदो॒ दुव॑स्वन्त॒स्तेभ्यः॒ स्वाहा॑ ॥३६॥
मूलम् ...{Loading}...
ये दे॒वाऽअ॒ग्निने॑त्राः पुरः॒सद॒स्तेभ्यः॒ स्वाहा॒ ये दे॒वा य॒मने॑त्रा दक्षिणा॒सद॒स्तेभ्यः॒ स्वाहा॒ ये दे॒वा वि॒श्वदे॑वनेत्राः पश्चा॒त्सद॒स्तेभ्यः॒ स्वाहा॒ ये दे॒वा मि॒त्रावरु॑णनेत्रा वा म॒रुन्ने॑त्रा वोत्तरा॒सद॒स्तेभ्यः॒ स्वाहा॒ ये दे॒वाः सोम॑नेत्राऽउपरि॒सदो॒ दुव॑स्वन्त॒स्तेभ्यः॒ स्वाहा॑ ॥३६॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ये। दे॒वाः। अग्निने॑त्रा॒ इत्य॑ग्निऽने॑त्राः। पु॒रः॒सद॒ इति॑ पु॒रः॒ऽसदः॑। तेभ्यः॑। स्वाहा॑। ये। दे॒वाः। य॒मने॑त्रा॒ इति॑ य॒मऽने॑त्राः। द॒क्षि॒णा॒सद॒ इति॑ दक्षिणा॒ऽसदः॑। तेभ्यः॑। स्वाहा॑। ये। दे॒वाः। वि॒श्वदे॑वनेत्रा॒ इति॑ वि॒श्वदे॑वऽनेत्राः। प॒श्चात्सद॒ इति॑ पश्चा॒त्ऽसदः॑। तेभ्यः॑। स्वाहा॑। ये। दे॒वाः। मि॒त्रावरु॑णनेत्रा॒ इति॑ मि॒त्रावरु॑णऽनेत्राः। वा॒। म॒रुन्ने॑त्रा॒ इति॑ म॒रुत्ऽने॑त्राः। वा॒। उ॒त्त॒रा॒सद॒ इत्यु॑त्तरा॒ऽसदः॑। तेभ्यः॑। स्वाहा॑। ये। दे॒वाः। सोम॑नेत्रा॒ इति सोम॑ऽनेत्राः। उ॒प॒रि॒सद॒ इत्यु॑परि॒ऽसदः॑। दुव॑स्वन्तः। तेभ्यः॑। स्वाहा॑। ३६।
महीधरः
म० ‘उत्तराः समस्य ये देवा इति प्रतिमन्त्रमिति’ (का० १५ । १ । २१) पञ्चधा विभक्तमाहवनीयमेकीकृत्य ये देवा इति पञ्चमन्त्रैः प्रत्येकं जुहुयादिति शेषः । ये देवा अग्निनेत्राः पुरःसदस्तेभ्यो देवेभ्यः स्वाहा । ये देवा यमनेत्राः पूर्ववद्व्याख्या । ये देवा विश्वदेवनेत्राः पश्चात्सदः । ये देवा मित्रावरुणनेत्राः ये देवा मरुन्नेत्रा इति मन्त्रयोर्विकल्पः । ये देवाः सोमनेत्राः उपरिसदः उपरि स्थिता दुवस्वन्तो हव्यवन्तस्तेभ्यः स्वाहा ॥ ३६ ॥
सप्तत्रिंशी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- वरुण ऋषिः
- विकृतिः
- मध्यमः
३७ अग्ने सहस्व
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने॒ सह॑स्व॒ पृ॑तनाऽअ॒भिमा॑ती॒रपा॑स्य। दु॒ष्टर॒स्तर॒न्नरा॑ती॒र्वर्चो॑ धा य॒ज्ञवा॑हसि ॥३७॥
मूलम् ...{Loading}...
अग्ने॒ सह॑स्व॒ पृ॑तनाऽअ॒भिमा॑ती॒रपा॑स्य। दु॒ष्टर॒स्तर॒न्नरा॑ती॒र्वर्चो॑ धा य॒ज्ञवा॑हसि ॥३७॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अग्ने॑। सह॑स्व। पृत॑नाः। अ॒भिमा॑ती॒रित्य॒भिऽमा॑तीः। अप॑। अ॒स्य॒। दु॒ष्टरः॑। दु॒ष्तर॒ इति॑ दुः॒ऽतरः॑। तर॒न्। अरा॑तीः। वर्चः॑। धाः॒। य॒ज्ञवा॑ह॒सीति॑ य॒ज्ञऽवा॑हसि। ३७।
महीधरः
म० ‘अग्ने सहस्वेत्युल्मुकादानमिति’ (का० १५ । २।५) अपामार्गतण्डुलहोमार्थं दक्षिणाग्नेरुल्मुकमादद्यात् । अग्निदेवत्यानुष्टब्देवश्रवोदेववातदृष्टा । हे अग्ने, त्वं पृतनाः शत्रुसेनाः सहस्व अभिभव । तथा अभिमातीः सपत्नोऽभिमातिरुच्यते स्त्रीत्वमार्षम् । अभिमातीन् शत्रून् अपास्य अपक्षिप निवर्तय । ‘असु क्षेपणे’ अस्य लोटि रूपम् । किंच यज्ञं वहतीति यज्ञवाहास्तस्मिन् यज्ञवाहसि यज्ञनिर्वाहके यजमाने वर्चोऽन्नं धाः धेहि । दधातेर्लुङि रूपम् ‘बहुलं छन्दस्यमाङ्योगेऽपि’ (पा० ६।४।७५) इत्यडभावः । किंभूतस्त्वम् । दुष्टरः दुस्तरः केनापि तर्तुमशक्यः अशक्यप्रतिक्रियो दुर्निवार इत्यर्थः । अरातीः शत्रून् तरन् तिरस्कुर्वन्विनाशयन्नित्यर्थः ॥ ३७॥
अष्टत्रिंशी। ।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- देवावत ऋषिः
- निचृद् अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी राजा आदि किस प्रकार वर्त्तें, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) सब विद्या जाननेवाले विद्वान् राजन् ! (दुष्टरः) दुःख से तरने योग्य (तरन्) शत्रु सेना को अच्छे प्रकार तरते हुए आप (यज्ञवाहसि) जिसमें राजधर्मयुक्त राज्य में (अभिमातीः) अभिमान आनन्दयुक्त (पृतनाः) बल और अच्छी शिक्षायुक्त वीरसेना को (सहस्व) सहो (अरातीः) दुःख देनेवाले शत्रुओं को (अपास्य) दूर निकालिये और (वर्चः) विद्या बल और न्याय को (धाः) धारण कीजिये ॥३७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजादि सभा सेना के स्वामी लोग अपनी दृढ़ विद्या और अच्छी शिक्षा से युक्त सेना के सहित आप अजय और शत्रुओं को जीतते हुए भूमि पर उत्तम यज्ञ का विस्तार करें ॥३७॥
दयानन्द-सरस्वती (सं) - विषयः
पुनरपि राजादिभिः कथं वर्तितव्यमित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! दुष्टरस्तरँस्त्वं यज्ञवाहस्यभिमातीः पृतनाः सहस्वारातीरपास्य वर्चो धाः ॥३७॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - राजादयः सभासेनादयः स्वकीयेन दृढेन विद्यासुशिक्षायुक्तेन धृतेन सैन्येन सहिताः स्वयमजयाः सन्तः शत्रून् विजयमानाः पृथिव्यां कीर्तिं प्रसारयेयुः ॥३७॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजाने दृढ विद्या व प्रशिक्षित सेनेच्या योगाने अजिंक्य राहून शत्रूंना जिंकावे व पृथ्वीवर उत्तम यश संपादन करावे.
३८ देवस्य त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳙ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम्। उ॒पाँ॒शोर्वी॒र्ये᳖ण जुहोमि ह॒तँ रक्षः॒ स्वाहा॒ रक्ष॑सां त्वा व॒धायाव॑धिष्म॒ रक्षोऽव॑धिष्मा॒मुम॒सौ ह॒तः ॥३८॥
मूलम् ...{Loading}...
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳙ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम्। उ॒पाँ॒शोर्वी॒र्ये᳖ण जुहोमि ह॒तँ रक्षः॒ स्वाहा॒ रक्ष॑सां त्वा व॒धायाव॑धिष्म॒ रक्षोऽव॑धिष्मा॒मुम॒सौ ह॒तः ॥३८॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दे॒वस्य॑। त्वा॒। स॒वि॒तुः। प्र॒स॒व इति॑ प्रऽस॒वे। अ॒श्विनोः॑। बा॒हुभ्या॒मिति॑ बा॒हुऽभ्या॑म्। पू॒ष्णः। हस्ता॑भ्याम्। उ॒पाँ॒शोरित्यु॑पऽअँ॒शोः। वी॒र्येण। जु॒हो॒मि॒। ह॒तम्। रक्षः॑। स्वाहा॑। रक्ष॑साम्। त्वा॒। व॒धाय॑। अव॑धिष्म। रक्षः॑। अव॑धिष्म। अ॒मुम्। अ॒सौ। ह॒तः। ३८।
महीधरः
म० ‘देवस्य त्वेति जुहोतीति’ ( का० १५ । २ । ६) प्रागुदग्वा गत्वा गृहीतमुल्मुकं संस्थाप्य स्रुवेणापामार्गतण्डुलान्जुहुयात् । देवस्य त्वा व्याख्यातम् । उपांशोः त्रीणि यजूंषि रक्षोघ्नदेवत्यानि । उपांशुर्नाम प्रथमो ग्रहस्तस्य वीर्येण सामर्थ्यनाहं जुहोमि । अतएव रक्षो राक्षसजातिर्हतं निहतम्’ स्वाहा सुहतं हविरस्तु । ‘रक्षसां त्वेति स्रुवमस्यति तां दिशं यस्यां जुहोतीति’ ( का० १५ । २ । ७) यस्यां दिशि होमं कुर्यात्तां दिशं प्रति स्रुवं प्रक्षिपेत् । रक्षसां राक्षसानां वधाय नाशार्थ त्वा त्वां प्रास्यामीति शेषः । ‘अवधिष्म इत्यायन्त्यनपेक्षमिति’ (का० १५ । २ । ७)। अध्वर्य्वादयः पश्चादनवलोकयन्तो देवयजनं प्रत्यागच्छन्ति । रक्षो राक्षसजातिं वयमवधिष्म हतवन्तः। जातावेकवचनम् । अमुमिति शत्रुनामग्रहणम् असाविति च । अमुं देवदत्तं वयमवधिष्म असौ देवदत्तो हतो मारितोऽस्माभिः ॥ ३८॥
एकोनचत्वारिंशी।
अधिमन्त्रम् (VC)
- रक्षोघ्नो देवता
- देवावत ऋषिः
- भुरिग् ब्राह्मी बृहती
- मध्यमः
३९ सविता त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
स॒वि॒ता त्वा॑ स॒वानाँ॑ सुवताम॒ग्निर्गृ॒हप॑तीनाँ॒ सोमो॒ वन॒स्पती॑नाम्। बृह॒स्पति॑र्वा॒चऽइन्द्रो॒ ज्यैष्ठ्या॑य रु॒द्रः प॒शुभ्यो॑ मित्रः॒ स॒त्यो वरु॑णो॒ धर्म॑पतीनाम् ॥३९॥
मूलम् ...{Loading}...
स॒वि॒ता त्वा॑ स॒वानाँ॑ सुवताम॒ग्निर्गृ॒हप॑तीनाँ॒ सोमो॒ वन॒स्पती॑नाम्। बृह॒स्पति॑र्वा॒चऽइन्द्रो॒ ज्यैष्ठ्या॑य रु॒द्रः प॒शुभ्यो॑ मित्रः॒ स॒त्यो वरु॑णो॒ धर्म॑पतीनाम् ॥३९॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स॒वि॒ता। त्वा॒। स॒वाना॑म्। सु॒व॒ता॒म्। अ॒ग्निः। गृ॒ह॑पतीना॒मिति॑ गृ॒हऽप॑तीनाम्। सोमः॑। वन॒स्पती॑नाम्। बृह॒स्पतिः॑। वा॒चे। इन्द्रः॑। ज्यैष्ठ्या॑य। रु॒द्रः। प॒शुभ्य॒ इति॑ पशुऽभ्यः॑। मि॒त्रः॒। स॒त्यः। वरु॑णः। धर्म॑पतीना॒मिति॒ धर्म॑ऽपतीनाम्। ३९।
महीधरः
म० ‘उत्तमेन चरित्वा सविता त्वेत्याह यजमानबाहुं दक्षिणं गृहीत्वा नामास्य गृह्णाति मन्त्रे यथास्थानं मातापित्रोश्च यस्याश्च जाते राजा भवतीति’ (का. १५ । ४ । १३-१५)। अष्टौ देवसूहवींषि । तत्रान्तिमेन वरुणाय धर्मपतय इति वारुणेन चरुणा चरित्वा यजमानान्तिके गत्वा स्रुचौ सव्ये पाणौ कृत्वा दक्षिणं तद्बाहुमादाय सविता त्वेति कण्डिकाद्वयरूपं मन्त्रमाह । मन्त्रे यथास्थानं यजमानस्य तन्मातापित्रोर्यस्या जनपदजाते राजा भवति तस्याश्च नामानि गृह्णातीति सूत्रार्थः । अतिजगती यजमानदेवत्या । सविता सवानां प्रसवानामाज्ञानामाधिपत्ये हे यजमान, त्वा त्वां सुवतां प्रेरयतु । सर्वेषामाज्ञादानेऽधिकारी भवेत्यर्थः । अग्निर्गृहपतीनां गृहस्थानामाधिपत्ये त्वां सुवताम् । सोमो वनस्पतीनां वृक्षाणामाधिपत्ये त्वां सुवताम् । | वृक्षाः सर्वे तवोपकारका भवन्त्वित्यर्थः । बृहस्पतिर्वागर्थं त्वां सुवतां पाण्डित्याय प्रेरयतु । यद्वा षष्ठ्यर्थे चतुर्थी । वाचआधिपत्ये सुवताम् । इन्द्रो देवो ज्यैष्ठ्याय ज्येष्ठभावाय त्वां सुवताम् । रुद्रः पशुभ्यः पश्वर्थं पश्वाधिपत्ये वा त्वां सुवताम् । मित्रो देवः सत्यः । ‘सुपां सुलुक्’ (पा० ७ । १ । ३९) इत्यादिना चतुर्थ्याः सुआदेशः । सत्याय सत्यवाक्याय सत्यं वदितुं त्वां सुवताम् । वरुणो धर्मपतीनां धर्मेश्वराणां धर्मशीलानामाधिपत्ये त्वां सुवताम् । सवित्रादयोऽष्टौ देवसूहविषां देवतास्त्वां नानाधिपत्यानि ददत्विति वाक्यार्थः ॥ ३९ ॥
चत्वारिंशी।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां नवमोऽध्यायः ॥९॥
अधिमन्त्रम् (VC)
- रक्षोघ्नो देवता
- देवावत ऋषिः
- अतिजगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
सभ्य मनुष्य राजा को किस-किस विषय में प्रेरणा करें, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सभापते राजन् ! जो तू (सवानाम्) ऐश्वर्य्य के (सविता) सूर्य्य के समान प्रेरक (गृहपतीनाम्) गृहस्थों के उपकारक (अग्निः) पावक के सदृश (वनस्पतीनाम्) पीपल आदि वृक्षों में (सोमः) सोमवल्ली के सदृश (धर्म्मपतीनाम्) धर्म के पालनेहारों के मध्य में (सत्यः) सज्जनों में सज्जन (वरुणः) शुभगुण कर्मों में श्रेष्ठ (मित्रः) सखा के तुल्य (वाचे) वेदवाणी के लिये (बृहस्पतिः) महाविद्वान् के सदृश (ज्यैष्ठ्याय) श्रेष्ठता के लिये (इन्द्र) परमैश्वर्य्य से युक्त के तुल्य (पशुभ्यः) गौ आदि पशुओं के लिये (रुद्रः) शुद्ध वायु के सदृश है, उस (त्वा) तुझको धर्मात्मा, सत्यवादी विद्वान् धर्म से प्रजा की रक्षा में (सुवताम्) प्रेरणा करें ॥३९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे राजन् ! जो आपको अधर्म से लौटाकर धर्म के अनुष्ठान में प्रेरणा करें, उन्हीं का सङ्ग सदा करो, औरों का नहीं ॥३९॥
दयानन्द-सरस्वती (सं) - विषयः
सभ्यैर्मनुष्यै राजा क्व क्व प्रेरयितव्य इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सभेश राजन् ! यस्त्वं सवानां सवितेव गृहपतीनामग्निरिव वनस्पतीनां सोम इव धर्मपतीनां सत्यो वरुणो मित्र इव वाचे बृहस्पतिरिव ज्यैष्ठ्यायेन्द्र इव पशुभ्यो रुद्र इवासि, तं त्वाप्त उपदेष्टा प्रजापालने सुवताम् ॥३९॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे राजँस्त्वं ये त्वामधर्मान्निवर्त्त्य धर्मानुष्ठाने प्रेरयेयुस्तेषामेव सङ्गं सदा कुरु नेतरेषाम् ॥३९॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे राजा ! जे अधर्मापासून निवृत्त होऊन धर्मात प्रवृत्त होण्याची प्रेरणा देतात त्यांचीच संगती धरावी, इतरांची नव्हे.
४० इमं देवाऽअसपत्नम्
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒मं दे॑वाऽअस॒पत्नँ सु॑वध्वं मह॒ते क्ष॒त्राय॑ मह॒ते ज्यैष्ठ्या॑य मह॒ते जान॑राज्या॒येन्द्र॑स्येन्द्रि॒याय॑। इ॒मम॒मुष्य॑ पु॒त्रम॒मुष्यै॑ पु॒त्रम॒स्यै वि॒शऽए॒ष वो॑ऽमी॒ राजा॒ सोमो॒ऽस्माकं॑ ब्राह्म॒णानाँ॒ राजा॑ ॥४०॥
मूलम् ...{Loading}...
इ॒मं दे॑वाऽअस॒पत्नँ सु॑वध्वं मह॒ते क्ष॒त्राय॑ मह॒ते ज्यैष्ठ्या॑य मह॒ते जान॑राज्या॒येन्द्र॑स्येन्द्रि॒याय॑। इ॒मम॒मुष्य॑ पु॒त्रम॒मुष्यै॑ पु॒त्रम॒स्यै वि॒शऽए॒ष वो॑ऽमी॒ राजा॒ सोमो॒ऽस्माकं॑ ब्राह्म॒णानाँ॒ राजा॑ ॥४०॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इ॒मम्। दे॒वाः॒। अ॒स॒प॒त्नम्। सु॒व॒ध्व॒म्। म॒ह॒ते। क्ष॒त्राय॑। म॒ह॒ते। ज्यैष्ठ्या॑य। म॒ह॒ते। जान॑राज्या॒येति॒ जान॑ऽराज्याय। इन्द्र॑स्य। इ॒न्द्रि॒याय॑। इ॒मम्। अ॒मुष्य॑। पु॒त्रम्। अ॒मुष्यै॑। पु॒त्रम्। अ॒स्यै। वि॒शे। ए॒षः। वः॒। अ॒मी॒ऽइत्य॑मी। राजा॑। सोमः॑। अ॒स्माक॑म्। ब्रा॒ह्म॒णाना॑म्। राजा॑। ४०।
महीधरः
म० अत्यष्टिर्यजमानदेवत्या । हे देवाः सवित्रादयः, इमममुकसंज्ञं यजमानमसपत्नं सपत्नरहितं कृत्वा सुवध्वं प्रेरयध्वम् । किमर्थं । महते क्षत्राय महत्यै क्षत्रपदव्यै । महते ज्यैष्ठ्याय ज्येष्ठभावाय । महते जानराज्याय जनानामिदं जानं जानं च तद्राज्यं च जानराज्यं । जनानामाधिपत्यायेत्यर्थः । इन्द्रस्यात्मन इन्द्रियाय वीर्याय आत्मज्ञानसामर्थ्याय इमं यजमानं सुवध्वमित्यर्थः । किंभूतमिमम् । अमुष्य पुत्रम् । अमुष्येति षष्ठ्यन्तं यजमानपितुर्नाम ग्राह्यम् । तथा अमुष्यै षष्ठ्यर्थे चतुर्थी । अमुष्या देव्याः पुत्रम् । अमुष्या इति यजमानमातुर्नामग्रहः । अस्यै विशे अस्याः कौरव्याः विशः प्रजाया अधिपतिमिति शेषः । अस्यै इति षष्ठ्यन्तं जातिनाम ग्राह्यम् । अमी इति प्रथमान्तं देशनाम ग्राह्यम्। अमी हे कुरवः पञ्चालाः, वो युष्माकमेष खदिरवर्मा राजास्तु । अस्माकं ब्राह्मणानां तु सोमश्चन्द्रो वल्लीरूपो वा सोमो राजा प्रभुरस्तु ॥ ४० ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
वाजपेयो राजसूयारम्भान्तो नवमोऽगमत् ॥ ९ ॥
अधिमन्त्रम् (VC)
- यजमानो देवता
- देवावत ऋषिः
- स्वराड् ब्राह्मी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
किस-किस प्रयोजन के लिये कैसे राजा का स्वीकार करें, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे प्रजास्थ (देवाः) विद्वान् लोगो ! तुम जो (एषः) यह (सोमः) चन्द्रमा के समान प्रजा में प्रियरूप (वः) तुम क्षत्रियादि और हम ब्राह्मणादि और जो (अमी) परोक्ष में वर्त्तमान हैं, उन सब का राजा है, उस (इमम्) इस (अमुष्य) उस उत्तम पुरुष का (पुत्रम्) पुत्र (अमुष्यै) उस विद्यादि गुणों से श्रेष्ठ धर्मात्मा विद्वान् स्त्री के पुत्र को (अस्यै) इस (विशे) प्रजा के लिये इसी पुरुष को (महते) बड़े (ज्यैष्ठ्याय) प्रशंसा के योग्य (महते) बड़े (जानराज्याय) धार्मिक जनों के राज्य करने (इन्द्रस्य) परमैश्वर्य्ययुक्त (इन्द्रियाय) धन के वास्ते (असपत्नम्) शत्रु रहित (सुवध्वम्) कीजिये ॥४०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे राजा और प्रजा के मनुष्यो ! तुम जो विद्वान् माता और पिता से अच्छे प्रकार सुशिक्षित, कुलीन, बड़े उत्तम-उत्तम गुण, कर्म और स्वभावयुक्त जितेन्द्रियादि गुणयुक्त, ४८ अड़तालीस वर्षपर्यन्त ब्रह्मचर्य्य से पूर्ण विद्या से सुशील, शरीर और आत्मा के पूर्ण बलयुक्त, धर्म से प्रजा का पालक, प्रेमी, विद्वान् हो, उसको सभापति राजा मान कर चक्रवर्त्तिराज्य का सेवन करो ॥४०॥ इस अध्याय में राजधर्म के वर्णन से इस अर्थ की पूर्व अध्याय के अर्थ के साथ सङ्गति जाननी चाहिये ॥ इति श्रीमत्परिव्राजकाचार्य्येण श्रीयुतमहाविदुषां विरजानन्दसरस्वतीस्वामिनां शिष्येण दयानदसरस्वतीस्वामिना विरचिते संस्कृतार्य्यभाषाभ्यां विभूषिते सुप्रमाणयुक्ते यजुर्वेदभाष्ये नवमोऽध्यायः पूर्तिमगात् ॥९॥
दयानन्द-सरस्वती (सं) - विषयः
कस्मै कस्मै प्रयोजनाय कथंभूतो राजा स्वीकार्य्य इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे प्रजास्था देवाः ! यूयं त एष सोमो वोऽस्माकं च ब्राह्मणानां राजा येऽमी परोक्षे वर्त्तन्ते तेषाञ्च राजाऽस्ति, तमिमममुष्य पुत्रममुष्यै पुत्रमस्यै विश इममेव महते क्षत्राय महते ज्यैष्ठ्याय महते जानराज्यायेन्द्रस्येन्द्रियायाऽसपत्नं सुवध्वम् ॥४०॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे राजप्रजाजनाः ! यो विद्वद्भ्यां मातापितृभ्यां सुशिक्षितः कुलीनो महागुणकर्मस्वभावो जितेन्द्रियत्वादिगुणयुक्तः सेविताऽष्टचत्वारिंशद्वर्षब्रह्मचर्यविद्यासुशिक्षः पूर्णशरीरात्मबलः प्रजापालनप्रियो विद्वानस्ति, तं सभाध्यक्षं राजानं कृत्वा साम्राज्यं सेवध्वम् ॥४०॥ अस्मिन्नध्याये राजधर्मवर्णनादेतदर्थस्य पूर्वाध्यायार्थेन सह सङ्गतिरस्तीति जानन्तु ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे प्रजाजन हो । ज्याचे माता पिता विद्वान आहेत व जो सुशिक्षित, कुलीन, उत्तम गुण, कर्म, स्वभावयुक्त, जितेन्द्रिय, अठ्ठेचाळीस वर्षांपर्यंत ब्रह्मचर्य पालन करून पूर्ण विद्यायुक्त व सुशील बनलेला आहे तसेच याचे शरीर व आत्मा बलवान आहे आणि तो प्रजेचा पालक असून प्रेमळ व विद्वान आहे अशा व्यक्तीला तुम्ही राजा मानून चक्रवर्ती राज्य भोगा.