०१ देवस्य त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳙ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम्। आद॑दे॒ नार्य॑सी॒दम॒हँ रक्ष॑सां ग्रीवाऽअपि॑कृन्तामि। यवो॑ऽसि य॒वया॒स्मद् द्वेषो॑ य॒वयारा॑तीर्दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वा॒ शुन्ध॑न्ताल्ँ लो॒काः पि॑तृ॒षद॑नाः पितृ॒षद॑नमसि ॥१॥
मूलम् ...{Loading}...
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳙ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम्। आद॑दे॒ नार्य॑सी॒दम॒हँ रक्ष॑सां ग्रीवाऽअपि॑कृन्तामि। यवो॑ऽसि य॒वया॒स्मद् द्वेषो॑ य॒वयारा॑तीर्दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वा॒ शुन्ध॑न्ताल्ँ लो॒काः पि॑तृ॒षद॑नाः पितृ॒षद॑नमसि ॥१॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दे॒वस्य॑। त्वा॒। स॒वि॒तुः। प्र॒स॒व इति॑ प्रऽस॒वे। अ॒श्विनोः॑। बा॒हुभ्या॒मिति॑ बा॒हुऽभ्याम्। पू॒ष्णः। हस्ता॑भ्याम्। आ। द॒दे॒। नारि॑। अ॒सि॒। इदम्। अ॒हम्। रक्ष॑साम्। ग्री॒वाः। अपि॑। कृ॒न्ता॒मि॒। यवः॑। अ॒सि॒। य॒वय॑। अ॒स्मत्। द्वेषः॑। य॒वय॑। अरा॑तीः। दि॒वे। त्वा॒। अ॒न्तरि॑क्षाय। त्वा॒। पृ॒थि॒व्यै। त्वा॒। शुन्ध॑न्ताम्। लो॒काः। पि॒तृ॒षद॑नाः। पि॒तृ॒सद॑ना॒ इति॑ पितृ॒ऽसद॑नाः। पि॒तृ॒षद॑नम्। पि॒तृ॒ष॑दन॒मिति॑ पि॒तृ॒ऽसद॑नम्। अ॒सि॒। १।
महीधरः
म० सौमिकवेदिप्रधाने पञ्चमाध्याये आतिथ्यमारभ्य यूपनिर्माणपर्यन्ता मन्त्रा उक्ताः अग्नीषोमीयपशुप्रधाने षष्ठेऽध्याये यूपसंस्कारमारभ्य सोमाभिषवोद्योगपर्यन्ता मन्त्रा उच्यन्ते । .‘देवस्य त्वेत्यभ्रिमादाय यूपावटं परिलिखतीदमहमिति’ (का. .. ६ । २ । ८ ) यवोऽसीत्यप्सु यवानोप्य प्रोक्षत्यग्रमध्यमूलानि दिवे त्वेति प्रतिमन्त्रं प्रोक्षामीति सर्वत्र साकाङ्क्षत्वादवटे शेषमासिञ्चति शुन्धन्तामिति बर्हीᳪं᳭षि प्राञ्च्युदञ्चि च प्रास्यति पितृषदनमसीति’ (६ । २ । १५-१८)। एतानि षड् यजूंषि औदुम्बरीविषये (अ० ५ क० २६) व्याख्यातानि ॥१॥
द्वितीया।
अधिमन्त्रम् (VC)
- सविता देवता
- आगस्त्य ऋषिः
- निचृत् पङ्क्तिः आसुरी उष्णिक्, भूरिग् आर्षी उष्णिक्,
- धैवतः, ऋषभः
०२ अग्रेणीरसि स्वावेशऽउन्नेतॄणामेतस्य
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्रे॒णीर॑सि स्वावे॒शऽउ॑न्नेतॄ॒णामे॒तस्य॑ वित्ता॒दधि॑ त्वा स्थास्यति दे॒वस्त्वा॑ सवि॒ता मध्वा॑नक्तु सुपिप्प॒लाभ्य॒स्त्वौष॑धीभ्यः। द्यामग्रे॑णास्पृक्ष॒ऽआन्तरि॑क्षं॒ मध्ये॑नाप्राः पृथि॒वीमुप॑रेणादृँहीः ॥२॥
मूलम् ...{Loading}...
अ॒ग्रे॒णीर॑सि स्वावे॒शऽउ॑न्नेतॄ॒णामे॒तस्य॑ वित्ता॒दधि॑ त्वा स्थास्यति दे॒वस्त्वा॑ सवि॒ता मध्वा॑नक्तु सुपिप्प॒लाभ्य॒स्त्वौष॑धीभ्यः। द्यामग्रे॑णास्पृक्ष॒ऽआन्तरि॑क्षं॒ मध्ये॑नाप्राः पृथि॒वीमुप॑रेणादृँहीः ॥२॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒ग्रे॒णीः। अ॒ग्रे॒नीरित्य॑ग्रे॒ऽनीः। अ॒सि॒। स्वा॒वे॒श इति॑ सुऽआवे॒शः। उ॒न्ने॒तॄ॒णामित्यु॑त्ऽनेतॄ॒णाम्। ए॒तन्य॑। वि॒त्ता॒त्। अधि॑। त्वा॒। स्था॒स्य॒ति॒। दे॒वः। त्वा॒। स॒वि॒ता। मध्वा॑। अ॒न॒क्तु॒। सु॒पि॒प्प॒लाभ्य॒ इति॑ सुऽपिप्प॒लाभ्यः॑। त्वा॒। ओष॑धीभ्यः। द्याम्। अग्रे॑ण। अ॒स्पृ॒क्षः॒। आ। अ॒न्तरि॑क्षम्। मध्ये॑न। अ॒प्राः॒। पृ॒थि॒वीम्। उ॑परेण। अ॒दृँ॒हीः॒। २।
महीधरः
म० ‘प्रथमशकलं चाग्रेणीरसीति’ ( का० ६।२ । १९)। यूपावटे प्रथमशकलं निक्षिपेदिति सूत्रार्थः । हे यूपशकल, त्वमग्रेणीरसि अग्रे प्रथमं यूपस्य छिद्यमानस्य नीयतेऽपनीयत इत्यग्रेणीः । यूपस्य प्रथमावयवभूतो भवसीत्यर्थः । यद्वा अग्रे प्रथमं यूपमवटं प्रति नयतीत्यग्रेणीः पुरःसरः । किंभूतस्त्वम् । उन्नेतॄणामुन्नयनकर्तॄणामध्वर्यूणां स्वावेशः सुखेनावेशयितुं शक्यः ते ह्येनं यूपावटे सुखेनावेशयन्ति लघुत्वात् । स त्वमेतस्य कर्मणो वित्तात् । कर्मणि षष्ठी । एतत्कर्म विद्धि जानीहि । किं तत्कर्म । यत् यूपः त्वामधि स्थास्यति त्वदुपर्यवस्थानं करिष्यति तत्त्वया बोद्धव्यमित्यर्थः । ‘देवस्य त्वेत्यनक्तीति’ (का. ६ । ३ । २) यूपमिति शेषः । यूपदेवत्यम् । हे यूप, सविता देवः मध्वा मधुना मधुरेणाज्येन वा त्वामनक्तु । मध्वा । अनित्यमागमशासनमिति नुमभावः । ‘चषालमुभय
यूपः
तोऽक्तं प्रतिमुञ्चति सुपिप्पलाभ्य इति’ (का० ६ । ३ । ३-४)। अध उपरि चाज्येन लिप्तं चषालं यूपाग्रे स्थापयेदिति सूत्रार्थः। हे चषाल, त्वां यूपस्याग्रे प्रतिमुच्चामीति शेषः । किमर्थम् । ओषधीभ्यः व्रीह्याद्योषधिनिष्पत्त्यर्थम् । किंभूताभ्य ओषधीभ्यः । सुपिप्पलाभ्यः शोभनफलयुक्ताभ्य इत्यर्थः । ( का. ६ । ३ । ७) द्यामणेत्युच्छ्रयतीति । उन्नतं कुर्यादित्यर्थः । यूपदेवत्यम् । यूपस्य महिमोच्यते । हे यूप, त्वमग्रेणाग्रभागेन द्यां दिवमस्पृक्षः स्पृष्टवानसि । स्पृशतेर्लुङि ‘शल इगुपधादनिटः क्सः’ ( पा० ३ । १।४५ ) इति क्सप्रत्ययः । मध्येन मध्यभागेनान्तरिक्षमा अप्राः आपूरितवानसि । ‘प्रा पूरणे’ । अपरेणाधोभागेन अनिष्टप्रदेशेन पृथिवीं भूमिमदृंहीः दृढीकृतवानसि ॥२॥
तृतीया।
अधिमन्त्रम् (VC)
- सविता देवता
- शाकल्य ऋषिः
- निचृद् गायत्री, स्वराट् पङ्क्तिः
- षड्जः, धैवतः
०३ या ते
विश्वास-प्रस्तुतिः ...{Loading}...
या ते॒ धामा॑न्यु॒श्मसि॒ गम॑ध्यै॒ यत्र॒ गावो॒ भूरि॑शृङ्गाऽअ॒यासः॑। अत्राह॒ तदु॑रुगा॒यस्य॒ विष्णोः॑ प॒र॒मं प॒दमव॑भारि॒ भूरि॑। ब्र॒ह्म॒वनि॑ त्वा क्षत्र॒वनि॑ रायस्पोष॒वनि॒ पर्यू॑हामि। ब्रह्म॑ दृँह क्ष॒त्रं दृँ॒हायु॑र्दृँह प्र॒जां दृँ॑ह ॥३॥
मूलम् ...{Loading}...
या ते॒ धामा॑न्यु॒श्मसि॒ गम॑ध्यै॒ यत्र॒ गावो॒ भूरि॑शृङ्गाऽअ॒यासः॑। अत्राह॒ तदु॑रुगा॒यस्य॒ विष्णोः॑ प॒र॒मं प॒दमव॑भारि॒ भूरि॑। ब्र॒ह्म॒वनि॑ त्वा क्षत्र॒वनि॑ रायस्पोष॒वनि॒ पर्यू॑हामि। ब्रह्म॑ दृँह क्ष॒त्रं दृँ॒हायु॑र्दृँह प्र॒जां दृँ॑ह ॥३॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
या। ते॒। धामा॑नि। उ॒श्मसि॑। गम॑ध्यै। यत्र॑। गावः॑। भूरि॑शृङ्गा॒ इति॒ भूरि॑शृङ्गाः। अ॒यासः॑। अत्र॑। अह॑। तत्। उ॒रु॒गा॒यस्येत्यु॑रुऽगा॒यस्य॑। विष्णोः॑। प॒र॒मम्। प॒दम्। अव॑। भा॒रि॒। भूरि॑। ब्र॒ह्म॒वनीति॑ ब्रह्म॒ऽवनि॑। त्वा॒। क्ष॒त्र॒वनीति॑ क्षत्र॒ऽवनि॑। रा॒य॒स्पो॒ष॒वनीति॑ रायस्पोष॒ऽवनि॑। परि॑। ऊ॒हा॒मि॒। ब्रह्म॑। दृँ॒ह॒। क्ष॒त्रम्। दृँ॒ह॒। आयुः॑। दृँ॒ह॒। प्र॒जामिति॑ प्र॒जाम्। दृँ॒ह॒। ३।
महीधरः
म०. ‘या त इति मिनोतीति’ ( का० ६ । ३ । ८ ) अवटे यूपं प्रक्षिपेदित्यर्थः । यूपदेवत्या त्रिष्टुप् दीर्घतमोदृष्टा । हे यूप, या यानि ते तव धामानि स्थानानि गमध्यै गन्तुं वयमुश्मसि उश्मः कामयामहे । ‘तुमर्थे से-’ (पा० ३ । ४ । ९) इत्यादिना । गच्छतेस्तुमर्थे कध्यैन्प्रत्ययः नित्त्वादाद्युदात्तः । उश्मसि ‘वश कान्तौ’ लटि उत्तमबहुवचने शपो लोपे संप्रसारणे ‘इदन्तो मसि’ (पा० ७ । १ । ४६) इति इकारः । यानि तव स्थानानि गन्तुं वयमिच्छाम इत्यर्थः । किंच यत्र येषु तव स्थानेषु गावो रश्मयः । अयासः अयन्तीति अयाः ‘अय गतौ’ गन्तारो वर्तन्ते । सर्वे किरणा येषु स्थानेषु गता इत्यर्थः । किंभूता गावः । भूरिशृङ्गाः भूरि बहु शृङ्गं दीप्तिर्येषां ते भूरिशृङ्गाः । प्रज्वलन्नामसु शृङ्गाणीति पठितम् । | अहेत्येवार्थे । विष्णोः व्यापकस्य ब्रह्मणः तत् परममुत्कृष्टं पदं भूरि महत् आदित्यमण्डललक्षणमत्रैव अवभारि अवभाति । तकारस्थाने छान्दसो रेफः । यद्वा भूरि बहुप्रकारं यथा तथा अत्राह अत्रैव एष्वेव स्थानेषु अवभाति शोभते । किंभूतस्य विष्णोः। उरुगायस्य ‘गाङ् गतौ’ गानं गायः उरुर्गायो गतिर्यस्य । महागतेरित्यर्थः । यद्वा उरुभिर्महात्मभिर्गीयते स्तूयतेऽसावुरुगायस्तस्य । तादृशस्थानप्राप्तिहेतुभूतकर्मणे हे यूप, त्मत्रावटे तिष्ठेत्याशयः। ‘ब्रह्मवनि त्वेति पाᳪं᳭सुभिः । ब्रह्म दृᳪं᳭हेति मैत्रावरुणदण्डेन समन्तं त्रिः पर्यूषतीति’ (का० ६।३ । १०-११)। द्वे यजुषी औदुम्बरीविषये (अध्या० ५ क० २७) व्याख्याते ॥ ३ ॥
चतुर्थी ।
अधिमन्त्रम् (VC)
- विष्णुर्देवता
- दीर्घतमा ऋषिः
- आर्ची उष्णिक्, साम्नी त्रिष्टुप्, स्वराट् प्राजापत्या जगती
- ऋषभ, मध्यमः
०४ विष्णोः कर्म्माणि
विश्वास-प्रस्तुतिः ...{Loading}...
विष्णोः॒ कर्म्मा॑णि पश्यत॒ यतो॑ व्र॒तानि॑ पस्प॒शे। इन्द्र॑स्य॒ युज्यः॒ सखा॑ ॥४॥
मूलम् ...{Loading}...
विष्णोः॒ कर्म्मा॑णि पश्यत॒ यतो॑ व्र॒तानि॑ पस्प॒शे। इन्द्र॑स्य॒ युज्यः॒ सखा॑ ॥४॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
विष्णोः॑ कर्म्मा॑णि। प॒श्य॒त॒। यतः॒। व्र॒तानि॑। प॒स्प॒शे। इन्द्र॑स्य। युज्यः॑। सखा॑। ४।
महीधरः
म० ‘विष्णोः कर्माणीति वाचयति यूपमन्वारब्धमिति’ (का० ६ । ३ । १२)। यूपं स्पृष्टवन्तं यजमानं वाचयेदिति सूत्रार्थः । द्वे वैष्णव्यौ गायत्र्यौ मेधातिथिदृष्टे । हे ऋविजः, विष्णोः यज्ञाधिष्ठातुः कर्माणि सृष्टिसंहारादिचरितानि यूयं पश्यत । यतो यैः कर्मभिः व्रतानि भवदीयानि लौकिकवैदिककर्माणि पस्पशे बद्धवान् निर्मितवानित्यर्थः । ‘स्पश बन्धने’ स विष्णुरिन्द्रस्य युज्यः वृत्रवधादिकर्मसु योज्योऽनुरूपः सखा मित्रम् । यद्वा विष्णोः यज्ञस्य कर्माणि वीर्याणि पश्यत यतो यैर्वीर्यैर्व्रतानि आधानपशुसोमादीनि कर्माणि पस्पशे आत्मनि बद्धवान् । यद्वा यैर्वीर्यैर्व्रतानि कर्माणि अग्निवायुसूर्याणां स्वानि स्वानि एतान्यप्रमत्ताः कुरुतेत्येवं पस्पशे निबद्धवान् । शिष्टं समानम् ॥ ४ ॥
पञ्चमी।
अधिमन्त्रम् (VC)
- विष्णुर्देवता
- मेधातिथिर्ऋषिः
- निचृद् आर्षी गायत्री,
- षड्जः
०५ तद्विष्णोः परमम्
विश्वास-प्रस्तुतिः ...{Loading}...
तद्विष्णोः॑ पर॒मं प॒दँ सदा॑ पश्यन्ति सूरयः॑। दि॒वी᳖व॒ चक्षु॒रात॑तम् ॥५॥
मूलम् ...{Loading}...
तद्विष्णोः॑ पर॒मं प॒दँ सदा॑ पश्यन्ति सूरयः॑। दि॒वी᳖व॒ चक्षु॒रात॑तम् ॥५॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
तत्। विष्णोः॑। प॒र॒मम्। प॒दम्। सदा॑। प॒श्य॒न्ति॒। सू॒रयः॑। दि॒वी᳙वेति॑ दिविऽइ॑व। चक्षुः॑। आत॑त॒मित्यात॑तम्। ५।
महीधरः
म० तद्विष्णोरिति चषालमीक्षमाणमिति’ (का० ६ । ३ । १३ ) यूपकटकं प्रेक्षमाणं यजमानं वाचयेदिति सूत्रार्थः । सूरयः विद्वांसो वेदान्तपारगाः विष्णोः तत्परमं पदं स्वरूपं सदा पश्यन्ति । कीदृशम् । दिवि आकाशे निरावरणे चक्षुरिवाततं व्याप्तम् । यद्वा यत् दिवि आकाशे चक्षुरादित्यमण्डलमाततं विस्तारितम् । इवोऽनर्थकः । चक्षुःशब्देनान्यत्रापि मण्डलमुच्यते । ‘चक्षुर्मित्रस्य वरुणस्य’ (अ० ७ क० ४२)। ‘तञ्चक्षुर्देवहितम्’ (अ० ३६ क० २४) ॥ ५ ॥
षष्ठी।
अधिमन्त्रम् (VC)
- विष्णुर्देवता
- मेधातिथिर्ऋषिः
- आर्षी गायत्री
- षड्जः
०६ परिवीरसि परि
विश्वास-प्रस्तुतिः ...{Loading}...
प॒रि॒वीर॑सि॒ परि॑ त्वा॒ दैवी॒र्विशो॑ व्ययन्तां॒ परी॒मं यज॑मानँ॒ रायो॑ मनु॒ष्या᳖णाम्। दि॒वः सू॒नुर॑स्ये॒ष ते॑ पृथि॒व्याल्ँ लो॒कऽआ॑र॒ण्यस्ते॑ प॒शुः ॥६॥
मूलम् ...{Loading}...
प॒रि॒वीर॑सि॒ परि॑ त्वा॒ दैवी॒र्विशो॑ व्ययन्तां॒ परी॒मं यज॑मानँ॒ रायो॑ मनु॒ष्या᳖णाम्। दि॒वः सू॒नुर॑स्ये॒ष ते॑ पृथि॒व्याल्ँ लो॒कऽआ॑र॒ण्यस्ते॑ प॒शुः ॥६॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प॒रि॒वीरिति॑ परि॒ऽवीः। अ॒सि॒। परि॑। त्वा॒। दैवीः॑। विशेः॑। व्य॒य॒न्ता॒म्। परि॑। इ॒मम्। यज॑मानम्। रायः॑। म॒नुष्या᳖णाम्। दि॒वः। सू॒नुः। अ॒सि॒। ए॒षः। ते। पृथि॒व्याम्। लो॒कः। आ॒र॒ण्यः। ते॒। प॒शुः। ६।
महीधरः
म० ‘त्रिगुणा त्रिव्यामा कौशी रशना तया नाभिमात्रे त्रिवृतं परिव्ययति परिवीरसीति’ (का० ६ । ३ । १५) । त्रिभिर्गुणैरवयवैरुपेता त्रिव्याममिता कुशसंबन्धिनी या रशना रज्जुस्तया नाभिप्रमाणे यूपप्रदेशे आवृत्तित्रयं यथा भवति तथा यूपमावेष्टयेदिति सूत्रार्थः । यूपदैवत्यं यजुः । हे यूप, त्वं परिवीरसि परितो रशनया वीतो वेष्टितोऽसि । यद्वास्माभिः परिवारितोऽसि । ‘व्येञ् संवरणे’ इत्यस्य क्तप्रत्ययार्थे क्विपि संप्रसारणम् । किंच दैवीर्विंशः देवसंबन्धिन्यः प्रजाः मरुद्गणादयः त्वा त्वां परिव्ययन्तां परितो वेष्टयन्तु । यद्वा दैवीर्विंशः पशवः त्वा परिव्ययन्ताम् । ‘दैव्यो वा एता विशो यत्पशवः’ इति श्रुतेः । किंच मनुष्याणां संबन्धिन्यो रायो धनानि इमं यजमानं परिव्ययन्तां वेष्टयन्तु । यद्वा मनुष्याणामिति निर्धारणे षष्ठी । मनुष्याणां मध्ये रायो धनानि इमं यजमानमेव परिव्ययन्ताम् । ‘यूपशकलमस्यामवगूहत्युत्तरेणाग्निष्ठां दिवः सूनुरसीति’ (का. ६ । ३ । १७) अष्टास्रे यूपस्य यास्रिरग्निसमीपे स्थिता साग्निष्ठा तस्या उत्तरभागे रशनायां स्वरुनामकं शकलमवसृजेदिति सूत्रार्थः । हे स्वरो, त्वं दिवः द्युलोकस्य सूनुः पुत्रोऽसि । द्युलोकाद्वर्षति ततो यूपो जायते यूपात्स्वरुरिति प्रणालिकया दिवः सूनुः स्वरुः । ‘वर्षिष्ठाद्दक्षिणं वितष्टं द्वादशं निदधात्येष त इति’ (का० ८ । ८ । २३) । यूपैकादशिनीपक्षे वर्षिष्ठाद्यूपाद्दक्षिणभागे वितष्टमष्टास्रिं द्वादशं यूपं निदधाति स्थापयति न तु निखनतीति सूत्रार्थः । यूपदेवत्यम् । हे यूप, पृथिव्यामेष ते तव लोकः आश्रयस्थानमित्यर्थः । ननु ‘पशवो वै यूपमुच्छ्रयन्ति’ (३ । ७ । ३ । ४) इति श्रुतेः यूपे पशुना भवितव्यमित्यत आह । ते तव आरण्योऽरण्ये भवोऽरण्यसंबन्धी पशुः वने वर्तमानः पशुस्तवैवेत्यर्थः ॥ ६ ॥
सप्तमी।
अधिमन्त्रम् (VC)
- विद्वांसो देवता
- दीर्घतमा ऋषिः
- आर्षी उष्णिक्, भूरिक् साम्नी बृहती
- ऋषभः, मध्यमः
०७ उपावीरस्युप देवान्
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒पा॒वीर॒स्युप॑ दे॒वान् दैवी॒र्विशः॒ प्रागु॑रु॒शिजो॒ वह्नि॑तमान्। देव॑ त्वष्ट॒र्वसु॑ रम ह॒व्या ते॑ स्वदन्ताम् ॥७॥
मूलम् ...{Loading}...
उ॒पा॒वीर॒स्युप॑ दे॒वान् दैवी॒र्विशः॒ प्रागु॑रु॒शिजो॒ वह्नि॑तमान्। देव॑ त्वष्ट॒र्वसु॑ रम ह॒व्या ते॑ स्वदन्ताम् ॥७॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उ॒पा॒वीरित्यु॑पऽअ॒वीः। अ॒सि॒। उप॑। दे॒वान्। दैवीः॑। विशः॑। प्र। अ॒गुः॒। उ॒शिजः॑। वह्नि॑तमा॒निति॒ वह्नि॑ऽतमान्। देव॑। त्व॒ष्टः॒। वसु॑। र॒म॒। ह॒व्या। ते॒। स्व॒द॒न्ता॒म्। ७।
महीधरः
म० ‘उपावीरसीति तृणमादायेति’ (का० ६ । ३ । १९) हे तृणविशेष, त्वमुपावीरसि उप समीपमवति गच्छतीत्युपावीः । यद्वा उप समीपेऽवस्थितोऽवति रक्षतीत्युपावीः पशोर्द्वितीयः सखा त्वमसीत्यर्थः । तेन पशुमुपस्पृशत्युपदेवानिति’ (का. ६।३ । २०)। गृहीतेन तृणेन पुरस्तात्प्रत्यञ्चं स्थितं पशुं स्पृशेदिति सूत्रार्थः । दैवीर्विशः पशवो देवानग्नीषोमादीनुप प्रागुः उपगच्छन्तु । ‘दैव्यो वा एता विशो यत्पशवः’ इति श्रुतेः । ‘इण् गतौ’ इत्यस्मात् ‘छन्दसि लुङ्लङ्लिटः’ (पा० ३। ४ । ६) इति । कालमात्रे लुङ् । ‘इणो गा लुङि’ (पा० २। ४ । ४५) इति गादेशः । किंभूतान्देवान् । उशिजो मेधाविनः । यद्वा हवींषि कामयमानान् वहन्तीति वह्नयः अतिवह्नयो वह्नितमास्तान् । यजमानं स्वर्गं प्रति प्रापयतां देवानां मध्ये श्रेष्ठतमानित्यर्थः । एवं पशून्प्रार्थ्य त्वष्टारमाह । हे देव त्वष्टः, त्वं वसु पशुलक्षणं धनं रम रमय । ‘छन्दस्युभयथा’ (पा० ३ । ४ । ११७) इति शपोऽप्यार्धधातुकसंज्ञत्वाण्णिचो लोपः। एवं त्वष्टारमुक्त्वा पुनः पशुमाह । हे पशो, ते तव हव्या हवींषि स्वदन्ताम् । ‘स्वद स्वाद आस्वादने । स्वादूनि भवन्तु । यद्वा हवींषि स्वदन्तामास्वादयन्तु देवा इति शेषः । पूर्ववण्णिचो लोपः ॥ ७ ॥
अष्टमी।
अधिमन्त्रम् (VC)
- त्वष्टा देवता
- मेधातिथिर्ऋषिः
- निचृद् आर्षी बृहती
- मध्यमः
०८ रेवती रमध्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
रेव॑ती॒ रम॑ध्वं॒ बृह॑स्पते धा॒रया॒ वसू॑नि। ऋ॒तस्य॑ त्वा देवहविः॒ पाशे॑न प्रति॑मुञ्चामि॒ धर्षा॒ मानु॑षः ॥८॥
मूलम् ...{Loading}...
रेव॑ती॒ रम॑ध्वं॒ बृह॑स्पते धा॒रया॒ वसू॑नि। ऋ॒तस्य॑ त्वा देवहविः॒ पाशे॑न प्रति॑मुञ्चामि॒ धर्षा॒ मानु॑षः ॥८॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
रेव॑तीः। रम॑ध्वम्। बृह॑स्पते। धा॒रय॑। वसू॑नि। ऋ॒तस्य॑। त्वा॒। दे॒व॒ह॒वि॒रिति॑ देवऽहविः। पाशे॑न। प्रति॑। मु॒ञ्चा॒मि॒। धर्ष॑। मानु॑षः। ८।
महीधरः
म० रयिर्धनं क्षीरादि यासां ता रेवत्यः । लिङ्गवचनव्यत्ययः । रेवन्तः ‘रेवन्तो हि पशवः’ (३।७।३।१३) इति श्रुतेः हे रेवन्तः क्षीरादिधनवन्तः पशवः, यूयं यजमानगृहे रमध्वं संक्रीडध्वम् । एवं पशुमुक्त्वा बृहस्पतिमाह । हे बृहस्पते, हे ब्रह्मन् , वसूनि पशुलक्षणानि धारया निश्चलीकुरु । ‘ब्रह्म वै बृहस्पतिः पशवो वसु’ (३ । ७ । ३ । १३) इति श्रुतेः ॥ ‘द्विगुणरशनया द्विव्यामया कौश्या पाशं कृत्वान्तरा शृङ्गमभिदक्षिणं बध्नात्यृतस्य त्वेति’ ( का० ६ । ३ । २६) । अवयवद्वयोपेतया व्यामद्वयपरिमितया कुशकृतया रज्ज्वा नागपाशं कृत्वा शृङ्गयोरन्तराले पशुं बध्नाति कथम् । अभिदक्षिणं दक्षिणशृङ्गमभिमुखं पाशं प्रतिमुञ्चेदिति सूत्रार्थः । हे देवहविः देवानां हवीरूप पशो, ऋतस्यावश्यंभाविफलोपेतत्वात्सत्यस्य यज्ञस्य पाशेन त्वा त्वां प्रतिमुञ्चामि बध्नामि । प्रतिपूर्वो मुञ्चतिर्बन्धने वर्तते । एवं पशुं संबोध्य शमित्रे समर्पयति मानुषो धर्षा । ‘ञिधृषा प्रागल्भ्ये’ विकरणपुरुषव्यत्ययः । मानुषः शमिता धृष्णोतु शमयितुं शक्नोतु पाशेन बद्धत्वादिति भावः । संहितायां ‘द्व्यचोऽतस्तिङः’ (पा० ६ । ३ । १३५) इति सूत्रेण धर्षेत्यत्र दीर्घः ॥ ८॥
नवमी।
अधिमन्त्रम् (VC)
- बृहस्पतिर्देवता
- दीर्घतमा ऋषिः
- प्राजापत्या अनुष्टुप्, भुरिक् प्राजापत्या बृहती
- ऋषभः
०९ देवस्य त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳙ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम्। अ॒ग्नीषोमा॑भ्यां॒ जुष्टं॒ नियु॑नज्मि। अ॒द्भ्यस्त्वौष॑धी॒भ्योऽनु॑ त्वा मा॒ता म॑न्यता॒मनु॑ पि॒तानु॒ भ्राता॒ सग॒र्भ्योऽनु॒ सखा॒ सयू॑थ्यः। अ॒ग्नीषोमा॑भ्यां त्वा॒ जुष्टं॒ प्रोक्षा॑मि ॥९॥
मूलम् ...{Loading}...
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳙ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम्। अ॒ग्नीषोमा॑भ्यां॒ जुष्टं॒ नियु॑नज्मि। अ॒द्भ्यस्त्वौष॑धी॒भ्योऽनु॑ त्वा मा॒ता म॑न्यता॒मनु॑ पि॒तानु॒ भ्राता॒ सग॒र्भ्योऽनु॒ सखा॒ सयू॑थ्यः। अ॒ग्नीषोमा॑भ्यां त्वा॒ जुष्टं॒ प्रोक्षा॑मि ॥९॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दे॒वस्य॑ त्वा॒। स॒वि॒तुः। प्र॒स॒व इति॑ प्रऽस॒वे। अ॒श्विनोः॑। बा॒हुभ्या॒मिति॑ बा॒हुऽभ्याम्। पू॒ष्णः। हस्ता॑भ्याम्। अ॒ग्नीषोमा॑भ्याम्। जुष्ट॑म्। नि। यु॒न॒ज्मि॒। अ॒द्भ्य इत्य॒द्ऽभ्यः। त्वा॒। ओष॑धीभ्यः। अनु॑। त्वा॒। मा॒ता। म॒न्य॒ता॒म्। अनु॑। पि॒ता। अनु॑। भ्राता॑। सगर्भ्य॒ इति॑ सऽगर्भ्यः। अनु॑। सखा॑। सयू॑थ्य इति॑ सऽयू॑थ्यः। अ॒ग्नीषोमा॑भ्याम्। त्वा॒। जुष्ट॑म्। प्र। उ॒क्षा॒मि॒। ९।
महीधरः
म० ‘देवस्य त्वेति यूप इति’ (का० ६ । ३ । २७) यूपे पशुं बध्नातीति शेष इति सूत्रार्थः । अग्नीषोमदेवताभ्यां जुष्टमभिरुचितं पशुं नियुनज्मि निबध्नामि । व्याख्यातमन्यत् । ‘अद्भ्यस्त्वेति पशुं प्रोक्षणीभिः प्रोक्षतीति’ (का० ६।३।३०) हे पशो, अद्भ्यः ओषधीभ्यः । अत्र विभक्तिव्यत्ययः । अद्भिरोषधिभिश्च । त्वा त्वां प्रोक्षामि मेध्यं करोमि । किंभूतं त्वाम् । अग्नीषोमाभ्यां जुष्टं प्रीतं दर्भैरपामुत्पूतत्वादोषधीनामपि प्रोक्षणसाधनत्वमस्त्येव । स्वमातृभक्षिताभ्यां तृणोदकाभ्यां पशोरुत्पन्नत्वात्तेनोभयेन प्रोक्षणं युक्तम् । तदाह तित्तिरिः ‘अद्भ्यस्त्वौषधीभ्यः प्रोक्षामीत्याहाद्भ्यो ह्येष ओषधीभ्यः संभवति’ । किंच हे पशो, एवं प्रोक्षितं त्वां माता भूमिरनुमन्यतां, तथा पिता द्यौरनुमन्यताम् , सगर्भ्यः समानगर्भे उदरे भवः सोदरो भ्राता अनुमन्यताम् । सयूथ्यः समानयूथे भवः सखा सुहृत् अनुमन्यताम् ॥ ९ ॥
दशमी।
अधिमन्त्रम् (VC)
- सविता आश्विनौ पूषा च देवताः
- दीर्घतमा ऋषिः
- प्राजापत्या बृहती, निचृद् अति जगती
- धैवतः
१० अपां पेरुरस्यापो
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒पां पे॒रुर॒स्यापो॑ दे॒वीः स्व॑दन्तु स्वा॒त्तं चि॒त्सद्दे॑वह॒विः। सं ते॑ प्रा॒णो वाते॑न गच्छताँ॒ समङ्गा॑नि॒ यज॑त्रैः॒ सं य॒ज्ञप॑तिरा॒शिषा॑ ॥१०॥
मूलम् ...{Loading}...
अ॒पां पे॒रुर॒स्यापो॑ दे॒वीः स्व॑दन्तु स्वा॒त्तं चि॒त्सद्दे॑वह॒विः। सं ते॑ प्रा॒णो वाते॑न गच्छताँ॒ समङ्गा॑नि॒ यज॑त्रैः॒ सं य॒ज्ञप॑तिरा॒शिषा॑ ॥१०॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒पाम्। पे॒रुः। अ॒सि॒। आपः॑। दे॒वीः। स्व॒द॒न्तु॒। स्वा॒त्तम्। चि॒त्। सत्। दे॒व॒ह॒विरिति॑ देवऽह॒विः। सम्। ते॒। प्रा॒णः। वाते॑न। ग॒च्छ॒ता॒म्। अङ्गा॑नि। यज॑त्रैः। यज्ञप॑तिरिति॑ य॒ज्ञऽपतिः। आ॒शिषेत्या॒ऽशिषा॑। १०।
महीधरः
म० ‘अपां पेरुरित्यास्य उपगृह्णातीति’ (का० ६।३।३१) पशोर्मुखे प्रोक्षणीर्धारयेदिति सूत्रार्थः । पशुदैवतम् । हे पशो, त्वमपां जलानां पेरुः पानशीलोऽसि । पिबतीति पेरुः औणादिक एरुप्रत्ययः । उदकपानशीलो भवसि तत इदं पिबेत्यर्थः । ‘आपो देवीरित्यधस्तादुपोक्षतीति’ (का० ६ । ३ । ३२) पशोरधोभागे हृदि प्रोक्षेदिति सूत्रार्थः । हे पशो, आपोदेवीः अब्रूपा देव्यः स्वदन्तु त्वामास्वादयन्तु भक्षयन्तु । यद्वा आपोदेव्यः स्वदन्तु पशुं भक्षयन्तु । को गुण इति चेत् । स्वात्तं चित् । चिदित्यव्ययं हेरर्थे । हि यतो देवहविः देवानां हविः पशुलक्षणं स्वात्तमास्वादितं सत् शोभनं देवयोग्यं भूयादिति शेषः । अद्भ्यस्त्वेत्यादिमन्त्रत्रयेणोपरिष्टान्मुखेऽधोभागे पशोः प्रोक्षणेन सर्वं मेध्यं करोतीति तित्तिरिणा प्रतिपादितम् । तदाह ‘उपरिष्टात्प्रोक्षत्युपरिष्टादेवैनं मेध्यं करोति पाययत्यन्तरत एवैनं मेध्यं करोत्यधस्तादुपोक्षति सर्वमेवैनं मेध्यं करोतीति’ । ‘उत्तरमाघारमाघार्य पशुं पूर्वᳪं᳭समनक्ति ललाटाᳪं᳭सश्रोणिषु सं त इति प्रतिमन्त्रमिति’ (का० ६।४ । २) उत्तराघारहोमानन्तरं ध्रुवासमञ्जनादर्वागेव भाले अंसयोः श्रोण्योश्च जुह्वैव पशुं समनक्ति सं त इति त्रिभिः प्रतिमन्त्रमिति सूत्रार्थः । पशुदैवतयजूंषि । ललाटाञ्जनमन्त्रः - हे पशो, ते तव प्राणो बाह्येन वातेन संगच्छताम् । अथांसयोर्मन्त्रावृत्तिः अङ्गानि अंसादीनि यजत्रैः यागैः संगच्छन्ताम् । इज्यन्त इति यजत्राः । अथ श्रोण्योः यज्ञपतिर्यजमान आशिषा यज्ञफलेन संगच्छताम् ॥ १० ॥
एकादशी।
अधिमन्त्रम् (VC)
- आपो देवता
- मेधातिथिर्ऋषिः
- प्राजापत्या बृहती, भुरिग् आर्षी गायत्री
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
अब यज्ञोपवीत होने के पश्चात् शिष्य को अत्यावश्यक है कि विद्या, उत्तम शिक्षा का ग्रहण और अग्निहोत्रादिक का अनुष्ठान करे ऐसा उपदेश गुरु किया करे, यह अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे शिष्य ! तू (अपाम्) जल आदि पदार्थों का (पेरुः) रक्षा करनेवाला (असि) है, संसारस्थ जीव तेरे यज्ञ से शुद्ध हुए (देवीः) दिव्य सुख देनेवाले (आपः) जलों को (चित्) और (स्वात्तम्) धर्मयुक्त व्यवहार से प्राप्त हुए पदार्थों को (देवहविः) विद्वानों के भोगने के समान (संस्वदन्तु) अच्छी तरह से भोगें, (आशिषा) मेरे आशीर्वाद से (ते) तेरे (अङ्गानि) शिर आदि अवयव (यजत्रैः) यज्ञ करानेवालों के साथ (सम्) सम्यक् नियुक्त हों और (प्राणः) प्राण (वातेन) पवित्र वायु के सङ्ग (सङ्गच्छताम्) उत्तमता से रमण करे और तू (यज्ञपतिः) विद्याप्रचाररूपी यज्ञ का पालन करने हारा हो ॥१०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो यज्ञ में दी हुई आहुति हैं, वे सूर्य के उपस्थित रहती हैं अर्थात् सूर्य की आकर्षण शक्ति से परमाणुरूप होकर सब पदार्थ पृथिवी के ऊपर आकाश में हैं, उसी पृथिवी का जल ऊपर खिंचकर वर्षा होती है, उस वर्षा से अन्न और अन्न से सब जीवों को सुख होता है, इस परम्परा सम्बन्ध से यज्ञशोधित जल और होम किये द्रव्य को सब जीव भोगते हैं ॥१०॥
दयानन्द-सरस्वती (सं) - विषयः
अथोपनीतेन शिष्येण विद्यासुशिक्षाग्रहणाग्निहोत्रादियज्ञोऽवश्यमनुष्ठातव्य इति गुरुरुपदिशेत् ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे शिष्य त्वमपां पेरुरसि संसारस्थाः प्राणिनस्त्वद्यज्ञशोधिता देवीरापश्चित् स्वात्तं धर्मानुष्ठानस्वीकृतं देवहविरिव संस्वदन्तु मदाशिषा तवाङ्गानि यजत्रैः सह गच्छन्ताम्, प्राणो वातेन संगच्छताम्, त्वं यज्ञपतिर्भव ॥१०॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। या यज्ञे प्रास्ताहुतयस्ता आदित्यमुपतिष्ठन्ते, आदित्याकर्षणशक्त्या पृथिवीजलाकर्षणेन वृष्टिर्भवति, ततोऽन्नमन्नाद् भूतानीति परम्परासम्बन्धेन यज्ञशोधिता अपो हुतद्रव्यं च सर्वे जीवा भुञ्जते ॥१०॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. यज्ञात दिलेली आहुती सूर्यापर्यंत पोहोचते. अर्थात सूर्याच्या आकर्षण शक्तीने परमाणुरूप बनून सर्व पदार्थ पृथ्वीवरून आकाशात जातात. पृथ्वीचे जलही अंतरिक्षात ओढून घेतले जाते व नंतर पर्जन्यरूपाने पृथ्वीवर येते. त्या वृष्टीमुळे अन्न प्राप्त होते. अन्नामुळे सर्व जीव सुखी होतात. या क्रमानुसार यज्ञाने शुद्ध झालेले जल व होमात अर्पण केलेले द्रव्य सर्व जीव भोगतात.
११ घृतेनाक्तौ पशूँस्त्रायेथा
विश्वास-प्रस्तुतिः ...{Loading}...
घृ॒तेना॒क्तौ प॒शूँस्त्रा॑येथाँ॒ रेव॑ति॒ यज॑माने प्रि॒यं धाऽआवि॑श। उ॒रोर॒न्तरि॑क्षात् स॒जूर्दे॒वेन॒ वाते॑ना॒स्य ह॒विष॒स्त्मना॑ यज॒ सम॑स्य त॒न्वा᳖ भव। वर्षो॒ वर्षी॑यसि य॒ज्ञे य॒ज्ञप॑तिं धाः॒ स्वाहा॑ दे॒वेभ्यो॑ दे॒वेभ्यः॒ स्वाहा॑ ॥११॥
मूलम् ...{Loading}...
घृ॒तेना॒क्तौ प॒शूँस्त्रा॑येथाँ॒ रेव॑ति॒ यज॑माने प्रि॒यं धाऽआवि॑श। उ॒रोर॒न्तरि॑क्षात् स॒जूर्दे॒वेन॒ वाते॑ना॒स्य ह॒विष॒स्त्मना॑ यज॒ सम॑स्य त॒न्वा᳖ भव। वर्षो॒ वर्षी॑यसि य॒ज्ञे य॒ज्ञप॑तिं धाः॒ स्वाहा॑ दे॒वेभ्यो॑ दे॒वेभ्यः॒ स्वाहा॑ ॥११॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
घृ॒तेन॑। अ॒क्तौ। प॒शून्। त्रा॒ये॒था॒म्। रेव॑ति। यज॑माने। प्रि॒यम्। धाः॒। आ। वि॒श॒। उ॒रोः। अ॒न्तरि॑क्षात्। स॒जूरिति॑ स॒ऽजूः। दे॒वेन॑। वाते॑न। अ॒स्य। ह॒विषः॑। त्मना॑। य॒ज॒। सम्। अ॒स्य॒। त॒न्वा᳖। भ॒व॒। वर्षो॒ऽइति॒ वर्षो॒। वर्षीय॑सि। य॒ज्ञे। य॒ज्ञप॑ति॒मिति॑ य॒ज्ञऽप॑तिम्। धाः॒। स्वाहा॑। दे॒वेभ्यः॑। दे॒वेभ्यः॑। स्वाहा॑। ११।
महीधरः
म० ‘स्वरुमादायांक्त्वोभौ जुह्वग्रे ताभ्यां पशोर्ललाटमुपस्पृशति घृतेनाक्ताविति’ (का. ६ । ४ । १२)। विशसित्रा दत्तं शासं गृहीत्वा स्वयमेव यूपात् स्वरुमादाय तावसिस्वरू जुह्वग्रे घृतेनांक्वा ताभ्यामसिस्वरुभ्यां पशोर्ललाटं स्पृशेदिति सूत्रार्थः । स्वरुशासदैवतम् । हे स्वरुशासौ, युवां घृतेनाक्तौ सन्तौ पशून् । बहुवचनं पूजार्थम् । एतं पशुं त्रायेयां पालयेथाम् । ‘रेवति यजमान इति वाचयतीति’ (का० ६।५। ११)। यजमानं वाचयेदित्यर्थः । वाग्देवतम् ‘वाग्वै रेवती’ इति श्रुतेः (३। ८।१।१२) हे रेवति धनवति वाग्देवते, यजमानेऽस्मिन् प्रियमभिप्रेतं धाः धेहि । ‘बहुलं छन्दस्यमाङ्योगेऽपि’ (पा० ६ । ४ । ७५) इत्यडभावः । आविश ज्ञानप्रदानेन यजमानं प्रविश । किंच हे रेवति, वातेन देवेन सजूः समानप्रीतिर्भूत्वा उरोर्विस्तीर्णादन्तरिक्षाद्यजमानं गोपायेति शेषः । किंचास्य पशुलक्षणस्य हविषा त्मना आत्मना यज । ‘मन्त्रेष्वाङ्यादेरात्मनः’ (पा० ६ । ४ । १४१) इति आकारलोपः । किंचास्य पशोस्तन्वा शरीरेण संभव एकीभव । हे रेवति, यजमानरूपेण पशुरूपेण चात्मना भूत्वा त्मना च यजेति तात्पर्यार्थः । ‘पश्चात्तृणमुपास्यति वर्षो वर्षीयसीति’ (का० ६ । ५। १५)। शामित्रस्य पश्चात्प्रागग्रं तृणमुपास्यति हस्तस्थतृणद्वयमध्ये एकं क्षिपति विशसनीयस्य पशोर्भूमिस्पर्शपरिहारार्थमिति सूत्रार्थः । तृणदेवतम् । हे वर्षो, वर्षादुत्पन्नं वर्षुः तत्संबोधनं वर्षो वर्षप्रसव हे तृण, यद्वा वर्षो विस्तीर्ण, वर्षीयसि विस्तीर्णतरे यज्ञे यज्ञपतिं यजमानं धाः धेहि । ‘देवेभ्यः स्वाहेति जुहोतीति’ (का० ६ । ५ । २४) मन्त्रयोरर्थैक्येऽपि पाठभेदतात्पर्यं तित्तिरिराह । ‘पुरस्तात्स्वाहाकृतयोऽन्ये देवा उपरिष्टात्स्वाहाकृतयोऽन्ये स्वाहा देवेभ्यो देवेभ्यः स्वाहेति’ ॥११॥
द्वादशी।
अधिमन्त्रम् (VC)
- वातो देवता
- मेधातिथिर्ऋषिः
- स्वराट् प्राजापत्या बृहती, भुरिग् आर्षी उष्णिक्, निचृद् गायत्री
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
अब यज्ञ करने और करानेवालों के कर्त्तव्य काम का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (घृतेन, अक्तौ) घृतप्रसक्त अर्थात् घृत चाहने और यज्ञ के कराने हारो ! तुम (पशून्) गौ आदि पशुओं को (त्रायेथाम्) पालो, तुम एक एक जन (देवेन) सर्वगत (वातेन) पवन से (सजूः) समान प्रीति करते हुए (उरोः) विस्तृत (अन्तरिक्षात्) अन्तरिक्ष से उत्पन्न हुए (प्रियम्) प्रिय सुख को (रेवति) अच्छे ऐश्वर्ययुक्त (यजमाने) यज्ञ करनेवाले धनी पुरुष में (धाः) स्थापन करो तथा (आविश) उस के अभिप्राय को प्राप्त होओ और (अस्य) इस के (हविषः) होम के योग्य पदार्थ को (त्मना) आप ही निष्पादन किये हुए के समान (यज) अग्नि में होमो अर्थात् यज्ञ की किसी क्रिया का विपरीत भाव न करो और (अस्य) इसके (तन्वा) शरीर के साथ (सम्) (भव) एकीभाव रक्खो, किन्तु विरोध से द्विधा आचरण मत करो। हे (वर्षो) यज्ञकर्म से सर्वसुख के पहुँचाने वालो ! (देवेभ्यः) (स्वाहा) (देवेभ्यः) (स्वाहा) सत्कर्म के अनुष्ठान से प्रकाशित धर्मिष्ठ ज्ञानी पुरुष जो कि यज्ञ देखने की इच्छा करते हुए बार-बार यज्ञ में आते हैं, उन विद्वानों के लिये अच्छे सत्कार करानेवाली वाणियों को उच्चारण करते हुए यज्ञपति को (वर्षीयसि) सर्व सुख वर्षानेवाले यज्ञ में (धाः) अभियुक्त करो ॥११॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यज्ञ के लिये घृत आदि पदार्थ चाहनेवाले मनुष्य को गाय आदि पशु रखने चाहियें और घृतादि अच्छे-अच्छे पदार्थों से अग्निहोत्र से लेकर उत्तम यज्ञों से जल और पवन की शुद्धि कर सब प्राणियों को सुख उत्पन्न करना चाहिये ॥११॥
दयानन्द-सरस्वती (सं) - विषयः
अथ यज्ञकर्त्तृकारयित्रोः कर्त्तव्यमुपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे यज्ञकर्तृकारयितारौ घृतनेनाक्तौ घृतमनस्कौ युवां पशून् त्रायेथाम्, त्वमेकैकौ देवेन वातेन सजूरुरोन्तरिक्षात् प्रियं प्रेमोत्पादकं सुखं रेवति यजमाने धा आविश तत्स्वान्तवृत्तिमाप्नुहि, अस्य हविषस्त्मना आत्मना यज, अस्य तन्वा सम्भवैकीभव न द्वैधमाचर। हे वर्षो ! यज्ञकर्मणा सुखसेचकं त्वं देवेभ्यः स्वाहा देवेभ्यः स्वाहा तद्यज्ञं दिदृक्षुभ्यः पुनः पुनरागतेभ्यो विद्वद्भ्योऽसकृत् सत्कृत्यनुरूपां वाचमुदीरयन् वर्षीयसि यज्ञे यज्ञपतिं धाः ॥११॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यज्ञार्थं घृतादिमभीप्सुभिर्मनुष्यैः पशवो रक्षणीया घृतादिसद्द्रव्येणाग्निहोत्रादियज्ञान् सम्पाद्य तैर्जलवायू संशोध्य सर्वेषां प्राणिनामभीष्टं संसाध्यम् ॥११॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - यज्ञासाठी तूप इत्यादी पदार्थांची इच्छा बाळगणाऱ्यांनी गाय वगैरे पशू पाळले पाहिजेत. तूप वगैरे पदार्थांनी उत्तम उत्तम यज्ञ करावेत व जल आणि वायू शुद्ध करून सर्व प्राण्यांना सुखी करावे.
१२ माहिर्भूर्मा पृदाकुर्नमस्तऽआतानानर्वा
विश्वास-प्रस्तुतिः ...{Loading}...
माहि॑र्भू॒र्मा पृदा॑कु॒र्नम॑स्तऽआतानान॒र्वा प्रेहि॑। घृ॒तस्य॑ कु॒ल्याऽउप॑ऽऋ॒तस्य॒ पथ्या॒ऽअनु॑ ॥१२॥
मूलम् ...{Loading}...
माहि॑र्भू॒र्मा पृदा॑कु॒र्नम॑स्तऽआतानान॒र्वा प्रेहि॑। घृ॒तस्य॑ कु॒ल्याऽउप॑ऽऋ॒तस्य॒ पथ्या॒ऽअनु॑ ॥१२॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मा। अहिः॑। भूः॒। मा। पृदा॑कुः। नमः॑। ते॒। आ॒ता॒नेतेत्या॑ऽतान। अ॒न॒र्वा। प्र। इ॒हि॒। घृ॒तस्य॑। कु॒ल्याः। उप॑। ऋ॒तस्य॑। पथ्याः॑। अनु॑। १२।
महीधरः
म० ‘वपाश्रपणीभ्यां नियोजनीं चात्वाले प्रास्यति माहिर्भूरिति’ (का० ६ । ५ । २६) वपा श्रप्यते याभ्यां ते वपाश्रपण्यौ काष्ठविशेषौ ताभ्यां कृत्वा नियोजनीं पशुबन्धनरज्जुं द्विगुणां चात्वाले क्षिपेदिति सूत्रार्थः । रज्जुदेवत्यम् । हे रज्जो, त्वमहिः सर्पाकारा मा भूः मा भूयाः । पृदाकुः अजगराकारापि मा भूः । ‘पान्नेजनहस्तां वाचयति नयन्नमस्त आतानेति’ (का. ६।६।१)। पादौ निज्येते क्षाल्येते येन स पान्नेजनः पादनेजनार्थ उदककलशः । पादग्रहणमन्यावयवोपलक्षणम् । पान्नेजनो मुखाद्यवयवशोधनार्थो जलकलशो हस्ते यस्याः सा पान्नेजनहस्ता तां पत्नीं नयन् गार्हपत्यसमीपात्पशुशोधनाय नयन्सन् प्रतिप्रस्थातामुं मन्त्रं तां वाचयेदिति सूत्रार्थः । यज्ञदेवत्यम् । आ समन्तात्तन्यते विस्तार्यते इत्यातानो यज्ञः । ‘यज्ञो वा आतानो यज्ञᳪं᳭हि तन्वते’ (३।८।२।२) इति श्रुतेः । हे आतान यज्ञ, ते तुभ्यं नमः । त्वमनर्वा शत्रुरहितः सन् प्रेहि समाप्तिपर्यन्तं प्रकर्षेण गच्छ । इयर्ति वधार्थमित्यर्वा नास्त्यर्वा यस्यासावनर्वा । ‘अनर्वा प्रेहीत्यसपत्नेन प्रेहि’ इति श्रुतेः । ‘अनर्वा प्रेहीत्याह भ्रातृव्यो वा अर्वा भ्रातृव्यापनुत्त्यै’ इति तित्तिरिवाक्यात् । किंच ऋतस्य यज्ञस्य पथ्याः पयि भवाः घृतस्य कुल्याः घृतनदीः अनुलक्ष्य उप प्रेहि गच्छ । सान्नाय्यपृषदाज्यकुल्योपलक्षणार्थं घृतकुल्याग्रहणम् । अत्र यज्ञे बहु घृतमाहुतमित्यभिप्रायः ॥ १२ ॥
त्रयोदशी।
अधिमन्त्रम् (VC)
- विद्वांसो देवता
- मेधातिथिर्ऋषिः
- भुरिक् प्राजापत्या अनुष्टुप्, साम्नी उष्णिक्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
वह विद्वान् कैसा हो, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (आतान) अच्छे प्रकार सुख से विस्तार करनेवाले विद्वान् ! तू (मा) मत (अहिः) सर्प के समान कुटिलमार्गगामी और (मा) मत (पृदाकुः) मूर्खजन के समान अभिमानी वा व्याघ्र के समान हिंसा करनेवाला (भूः) हो (ते) सब जगह तेरे सुख के लिये (नमः) अन्न आदि पदार्थ पहले ही प्रवृत्त हो रहे हैं और (अनर्वा) अश्व आदि सवारी के विना निराश्रय पुरुष जैसे (घृतस्य) जल की (कुल्याः) बड़ी धाराओं को प्राप्त हो, वैसे (ऋतस्य) सत्य के (पथ्याः) मार्गों को प्राप्त हो ॥१२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - किसी मनुष्य को कुटिलगामी सर्प आदि दुष्ट जीवों के समान धर्ममार्ग में कुटिल न होना चाहिये, किन्तु सर्वदा सरल भाव से ही रहना चाहिये ॥१२॥
दयानन्द-सरस्वती (सं) - विषयः
स विद्वान् कीदृग्भवेदित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे आतान ! त्वं अहिर्माभूः पृदाकुर्माभूस्ते तुभ्यं नमोऽस्तु, सर्वत्र त्वत्सुखायान्नादिपदार्थः पुरत एव प्रवर्त्तत इति भावः। अनर्वा घृतस्य कुल्या इवर्तस्य पथ्या प्रोपैहि ॥१२॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - केनापि मनुष्येण धर्ममार्गे कुटिलमार्गगामिसर्पादिवत्कुटिलाचरणेन न भवितव्यम्, किन्तु सर्वदा सरलभावेनैव भवितव्यम् ॥१२॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - कोणत्याही माणसाने धर्ममार्गाने चालताना कुटिल सर्प इत्यादी दुष्ट जीवांप्रमाणे वागू नये, तर सदैव सरळ मार्गाने वाटचाल करावी.
१३ देवीरापः शुद्धा
विश्वास-प्रस्तुतिः ...{Loading}...
देवी॑रापः शु॒द्धा वो॑ढ्वँ॒ सुप॑रिविष्टा दे॒वषु॒ सुप॑रिविष्टा व॒यं प॑रि॒वे॒ष्टारो॑ भूयास्म ॥१३॥
मूलम् ...{Loading}...
देवी॑रापः शु॒द्धा वो॑ढ्वँ॒ सुप॑रिविष्टा दे॒वषु॒ सुप॑रिविष्टा व॒यं प॑रि॒वे॒ष्टारो॑ भूयास्म ॥१३॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
देवीः॑। आ॒पः॒। शु॒द्धाः। वो॒ढ्व॒म्। सुप॑रिविष्टा॒ इति॑ सुऽप॑रिविष्टाः॒। दे॒वेषु॑। सुप॑रिविष्टा॒ इति॒ सुऽप॑रिविष्टाः॒। व॒यम्। प॒रि॒वे॒ष्टार॒ इति॑ परिऽवे॒ष्टारः॑। भू॒या॒स्म॒। १३।
महीधरः
म० एवं यज्ञं स्तुत्वेदानीमापः स्तूयन्ते । अर्धमब्देवत्यमर्धमाशीर्देवत्यम् । हे आपो देव्यः, यूयं देवेषु वोढ़्वं पशुमिति | शेषः । एनं पशुं देवान्प्रति वहत प्रापयत । ‘वह प्रापणे’ अस्य लुङि तङि मध्यमबहुवचने अडभावे रूपम् । किंभूता यूयम् । शुद्धाः स्वभावतः तथा सुपरिविष्टाः साधु परितः सर्वतो निविष्टाः पान्नेजनीपात्रे । किंच वयमपि सुपरिविष्टाः देवेष्विति पदमिहाप्यनुवर्तते । वयमपि देवेषु मध्येऽवस्थितास्तैरेव देवैः सुपरिविष्टाः तर्पिताः संतस्तेषामेव देवानां परिवेष्टारः परिवेषणकर्तारो भूयास्मेत्याशीः ॥ १३ ॥
चतुर्दशी ।
अधिमन्त्रम् (VC)
- आपो देवताः
- मेधातिथिर्ऋषिः
- निचृद् आर्षी अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब ब्रह्मचारी बालक और ब्रह्मचारिणी कन्याओं को गुरुपत्नियों का कैसे मान करना चाहिये, यह अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे कुमारियो ! तुम जैसे (आपः) श्रेष्ठगुणों में रमण करनेवाली (शुद्धाः) सत्कर्माऽनुष्ठान से पवित्र (देवीः) विद्या प्रकाशवती विदुषी स्त्रीजन (देवेषु) श्रेष्ठ विद्वान् पतियों के निमित्त (सुपरिविष्टाः) और उन की सेवा करने को सम्मुख प्रवृत्त होकर अपने समान पतियों को (वोढ्वम्) प्राप्त होती हैं और वे विद्वान् पतिजन उन स्त्रियों को प्राप्त होते हैं, वैसे तुम हो और हम भी (परिवेष्टारः) उस कर्म की योग्यता को (भूयास्म) पहुँचें। ॥१३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे विदुषी अर्थात् विद्वानों की स्त्री पातिव्रत धर्म में तत्पर रहती हैं, वैसे ब्रह्मचारिणी कन्या भी उनके गुण और स्वभाववाली हों और ब्रह्मचारी भी गुरुजनों की शिक्षा से स्त्री और पुरुष आदि की रक्षा करने में तत्पर हों ॥१३॥
दयानन्द-सरस्वती (सं) - विषयः
अथ वटुभिर्ब्रह्मचारिणीभिश्च गुरुपत्न्यः कथं सम्माननीया इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे कुमार्यः ! यथापः सद्गुणेषु व्याप्ता शुद्धा देवीः विदुष्यः सत्स्त्रियो देवेषु सद्विद्यादिदिव्यगुणेषु विद्वत्सु स्वपतिषु सुपरिविष्टाः कृतब्रह्मचर्याः स्वसमान् वरान् स्वीकृतवत्यः, यथा च ते विद्वांसस्ता विदुषीः प्राप्तास्तथा यूयं स्त्रीभावेनास्मान् प्राप्नुतैवं वयमपि परिवेष्टारो भूयास्म ॥१३॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा विदुष्यो विदुषां स्त्रियः पातिव्रत्यधर्म्मतत्परा भवन्ति, तथा ब्रह्मचारिण्यः कन्यास्तद्गुणस्वभावा भवेयुर्ब्रह्मचारिण्यो गुरुजनस्वभावाः स्युः, यतः सुशिक्षया स्त्रीपुत्रादिरक्षणशीला भवेयुरिति ॥१३॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. ज्याप्रमाणे विद्वान पुरुषांच्या विदुषी स्त्रिया पातिव्रत्यात दृढ असतात त्याप्रमाणेच ब्रह्मचारिणी मुलींनी दृढ बनावे. ब्रह्मचाऱ्यांनीही गुरूपासून शिक्षण घ्यावे व स्त्री-पुरुषांचे तत्परतेने रक्षण करावे.
१४ वाचं ते
विश्वास-प्रस्तुतिः ...{Loading}...
वाचं॑ ते शुन्धामि प्रा॒णं ते॑ शुन्धामि॒ चक्षुस्ते॑ शुन्धामि॒ श्रोत्रं॑ ते शुन्धामि॒ नाभिं॑ ते शुन्धामि॒ मेढ्रं॑ ते शुन्धामि पा॒युं ते॑ शुन्धामि च॒रित्राँ॑स्ते शुन्धामि ॥१४ ॥
मूलम् ...{Loading}...
वाचं॑ ते शुन्धामि प्रा॒णं ते॑ शुन्धामि॒ चक्षुस्ते॑ शुन्धामि॒ श्रोत्रं॑ ते शुन्धामि॒ नाभिं॑ ते शुन्धामि॒ मेढ्रं॑ ते शुन्धामि पा॒युं ते॑ शुन्धामि च॒रित्राँ॑स्ते शुन्धामि ॥१४ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वाच॑म्। ते॒। शु॒न्धा॒मि॒। प्रा॒णम्। ते॒। शु॒न्धा॒मि॒। चक्षुः॑। ते॒। शु॒न्धा॒मि॒। श्रोत्र॑म्। ते॒। शु॒न्धा॒मि॒। नाभि॑म्। ते॒। शु॒न्धा॒मि॒। मेढ्र॑म्। ते॒। शु॒न्धा॒मि॒। पा॒युम्। ते॒। शु॒न्धा॒मि॒। च॒रित्रा॑न्। ते॒। शु॒न्धा॒मि॒। १४।
महीधरः
म० ‘पशोः प्राणाञ्छुन्धति पत्नी मुखं नासिके चक्षुषी कर्णौ नाभिं मेढ्रं पायुं पादान्सᳪं᳭हृत्य वाचं ते शुन्धामीति प्रतिमन्त्रमिति’ (का० ६ । ६ । २-३)। पत्नी पशुसमीप उपविश्य मृतस्य पशोः प्राणान्मुखादीन्यष्टौ प्राणायतनानि प्रतिमन्त्रं शुन्धति शोधयति अद्भिः स्पृशतीति सूत्रार्थः । पशुदेवत्यानि । हे पशो, अहं ते तव वाचं वागिन्द्रियं शुन्धामि | शोधयामि । एवमग्रेऽपि प्राणं प्राणवायुं प्राणेन्द्रियं चक्षुरिन्द्रियं श्रोत्रेन्द्रियं नाभिं नाभिच्छिद्रं मेढ्रं लिङ्गम् पायुं गुदम् चरन्ति गच्छन्त्येभिरिति चरित्राः पादाः एवं त्वदीयानि सर्वेन्द्रियाणि शुन्धामि ॥ १४ ॥
पञ्चदशी।
अधिमन्त्रम् (VC)
- विद्वांसो देवता
- मेधातिथिर्ऋषिः
- भुरिग् आर्षी जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
अब वे गुरुपत्नी और गुरुजन यथायोग्य शिक्षा से अपने-अपने विद्यार्थियों को अच्छे-अच्छे गुणों में कैसे प्रकाशित करते हैं, यह अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे शिष्य ! मैं विविध शिक्षाओं से (ते) तेरी (वाचम्) जिस से बोलता है, उस वाणी को (शुन्धामि) शुद्ध अर्थात् सद्धर्मानुकूल करता हूँ। (ते) तेरे (चक्षुः) जिस से देखता है, उस नेत्र को (शुन्धामि) शुद्ध करता हूँ। (ते) तेरी (नाभिम्) जिस से नाड़ी आदि बाँधे जाते हैं, उस नाभि को (शुन्धामि) पवित्र करता हूँ। (ते) तेरे (मेढ्रम्) जिससे मूत्रोत्सर्गादि किये जाते हैं, उस लिङ्ग को (शुन्धामि) पवित्र करता हूँ। (ते) तेरे (पायुम्) जिस से रक्षा की जाती है, उस गुदेन्द्रिय को (शुन्धामि) पवित्र करता हूँ। (चरित्रान्) समस्त व्यवहारों को (शुन्धामि) पवित्र शुद्ध अर्थात् धर्म के अनुकूल करता हूँ, तथा गुरुपत्नी पक्ष में सर्वत्र ‘करती हूँ’ यह योजना करनी चाहिये ॥१४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - गुरु और गुरुपत्नियों को चाहिये कि वेद और तथा वेद के अङ्ग और उपाङ्गों की शिक्षा से देह, इन्द्रिय, अन्तःकरण और मन की शुद्धि, शरीर की पुष्टि तथा प्राण की सन्तुष्टि देकर समस्त कुमार और कुमारियों को अच्छे-अच्छे गुणों में प्रवृत्त करावें ॥१४॥
दयानन्द-सरस्वती (सं) - विषयः
अथ कथं ता गुरुपत्न्यो गुरवश्च यथायोग्यशिक्षया स्वस्वान्तेवासिनः सद्गुणेषु प्रकाशयन्तीत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे शिष्य ! विविधशिक्षाभिस्तेऽहं वाचं शुन्धामि, ते प्राणं शुन्धामि, ते चक्षुः शुन्धामि, ते श्रोत्रं शुन्धामि, ते नाभिं शुन्धामि, ते मेढ्रं शुन्धामि, ते पायुं शुन्धामि, ते चरित्रान् शुन्धामि ॥१४॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - गुरुभिर्गुरुपत्नीभिश्च वेदोपवेदवेदाङ्गोपाङ्गशिक्षया देहेन्द्रियान्तःकरणात्ममनःशुद्धिशरीरपुष्टिप्राणसन्तुष्टीः प्रदाय सर्वे कुमाराः सर्वाः कन्याश्च सद्गुणेषु प्रवर्त्तयितव्या इति ॥१४॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - गुरू व गुरुपत्नी यांनी कुमार-कुमारी यांना वेद, उपवेद, वेदांग, उपांग यांचे शिक्षण देऊन देह, इंद्रिये, अंतःकरण, मनशुद्धी, शरीरपुष्टी, प्राण सुदृढ करून त्यांना चांगल्या प्रकारे शुभ गुणांमध्ये प्रवृत्त करावे.
१५ मनस्तऽआप्यायतां वाक्
विश्वास-प्रस्तुतिः ...{Loading}...
मन॑स्त॒ऽआप्या॑यतां॒ वाक् त॒ऽआप्या॑यतां प्रा॒णस्त॒ऽआप्या॑यतां॒ चक्षु॑स्त॒ऽआप्या॑यताँ॒ श्रोत्रं॑ त॒ऽआप्या॑यताम्। यत्ते॑ क्रू॒रं यदास्थि॑तं॒ तत्त॒ऽआप्या॑यतां॒ निष्ट्या॑यतां॒ तत्ते॑ शुध्यतु॒ शमहो॑भ्यः। ओष॑धे॒ त्राय॑स्व॒ स्वधि॑ते॒ मैनँ॑ हिँसीः ॥१५॥
मूलम् ...{Loading}...
मन॑स्त॒ऽआप्या॑यतां॒ वाक् त॒ऽआप्या॑यतां प्रा॒णस्त॒ऽआप्या॑यतां॒ चक्षु॑स्त॒ऽआप्या॑यताँ॒ श्रोत्रं॑ त॒ऽआप्या॑यताम्। यत्ते॑ क्रू॒रं यदास्थि॑तं॒ तत्त॒ऽआप्या॑यतां॒ निष्ट्या॑यतां॒ तत्ते॑ शुध्यतु॒ शमहो॑भ्यः। ओष॑धे॒ त्राय॑स्व॒ स्वधि॑ते॒ मैनँ॑ हिँसीः ॥१५॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मनः॑। ते॒। आ। प्या॒य॒ता॒म्। वाक्। ते॒। आ। प्या॒य॒ता॒म्। प्रा॒णः। ते॒। आ। प्या॒य॒ता॒म्। चक्षुः॑। ते॒। आ। प्या॒य॒ता॒म्। श्रोत्र॑म्। ते॒। आ। प्या॒य॒ता॒म्। यत्। ते॒। क्रू॒रम्। यत्। आस्थि॑त॒मित्याऽस्थि॑तम्। तत्। ते॒। आ। प्या॒य॒ता॒म्। निः। स्त्या॒य॒ता॒म्। तत्। ते॒। शु॒ध्य॒तु। शम्। अहो॑भ्य॒ इत्यहः॑ऽभ्यः। ओष॑धे। त्राय॑स्व। स्वधि॑त॒ इति॒ स्वऽधि॑ते। मा। ए॒न॒म्। हिँ॒सीः॒। १५।
महीधरः
म० शेषेण यजमानस्य शिरःप्रभृत्यनुषिञ्चतो मनस्त इति शिर इति’ (का० ६ । ६ । ४-५)। पान्नेजनशेषेण यजमानः चकारादध्वर्युश्च पशोः शिरआद्यङ्गान्यनुषिञ्चतः । तत्र शिरसो मन्त्रमाह मनस्त इति शिर इति सूत्रार्थः । पशुदेवतानि हे पशो, ते तव मनः आप्यायतां शाम्यतु । विलिङ्गत्वादस्य विनियोग उक्तः । वाक्त आप्यायतामित्यादिमन्त्राणां लिङ्गादेव विनियोगः सिद्ध इति सूत्रकृता नोक्तः । वाक्त इति मुखं प्राणस्त इति नासिके चक्षुस्त इति चक्षुषी श्रोत्रं त इति कर्णौ एतानि मुखादीनि तव शाम्यन्तु । ‘यत्ते क्रूरमित्यङ्गानीति’ (का० ६।६।६)। सर्वाङ्गान्यवशिष्टान्यनुषिञ्चत इत्यर्थः । हे पशो, यत्ते तव क्रूरं बन्धननिरोधादिकं क्रूरमस्माभिः कृतं यच्च आस्थितं छेदादिकं कर्तुमुपस्थितं शमित्रा तत्सर्वं ते तवाप्यायतां शाम्यतु । किंच तत्सर्वं निष्ट्यायतां संहतं भवतु। ‘ष्ठ्यै संघाते’ अनुन्नं भवत्वित्यर्थः । तत्सर्वं तव शुध्यतु शुद्धं भवतु। ‘शमहोभ्य इति पश्चात्पशोर्निषिञ्चत इति’ (का० ६।६।७) पशोर्जघनदेशे पान्नेजनशेषमुभावपि निषिञ्चतामिति सूत्रार्थः । अहोभ्यः दिवसादिकालविशेषेभ्यः शं सुखमस्माकं पशोर्वा भूयादिति शेषः । ‘उत्तानं पशुं कृत्वाग्रेण नाभिं तृणं निदधात्योषध इति’ (का० ६ । ६ । ८)। नामेरग्रेऽङ्गुलचतुष्टये तृणं निदध्यादिति सूत्रार्थः । मन्त्रो व्याख्यातः (अ० ४ क. १)। ‘स्वधित इति प्रज्ञातयाभिनिधाय छित्त्वेति’ । (का० ६।६।९)। प्रज्ञातया प्रस्तुतया कृतचिह्नया घृताक्तयासिधारयाभिनिधाय तृणोपर्यसिधारां निधाय तूष्णीं सतृणामुदरत्वचं छिन्द्यादिति सूत्रार्थः । एनं पशुं स्वधिते मा हिंसीः ॥ १५॥
षोडशी।
अधिमन्त्रम् (VC)
- विद्वांसो देवता
- मेधातिथिर्ऋषिः
- स्वराड् धृतिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी प्रकारान्तर से अगले मन्त्र में उक्त अर्थ का प्रकाश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे शिष्य ! मेरी शिक्षा से (ते) तेरा (मनः) मन (आप्यायताम्) पर्य्याप्त गुणयुक्त हो, (ते) तेरा (प्राणः) प्राण (आप्यायताम्) बलादि गुणयुक्त हो, (ते) तेरी (चक्षुः) दृष्टि (आप्यायताम्) निर्मल हो, (ते) तेरे (श्रोत्रम्) कर्ण (आप्यायताम्) सद्गुण व्याप्त हों, (ते) तेरा (यत्) जो (क्रूरम्) दुष्ट व्यवहार है, वह (निः) (स्त्यायताम्) दूर हो और (यत्) जो (ते) तेरा (आस्थितम्) निश्चय है, वह (आप्यायताम्) पूरा हो। इस प्रकार से (ते) तेरा समस्त व्यवहार (शुध्यतु) शुद्ध हो और (अहोभ्यः) प्रतिदिन तेरे लिये (शम्) सुख हो। हे (ओषधे) प्रवर अध्यापक ! आप (एनम्) इस शिष्य की (त्रायस्व) रक्षा कीजिये और (मा हिंसीः) व्यर्थ ताड़ना मत कीजिये। हे (स्वधिते) प्रशस्ताध्यापिके ! तू इस कुमारिका शिष्या की (त्रायस्व) रक्षा कर और इस को अयोग्य ताड़ना मत दे ॥१५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सत्कर्म करने से सब की उन्नति होती है, इस से सब मनुष्यों को चाहिये कि सुशिक्षा पाकर समस्त सत्कर्मों का अनुष्ठान करें। इसी से अध्यापक जन गुणग्रहण कराने ही के लिये शिष्यों को ताड़ना देते हैं, वह उनकी ताड़ना अत्यन्त सुख की करनेवाली होती है। स्त्री और पुरुष इस प्रकार उपदेश करें कि हे सर्वोत्तम अध्यापक ! यह आपका विद्यार्थी जैसे शीघ्र विद्वान् हो जाय, वैसा प्रयत्न कीजिये। हे प्रिये ! यह कन्या जिस प्रकार अतिशीघ्र विद्यायुक्त हो, वैसा काम कर ॥१५॥
दयानन्द-सरस्वती (सं) - विषयः
पुनरुक्तोऽर्थः प्रकारान्तरेण प्रकाश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे शिष्य ! मदीयशिक्षणेन ते तव मन आप्यायताम्, ते वागाप्यायताम्, ते प्राण आप्यायताम्, ते चक्षुराप्यायताम्, ते श्रोत्रमाप्यायताम्, ते यत्क्रूरं दुश्चरित्रं तत् निष्ट्यायताम् दूरीगच्छतु, यत् ते तवास्थितं निश्चितं तदाप्यायताम्, इत्थं ते सर्वं शुध्यतु, अहोभ्यो दिनेभ्यस्तुभ्यं शमस्तु। अथ स्वस्वामिनि शिष्यलालनापरं गुरुपत्नीवाक्यम्। हे ओषधे ! विज्ञानवराध्यापक ! त्वमेनं शिष्यं त्रायस्व, मा हिंसीः। स च स्वपत्नी प्रत्याह−हे स्वधितेऽध्यापिके स्त्रि ! त्वेमनां त्रायस्व, मा हिंसीश्च ॥१५॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सत्कर्म्मानुष्ठानेन सर्वस्योन्नतिर्भवत्यतः सर्वैर्मनुष्यैर्गुरुशिक्षया समस्तसत्कर्म्मानुष्ठेयम्। गुरवो गुणग्रहणायैव शिष्याणां ताडनं विदधति, ततस्तेषामिदमभ्युदयनिःश्रेयसकारि जायत एवेति बोध्यम्। दम्पती परस्परमेवमुपदिशेताम्। हे पते ! भवानयं शिष्यो यथा सद्यो विद्वान् स्यात् तथा प्रयतताम्। हे धर्मपत्नि ! भवति यथेयं कन्या तूर्णं विदुषी भवेत् तथा विदधातु ॥१५॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सत्कर्म करण्याने सर्वांची उन्नती होते. यासाठी सर्व माणसांनी चांगले शिक्षण घेऊन सत्कर्माचे अनुष्ठान करावे. त्यासाठी अध्यापक शिष्यांना शिक्षा करतात. ती योग्य असते. स्त्री व पुरुषांनी अध्यापकाला असा उपदेश करावा, हे उत्तम अध्यापकांनो ! हा तुमचा विद्यार्थी लवकरात लवकर विद्वान होईल, असा प्रयत्न करा. हे अध्यापिके ! ही कन्या ज्या प्रकारे लवकर विदुषी होईल, असे प्रयत्न कर.
१६ रक्षसां भागोऽसि
विश्वास-प्रस्तुतिः ...{Loading}...
रक्ष॑सां भा᳖गो᳖ऽसि॒ निर॑स्तँ॒ रक्ष॑ऽइ॒दम॒हँ रक्षो॒ऽभिति॑ष्ठामी॒दम॒हँ रक्षोऽव॑बाधऽइ॒दम॒हँ रक्षो॑ऽध॒मं तमो॑ नयामि। घृ॒तेन॑ द्यावापृथिवी॒ प्रोर्णु॑वाथां॒ वायो॒ वे स्तो॒काना॑म॒ग्निराज्य॑स्य वेतु॒ स्वाहा॒ स्वाहा॑कृतेऽऊ॒र्ध्वन॑भसं मारु॒तं ग॑च्छतम् ॥१६॥
मूलम् ...{Loading}...
रक्ष॑सां भा᳖गो᳖ऽसि॒ निर॑स्तँ॒ रक्ष॑ऽइ॒दम॒हँ रक्षो॒ऽभिति॑ष्ठामी॒दम॒हँ रक्षोऽव॑बाधऽइ॒दम॒हँ रक्षो॑ऽध॒मं तमो॑ नयामि। घृ॒तेन॑ द्यावापृथिवी॒ प्रोर्णु॑वाथां॒ वायो॒ वे स्तो॒काना॑म॒ग्निराज्य॑स्य वेतु॒ स्वाहा॒ स्वाहा॑कृतेऽऊ॒र्ध्वन॑भसं मारु॒तं ग॑च्छतम् ॥१६॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
रक्षसा॒म्। भा॑गः॒। अ॒सि॒। निर॑स्त॒मिति॒ निःऽअ॑स्तम्। रक्षः॑ इ॒दम्। अ॒हम्। रक्षः॑। अ॒भि। ति॒ष्ठा॒मि॒। इ॒दम्। अ॒हम्। रक्षः॑। अव॑बा॒धे॒। इ॒दम्। अ॒हम्। रक्षः॑। अ॒ध॒मम्। तमः॑। न॒या॒मि॒। घृ॒तेन॑। द्या॒वा॒पृ॒थि॒वी॒ इति॑ द्यावापृथिवी। प्र। ऊ॒र्णु॒वा॒था॒म्। वायो॒ऽइति॒ वायो॑। वेः। स्तो॒काना॑म्। अ॒ग्निः। आज्य॑स्य। वे॒तु॒। स्वाहा॑। स्वाहा॑कृत॒ऽइति॒ स्वाहा॑ऽकृते। ऊ॒र्ध्वन॑भस॒मित्यू॒र्ध्वन॑भसम्। मा॒रु॒तम्। ग॒च्छ॒त॒म्। १६।
महीधरः
म० ‘अग्रᳪं᳭सव्ये कृत्वा दक्षिणेन मूलमुभयतोऽनक्ति | लोहितेन रक्षसामिति’ (का० ६ । ६ । ९) । यत्तृणं नाभ्यग्रे | स्थापितं तस्य छिन्नस्य तृणस्याग्रं वामहस्तेन धृत्वा दक्षिणहस्तेन मूलं धृत्वा तद्विगुणीकृत्याग्रे मूले च पशुच्छेदननिष्पन्नेन रक्तेनाञ्ज्यादिति सूत्रार्थः । रक्षोदेवत्यम् । हे लोहिताक्त तृण, त्वं रक्षसां भागोऽसि । ‘निरस्तमित्यपास्यतीति’ (का० ६।६।१०)। लोहिताक्तं तृणमुत्करे त्यजेदिति सूत्रार्थः । यद्यज्ञविघातकं रक्षोऽस्ति तन्निरस्तं परित्यक्तम् । ‘इदमहमित्यभितिष्ठति यजमान इति’ (का० ६ । ६ । ११) । उत्करे क्षिप्तं रुधिराक्तं तृणं यजमानोऽभितिष्ठतीति सूत्रार्थः । यत्तृणरूपं रक्षोऽध्वर्युणा निरस्तं तदिदं रक्षोऽहं यजमानोऽभितिष्ठामि अभितः पादेनोत्क्रम्य तिष्ठामि । न केवलमभितिष्ठामि किंतु अहमिदं रक्षोऽवबाधे अवाचीनं यथा भवति तथा नाशयामि । किंच अहमिदं रक्षोऽधममत्यन्तनिकृष्टं तमो नरकं नयामि प्रापयामि । ‘वपामुत्खिद्य वपाश्रपण्यौ प्रोर्णोति घृतेन द्यावापृथिवी इति’ ( का० ६ । ६ । १२) । पशूदराद्वपां निष्काश्य तया वपया वपाश्रपण्यावाच्छादयेदिति सूत्रार्थः । वपाश्रपण्योर्द्यावापृथिव्यावध्यस्ते उच्यते । हे द्यावापृथिवी, युवां घृतेनोदकेनात्मानं प्रोर्णुवाथामाच्छादयेथां परस्परम् । ‘ऊर्णुञ् आच्छादने’ । आहुतिपरिणामाभिप्रायमेतत् । तथा चोक्तं ते वा एते आहुती हुते उत्क्रामत इत्युपक्रम्याहुतिपरिणाममिदं जगदिति । तृणाग्रं चाध्वर्युर्वायो वेरिति’ ( ६ । ६ । १५)। वामहस्तधृतं तृणाग्रमाहवनीये क्षिपेदिति सूत्रार्थः । वायुदेवत्यम्। हे वायो, त्वं स्तोकानां वपासंबन्धिनां विप्रुषां वेः कर्मणि षष्ठी । स्तोकान्विद्धि जानीहि ज्ञात्वा च पिबेत्यर्थः । ते ह्यत्र तिष्ठन्ति । ‘विद ज्ञाने’ इत्यस्य लुङि मध्यमैकवचने ‘दश्च’ (पा० ८।२।७५) इति दस्य रुत्वे कृते रूपम् । अडभाव आर्षः। वेः विद्धि । ‘वपाᳪं᳭स्रुवेणाभिघारयत्यग्निराज्यस्येति’ (का. ६i६।१७) । अग्निराहवनीयः आज्यस्य वेतु आज्यं पिबतु स्वाहा सुहुतमस्तु । ‘हुत्वा वपाश्रपण्यावनुप्रास्यति प्राचीं विशाखां प्रतीचीमितरां स्वाहाकृते इति’ (का० ६। ६ । २८) वपां हुत्वोत्तरत उपविश्य वपाश्रपण्यावाहवनीय एव क्षिपेत् । तत्प्रकारः विशाखां द्विशृङ्गां प्रागग्रां क्षिपेदितरामेकशृङ्गां प्रत्यगग्रामिति सूत्रार्थः । स्वाहाकारेणाहुतिभावमुपगते सत्यौ युवां मारुतं गच्छतं वायुं प्राप्नुतां । वायुर्हि प्रतिष्ठा यज्ञस्य । किंभूतम् । ऊर्ध्वनभसमूर्ध्वं नभ आकाशो यस्य स ऊर्ध्वनभाः तं नभोमध्ये वर्तमानमित्यर्थः ॥ १६ ॥
सप्तदशी।
अधिमन्त्रम् (VC)
- द्यावापृथिव्यौ देवते
- मेधातिथिर्ऋषिः
- निचृद् आर्षी त्रिष्टुप्, ब्राह्मी उष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
अब शिष्यवर्गों में से प्रति शिष्य को यथायोग्य उपदेश करना अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे दुष्टकर्म करनेवाले जन ! तू (रक्षसाम्) दुष्टों अर्थात् परार्थ नाश कर अपना अभीष्ट करनेवालों का (भागः) भाग (असि) है, इस कारण (रक्षः) राक्षस स्वभावी तू (निरस्तम्) निकल जा (अहम्) मैं (इदम्) ऐसे (रक्षः) स्वार्थसाधक को (अभितिष्ठामि) तिरस्कार करने के लिये सम्मुख होता हूँ और केवल सम्मुख ही नहीं, किन्तु (अहम्) मैं (इदम्) ऐसे (रक्षः) दुष्ट जन को (अवबाधे) अत्यन्त तिरस्कार के साथ पीटता हूँ, जिससे वह फिर सामने न हो और (अहम्) मैं (इदम्) ऐसे (रक्षः) दुष्ट जन को (अधमम्) दुःसह दुःख को (नयामि) पहुँचाता हूँ। अब श्रेष्ठ गुणग्राही शिष्य के लिये उपदेश है। हे (वायो) गुणग्राहक ! सत्-असत् व्यवहार की विवेचना करनेवाला तू (स्तोकानाम्) सूक्ष्म से सूक्ष्म व्यवहारों को (वेः) जान और तेरे यज्ञशोधित जल से (द्यावापृथिवी) सूर्य और भूमि (प्रोर्णुवाथाम्) अच्छे प्रकार आच्छादित हों (अग्निः) समस्त विद्यायुक्त विद्वान तेरे घृत आदि पदार्थ के (स्वाहा) अच्छे होम किये हुए को (वेतु) जाने तथा (स्वाहाकृते) हवन किये हुए स्नेहद्रव्य को प्राप्त पूर्वोक्त जो सूर्य और भूमि हैं, वे (ऊर्ध्वनभसम्) तेरे यज्ञ से शुद्ध हुए जल को ऊपर पहुँचानेवाले (मारुतम्) पवन को (गच्छतम्) प्राप्त हों ॥१६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - बुद्धिमान् श्रेष्ठ और अनिष्ट के विवेक करनेवाले विद्वान् लोग अपने शिष्यों में यथायोग्य शिक्षा विधान करते हैं। यज्ञकर्म से जल और पवन की शुद्धि, उसकी शुद्धि से वर्षा और उससे सब प्राणियों को सुख उत्पन्न होता है ॥१६॥
दयानन्द-सरस्वती (सं) - विषयः
अथ शिष्यवर्गेषु यथायोग्योपदेशकरणमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे दुष्टकर्मकारिन् ! त्वं रक्षसां भागोऽस्यतो रक्षो निरस्तं भव, अहं इदं रक्षोऽभितिष्ठामि तिरस्करणाय तत्सम्मुखमुपविशामि, न केवलमभितिष्ठामि, किन्तु अहमिदं रक्षोदुष्टस्वभाविनमवबाधेऽर्वाचीनो यथा स्यात् तथा हन्मि, यतो न पुनः सम्मुखो भूयादिति भावः। अहमिदं रक्षोऽधमं तमो नयामि, दुःसहदुःखं प्रापयामि च। हे वायो ! गुणग्राहकसदसद्विवेचनशील शिष्य ! त्वं स्तोकानां स्तोकान् सूक्ष्मव्यवहारान् वेः विद्धि, त्वद्यज्ञशोधितेन घृतेन द्यावापृथिवी प्रोर्णुवाथाम् आच्छादयेताम्। अग्निः समस्तविद्यापन्नो विद्वाँस्तवाज्यस्य स्नेहद्रव्यं स्वाहा वेत्तु जानातु तथा स्वाहाकृते पूर्वोक्ते द्यावापृथिव्यौ ऊर्ध्वनभसं त्वद्यज्ञशोधितजलमूर्ध्वप्रापकं मारुतं गच्छतम् प्राप्नुतम् ॥१६॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - बुद्धिमन्तः सदसद्विवेचका विद्वांसः शिष्येषु यथायोग्यशिक्षणमनुविदधति, यज्ञकर्मणा जलवायुशुद्ध्या वृष्टिर्भवति, वृष्ट्यैव सर्वप्राणिभ्य सुखं संपद्यते ॥१६॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - चांगल्या व वाईटाचा विवेक करणारे बुद्धिमान श्रेष्ठ विद्वान आपल्या शिष्यांना यथायोग्य शिक्षण देतात. यज्ञकर्माने जल व वायूची शुद्धी होते व त्यामुळे वृष्टी होऊन सर्व प्राण्यांना सुख मिळते.
१७ इदमापः प्रवहतावद्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒दमा॑पः॒ प्रव॑हताव॒द्यं च॒ मलं॑ च॒ यत्। यच्चा॑भिदु॒द्रोहानृ॑तं॒ यच्च॑ शे॒पेऽअ॑भी॒रुण॑म्। आपो॑ मा॒ तस्मा॒देन॑सः॒ पव॑मानश्च मुञ्चतु ॥१७॥
मूलम् ...{Loading}...
इ॒दमा॑पः॒ प्रव॑हताव॒द्यं च॒ मलं॑ च॒ यत्। यच्चा॑भिदु॒द्रोहानृ॑तं॒ यच्च॑ शे॒पेऽअ॑भी॒रुण॑म्। आपो॑ मा॒ तस्मा॒देन॑सः॒ पव॑मानश्च मुञ्चतु ॥१७॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इ॒दम्। आ॒पः॒। प्र। व॒ह॒त॒। अ॒व॒द्यम्। च॒ मल॑म्। च॒। यत्। यत्। च॒। अ॒भि॒दु॒द्रोहेत्य॑भिऽदु॒द्रोह॑। अनृ॑तम्। यत्। च॒। शे॒पे। अभी॒रुण॑म्। आपः॑। मा॒। तस्मा॑त्। एन॑सः। पव॑मानः। च॒। मु॒ञ्च॒तु॒। १७।
महीधरः
म० ‘चात्वाले मार्जयन्ते सपत्नीका इदमापः प्रवहतेति’ (का० ६ । ६ । २९)। सर्वे ऋविजश्चात्वालसमीपेऽद्भिरात्मानमभ्युक्षन्तीति सूत्रार्थः । अब्देवत्या त्र्यवसाना महापङ्क्तिः पावमानश्चान्त्यः पादः । यस्याः षट् पादा अष्टाक्षराः सा महापङ्क्तिः । हे आपः, इदं पशुसंज्ञपननिमित्तं पापं प्रवहत । किंच यच्चावद्यमवदनीयमभिशापादि यच्च मलं शरीरलग्नं प्रसिद्धं तच्च प्रवहत अपनयत। किंच यदहमनृतमसत्यमुक्त्वाभिदुद्रोह द्रुग्धवानस्मि ‘द्रुह जिघांसायाम्’ यच्चाहमभीरुणं बिभेतीति भीरुर्नभीरुरभीरुस्तमभीरुणमनपराधिनमनपराधिनमपराधी हि बिभेति एवंविधं शेपे शपितवानस्मि । अनपराधिनं प्रति यन्मयाभिशापो दत्तः आपः तस्मादेनसः पापात् मा मां मुञ्चतु पृथक्कुर्वन्तु पवमानश्च सोमो वायुर्वा तस्मात्पापान्मां मुञ्चतु ॥ १७ ॥
अष्टादशी।
अधिमन्त्रम् (VC)
- आपो देवताः
- दीर्घतमा ऋषिः
- निचृद् ब्राह्मी अनुष्टुप्
- गान्धारः
१८ सं ते
विश्वास-प्रस्तुतिः ...{Loading}...
सं ते॒ मनो॒ मन॑सा॒ सं प्रा॒णः प्रा॒णेन॑ गच्छताम्। रेड॑स्य॒ग्निष्ट्वा॑ श्रीणा॒त्वाप॑स्त्वा॒ सम॑रिण॒न् वात॑स्य त्वा ध्राज्यै॑ पू॒ष्णो रँह्या॑ऽऊ॒ष्मणो॑ व्यथिष॒त् प्रयु॑तं॒ द्वेषः॑ ॥१८॥
मूलम् ...{Loading}...
सं ते॒ मनो॒ मन॑सा॒ सं प्रा॒णः प्रा॒णेन॑ गच्छताम्। रेड॑स्य॒ग्निष्ट्वा॑ श्रीणा॒त्वाप॑स्त्वा॒ सम॑रिण॒न् वात॑स्य त्वा ध्राज्यै॑ पू॒ष्णो रँह्या॑ऽऊ॒ष्मणो॑ व्यथिष॒त् प्रयु॑तं॒ द्वेषः॑ ॥१८॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सम्। ते। मनः॑। मन॑सा। सम्। प्रा॒णः। प्रा॒णेन॑। ग॒च्छ॒ता॒म्। रे॒ट्। अ॒सि॒। अ॒ग्निः। त्वा॒। श्री॒णा॒तु॒। आपः॑। त्वा॒। सम्। अ॒रि॒ण॒न्। वातस्य। त्वा॒। ध्राज्यै॑। पू॒ष्णः। रँह्यै॑। ऊ॒ष्मणः॑। व्य॒थि॒ष॒त्। प्रयु॑त॒मिति॒ प्रऽयु॑त॒म्। द्वेषः॑। १८।
महीधरः
म०. ‘सं ते मन इति हृदयमभिघार्य सर्वमिति’ (का० ६।८।६) जुहूस्थेन पृषदाज्येन पूर्वं हृदयमभिघार्य तूष्णीं सर्वं पशुमभिघारयेदिति सूत्रार्थः । हृदयदेवत्यम् । हे हृदय, ते तव पशोर्मनः देवानां मनसा सङ्गच्छताम् पृषदाज्येनाभिघारितं सत् । ते तव प्राणोऽपि देवानां प्राणेन सङ्गच्छतां सङ्गतोऽस्तु अभिघारितः । ‘रेडसीति वसां गृहीत्वेति’ (का० ६। ८ । १२) । मांसपाकभाण्डे स्थितः स्नेहात्मको द्रवविशेषो वसा तां गृह्णीयादिति सूत्रार्थः । वसादेवत्यम् । हे वसे । त्वं रेट् असि । रिषतिर्हिंसार्थः कर्मणि विच् । रिष्टासि हिंसितेवाभासि अल्पत्वात् । पूष्णोऽल्पत्वं श्रुत्योक्तम् । ‘रेडसीति लेलयेव हि यूरिति’ (३ । ८ । ३ । २०) लेलयाशब्दश्चाल्पवाचकः । अग्निः त्वा त्वां श्रीणातु ‘श्री पाके’ क्र्यादिः । श्रपयन् भूयसीं करोति । यद्वाग्निराहवनीयस्त्वां श्रीणातु स्वीकरोतु । किंच आपः त्वा त्वां समरिणन् ‘रो बधे गतौ’ क्र्यादिः । अत्र | रिणातिर्बिभर्त्यर्थे । समभरन्नपुष्णन् । यद्वा आपः त्वां समरिणन् सम्यक् प्राप्नुवन्तु । तव शोषो मा भूदित्यर्थः । आपो हि पञ्चमानेभ्यः पश्वङ्गेभ्यो यं रसमुत्पादयन्ति सा वसेत्युच्यते । तां त्वां गृह्णामीति शेषः । किमर्थम् । वातस्य ध्राज्यै गत्यै वातस्यान्तरिक्षे गतिर्भवत्विति । तथा पूष्णो रंह्यै आदित्यस्य गत्यै । रंहतिर्गत्यर्थः । आदित्यस्य द्युलोके गतिर्भवत्विति वाय्वादित्ययोरप्रतिहतगमनसिद्ध्यर्थं त्वां गृह्णामीत्यर्थः । किंच ऊष्मणो व्यथिष्यत् । ऊष्मान्तरिक्षं तद्धि ब्रह्मण ऊष्मेव ऊष्माणमन्तरिक्षं वसा व्यथरतु कर्मणि षष्टी । यद्वा व्यत्ययेन प्रथमार्थे षष्ठी । ऊष्मा व्यथिष्यत् व्यथतां । वसां पीत्वा तृष्णाधिक्येन यथा सीदति । वसारूपं हविस्तथाविधं भवत्वित्यर्थः । हि वसा गृह्यते होममन्त्रे अन्तरिक्षस्य हविरसीति लिङ्गात् । इयं वसाऽन्तरिक्षस्य तृप्तिं कृत्वातिरिक्ता भवत्वित्यर्थः । अन्तरिक्षे च तृप्ते तत्प्रभवत्वाद्वायुसूर्ययोरपि स्वकर्मक्षमता भवति तस्मादुच्यते वातस्य ते ध्राज्या इत्यादि । ‘व्यथ भयचलनयोः’ अस्य ‘लिङर्थे लेट्’ (पा. ३ । ४ । ७) इति । लेटि ‘सिब्बहुलं लेटि’ (पा० ३ । ४ । ३४) इति । सिप्प्रत्यये ‘इतश्च लोपः परस्मैपदेषु’ (पा० ३ । ४ । ९७) इति । तिप इकारलोपे ‘लेटोऽडाटौं’ (पा० ३ । ४ । ९४) इति अडागमे व्यथिषदिति रूपम् । ‘द्विरभिघार्य प्रयुतमिति पार्श्वेन सᳪं᳭सृजत्यसिना वेति’ ( का०६। ८ । १२) वसां द्विरभिघार्य पार्श्वेनासिना वाज्यं वसां च मिश्रयेदिति सूत्रार्थः । द्वेषो दौर्भाग्यं प्रयुतं पृथग्भूतं वसायाः सकाशाद्घृतमिश्रणेन ॥ १८ ॥
एकोनविंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- दीर्घतमा ऋषिः
- प्राजापत्या अनुष्टुप्, आर्ची पङ्क्तिः, दैवी पङ्क्तिः
- गान्धारः, पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब रण में युद्ध करनेवाला शिष्य कैसा हो, यह अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे युद्धशील शूरवीर ! संग्राम में (ते) तेरा (मनः) मन (मनसा) विद्याबल और (प्राणः) प्राण (प्राणेन) प्राण के साथ (सम्) (गच्छताम्) सङ्गत हो। हे वीर ! तू (रेट्) शत्रुओं को मारनेवाला (असि) है, (त्वा) तुझे (अग्निः) युद्ध से उत्पन्न हुए क्रोध का अग्नि (श्रीणातु) अच्छे पचावे तू (प्रयुतम्) करोड़ों प्रकार के शत्रुओं की सेना को प्राप्त होता है, तुझ को तज्जन्य (ऊष्मणः) गरमी का (द्वेषः) द्वेष मत (व्यथिषत्) अत्यन्त पीड़ायुक्त करे, जिससे (वातस्य) पवन की (ध्राज्यै) गति के तुल्य गति के लिये वा (पूष्णः) पुष्टिकारक सूर्य के (रंह्यै) वेग के तुल्य वेग के लिये अर्थात् यथार्थता से युद्ध करने में प्रवृत्ति होने के लिये (आपः) अच्छे-अच्छे जल (सम्) (अरिणन्) अच्छे प्रकार प्राप्त हों ॥१८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि अपने बल के बढ़ानेवाले अन्न, जल और शस्त्र-अस्त्र आदि पदार्थों को इकट्ठा करके शत्रुओं को मार कर संग्राम जीतें ॥१८॥
दयानन्द-सरस्वती (सं) - विषयः
अथ रणे योद्धा कीदृग्भवेदित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे योद्धः संग्रामे ते मनो मनसा प्राणः प्राणेन च सङ्गच्छताम्। हे वीर ! त्वं रेडसि त्वा त्वामग्नि-र्युद्धजन्यक्रोधाग्निः श्रीणातु, त्वं प्रयुतं शत्रुसैन्यं प्राप्य तज्जन्यादूष्मणो द्वेषो मा व्यथिषत्, त्वां वातस्य ध्राज्यै वातस्य गतिभिर्युद्धकर्मणि गत्यै यद्वा पूष्णो रंह्यै सूर्यस्य गतिरिव युद्धभूमिषु गत्यै यथार्थतया युद्धकर्म्मणि प्रवृत्यै आपः समरिणन् ॥१८॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैः संग्रामे मनः समाधाय स्वबलवर्द्धकान्नपानशस्त्रादिपदार्थान् संपाद्य शत्रून् निहत्य संग्रामो विजेतव्य इति ॥१८॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - (शूरवीर) माणसांनी आपली शक्ती वाढविणारे पदार्थ अन्न, जल, शस्त्र, अस्त्र इत्यादी एकत्र करून शत्रूंचे हनन करून युद्ध जिंकावे.
१९ घृतं घृतपावानः
विश्वास-प्रस्तुतिः ...{Loading}...
घृ॒तं घृ॒॑तपावानः पिबत॒ वसां॑ वसापावानः पिबता॒न्तरि॑क्षस्य ह॒विर॑सि॒ स्वाहा॑। दिशः॑ प्र॒दिश॑ऽआ॒दिशो॑ वि॒दिश॑ऽउ॒द्दिशो॑ दि॒ग्भ्यः स्वाहा॑ ॥१९॥
मूलम् ...{Loading}...
घृ॒तं घृ॒॑तपावानः पिबत॒ वसां॑ वसापावानः पिबता॒न्तरि॑क्षस्य ह॒विर॑सि॒ स्वाहा॑। दिशः॑ प्र॒दिश॑ऽआ॒दिशो॑ वि॒दिश॑ऽउ॒द्दिशो॑ दि॒ग्भ्यः स्वाहा॑ ॥१९॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
घृ॒तम्। घृ॒त॒पा॒वा॒न॒ इति॑ घृतऽपावानः। पि॒ब॒त॒। वसा॑म्। व॒सा॒पा॒वा॒न॒ इति॑ वसाऽपावानः। पि॒ब॒त॒। अ॒न्तरि॑क्षस्य। ह॒विः। अ॒सि॒। स्वाहा॑। दिशः॑। प्र॒दिश॒ इति॑ प्र॒ऽदिशः॑। आ॒दिश॒ इत्या॒ऽदिशः॑। वि॒दिश॒ इति॑ वि॒ऽदिशः॑। उ॒द्दिश॒इत्यु॒त्ऽ दिशः॑। दि॒ग्भ्य इति॑ दिक्ऽभ्यः। स्वाहा॑। १९।
महीधरः
म०. ‘वसैकदेशं जुहोमि घृतं घृतपावान इति’ ( का० ६। ८ । १७) । वसाहोमहवन्या वसाया एकदेशं जुहुयादिति सूत्रार्थः । वैश्वदेवं यजुः । वसाया द्विरभिघारितत्वाद्धृतमस्ति तत्र । अत एवमाह । हे घृतपावानः, घृतं पिबन्तीति घृतपावानः ‘पा पाने’ । ‘आतो मानिन्’ (पा० २ । २ । ७४ ) इत्यादिना वनिप् । घृतस्य पातारो देवाः, यूयं घृतं पिबत । हे वसापावानः वसायाः पातारो देवाः, यूयं वसां पिबत । एवं देवानुक्त्वा वसामाह हे वसे, त्वमन्तरिक्षस्य हविरसि स्वाहा सुहुतमस्तु । ‘दिशो व्याघारयति वसाशेषेण वाजिनवदिति’ (का० ६ । ८ । २१)। यथा वाजिनशेषेण दिग्व्याघारणमुक्तं तथेत्यर्थः । तद्यथा ‘दिशो व्याघारयति दिश इति प्रतिमन्त्रं प्रदक्षिणं पुरस्तात्प्रथममुत्तमाभ्यां मध्ये पूर्वार्धे चेति’ ( का० ४ । ४।१६-१७)। षट् दिग्देवतानि अत्र ‘स्वाहाकारः सर्वत्र साकाङ्क्षत्वादिति’ (का० ४ । ४ । १८) वचनात् स्वाहा सर्वत्र युज्यते । दिग्भ्यः स्वाहा प्रदिग्भ्यः स्वाहा आदिग्भ्यः स्वाहा विदिग्भ्यः स्वाहा उद्दिग्भ्यः स्वाहा सर्वाभ्यो दिग्भ्यः सुहुतमस्त्वित्यर्थः ॥ १९ ॥
विंशी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- दीर्घतमा ऋषिः
- ब्राह्मी अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर युद्धकर्म में क्या होना चाहिये, यह अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (घृतपावानः) जल के पीनेवाले वीरपुरुषो ! तुम (घृतम्) अमृतात्मक जल को (पिबत) पिओ। हे (वसापावानः) नीति के पालनेवाले वीरो ! तुम (वसाम्) जो वीर रस की वाणी अर्थात् शत्रुओं को स्तम्भन करनेवाली है, उसको (पिबत) पिओ। हे सेनाध्यक्ष चक्रव्यूहादि सेनारचक ! प्रत्येक वीर को तू जिससे (अन्तरिक्षस्य) आकाश की (हविः) रुकावट अर्थात् युद्ध में बहुतों के बीच शत्रुओं को घेरना (असि) है, उस (स्वाहा) शोभन वाणी से जो (दिशः) पूर्व, पश्चिम, उत्तर, दक्षिण (प्रदिशः) आग्नेयी, नैर्ऋति, वायवी और ऐशानी उपदिशा (आदिशः) आमने, सामने, मुहाने की दिशा (विदिशः) पीछे की दिशा और (उद्दिशः) जिस ओर शत्रु लक्षित हो वे दिशा हैं, उन सब (दिग्भ्यः) दिशाओं से यथायोग्य वीरों को बाँट के शत्रुओं को जीतो ॥१९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सेनाध्यक्षों को उचित है कि अपनी-अपनी सेना के वीरों को अत्यन्त पुष्ट कर युद्ध के समय चक्रव्यूह, श्येनव्यूह तथा शकटव्यूह आदि रचनादि युद्ध कर्मों से सब दिशाओं में अपनी सेनाओं के भागों को स्थापन कर, सब प्रकार से शत्रुओं को घेर-घार जीतकर न्याय से प्रजापालन करें ॥१९॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तत्र किं भवितुमर्हतीत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे घृतपावानो वीरा ! यूयं घृतं पिबत। हे वसापावानो ! यूयं वसां पिबत। हे सेनाध्यक्ष ! चक्रव्यूहादिसेनारचक ! त्वं प्रतिवीरमन्तरिक्षस्य हविरसीति स्वाहा शोभनया वाचा सर्वान् वीरान् या दिशः, प्रदिश, आदिशो, विदिश, उद्दिशश्च सन्ति ताभ्यः सर्वाभ्यो दिग्भ्योः सर्वाः सेना विभज्य शत्रून् विजयध्वम् ॥१९॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सेनाध्यक्षाणामुचितमस्ति स्वसेनास्थान् वीरान् शरीरबलयुक्तान् युद्धविद्यासुशिक्षितान् संपाद्य युद्धे सर्वासु दिक्षु यथायोग्यान् स्वसेनाभागान् संस्थाप्य सर्वतः शत्रूनावृत्य विजित्य च न्यायेन प्रजां पालयेयुरिति ॥१९॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सेनाध्यक्षांनी आपापल्या सेनेतील वीरांना अत्यंत बलवान करून युद्धाच्या वेळी चक्रव्यूह, श्येनव्यूह, शकटव्यूह इत्यादी रचना करावी. युद्ध करताना सर्व दिशांना सेना विभागून शत्रूला युद्धात घेरावे व जिंकून घ्यावे, तसेच न्यायाने प्रजेचे पालन करावे.
२० ऐन्द्रः प्राणोऽअङ्गेऽअङ्गे
विश्वास-प्रस्तुतिः ...{Loading}...
ऐ॒न्द्रः प्रा॒णोऽअङ्गे॑ऽअङ्गे॒ निदी॑ध्यदै॒न्द्रऽउ॑दा॒नोऽअङ्गे॑ऽअङ्गे॒ निधी॑तः। देव॑ त्वष्ट॒र्भूरि॑ ते॒ सँस॑मेतु॒ सल॑क्ष्मा॒ यद्विषु॑रूपं॒ भवा॑ति। दे॒व॒त्रा यन्त॒म॑वसे॒ सखा॒योऽनु॑ त्वा मा॒ता पि॒तरो॑ मदन्तु ॥२०॥
मूलम् ...{Loading}...
ऐ॒न्द्रः प्रा॒णोऽअङ्गे॑ऽअङ्गे॒ निदी॑ध्यदै॒न्द्रऽउ॑दा॒नोऽअङ्गे॑ऽअङ्गे॒ निधी॑तः। देव॑ त्वष्ट॒र्भूरि॑ ते॒ सँस॑मेतु॒ सल॑क्ष्मा॒ यद्विषु॑रूपं॒ भवा॑ति। दे॒व॒त्रा यन्त॒म॑वसे॒ सखा॒योऽनु॑ त्वा मा॒ता पि॒तरो॑ मदन्तु ॥२०॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ऐ॒न्द्रः। प्रा॒णः। अङ्गे॑ऽअङ्ग॒ इत्यङ्गे॑ऽअङ्गे। नि। दी॒ध्य॒त्। ऐ॒न्द्रः। उ॒दा॒न इत्यु॑त्ऽआ॒नः। अङ्गे॑ऽअङ्ग॒ इत्यङ्गे॑ऽअङ्गे। निधी॑त॒ इति॒ निऽधीतः। देव॑। त्व॒ष्ट॒। भूरि॑। ते॒। सँस॒मिति॒ सम्ऽस॑म्। ए॒तु॒। सल॒क्ष्मेति॒ सऽल॑क्ष्म। यत्। विषु॑रूप॒मिति॒ वि॒षु॑ऽरूपम्। भवा॑ति। दे॒व॒त्रेति॑ देव॒ऽत्रा। यन्त॑म्। अव॑से। सखा॑यः। अनु॑। त्वा॒। मा॒ता॒। पि॒तरः॑। म॒द॒न्तु॒। २०।
महीधरः
म० ‘ऐन्द्रः प्राण इति पशुᳪं᳭संमृशतीति’ ( का० ६ । ९।१) पशुरूपं हविः स्पृशेदिति सूत्रार्थः । इन्द्र आत्मा तत्संबन्धी प्राणः प्राणवायुरस्य पशोरङ्गे अङ्गे सर्वेष्वङ्गेषु निदीध्यत् निहितः । ‘दीधीङ् दीप्तिदेवनयोः’ । अस्य धातोर्दधात्यर्थे वर्तमानात्कर्मणि लेट् परस्मैपदं व्यत्ययेन ‘लेटोऽडाटौ’ (३ । ४ । ९४ ) इत्यट् । तथा ऐन्द्रः इन्द्रसंबन्धी उदानवायुः पशोः सर्वेष्वङ्गेषु निधीतः निक्षिप्तः ‘धीङ् आदरानादरयोः’ । ‘अङ्ग इत्यादौ च’ (पा० ६ । १ । ११९) इत्यङ्गशब्दस्य एङ् अति प्रकृत्या ॥ एवमनेन यजुषा पश्वङ्गेषु प्राणान्दत्वा त्वष्टारमाह । त्वाष्ट्री त्रिष्टुप् हे त्वष्टः त्वष्टृनामक देव, यत् पश्वङ्गजातं सलक्ष्मा समानलक्षणं सत् छेदनेन विषुरूपं नानारूपं भवाति भवति तत् सर्वं ते तवानुग्रहेण भूरि बहुलमत्यन्तं संसमेतु सम्यगेकीभवतु । ‘प्रसमुपोदः पादपूरणे’ (पा. ८ । १।६) इति समित्यस्य द्वित्वम् । पुनः पशुमाह । हे पशो, एवं प्राणैः स्वाङ्गैश्चानेन मन्त्रेण दृढीकृतं देवत्रा यन्तं देवान्प्रति गच्छन्तं त्वा त्वां सखायो मित्रभूता इतरे पशवो मातापितरश्च अनुमदन्तु अभ्यनुजानन्तु । बहुवचनं पूजार्थम् । अवसे अवितुं प्रीणयितुम् । तुमर्थे असेप्रत्ययः । यद्वा अवितुं तन्मुखेन स्वर्गप्राप्त्या स्वकुलं सर्वमवितुमित्यर्थः ॥ २० ॥
एकविंशी।
अधिमन्त्रम् (VC)
- त्वष्टा देवता
- दीर्घतमा ऋषिः
- ब्राह्मी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर संग्राम में वीर पुरुष आपस में कैसे वर्तें, यह उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (त्वष्टः) शत्रुबलविदारक (देव) दिव्यविद्यासम्पन्न सेनापति ! आप (अवसे) रक्षा आदि के लिये (अङ्गे अङ्गे) जैसे अङ्ग-अङ्ग में (ऐन्द्रः) इन्द्र अर्थात् जीव जिस का देवता है, वह सब शरीर में ठहरनेवाला प्राणवायु सब वायुओं को तिरस्कार करता हुआ आप ही प्रकाशित होता है, वैसे आप संग्राम में सब शत्रुओं का तिरस्कार करते हुए (निदीध्यत्) प्रकाशित हूजिये अथवा (अङ्गे अङ्गे) जैसे अङ्ग-अङ्ग में (उदानः) अन्न आदि पदार्थों को ऊर्ध्व पहुँचानेवाला उदानवायु प्रवृत्त है, वैसे अपने विभव से सब वीरों को उन्नति देते हुए संग्राम में (निधीतः) निरन्तर स्थापित किये हुए के समान प्रकाशित हूजिये (यत्) जो (ते) आप का (विषुरूपम्) विविध रूप (सलक्ष्म) परस्पर युद्ध का लक्षण (भवाति) हो, वह (संग्रामे) संग्राम में (भूरि) विस्तार से (संसम्) (एतु) प्रवृत्त हो। हे सेनाध्यक्ष ! तेरी रक्षा के लिये सब शूरवीर पुरुष (सखायः) मित्र हो के वर्तें, (माता) माता (पितरः) पिता, चाचा, ताऊ, भृत्य और शुभचिन्तक (देवत्रा) देवों अर्थात् विद्वानों, धर्मयुक्त युद्ध और व्यवहार को (यन्तम्) प्राप्त होते हुए (त्वा) तेरा (अनुमदन्तु) अनुमोदन करें ॥२०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सब प्राणियों का मित्रभाव वर्त्तनेवाला सेनापति जैसे प्रत्येक अङ्ग में प्राण और उदान प्रवर्त्तमान हैं, वैसे संग्राम में विचरता हुआ सेना और राजपुरुषों को हर्षित करके शत्रुओं को जीते ॥२०॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तत्रान्योन्यं कथं वर्त्तेरन्नित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे त्वष्टर्देव सेनापते ! भगवन् अङ्गे अङ्गे ऐन्द्रः प्राण इवावसे संग्रामे निदीध्यत् यद्वा अङ्गे अङ्गे उदान इव संग्रामे निधीतो भवति। यत् ते तव विषुरूपं सलक्ष्म भवाति तत्संग्रामे भूरि यथा स्यात् तथा संसमेतु। सखायो माता पितरश्च देवत्रा धर्म्यं युद्धं व्यवहारं वा यन्तं त्वा त्वामनुमदन्तु ॥२०॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सेनापतिः सर्वमित्रोऽङ्गेऽङ्गे प्राण उदान इव संग्रामे विचरन् सेनास्थवीरान् प्रजास्थपुरुषांश्च हर्षयित्वा शत्रून् विजयीत ॥२०॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जसे शरीराच्या प्रत्येक अंगामध्ये प्राण व उदान असतात तसे सेनापतीने सर्व वीर पुरुषांशी मित्रभावाने मिळून मिसळून वागावे व युद्धामध्ये सेना व प्रजा यांना आनंदित करून शत्रूंना जिंकावे.
२१ समुद्रं गच्छ
विश्वास-प्रस्तुतिः ...{Loading}...
स॒मु॒द्रं ग॑च्छ॒ स्वाहा॒न्तरि॑क्षं गच्छ॒ स्वाहा॑ दे॒वँ स॑वि॒तारं॑ गच्छ॒ स्वाहा॑ मि॒त्रावरु॑णौ गच्छ॒ स्वाहा॑होरा॒त्रे ग॑च्छ॒ स्वाहा॒ छन्दाँ॑सि गच्छ॒ स्वाहा॒ द्या॑वापृथि॒वी ग॑च्छ॒ स्वाहा॒ य॒ज्ञं ग॑च्छ॒ स्वाहा॒ सोमं॑ गच्छ॒ स्वाहा॑ दि॒व्यं नभो॑ गच्छ॒ स्वाहा॒ग्निं वै॑श्वान॒रं ग॑च्छ॒ स्वाहा॒ मनो॑ मे॒ हार्दि॑ यच्छ॒ दिवं॑ ते धू॒मो ग॑च्छतु॒ स्व᳙र्ज्योतिः॑ पृथि॒वीं भस्म॒नापृ॑ण॒ स्वाहा॑ ॥२१॥
मूलम् ...{Loading}...
स॒मु॒द्रं ग॑च्छ॒ स्वाहा॒न्तरि॑क्षं गच्छ॒ स्वाहा॑ दे॒वँ स॑वि॒तारं॑ गच्छ॒ स्वाहा॑ मि॒त्रावरु॑णौ गच्छ॒ स्वाहा॑होरा॒त्रे ग॑च्छ॒ स्वाहा॒ छन्दाँ॑सि गच्छ॒ स्वाहा॒ द्या॑वापृथि॒वी ग॑च्छ॒ स्वाहा॒ य॒ज्ञं ग॑च्छ॒ स्वाहा॒ सोमं॑ गच्छ॒ स्वाहा॑ दि॒व्यं नभो॑ गच्छ॒ स्वाहा॒ग्निं वै॑श्वान॒रं ग॑च्छ॒ स्वाहा॒ मनो॑ मे॒ हार्दि॑ यच्छ॒ दिवं॑ ते धू॒मो ग॑च्छतु॒ स्व᳙र्ज्योतिः॑ पृथि॒वीं भस्म॒नापृ॑ण॒ स्वाहा॑ ॥२१॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स॒मु॒द्रम्। ग॒च्छ॒। स्वाहा॑। अ॒न्तरिक्ष॑म्। ग॒च्छ॒। स्वाहा॑। दे॒वम्। स॒वि॒तार॑म्। ग॒च्छ॒। स्वाहा॑। मि॒त्रावरु॑णौ। ग॒च्छ॒। स्वाहा॑। अ॒हो॒रा॒त्रेऽइत्य॑होरा॒त्रे। ग॒च्छ॒। स्वाहा॑। छन्दाँ॑सि। ग॒च्छ॒। स्वाहा॑। द्यावा॑पृथि॒वीऽइति॒ द्यावापृथि॒वी। ग॒च्छ॒। स्वाहा॑। य॒ज्ञम्। ग॒च्छ॒। स्वाहा॑। सोम॑म्। ग॒च्छ॒। स्वाहा॑। दि॒व्यम्। नभः॑। ग॒च्छ॒। स्वाहा॑। अ॒ग्निम्। वै॒श्वा॒न॒रम्। ग॒च्छ॒। स्वाहा॑। मनः॑। मे॒। हार्दि॑। य॒च्छ॒। दिव॑म्। ते॒। धू॒मः। ग॒च्छ॒तु॒। स्वः॑। ज्योतिः॑। पृ॒थि॒वीम्। भस्म॑ना। आ। पृ॒ण॒। स्वाहा॑। २१।
महीधरः
म० ‘प्रतिप्रस्थातोपयजति गुडतृतीयस्य प्रच्छेदमनुयाजेषु समुद्रं गच्छेति प्रतिमन्त्रमिति’ (का० ६ । ९ । १० ) अनुयाजेषु हूयमानेषु प्रतिप्रस्थाता पूर्वं स्थापितं गुदतृतीयभागमेकादशधा तिर्यक्प्रच्छिद्य प्रतिमन्त्रं जुहोतीति सूत्रार्थः । हे हविर्गुडावयरूप, त्वं समुद्रादिनामकान्देवान्गच्छ प्राप्नुहि । तर्पणायेति शेषः । स्वाहा सुहुतमस्तु । ‘प्रतिवषट्कारᳪं᳭हुत्वा मनो म इति सुखोपस्पर्शनमिति’ (का. ६ । ९ । ११) प्रतिवषट्कारमेकैकं हुत्वा सर्वान्ते मुखं स्पृशेदिति सूत्रार्थः । हे समुद्रादिदेवतासमूह, हार्दि हृदयसंबन्धि मे मनो यच्छ निबध्नीहि । निबद्धं मनो हि स्वादायतनान्न च्यवते । ‘अनुयाजान्ते स्वरुं जुहोति दिवं ते धूमः इति’ (का० ६ । ९ । १२) स्वरुदैवतम् हे स्वरो, ते तव धूमः दिवं द्युलोकं गच्छतु वृष्ट्यै । तव ज्योतिः ज्वाला स्वः आदित्यं गच्छतु । स्वःशब्देनादित्योऽभिधीयतेऽन्तरिक्षं वा । भस्मना पृथिवीमापृण समन्तात्पूरय । स्वाहा सुहुतमस्तु ॥ २१॥
द्वाविंशी ।
अधिमन्त्रम् (VC)
- सेनापतिर्देवता
- दीर्घतमा ऋषिः
- याजुषी उष्णिक्, स्वराड् उत्कृतिः
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
अब राज्यकर्म करने योग्य शिष्य को गुरु क्या-क्या उपदेश करे, यह अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे धर्मादि राज्यकर्म करने योग्य शिष्य ! तू (स्वाहा) बड़े-बड़े अश्वतरी नाव अर्थात् धूआँकष आदि बनाने की विद्या से नौकादि यान पर बैठ (समुद्रम्) समुद्र को (गच्छ) जा। (स्वाहा) खगोलप्रकाश करनेवाली विद्या से सिद्ध किये हुए विमानादि यानों से (अन्तरिक्षम्) आकाश को (गच्छ) जा। (स्वाहा) वेदवाणी से (देवम्) प्रकाशमान (सवितारम्) सब को उत्पन्न करनेवाले परमेश्वर को (गच्छ) जान। (स्वाहा) वेद और सज्जनों के सङ्ग से शुद्ध संस्कार को प्राप्त हुई वाणी से (मित्रावरुणौ) प्राण और उदान को (गच्छ) जान। (स्वाहा) ज्योतिषविद्या से (अहोरात्रे) दिन और रात्रि वा उन के गुणों को (गच्छ) जान। (स्वाहा) वेदाङ्ग विज्ञानसहित वाणी से (छन्दांसि) ऋग्यजुः साम और अथर्व इन चारों वेदो को (गच्छ) अच्छे प्रकार से जान। (स्वाहा) भूमियान, आकाश मार्ग विमान और भूगोल वा भूगर्भ आदि यान बनाने की विद्या से (द्यावापृथिवी) भूमि और सूर्यप्रकाशस्थ अभीष्ट देश-देशान्तरों को (गच्छ) जान और प्राप्त हो। (स्वाहा) संस्कृत वाणी से (यज्ञम्) अग्निहोत्र, कारीगरी और राजनीति आदि यज्ञ को (गच्छ) प्राप्त हो। (स्वाहा) वैद्यक विद्या से (सोमम्) ओषधिसमूह अर्थात् सोमलतादि को (गच्छ) जान। (स्वाहा) जल के गुण और अवगुणों को बोध करानेवाली विद्या से (दिव्यम्) व्यवहार में लाने योग्य पवित्र (नभः) जल को (गच्छ) जान और (स्वाहा) बिजुली आग्नेयास्त्रादि तारबरकी तथा प्रसिद्ध सब कलायन्त्रों को प्रकाशित करनेवाली विद्या से (अग्निम्) विद्युत् रूप अग्नि को (गच्छ) अच्छी प्रकार जान और (मे) मेरे (मनः) मन को (हार्दि) प्रीतियुक्त (यच्छ) सत्यधर्म में स्थित कर अर्थात् मेरे उपदेश के अनुकूल वर्ताव वर्त्त और (ते) तेरे (धूमः) कलाओं और यज्ञ के अग्नि का धूआँ (दिवम्) सूर्य्यप्रकाश को तथा (ज्योतिः) उस की लपट (स्वः) अन्तरिक्ष को (गच्छतु) प्राप्त हो और तू यन्त्रकला अग्नि में (स्वाहा) काष्ठ आदि पदार्थों को भस्म कर उस (भस्मना) भस्म से (पृथिवीम्) पृथिवी को (आपृण) ढाँप दे ॥२१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - धर्म, अर्थ, काम, मोक्ष, राज्य और व्यापार चाहनेवाले पुरुष भूमियान, अन्तरिक्षयान और आकाशमार्ग में जाने-आने के विमान आदि रथ वा नाना प्रकार के कलायन्त्रों को बनाकर तथा सब सामग्री को जोड़ कर धन और राज्य का उपार्जन करें ॥२१॥
दयानन्द-सरस्वती (सं) - विषयः
अथ राष्ट्रकर्मानुष्ठातुमर्हाय शिष्याय गुरुः किं किमुपदिशेदित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे राजकर्मानुष्ठानार्ह विद्वंस्त्वं स्वाहा समुद्रं गच्छ। स्वाहान्तरिक्षं गच्छ। स्वाहा देवं सवितारं गच्छ। स्वाहा मित्रावरुणौ गच्छ। स्वाहाहोरात्रे गच्छ। स्वाहा यज्ञं गच्छ। स्वाहा सोमं गच्छ। स्वाहा दिव्यं नभो गच्छ। स्वाहाग्निं वैश्वानरं च गच्छ। मे मम मनोहार्दि यच्छ। ते तव धूमो दिव्यं ज्योतिः स्वर्गच्छतु। त्वं स्वाहा भस्मना पृथिवीमापृण ॥२१॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - धर्मादिराज्यव्यापारकरणवृत्तिमभीप्सुभिर्जनैर्भूमियानान्तरिक्षयानाकाशयानैर्विविधयन्त्रकालरचनैश्च सर्वाः सामग्रीः संपाद्य द्रव्यसंचयः कार्यः ॥२१॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - धर्म, अर्थ, काम, मोक्ष यांची प्राप्ती व राज्य आणि व्यापार करू इच्छिणाऱ्या माणसांनी भूमियान, अंतरिक्ष यान, विमान इत्यादी रथ किंवा विविध प्रकारची यंत्रे बनवून धन आणि राज्य प्राप्त करावे.
२२ मापो मौषधीर्हिंसीर्धाम्नो
विश्वास-प्रस्तुतिः ...{Loading}...
मापो मौष॑धीर्हिँसी॒र्धाम्नो॑ धाम्नो राजँ॒स्ततो॑ वरुण नो मुञ्च। यदा॒हुर॒घ्न्याऽइति॒ वरु॒णेति॒ शपा॑महे॒ ततो॑ वरुण नो मुञ्च। सु॒मि॒त्रि॒या न॒ऽआप॒ऽओष॑धयः सन्तु दुर्मित्रि॒यास्तस्मै॑ सन्तु॒ यो᳙ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः ॥२२॥
मूलम् ...{Loading}...
मापो मौष॑धीर्हिँसी॒र्धाम्नो॑ धाम्नो राजँ॒स्ततो॑ वरुण नो मुञ्च। यदा॒हुर॒घ्न्याऽइति॒ वरु॒णेति॒ शपा॑महे॒ ततो॑ वरुण नो मुञ्च। सु॒मि॒त्रि॒या न॒ऽआप॒ऽओष॑धयः सन्तु दुर्मित्रि॒यास्तस्मै॑ सन्तु॒ यो᳙ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः ॥२२॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मा। अ॒पः। मा। ओष॑धीः। हिँ॒सीः॒। धाम्नो॑धाम्न॒ इति॑ धाम्नः॑ऽधाम्नः। रा॒ज॒न्। ततः॑। व॒रु॒ण। नः॒। मु॒ञ्च॒। यत्। आ॒हुः॒। अ॒घ्न्याः। इति॑। वरु॑ण। इति॑। शपा॑महे। ततः॑। व॒रु॒ण॒। नः॒। मु॒ञ्च॒। सु॒मि॒त्रि॒या इति॑ सु॑ऽमि॒त्रि॒याः। नः॒। आपः॑। ओष॑धयः। स॒न्तु॒। दु॒र्मि॒त्रि॒या इति॑ दुःऽमित्रि॒याः। तस्मै॑। स॒न्तु॒। यः। अस्मान्। द्वेष्टि॑। यम्। च॒। व॒यम्। द्वि॒ष्मः। २२।
महीधरः
म० ‘अभ्यवेत्य शुष्कार्द्रसन्धौ हृदयशूलमुपगूहति शुगसि तमभिशोच योऽस्मान् द्वेष्टि यं च वयं द्विष्मो मापो मौषधीरिति चेति’ (का० ६ । १० । ३ ) जले प्रविश्य आलब्धस्य पशोर्हृदयस्थं मांसं यस्मिन् श्रितं स हृदयशूलस्तं शुष्कार्द्रभूप्रदेशयोः सन्धौ निगूहेत् भूमावधोमुखं क्षिपेत् शुगसि माप इति मन्त्राभ्यामिति सूत्रार्थः । हृदयशूलदैवतं यजुः । हे हृदयशूल, त्वमपो जलानि ओषधीश्च मा हिᳪं᳭सीः । ‘धाम्नो धाम्नः सुमित्रिया न इत्युपस्पृशन्त्यप इति’ ( का० ६ । १० । ५) सर्वे ऋत्विग्यजमाना मन्त्राभ्यां जलं स्पृशन्तीति सूत्रार्थः । वरुणदेवतं यजुः । हे राजन् वरुण, धाम्नो धाम्नः यस्माद्यस्मात् त्वदीयपाशसमन्वितात्स्थानान् वयं बिभीमस्तस्मात्तस्मात्स्थानात् नोऽस्मान्मुञ्च मोचय । यदाहुः । वरुणदेवत्या गायत्री अवसानहीना । अघ्न्या इति गोनाम प्रकरणादिहानूबन्ध्याविषयम् । | बहुवचनमनूबन्ध्याबहुवेऽर्थवत् । एकानूबन्ध्यापक्षेतु पूजार्थम् । अघ्न्या इति यदाहुः वेदस्मृतिलोकवाक्यानि अघ्न्या अहन्तव्या अवध्याः पूजनीया इति वदन्ति । इतिकरणेन वाक्यस्यार्थमभिनयेन दर्शयति । हे वरुण, वयं तु इति शपामहे । इतिकरणं प्रदर्शनार्थम् । शपतिर्हिँसार्थः । इति एवमनेन विधिना अघ्न्या हि स्मः । अतएव त्वां याचामहे हे वरुण, ततस्तस्मादघ्न्या वधजातादेनसो नोऽस्मान्मुञ्च मोचय । सुमित्रियाः आपः ओषधयश्च नोऽस्माकं सुमित्रियाः साधुमित्रत्वेनावस्थिताः सन्तु । यः शत्रुरस्मान्द्वेष्टि वयं च यं शत्रुं द्विष्मः द्वेषं कुर्मः तस्मै उभयात्मकाय शत्रवे आप ओषधयश्च दुर्मित्रियाः अमित्रत्वेनावस्थिताः सन्तु । धाम्नो धाम्न इति मन्त्रः शूलोपगूहनमन्त्रस्य शेषो वा । सुमित्रिया इति मन्त्रोऽपामभिमन्त्रणे वा ॥ २२ ॥
एवमग्नीषोमीयः पशुः समाप्तः ।
त्रयोविंशी।
अधिमन्त्रम् (VC)
- वरुणो देवता
- दीर्घतमा ऋषिः
- ब्राह्मी स्वराड् उष्णिक्, निचृद् अनुष्टुप्
- ऋषभः, षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब व्यापार करने के लिये राज्यप्रबन्ध अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (राजन्) सभापति ! आप प्रत्येक स्थानों में (अपः) जल और (ओषधीः) अन्न-पान पदार्थ तथा किराने आदि वणिज पदार्थों को (मा) मत (हिंसीः) नष्ट करो अर्थात् प्रत्येक जगह हम लोगों को सब इष्ट पदार्थ मिलते रहें, न केवल यही करो, किन्तु (ततः) उस (धाम्नः धाम्नः) स्थान-स्थान से (नः) हम लोगों को (मा) मत (मुञ्च) त्यागो। हे (वरुण) न्याय करनेवाले सभापति ! किये हुए न्याय में (अघ्न्याः) न मारने योग्य गौ आदि पशुओं की शपथ है (इति) इस प्रकार जो आप कहते हैं और हम लोग भी (शपामहे) शपथ करते हैं और आप भी उस प्रतिज्ञा को मत छोडि़ये और हम लोग भी न छोड़ेंगे। हे वरुण ! आपके राज्य में (नः) हम लोगों को (आपः) जल और ओषधियाँ (सुमित्रियाः) श्रेष्ठमित्र के तुल्य (सन्तु) हों तथा (यः) जो (अस्मान्) हम लोगों से (द्वेष्टि) वैर रखता है (च) और (वयम्) हम लोग (यम्) जिससे (द्विष्मः) वैर करते हैं, (तस्मै) उस के लिये वे ओषधियाँ (दुर्मित्रियाः) दुःख देने देनेवाले शत्रु के तुल्य (सन्तु) हों ॥२२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजा और राजाओं के कामदार लोग अनीति से प्रजाजनों का धन न लेवें, किन्तु राज्य-पालन के लिये राजपुरुष प्रतिज्ञा करें कि हम लोग अन्याय न करेंगे अर्थात् हम सर्वदा तुम्हारी रक्षा और डाकू, चोर, लम्पट-लवाड़, कपटी, कुमार्गी, अन्यायी और कुकर्मियों को निरन्तर दण्ड देवेंगे ॥२२॥
दयानन्द-सरस्वती (सं) - विषयः
अथ वाणिज्यार्थं राजप्रबन्धमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! ओषधीश्च मा हिंसीः। न केवलमिदमेव कुर्याः, किन्तु ततो धाम्नो धाम्नोऽस्मान् मा मुञ्च। हे वरुण ! अघ्न्या इति यद्भवन्त आहुः वयं चेत्थं शपामहे ततस्त्वं मा मुञ्च वयमपि न मुञ्चामः। हे वरुण ! नः अस्मभ्यमाप ओषध्यश्च सुमित्रियास्सुमित्रवत् सन्तु, योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तस्मै दुर्मित्रियाः शत्रुवत् सन्तु ॥२२॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - राजपुरुषाः प्रजाभ्योऽनीत्या धनं न गृह्णीयुः। राजरक्षणाय प्रतिज्ञां कुर्युरन्यायं वयं न करिष्याम इति दुष्टान् सततं दण्डयेयुरिति ॥२२॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राजा व राज्याचे कर्मचारी यांनी अन्यायाने प्रजेचे धन लुबाडू नये. उलट राजपुरुषांनी राज्याचे पालन करण्यासाठी अशी प्रतिज्ञा करावी की, आम्ही अन्याय करणार नाही. अर्थात नेहमी तुमचे रक्षण करून डाकू, चोर, लंपट, लबाड, कपटी, कुमार्गी, अन्यायी व कुकर्मी यांना दंड देऊ.
२३ हविष्मतीरिमाऽआपो हविष्माँ२ऽआविवासति
विश्वास-प्रस्तुतिः ...{Loading}...
ह॒विष्म॑तीरि॒माऽआपो॑ ह॒विष्माँ॒२ऽआवि॑वासति। ह॒विष्मा॑न् दे॒वोऽअ॑ध्व॒रो ह॒विष्माँ॑२ऽअस्तु॒ सूर्यः॑ ॥२३॥
मूलम् ...{Loading}...
ह॒विष्म॑तीरि॒माऽआपो॑ ह॒विष्माँ॒२ऽआवि॑वासति। ह॒विष्मा॑न् दे॒वोऽअ॑ध्व॒रो ह॒विष्माँ॑२ऽअस्तु॒ सूर्यः॑ ॥२३॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ह॒विष्म॑तीः। इ॒माः। आपः॑। ह॒विष्मा॑न्। आ। वि॒वा॒स॒ति॒। ह॒विष्मा॑न्। दे॒वः। अ॒ध्व॒रः। ह॒विष्मा॑न्। अ॒स्तु॒। सूर्यः॑। २३।
महीधरः
म० अथ सोमाभिषवोपयुक्तानां वसतीवरीसंज्ञानामपां ग्रहणमभिधीयते । ‘अग्नीषोमीयस्य वपामार्जनान्ते वसतीवरीग्रहणᳪं᳭स्यन्दमानानामनस्तमितेऽस्तमितश्चेन्निनाह्यात्पुरेजानश्चेदनीजानोऽन्यस्यापि समीपावसितस्य पुरेजानस्योभयाभाव उल्कुषीᳪं᳭हिरण्यं वोपर्युपरि धारयन् हविष्मतीरिति’ (का० ८ । ९।७।१०) अग्नीषोमीयस्य पशोर्वपामार्जनपर्यन्ते कर्मणि कृते अनस्तंगते रवौ वहन्तीनामपामेकदेशाद्वसतीवरीसंज्ञानां सीमार्थानामपां ग्रहणं कार्यं हविष्मतीरिति मन्त्रेण । यदि रविरस्तं गतो यजमानश्च पुरा ईजानः सोमयाजी तदा गृहे एव निनाह्यान्मणिकाद्वसतीवरीग्रहणम् । निनहनीयो निखननीयो निनाह्यः । यदि च यजमानः पुरा न सोमयाजी तर्हि समीपस्थितस्य यष्टुर्मणिकाद्ग्रहणम् । स्वस्य अन्नस्य यज्ञकर्तृत्वाभावे उल्कां कनकं वा वहन्तीनामपां समीपे धारयन्वहन्तीभ्यो वसतीवरीर्गृह्णीयादिति सूत्रार्थः । अनुष्टुब्लिङ्गोक्तदेवता । हविष्मान् हविषा संयुक्तो यजमानः हविष्मतीर्हविषा संयुक्ता इमा आपः अपः आविवासति वसतीवरीः परिचरति । विवासतिः परिचर्यायाम् । ‘यत्र वै यज्ञस्य शिरोऽच्छिद्यत तस्य रसो द्रुत्वापः प्रविवेश’ (३ । ९।२।१) इति श्रुतेरपां हविष्मत्त्वम् । ततो देवो द्योतमानोऽध्वरो यागोऽपि स्वशरीरनिष्पत्तये हविष्मानस्तु आभिरद्भिरित्यर्थः । किंच सूर्योऽपि देवो यजमानस्य फलदानाय तृप्त्यर्थं च हविष्मान्हविःसंपन्नोऽस्तु भवतु । एतस्मै वै गृह्णाति य एष तपति’ (३ । ६ । २ । १२) इति श्रुतेर्वसतीवरीभिः सूर्यस्य हविष्मत्त्वम् ॥ २३ ॥
चतुर्विंशी।
अधिमन्त्रम् (VC)
- अब्यज्ञसूर्या देवताः
- दीर्घतमा ऋषिः
- निचृद् आर्षी अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर परस्पर मिल कर राजा और प्रजा किससे क्या-क्या करें, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् लोगो ! तुम उन कामों को किया करो कि जिनसे (इमाः) ये (आपः) जल (हविष्मतीः) अच्छे-अच्छे दान और आदान क्रिया शुद्धि और सुख देनेवाले हों अर्थात् जिन से नाना प्रकार का उपकार दिया लिया जाय (हविष्मान्) पवन उपकार अनुपकार को (आ) अच्छे प्रकार (विवासति) प्राप्त होता है (देवः) सुख का देनेवाला (अध्वरः) यज्ञ भी (हविष्मान्) परमानन्दप्रद (सूर्य्यः) तथा सूर्यलोक भी (हविष्मान्) सुगन्धादियुक्त होके (अस्तु) हो ॥२३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जिस वायु जल के संयोग से अनेक सुख सिद्ध किये जाते हैं, जिनसे देश-देशान्तरों में जाने से उत्तम वस्तुओं का पहुँचाना होता है, उन अग्नि जल आदि पदार्थों से उक्त काम को क्रियाओं में चतुर पुरुष ही कर सकता है और जो नाना प्रकार की कारीगरी आदि अनेक क्रियाओं का प्रकाश करनेवाला है, वही यज्ञ वर्षा आदि उत्तम-उत्तम सुख का करनेवाला होता है ॥२३॥
दयानन्द-सरस्वती (सं) - विषयः
पुनरन्योन्यं मिलित्वा राजप्रजे केन किं किं कुर्यातामित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वांसः ! यथेमा आपो हविष्मतीर्हविष्मत्यः स्युरयं वायुर्हविष्मानेवाविवासति सर्वान् परिचरति, देवोऽध्वरो हविष्मान् स्यात्, सूर्यो हविष्मान् अस्तु भवेत्, तथा भवन्तो यज्ञेनैतान् शुद्धान् कुर्वन्तु ॥२३॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। येन वायुजलसंयोगेनानेकानि सुखानि साध्यन्ते, यैर्विविधदेशदेशान्तरगमनेन वस्तुप्रापणं भवति। तैरेतत् कर्म क्रियाविचक्षण एव कर्त्तुं शक्नोति, यो विविधक्रियाप्रकाशकोऽस्ति, स यज्ञो वृष्ट्यादिसुखकरो भवति ॥२३॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. ज्या वायू व जल यांच्या संयोगाने अनेक प्रकारचे सुख प्राप्त होते व ज्यांच्यायोगे देशोदेशी प्रवास करता येतो व उत्तम पदार्थ इकडे तिकडे पाठविता येतात. त्या अग्नी व जल इत्यादी पदार्थांनी चतुर पुरुष कार्य संपन्न करतात. अशा प्रकारे विविध प्रकारचे कलाकौशल्य प्रकट करणारा यज्ञही वृष्टी इत्यादी सुख देणारा असतो.
२४ अग्नेर्वोऽपन्नगृहस्य सदसि
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्नेर्वोऽप॑न्नगृहस्य॒ सद॑सि सादयामीन्द्रा॒ग्न्योर्भा॑ग॒धेयी॑ स्थ मि॒त्रावरु॑णयोर्भाग॒धेयी॑ स्थ॒ विश्वे॑षां दे॒वानां॑ भाग॒धेयी॑ स्थ। अ॒मूर्याऽउप॒ सूर्ये॒ याभि॒॑र्वा॒ सूर्यः॑ स॒ह। ता नो॑ हिन्वन्त्वध्व॒रम् ॥२४॥
मूलम् ...{Loading}...
अ॒ग्नेर्वोऽप॑न्नगृहस्य॒ सद॑सि सादयामीन्द्रा॒ग्न्योर्भा॑ग॒धेयी॑ स्थ मि॒त्रावरु॑णयोर्भाग॒धेयी॑ स्थ॒ विश्वे॑षां दे॒वानां॑ भाग॒धेयी॑ स्थ। अ॒मूर्याऽउप॒ सूर्ये॒ याभि॒॑र्वा॒ सूर्यः॑ स॒ह। ता नो॑ हिन्वन्त्वध्व॒रम् ॥२४॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒ग्नेः। वः। अप॑न्नगृह॒स्येत्यप॑न्नऽगृहस्य। सद॑सि। सा॒द॒या॒मि॒। इ॒न्द्रा॒ग्न्योः। भा॒ग॒धेयी॒रिति॑ भाग॒ऽधेयीः॑। स्थ॒। मि॒त्रावरु॑णयोः। भा॒ग॒धेयी॒रिति॑ भाग॒ऽधेयीः॑। विश्वे॑षाम्। दे॒वाना॑म्। भा॒ग॒धेयी॒रिति॑ भाग॒ऽधेयीः॑। स्थ॒। अ॒मूः। याः। उप॑। सूर्य्ये॑। याभिः॑। वा॒। सूर्य्यः॑। स॒ह। ताः। नः। हि॒न्व॒न्तु॒। अ॒ध्व॒रम्। २४।
महीधरः
म० ‘अग्नेर्व इति निदधाति शालाद्वार्यमपरेणेति’ (का० । ८ । ९ । ११) नूतनगार्हपत्यात्पश्चिमभागे ता वसतीवरीरासादयतीति सूत्रार्थः । चत्वारि यजूंष्यब्देवत्यानि । हे वसतीवर्यः, वो युष्मान् अग्नेः शालाद्वार्यस्य सदसि सीदन्त्यस्मिन्निति सदो निकटस्थानं तत्र सादयामि स्थापयामि । किंभूतस्याग्नेः । अपन्नगृहस्य न पन्नं पतितं गृहं यस्य तस्य । अविनश्वरगृहस्येत्यर्थः । | ‘दक्षिणेन निर्हृत्य दक्षिणस्यामुत्तरवेदिश्रोणौ निदधातीन्द्राग्न्योरिति’ (का० ८।९।१८) शालाद्वार्यसमीपस्था वसतीवरीरादाय शालादक्षिणद्वारेण नीत्वोत्तरवेदेर्दक्षिणश्रोणौ निदध्यादिति सूत्रार्थः । हे वसतीवर्यः, यूयमिन्द्राग्न्योः इन्द्राग्निदेवतयोः स्थ भागधेय्यो भागरूपा भवथ । भागा एव भागधेय्यः । ‘नामरूपभागेभ्यः स्वार्थे धेयप्रत्ययः’ (पा० ५। ४ । ३६ ) ‘केवलमामक-’ (पा० ४ । १।३०) इत्यादिना ङीप् । ‘उत्तरस्यां पूर्ववन्मित्रावरुणयोरिति वेति’ (का० ८ । ९ । २१-२२) पूर्ववदिन्द्राग्न्योरिति मन्त्रेणैव मित्रावरुणयोरिति मन्त्रेण वोत्तरवेदेरुत्तरश्रोणौ वसतीवरीर्निदध्यादिति सूत्रार्थः । हे वसतीवरीसंज्ञका आपः, यूयं मित्रावरुणयोर्देवतयोर्भागरूपा भवथ । ‘विश्वेषां देवानामित्याग्नीध्र इति’ ( का० ८ । ९ । २३ ) उत्तरवेदिश्रोणेः सकाशाद्वसतीवरीरादायानीध्रीयस्य पश्चान्निदध्यादिति । सूत्रार्थः । हे वसतीवर्यः, यूयं सर्वेषां देवानां भागरूपा भवथ । । इदानीमभिनयेन दर्शयन्नाह । अमूर्याः ऋक् अब्देवत्या गायत्री
याः प्रसिद्धा अमूरीदृश्यो वसतीवर्याख्या आपः । उपसूर्ये सूर्यसमीपे स्थिताः। विभक्तिव्यत्ययः। याभिर्वा । वाशब्दः समुच्चये। याभिश्चाद्भिः सह सूर्यो याति ता आपो नोऽस्माकमध्वरं यज्ञं हिन्वन्तु तर्पयन्तु । हिन्वतिः तर्पणार्थः ॥ २४ ॥
पञ्चविंशी।
अधिमन्त्रम् (VC)
- लिङ्गोक्ता देवताः
- मेधातिथिर्ऋषिः
- आर्षी त्रिष्टुप्, त्रिपाद् गायत्री
- धैवतः, षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब गुरुपत्नी ब्रह्मचर्य्य के अनुकूल जो कन्याजन हैं, उन को क्या-क्या उपदेश करें, यह अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे ब्रह्मचारिणी कन्याओ ! (अमूः) वे (याः) जो स्वयंवर विवाह से पतियों को स्वीकार किये हुए हैं, उन के समान जो (इन्द्राग्न्योः) सूर्य और बिजुली के गुणों को (भागधेयीः) अलग-अलग जाननेवाली (स्थ) हैं, (मित्रावरुणयोः) प्राण और उदान के गुणों को (भागधेयीः) अलग-अलग जाननेवाली (स्थ) हैं, (विश्वेषाम्) विद्वान् और पृथिवी आदि पदार्थों के (भागधेयीः) सेवनेवाली (स्थ) हैं, उन (वः) तुम सभों को (अपन्नगृहस्य) जिसको गृहकृत्य नहीं प्राप्त हुआ है, उस ब्रह्मचर्य धर्मानुष्ठान करनेवाले और (अग्नेः) सब विद्यादि गुणों से प्रकाशित उत्तम ब्रह्मचारी की (सदसि) सभा में मैं (सादयामि) स्थापित करती हूँ और जो (याः) (उप) (सूर्ये) सूर्यलोक गुणों में (उप) उपस्थित होती हैं (वा) अथवा (याभिः) जिनके (सह) साथ (सूर्यः) सूर्यलोक वर्त्तमान अर्थात् जो सूर्य के गुणों में अति चतुर हैं (ताः) वे सब (नः) हमारे (अध्वरम्) घर के काम-काज को विवाह करके (हिन्वन्तु) बढावें ॥२४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ब्रह्मचर्य धर्म को पालन करनेवाली कन्याओं को अविवाहित ब्रह्मचारी और अपने तुल्य गुण, कर्म, स्वभावयुक्त पुरुषों के साथ विवाह करने की योग्यता है, इस हेतु से गुरुजनों की स्त्रियाँ ब्रह्मचारिणी कन्याओं को वैसा ही उपदेश करें कि जिससे वे अपने प्रसन्नता के तुल्य पुरुषों के साथ विवाह करके सदा सुखी रहें और जिसका पति वा जिसकी स्त्री मर जाय और सन्तान की इच्छा हो, वे दोनों नियोग करें, अन्य व्यभिचारदि कर्म कभी न करें ॥२४॥
दयानन्द-सरस्वती (सं) - विषयः
अथ गुरुपत्न्यो ब्रह्मचर्यमनुवर्तिनीः कन्याः किं किमुपदिशेयुरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे ब्रह्मचारिण्यः ! यूयं या अमूः स्वयंवरविवाहं कृतवत्यः सन्ति, यूयं इन्द्राग्न्योर्भागधेयीः स्थ, मित्रावरुणयोर्भागधेयीः स्थ, विश्वेषां देवानां भागधेयीः स्थ, ता वो युष्मान् अपन्नगृहस्याग्नेः सदस्यहं सादयामि, या उपसूर्ये सूर्य्यगुणेषु तिष्ठन्ति वा याभिः सह सूर्यो वर्त्तते, ता नोऽस्माकमध्वरं विवाहं कृत्वा हिन्वन्तु ॥२४॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ब्रह्मचर्यधर्ममनुवर्त्तिनीनां कन्यानामविवाहितैः स्वतुल्यगुणकर्मस्वभावैः पुरुषैः सहैव विवाहकरणयोग्यतास्तीति हेतोर्गुरुपत्न्यो ब्रह्मचारिण्यः कन्यास्तादृशमेवोपदिशन्तु खल्वापत्काले कृतविवाहयोर्नियोगो भवितुमर्हति नान्यथेति ॥२४॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ब्रह्मचर्य पालन करणाऱ्या कन्यांनी आपल्यासारख्याच गुणकर्म स्वभावाच्या पुरुषांबरोबर विवाह करावा व गुरुपत्नी विदुषी स्त्रियांनी ब्रह्मचारिणींना असा उपदेश करावा की, ज्यायोगे त्यांनी आपल्याला पसंत असलेल्या पुरुषांबरोबर विवाह करून सदैव सुखी व्हावे. ज्याची पत्नी वारलेली असेल किंवा ज्या स्त्रीचा पती मरण पावलेला असेल व ज्यांना संतानाची इच्छा असेल तर त्यांनी नियोग करावा; परंतु व्यभिचार इत्यादी कर्म करू नयेत.
२५ हृदे त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
हृ॒दे त्वा॒ मन॑से त्वा॒ दि॒वे त्वा॒ सूर्या॑य त्वा। ऊ॒र्ध्वमि॒मम॑ध्व॒रं दि॒वि दे॒वेषु॒ होत्रा॑ यच्छ ॥२५॥
मूलम् ...{Loading}...
हृ॒दे त्वा॒ मन॑से त्वा॒ दि॒वे त्वा॒ सूर्या॑य त्वा। ऊ॒र्ध्वमि॒मम॑ध्व॒रं दि॒वि दे॒वेषु॒ होत्रा॑ यच्छ ॥२५॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
हृ॒दे। त्वा॒। मन॑से। त्वा॒। दि॒वे। त्वा॒। सूर्य्या॑य। त्वा॒। ऊ॒र्ध्वम्। इ॒मम्। अ॒ध्व॒रम्। दि॒वि। दे॒वेषु॑। होत्राः॑। य॒च्छ॒। २५।
महीधरः
म० ‘आज्यासादनात्कृत्वेषान्तरेणार्धसोममद्रिषु संमुखेषु निदधाति हृदे त्वेति’ (का० ९ । १ । ५) आज्यासादनपर्यन्तं कर्म कृत्वा सोममादाय हविर्धाने गत्वा सोमं विस्रस्य तदर्धं दक्षिणशकटेषान्तरालेन संमुखेष्वभिषवार्थपाषाणेषु निदध्यात् । अश्मनां स्थूलो भागो मुखमिति सूत्रार्थः । सोमदेवत्यानुष्टुप् । हे सोम, हृदे बुद्ध्यै निश्चयात्मिकायै एतन्मम स्यादिति कामरूपायै वा त्वामुपावहरामीति शेषः । मनसे संकल्पविकल्पात्मकाय त्वामुपावहरामि । त्वाशब्दानामावृत्त्या क्रियावृत्तिर्बोध्या । दिवे द्युलोकप्राप्तये त्वामुपावहरामि । सूर्याय सूर्यमुखेभ्यो देवेभ्यस्तत्तृप्तये त्वामुपावहरामि । यद्वायमर्थः । हे सोम, हृदे हृदयवद्भ्यो मनुष्येभ्यः । मनसे मनस्विभ्यः पितृभ्यः दिवे द्युलोकवासिभ्यो देवेभ्यो विशेषतः सूर्याय च त्वामुपावहरामीति शेषः । एतदर्थे तित्तिरिः ‘स वा अध्वर्युः सोममुपावहरन्सर्वाभ्यो देवताभ्य उपावहरेदिति हृदे त्वेत्याह मनुष्येभ्य एवैतेन करोति मनसे त्वेत्याह पितृभ्य एवैतेन करोति दिवे त्वा सूर्याय त्वेत्याह देवेभ्य एवैतेन करोत्येतावतीर्वै देवतास्ताभ्य एवैनᳪं᳭ सर्वाभ्य उपावहरतीति’ । किंच एवमुपावहृतोऽभिषुतश्च त्वमिममध्वरं मदीयं यज्ञमूर्ध्वमुत्कृष्टं कृत्वा दिवि द्युलोकवर्तमानेषु देवेषु होत्राः वषट्कारवादिनः सप्त होतृकान् यच्छ निबध्नीहि ॥ २५ ॥
षड्विंशी।
अधिमन्त्रम् (VC)
- सोमो देवता
- मेधातिथिर्ऋषिः
- आर्षी विराड् अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर से क्या-क्या उपदेश करें, यह अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे ब्रह्मचारिणी कन्या ! तू जैसे हम सब (देवेषु) अपने सुख देनेवाले पतियों के निकट रहने और (होत्राः) अग्निहोत्र आदि कर्म का अनुष्ठान करनेवाली हैं, वैसी हो और जैसे हम (हृदे) सौहार्द्द सुख के लिये (त्वा) तुझे वा (मनसे) भला-बुरा विचारने के लिये (त्वा) तुझे वा (दिवे) सब सुखों के प्रकाश करने के लिये (त्वा) तुझे वा (सूर्य्याय) सूर्य्य के सदृश गुणों के लिये (त्वा) तुझे शिक्षा करती हैं, वैसे तू भी (दिवि) समस्त सुखों के प्रकाश करने के निमित्त (इमम्) इस (अध्वरम्) निरन्तर सुख देनेवाले गृहाश्रमरूपी यज्ञ को (ऊर्ध्वम्) उन्नति (यच्छ) दिया कर ॥२५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे अपने पतियों की सेवा करती हुई उनके समीप रहनेवाली पतिव्रता गुरुपत्नियाँ अग्निहोत्रादि कर्मों में स्थिर बुद्धि रखती हैं, वैसे विवाह के अनन्तर ब्रह्मचारिणी कन्याओं और ब्रह्मचारियों को परस्पर वर्तना चाहिये ॥२५॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्ताः किं किमुपदिशेयुरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे ब्रह्मचारिणि कन्ये ! त्वं यथा वयं सर्वा देवेषु स्वपतिषु समीपवर्त्तिन्यो होत्रा हवनकर्मानुष्ठात्र्यः स्मस्तथा भव, यथा वयं हृदे त्वा मनसे त्वा दिवे त्वा सूर्य्याय त्वानुशास्मस्तथा दिवीममध्वरमूर्ध्वं यच्छ ॥२५॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यथा पतिव्रताः स्वपतिषु तत्प्रियमाचरन्त्यैऽग्निहोत्रादिकर्मसु निरताः स्युस्तथा विवाहानन्तरं ब्रह्मचारिणीभिर्ब्रह्मचारिभिरपि परस्परमनुवर्त्तितव्यमिति ॥२५॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्याप्रमाणे आपल्या पतीची सेवा करणारी व त्याच्याजवळ राहणारी पतिव्रता गुरुपत्नी अग्निहोत्र इत्यादी कर्मामध्ये स्थिर बुद्धी ठेवते त्याप्रमाणेच विवाहानंतर ब्रह्मचारी व ब्रह्मचारिणी यांनी परस्पर वर्तन करावे.
२६ सोम राजन्
विश्वास-प्रस्तुतिः ...{Loading}...
सोम॑ राज॒न् विश्वा॒स्त्वं प्र॒जाऽउ॒पाव॑रोह॒ विश्वा॒स्त्वां प्र॒जाऽउ॒पाव॑रोहन्तु। शृ॒णोत्व॒ग्निः स॒मिधा॒ हवं॑ मे शृ॒ण्वन्त्वापो॑ धि॒षणा॑श्च दे॒वीः। श्रोता॑ ग्रावाणो वि॒दुषो॒ न य॒ज्ञँ शृ॒णोतु॑ दे॒वः स॑वि॒ता हवं॑ मे॒ स्वाहा॑ ॥२६॥
मूलम् ...{Loading}...
सोम॑ राज॒न् विश्वा॒स्त्वं प्र॒जाऽउ॒पाव॑रोह॒ विश्वा॒स्त्वां प्र॒जाऽउ॒पाव॑रोहन्तु। शृ॒णोत्व॒ग्निः स॒मिधा॒ हवं॑ मे शृ॒ण्वन्त्वापो॑ धि॒षणा॑श्च दे॒वीः। श्रोता॑ ग्रावाणो वि॒दुषो॒ न य॒ज्ञँ शृ॒णोतु॑ दे॒वः स॑वि॒ता हवं॑ मे॒ स्वाहा॑ ॥२६॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सोम॑। रा॒ज॒न्। विश्वाः॑। त्वम्। प्रजा॒ इति॑ प्र॒ऽजाः। उ॒पाव॑रो॒हेत्यु॑प॒ऽअव॑रोह। विश्वाः॑। त्वाम्। प्र॒जा इति॑ प्र॒ऽजाः। उपाव॑रोह॒न्त्वित्यु॑प॒ऽअव॑रोहन्तु। शृ॒णोतु॑। अ॒ग्निः। स॒मिधेति॑ स॒म्ऽइधा॑। हव॑म्। मे॒। शृ॒ण्वन्तु॑। आपः॑। धि॒षणाः॑। च॒। दे॒वीः। श्रोत॑। ग्रा॒वा॒णः॒। वि॒दुषः॑। न। य॒ज्ञम्। शृ॒णोतु॑। दे॒वः। स॒वि॒ता। हव॑म्। मे॒। स्वाहा॑। २६।
महीधरः
म० किंच । हे सोम राजन् , विश्वाः सर्वाः प्रजा उपावरोह आधिपत्यं प्रजानां कुर्वित्यर्थः । ‘विश्वास्त्वामिति विसृज्योपतिष्ठत इति’ ( का० ९ । १ । ६) ग्रावसु स्थापितं सोमं विमुच्योपस्थापनं कुर्यादिति सूत्रार्थः । हे सोम, विश्वाः सर्वाः प्रजाः त्वामुपावरोहन्तु प्रत्युत्थानाभिः प्राप्नुवन्तु । ‘अभूदुषा रुशत्पशुरित्युच्यमाने चतुर्गृहीतं प्रचरण्या जुहोति शृणोत्वग्निरिति’ (का० । ९ । २ । २४) अभूदिति मन्त्रे होत्रा शस्यमाने चतुर्गृहीतमाज्यं प्रचरणीसंज्ञया स्रुचाध्वर्युरतिप्रणीते जुहोतीति सूत्रार्थः । त्रिष्टुब्लिङ्गोक्तदेवता । अग्निः समिधा समित्पूर्विकया आहुत्या मे हवं मदीयमाह्वानं शृणोतु । आपो ममाह्वानं शृण्वन्तु । चकारः समुच्चयार्थः । धिषणा देवीः वाचो देव्यश्च मे हवं शृण्वन्तु । ‘धिषणा धीसादिन्यो वा धीमानिन्यो वा’ (निरु० ।८।४) इति यास्कः । धियं सन्वन्ति ददति धिषणाः ‘षणु दाने’ तनादिः । तृतीयः पादः प्रत्यक्षकृतो मध्यमपुरुषयोगात् । हे ग्रावाणः, अभिषवार्थमिहोपस्थिता यूयं मम हवं श्रोत शृणुत । ‘तप्तनप्तनथनाश्च’ (पा० ७ । १ । ४५) लोण्मध्यमपुरुषबहुवचनस्य | तवादेशे गुणे विकरणव्यत्यये च श्रोतेति रूपम् । संहितायां तु दीर्घः । विदुषो न । न इवार्थे विभक्तिव्यत्ययः । विद्वांसो यज्ञमिव यथा विद्वांसः प्रत्यक्षतो जानन्तो यज्ञं शृण्वन्ति तथा यूयं हवं शृणुत । तथा सविता देवः मे मम हवं शृणोतु । स्वाहा सुहुतमस्तु स्वाहा वागाहेति वा ॥ २६ ॥
सप्तविंशी।
अधिमन्त्रम् (VC)
- सोमो देवता
- मेधातिथिर्ऋषिः
- भुरिग् गायत्री, आर्षी गायत्री
- धैवतः
२७ देवीरापोऽअपां नपाद्यो
विश्वास-प्रस्तुतिः ...{Loading}...
देवी॑रापोऽअपां नपा॒द्यो व॑ऽऊ॒र्मिर्ह॑वि॒ष्य᳖ऽइन्द्रि॒यावा॑न् म॒दिन्त॑मः। तं दे॒वेभ्यो॑ देव॒त्रा द॑त्त शुक्र॒पेभ्यो॒ येषां॑ भा॒ग स्थ॒ स्वाहा॑ ॥२७॥
मूलम् ...{Loading}...
देवी॑रापोऽअपां नपा॒द्यो व॑ऽऊ॒र्मिर्ह॑वि॒ष्य᳖ऽइन्द्रि॒यावा॑न् म॒दिन्त॑मः। तं दे॒वेभ्यो॑ देव॒त्रा द॑त्त शुक्र॒पेभ्यो॒ येषां॑ भा॒ग स्थ॒ स्वाहा॑ ॥२७॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
देवीः॑। आ॒पः। अ॒पा॒म्। नपा॒त्। यः। वः॒। ऊ॒र्म्मिः। ह॒वि॒ष्यः॒। इ॒न्द्रि॒यावा॑न्। इ॒न्द्रि॒यवा॒निती॑न्द्रिय॒ऽवा॑न्। म॒दिन्त॑म॒ इति॑ म॒दिन्ऽत॑मः। तम्। दे॒वेभ्यः॑। दे॒व॒त्रेति॑ देव॒ऽत्रा। द॒त्त॒। शु॒क्र॒पेभ्य इति॑ शुक्र॒ऽपेभ्यः॑। येषा॑म्। भा॒गः। स्थ। स्वाहा॑। २७।
महीधरः
म० ‘आपो गत्वा देवीराप इत्यप्सु जुहोतीति’ ( का ९ । ३ । ७ ) यच्चतुर्गृहीतमाज्यं सहनीतं तज्जलं प्रति गत्वा जुहोतीति सूत्रार्थः । अब्देवत्या पङ्क्तिः पञ्चपदा चलारिंशद्वर्णा पङ्क्तिः । अत्र द्वितीयः सप्ताक्षरः तुर्यपञ्चमौ नवार्णौ तेनैकाधिका स्वाहेति यजुः । हे आपो देवीः देव्यः, वो युष्माकमपांनपात् अपत्यरूपो योऽयमूर्मिरप्सङ्घातः कल्लोलोऽस्ति देवत्रा देवान्प्रति यायिनं तमूर्मिं देवेभ्यो दत्त प्रयच्छत । येषां देवानां यूयं भागः स्थ भागरूपा भवथ । किंभूत ऊर्मिः । हविष्यः तथा इन्द्रियावान् इन्द्रियं वीर्यमस्यास्तीति इन्द्रियावान् । दीर्घश्छान्दसः । प्रीतः सन्निन्द्रियवीर्यवृद्धिकारी । तथा मदिन्तमः मदयतीति मदी अतिशयेन मदी मदिन्तमः पीयमानोऽत्यन्तहर्षकारी तर्पयितृतमः । ‘नाद्धस्य’ (पा० ८ । २ । १७) इति तमपि नुमागमः। किंभूतेभ्यो देवेभ्यः। शुक्रपेभ्यः शुक्र इत्युपलक्षणम् । शुक्रादीन् सोमग्रहान् पिबन्तीति शुक्रपाः तेभ्यः। यद्वा शुक्रं दीप्तं सोमं पिबन्तीति । स्वाहा इदमाज्यं युष्मभ्यं हुतमस्तु । ग्रहीष्यमाणानामपां मूल्यत्वेनेयमाहुतिरित्युक्तं तित्तिरिणा । ‘देवीरापो अपांनपादित्याहाहुत्या वै निष्क्रीय गृह्णातीति’ ॥२७॥
अष्टाविंशी।
अधिमन्त्रम् (VC)
- आपो देवताः
- मेधातिथिर्ऋषिः
- निचृद् आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर राजा और प्रजा कैसे वर्त्ताव को वर्तें, यह अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (आपः) श्रेष्ठ गुणों में व्याप्त (देवीः) शुभकर्मों से प्रकाशमान प्रजालोगो ! तुम राजसेवी (स्थ) हो, (शुक्रपेभ्यः) शरीर और आत्मा के पराक्रम के रक्षक (देवेभ्यः) दिव्यगुणयुक्त विद्वानों के लिये (येषाम्) जिन (वः) तुम्हारा बली रूप विद्वानों का (यः) जो (अपां नपात्) जलों के नाशरहित स्वाभाविक (ऊर्मिः) जलतरंग के सदृश प्रजारक्षक (इन्द्रियावान्) जिस में प्रशंसनीय इन्द्रियाँ होती हैं और (मदिन्तमः) आनन्द देनेवाला (हविष्यः) भोग के योग्य पदार्थों से निष्पन्न (भागः) भाग हैं, वे तुम सब (तम्) उसको (स्वाहा) आदर के साथ ग्रहण करो, जैसे राजादि सभ्यजन (देवत्रा) दिव्य भोग देते हैं, वैसे तुम भी इसको आनन्द (दत्त) देओ ॥२७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - प्रजाजनों को यह उचित है कि आपस में सम्मति कर किसी उत्कृष्ट गुणयुक्त सभापति को राजा मान कर राज्य-पालन के लिये कर देकर न्याय को प्राप्त हों ॥२७॥
दयानन्द-सरस्वती (सं) - विषयः
पुनरेते कथं वर्तेरन्नित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे आपो देवीर्देव्यः प्रजा ! यूयं राजभक्ता स्थ भवत, शुक्रपेभ्यो देवेभ्यो येषां वो युष्माकमपां नपादूर्मिरिवेन्द्रियावान् मदिन्तमो हविष्यो भोगोऽस्ति, तं स्वाहा सद्वाचा गृह्णीत। तथा राजादयः सभ्या जना देवत्रा दिव्यान् भोगान् युष्मभ्यं प्रददति तथैतेभ्यो यूयमपि दत्त ॥२७॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - प्रजाजनानामिदमुचितमुत्कृष्टगुणं सभापतिं मत्वा राज्यपालनाय करं दत्त्वा न्यायं प्राप्नुयुरिति ॥२७॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - प्रजेने आपापसात विचारविनिमय करून एखाद्या उत्कृष्ट व गुणवान सभापतीला राजा निवडावे व राज्याचे पालन होण्यासाठी कर द्यावा आणि त्याच्याकडून न्याय प्राप्त करून घ्यावा.
२८ कार्षिरसि समुद्रस्य
विश्वास-प्रस्तुतिः ...{Loading}...
कार्षि॑रसि समु॒द्रस्य॒ त्वा क्षि॑त्या॒ऽउन्न॑यामि। समापो॑ऽअ॒द्भिर॑ग्मत॒ समोष॑धीभि॒रोष॑धीः ॥२८॥
मूलम् ...{Loading}...
कार्षि॑रसि समु॒द्रस्य॒ त्वा क्षि॑त्या॒ऽउन्न॑यामि। समापो॑ऽअ॒द्भिर॑ग्मत॒ समोष॑धीभि॒रोष॑धीः ॥२८॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
कार्षिः॑। अ॒सि॒। स॒मु॒द्रस्य॑। त्वा। अक्षि॑त्यै। उत्। न॒या॒मि॒। सम्। आपः॑। अ॒द्भिरित्य॒त्ऽभिः। अ॒ग्म॒त॒। सम्। ओष॑धीभिः। ओष॑धीः। २८।
महीधरः
म० ‘कार्षिरसीति मैत्रावरुणचमसेनाज्यमपोहतीति’ (का० ९ । ३ । ८) । अप्सु हुतमाज्यं मैत्रावरुणचमसेन दूरीकरोतीति सूत्रार्थः । कार्षिरसीत्यादिमन्त्रत्रयं मिलित्वानुष्टप्छन्दः। आद्यस्याज्यं देवता । हे आज्यपदार्थ, त्वं कार्षिराकृष्टोऽसि देवतया भक्षितोऽसीत्यर्थः । यद्वा कर्षतीत्येवंशीलः कार्षिः अन्तर्गतशमलापनेतासि । तदाह तित्तिरिः ‘कार्षिरसीत्याह शमलमेवासामुपप्लावयतीति’ । ‘समुद्रस्य त्वेति तेन गृह्णातीति’ ( का० ९।३ । ९) । मैत्रावरुणचमसेन तडागादिस्था अपो गृह्णातीति सूत्रार्थः, द्वे यजुषी अपि । ‘आपो वै समुद्रः’ (३ । ९ । ३ । २७) इति श्रुतेर्वसतीवरीलक्षणस्य समुद्रस्याक्षित्यै अक्षीणत्वाय हे जल, त्वा त्वामुन्नयामि गृह्णामि । वसतीवरीणां वृद्धौ जलमेतद्गृह्यते । ‘प्रत्येत्य चात्वालस्योपरि मैत्रावरुणचमसं वसतीवरीश्च सᳪं᳭स्पर्शयति समाप इति’ ( का० ९ । ३ । १२) जलाशयात्प्रत्यागत्य चात्वालोपरि मैत्रावरुणचमसस्था अपो वसतीवरीभिः संयोजयतीति सूत्रार्थः । आपो मैत्रावरुणचमसस्था अद्भिः वसतीवरीभिः समग्मत संगच्छन्ताम् । गमेर्लुङि तङि प्रथमबहुवचने शपि लुप्ते ‘गमहन-’ (पा० ६ । ४ । ९८) इत्युपधालोपे समग्मतेति रूपम् । तथा ओषधीः ओषधयः मुद्गमसूरादिका ओषधीभिर्व्रीहियवादिभिः संगच्छन्ताम् अपां कारणभूतत्वादोषधीनामपि योगोऽस्तु ॥ २८ ॥
एकोनत्रिंशी।
अधिमन्त्रम् (VC)
- प्रजा देवताः
- मेधातिथिर्ऋषिः
- निचृद् आर्षी अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब अध्यापक जन प्रत्येक जन को क्या-क्या उपदेश करे, यह अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे वैश्यजन ! तू (कार्षिः) हल जोतने योग्य (असि) है (त्वा) तुझे (समुद्रस्य) अन्तरिक्ष के (अक्षित्यै) परिपूर्ण होने के लिये (सम् उत् नयामि) अच्छे प्रकार उत्कर्ष देता हूँ, तुम सब लोग (अद्भिः) यज्ञशोधित जलों से (आपः) जल और (ओषधीभिः) ओषधियों से (ओषधीः) ओषधियों को (सम् अग्मत) प्राप्त होओ ॥२८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - क्षेत्र आदि स्थानों में अनेक ओषधियाँ उत्पन्न होती हैं, ओषधियों से अग्निहोत्र आदि यज्ञ, यज्ञों से शुद्ध हुए जो जल के परमाणु ऊँचे होते हैं, उन से आकाश भरा रहता है। इस कारण विद्वान् लोग निर्बुद्धि जनों को खेती बारी ही के कामों में रखते हैं, क्योंकि वे विद्या का अभ्यास करने को समर्थ ही नहीं होते हैं ॥२७॥
दयानन्द-सरस्वती (सं) - विषयः
अथाध्यापको जनः प्रतिजनं किं किमुपदिशेदित्युच्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे वैश्यजन ! त्वं कार्षिरसि त्वां समुद्रस्याक्षित्यै समुन्नयामि, सर्वे यूयं यज्ञशोधिताभिरद्भिरेवाप ओषधीभिरोषधीः समग्मत ॥२८॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - क्षेत्रादिभूमिषु नानौषधयो जायन्त, ओषधीभिरग्निहोत्रादयो यज्ञा, यज्ञैरन्तरिक्षं जलपरमाणुभिः पूर्णं भवतीति हेतोर्विद्वांसो निर्बुद्धिजनान् क्षेत्रादिषु नयन्ति, कुतस्ते विद्यामभ्यसितुं समर्था एव न भवन्तीति ॥२८॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - शेतांमध्ये अनेक वृक्ष उत्पन्न होतात. त्या वृक्षांनी अग्निहोत्र वगैरे यज्ञ करता येतो. यज्ञाने शुद्ध झालेल्या जलाच्या परमाणूंनी आकाश व्यापलेले असते त्यामुळे विद्वान लोक बुद्धिहीन माणसांना शेतीच्या कामाला लावतात. कारण ते विद्या प्राप्त करू शकत नाहीत.
२९ यमग्ने पृत्सु
विश्वास-प्रस्तुतिः ...{Loading}...
यम॑ग्ने पृ॒त्सु मर्त्य॒मवा॒ वाजे॑षु॒ यं जु॒नाः। स यन्ता॒ शश्व॑ती॒रिषः॒ स्वाहा॑ ॥२९॥
मूलम् ...{Loading}...
यम॑ग्ने पृ॒त्सु मर्त्य॒मवा॒ वाजे॑षु॒ यं जु॒नाः। स यन्ता॒ शश्व॑ती॒रिषः॒ स्वाहा॑ ॥२९॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यम्। अ॒ग्ने॒। पृत्स्विति॑ पृ॒त्ऽसु। मर्त्य॑म्। अवाः॑। वाजे॑षु। यम्। जु॒नाः। सः। यन्ता॑। शश्व॑तीः। इषः॑। स्वाहा॑। २९।
महीधरः
म० ‘प्रचरणीसᳪं᳭स्रवमग्निष्टोमे जुहोत्यभावे चतुर्गृहीतं यमग्ने’ (का० ९ । ३ । १६) इति अग्निष्टोमसंस्थे क्रतौ प्रचरणीपात्रलिप्तमाज्यशेषं जुहुयात् शेषाज्यस्य होमपर्याप्त्यभावे चतुर्गृहीतमादाय जुहोतीति सूत्रार्थः । आग्नेयी गायत्री मधुच्छन्दोदृष्टा । हे अग्ने, पृत्सु सङ्ग्रामेषु यं मर्त्यं मनुष्यं त्वमवाः अवसि रक्षसि । अवतेः ‘इतश्च लोपः परस्मैपदेषु’ (पा० । ३ । ४ । ९७ ) इति सिप इकारलोपे ‘लेटोऽडाटौ’ (पा० ३।४। ९४) इत्याडागमे वा इति रूपम् । किंच वाजेषु वाज इत्यन्ननाम । हविर्लक्षणेष्वन्नेषु अन्ननिमित्तं यं पुरुषं त्वं जुनाः गच्छसि । हवींषि ग्रहीतुं यस्य सकाशं गच्छसीत्यर्थः । ‘जु गतौ’ श्नाप्रत्ययः ‘इतश्च लोपः- ( पा० ३ । ४ । ९७ ) इतीकारलोपे रूपं जुना इति । स मर्त्यस्त्वदनुग्रहेण शश्वतीरिषः नित्यान्यन्नानि धनरूपाणि यन्ता नियस्यति प्राप्स्यतीत्यर्थः लुट् । स्वाहा | सुहुतमस्तु । उक्थसंस्थे यमग्ने इति मन्त्रेणाद्यं परिधिं स्पृशेत् । षोडशिसंस्थे रराटीं स्पृशेत् । अतिरात्रे छदिः स्पृशेत् । अन्यसंस्थासु हविर्धानं प्रविशेत् ॥ २९ ॥
त्रिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- मधुच्छन्दा ऋषिः
- भुरिग् आर्षी गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब वह अध्यापक को क्या कहता है, यह अगले मन्त्र में उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) सब कभी विवेक के करनेवाले आप ! (पृत्सु) संग्रामों में (यम्) जिस मनुष्य की (अवाः) रक्षा करते और (वाजेषु) अन्न आदि पदार्थों की सिद्धि करने के निमित्त (यम्) जिसको (जुनाः) नियुक्त करते हो (सः) वह (शश्वतीः) निरन्तर अनादिरूप (इषः) अपनी प्रजाओं का (यन्ता) निर्वाह करने हारा होता है अर्थात् उन के नियमों को पहुँचाता है ॥२९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - गुरुजनों की शिक्षा से सब का सुख बढ़ता ही है ॥२९॥
दयानन्द-सरस्वती (सं) - विषयः
अथ स विद्वांसं किमाहेत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने त्वं ! पृत्सु यं मर्त्यमवा यं च वाजेषु जुनाः स शश्वतीरिषो यन्ता स्यात् ॥२९॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - गुरुशिक्षया सर्वस्य सुखं वर्द्धत एव ॥२९॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - गुरुजनांच्या शिकवणुकीमुळे सर्वांच्या सुखात वाढ होते.
३० देवस्य त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳙ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ताभ्याम्। आद॑दे॒ रावा॑सि गभी॒रमि॒मम॑ध्व॒रं कृ॑धीन्द्रा॑य सु॒षूत॑मम्। उ॒त्त॒मेन॑ प॒विनोर्ज॑स्वन्तं॒ मधु॑मन्तं॒ पय॑स्वन्तं निग्रा॒भ्या᳖ स्थ देव॒श्रुत॑स्त॒र्पय॑त मा॒ ॥३०॥
मूलम् ...{Loading}...
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳙ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ताभ्याम्। आद॑दे॒ रावा॑सि गभी॒रमि॒मम॑ध्व॒रं कृ॑धीन्द्रा॑य सु॒षूत॑मम्। उ॒त्त॒मेन॑ प॒विनोर्ज॑स्वन्तं॒ मधु॑मन्तं॒ पय॑स्वन्तं निग्रा॒भ्या᳖ स्थ देव॒श्रुत॑स्त॒र्पय॑त मा॒ ॥३०॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दे॒वस्य॑। त्वा॒। स॒वि॒तुः। प्र॒स॒व इति॑ प्रऽस॒वे। अ॒श्विनोः॑। बा॒हुभ्या॒मिति॑ बा॒हुऽभ्या॑म्। पू॒ष्णः। हस्ता॑भ्याम्। आ। द॒दे॒। रावा॑। अ॒सि॒। ग॒भी॒रम्। इ॒मम्। अ॒ध्व॒रम्। कृ॒धि॒। इन्द्रा॑य। सु॒षूत॑मम्। सु॒सूत॑मा॒मिति॑ सु॒ऽसूत॑मम्। उ॒त्त॒मेनेत्यु॑त्ऽत॒मेन॑। प॒विना॑। ऊर्ज्ज॑स्वन्तम्। मधु॑मन्त॒मिति॒ मधु॑ऽमन्तम्। पय॑स्वन्तम्। निग्रा॒भ्या᳖ इति॑ निऽग्रा॒भ्याः᳖ स्थ॒। दे॒व॒ऽश्रुत॒ इति देव॒श्रु॒तः॑। त॒र्पय॑त। मा॒। ३०।
महीधरः
म० ‘देवस्य त्वेत्यद्रिमादाय वाचं यच्छति प्राग्धिङ्कारात् स उपाᳪं᳭शुसवन इति’ (का० ९ । ४।५।६ ) सोमाभिषवहेतुमश्मानं गृहीत्वा हिङ्कारात्प्राक् मौनी स्यात् सोऽश्मोपांशुसवनसंज्ञः उपांशुग्रहाय सोमः सूयते येनेति सूत्रार्थः । देवस्य त्वेति व्याख्यातम् । हे अभिषवसाधन पाषाण, त्वं रावासि । ‘रा दाने’ रातीति रावा वनिप् । आहुतीनां दक्षिणानां च दाता भवसि । तत इममध्वरं मदीयं यागं गभीरं गम्भीरं महान्तं कृधि कुरु । ‘श्रुशृणुपृकृवृभ्यश्छन्दसि’ (पा० ६ । ४ । १०२) इति हेर्धिः उत्तमेनोत्कृष्टेन पविना वज्रसदृशेन त्वयाहं सोममीदृशं करोमि । किंभूतम् । इन्द्रायेन्द्रार्थं सुषूतं सुष्ठु सूयत इति सुसुतः अतिशयेन सुसुतः सुसुततमः तं सुष्ठु अभिषुततमम् । निष्ठातकारलोपो दीर्घश्च छान्दसः । तथा ऊर्जवन्तं मधुस्वादेन रसेनोपेतं पयस्वन्तं पयःस्वादुना रसेनोपेतं एवंविधं सोमं त्वयाहं करोमीत्यर्थः । ‘निग्राभ्यासु वाचयत्युरस्येनानिगृह्य निग्राभ्या स्थेति’ ( का० ९ । ४ । ७)। अभिषोतव्यस्य सोमस्य सेवनीया आपो निग्राभ्या उच्यन्ते तासु गृह्यमाणासु वाचयेत् यजमानश्च स्वोरसि निग्राभ्या निगृह्यालभ्य च मन्त्रं वक्तीति सूत्रार्थः । हे आपः, यूयं निग्राभ्या निग्राह्या अस्माभिर्नितरां ग्रहीतव्याः स्थ भवथ । यस्मादिन्द्रेणीरसि यूयं ग्रहीतास्ततो निग्राभ्याः । हृग्रहोर्भः । देवश्रुतः देवैः श्रूयन्ते ताः देवेषु प्रख्याताः ततो बहुमानान्विता यूयं मा मां तर्पयत प्रीतिं कुरुत ॥ ३०॥
एकत्रिंशी।
अधिमन्त्रम् (VC)
- सविता देवता
- मधुच्छन्दा ऋषिः
- स्वराड् आर्षी पङ्क्तिः, भुरिग् आर्ची पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब सभापति कर-धन देनेवाले प्रजाजनों को कैसे स्वीकार करे, यह अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - सब सुख देने (सवितुः) और समस्त ऐश्वर्य्य के उत्पन्न करनेवाले जगदीश्वर के (प्रसवे) उत्पन्न किये हुए संसार में (अश्विनोः) सूर्य और चन्द्रमा के (बाहुभ्याम्) बल और पराक्रम गुणों से (पूष्णः) पुष्टि करनेवाले सोम आदि ओषधिगण के (हस्ताभ्याम्) रोगनाश करने और धातुओं की समता रखनेवाले गुणों से (त्वा) तुझ कर-धन देनेवाले को (आददे) स्वीकार करता हूँ। तू (इन्द्राय) परमैश्वर्य्यवाले मेरे लिये (उत्तमेन) उत्तम अर्थात् सभ्यता की (पविना) वाणी से (इमम्) इस (गभीरम्) अत्यन्त समझने योग्य (सुषूतमम्) सब पदार्थों से उत्पन्न हुए (ऊर्जस्वन्तम्) राज्य को बलिष्ठ करनेवाले (मधुमन्तम्) समस्त मधु आदि श्रेष्ठ पदार्थयुक्त (पयस्वन्तम्) दुग्ध आदि सहित कर-धन को (अध्वरम्) निष्कपट (कृधि) कर दे, (देवश्रुतः) श्रेष्ठ राज्य-गुणों को सुननेवाले तुम मेरे (निग्राभ्यः) निरन्तर स्वीकार करने के योग्य (स्थ) हो (मा) मुझे इस कर के देने से (तर्प्पयत) तृप्त करो ॥३०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - प्रजाजनों की योग्यता है कि सभाध्यक्ष को प्राप्त होकर उस के लिये अपने समस्त पदार्थों से यथायोग्य भाग दें, जिस कारण राजा, प्रजापालन के लिये संसार में उत्पन्न हुआ है, इसी से राज्य करनेवाला यह राजा संसार के पदार्थों का अंश लेनेवाला होता है ॥३०॥
दयानन्द-सरस्वती (सं) - विषयः
अथ सभापतिः करधनप्रदं प्रजापुरुषं कथं स्वीकुर्य्यादित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे प्रजाजन ! अहं देवस्य सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां त्वामाददे, त्वमिन्द्राय मह्यमुत्तमेन पविना वचसेमं गभीरं सुषूतममूर्जस्वन्तं कारदायमध्वरं कृधि। हे देवश्रुतः प्रजा यूयं निग्राभ्या मया नितरां ग्रहीतुं योग्याः स्थ, मा मामनेन तर्प्पयत ॥३०॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - प्रजाजनां योग्यतास्ति राजानमागत्य तस्मै सर्वेषां स्वकीयपदार्थानां यथायोग्यमंशभागी भवतीति ॥३०॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - प्रजेने राजाला आपल्या संपत्तीचा यथायोग्य भाग द्यावा. कारण राजा हा प्रजेचा पालनकर्ता असतो. त्यासाठी तो राज्यातील वस्तूंवर कर बसवू शकतो.
३१ मनो मे
विश्वास-प्रस्तुतिः ...{Loading}...
मनो॑ मे तर्पयत॒ वाचं॑ मे तर्पयत प्रा॒णं मे॑ तर्पयत॒ चक्षु॑र्मे तर्पयत॒ श्रोत्रं॑ मे तर्पयता॒त्मानं॑ मे तर्पयत प्र॒जां मे॑ तर्पयत प॒शून् मे॑ तर्पयत ग॒णान्मे॑ तर्पयत ग॒णा मे॒ मा वितृ॑षन् ॥३१॥
मूलम् ...{Loading}...
मनो॑ मे तर्पयत॒ वाचं॑ मे तर्पयत प्रा॒णं मे॑ तर्पयत॒ चक्षु॑र्मे तर्पयत॒ श्रोत्रं॑ मे तर्पयता॒त्मानं॑ मे तर्पयत प्र॒जां मे॑ तर्पयत प॒शून् मे॑ तर्पयत ग॒णान्मे॑ तर्पयत ग॒णा मे॒ मा वितृ॑षन् ॥३१॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मनः॑। मे॒। त॒र्प॒य॒त॒। वाच॑म्। मे॒। त॒र्प॒य॒त॒। प्रा॒णम्। मे॒। त॒र्प॒य॒त॒। चक्षुः॑। मे॒। त॒र्प॒य॒त॒। श्रोत्र॑म्। मे॒। त॒र्प॒य॒त॒। आ॒त्मान॑म्। मे॒। त॒र्प॒य॒त॒। प्र॒जामिति॑ प्र॒ऽजाम्। मे॒। त॒र्प॒य॒त॒। प॒शून्। मे॒। त॒र्प॒य॒त॒। ग॒णान्। मे॒। त॒र्प॒य॒त॒। ग॒णाः। मे॒। मा। वि। तृ॒ष॒न्। ३१।
महीधरः
म० एवं समासेनोक्त्वा व्यासेनाह । मे मम मनः वाचं प्राणं चक्षुः श्रोत्रं तर्पयत । मदीयानि मनःप्रभृतीनीन्द्रियाणि तर्पयतेत्यर्थः । एवं व्यासेनोक्वा पुनः समासेनाह । आत्मानं शरीरं
प्रजां पुत्रादिसंपत्तिं पशून्गवादीन्गणान् मनुष्यसङ्घांश्च तर्पयत । | मे मदीया गणा मनुष्यसङ्घा मा वितृषन् मया द्रव्यदानेन पूरिता अपि सन्तो विगततृष्णा मा भवन्तु । अनुरक्तगणोऽहं भवेयमिति यजमान आशास्त इत्यर्थः ॥ ३१ ॥
द्वात्रिंशी।
अधिमन्त्रम् (VC)
- प्रजासभ्यराजानो देवताः
- मधुच्छन्दा ऋषिः
- विराड् ब्राह्मी जगती
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
अब राजा अपने सभासदों और सभा राजा को क्या उपदेश करे, यह अगले मन्त्र में उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सभ्यजनो और प्रजाजनो ! तुम अपने गुणों से (मे) मेरे (मनः) मन को (तर्प्पयत) तृप्त करो, (मे) मेरी (वाचम्) वाणी की (तर्प्पयत) तृप्त करो, (मे) मेरे (प्राणम्) प्राण को (तर्प्पयत) तृप्त करो, (मे) मेरे (चक्षुः) नेत्रों को (तर्प्पयत) तृप्त करो, (मे) मेरे (श्रोत्रम्) कानों को (तर्प्पयत) तृप्त करो, (मे) मेरे (आत्मानम्) आत्मा को (तर्प्पयत) तृप्त करो, (मे) मेरी (प्रजाम्) सन्तानादि प्रजा को (तर्प्पयत) तृप्त करो, (मे) मेरे (पशून्) गौ, हाथी, घाड़े आदि पशुओं को (तर्प्पयत) तृप्त करो, (मे) मेरे (गणान्) सेवकों को (तर्प्पयत) तृप्त करो, जिससे (मे) मेरे (गणाः) राज्य वा प्रजा कर्माधिकारी वा सेवकजन कामों में (मा) मत (वितृषन्) उदास हों ॥३१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राज्य का प्रबन्ध सभाधीन ही होने के योग्य है, जिससे प्रजाजन राजसेवक और राजपुरुष प्रजा की सेवा करने हारे अपने-अपने कामों में प्रवृत्त होके सब प्रकार एक-दूसरे को आनन्दित करते रहें ॥३१॥
दयानन्द-सरस्वती (सं) - विषयः
अथ राजा सभ्यजनान् सभा राजानञ्च किमुपदिशेदित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सभाजनाः प्रजाजना वा ! यूयं स्वगुणैर्मे मम मनस्तर्प्पयत, मे वाचं तर्प्पयत, मे प्राणं तर्प्पयत, मे चक्षुस्तर्प्पयत, मे श्रोत्रं तर्प्पयत, मे ममात्मानं तर्प्पयत, मे प्रजां तर्प्पयत, मे पशूंस्तर्प्पयत, मे गणांस्तर्प्तयत, यतो मे गणा मा वितृषन् तृषिता मा भवन्तु ॥३१॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सभाधीनमेव राज्यप्रबन्धो भवितुमर्हति, यतः सर्वे प्रजाजना राजसेवका राजजनाः प्रजासेविनो भूत्वा स्वेषु कर्म्मसु प्रवृत्त्यान्योऽन्यमभिमोदयेयुरिति ॥३१॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - राज्याची व्यवस्था सभेच्या आधीन असावी. प्रजा, राजसेवक व राज्य कर्मचारी यांनी आपापल्या कामात दक्ष राहून सर्व प्रकारे एकमेकांना आनंदित करावे.
३२ इन्द्राय त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रा॑य त्वा॒ वसु॑मते रु॒द्रव॑त॒ऽइन्द्रा॑य त्वादि॒त्यव॑त॒ऽइन्द्रा॑य त्वाभिमाति॒घ्ने। श्ये॒नाय॑ त्वा सोम॒भृते॒ऽग्नये॑ त्वा रायस्पोष॒दे ॥३२॥
मूलम् ...{Loading}...
इन्द्रा॑य त्वा॒ वसु॑मते रु॒द्रव॑त॒ऽइन्द्रा॑य त्वादि॒त्यव॑त॒ऽइन्द्रा॑य त्वाभिमाति॒घ्ने। श्ये॒नाय॑ त्वा सोम॒भृते॒ऽग्नये॑ त्वा रायस्पोष॒दे ॥३२॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इन्द्रा॑य। त्वा॒। वसु॑मत॒ इति॒ वसु॑ऽमते। रु॒द्रव॑त॒ इति॑ रु॒द्रऽव॑ते। इन्द्रा॑य। त्वा॒। आ॒दि॒त्यव॑त॒ इत्या॑दित्यऽव॑ते। इन्द्रा॑य। त्वा॒। अ॒भि॒मा॒ति॒घ्न इत्य॑भिमाति॒ऽघ्ने। श्ये॒नाय॑। त्वा॒। सो॒म॒भृत॒ इति॑ सोम॒ऽभृते॑। अ॒ग्नये॑। त्वा॒। रा॒य॒स्पो॒ष॒द इति॑ रायस्पोष॒दे। ३२।
महीधरः
म० ‘उपाᳪं᳭शुसवने सोमं मिमीत इन्द्राय त्वा वसुमते रुद्रवत इति पञ्चकृत्वः प्रतिमन्त्रमिति’ ( का० ९ । ४ । ८) उपांशुसवनं पूर्वोक्तमश्मानमधिषवणचर्मणि निधाय तदुपरि पञ्च मन्त्रैः पञ्चवारमभिषोतव्यसोममुष्ठिं प्रक्षिपतीति सूत्रार्थः । पञ्च यजूंषि सौम्यानि । तत्राद्यम् हे सोम, इन्द्रायेन्द्रार्थं त्वा त्वां मिमे इति शेषः । किंभूतायेन्द्राय । वसुमते वसवोऽस्य सन्तीति वसुमान् तस्मै । वसुसंज्ञकप्रातःसवनदेवतायुक्तायेत्यर्थः । रुद्रवते रुद्राः सन्त्यस्येति रुद्रवान् तस्मै रुद्रनामकमाध्यन्दिनसवनदेवतायुक्ताय । अथ द्वितीयम् । आदित्यवते तृतीयसवनदेवतायुक्तायेन्द्राय हे सोम, त्वा त्वां मिमे । अथ तृतीयम् । अभिमातीन् शत्रून् हन्तीत्यभिमातिहा तस्मै अभिमातिघ्ने शत्रुहन्त्रे इन्द्राय सोम, त्वां मिमे । ‘सपत्नो वा अभिमातिः’ (३ । ९ । ४ । ९) इति श्रुतेः। अथ चतुर्थम् । सोमं हरतीति सोमहृत् तस्मै । ‘हृग्रहोर्भश्छन्दसि’ (पा० ८ । २ । ३२) इति हस्य भः । सोमाहरणकर्त्रे श्येनाय श्येनपक्षिरूपायै गायत्र्यै हे सोम, त्वां मिमे । ‘गायत्री श्येनो भूत्वा दिवः सोममाहरत्’ (६।९। ४ । १०) इति श्रुतेः । अथ पञ्चमम् । रायस्पोषदे रा धनं तस्य पोषो वृद्धिः तं ददातीति रायस्पोषदास्तस्मै धनपुष्टिदात्रेऽग्नये हे सोम, त्वां मिमे ॥ ३२ ॥
त्रयस्त्रिंशी।
अधिमन्त्रम् (VC)
- सभापती राजा देवता
- मधुच्छन्दा ऋषिः
- पञ्चचपदा ज्योतिष्मती जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
जो राज्य व्यवहार सभा के ही आधीन हो तो किसलिये प्रजाजनों को सभापति का स्वीकार करना चाहिये, यह अगले मन्त्र में उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सभापते ! (वसुमते) जिस कर्म में चौबीस वर्ष ब्रह्मचर्य्य सेवन कर अच्छे-अच्छे विद्वान् होते हैं, (रुद्रवते) जिस में चवालीस वर्ष तक ब्रह्मचर्य्य सेवन करते हैं, उस (इन्द्राय) परमैश्वर्य्ययुक्त पुरुष के लिये (त्वा) आप को ग्रहण करते हैं। (आदित्यवते) जिसमें अड़तालीस वर्ष तक ब्रह्मचर्य्य सेवन कर सूर्य्यसदृश परम विद्वान् होते हैं, उस (इन्द्राय) उत्तम गुण पाने के लिये (त्वा) आप के (अभिमातिघ्ने) जिस कर्म में बड़े-बड़े अभिमानी शत्रुजन मारे जायें, उस (इन्द्राय) परमोत्कृष्ट शत्रुविदारक काम के लिये (त्वा) आप (सोमभृते) उत्तम ऐश्वर्य धारण करने हारे (श्येनाय) युद्धादि कामों में श्येनपक्षी के तुल्य लपट-भपट मारनेवाले (त्वा) आप (रायस्पोषदे) धन की दृढ़ता देने के लिये और (अग्नये) विद्युद् आदि पदार्थों के गुण प्रकाश कराने के लिये (त्वा) आपको हम स्वीकार करते हैं ॥३२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो इन्द्र, अग्नि, यम, सूर्य, वरुण और धनाढ्य के गुणों से युक्त, विद्वानों का प्रिय, विद्या का प्रचार करनेवाला सबको सुख देवे, उसी को राजा मानना चाहिये ॥३२॥
दयानन्द-सरस्वती (सं) - विषयः
राज्यव्यवहारः सभाधीन एव तर्हि कस्मै प्रयोजनाय प्रजापुरुषैः सभापतिस्स्वीकार्य्य इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सभापते ! वसुमते वयं रुद्रवत इन्द्राय त्वा आदित्यवत इन्द्राय त्वा अभिमातिघ्न इन्द्राय त्वा सोमभृते श्येनाय त्वा रायस्पोषदेऽग्नये त्वा त्वां वृणुमः ॥३२॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - य इन्द्रानिलयमार्काग्निवरुणचन्द्रवित्तेशानां गुणैर्युक्तो विद्वत्प्रियो विद्याप्रचारी सर्वेभ्यः सुखं दद्यात्, स एव सर्वै राजा मन्तव्य इति ॥३२॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - इंद्र (ऐश्वर्यवान) , अग्नी (ज्ञानी) , सूर्य (तेजस्वी) , वरुण (श्रेष्ठ) , यम (नियंता) , लक्ष्मीने युक्त, विद्वानांना प्रिय, विद्येचा प्रसार करणारा व सर्वांना सुख देणारा अशा व्यक्तीला राजा मानावे.
३३ यत्ते सोम
विश्वास-प्रस्तुतिः ...{Loading}...
यत्ते॑ सोम दि॒वि ज्योति॒र्यत्पृ॑थि॒व्यां यदु॒राव॒न्तरि॑क्षे। तेना॒स्मै यज॑मानायो॒रु रा॒ये कृ॒ध्यधि॑ दा॒त्रे वो॑चः ॥३३॥
मूलम् ...{Loading}...
यत्ते॑ सोम दि॒वि ज्योति॒र्यत्पृ॑थि॒व्यां यदु॒राव॒न्तरि॑क्षे। तेना॒स्मै यज॑मानायो॒रु रा॒ये कृ॒ध्यधि॑ दा॒त्रे वो॑चः ॥३३॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यत्। ते॒। सो॒म॒। दि॒वि। ज्योतिः॑। यत्। पृ॒थि॒व्याम्। यत्। उ॒रौ। अ॒न्तरि॑क्षे। तेन॑। अ॒स्मै। यज॑मानाय। उ॒रु। रा॒ये। कृ॒धि॒। अधि॑। दात्रे॒। वो॒चः॒। ३३।
महीधरः
म० ‘यत्त इति मितालम्भनमिति’ (का० ९ । ४ । ९) मितस्योपांशुसवने पञ्चवारं प्रक्षिप्तस्य सोमस्य स्पर्शं कुर्यादिति सूत्रार्थः । सोमदेवत्या विपरीता बृहती आद्यतृतीयावष्टार्णौ द्वितीयतुर्यौ द्वादशार्णौ पादौ सा विपरीता बृहती व्यूहेन द्वादशत्वम् । अस्य मन्त्रस्य श्रुतौ निदानमुक्तम् ‘यदा सोमो देवानां हविरभूत्तदा तिस्रः स्वतनूरेषु लोकेषु न्यदधादिति’ (३।९।४। १२)। तासां तनूनामनेन मन्त्रेण प्राप्तिः क्रियते । हे सोम, दिवि द्युलोके ते तव यज्यो।यतिस्तेजः यच्च पृथिव्यां ज्योतिः उरौ विस्तीर्णे अन्तरिक्षे यत् ज्योतिः शरीरलक्षणं तेन तन्वाख्येन ज्योतिषा अस्मै यजमानाय । विभक्तिव्यत्ययः । अस्य यजमानस्य यज्ञे उरु विस्तीर्णं स्वशरीरं कृधि कुरु । राये धनाय ऋत्विजां दक्षिणाप्राप्तये च उरु शरीरं कृधि । किंच दात्रे अधि वोचः अधिकं ब्रूहि । यजमानाय कृत्स्नशरीरोऽहमागत इति वदेत्यर्थः । वचेर्लुङि ‘वचेरुम्’ (पा० ७ । ४ २०) इति उमागमेऽडभावे च वोच इति मध्यमैकवचने रूपम् । यद्वास्य मन्त्रस्य व्याख्यान्तरम् । हे सोम, त्रिषुयत्त्वदीयं ज्योतिरस्ति तेन ज्योतिषास्मै यजमानाय राये । चतुर्थ्यर्थे तृतीया । राया धनेन समृद्धमुरु विस्तीर्णं स्थानं कृधि । किंच दात्रे फलदायेन्द्राय इति वोचः ब्रूहि । यत् अधि अधिकोऽयं यजमानो भवत्विति ॥ ३३ ॥
चतुस्त्रिंशी।
अधिमन्त्रम् (VC)
- सोमो देवता
- मधुच्छन्दा ऋषिः
- भुरिग् आर्षी बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
ऐसा सभापति प्रजा को क्या लाभ पहुँचा सकता है, यह अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सोम) समस्त ऐश्वर्य के निमित्त प्रेरणा करने हारे सभापति ! (ते) तेरा (यत्) जो (दिवि) सूर्यलोक में (पृथिव्याम्) पृथिवी में और (यत्) जो (उरौ) विस्तृत (अन्तरिक्षे) आकाश में (ज्योतिः) जैसे ज्योति हो, वैसा राजकर्म है (तेन) उससे तू (अस्मै) इस परोपकार के अर्थ (यजमानाय) यज्ञ करते हुए यजमान के लिये (उरु) (कृधि) अत्यन्त उपकार कर तथा (राये) धन बढ़ने के लिये (अधि, वोचः) अधिक-अधिक राज्य-प्रबन्ध कर ॥३३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। सभापति राजा अपने राज्य के उत्कर्ष से सब जनों को निरालस्य करता रहे, जिससे वे पुरुषार्थी होकर धनादि पदार्थों को निरन्तर बढ़ावें ॥३३॥
दयानन्द-सरस्वती (सं) - विषयः
ईदृशः सभापतिः प्रजायै किं प्रापयितुं शक्नोतीत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सोम सभापते ! ते तव यत् दिवि यत् पृथिव्यां यदुरावन्तरिक्षे ज्योतिरिव राज्यकर्मास्ति, तेन त्वं दात्रेऽस्मै यजमानायोरुकृधि रायेऽधिवोचश्च ॥३३॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। सभापतिस्स्वराज्योत्कर्षेण विद्यादिशुभगुणकर्मसु सर्वाञ्जनान् सुशिक्ष्य निरालस्यान् संपादयेत्, यतस्ते पुरुषार्थमनुवर्तिनो भूत्वा धनादिपदार्थान् सततं वर्द्धयेयुरिति ॥३३॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. राजाने आपल्या राज्याचा उत्कर्ष करून लोकांना उद्योगी बनवावे व पुरुषार्थी बनून सतत धन वाढवावे.
३४ श्वात्रा स्थ
विश्वास-प्रस्तुतिः ...{Loading}...
श्वा॒त्रा स्थ॑ वृत्र॒तुरो॒ राधो॑गूर्त्ताऽअ॒मृत॑स्य॒ पत्नीः॑। ता दे॑वीर्देव॒त्रेमं य॒ज्ञं न॑य॒तोप॑हूताः॒ सोम॑स्य पिबत ॥३४॥
मूलम् ...{Loading}...
श्वा॒त्रा स्थ॑ वृत्र॒तुरो॒ राधो॑गूर्त्ताऽअ॒मृत॑स्य॒ पत्नीः॑। ता दे॑वीर्देव॒त्रेमं य॒ज्ञं न॑य॒तोप॑हूताः॒ सोम॑स्य पिबत ॥३४॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
श्वा॒त्राः। स्थ॒। वृ॒त्र॒तुर॒ इति॑ वृत्र॒ऽतुरः॑। राधो॑गूर्त्ता॑ इति॑ राधः॑ऽगूर्त्ताः। अ॒मृत॑स्य। पत्नीः॑। ताः। दे॒वीः॒। दे॒व॒त्रेति॑ देव॒ऽत्रा। इ॒मम्। य॒ज्ञम्। न॒य॒त॒। उप॑हूता॒ इत्यु॑पऽहूताः। सोम॑स्य। पि॒ब॒त॒। ३४।
महीधरः
म० श्वात्रा स्थेत्यासिञ्चति निग्राभ्या इति’ ( का० ९ । ४ १२) । सोमस्योपरि होतृचमसेनैव निग्राभ्या आसिञ्चतीति सूत्रार्थः । पथ्या बृहती तृतीयो द्वादशार्णोऽन्ये त्रयोऽष्टार्णाः पादा यस्याः सा पथ्याबृहती । इयं द्व्यधिका । हे आपः, यूयमेवंविधाः स्थ भवथ । किंभूताः । श्वात्राः । श्वात्रमिति क्षिप्रनाम । क्षिप्रकार्यकारिण्यः शिवा वा । वृत्रतुरः । तूर्वतिर्वधकर्मा । वृत्रं देवं तूर्वन्ति हिंसन्ति ता वृत्रतुरः । क्विपि ‘राल्लोपः’ (पा० ६ । ४ । २१) इति वलोपः । राधोगूर्ताः राधो धनं गुरन्ते उद्यच्छन्ति ददति ता राधोगूर्ताः । ‘गुरी उद्यमे’ अस्मात् ‘नसत्तनिषत्त-’ (पा० ८ । २ । ६१) इत्यादिना कर्तरि क्तो नत्वाभावश्च निपात्यते । अमृतस्य सोमस्य पत्नीः पालयित्र्यः । हे देवीः देव्यः, तास्तथाविधा यूयमिमं यज्ञं देवत्रा देवान् प्रति नयत प्रापयत उपहूता अनुज्ञाताः सत्यो यूयं सोमस्य । कर्मणि षष्ठी । सोमं पिबत ॥ ३४ ॥
पञ्चत्रिंशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- मधुच्छन्दा ऋषिः
- स्वराड् आर्षी पथ्या बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
अब उक्त सभाध्यक्षादिकों की स्त्री कैसे कर्म्म करनेवाली हों, यह अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (देवीः) विद्यायुक्त स्त्रियो ! तुम (वृत्रतुरः) बिजुली के सदृश, मेघ की वर्षा के तुल्य, सुखदायक की गति तुल्य चलने (राधोगूर्त्ताः) धन का उद्योग करने (पत्न्यः) और यज्ञ में सहाय देनेवाली (स्थ) हो (देवत्रा) तथा अच्छे-अच्छे गुणों से प्रकाशित विद्वान् पतियों में प्रीति से स्थित हो, (इमम्) इस यज्ञ को (नयत) सिद्धि को प्राप्त किया कीजिये और (उपहूताः) बुलाई हुई पतियों के साथ (अमृतस्य) अति स्वाद-युक्त सोम आदि ओषधियों के रस को (पिबत) पीओ ॥३४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे विद्वानों की पत्नी स्त्रीजन स्वधर्म व्यवहार से अपने पतियों को प्रसन्न करती हैं, उसी प्रकार पुरुष उन अपनी स्त्रियों को निरन्तर प्रसन्न करें, ऐसे परस्पर अनुमोद से गृहाश्रमधर्म को पूर्ण करें ॥३४॥
दयानन्द-सरस्वती (सं) - विषयः
अथोक्तानां सभापत्यादिविदुषां पत्न्यः कीदृशकर्मानुष्ठात्र्यो भवन्त्वित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे देवीर्देव्यः पत्न्यः स्त्रियो यूयं वृत्रतुर इव राधोगूर्त्ता एव सत्यो यज्ञसहकारिण्यः श्वात्राः स्थ ता देवत्रेमं यज्ञं नयत, उपहूता इवामृतस्य सोमस्यातिस्वादिष्टं सोमाद्योषधिरसं पिबत ॥३४॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा विदुष्यो विद्वत्स्त्रियः स्वधर्मव्यवहारेण स्वपतीन् प्रसादयन्ति, तथैव पुरुषाः स्वाः स्त्रीस्सततं प्रसादयेयुरित्थं परस्परानुमोदेन गृहाश्रमधर्ममलंकुर्वन्तु ॥३४॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जशा विद्वानांच्या स्त्रिया आपल्या धर्मानुसार व्यवहार करून आपल्या पतींना प्रसन्न करतात, त्याचप्रमाणे पुरुषांनीही आपल्या स्त्रियांना सतत प्रसन्न ठेवावे. याप्रमाणे परस्पर आनंदात राहून गृहस्थाश्रम पूर्ण करावा.
३५ मा भेर्मा
विश्वास-प्रस्तुतिः ...{Loading}...
मा भे॒र्मा संवि॑क्था॒ऽऊर्जं॑ धत्स्व॒ धिष॑णे वी॒ड्वी स॒ती वी॑डयेथा॒मूर्जं॑ दधाथाम्। पा॒प्मा ह॒तो न सोमः॑ ॥३५॥
मूलम् ...{Loading}...
मा भे॒र्मा संवि॑क्था॒ऽऊर्जं॑ धत्स्व॒ धिष॑णे वी॒ड्वी स॒ती वी॑डयेथा॒मूर्जं॑ दधाथाम्। पा॒प्मा ह॒तो न सोमः॑ ॥३५॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मा। भेः॒। मा। सम्। वि॒क्थाः॒। ऊर्ज॑म्। ध॒त्स्व॒। धिष॑णे॒ऽइति॑ धिष॑णे। वीड्वीऽइति॑ वी॒ड्वी। स॒ती॑ऽइति॑ स॒ती। वी॒ड॒ये॒था॒म्। ऊ॑र्जम्। द॒धा॒था॒म्। पा॒प्मा। ह॒तः। न। सोमः॑। ३५।
महीधरः
म० मा भेरिति प्रहरतीति’ ( का. ९। ४ । १५) उपांशुसवनेनाश्मना सोमे प्रहरेदिति सूत्रार्थः । अर्ध सौम्यमर्ध द्यावापृथिव्यम् । हे सोम, त्वं मा भेः मा भैषीः । शपो लुकि लङि रूपम् । मा संविक्थाः कम्पनं मा कृथाः । ‘ओविजी भयचलनयोः’ लुङि रूपम् । यतो देवतर्पणायाहं त्वामभिषुणोमि अत ऊर्जं धत्स्व रसं धेहि । एवं सोमं संबोध्य द्यावापृथिव्यौ संबोधयति । हे धिषणे हे द्यावापृथिव्यौ, युवां वीड्वी सती वीडयेथाम् । वीडुशब्दो दृढवचनः । दृढे सत्यावात्मानं दृढं कुरुतम् अस्मादुद्यताद्ग्राव्णः । किंच ऊर्जं दधाथां रसं धत्तम् अस्मिन् सोमे । अनेन तु वज्रसंस्तुतेन ग्राव्णा यजमानस्य पाप्मा हतो न तु सोमः ॥ ३५ ॥
षट्त्रिंशी।
अधिमन्त्रम् (VC)
- द्यावापृथिव्यौ देवते
- मधुच्छन्दा ऋषिः
- भुरिग् आर्षी अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर स्त्री पुरुष परस्पर कैसा वर्त्ताव वर्त्तें, यह उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्री ! तू (विड्वी) शरीरात्मबलयुक्त होती हुई पति से (मा, भेः) मत डर (मा संविक्थाः) मत कँप और (ऊर्ज्जम्) देह और आत्मा के बल और पराक्रम को (धत्स्व) धारण कर। हे पुरुष ! तू भी वैसे ही अपनी स्त्री से वर्त। तुम दोनों स्त्री-पुरुष (धिषणे) सूर्य्य और भूमि के समान परोपकार और पराक्रम को धारण करो, जिससे (वीडयेथाम्) दृढ़ बलवाले हो, ऐसा वर्ताव वर्त्तते हुए तुम दोनों का (पाप्मा) अपराध (हतः) नष्ट हो और (सोमः) चन्द्र के तुल्य आनन्द शान्त्यादि गुण बढ़ा कर एक-दूसरे का आनन्द बढ़ाते रहो ॥३५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। स्त्री-पुरुष ऐसे व्यवहार में वर्त्तें कि जिससे उनका परस्पर भय, उद्वेग नष्ट होकर आत्मा की दृढ़ता, उत्साह और गृहाश्रम व्यवहार की सिद्धि से ऐश्वर्य्य बढ़े और दोष तथा दुःख को छोड़ चन्द्रमा के तुल्य आह्लादित हों ॥३५॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स्त्रीपुरुषौ परस्परं कथं वर्त्तेयातामित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! त्वं वीड्वी सती पत्युः सकाशान्मा भेर्मा संविक्था ऊर्ज्जं धत्स्व। हे पुरुष ! त्वमप्येवं भवेः, युवां धिषणे इवोर्ज्जं दधाथां वीडयेथाम्। एवमनुवर्तिनोर्युवयोः पाप्मा हतो भवतु, सोमो न चन्द्र इवाह्लादशान्त्यादिगुणवृन्दः प्रकाशितो भवतु ॥३५॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। इत्थं स्त्रीपुरुषौ व्यवहारमनुवर्त्तेयाताम्, यतः परस्परं भयोद्वेगौ नश्येतामात्मनो दृढोत्साहः प्रीतिर्गृहाश्रमव्यवहारसिद्धिरैश्वर्य्यं च वर्द्धेत, दोषदुःखानि निवर्त्त्य चन्द्र इव परस्परमाह्लादकारिणौ भवेताम् ॥३५॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचक लुप्तोपमालंकार आहे. स्त्री-पुरुषांनी असा व्यवहार करावा की, ज्यामुळे परस्पर भय व उद्वेग नष्ट होऊन आत्म्यामध्ये दृढता, उत्साह व गृहस्थाश्रमाचे ऐश्वर्य वाढावे. त्यांनी दोष व दुःख दूर करून चंद्राप्रमाणे आल्हादित व्हावे.
३६ प्रागपागुदगधराक्सर्वतस्त्वा दिशऽआधावन्तु
विश्वास-प्रस्तुतिः ...{Loading}...
प्रागपा॒गुद॑गध॒राक्स॒र्वत॑स्त्वा॒ दिश॒ऽआधा॑वन्तु। अम्ब॒ निष्प॑र॒ सम॒रीर्वि॑दाम् ॥३६॥
मूलम् ...{Loading}...
प्रागपा॒गुद॑गध॒राक्स॒र्वत॑स्त्वा॒ दिश॒ऽआधा॑वन्तु। अम्ब॒ निष्प॑र॒ सम॒रीर्वि॑दाम् ॥३६॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्राक्। अपा॑क्। उद॑क्। अ॒ध॒राक्। स॒र्वतः॑। त्वा॒। दिशः॑। आ। धा॒व॒न्तु॒। अम्ब॑। निः। प॒र॒। सम्। अ॒रीः। वि॒दा॒म्। ३६।
महीधरः
म० प्रतिवर्गं निग्राभं वाचयति होतृचमसेऽल्पानᳪं᳭शूनवधाय प्रागपागिति’ (का० ९ । ४ । २० ) प्रतिप्रहारवर्गं होतृचमसमध्ये स्तोकान्सोमांशून्निधाय प्रागपागिति ऋग्द्वयं निग्राभसंज्ञं यजमानं वाचयेदिति सूत्रार्थः । सोमदेवत्योष्णिक् । सोमो दिग्भिर्मिथुनमैच्छत्तच्च देवाः संपादितवन्तस्तदेतदृचाभ्युक्तम् । हे सोम, प्राक् प्रागञ्चनाः अपाक् अपागञ्चनाः दक्षिणाः पश्चिमाश्च उदक् उदगञ्चना उत्तराः अधराक् अधराञ्चनाः एवं प्रागादयः सर्वा दिशः सर्वतः स्वस्वप्रदेशात्त्वा त्वामाधावन्तु आभिमुख्येन गच्छन्तु । परस्परं किं भाषमाणास्त्वामभिधावन्त्विति तदाह । हे अम्ब हे मातः, निष्पर स्वैर्भागैः सोमं पूरय । ‘पॄ पालनपूरणयोः’ विकरणव्यत्यये लोटि रूपम् । किं प्रयोजनमिति चेत् । अरीः अर्यः प्रजाः संविदा संविदताम् ‘प्रजा वा अरीः’ (३ । ९ । ४ । २१ ) इति श्रुतिः । अस्माकं सोमसमागमं नानादिग्वासिनो जना जानन्त्वित्यर्थः । इति भाषमाणास्त्वामागच्छन्तु । ‘विद ज्ञाने’ अस्माल्लटि तङि प्रथमाबहुवचने ‘आत्मनेपदेष्वनतः’ (पा. ७ । १ । ५) इति झस्यादादेशे ‘लोपस्त आत्मनेपदेषु’ ( पा० ७ । १ । ४१ ) इति । तकारलोपे सवर्णदीर्घे विदामिति रूपम् । ‘समो गम्’ (पा० १। ३ । २९ ) इत्यादिना तङ् ॥ ३६ ॥
सप्तत्रिंशी।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां षष्ठोऽध्यायः ॥६॥
अधिमन्त्रम् (VC)
- सोमो देवता
- मधुच्छन्दा ऋषिः
- पुरोष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
अब उनके पुत्र क्या-क्या करें और वे पुत्रों को कैसे पालें, यह अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अम्ब) प्रेम से प्राप्त होनेवाली माता ! जो तेरी (अरीः) सन्तानादि प्रजा (प्राक्) पूर्व (अपाक्) पश्चिम (उदक्) उत्तर (अधराक्) दक्षिण और भी (सर्वतः) सब (दिशः) दिशाओं से (त्वा) तुझे (आ) (धावन्तु) धाय-धाय प्राप्त हों, उन्हें (निः) निरन्तर (पर) प्यार कर और वे भी तुझे (सम्) अच्छे भाव से जानें ॥३६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - माता और पिता को योग्य है कि अपने सन्तानों को विद्यादि अच्छे-अच्छे गुणों मे प्रवृत्त कराकर अच्छे प्रकार उन के शरीर की रक्षा करें अर्थात् जिससे वे नीरोग शरीर और उत्साह के साथ गुण सीखें और उन पुत्रों को योग्य है कि माता-पिता की सब प्रकार से सेवा करें ॥३६॥
दयानन्द-सरस्वती (सं) - विषयः
अथैतयोरपत्यानि किं किं कुर्युस्तौ कथं पालयेयुरित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अम्ब ! त्वं या अरीः सुखप्रापिका प्रजास्ते प्रागपागुदगधराक् सर्वतो दिशस्त्वामाधावन्तु, तास्त्वं निष्पर नितरां रक्ष, ता अपि त्वा त्वां संविदां जानन्तु ॥३६॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मातापित्रोर्योग्यतास्ति स्वापत्यानि विद्यादिसद्गुणेषु नियोज्य निरन्तरं रक्षणीयानि, अपत्यानां योग्यतास्ति सर्वतः पित्रोः सेवनं कुर्य्युरिति ॥३६॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - आई-वडिलांनी आपल्या संतानांना विद्या शिकवून चांगल्या गुणांकडे प्रवृत्त करावे व त्यांच्या शरीराचे रक्षण करावे. अर्थात् त्यामुळे ते निरोगी, उत्साही व गुणी बनावेत. पुत्रांचे हे कर्तव्य आहे की, त्यांनी आपली माता व पिता यांची सेवा करावी.
३७ त्वमङ्ग प्रशंसिषो
विश्वास-प्रस्तुतिः ...{Loading}...
त्वम॒ङ्ग प्रशँ॑सिषो दे॒वः श॑विष्ठ॒ मर्त्य॑म्। न त्वद॒न्यो म॑घवन्नस्ति मर्डि॒तेन्द्र॒ ब्रवी॑मि ते॒ वचः॑ ॥३७॥
मूलम् ...{Loading}...
त्वम॒ङ्ग प्रशँ॑सिषो दे॒वः श॑विष्ठ॒ मर्त्य॑म्। न त्वद॒न्यो म॑घवन्नस्ति मर्डि॒तेन्द्र॒ ब्रवी॑मि ते॒ वचः॑ ॥३७॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
त्वम्। अ॒ङ्ग। प्र॒। शँ॒सि॒षः॒। दे॒वः। श॒वि॒ष्ठ॒। मर्त्य॑म्। न। त्वत्। अ॒न्यः। म॒घ॒व॒न्निति॑ मघऽवन्। अ॒स्ति॒। म॒र्डि॒ता। इन्द्र॑। ब्र॒वीमि॒। ते॒। वचः॑। ३७।
महीधरः
म० इन्द्रदेवत्या पथ्याबृहती गोतमदृष्टा । अङ्गेति क्षिप्रनाम । हे शविष्ठ अतिशयेन बलवन् इन्द्र, देवः दीप्यमानस्त्वं मर्त्यं मनुष्यं यजमानं प्रशंसिषः प्रशंससि स्तोषि । समीचीनोऽयं यजमानो होता श्रद्धावानित्यादिस्तुतिं करोषीत्यर्थः । ‘शंसु हिंसास्तुत्योः’ लिडर्थे लेट् मध्यमैकवचने सिबादेशः ‘सिब्बहुलं लेटि’ (३।१।३४) इति सिप्प्रत्ययः तस्य ‘आर्धधातुकस्येड्वलादेः (पा० ७ । २ । ३५ ) इति इडागमः ‘लेटोऽडाटौ’ (पा० ३ । ४ । ९४ ) इति सिपोऽडागमः ‘इतश्च लोपः परस्मैपदेषु’ (पा० ३ । ४ । ९७ ) इति सिप इकारलोपः । तस्य रुत्वविसर्गौ षत्वम् । प्रशंसिष इति रूपम् ‘तिङ्ङतिङः’ (पा० ८ । १ २८ ) इति सर्वानुदात्तत्वम् । किंच हे मघवन् हे धनवन् इन्द्र, मर्डिता ‘मृड सुखने’ मृडीति मर्डिता यजमानस्य सुखयिता त्वदन्यो नास्ति न विद्यते । अतो हे इन्द्र, ते तव वचः त्वमेव सुखयितेत्येवंरूपं त्वदीयं वचनमहं ब्रवीमि वदामि ॥३७॥
श्रीमन्महीधरकृते वेददीपे मनोहरे । अभ्र्यादानाद्वाचनान्तः षष्ठोऽध्यायः समीरितः ॥ ६ ॥
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- गोतम ऋषिः
- भुरिग् आर्षी अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब प्रजाजन किये हुए सभापति की प्रशंसा कैसे करें, यह अगले मन्त्र में उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अङ्ग) (शविष्ठ) अत्यन्त बलयुक्त (मघवन्) महाराज के समान (इन्द्र) ऋद्धि-सिद्धि देनेहारे सभापते ! (त्वम्) आप (मर्त्यम्) प्रजास्थ मनुष्य को (प्रशंसिषः) प्रशंसायुक्त कीजिये। आप (देवः) देव अर्थात् शत्रुओं को अच्छे प्रकार जीतनेवाले हैं (न) नहीं (त्वदन्यः) तुमसे अन्य (मर्डिता) सुख देनेवाला है, ऐसा मैं (ते) आप को (वचः) पूर्वोक्त राज्यप्रबन्ध के अनुकूल वचन (ब्रवीमि) कहता हूँ ॥३७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे ईश्वर सर्वसुहृत्, पक्षपातरहित है, वैसे सभापति राज्यधर्म्मानुवर्त्ती राजा होकर प्रशंसनीय की प्रशंसा, निन्दनीय की निन्दा, दुष्ट को दण्ड, श्रेष्ठ की रक्षा करके सब का अभीष्ट सिद्ध करे ॥३७॥ इस अध्याय में राज्य के अभिषेकपूर्वक शिक्षा, राज्य का कृत्य, प्रजा को राजा का आश्रय, सभाध्यक्षादिकों का काम, विष्णु का परमपद वर्णन, सभाध्यक्ष को ईश्वरोपासना करनी, राजा प्रजा का आपस में कृत्य, गुरु को शिष्य का स्वीकार और उस शिष्य को शिक्षा करना, यज्ञ का अनुष्ठान, होम किये द्रव्य के फल का वर्णन, विद्वानों के लक्षण, मनुष्यकृत्य, मनुष्यों का परस्पर वर्तमान, दुष्ट दोष निवृत्ति फल, ईश्वर से क्या-क्या प्रार्थना करनी चाहिये, रण में योद्धा का वर्णन, युद्धकृत्य का निरूपण, युद्ध में परस्पर वर्ताव का प्रकार, वीरों को उत्साह देना, राज्यप्रबन्ध का करना और साध्य साधन, राजा के प्रति ईश्वरोपदेश, राज्यकर्म का अनुष्ठान, राजा और प्रजा का कृत्य, राजा और प्रजा की सभाओं का परस्पर वर्ताव, प्रजा से सभापति का उत्कर्ष करना, प्रजाजन के प्रति सभापति की प्रेरणा, प्रजा को स्वीकार करने के योग्यल सभापति का लक्षण, प्रजा और राजसभा की परस्पर प्रतिज्ञा करनी, सभापति के स्वीकार करने का प्रयोजन, प्रजासुख के लिये सभापति के कामों का अनुष्ठान, सभापत्यादिकों की पत्नियों को क्या करना चाहिये, स्त्री पुरुषों का परस्पर वर्ताव, माता पिता के प्रति सन्तानों का काम और सभापति के प्रति प्रजाजनों का उपदेश वर्णन है, इस से पञ्चम अध्याय में कहे हुए अर्थों के साथ इस छठे अध्याय के अर्थों की सङ्गति है, ऐसा जानना चाहिये ॥
दयानन्द-सरस्वती (सं) - विषयः
अथ प्रजाजनाः कृतं सभापतिं कथं प्रशंसेयुरित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अङ्ग शविष्ठ मघवन्निन्द्र सभापते ! त्वं मर्त्यं प्रशंसिषो न त्वदन्यो मर्डिता देवोस्त्यतोऽहं ते तुभ्यं वचो ब्रवीमि ॥३७॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा पक्षपातविरहः सर्वसुहृदीश्वरस्तदनुकूलः सभापती राज्यधर्म्मानुवर्त्ती राजा प्रशंसनीयं प्रशंसयन्, निन्द्यं निदन्, दण्डार्हं दण्डयन्, रक्षितव्यं रक्षन् सर्वेषामभीष्टं सम्पादयेत् ॥३७॥ अत्राध्याये राज्याभिषेकपुरःसरं शिक्षा, राज्यकृत्यम्, प्रजाया राजाश्रयः, सभाध्यक्षादिकृत्यम्, विष्णोः परमपदादिवर्णनम्, सभाध्यक्षेण तदुपासनम्, परस्परं राजसभाकृत्यम्, गुरुणा शिष्यस्वीकारस्तच्छिक्षाकरणम्, यज्ञानुष्ठानम्, हुतद्रव्यफलम्, विद्वल्लक्षणम्, मनुष्यकृत्यम्, मनुष्याणां परस्परं वर्तनम्, दुष्टदोषनिवृत्तिफलम्, ईश्वरात् किं किं प्रार्थनीयम्, रणे योद्धृवर्णनम्, युद्धकृत्यम्, युद्धेऽन्योन्यवर्त्तमानप्रकारो योद्धॄणामनुमोदनम्, राज्यप्रबन्धकरणम्, तत्र साध्यसाधनम्, राज्यकर्मकरणम्, प्रतीश्वरोपदेशो राज्यकर्मानुष्ठानम्, राजप्रजाकृत्यम्, प्रजाराजसभयोः परस्परानुवर्तनम्, प्रजया सभापत्युत्कर्षकरणम्, प्रजाजनं प्रति सभापतिप्रेरणम्, प्रजया स्वीकर्तव्यम्, सभापतेर्लक्षणम्, प्रजाराजसभयोः परस्परं प्रतिज्ञाकरणम्, सभापतिस्वीकरणप्रयोजनम्, प्रजासुखाय सभापतेः कर्तव्यकर्मानुष्ठानम्, सभापत्यादीनां पत्नीभिः किं किं कर्म कर्तव्यम्, स्त्रीपुंसयोः परस्परमनुवर्त्तमानम्, पितरौ प्रति सन्तानकृत्यम्, सभापतिं प्रति प्रजाजनोपदेशवर्णनं चास्तीत्यतः पञ्चमाध्यायोक्तार्थैः सहास्य षष्ठाध्यायस्यार्थानां सङ्गतिरस्तीति वेद्यम् ॥ इति श्रीमत्परिव्राजकाचार्य्येण श्रीयुतमहाविदुषां विरजानन्दसरस्वतीस्वामिनां शिष्येण दयानदसरस्वतीस्वामिना विरचिते संस्कृतार्य्यभाषाभ्यां विभूषिते सुप्रमाणयुक्ते यजुर्वेदभाष्ये षष्ठोऽध्यायः पूर्तिमगात् ॥६॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जसा ईश्वर सर्वांचा सुहृद व पक्षपातरहित असतो तसे राजाने धर्मानुसार राज्य चालवावे व प्रशंसा करण्यायोग्य व्यक्ती असेल तर तिची प्रशंसा व निंदा करण्यायोग्य असेल तर तिची निंदा करून दुष्ट लोकांना शिक्षा करावी व श्रेष्ठांचे रक्षण करावे आणि सर्वांचे कल्याण करावे.