०१ वाचस्पतये पवस्व
विश्वास-प्रस्तुतिः ...{Loading}...
वा॒चस्पत॑ये पवस्व॒ वृष्णो॑ऽअँ॒शुभ्यां॒ गभ॑स्तिपूतः। दे॒वो दे॒वेभ्यः॑ पवस्व॒ येषां॑ भा॒गोऽसि॑ ॥१॥
मूलम् ...{Loading}...
वा॒चस्पत॑ये पवस्व॒ वृष्णो॑ऽअँ॒शुभ्यां॒ गभ॑स्तिपूतः। दे॒वो दे॒वेभ्यः॑ पवस्व॒ येषां॑ भा॒गोऽसि॑ ॥१॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वा॒चः। पत॑ये। प॒व॒स्व॒। वृष्णः॑। अँ॒शुभ्या॒मित्यँ॒शुऽभ्या॑म्। गभ॑स्तिपूत॒ इति॒ गभ॑स्तिऽपूतः॒। दे॒वः। दे॒वेभ्यः॑। प॒व॒स्व॒। येषा॑म्। भा॒गः। असि॑। १।
महीधरः
म०. षष्ठेऽध्याये यूपसंस्कारादिसोमाभिषवपर्यन्ता मन्त्रा उक्ताः । सप्तमे ग्रहग्रहणमन्त्रा उच्यन्ते । ‘उपाᳪं᳭शुं च गृह्णाति वाचस्पतये देवो देवेभ्यो मधुमतीरिति’ (का० ९ । ४ । २३) मन्त्रत्रयस्य प्रतीकोपादानात्तत्रैकैकेन मन्त्रेणोपांशुग्रहमेकैकवारं गृह्णीयात् । उपयामगृहीतोऽसीति मन्त्रत्रयस्यादौ योज्यम् । प्राणदेवत्या विराट् नववैराजत्रयोदशैर्नष्टरूपेति लक्षणान्नष्टरूपा विराट् प्रथमोऽष्टार्णस्तेनैकोना । पूर्वोत्तरार्धयोरुपांशुग्रहस्य प्रथमद्वितीयग्रहणे क्रमेण विनियोगः । हे सोम, त्वं वाचस्पतये प्राणाय पवस्व गच्छ । ‘पव गतौ’ । ‘प्राणो वै वाचस्पतिः’ (४।१।१।९) इति श्रुतेः। यद्वा पतये पालकदेवार्थं वाचः वाचा । विभक्तिव्यत्ययः । मन्त्रेण वाचः संबन्धिना मन्त्रेण वा पवस्व शुद्धो भव । किंभूतस्त्वम् । वृष्णः वर्षितुस्तव संबन्धिभ्यामंशुभ्यां तौ हि तत्र क्षिप्येते । तथा गभस्तिपूतः ‘पाणी वै गभस्ती’ (४।१।१।९) इति श्रुतेरध्वर्योर्गभस्तिभ्यां पाणिभ्यां च पूतः । समासगतः पूतशब्दो विच्छिद्यांशुभ्यामित्यनेनापि योज्यः । द्वितीयं गृह्णाति । हे सोम, देवः सन् देवेभ्योऽर्थाय पवस्व प्रवृत्तिं कुरु । न ह्यदेवो देवांस्तर्पयितुमलम् । केभ्यो देवेभ्यः । येषां देवानां त्वं भागोऽसि तान्प्रति गच्छेत्यर्थः ॥ १॥
द्वितीया।
अधिमन्त्रम् (VC)
- प्राणो देवता
- गोतम ऋषिः
- निचृद् आर्षी अनुष्टुप्
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
इस सप्तम अध्याय के प्रथम मन्त्र में सृष्टि के निमित्त बाहर और भीतर के व्यवहार का उपदेश है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य तू (वाचः) वाणी के (पतये) पालन हारे ईश्वर के लिये (पवस्व) पवित्र हो, (वृष्णः) बलवान् पुरुष के (अंशुभ्याम्) भुजाओं के समान बाहर-भीतर वा व्यवहार होने के लिये जैसे (गभस्तिपूतः) सूर्य्य की किरणों से पदार्थ पवित्र जैसे होते हैं, वैसे शास्त्रों से (देवः) दिव्य-गुण युक्त विद्वान् होकर (येषाम्) जिन विद्वानों की (भागः) सेवन करने के योग्य है, उन (देवेभ्यः) देवों के लिये (पवस्व) पवित्र हो ॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। सब जीवों को योग्य है कि वेदों की रक्षा करनेवाले नित्य पवित्र परमात्मा को जान और विद्वानों के सङ्ग से विद्यादि उत्तम गुणों में निष्णात होकर सत्यवाणी को बोलनेवाले हों ॥१॥
दयानन्द-सरस्वती (सं) - विषयः
तस्य प्रथममन्त्रे सृष्टिनिमित्तो बाह्याभ्यन्तरव्यवहार उपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य ! त्वं वाचस्पतये पवस्व, वृष्णोंऽशुभ्यामिव बाह्याभ्यन्तरव्यवहाराय गभस्तिपूत इव देवो भूत्वा येषां विदुषां भागोऽसि, तेभ्यो देवेभ्यः पवस्व ॥१॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। सर्वेषां जीवानां योग्यतास्ति वेदपतिं सततं पूतं परमेश्वरं विज्ञाय विदुषां सङ्गमेन विद्यादिगुणेषु सुस्नाताः सत्यवागनुष्ठातारः स्युरिति ॥१॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. सर्व माणसांनी वेदाचे रक्षण करणाऱ्या नित्य, पवित्र परमेश्वराला जाणावे आणि विद्वानांच्या संगतीत राहून उत्तम विद्या प्राप्त करावी, सत्यवचनी बनावे.
०२ मधुमतीर्नऽइषस्कृधि यत्ते
विश्वास-प्रस्तुतिः ...{Loading}...
मधु॑मतीर्न॒ऽइष॑स्कृधि॒ यत्ते॑ सो॒मादा॑भ्यं॒ नाम॒ जागृ॑वि॒ तस्मै॑ ते सोम॒ सोमा॑य॒ स्वाहा॒ स्वाहो॒र्व᳙न्तरि॑क्ष॒मन्वे॑मि ॥२॥
मूलम् ...{Loading}...
मधु॑मतीर्न॒ऽइष॑स्कृधि॒ यत्ते॑ सो॒मादा॑भ्यं॒ नाम॒ जागृ॑वि॒ तस्मै॑ ते सोम॒ सोमा॑य॒ स्वाहा॒ स्वाहो॒र्व᳙न्तरि॑क्ष॒मन्वे॑मि ॥२॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मधु॑मती॒रिति॒ मधु॑ऽमतीः। नः॒। इषः॑। कृ॒धि॒। यत्। ते॒। सो॒म॒। अदा॑भ्यम्। नाम॑। जागृ॑वि। तस्मै॑। ते॒। सो॒म॒। सोमा॑य। स्वाहा॑। स्वाहा॑। उ॒रु। अ॒न्तरि॑क्षम्। अनु॑। ए॒मि॒। २।
महीधरः
म० तृतीयं गृह्णाति । लिङ्गोक्तदेवतम् । हे सोम, त्वं नोऽस्माकमिषोऽन्नानि मधुमतीः मधुररसोपेताः कृधि कुरु । ‘यत्त इत्यात्तान्सोमे निदधाति’ (का० ९ । ४ । २८) इति स्वीकृतानंशून्सोमे स्थापयेत् । सौम्यम् । हे सोम, ते तव अदाभ्यमहिंस्यम् । दभ्नोतिर्हिंसार्थः । जागृवि जागरणशीलं यन्नामास्ति सोमेति हे सोम, तस्मै तन्नामवते तुभ्यं सोमाय स्वाहा दत्तमस्तु । ‘स्वाहेत्युक्त्वोर्वन्तरिक्षमिति निष्क्रमणमिति’ (का० ९ । ४ । ३४) ‘स्वाहेत्यक्षरद्वयमुक्त्वा निष्क्रमेत’ । उरु विस्तीर्णमन्तरिक्षमन्वेमि अनुगच्छामि ॥ २॥
तृतीया।
अधिमन्त्रम् (VC)
- सोमो देवता
- गोतम ऋषिः
- निचृद् आर्षी पङ्क्तिः
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्य लोग परस्पर व्यवहार में कैसे वर्त्तें, यह अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सोम) ऐश्वर्य्ययुक्त विद्वन् ! आप (नः) हम लोगों के लिये (मधुमतीः) मधुरादिगुणसहित (इषः) अन्न आदि पदार्थों को (कृधि) कीजिये तथा हे (सोम) शुभकर्मों में प्रेरणा करनेवाले विद्वन् ! मैं (यत्) जिससे (ते) आपका (अदाभ्यम्) अहिंसनीय अर्थात् रक्षा करने के योग्य (जागृवि) प्रसिद्ध (नाम) नाम है, (तस्मै) उस (सोमाय) ऐश्वर्य्य की प्राप्ति और (ते) आपके लिये अर्थात् आपकी आज्ञा वर्त्तने के लिये (स्वाहा) सत्यधर्म्म-युक्त क्रिया (स्वाहा) सत्य वाणी और (उरु) (अन्तरिक्षम्) अवकाश को (अनु, एमि) प्राप्त होता हूँ ॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्य जैसे अपने सुख के लिये अन्न जलादि पदार्थों को सम्पादन करें, वैसे ही औरों के लिये भी दिया करें। जैसे कोई मनुष्य अपनी प्रशंसा करे, वैसे ही औरों की आप भी किया करें। जैसे विद्वान् लोग अच्छे गुणवाले होते हैं, वैसे आप भी हों ॥२॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्याः परस्परं कथं व्यवहरेयुरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सोम ऐश्वर्य्ययुक्त विद्वंस्त्वं नोऽस्मभ्यं मधुमतीरिषस्कृधि, तथा हे सोम ! अहं यद्यस्मात् ते तवादाभ्यं जागृवि नामास्ति, तस्मै सोमाय ते तुभ्यं च स्वाहा, सत्यां क्रियां स्वाहा, सत्यां वाणीमुर्वन्तरिक्षं चान्वेमि ॥२॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्या यथा स्वसुखायान्नजलादिपदार्थान् सम्पादयेयुस्तथान्येभ्योऽपि देयाः, यथा कश्चित् स्वस्य प्रशंसां कुर्य्यात् तथान्यस्य स्वयमपि कुर्य्यात्, यथा विद्वांसः सद्गुणवन्तः सन्ति, तथा तेऽपि भवेयुरिति ॥२॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसे स्वतःसाठी जसे अन्न, पाणी इत्यादी पदार्थ प्राप्त करतात तसे इतरांनाही द्यावे. जसा माणूस स्वतःची प्रशंसा करतो तशी इतरांचीही करावी. विद्वान जसे सद्गुणी असतात तसे आपणही बनावे.
०३ स्वाङ्कृतोऽसि विश्वेभ्यऽइन्द्रियेभ्यो
विश्वास-प्रस्तुतिः ...{Loading}...
स्वाङ्कृ॑तोऽसि॒ विश्वे॑भ्यऽइन्द्रि॒येभ्यो॑ दि॒व्येभ्यः॒ पार्थि॑वेभ्यो॒ मन॑स्त्वाष्टु॒ स्वाहा॑ त्वा सुभव॒ सूर्या॑य दे॒वेभ्य॑स्त्वा मरीचि॒पेभ्यो॒ देवाँ॑शो॒ यस्मै॒ त्वेडे॒ तत्स॒त्यमु॑परि॒प्रुता॑ भ॒ङ्गेन॑ ह॒तो᳙ऽसौ फट् प्रा॒णाय॑ त्वा व्या॒नाय॑ त्वा ॥३॥
मूलम् ...{Loading}...
स्वाङ्कृ॑तोऽसि॒ विश्वे॑भ्यऽइन्द्रि॒येभ्यो॑ दि॒व्येभ्यः॒ पार्थि॑वेभ्यो॒ मन॑स्त्वाष्टु॒ स्वाहा॑ त्वा सुभव॒ सूर्या॑य दे॒वेभ्य॑स्त्वा मरीचि॒पेभ्यो॒ देवाँ॑शो॒ यस्मै॒ त्वेडे॒ तत्स॒त्यमु॑परि॒प्रुता॑ भ॒ङ्गेन॑ ह॒तो᳙ऽसौ फट् प्रा॒णाय॑ त्वा व्या॒नाय॑ त्वा ॥३॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स्वाङ्कृ॑त॒ इति॒ स्वाम्ऽकृ॑तः। अ॒सि॒। विश्वे॑भ्यः। इ॒न्द्रि॒येभ्यः॑। दि॒व्येभ्यः॑। पार्थि॑वेभ्यः। मनः॑। त्वा॒। अ॒ष्टु॒। स्वाहा॑। त्वा॒। सु॒भ॒वेति॑ सुऽभव। सूर्य्या॑य। दे॒वेभ्यः॑। त्वा॒। म॒री॒चि॒पेभ्य॒ इति॑ मरीचि॒ऽपेभ्यः॑। देव॑। अँ॒शो॒ऽइत्यँ॑ऽशो॒। यस्मै॑। त्वा॒। ईडे॑। तत्। स॒त्यम्। उ॒प॒रि॒प्रुतेत्यु॑परि॒ऽप्रुता। भ॒ङ्गेन॑। ह॒तः। अ॒सौ। फट्। प्रा॒णाय॑। त्वा॒। व्या॒नायेति॑ विऽआ॒नाय॑। त्वा॒। ३।
महीधरः
म० स्वांकृत इति हुत्वा पात्रमुन्मार्ष्टीति’ (का० ९।४।३७) उपांशुग्रहं हुत्वा पात्रमार्जनं कुर्यात् । ग्रहदैवतम् । ‘प्राणो वा अस्यैष ग्रहः स स्वयमेव कृतः स्वयं जातः’ (४१।१।२२) इति श्रुतेरुपांशुग्रहः प्राणः । हे प्राणरूपोपांशुग्रह, त्वं स्वांकृतो भवसि स्वयं स्वेनैव कृतो भवसि । छान्दसो यलोपः । स्वयमुत्पन्नोऽसि । केभ्यः । विश्वेभ्यः सर्वेभ्यः इन्द्रियेभ्यः सकाशात दिव्येभ्यः दिवि भवा दिव्या देवास्तेभ्यश्च सकाशात् पार्थिवेभ्यः पृथिवीभवेभ्यो द्विपदचतुष्पदेभ्यः सकाशात्स्वयमुत्पन्न इत्यनुवर्तते । यस्त्वमेवमकृतकः स्वतन्त्रस्तं त्वां मनः प्रजापतिरष्टु व्याप्नोतु । ‘अशूङ् व्याप्तौ’ पदविकरणव्यत्ययः । ‘प्रजापतिर्वै मनः प्रजापतिष्ट्वाश्नुताम्’ (४ । १ । १। २२) इति श्रुतेः । शोभनो भव उत्पत्तिर्यस्य तत्संबोधनं हे सुभव उत्तमजन्मन् ग्रह, सूर्याय सूर्यार्थं त्वा त्वां स्वाहाकारेण जुहोमि । यद्वास्य होममन्त्रस्यायमर्थः । हे प्राणरूप ग्रह, त्वं स्वांकृतोऽसि मया स्वीकृतोऽसि । किमर्थम् । दिव्येभ्यः देवजन्मनि स्थितेभ्यः पार्थिवेभ्यः मनुष्यजन्मनि स्थितेभ्यः सर्वेभ्य इन्द्रियेभ्यः इन्द्रियाणां हितायेत्यर्थः । मनश्च तेषामिन्द्रियाणामधीशं त्वामष्टु व्याप्नोतु । हे सुभव प्राणरूपोपांशुग्रह, तादृग्रूपं त्वां बहिःप्राणरूपाय सूर्याय स्वाहाकारेण जुहोमि । ‘आदित्यो ह वै बाह्यः प्राण उदयत्येष ह्येनं चाक्षुषं प्राणमनुगृह्णीत’ इत्याथर्वणिकश्रुतेः सूर्यस्य बहिःप्राणत्वम् । स्वांकृतशब्देन प्राणरूपग्रहस्य स्वाधीनत्वं दिव्यपार्थिवशब्दाभ्यां च जन्मद्वयं विवक्षितमिति तित्तिरिणोक्तम् । ‘स्वांकृतोऽसीत्याह प्राणमेव समकृत विश्वेभ्य इन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्य इत्याहोभयेष्वेव देवमनुष्येषु प्राणान् दधातीति’ । ‘प्रथमे परिधावुत्तानं पाणिं प्रागुपमार्ष्टि देवेभ्यस्त्वेति’ (का. ९ । ४ । ३८) । पश्चिमस्थे परिधौ सोमलिप्तमूर्ध्वाभिमुखं हस्तं कृत्वा प्रागभिमुखं यथा तथा मार्जनं कुर्यात् । दैवं यजुः । हे लेप, मरीचिपेभ्यः मरीचिपालकेभ्यो देवेभ्योऽर्थाय त्वा त्वां परिधौ मार्ज्मि इति शेषः । ‘वास उरोबाहुषु श्लिष्टमᳪं᳭शुमभिचरन्जुहुयाद्देवाᳪं᳭शविति’(का० ९। ४ । ३९) । वस्त्रादिषु श्लिष्टो यः सोमांशुस्तमभिचारार्थं जुहुयात् । आभिचारिकं सोमांशुदेवतं यजुः । हे देव दीप्यमान हे अंशो सोमांशो, यस्मै वधाय त्वामीडे प्रार्थयामि । ईडिरध्येषणकर्मा । तत् वधकर्म सत्यमस्त्विति शेषः । उपरि प्रवते गच्छतीत्युपरिप्रुत् । प्रवतिर्गत्यर्थः । तेनोपरि आगतेन भङ्गेनामर्दनासाविति देवदत्तादिनामनिर्देशः । असौ द्वेष्यो हतो निहतः सन् फट् विशीर्णो भवतु । ‘ञिफला विशरणे’ । अस्य क्विबन्तस्यैतद्रूपम् । फलतीति फट् डलयोरैक्यम् । स्वाहाकारस्थाने फडित्यभिचारे प्रयुज्यते । ‘प्राणाय त्वेति पात्रासादनम्’ (का० ९ । ४ । ४१)। यस्मिन्प्रदेशे पूर्वमुपांशुपात्रं स्थापितं तत्रैव स्थापयेत् । हे उपांशुपात्र, प्राणदेवतासंतोषार्थं त्वाम् आसादयामीति शेषः । ‘उपाᳪं᳭शुसवनं पाणिना प्रमृज्योदञ्चं व्यानाय त्वेति सᳪं᳭स्पृष्टमिति’ ( का० ९ । ४ । ४२)। येनाश्मना सोमोऽभिषुतः स उपांशुसवनस्तं हस्तेन प्रमृज्योदगभिमुखग्रहसंलग्नं सादयेत् । हे उपांशुसवन, व्यानदेवताप्रीत्यर्थं त्वामासादयामि ॥३॥
चतुर्थी ।
अधिमन्त्रम् (VC)
- विद्वांसो देवता
- गोतम ऋषिः
- विराड् ब्राह्मी जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर अगले मन्त्र में आत्मक्रिया का निरूपण किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अंशो) सूर्य्य के तुल्य प्रकाशमान ! जो तू (दिव्येभ्यः) दिव्य (विश्वेभ्यः) समस्त (पार्थिवः) पृथिवी पर प्रसिद्ध (इन्द्रियेभ्यः) इन्द्रियों और (मरीचिपेभ्यः) किरणों के समान पवित्र करनेवाले (देवेभ्यः) विद्वानों और वायु आदि पदार्थों के लिये (स्वाङ्कृत) स्वयंसिद्ध (असि) है, उस (त्वा) तुझ को (मनः) विज्ञान और (स्वाहा) वेद वाणी (अष्टु) प्राप्त हों। हे (सुभव) श्रेष्ठ गुणवान् ! (यस्मै) जिस (सूर्य्याय) सर्वप्रेरक चराचरात्मा परमेश्वर के लिये (त्वा) तेरी (ईडे) प्रशंसा करता हूँ, तू भी (तत्) उस प्रशंसा के योग्य (सत्यम्) सत्य परमात्मा को प्रीति से ग्रहण कर (उपरिप्रुता) सबसे उत्तम उत्कर्ष पाने हारे तूने (भङ्गेन) मर्दन से (असौ) यह अज्ञानरूप शत्रु (फट्) झट (हतः) मारा उस (त्वा) तुझे (प्राणाय) जीवन के लिये प्रशंसित करता और (व्यानाय) विविध प्रकार के सुख प्राप्त करने के लिये (त्वा) तुझे प्रशंसा देता हूँ ॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जीव आप ही स्वयंसिद्ध अनादिरूप है, इनसे इनको चाहिये कि देह, प्राण, इन्द्रियों और अन्तःकरण को निर्मल धर्म्मयुक्त व्यवहारों में प्रवृत्त होकर, परमेश्वर की उपासना में स्थिर हों तथा पुरुषार्थ से दुष्टों को झट-पट मार और भलों की रक्षा करके आनन्दित रहें ॥३॥
दयानन्द-सरस्वती (सं) - विषयः
पुनरात्मकृत्यमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अंशो देव दिव्यात्मन् ! यस्त्वं दिव्येभ्यो विश्वेभ्य इन्द्रियेभ्यः पार्थिवेभ्यो मरीचिपेभ्यो देवेभ्यस्स्वाङ्कृतोसि, तं त्वां मनः स्वाहा चाष्टु। हे सुभव ! यस्मै सूर्य्याय चराचरात्मने परमेश्वराय त्वामहमीडे, तत्सत्यं परेशं गृहाणोपरिप्रुतेव येन त्वया भङ्गेनासौ शत्रुः फड्ढतस्तं त्वा त्वां प्राणायेडे व्यानाय त्वा त्वामीडे ॥३॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - स्वयंभूभिर्जीवैर्देहप्राणेन्द्रियान्तःकरणानि निर्मलीकृत्य धर्म्यव्यापारेषु प्रवर्त्त्य परमेश्वरोपासने च संस्थाय, पुरुषार्थेन दुष्टान् हत्वा श्रेष्ठान् रक्षित्वानन्दितव्यमिति ॥३॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जीव हा स्वतः स्वयंसिद्ध अनादिरूप आहे. त्यासाठी देह, प्राण, इंद्रिये व अंतःकरण पवित्र करून धर्मयुक्त व्यवहार करावा व परमेश्वराच्या उपासनेत स्थिर व्हावे. पुरुषार्थाने दुष्टांचा ताबडतोब नाश करून सज्जनांचे रक्षण करावे व आनंदात राहावे.
०४ उपयामगृहीतोऽस्यन्तर्यच्छ मघवन्
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒प॒या॒मगृ॑हीतोऽस्य॒न्तर्य॑च्छ मघवन् पा॒हि सोम॑म्। उ॒रु॒ष्य राय॒ऽएषो॑ यजस्व ॥४॥
मूलम् ...{Loading}...
उ॒प॒या॒मगृ॑हीतोऽस्य॒न्तर्य॑च्छ मघवन् पा॒हि सोम॑म्। उ॒रु॒ष्य राय॒ऽएषो॑ यजस्व ॥४॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। अ॒न्तः। य॒च्छ॒। म॒घ॒व॒न्निति॑ मघऽवन्। पा॒हि॒। सोम॑म्। उ॒रु॒ष्य। रायः॑। आ। इषः॑। य॒ज॒स्व॒। ४।
महीधरः
म० ‘उदितेऽन्तर्यामग्रहणमुपयामगृहीत इति’ (का. ९ । ६ । १)। सूर्योदयानन्तरमन्तर्यामग्रहं गृह्णीयात् । उपयामयतीत्युपयामो ग्रहस्तेन गृह्यत इत्युपयामगृहीतः पचाद्यच् चित्त्वादन्तोदात्तः । ‘यमोऽपरिवेषणे’ इति परिवेषणादन्यत्र मित्वाभावाद्वृद्धिः । ‘तत्पुरुषे तुल्यार्थ-’ (पा० ६ । २ । २) इति पूर्वपदस्वरं बाधित्वा ‘थाथघञ्-’ (पा० ६ । २ । १४४ ) इति अजन्तस्यान्तोदात्तत्वम् । पुनस्तृतीयासमासे ‘तत्पुरुषे तुल्यार्थ-’ (पा० ६ । २।२) इत्यादिना तृतीयान्तस्य प्रकृतिस्वरत्वेन तदेव स्थितम् । हे सोमरस, त्वं तादृशोऽसि । हे मघवन् धनवन्निन्द्र, त्वं तादृशं रसमन्तर्ग्रहपात्रमध्ये यच्छ निगृह्णीष्व । । यद्वा शत्रुभ्योऽन्तर्धानं व्यवधानं यथा तथा नियमय । ततः सोमं पाहि पालय । तथा रायो धनानि उरुष्य रक्ष । उरुष्यती रक्षणकर्मा । यद्वा ‘पशवो वै रायः’ ( ४ । १।१५) इति श्रुतेः पशून्रक्ष । आ इषो यजस्व इषोऽन्नानि आयजस्व समन्ताद्देहि । यद्वान्नप्रभवत्वादिषो लक्षणया प्रजाः । ‘प्रजा वा इषः’ (४ । १ । २ । १५) इति श्रुतेः । ता यजस्व याजयस्व यायजूकाः कुरु । श्रुत्यैवं व्याख्यातत्वात् ॥ ४ ॥
पञ्चमी।
अधिमन्त्रम् (VC)
- मघवा देवता
- गोतम ऋषिः
- आर्षी उष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर मन से आत्मा के बीच में कैसे प्रयत्न करे, यह उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे योग चाहनेवाले ! जिससे तू (उपयामगृहीतः) योग में प्रवेश करनेवाले नियमों से ग्रहण किये हुए के समान (असि) है, इस कारण (अन्तः) भीतरले जो प्राणादि, पवन, मन और इन्द्रियाँ हैं, इनको (यच्छ) नियम में रख। हे (मघवन्) परमपूजित धनी के समान ! तू (सोमम्) योगविद्यासिद्ध ऐश्वर्य्य को (पाहि) रक्षा कर और जो अविद्यादि क्लेश हैं, उनको (उरुष्य) अत्यन्त योगविद्या के बल से नष्ट कर, जिससे (रायः) ऋद्धि और (इषः) इच्छासिद्धियों को (आयजस्व) अच्छे प्रकार प्राप्त हो ॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। योग जिज्ञासु पुरुष को चाहिये कि यम, नियम आदि योग के अङ्गों से चित्त आदि अन्तःकरण की वृत्तियों को रोक और अविद्यादि दोषों का निवारण करके संयम से ऋद्धि सिद्धियों को सिद्ध करें ॥४॥
दयानन्द-सरस्वती (सं) - विषयः
पुनरात्मनाभ्यन्तरे कथं प्रयतितव्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे योगजिज्ञासो ! यस्त्वमुपयामगृहीत इवासि तस्मादन्तर्य्यच्छ। हे मघवन् ! सोमं पाहि क्लेशानुरुष्य यतो राय इष आयजस्व ॥४॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। योगार्थिना यमादिभिर्योगाङ्गैश्चित्तादीन्निरुध्याविद्यादिदोषान् निवार्य्य संयमेनर्द्धिसिद्धयो निष्पाद्यन्ताम् ॥४॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. योगजिज्ञासू लोकांनी यमनियम इत्यादी योगांगांच्या साह्याने चित्तातील अंतःकरणाच्या वृत्ती रोखाव्यात व अविद्या इत्यादी दोषांचे निवारण करून संयमाने राहावे आणि ऋद्धी-सिद्धी प्राप्त करून घ्याव्यात.
०५ अन्तस्ते द्यावापृथिवी
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒न्तस्ते॒ द्यावा॑पृथि॒वी द॑धाम्य॒न्तर्द॑धाम्यु॒र्व᳙न्तरि॑क्षम्। स॒जूर्दे॒वेभि॒रव॑रैः॒ परै॑श्चान्तर्या॒मे म॑घवन् मादयस्व ॥५॥
मूलम् ...{Loading}...
अ॒न्तस्ते॒ द्यावा॑पृथि॒वी द॑धाम्य॒न्तर्द॑धाम्यु॒र्व᳙न्तरि॑क्षम्। स॒जूर्दे॒वेभि॒रव॑रैः॒ परै॑श्चान्तर्या॒मे म॑घवन् मादयस्व ॥५॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒न्तरित्य॒न्तः। ते॒। द्यावा॑पृथि॒वीऽइति॒ द्यावा॑पृथि॒वी। द॒धा॒मि॒। अ॒न्तः। द॒धा॒मि॒। उ॒रु। अ॒न्तरि॑क्षम्। स॒जूरिति॑ स॒ऽजूः। दे॒वेभिः॑। अव॑रैः। परैः॑। च॒। अ॒न्त॒र्य्याम इत्य॑न्तःऽया॒मे। म॒घ॒वन्निति॑ मघऽवन्। मा॒द॒य॒स्व॒। ५।
महीधरः
म० मघवद्देवत्या त्रिष्टुप् । अन्तर्यामग्रहण एव विनियोगः । हे मघवन् , ते तवानुग्रहात् द्यावापृथिवी अन्तर्दधामि व्यवधायिके करोमि । यद्वा हे अन्तर्याम, प्राणरूपापन्नस्य तवान्तः शरीरमध्ये द्यावापृथिव्यौ दधामि । स्थापयामि । किंच उरु विस्तीर्णमन्तरिक्षमन्तर्मध्ये च दधामि द्यावापृथिव्योर्मध्ये स्थापयामि । हे मघवन्धनवन्निन्द्र, अवरैः पृथिवीस्थानैः देवेभिर्देवैः परैः द्युस्थानैश्च देवैः सजूः समानजोषणः समानप्रीतियुक्तः सन्नन्तर्यामे ग्रहे मादयस्व हर्षयस्वात्मानम् । यद्वा तृप्यस्व ‘मद तृप्तौ’ चुरादिरात्मनेपदी । देवेभिरित्यत्र ‘बहुलं छन्दसि’ (पा० ७ । १।१०) इति ऐसोऽभावे ‘बहुवचने झल्येत्’ (पा० ७ । ३ । १०३) इति एकारः ॥ ५॥
षष्ठी।
अधिमन्त्रम् (VC)
- ईश्वरो देवता
- गोतम ऋषिः
- आर्षी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब ईश्वर, जो योग में प्रथम ही प्रवृत्त होता है, उसके लिये विज्ञान का उपदेश अगले मन्त्र से करता है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (मघवन्) योगी ! मैं परमेश्वर (ते) तेरे (अन्तः) हृदयाकाश में (द्यावापृथिवी) सूर्य्य-भूमि के समान विज्ञानादि पदार्थों को (दधामि) स्थापित करता हूँ तथा (उरु) विस्तृत (अन्तरिक्षम्) अवकाश को (अन्तः) शरीर के भीतर (दधामि) धरता हूँ (सजूः) मित्र के समान तू (देवेभिः) विद्वानों से विद्या को प्राप्त हो के (अवरैः) (परैः) (च) थोड़े वा बहुत योग व्यवहारों से (अन्तर्य्यामे) भीतरले नियमों में वर्त्तमान होकर अन्य सब को (मादयस्व) प्रसन्न किया कर ॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। ईश्वर का यह उपदेश है कि ब्रह्माण्ड में जिस प्रकार के जितने पदार्थं हैं, उसी प्रकार के उतने ही मेरे ज्ञान में वर्त्तमान हैं। योगविद्या को नहीं जाननेवाला उनको नहीं देख सकता और मेरी उपासना के विना कोई योगी नहीं हो सकता है ॥५॥
दयानन्द-सरस्वती (सं) - विषयः
अथेश्वरः प्राथमकल्पिकाय योगिने विज्ञानमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मघवन् योगिन् ! अहं ते तवान्तर्द्यावापृथिवी इव विज्ञानादिपदार्थान् दधामि, उर्वन्तरिक्षमन्तर्दधामि, सजूस्त्वं देवेभिः प्राप्तैरवरैः परैश्च सहान्तर्यामे वर्त्तमानः सन्नन्यान् मादयस्व ॥५॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ईश्वर उपदिशति ब्रह्माण्डे यादृशा यावन्तः पदार्थाः सन्ति, तादृशास्तावन्तो मम ज्ञाने वर्तन्ते, योगविद्यादिरहितस्तान् द्रष्टुं न शक्नोति, नहीश्वरोपासनया विना कश्चिद्योगी भवितुमर्हति ॥५॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. ईश्वराचा असा उपदेश आहे की, ब्रह्मांडात जसे व जितके पदार्थ आहेत त्यांचे ज्ञान त्याच्याजवळ आहे. योगविद्या न जाणणाऱ्या माणसाला हे कळू शकत नाही व त्याच्या उपासनेखेरीज कोणीही योगी बनू शकत नाही.
०६ स्वाङ्कृतोऽसि विश्वेभ्यऽइन्द्रियेभ्यो
विश्वास-प्रस्तुतिः ...{Loading}...
स्वाङ्कृ॑तोऽसि॒ विश्वे॑भ्यऽइन्द्रि॒येभ्यो॑ दि॒व्येभ्यः॒ पार्थि॑वेभ्यो॒ मन॑स्त्वाष्टु॒ स्वाहा॑ त्वा सुभव॒ सूर्या॑य दे॒वेभ्य॑स्त्वा मरीचि॒पेभ्य॑ऽउदा॒नाय॑ त्वा ॥६॥
मूलम् ...{Loading}...
स्वाङ्कृ॑तोऽसि॒ विश्वे॑भ्यऽइन्द्रि॒येभ्यो॑ दि॒व्येभ्यः॒ पार्थि॑वेभ्यो॒ मन॑स्त्वाष्टु॒ स्वाहा॑ त्वा सुभव॒ सूर्या॑य दे॒वेभ्य॑स्त्वा मरीचि॒पेभ्य॑ऽउदा॒नाय॑ त्वा ॥६॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स्वाङ्कृ॑त॒ इति॒ स्वाम्ऽकृ॑तः। अ॒सि॒। विश्वे॑भ्यः। इ॒न्द्रि॒येभ्यः। दि॒व्येभ्यः॑। पार्थि॑वेभ्यः। मनः॑। त्वा॒। अ॒ष्टु॒। स्वाहा॑। त्वा॒। सु॒भ॒वेति॑ सुऽभव। सूर्य्या॑य। दे॒वेभ्यः॑। त्वा॒। म॒री॒चि॒पेभ्य॒ इति॑ मरीचि॒पेभ्यः॑। उ॒दा॒नायेत्यु॑त्ऽआ॒नाय॑। त्वा॒। ६।
महीधरः
म०. स्वांकृत इति निःशेषस्यैव होमस्तिष्ठतः । व्याख्यातः । ‘प्रथमे च न्युब्जेन पाणिना प्रत्यगिति’ ( का० ९ । ६ । ४ )। प्रथमे परिधावधोमुखहस्तेन प्रत्यक्संस्थं मार्ष्टि देवेभ्यस्त्वेति मन्त्रेण । व्याख्यातः । उदानाय त्वेति पात्रासादनम् । हे ग्रह, उदानसन्तोषार्थं त्वां सादयामि ॥ ६ ॥
सप्तमी।
अधिमन्त्रम् (VC)
- योगी देवता
- गोतम ऋषिः
- भुरिक् त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर ईश्वर योगविद्या चाहनेवाले के प्रति उपदेश करता है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सुभव) शोभन ऐश्वर्य्य युक्त योगी ! तू (स्वाङ्कृतः) अनादि काल से स्वयंसिद्ध (असि) है मैं (दिव्येभ्यः) शुद्ध (विश्वेभ्यः) समस्त (देवेभ्यः) प्रशस्त गुण और प्रशंसनीय पदार्थों से युक्त विद्वानों और (मरीचिपेभ्यः) योग के प्रकाश से युक्त व्यवहारों से (त्वा) तुझको स्वीकार करता हूँ, (पार्थिवेभ्यः) पृथिवी पर प्रसिद्ध पदार्थों के लिये भी (त्वा) तुझ को स्वीकार करता हूँ, (सूर्य्याय) सूर्य्य के समान योग प्रकाश करने के लिये वा (उदानाय) उत्कृष्ट जीवन और बल के अर्थ (त्वा) तुझे ग्रहण करता हूँ, जिससे (त्वा) तुझ योग चाहनेवाले को (मनः) योग समाधियुक्त मन और (स्वाहा) सत्यानुष्ठान करने की क्रिया (अष्टु) प्राप्त हो ॥६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्य जब तक श्रेष्ठाचार करनेवाला नहीं होता, तब तक ईश्वर भी उसको स्वीकार नहीं करता, जब तक उसको ईश्वर स्वीकार नहीं करता है, तब तक उसका पूरा-पूरा आत्मबल नहीं हो सकता और जब तक आत्मबल नहीं बढ़ता, तब तक उसको अत्यन्त सुख भी नहीं होता ॥६॥
दयानन्द-सरस्वती (सं) - विषयः
पुनरीश्वरो योगजिज्ञासुं प्रत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सुभव योगिंस्त्वं स्वाङ्कृतोस्यहं दिव्येभ्यो विश्वेभ्यो देवेभ्यो मरीचिपेभ्यश्च त्वा त्वां स्वीकरोमि, पार्थिवेभ्यस्त्वा त्वां स्वीकरोमि, यतस्त्वा त्वां मनः स्वाहा सत्यारूढा क्रिया चाष्टु ॥६॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यावन्मनुष्यः श्रेष्ठाचारी न भवति तावदीश्वरोऽपि तं न स्वीकरोति, यावदयं न स्वीकरोति तावत् तस्यात्मबलं पूर्णं न भवति, यावदिदं न जायते तावन्नात्यन्तं सुखं भवतीति ॥६॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणूस जोपर्यंत श्रेष्ठ आचरण करत नाही तोपर्यंत ईश्वरही त्याचा स्वीकार करत नाही व तोपर्यंत त्याचे आत्मबलही पूर्णपणे वाढत नाही आणि जोपर्यंत आत्मबल वाढत नाही तोपर्यंत त्याला संपूर्ण सुख मिळू शकत नाही.
०७ आ वायो
विश्वास-प्रस्तुतिः ...{Loading}...
आ वा॑यो भूष शुचिपा॒ऽउप॑ नः स॒हस्रं॑ ते नि॒युतो॑ विश्ववार। उपो॑ ते॒ऽअन्धो॒ मद्य॑मयामि॒ यस्य॑ देव दधि॒षे पू॑र्व॒पेयं॑ वा॒यवे॑ त्वा ॥७॥
मूलम् ...{Loading}...
आ वा॑यो भूष शुचिपा॒ऽउप॑ नः स॒हस्रं॑ ते नि॒युतो॑ विश्ववार। उपो॑ ते॒ऽअन्धो॒ मद्य॑मयामि॒ यस्य॑ देव दधि॒षे पू॑र्व॒पेयं॑ वा॒यवे॑ त्वा ॥७॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ। वा॒यो॒ऽइति॑ वायो। भू॒ष॒। शुचि॒पा॒ इति॑ शुचिऽपाः। उप॑ नः॒। स॒हस्र॑म्। ते॒। नि॒युत॒ इति॑ नि॒ऽयुतः॑। वि॒श्व॒वा॒रेति॑ विश्वऽवार। उपो॒ऽइत्यु॑पो॑। ते॒। अन्धः॑। मद्य॑म्। अ॒या॒मि॒। यस्य॑। दे॒व॒। द॒धि॒षे। पू॒र्वपेय॒मिति॑ पूर्वऽपेय॑म्। वा॒यवे॑। त्वा॒। ७।
महीधरः
म० ‘ऐन्द्रवायवं गृह्णात्या वायविति’ ( का० ९ । ६।५)। वायुदेवत्या त्रिष्टुप् वसिष्ठदृष्टा वायवे त्वेति यजुरन्ता । हे वायो, हे शुचिपाः शुचिं पवित्रं प्रथमं वषट्कृतमप्राप्तमन्यदेवैः ईदृशं सोमं पिबतीति शुचिपाः पवित्रसोमपान, त्वं नोऽस्माकमुप समीपे आ भूष आक्रमस्वागच्छेत्यर्थः । ‘भूष अलंकारे’. इह गत्यर्थः । केनाहं आक्रमे इति चेत् । सहस्रं ते नियुतो विश्ववार । विश्वं सर्वं वृणोति व्याप्नोति विश्वैर्वा व्रियते प्रार्थ्यते इति विश्ववारस्तत्संबोधनम् हे विश्ववार सर्वव्यापक, ते तव सहस्रं नियुतः सन्ति । ‘नियुतो वायोः’ इत्युक्तेर्नियुच्छब्देन वायुवाहनभूता मृगा उच्यन्ते । तवासंख्याता वाहनभूता मृगास्तैरागच्छेत्यर्थः । किंच मद्यं मदनीयं तृप्तिजनकमन्धः सोमलक्षणमन्नं ते तव उप समीपे एव अयामि गमयामि । सोमं ते समर्पयामीत्यर्थः । हे देव दीप्यमान वायो, यस्य सोमस्य पूर्वपेयं प्रथमवषट्कारलक्षणं पूर्वपानं त्वं दधिषे धारयसि । दधातेर्लिटि रूपम् । एवं वायुं प्रार्थ्य सोममाह हे सोमरस, वायवे वायुदेवतार्थं त्वां गृह्णामीति शेषः ॥ ७ ॥
अष्टमी।
अधिमन्त्रम् (VC)
- वायुर्देवता
- वसिष्ठ ऋषिः
- निचृद् जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर योगी का कृत्य अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (शुचिपाः) अत्यन्त शुद्धता को पालने और (वायो) पवन के तुल्य योगक्रियाओं में प्रवृत्त होनेवाले योगी ! तू (सहस्रम्) हजारों (नियुतः) निश्चित शमादिक गुणों को (आभूष) सब प्रकार सुभूषित कर। हे (विश्ववार) समस्त गुणों के स्वीकार करनेवाले ! जो (ते) तेरा (मद्यम्) अच्छी तृप्ति देनेवाला (अन्धः) अन्न है, उसको (उपो) तेरे समीप (अयामि) पहुँचाता हूँ। हे (देव) योगबल से आत्मा को प्रकाश करनेवाले ! (यस्य) जिस तेरा (पूर्वपेयम्) श्रेष्ठ योगियों की रक्षा करने के योग्य योगबल है, जिसको तू (दधिषे) धारण कर रहा है, (वायवे) उस योग के जानने के लिये (त्वा) तुझे स्वीकार करता हूँ ॥७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो योगी प्राण के तुल्य सब को भूषित करता, ईश्वर के तुल्य अच्छे-अच्छे गुणों में व्याप्त होता है और अन्न वा जल के सदृश सुख देता है, वही योग में समर्थ होता है ॥७॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्योगिकृत्यमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे शुचिपा वायो त्वं सहस्रं नियुत आभूष, हे विश्ववार ! ते तव सकाशान्मद्यमन्ध उपो अयामि। हे देव ! यस्य ते तव पूर्वपेयमस्ति, यच्च त्वं दधिषे, तद्वायवे त्वा त्वामहं स्वीकरोमि ॥७॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यो योगी प्राण इव सर्वानलङ्करोति, ईश्वर इव सद्गुणेषु व्याप्नोत्यन्नजले इव सर्वान् सुखयति, स एव योगे प्रभवति ॥७॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जो योगी प्राणाप्रमाणे सर्वांना प्रिय व भूषणावह आहे, ईश्वराप्रमाणे अनेक चांगल्या गुणांनी युक्त आहे, अन्न व जलाप्रमाणे सुखदायक आहे तोच खरा योगी होय.
०८ इन्द्रवायूऽइमे सुताऽउप
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र॑वायूऽइ॒मे सु॒ताऽउप॒ प्रयो॑भि॒राग॑तम्। इन्द॑वो वामु॒शन्ति॒ हि। उ॒प॒या॒मगृ॑हीतोऽसि वा॒यव॑ऽइन्द्रवा॒युभ्यां॑ त्वै॒ष ते॒ योनिः॑ स॒जोषो॑भ्यां त्वा ॥८॥
मूलम् ...{Loading}...
इन्द्र॑वायूऽइ॒मे सु॒ताऽउप॒ प्रयो॑भि॒राग॑तम्। इन्द॑वो वामु॒शन्ति॒ हि। उ॒प॒या॒मगृ॑हीतोऽसि वा॒यव॑ऽइन्द्रवा॒युभ्यां॑ त्वै॒ष ते॒ योनिः॑ स॒जोषो॑भ्यां त्वा ॥८॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इन्द्र॑वायू॒ इ॒तीन्द्र॑ऽवायू। इ॒मे। सु॒ताः। उप॒ प्रयो॑भि॒रिति॒ प्रयः॑ऽभिः। आ॑गत॒म्। इन्द॑वः। वा॒म्। उ॒शन्ति॑। हि। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। वा॒यवे॑। इ॒न्द्रवा॒युभ्या॒मिती॑न्द्रवा॒युऽभ्या॑म्। त्वा॒। ए॒षः। ते। योनिः॑। स॒जोषो॑भ्यामिति॑ स॒जोषः॑ऽभ्याम्। त्वा॒। ८।
महीधरः
म० ‘अपगृह्य पुनरिन्द्रवायू इतीति’ (का० ९ । ६ । ६)। एकवारमर्धमादाय पृथक्कृत्य पुनरैन्द्रवायवं गृह्णाति । ऐन्द्रवायवी गायत्री मधुच्छन्दोदृष्टा । उपयामेति यजुःसहितो मन्त्रः । हे इन्द्रवायू, युष्मदर्थमिमे सोमाः सुता अभिषुताः । प्रयः इत्यन्ननाम। प्रयोभिः एतैः सोमरसरूपैरन्नैर्निर्मितैरुप समीपे युवामागतमागच्छतम् । यद्वा प्रयःशब्द ‘इण् गतौ’ इति धातोः शतृप्रत्ययान्तस्य रूपम् । प्रेतीति प्रयन् । इणो यण् तस्य भिसि परे तकारस्य छान्दसः सकारः तस्य रुत्वादौ प्रयोभिरिति सिध्यति । प्रयोभिः प्रयद्भिः शीघ्रैरश्वैरागच्छतम् । हि यस्मादिन्दवः सोमा वां युवामुशन्ति कामयन्ते तस्मादागच्छतमित्यर्थः । सोममाह हे सोमरस, त्वमुपयामेन पात्रेण गृहीतोऽसि वायवे वायुदेवतार्थं इन्द्रवायुभ्यां इन्द्रवायुदेवतार्थं च त्वां गृह्णामीति शेषः । ‘दशापवित्रेण परिमृज्यैष ते योनिरिति ग्रहसादनमिति’ (का. ९ । ५। २५)। दशापवित्रेण गृहीतं ग्रहं परिमृज्य पात्राद्बहिर्निर्गतं सोमं मार्जयित्वा एष ते योनिरिति मन्त्रेण ग्रहस्य सादनं करोति । वीप्सा सर्वग्रहार्था । इति सूत्रार्थः । हे पात्र, एष खरस्यैकदेशः ते योनिः तव स्थानम् । अतोऽत्र सजोषोभ्यां समानप्रीतिभ्यामिन्द्रवायुभ्यामर्थं त्वां सादयामीति शेषः ॥ ८॥
नवमी।
अधिमन्त्रम् (VC)
- इन्द्रवायू देवते
- मधुच्छन्दा ऋषिः
- आर्षी गायत्री, आर्षी स्वराड् गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह योगी कैसा होता है, यह अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्रवायू) प्राण और सूर्य्य के समान योगशास्त्र के पढ़ने-पढ़ाने वालो ! (हि) जिससे (इमे) ये (सुताः) उत्पन्न हुए (इन्दवः) सुखकारक जलादि पदार्थ (वाम्) तुम दोनों को (उशन्ति) प्राप्त होते हैं, इससे तुम (प्रयोभिः) इन मनोहर पदार्थों के साथ ही (आगतम्) आओ। हे योग चाहनेवाले ! तू इस योग पढ़ानेवाले अध्यापक से (वायवे) पवन के तुल्य योगसिद्धि को पाने के लिये अथवा योगबल से चराचर के ज्ञान की प्राप्ति के लिये (उपयामगृहीतः) योग के यम, नियमों के साथ स्वीकार किया गया (असि) है। हे भगवन् योगाध्यापक ! (एषः) यह योग (ते) तुम्हारा (योनिः) सब दुःखों के निवारण करनेवाले घर के समान है और (इन्द्रवायुभ्याम्) बिजुली और प्राणवायु के समान योगवृद्धि और समाधि चढ़ाने और उतारने की शक्तियों से (जुष्टम्) प्रसन्न हुए (त्वा) आपको और हे योग चाहनेवाले ! (सजोषोभ्याम्) सेवन किये हुए उक्त गुणों से प्रसन्न हुए (त्वा) तुझे मैं अपने सुख के लिये चाहता हूँ ॥८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - वे ही लोग पूर्ण योगी और सिद्ध हो सकते हैं जो कि योगविद्याभ्यास करके ईश्वर से लेके पृथिवी पर्य्यन्त पदार्थों को साक्षात् करने का यत्न किया करते और यम, नियम आदि साधनों से युक्त योग में रम रहे हैं और जो इन सिद्धों का सेवन करते हैं, वे भी इस योगसिद्धि को प्राप्त होते हैं, अन्य नहीं ॥८॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स योगी कीदृशो भवतीत्युच्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे इन्द्रवायू हि यत इमे सुता इन्दवो वामुशन्ति, तस्माद् युवामेतैः प्रयोभिः पदार्थैः सहैवोपागतमुपागच्छतम्। भो योगमभीप्सो ! त्वमनेनाध्यापकेन वायवे उपयामगृहीतोऽसि। हे भगवन् ! योगाध्यापक ! एष योगस्ते तव योनिः सर्वदुःखनिवारकं गृहमिवास्ति। इन्द्रवायुभ्यां जुष्टं त्वा त्वां तथा योगमभीप्सो सजोषोभ्यामुक्तगुणाभ्यां जुष्टं त्वा त्वां चाहं वश्मि ॥८॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - त एव जना योगिनस्सिद्धाश्च भवितुं शक्नुवन्ति, ये योगविद्याभ्यासं कृत्वेश्वरमारभ्य भूमिपर्य्यन्तान् पदार्थान् साक्षात्कर्तुं प्रयतन्ते, यमादिसाधनान्विताश्च योगे रमन्ते, ये चैतान् सेवन्ते तेऽप्येतत्सर्वं प्राप्नुवन्ति नेतरे ॥८॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - योगाभ्यास करून ईश्वरापासून पृथ्वीपर्यंत सर्व पदार्थांचा साक्षात्कार करण्याचा प्रयत्न करणारे लोकच पूर्ण योगी व सिद्ध बनतात. यमनियम इत्यादी साधनांद्वारे ते योगात रमतात व जे लोक अशा योग्याजवळ असतात त्यांनाही योगसिद्धी प्राप्त होते. इतरांना ती प्राप्त होत नाही.
०९ अयं वाम्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒यं वां॑ मित्रावरुणा सु॒तः सोम॑ऽऋतावृधा। ममेदि॒ह श्रु॑तँ॒ हव॑म्। उ॒प॒या॒मगृ॑हीतोऽसि मि॒त्रावरु॑णाभ्यां त्वा ॥९॥
मूलम् ...{Loading}...
अ॒यं वां॑ मित्रावरुणा सु॒तः सोम॑ऽऋतावृधा। ममेदि॒ह श्रु॑तँ॒ हव॑म्। उ॒प॒या॒मगृ॑हीतोऽसि मि॒त्रावरु॑णाभ्यां त्वा ॥९॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒यम्। वाम्। मि॒त्रा॒व॒रु॒णा॒। सु॒तः। सोमः॑। ऋ॒ता॒वृ॒धेत्यृ॑तऽवृधा। मम॑। इत्। इ॒ह। श्रु॒त॒म्। हव॑म्। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। मि॒त्रावरु॑णाभ्याम्। त्वा॒। ९।
महीधरः
म० ‘मैत्रावरुणमयं वामिति’ ( का० ९।६।७) मैत्रावरुणं ग्रहं गृह्णीयात् । मित्रावरुणदेवत्या गायत्री गृत्समददृष्टा यजुरन्ता । हे मित्रावरुणौ, विभक्तेराकारः । हे ऋतावृधा, ऋतं यज्ञं सत्यं वा वर्धयत इति ऋतवृधौ ऋतस्य वर्धयितारौ वां युवयोरर्थायायं सोमः सुतः अभिषुतः तस्मादिहास्मिन् यज्ञे ममेत् । इत् एवार्थे । ममैव यजमानानां मध्ये ममैव हवमाह्वानं श्रुतं युवां शृणुतम् । हे सोमरस, त्वमुपयामेन मैत्रावरुणग्रहपात्रेण गृहीतोऽसि । मित्रावरुणाभ्यामर्थे त्वा त्वां गृह्णामीति शेषः ॥९॥
दशमी।
अधिमन्त्रम् (VC)
- मित्रावरुणौ देवते
- गृत्समद ऋषिः
- आर्षी गायत्री, आसुरी गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर अध्यापक और शिष्य का कर्म्म अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (मित्रावरुणा) प्राण और उदान के समान वर्त्तमान (ऋतावृधा) सत्यविज्ञानवर्द्धक योगविद्या के पढ़नेवालो ! (वाम्) तुम्हारा (अयम्) यह (सोमः) योग का ऐश्वर्य (सुतः) सिद्ध किया हुआ है, उससे तुम (इह) यहाँ (मम) योगविद्या से प्रसन्न होनेवाले मेरी (हवम्) स्तुति को (श्रुतम्) सुनो, हे यजमान ! जिससे तू (उपयामगृहीतः) अच्छे नियमों के साथ स्वीकार किया हुआ (इत्) ही (असि) है, इससे मैं (मित्रावरुणाभ्याम्) प्राण और उदान के साथ वर्त्तमान (त्वा) तुझको ग्रहण करता हूँ ॥९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को उचित है कि इस योगविद्या का ग्रहण, श्रेष्ठ पुरुषों का उपदेश सुन और यमनियमों को धारण करके योगाभ्यास के साथ अपना वर्त्ताव रक्खें ॥९॥
दयानन्द-सरस्वती (सं) - विषयः
पुनरध्यापकशिष्यकृत्यमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - भो मित्रावरुणा ऋतावृधाध्यापकाध्येतारौ ! युवयोरयं सोमः सुतोस्ति, युवामिह मम हवं श्रुतम्। हे यजमान ! यतस्त्वमुपयामगृहीत इदेवास्यतोहं मित्रावरुणाभ्यां सह वर्त्तमानं त्वा त्वां गृह्णामि ॥९॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्याणामुचितमेतद्विद्यां गृहीत्वोपदेशं श्रुत्वा यमनियमान् धृत्वा योगाभ्यासेन सह वर्तितव्यम् ॥९॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. माणसांनी योगविद्या ग्रहण करून, श्रेष्ठ पुरुषांचा उपदेश ऐकून, यमनियमांचे पालन करून योगाभ्यासानुसार वर्तन ठेवावे.
१० राया वयम्
विश्वास-प्रस्तुतिः ...{Loading}...
रा॒या व॒यँ स॑स॒वाँसो॑ मदेम ह॒व्येन॑ दे॒वा यव॑सेन॒ गावः॑। तां धे॒नुं मि॑त्रावरुणा यु॒वं नो॑ वि॒श्वाहा॑ धत्त॒मन॑पस्फुरन्तीमे॒ष ते॒ योनि॑र्ऋता॒युभ्यां॑ त्वा ॥१०॥
मूलम् ...{Loading}...
रा॒या व॒यँ स॑स॒वाँसो॑ मदेम ह॒व्येन॑ दे॒वा यव॑सेन॒ गावः॑। तां धे॒नुं मि॑त्रावरुणा यु॒वं नो॑ वि॒श्वाहा॑ धत्त॒मन॑पस्फुरन्तीमे॒ष ते॒ योनि॑र्ऋता॒युभ्यां॑ त्वा ॥१०॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
रा॒या। व॒यम्। स॒स॒वाँस॒ इति॑ सस॒ऽवाँसः॑। म॒दे॒म॒। ह॒व्ये॑न। दे॒वाः। यव॑सेन। गावः॑। ताम्। धे॒नुम्। मि॒त्रा॒व॒रु॒णा॒। यु॒वम्। नः॒। वि॒श्वाहा॑। ध॒त्त॒म्। अन॑पस्फुरन्ती॒मित्यन॑पऽस्फुरन्तीम्। ए॒षः। ते॒। योनिः॑। ऋ॒ता॒युभ्या॑म्। ऋ॒त॒युभ्या॑मित्यृ॑तयुऽभ्या॑म्। त्वा॒। १०।
महीधरः
म० ‘पयसा श्रीणात्येनं कुशावन्तर्धाय राया वयमिति’ । (का० ९।६। ८ ) मैत्रावरुणपात्रे कुशद्वयं व्यवधाय तत्र स्वं सोमरसं क्षीरेण मिश्रीकुर्यात् । मित्रावरुणदेवत्या त्रिष्टुप् त्रसदस्यदृष्टा । उत्तरार्धे तामिति तदःश्रवणादिह यदोऽध्याहारः । मन्त्रदृक्कामदुघां प्रार्थयते । यया धेन्वा गृहे सत्या वयं राया धनेन ससवांसः । ‘वन षण संभक्तौ’ इत्यस्य वसौ रूपम् । धनेन संभक्ताः संपन्नाः सन्तो मदेम हृष्टाः स्याम । कथमिव । हव्येनेव । यथा हविषा संभक्ता देवा हृष्यन्ति, यथाच यवसेन घासेन गवाह्निकादिना गावो हृष्यन्ति हे मित्रावरुणौ, युवं युवां तां धेनुं नोऽस्मभ्यं विश्वाहा सर्वदा धत्तं दत्तम् । किंभूतां धेनुम् । अनपस्फुरन्तीम् । स्फुरतिर्गत्यर्थः । अपस्फुरति पुरुषान्तरं गच्छतीत्यपस्फुरन्ती न अपस्फुरन्ती अनपस्फुरन्ती ताम् । अनन्यगामिनीं दत्तमित्यर्थः । एष त इति सादनम् । हे ग्रह, एष ते योनिः स्थानम् ऋतायुभ्यां मित्रावरुणाभ्यामर्थे त्वां सादयामीति शेषः । ‘ब्रह्म वा ऋतं ब्रह्म हि मित्रो ब्रह्म ऋतं वरुण एवायुः’ (४ । १।४ । १०) इति श्रुतेः ऋतशब्देन मित्रः आयुशब्देन वरुणः इति श्रुतिव्याख्या । पदकारस्तु ऋतयुभ्यामिति पदं कृतवान् तेन ऋतं सत्यं यज्ञं वा कामयेते तौ ऋतयू ताभ्यामृतयुभ्याम् । संहितायां दीर्घः । यज्ञमिच्छद्भ्यां मित्रावरुणाभ्यामित्यर्थः पदकारस्य ॥ १० ॥
एकादशी।
अधिमन्त्रम् (VC)
- मित्रावरुणौ देवते
- त्रिसदस्युर्ऋषिः
- ब्राह्मी बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी योग पढ़ने-पढ़ानेवालों के कृत्य का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (हे ससवांसः) भले-बुरे के अलग-अलग करनेवाले (देवाः) विद्वानो ! आप और (वयम्) हम लोग (यवसेन) तृण, घास, भूसा से (गावः) गौ आदि पशुओं के समान (हव्येन) ग्रहण करने के योग्य (राया) धन से (मदेम) हर्षित हों और हे (मित्रावरुणा) प्राण के समान उत्तम जनो ! (युवम्) तुम दोनों (नः) हमारे लिये (विश्वाहा) सब दिनों में (अनपस्फुरन्तीम्) ठीक-ठीक ज्ञान देनेवाली (धेनुम्) वाणी को (धत्तम्) धारण कीजिये। हे यजमान ! जिससे (ते) तेरा (एषः) यह विद्याबोध (योनिः) घर है, इससे (ऋतायुभ्याम्) सत्य व्यवहार चाहनेवालों के सहित (त्वा) तुझ को हम लोग स्वीकार करते हैं ॥१०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। मनुष्यों को चाहिये कि अपने पुरुषार्थ और विद्वानों के सङ्ग से परोपकार की सिद्धि और कामना को पूर्ण करनेवाली वेदवाणी को प्राप्त होकर आनन्द में रहें ॥१०॥
दयानन्द-सरस्वती (सं) - विषयः
पुनरेतयोः कृत्यमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ससवांसो देवा वयं यवसेन गाव इव हव्येन राया मदेम। हे मित्रावरुणा ! युवं युवां नोऽस्मभ्यं विश्वाहा विश्वान्यहान्यनपस्फुरन्तीं तां धेनुं धत्तम्। हे यजमान ! यस्यैष ते विद्याबोधो योनिरस्ति, अत ऋतायुभ्यां सहितं त्वा त्वां वयमाददीमहे ॥१०॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। मनुष्यैः पुरुषार्थेन विद्वत्सङ्गेन च परोपकारनिष्पादयित्रीं कामदुघां वेदवाचं प्राप्यानन्दयितव्यमिति ॥१०॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहेत. माणसांनी पुरुषार्थ करावा व विद्वानांच्या संगतीत राहून परोपकार करावा. मनोकामना पूर्ण करणाऱ्या वेदवाणीचा स्वीकार करून आनंदाने राहावे.
११ या वाम्
विश्वास-प्रस्तुतिः ...{Loading}...
या वां॒ कशा॒ मधु॑म॒त्यश्वि॑ना सू॒नृता॑वती। तया॑ य॒ज्ञं मि॑मिक्षितम्। उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्यां॑ त्वै॒ष ते॒ योनि॒र्माध्वी॑भ्यां त्वा ॥११॥
मूलम् ...{Loading}...
या वां॒ कशा॒ मधु॑म॒त्यश्वि॑ना सू॒नृता॑वती। तया॑ य॒ज्ञं मि॑मिक्षितम्। उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्यां॑ त्वै॒ष ते॒ योनि॒र्माध्वी॑भ्यां त्वा ॥११॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
या। वा॒म्। कशा॑। मधु॑मतीति॒ मधु॑ऽमती। अश्वि॑ना। सू॒नृताव॒तीति॑ सू॒नृता॑ऽवती। तया॑। य॒ज्ञम्। मि॒मि॒क्ष॒त॒म्। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। अ॒श्विभ्या॒मि॒त्य॒श्विऽभ्या॑म्। त्वा॒। ए॒षः। ते॒। योनिः॑। माध्वी॑भ्याम्। त्वा॒। ११।
महीधरः
म० ‘आश्विनं गृह्णात्यन्वारब्धे वा या वामिति’ (का० ९। ७ । ८)। यजमानेऽन्वारब्धे वाश्विनं ग्रहं गृह्णाति । आश्विनी गायत्री मेधातिथिदृष्टा यजुरन्ता । हे अश्विना अश्विदेवौ, वां युवयोर्या कशा । कशेति वाङ्नामसु पठितम् । काशयति प्रकाशयति वाङ्मयमिति कशा वाक् । किंभूता । मधुमती मधु ब्रह्म तद्वती मधुब्राह्मणोपनिषत्प्रशंसायुता । तथा सूनृतावती प्रियं सत्यं वचः सूनृतं तद्वती सत्यप्रियवचनोपेता । हे अश्विनौ, तया वाचास्मदीयं यज्ञं मिमिक्षतं ‘मिह सेचने’ सनन्तः । सेक्तुमिच्छतम् । निष्पादयतमित्यर्थः । हे ग्रह, त्वमुपयामेन गृहीतोऽसि अश्विभ्यामर्थे त्वां गृह्णामीति शेषः । (का० ९ । ६ । ८) साधयत्येष ते हे ग्रह, एष ते योनिः स्थानं माध्वीभ्यां मधुब्राह्मणाध्येतृभ्यामश्विभ्यामर्थे त्वां सादयामीति शेषः । मधुब्राह्मणं यावधीयाते तौ माध्व्यौ ताभ्याम् । तद्धित ईप्रत्ययः । ‘दध्यङ् ह वा आभ्यामाथर्वणो मधु नाम ब्राह्मणमुवाच’ (४ । १।५। १८) इति श्रुतेः ॥ ११ ॥
द्वादशी।
अधिमन्त्रम् (VC)
- अश्विनौ देवते
- मेधातिथिर्ऋषिः
- ब्राह्मी उष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी इन योगविद्या पढ़ने-पढ़ानेवालों के करने योग्य काम का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अश्विना) सूर्य्य और चन्द्र के तुल्य प्रकाशित योग के पढ़ने-पढ़ानेवालो ! (या) जो (वाम्) तुम्हारी (मधुमती) प्रशंसनीय मधुरगुणयुक्त (सूनृतावती) प्रभात समय में क्रम-क्रम से प्रदीप्त होनेवाली उषा के समान (कशा) वाणी है, (तया) उससे (यज्ञम्) ईश्वर से सङ्ग कराने हारे योगरूपी यज्ञ को (मिमिक्षतम्) सिद्ध करना चाहो। हे योग पढ़नेवाले ! तू (उपयामगृहीतः) यम-नियमादिकों से स्वीकार किया गया (असि) है, (ते) तेरा (एषः) यह योग (योनिः) घर के समान सुखदायक है, इससे (अश्विभ्याम्) प्राण और अपान के योगोचित नियमों के साथ वर्त्तमान (त्वा) तुझ और हे योगाध्यापक ! (माध्वीभ्याम्) माधुर्य्य लिये जो श्रेष्ठ नीति और योगरीति हैं, उनके साथ वर्त्तमान (त्वा) आप का हम लोग आश्रय करते हैं अर्थात् समीपस्थ होते हैं ॥११॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। योगी लोग मधुर प्यारी वाणी से योग सीखनेवालों को उपदेश करें और अपना सर्वस्व योग ही को जानें तथा अन्य मनुष्य वैसे योगी का सदा आश्रय किया करें ॥११॥
दयानन्द-सरस्वती (सं) - विषयः
पुनरप्येतयोः कर्त्तव्यमुपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अश्विनौ योगाध्येत्रध्यापकौ ! या वां मधुमती सूनृतावती कशाऽस्ति, तया यज्ञं मिमिक्षतम्। हे योगमभीप्सो ! त्वमुपयामगृहीतोऽसि, किं च ते तवैष योगो योनिरस्त्यतोऽश्विभ्यां सह वर्त्तमानं त्वाम्। हे योगाध्यापक ! माध्वीभ्यां सह वर्त्तमानं च त्वां वयमुपाश्रयामः ॥११॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। योगिनो मधुरवाचाध्येतॄन् प्रति योगमुपदिशेयुरात्मसर्वस्वं योगमेव मन्येरन्नितरे जनास्तादृशं योगिनं सर्वत्राऽऽश्रयेयुरिति ॥११॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. योग्यांनी मधुरप्रिय वाणीने, योगाभ्यासींना, जनांना उपदेश करावा व योग हे आपले सर्वस्व आहे हे जाणावे तसेच इतरांनीही अशा योग्यांचा सदैव आश्रय घ्यावा.
१२ तं प्रत्नथा
विश्वास-प्रस्तुतिः ...{Loading}...
तं प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वथे॒मथा॑ ज्ये॒ष्ठता॑तिं बर्हि॒षदँ॑ स्व॒र्विद॑म्। प्र॒ती॒ची॒नं वृ॒जनं॑ दोहसे॒ धुनि॑मा॒शुं जय॑न्त॒मनु॒ यासु॒ वर्ध॑से। उ॒प॒या॒मगृ॑हीतोऽसि॒ शण्डा॑य त्वै॒ष ते॒ योनि॑र्वी॒रतां॑ पा॒ह्यप॑मृष्टः॒। शण्डो॑ दे॒वास्त्वा॑ शुक्र॒पाः प्रण॑य॒न्त्वना॑धृष्टासि ॥१२॥
मूलम् ...{Loading}...
तं प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वथे॒मथा॑ ज्ये॒ष्ठता॑तिं बर्हि॒षदँ॑ स्व॒र्विद॑म्। प्र॒ती॒ची॒नं वृ॒जनं॑ दोहसे॒ धुनि॑मा॒शुं जय॑न्त॒मनु॒ यासु॒ वर्ध॑से। उ॒प॒या॒मगृ॑हीतोऽसि॒ शण्डा॑य त्वै॒ष ते॒ योनि॑र्वी॒रतां॑ पा॒ह्यप॑मृष्टः॒। शण्डो॑ दे॒वास्त्वा॑ शुक्र॒पाः प्रण॑य॒न्त्वना॑धृष्टासि ॥१२॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
तम्। प्र॒त्नथेति॑ प्र॒त्नऽथा॑। पू॒र्वथेति॑ पूर्वऽथा॑। वि॒श्वथेति॑ विश्वऽथा॑। इ॒मथेती॒मऽथा॑। ज्ये॒ष्ठता॑ति॒मिति॑ ज्ये॒ष्ठऽताति॑म्। ब॒र्हि॒षद॑म्। ब॒र्हि॒सद॒मिति॑ बर्हिः॒ऽसद॑म्। स्व॒र्विद॒मिति॑ स्वः॒ऽविद॑म्। प्र॒ती॒ची॒नम्। वृ॒जन॑म्। दो॒ह॒से॒। धुनि॑म्। आ॒शुम्। जय॑न्तम्। अनु॑। यासु॑। वर्द्ध॑से॒। उ॒प॒या॒मगृ॑हीत॒ इ॑त्युपया॒मऽगृ॑हीतः। अ॒सि॒। शण्डा॑य। त्वा॒। ए॒षः। ते॒। योनिः॑। वी॒रता॑म्। पा॒हि॒। अप॑मृष्ट॒ इत्यप॑ऽमृष्टः। शण्डः॑। दे॒वाः। त्वा॒। शु॒क्र॒पा इति॑ शुक्र॒ऽपाः। प्र। न॒य॒न्तु॒। अना॑धृष्टा अ॒सि॒। १२।
महीधरः
म० ‘शुक्रं बैल्वेन वा तं प्रत्नथेति’ (का० ९ । ६ । १०) बिल्वपात्रेण वैकङ्कतेन वा शुक्रं ग्रहं गृह्णाति । जगती वैश्वदेवी काश्यपावत्सारदृष्टा द्वादशार्णचतुःपादा जगती उपयामेत्यन्ते यजुः । हे इन्द्र, त्वं यासु यज्ञक्रियासु अनुवर्धसे पुनः पुनः सोमपानेन वृद्धिं प्राप्नोषि तासु । वृजनमिति बलनाम । बलं बलवद्यज्ञफलं दोहसे क्षारयसि ददासीत्यर्थः । यजमानायेति शेषः । कथं दोहसे तत्र दृष्टान्तमाह । प्रत्नथा । ‘प्रत्नपूर्व-’ (पा० ५। ३ । १११) इत्यादिना थाल्प्रत्यय उपमार्थीयः। प्रत्नशब्दः पुराणवचनः । चिरन्तनानां भृग्वादीनामिव फलं दोहसे । पूर्वथा पूर्वेषामिव ऋषीणां साध्यादीनामिव । विश्वथा विश्वेषां सर्वेषामृषिपुत्राणामिव । इमथा इदानीन्तनानां यजमानानामिवास्य फलं दोहसे तं त्वां स्तुम इति शेषः । किंभूतं तम् । ज्येष्ठतातिम् तननं तातिः विस्तारः । ज्येष्ठा उत्कृष्टा तातिर्विस्तारो यस्य तम् । यद्वा ‘वृकज्येष्ठाभ्याम्-’ (पा० ५ । ४ ।४१) इत्यादिना प्रशंसायां तातिल्प्रत्ययः । प्रशस्तो ज्येष्ठो ज्येष्ठेषु प्रशस्यो वा ज्येष्ठतातिः । तथा बर्हिषदं यज्ञेषु बर्हिषि सीदतीति बर्हिषदस्तम् । स्वर्विदम् । स्वः द्युलोकं वेत्ति जानातीति स्वर्वित्तम् । तत्र हि तस्य निवासः । प्रतीचीनमात्मनोऽभिमुखं धुनिम् । ‘धूञ् कम्पने’ । कम्पितारं शत्रूणाम् आशुं शीघ्रं जयन्तं जेतव्यानि वस्तूनि । यद्वास्या ऋचोऽर्थान्तरम् । हे इन्द्र, यस्त्वं प्रतीचीनं प्रतिगमनमस्मत्प्रतिकूलं वृजनं वर्जनीयमालस्याश्रद्धादिकं दोहसे रिक्तीकरोषि विनाशयसि । ‘दुह प्रपूरणे’ प्रपूरणं रिक्तीकरणमिति क्षीरस्वामी। किंच यासु क्रियासु धुनिं त्वदनुग्रहाच्छत्रून्कम्पयन्तमाशुं क्षिप्रकारिणं जयन्तं सम्यगनुष्ठानेन यजमानान्तराण्यतिशयानमेनं यजमानमनु सोमपानेन स्तुत्या च यः त्वं वर्धसे तासु क्रियासु तं त्वां स्तुम इति शेषः । कथमिव । प्रत्नथा थाप्रत्यय | उपमार्थः । प्रत्नाः पुरातना भृग्वादयो यथा त्वामस्तुवन् पूर्वथा
पूर्वे पित्रादय इव विश्वथा अतीताः सर्वे यजमाना इव इमथा इदानीन्तना वर्तमाना यजमाना इव वयं वां स्तुम इत्यर्थः । कीदृशं त्वाम् । ज्येष्ठतातिं स्वार्थे तातिः । ज्येष्ठमित्यर्थः । बर्हिषदं यागे संनिहितत्वेन तिष्ठन्तम् । स्वर्विदं यजमानाय दातव्यं स्वर्गं वेत्तीति स्वर्वित् । एवमिन्द्रमुक्त्वा सोममाह । हे शुक्रग्रह, त्वमुपयामेन गृहीतोऽसि शण्डाय शुक्रपुत्राय शण्डनाम्नेऽसुराय वा त्वां गृह्णामीति शेषः । सादयत्येष ते । हे ग्रह, एष खरप्रदेशस्तव स्थानम् । त्वं यजमानस्य वीरतां वीरत्वं शूरत्वं पाहि पालय । ‘शुक्रामन्थिभ्यां चरतः शुक्रेणाध्वर्युर्मन्थिना प्रतिप्रस्थाता प्रोक्षिताप्रोक्षितौ यूपशकलावादायापिधानं प्रोक्षिताभ्यामपमार्जनमप्रोक्षिताभ्यामपमृष्टः शण्ड इत्यध्वर्युरिति’ (का० ९ । १० । १-५) अध्वर्युप्रतिप्रस्थातारौ शुक्रामन्थिग्रहाभ्यां यथाक्रममनुतिष्ठेताम् । तत्प्रकारः । प्रोक्षिताभ्यां द्वाभ्यां यूपशकलाभ्यां सहाप्रोक्षितौ द्वौ यूपशकलावादाय प्रोक्षिताभ्यां तयोर्ग्रहयोः क्रमेणाच्छादनं कृत्वा प्रोक्षिताभ्यां ग्रहावपमृज्यात् । तत्र प्रोक्षितेन शकलेन ग्रहं पिधायाप्रोक्षितेनाध्वर्युः शुक्रग्रहमपमार्ष्टि इति सूत्रार्थः । आभिचारिकं यजुः । शण्डनामकोऽसुरपुरोहितः शुक्रपुत्रोऽपमृष्टः अपमार्जनीकृतः । ‘देवास्त्वेति निष्क्रामतो यथालिङ्गमिति’ ( का० ९ । १० । ६) अध्वर्युप्रतिप्रस्थातारौ यथाक्रमेण शुक्रमन्थीत्येतत्पदद्वयवाचकमन्त्रलिङ्गमनतिक्रम्य हविर्धानमध्यान्निर्गच्छेताम् । तत्र शुक्रलिङ्गेनाध्वर्युर्निष्क्रामति । शुक्रदैवतम् । शुक्रनामकग्रहस्थं सोमं पिबन्ति शुक्रपा देवाः हे शुक्रग्रह, त्वां प्रणयन्तु यजतिस्थानं प्रापयन्तु (का० ९ । १० । ७) । अपरेणोत्तरवेदिमरत्नी सन्धायोत्तरवेदिश्रोण्योर्निधत्तोऽविसृजन्तो दक्षिणस्थामध्वर्युरुत्तरस्यां प्रतिप्रस्थातानाधृष्टासीति । अध्वर्युप्रतिप्रस्थातारौ वेदिपश्चाद्भागे अरत्नी संयोज्य ग्रहयोर्विसर्गमकुर्वन्तौ उत्तरवेदिश्रोण्योर्ग्रहौ सादयतः दक्षिणश्रोणावध्वर्युः शुक्रम् उत्तरवेदिश्रोणौ प्रतिप्रस्थाता मन्थिनं सादयति । वेदिश्रोणिदैवतम् । हे उत्तरवेदिश्रोणे, त्वमनाधृष्टानुपहिंसितासि ॥ १२ ॥
त्रयोदशी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- काश्यप ऋषिः
- निचृद् आर्षी जगती, निचृद् आर्षी पङ्क्तिः
- निषादः, पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी अगले मन्त्र में योगी के गुणों का उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे योगिन् ! आप (उपयामगृहीतः) योग के अङ्गों अर्थात् शौच आदि नियमों के ग्रहण करनेवाले (असि) हैं, (ते) आपका (एषः) यह योगयुक्त स्वभाव (योनिः) सुख का हेतु है। जिस योग से आप (अपमृष्टः) अविद्यादि दोषों से अलग हुए (शण्डः) शमादि गुणयुक्त (असि) हैं, (यासु) जिन योगक्रियाओं में आप (वर्द्धसे) वृद्धि को प्राप्त होते हैं और (विश्वथा) समस्त (प्रत्नथा) प्राचीन महर्षि (पूर्वथा) पूर्वकाल के योगी और (इमथा) वर्त्तमान योगियों के समान (ज्येष्ठतातिम्) अत्यन्त प्रशंसनीय (बर्हिषदम्) हृदयाकाश में स्थिर (स्वर्विदम्) सुख लाभ करने (प्रतीचीनम्) अविद्यादि दोषों से प्रतिकूल होने (आशुम्) शीघ्र सिद्धि देने (जयन्तम्) उत्कर्ष पहुँचाने और (धुनिम्) इन्द्रियों को कँपानेवाले (वृजनम्) योगबल को (दोहसे) परिपूर्ण करते हैं, (तम्) उस योगबल को (शुक्रपाः) जो कि योगबल से रक्षा करने हारे (देवाः) योगबल के प्रकाश से प्रकाशित योगी लोग हैं, वे (त्वा) आप को (प्रणयन्तु) अच्छे प्रकार पहुँचावें। उस योगबल को प्राप्त हुए (शण्डाय) शमदमादिगुणयुक्त आप के लिये उसी योग की (अनाधृष्टा) दृढ़ वीरता (असि) हो, आप उस (वीरताम्) वीरता की (पाहि) रक्षा कीजिये (अनु) वह रक्षा को प्राप्त हुई वीरता (त्वा) आप को पाले ॥१२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। हे योगविद्या की इच्छा करनेवाले ! जैसे शमदमादि गुणयुक्त पुरुष योगबल से विद्याबल की उन्नति कर सकता है, वही अविद्यारूपी अन्धकार का विध्वंस करनेवाली योगविद्या सज्जनों को प्राप्त होकर जैसे यथोचित सुख देती है, वैसे आप को दे ॥१२॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्योगिगुणा उपदिश्यन्ते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे योगिन् त्वमुपयामगृहीतोऽसि ते तवैष योगस्वभावो योनिः सुखहेतुरस्ति। येन योगेन त्वमपमृष्टः शण्डोऽसि, यासु योगक्रियासु त्वं वर्द्धसे, विश्वथा प्रत्नथा पूर्वथेमथा ज्येष्ठतातिं बर्हिषदं स्वर्विदं प्रतीचीनमाशुं जयन्तं धुनिं वृजनं दोहसे च, तं योगबलं शुक्रपा देवास्त्वां प्रणयन्तु, तस्मै शण्डाय तुभ्यमस्य योगस्यानाधृष्टा वीरतास्तु त्वमिमां वीरतां पाहि, तदनु त्वामियं वीरता पातु ॥१२॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। हे योगिन् ! त्वं यथा शमादिगुणप्रसक्तः पुरुषो योगबलेन विद्याबलमुन्नेतुं शक्नोति, सा चाविद्याध्वान्तौघविध्वंसिनी योगविद्या पुरुषानभ्येत्य यथार्थं सुखयति, तथा त्वामपि सुखयतु ॥१२॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. हे योगविद्या जगण्याची इच्छा बाळगणाऱ्यांनो ! शमदम इत्यादी गुणांनी युक्त पुरुष जसा योगबलाने विद्याबल वाढवितो, ती योगविद्या अविद्यारूपी अंधकार नष्ट करते व सज्जनांना प्राप्त होते आणि त्यांना सुख देते तशी ती तुम्हालाही सुख देवो.
१३ सुवीरो वीरान्
विश्वास-प्रस्तुतिः ...{Loading}...
सु॒वीरो॑ वी॒रान् प्र॑ज॒नय॒न् परी॑ह्य॒भि रा॒यस्पोषे॑ण॒ यज॑मानम्। स॒ञ्ज॒ग्मा॒नो दि॒वा पृ॑थि॒व्या शु॒क्रः शु॒क्रशो॑चिषा॒ निर॑स्तः॒ शण्डः॑ शु॒क्रस्या॑धि॒ष्ठान॑मसि ॥१३॥
मूलम् ...{Loading}...
सु॒वीरो॑ वी॒रान् प्र॑ज॒नय॒न् परी॑ह्य॒भि रा॒यस्पोषे॑ण॒ यज॑मानम्। स॒ञ्ज॒ग्मा॒नो दि॒वा पृ॑थि॒व्या शु॒क्रः शु॒क्रशो॑चिषा॒ निर॑स्तः॒ शण्डः॑ शु॒क्रस्या॑धि॒ष्ठान॑मसि ॥१३॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सु॒वीर॒ इति॑ सु॒ऽवीरः॑। वी॒रान्। प्र॒ज॒नय॒न्निति॑ प्रऽज॒नय॑न्। परि॑। इ॒हि॒। अ॒भि। रा॒यः। पोषे॑ण। यज॑मानम्। स॒ञ्ज॒ग्मा॒न इति॑ सम्ऽजग्मा॒नः। दि॒वा। पृ॒थि॒व्या। शु॒क्रः। शु॒क्रशो॑चि॒षेति॑ शु॒क्रऽशो॑चिषा। निर॑स्त॒ इति॒ निःऽअ॑स्तः। शण्डः॑। शु॒क्रस्य॑। अ॒धि॒ष्ठान॑म्। अ॒धि॒स्थान॒मित्य॑धि॒ऽस्थान॑म्। अ॒सि॒। १३।
महीधरः
म० ‘सुवीर इति दक्षिणं यूपदेशं गच्छत्यध्वर्युरिति’ (का० ९ । १०। ८)। शुक्रदैवतम् । हे शुक्रग्रह, त्वं सुवीरः शोभनवीर्योपेतः सन् वीरान् यजमानस्य शौर्योपेतान्भृत्यादीन् प्रजनयन्नुत्पादयन् रायः पोषेण धनस्य पुष्ट्या यजमानमभिलक्ष्य परीहि परितो गच्छ । ‘अपरेण यूपमरत्नी संधत्तः संजम्मान इति यथालिङ्गमिति’ (का० ९ । १० । १०) अध्वर्युप्रतिप्रस्थातारौ यूपपश्चिमभागे तत्तद्ग्रहवाचकपदलिङ्गमनतिक्रम्यारत्न्योः संधानं कुर्यातां शुक्रलिङ्गेनाध्वर्युः । शुक्रो ग्रहः शुक्रशोचिषा शुद्धदीप्त्या कृत्वा यूयं बिभर्तीति शेषः । किंभूतः शुक्रः । दिवा द्युलोकेन पृथिव्या भूलोकेन च संजग्मानः सङ्गच्छमानः । ‘अप्रोक्षितौ निरस्यति निरस्तः शण्ड इत्यध्वर्युरिति’ (का० ९ । १० । १२) अध्वर्युरप्रोक्षितं यूपशकलं निरस्येत् । आभिचारिकं शण्डनामकः शुक्रपुत्रोऽसुरपुरोहितो निरस्तः यज्ञाद्बहिर्निक्षिप्तः । ‘आहवनीये प्रोक्षितौ प्रास्यतः शुक्रस्याधिष्ठानमित्यध्वर्युरिति’ (का० ९ । १० । १३) अध्वर्युराहवनीये प्रोक्षितं यूपशकलं क्षिपेत् । शकलदेवतम् । हे यूपशकल, त्वं शुक्रग्रहस्याधिष्ठानमधिकरणमसि ॥ १३ ॥
चतुर्दशी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- वत्सार काश्यप ऋषिः
- निचृद् आर्षी त्रिष्टुप्, प्राजापत्या गायत्री
- धैवतः, षड्जः
दयानन्द-सरस्वती (हि) - विषयः
उक्त योग का अनुष्ठान करनेवाला योगी कैसा होता है, यह उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे योगिन् ! (सुवीरः) श्रेष्ठ वीर के समान योगबल को प्राप्त हुए आप (वीरान्) अच्छे-अच्छे गुणयुक्त पुरुषों को (प्रजनयन्) प्रसिद्ध करते हुए (परीहि) सब जगह भ्रमण कीजिये। इसी प्रकार (यजमानम्) धन आदि पदार्थों को देनेवाले उत्तम पुरुषों के (अभि) सन्मुख (रायः) धन की (पोषेण) पुष्टि से (सञ्जग्मानः) सङ्गत हूजिये और आप (दिवा) सूर्य्य और (पृथिव्या) पृथिवी के गुणों के साथ (शुक्रः) अति बलवान् (शुक्रशोचिषा) सब को शोधनेवाले सूर्य्य की दीप्ति से (निरस्तः) अन्धकार के समान पृथक् हुए ही योगबल के प्रकाश से विषयवासना से छूटे हुए (शण्डः) शमदमादि गुणयुक्त (शुक्रस्य) अत्यन्त योगबल के (अधिष्ठानम्) आधार (असि) हैं ॥१३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - शमदमादि गुणों का आधार योगाभ्यास में तत्पर योगीजन अपनी योगविद्या के प्रचार से योगविद्या चाहनेवालों का आत्मबल बढ़ाता हुआ सब जगह सूर्य्य के समान प्रकाशित होता है ॥१३॥
दयानन्द-सरस्वती (सं) - विषयः
उक्तयोगमनुष्ठाता योगी कीदृग् भवतीत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे योगिन् ! सुवीरस्त्वं वीरान् प्रजनयन् परीहि एवं यजमानमभि रायस्पोषेण सञ्जग्मानो दिवा पृथिव्या सह शुक्रः शुक्रशोचिषा निरस्त एव विषयवासनारहितः शण्डस्त्वं शुक्रस्याधिष्ठानमसि ॥१३॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - शमदमादिगुणाधिष्ठानो योगाभ्यासनिरतो योगी स्वयोगविद्याप्रचारेण जिज्ञासूनात्मबलं वर्द्धयन् सर्वथा सूर्य्य इव प्रकाशमानो भवति ॥१३॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - शम, दम गुणांचा आधार असलेल्या योगाभ्यासात योगाभ्यासी आपल्या योगविद्येच्या प्रसाराने योगविद्या शिकू इच्छिणाऱ्यांचे आत्मबल वाढवून सर्वत्र सूर्याप्रमाणे प्रकाशित होतो.
१४ अच्छिन्नस्य ते
विश्वास-प्रस्तुतिः ...{Loading}...
अच्छि॑न्नस्य ते देव सोम सु॒वीर्य॑स्य रा॒यस्पोष॑स्य ददि॒तारः॑ स्याम। सा प्र॑थ॒मा सँस्कृ॑तिर्वि॒श्ववा॑रा॒ स प्र॑थ॒मो वरु॑णो मि॒त्रोऽअ॒ग्निः ॥१४॥
मूलम् ...{Loading}...
अच्छि॑न्नस्य ते देव सोम सु॒वीर्य॑स्य रा॒यस्पोष॑स्य ददि॒तारः॑ स्याम। सा प्र॑थ॒मा सँस्कृ॑तिर्वि॒श्ववा॑रा॒ स प्र॑थ॒मो वरु॑णो मि॒त्रोऽअ॒ग्निः ॥१४॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अच्छि॑न्नस्य। ते॒। दे॒व॒। सो॒म॒। सु॒वीर्य्य॒स्येति॑ सु॒ऽवीर्य्य॑स्य। रा॒यः। पोष॑स्य। द॒दि॒तारः॑। स्या॒म॒। सा। प्र॒थ॒मा। संस्कृ॑तिः। वि॒श्ववा॒रेति॑ वि॒श्वऽवा॑रा। सः। प्र॒थ॒मः। वरु॑णः। मि॒त्रः। अ॒ग्निः। १४।
महीधरः
म० ‘अच्छिन्नस्येति जपिवेति’ (का० ९ । १० । १४) यजमानो जपति । सौम्यम् । हे देव दीप्यमान सोम, अच्छिनस्य अनवखण्डितस्य संततस्य सुवीर्यस्य कल्याणप्रभावस्य ते तव ददितारः दातारः वयं स्याम भवेम । रायः पोषस्य धनपोषस्य च दातारः स्याम । भूयोभूयो यज्ञकरणमाशास्यते । यद्वा ते तव प्रसादात् रायः पोषस्य ददितारः स्याम । अच्छिन्नस्येति विशेषणद्वयं धनपोषस्यैव । ‘उभयतो यूपं प्रत्यङ्मुखौ
जुहुतः सा प्रथमेत्यध्वर्युः प्रथमं तमनु प्रतिप्रस्थातेति’ ( का० ९।११।१) अध्वर्युप्रतिप्रस्थातारौ यूपोभयपार्श्वयोः स्थित्वा पश्चिमाभिमुखौ सन्तौ जुहुयाताम् । अध्वर्युरादौ शुक्रं प्रतिप्रस्थाता ततो मन्थिनं जुहोति । इन्द्रदेवत्या त्रिष्टुप् । सा प्रथमा मुख्या संस्कृतिः सोमसंस्कारो यस्येन्द्रस्य क्रियते इन्द्रार्थं क्रियत इत्यर्थः । सोमक्रये सा देवि देवमच्छेहीन्द्राय सोममित्युक्तत्वात् (अध्या० ४ क. २०)। किंभूता संस्कृतिः । विश्ववारा विश्वैः सर्वैर्ऋत्विग्भिरनृत्विग्भिश्च व्रियते यत्र सोमः सा विश्ववारा । यद्वा विश्वं वृणोति क्रियमाणः सोमो यत्रेति विश्ववारा जगदुत्पत्तिबीजत्वात् । सोमस्य वरुणो मित्रः अग्निश्च स प्रसिद्धो यस्य प्रथमो मुख्यो भृत्य इति शेषः । वरुणमित्राग्नयोऽन्येषामप्युपलक्षकाः । देवगणानां यः प्रभुरित्यर्थः ॥ १४ ॥
पञ्चदशी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- वत्सार काश्यप ऋषिः
- विराड् जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
अब शिष्य के लिये पढ़ाने की युक्ति अगले मन्त्र में कही है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (देव) योगविद्या चाहनेवाले (सोम) प्रशंसनीय गुणयुक्त शिष्य ! हम अध्यापक लोग (ते) तेरे लिये (सुवीर्य्यस्य) जिस पदार्थ से शुद्ध पराक्रम बढ़े उसके समान (अच्छिन्नस्य) अखण्ड (रायः) योगविद्या से उत्पन्न हुए धन की (पोषस्य) दृढ़पुष्टि के (ददितारः) देनेवाले (स्याम) हों। जो यह (प्रथमा) पहिली (विश्ववारा) सब ही सुखों के स्वीकार कराने योग्य (संस्कृतिः) विद्यासुशिक्षाजनित नीति है, (सा) वह तेरे लिये इस जगत् में सुखदायक हो और हम लोगों में जो (वरुणः) श्रेष्ठ (अग्निः) अग्नि के समान सब विद्याओं से प्रकाशित अध्यापक है (सः) वह (प्रथमः) सब से प्रथम तेरा (मित्रः) मित्र हो ॥१४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। योगविद्या में सम्पन्न शुद्धचित युक्त योगियों को योग्य है कि जिज्ञासुओं के लिये नित्य योगविद्या का दान देकर उन्हें शारीरिक और आत्मबल से युक्त किया करें ॥१४॥
दयानन्द-सरस्वती (सं) - विषयः
अथ शिष्यायाध्यापककृत्यमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे देव सोम ! वयमध्यापकास्ते तुभ्यं सुवीर्य्यस्येवाच्छिन्नस्य रायस्पोषस्य ददितारः स्याम, या प्रथमा विश्ववारा संस्कृतिरस्ति, सा तुभ्यं सुखदा भवतु। योऽस्माकं मध्ये वरुणोऽग्निरिवाध्यापकोऽस्ति, स प्रथमस्ते मित्रो भवतु ॥१४॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। योगविद्यासम्पन्नमनसां योगिनां योग्यतास्ति जिज्ञासुभ्यो नित्यं योगविद्यां प्रदाय ते सुशरीरात्मबलाः सम्पादनीयाः ॥१४॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. योगविद्येत प्रवीण शुद्ध चित्तयुक्त योग्यांनी जिज्ञासू लोकांना सदैव योग व विद्यादान करून त्यांना शारीरिक बलाने व आत्मबलाने युक्त करावे.
१५ स प्रथमो
विश्वास-प्रस्तुतिः ...{Loading}...
स प्र॑थ॒मो बृह॒स्पति॑श्चिकि॒त्वाँस्तस्मा॒ऽइन्द्रा॑य सु॒तमाजु॑होत॒ स्वाहा॑। तृ॒म्पन्तु॒ होत्रा॒ मध्वो॒ याः स्वि॑ष्टा॒ याः सुप्री॑ताः॒ सुहु॑ता॒ यत्स्वाहाया॑ड॒ग्नीत् ॥१५॥
मूलम् ...{Loading}...
स प्र॑थ॒मो बृह॒स्पति॑श्चिकि॒त्वाँस्तस्मा॒ऽइन्द्रा॑य सु॒तमाजु॑होत॒ स्वाहा॑। तृ॒म्पन्तु॒ होत्रा॒ मध्वो॒ याः स्वि॑ष्टा॒ याः सुप्री॑ताः॒ सुहु॑ता॒ यत्स्वाहाया॑ड॒ग्नीत् ॥१५॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सः। प्र॒थ॒मः। बृह॒स्पतिः॑। चि॒कि॒त्वान्। तस्मै॑। इन्द्रा॑य। सु॒तम्। आ। जु॒हो॒त॒। स्वाहा॑। तृ॒म्पन्तु॑। होत्राः॑। मध्वः॑। याः। स्वि॑ष्टा॒ इति॒ सुऽइ॑ष्टाः। याः। सुप्री॑ता॒ इति॒ सुऽप्री॑ताः। सुहु॑ता॒ इति॑ सुऽहु॑ताः। यत्। स्वाहा॑। अया॑ट्। अ॒ग्नीत्। १५।
महीधरः
म० स प्रसिद्धः चिकित्वान् चेतनावानुत्कृष्टधीः बृहस्पतिः यस्येन्द्रस्य प्रथमो मुख्यो मन्त्री इति शेषः । यद्वा संस्कृतिः समीचीना कृतिर्विश्वैर्देवैर्वरणीया सा प्रथमा देवानां मध्ये मुख्या यस्येन्द्रस्य वरुणमित्राग्नयोऽपि स प्रथम इन्द्र एव । चिकित्वान् बृहस्पतिरपि स इन्द्र एव । हे ऋत्विजः, तस्मै तादृशायेन्द्राय सुतमभिषुतं सोमं स्वाहेति स्वाहाकारेणाजुहोत आभिमुख्येन जुहुत स्वाहाकारेण होमं कुरुत । ‘तृम्पन्त्विति जपतीति’ (का० ९ । ११ । ९) होत्रादैवतम् । ताः होत्राः छन्दोभिमानिन्यो देवताः तृम्पन्तु तृप्ता भवन्तु। ‘तृम्प प्रीतौ’ । होत्राशब्देन याज्याच्छन्दांस्यभिधीयन्ते । ताः काः । याः मध्वो मधुनो मधुस्वादस्य सोमस्य स्विष्टाः साधु इष्टाः तद्धोमे नियुक्तत्वात् याश्च होत्राः सुष्ठु प्रीताः । कथं ज्ञायन्ते । यद् यस्मात् स्वाहाकारेण सुहुताः साधु हुताः । होमार्थं नियुक्ता इत्यर्थः । ‘होतारं प्रत्यङ्ङुपसीदव्ययाडग्नीदिति’ (का० ९।११।१०)। अध्वर्युर्होतृसमीपे प्रत्यङ्मुखस्तिष्ठेत् । होतृदैवतम् । अग्निरयाट् अयाक्षीत् अग्निधा यागः कृत इति होतुः कथयति ॥ १५ ॥
षोडशी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- वत्सार काश्यप ऋषिः
- निचृद् ब्राह्मी अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब स्वामी और सेवक के कर्म्म को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे शिष्यो ! तुम लोग जैसे वह पूर्व मन्त्र से प्रतिपादित (प्रथमः) आदि मित्र (चिकित्वान्) विज्ञानवान् (बृहस्पतिः) सब विद्यायुक्त वाणी का पालनेवाला जिस ऐश्वर्य्य के लिये प्रयत्न करता है, वैसे (तस्मै) उस (इन्द्राय) ऐश्वर्य के लिये (स्वाहा) सत्य वाणी और (सुतम्) निष्पादित श्रेष्ठ व्यवहार का (आजुहोत) अच्छे प्रकार ग्रहण करो और जैसे (यत्) जो (होत्राः) योग स्वीकार करने के योग्य वा (याः) जो (मध्वः) माधुर्य्यादिगुणयुक्त (स्विष्टाः) जिनसे कि अच्छे-अच्छे इष्ट काम बनते हैं (याः) वा जो ऐसी हैं कि (सुहुताः) जिनसे अच्छे प्रकार हवन आदि कर्म्म सिद्ध होते हैं (सुप्रीताः) और अच्छे प्रकार प्रसन्न रहती हैं, वे विद्वान् स्त्रीजन वा (अग्नीत्) कोई अच्छी प्रेरणा को प्राप्त हुआ विद्वान् योगी (स्वाहा) सत्यवाणी से (अयाट्) सभों को सत्कृत करता और तृप्त रहता है। आप लोग उन स्त्रियों और उस योगी के समान (तृम्पन्तु) तृप्त हूजिये ॥१५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे योगी विद्वान् और योगिनी विद्वानों की स्त्रीजन परमैश्वर्य्य के लिये यत्न करें और जैसे सेवक अपने स्वामी का सेवन करता है, वैसे अन्य पुरुषों को भी उचित है कि उन-उन कामों में प्रवृत होकर अपनी अभीष्ट सिद्धि को पहुँचे ॥१५॥
दयानन्द-सरस्वती (सं) - विषयः
अथ स्वामिसेवककृत्यमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे शिष्या ! यूयं यथा स पूर्वोक्तो मित्रः प्रथमश्चिकित्वान् बृहस्पतिर्यस्मै प्रयतेत, तस्मै इन्द्राय स्वाहा सुतमाजुहोत। तथा यद्या होत्रा या मध्वः स्विष्टा याः सुहुता सुप्रीताः स्त्रियोऽग्नीत् कश्चिद् योगी च स्वाहायाट् तथा भवन्तस्तृम्पन्तु ॥१५॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा योगिनो विद्वांसो योगिन्यो विदुष्यश्च परमैश्वर्य्यप्राप्तये प्रयतन्ते, यथा च सेवकः स्वामिसेवनमाचरति, तथैवान्यैः तत्तत् कर्म्मणि प्रवृत्त्य स्वाभीष्टसिद्धिः सम्पादनीया ॥१५॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. ज्याप्रमाणे विद्वान योगी व विदुषी योगिनी व विद्वानाच्रुा स्त्रिया परम ऐश्वर्यासाठी प्रयत्न करतात व सेवक आपल्या स्वामीची सेवा करतात, त्याप्रमाणे इतरांनीही आपापल्या कामात राहून आपल्या अभीष्ट सिद्धीसाठी प्रयत्न करून ती प्राप्त करावी.
१६ अयं वेनश्चोदयत्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒यं वे॒नश्चो॑दय॒त् पृश्नि॑गर्भा॒ ज्योति॑र्जरायू॒ रज॑सो वि॒माने॑। इ॒मम॒पाँ स॑ङ्ग॒मे सूर्य॑स्य॒ शिशुं॒ न विप्रा॑ म॒तिभी॑ रिहन्ति। उ॒प॒या॒मगृ॑हीतोऽसि॒ मर्का॑य त्वा ॥१६॥
मूलम् ...{Loading}...
अ॒यं वे॒नश्चो॑दय॒त् पृश्नि॑गर्भा॒ ज्योति॑र्जरायू॒ रज॑सो वि॒माने॑। इ॒मम॒पाँ स॑ङ्ग॒मे सूर्य॑स्य॒ शिशुं॒ न विप्रा॑ म॒तिभी॑ रिहन्ति। उ॒प॒या॒मगृ॑हीतोऽसि॒ मर्का॑य त्वा ॥१६॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒यम्। वे॒नः। चो॒द॒य॒त्। पृश्नि॑गर्भा॒ इति॒ पृश्नि॑ऽगर्भाः। ज्योति॑र्जरायु॒रिति॒ ज्योतिः॑ऽजरायुः। रज॑सः। वि॒मान॒ इति॑ वि॒ऽमाने॑। इ॒मम। अ॒पाम्। स॒ङ्ग॒म इति॑ सम्ऽग॒मे। सूर्य्य॑स्य। शिशु॑म्। न। विप्राः॑। म॒तिभि॒रिति॑ म॒तिऽभिः॑। रि॒ह॒न्ति॒। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। मर्का॑य। त्वा॒। १६।
महीधरः
म० ‘मन्थिनमयं वेन इति’ ( ९ । ६ । १२)। मन्थिग्रहं गृह्णीयात् । त्रिष्टुप् अनयाधिदैवमधियज्ञं चावस्थितः सोमः स्तूयते । अधिदैवं चन्द्रात्मना स्तूयते । ‘वेनो वेनतेः कान्तिकर्मणः’ (नि० १० । ३८) इति यास्कः। विनि कान्तौ’ इत्यस्य रूपम् । अयं वेनः कान्तश्चन्द्रो रजसो विमाने उदकं रज उच्यते । उदकस्य निर्माणकाले ग्रीष्मान्ते प्राप्ते पृश्निगर्भा अपः चोदयत् चोदयति प्रेरयति वर्षतीत्यर्थः । पृश्निरादित्यो द्युलोको वा गर्भोऽवस्थानं यासां ताः द्युलोकस्था रविस्था वा अपो वर्षति । किंभूतो वेनः । ज्योतिर्जरायुः ज्योतिर्विद्युल्लक्षणं जरायुवद्वेष्टनं यस्य स ज्योतिर्जरायुः । इदानीमधियज्ञं लतात्मना सोमः स्तूयते । विप्रा मेधाविनो ब्राह्मणा इमं सोमं शिशुंन शिशुमिव बालमिव मतिभिः मतिपूर्वाभिर्वाग्भिः रिहन्ति स्तुवन्ति । बालं यथा कश्चिल्लालयति तद्वद्यं सोमं स्तोत्रशस्त्ररूपाभिर्वाग्भिः स्तुवन्ति । रिहतिरर्चनकर्मसु पठितः । अर्चनं स्तवनमेव । किंभूतमिमम् । सूर्यस्यापां च सङ्गमे गृहीताभिरद्भिरभिषुतमिति शेषः । सोमाभिषवार्थं वसतीवर्य आपो अपां सूर्यस्य च सङ्गमे गृह्यन्ते ‘ता वै वहन्तीनां स्यन्दमानानां गृह्णीयाद्दिवा गृह्णीयात्’ । इति श्रुतेः । यद्वायमर्थः । अपां सूर्यस्य सङ्गमे निमित्ते उदक सूर्यसमागमनिमित्तं वृष्टिगर्भनिष्पत्त्यर्थं विप्रा इमं सोमं स्तुवन्ति यथा बालं कस्यचिद्वस्तुनो लाभाय यथा कश्चित्स्तौति । ईदृश हे सोम, त्वमुपयामेन ग्रहपात्रेण गृहीतोऽसि । मर्कः शुक्रपुत्रोऽसुरपुरोहितस्तस्मै त्वां गृह्णामीति शेषः ॥ १६ ॥
सप्तदशी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- वत्सार काश्यप ऋषिः
- निचृद् आर्षी त्रिष्टुप्, साम्नी गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब सभाध्यक्ष राजा को क्या करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे शिल्पविधि के जाननेवाले सभाध्यक्ष विद्वन् ! आप (उपयामगृहीतः) सेना आदि राज्य के अङ्गों से युक्त (असि) हैं, इससे मैं (रजसः) लोकों के मध्य (पृश्निगर्भाः) जिनमें अवकाश अधिक है, उन लोगों के (ज्योतिर्जरायुः) तारागणों को ढाँपनेवाले के समान (अयम्) यह (वेनः) अति मनोहर चन्द्रमा (चोदयत्) यथायोग्य अपने-अपने मार्ग में अभियुक्त करता है, (इमम्) इस चन्द्रमा को (अपाम्) जलों और (सूर्य्यस्य) सूर्य्य के (सङ्गमे) सम्बन्धी आकर्षणादि विषयों में (शिशुम्) शिक्षा के योग्य बालक को (मतिभिः) विद्वान् लोग अपनी बुद्धियों से (रिहन्ति) सत्कार कर के (न) समान आदर के साथ ग्रहण कर रहे हैं और मैं (मर्काय) दुष्टों को शान्त करने और श्रेष्ठ व्यवहारों के स्थापन करने के लिये (विमाने) अनन्त अन्तरिक्ष में (त्वा) तुझे विविध प्रकार के यान बनाने के लिये स्वीकार करता हूँ ॥१६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सभाध्यक्ष को चाहिये कि सूर्य्य और चन्द्रमा के समान श्रेष्ठ गुणों को प्रकाशित और दुष्ट व्यवहारों को शान्त करके श्रेष्ठ व्यवहार से सज्जन पुरुषों को आह्लाद देवें ॥१६॥
दयानन्द-सरस्वती (सं) - विषयः
अथ सभाध्यक्षेण राज्ञा किं कर्त्तव्यमित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे शिल्पविधिविद्विद्वन् ! त्वमुपयामगृहीतोऽस्यतोऽहं रजसो मध्ये पृश्निगर्भा लोका इव ज्योतिर्जरायुरिवायं वेनश्चोदयादिमं चन्द्रमपां सूर्य्यस्य सङ्गमे शिशुं विप्रा मतिभी रिहन्ति नेव मर्काय दुष्टानां प्रशमनाय श्रेष्ठव्यवहारस्थापनाय च विमाने त्वा त्वां गृह्णामि ॥१६॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सभाध्यक्षेण सूर्य्याचन्द्रमसोर्गुणानिव श्रेष्ठगुणान् प्रकाशयित्वा दुष्टप्रशमनेन श्रेष्ठव्यवहारेण सज्जना आह्लादयितव्याः ॥१६॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजाने सूर्य व चंद्राप्रमाणे श्रेष्ठ गुणांनी युक्त होऊन दुष्ट व्यवहार सोडून द्यावा व उत्तम व्यवहाराने सज्जनांना आह्लादित करावे.
१७ मनो न
विश्वास-प्रस्तुतिः ...{Loading}...
मनो॒ न येषु॒ हव॑नेषु ति॒ग्मं विपः॒ शच्या॑ वनु॒थो द्र॑वन्ता। आ यः शर्या॑भिस्तुविनृ॒म्णोऽअ॒स्याश्री॑णीता॒दिशं॒ गभ॑स्तावे॒ष ते॒ योनिः॑ प्र॒जाः पा॒ह्यप॑मृष्टो॒ मर्को॑ दे॒वास्त्वा॑ मन्थि॒पाः प्रण॑य॒न्त्वना॑धृष्टासि ॥१७॥
मूलम् ...{Loading}...
मनो॒ न येषु॒ हव॑नेषु ति॒ग्मं विपः॒ शच्या॑ वनु॒थो द्र॑वन्ता। आ यः शर्या॑भिस्तुविनृ॒म्णोऽअ॒स्याश्री॑णीता॒दिशं॒ गभ॑स्तावे॒ष ते॒ योनिः॑ प्र॒जाः पा॒ह्यप॑मृष्टो॒ मर्को॑ दे॒वास्त्वा॑ मन्थि॒पाः प्रण॑य॒न्त्वना॑धृष्टासि ॥१७॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मनः॑। न। येषु॑। हव॑नेषु। ति॒ग्मम्। विपः॑। शच्या॑। व॒नु॒थः। द्र॑वन्ता। आ। यः। शर्य्या॑भिः। तुवि॒नृम्ण इति॑ तुविऽनृ॒म्णः। अ॒स्य॒। अश्री॑णीत। आ॒दिश॒मित्या॒ऽदिश॑म्। गभ॑स्तौ। ए॒षः। ते॒। योनिः॑। प्र॒जा इति॑ प्र॒ऽजाः। पा॒हि॒। अप॑मृष्ट॒ इत्यप॑ऽमृष्टः। मर्कः॑। दे॒वाः। त्वा॒। म॒न्थि॒पा इति॑ मन्थि॒ऽपाः। प्र। न॒य॒न्तु॒। अना॑धृष्टा। अ॒सि॒। १७।
महीधरः
म०. ‘सक्तुभिः श्रीणात्येनं मनो न येष्विति’ ( का० ९ । ६ । १३)। एनं मन्थिग्रहं यवपिष्टैर्मिश्रीकुर्यात् । त्रिष्टुप् सोमस्तुतिः । विपः विपश्चितौ मेधाविनौ अध्वर्युप्रतिप्रस्थातारौ । विप इत्यत्र छान्दसः प्रातिपदिकैकादेशलोपः । येषु हवनेषु सोमहोमेषु शच्या कर्मणा कृत्वा । शचीति कर्मनाम । मनो न मन इव तिग्मम् । ‘तिग्मं तेजतेरुत्साहकर्मणः’ ( नि० १०।६)। इति यास्कः। मनोवदुत्साहयुक्तं यथा तथा वनुथः। प्रथमपुरुषस्थाने मध्यमपुरुषश्छान्दसः । वनुतः व्याप्नुतः युगपत् शुक्रामन्थिग्रहाविति शेषः । शच्येति निमित्ततृतीया वा । कर्मनिमित्तं व्याप्नुत इत्यर्थः । किंभूतौ । विपश्चितौ द्रवन्ता द्रवन्तौ गच्छन्तौ हवनेषु तेष्वेव कर्तव्येषु होमेषु प्रचरन्तौ । योऽध्वर्युः शर्याभिः अङ्गुलीभिर्गभस्तौ पाणौ स्थितस्यास्य मन्थिग्रहस्य । कर्मणि षष्ठी । इमं मन्थिनमादिशं प्रतिदिशमा अश्रीणीत समन्तात् श्रीणीते सक्तुभिर्मिश्रयति । किंभूतो यः । तुविनृम्णः तुवि नृम्णं यस्य बहुधनः महादक्षिणः । तुवीति बहुनाम । नृम्णमिति धननाम । यद्यप्यत्राध्वर्युप्रतिप्रस्थातारौ समानकर्माणौ तथापि यः सक्तुभिः श्रपणं करोति स एव प्रधान इत्याशयः । एष त इति सादयति । हे मन्थिग्रह, ते तव एष योनिः प्रदेशः । त्वं प्रजाः यजमानसंबन्धिनीः पाहि पालय । ‘अपमृष्टो मर्क इति प्रतिप्रस्थातेति’ (का० ९।१०।५) प्रतिप्रस्थाता प्रोक्षितेन यूपशकलेन मन्थिनमाच्छाद्याप्रोक्षितेनापमार्ष्टि । अपमार्जनीकृतो मर्को नामासुरपुरोहितः (का. | ९ । १० । ६) देवास्त्वेति निष्कामतो यथालिङ्गमिति । प्रतिप्रस्थाता हविर्धानान्निष्क्रामेत् । मन्थिदैवतम् हे मन्थिग्रह, मन्थिनं ग्रहं पिबन्तीति मन्थिपाः देवाः त्वा प्रणयन्तु यजतिस्थानं प्रापयन्तु । अनाधृष्टासीति मन्त्रो विनियोगसहितः पूर्व व्याख्यातः ॥ १७ ॥
अष्टादशी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- वत्सार काश्यप ऋषिः
- स्वराड् ब्राह्मी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे शिल्पविद्या में चतुर सभापते ! (एषः) यह राजधर्म (ते) तेरा (योनिः) सुखपूर्वक स्थिरता का स्थान है। जैसे तू (यः) जो (तुविनृम्णः) अत्यन्त धनयुक्त प्रजा का पालनेवाला वा (विपः) बुद्धिमान् प्रजाजन ये तुम दोनों (येषु) जिन हवनादि कर्म्मों में (शर्य्याभिः) वेगों से (तिग्मम्) वज्र के तुल्य अतिदृढ़ (मनः) मन के (न) समान वेग से (द्रवन्ता) चलते हुए (शच्या) बुद्धि के साथ (आवनुथः) परस्पर कामना करते हो, वैसे प्रत्येक प्रजापुरुष (अस्य) इस प्रजापति के (गभस्तौ) अंगुली-निर्देश से (आदिशम्) सब दिशाओं में तेज जैसे हो, वैसे शुत्रओं को (आ, अश्रीणीत) अच्छे प्रकार दुःख दिया करे (मर्कः) मरण के तुल्य दुःख देने और कुढंग चालचलन रखनेवाला शत्रु (अपमृष्टः) दूर हो और तू (प्रजाः) प्रजा का (पाहि) पालन कर (मन्थिपाः) शत्रुओं केा मँथनेवाले वीरों के रक्षक (देवाः) विद्वान् लोग (त्वा) तुझे (प्र, नयन्तु) प्रसन्न करें। हे प्रजाजनो ! तुम जिससे (अनाधृष्टा) प्रगल्भ निर्भय और स्वाधीन (असि) हो, उस राजा की रक्षा किया करो ॥१७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - प्रजापुरुष राज्यकर्म में जिस राजा का आश्रय करें, वह उन की रक्षा करे और प्रजाजन उस न्यायाधीश के प्रति अपने अभिप्राय को शङ्का-समाधान के साथ कहें, राजा के नौकर-चाकर भी न्यायकर्म्म ही से प्रजाजनों की रक्षा करें ॥१७॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे शिल्पविद्याविचक्षण सभापते विद्वन्नेष राजधर्मस्ते तव योनिरस्ति, त्वं यथा यस्तुविनृम्णः प्रजापतिर्विपः प्रजाजनश्चैतौ द्वौ युवां येषु हवनेषु शर्य्याभिस्तिग्मं मनो न द्रवन्तौ शच्या सह आवनुथः, इत्थं प्रत्येकः प्रजाजनोऽस्य गभस्तावादिशं यथा स्यात् तथा शत्रूनाश्रीणीत, मर्कश्चापमृष्टो भवतु। प्रजाः पाहि मन्थिपा देवास्त्वा त्वां प्रणयन्तु, हे प्रजे ! यतोऽनाधृष्टा निर्भया स्वतन्त्रा त्वमसि, तं राजानं सततं रक्ष ॥१७॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - प्रजापुरुषा राज्यकर्म्मणि यं राजानमाश्रयेयुस्स तेषां न्यायेन रक्षां कुर्य्यात्। ते च तं न्यायाधीशं प्रति स्वाभिप्रायं प्रवदेयुः। राजसेवकाश्च न्यायकर्म्मणैव प्रजापुरुषान् रक्षेयुरिति ॥१७॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्या राजाच्या आश्रयाने प्रजा राज्यकार्य करते त्या राजाने प्रजेचे रक्षण करावे व प्रजेने राजाच्या न्याय देण्याबाबत शंकानिरसन करून आपले मत स्पष्ट मांडावे. राजाच्या कर्मचाऱ्यांनीही न्याय करताना प्रजेचे रक्षण करावे.
१८ सुप्रजाः प्रजाः
विश्वास-प्रस्तुतिः ...{Loading}...
सु॒प्र॒जाः प्र॒जाः प्र॑ज॒नय॒न् परी॑ह्य॒भि रा॒यस्पोषे॑ण॒ यज॑मानम्। स॒ञ्ज॒ग्मा॒नो दि॒वा पृ॑थि॒व्या म॒न्थी म॒न्थिशो॑चिषा॒ निर॑स्तो॒ मर्को॑ म॒न्थिनो॑ऽधि॒ष्ठान॑मसि ॥१८॥
मूलम् ...{Loading}...
सु॒प्र॒जाः प्र॒जाः प्र॑ज॒नय॒न् परी॑ह्य॒भि रा॒यस्पोषे॑ण॒ यज॑मानम्। स॒ञ्ज॒ग्मा॒नो दि॒वा पृ॑थि॒व्या म॒न्थी म॒न्थिशो॑चिषा॒ निर॑स्तो॒ मर्को॑ म॒न्थिनो॑ऽधि॒ष्ठान॑मसि ॥१८॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सु॒प्र॒जा इति॑ सुऽप्र॒जाः। प्र॒जा इति॑ प्र॒ऽजाः। प्र॒ज॒नयन्निति॑ प्रऽज॒नय॑न्। परि॑। इ॒हि॒। अ॒भि। रा॒यः। पोषे॑ण। यज॑मानम्। स॒ञ्ज॒ग्मा॒न इति॑ सम्ऽजग्मा॒नः। दि॒वा। पृ॒थि॒व्या। म॒न्थी। म॒न्थिशो॑चि॒षेति॑ म॒न्थिशो॑चिषा। निर॑स्त॒ इति॑ निःऽअ॑स्तः। मर्कः॑। म॒न्थिनः॑। अ॒धि॒ष्ठान॑म्। अ॒धि॒स्थान॒मित्य॑धि॒ऽस्थान॑म्। अ॒सि॒। १८।
महीधरः
म० ‘सुप्रजा इति प्रतिप्रस्थातोत्तरमिति’ (का० ९ । १० " ९)। प्रतिप्रस्थातोत्तरं यूपदेशं गच्छति । मन्थिदैवतम् । हे मन्थिग्रह, शोभना प्रजा यस्य स सुप्रजास्त्वं यजमानसंबन्धिनोः प्रजाः प्रजनयन्नुत्पादयन्सन् रायस्पोषेण धनस्य पुष्ट्या | सह यजमानमभि यजमानसंमुखं परीहि परिगच्छ आगच्छ । ‘अपरेण यूपमरत्नी संधत्तः संजग्मान इति’ ( का० ९ । १० ।१०)। प्रतिप्रस्थातारत्नी संधत्त इत्युक्तम् । मन्थी नाम ग्रहो दिवा पृथिव्या द्युलोकभूलोकाभ्यां संजग्मानः संगच्छमानः ‘सन्मन्थिशोचिषा मन्थिनः स्वस्यैव दीप्त्या यूपं बिभर्तीति शेषः ‘निरस्तो मर्क इति प्रतिप्रस्थातेति’ (का० ९ । १० । ११)। प्रतिप्रस्थाता अप्रोक्षितं यूपशकलं निरस्येत् । आभिचारिकम् । मर्कनामासुरपुरोहितो निरस्तो निराकृतः । ‘मन्थिन इति प्रतिप्रस्थातेति’ (का. ९ । १० । १३) प्रतिप्रस्थाता प्रोक्षितं यूपशकलमाहवनीये प्रक्षिपेत् । शकलदैवतम् । हे यूपशकल, त्वं मन्थिग्रहस्याधिष्टानमधिकरणमसि ॥ १८ ॥
एकोनविंशी।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- वत्सार काश्यप ऋषिः
- निचृत् त्रिष्टुप्, प्राजापत्या गायत्री
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
न्यायाधीश को प्रजाजनों के प्रति कैसे वर्त्तना चाहिये, यह अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - भो न्यायाधीश ! (सुप्रजाः) उत्तम प्रजायुक्त आप (प्रजाः) प्रजाजनों को (प्रजनयन्) प्रकट करते हुए (रायः) धन की (पोषेण) दृढ़ता के साथ (यजमानम्) यज्ञादि अच्छे कर्मों के करनेवाले पुरुष को (अभि) (परि) (इहि) सर्वथा धन की वृद्धि से युक्त कीजिये (मन्थी) वाद-विवाद के मन्थन करने और (दिवा) सूर्य्य वा (पृथिव्या) पृथिवी के तुल्य (सञ्जग्मानः) धीरतादि गुणों में वर्तनेवाले आप (मन्थिनः) सदसद्विवेचन करने योग्य गुणों के (अधिष्ठानम्) आधार के समान (असि) हो, इस कारण तुम्हारी (मन्थिशोचिषा) सूर्य्य की दीप्ति के समान न्यायदीप्ति से (मर्कः) मृत्यु देनेवाला अन्यायी (निरस्तः) निवृत्त होवे ॥१८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। न्यायाधीश राजा को चाहिये कि धर्म्म से यज्ञ करनेवाले सत्पुरुष पुरोहित के समान प्रजा का निरन्तर पालन करे ॥१८॥
दयानन्द-सरस्वती (सं) - विषयः
न्यायाधीशेन प्रजाः प्रति कथं वर्त्तितव्यमित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - भो न्यायाधीश ! सुप्रजास्त्वं प्रजाः प्रजनयन् रायस्पोषेण सह यजमानमभिपरीहि सर्वथा तस्य धनवृद्धिमिच्छ, मन्थी त्वं दिवा पृथिव्या सञ्जग्मानो भव तद्गुणी भवेति भावः। यतस्त्वं मन्थिनोऽधिष्ठानमस्यतस्ते मन्थिशोचिषा मर्को निरस्तो भवतु ॥१८॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। न्यायाधीशो यजमानस्य पुरोहित इव प्रजाः सततं पालयेत् ॥१८॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. धार्मिक यज्ञ करणाऱ्या सज्जन पुरोहिताप्रमाणे न्यायी राजाने प्रजेचे पालन करावे.
१९ ये देवासो
विश्वास-प्रस्तुतिः ...{Loading}...
ये दे॑वासो दि॒व्येका॑दश॒ स्थ पृ॑थि॒व्यामध्येका॑दश॒ स्थ। अ॒प्सु॒क्षितो॑ महि॒नैका॑दश॒ स्थ ते दे॑वासो य॒ज्ञमि॒मं जु॑षध्वम् ॥१९॥
मूलम् ...{Loading}...
ये दे॑वासो दि॒व्येका॑दश॒ स्थ पृ॑थि॒व्यामध्येका॑दश॒ स्थ। अ॒प्सु॒क्षितो॑ महि॒नैका॑दश॒ स्थ ते दे॑वासो य॒ज्ञमि॒मं जु॑षध्वम् ॥१९॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ये। दे॑वा॒सः॒। दि॒वि। एका॑दश। स्थ। पृ॒थि॒व्याम्। अधि॑। एका॑दश। स्थ। अप्सु॒क्षित॒ इत्य॑प्सु॒ऽक्षितः॑। म॒हि॒ना। एका॑दश। स्थ। ते। दे॒वा॒सः॒। य॒ज्ञम्। इ॒मम्। जु॒ष॒ध्व॒म्। १९।
महीधरः
म० ‘आग्रयणं द्वयोर्धारयोर्ये देवास इति’ (का० ९ । ६ । १४)। धाराद्वये क्षरति सत्याग्रहणं ग्रहं गृह्णीयात् । वैश्वदेवी त्रिष्टुप् परुच्छेपदृष्टा । हे देवासः देवाः, ये यूयं दिवि धुलोके एकादश स्थ एकादशसंख्याका भवथ । केन । महिना महिम्ना खखमहिम्ना स्वस्खमाहात्म्येन । महिनेति पदं विष्वपि स्थानेषु संबध्यते । सर्वत्र महाभाग्याविशेषात् । तथा पृथिव्यामधि पृथिव्युपरि एकादश स्थ । तथा ये यूयमप्मुक्षितः अन्तरिक्षनिवासिन एकादश स्थ भवथ । अस्वित्यन्तरिक्षनामसु पठितम् । क्षियतिर्निवासार्थः । अप्सु अन्तरिक्षे क्षियन्ति निवसन्तीत्यर्थः । हे देवासः देवाः, ते त्रिविधा यूयमिमं यज्ञ यजनीयमाग्रयणग्रहं जुषध्वं सेवध्वम् ॥ १९ ॥
विंशी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- वत्सार काश्यप ऋषिः
- भुरिग् आर्षी पङ्क्तिः
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब राजा और सभासदों के काम अगले मन्त्र में कहे हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ये) जो (महिना) अपनी महिमा से (दिवि) विद्युत् के स्वरूप में (एकादश) ग्यारह अर्थात् प्राण, अपान, उदान, व्यान, समान, नाग, कूर्म्म, कृकल, देवदत, धनञ्जय और जीवात्मा (देवासः) दिव्यगुणयुक्त देव (स्थ) हैं, (पृथिव्याम्) भूमि के (अधि) ऊपर (एकादश) ग्यारह अर्थात् पृथिवी, जल, अग्नि, पवन, आकाश, आदित्य, चन्द्रमा, नक्षत्र, अहंकार महत्तत्त्व और प्रकृति (स्थ) हैं तथा (अप्सुक्षितः) प्राणों में ठहरनेवाले (एकादश) ग्यारह श्रोत्र, त्वक् चक्षु, जिह्वा, नासिका, वाणी, हाथ, पाँव, गुदा, लिङ्ग और मन (स्थ) हैं, (ते) वे जैसे अपने-अपने कामों में वर्त्तमान हैं, वैसे हे (देवासः) राजसभा के सभासदो ! आप लोग यथायोग्य अपने-अपने कामों में वर्त्तमान होकर (इमम्) इस (यज्ञम्) राज और प्रजा सम्बन्धी व्यवहार का (जुषध्वम्) सेवन किया करें ॥१९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे अपने-अपने कामों में प्रवृत्त हुए अन्तरिक्षादिकों में सब पदार्थ हैं, वैसे राजसभासदों को चाहिये कि अपने-अपने न्यायमार्ग में प्रवृत्त रहें ॥१९॥
दयानन्द-सरस्वती (सं) - विषयः
अथ राजसभ्यजनकृत्यमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये महिना स्वमहिम्ना दिव्येकादश देवासः स्थ सन्ति, पृथिव्यामध्येकादश स्थ सन्ति, अप्सुक्षितश्चैकादश स्थ सन्ति, ते यथा स्वस्वकर्म्मसु वर्त्तन्ते, तद्वद्वर्त्तमाना हे देवासो राजसभायाः सभ्यजना ! यूयमिमं यज्ञं जुषध्वम् ॥१९॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा स्वकर्म्मणि प्रवर्त्तमाना इमेऽन्तरिक्षादिषु पदार्थाः सन्ति, तथा सभाजनैस्स्वन्यायकर्म्मणि प्रवर्तितव्यमिति ॥१९॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. अंतरिक्षातील पदार्थ जसे आपापल्या कक्षेत राहून कार्य करतात तसे राजसभासदांनी न्यायमार्गात प्रवृत्त राहून कार्य करावे.
२० उपयामगृहीतोऽस्याग्रयणोऽसि स्वाग्रयणः
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒प॒या॒मगृ॑हीतोऽस्याग्रय॒णो᳖ऽसि॒ स्वा᳖ग्रयणः। पा॒हि य॒ज्ञं पा॒हि य॒ज्ञप॑तिं॒ विष्णु॒स्त्वामि॑न्द्रि॒येण॑ पातु॒ विष्णुं त्वं पा॑ह्य॒भि सव॑नानि पाहि ॥२०॥
मूलम् ...{Loading}...
उ॒प॒या॒मगृ॑हीतोऽस्याग्रय॒णो᳖ऽसि॒ स्वा᳖ग्रयणः। पा॒हि य॒ज्ञं पा॒हि य॒ज्ञप॑तिं॒ विष्णु॒स्त्वामि॑न्द्रि॒येण॑ पातु॒ विष्णुं त्वं पा॑ह्य॒भि सव॑नानि पाहि ॥२०॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। आ॒ग्र॒य॒णः। अ॒सि॒। स्वा॑ग्रयण॒ इति॒ सुऽआग्रयणः। पा॒हि। य॒ज्ञम्। पा॒हि। य॒ज्ञम्। पा॒हि। य॒ज्ञप॑ति॒मिति॑ य॒ज्ञऽपतिम्। विष्णुः॑। त्वाम्। इ॒न्द्रि॒येण॑। पा॒तु॒। विष्णु॑म्। त्वम्। पा॒हि॒। अ॒भि। सव॑नानि। पा॒हि॒। २०।
महीधरः
म०. आग्रयणदेवतं यजुराग्रयणग्रहण एव विनियुक्तम् । हे आग्रयणग्रह, समुपयामेन पात्रेण स्वीकृतोऽसि । आग्रयणोऽसि आग्रयणनामा भवसि । किंभूतस्त्वम् । वाग्रयणः अग्रस्य भावः आग्रम् सुष्टु आग्रं स्वाग्रं श्रेष्ठ्यम् अयति प्रापयतीति स्वाग्रयणः । अग्रशब्दस्यायतौ परे टिलोपः। तादृशस्त्वं यज्ञं पाहि रक्ष । यज्ञपतिं यजमानं च पाहि । विष्णुः यज्ञाधिष्ठाता देव इन्द्रियेण स्वसामर्थेन खां पातु । वमपि तादृशं विष्णुं पाहि रक्ष । सवनानि प्रातरादीनि अभि पाहि सर्वतो रक्ष ॥ २० ॥
एकविंशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- वत्सार काश्यप ऋषिः
- निचृद् आर्षी जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
अब राजा और विद्वानों के उपदेश की रीति अगले मन्त्र में कही है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सभापते राजन् वा उपदेश करनेवाले ! जिस कारण आप (उपयामगृहीतः) विनय आदि राजगुणों वा वेदादि शास्त्रबोध से युक्त (असि) हैं, इससे (यज्ञम्) राजा और प्रजा की पालना कराने हारे यज्ञ को (पाहि) पालो और (स्वाग्रयणः) जैसे उत्तम विज्ञानयुक्त कर्म्मों को पहुँचानेवाले होते हैं, वैसे (आग्रयणः) उत्तम विचारयुक्त कर्म्मों को प्राप्त होनेवाले हूजिये, इससे (यज्ञपतिम्) यथावत् न्याय की रक्षा करनेवाले को (पाहि) पालो। यह (विष्णुः) जो समस्त अच्छे गुण और कर्म्मों को ठीक-ठीक जाननेवाला विद्वान् है, वह (इन्द्रियेण) मन और धन से (त्वाम्) तुझे (पातु) पाले और तुम उस (विष्णुम्) विद्वान् की (पाहि) रक्षा करो (सवनानि) ऐश्वर्य्य देनेवाले कामों की (अभि) सब प्रकार से (पाहि) रक्षा करो ॥२०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। राजा और विद्वानों को योग्य है कि वे निरन्तर राज्य की उन्नति किया करें, क्योंकि राज्य की उन्नति के विना विद्वान् लोग सावधानी से विद्या का प्रचार और उपदेश भी नहीं कर सकते और न विद्वानों के सङ्ग और उपदेश के विना कोई राज्य की रक्षा करने के योग्य होता है तथा राजा, प्रजा और उत्तम विद्वानों की परस्पर प्रीति के विना ऐश्वर्य्य की उन्नति और ऐश्वर्य के विना आनन्द भी निरन्तर नहीं हो सकता ॥२०॥
दयानन्द-सरस्वती (सं) - विषयः
अथ राज्ञां विदुषां चोपदेशप्रकारमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सभापते राजन् उपदेशक वा ! यतस्त्वमुपयामगृहीतोऽस्यतो यज्ञम्पाहि, स्वाग्रयण इवाग्रयणोसि, तस्माद् यज्ञपतिं पाहि। अयं विष्णुरिन्द्रियेण त्वां पातु त्वमेनं विष्णुम्पाहि सवनान्यभिपाहि ॥२०॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। राज्ञो विदुषां च योग्यतास्ति ते सततं राज्योन्नतिं कुर्य्युर्नहि राज्योन्नत्या विना विद्वांसो स्वास्थ्येन विद्याप्रचारयितुमुपदेष्टं च शक्नुवन्ति, न खलु विदुषां सङ्गोपदेशाभ्यां विना राज्यं रक्षितुमर्हति, न खलु राजप्रजोत्तमविदुषां परस्परं प्रीतिमन्तरैश्वर्य्योन्नतिरैश्वर्य्योन्नत्या विनाऽऽनन्दश्च सततं जायते ॥२०॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. राजा व विद्वान यांनी सतत राज्याची उन्नती करावी. कारण राज्याची उन्नती झाल्याखेरीज विद्वान लोक शांततेने विद्येचा प्रसार व उपदेश करू शकत नाहीत. विद्वानांच्या संगतीखेरीज व उपदेशाखेरीज कोणीही राज्याचे रक्षण करण्यायोग्य नसतो. राजा, प्रजा आणि उत्तम विद्वानांच्या परस्पर प्रेमाखेरीज व संमतीखेरीज ऐश्वर्याची वृद्धी होऊ शकत नाही. ऐश्वर्याच्या वृद्धीखेरीज सदैव आनंद मिळू शकत नाही.
२१ सोमः पवते
विश्वास-प्रस्तुतिः ...{Loading}...
सोमः॑ पवते॒ सोमः॑ पवते॒ऽस्मै ब्रह्म॑णे॒ऽस्मै क्ष॒त्राया॒स्मै सु॑न्व॒ते यज॑मानाय पवतऽइ॒षऽऊ॒र्जे प॑वते॒ऽद्भ्यऽओष॑धीभ्यः पवते॒ द्यावा॑पृथि॒वाभ्यां॑ पवते सुभू॒ताय॑ पवते॒ विश्वे॑भ्यस्त्वा दे॒वेभ्य॑ऽए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ॥२१॥
मूलम् ...{Loading}...
सोमः॑ पवते॒ सोमः॑ पवते॒ऽस्मै ब्रह्म॑णे॒ऽस्मै क्ष॒त्राया॒स्मै सु॑न्व॒ते यज॑मानाय पवतऽइ॒षऽऊ॒र्जे प॑वते॒ऽद्भ्यऽओष॑धीभ्यः पवते॒ द्यावा॑पृथि॒वाभ्यां॑ पवते सुभू॒ताय॑ पवते॒ विश्वे॑भ्यस्त्वा दे॒वेभ्य॑ऽए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ॥२१॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सोमः॑। प॒व॒ते॒। सोमः॑। प॒व॒ते॒। अ॒स्मै। ब्रह्म॑णे। अ॒स्मै। क्ष॒त्राय॑। अ॒स्मै। सु॒न्व॒ते। यज॑मानाय। प॒व॒ते॒। इ॒षे। ऊ॒र्ज्जे। प॒व॒ते॒। अ॒द्भ्यऽइत्य॒त्ऽभ्यः। ओष॑धीभ्यः। प॒व॒ते॒। द्यावा॑पृथि॒वीभ्या॑म्। प॒व॒ते॒। सु॒भूतायेति॑ सुऽभू॒ताय॑। प॒व॒ते॒। विश्वे॑भ्यः। त्वा॒। दे॒वेभ्यः॑। ए॒षः। ते॒। योनिः॑। विश्वे॑भ्यः। त्वा॒। दे॒वेभ्यः॑। २१।
महीधरः
म० ‘त्रिहिकृत्य सोमः पवत इति’ (का० ९ । ६ । | १५) हिकारत्रयं कृत्वा जपेदिति शेषः । वैश्वदेवत्यम् । सोमः | पवते । पवतिर्गत्यर्थः । सोमो गच्छति ग्रहपात्रेषु खकीये कर्मणि प्रवर्तत इत्यर्थः । द्विरुक्तिरादरार्था । किमर्थम् । अम्मै ब्रह्मणे ब्राह्मणजातिप्रीत्यर्थम् । अस्मै क्षत्राय एतत्क्षत्रियजातिप्रीत्यर्थम् । । अस्मै सुन्वते सोमाभिषवं कुर्वते यजमानाय कामप्राप्त्यर्थं पयते इषेऽन्नाय ऊर्जे तदुपसेचनाय क्षीरादये पवते निष्पत्त्यर्थमित्यर्थः । अभ्यो वृष्टिभ्यः ओषधीभ्यो व्रीहियवादिभ्यस्तत्सिद्ध्यर्थ पवते । द्यावापृथिवीभ्यां लोकद्वयत्रीणनाय पवते । किंवा बहुनोक्तेन । मुभूताय सर्वेषां साधुभवनाय पवते । हे आग्रयणग्रह, तादृशं ला खां विश्वेभ्यो देवेभ्यः सर्वदेवताप्रीत्यर्थं गृह्णामीति शेषः । | एष त इति सादयति । हे ग्रह, एष ते योनिः स्थानं विश्वेभ्यः । सर्वेभ्यो देवेभ्योऽर्थे वां सादयामीति शेषः ॥ २१॥
द्वाविंशी।
अधिमन्त्रम् (VC)
- सोमो देवता
- वत्सार काश्यप ऋषिः
- स्वराड् ब्राह्मी त्रिष्टुप्, याजुषी जगती
- धैवतः, निषादः
दयानन्द-सरस्वती (हि) - विषयः
अब राजा का कर्म्म अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् लोगो ! जैसे यह (सोमः) सोम्यगुण सम्पन्न राजा (अस्मै) इस (ब्रह्मणे) परमेश्वर वा वेद को जानने के लिये (पवते) पवित्र होता है, (अस्मै) इस (क्षत्राय) क्षत्रिय धर्म के लिये (पवते) ज्ञानवान् होता है, (अस्मै) इस (सुन्वते) समस्त विद्या के सिद्धान्त को निष्पादन (यजमानाय) और उत्तम सङ्ग करने हारे विद्वान् के लिये (पवते) निर्मल होता है, (इषे) अन्न के गुण और (ऊर्ज्जे) पराक्रम के लिये (पवते) शुद्ध होता है, (अद्भ्यः) जल और प्राण वा (ओषधीभ्यः) सोम आदि ओषधियों को (पवते) जानता है, (द्यावापृथिवाभ्यीम्) सूर्य्य और पृथिवी के लिये (पवते) शुद्ध होता है, (सुभूताय) अच्छे व्यवहार के लिये (पवते) बुरे कामों से बचता है, वैसे (सोमः) सभाजन वा प्रजाजन सबको यथोक्त जाने-माने और आप भी वैसा पवित्र रहे। हे राजन् सभ्यजन वा प्रजाजन ! जिस (ते) आप का (एषः) यह राजधर्म्म (योनिः) घर है, उस (त्वा) आप को (विश्वेभ्यः) समस्त (देवेभ्यः) विद्वानों के लिये तथा (त्वा) आप को (विश्वेभ्यः) सम्पूर्ण दिव्यगुणों के लिये हम लोग स्वीकार करते हैं ॥२१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे इन्द्रलोक सब जगत् के लिये हितकारी होता है और जैसे राजा सभा के जन और प्रजाजनों के साथ उनके उपकार के लिये धर्म्म के अनुकूल व्यवहार का आचरण करता है, वैसे ही सभ्य पुरुष और प्रजाजन राजा के साथ वर्त्तें। जो उत्तम व्यवहार, गुण और कर्म का अनुष्ठान करनेवाला होता है, वही राजा और सभा-पुरुष न्यायकारी हो सकता है तथा जो धर्मात्मा जन है, वही प्रजा में अग्रगण्य समझा जाता है। इस प्रकार ये तीनों परस्पर प्रीति के साथ पुरुषार्थ से विद्या आदि गुण और पृथिवी आदि पदार्थों से अखिल सुख को प्राप्त हो सकते हैं ॥२१॥
दयानन्द-सरस्वती (सं) - विषयः
अथ राजकृत्यमाह।
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वांसः ! यथाऽयं सोमोऽस्मै ब्रह्मणे पवतेऽस्मै क्षत्राय पवतेऽस्मै सुन्वते यजमानाय पवत इष ऊर्ज्जे पवतेऽद्भ्य ओषधीभ्यः पवते द्यावापृथिवीभ्यां पवते सुभूताय पवते, तद्वत् सोमः सभ्यजनः प्रजाजनोऽप्येतस्मै सर्वस्मै पवताम्। हे राजन् ! यस्य ते तवैष योनिरस्ति, तं त्वां विश्वेभ्यो देवेभ्यो वयं स्वीकुर्म्मस्तथा विश्वेभ्यो गुणेभ्यश्च त्वा त्वामङ्गीकुर्महे ॥२१॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा चन्द्रलोकः सर्वस्मै जगते हितकारी वर्त्तते, यथा च राजा सभ्यजनप्रजाजनाभ्यां सह तदुपकाराय धर्म्मानुकूलं व्यवहारमाचरति, तथैव सभ्यजनप्रजाजनौ राज्ञा सह वर्त्तेताम्। य उत्तमव्यवहारगुणकर्म्मानुष्ठाता भवति, स एव राजा सभ्यजनश्च न्यायाधीशो भवितुमर्हति। यो धर्म्मात्मा जनः स एव प्रजायामग्र्यो गुणनीयोऽस्त्येवमेते त्रयः परस्परं प्रीत्या पुरुषार्थेन विद्यादिगुणेभ्यः पृथिव्यादिपदार्थेभ्यश्चाखिलं प्राप्तुं शक्नुवन्ति ॥२१॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसा चंद्र सर्व जगासाठी हितकारी असतो व राजा सभासद आणि प्रजा यांच्यावर उपकार करण्यासाठी धर्मानुकूल व्यवहार करतो तसाच व्यवहार सभ्य पुरुष व प्रजा यांनी राजाबरोबर करावा. जो उत्तम व्यवहार, गुणकर्माचे अनुष्ठान करणारा असतो. तोच राजा व सभा-पुरुष न्यायी असू शकतो. जो धर्मात्मा असतो तोच प्रजेमध्ये अग्रगण्य समजला जातो. याप्रमाणे परस्पर प्रेम व पुरुषार्थाने विद्या इत्यादी प्राप्त करून पृथ्वीपासून संपूर्ण सुख प्राप्त करू शकता येते.
२२ उपयामगृहीतोऽसीन्द्राय त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा बृ॒हद्व॑ते॒ वय॑स्वतऽउक्था॒व्यं᳖ गृह्णामि। यत्त॑ऽइन्द्र बृ॒हद्वय॒स्तस्मै॑ त्वा॒ विष्ण॑वे त्वै॒ष ते॒ योनि॑रु॒क्थेभ्य॑स्त्वा दे॒वेभ्य॑स्त्वा देवा॒व्यं᳖ य॒ज्ञस्यायु॑षे गृह्णामि ॥२२॥
मूलम् ...{Loading}...
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा बृ॒हद्व॑ते॒ वय॑स्वतऽउक्था॒व्यं᳖ गृह्णामि। यत्त॑ऽइन्द्र बृ॒हद्वय॒स्तस्मै॑ त्वा॒ विष्ण॑वे त्वै॒ष ते॒ योनि॑रु॒क्थेभ्य॑स्त्वा दे॒वेभ्य॑स्त्वा देवा॒व्यं᳖ य॒ज्ञस्यायु॑षे गृह्णामि ॥२२॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृहीतः। अ॒सि॒। इन्द्रा॑य। त्वा॒। बृहद्व॑त॒ इति॑ बृहत्ऽव॑ते। वय॑स्वते। उ॒क्थाव्य᳖मित्यु॑क्थऽअ॒व्य᳖म्। गृ॒ह्णा॒मि॒। यत्। ते॒। इ॒न्द्र॒। बृ॒हत्। वयः॑। तस्मै॑। त्वा॒। विष्ण॑वे। त्वा॒। ए॒षः। ते॒। योनिः॑। उ॒क्थेभ्यः॑। त्वा॒। दे॒वेभ्यः॑। त्वा॒। दे॒वा॒व्य᳖मिति॑ देवऽअ॒व्य᳖म्। य॒ज्ञस्य॑। आयु॑षे। गृ॒ह्णा॒मि॒। २२।
महीधरः
म० ‘उक्थ्यमुपयामगृहीत इति’ (का० ९ । ६ । २०) उक्थ्यं ग्रहं गृह्णीयात् । उपयामग्रहदेवतानि यूजंषि । हे सोम, त्वमुपयामेन पात्रेण गृहीतोऽसि । हे उक्थ्यग्रह, त्वा त्वामिन्द्रार्थं गृह्णामि स्वीकरोमि । किंभूतायेन्द्राय । बृहद्वते बृहत्साम तद्वते । बृहत्सामप्रियायेत्यर्थः । तथा वयस्वते वयः सोमरूपमन्नं तद्वते । यद्वा वयो यौवनलक्षणं वीर्यसमेतं सदा तद्वते । किंभूतं त्वाम् । उक्थाव्यं उक्थानि मित्रावरुणब्राह्मणाच्छंस्यच्छावाकसंबन्धीनि शस्त्राणि अवति रक्षतीत्युक्थावीः तम् । तत्र ह्यस्य विनियोगः । किंच एवं सोममुक्त्वा इन्द्रमाह । हे इन्द्र, यत् ते तव बृहत् महत् वयोऽन्नं सोमरूपमस्ति तस्मै तत्पानार्थं त्वां प्रार्थये इति शेषः । हे सोम, विष्णवे विष्णुदेवतार्थं त्वां गृह्णामि । यद्वा हे इन्द्र, यत् ते तव बृहत् महत् ऊर्जितम् वयः यौवनलक्षणं तस्मै सोम, त्वां गृह्णामि । अत्र च ते इन्द्रेति युष्मदामन्त्रिताभ्यां प्रत्यक्ष इन्द्र उच्यते । त्वेति युष्मदा सोम उच्यते । प्रत्यक्षतः तयोः सामर्थ्यं नास्ति । ततस्ते इत्यस्य पदस्य अस्येत्यनेन व्यत्ययः । इन्द्रेत्यस्येन्द्रस्येत्यनेन पदेन व्यत्ययः । ततश्चायमर्थः । हे सोम, यदस्येन्द्रस्य बृहद्वयः तस्मै त्वां गृह्णामि । विष्णवे यज्ञाय च त्वां गृह्णामि । एष त इति सादनम् । हे ग्रह, एष ते तव योनिः स्थानमुक्थेभ्योऽर्थाय त्वां सादयामीति शेषः । ‘उक्थं विगृह्णाति त्रैधं देवेभ्यस्त्वेति सर्वेभ्य इति’ ( का० ९ । १४ । ८)। उक्थस्थालीस्थं सोमं त्रेधा विभज्य गृह्णाति । सर्वेभ्यः प्रशास्तृब्राह्मणाच्छंस्यच्छावाकेभ्यस्तत्कृतया गार्थमित्यर्थः । हे सोम, देवेभ्योऽर्थाय त्वां गृह्णामि । किंभूतं त्वाम् । देवाव्यं देवानवति तर्पयतीति देवावीस्तम् । किमर्थम् । यज्ञस्यायुषे अनवच्छिन्ना कर्मैकदोषरहिता परिसमाप्तिर्यज्ञस्यायुस्तस्मै यज्ञसमाप्तये फलपर्यन्तमवस्थानाय च गृह्णामि । यद्वा यज्ञो यजमानस्य शरीरमिति यजमानस्यायुषे गृह्णामि ॥ २२ ॥
त्रयोविंशी। :
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- वत्सार काश्यप ऋषिः
- विराड् ब्राह्मी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब कैसे मनुष्य को सेनापति करे, यह अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) सेनापते ! तू (उपयामगृहीतः) अच्छे नियमों से विद्या को पढ़नेवाला (असि) है, इस हेतु से (बृहद्वते) जिसके अच्छे बड़े-बड़े कर्म्म हैं (वयस्वते) और जिसकी दीर्घ आयु है, उस (इन्द्राय) परमैश्वर्य्यवाले सभापति के लिये (उक्थाव्यम्) प्रशंसनीय स्तोत्र वा विशेष शस्त्रविद्यावाले (त्वा) तेरा (गृह्णामि) ग्रहण जैसे मैं करता हूँ, वैसे (यत्) जो (ते) तेरा (बृहत्) अत्यन्त (वयः) जीवन है, (तस्मै) उसके पालन करने के अर्थ और (विष्णवे) ईश्वरज्ञान वा वेदज्ञान के लिये (त्वा) तुझे (गृह्णामि) स्वीकार करता हूँ और (एषः) यह सेना का अधिकार (ते) तेरा (योनिः) स्थित होने के लिये स्थान है। हे सेनापते ! (उक्थेभ्यः) प्रशंसा योग्य वेदोक्त कर्मों के लिये (त्वा) तुझे (देवेभ्यः) और विद्वानों वा दिव्य गुणों के लिये (देवाव्यम्) उनके पालन करनेवाले (त्वा) तुझ को (यज्ञस्य) राज्यपालनादि व्यवहार के (आयुषे) बढ़ाने के लिये (गृह्णामि) ग्रहण करता हूँ ॥२२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सब विद्याओं के जाननेवाले विद्वान् को योग्य है कि राज्यव्यवहार में सेना के वीर पुरुषों की रक्षा करने के लिये अच्छी शिक्षायुक्त, शस्त्र और अस्त्र विद्या में परम प्रवीण, यज्ञ के अनुष्ठान करनेवाले वीर पुरुष को सेनापति के काम में युक्त करें और सभापति तथा सेनापति को चाहिये कि परस्पर सम्मति कर के राज्य और यज्ञ को बढ़ावें ॥२२॥
दयानन्द-सरस्वती (सं) - विषयः
कीदृशं जनं सेनापतिं कुर्य्यादित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - धर्मार्थकाममोक्षानिच्छुरहं हे इन्द्र सेनापते ! त्वमुपयामगृहीतोऽस्यतो बृहद्वते वयस्वत इन्द्रायोक्थाव्यं त्वा त्वां गृह्णामि। यत् ते बृहद् वयस्तस्मै तत् पालनाय विष्णवे त्वा त्वां गृह्णामि। एष सेनाधिकारस्ते योनिरस्ति, उक्थेभ्यस्त्वा त्वां देवेभ्यो देवाव्यं त्वा त्वां यज्ञस्यायुषे वर्द्धनायापि गृह्णामि ॥२२॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सर्ववेत्ता विद्वान् राज्यव्यवहारे सैन्यवीराणां पालनाय सुशिक्षितं शस्त्रास्त्रपरमप्रवीणं यज्ञकर्म्मानुष्ठातारं वीरपुरुषं सेनापतित्वेऽभियुञ्जीयात्। सभापतिसेनापती परस्परानुमत्या राज्यं यज्ञं च वर्द्धयेतामिति ॥२२॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सर्व विद्या जाणणाऱ्या विद्वानांनी सेनेतील वीर पुरुषांचे रक्षण करण्यासाठी राज्यांमध्ये प्रशिक्षित, शस्त्रास्त्र विद्येत पारंगत व यज्ञाचे अनुष्ठान करणाऱ्या वीर पुरुषाला सेनापती नियुक्त करावे व राजा आणि सेनापतीने परस्पर संमतीने राज्य व यज्ञ यांची वाढ करावी.
२३ मित्रावरुणाभ्यां त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
मि॒त्रावरु॑णाभ्यां त्वा देवा॒व्यं᳖ य॒ज्ञस्यायु॑षे गृह्णा॒मीन्द्रा॑य त्वा देवा॒व्यं᳖ य॒ज्ञस्यायु॑षे गृह्णा॒मीन्द्रा॒ग्निभ्यां॑ त्वा देवा॒व्यं᳖ य॒ज्ञस्यायु॑षे गृह्णा॒मीन्द्रा॒वरु॑णाभ्यां त्वा देवा॒व्यं᳖ य॒ज्ञस्यायु॑षे गृह्णा॒मीन्द्रा॒बृह॒स्पति॑भ्यां त्वा देवा॒व्यं᳖ य॒ज्ञस्यायु॑षे गृह्णा॒मीन्द्रा॒विष्णु॑भ्यां त्वा देवा॒व्यं᳖ य॒ज्ञस्यायु॑षे गृह्णामि ॥२३॥
मूलम् ...{Loading}...
मि॒त्रावरु॑णाभ्यां त्वा देवा॒व्यं᳖ य॒ज्ञस्यायु॑षे गृह्णा॒मीन्द्रा॑य त्वा देवा॒व्यं᳖ य॒ज्ञस्यायु॑षे गृह्णा॒मीन्द्रा॒ग्निभ्यां॑ त्वा देवा॒व्यं᳖ य॒ज्ञस्यायु॑षे गृह्णा॒मीन्द्रा॒वरु॑णाभ्यां त्वा देवा॒व्यं᳖ य॒ज्ञस्यायु॑षे गृह्णा॒मीन्द्रा॒बृह॒स्पति॑भ्यां त्वा देवा॒व्यं᳖ य॒ज्ञस्यायु॑षे गृह्णा॒मीन्द्रा॒विष्णु॑भ्यां त्वा देवा॒व्यं᳖ य॒ज्ञस्यायु॑षे गृह्णामि ॥२३॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मि॒त्रावरु॑णाभ्याम्। त्वा॒। दे॒वा॒व्य᳖मिति॑ देवऽअ॒व्य᳖म्। य॒ज्ञस्य॑। आयु॑षे। गृ॒ह्णा॒मि॒। इन्द्रा॑य। त्वा॒। दे॒वा॒व्य᳖मिति॑ देवऽअ॒व्य᳖म्। य॒ज्ञस्य॑। आयु॑षे। गृ॒ह्णा॒मि॒। इ॒न्द्रा॒ग्निभ्या॒मिती॑न्द्रा॒ग्निऽभ्या॑म्। त्वा॒। दे॒वा॒व्य᳖मिति॑ देवऽअ॒व्य᳖म्। य॒ज्ञस्य॑। आयु॑षे। गृ॒ह्णा॒मि॒। इन्द्रा॒वरु॑णाभ्याम्। त्वा॒। दे॒वा॒व्य᳖मिति॑ देवऽअ॒व्य᳖म्। य॒ज्ञस्य॑। आयु॑षे। गृ॒ह्णा॒मि॒। इन्द्रा॒बृह॒स्पति॑भ्या॒मितीन्द्राबृह॒स्पति॑ऽभ्याम्। त्वा॒। दे॒वा॒व्य᳖मिति॑ देवऽअ॒व्य᳖म्। य॒ज्ञस्य॑। आयु॑षे। गृ॒ह्णा॒मि॒। इन्द्रा॒विष्णु॑भ्या॒मितीन्द्रा॒विष्णुभ्या॒मितीन्द्रा॒विष्णु॑ऽभ्याम्। त्वा॒। दे॒वा॒व्य᳖मिति॑ देवऽअ॒व्य᳖म्। य॒ज्ञस्य॑। आयु॑षे। गृ॒ह्णा॒मि॒। २३।
महीधरः
म० ‘मित्रावरुणाभ्यां त्वेति वा प्रशास्त्र इति’ ( ९ । १४ । ‘९) । मैत्रावरुणायोक्थ्यविग्रहे मन्त्रविकल्पः । मित्रावरुणाभ्यामर्थे देवाव्यं देवतर्पकं वां यज्ञस्यायुषे गृह्णामि । एवं प्रतिप्रस्थातोत्तराभ्यामिन्द्राय त्वेति ब्राह्मणाच्छᳪं᳭सिन इन्द्राग्निभ्यां त्वेत्यच्छावाकायेति’ (का० ९ । १४ । १५) ब्राह्मणाच्छंस्यच्छवा
काभ्यां मन्त्रविकल्पावेवम् । इन्द्राय त्वां गृह्णामि इन्द्राग्निभ्यामर्थे त्वां गृह्णामि । शेषं पूर्ववत् । ‘उत्तरेष्विन्द्रावरुणाभ्यामिन्द्राबृहस्पतिभ्यामिन्द्राविष्णुभ्यामिति’ (का० १०।७।११) उक्थ्यादिसोमसंस्थेषु मैत्रावरुणादीनां तृतीयसवने उक्थ्यविग्रहमन्त्राः। इन्द्रावरुणयोरर्थे त्वां देवाव्यं यज्ञस्यायुषे गृह्णामि । एवमिन्द्रबृहस्पतिभ्यामर्थे त्वां गृह्णामि । इन्द्राविष्णुभ्यामर्थे त्वां गृह्णामि । मित्रावरुणाभ्यामित्यादौ ‘देवताद्वन्द्वे च’ (पा० ६।३ । २६) इति पूर्वपदान्तस्य दीर्घः ॥ २३ ॥
चतुर्विशी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- वत्सार काश्यप ऋषिः
- अनुष्टुप्, प्राजापत्या अनुष्टुप्, स्वराट् साम्नी अनुष्टुप्, भुरिग् आर्ची गायत्री, भुरिक् साम्नी अनुष्टुप्
- षड्जः, गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
सब विद्याओं में प्रवीण पुरुष को सभा का अधिकारी करे, यह अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सभापते ! धर्म, अर्थ, काम और मोक्ष की इच्छा करनेवाला मैं (यज्ञस्य) अग्निहोत्र से लेकर राज्य पालन पर्य्यन्त यज्ञ की (आयुषे) उन्नति होने के लिये (मित्रावरुणाभ्याम्) मित्र और उत्तम विद्यायुक्त पुरुषों के अर्थ (देवाव्यम्) विद्वानों की रक्षा करनेवाले (त्वा) तुझको (गृह्णामि) स्वीकार करता हूँ। हे सेनापते विद्वन् ! (यज्ञस्य) सत्संगति करने की (आयुषे) उन्नति के लिये (इन्द्राय) परमैश्वर्य्यवान् पुरुष के अर्थ (देवाव्यम्) विद्वानों की रक्षा करनेवाला (त्वा) तुझ को (गृह्णामि) ग्रहण करता हूँ। हे शस्त्रास्त्रविद्या के जाननेवाले प्रवीण ! (यज्ञस्य) शिल्पविद्या के कामों की सिद्धि की (आयुषे) प्राप्ति के लिये (इन्द्राग्निभ्याम्) बिजुली और प्रसिद्ध आग के गुण प्रकाश होने के अर्थ (देवाव्यम्) दिव्य विद्या बोध की रक्षा करनेवाले (त्वा) तुझको (गृह्णामि) ग्रहण करता हूँ। हे शिल्पिन् ! (यज्ञस्य) क्रिया-चतुराई का (आयुषे) ज्ञान होने के (इन्द्रावरुणाभ्याम्) बिजुली और जल के गुण प्रकाश होने के अर्थ (देवाव्यम्) उन की विद्या जाननेवाले (त्वा) तुझ को (गृह्णामि) ग्रहण करता हूँ। हे अध्यापक ! (यज्ञस्य) पढ़ने-पढ़ाने की (आयुषे) उन्नति के लिये (इन्द्राबृहस्पतिभ्याम्) राजा और शस्त्रवेत्ताओं के अर्थ (देवाव्यम्) प्रशंसित योगविद्या के जानने और प्राप्त करानेवाले (त्वा) तुझको (गृह्णामि) ग्रहण करता हूँ। हे विद्वन् ! (यज्ञस्य) विज्ञान की (आयुषे) बढ़ती के लिये (इन्द्राविष्णुभ्याम्) ईश्वर और वेदशास्त्र के जानने के अर्थ (देवाव्यम्) ब्रह्मज्ञानी को तृप्त करनेवाले (त्वा) तुझको (गृह्णामि) ग्रहण करता हूँ ॥२३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - प्रजाजनों को उचित है कि सकल शास्त्र का प्रचार होने के लिये सब विद्याओं में कुशल और अत्यन्त ब्रह्मचर्य्य के अनुष्ठान करनेवाले पुरुष को सभापति करें और यह वह सभापति भी परम प्रीति के साथ सकल शास्त्र का प्रचार करता-कराता रहे ॥२३॥
दयानन्द-सरस्वती (सं) - विषयः
सर्वविद्याप्रवीणं सभापतिं कुर्य्यादित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सभापते ! धर्मार्थकाममोक्षानिच्छुरहं यज्ञस्यायुषे मित्रावरुणाभ्यां देवाव्यं त्वां गृह्णामि। हे सेनापते विद्वन् ! यज्ञस्यायुष इन्द्राय देवाव्यं त्वा गृह्णामि। हे शस्त्रास्त्रविद्याविद् यज्ञस्यायुष इन्द्राग्निभ्यां देवाव्यं त्वा त्वां गृह्णामि। हे शिल्पिन् ! यज्ञस्यायुष इन्द्रावरुणाभ्यां देवाव्यं त्वा त्वां गृह्णामि तथा यज्ञस्यायुष इन्द्राबृहस्पतिभ्यां देवाव्यं त्वा त्वां गृह्णामि। हे विद्वन् ! यज्ञस्यायुष इन्द्राविष्णुभ्यां देवाव्यं त्वा त्वां गृह्णामि ॥२३॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - प्रजाजनैः सकलशास्त्रप्रचाराय सर्वविद्याकुशलोऽतिशयितब्रह्मचर्य्यादिकर्म्मानुष्ठाता सभाध्यक्षः कर्त्तव्यः, सोऽपि प्रीत्या सकलशास्त्रं प्रचारयेत् ॥२३॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सर्व शास्त्रांचा प्रसार होण्यासाठी प्रजेने सर्व विद्येत प्रवीण व अखंड ब्रह्मचारी पुरुषाला राजा करावे व राजाने अत्यंत प्रेमाने सर्व शास्त्रांचा प्रसार, प्रसार करावा.
२४ मूर्द्धानं दिवोऽअरतिम्
विश्वास-प्रस्तुतिः ...{Loading}...
मू॒र्द्धानं॑ दि॒वोऽअ॑र॒तिं पृ॑थि॒व्या वै॑श्वान॒रमृ॒तऽआ जा॒तम॒ग्निम्। क॒विँ स॒म्राज॒मति॑थिं॒ जना॑नामा॒सन्ना पात्रं॑ जनयन्त दे॒वाः ॥२४॥
मूलम् ...{Loading}...
मू॒र्द्धानं॑ दि॒वोऽअ॑र॒तिं पृ॑थि॒व्या वै॑श्वान॒रमृ॒तऽआ जा॒तम॒ग्निम्। क॒विँ स॒म्राज॒मति॑थिं॒ जना॑नामा॒सन्ना पात्रं॑ जनयन्त दे॒वाः ॥२४॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मू॒र्द्धान॑म्। दि॒वः। अ॒र॒तिम्। पृ॒थि॒व्याः। वै॒श्वा॒न॒रम्। ऋ॒ते। आ। जा॒तम्। अ॒ग्निम्। क॒विम्। स॒म्राज॒मिति॑ स॒म्ऽराज॑म्। अति॑थिम्। जना॑नाम्। आ॒सन्। आ। पात्र॑म्। ज॒न॒य॒न्त॒। दे॒वाः। २४।
महीधरः
म० ‘ध्रुवं मूर्धानं दिव इति’ (का० ९ । ६ । २१) ध्रुवसंज्ञं ग्रहं गृह्णीयात् । वैश्वानरदेवत्या त्रिष्टुब्भरद्वाजदृष्टा । वैश्वानरश्चात्र सर्वात्मना स्तूयते । देवा ईदृशमग्निं जनयन्त उत्पादितवन्तः । अडागमाभाव आर्षः । किंभूतमग्निम् । दिवो मूर्धानं द्युलोकस्य शिरोवदुन्नतप्रदेशे सूर्यरूपेणावस्थाय भासकम् । तथा पृथिव्या अरतिम् रतिरुपरतिस्तद्रहितम् । नहि पृथिव्या उपरि कदाचिदप्यग्निरुपरमते किंतु दाहपाकप्रकाशैः सर्वाननुगृह्णन् सर्वदा वर्तत एव । यद्वा पृथिवीशब्देनान्तरिक्षमुच्यते । आकाशं आपः पृथिवीत्यन्तरिक्षनाममु पठितत्वात् पृथिव्या अन्तरिक्षस्यारतिमलमतिं पर्याप्तमतिं पूरकमित्यर्थः । तत्र स्थितोऽसौ यथाकालं वृष्ट्या भूतानि पुष्णाति तथा वैश्वानरं विश्वेभ्यः सर्वेभ्यो नरेभ्यो हितो वैश्वानरस्तम् । जठराग्निरूपेणान्नपाचकत्वात् । तथा ऋते यज्ञे यज्ञनिमित्तं आजातम् उत्पन्नमरणिद्वयात् । तथा कविं क्रान्तदर्शनं स्वभक्ताननुग्रहीतुमभिज्ञमित्यर्थः । तथा सम्राजं सम्यग्दीप्यमानमैश्वर्येण युक्तमित्यर्थः । तथा जनानां यजमानानामतिथिं हविर्भिः सत्कारयोग्यम् । विज्ञायते हि अग्निरतिथिरूपेण गृहान्प्रविशति तस्मात्तस्योदकमाहरन्ति । आसन् आपात्रम् आस्यशब्दस्य सप्तम्येकवचने ‘पद्दन्न-’ (पा० ६ । १ । ६३) इति सूत्रेणासन्-आदेशः ‘सुपां सुलुक’ (पा० ७१ । ३९) इति सप्तमीलोपः । आसन् आसनि आस्ये मुखे आपात्रम् आभिमुख्येन पीयतेऽनेनेत्यापात्रम् । ‘विज्ञायते हि चमसो देवपान इति चमसेन ह वा एतेन भूतेन देवा भक्षयन्ति’ (१।४ । २ । १४ ) इति श्रुतेः । ईदृशमग्निं देवा इन्द्रादयोऽजनयन्तेत्यर्थः ॥ २४ ॥
पञ्चविंशी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- भरद्वाज ऋषिः
- आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
इसके अनन्तर विद्वानों का कर्म्म अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जैसे (देवाः) धनुर्वेद के जाननेवाले विद्वन् लोग उस धनुर्वेद की शिक्षा से (दिवः) प्रकाशमान सूर्य के (मूर्द्धानम्) शिर के समान (पृथिव्याः) पृथिवी के गुणों को (अरतिम्) प्राप्त होनेवाले (ऋते) सत्य मार्ग में (आजातम्) सत्य व्यवहार में अच्छे प्रकार प्रसिद्ध (वैश्वानरम्) समस्त मनुष्यों को आनन्द पहुँचाने और (जनानाम्) सत्पुरुषों के (अतिथिम्) अतिथि के समान सत्कार करने योग्य और (आसन्) अपने शुद्ध यज्ञरूप मुख में (पात्रम्) समस्त शिल्प-व्यवहार की रक्षा करने (कविम्) और अनेक प्रकार से प्रदीप्त होनेवाले (अग्निम्) शुभगुण प्रकाशित अग्नि को (सम्राजम्) एकचक्र राज्य करनेवाले के समान (आ) अच्छे प्रकार से (जनयन्त) प्रकाशित करते हैं, वैसे सब मनुष्यों को करना योग्य है ॥२४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे सत्पुरुष धनुर्वेद के जाननेवाले परोपकारी विद्वान् लोग धनुर्वेद में कही हुई क्रियाओं से यानों और शस्त्रास्त्र विद्या में अनेक प्रकार से अग्नि को प्रदीप्त कर शत्रुओं को जीता करते हैं, वैसे ही अन्य सब मनुष्यों को भी अपना आचरण करना योग्य है ॥२४॥
दयानन्द-सरस्वती (सं) - विषयः
अथ विद्वत्कृत्यमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यथा देवा धनुर्विदो विद्वांसो धनुर्वेदशिक्षया दिवो मूर्द्धानं पृथिव्या अरतिमृतमाजातं वैश्वानरं जनानामतिथिमासन् पात्रं कविमग्निं सम्राजमिवाजनयन्त तथा सर्वैरनुष्ठेयम् ॥२४॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा सत्पुरुषा धनुर्वेदज्ञाः परोपकारिणो विद्वांसो धनुर्वेदोक्तक्रियाभिर्यानेषु शस्त्रास्त्रविद्यायां चानेकधाग्निं प्रदीप्य शत्रून् विजयन्ते, तथैवान्यैरपि सर्वैर्जनैराचरणीयम् ॥२४॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. ज्याप्रमाणे धनुर्वेदाचे उत्तम जाणकार, परोपकारी विद्वान लोक धनुर्वेदानुसार अग्नी प्रदीप्त करून याने व शस्त्रास्त्रे यामध्ये तो वापरतात आणि शत्रूंना जिंकतात तसेच इतर माणसांनीही वागावे.
२५ उपयामगृहीतोऽसि ध्रुवोऽसि
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒प॒या॒मगृ॑हीतोऽसि ध्रु॒वो᳖ऽसि ध्रु॒वक्षि॑तिर्ध्रु॒वाणां॑ ध्रु॒वत॒मोऽच्यु॑तानामच्युत॒क्षित्त॑मऽए॒ष ते॒ योनि॑र्वैश्वान॒राय॑ त्वा। ध्रु॒वं ध्रु॒वेण॒ मन॑सा वा॒चा सोम॒मव॑नयामि। अथा॑ न॒ऽइन्द्र॒ऽइद्विशो॑ऽसप॒त्नाः सम॑नस॒स्कर॑त् ॥२५॥
मूलम् ...{Loading}...
उ॒प॒या॒मगृ॑हीतोऽसि ध्रु॒वो᳖ऽसि ध्रु॒वक्षि॑तिर्ध्रु॒वाणां॑ ध्रु॒वत॒मोऽच्यु॑तानामच्युत॒क्षित्त॑मऽए॒ष ते॒ योनि॑र्वैश्वान॒राय॑ त्वा। ध्रु॒वं ध्रु॒वेण॒ मन॑सा वा॒चा सोम॒मव॑नयामि। अथा॑ न॒ऽइन्द्र॒ऽइद्विशो॑ऽसप॒त्नाः सम॑नस॒स्कर॑त् ॥२५॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उ॒प॒या॒मगृ॑हीत इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। ध्रु॒वः। अ॒सि॒। ध्रु॒वक्षि॑ति॒रिति॑ ध्रु॒वऽक्षि॑तिः। ध्रु॒वाणा॑म्। ध्रु॒वत॑म॒ इति॑ ध्रु॒वऽतमः॑। अच्यु॑तानाम्। अ॒च्युत॒क्षित्त॑म॒ इत्य॑च्युत॒क्षित्ऽत॑मः। ए॒षः। ते॒। योनिः॑। वै॒श्वा॒न॒राय॑। त्वा॒। ध्रु॒वम्। ध्रु॒वेण॑। मन॑सा। वा॒चा। सोम॑म्। अव॑। न॒या॒मि॒। अथ॑। नः॒। इन्द्रः॑। इत्। विशः॑। अ॒स॒प॒त्नाः। सम॑नस॒ इति॑ सऽम॑नसः। कर॑त्। २५।
महीधरः
म० ध्रुवदैवतं यजुः ध्रुवग्रहण एव विनियुक्तम् । हे सोम, त्वमुपयामेन पात्रेण गृहीतोऽसि ध्रुवोऽसि ध्रुवनामकोऽसि । कीदृशस्त्वम् । ध्रुवा स्थिरा क्षितिनिवासो यस्य स ध्रुवक्षितिः । ‘क्षि निवासगत्योः’ स्थिरनिवासः आ वैश्वदेवीशंसनप्रस्थानात् । तथा ध्रुवाणामादित्यस्थाल्यादीनां मध्ये ध्रुवतमः अतिशयेन स्थिरः । तथा अच्युतानां च्युतिरहितानां क्षरणशून्यानां मध्ये अच्युतक्षित्तमः । अच्युते च्युतिरहिते पात्रे क्षियति निवसतीति अच्युतक्षित् अतिशयेनाच्युतक्षित् अच्युतक्षित्तमः । एष त इति सादनम् । हे ग्रह, एष ते योनिः स्थानं वैश्वानरायाग्नये ’ त्वा त्वां सादयामि । ‘ध्रुवᳪं᳭ होतृचमसेऽवनयति ध्रुवं ध्रुवेणेति’ । ध्रुवपात्रस्थं सर्व सोमं होतृचमसे सिञ्चेत् । बृहती पूर्वोऽर्धर्चो ध्रुवदैवतः उत्तर ऐन्द्रः । प्रथमतृतीयावष्टाक्षरौ पादौ द्वितीयचतुर्थौ दशाक्षरौ सा बृहती ‘वैराजौ गायत्रौ च’ इति पिङ्गलोक्तेः । ध्रुवेणैकाग्रेण मनसा वाचा तन्मन्त्रोच्चारणप्रवणया ध्रुवं ध्रुवग्रहेऽवस्थितं सोममवनयामि होतृचमसेऽवसिञ्चामि । यद्वा ध्रुवं ग्रहं सोमं होतृचमसस्थं प्रत्यवनयामि । अथा अनन्तरमिन्द्र इत् । इदेवार्थे । इन्द्र एव नोऽस्माकं विशः प्रजाः ईदृशीः करत् । ‘इतश्च लोपः परस्मैपदेषु’ (पा० ३।४ । ९७) इतीलोपः . ‘लेटोऽडाटौ’ (पा० ३ । ४ । ९४ ) इत्यडागमः । कीदृशीर्विशः । असपत्नाः नास्ति सपत्नो यासां ताः सपत्नरहिताः शत्रुशून्याः । तथा समनसः समानं मनो यासां ताः स्थिरमनस्काः । धृतियुक्ता इत्यर्थः ॥ २५॥
षड़्विंशी। ।
अधिमन्त्रम् (VC)
- वैश्वनरो देवता
- भरद्वाज ऋषिः
- याजुषी अनुष्टुप्, विराड् आर्षी बृहती
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब अगले मन्त्र में ईश्वर के गुणों का उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे परमेश्वर ! आप (उपयामगृहीतः) शास्त्रप्राप्त नियमों से स्वीकार किये जाते (असि) हैं, ऐसे ही (ध्रुवः) स्थिर (असि) हैं कि (ध्रुवक्षितिः) जिन आप में भूमि स्थिर हो रही है और (ध्रुवाणाम्) स्थिर आकाश आदि पदार्थों में (ध्रुवतमाः) अत्यन्त स्थिर (असि) हैं तथा (अच्युतानाम्) जगत् का अविनाशी कारण और अनादि सिद्ध जीवों में (अच्युतक्षित्तमः) अतिशय करके अविनाशीपन बसानेवाले हैं। (एषः) यह सत्य के मार्ग का प्रकाश (ते) आप के (योनिः) निवास-स्थान के समान है। (वैश्वानराय) समस्त मनुष्यों को सत्य मार्ग में प्राप्त करानेवाले वा इस राज्यप्रकाश के लिये (ध्रुवेण) दृढ़ (मनसा) मन और (वाचा) वाणी से (सोमम्) समस्त जगत् के उत्पन्न करानेवाले (त्वा) आप को (ध्रुवम्) निश्चयपूर्वक जैसे हो वैसे (अवनयामि) स्वीकार करता हूँ। (अथ) इसके अनन्तर (इन्द्रः) सब दुःख के विनाश करनेवाले आप (नः) हमारे (विशः) प्रजाजनों को (असपत्नाः) शत्रुओं से रहित और (समनसः) एक मन अर्थात् एक दूसरे के चाहनेवाले (इत्) ही (करत्) कीजिये ॥२५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो नित्य पदार्थों में नित्य और स्थिरों में भी स्थिर परमेश्वर है, उस समस्त जगत् के उत्पन्न करनेवाले परमेश्वर की प्राप्ति और योगाभ्यास के अनुष्ठान से ही ठीक-ठीक ज्ञान हो सकता है, अन्यथा नहीं ॥२५॥
दयानन्द-सरस्वती (सं) - विषयः
अथेश्वरगुणा उपदिश्यन्ते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे परमेश्वर ! त्वमुपयामगृहीतोऽसि ध्रुवोऽसि ध्रुवक्षितिर्ध्रुवाणां ध्रुवतमस्तथा चाच्युतानामच्युतक्षित्तमोऽसि। एष ते योनिरस्ति। अस्मै वैश्वानराय राज्यप्रकाशकाय ध्रुवेण मनसा ध्रुवया वाचा च सोमं त्वां ध्रुवमवनयामि। अथेन्द्रो भवान् नो विशोऽसपत्नाः समनस इदेव करत् करोतु ॥२५॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - योऽनित्यानां नित्यो ध्रुवाणामपि ध्रुवः परमेश्वरस्तस्य सर्वजगत्प्रेरकस्येश्वरस्य प्राप्त्या योगाभ्यासानुष्ठानेन चैव विज्ञानं जायते नान्यथा ॥२५॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जो नित्य पदार्थात नित्य आहे व स्थिर पदार्थामध्ये स्थिर आहे व ज्याने जगाला उत्पन्न केले आहे अशा परमेश्वराची प्राप्ती व योगाभ्यासाच्या अनुष्ठानाने खरे खरे ज्ञान होऊ शकते. अन्यथा ज्ञानप्राप्ती होऊ शकत नाही.
२६ यस्ते द्रप्स
विश्वास-प्रस्तुतिः ...{Loading}...
यस्ते॑ द्र॒प्स स्कन्द॑ति॒ यस्ते॑ऽअँ॒शुर्ग्राव॑च्युतो धि॒षण॑योरु॒पस्था॑त्। अ॒ध्व॒र्योर्वा॒ परि॑ वा॒ यः प॒वित्रा॒त्तं ते॑ जुहोमि॒ मन॑सा॒ वष॑ट्कृतँ॒ स्वाहा॑ दे॒वाना॑मुत्क्रम॑णमसि ॥२६॥
मूलम् ...{Loading}...
यस्ते॑ द्र॒प्स स्कन्द॑ति॒ यस्ते॑ऽअँ॒शुर्ग्राव॑च्युतो धि॒षण॑योरु॒पस्था॑त्। अ॒ध्व॒र्योर्वा॒ परि॑ वा॒ यः प॒वित्रा॒त्तं ते॑ जुहोमि॒ मन॑सा॒ वष॑ट्कृतँ॒ स्वाहा॑ दे॒वाना॑मुत्क्रम॑णमसि ॥२६॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यः। ते॒। द्र॒प्सः। स्कन्द॑ति। यः। ते॒। अँ॒शुः। ग्राव॑च्युत॒ इति॒ ग्राव॑ऽच्युतः। धि॒षण॑योः। उ॒पस्था॒दित्यु॒पऽस्था॑त्। अ॒ध्व॒र्य्योः। वा॒। परि॑। वा॒। यः। प॒वित्रा॑त्। तम्। ते॒। जु॒हो॒मि॒। मन॑सा। वष॑ट्कृत॒मिति॒ वष॑ट्ऽकृतम्। स्वाहा॑। दे॒वाना॑म्। उ॒त्क्रम॑ण᳖मित्यु॒त्ऽक्रम॑णम्। अ॒सि॒। २६।
महीधरः
म० ‘यस्त इति विप्रुषाᳪं᳭ होमं जुह्वतीति’ ( का० ९ । । २८) अभिषवे ग्रहणे च पतितानां सोमबिन्दूनां ग्रहणाशक्यत्वात्तत्प्रत्यवायपरिहाराय घृतहोमस्य विप्रुड्ढोम इति संज्ञा तमध्वर्य्वादयो जुह्वति । सौमी त्रिष्टुप् स्वाहेति यजुरन्ता देवश्रवोदृष्टा । हे सोम, ते तव यो द्रप्सः रसैकदेशः स्कन्दति भूमावन्यत्र वा पतति । यश्च ते तवांशुः खण्डः । ग्रावच्युतः ग्राव्णः सकाशात्पतितः। यश्च अधिषवणयोः अधिषवणफलकयोरुपस्थादुत्सङ्गात्स्कन्दति । वाथवा य अंशुरध्वर्योः सकाशात्स्कन्दति । वाथवा यः अंशुः पवित्रात्परिस्कन्दति । यतः कुतश्चित्परिस्कन्दतीति भावः । हे सोम, ते तव तं द्रप्समंशुं च स्वाहाकारेण जुहोमि । किंभूतं तम् । मनसा वषट्कृतं संकल्पितं वषट्कारेण च स्वाहाकारेण च जुहोमीत्यर्थः । ‘अन्यतरत्तृणं चात्वाले प्रास्यतीति’ (का० ९ । ६ । ३२)। अध्वर्युणा वेदार्थे तृणे गृहीते तयोरेकं चात्वाले क्षिपेत् । चात्वालदैवतम् । हे चात्वाल, त्वं देवानामुत्क्रमणमसि उत्क्रामन्ति गच्छन्ति स्वर्गं यस्मात्तदुत्क्रमणं देवास्त्वत्तः स्वर्गं गच्छन्ति ‘अतो हि देवाः स्वर्गमुपोदक्रामन्’ (४ । २ । ५ । ५) इति श्रुतेः ॥ २६ ॥
सप्तविंशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- देवश्रवा ऋषिः
- स्वराड् ब्राह्मी बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
अब ईश्वर यज्ञ के अनुष्ठान करनेवाले को उपदेश करता है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे यज्ञपते ! (यः) जो (ते) तेरा (द्रप्सः) यज्ञ के पदार्थों का समूह (स्कन्दति) पवन के साथ सब जगह में प्राप्त होता है और (यः) जो (ते) तेरे यज्ञ से युक्त (ग्रावच्युतः) मेघमण्डल से छूटा हुआ (अंशुः) यज्ञ के पदार्थों का विभाग (धिषणयोः) प्रकाश और भूमि के (पवित्रात्) पवित्र (उपस्थात्) गोद के समान स्थान से (वा) अथवा (यः) जो (अध्वर्य्योः) यज्ञ करनेवालों से (वा) अथवा (परि) सब से प्रकाशित होता है, इससे (तम्) उस यज्ञ को मैं (ते) तेरे लिये (स्वाहा) सत्यवाणी और (मनसा) मन से (वषट्कृतम्) किये हुए संकल्प के समान (जुहोमि) देता हूँ अर्थात् उसके फलदायक होने से तेरे लिये उस पदार्थ को पहुँचाता हूँ, जिसलिये यज्ञ का अनुष्ठान करने हारा तू (देवानाम्) विद्वानों के लिये (उत्क्रमणम्) ऊँची श्रेणी को प्राप्त करनेवाले ऐश्वर्य्य के समान (असि) है, इससे तुझ को सुख प्राप्त होता है ॥२६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। होता आदि विद्वान् लोग अत्यन्त दृढ़ सामग्री से यज्ञ करते हुए जिन सुगन्धि आदि पदार्थों को अग्नि में छोड़ते हैं, वे पवन और जलादि पदार्थों को पवित्र कर उसके साथ पृथिवी पर आ सब प्रकार के रोगों को निवृत्त करके सब प्राणियों को आनन्द देते हैं। इस कारण सब मनुष्यों को इस यज्ञ का सदा सेवन करना चाहिये ॥२६॥
दयानन्द-सरस्वती (सं) - विषयः
अथेश्वरो यज्ञानुष्ठातारमुपदिशति ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे यज्ञपते ! द्रप्स स्कन्दति वायुना सह सर्वत्र गच्छति, यश्च ते ग्रावाच्युतोंऽशुर्धिषणयोः पवित्रादुपस्थाद् यो वा अध्वर्य्योः सकाशात् परितो वा प्रकाशते, यस्मात् तमहं ते स्वाहा मनसा वषट्कृतं जुहोमि, तत्फलदानेन तुभ्यं प्रयच्छामि, यतस्त्वं यज्ञानुष्ठाता देवानामुत्क्रमणमिवासि ॥२६॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। होत्रादयो विद्वांसोऽतीव दृढया सामग्र्या यज्ञमनुष्ठीयमानान् सुरभियुक्तान् पदार्थानग्नौ प्रक्षिपन्ति, ते जलवायू संशोध्य मेघेन सह पृथिवीं प्राप्य सर्वान् रोगान्निवर्त्त्य सर्वान् प्राणिन आनन्दयन्ति। अतः सर्वैर्मनुष्यैरयं यज्ञः सदा सेव्यः ॥२६॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. होता इत्यादी विद्वान दृढनिश्चयी लोक सामग्री व सुगंधी पदार्थ अग्नीत घालून यज्ञ करतात. ते पदार्थ वायू व जल यांना पवित्र करून पृथ्वीवर येतात व सर्व प्रकारचे रोग नाहीसे करून सर्व प्राण्यांना आनंदी करतात. म्हणून सर्व माणसांनी नेहमी यज्ञ केला पाहिजे.
२७ प्राणाय मे
विश्वास-प्रस्तुतिः ...{Loading}...
प्रा॒णाय॑ मे वर्चो॒दा वर्च॑से पवस्व व्या॒नाय॑ मे वर्चो॒दा वर्च॑से पवस्वोदा॒नाय॑ मे वर्चो॒दा वर्च॑से पवस्व वा॒चे मे॑ वर्चो॒दा वर्च॑से पवस्व॒ क्रतू॒दक्षा॑भ्यां मे वर्चो॒दा वर्च॑से पवस्व॒ श्रोत्रा॑य मे वर्चो॒दा वर्च॑से पवस्व॒ चक्षु॑र्भ्यां मे वर्चो॒दसौ॒ वर्च॑से पवेथाम् ॥२७॥
मूलम् ...{Loading}...
प्रा॒णाय॑ मे वर्चो॒दा वर्च॑से पवस्व व्या॒नाय॑ मे वर्चो॒दा वर्च॑से पवस्वोदा॒नाय॑ मे वर्चो॒दा वर्च॑से पवस्व वा॒चे मे॑ वर्चो॒दा वर्च॑से पवस्व॒ क्रतू॒दक्षा॑भ्यां मे वर्चो॒दा वर्च॑से पवस्व॒ श्रोत्रा॑य मे वर्चो॒दा वर्च॑से पवस्व॒ चक्षु॑र्भ्यां मे वर्चो॒दसौ॒ वर्च॑से पवेथाम् ॥२७॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्रा॒णाय॑। मे॒। व॒र्चो॒दा इति॑ वर्चः॒ऽदाः। वर्च॑से। प॒व॒स्व॒। व्या॒नायेति॑ विऽआ॒नाय॑। मे॒। व॒र्चो॒दा इति॑ वर्चः॒ऽदाः। वर्च॑से। प॒व॒स्व॒। उ॒दा॒नायेत्यु॑त्ऽआ॒नाय॑। मे॒। व॒र्चो॒दा इति॑ वर्च॒ऽदाः। वर्च॑से। प॒व॒स्व॒। वा॒चे। मे॒। व॒र्चो॒दा इति वर्चः॒ऽदाः। वर्च॑से। प॒व॒स्व॒। क्रतू॒दक्षा॑भ्याम्। मे॒। व॒र्चो॒दा इति॑ वर्चः॒ऽदाः। वर्च॑से। प॒व॒स्व॒। श्रोत्रा॑य। मे॒। व॒र्चो॒दा इति॑ वर्चः॒ऽदाः। वर्च॑से। प॒व॒स्व॒। चक्षु॑र्भ्या॒मिति॒ चक्षुः॑ऽभ्याम्। मे॒। व॒र्चो॒दसा॒विति॑ वर्चः॒ऽदसौ॑। वर्च॑से। प॒वे॒था॒म्। २७।
महीधरः
म० ‘ग्रहानवेक्षयति यथागृहीतमवकाशान् वाचयन् प्राणायाम इति प्रतिमन्त्रमिति (का० ९ । ७ । ९) प्राणायेत्यादयो मन्त्रा अवकाशसंज्ञास्तान्वाचयेत् । ग्रहणक्रमेण ग्रहान्यजमानं दर्शयति । लिङ्गोक्तदेवतान्येकादश । यज्ञस्यैते प्राणास्तान्प्राणरूपेण दर्शयति । हे उपांशो, यस्त्वं स्वभावत एव वर्चोदाः तेजसो दाता सः वं मे मम प्राणाय हृदयस्थितवायोर्वर्चसे पवस्व प्रवर्तस्व । उपांशुसवनम् । व्यानाय मे सर्वशरीरगतवायवे पवस्व । अन्यत्पूर्ववत् । अन्तर्यामं कण्ठदेशस्थो वायुरुदानः ऐन्द्रवायवम् । वागिन्द्रियाय मैत्रावरुणम् । क्रतुः कामः दक्षस्तस्य समृद्धिः तद्द्व्यसाधनरूपाय वर्चसे प्रवर्तस्व । आश्विनं श्रोत्राय श्रोत्रेन्द्रियाय । शुक्रामन्थिनौ युगपत् हे शुक्रामन्थिनौ, मे मम चक्षुषोः पाटवाय तद्रूपाय वर्चसे युवां पवेथां प्रवर्तेथाम् ॥ २७ ॥
अष्टाविंशी।
अधिमन्त्रम् (VC)
- यज्ञपतिर्देवता देवता
- देवश्रवा ऋषिः
- आसुरी अनुष्टुप्, आसुरी उष्णिक्, साम्नी गायत्री, आसुरी गायत्री
- ऋषभः, षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर पठन-पाठन यज्ञ के करनेवाले का विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (वर्चोदाः) यथायोग्य विद्या पढ़ने-पढ़ाने रूप यज्ञकर्म करनेवाले ! आप (मे) मेरे (प्राणाय) हृदयस्थ जीवन के हेतु प्राणवायु और (वर्चसे) वेदविद्या के प्रकाश के लिये (पवस्व) पवित्रता से वर्तें। हे (वर्चोदाः) ज्ञानदीप्ति के देनेवाले जाठराग्नि के समान आप (मे) मेरे (व्यानाय) सब शरीर में रहनेवाले पवन और (वर्चसे) अन्न आदि पदार्थों के लिये (पवस्व) पवित्रता से प्राप्त होवें। हे (वर्चोदाः) विद्याबल देनेवाले ! आप (मे) (उदानाय) श्वास से ऊपर को आनेवाले उदान-संज्ञक पवन और (वर्चसे) पराक्रम के लिये (पवस्व) ज्ञान दीजिये। हे (वर्चोदाः) सत्य बोलने का उपदेश करनेवाले आप (मे) मेरी (वाचे) वाणी और (वर्चसे) प्रगल्भता के लिये (पवस्व) प्रवृत्त हूजिये। (वर्चोदाः) विज्ञान देनेवाले आप (मे) मेरे (क्रतूदक्षाभ्याम्) बुद्धि और आत्मबल की उन्नति और (वर्चसे) अच्छे बोध के लिये (पवस्व) शिक्षा कीजिये। हे (वर्चोदाः) शब्दज्ञान के देनेवाले यज्ञपति ! आप (मे) मेरे (श्रोत्राय) शब्द ग्रहण करनेवाले कर्णेन्द्रिय के लिये (वर्चसे) शब्दों के अर्थ और सम्बन्ध का (पवस्व) उपदेश करें। हे (वर्चोदसौ) सूर्य्य और चन्द्रमा के समान अतिथि और पढ़ानेवाले आप दोनों (मे) मेरे (चक्षुर्भ्याम्) नेत्रों के लिये (वर्चसे) शुद्ध सिद्वान्त के प्रकाश को (पवेथाम्) प्राप्त हूजिये ॥२७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो विद्या की वृद्धि के लिये पठन-पाठन रूप यज्ञकर्म्म करनेवाला मनुष्य है, वह अपने यज्ञ के अनुष्ठान से सब की पुष्टि तथा सन्तोष करनेवाला होता है, इससे ऐसा प्रयत्न सब मनुष्यों को करना उचित है ॥२७॥
दयानन्द-सरस्वती (सं) - विषयः
पुनरध्ययनाध्यापनाख्ययज्ञकर्त्तुर्विषयान्तरमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे वर्चोदा अध्येतरध्यापक ! त्वं मम प्राणाय वर्चसे पवस्व, हे वर्चोदा ! मम व्यानाय वर्चसे पवस्व, हे वर्चोदा ! मे ममोदनाय वर्चसे पवस्व, हे वर्चोदा मे मम वाचे वर्चसे पवस्व, हे वर्चोदसौ युवां मे मम चक्षुर्भ्यां वर्चसे पवेथाम् ॥२७॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यो मनुष्यो विद्यावृद्धये पठनपाठनरूपं यज्ञं कर्म करोति, स सर्वपुष्टिसन्तुष्टिकरो भवत्यत एवं सर्वैरनुष्ठातव्यम् ॥२७॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - विद्या वाढवण्यासाठी पठणपाठणरूपी यज्ञकर्म करणारा माणूस आपल्या यज्ञाच्या अनुष्ठानाने सर्वांची पुष्टी व संतुष्टी करणारा असतो. त्यासाठी सर्व माणसांनी तशा प्रकारचा प्रयत्न केला पाहिजे.
२८ आत्मने मे
विश्वास-प्रस्तुतिः ...{Loading}...
आ॒त्मने॑ मे वर्चो॒दा वर्च॑से पव॒स्वौज॑से मे वर्चो॒दा वर्च॑से पव॒स्वायु॑षे मे वर्चो॒दा वर्च॑से पवस्व॒ विश्वा॑भ्यो मे प्र॒जाभ्यो॑ वर्चो॒दसौ॒ वर्च॑से पवेथाम् ॥२८॥
मूलम् ...{Loading}...
आ॒त्मने॑ मे वर्चो॒दा वर्च॑से पव॒स्वौज॑से मे वर्चो॒दा वर्च॑से पव॒स्वायु॑षे मे वर्चो॒दा वर्च॑से पवस्व॒ विश्वा॑भ्यो मे प्र॒जाभ्यो॑ वर्चो॒दसौ॒ वर्च॑से पवेथाम् ॥२८॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ॒त्मने॑। मे॒। व॒र्चो॒दा इति॑ वर्चः॒ऽदाः। वर्च॑से। प॒व॒स्व॒। ओज॑से। मे॒। व॒र्चो॒दा इति॑ वर्चः॒ऽदाः। वर्च॑से। प॒व॒स्व॒। आयु॑षे। मे॒। व॒र्चो॒दा इति॑ वर्चः॒ऽदाः। वर्च॑से। प॒व॒स्व॒। विश्वा॑भ्यः। मे॒। प्र॒जाभ्य॒ इति॑ प्र॒ऽजाभ्यः॑। व॒र्चो॒दसा॒विति॑ वर्चः॒ऽदसौ॑। वर्च॑से। प॒वे॒था॒म्। २८।
महीधरः
म० आग्रयणम् । ममात्मने जीवस्य स्वास्थ्याय वर्चसे पवस्व उक्थ्यम् । ओजः सर्वेन्द्रियपाटवं शारीरं बलं वा तद्रूपाय वर्चसे पवस्व । ध्रुवम् आयुर्निर्दुष्टजीवनं तद्रूपाय वर्चसे पवस्व । पूतभृदाहवनीयौ युगपदवेक्षते । हे पूतभृदाहवनीयौ, सर्वाभ्यो मम प्रजाभ्यः प्रजार्थं यद्वर्चस्तेजस्तदर्थं युवां पवेथाम् । किंभूतौ युवाम् । वर्चो दत्तस्तौ वर्चोदसौ । | सर्वत्र ददातेरसुन्प्रत्ययः । यद्वात्र प्राणायेत्यादिचतुर्थीनां षष्ठ्या | विपरिणामः । प्राणव्यानादीनां यद्वर्चस्तदर्थं पवस्वेत्यर्थः । यद्वा यस्तं प्राणाय वर्चोदाः स मे वर्चसे ब्रह्मवर्चसाय पवस्व एवं सर्वत्र ॥ २८ ॥
एकोनत्रिंशी।
अधिमन्त्रम् (VC)
- यज्ञपतिर्देवता देवता
- देवश्रवा ऋषिः
- ब्राह्मी बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उक्त विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (वर्चोदाः) योग और ब्रह्मविद्या देनेवाले विद्वन् ! आप (मे) मेरे (आत्मने) इच्छादि गुणयुक्त चेतन के लिये (वर्चसे) अपने आत्मा के प्रकाश को (पवस्व) प्राप्त कीजिये। हे (वर्चोदाः) उक्त विद्या देनेवाले विद्वन् ! आप (मे) मेरे (ओजसे) आत्मबल होने के लिये (वर्चसे) योगबल को (पवस्व) जनाइये। हे (वर्चोदाः) बल देनेवाले ! (मे) मेरे (आयुषे) जीवन के लिये (वर्चसे) रोग छुड़ानेवाले औषध को (पवस्व) प्राप्त कीजिये। हे (वर्चोदसौ) योगविद्या के पढ़ने-पढ़ानेवालो ! तुम दोनों (मे) मेरी (विश्वाभ्यः) समस्त (प्रजाभ्यः) प्रजाओं के लिये (वर्चसे) सद्गुण प्रकाश करने को (पवेथाम्) प्राप्त कराया करो ॥२८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - योगविद्या के विना कोई भी मनुष्य पूर्ण विद्यावान् नहीं हो सकता और न पूर्णविद्या के विना अपने स्वरूप और परमात्मा का ज्ञान कभी होता है और न इसके विना कोई न्यायाधीश सत्पुरुषों के समान प्रजा की रक्षा कर सकता है, इसलिये सब मनुष्यों को उचित है कि इस योगविद्या का सेवन निरन्तर किया करें ॥२८॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तदेवाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे वर्चोदा विद्वंस्त्वं मे ममात्मने वर्चसे पवस्व। हे वर्चोदा ! म ओजसे वर्चसे पवस्व। हे वर्चोदा ! मे ममायुषे वर्चसे पवस्व। हे वर्चोदसौ युवां मे मम विश्वाभ्यः प्रजाभ्यो वर्चसे पवेथाम् ॥२८॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - नैव योगेन विना कश्चिदपि पूर्णविद्यो भवति, न च पूर्णया विद्वत्तया विना स्वात्मपरमात्मनोर्बोधः कथंचिज्जायते, नापि तेन विना सत्पुरुषवत् प्रजाः पालयितुं कश्चिदपि शक्नोति, तस्माद् योगविधिरयं सर्वजनैः संसेव्यः ॥२८॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - योगविद्येशिवाय कोणीही माणूस पूर्ण विद्वान बनू शकत नाही व पूर्ण विद्येशिवाय आत्मस्वरूपाचे व परमेश्वराचे ज्ञान कधीही होऊ शकत नाही आणि कोणी न्यायाधीश सत्पुरुषांप्रमाणे प्रजेचे रक्षण करू शकत नाही. त्यामुळे सर्व माणसांनी नेहमी योगविद्येचे अनुसरण केले पाहिजे.
२९ कोऽसि कतमोऽसि
विश्वास-प्रस्तुतिः ...{Loading}...
को॑ऽसि कत॒मो᳖ऽसि॒ कस्या॑सि॒ को नामा॑सि। यस्य॑ ते॒ नामाम॑न्महि॒ यं त्वा॒ सोमे॒नाती॑तृपाम। भूर्भुवः॒ स्वः᳖ सुप्र॒जाः प्र॒जाभिः॑ स्याँ सु॒वीरो॑ वी॒रैः सु॒पोषः॒ पोषैः॑ ॥२९॥
मूलम् ...{Loading}...
को॑ऽसि कत॒मो᳖ऽसि॒ कस्या॑सि॒ को नामा॑सि। यस्य॑ ते॒ नामाम॑न्महि॒ यं त्वा॒ सोमे॒नाती॑तृपाम। भूर्भुवः॒ स्वः᳖ सुप्र॒जाः प्र॒जाभिः॑ स्याँ सु॒वीरो॑ वी॒रैः सु॒पोषः॒ पोषैः॑ ॥२९॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
कः। अ॒सि॒। क॒त॒मः। अ॒सि॒। कस्य॑। अ॒सि॒। कः। नाम॑। अ॒सि॒। यस्य॑। ते॒। नाम॑। अम॑न्महि। यम्। त्वा॒। सोमे॑न। अती॑तृपाम। भूरिति॒ भूः। भुव॒रिति॑ भु॒वः। स्व॒रिति॒ स्वः॑। सु॒प्र॒जा इति॑ सुऽप्र॒जाः। प्र॒जाभि॒रिति॑ प्र॒ऽजाभिः॑। स्या॒म्। सु॒वीर॒ इति॑ सु॒ऽवीरः॑। वी॒रैः। सु॒पोष॒ इति॑ सु॒ऽपोषः॑। पोषैः॑। २९।
महीधरः
म० ‘कोऽसीति द्रोणकलशमिति’ (का० ९ । ७ । १४)। द्रोणकलशमवेक्षते । प्राजापत्या वर्धमानोष्णिक् । यस्याः प्रथमः पादः षडक्षरो द्वितीयः सप्ताक्षरस्तृतीयोऽष्टार्णश्चतुर्थो नवाक्षरः सा त्रिंशद्वर्णा वर्धमानोष्णिक् । अध्यस्तप्रजापतिं द्रोणकलशमाह हे द्रोणकलश, त्वं कः प्रजापतिरसि । कतमोऽतिशयेन प्रजापतिरसि । तथा कस्य प्रजापतेरसि । को नाम प्रजापतिनामासि । प्रजापतेरनन्यभूतोऽसीत्यर्थः । किंच वयं यस्य ते तव नाम अमन्महि विजानीमः ‘मन ज्ञाने’। च पुनर्यं द्रोणकलशरूपं त्वां वयं सोमेन अतीतृपाम तर्पितवन्तः स त्वमस्मान् विदितनाम्नः कुरु तर्पय च कामैरिति शेषः । ‘भूर्भुवः स्वरिति जपतीति’ (का० ९ । ७।५) हे भूर्भुवःस्वः अग्निवायुसूर्याः, प्रजाभिः अहं सुप्रजाः शोभनप्रजायुक्तः स्यां भवेयम् । वीरैः पुत्रैः सुवीरः स्यां पोषैः धनादिपुष्टिभिः सुपोषः शोभनपोषो भवेयम् ॥ २९ ॥
त्रिंशी।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- देवश्रवा ऋषिः
- आर्ची पङ्क्तिः, भुरिक् साम्नी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
सभापति राजा प्रजा, सेना और सभ्यजनों को क्या-क्या कहे, यही अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - सभा, सेना और प्रजा में रहनेवाले हम लोग पूछते हैं कि तू (कः) कौन (असि) है, (कतमः) बहुतों के बीच कौन-सा (असि) है, (कस्य) किसका (असि) है, (कः) क्या (नाम) तेरा नाम (असि) है, (यस्य) जिस (ते) तेरी (नाम) संज्ञा को (अमन्महि) जानें और (यम्) जिस (त्वा) तुझ को (सोमेन) धन आदि पदार्थों से (अतीतृपाम) तृप्त करें। यह कह उनसे सभापति कहता है कि (भूः) भूमि (भुवः) अन्तरिक्ष और (स्वः) आदित्यलोक के सुख के सदृश आत्मसुख की कामना करनेवाला मैं तुम (प्रजाभिः) प्रजालोगों के साथ (सुप्रजाः) श्रेष्ठ प्रजावाला (वीरैः) तुम वीरों से (सुवीरः) श्रेष्ठ वीरयुक्त (पोषैः) पुष्टिकारक पदार्थों से (सुपोषः) अच्छा पुष्ट (स्याम्) होऊँ अर्थात् तुम सब लोगों से पृथक् न तो स्वतन्त्र मेरा कोई नाम और न कोई विशेष सम्बन्धी है ॥२९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सभापति राजा को योग्य है कि सत्य न्याययुक्त प्रिय व्यवहार से सभा सेना और प्रजा के जनों की रक्षा करके उन सभों को उन्नति देवे और अति प्रबल वीरों को सेना में रक्खे, जिससे कि बहुत सुख बढ़ानेवाले राज्य से भूमि आदि लोकों के सुख को प्राप्त होवे ॥२९॥
दयानन्द-सरस्वती (सं) - विषयः
सभापती राजा प्रजासेनासभ्यजनान् प्रति किं किं वदेदित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - सभ्यसेनास्थप्रजाजना वयं त्वं कोऽसि, कतमोऽसि, कस्यासि, को नामासि किन्नाम्ना प्रसिद्धोऽसि, यस्य ते तव नाम वयममन्महि, यं त्वा त्वां सोमेनातीतृपामेति पृच्छामो ब्रूहि। तान् प्रति सभापतिराह भूर्भुवःस्वर्ल्लोकसुखमिवात्मसुखमभीप्सुरहं युष्माभिः प्रजाभिः सुप्रजाः वीरैः सुवीरः पौषैः सुपोषश्च स्यामिति प्रतिजाने ॥२९॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सभापती राजा सत्यन्यायप्रियव्यवहारेण सभ्यसैन्यप्रजाजनानभिरक्ष्य वर्द्धयेत्। प्रबलतरवीरान् सेनासु सम्पादयेद्, यत उत्कृष्टसुखवर्द्धकेन राज्येन भूम्यादिसुखं प्राप्नुयादिति ॥२९॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजाने सत्याने व न्यायाने वागावे. सभा, सेना व प्रजा यांचे रक्षण करावे आणि त्या सर्वांची उन्नती करावी. अतिशय प्रबळ वीरांना सेनेमध्ये ठेवावे त्यामुळे सुखकारक राज्य निर्माण होते व पृथ्वीवर सुख नांदते.
३० उपयामगृहीतोऽसि मधवे
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒प॒या॒मगृ॑हीतोऽसि॒ मध॑वे त्वोपया॒मगृ॑हीतोऽसि॒ माध॑वाय त्वोपया॒मगृ॑हीतोऽसि शु॒क्राय॑ त्वोपया॒मगृ॑हीतोऽसि॒ शुच॑ये त्वोपया॒मगृ॑हीतोऽसि॒ नभ॑से त्वोपया॒मगृ॑हीतोऽसि नभ॒स्या᳖य त्वोपया॒मगृ॑हीतोऽसी॒षे त्वो॑पया॒मगृ॑हीतोऽस्यू॒र्जे त्वो॑पया॒मगृ॑हीतोऽसि॒ सह॑से त्वोपया॒मगृ॑हीतोऽसि सह॒स्या᳖य त्वोपया॒मगृ॑हीतोऽसि॒ तप॑से त्वोपया॒मगृ॑हीतोऽसि तप॒स्या᳖य त्वोपया॒मगृ॑हीतोऽस्यँहसस्प॒तये॑ त्वा ॥३०॥
मूलम् ...{Loading}...
उ॒प॒या॒मगृ॑हीतोऽसि॒ मध॑वे त्वोपया॒मगृ॑हीतोऽसि॒ माध॑वाय त्वोपया॒मगृ॑हीतोऽसि शु॒क्राय॑ त्वोपया॒मगृ॑हीतोऽसि॒ शुच॑ये त्वोपया॒मगृ॑हीतोऽसि॒ नभ॑से त्वोपया॒मगृ॑हीतोऽसि नभ॒स्या᳖य त्वोपया॒मगृ॑हीतोऽसी॒षे त्वो॑पया॒मगृ॑हीतोऽस्यू॒र्जे त्वो॑पया॒मगृ॑हीतोऽसि॒ सह॑से त्वोपया॒मगृ॑हीतोऽसि सह॒स्या᳖य त्वोपया॒मगृ॑हीतोऽसि॒ तप॑से त्वोपया॒मगृ॑हीतोऽसि तप॒स्या᳖य त्वोपया॒मगृ॑हीतोऽस्यँहसस्प॒तये॑ त्वा ॥३०॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। मध॑वे। त्वा॒। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। माध॑वाय। त्वा॒। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। शु॒क्राय॑। त्वा॒। उ॒प॒या॒मऽगृ॑हीतः। अ॒सि॒। शुच॑ये। त्वा॒। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। नभ॑से। त्वा॒। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। न॒भ॒स्या᳖य। त्वा॒। उ॒पा॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। इ॒षे। त्वा॒। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मगृ॑हीतः। अ॒सि॒। ऊ॒र्ज्जे। त्वा॒। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। सह॑से। त्वा॒। उ॒प॒या॒मगृ॑हीत इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। स॒ह॒स्या᳖य। त्वा॒। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। तप॑से। त्वा॒। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। त॒प॒स्या᳖य। त्वा॒। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। अँ॒ह॒स॒स्प॒तये॑। अँ॒ह॒सः॒प॒तय॒ इत्यँ॑हसःऽप॒तये॑। त्वा॒। ३०।
महीधरः
म० ‘ऋतुग्रहैश्चरतो द्रोणकलशादुपयामगृहीतोऽसि मधवे त्वेति द्वादश प्रतिमन्त्रमध्वर्योः पूर्वः पूर्वो मन्त्र उत्तर उत्तरः प्रतिप्रस्थातुरिति’ (का० ९ । १३ । १-४) । अध्वर्युप्रतिप्रस्थातारावृतुग्रहैर्द्वादशभिरनुतिष्ठतः उपयामेत्यादयो द्वादश - मन्त्राः तत्र षट्सु मन्त्रयुग्मेषु पूर्वः पूर्वो मन्त्रोऽध्वर्योः उत्तर उत्तरः प्रतिप्रस्थातुरिति मन्त्रविवेकः । द्वादश लिङ्गोक्तानि । । हे ऋतुग्रह, त्वमुपयामेन गृहीतोऽसि मधवे मधुनाम्ने चैत्रमासाय त्वां गृह्णामीति शेषः । माधवाय वैशाखाय त्वां गृह्णामि । मधुमाधवौ वासन्तौ मधुप्रमुखमन्नं वसन्ते प्रपद्यते । शुक्राय ज्येष्ठाय त्वां गृह्णामि । शुचये आषाढमासाभिमानिदेवार्थं त्वां गृह्णामि । शुक्रशुची ग्रीष्ममासौ ‘शुच शोषणे’ इत्यस्य धातोः । नभसे श्रावणमासाय सोम, त्वां गृह्णामि । नभस्याय भाद्रपदमासाभिमानिने त्वां गृह्णामि । नभोनभस्यौ वार्षिकौ मासौ मेघबाहुल्यान्न भात्यत्र सूर्य इति नभा नभस्यश्च इषे आश्विनमासाय त्वां गृह्णामि ऊर्जे कार्तिकमासाय त्वां गृह्णामि । इषमन्नम् ऊर्ज तदुपसेचनं दध्यादि तदत्र प्रचुरं भवति मतुपो लोपादभेदोपचाराद्वा ऊर्क्शब्देन शारदौ मासावुच्येते । सहसे मार्गशीर्षमासाय । सहस्याय पुष्यमासाय । सहःसहस्यौ हैमन्तिकौ मासौ । सहतेः प्रसहनार्थस्य प्रयोगः । प्रसहनमभिभवनम् । यतो हेमन्तः शीतेन नरानभिभवति । तपसे माघमासाय तपस्याय फाल्गुनाय । तपस्तपस्यौ शैशिरौ मासौ । तपति सूर्यो यत्रात्यन्तं स तपास्तपस्यश्च । ‘त्रयोदशं गृह्णीयादिच्छन्नुपयामगृहीतोऽस्यᳪं᳭हसस्पतये त्वा’ (का० ९। १३ ।१८) इति इच्छन्नध्वर्युस्त्रयोदशमृतुग्रहं गृह्णीयात् ऐच्छिको विकल्पः । हे ग्रह, त्वमुपयामेन पात्रेण गृहीतोऽसि तादृशं त्वामंहसः पतयेऽधिकमासाधिष्ठात्रे गृह्णामीति शेषः । अंहः पापं तस्य पतिः । मलमासत्वादयं द्वादशस्वपि पतति यद्वांहतेर्गतिकर्मणोऽसुन्प्रत्ययान्तस्य रूपमंह इति । अंहनमंहो गतिस्तस्य पतिः त्रयोदशो मासः आदित्यगतिवशेन जायते ॥ ३० ॥
एकत्रिंशी।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- देवश्रवा ऋषिः
- साम्नी गायत्री, आसुरी अनुष्टुप्, याजुषी पङ्क्तिः, आसुरी उष्णिक्
- ऋषभः, षड्जः
३१ इन्द्राग्नीऽआगतं सुतम्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रा॑ग्नी॒ऽआग॑तँ सु॒तं गी॒र्भिर्नभो॒ वरे॑ण्यम्। अ॒स्य पा॑तं धि॒येषि॒ता। उ॒प॒या॒मगृ॑हीतोऽसीन्द्रा॒ग्निभ्यां॑ त्वै॒ष ते॒ योनि॑रिन्द्रा॒ग्निभ्यां॑ त्वा ॥३१॥
मूलम् ...{Loading}...
इन्द्रा॑ग्नी॒ऽआग॑तँ सु॒तं गी॒र्भिर्नभो॒ वरे॑ण्यम्। अ॒स्य पा॑तं धि॒येषि॒ता। उ॒प॒या॒मगृ॑हीतोऽसीन्द्रा॒ग्निभ्यां॑ त्वै॒ष ते॒ योनि॑रिन्द्रा॒ग्निभ्यां॑ त्वा ॥३१॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इन्द्रा॑ग्नी॒ऽइतीन्द्रा॑ग्नी। आ। ग॒त॒म्। सु॒तम्। गी॒र्भिरिति॑ गीः॒ऽभिः। नभः॑। वरे॑ण्यम्। अ॒स्य। पा॒त॒म्। धि॒या। इ॒षि॒ता। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मगृ॑हीतः। अ॒सि॒। इ॒न्द्रा॒ग्निभ्या॒मिती॑न्द्रा॒ग्निऽभ्याम्। त्वा॒। ए॒षः। ते॒। योनिः॑। इ॒न्द्रा॒ग्निभ्या॒मिती॑न्द्रा॒ग्निऽभ्याम्। त्वा॒। ३१।
महीधरः
म० ‘ऐन्द्राग्नं गृह्णाति’ (का. ९ । १३ । २०)। प्रतिप्रस्थातेन्द्राग्निदेवताकं ग्रहं गृह्णीयात् । ऐन्द्राग्नी गायत्री विश्वामित्रदृष्टा । हे इन्द्राग्नी, युवां सुतमभिषुतं सोमं प्रति आगतमागच्छतम् । गच्छतेर्व्यत्ययेन शपो लुक् ‘अनुदात्त-’ (पा० ६ । ४ । ३७) इति मलोपश्च । किंभूतं सोमम् । गीर्भिर्नभोवरेण्यं गीर्भिः त्रयीलक्षणाभिर्वाग्भिः नभ इवादित्य इव वरेण्यो वरणीयः प्रार्थनीयस्तम् । ‘नभ आदित्यो भवति नेता भासां ज्योतिषां प्रभवोऽपि’ (नि० २ । २२) इति यास्कोक्तेर्नभ आदित्यः लुप्तोपमानम् । यद्वा गीर्भिः स्तुतिरूपाभिर्वाग्भिः युतमिति शेषः । नभो नभःस्थितैः स्वर्गस्थैर्देवैर्वरेण्यं प्रार्थनीयम् । नभःशब्देन लक्षणया नभःस्था देवा उच्यन्ते । किंच हे इन्द्राग्नी, युवामस्य सोमस्य संबन्धिनं स्वमंशं पातं पिबतम् । पिबादेशाभावश्छान्दसः । किंभूतौ युवाम् । धियेषिता धिया यजमानबुद्ध्या इषितौ प्रेषितौ प्रार्थितौ । एवं देवावुक्त्वा सोममाह हे सोम, उपयामेन ग्रहेण गृहीतोऽसि हे ग्रह, इन्द्राग्निभ्यामर्थे त्वां गृह्णामीति शेषः । एष त इति सादनम् । एष तव योनिः स्थानम् । इन्द्राग्निभ्यामर्थे त्वां सादयामि ॥ ३१ ॥
द्वात्रिंशी।
अधिमन्त्रम् (VC)
- इन्द्राग्नी देवते
- विश्वामित्र ऋषिः
- आर्षी त्रिष्टुप्
- धैवतः
३२ आ घाऽअग्निमिन्धते
विश्वास-प्रस्तुतिः ...{Loading}...
आ घा॒ऽअ॒ग्निमि॑न्ध॒ते स्तृ॒णन्ति॑ ब॒र्हिरा॑नु॒षक्। येषा॒मिन्द्रो॒ युवा॒ सखा॑। उ॒प॒या॒मगृ॑हीतोऽस्यग्नी॒न्द्राभ्यां॑ त्वै॒ष ते॒ योनि॑रग्नी॒न्द्राभ्यां॑ त्वा ॥३२॥
मूलम् ...{Loading}...
आ घा॒ऽअ॒ग्निमि॑न्ध॒ते स्तृ॒णन्ति॑ ब॒र्हिरा॑नु॒षक्। येषा॒मिन्द्रो॒ युवा॒ सखा॑। उ॒प॒या॒मगृ॑हीतोऽस्यग्नी॒न्द्राभ्यां॑ त्वै॒ष ते॒ योनि॑रग्नी॒न्द्राभ्यां॑ त्वा ॥३२॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ। घ॒। ये। अ॒ग्निम्। इ॒न्ध॒ते। स्तृ॒णन्ति॑। ब॒र्हिः। आ॒नु॒षक्। येषा॑म्। इन्द्रः॑। युवा॑। सखा॑। उ॒पा॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। अ॒ग्नी॒न्द्राभ्या॑म्। त्वा॒। ए॒षः। ते॒। योनिः॑। अ॒ग्नी॒न्द्राभ्या॑म्। त्वा॒। ३२।
महीधरः
म० अग्नीन्द्रदेवत्या गायत्री त्रिशोकदृष्टा । अस्या विनियोगः कात्यायनेनोक्तः । ऐन्द्राग्नग्रहे एव विकल्पः शाखान्तरे । ये यजमाना अग्निमा इन्धते आदीपयन्ति इष्टिपशुसोमचातुर्मास्यैर्यजन्तीत्यर्थः । घेत्यनर्थको निपातः । तस्य संहितायाम् ‘ऋचि तुनुघ-’ (पा० ६ । ३ । १३३) इत्यादिना दीर्घः । ये चानुषक् आनुपूर्व्येण क्रमेण बहिःस्तृणन्ति आच्छादयन्ति अनुषज्यते अनु क्रमेणासज्यते स्तीर्यत इत्यनुषक् । कर्मणि क्विप् । अकारस्य संहितायां दीर्घः । ‘आनुषगिति नामानुपूर्वस्यानुषक्तं भवति’ (नि० ६ । १४) इति यास्कोक्तेरानुषक्शब्देनानुपूर्वमुच्यते । किंच येषां यज्वनां युवा जरामृत्युरहित इन्द्रः सखा मित्रवदुपकारकः । हे सोम, तेषां यज्ञे उपयामेन ग्रहेण त्वं स्वीकृतोऽसि अग्नीन्द्रदेवार्थं त्वां गृह्णामि । सादयति हे सोम, एष ते योनिः अग्नीन्द्राभ्यामर्थे त्वां सादयामि ॥ ३२॥
त्रयस्त्रिंशी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- त्रिशोक ऋषिः
- आर्षी गायत्री, आर्ची उष्णिक्
- ऋषभः, षड्जः
३३ ओमासश्चर्षणीधृतो विश्वे
विश्वास-प्रस्तुतिः ...{Loading}...
ओमा॑सश्चर्षणीधृतो॒ विश्वे॑ देवास॒ऽआग॑त। दा॒श्वाँसो॑ दा॒शुषः॑ सु॒तम्। उ॒प॒या॒मगृ॑हीतोऽसि॒ विश्वे॑भ्यस्त्वा दे॒वेभ्य॑ऽए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ॥३३॥
मूलम् ...{Loading}...
ओमा॑सश्चर्षणीधृतो॒ विश्वे॑ देवास॒ऽआग॑त। दा॒श्वाँसो॑ दा॒शुषः॑ सु॒तम्। उ॒प॒या॒मगृ॑हीतोऽसि॒ विश्वे॑भ्यस्त्वा दे॒वेभ्य॑ऽए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ॥३३॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ओमा॑सः। च॒र्ष॒णी॒धृ॒तः॒। च॒र्ष॒णि॒धृ॒त॒ इति॑ चर्षणिऽधृतः। विश्वे॑। दे॒वा॒सः॒। आ। ग॒त॒। दा॒श्वाँसः॑। दा॒शुषः॑। सु॒तम्। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। विश्वे॑भ्यः। त्वा॒। दे॒वेभ्यः॑। ए॒षः। ते॒। योनिः॑। विश्वे॑भ्यः। त्वा॒। दे॒वेभ्यः॑। ३३।
महीधरः
म० वैश्वदेवं गृह्णाति शुक्रपात्रेण द्रोणकलशादन्वारब्धेवौमास इति’ (का० ९ । १४ । १) । अध्वर्यौ यज्वना स्पृष्टेऽस्पृष्टे वा सति द्रोणकलशाच्छुक्रपात्रेण वैश्वदेवं ग्रहं गृह्णीयात् । वैश्वदेवी गायत्री मधुच्छन्दोदृष्टा । हे विश्वेदेवासः विश्वेदेवाः, यूयमागत आगच्छत । किंभूता यूयम् । ओमासः ओमाः ‘अवन्तीत्योमा रक्षितारः अवितारो वावनीया वा’ (नि. १२।४० ) इति यास्कोक्तेः । तर्पयितारस्तर्पणीया वा । अवतेर्मक्प्रत्ययः संप्रसारणं च । तथा चर्षणीधृतः चर्षणयो मनुप्यास्तान्धरन्ति पुष्णन्ति तैर्वा ध्रियन्ते ते चर्षणीधृतः । चर्षणिशब्दम्य संहितायां दीर्घः । अनिष्टनिरसनं रक्षणम् इष्टप्रापणं पोषणमित्यवनधरणयोर्भेदः । तथा सुतमभिषुतं सोमं दाशुषः दत्तवतो यजमानस्य दाश्वांसः फलं दत्तवन्तः । कामान्पूरयन्त इत्यर्थः । यद्वा सुतं सोमं पातुमिति शेषः । ‘दाश्वान्-’ (पा० ६ । १ । १२) इत्यादिना निपातः। हे सोम, त्वमुपयामेन स्वीकृतोऽसि । विश्वेभ्यो देवभ्योऽर्थाय त्वां गृह्णामीति शेषः । सादयति एष ते योनिः विश्वेभ्यो देवेभ्योऽर्थाय त्वां सादयामि ॥ ३३ ॥
चतुस्त्रिंशी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- मधुच्छन्दा ऋषिः
- आर्षी गायत्री, निचृद् आर्षी उष्णिक्
- मध्यमः, षड्जः
दयानन्द-सरस्वती (हि) - विषयः
पढ़ने और पढ़ानेवालों का परस्पर व्यवहार अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (चर्षणीधृतः) मनुष्यों की पुष्टि-संतुष्टि करने और (ओमासः) उत्तम-उत्तम गुणों से रक्षा करने हारे (विश्वे) समस्त (देवासः) विद्वानो ! तुम (दाश्वांसः) उत्कृष्ट ज्ञान को देते हुए (दाशुषः) दान करनेवाले उत्तम जन का (सुतम्) जो अच्छे कामों के करने से ऐश्वर्य्य को प्राप्त होनेवाला है, उसके (आ, गत) सन्मुख आओ। हे उक्त दानशील पुरुष के पढ़नेवाले बालक ! तू (उपयामगृहीतः) पढ़ाने के नियमों से ग्रहण किया हुआ (असि) है, इसलिये (त्वा) तुझे (विश्वेभ्यः) समस्त (देवेभ्यः) विद्वानों के लिये अर्थात् उनकी सेवा करने को आज्ञा देता हूँ, जिसलिये (ते) तेरा (एषः) यह विद्या और अच्छी-अच्छी शिक्षा का संग्रह होना (योनिः) कारण है, इसलिये (त्वा) तुझे (विश्वेभ्यः) समस्त (देवेभ्यः) विद्वानों से विद्या और अच्छी-अच्छी शिक्षा दिलाता हूँ ॥३३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सब विद्वान् और विदुषी स्त्रियों की योग्यता है कि समस्त बालक और कन्याओं के लिये निरन्तर विद्यादान करें, राजा और धनी आदि लोगों के धन आदि पदार्थों से अपनी जीविका करें और वे राजा आदि धनी जन भी विद्या और अच्छी शिक्षा से प्रवीण होकर अपने पढ़ानेवाले विद्वान् वा विदुषी स्त्रियों को धन आदि अच्छे-अच्छे पदार्थों को देकर उनकी सेवा करें। माता और पिता आठ-आठ वर्ष के पुत्र वा आठ-आठ वर्ष की कन्याओं को विद्याभ्यास, ब्रह्मचर्य्य सेवन और अच्छी शिक्षा किये जाने के लिये विद्वान् और विदुषी स्त्रियों को सौंप दें। वे भी विद्या ग्रहण करने में नित्य मन लगावें और पढ़ानेवाले भी विद्या और अच्छी शिक्षा देने में नित्य प्रयत्न करें ॥३३॥
दयानन्द-सरस्वती (सं) - विषयः
अध्यापकाध्येतॄणां परस्परं कर्त्तव्यमुपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे चर्षणीधृत ओमासो विश्वे देवासो यूयं दाश्वांसो दाशुषः सुतमागत। हे दाशुष सुताध्येतस्त्वमुपयामगृहीतोऽसि। अतस्त्वा विश्वेभ्यो देवेभ्यस्तत्सेवनायाज्ञापयामि, यतस्त एष योनिरस्ति। अतस्त्वा विश्वेभ्यो देवेभ्यः शिक्षयामि ॥३३॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सर्वेषां विदुषीणां च योग्यतास्ति सर्वेभ्यो बालकेभ्यः कन्याभ्यश्चाहर्निशं विद्यादानं राज्ञां धनिनां च पदार्थैः स्वजीविकां च कुर्य्युः। ते राजानो धनिनश्च विद्यासुशिक्षाभ्यां प्रवीणा भूत्वा स्वस्याध्यापकेभ्यो विद्वद्भ्यो विदुषीभ्यश्च धनादिपदार्थान् दत्त्वा तेषां सेवनं कुर्य्युः। मातापितरावष्टवार्षिकुमारान् कुमारींश्च विद्याब्रह्मचर्य्यसेवनशिक्षाकरणाय विद्वद्भ्यो विदुषीभ्यश्च समर्प्पयेताम्। तेऽध्येतारो विद्याग्रहणे चेतो नित्यमभिदद्युस्तथाध्यापकांश्च विद्यासुशिक्षादाने नित्यं प्रयतेरन् ॥३३॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सर्व विद्वान व विदुषी स्त्रियांनी सर्व बालके व बालिकांना नेहमी विद्यादान करावे. त्यांची उपजीविका राजा व श्रीमंत लोकांनी चालवावी. राजा व श्रीमंत लोकांनी विद्या शिकून शिक्षणात प्रवीण व्हावे व आपल्याला विद्या देणाऱ्या विद्वान व विदुषींना धन द्यावे. अशा प्रकारे त्यांची सेवा करावी. माता व पिता यांनी आठ वर्षांचा मुलगा व मुलगी यांना विद्याभ्यास, ब्रह्मचर्य पालन व चांगल्या शिक्षणासाठी विद्वान व विदुषींना सोपवावे. विद्यार्थ्यांनीही एकाग्रतेने विद्याध्ययन करावे व अध्यापकांनी विद्या व उत्तम शिक्षण देण्याचा प्रयत्न करावा.
३४ विश्वे देवासऽआगत
विश्वास-प्रस्तुतिः ...{Loading}...
विश्वे॑ देवास॒ऽआग॑त शृणु॒ता म॑ऽइ॒मँ हव॑म्। एदं ब॒र्हिर्निषी॑दत। उ॒प॒या॒मगृ॑हीतोऽसि॒ विश्वे॑भ्यस्त्वा दे॒वेभ्य॑ऽए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ॥३४॥
मूलम् ...{Loading}...
विश्वे॑ देवास॒ऽआग॑त शृणु॒ता म॑ऽइ॒मँ हव॑म्। एदं ब॒र्हिर्निषी॑दत। उ॒प॒या॒मगृ॑हीतोऽसि॒ विश्वे॑भ्यस्त्वा दे॒वेभ्य॑ऽए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ॥३४॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
विश्वे॑। दे॒वा॒सः॒। आ। ग॒त॒। शृ॒णु॒त। मे॒। इ॒मम्। हव॑म्। आ। इ॒दम्। ब॒र्हिः। नि। सी॒द॒त॒। उ॒प॒या॒मगृ॑हीत इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। विश्वे॑भ्यः। त्वा॒। दे॒वेभ्यः॑। ए॒षः। ते॒। योनिः॑। विश्वे॑भ्यः। त्वा। दे॒वेभ्यः॑। ३४।
महीधरः
म० वैश्वदेवी गायत्री गृत्समददृष्टा वैश्वदेवग्रहग्रहण एव विकल्पेनाम्नाता । हे विश्वेदेवासः, यूयमागत अस्मद्यज्ञं प्रत्यागच्छत । आगत्य च मे ममेमं हवमाह्वानं शृणुत । श्रुत्वा इदं मदीयं बर्हिः आनिषीदत बर्हिष उपर्युपविशत । उपयामेति पूर्ववत् ॥ ३४ ॥
पञ्चत्रिंशी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- गृत्समद ऋषिः
- आर्षी गायत्री, निचृद् आर्षी उष्णिक्
- ऋषभः, षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब प्रतिदिन पढ़ाने की योग्यता का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे पूर्वमन्त्रप्रतिपादित गुणकर्म्मस्वभाववाले (विश्वे देवासः) समस्त विद्वान् लोगो ! आप हमारे समीप (आगत) आइये और हम लोगों के दिये हुए (इदम्) इस (बर्हिः) आसन पर (आ निषीदत) यथावकाश सुखपूर्वक बैठिये (मे) मेरी (हवम्) इस स्तुतियुक्त वाणी को (शृणुत) सुनिये। गृहस्थ अपने पुत्रादिकों के प्रति कहे कि हे पुत्र ! जिस कारण तू (उपयामगृहीतः) विद्वानों का ग्रहण किया हुआ (असि) है, इससे हम (त्वा) तुझे (विश्वेभ्यः) समस्त (देवेभ्यः) अच्छे-अच्छे विद्या पढ़ानेवाले विद्वानों को सौंपें, जिसलिये (एषः) यह समस्त विद्या का संग्रह (ते) तेरा (योनिः) घर के तुल्य है, इसलिये (त्वा) तुझे (विश्वेभ्यः) (देवेभ्यः) समस्त उक्त महाशयों से विद्या दिलाना चाहते हैं ॥३४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्वान् लोगों को उचित है कि प्रतिदिन विद्यार्थियों को पढ़ावें और परम विद्वान् पण्डित लोग उन की परीक्षा भी प्रत्येक महीने में किया करें। उस परीक्षा से जो तीक्ष्णबुद्धियुक्त परिश्रम करनेवाले प्रतीत हों, उनको अत्यन्त परिश्रम से पढ़ाया करें ॥३४॥
दयानन्द-सरस्वती (सं) - विषयः
अथ प्रत्यहमध्यापनविषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे पूर्वमन्त्रप्रतिपादितगुणकर्म्मस्वभावा विश्वे देवासो यूयमस्माकं निकटमागत अस्माभिर्दत्तमिदं बर्हिरासनमानिषीदत, मे ममेमं हवं शृणुत। गृहस्थाः स्वपुत्रादीन् प्रत्येवं ब्रूयुर्यतस्त्वमुपयामगृहीतोऽसि तस्मात् त्वा त्वां विश्वेभ्यो देवेभ्यो प्रयच्छेम, ते तवैष योनिरस्ति, त्वा त्वां विश्वेभ्यो देवेभ्योऽधिकां विद्यां दापयेम ॥३४॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - एके विद्वांसोऽन्वहं विद्यार्थिनः पाठयेयुरपरे विपश्चितो विद्वांसः प्रतिमासमध्येतॄणां परीक्षणं च कुर्य्युः। तत्कृत्वाऽध्यापकाः प्रतीततीव्रबुद्धीन् परिश्रमं कुर्वतोऽध्येतॄनतिश्रमेण पाठयेयुरिति ॥३४॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - विद्वान लोकांनी दररोज विद्यार्थ्यांना शिकवावे व अत्यंत विद्वान पंडित लोकांनी प्रत्येक महिन्यात त्यांची परीक्षा घ्यावी. त्या परीक्षेतही जे तीक्ष्ण व कुशाग्र बुद्धीचे असून परिश्रमी असतील त्यांना अधिक मेहनत घेऊन शिकवावे.
३५ इन्द्र मरुत्वऽइह
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र॑ मरुत्वऽइ॒ह पा॑हि॒ सोमं॒ यथा॑ शार्या॒तेऽअपि॑बः सु॒तस्य॑। तव॒ प्रणी॑ती॒ तव॑ शूर॒ शर्म॒न्नावि॑वासन्ति क॒वयः॑ सुय॒ज्ञाः। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑तऽए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते ॥३५॥
मूलम् ...{Loading}...
इन्द्र॑ मरुत्वऽइ॒ह पा॑हि॒ सोमं॒ यथा॑ शार्या॒तेऽअपि॑बः सु॒तस्य॑। तव॒ प्रणी॑ती॒ तव॑ शूर॒ शर्म॒न्नावि॑वासन्ति क॒वयः॑ सुय॒ज्ञाः। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑तऽए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते ॥३५॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इन्द्रः॑। म॒रु॒त्वः॒। इ॒ह। पा॒हि॒। सोम॑म्। यथा॑। शा॒र्य्या॒ते। अपि॑बः। सु॒तस्य॑। तव॑। प्रणी॑ती। प्रनी॑तीति॒ प्रऽनी॑ती। तव॑। शू॒र॒। शर्म्म॑न्। आ। वि॒वा॒स॒न्ति॒। क॒वयः॑। सु॒य॒ज्ञा इति॑ सुऽय॒ज्ञाः। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। इन्द्रा॑य। त्वा॒। म॒रुत्व॑ते। ए॒षः। ते॒। योनिः॑। इन्द्रा॑य। त्वा॒। म॒रुत्व॑ते। ३५।
महीधरः
म० एते प्रातःसवनग्रहाः पूर्णाः । अथ माध्यन्दिनसवनग्रहा उच्यन्ते । ‘माध्यन्दिने सवने मरुत्वतीया गृह्यन्ते’ इति तित्तिरिवचनात् । तेषु त्रयो मरुत्वतीयास्तत्र प्रथममाह । ‘मरुत्वतीयमृतुपात्रेणेन्द्र मरुत्व इति’ (का० १०।१।१४) ऋतुपात्रेण मरुत्वतीयं ग्रहं गृह्णीयात् । ऐन्द्रमारुतीश्चतस्रस्त्रिष्टुभो विश्वामित्रदृष्टाः । मरुतो देवा विद्यन्ते यस्य स मरुत्वान् तस्य | संबोधनं हे मरुत्वः, ‘मतुवसो रु संबुद्धौ छन्दसि’ (पा० ८॥ ३ । १) इति रुत्वम् । मरुद्भिः सहित हे इन्द्र, इहास्मदीये यज्ञे सोमं पाहि पिब । कथं पातव्यस्तत्राह । यथा शार्याते शर्यातिर्नाम कश्चिद्राजा तस्य संबन्धिनि यज्ञे सुतस्याभिषुतस्य सोमस्यांशमपिबः पीतवानसि तद्वदिह पिब । ‘शार्यातो ह वा इदं मानवो ग्रामेण चचार’ (४।१।५।२) इति श्रुतिः। किंच ’ हे शूर वीर, तव प्रणीती प्रणीत्या प्रणयनेनानुज्ञया सुयज्ञाः कल्याणयज्ञाः कवयः क्रान्तदर्शनास्तव शर्मन्सुखनिमित्ते शर्मणि यज्ञगृहे वा आविवासन्ति वां परिचरन्ति । विवासतिः परिचर्यार्थः । उपयामेन सोम, त्वं गृहीतोऽसि मरुत्वत इन्द्राय त्वां गृह्णामि । सादयति एष ते योनिः मरुत्वते इन्द्राय त्वां सादयामि ॥ ३५ ॥
षट्त्रिंशी।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- विश्वामित्र ऋषिः
- आर्षी त्रिष्टुप्, विराड् आर्ची पङ्क्तिः
- धैवतः, ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
अब राजा पढ़ने आदि व्यवहार की रक्षा को किस प्रकार से करे, यह अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) सब विघ्नों के दूर करनेवाले सब सम्पत्ति से युक्त तेजस्वी (मरुत्वः) प्रशंसनीय धर्म्मयुक्त प्रजा पालनेहारे सभापति राजन् ! आप (इह) इस संसार में (यथा) जैसे (शार्य्याते) अपने हाथ पैरों के परिश्रम से निष्पन्न किये हुए व्यवहार में (सुतस्य) अभ्यास किये हुए विद्या रस को (अपिबः) पी चुके हो, वैसे (सोमम्) समस्त अच्छे गुण, ऐश्वर्य और सुख करनेवाले पठनपाठन-रूपी यज्ञ को (पाहि) पालो। हे (शूर) धर्म्मविरोधियों को दण्ड देनेवाले ! (तव) तुम्हारे) (शर्म्मन्) राज्य घर में (सुयज्ञाः) अच्छे पढ़ने-पढ़ानेवाले विद्वानों के समान (कवयः) बुद्धिमान् लोग (तव) तुम्हारी (प्रणीती) उत्तम नीति का (आविवासन्ति) सेवन करते हैं। हे शूर ! जिस कारण तुम (उपयामगृहीतः) प्रजापालनादि नियमों से स्वीकार किये हुए (असि) हो, इससे (त्वा) (इन्द्राय) परमैश्वर्य और (मरुत्वते) प्रजा-सम्बन्ध के लिये हम लोग चाहते हैं कि जो (ते) (एषः) यह विद्या का प्रचार (योनिः) घर के समान है। इससे (त्वा) तुम को (इन्द्राय) परमैश्वर्य्य और (मरुत्वते) प्रजापालन सम्बन्ध के लिये मानते हैं ॥३५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सब विद्वानों को उचित है कि जैसे न्यायाधीशों की न्याययुक्त सभा से जो आज्ञा हो, उस को कभी उल्लङ्घन न करें, वैसे वे राजसभा के सभासद् भी वेदज्ञ विद्वानों की आज्ञा का उल्लङ्घन न करें, जो सब गुणों से उत्तम हो, उसी को सभापति करें और वह सभापति भी उत्तम नीति से समस्त राज्य के प्रबन्धों को चलावे ॥३५॥
दयानन्द-सरस्वती (सं) - विषयः
अथ राजाऽध्यापनादिव्यवहाररक्षणं कथं कुर्य्यादित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मरुत्व इन्द्र ! त्वमिह यथा शार्य्याते सुतस्यापिबस्तथा सोमं पाहि। हे शूर ! तव शर्म्मन् न्यायगृहे सुयज्ञा इव कवयस्तव प्रणीतिमाविवासन्ति, यस्त्वमुपयामगृहीतोऽसि तस्मात् त्वामिन्द्राय मरुत्वते वयं सेवेमहि, ते तवैष विद्याप्रचारो योनिरस्त्यतस्त्वामिन्द्राय मरुत्वते मन्यामहे ॥३५॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सर्वेषां विदुषामुचितमस्ति न्यायराजसभाज्ञां नोल्लङ्घेरन्, तथैते राजसभासभ्यजना अपि विद्वदाज्ञां नोल्लङ्घेरन्। यः सर्वोत्कृष्टस्तं सभापतिं कुर्य्युः, स सभापतिरुत्तमनीत्या सर्वराज्यप्रबन्धं कुर्य्यात् ॥३५॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सर्व विद्वानांनी न्यायसभेच्या न्यायाधीशाच्या आज्ञेचे उल्लंघन करू नये राज्यसभेच्या सभासदांनीही वेदज्ञ विद्वानांच्या आज्ञेचे उल्लंघन करू नये. जो सर्व गुणांनी युक्त असेल त्यालाच राजा करावे व त्या राजाने उत्तम नीतीचा अंगीकार करून सर्व राज्याची व्यवस्था पाहावी.
३६ मरुत्वन्तं वृषभम्
विश्वास-प्रस्तुतिः ...{Loading}...
म॒रुत्व॑न्तं वृष॒भं वा॑वृधा॒नमक॑वारिं॑ दि॒व्यँ शा॒समिन्द्र॑म्। वि॒श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्रँ स॑हो॒दामि॒ह तँ हु॑वेम। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑तऽए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते। उ॒प॒या॒मगृ॑हीतोऽसि म॒रुतां॒ त्वौज॑से ॥३६॥
मूलम् ...{Loading}...
म॒रुत्व॑न्तं वृष॒भं वा॑वृधा॒नमक॑वारिं॑ दि॒व्यँ शा॒समिन्द्र॑म्। वि॒श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्रँ स॑हो॒दामि॒ह तँ हु॑वेम। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑तऽए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते। उ॒प॒या॒मगृ॑हीतोऽसि म॒रुतां॒ त्वौज॑से ॥३६॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
म॒रुत्व॑न्तम्। वृ॒ष॒भम्। वा॒वृ॒धा॒नम्। वा॒वृ॒धा॒नमिति॑ ववृधा॒नम्। अक॑वारि॒मित्यक॑वऽअरिम्। दि॒व्यम्। शा॒सम्। इन्द्र॑म्। वि॒श्वा॒साह॑म्। वि॒श्व॒सह॒मिति॑ विश्व॒ऽसह॑म्। अव॑से। नूत॑नाय। उ॒ग्रम्। स॒हो॒दामिति॑ सहः॒ऽदाम्। इ॒ह। तम्। हु॒वे॒म॒। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। इन्द्रा॑य। त्वा॒। म॒रुत्व॑ते। ए॒षः। ते॒। योनिः॑। इन्द्रा॑य। त्वा॒। म॒रुत्व॑ते। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। म॒रुता॑म् त्वा॒। ओज॑से। ३६।
महीधरः
म०. द्वितीयं मरुत्वतीयमाह ‘वशिना मरुत्वतीयग्रहणं मरुत्वन्तमिति’ (का० १० । ३।६)। रिक्तेन पात्रेण सशस्त्रमरुत्वतीयग्रहणम् । इहास्मिन्नस्मदीये यज्ञे तमिन्द्रं वयं हुवेम आह्वयामः । ह्वेञः शपि व्यत्ययेन संप्रसारणम् । किंभूतमिन्द्रम् । : मरुत्वन्तं मरुद्गणोपेतम् । वृषभं जलस्य वर्षितारम् । वावृधानम् । संहितायां दीर्घः । वर्धते कामान्वर्धयति वा ववृधानस्तम् । ‘बहुलं छन्दसि’ (पा० २ । ४ । ७६) इति वर्धतेः शानचि जुहोत्यादित्वेन श्लु: ‘श्लौ’ (पा० ६ । १ । १० ) इति द्वित्वम् । | अकवारिं कुत्सिता अरयो यस्य स कवारिः न कवारिरकवारिस्तं यस्य शत्रवोऽप्यकुत्सिता वृत्रादयः । यद्वा अकुत्सितमियर्ति ऐश्वर्यं प्राप्नोतीत्यकवारिस्तम् उत्कृष्टैश्वर्यम् । दिव्यं दिवि भवं द्युलोकस्थम् । शासं शास्तीति शासः पचाद्यच् । शासितारं दुष्टानाम् । यद्वा शासनं शासस्तद्वन्तम् । अर्शआदित्वादच् । प्रशासनवन्तम् । विश्वासाहं विश्वं पालयितुं सहते स विश्वासाट् तम् । अनलसमित्यर्थः । ‘भजसहवहाम्’ इति विण् । यद्वा सहतिरभिभवार्थः । स्वधर्मच्युतस्य विश्वस्य सर्वस्याभिभवितारम् । नूतनाय अवसे नवीनाय पालनाय इदानींतनयजमानरक्षणाय उग्रमुद्गूर्णवज्रम् । सहोदां सहो बलं ददाति सहोदास्तं क्विप् बलप्रदम् । उपयाम एष ते एतद्यजुर्द्वयं व्याख्यातम् । तृतीयं मरुत्वतीयमाह । ‘ऋतुपात्रेण मरुत्वतीयग्रहणमुपयामगृहीतोऽसि मरुतां त्वौजस इति’ (का० १० । ३ । ३)। मरुत्वतीयोऽयम् । मरुत्वद्देवत्वं यजुः । हे मरुत्वतीय ग्रह, मरुतां देवानामोजसे बलाय त्वा त्वां गृह्णामीति शेषः । ओज इति बलनाम । स त्वमुपयामेन गृहीतोऽसि स्वबलं निधायेन्द्रं प्रत्यागता मरुतोऽनेन ग्रहेण गृहीतेन सबला जाता इति भावः ॥ ३६॥
सप्तत्रिंशी।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- विश्वामित्र ऋषिः
- विराड् आर्षी त्रिष्टुप्, विराड् आर्ची पङ्क्तिः, साम्नी उष्णिक्
- धैवतः, ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी राजा और प्रजा को क्या करना चाहिये, यह उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (कवयः) पूर्वोक्त हम विद्वान् लोग (नूतनाय) नवीन-नवीन (अवसे) रक्षा आदि गुणों के लिये (मरुत्वन्तम्) प्रशंसनीय प्रजायुक्त (वृषभम्) सब से उत्तम (वावृधानम्) अत्यन्त शुभगुण और कर्मों में उन्नति को प्राप्त (अकवारिम्) समस्त धर्मविरोधी दुष्टों का निवारण करनेवाले (दिव्यम्) शुद्ध (विश्वासाहम्) सर्व सहनशील (उग्रम्) प्रचण्ड पराक्रमयुक्त (सहोदाम्) सहायता (शासम्) और सब को शिक्षा देनेवाले (तम्) उस पूर्वोक्त (इन्द्रम्) परमैश्वर्य्ययुक्त सभापति को निम्नलिखित प्रकार से (हुवेम) स्वीकार करें। हे मुख्य सभासद् राजन् ! तू जिस कारण (उपयामगृहीतः) समस्त बड़े-बड़े और छोटे-छोटे नियमों की सामग्री से सहित (असि) है, इससे (त्वा) तुझ को (मरुत्वते) प्रशंसनीय प्रजायुक्त (इन्द्राय) परमैश्वर्यवान् सभापति होने के लिये स्वीकार करते हैं, (एषः) यह सभा में न्याय करने का काम (ते) तेरा (योनिः) घर के तुल्य है, इससे (त्वा) तुझे (मरुत्वते) उत्तम प्रजा से युक्त (इन्द्राय) अत्यन्त ऐश्वर्य्य के पालन और वृद्धि होने के लिये स्वीकार करते हैं और जिस कारण तू (उपयामगृहीतः) उक्त सब नियम और उपनियमों से संयुक्त (असि) है, इससे (मरुताम्) प्रजाजनों का (ओजसे) बल बढ़ाने के लिये (त्वा) तुझे ग्रहण करते हैं ॥३६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में पिछले मन्त्र से (कवयः) इस पद की अनुवृत्ति आती है। प्रजाजनों को योग्य है कि जो सर्वोत्तम, समस्त विद्याओं में निपुण, सकल शुभगुणयुक्त विद्वान् शूरवीर हो, उसको सभा के मुख्य काम में स्थापन करें और वह सभा के सब कामों में स्थापित किया हुआ सभापति सत्य, न्याययुक्त धर्म्म कार्य्य से प्रजा के उत्साह की उन्नति करे ॥३६॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः राजप्रजाकृत्यमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - कवयो वयं नूतनायावसे मरुत्वन्तं वृषभं वावृधानमकवारिं दिव्यं विश्वासाहमुग्रं सहोदां शासं तं पूर्वोक्तमिन्द्रं हुवेम। हे मुख्यसभासद् ! यतस्त्वमुपयामगृहीतोऽसि तस्मात् त्वा त्वां मरुत्वत इन्द्राय यतस्ते तवैष योनिरस्त्यतस्त्वा मरुत्वत इन्द्राय यतस्त्वमुपयामगृहीतोऽसि तस्मान्मरुतामोजसे बलाय च त्वा त्वां हुवेम ॥३६॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र पूर्वस्मान्मन्त्रात् (कवयः) इत्येतत्पदमनुवर्तते। प्रजाजनानां योग्यतास्ति, यः सर्वोत्तमः सकलगुणयुक्तो विपश्चिच्छूरवीरो भवेत् तं सभाया मुख्यकर्मणि संस्थापयेयुः, स सभायां नियुक्तः सत्यन्यायधर्म-युक्तराज्यकर्मणा प्रजाबलं वर्द्धयेत् ॥३६॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात पूर्वीच्या मंत्रातील (कवयः) या पदाची अनुवृत्ती होते. जो सर्वोत्तम व सर्व विद्येमध्ये निपुण आणि सर्व चांगल्या गुणांनी संपन्न, विद्वान, शूरवीर असेल त्याला सभेच्या मुख्यस्थानी नियुक्त करावे व अशा राजाने सत्य व न्याययुक्त धर्मकार्यात प्रजेचा उत्साह वाढवावा.
३७ सजोषाऽइन्द्र सगणो
विश्वास-प्रस्तुतिः ...{Loading}...
स॒जोषा॑ऽइन्द्र॒ सग॑णो म॒रुद्भिः॒ सोमं॑ पिब वृत्र॒हा शू॑र वि॒द्वान्। ज॒हि शत्रूँ॒२रप॒ मृधो॑ नुद॒स्वाथाभ॑यं कृणुहि वि॒श्वतो॑ नः। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑तऽए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते ॥३७॥
मूलम् ...{Loading}...
स॒जोषा॑ऽइन्द्र॒ सग॑णो म॒रुद्भिः॒ सोमं॑ पिब वृत्र॒हा शू॑र वि॒द्वान्। ज॒हि शत्रूँ॒२रप॒ मृधो॑ नुद॒स्वाथाभ॑यं कृणुहि वि॒श्वतो॑ नः। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑तऽए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते ॥३७॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स॒जोषा॒ इ॒ति॑ स॒ऽजोषाः॑। इ॒न्द्र॒। सग॑ण इति॒ सऽग॑णः। म॒रुद्भि॒रिति॑ म॒रुत्ऽभिः॑। सोम॑म्। पि॒ब॒। वृ॒त्र॒हेति॑ वृत्र॒ऽहा। शू॒र॒। वि॒द्वान्। ज॒हि। शत्रू॑न्। अप॑। मृधः॑। नु॒द॒स्व॒। अथ॑। अ॒भय॑म्। कृ॒णु॒हि॒। वि॒श्वतः॑। नः॒। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। इन्द्रा॑य। त्वा॒। म॒रुत्व॑ते। ए॒षः। ते॒। योनिः॑। इन्द्रा॑य। त्वा॒। म॒रुत्व॑ते। ३७।
महीधरः
म० सजोषा इन्द्रेति (३७) मरुत्वां इन्द्रेति (३८) ऋग्द्वयस्य सोपयामस्य मरुत्वतीयग्रहणे एव विनियोगः वाचस्तोमे ‘वाचस्तोमाश्चत्वारः’ (२२ । ६ । २४) इति कात्यायनोक्तेः मरुत्वां इन्द्रेति मरुत्वतीयमित्याश्वलायनोक्तेश्च । हे इन्द्र, हे शूर वीर, त्वं सोमं पिब । किंभूतस्त्वम् । सजोषाः ‘जुषी प्रीतिसेवनयोः’ जोषणं जोषः प्रीतिः असुन्प्रत्ययः । तेन सह वर्तमानः संतुष्टः मरुद्भिः कृत्वा सगणः सपरिवारः। मरुद्गणसहित इत्यर्थः । वृत्रहा वृत्रं दैत्यं हन्तीति । अनेन सोमपानेन वृत्रं हनिष्यसीत्यर्थः । विद्वानेतमर्थं जानानः ततः सोमं पीत्वा शत्रून् वृत्रादीन् जहि मारय । किंच मृधः सङ्ग्रामान् अपनुदस्व । ‘नुद प्रेरणे’ । युद्धं निवर्तयेत्यर्थः । ‘दीर्घादटि समानपदे’ (पा० ८ । ३ । ९) इति शत्रूनिति नस्य रुत्वं पूर्वस्य सानुनासिकत्वम् । यद्वा मृधः इति पञ्चम्येकवचनं । मृधः सङ्ग्रामात् अपनुदस्व शत्रूनित्यस्यानुषङ्गः । ये हतावशिष्टाः शत्रवस्तान् सङ्ग्रामात् पलायनार्थं प्रेरयस्व । प्राणदानं कुर्वित्यर्थः । एवं रिपुनाशं कृत्वाथानन्तरं नोऽस्माकं विश्वतः सर्वतः अभयं कृणुहि कुरु ‘कृञ् करणे’ स्वादिः । उपयामेति व्याख्यातं शत्रूनपेत्यत्र ‘दीर्घादटि समानपदे’ (पा० ८ । ३ । ९) इति नस्य रुत्वम् ‘अत्रानुनासिकः पूर्वस्य तु वा’ (पा० ८ । ३ । २) तत्पूर्वस्य ऊकारस्यानुनासिकत्वम् ॥ ३७॥
अष्टत्रिंशी।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- विश्वामित्र ऋषिः
- निचृद् आर्षी त्रिष्टुप्, विराड् आर्ची पङ्क्तिः
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब सेनापति का काम अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - ईश्वर कहता है कि (इन्द्र) सब सुखों के धारण करने हारे (शूर) शत्रुओं के नाश करने में निर्भय ! जिससे तू (उपयामगृहीतः) सेना के अच्छे-अच्छे नियमों से स्वीकार किया हुआ (असि) है, इससे (मरुत्वते) जिसमें प्रशंसनीय वायु की अस्त्रविद्या है, उस (इन्द्राय) परमैश्वर्य्य पहुँचानेवाले युद्ध के लिये (त्वा) तुझ को उपदेश करता हूँ कि (ते) तेरा (एषः) यह सेनाधिकार (योनिः) इष्ट सुखदायक है, इससे (मरुत्वते) (इन्द्राय) उक्त युद्ध के लिये यत्न करते हुए तुझ को मैं अङ्गीकर करता हूँ और (सजोषाः) सबसे समान प्रीति करनेवाला (सगणः) अपने मित्रजनों के सहित तू (मरुद्भिः) जैसे पवन के साथ (वृत्रहा) मेघ के जल को छिन्न-भिन्न करनेवाला सूर्य्य (सोमम्) समस्त पदार्थों के रस को खींचता है, वैसे सब पदार्थों के रस को (पिब) सेवन कर और इससे (विद्वान्) ज्ञानयुक्त हुआ तू (शत्रून्) सत्यन्याय के विरोध में प्रवृत्त हुए दुष्टजनों का (जहि) विनाश कर। (अथ) इसके अनन्तर (मृधः) जहाँ दुष्टजन दूसरे के दुःख से अपने मन को प्रसन्न करते हैं, उन सङ्ग्रामों को (अपनुदस्व) दूर कर और (नः) हम लोगों को (विश्वतः) सब जगह से (अभयम्) भयरहित (कृणुहि) कर ॥३७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे जीव प्रेम के साथ अपने मित्र वा शरीर की रक्षा करता है, वैसे ही राजा प्रजा की पालना करे और जैसे सूर्य्य वायु और बिजुली के साथ मेघ का भेदन कर जल से सब को सुख देता है, वैसे राजा को चाहिये कि युद्ध की सामग्री जोड़ और शत्रुओं को मार कर प्रजा को सुख धर्म्मात्माओं की निर्भयता और दुष्टों को भय देवे ॥३७॥
दयानन्द-सरस्वती (सं) - विषयः
अथ सेनापतिकृत्यमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे इन्द्र सेनापते शूर ! यतस्त्वमुपयामगृहीतोऽस्यतो मरुत्वत इन्द्राय त्वा त्वामुपदिशामि। किमित्यपेक्षायामाह ते तवैष योनिरस्त्यतस्त्वां मरुत्वत इन्द्राय प्रयतमानमङ्गीकरोमि, सजोषा सगणस्त्वं मरुद्भिर्वृत्रहा इव सोमं पिब, तं पीत्वा विद्वान् सन् शत्रूञ्जहि, अथ मृधोपनुदस्व नोऽस्मभ्यं विश्वतोऽभयं कृणुहि ॥३७॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा जीवः प्रेम्णा स्वस्य मित्रस्य वा शरीरस्य रक्षणं करोति, तथा राजा प्रजां पालयेत्। यथा वा सूर्य्यो वायुविद्युद्भ्यां संहत्य मेघान्निहत्य जलेन सर्वस्मै सुखं ददाति, तथा राजा युद्धसाधनानि सम्पाद्य शत्रून्निहत्य प्रजायै सुखं दद्यात्, धर्म्मात्मभ्योऽभयं दुष्टेभ्यो भयं च दद्यात् ॥३७॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. ज्याप्रमाणे माणूस आपले शरीर किंवा मित्र यांचे रक्षण करतो त्याप्रमाणेच राजाने प्रजेचे पालन करावे. ज्याप्रमाणे सूर्य वायू व विद्युत यांच्या साह्याने मेघापासून जल प्राप्त करून सर्वांना सुखी करतो त्याप्रमाणेच राज्याने युद्धसाहित्य बाळगून शत्रूंचे हनन करावे व प्रजा सुखी करावी. धर्मात्मा लोकांना निर्भय करावे व दुष्टांना भयभीत करावे.
३८ मरुत्वाँ२इन्द्र वृषभो
विश्वास-प्रस्तुतिः ...{Loading}...
म॒रुत्वाँ॑२इन्द्र वृष॒भो रणा॑य॒ पिबा॒ सोम॑मनुष्व॒धं मदा॑य। आसि॑ञ्चस्व ज॒ठरे॒ मध्व॑ऽऊ॒र्म्मिं त्वँ राजा॑सि॒ प्रति॑पत् सु॒ताना॑म्। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑तऽए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा मरु॒त्व॑ते ॥३८॥
मूलम् ...{Loading}...
म॒रुत्वाँ॑२इन्द्र वृष॒भो रणा॑य॒ पिबा॒ सोम॑मनुष्व॒धं मदा॑य। आसि॑ञ्चस्व ज॒ठरे॒ मध्व॑ऽऊ॒र्म्मिं त्वँ राजा॑सि॒ प्रति॑पत् सु॒ताना॑म्। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑तऽए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा मरु॒त्व॑ते ॥३८॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
म॒रुत्वा॑न्। इ॒न्द्र॒। वृ॒ष॒भः। रणा॑य। पिब॑। सोम॑म्। अ॒नु॒ष्व॒धम्। अ॒नु॒स्व॒धमित्य॑नुऽस्व॒धम्। मदा॑य। आ। सि॒ञ्चस्व॒। ज॒ठरे॑। मध्वः॑। ऊ॒र्म्मिम्। त्वम्। राजा॑। अ॒सि॒। प्रति॑प॒दिति॒ प्रति॑ऽपत्। सु॒ताना॑म्। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। इन्द्रा॑य। त्वा॒। म॒रुत्व॑ते। ए॒षः। ते॒। योनिः॑। इन्द्रा॑य। त्वा॒। म॒रुत्व॑ते। ३८।
महीधरः
म० हे इन्द्र, त्वं सोमं पिब ‘द्व्यचोऽतस्तिङः’ (पा ६ ।३ । १३५) इति संहितायां दीर्घः । किमर्थम् । मदाय तृप्तये रणाय सङ्ग्रामाय च । मदे सतीन्द्रो योद्धा भवति । किंभूतस्त्वम् । मरुत्वान् मरुतोऽस्य सन्तीति मरुद्गणसंयुक्तः । वृषभः वर्षिता जलानाम् । किंभूतं सोमम् । अनुष्वधम् अनु पश्चात् स्वधान्तानि पुरोडाशधानामन्थदधिपयस्यालक्षणानि यस्य सोऽनुष्वधस्तं ‘पूर्वपदात्-’ (पा० ८ । ३ । १०६) इति पत्वम् । कथं पिबेत्यत्राह । मध्वः मधुनो मधुस्वादोपेतस्य ऊर्मिं कल्लोलं जठरे उदरे आसिञ्चस्व । ‘अनित्यमागमशासनम्’ इति मध्व इत्यत्र | नुमभावः । सोमपाने हेतुमाह । हे इन्द्र, त्वं प्रतिपत्सुतानां प्रतिपत्प्रभृतिषु तिथिषु अभिषुतानां सोमानां राजासि ईश्वरोऽसि किमुत चतुर्दश्यन्तेऽभिषुतानां त्वदर्थमेव सर्वासु तिथिषु सोमोऽभिषूयत इत्यभिप्रायः । छन्दोगानां सवने प्रतिपद्विद्यते इति प्रतिपद्ग्रहणम् । उपयाम एष ते इति व्याख्याते ॥ ३८ ॥
एकोनचत्वारिंशी।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- विश्वामित्र ऋषिः
- निचृद् आर्षी त्रिष्टुप्, विराड् आर्ची पङ्क्तिः
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब सभाध्यक्ष के लिये अगले मन्त्र में उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) शत्रुओं के जीतनेवाले सभापते ! जिस कारण आप (उपयामगृहीतः) राजनियमों से स्वीकार किये हुए (असि) हो, इसलिये हम लोग तुम को (मरुत्वते) जिसमें अच्छे-अच्छे अस्त्रों और शस्त्रों का काम है, उस (इन्द्राय) परमैश्वर्य्य को प्राप्त करनेवाले युद्ध के लिये युक्त करते हैं, जिससे (ते) आपका (एषः) यह युद्ध परमैश्वर्य्य का (योनिः) कारण है, इसलिये (त्वा) तुम को (मरुत्वते) (इन्द्राय) उस युद्ध के लिये कहते हैं कि आप (प्रतिपत्) प्रत्येक बड़े-बड़े विचार के कामों में (राजा) प्रकाशमान (मरुत्वान्) प्रशंसनीय प्रजायुक्त और (वृषभः) अत्यन्त श्रेष्ठ हो, इससे (रणाय) युद्ध और (मदाय) आनन्द के लिये (अनुष्वधम्) प्रत्येक भोजन में (सोमम्) सोमलतादि पुष्ट करनेवाली ओषधियों के रस को (पिब) पीओ (सुतानाम्) उत्तम संस्कारों से बनाये हुए अन्नों के (मध्वः) मधुर रस की (ऊर्म्मिम्) लहरी को अपने (जठरे) उदर में (आसिञ्चस्व) अच्छे प्रकार स्थापन करो ॥३८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। सभा और सेनापति आदि मनुष्यों को चाहिये कि उत्तम से उत्तम पदार्थों के भोजन से शरीर और आत्मा को पुष्ट और शत्रुओं को जीत कर न्याय की व्यवस्था से सब प्रजा का पालन किया करें ॥३८॥
दयानन्द-सरस्वती (सं) - विषयः
अथ सभाध्यक्षायोपदेशः क्रियते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे इन्द्र ! यतस्त्वमुपयामगृहीतोऽसि तस्माद् वयं त्वा त्वां मरुत्वत इन्द्राय नियोजयामो यतस्ते तवैष योनिरस्ति, तस्मात् त्वा त्वां प्रतिपद्राजा प्रत्येककर्म्मणि प्रकाशमानो मरुत्वान् वृषभोऽस्त्यतो रणायानुष्वधं मदाय सोमं पिब, सुतानामन्नानां मध्व ऊर्म्मिं जठर आसिञ्चस्व ॥३८॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। सभासेनापत्यादिमनुष्या उत्तमोत्तमान् पदार्थान् भुक्त्वा शरीरात्मबलं सम्पाद्य शत्रून् विजित्य न्यायव्यवस्थया सर्वान् पालयेयुरिति ॥३८॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. सभा व सेनापती इत्यादींनी उत्तम पदार्थांनी भोजन करून शरीर व आत्मा यांना बलवान करावे व शत्रूंना जिंकून न्यायाने सर्व प्रजेचे पालन करावे.
३९ महाँ२ऽइन्द्रो नृवदा
विश्वास-प्रस्तुतिः ...{Loading}...
म॒हाँ२ऽइन्द्रो॑ नृ॒वदा च॑र्षणि॒प्राऽउ॒त द्वि॒बर्हा॑ऽअमि॒नः सहो॑भिः। अ॒स्म॒द्र्य᳖ग्वावृधे वी॒र्या᳖यो॒रुः पृ॒थुः सुकृ॑तः क॒र्तृभि॑र्भूत्। उ॒प॒या॒मगृ॑हीतोऽसि महे॒न्द्राय॑ त्वै॒ष ते॒ योनि॑र्महे॒न्द्राय॑ त्वा ॥३९॥
मूलम् ...{Loading}...
म॒हाँ२ऽइन्द्रो॑ नृ॒वदा च॑र्षणि॒प्राऽउ॒त द्वि॒बर्हा॑ऽअमि॒नः सहो॑भिः। अ॒स्म॒द्र्य᳖ग्वावृधे वी॒र्या᳖यो॒रुः पृ॒थुः सुकृ॑तः क॒र्तृभि॑र्भूत्। उ॒प॒या॒मगृ॑हीतोऽसि महे॒न्द्राय॑ त्वै॒ष ते॒ योनि॑र्महे॒न्द्राय॑ त्वा ॥३९॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
म॒हान्। इन्द्रः॑। नृ॒वदिति॑ नृ॒ऽवत्। आ। च॒र्ष॒णि॒प्रा इति॑ चर्षणि॒ऽप्राः। उ॒त। द्वि॒बर्हा॒ इति॑ द्वि॒बर्हाः॑। अ॒मि॒नः। सहो॑भि॒रिति॒ सहः॑ऽभिः। अ॒स्म॒द्र्य᳖क्। वा॒वृ॒धे॒। व॒वृ॒ध॒ इति॑ ववृधे। वी॒र्य्या᳖य। उ॒रुः। पृ॒थुः। सुकृ॑त॒ इति॒ सुऽकृ॑तः। क॒र्तृभि॒रिति॑ क॒र्तृ॒ऽभिः॑। भू॒त्। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। म॒हे॒न्द्रायेति॑ महाऽइ॒न्द्रा॑य। त्वा॒। ए॒षः। ते॒। योनिः॑। म॒हे॒न्द्रायेति॑ महाऽइ॒न्द्राय॑। त्वा॒। ३९।
महीधरः
म० ‘माहेन्द्रं गृह्णाति वैश्वदेववन्महाᳪं᳭ इन्द्र इति’ (का० १०।३ । १०)। यथा वैश्वदेवग्रहः शुक्रपात्रेण गृहीतस्तथा माहेन्द्रं ग्रहं तेनैव गृह्णीयात् । माहेन्द्री त्रिष्टुप् भरद्वाजदृष्टा । तृतीयपादो नवाक्षरः । इन्द्रो वीर्याय वीरकर्मणे वावृधे ववृधे वर्धते । ‘छन्दसि लुङलङ्लिटः’ (पा० ३।४। ६) इति वर्तमाने लिट् संहितायामभ्यासदीर्घः । किंभूत इन्द्रः । महान्महाप्रभवः तथापि नृवन्मनुष्यवत् आहूयमान आगच्छति । यद्वा नृवन्मनुष्यवत् आचर्षणिप्राः आ समन्ताच्चर्षणीन्मनुष्यान् प्राति अभीष्टकामैः पूरयतीत्याचर्षणिप्राः । ‘प्रा पूरणे’ क्विप् । यथा राजा अमात्यादिर्मनुष्यः सेवकानभीष्टकामैः पूरयति तद्वत् । उतापिच द्विबर्हाः ‘बृहि वृद्धौ’ बर्हणं बर्हः वृद्धिः असुन्प्रत्ययः । द्वयोः प्रकृतिविकृतिरूपयोः सोमयागयोर्बर्हो यस्य स द्विबर्हाः । यद्वा द्वयोः स्थानयोर्बर्हाः वृद्धः परिवृद्धः प्रभुः मध्यमे स्थाने उत्तमे च । तथा सहोभिः बलैः अमिनः अमितः उपमारहितः । अतोलितबल इत्यर्थः । ‘अमिनोऽमितमात्रो महान्भवत्यभ्यमितो वा’ ( नि० ६ । १६) इति यास्कोक्तेः । यद्वा सहोभिः शतबलैरभितः अप्रक्षिप्तः । अनुपहिंसित इत्यर्थः । ‘डुमिञ् प्रक्षेपे’ । ‘मीञ् हिंसायाम्’ इत्यस्य वा प्रयोगः । पूर्वपक्षे माने सर्वत्र निष्ठानत्वमार्षम् । तथा अस्मद्र्यक् अस्मान् प्रत्यञ्चतीत्यस्मद्द्र्यक् अस्मदभिमुखः । अस्मच्छब्दे उपपदेऽञ्चतेः क्विप् विष्वग्देवयोश्च’ (पा० ६।३।९२) इत्यादिना क्विबन्तेऽञ्चतौ परेऽस्मच्छब्दस्य टेरद्र्यादेशः ‘उगिदचाम्-’ (पा० ७ । १। ७० ) इति प्राप्तस्य नुमोऽभावश्छान्दसः । स वर्धमान इन्द्र ईदृशो भूत् भवतु । लोडर्थे लुङ् । अडभावश्छान्दसः । कीदृशः । उरुः यशसा विपुलः पृथुः बलेन विस्तृतः कर्तृभिर्यजमानैः सुकृतः साधुकृतः सत्कृतः पूजित इत्यर्थः । हे ग्रह, त्वमुपयामेन गृहीतोऽसि महेन्द्राय त्वां गृह्णामि । सादयति एष ते योनिः महेन्द्राय त्वा सादयामि ॥ ३९ ॥
चत्वारिंशी।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- भरद्वाज ऋषिः
- भुरिक् पङ्क्तिः, साम्नी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब ईश्वर अपने गुणों का उपदेश अगले मन्त्र में करता है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे भगवन् जगदीश्वर ! जिस कारण आप (उपयामगृहीतः) योगाभ्यास से ग्रहण करने के योग्य (असि) हैं, इससे (महेन्द्राय) अत्यन्त उत्तम ऐश्वर्य के लिये हम लोग (त्वा) आपकी उपासना करते हैं (उत) और जिससे (ते) आपकी (एषः) यह उपासना हमारे लिये (योनिः) कल्याण का कारण है, इससे (त्वा) तुम को (महेन्द्राय) परमैश्वर्य्य पाने के लिये हम सेवन करते हैं, जो (महान्) सर्वोत्तम अत्यन्त पूज्य (नृवत्) मनुष्यों के तुल्य (आ) अच्छे प्रकार (चर्षणिप्राः) सब मनुष्यों को सुखों से परिपूर्ण करने (द्विबर्हाः) व्यवहार और परमार्थ के ज्ञान को बढ़ानेवाले दो प्रकार के ज्ञान से संयुक्त (अस्मद्र्यक्) हम सब प्राणियों को अपनी सर्वज्ञता से जाननेवाले (अमिनः) अतुल पराक्रमयुक्त (उरुः) बहुत (पृथुः) विस्तारयुक्त (कर्त्तृभिः) अच्छे कर्म्म करनेवाले जीवों ने (सुकृतः) अच्छे कर्म्म करनेवाले के समान ग्रहण किये हुए और (इन्द्रः) अत्यन्त उत्कृष्ट ऐश्वर्य्यवाले आप हैं, उन्हीं का आश्रय किये हुए समस्त हम लोग (सहोभिः) अच्छे-अच्छे बलों के साथ (वीर्य्याय) परम उत्तम बल की प्राप्ति के लिये (वावृधे) दृढ़ उत्साहयुक्त होते हैं ॥३९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। ईश्वर का आश्रय न करके कोई भी मनुष्य प्रजा की रक्षा नहीं कर सकता। जैसे ईश्वर सनातन न्याय का आश्रय करके सब जीवों को सुख देता है, वैसे ही राजा को भी चाहिये कि प्रजा को अपनी न्याय व्यवस्था से सुख देवे ॥३९॥
दयानन्द-सरस्वती (सं) - विषयः
अथेश्वरः स्वगुणानाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे भगवन् जगदीश्वर ! यतस्त्वमुपयामगृहीतोऽसि तस्मान्महेन्द्राय त्वा वयमुपास्महे, उतापि यतस्ते तवैष योनिरस्ति, तस्मात् त्वां महेन्द्राय वयं सेवामहे। यो महान् नृवदाचर्षणिप्रा द्विबर्हास्मद्र्यङ् अमिन उरुः पृथुः कर्तृभिः सह सुकृत इन्द्रो भूत्। तमेवाश्रितः सर्वो जनः सहोभिः सह वीर्य्याय वावृधे ॥३९॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। ईश्वरमनाश्रित्य कश्चिदपि पुरुषः प्रजाः पालयितुं न शक्नोति। यथेश्वरः शाश्वतं न्यायमाश्रित्य सर्वान् प्राणिनः सुखयति, तथैव राजापि सर्वान् तर्पयेत् ॥३९॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. ईश्वराचा आश्रय न घेता कोणीही प्रजेचे रक्षण करू शकत नाही. जसा परमेश्वर सदैव न्यायी असून, सर्व जीवांना सुखी करतो तसे राजानेही प्रजेला आपल्या न्यायव्यवस्थेने सुखी करावे.
४० महाँ२ऽइन्द्रो यऽओजसा
विश्वास-प्रस्तुतिः ...{Loading}...
म॒हाँ२ऽइन्द्रो॒ यऽओज॑सा प॒र्जन्यो॑ वृष्टि॒माँ२ऽइ॑व। स्तोमै॑र्व॒त्सस्य॑ वावृधे। उ॒प॒या॒मगृ॑हीतोऽसि महे॒न्द्राय॑ त्वै॒ष ते॒ योनि॑र्महे॒न्द्राय॑ त्वा ॥४०॥
मूलम् ...{Loading}...
म॒हाँ२ऽइन्द्रो॒ यऽओज॑सा प॒र्जन्यो॑ वृष्टि॒माँ२ऽइ॑व। स्तोमै॑र्व॒त्सस्य॑ वावृधे। उ॒प॒या॒मगृ॑हीतोऽसि महे॒न्द्राय॑ त्वै॒ष ते॒ योनि॑र्महे॒न्द्राय॑ त्वा ॥४०॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
म॒हान्। इन्द्रः॑। यः। ओज॑सा। प॒र्जन्यः॑। वृ॒ष्टि॒माँ२इ॑व। वृ॒ष्टि॒मानि॒वेति॑ वृष्टि॒मान्ऽइ॑व। स्तोमैः॑। व॒त्सस्य॑। वा॒वृ॒धे॒। व॒वृ॒ध इति॑ ववृधे। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मगृ॑हीतः। अ॒सि॒। म॒हे॒न्द्रायेति॑ महाऽइ॒न्द्रा॑य। त्वा॒। ए॒षः। ते॒। योनिः॑। म॒हे॒न्द्रायेति॑ महाऽइ॒न्द्राय॑। त्वा॒। ४०।
महीधरः
म० माहेन्द्री गायत्री वत्सदृष्टा । माहेन्द्रग्रहण एव विकल्पेन विनियुक्ता । य इन्द्रः वत्सस्य वसनशीलस्य वत्सस्थानीयस्य वा यजमानस्य स्तोमैः स्तोत्रैर्वावृधे ववृधे वर्धते । कीदृश | इन्द्रः । ओजसा तेजसा महान् । क इव वृष्टिमान्वृष्टियुक्तः | पर्जन्य इव । यथा वर्षन्मेघो धाराबलेन महान्वर्धते । उपयाम एष ते इति व्याख्याते ॥ ४० ॥
एकचत्वारिंशी।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- वत्स ऋषिः
- आर्षी गायत्री, विराड् आर्षी त्रिष्टुप्
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी ईश्वर के गुणों का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे अनादिसिद्ध योगिन् सर्वव्यापी ईश्वर ! जो आप योगियों के (उपयामगृहीतः) यमनियमादि योग के अङ्गों से स्वीकार किये हुए (असि) हैं, इस कारण हम लोग (त्वा) आप के (महेन्द्राय) योग से प्रकट होनेवाले अच्छे ऐश्वर्य्य के लिये आश्रय करते हैं, (ते) आपका (एषः) यह योग हमारे कल्याण का (योनिः) निमित्त है, इसलिये (त्वा) आपका (महेन्द्राय) मोक्ष करानेवाले ऐश्वर्य के लिये ध्यान करते हैं, (यः) जो (महान्) बड़े-बड़े गुण, कर्म्म और स्वभाववाला (वृष्टिमान्) वर्षनेवाले (पर्जन्य इव) मेघ के तुल्य (वत्सस्य) स्तुतिकर्त्ता की (स्तोमैः) स्तुतियों से (ओजसा) अनन्त बल के साथ प्रकाशित होता है, उस ईश्वर को जानकर योगी (वावृधे) अत्यन्त उन्नति को प्राप्त होता है ॥४०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे मेघ वर्षा समय में अपने जल के समूह से सब पदार्थों को तृप्त करता हुआ उन्नति देता है, वैसे ईश्वर भी योगाभ्यास करनेवाले योगी पुरुष के योग को अत्यन्त बढ़ाता है ॥४०॥
दयानन्द-सरस्वती (सं) - विषयः
पुनरीश्वरगुणा उपदिश्यन्ते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अनादिसिद्ध महायोगिन् सर्वव्यापिन्नीश्वर ! यतत्वं योगिभिरुपयामगृहीतोऽसि तस्मात् त्वा त्वां महेन्द्रायोपश्रयामहे, यतस्ते तवैष योगो योनिरस्त्यतस्त्वा त्वां महेन्द्राय वयं ध्यायेम। यो महान् वृष्टिमान् पर्जन्य इव वत्सस्य स्तोमैरोजसेन्द्रः सुखवर्षको भवति, तं विदित्वा योगी वावृधेऽत्यन्तं वर्द्धते ॥४०॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यथा मेघो वृष्टिसमये स्वजलसमूहेन सर्वान् पदार्थान् तर्पयन् सन् वर्द्धयति, तथैवेश्वरो योगाराधनतत्परं योगिनमभिवर्द्धयति ॥४०॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जसा मेघ आपल्या जलाने सर्व पदार्थांना तृप्त करून त्यांची वृद्धी होण्यास साह्यभूत ठरतो तसेच ईश्वरही योगाभ्यास करणाऱ्या योगी पुरुषांची उन्नती होण्यास कारणीभूत ठरतो.
४१ उदु त्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑। दृ॒शे विश्वा॑य॒ सूर्यँ॒ स्वाहा॑ ॥४१॥
मूलम् ...{Loading}...
उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑। दृ॒शे विश्वा॑य॒ सूर्यँ॒ स्वाहा॑ ॥४१॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उत्। ऊँ॒ऽइत्यूँ॑। त्यम्। जा॒तवे॑दस॒मिति॑ जा॒तऽवे॑दसम्। दे॒वम्। व॒ह॒न्ति॒। के॒तवः॑। दृ॒शे। विश्वा॑य। सूर्य्य॑म्। स्वाहा॑। ४१।
महीधरः
म० ‘शालाद्वार्ये दाक्षिणहोमो वासःप्रबद्धᳪं᳭ हिरण्यᳪं᳭ हवन्यामवधाय चतुर्ग्रहीतमुदुत्यमिति’ (का० १० । २ । ४ । ५)। वस्त्रबद्धं स्वर्णं जुह्वां निधाय शालाद्वार्येऽग्नौ चतुर्ग्रहीताज्येन दक्षिणसंज्ञो होमः कार्यः । सौरी गायत्री प्रस्कण्वदृष्टा । तृतीयः पादः सप्तार्णः । उ निपातः पादपूरणः । त्यमिति त्यच्छब्दश्छान्दसः तच्छब्दार्थे । केतवो रश्मयः त्यं तं प्रसिद्धं सूर्य देवमुद्वहन्ति । ‘देवो दानाद्द्योतनाद्वा’ (नि. ७ ॥ २० ) इति यास्कः । किंभूतं सूर्यम् । जातवेदसं जातं वेदो ज्ञानं धनं वा यस्मात्तम् । किमर्थमुद्वहन्ति । विश्वाय दृशे षष्ठ्यर्थे चतुर्थी । विश्वस्य दर्शनाय जगद्द्रष्टुमित्यर्थः। ‘दृशे विख्ये च’ (पा० ३ । ४ । ११) इति तुमर्थे निपातः । तस्मै स्वाहा सुहुतमस्तु ॥४१॥
द्विचत्वारिंशी।
अधिमन्त्रम् (VC)
- सूर्य्यो देवता
- प्रस्कण्व ऋषिः
- भुरिग् आर्षी गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
इसके पीछे सूर्य्य की उपमा से ईश्वर के गुणों का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जैसे किरण (विश्वाय) समस्त जगत् के प्रयोजन के (दृशे) देखने जानने के लिये (जातवेदसम्) जो उत्पन्न हुए सब पदार्थों को जानता वा मूर्तिमान् पदार्थों को प्राप्त होता है, (त्यम्) उस (सूर्य्यम्) (देवम्) दिव्यगुणसम्पन्न सूर्य्य को (उ) तर्क के साथ (उत्) (वहन्ति) प्राप्त कराते हैं, वैसे विद्वान् के (केतवः) प्रकृष्ट ज्ञान और (स्वाहा) सत्य वाणी या उपदेश मनुष्य को परब्रह्म की प्राप्ति करा देता है ॥४१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे प्राणियों के लिये सूर्य्य की किरण उसको प्रकाशित करती है, वैसे मनुष्य की अनेक विद्यायुक्त बुद्धियाँ ईश्वर का प्रकाश करा देती हैं ॥४१॥
दयानन्द-सरस्वती (सं) - विषयः
अथ सूर्य्यदृष्टान्तेनेश्वरस्य गुणा उपदिश्यन्ते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यथा किरणा विश्वाय दृशे जातवेदसं त्यं सूर्य्यं देवमुद्वहन्तीव विदुषः केतवः स्वाहाऽन्यान् मनुष्यान् परं ब्रह्म प्रापयन्ति ॥४१॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यथा प्राणिभ्यः किरणाः सूर्य्यं प्रकाशयन्ति, तथा मनुष्यस्य प्रज्ञानानीश्वरं प्रापयन्ति ॥४१॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जसे सर्व प्राण्यांना सूर्यकिरणांद्वारे सर्व पदार्थ दृश्यमान होतात तसेच विद्वान माणसांची प्रखर बुद्धी ही ईश्वराचे ज्ञान प्रकट करते.
४२ चित्रं देवानामुदगादनीकम्
विश्वास-प्रस्तुतिः ...{Loading}...
चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः। आप्रा॒ द्यावा॑पृथि॒वीऽअ॒न्तरि॑क्षँ॒ सूर्य॑ऽआ॒त्मा जग॑तस्त॒स्थुष॑श्च॒ स्वाहा॑ ॥४२॥
मूलम् ...{Loading}...
चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः। आप्रा॒ द्यावा॑पृथि॒वीऽअ॒न्तरि॑क्षँ॒ सूर्य॑ऽआ॒त्मा जग॑तस्त॒स्थुष॑श्च॒ स्वाहा॑ ॥४२॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
चित्र॒म्। दे॒वाना॑म्। उत्। अ॒गा॒त्। अनी॑कम्। चक्षुः॑। मि॒त्रस्य॑। वरु॑णस्य। अ॒ग्नेः। आ। अ॒प्राः॒। द्यावा॑पृथि॒वीऽइति॒ द्यावा॑पृथि॒वी। अ॒न्तरि॑क्षम्। सूर्य्यः॑। आ॒त्मा। जग॑तः। त॒स्थुषः॑। च॒। स्वाहा॑। ४२।
महीधरः
म० ‘चित्रं देवानामिति द्वितीयमिति’ (का० १० । २ । ६)। चतुर्गृहीतेन शालाद्वार्ये द्वितीयामाहुतिं जुहोति । सौरी त्रिष्टुप् कुत्सदृष्टा । परापररूपेण स्थितः सूर्योऽत्र स्तूयते । सूर्यः चित्रमाश्चर्यं यथा तथा उदगात् उदयं प्राप्तः उद्गच्छति वा। लडर्थे लुङ् । उदयन्नेव स्वतेजसा नैशं तमो हन्ति अन्येषां ज्योतींष्यादत्त इत्याश्चर्यम् । किंभूतः सूर्यः । देवानाम् दीव्यन्ति द्योतन्ते इति देवाः किरणास्तेषामनीकं मुखमाश्रय इत्यर्थः । यद्वानीकं समूहः । किरणपुत्र इत्यर्थः । तथा मित्रस्य वरुणस्य अग्नेः चक्षुः । नेत्रवत्प्रकाशक इत्यर्थः । मित्रादय उपलक्षकाः सर्वस्य सदेवमनुप्यस्य विश्वस्य रूपाणि सूर्योदयेऽभिव्यज्यन्ते । अतो मित्रादीनां चक्षुः स सूर्य उद्गतः सन् द्यावापृथिवी दिवं भूमिं चान्तरिक्षं चाप्राः आपूरितवान् आपूरयति वा । स्वतेजसेति शेषः । एवमपररूपेण स्तुला पररूपेण स्तौति । किंभूतः सूर्यः । जगतो जङ्गमस्य तस्थुषः स्थावरस्य च जगत आत्मान्तर्यामी । ‘यमेतमादित्ये पुरुषं वेदयन्ते स इन्द्रः स प्रजापतिस्तद्ब्रह्म’ इति श्रुतेः सूर्याद्वैतमनेनोच्यत इति भावः । तस्मै स्वाहा सुहुतमस्तु ॥ ४२ ॥
त्रिचत्वारिंशी।
अधिमन्त्रम् (VC)
- सूर्य्यो देवता
- कुत्स ऋषिः
- भुरिग् आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वैसे ही ईश्वर के गुणों का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम को अति उचित है कि जो (सूर्य्यः) सविता (स्वाहा) सत्य क्रिया से (देवानाम्) नेत्र आदि के समान विद्वानों (मित्रस्य) मित्र वा प्राण (वरुणस्य) श्रेष्ठ पुरुष वा उदान और (अग्नेः) अग्नि के (चित्रम्) अद्भुत (अनीकम्) बलवत्तर सेना के तुल्य प्रसिद्ध (चक्षुः) प्रभाव के दिखलानेवाले गुणों को (उत्) (अगात्) अच्छे प्रकार प्राप्त होता और (जगतः) जङ्गम प्राणी और (तस्थुषः) स्थावर संसारी पदार्थों का (आत्मा) आत्मा के तुल्य होकर (द्यावापृथिवी) आकाश तथा भूमि और (अन्तरिक्षम्) अन्तरिक्ष को (आ) सब प्रकार से (अप्राः) व्याप्त होने के समान परमात्मा है, उसी की उपासना निरन्तर किया करो ॥४२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जिस कारण परमेश्वर आकाश के समान सब जगह व्याप्त, सूर्य्य के तुल्य स्वयं प्रकाशमान और सूत्रात्मा वायु के सदृश सब का अन्तर्यामी है, इससे सब जीवों के लिये सत्य और असत्य को बोध करानेवाला है। जिस किसी पुरुष को परमेश्वर को जानने की इच्छा हो, वह योगाभ्यास करके अपने आत्मा में उसे देख सकता है, अन्यत्र नहीं ॥४२॥
दयानन्द-सरस्वती (सं) - विषयः
पुनरित्थमेवेश्वरस्य गुणा उपदिश्यन्ते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्या ! युष्माभिः सूर्य्यः स्वाहा देवानां मित्रस्य वरुणस्याग्नेश्चित्रमनीकं चक्षुरुदगात् जगतस्तस्थुषश्चात्मा सन् द्यावापृथिवी अन्तरिक्षमाप्रा इव यो जगदीश्वरोऽस्ति, स एव सततमुपासनीयः ॥४२॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यतः परमेश्वरः आकाश इव सर्वत्र व्याप्तः, सवितेव स्वयम्प्रकाशः, प्राण इव सर्वान्तर्य्याम्यस्त्यतः सर्वेभ्यो जीवेभ्यः सत्यासत्यविज्ञापकोऽस्ति। यस्य परमेश्वरस्य ज्ञीप्सा भवेत्, स योगमभ्यस्य स्वात्मन्येव तं द्रष्टुं शक्नोति, नान्यत्रेति ॥४२॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - परमेश्वर हा आकाशाप्रमाणे सर्व जागी व्यापक असून, सूर्यासारखा तेजस्वी व सूत्रात्मा वायूसारखा सर्वान्तर्यामी असून, सर्व जीवांना सत्य व असत्याचा बोध करून देणारा आहे. ज्या माणसाला परमेश्वराला जाणण्याची इच्छा असेल तो योगाभ्यास करून आपल्या आत्म्यामध्ये परमेश्वराला पाहू शकतो; अन्यत्र कुठेही त्याला पाहता येणार नाही.
४३ अग्ने नय
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने॒ नय॑ सु॒पथा॑ रा॒येऽअ॒स्मान् विश्वा॑नि देव व॒युना॑नि वि॒द्वान्। यु॒यो॒ध्य᳙स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑ऽउक्तिं विधेम॒ स्वाहा॑ ॥४३॥
मूलम् ...{Loading}...
अग्ने॒ नय॑ सु॒पथा॑ रा॒येऽअ॒स्मान् विश्वा॑नि देव व॒युना॑नि वि॒द्वान्। यु॒यो॒ध्य᳙स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑ऽउक्तिं विधेम॒ स्वाहा॑ ॥४३॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अग्ने॑। नय॑। सु॒पथेति॑ सु॒ऽपथा॑। रा॒ये। अ॒स्मान्। विश्वा॑नि। दे॒व॒। व॒युना॑नि। वि॒द्वान्। यु॒यो॒धि। अ॒स्मत्। जु॒हु॒रा॒णम्। एनः॑। भूयि॑ष्ठाम्। ते॒। नम॑उक्ति॒मिति॒ नमः॑ऽउक्तिम्। वि॒धे॒म्। स्वाहा॑। ४३।
महीधरः
म० आनीध्रीयेऽग्ने नयेत्याग्नीध्रीयेऽग्नौ सकृद्गृहीतमाज्यं जुहोति’ ( का० १० । २ । ७) । ‘अयं न इत्यपरामिति’ (का० १० । २ । ८) द्वितीयामाहुतिमाग्नीध्रीये जुहोति । इमे द्वे ऋचौ पञ्चमेऽध्याये व्याख्याते ॥ ४३ ॥ ४४ ॥
चतुश्चत्वारिंशी।
अधिमन्त्रम् (VC)
- अन्तर्यामी जगदीश्वरो देवता
- आङ्गिरस ऋषिः
- भुरिग् आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब ईश्वर की प्रार्थना अगले मन्त्र में कही है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) सब के अन्तःकरण में प्रकाश करनेवाले परमेश्वर ! आप (सुपथा) सत्यविद्या धर्म्मयोगयुक्त मार्ग से (राये) योग की सिद्धि के लिये (अस्मान्) हम लोगों को (विश्वानि) समस्त (वयुनानि) योग के विद्वानों को (नय) पहुँचाइये जिससे हम लोग (स्वाहा) अपनी सत्यवाणी वा वेदवाणी से (ते) आप की (भूयिष्ठाम्) बहुत (नमउक्तिम्) नमस्कारपूर्वक स्तुति को (विधेम) करें। हे (देव) योगविद्या को देनेवाले ईश्वर ! (विद्वान्) समस्त योग के गुण और क्रियाओं को जाननेवाले आप कृपा करके (जुहुराणम्) हम लोगों के अन्तःकरण के कुटिलतारूप (एनः) दुष्ट कर्म्मों को (अस्मत्) योगानुष्ठान करनेवाले हम लोगों से (युयोधि) दूर कर दीजिये ॥४३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - कोई भी पुरुष परमात्मा की प्रेमभक्ति के विना योगसिद्धि को प्राप्त नहीं होता और जो प्रेम-भक्तियुक्त होकर योगबल से परमेश्वर का स्मरण करता है, उसको वह दयालु परमात्मा शीघ्र योगसिद्धि देता है ॥४३॥
दयानन्द-सरस्वती (सं) - विषयः
अथैतदीश्वरप्रार्थनामाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! त्वं राये अस्मान् विश्वानि वयुनानि नय। यतो वयं स्वाहा ते भूयिष्ठां नमउक्तिं विधेम। हे देव ! विद्वंस्त्वं कृपया जुहुराणमेनश्चास्मद्युयोधि ॥४३॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - न कश्चिदपि पुरुषः परमात्मनः सत्यप्रेमभक्त्या विना योगसिद्धिं प्राप्नोति, यश्चेत्थम्भूतो योगबलेन परमेश्वरं स्मरति, तस्मै स दयालुः शीघ्रं योगसिद्धिं ददाति ॥४३॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - कोणताही माणूस परमेश्वर भक्तीशिवाय योगसिद्धी प्राप्त करू शकत नाही व जो श्रद्धायुक्त अंतःकरणाने व योगाच्या साह्याने परमेश्वराचे स्मरण करतो त्याला दयाळू परमेश्वराकडून तत्काळ योगसिद्धीची प्राप्ती होते.
४४ अयं नोऽअग्निर्वरिवस्कृणोत्वयम्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒यं नो॑ऽअ॒ग्निर्वरि॑वस्कृणोत्व॒यं मृधः॑ पु॒रऽए॑तु प्रभि॒न्दन्। अ॒यं वाजा॑ञ्जयतु॒ वाज॑साताव॒यँ शत्रू॑ञ्जयतु॒ जर्हृ॑षाणः॒ स्वाहा॑ ॥४४॥
मूलम् ...{Loading}...
अ॒यं नो॑ऽअ॒ग्निर्वरि॑वस्कृणोत्व॒यं मृधः॑ पु॒रऽए॑तु प्रभि॒न्दन्। अ॒यं वाजा॑ञ्जयतु॒ वाज॑साताव॒यँ शत्रू॑ञ्जयतु॒ जर्हृ॑षाणः॒ स्वाहा॑ ॥४४॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒यम्। नः॒। अग्निः॒। वरि॒॑वः। कृ॒णो॒तु॒। अ॒यम्। मृधः॑। पु॒रः। ए॒तु॒। प्र॒भि॒न्दन्निति॑ प्रऽभि॒न्दन्। अ॒यम्। वाजा॑न्। ज॒य॒तु॒। वाज॑साता॒विति॒ वाज॑ऽसातौ। अ॒यम्। शत्रू॑न्। ज॒य॒तु॒। जर्हृ॑षाणः। स्वाहा॑। ४४। .
महीधरः
म० ‘सहिरण्यो यजमानः शालां पूर्वेण तिष्ठन्नभिमन्त्रयते | दक्षिणा बहिर्वेदि तिष्ठन्तीर्दक्षिणतो रूपेण व इति’ ( का० १०।२।१०) दक्षिणा गाः अभिमन्त्रयते । नष्टरूपानुष्टुप् दक्षिणदेवत्या । ‘नववैराजत्रयोदशैर्नष्टरूपे’ति लक्षणात् । अत्र द्वितीय एकादशार्णस्तृतीयो द्वादशार्णस्तेन पूर्णैव । पूर्वं पशवः स्वदानमसहमाना रूपान्तराणि जगृहुः देवाः स्वै रूपैस्तानुपागतास्ततस्ते स्वै रूपैराजग्मुः (४ । ३ । ४ । १४) इति मन्त्रस्य निदानम् । हे दक्षिणारूपा गाः, रूपेण मूर्त्या वो युष्माकं रूपमहमभ्यागामभ्यागतोऽस्मि। अतो भवतीभिरागन्तव्यं सर्वे हि स्वरूपमागच्छन्तीति भावः । किंच तुथो ब्रह्मरूपः प्रजापतिर्वो युष्मान् विभजतु यथायोग्यमृत्विग्भ्यो विभज्य ददातु । ‘ब्रह्म वै तुथः’ (४।३ । ४ । १५) इति श्रुतेः । किंभूतस्तुथः । विश्ववेदाः वेदनं वेदो ज्ञानं । विश्वं सर्वं वेदो यस्य स विश्ववेदाः सर्वज्ञः । किंच यूयमेतज्ज्ञात्वा ऋतस्य यज्ञस्य पथा मार्गेण प्रेत प्रगच्छत । किंभूता यूयम् । चन्द्रदक्षिणाः चन्द्रमिति हिरण्यनाम । चन्द्रं सुवर्णं यजमानहस्तस्थं द्वितीयं दक्षिणा यासां ताश्चन्द्रद्वितीयदक्षिणा इति प्राप्ते शाकपार्थिवादित्वात् (पा० २।१ । ६९) द्वितीयपदलोपः । ‘सदो गच्छति वि स्वरिति’ (का. १०।२। १७ ) दक्षिणादैवत्यम् । हे दक्षिणाः, अहं स्वः स्वर्गं देवयानमार्गं विपश्य विपश्यामि विलोकयामि । अन्तरिक्षं पितृयानमार्गं च विपश्यामि । भवतीभिः सोपानभूताभिरिति भावः । ‘व्यत्ययो बहुलम्’ (पा०६।१।८५) इति उत्तमपुरुषस्थाने पश्येति मध्यमः पुरुषः । श्रुत्या तथा व्याख्यातत्वात् । प्रेक्षते । ‘यतस्व सदस्यानिति सदस्यान्’ (का. १० । २ । १८) यजमान ऋत्विजः प्रेक्षते । दक्षिणादैवतम् । हे दक्षिणे, त्वं यतस्व यत्नं कुरु । यथा सदस्यैः ऋत्विग्भिः पूरितैरप्यतिरिच्यस इति शेषः । तथा त्वया यतितव्यं यथा ऋखिजो धनैः संपूर्याधिका भवेयुरिति भावः ॥ ४५ ॥
षट्चत्वारिंशी।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- आङ्गिरस ऋषिः
- भुरिग् आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब सङ्ग्राम में परमेश्वर के उपासक शूरवीरों को किस प्रकार युद्ध करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अयम्) यह प्रथम (अग्निः) वैद्यक विद्या का प्रकाश करनेवाला वैद्य (स्वाहा) वैद्यक और युद्ध की शिक्षायुक्त वाणी से (वाजसातौ) युद्ध में (नः) हम लोगों को (वरिवः) सुखकारक सेवन (कृणोतु) करे, (अयम्) यह दूसरा युद्ध करनेवाला मुख्य वीर (प्रभिन्दन्) शत्रुओं को विदीर्ण करता हुआ (मृधः) सङ्ग्राम के (पुरः) आगे (एतु) चले, (अयम्) यह तीसरा वीर रसकारक उपदेश करनेवाला योद्धा (वाजान्) अत्यन्त वेगादिगुणयुक्त वीरों को (जयतु) उत्साहयुक्त करता रहे, (अयम्) यह चौथा वीर (जर्हृषाणः) निरन्तर आनन्दयुक्त होकर (शत्रून्) धर्म्मविरोधी शत्रुजनों को (जयतु) जीते ॥४४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जब युद्धकर्म में चार वीर अवश्य हों उनमें से एक तो वैद्यकशास्त्र की क्रियाओं में चतुर सब की रक्षा करनेहारा वैद्य, दूसरा सब वीरों को हर्ष देनेवाला उपदेशक, तीसरा शत्रुओं का अपमान करनेहारा और चौथा शत्रुओं का विनाश करनेवाला हो, तब समस्त युद्ध की क्रिया प्रशंसनीय होती है ॥४४॥
दयानन्द-सरस्वती (सं) - विषयः
अथ सङ्ग्रामे ब्रह्मोपासकैः शूरवीरैः कथं योद्धव्यमित्युदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - अयमग्निः स्वाहा वाजसातौ नो वरिवस्कृणोतु। अयं प्रभिन्दन् मृधः पुर एतु। अयं वाजाञ्जयतु। अयं जर्हृषाणः सन् शत्रून् जयतु ॥४४॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदा युद्धकर्मणि चत्वारो वीरा अवश्यमेव भवेयुस्तेष्वेको वैद्यकक्रियाकुशलः सर्वरक्षकः, द्वितीयो हि शौर्य्यादिगुणप्रदेन व्याख्यानेन हर्षयिता, तृतीयः शत्रूणां तिरस्कर्त्ता, चतुर्थः शत्रुविघातुकः स्यात्, तदा सर्वा युद्धक्रिया प्रशस्ता भवेत् ॥४४॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - युद्धात चार प्रकारचे वीर आवश्यक असावेत. त्यापैकी एक वैद्यकशास्त्रात प्रवीण व सर्वांचे रक्षण करणारा असा वैद्य, दुसरा वीरांना आनंदित करणारा उपदेशक, तिसरा शत्रूंचा अपमान करणारा व चौथा शत्रूंचा विनाश करणारा असेल तर संपूर्ण युद्ध कार्य प्रशंसनीय ठरते.
४५ रूपेण वो
विश्वास-प्रस्तुतिः ...{Loading}...
रू॒पेण॑ वो रू॒पम॒भ्यागां॑ तु॒थो वो वि॒श्ववे॑दा॒ विभ॑जतु। ऋ॒तस्य॑ प॒था प्रेत॑ च॒न्द्रद॑क्षिणा॒ वि स्वः॒ पश्य॒ व्य᳙न्तरि॑क्षं॒ यत॑स्व सद॒स्यैः᳖ ॥४५॥
मूलम् ...{Loading}...
रू॒पेण॑ वो रू॒पम॒भ्यागां॑ तु॒थो वो वि॒श्ववे॑दा॒ विभ॑जतु। ऋ॒तस्य॑ प॒था प्रेत॑ च॒न्द्रद॑क्षिणा॒ वि स्वः॒ पश्य॒ व्य᳙न्तरि॑क्षं॒ यत॑स्व सद॒स्यैः᳖ ॥४५॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
रूपेण॑। वः॒। रू॒पम्। अ॒भि। आ। अ॒गा॒म्। तु॒थः। वः॒। वि॒श्ववे॑दा॒ इति॑ वि॒श्वऽवेदाः। वि। भ॒ज॒तु॒। ऋ॒तस्य॑। प॒था। प्र। इ॒त॒। च॒न्द्रद॑क्षिणा॒ इति॑ च॒न्द्रऽद॑क्षिणाः। वि। स्व॒रिति॒ स्वः᳖। पश्य॑। वि। अ॒न्तरि॑क्षम्। यत॑स्व। स॒द॒स्यैः᳖। ४५।
महीधरः
म० ‘ब्राह्मणमद्येत्याग्नीध्रगमनमिति’ ( का० १० । २ । १९)। आनीध्रमृत्विजं स्वस्थानस्थं प्रति यजमानो गच्छति । ब्राह्मणदैवत्यम् । अहमद्यास्मिन्दिने ईदृशं ब्राह्मणं विदेयं लभेय ‘विद्लृ लाभे’ । किंभूतम् । पितृमन्तं प्रशस्तः पितास्यास्तीति | पितृमान् तम् । पित्रा विना न कश्चिज्जायतेऽतोऽत्र प्राशस्त्यार्थे मतुप् । विशिष्टजनकोत्पन्नमित्यर्थः । तथा पैतृमत्यम् पितुरिमे पैतरः। तद्धितप्रत्ययलोपेऽपि छान्दसी वृद्धिः । मत एव मत्याः। | स्वार्थे यत् । पैतरः पितामहादयो मताः संमता जगन्मान्या | यस्य स पैतृमत्यस्तम् । यद्वा पितरः पूर्वजाः मताः संमताः श्रोत्रिया यस्य स पितृमतः पितृमत एव पैतृमत्यः । यद्वा प्रशस्तजनकोत्पन्नः पितृमानित्युक्तं तदपत्यं पैतृमत्यः । सर्वथा यस्य पितामहादयः श्रोत्रियाः स पैतृमत्य इत्यर्थः । तथा ऋषिं मन्त्राणां व्याख्यातारम् । तथा आर्षेयम् ऋषिषु विख्यात आर्षेयस्तम् । जात्या प्रवरैर्ज्ञानेन सुज्ञातमित्यर्थः । तथा सुधातुदक्षिणम् शोभनो धातुः सुवर्णं दक्षिणा यस्य स सुधातुस्तम् । ‘उपविश्य हिरण्यमस्मै ददात्यस्मद्राताः’ (का० १० । २ । २०)इति अस्मै आग्नीध्राय दक्षिणादैवत्यं । हे दक्षिणाः, यूयमस्मद्राताः । ‘रा दाने’ अस्माभिः राता दत्ताः सत्यो देवत्रा देवान्प्रति गच्छत । तानेत्य तेषां तृप्तिं कृत्वा ततः दातारं प्राविशत यज्ञफलं साधयन्त्यो यजमानं प्राविशतेत्यर्थः ॥ ४६ ॥
सप्तचत्वारिंशी।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- आङ्गिरस ऋषिः
- विराड् जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
अब तीन सभाओं से राज्य की शिक्षा करनी चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सेना और प्रजाजनो ! जैसे मैं (रूपेण) अपने दृष्टिगोचर आकार से (वः) तुम्हारे (रूपम्) स्वरूप को (अभि) (आ) (अगाम्) प्राप्त होता हूँ, वैसे (विश्ववेदाः) सब को जाननेवाले परमात्मा के समान सभापति (वः) तुम लोगों को (वि) (भजतु) पृथक्-पृथक् अपने-अपने अधिकार में नियत करे। हे सभापते ! (तुथः) सब से अधिक ज्ञानवाले प्रतिष्ठित आप (स्वः) प्रताप को प्राप्त हुए सूर्य्य के समान (ऋतस्य) सत्य के (पथा) मार्ग से (अन्तरिक्षम्) अविनाशी राजनीति वा ब्रह्मविज्ञान को (वि) अनेक प्रकार से (पश्य) देखो और सभा के बीच में (सदस्यैः) सभासदों के साथ सत्य मार्ग से (प्र) (यतस्व) विशेष-विशेष यत्न करो तथा हे (चन्द्रदक्षिणाः) सुवर्ण के दान करनेवाले राजपुरुषो ! तुम लोग धर्म्म को (वीत) विशेषता से प्राप्त होओ ॥४५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सभापति राजा को चाहिये कि प्रजा, सेना के पुरुषों को अपने पुत्रों के तुल्य प्रसन्न रक्खे और परमेश्वर के तुल्य पक्षपात छोड़ कर न्याय करे। धार्म्मिक सभ्यजनों की तीन सभा होनी चाहियें उनमें से एक राजसभा जिस के आधीन राज्य के सब कार्य्य चलें और सब उपद्रव निवृत्त रहें। दूसरी विद्यासभा जिससे विद्या का प्रचार अनेकविधि किया जावे और अविद्या का नाश होता रहे और तीसरी धर्म्मसभा जिससे धर्म्म की उन्नति और अधर्म्म की हानि निरन्तर की जाय। सब लोगों को उचित है कि अपने आत्मा और परमात्मा को देखकर अन्याय मार्ग से अलग हों, धर्म्म का सेवन और सभासदों के साथ समयानुकूल अनेक प्रकार से विचार करके सत्य और असत्य के निर्णय करने में प्रयत्न किया करें ॥४५॥
दयानन्द-सरस्वती (सं) - विषयः
अथ सभात्रयेण राज्यं शासनीयमित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सेना प्रजाजना ! यथाहं रूपेण वो युष्माकं रूपमभ्यागाम्, तथा विश्ववेदा वो युष्मान् विभजतु। तुथस्त्वं स्वरिवर्त्तस्य पथान्तरिक्षं विपश्य, सभायां सदस्यैः सहर्त्तस्य पथा प्रयतस्व। चन्द्रदक्षिणा यूयमृतस्य धर्म्यं मार्गं वीत ॥४५॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सभापती राजा स्वात्मजानिव प्रजासेनासभ्यपुरुषान् प्रीणयेत्, तथा पक्षपातरहितः परमेश्वर इव सततं न्यायं कुर्यात्। धार्मिकाणां सभ्यानां जनानां तिस्रः सभा भवेयुः। तास्वेका राजसभा−यया राजकार्याणि निष्पद्येरन्, सर्वे विघ्ना निवर्तेरंश्च। द्वितीया विद्यासभा−यया विद्याप्रचारः स्यादविद्या नश्येत्। तृतीया धर्मसभा−यया धर्मोन्नतिरधर्महानिश्च सततं भवेत्, सर्वे स्वात्मानं परमात्मानं समीक्ष्यान्यायमार्गात् पृथग्भूत्वा धर्मं सेवित्वा समयं पर्य्यालोच्य सत्यासत्यनिर्णये प्रयतेरन् ॥४५॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजाने आपल्या पुत्रांप्रमाणे सैन्यातील लोकांना प्रसन्न ठेवावे व परमेश्वराप्रमाणे पक्षपातरहित न्याय द्यावा. धार्मिक सभ्य पुरुषांच्या तीन प्रकारच्या सभा असाव्यात. त्यापैकी एक राज्यसभा, जिच्याद्वारे राज्याची सर्व कामे निर्वेधपणे चालावी व दुसरी विद्यासभा, ज्या सभेद्वारे अनेक प्रकारे विद्येचा प्रचार केला जावा व अविद्येचा नाश व्हावा. तिसरी धर्मसभा जिच्यामुळे सतत धर्माची उन्नती व अधर्माचा नाश व्हावा. सर्व लोकांनी आपला आत्मा व परमात्मा यांना जाणून अन्यायाच्या मार्गाचा त्याग करावा. सर्व सभासदाबरोबर धर्माचरण करून काळानुसार विचार विनियम करून सत्यासत्याचा निर्णय करण्याचा प्रयत्न करावा.
४६ ब्राह्मणमद्य विदेयम्
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रा॒ह्म॒णमद्य॒ वि॑देयं पितृ॒मन्तं॑ पैतृम॒त्यमृषि॑मार्षे॒यँ सु॒धातु॑दक्षिणम्। अ॒स्मद्रा॑ता देव॒त्रा ग॑च्छत प्रदा॒तार॒मावि॑शत ॥४६॥
मूलम् ...{Loading}...
ब्रा॒ह्म॒णमद्य॒ वि॑देयं पितृ॒मन्तं॑ पैतृम॒त्यमृषि॑मार्षे॒यँ सु॒धातु॑दक्षिणम्। अ॒स्मद्रा॑ता देव॒त्रा ग॑च्छत प्रदा॒तार॒मावि॑शत ॥४६॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ब्रा॒ह्म॒णम्। अ॒द्य। वि॒दे॒य॒म्। पि॒तृ॒मन्त॒मिति॑ पितृ॒ऽमन्त॑म्। पै॒तृ॒म॒त्यमिति॑ पैतृऽम॒त्यम्। ऋषि॑म्। आ॒र्षे॒यम्। सु॒धातु॑दक्षिण॒मिति॑ सु॒धातु॑ऽदक्षिणम्। अ॒स्मद्रा॑ता॒ इत्य॒स्मत्ऽरा॑ताः। दे॒व॒त्रेति॑ देव॒ऽत्रा। ग॒च्छ॒त॒। प्र॒दा॒तार॒मिति॑ प्रऽदा॒तार॑म्। आ। वि॒श॒त॒। ४६।
महीधरः
म०. ‘अग्नये त्वेति हिरण्यं प्रतिगृह्णीत इति’ ( का० १० । २ । २८) अध्वर्युप्रतिप्रस्थाताराविति शेषः । हिरण्यदैवत्यम् ॥ हे हिरण्य, वरुणोऽग्नयेऽग्निरूपापन्नाय मह्यं त्वा त्वां ददातु पूर्वं वरुणेन कनकाद्यग्न्यादिभ्यो दत्तमतस्तेन तेनात्मना प्रतिगृह्णानो विप्रो न नश्यतीति देवतादेशः। अनेन विधिना गृह्णानः सोऽहममृतत्वमारोग्यमशीय व्याप्नुयाम् । हे हिरण्य, त्वं दात्रे आयुर्जीवनमेधि भव । प्रतिग्रहीत्रे प्रतिग्रहकर्त्रे मह्यं मयः सुखमेधि दाता आयुष्मान्भवतु । अहं सुखी स्यामिति भावः । ‘रुद्राय त्वेति गामिति’ (का० १० । २ । २९)। गां प्रतिगृह्णीतः । गोदैवत्यम् । हे गौः, रुद्ररूपाय मह्यं वरुणः त्वा ददातु सोऽहममृतत्वं प्राप्नुयाम् । हे गौः, त्वं दात्रे यजमानाय प्राणः प्राणरूपा एधि । मह्यं प्रतिग्रहीत्रे वयोऽन्नं पशुर्वा भव । दुग्धदध्यादिरूपेणान्नं संततिद्वारा पशुश्च भवेत्यर्थः । ‘बृहस्पतये त्वेति वास इति’ (का० १० । २।३०) । वस्त्रं गृह्णीतः । वासोदैवत्यम् । हे वासः, बृहस्पतिरूपाय मह्यं वरुणः त्वां ददातु सोऽहममृतत्वमशीय त्वं च दात्रे त्वगेधि त्वगिन्द्रियसुखकारी भव । प्रतिग्रहीत्रे मह्यं मयः सुखं च भव । ‘यमाय त्वेत्यश्वमिति’ (का० १० । २ । ३१) हयं गृह्णीतः । अश्वदैवत्यम् । हे अश्व, यमरूपाय मह्यं वरुणः त्वां ददातु । स यमरूपोऽहमश्वं गृह्णानोऽमृतत्वं व्याप्नुयाम् । हे अश्व, त्वं दात्रे हयोऽश्वो भव मह्यं प्रतिग्रहीत्रे वयोऽन्नं तद्दाता पशुर्वा संततिद्वारा भव ॥४७॥
अष्टचत्वारिंशी।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां सप्तमोऽध्यायः॥७॥
अधिमन्त्रम् (VC)
- विद्वांसो देवता
- आङ्गिरस ऋषिः
- भुरिग् आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब दक्षिणा किस को और किस प्रकार देनी चाहिये, इस विषय का उपदेश अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे प्रजा सभा और सेना के मनुष्यो ! जैसे मैं (अद्य) आज (ब्राह्मणम्) वेद और ईश्वर को जाननेवाला (पितृमन्तम्) प्रशंसनीय पितृ अर्थात् सत्यासत्य के विवेक से जिसके सर्वथा रक्षक हैं, उस (पैतृमत्यम्) पितृभाव को प्राप्त (ऋषिम्) वेदार्थ विज्ञान करानेवाला ऋषि (आर्षेयम्) जो ऋषिजनों के इस योग से उत्पन्न हुए विज्ञान को प्राप्त (सुधातुदक्षिणम्) जिसके अच्छी-अच्छी पुष्टिकारक दक्षिणारूप धातु हैं, उस (प्रदातारम्) अच्छे दानशील पुरुष को (विदेयम्) प्राप्त होऊँ, वैसे तुम लोग (अस्मद्राताः) हमारे लिये अच्छे गुणों के देनेवाले होकर (देवत्रा) शुद्ध गुण, कर्म, स्वभावयुक्त विद्वानों के (आगच्छत) समीप आओ और शुभ गुणों में (आविशत) प्रवेश करो ॥४६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। उत्साही पुरुष को क्या नहीं प्राप्त हो सकता, कौन ऐसा पुरुष है कि जो प्रयत्न के साथ विद्वानों का सेवन कर ऋषि लोगों के प्रकाशित किये हुए योगविज्ञान को न सिद्ध कर सके। कोई भी विद्वान् अच्छे गुण, कर्म्म और स्वभाव से विपरीत नहीं हो सकता और दाताजनों को कृपणता कभी नहीं आती है। इससे जो देनेवाले दक्षिणा में प्रशंसनीय पदार्थ सुपात्र, धार्मिक, सर्वोपकारक विद्वानों को देते हैं, उनकी अचल कीर्ति क्यों कर न हो ॥४६॥
दयानन्द-सरस्वती (सं) - विषयः
अथ दक्षिणा कस्मै कथं च दातव्येत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे प्रजासभासेनाजना ! यथाहमद्य ब्राह्मणं पितृमन्तं पैतृमत्यमृषिमार्षेयं सुधातुदक्षिणं प्रदातारं च विदेयम्, तथाऽस्मद्राताः सन्तो यूयं देवत्रा गच्छत, शुभान् गुणानाविशत ॥४६॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। उत्साहितेन पुरुषेण किमाप्तुमशक्यमस्ति, को नाम खलु प्रयत्नेन विदुषः सेवित्वार्षं योगविज्ञानं साधितुन्न शक्नुयात्। नहि कश्चिदपि विद्वान् सद्गुणस्वभावग्रहणाद् विरज्येत, नहि दातॄन् कार्प्पण्यं कदाचिदाविशत्वतो यैर्दक्षिणायां प्रशस्ताः पदार्थाः प्रदीयन्ते, तेषामतुला कीर्तिः कुतो न जायेत ॥४६॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोमालंकार आहे. उत्साही माणसाला कोणत्या गोष्टी प्राप्त होत नाहीत? असा कोण आहे जो विद्वानांचा संग करून ऋषीमुनींनी प्रकट केलेले योगविज्ञान प्रयत्नाने साध्य करू शकणार नाही? कोणताही विद्वान, उत्तम गुणकर्म स्वभावाच्या विपरीत वागत नसतो. दाता कधीच कृपण नसतो. जी दानशूर माणसे धार्मिक, सर्वांवर उपकार करणाऱ्या सुपात्र विद्वानांना उत्तम पदार्थ दक्षिणेच्या स्वरूपात देतात. त्यांना चिरस्थायी अशी कीर्ती का बरे मिळणार नाही?
४७ अग्नये त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्नये॑ त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सो᳖ऽमृत॒त्त्वम॑शी॒यायु॑र्दा॒त्रऽए॑धि॒ मयो॒ मह्यं॑ प्रतिग्रही॒त्रे रु॒द्राय॑ त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सो᳖ऽमृत॒त्त्वम॑शीय प्रा॒णो दा॒त्रऽए॑धि॒ वयो॒ मह्यं॑ प्रतिग्रही॒त्रे बृह॒स्पत॑ये त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सो᳖ऽमृत॒त्त्वम॑शीय॒ त्वग्दा॒त्रऽए॑धि॒ मयो॒ मह्यं॑ प्रतिग्रही॒त्रे य॒माय॑ त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सो᳖ऽमृत॒त्त्वम॑शीय॒ हयो॑ दा॒त्रऽए॑धि॒ वयो॒ मह्यं॑ प्रतिग्रही॒त्रे ॥४७॥
मूलम् ...{Loading}...
अ॒ग्नये॑ त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सो᳖ऽमृत॒त्त्वम॑शी॒यायु॑र्दा॒त्रऽए॑धि॒ मयो॒ मह्यं॑ प्रतिग्रही॒त्रे रु॒द्राय॑ त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सो᳖ऽमृत॒त्त्वम॑शीय प्रा॒णो दा॒त्रऽए॑धि॒ वयो॒ मह्यं॑ प्रतिग्रही॒त्रे बृह॒स्पत॑ये त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सो᳖ऽमृत॒त्त्वम॑शीय॒ त्वग्दा॒त्रऽए॑धि॒ मयो॒ मह्यं॑ प्रतिग्रही॒त्रे य॒माय॑ त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सो᳖ऽमृत॒त्त्वम॑शीय॒ हयो॑ दा॒त्रऽए॑धि॒ वयो॒ मह्यं॑ प्रतिग्रही॒त्रे ॥४७॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒ग्नये॑। त्वा॒। मह्य॑म्। वरु॑णः। द॒दा॒तु॒। सः। अ॒मृ॒त॒त्वमित्य॑मृत॒ऽत्वम्। अ॒शी॒य॒। आयुः॑। दा॒त्रे। ए॒धि॒। मयः॑। मह्य॑म्। प्र॒ति॒ग्र॒ही॒त्र इति॑ प्रतिऽग्रही॒त्रे। रु॒द्रा॑य। त्वा॒। मह्य॑म्। वरु॑णः। द॒दा॒तु॒। सः। अ॒मृ॒त॒त्वमित्य॑मृत॒ऽत्वम्। अ॒शी॒य॒। प्रा॒णः। दा॒त्रे। ए॒धि॒। वयः॑। मह्य॑म्। प्र॒ति॒ग्र॒ही॒त्र इति॑ प्रतिऽग्रही॒त्रे। बृह॒स्पत॑ये। त्वा॒। मह्य॑म्। वरु॑णः। द॒दा॒तु॒। सः। अ॒मृ॒त॒त्वमित्य॑मृत॒ऽत्वम्। अ॒शी॒य॒। त्वक्। दा॒त्रे। ए॒धि॒। मयः॑। मह्य॑म्। प्र॒ति॒ग्र॒ही॒त्र इति॑ प्रतिऽग्रही॒त्रे। य॒माय॑। त्वा॒। मह्य॑म्। वरु॑णः। द॒दा॒तु॒। सः। अ॒मृ॒त॒त्वमित्य॑मृत॒ऽत्वम्। अ॒शी॒य॒। हयः॑। दा॒त्रे। ए॒धि॒। वयः॑। मह्य॑म्। प्र॒ति॒ग्र॒ही॒त्र इति॑ प्रतिऽग्रही॒त्रे। ४७।
महीधरः
म० ‘कोऽदादित्यन्यदिति’ (का० १० । २ । ३२ )। अन्यन्मन्थौदनतिलादि गृह्णीतः । कामदैवत्यम् । दातुर्दानाभिमानाभावाय स्वस्य प्रतिग्रहजदोषाभावाय च देहेन्द्रियात्मसङ्घाते कामं विविनक्ति । को नरोऽदाद्दत्तवान् कस्मै नरायादात् । प्रश्नद्वयस्योत्तरमाह । कामोऽदात्कामायैवादात् न त्वं दाताहं प्रतिग्रहीता । त्वत्कामाभिमानी देवो मत्कामाभिमानिनेऽदात् । एवं च काम एव दाता काम एव प्रतिग्रहीता नान्यः । हे काम, एतद्द्रव्यं ते तव । दातृप्रतिग्रहीतृत्वात् ॥ ४८ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे । उपांश्वादिप्रदानान्तः सप्तमोऽध्याय ईरितः ॥ ७ ॥
अधिमन्त्रम् (VC)
- वरुणो देवता
- आङ्गिरस ऋषिः
- भुरिक् प्राजापत्या जगती, स्वराट् प्राजापत्या जगती, निचृद् आर्ची जगती, विराड् आर्ची जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
अब किस प्रयोजन के लिये दान और प्रतिग्रह का सेवन करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे वसुसंज्ञक पढ़ानेवाले ! जिस (अग्नये) चौबीस वर्ष तक ब्रह्मचर्य्य का सेवन करके अग्नि के समान तेजस्वी होनेवाले (मह्यम्) मेरे लिये (त्वा) तुझ अध्यापक को (वरुणः) सर्वोत्तम विद्वान् (ददातु) देवे, (सः) वह मैं (अमृतत्वम्) अपने शुद्ध कर्म्मों से सिद्ध किये गये सत्य आनन्द को (अशीय) प्राप्त होऊँ, उस (दात्रे) दानशील विद्वान् का (आयुः) बहुत कालपर्य्यन्त जीवन (एधि) बढ़ाइये और (प्रतिग्रहीत्रे) विद्याग्रहण करनेवाले (मह्यम्) मुझ विद्यार्थी के लिये (मयः) सुख बढ़ाइये। हे दुष्टों को रुलानेवाले अध्यापक ! जिस (रुद्राय) चवालीस वर्ष पर्य्यन्त ब्रह्मचर्य्याश्रम का सेवन करके रुद्र के गुण धारण करने की इच्छावाले (मह्यम्) मेरे लिये (त्वा) रुद्र नामक पढ़ानेवाले आपको (वरुणः) अत्युत्तम गुणयुक्त (ददातु) देवे, (सः) वह मैं (अमृतत्वम्) मुक्ति के साधनों को (अशीय) प्राप्त होऊँ, उस (दात्रे) विद्या देनेवाले विद्वान् के लिये (प्राणः) योगविद्या का बल (एधि) प्राप्त कराइये और (प्रतिग्रहीत्रे) विद्याग्रहण करनेवाले (मह्यम्) मेरे लिये (वयः) तीनों अवस्था का सुख प्राप्त कीजिये। हे सूर्य्य के समान तेजस्वी अध्यापक ! जिस (बृहस्पतये) अड़तालीस वर्ष पर्यन्त ब्रह्मचर्य्य सेवन की इच्छा करनेवाले (मह्यम्) मेरे लिये (त्वा) पूर्णविद्या पढ़ानेवाले आप को (वरुणः) पूर्णविद्या से शरीर और आत्मा के बलयुक्त विद्वान् (ददातु) देवे, (सः) वह मैं (अमृतत्वम्) विद्या के आनन्द का (अशीय) भोग करूं, उस (दात्रे) पूर्ण विद्या देनेवाले महाविद्वान् के अर्थ (त्वक्) सरदी-गरमी के स्पर्श का सुख (एधि) बढ़ाइये और (प्रतिग्रहीत्रे) पूर्ण विद्या के ग्रहण करनेवाले (मह्यम्) मुझ शिष्य के लिये (मयः) पूर्ण विद्या का सुख उन्नत कीजिये। हे गृहाश्रम से होनेवाले विषय सुख से विमुख विरक्त सत्योपदेश करनेहारे आप्त विद्वन् ! जिस (यमाय) गृहाश्रम के सुख के अनुराग से होनेवाले (मह्यम्) मेरे लिये (त्वा) सर्वदोषरहित उपदेश करनेवाले आप को (वरुणः) सकल शुभगुणयुक्त विद्वान् (ददातु) देवे, (सः) वह मैं (अमृतत्वम्) मुक्ति के सुख को (अशीय) प्राप्त होऊँ। उस (दात्रे) ब्रह्मविद्या देनेवाले महाविद्वान् के लिये (हयः) ब्रह्मज्ञान की वृद्धि (एधि) कीजिये और (प्रतिग्रहीत्रे) मोक्षविद्या के ग्रहण करनेवाले (मह्यम्) मेरे लिये (वयः) तीनों अवस्था के सुख को प्राप्त कीजिये ॥४७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सब मनुष्यों को योग्य है कि जो सब से उत्तम गुणवाला, सब विद्याओं में सब से बढ़कर विद्वान् हो, उसके आश्रय से अन्य अध्यापक विद्वानों की परीक्षा करके अपनी-अपनी कन्या और पुत्रों को उन-उन के पढ़ाने योग्य विद्वानों से पढ़वावें और पढ़नेवालों को भी चाहिये कि अपनी-अपनी अधिकन्यून बुद्धि को जान के अपने-अपने अनुकूल अध्यापकों की प्रीतिपूर्वक सेवा करते हुए उनसे निरन्तर विद्या का ग्रहण करें ॥४७॥
दयानन्द-सरस्वती (सं) - विषयः
अथ कस्मै प्रयोजनाय दानं प्रतिग्रहणं च सेवितव्यमित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे वसुसंज्ञकाध्यापक ! यस्मा अग्नये मह्यं त्वा वरुणो ददातु, सोऽहं यदमृतत्वमशीय प्राप्नुयां तत्तस्मै दात्रे वरुणायायुश्चिरजीवनमेधि, प्रतिग्रहीत्रे मह्यं शिष्याय मयः सुखं च। हे रुद्रसंज्ञकाध्यापक ! यस्मै रुद्राय मह्यं त्वा वरुणो ददातु, सोऽहं यदमृतत्वमशीय तत्तस्मै दात्रे वरुणाय प्राणत्वमेधि, प्रतिग्रहीत्रे मह्यं वयोऽवस्थात्रयसुखं च। हे आदित्यानामध्यापक ! यस्मै बृहस्पतये मह्यं त्वा वरुणो ददातु, सोऽहं यदमृतत्वमशीय तत्तस्मै दात्रे वरुणाय त्वगिन्द्रियसुखं त्वमेधि, प्रतिग्रहीत्रे मह्यं सुखं च। यस्मै जितेन्द्रिययमाय मह्यं त्वा वरुणो ददातु सोऽहं यदमृतत्वमशीय तत्तस्मै दात्रे वरुणाय हयो ज्ञानवर्द्धनं त्वमेधि, प्रतिग्रहीत्रे मह्यं वयोऽवस्थात्रयसुखं च ॥४७॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सर्वेषां जनानां योग्यमस्ति यः सर्वोत्कृष्टोऽनूचानो विद्वान् भवेत् तस्य सकाशादितरानध्यापकान् परीक्ष्य स्वस्वकन्याः पुत्रान् तत्तत्सदृशादध्यापकात् पाठयेयुः। अध्येतारश्च स्वस्वबुद्धिं न्यूनाधिकां ज्ञात्वा स्वस्वसदृशानध्यापकान् प्रीत्या सेवमानास्तेभ्यो नैरन्तर्य्येण विद्याग्रहणं कुर्य्युः ॥४७॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सर्व माणसांनी सर्व विद्यांमध्ये पारंगत असलेल्या उत्तम व गुणवान विद्वानांकडून इतर विद्वान अध्यापकांची परीक्षा करून आपल्या मुलामुलींना योग्य अशा विद्वान अध्यापकांकडून शिक्षण द्यावे व विद्यार्थ्यांनीही आपापल्या तीव्र व न्यून बुद्धीनुसार अध्यापन करणाऱ्या अध्यापकांची प्रेमाने सेवा करून त्यांच्याकडून विद्या ग्रहण करावी.
४८ कोऽदात् कस्माऽअदात्
विश्वास-प्रस्तुतिः ...{Loading}...
को॑ऽदा॒त् कस्मा॑ऽअदा॒त् कामो॑ऽदा॒त् कामा॑यादात्। कामो॑ दा॒ता कामः॑ प्रतिग्रही॒ता कामै॒तत्ते॑ ॥४८॥
मूलम् ...{Loading}...
को॑ऽदा॒त् कस्मा॑ऽअदा॒त् कामो॑ऽदा॒त् कामा॑यादात्। कामो॑ दा॒ता कामः॑ प्रतिग्रही॒ता कामै॒तत्ते॑ ॥४८॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
कः। अ॒दा॒त्। कस्मै॑। अ॒दा॒त्। कामः॑। अ॒दा॒त्। कामा॑य। अ॒दा॒त्। कामः॑। दा॒ता। कामः॑। प्र॒ति॒ग्र॒ही॒तेति॑ प्रतिऽग्रही॒ता। काम॑। ए॑तत्। ते॒। ४८।
महीधरः
अधिमन्त्रम् (VC)
- आत्मा देवता
- आङ्गिरस ऋषिः
- आर्षी उष्णिक्
- ऋषभः