०१ अग्नेस्तनूरसि विष्णवे
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्नेस्त॒नूर॑सि॒ विष्ण॑वे त्वा॒ सोम॑स्य त॒नूर॑सि॒ विष्ण॑वे॒ त्वा॒ऽति॑थेराति॒थ्यम॑सि॒ विष्ण॑वे त्वा श्ये॒नाय॑ त्वा सोम॒भृते॒ विष्ण॑वे त्वा॒ऽग्नये॑ त्वा रायस्पोष॒दे विष्ण॑वे त्वा ॥१॥
मूलम् ...{Loading}...
अ॒ग्नेस्त॒नूर॑सि॒ विष्ण॑वे त्वा॒ सोम॑स्य त॒नूर॑सि॒ विष्ण॑वे॒ त्वा॒ऽति॑थेराति॒थ्यम॑सि॒ विष्ण॑वे त्वा श्ये॒नाय॑ त्वा सोम॒भृते॒ विष्ण॑वे त्वा॒ऽग्नये॑ त्वा रायस्पोष॒दे विष्ण॑वे त्वा ॥१॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒ग्नेः। त॒नूः। अ॒सि॒। विष्ण॑वे। त्वा॒ सोम॑स्य। त॒नूः अ॒सि॒। विष्ण॑वे। त्वा॒। अति॑थेः। आ॒ति॒थ्यम्। अ॒सि॒। विष्ण॑वे। त्वा॒। श्येनाय॑। त्वा॒। सो॒म॒भृत॒ इति॑ सोम॒ऽभृते॑। विष्ण॑वे। त्वा॒। अ॒ग्नये॑। त्वा॒। रा॒य॒स्पो॒ष॒द इति॑ रायस्पोष॒ऽदे। विष्ण॑वे। त्वा॒। १।
महीधरः
म० चतुर्थेऽध्याये सर्त्विग्यजमानस्य शालाप्रवेशमारभ्य क्रीतसोमस्य शालाप्रवेशपर्यन्ता मन्त्रा उक्ताः । अथ पञ्चमोऽध्यायस्तत्रादौ आतिथ्येष्टौ हविर्ग्रहणादिमन्त्रा उच्यन्ते । ‘निर्वपेदग्नेस्तनूरिति पञ्चकृत्वः प्रतिमन्त्रमिति’ (का० ८ । १।४) । पञ्च यजूंषि वैष्णवानि । हे हविः, त्वमग्नेस्तनूरसि अग्निसंज्ञो यो देवः सोमस्य राज्ञो भृत्यस्तस्य गायत्रीच्छन्दोऽधिष्ठातुस्तनूः शरीरं भवसि तृप्तिजनकत्वात् तथाविध हे हविः, विष्णवे बहुयज्ञव्यापिने सोमाय सोमप्रीत्यर्थं त्वा त्वां निर्वपामीति शेषः । सोमस्य तनूरसि । सोमसंज्ञः कश्चित्सोमस्य राज्ञो भृत्यस्त्रिष्टुप्छन्दोधिष्ठाता तस्य तृप्तिहेतुत्वात्तनूरसि । अन्यत्पूर्ववत् । अतिथेरातिथ्यमसि । अतिथिसंज्ञः सोमराजानुचरो जगतीच्छन्दोधिष्ठाता । हे हविः,. त्वमतिथेरतिथिसंज्ञस्य सोमभृत्यस्य आतिथ्यमसि आतिथ्यनामसंस्काररूपमसि । तिथिविशेषं विनैवातिक्षुधया पीडिते विप्रेऽतिथौ समागते तत्सत्काराय क्रियमाणः पादक्षालनभोजनसंवहनादिसंस्कार आतिथ्यमुच्यते । अतिथेरिदमातिथ्यम् ‘अतिथेर्ञ्यः’ (पा० ५। ४ । २६) इति ञ्यप्रत्ययः । विष्णवे त्वां निर्वपामीति पूर्ववत् । श्येनाय त्वा सोमभृते । श्येनो नाम देवः सोमराजानुचरः स्वर्गात्सोमहर्ता श्येनरूपधारिगायत्र्यधिष्ठाता तस्मै श्येनाय विष्णवे सोमाय च त्वां निर्वपामि । किंभूताय श्येनाय । सोमभृते सोमं हरति आनयतीति सोमहृत्तस्मै । ‘हृग्रहोर्भश्छन्दसि’ (पा० ८।२। ३२) इति हरतेर्हस्य भः । सोमानयनकर्त्रे । तथाच श्रुतिः ‘सा यद्गायत्री श्येनो भूत्वा दिवः सोममाहरदिति’ (३ । ४ । १ । १२) । अग्नये त्वा रायस्पोषदे । रायस्पोषं धनपुष्टिं ददाति रायस्पोषदाः तस्मै । क्विप्प्रत्ययः । राज्ञो धनं क्रयविक्रयादिना बहुधा पोषयित्वा राज्ञेऽर्पयति स रायस्पोषदाः अग्निसंज्ञोऽपरः सोमानुचरोऽस्ति अनुक्तच्छन्दोऽधिष्ठाता देवः तस्मै धनपुष्टिदायिनेऽग्नये हे हविः, त्वा त्वां गृह्णामि । विष्णवे त्वेति पूर्ववत् । विष्णुशब्दाभिधेयस्य सोमस्य राज्ञो हविषा तदनुचराणामग्न्यादिदेवानां तद्द्वारा तत्संबन्धिनां गायत्र्यादिच्छन्दसां च तृप्तिर्भवति । तदाह तित्तिरिः ‘यावद्भिर्वै राजानुचरैरागच्छति सर्वेभ्यो वै तेभ्य आतिथ्यं क्रियते छन्दाᳪं᳭सि खलु वै सोमस्य राज्ञोऽनुचराणि’ इति ॥१॥
द्वितीया ।
अधिमन्त्रम् (VC)
- विष्णुर्देवता
- गोतम ऋषिः
- स्वराड् ब्राह्मी बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
किस-किस प्रयोजन के लिये यज्ञ का अनुष्ठान करना योग्य है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोग जैसे मैं जो हवि (अग्नेः) बिजुली प्रसिद्ध रूप अग्नि के (तनूः) शरीर के समान (असि) है (त्वा) उसको (विष्णवे) यज्ञ की सिद्धि के लिये स्वीकार करता हूँ, जो (सोमस्य) जगत् में उत्पन्न हुए पदार्थ-समूह की (तनूः) विस्तारपूर्वक सामग्री (असि) है (त्वा) उसको (विष्णवे) वायु की शुद्धि के लिये उपयोग करता हूँ, जो (अतिथेः) संन्यासी आदि का (आतिथ्यम्) अतिथिपन वा उनकी सेवारूप कर्म (असि) है (त्वा) उसको (विष्णवे) विज्ञान यज्ञ की प्राप्ति के लिये ग्रहण करता हूँ, जो (श्येनाय) श्येनपक्षी के समान शीघ्र जाने के लिये (असि) है (त्वा) उस द्रव्य को अग्नि आदि में छोड़ता हूँ, जो (विष्णवे) सब विद्या कर्मयुक्त (सोमभृते) सोमों को धारण करनेवाले यजमान के लिय सुख (असि) है (त्वा) उसको ग्रहण करता हूँ। जो (अग्नये) अग्नि बढ़ाने के लिये काष्ठ आदि हैं (त्वा) उसको स्वीकार करता हूँ। जो (रायस्पोषदे) धन की पुष्टि देने वा (विष्णवे) उत्तम गुण, कर्म, विद्या की व्याप्ति के लिये समर्थ पदार्थ है (त्वा) उसको ग्रहण करता हूँ, वैसे इन सब का सेवन तुम भी किया करो ॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को उचित है कि पूर्वोक्त फल की प्राप्ति के लिये तीन प्रकार के यज्ञ का अनुष्ठान नित्य करें ॥१॥
दयानन्द-सरस्वती (सं) - विषयः
अथ किमर्थो यज्ञोऽनुष्ठातव्य इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्या ! यथाऽहं यद्धविरग्नेस्तनूरसि भवति त्वा तद्विष्णवे स्वीकरोमि। या सोमस्य सामग्र्यसि भवति, त्वा तां विष्णव उपयुञ्जामि। यदतिथेरातिथ्यमसि वर्त्तते त्वा तद्विष्णवे परिगृह्णामि, यछ्येनवच्छीघ्रगमनाय प्रवर्त्तते त्वा तदग्न्यादिषु प्रक्षिपामि। यत्कर्म विष्णवे सोमभृते वर्त्तते त्वा तदाददे, यदग्नये वरीवृत्यते त्वा तत्स्वीकरोमि। यद् रायस्पोषदे विष्णवे समर्थकमस्ति त्वा तत् संगृह्णामि, तथैवैतत् सर्वं यूयमपि सेवध्वम् ॥१॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैरेतत्फलप्राप्तये त्रिविधो यज्ञो नित्यमनुष्ठेय इति ॥१॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. पूर्वोक्त फळ प्राप्त व्हावे, यासाठी तीन प्रकारच्या यज्ञांचे अनुष्ठान करावे.
०२ अग्नेर्जनित्रमसि वृषणौ
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्नेर्ज॒नित्र॑मसि॒ वृष॑णौ स्थऽउ॒र्वश्य॑स्या॒युर॑सि पुरू॒रवा॑ऽअसि। गा॒य॒त्रेण॑ त्वा॒ छन्द॑सा मन्थामि॒ त्रैष्टु॑भेन त्वा॒ छन्द॑सा मन्थामि॒ जाग॑तेन त्वा॒ छन्द॑सा मन्थामि ॥२॥
मूलम् ...{Loading}...
अ॒ग्नेर्ज॒नित्र॑मसि॒ वृष॑णौ स्थऽउ॒र्वश्य॑स्या॒युर॑सि पुरू॒रवा॑ऽअसि। गा॒य॒त्रेण॑ त्वा॒ छन्द॑सा मन्थामि॒ त्रैष्टु॑भेन त्वा॒ छन्द॑सा मन्थामि॒ जाग॑तेन त्वा॒ छन्द॑सा मन्थामि ॥२॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒ग्नेः। ज॒नित्र॑म्। अ॒सि॒। वृष॑णौ। स्थः॒। उ॒र्वशी॑। अ॒सि॒। आ॒युः। अ॒सि॒। पु॒रू॒रवाः॑। अ॒सि॒। गा॒य॒त्रेण॑। त्वा॒। छन्द॑सा। म॒न्था॒मि॒। त्रैष्टु॑भेन। त्वा॒। छन्द॑सा। म॒न्था॒मि॒। जाग॑तेन। त्वा॒। छन्द॑सा। म॒न्था॒मि॒। २।
महीधरः
म० अथाग्निनयनमन्त्राः । ‘अग्नेर्जनित्रमिति शकलमादाय वेद्यां करोतीति’ ( का० ५। १।२८) । शकलदैवतं यजुः । हे शकल, त्वमग्नेर्जनित्रं जननाधारभूतमसि । जायतेऽस्मिन्निति जनित्रम् । ‘वृषणाविति कुशतरुणे तस्मिन्निति’ (का० ५। १ । २९) । तस्मिञ्शकले करोतीत्यर्थः । मन्त्रार्थस्तु । हे दर्भौ, युवां वृषणौ सेक्तारौ स्थः भवथः । वर्षत इति वृषणौ । कनिन्प्रत्ययः । यथा पुत्रजननाय स्त्रीपुरुषौ वीर्यस्य सेक्तारौ तद्वद्युवामप्यरण्योरग्निजननसामर्थ्यसंपादकावित्यर्थः । ‘उर्वश्यसीत्यधरारणिं तयोरिति’ (का० ५।१।३०)। शकलस्थापितयोर्दर्भयोरधरारणिं निदध्यादिति सूत्रार्थः । हे अधरारणे, त्वमुर्वशी असि । यथोर्वशी पुरूरवोनृपस्य भोगायाधस्ताच्छेते तद्वत्त्वमधोऽवस्थितासीत्यर्थः । ‘आयुरसीत्युत्तरयाज्यस्थालीᳪं᳭ सᳪं᳭स्पृशेदिति’ (का० ५।१। ३१)। उत्तरारण्याज्यस्थालीं स्पृशेदिति सूत्रार्थः । हे स्थालीगताज्य, त्वमायुरसि अरणिद्वयेन जनिष्यमाणस्याग्नेरायुःप्रदं भवसि । ‘पुरूरवा इत्यभिनिधानं तयेति’ (का० ५।१। ३१)। अधरारणेरभिमुखीमुत्तरारणिं निदध्यादिति सूत्रार्थः । हे उत्तरारणे, त्वं पुरूरवा असि । यथा पुरूरवा नृप उर्वश्या अभिमुख उपरि वर्तते तथा त्वमपीत्यर्थः । उर्वशीत्यादिमन्त्रत्रयं श्रुत्या व्याख्यातम् । ‘उर्वशी वा अप्सराः पुरूरवाः पतिरथ यत्तस्मान्मिथुनादजायत तदायुरिति’ (३।४।१। २२)। ‘मन्थति गायत्रेणेति प्रतिमन्त्रं त्रिः प्रदक्षिणमिति’ (का० ५।२।२) । मत्रत्रयेणारण्योर्मन्थनं कुर्यात् । हे अग्ने, गायत्रेण छन्दसा गायत्रीच्छन्दोभिमानिना देवेनाहं त्वा त्वां मन्थामि अरण्योर्मन्थनेनोत्पादयामि । एवमुत्तरावपि मन्त्रौ योज्यौ ॥२॥
तृतीया ।
अधिमन्त्रम् (VC)
- विष्णुर्यज्ञो देवता
- गोतम ऋषिः
- आर्षी गायत्री
- षड्जः, धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह यज्ञ कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य लोगो ! जैसे मैं जो (अग्नेः) आग्नेय अस्त्रादि की सिद्धि करने हारे अग्नि के (जनित्रम्) उत्पन्न करनेवाला हवि (असि) है, (वृषणौ) जो वर्षा करानेवाले सूर्य्य और वायु (स्थः) हैं, जो (उर्वशी) बहुत सुखों के प्राप्त करानेवाली क्रिया (असि) है, जो (आयुः) जीवन (असि) है, जो (पुरूरवाः) बहुत शास्त्रों के उपदेश करने का निमित्त (असि) है, (त्वा) उस अग्नि (गायत्रेण) गायत्री (छन्दसा) आनन्दकारक स्वच्छन्द क्रिया से (मन्थामि) विलोडन करता हूँ (त्वा) उस सोम आदि ओषधीसमूह (त्रैष्टुभेन) त्रिष्टुप् (छन्दसा) छन्द से (मन्थामि) विलोडन करता हूँ (त्वा) और उस शत्रु दुःखसमूह को (जागतेन) जगती (छन्दसा) छन्द से (मन्थामि) ताड़न करके निवारण करता हूँ, वैसे ही तुम भी किया करो ॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। सब मनुष्यों को योग्य है कि इस प्रकार की रीति से प्रतिपादन वा सेवन किये हुए यज्ञ से दूसरे मनुष्यों के लिये परोपकार करें ॥२॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स यज्ञः कीदृश इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्या ! यथाऽहं यदग्नेर्जनित्रमसि भवति, यौ वृषणौ स्थो भवतो या उर्वश्यसि भवति, यः पुरूरवाः असि भवति, त्वा तं गायत्रेण छन्दसा मन्थामि, त्वा तं त्रैष्टुभेन छन्दसा मन्थामि, त्वा तं जागतेन छन्दसा मन्थामि तथैव यूयमप्येतत्सर्वमनुष्ठायैतानि निष्पादयत ॥२॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। सर्वैर्मनुष्यैरेवं रीत्योक्तेन यज्ञेन परोपकारकरणं सम्पादनीयम् ॥२॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. सर्व माणसांनी या प्रकारे केलेल्या यज्ञाने दुसऱ्या माणसांवर उपकार करावा.
०३ भवतं नः
विश्वास-प्रस्तुतिः ...{Loading}...
भव॑तं नः॒ सम॑नसौ॒ सचे॑तसावरे॒पसौ॑। मा य॒ज्ञँ हिँ॑सिष्टं॒ मा य॒ज्ञप॑तिं जातवेदसौ शि॒वौ भ॑वतम॒द्य नः॑ ॥३॥
मूलम् ...{Loading}...
भव॑तं नः॒ सम॑नसौ॒ सचे॑तसावरे॒पसौ॑। मा य॒ज्ञँ हिँ॑सिष्टं॒ मा य॒ज्ञप॑तिं जातवेदसौ शि॒वौ भ॑वतम॒द्य नः॑ ॥३॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
भव॑तम्। नः॒। सम॑नसा॒विति॒ सऽम॑नसौ। सचे॑तसा॒विति॒ सऽचे॑तसौ। अ॒रे॒पसौ॑। मा। य॒ज्ञम्। हिँ॒सि॒ष्ट॒म्। मा। य॒ज्ञप॑ति॒मिति॑ य॒ज्ञऽप॑तिम्। जा॒त॒वे॒द॒सा॒विति॑ जातऽवेदसौ। शि॒वौ। भ॒व॒त॒म्। अ॒द्य। नः॒। ३।
महीधरः
म० ‘भवतं न इति प्रास्यतीति’ (का० ५।२।३)। मन्थनोत्थमग्निमाहवनीये प्रास्यतीत्यर्थः । पङ्क्तिः । यस्याः अष्टार्णाः पञ्च पादाः सा पङ्क्तिः । अत्र तु तृतीयः षडक्षरः चतुर्थो दशार्णः । निर्मथ्याहवनीयावग्नी देवते । हे जातवेदसावुभावग्नी, नोऽस्मदर्थं युवामीदृशौ भक्तम् । किंभूतो युवाम् । समनसौ मनसा सहितौ । तथा सचेतसौ समानं चेतो ययोस्तौ परस्परं समानचित्तयुक्तौ । अन्यविषयं मनः परिहृत्यास्मदनुग्रहाभिमुखत्वं समनस्त्वम् । अनुग्रहे परस्परविप्रतिपत्तिराहित्यं सचेतस्त्वम् । तथा अरेपसौ पापरहितौ प्रमादादस्माभिः कृतेऽपि पापे कोपाभावः पापरहित्यम् । . तदेव स्पष्टयति । यज्ञमस्मत्कर्म मा हिसिष्टं मा विनाशयतम् । यज्ञपतिं यजमानं च मा हिᳪं᳭सिष्टम् । तथा अद्यास्मिन्ननुष्ठानदिने नोऽस्मदर्थं शिवौ शान्तौ कल्याणकारिणौ भवतं पूर्वोक्तविधिना ॥३॥
चतुर्थी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- गोतम ऋषिः
- आर्षी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
यजमान और यज्ञ की सिद्धि करनेवाले विद्वान् कैसे होने चाहियें, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (अरेपसौ) प्राकृत मनुष्यों के भाषारूपी वचन से रहित (समनसौ) तुल्य विस्तारयुक्त (सचेतसौ) तुल्य ज्ञान-ज्ञापनयुक्त (जातवेदसौ) वेद और उपविद्याओं को सिद्ध किये हुए पढ़ने-पढ़ानेवाले विद्वान् (नः) हम लोगों के लिये उपदेश करनेवाले (भवतम्) होवें। जो (यज्ञम्) पढ़ने-पढ़ाने रूप यज्ञ वा (यज्ञपतिम्) विद्याप्रद यज्ञ के पालन करनेवाले यज्ञमान को (मा मा हिंसिष्टम्) न पीडि़त करें। वे (अद्य) आज (नः) हम लोगों के लिये (शिवौ) मङ्गल करनेवाले (भवतम्) होवें ॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को उचित है कि विद्याप्रचार के लिये पढ़ना पढ़ाना वा मङ्गलाचरण को न छोड़ें, क्योंकि यही सर्वोत्तम कर्म है ॥३॥
दयानन्द-सरस्वती (सं) - विषयः
यजमानयज्ञसम्पादकौ कीदृशौ भवेतामित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यावरेपसौ समनसौ सचेतसौ जातवेदसावध्येत्रध्यापकौ नोऽस्मभ्यमुपदेष्टारौ भवतं स्याताम्, तौ यज्ञं यज्ञपतिं च मा हिंसिष्टं मा हिंस्याताम्। एतावद्य नोऽस्मभ्यं शिवौ मङ्गलकारिणौ भवतं स्याताम् ॥३॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्नैव कदाचित् विद्याप्रचारायाध्ययनमध्यापनं च त्यक्तव्यं मङ्गलाचरणं च, अस्य सर्वोत्कृष्टवात् ॥३॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी विद्येचा प्रचार, प्रसार करण्यासाठी अध्ययन, अध्यापन व चांगले आचरण सोडता कामा नये. कारण हेच सर्वोत्तम कर्म आहे.
०४ अग्नावग्निश्चरति प्रविष्टऽऋषीणाम्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्नाव॒ग्निश्च॑रति॒ प्रवि॑ष्ट॒ऽऋषी॑णां पु॒त्रोऽअ॑भिशस्ति॒पावा॑। स नः॑ स्यो॒नः सु॒यजा॑ यजे॒ह दे॒वेभ्यो॑ ह॒व्यँ सद॒मप्र॑युच्छ॒न्त्स्वाहा॑ ॥४॥
मूलम् ...{Loading}...
अ॒ग्नाव॒ग्निश्च॑रति॒ प्रवि॑ष्ट॒ऽऋषी॑णां पु॒त्रोऽअ॑भिशस्ति॒पावा॑। स नः॑ स्यो॒नः सु॒यजा॑ यजे॒ह दे॒वेभ्यो॑ ह॒व्यँ सद॒मप्र॑युच्छ॒न्त्स्वाहा॑ ॥४॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒ग्नौ। अ॒ग्निः। च॒र॒ति॒। प्रविष्ट॑ इति॒ प्रऽवि॒ष्टः। ऋषी॑णाम्। पु॒त्रः। अ॒भि॒श॒स्ति॒पावेत्य॑भिशस्ति॒ऽपावा॑। सः। नः॒। स्यो॒नः। सु॒यजेति॑ सु॒ऽयजा॑। य॒ज॒। इ॒ह। दे॒वेभ्यः॑। ह॒व्यम्। सद॑म्। अप्र॑युच्छ॒न्नित्यप्र॑ऽयुच्छन्। स्वाहा॑। ४।
महीधरः
म० ‘अग्नावग्निरिति जुहोति स्थाल्याः स्रुवेणेति’ ( का० ५।२।६)। विराट् । दशाक्षरैश्चतुर्भिः पादैर्विराट् । अत्र द्वितीयतुर्यावेकादशार्णौ ततो द्व्यधिका । अग्निर्मथ्यमानोऽग्नावाहवनीये प्रविष्टः सन् चरति हविर्भक्षयति । ‘चर गतिभक्षणयोः’ । किंभूतोऽग्निः । ऋषीणां पुत्रः ऋत्विजो वेदविदः ऋषयः तैरुत्पादितत्वात्तेषां पुत्रवत्पुत्रः । तथा अभिशस्तिपावा अभिशस्तिर्वैकल्यनिमित्तोऽभिशापस्तस्मात्पाति रक्षतीत्यभिशस्तिपावा । ‘आतो मनिन्-’ (पा०३।२।७४) इति वनिप्प्रत्ययः । हे अग्ने, स तथाविधस्त्वं नोऽस्मदर्थं स्योनः सुखरूपः सन् सुयजा शोभनयागेन इहास्मिन् स्थाने देवेभ्यः इन्द्रादिभ्यः हव्यं सोमादिरूपं यज दहि । अस्मद्दत्तं हविर्देवान्प्रापयेत्यर्थः । किं कुर्वन् । सदं सदा अप्रयुच्छन् अप्रमाद्यन् । ‘युच्छ प्रमादे’ । स्वाहा इदमाज्यं तुभ्यं हुतमस्तु । यद्वा सोऽग्निर्नो हविर्देवेभ्यो यज यजतु ददात्विति पुरुषव्यत्ययेन वा योजना ॥ ४ ॥
पञ्चमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- गोतम ऋषिः
- आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
विद्युत् और विद्वान् अग्नि कैसे हैं, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (अभिशस्तिपावा) सब प्रकार हिंसा करनेवालों से रहित (अग्नौ) विद्युत् अग्नि की विद्या में (प्रविष्टः) प्रवेश करने-कराने (ऋषीणाम्) वेदादि शास्त्रों के शब्द अर्थ और सम्बन्धों को यथावत् जनानेवालों का (पुत्रः) पढ़ा हुआ (स्योनः) सर्वथा सुखकारी (सुयजा) विद्याओं को अच्छी प्रकार प्रत्यक्ष सङ्ग कराने हारा (अग्निः) प्रकाशात्मा (अप्रयुच्छन्) प्रमादरहित अध्यापक विद्वान् (चरति) जो (नः) हम लोगों के लिये (इह) इस संसार में (देवेभ्यः) विद्वान् वा दिव्य गुणों से (हव्यम्) लेने-देने योग्य पदार्थ वा (सदम्) ज्ञान और (स्वाहा) हवन करने योग्य उत्तम अन्नादि को प्राप्त करता है (सः) सो आप (यज) सब विद्याओं को प्राप्त कराइये ॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को योग्य है कि जो अग्नि कार्य्य-कारण के भेद से दो प्रकार का निश्चित अर्थात् जो कार्य्यरूप से सूर्यादि और कारण रूप से अग्नि सब मूर्त्तिमान् द्रव्यों में प्रवेश कर रहा है, उसका इस संसार में विद्या से संप्रयोग कर कार्यों में उपयोग करना चाहिये ॥४॥
दयानन्द-सरस्वती (सं) - विषयः
अत्र महीधरेण विराडित्यशुद्धं व्याख्यातम् ॥ विद्युद्विद्वदग्नी कीदृशावित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - योऽभिशस्तपावाऽग्नौ प्रविष्टं ऋषीणां पुत्रः स्योनः सुयजा अग्निर्विद्वानप्रयुच्छंश्चरति योऽस्मभ्यमिह देवेभ्यो हव्यं सदं स्वाहा सुहुतं हविरन्नादिकं प्रयच्छति प्रापयति तं वयं सङ्गच्छेमहि ॥४॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैरिह योऽग्निः किल कार्य्यकारणभेदेन द्विधास्ति, तत्र कार्य्यरूपेण सूर्य्यादावग्नौ कारणरूपा विद्युत् सर्वभूतद्रव्येषु प्रविष्टा सती वर्त्तते, तस्यां च विज्ञानेन प्रविश्यैते सम्यक् संप्रयोज्य कार्य्योपयोगः कर्त्तव्यः ॥४॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जो अग्नी कार्य व कारणरूपाने दोन प्रकारचा असतो. एक तर कार्यरूपाने सूर्यात व दुसरा कारणरूपाने प्रत्यक्ष द्रव्यात विद्युतरूपाने प्रविष्ट झालेला असतो. त्यासंबंधीची विद्या जाणून माणसांनी त्याचा कार्यात उपयोग करून घेतला पाहिजे.
०५ आपतये त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
आप॑तये त्वा॒ परि॑पतये गृह्णामि॒ तनू॒नप्त्रे॑ शाक्व॒राय॒ शक्व॑न॒ऽओजि॑ष्ठाय। अना॑धृष्टमस्यनाधृ॒ष्यं दे॒वाना॒मोजोऽन॑भिशस्त्यभिशस्ति॒पा॑ऽअ॑नभिशस्ते॒न्यमञ्ज॑सा स॒त्यमु॑पगेषँ स्वि॒ते मा॑ धाः ॥५॥
मूलम् ...{Loading}...
आप॑तये त्वा॒ परि॑पतये गृह्णामि॒ तनू॒नप्त्रे॑ शाक्व॒राय॒ शक्व॑न॒ऽओजि॑ष्ठाय। अना॑धृष्टमस्यनाधृ॒ष्यं दे॒वाना॒मोजोऽन॑भिशस्त्यभिशस्ति॒पा॑ऽअ॑नभिशस्ते॒न्यमञ्ज॑सा स॒त्यमु॑पगेषँ स्वि॒ते मा॑ धाः ॥५॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आप॑तय॑ इत्याऽप॑तये। त्वा॒। परि॑पतय॒ इति॒ परि॑ऽपतये। गृ॒ह्णा॒मि॒। तनू॒नप्त्र॒ इति॒ तनू॒ऽनप्त्रे॑। शा॒क्व॒राय॑। शक्व॑ने। ओजि॑ष्ठाय। अना॑धृष्टम्। अ॒सि॒। अ॒ना॒धृ॒ष्यम्। दे॒वाना॑म्। ओजः॑। अन॑भिश॒स्तीत्यन॑भिऽशस्ति। अ॒भि॒श॒स्ति॒पा इत्य॑भिशस्ति॒ऽपाः। अ॒न॒भि॒श॒स्ते॒न्यमित्य॑नभिऽशस्ते॒न्यम्। अञ्ज॑सा। स॒त्यम्। उप॑। गे॒ष॒म्। स्वि॒त इति॑ सुऽइते। मा॒। धाः॒। ५।
महीधरः
म० ‘ध्रौवं व्रतप्रदाने गृह्णात्यापतय इति द्विश्च स्थाल्याः स्रुवेणेति’ (का० ८ । १।१९–२०) । व्रतं प्रदीयते येन पात्रेण तत्र पात्रे ध्रुवास्थमाज्यं गृह्णीयादिति सूत्रार्थः । वायुदेवत्यं यजुः । आ समन्तात्पतति गच्छतीत्यापतिः सततगतिर्वायुस्तस्मै हे आज्य, त्वां गृह्णामि । किंभूताय । परिपतये परितः पततीति परिपतिस्तस्मै सर्वव्यापिने । तथा तनूनप्त्रे तनोति विस्तारयति विश्वमिति तनूरात्मा तस्य नप्त्रे पौत्राय । शाक्वराय शक्नुवन्ति स्थातुं भूतानि यत्र स शक्वर आकाशस्तस्यापत्यं शाक्वरस्तस्मै । ‘तस्माद्वा एतस्मादात्मन आकाशः संभूतः । आकाशाद्वायुः’ (तैत्ति. आरण्य. ८।१) इति श्रुतेः । तथा शक्वने शक्नोति सर्वं कर्तुमिति शक्वा तस्मै । ‘अन्येभ्योऽपि दृश्यन्ते’ (पा० ३।२। ७५)। इति वनिप् । ओजिष्ठाय । ओजो बलमस्यास्तीत्योजस्वी। ‘अस्मायामेधास्रजो विनिः’ (पा० ५।२।१२१) इति विनिप्रत्ययः । अतिशयेनौजस्वी ओजिष्ठस्तस्मै । ‘अतिशायने तमबिष्ठनौ’ (पा० ५। ३ । ५५) इतीष्ठनि प्रत्यये ‘विन्मतोर्लुक्’ ( पा० ५। ३ । ६५) इति विनो लोपे टिलोपः । यद्वास्य मन्त्रस्यार्थान्तरं तित्तिरिव्याख्यातम् । हे आज्य, त्वामापतये प्राणदेवताप्रीतये गृह्णाम्यत्र पात्रे स्वीकरोमि । आसमन्तात्पाति देहं रक्षतीत्यापतिः प्राणः । तदाह तित्तिरिः ‘प्राणो वा आपतिः प्राणमेव प्रीणातीति’ । इष्टप्राप्त्युपायमनिष्टपरिहारोपायं च चिन्तयित्वा परितः पाति पालयतीति परिपतिर्मनस्तत्प्रीत्यै गृह्णामि । तदाह तित्तिरिः । ‘मनो वै परिपतिर्मन एव प्रीणाति’ इति । तनूनप्त्रे । तनूं शरीरं न पातयति न विनाशयतीति तनूनप्ता जाठरोऽग्निस्तस्मै जाठराग्निदेवताप्रीत्यै आज्य, त्वां गृह्णामि । शाक्वराय शकनशीलः शक्वरः शक्तिमान् पुरुषस्तस्येदं शाक्वरं शक्तिस्वरूपं तस्मै शक्तिस्वरूपाभिमानिदेवताप्रीत्यै त्वां गृह्णामि । शक्वन ओजिष्ठाय । शक्वने इति चतुर्थी सप्तम्यर्थे । शक्वनि शक्तिमति पुरुषे यदोजिष्ठं सारं तस्मै । ओजो नामाष्टमो धातुस्तत्सारमोजिष्ठं तदवष्टम्भेनैव शरीरे शक्तिरवतिष्ठते । ओजःसाराभिमानिदेवताप्रीत्यै त्वां गृह्णामीत्यर्थः । ‘तनूनप्त्रमेतद्दक्षिणस्यां वेदिश्रोणौ निधायावमृशन्त्यृत्विजो यजमानश्चानाधृष्टमित्यद्रोहस्तेभ्यः’ ( का० ८ । १ । २४-२६) इति । आज्यदैवतं यजुः । हे आज्य, त्वमीदृशमसि । किंभूतम् । अनाधृष्टमितः पूर्वं केनाप्यतिरस्कृतम् । अनाधृष्यं न आधर्षितुं शक्यमितः परमप्यतिरस्कार्यम् । देवानामग्न्यादीनामोजः सारभूतम् । अनभिशस्ति नास्ति अभिशस्तिर्निन्दा यस्य तत् । अभिपूर्वः शंसतिर्गर्हायां वर्तते । अभिशस्तिपाः अभिशस्तिर्ऋत्विजां परस्परविरोधेन निन्दनं तस्याः पाति रक्षतीत्यभिशस्तिपाः । पुंस्त्वं छान्दसम् । अनभिशस्तेन्यम् | अनभिशस्ते अनिन्दिते स्वर्गादौ नयतीत्यनभिशस्तेनीः । द्वितीया प्रथमार्थे । पुंस्त्वं व्यत्ययेन । यतस्त्वमीदृशमसि अतो हे तानूतनप्त्राज्य, अहमृत्विक् अञ्जसा ऋजुमार्गेण मानसकौटिल्यरहितेन सत्यमाज्यस्पर्शरूपं शपथमुपगेषमुपगच्छेयम् । उपपूर्वस्य गायतेर्लेट्युत्तमैकवचने ‘सिब्बहुलं लेटि’ (पा० ३।१।३४) इति सिपि इडागमे ‘लेटोऽडाटौ’ (पा० ३ । ४ । ९४ ) इत्यडागमे च रूपम् । ‘इतश्च लोपः परस्मैपदेषु’ (पा० ३ । ४ । ९७) इति इलोपः । किंच हे आज्य, स्विते शोभनमार्गे यज्ञकर्मणि मा मां त्वं धाः धेहि स्थापय । दधातेर्लुङि मध्यमैकवचनेऽडभावे रूपम् ॥ ५॥
षष्ठी।
अधिमन्त्रम् (VC)
- विद्युद्देवता
- गोतम ऋषिः
- आर्षी उष्णिक्, भुरिग् आर्षी पङ्क्तिः
- ऋषभः, पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को किस-किस प्रयोजन के लिये परमात्मा की प्रार्थना, बिजुली का स्वीकार करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - मैं हे परमात्मन् ! जिस से आप (अभिशस्तिपाः) हिंसारूप कर्मों से अलग रहने और रखनेवाले हैं, इससे (त्वा) आपको (आपतये) सब प्रकार से स्वामी होने (परिपतये) सब ओर से रक्षा (शाक्वराय) सब सामर्थ्य की प्राप्ति (शक्वने) शूरवीर-युक्त सेना (ओजिष्ठाय) जिसमें सर्वोत्कृष्ट पराक्रम होता है, उस विद्या के होने और (तनूनप्त्रे) जिस से उत्तम शरीर होता है, उसके लिये (गृह्णामि) ग्रहण करता हूँ। आप अपनी कृपा से उस (देवानाम्) विद्वानों का (अनाधृष्टम्) जिस का अपमान कोई नहीं कर सकता (अनाधृष्यम्) किसी के अपमान करने योग्य नहीं है, (अनभिशस्ति) किसी के हिंसा करने योग्य नहीं है (अनभिशस्तेन्यम्) अहिंसारूप धर्म की प्राप्ति कराने हारा (सत्यम्) अविनाशी (ओजः) तेज है, उसका ग्रहण कराके (स्विते) अच्छे प्रकार जिस व्यवहार में सब सुख प्राप्त होते हैं, उस में (मा) मुझको (धाः) धारण करें कि जिस से (सत्यम्) सत्य व्यवहार को (उपगेषम्) जानकर करूँ ॥५॥ मैं जो (अनाधृष्टम्) न हटाने (अनाधृष्यम्) न किसी से नष्ट करने (अनभिशस्ति) न हिंसा करने (अनभिशस्तेन्यम्) और हिंसारहित धर्म प्राप्त कराने योग्य (देवानाम्) विद्वान् वा पृथिवी आदिकों के मध्य में (सत्यम्) कारणरूप नित्य (ओजः) पराक्रम स्वरूपवाली (अभिशस्तिपाः) हिंसा से रक्षा का निमित्त रूप बिजुली (असि) है, जो (मा) मुझे (स्विते) उत्तम प्राप्त होने योग्य व्यवहार में (धाः) धारण करती है (अञ्जसा) सहजता से (ओजिष्ठाय) अत्यन्त तेजस्वी (आपतये) अच्छे प्रकार पालन करने योग्य व्यवहार (परिपतये) जिस में सब प्रकार पालन करनेवाले होते हैं (तनूनप्त्रे) जिस से उत्तम शरीरों को प्राप्त होते हैं (शाक्वराय) शक्ति उत्पन्न करने और (शक्वने) शक्तिवाली वीरसेना की प्राप्ति के लिये है (त्वा) उसको (गृह्णामि) ग्रहण करता हूँ कि जिससे उन सत्य कारणरूप पदार्थों को (उपगेषम्) जान सकूँ ॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को परमेश्वर के विज्ञान के विना सत्य सुख और बिजुली आदि विद्या और क्रियाकुशलता के विना संसार के सब सुख नहीं हो सकते, इसलिये यह कार्य्य पुरुषार्थ से सिद्ध करना चाहिये ॥५॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यैः किमर्थः परमात्मा प्रार्थनीयः सा विद्युच्च स्वीकार्येत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - अहं हे जगदीश्वर ! यतस्त्वमभिशस्तिपा असि तस्मात् त्वा त्वामापतये परिपतये शाक्वराय शक्वन ओजिष्ठाय तनुनप्त्रे गृह्णामि, त्वं कृपया मा मां यद् देवानां विदुषां वाऽनाधृष्टमनाधृष्यमनभिशस्त्यनभिशस्तेन्यमोजः सत्यमस्ति तत् परिग्राहय स्विते धा यतोऽञ्जसां सत्यमुपगेषं प्राप्नुयामित्येकः ॥५॥ अहं यदनाधृष्टमनाधृष्यमनभिशस्त्यनभिशस्तेन्यं देवानां सत्यमोजो वैद्युतं तेजोरूपाऽभिशस्तिपा विद्युद् या मा मां स्विते धा दधाति, त्वा यामोजिष्ठायापतये परिपतये तनूनप्त्रे शाक्वराय शक्वने गृह्णामि यतस्तत्सत्यरूपं कारणमुपगेषं विजानीयामिति द्वितीयः ॥५॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। न हि मनुष्याणां परमात्मविज्ञानेन विना सत्यं सुखं न विद्युदादिविद्याक्रियाकौशलैर्विना सर्वं सांसारिक सुखं च भवितुमर्हति, तस्मादेतत् सर्वं प्रयत्नेन कर्त्तव्यमिति ॥५॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - परमेश्वराचे विज्ञान जाणल्याखेरीज माणसांना खरे सुख मिळू शकत नाही व विद्युत इत्यादी संबंधांची विद्या व क्रियाकौशल्य या खेरीज जगातील सर्व सुख मिळू शकत नाही. तेव्हा हे कार्य आपल्या पुरुषार्थाने सिद्ध केले पाहिजे.
०६ अग्ने व्रतपास्त्वे
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने॑ व्रतपा॒स्त्वे व्र॑तपा॒ या तव॑ त॒नूरि॒यँ सा मयि॒ यो मम॑ त॒नूरे॒षा सा त्वयि॑। स॒ह नौ॑ व्रतपते व्र॒तान्यनु॑ मे दी॒क्षां दी॒क्षाप॑ति॒र्मन्य॑ता॒मनु॒ तप॒स्तप॑स्पतिः ॥६॥
मूलम् ...{Loading}...
अग्ने॑ व्रतपा॒स्त्वे व्र॑तपा॒ या तव॑ त॒नूरि॒यँ सा मयि॒ यो मम॑ त॒नूरे॒षा सा त्वयि॑। स॒ह नौ॑ व्रतपते व्र॒तान्यनु॑ मे दी॒क्षां दी॒क्षाप॑ति॒र्मन्य॑ता॒मनु॒ तप॒स्तप॑स्पतिः ॥६॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अग्ने॑। व्र॒त॒पा॒ इति॑ व्रतऽपाः। त्वेऽइति॑ त्वे। व्र॒त॒पा॒ इति॑ व्रतऽपाः। या। तव॑। त॒नूः। इ॒यम्। सा। मयि॑। योऽइति॒ यो। मम॑। त॒नूः। ए॒षा। त्वयि॑। स॒ह। नौ॒। व्र॒त॒प॒त॒ इति॑ व्रतऽपते। व्र॒तानि॑। अनु॑। मे॒। दी॒क्षाम्। दी॒क्षाप॑ति॒रिति॒ दी॒क्षाऽप॑तिः॒। मन्य॑ताम्। अनु॑। तपः॑। तप॑स्पति॒रिति॒ तपः॑ऽपतिः। ६।
महीधरः
म० ‘अग्ने व्रतपा इत्याहवनीये समिधमाधायेति’ (का० ८।२।४)। आग्नेयं यजुः । यजमानोऽनेन यजुषाग्निशरीरात्मशरीरयोर्व्यत्ययं करोति । हे व्रतपाः सर्वेषां व्रतानां पालकाग्ने, त्वे व्रतपाः त्वमस्मदीयस्य वर्तमानव्रतस्य पालको भवसीति शेषः । विभक्तेः शे आदेशे त्वे इति रूपम् । तव तथाविधस्य व्रतपालकस्य या तनूः शरीरमस्ति सेयं तनूर्मयि भवत्विति शेषः । यो या उ या च मम तनूः मदीयं शरीरं सैषा तनूस्त्वयि भवतु । तथा सति हे व्रतपते, व्रतपालकाग्ने, व्रतान्यनुष्ठेयानि कर्माणि नौ अग्नियजमानयोः सह प्रवर्तन्तामिति शेषः । यावान्व्रतेषु ममादरस्तावानेव तवापि भवत्वित्यर्थः । किंच । दीक्षापतिर्दीक्षायाः पालकः सोमो मे मम दीक्षामनुमन्यताम् । तथा तपस्पतिः उपसद्रूपस्य तपसः पालकः सोमः तपः मदीयमुपसद्रूपमनुमन्यतामित्यनुवर्तते ॥ ६॥
सप्तमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- गोतम ऋषिः
- विराड् ब्राह्मी पङ्क्तिः
- पञ्चमः
०७ अंशुरंशुष्टे देव
विश्वास-प्रस्तुतिः ...{Loading}...
अँ॒शुरँ॑शुष्टे देव सो॒माप्या॑यता॒मिन्द्रा॑यैकधन॒विदे॑। आ तुभ्य॒मिन्द्रः॒ प्याय॑ता॒मा त्वमिन्द्रा॑य प्यायस्व। आप्या॑यया॒स्मान्त्सखी॑न्त्स॒न्न्या मे॒धया॑ स्व॒स्ति ते॑ देव सोम सु॒त्याम॑शीय। एष्टा॒ रायः॒ प्रेषे भगा॑यऽऋ॒तमृ॑तवा॒दिभ्यो॒ नमो॒ द्यावा॑पृथि॒वीभ्या॑म् ॥७॥
मूलम् ...{Loading}...
अँ॒शुरँ॑शुष्टे देव सो॒माप्या॑यता॒मिन्द्रा॑यैकधन॒विदे॑। आ तुभ्य॒मिन्द्रः॒ प्याय॑ता॒मा त्वमिन्द्रा॑य प्यायस्व। आप्या॑यया॒स्मान्त्सखी॑न्त्स॒न्न्या मे॒धया॑ स्व॒स्ति ते॑ देव सोम सु॒त्याम॑शीय। एष्टा॒ रायः॒ प्रेषे भगा॑यऽऋ॒तमृ॑तवा॒दिभ्यो॒ नमो॒ द्यावा॑पृथि॒वीभ्या॑म् ॥७॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अँ॒शुरँ॑शु॒रित्यँ॒शुःऽअँ॑शुः। ते॒। दे॒व॒। सो॒म॒। आ। प्या॒य॒ता॒म्। इन्द्रा॑य। ए॒क॒ध॒न॒विद॒ऽइत्ये॑कधन॒ऽविदे॑। आ। तुभ्य॑म्। इन्द्रः॑। प्याय॑ताम्। आ। त्वम्। इन्द्रा॑य। प्या॒य॒स्व॒। आ। प्या॒य॒य॒। अ॒स्मान्। सखी॑न्। स॒न्न्या। मे॒धया॑। स्व॒स्ति। ते॒। दे॒व॒। सो॒म॒। सु॒त्याम्। अ॒शी॒य॒। एष्टा॒ इत्याऽइ॑ष्टाः। रायः॑। प्र। इ॒षे। भगा॑य। ऋ॒तम्। ऋ॒त॒वादिभ्य॒ इत्यृ॑तवा॒दिऽभ्यः॑। नमः॑। द्यावा॑पृथि॒वीभ्या॑म्। ७।
महीधरः
म०. ‘यजमानषष्ठाः सोममाप्याययन्त्यᳪं᳭शुरᳪं᳭शुरिति’ (का० ८ । २ । ६ । ) । प्रकृतिः चतुरवसाना सोमदेवत्या । अन्त्योऽर्धर्चो लिङ्गोक्तदेवतः । चतुरशीत्यक्षरा प्रकृतिः । तत्र मन्त्रद्वयम् । सोमवल्ल्या अवयवोंऽशुरुच्यते । वीप्सा सर्वसंग्रहार्था । हे सोम देव, ते तवांशुरंशुः सर्वोऽप्यवयव इन्द्राय इन्द्रप्रीत्यर्थमाप्यायतां वर्धतां । चिरावस्थानेन यः सोमावयवो म्लानः शुष्कश्च तदुभयं मन्त्रेणाप्यायितं भवति । तदाह तित्तिरिः । ‘यद्देवस्य शुष्यति यन्म्लायते तदेवास्यैतेनाप्याययति’ इति । किंभूतायेन्द्राय । एकधनविदे एकं मुख्यं धनं सोमरूपं विन्दते लभते स एकधनवित् । यद्वा सोमकण्डनाय यैर्जलमानीयते ते कुम्भा एकधनाः । एकं धनं सोमरूपं यत्रेति तान्वेत्ति जानातीति । सोमकण्डनाय जलकुम्भा आनीता इति जानातीत्यर्थः । किंच हे सोम, तुभ्यं त्वत्पानार्थमिन्द्र आप्यायतां वर्धताम् । तथा हे सोम, त्वमपि इन्द्रायेन्द्रपानायाप्यायस्व सर्वतो वृद्धो भव । अनेनोभयोरपि वृद्धिर्भवति । तदाह तित्तिरिः ‘उभावेवेन्द्रं च सोमं चाप्याययति’ इति । किंच हे सोम, सखीन् सखिवत्प्रीतिविषयानस्मानृत्विजः सन्या मेधया चाप्यायय प्रवर्धय । सनिर्धनदानं मेधार्थधारणशक्तिः । ‘ऋत्विजो वा अस्य सखायः’ इत्युक्तेः सखिशब्देन ऋत्विजः । किंच हे सोमदेव, ते तव स्वस्ति क्षेमोऽस्तु । तव प्रसादादहं सुत्यां सोमाभिषवक्रियां समाप्तिदिनमशीय प्राप्नुयाम् । ‘प्रत्येत्य प्रस्तरे निह्नुवत उत्तानहस्ता दक्षिणोत्ताना वेष्टा राय’ ( का० ८ । २ । ९) इति । सर्वेऽपि ऋत्विजः प्रस्तरे निजहस्तानुत्तानान्कृत्वा दक्षिणहस्तं वोत्तानमुपर्यवस्थाप्य निह्नुवते सोमं परिचरन्तीति सूत्रार्थः । रायो धनानि एष्टाः आ समन्तादिष्टा अस्माकमपेक्षिताः । सोम, त्वत्प्रसादादस्माकं रायः सन्त्विति भावः । यद्वा रायः दक्षिणालक्षणा एष्टाः आ समन्तादत्ताः । यजते रूपम् । दक्षिणा दास्यन्त इति भावः । किमर्थं । प्रेषे भगाय । प्रकर्षेणेष्यत इति प्रेट् तस्मै प्रेष्यमाणाय भगायैश्वर्याय । यद्वा प्रकर्षेण इषे अन्नाय भगाय च । किंच ऋतवादिभ्योऽग्निहोत्रिभ्यः ऋतमवश्यंभाविफलोपेतं कर्म संपादयेति शेषः । ऋतं सत्यं वदन्तीति ऋतवादिनः । यद्वा षष्ठ्यर्थे चतुर्थी । ऋतवादिनामस्माकमृतं कर्मफलमस्त्विति शेषः । द्यावापृथिवीभ्यां तदभिमानिदेवताभ्यां नमोऽस्तु । तयोरनुग्रहेण यजमानायाविघ्नस्थितिर्भवतीति नमस्क्रियते । तदाह तित्तिरिः ‘द्यावापृथिवीभ्यामेव नमस्कृत्यास्मिंल्लोके प्रतितिष्ठति’ इति ॥ ७ ॥
अष्टमी।
अधिमन्त्रम् (VC)
- सोमो देवता
- गोतम ऋषिः
- आर्षी बृहती, आर्षी जगती
- मध्यमः, निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह ईश्वर, बिजुली और विद्वान् कैसे हैं, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सोम) पदार्थविद्या को जानने वा (देव) दिव्यगुणसम्पन्न जगदीश्वर ! विद्वन् ! विद्युत् वा जिससे (ते) आप वा इस विद्युत् का सामर्थ्य (अंशुरंशुः) अवयव-अवयव, अङ्ग-अङ्ग को (आप्यायताम्) रक्षा से बढ़ा अथवा बढ़ाती है (इन्द्रः) जो आप वा बिजुली (एकधनविदे) अर्थात् धर्मविज्ञान से धन को प्राप्त होनेवाले (इन्द्राय) परमैश्वर्य्ययुक्त मेरे लिये (आप्यायताम्) बढ़ावे वा बढ़ाती है (आप्यायस्व) वृद्धियुक्त कीजिये वा करती है। वह आप बिजुली आदि पदार्थ के ठीक-ठीक अर्थों की प्राप्ति को (सन्न्या) प्राप्ति करानेवाली (मेधया) प्रज्ञा से (अस्मान्) हम (सखीन्) सब के मित्रों को (आप्यायस्व) बढ़ाइये वा बढ़ावे, जिससे (स्वस्ति) सुख सदा बढ़ता रहे। (सोम) हे पदार्थविद्या को जाननेवाले ईश्वर वा विद्वन् ! आप की शिक्षा वा बिजुली की विद्या से युक्त होकर मैं (सुत्याम्) उत्तम-उत्तम उत्पन्न करनेवाली क्रिया में कुशल होके (इषे) सिद्धि की इच्छा वा अन्न आदि (भगाय) ऐश्वर्य्य के लिये (एष्टाः) अभीष्ट सुखों को प्राप्त करानेवाले (रायः) धनसमूहों को (अशीय) प्राप्त होऊँ और (ऋतवादिभ्यः) सत्यवादी विद्वानों को यह धन देके सत्य विद्या और (द्यावापृथिवीभ्याम्) प्रकाश वा भूमि से (नमः) अन्न को प्राप्त होऊँ ॥७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। मनुष्यों को चाहिये कि परमेश्वर की उपासना, विद्वान् की सेवा और विद्युत् विद्या का प्रचार करके शरीर और आत्मा को पुष्ट करनेवाली ओषधियों और अनेक प्रकार के धनों का ग्रहण करके चिकित्सा शास्त्र के अनुसार सब आनन्दों को भोगें ॥७॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्ते कीदृशौ विद्वांश्चेत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सोम देवेश्वर विद्वन् ! विद्युद्वा यतस्ते तव तस्या वा सामर्थ्यमंशुरंशुरङ्गमङ्गं सोमेनाप्यायतामाप्यायति वेन्द्रः सोमो भवानियं वैकधनविद इन्द्राय तुभ्यं मह्यं वा प्यायतामाप्यायति वा त्वमिन्द्राय प्यायस्व वर्धयस्व वर्धयेद् वाऽतः सखीनस्मान् सन्न्याः मेधया प्यायस्वाप्याययाप्याययेद् वा यतोऽहं सुत्यां दिव्यगुणसम्पन्नो भूत्वेष्टा रायोऽशीय यैरिषे भगायर्तवादिभ्यो विद्वद्भ्य एतद्धनं दत्त्वा सत्यां विद्यां द्यावापृथिवीभ्यामन्नं च प्राप्य सर्वाणि सुखानि प्राप्नुयाम् ॥७॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। मनुष्यैः परमेश्वरमुपास्य विद्वांसमुपाचर्य्य विद्युद्विद्यां प्रचार्य्य शरीरात्मपुष्टिकरानोषधिसमूहान् धनसमुदायांश्च संगृह्य वैद्यकविद्यानुसारेण सर्वानन्दा भोक्तव्याः ॥७॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. माणसांनी परमेश्वराची उपासना करावी व विद्वानांची सेवा करावी. विद्युत विद्येचा प्रसार करावा, शरीर आणि आत्मा यांना बलिष्ठ करणारे औषध चिकित्साशास्त्र व आरोग्यशास्त्राप्रमाणे सेवन करावे व संपत्ती प्राप्त करून सुखी व्हावे.
०८ या तेऽअग्नेऽयःशया
विश्वास-प्रस्तुतिः ...{Loading}...
या ते॑ऽअग्नेऽयःश॒या त॒नूर्वर्षि॑ष्ठा गह्वरे॒ष्ठा। उ॒ग्रं वचो॒ऽअपा॑वधीत्त्वे॒षं वचो॒ऽअपा॑वधी॒त् स्वाहा॑। या ते॑ऽअग्ने रजःश॒या त॒नूर्वर्षि॑ष्ठा गह्वरे॒ष्ठा। उ॒ग्रं वचो॒ऽअपा॑वधीत्त्वे॒षं वचो॒ऽअपा॑वधी॒त् स्वाहा॑। या ते॑ऽअग्ने हरिश॒या त॒नूर्वर्षि॑ष्ठा गह्वरे॒ष्ठा। उ॒ग्रं वचो॒ऽअपा॑वधीत्त्वे॒षं वचो॒ऽअपा॑वधी॒त् स्वाहा॑ ॥८॥
मूलम् ...{Loading}...
या ते॑ऽअग्नेऽयःश॒या त॒नूर्वर्षि॑ष्ठा गह्वरे॒ष्ठा। उ॒ग्रं वचो॒ऽअपा॑वधीत्त्वे॒षं वचो॒ऽअपा॑वधी॒त् स्वाहा॑। या ते॑ऽअग्ने रजःश॒या त॒नूर्वर्षि॑ष्ठा गह्वरे॒ष्ठा। उ॒ग्रं वचो॒ऽअपा॑वधीत्त्वे॒षं वचो॒ऽअपा॑वधी॒त् स्वाहा॑। या ते॑ऽअग्ने हरिश॒या त॒नूर्वर्षि॑ष्ठा गह्वरे॒ष्ठा। उ॒ग्रं वचो॒ऽअपा॑वधीत्त्वे॒षं वचो॒ऽअपा॑वधी॒त् स्वाहा॑ ॥८॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
या। ते॒। अ॒ग्ने॒। अ॒यःशये॒त्य॑यःऽश॒या। त॒नूः। वर्षि॑ष्ठा। ग॒ह्व॒रे॒ष्ठा। ग॒ह्व॒रे॒स्थेति॑ गह्वरे॒ऽस्था। उ॒ग्रम्। वचः॑। अप॑। अ॒व॒धी॒त्। त्वे॒षम्। वचः॑। अप॑। अ॒व॒ऽधी॒त्। स्वाहा॑। या। ते॒। अ॒ग्ने॒। र॒जः॒श॒येति॑ रजःश॒या। त॒नूः। वर्षि॑ष्ठा। ग॒ह्व॒रे॒ष्ठा। ग॒ह्व॒रे॒स्थेति॑ गह्वरे॒ऽस्था। उ॒ग्रम्। वचः॑। अप॑। अ॒व॒धी॒त्। त्वे॒षम्। वचः॑। अप॑। अ॒व॒धी॒त्। स्वाहा॑। ८।
महीधरः
म० ‘उपसदं जुहोति स्रुवेण या ते इति’ (का० ८ । २। ३५)। आग्नेयानि त्रीणि यजूंषि । अत्रेयमाख्यायिकास्ति । देवैः पराजिता असुरास्तपस्तप्त्वा त्रैलोक्ये त्रीणि पुराणि चक्रुर्लोहमयीं भूमौ राजतीमन्तरिक्षे हैमीं दिवि । तंदीं देवैस्ता दग्धुमुपसदाग्निराराधितः । तत उपसद्देवतारूपोऽग्निर्यदा तासु पूर्षु प्रविश्य ता ददाह तदा तिस्रः पुरोऽग्नेस्तनवोऽभूवन् । तदभिप्रेत्यायं मन्त्रः । हे अग्ने, या ते तवायःशया तनूः अयसि शेते इत्ययःशया । लोहमयीत्यर्थः । लोहमयपुरव्यापित्वेन तद्रूपा सती । वर्षिष्ठा देवानामतिशयेनाभिमतफलवर्षिणी । तथा गह्वरेष्ठा गह्वरे असुराणां विषमे देशे तिष्ठतीति गह्वरेष्ठा । ‘हलदन्तात्सप्तम्याः संज्ञायाम्’ (पा० ६ । ३ । ९) इति विभक्तेरलुक् । सा ते तनूरुग्रं वचोऽपावधीत् छिन्धिभिन्धीत्यादिकमसुरप्रोक्तं तीवं वचनं विनाशितवती । तथा त्वेषं वचः असुरोक्तं देवाधिक्षेपरूपं प्रदीप्तं वाक्यमपावधीत् । स्वाहा तथाविधोपकाराय तुभ्यमग्नये हविर्दत्तम् । ‘ततोऽसुरा एषु लोकेषु पुरश्चक्रिरे अयस्मयीमेवास्मिंल्लोके रजतामन्तरिक्षे हरिणीं दिवि’ (३ । ४ । ४ । ३) | इत्यादिश्रुत्या अयमितिहासो निरूपितः । उग्रत्वेषवचसोरर्थान्तरम् । यथा असुरैः पराजिता देवा अन्नपाने अलभमानाः क्षुत्पिपासाभ्यां वयं पीडिता इति यदूचुस्तदुग्रं वचः । तथा किं वा वीरहत्यादि महापातकमस्माभिः कृतमिति क्लिश्नन्तो यद्वाक्यं संतापहेतुत्वेन दीप्तमूचुस्तत्त्वेषं वचः । । तदाह तित्तिरिः । ‘अशनायापिपासे ह वा उग्रं वच एनश्च वै वीरहत्यं च त्वेषं वचः’ इति । ‘एवमितरे अन्वहᳪं᳭रजः’ शयाᳪं᳭ हरिशयां चेति’ (का० ८ । २ । ३८) । यथा प्रथमदिने या ते अग्नेऽयःशयेत्युपसदेवमितरे द्वितीयतृतीये उपसदो द्वितीयतृतीयदिनयोरनुतिष्ठेत् । द्वितीयस्यामुपसदि रजःशयेति तृतीयोपसदि हरिशयेति मन्त्रभेद इति सूत्रार्थः । रजःशया रजतमयी । हरिशया हिरण्यमयी । अन्यत्पूर्ववत् ॥ ८ ॥
नवमी। -
अधिमन्त्रम् (VC)
- अग्निर्देवता
- गोतम ऋषिः
- विराड् आर्षी बृहती, निचृद् आर्षी बृहती,
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह बिजुली कैसी है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य लोगो ! तुम को (या) जो (ते) इस (अग्ने) बिजुलीरूप अग्नि का (अयःशया) सुवर्णादि में सोने (वर्षिष्ठा) अत्यन्त बड़ा (गह्वरेष्ठा) आभ्यन्तर में रहनेवाला (तनूः) शरीर (उग्रम्) क्रूर भयङ्कर (वचः) वचन को (अपावधीत्) नष्ट करता और (त्वेषम्) प्रदीप्त (वचः) शब्द वा (स्वाहा) उत्तमता से हवन किये हुए अन्न को (अपावधीत्) दूर करता और जो (ते) इस (अग्ने) बिजुलीरूप अग्नि का (वर्षिष्ठा) अत्यन्त विस्तीर्ण (गह्वरेष्ठा) आभ्यन्तर में स्थित होने (रजःशया) लोकों में सोनेवाला (तनूः) शरीर (उग्रम्) क्रूर (वचः) कथन को (अपावधीत्) नष्ट करता है (त्वेषम्) प्रदीप्त (वचः) कथन वा (स्वाहा) उत्तम वाणी को (अपावधीत्) नष्ट करता है, उसको जान के उससे कार्य्य लेना चाहिये ॥८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को योग्य है कि सब स्थूल और सूक्ष्म पदार्थों में रहनेवाली जो बिजुली की व्याप्ति है, उस को अच्छे प्रकार जानकर उपयुक्त करके सब दुःखों का नाश करें ॥८॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः सा विद्युत् कीदृशीत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्या ! यूयं या तेऽग्नेऽस्या विद्युतो वर्षिठा गह्वरेष्ठा तनूरुग्रं वचोऽपावधीदपहन्ति त्वेषं वचः स्वाहा सुहुतं हविरन्नं चापावधीत्। या तेऽग्नेऽस्या विद्युतो वर्षिष्ठा गह्वरेष्ठा रजःशया तनूरुग्रं वचोऽपावधीत् त्वेषं वचः स्वाहा सुहुतां वाचं चापावधीद्धन्ति तां सम्यक् विदित्वोपकुरुत ॥८॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्विद्युतो या व्याप्तिर्मूर्त्तामूर्त्तद्रव्यस्था वर्त्तते तां युक्त्या सम्यग् विदित्वोपसंप्रयोज्य सर्वाणि दुःखान्यपहन्तव्यानि ॥८॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी सगळ्या स्थूल व सूक्ष्म पदार्थांमध्ये असणाऱ्या विद्युतशक्तीची व्यापकता जाणून तिचा यथायोग्य उपयोग करावा व दुःखांचा नाश करावा.
०९ तप्तायनी मेऽसि
विश्वास-प्रस्तुतिः ...{Loading}...
त॒प्ताय॑नी मेऽसि वि॒त्ताय॑नी मे॒ऽस्यव॑तान्मा नाथि॒तादव॑तान्मा व्यथि॒तात्। वि॒देद॒ग्निर्नभो॒ नामाग्ने॑ऽअङ्गिर॒आयु॑ना॒ नाम्नेहि॒ यो᳙ऽस्यां पृ॑थि॒व्यामसि॒ यत्तेऽना॑धृष्टं॒ नाम॑ य॒ज्ञियं॒ तेन॒ त्वा द॒धे वि॒देद॒ग्निर्नभो॒ नामाग्ने॑ऽअङ्गिर॒ऽआयु॑ना॒ नाम्नेहि॒ यो द्वि॒तीय॑स्यां पृथि॒व्यामसि॒ यत्तेऽना॑धृष्टं॒ नाम॑ य॒ज्ञियं॒ तेन॒ त्वा द॑धे वि॒देद॒ग्निर्नभो॒ नामाग्ने॑ऽअङ्गिर॒ऽआयु॑ना॒ नाम्नेहि॒ यस्तृ॒तीय॑स्यां पृथि॒व्यामसि॒ यत्तेऽना॑धृष्टं॒ नाम॑ य॒ज्ञियं॒ तेन॒ त्वा द॑धे। अनु॑ त्वा दे॒ववी॑तये ॥९॥
मूलम् ...{Loading}...
त॒प्ताय॑नी मेऽसि वि॒त्ताय॑नी मे॒ऽस्यव॑तान्मा नाथि॒तादव॑तान्मा व्यथि॒तात्। वि॒देद॒ग्निर्नभो॒ नामाग्ने॑ऽअङ्गिर॒आयु॑ना॒ नाम्नेहि॒ यो᳙ऽस्यां पृ॑थि॒व्यामसि॒ यत्तेऽना॑धृष्टं॒ नाम॑ य॒ज्ञियं॒ तेन॒ त्वा द॒धे वि॒देद॒ग्निर्नभो॒ नामाग्ने॑ऽअङ्गिर॒ऽआयु॑ना॒ नाम्नेहि॒ यो द्वि॒तीय॑स्यां पृथि॒व्यामसि॒ यत्तेऽना॑धृष्टं॒ नाम॑ य॒ज्ञियं॒ तेन॒ त्वा द॑धे वि॒देद॒ग्निर्नभो॒ नामाग्ने॑ऽअङ्गिर॒ऽआयु॑ना॒ नाम्नेहि॒ यस्तृ॒तीय॑स्यां पृथि॒व्यामसि॒ यत्तेऽना॑धृष्टं॒ नाम॑ य॒ज्ञियं॒ तेन॒ त्वा द॑धे। अनु॑ त्वा दे॒ववी॑तये ॥९॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
त॒प्ताय॒नीति॑ तप्त॒ऽअय॑नी। मे॒। अ॒सि॒। वि॒त्ताय॒नीति॑ वित्त॒ऽअय॑नी। मे॒। अ॒सि॒। अव॑तात्। मा॒। ना॒थि॒तात्। अव॑तात्। मा॒। व्य॒थि॒तात्। वि॒देत्। अ॒ग्निः। नभः॑। नाम॑। अग्ने॑। अ॒ङ्गि॒रः॒। आयु॑ना। नाम्ना॑। आ। इ॒हि॒। यः। अ॒स्याम्। पृ॒थि॒व्याम्। असि॑। यत्। ते॒। अना॑धृष्टम्। नाम॑। य॒ज्ञिय॑म्। तेन॑। त्वा॒। आ। द॒धे॒। वि॒देत्। अ॒ग्निः। नमः॑। नामः॑। अग्ने॑। अ॒ङ्गि॒रः॒। आयु॑ना। नाम्ना॑। आ। इ॒हि॒। यः। द्वि॒तीय॑स्याम्। पृ॒थि॒व्याम्। असि॑। यत्। ते। अना॑धृष्टम्। नाम॑। य॒ज्ञिय॑म्। तेन॑। त्वा॒। आ। द॒धे॒। वि॒देत्। अ॒ग्निः। नभः॑। नाम॑। अग्ने॑। अ॒ङ्गि॒रः॒। आयु॑ना। नाम्ना॑। आ। इ॒हि॒। यः। तृ॒तीय॑स्याम्। पृ॒थि॒व्याम्। असि॑। यत्। ते॒। अना॑धृष्टम्। नाम॑। य॒ज्ञिय॑म्। तेन॑। त्वा॒। आ। द॒धे॒। अनु॑। त्वा॒। दे॒ववी॑तय॒ इति॑ दे॒वऽवी॑तये। ९।
महीधरः
म० शम्यामादाय चात्वालं मिमीते(द्र. मा.श. ३.५.१.२७) पूर्वेणोत्करᳪं᳭ संचरं परिहाप्य शम्यामुदीची निदधाति पुरस्ताच्च दक्षिणतः प्राचीमुत्तरतश्च स्फ्येनान्तर्लिखति तप्तायनीति प्रतिमन्त्रमिति’ (का० ५। ३ । २०-२५) । उत्तरवेदिनिचयार्थं यत्र भूप्रदेशे मृदं खनति स प्रदेशश्चात्वाल उच्यते । तत्रोत्करात्पूर्वस्यां संचरपरिहारेणोदगग्रां शम्यां निधाय तत्प्रमाणां तत्पूर्वपार्श्वे स्फ्येन रेखां कुर्यात् । तथा तत्पूर्वपार्श्वे तथैव शम्यां निधाय रेखां कुर्यात् । अभ्यन्तरे एवं दक्षिणोत्तरयोरपि प्रागग्रां शम्यां निधाय रेखाद्वयं कुर्यादिति सूत्रार्थः । अस्यां कण्डिकायां चतुर्दश यजूंषि । तत्राद्यानि चत्वारि पृथिवीदेवत्यानि । तत्र प्रथमं परिलिखति । हे पृथिवि, त्वं मे ममानुग्रहार्थं तप्तायनी असि । तप्तं पुरुषमयति प्राप्नोतीति तप्तायनी । यो हि दरिद्रः क्षेत्ररहितोऽहमिति संतप्यते तं तापोपशान्त्यर्थं प्राप्नोषीत्यर्थः । यद्वा तप्तः सन्नरो यस्यामयति सा तप्तायनी ममासि । द्वितीयं लिखति । वित्तार्थं नरो यस्यामेतीति वित्तायनी । यद्वा वित्तार्थं विर्धनं पुरुषमयतीति वित्तायनी । पृथिव्यां हि प्राप्तायां सस्यनिष्पत्तिद्वारा महद्धनं लभ्यते । तृतीयं परिलिखति । हे पृथिवि, नाथितात् याचितात् मा मां त्वम् अवतात् रक्ष । ‘तुह्योस्तातड्-’ (पा० ७।१ । ३५) इति हेस्तातङादेशः । यथा कमपि न याचे तथा मां कुर्वित्यर्थः । नाथतिधातुर्याञ्चार्थः । चतुर्थं परिलिखति । ‘व्यथ भयचलनयोः’ । व्यथितात् भयाञ्चलनात् स्थानभ्रंशाच्च मा मामवतात् रक्ष । ‘विदेदग्निरिति चात्वाले प्रहरति स्फ्येनेति’ (का० ५ । ३ । २६) । प्रहरति मृत्तिकां खनेदित्यर्थः । आग्नेयं यजुः । हे चात्वालगतमृत्तिके, नभोनामाग्निर्नभःसंज्ञस्त्वदधिष्ठाताग्निर्विदेत् त्वां जानीयात् । मया खन्यमानां त्वां त्वदधिष्ठातानुजानात्वित्यर्थः । अग्निनामोच्चारणपुरःसरं प्रहरेत् । तथाच श्रुतिः ‘स वा अग्नीनामेव नामानि गृह्णन् हरति’ (३ । ५। १।३१) इति । ‘अग्ने अङ्गिर इति पुरीषं प्रहरतीति’ (का० ५। ३ । २७) पुरीषं खाता मृत् । हे अग्ने, हे अङ्गिरः, अङ्गिर्गतिरस्यास्तीति अङ्गिराः । मत्वर्थे रस्प्रत्ययः । तत्संबोधनं हे अग्ने, त्वमायुना नाम्नाभिहितः सन् एहि गच्छ । एति गच्छतीत्यायुरग्नेर्नाम । अधिष्ठातर्यागत एवाधिष्ठेयमागच्छतीत्यग्नेरागमनादिकं प्रार्थ्यते । ‘योऽस्यामिति निवपति पूर्वार्धे शङ्कुसहितमिति’ ( का० ३ । ५ । २८)। उत्तरवेदिस्थाने मृदं निक्षिपेदित्यर्थः । हे अग्ने, यस्त्वमस्यां दृश्यमानायां पृथिव्यां भूमावसि । किंच ते तव यज्ञियं यज्ञयोग्यं यत् नामाग्निरिति प्रसिद्धमनाधृष्यं केनापि याज्ञिकेनातिरस्कृतं तेन त्वादधे तेन नाम्ना युक्तं वां स्थापयामि । ‘एवं द्विरपरं द्वितीयस्यां तृतीयस्यामिति विशेष इति’ (का० ५। ३ । ३०-३१)। यथा पूर्वैस्त्रिभिर्मन्त्रैः खात्वा हृत्वा मृत्प्रक्षिप्ता वेद्यर्थमेतत्त्रितयं पुनरपि द्विः कुर्यादिति मन्त्रयोः तत्रास्यामिति पदस्थाने द्वितीयस्यां तृतीयस्यामिति पाठविशेष इति सूत्रार्थः । यद्यपि पृथिवीशब्देन भूमिरेव तथापि द्वितीयस्यामिति तृतीयस्यामिति विशेषणत्वाद्द्वितीया पृथिव्यन्तरिक्षं तृतीया पृथिवी द्यौः । अन्यत् पूर्ववद्व्याख्येयम् । ‘अनु त्वेति चतुर्थं यथार्थमाहृत्येति’ (का० ५ । ३ । ३२ ) । यथा पूर्व स्मिन्पर्यायत्रये मृदाहृत्य प्रक्षिप्ता एवं चतुर्थमपि प्रक्षेपणपर्यन्तं मृदाहरणं कुर्यादिति सूत्रार्थः । देववीतये देवानां प्रीतये हे मृत्तिके, त्वा त्वामनु पूर्वोक्तमाहरणत्रयमनुसृत्याहरामीति शेषः ॥ ९॥
दशमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- गोतम ऋषिः
- भूरिग् आर्षी गायत्री, भुरिग् ब्राह्मी बृहती, निचृद् ब्राह्मी जगती, याजुषी अनुष्टुप्
- षड्जः, निषादः
दयानन्द-सरस्वती (हि) - विषयः
और किसलिये अग्नि आदि से यज्ञ का अनुष्ठान करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्या के ग्रहण करनेवाले विद्वन् ! जैसे मैं (यत्) जो (तप्तायनी) स्थापनीय वस्तुओं के स्थानवाली विद्युत् ज्वाला (असि) है वा जो (वित्तायनी) भोग्य वा प्रतीत पदार्थों को प्राप्त करानेवाली बिजुली (असि) है (त्वा) उसकी विद्या को जानता हूँ, वैसे तू भी इस को (मे) मुझ से (एहि) प्राप्त हो, जैसे यह (यत्) जो (अग्निः) प्रसिद्ध अग्नि (नभः) जल वा प्रकाश को प्राप्त कराता हुआ (मा) मुझ को (व्यथितात्) भय से (अवतात्) रक्षा करता वा (नाथितात्) ऐश्वर्य से (अवतात्) रक्षा करता है, वैसे तुझ से सेवन किया हुआ यह तेरी भी रक्षा करेगा। जैसे मैं (तेन) उस साधन से जो (अग्ने) जाठर रूप (अङ्गिरः) अङ्गों में रहनेवाला अग्नि (आयुना) जीवन वा (नाम्ना) प्रसिद्धि से (अस्याम्) इस (पृथिव्याम्) पृथिवी में (नाम) प्रसिद्ध है (त्वा) उसको जानता हूँ, वैसे तू भी इसको (मे) मुझ से (एहि) अच्छे प्रकार जान। जैसे मैं (तेन) उस ज्ञान से (यत्) जो (अनाधृष्टम्) नहीं नष्ट होने योग्य (यज्ञियम्) यज्ञाङ्गसमूह (नाम) प्रसिद्ध तेज है (त्वा) उसको (देववीतये) दिव्यगुणों की प्राप्ति के लिये (त्वा) उस यज्ञ को (आदधे) धारण करता हूँ, वैसे तू उस से इस को उत्तम गुणों की प्राप्ति के लिये धारण कर और वैसे सब मनुष्य भी उस से इस को (विदेत) प्राप्त होवें। जैसे मैं (तेन) जो (द्वितीयस्याम्) दूसरी (पृथिव्याम्) भूमि में (अग्ने) (अङ्गिरः) अङ्गारों में रहनेवाला अग्नि (आयुना) जीवन वा (नाम्ना) प्रसिद्धि से (नाम) प्रसिद्धि है वा (यः) जो (नभः) सुख को देता है (तेन) (त्वा) उससे उसको प्राप्त हुआ हूँ, वैसे तू उससे इसको (एहि) जान और सब मनुष्य भी उससे इसको (विदेत्) प्राप्त हों। जैसे मैं (तेन) पुरुषार्थ से जो (अनाधृष्टम्) प्रगल्भगुणसहित (यज्ञियम्) यज्ञसम्बन्धी (नाम) प्रसिद्ध तेज है (त्वा) उसे भोगों की प्राप्ति के लिये (आदधे) धारण करता हूँ तथा तू उसके लिये धारण कर और सब मनुष्य भी (विदेत्) धारण करें। जैसे मैं (तेन) उस क्रिया कौशल से जो (अग्निः) अग्नि (आयुना) जीवन वा प्रसिद्धि से (अङ्गिरः) अङ्गों का सूर्यरूप से पोषण करता हुआ (नाम) प्रसिद्ध है वा जो (नभः) आकाश को प्रकाशित करता है (त्वा) उसको धारण करता हूँ, वैसे तू उसको धारण कर वा सब लोग भी (अनुविदेत्) उस को ठीक-ठीक जान के कार्य सिद्ध करें। जैसे मैं (तेन) इन्धनादि सामग्री से जो (अनाधृष्टम्) प्रगल्भसहित (यज्ञियम्) शिल्पविद्यासम्बन्धी (नाम) प्रसिद्ध तेज है (त्वा) उसको विद्वानों की प्राप्ति के लिये (आदधे) धारण करता हूँ, वैसे तू उससे उसकी प्राप्ति के लिये (अन्वेहि) खोज कर और सब मनुष्य भी विद्या से सम्प्रयोग करें ॥९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचलुप्तोपमालङ्कार है। जो प्रसिद्ध सूर्य बिजुली रूप से तीन प्रकार का अग्नि सब लोगों में बाहिर-भीतर रहनेवाला है, उसको जान और जनाकर सब मनुष्यों को कार्यसिद्धि का सम्पादन करना कराना चाहिये ॥९॥
दयानन्द-सरस्वती (सं) - विषयः
अथ किमर्थोऽग्न्यादिना यज्ञोऽनुष्ठातव्य इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्यां जिघृक्षो ! यथाऽहं तेन यद्यातप्तायन्य(स्य)स्ति, वित्तायनी विद्युद(स्य)स्ति, त्वा तां वेद्मि तथा त्वमेतेनैतद्विद्यां मे मम सकाशादेहि प्राप्नुहि, यथाऽहं सुसेवितः अग्निः सविता नभो जलं प्रकाशं वा प्रयच्छन् मा मां व्यथितादवतान्नाथिताच्चावतात् तथा त्वया सेविनः संस्त्वामपि रक्षेत्। यथाऽहं तेन योऽग्नेऽङ्गिरोऽग्निरायुना नाम्नाऽस्यां पृथिव्यां नाम प्रसिद्धोऽस्ति त्वा तं देववीतये विजानामि, तथैतेनैनं त्वमपि मे मम सकाशादेहि संजानीहि, यथाऽहं तेन नाम्ना यदनाधृष्टं यज्ञियं नाम तेज आदधे तथा तेन त्वा तं त्वमेतेनैनमस्मानन्वेहि, सर्वो जनश्चानुविदेत्। यथाऽहं तेन योऽग्निर्द्वितीयस्यां पृथिव्यामग्नेऽङ्गिर आयुना नाम्ना नामासि वर्त्तते, योऽग्निः नभः सुखं प्रयच्छति तेन त्वा तं सम्प्रयोजयामि, तथैतेन त्वैनं त्वमेहि सर्वो जनश्चानुविदेत्। यथाऽहं तेन यद्येनाधृष्टं यज्ञियं नाम तेजोऽस्मै त्वाऽदधे तथा त्वमेतेन नाम्ना त्वामेहि सर्वो जनश्चानुविदेत्। यथाऽहं तेन योऽग्निरायुना नाम्ना तृतीयस्यां पृथिव्यामग्नेऽङ्गिरः नामासि वर्त्तते, यो नभोऽवकाशं द्योतयति त्वा तं जानामि तथैनमेतस्मै त्वमेहि सर्वो जनोऽपि विदेत् ॥९॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यः प्रसिद्धसूर्य्यविद्युद्रूपेण त्रिविधोऽग्निः सर्वेषु लोकेषु बाह्याभ्यन्तरतो वर्त्तते, तं विदित्वा विज्ञाप्य च सर्वैर्मनुष्यैः सर्वकार्य्यसिद्धिः सम्पादनीया ॥९॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. भौतिक अग्नी हा प्रत्यक्ष, सूर्य व विद्युत या तीन रूपांनी सर्वांमध्ये अंतर्बाह्य असतो, हे सर्वांनी जाणावे व इतरांनाही सांगावे आणि त्यायोगे कार्य सिद्ध करावे.
१० सिह्यसि सपत्नसाही
विश्वास-प्रस्तुतिः ...{Loading}...
सिँ॒ह्य᳖सि सपत्नसा॒ही दे॒वेभ्यः॑ कल्पस्व सिँ॒ह्य᳖सि सपत्नसा॒ही दे॒वेभ्यः॑ शुन्धस्व सिँ॒ह्य᳖सि सपत्नसा॒ही दे॒वेभ्यः॑ शुम्भस्व ॥१०॥
मूलम् ...{Loading}...
सिँ॒ह्य᳖सि सपत्नसा॒ही दे॒वेभ्यः॑ कल्पस्व सिँ॒ह्य᳖सि सपत्नसा॒ही दे॒वेभ्यः॑ शुन्धस्व सिँ॒ह्य᳖सि सपत्नसा॒ही दे॒वेभ्यः॑ शुम्भस्व ॥१०॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सिँ॒ही। अ॒सि॒। स॒प॒त्न॒सा॒ही। स॒प॒त्न॒सहीति॑ सपत्न॒ऽसही। दे॒वेभ्यः॑। क॒ल्प॒स्व॒। सिँ॒ही। अ॒सि॒। स॒प॒त्न॒सा॒ही। स॒प॒त्न॒स॒हीति॑ सपत्नऽस॒ही। दे॒वेभ्यः॑। शु॒न्ध॒स्व॒। सिँ॒ही। अ॒सि॒। स॒प॒त्न॒सा॒ही। स॒प॒त्न॒स॒हीति॑ सपत्नऽस॒ही। दे॒वेभ्यः॑। शु॒म्भ॒स्व॒। १०।
महीधरः
म० सिᳪं᳭ह्यसीति व्यूहत्युत्तरवेदिᳪं᳭शम्यामात्रामिति’(का. ५। ३ । ३२)। विशेषेण पांसुभिः समां करोति । त्रयाणां वेदिर्देवता । वाक् पूर्वमसुरेभ्यः क्रुद्धा सिंही भूला चचारेतीतिहासः । सा वेदिमन्त्रेषूच्यते । हे उत्तरवेदे, या त्वं सिंही सिंहसमाना भूला सपत्नसाही सपत्नान् सहतेऽभिभवतीति सपत्नसाही कर्मण्यण् । शत्रूणामभिभवित्री असि भवसि । अतो देवेभ्यः देवोपकारार्थं कल्पस्व समर्था उत्तरवेदिरूपेण क्लृप्ता भव । ‘प्रोक्षत्युत्तरवेदिᳪं᳭सिकताश्च प्रकिरति सिᳪं᳭ह्यसीति प्रतिमन्त्रमिति’ (का० ५। ३ । ३७) । हे उत्तरवेदे, शुन्धस्व शुद्धा भव । ‘शुन्ध शुद्धौ’ । अन्यत्पूर्ववत् । हे उत्तरवेदे, त्वं शुम्भस्व सिकताप्रक्षेपेण शोभिता भव । अन्यत्पूर्ववत् । शुंभतिरलंकारार्थः ॥ १० ॥
एकादशी।
अधिमन्त्रम् (VC)
- वाग्देवता
- गोतम ऋषिः
- ब्राह्मी उष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
अब अगले मन्त्र में सब विद्याओं की मुख्य सिद्धि करनेवाली वाणी के गुणों का उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् मनुष्य ! तू जो (सपत्नसाही) जिस से शत्रुओं को सहन करते हैं, वह (देवेभ्यः) उत्तम गुण शूरवीरों के लिये (कल्पस्व) पढ़ा और उपदेश करके प्राप्त कर (सिंही) जो दोषों को नष्ट करने वा शब्दों का उच्चारण करनेवाली वाणी (असि) है, उसको (देवेभ्यः) विद्वान् दिव्यगुण वा विद्या की इच्छावाले मनुष्यों के लिये (शुन्धस्व) शुद्धता से प्रकाशित कर। जो (सपत्नसाही) दोषों को हनन वा (सिंही) अविद्या के नाश करनेवाली वाणी (असि) है, उसको (देवेभ्यः) धार्मिकों के लिये (शुन्धस्व) शुद्ध कर और जो (सपत्नसाही) दुष्ट स्वभाव और (सिंही) दुष्ट दोषों को नाश करनेवाली वाणी (असि) है, उसको (देवेभ्यः) सुशील विद्वानों के लिये (शुम्भस्व) शोभायुक्त कर ॥१०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को अति उचित है कि जो इस संसार में तीन प्रकार की वाणी होती है अर्थात् एक शिक्षा विद्या से संस्कार की हुई, दूसरी सत्यभाषणयुक्त और तीसरी मधुरगुणसहित−उनको स्वीकार करें ॥१०॥
दयानन्द-सरस्वती (सं) - विषयः
अथ सर्वासां विद्यानां मुख्यसाधिकाया वाचो गुणा उपदिश्यन्ते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वंस्त्वं या सपत्नसाही सिंही वागस्ति तां देवेभ्यः कल्पस्व। या सपत्नसाही सिंही वागस्ति तां देवेभ्यः शुन्धस्व। या सपत्नसाही सिंही वागस्ति तां देवेभ्यः शुम्भस्व ॥१०॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - त्रिविधा खलु वाग् भवति। शिक्षाविद्यासंस्कृता सत्यभाषणा मधुरा च, एषा मनुष्यैः सर्वदा स्वीकार्य्या ॥१०॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - विद्येने संस्कारित, सत्यभाषणयुक्त व मधुर गुणयुक्त अशी तीन प्रकारची वाणी माणसांनी अंगीकारावी.
११ इन्द्रघोषस्त्वा वसुभिः
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒न्द्र॒घो॒षस्त्वा॒ वसु॑भिः पु॒रस्ता॑त् पातु॒ प्रचे॑तास्त्वा रु॒द्रैः प॒श्चात् पा॑तु॒ मनो॑जवास्त्वा पि॒तृभि॑र्दक्षिण॒तः पातु॑ वि॒श्वक॑र्मा त्वादि॒त्यैरु॑त्तर॒तः पा॑त्वि॒दम॒हं त॒प्तं वार्ब॑हि॒र्धा य॒ज्ञान्निःसृ॑जामि ॥११॥
मूलम् ...{Loading}...
इ॒न्द्र॒घो॒षस्त्वा॒ वसु॑भिः पु॒रस्ता॑त् पातु॒ प्रचे॑तास्त्वा रु॒द्रैः प॒श्चात् पा॑तु॒ मनो॑जवास्त्वा पि॒तृभि॑र्दक्षिण॒तः पातु॑ वि॒श्वक॑र्मा त्वादि॒त्यैरु॑त्तर॒तः पा॑त्वि॒दम॒हं त॒प्तं वार्ब॑हि॒र्धा य॒ज्ञान्निःसृ॑जामि ॥११॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इ॒न्द्र॒घो॒ष इती॑न्द्रघो॒षः। त्वा॒ वसु॑भि॒रिति॒ वसु॑ऽभिः। पु॒रस्ता॑त्। पा॒तु॒। प्रचे॑ता॒ इति॒ प्रऽचे॑ताः। त्वा॒। रु॒द्रैः। प॒श्चात्। पा॒तु॒। मनो॑जवा॒ इति॒ मनः॑ऽजवाः। त्वा॒। पि॒तृभि॒रिति॑ पि॒तृऽभिः॑। द॒क्षि॒ण॒तः। पा॒तु॒। वि॒श्वक॒र्मेति॑ वि॒श्वऽक॑र्मा। त्वा॒। आ॒दि॒त्यैः। उ॒त्त॒र॒तः। पा॒तु॒। इ॒दम्। अ॒हम्। त॒प्तम्। वाः। ब॒हि॒र्धेति॑ बहिः॒ऽधा। य॒ज्ञात्। निः। सृ॒जा॒मि॒। ११।
महीधरः
म० ‘वेद्यन्तरे स्थित्वोदङुत्तरवेदिं प्रोक्षतीन्द्रघोष इति प्रतिमन्त्रं प्रतिदिशं यथालिङ्गमिति’ (का० ५। ४ । ११)। चतुर्णां यजुषामुत्तरवेदिर्देवता । इन्द्र इति शब्देन घुष्यते विस्पष्टं कथ्यते । यो देवः सोऽयमिन्द्रघोषः वसुभिः अष्टसंख्याकैर्गणदेवैर्युक्तः सन् हे उत्तरवेदे, त्वा त्वां पुरस्तात् पूर्वस्यां दिशि पातु रक्षतु । प्रचेताः प्रकृष्टप्रज्ञो वरुणो रुद्रैरेकादशसंख्यैर्गणदेवैः सहितः पश्चात्पश्चिमायां दिशि त्वां पातु । मनोजवाः मनोवद्वेगयुक्तो यमो देवः पितृभिः स्वर्लोकवासिदेवविशेषैर्युक्तो दक्षिणतः दक्षिणस्यां दिशि त्वा त्वां पातु । विश्वकर्मा विश्वानि कर्माणि जगदुत्पत्त्यादीनि यस्य स विश्वकर्मा आदित्यैः द्वादशसंख्यैर्गणदेवैः सहित उत्तरतः उत्तरस्यां दिशि त्वां पातु । एकदा असुरा देवान्हन्तुमागतास्तदा देवसेनाधिपतय इन्द्रघोषादयश्चतसृषु दिक्षु तानसुरानपाकुर्वन् । तस्मादेतैर्मन्त्रैर्दिक्चतुष्टये रक्षा प्रार्थनीया । तदाह तित्तिरिः ‘असुरा वज्रमुद्यम्य देवानभ्यायन्त तानिन्द्रघोषो वसुभिः पुरस्तादपानुदत्’ इत्यादि । ‘बहिर्वेदि शेषं निषिञ्चतीदमहं तप्तं वारिति’ (का० ५ । ४ । १२)। असुरनिवारणाय येनोदकेन प्रोक्षणं कृतं तदुदकमुग्ररूपत्वात्तप्तमित्युच्यते । तप्तमिदं वाः उदकं प्रोक्षणशेषभूतं यज्ञाद्बहिर्धा यज्ञप्रदेशाद्बाह्यप्रदेशेऽहं निःसृजामि निक्षिपामि ॥११॥
द्वादशी।
अधिमन्त्रम् (VC)
- वाग्देवता
- गोतम ऋषिः
- निचृद् ब्राह्मी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा और कैसी है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् मनुष्यो ! जैसे (प्रचेताः) उत्तम ज्ञानयुक्त (इन्द्रघोषः) परमात्मा, वेदविद्या और बिजुली का घोष अर्थात् शब्द, अर्थ और सम्बन्धों के बोधवाला (विश्वकर्मा) सब कर्मवाला मैं (यज्ञात्) पढ़ना-पढ़ाना वा होमरूप यज्ञ से (इदम्) आभ्यन्तर में रहनेवाले (तप्तम्) तप्त जल (बहिर्धा) बाहर धारण होनेवाले शीतल (वाः) जल को (निःसृजामि) सम्पादन करता वा निःक्षेप करता हूँ, वैसे आप भी कीजिये। जो (वसुभिः) अग्नि आदि पदार्थ वा चौबीस वर्ष ब्रह्मचर्य्य किये हुए मनुष्यों के साथ वर्त्तमान (इन्द्रघोषः) परमेश्वर, जीव और बिजुली के अनेक शब्द सम्बन्धी वाणी है, उसको (पुरस्तात्) पूर्वदेश से जैसे मैं रक्षा करता हूँ, वैसे आप भी (पातु) रक्षा करो जो (रुद्रैः) प्राण वा चवालीस वर्ष ब्रह्मचर्य्य किये हुये विद्वानों के साथ वर्त्तमान (प्रचेताः) उत्तम ज्ञान करनेवाली वाणी है, उसको (पश्चात्) पश्चिम देश से रक्षा करता हूँ, वैसे आप भी (पातु) रक्षा करें। जो (पितृभिः) ज्ञानी वा ऋतुओं के साथ वर्त्तमान (मनोजवाः) मन के समान वेगवाली वाणी है, उसका (दक्षिणतः) दक्षिण देश से पालन करता हूँ, वैसे आप भी (पातु) रक्षा करें। जो (आदित्यैः) बारह महीनों वा अड़तालीस वर्ष ब्रह्मचर्य्य किये हुए विद्वानों के साथ वर्त्तमान (विश्वकर्मा) सब कर्मयुक्त वाणी है, उसकी (उत्तरतः) उत्तर देश से पालन करता हूँ, वैसे आप भी (पातु) रक्षा करें ॥११॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को योग्य है कि जो वसु, रुद्र, आदित्य और पितरों से सेवन की हुई वा यज्ञ को सिद्ध करनेवाली वाणी वा जल को विद्या वा उत्तम क्रिया से सेवन करके निरन्तर शुद्ध तथा निर्मल करें ॥११॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स सा कीदृशीत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्या ! यथा प्रचेता इन्द्रघोषो विश्वकर्माहं यज्ञादिदमन्तस्थमुदकं तप्तं बहिर्धा वर्त्तमानं शीतलं उदकं च निःसृजामि, तथा या वसुभिः सह वर्त्तमानेन्द्रघोषो वागस्ति तां पुरस्ताद् रक्षामि तथा भवानपि पातु। या रुद्रैः सह वर्त्तमाना प्रचेता वागस्ति तां पश्चात् पालयामि तथा भवानपि पातु। या पितृभिः सह वर्त्तमाना मनोजवा वागस्ति तां दक्षिणतोऽवामि तथा भवानपि पातु। या आदित्यैः सह वर्त्तमाना वागस्ति तामुत्तरतो रक्षामि तथा भवानपि पातु ॥११॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैर्वसुरुद्रादित्यपितृभिः सेवितां यज्ञाधिकृतां वाचमुदकं च विद्यया सत्क्रियया सह सेवित्वा शुद्धं निर्मलं च सततं भावनीयम् ॥११॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. वसू- अग्नी इत्यादी पदार्थ किंवा चोवीस वर्षे ब्रह्मचर्य पाळून माणसाजवळ वर्तमान असलेली वाणी रुद्र-प्राण किंवा चव्वेचाळीस वर्षे ब्रह्मचर्य पाळून विद्वानाची वाणी, पितर-ज्ञानी किंवा ऋतूंबरोबर वर्तमान असलेली वाणी, आदित्य- बारा महिने किंवा अठ्ठेचाळिस वर्षे ब्रह्मचर्य पालन करणारी वाणी मनोज वा ः- मनाप्रमाणे वेगवान वाणी, विश्वकर्मा-सर्व कर्मयुक्त वाणी व यज्ञाने सिद्ध करणारी वाणी जाणवी जलाचे सेवन करावे. विद्येने व उत्तम क्रियेने विद्युतचा अंगीकार करावा.
१२ सिंह्यसि स्वाहा
विश्वास-प्रस्तुतिः ...{Loading}...
सिँ॒ह्य᳖सि॒ स्वाहा॑ सिँ॒ह्य॒स्यादित्य॒वनिः॒ स्वाहा॑ सिँ॒ह्य᳖सि ब्रह्म॒वनिः॑ क्षत्र॒वनिः॒ स्वाहा॑ सिँ॒ह्य᳖सि सुप्रजा॒वनी॑ रायस्पोष॒वनिः॒ स्वाहा॑ सिँ॒ह्य᳖स्याव॑ह देवान् यज॑मानाय॒ स्वाहा॑ भू॒तेभ्य॑स्त्वा ॥१२॥
मूलम् ...{Loading}...
सिँ॒ह्य᳖सि॒ स्वाहा॑ सिँ॒ह्य॒स्यादित्य॒वनिः॒ स्वाहा॑ सिँ॒ह्य᳖सि ब्रह्म॒वनिः॑ क्षत्र॒वनिः॒ स्वाहा॑ सिँ॒ह्य᳖सि सुप्रजा॒वनी॑ रायस्पोष॒वनिः॒ स्वाहा॑ सिँ॒ह्य᳖स्याव॑ह देवान् यज॑मानाय॒ स्वाहा॑ भू॒तेभ्य॑स्त्वा ॥१२॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सिँ॒ही। अ॒सि॒। स्वाहा॑। सिँ॒ही। अ॒सि॒। आ॒दित्य॒वनि॒रित्या॑दित्य॒ऽवनिः॑। स्वाहा॑। सिँ॒ही। अ॒सि॒। ब्र॒ह्म॒वनि॒रिति॑ ब्रह्म॒ऽवनिः॑। क्ष॒त्र॒वनि॒रिति॑ क्षत्र॒ऽवनिः॑। स्वाहा॑। सिँ॒ही। अ॒सि॒। सु॒प्र॒जा॒वनि॒रिति॑ सुप्रजा॒ऽवनिः॑। रा॒य॒स्पो॒ष॒वनि॒रिति॑ रायस्पोष॒ऽवनिः॑। स्वाहा॑। सिँ॒ही। अ॒सि॒। आ। वह॒। दे॒वान्। यज॑मानाय। स्वाहा॑। भू॒तेभ्यः॑। त्वा॒। १२।
महीधरः
म० नाभ्योः श्रोण्यᳪं᳭सेषु पञ्चगृहीतं जुहोत्यक्ष्णया दक्षिणेᳪं᳭से श्रोण्याᳪं᳭श्रोण्यामᳪं᳭से मध्ये च हिरण्यं पश्यन् सिᳪं᳭ह्यसीति’ (का० ५। ४ । १४) । योऽयमुत्तरवेदेर्नाभ्याख्यो मध्यदेशस्तस्य श्रोण्यंसेषु आग्नेयैशकोणावंसौ वायव्यनैर्ऋतकोणौ श्रोणी तेषु चतुर्षु मध्ये च जुह्वां पञ्चवारं गृहीतेनाज्येन जुहुयात् । कथम् । अक्ष्णया कोणसूत्रप्रदेशेन । तद्यथा । प्रथमं दक्षिणेंऽसे तत उत्तरश्रोणौ ततो दक्षिणश्रोणौ तत उत्तरांसे ततो मध्ये एवं पञ्चसु स्थानेषु हिरण्यं निधाय तदवलोकयन्पञ्चभिर्मन्त्रैर्जुहुयादिति सूत्रार्थः । पञ्च यजुषां वाग्देवता । पुरा कदाचिदुत्तरवेदिदेवता केनापि निमित्तेन देवेभ्योऽपक्रम्यासुरानप्राप्योभयोर्दैवासुरसेनयोर्मध्ये सिंहरूपं धृत्वा तस्थौ । तदयं मन्त्र आह । तदुक्तं तित्तिरिणा ‘तेभ्योऽपक्रम्योत्तरवेदिः सिंहीरूपं कृत्वोभयानन्तरातिष्ठत्’ इति । तदभिप्रेत्य सिंही उच्यते । हे उत्तरवेदे, त्वं सिंह्यसि सिंहरूपा भवसि तादृश्यै तुभ्यं स्वाहा हविर्दत्तम् । सिंह्यसि किंभूता । आदित्यवनिः आदित्यान् वनुते संभजति प्रीणयतीत्यादित्यवनिः । अन्यत्पूर्ववत् । सिंह्यसि ब्रह्मवनिः क्षत्रवनिः ब्रह्म क्षत्रं च वनुत इति ब्राह्मणजातिक्षत्रियजात्योः प्रीणयितृत्वमत्र विशेषः । सिंह्यसि सुप्रजावनिः पुत्रपौत्रादिरूपायाः शोभनप्रजायाः संपादयित्री । रायस्पोषवनिः सुवर्णरजतादिधनपुष्टेः संपादयित्री । सिंह्यसि यजमानाय यजमानोपकारार्थं देवानावहानयेति विशेषः । ‘भूतेभ्यस्त्वेति स्रुचमुद्यच्छतीति’ (का० ५ । ४ । १५)। भूतेभ्यः जरायुजाण्डजादिचतुर्विधभूतग्रामप्रीत्यर्थं हे होमविशेषाज्ययुक्ते जुहूः, त्वामुद्यच्छामीति शेषः । तदाह तित्तिरिः ‘भूतेभ्यस्त्वेति स्रुचमुद्गृह्णाति य एव देवा भूतास्तेषां तद्भागधेयं भवति तानेव तेन प्रीणाति’ इति ॥ १२ ॥
त्रयोदशी।
अधिमन्त्रम् (VC)
- वाग्देवता
- गोतम ऋषिः
- भुरिग् ब्राह्मी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसी है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - मैं जो (आदित्यवनिः) मासों का सेवन और (सिंही) क्रूरत्व आदि दोषों को नाश करनेवाली (स्वाहा) ज्योतिःशास्त्र से संस्कारयुक्त वाणी (असि) है, जो (ब्रह्मवनिः) परमात्मा, वेद और वेद के जाननेवाले मनुष्यों के सेवन और (सिंही) बल के जाड्यपन को दूर करनेवाली (स्वाहा) पढ़ने-पढ़ाने व्यवहारयुक्त वाणी (असि) है, जो (क्षत्रवनिः) राज्य, धनुर्विद्या और शूरवीरों का सेवन और (सिंही) चोर, डाकू अन्याय को नाश करनेवाली (स्वाहा) राज्य-व्यवहार में कुशल वाणी (असि) है, जो (रायस्पोषवनिः) विद्या धन की पुष्टि का सेवन और (सिंही) अविद्या को दूर करनेवाली (स्वाहा) वाणी (असि) है, जो (सुप्रजावनिः) उत्तम प्रजा का सेवन और (सिंही) सब दुःखों का नाश और (स्वाहा) व्यवहार से धन को प्राप्त करानेवाली वाणी (असि) है और जो (यजमानाय) विद्वानों के पूजन करनेवाले यजमान के लिये (स्वाहा) दिव्य विद्या सम्पन्न वाणी (देवान्) विद्वान् दिव्यगुण वा भोगों को (आवह) प्राप्त करती है (त्वा) उसको (भूतेभ्यः) सब प्राणियों के लिये (यज्ञात्) यज्ञ से (निःसृजामि) सम्पादन करता हूँ ॥१२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में पूर्व मन्त्र से (यज्ञात्) (निः) (सृजामि) इन तीनों पदों की अनुवृत्ति है। मनुष्यों को उचित है कि पढ़ना-पढ़ाना आदि से इस प्रकार लक्षणयुक्त वाणी प्राप्त कर, इसे सब मनुष्यों को पढ़ा कर सदा आनन्द में रहें ॥१२॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः सा कीदृशीत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - अहं याऽऽदित्यवनिः सिंही स्वाहा(स्य)स्ति, या ब्रह्मवनिः सिंही स्वाहाऽ(स्य)स्ति, या क्षत्रवनिः सिंही स्वाहा(स्य)स्ति, या रायस्पोषवनिः सिंही स्वाहा(स्य)स्ति, या सुप्रजावनिः सिंही स्वाहा, या यजमानाय देवानां वह प्रापयति, तां भूतेभ्यो यज्ञान्निःसृजामि ॥१२॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र पूर्वस्मान्मन्त्रात् (यज्ञात्) (निः) (सृजामि) इति पदत्रयमनुवर्त्तते। मनुष्यैरध्ययनादिनेदृग्लक्षणां वेदादिवाणीं प्राप्यैतां सर्वेभ्यो मनुष्येभ्योऽध्याप्यानन्दयितव्याः ॥१२॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात पूर्वीच्या मंत्रातील (यज्ञात्) (निः) (सृजामि) या तीन पदांची अनुवृत्ती आहे. माणसांनी अध्ययन व अध्यापनाद्वारे अनेक प्रकारच्या लक्षणांनी युक्त (वेद) वाणीची प्राप्ती करून घेऊन इतरांना शिकवावे व आनंदात राहावे.
१३ धुवोऽसि पृथिवीम्
विश्वास-प्रस्तुतिः ...{Loading}...
धु॒वो᳖ऽसि पृथि॒वीं दृँ॑ह ध्रु॒व॒क्षिद॑स्य॒न्तरि॑क्षं दृँहाच्युत॒क्षिद॑सि॒ दिवं॑ दृँहा॒ग्नेः पुरी॑षमसि ॥१३॥
मूलम् ...{Loading}...
धु॒वो᳖ऽसि पृथि॒वीं दृँ॑ह ध्रु॒व॒क्षिद॑स्य॒न्तरि॑क्षं दृँहाच्युत॒क्षिद॑सि॒ दिवं॑ दृँहा॒ग्नेः पुरी॑षमसि ॥१३॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ध्रु॒वः। अ॒सि॒। पृ॒थि॒वीम्। दृँ॒ह॒। ध्रु॒व॒क्षिदिति॑ ध्रु॒व॒ऽक्षित्। अ॒सि॒। अ॒न्तरिक्ष॑म्। दृँ॒ह॒। अ॒च्यु॒त॒क्षिदित्य॑च्यु॒॑त॒ऽक्षित्। अ॒सि॒। दिव॑म्। दृँ॒ह॒। अग्नेः॑। पु॒री॑षम्। अ॒सि॒। १३।
महीधरः
म०. ‘नाभिं पैतदारवैः परिदधाति पूर्ववद् ध्रुवोऽसीति प्रतिमन्त्रमिति’ (का० ५। ४ । १६) । पीतदारुर्देवदारुः तदीयैः परिधिभिरुत्तरवेदेर्मध्यदेशरूपां नाभिं परिदध्यात्पूर्ववद्दर्शपौर्णमासेष्टौ यथा पश्चिमदक्षिणोत्तरेषु तथात्रापीति सूत्रार्थः । त्रयाणां परिधयो देवताः । हे मध्यमपरिधे, त्वं ध्रुवः स्थिरोऽसि । अतः पृथिवीं दृंह दृढीकुरु । हे दक्षिणपरिधे, त्वं ध्रुवे स्थिरे यज्ञे क्षियति निवसति ध्रुवक्षिदसि तस्मादन्तरिक्षं दृढीकुरु । अच्युते विनाशरहिते यज्ञे क्षियति निवसतीत्यच्युतक्षित् हे उत्तरपरिधे, त्वं तादृशोऽसि तस्माद्दिवं द्युलोकं दृंह । ‘अग्नेः पुरीषमिति निवपति गुग्गुलुसुगन्धितेजनवृष्णेः स्तुकाश्चोपरि शीर्षण्या अभावेऽन्या इति’ (का. ५।४ ।१७) गुग्गुलुर्धूपद्रव्यं, सुगन्धितेजनं तृणविशेषः, वृष्णे: स्तुका अविरोमाणि । एतानि नाभौ प्रक्षिपेदिति सूत्रार्थः । हे गुग्गुलुप्रभृतिसंभारसमूह, त्वमग्नेः पुरीषं पूरकमसि । पूरयतीति पुरीषम् । ‘अग्नेर्ह्येतत्पुरीषं यत्संभाराः’ इति तित्तिरिः ॥ १३ ॥
चतुर्दशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- गोतम ऋषिः
- भुरिग् आर्षी अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर यह यज्ञ कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् मनुष्यो ! जो यज्ञ (ध्रुवः) निश्चल (पृथिवीम्) भूमि को बढ़ाता (असि) है, उसको तुम (दृंह) बढ़ाओ जो (ध्रुवक्षित्) निश्चल सुख और शास्त्रों का निवास करानेवाला (असि) है वा (अन्तरिक्षम्) आकाश में रहनेवाले पदार्थों को पुष्ट करता है, उसको तुम (दृंह) बढ़ाओ। जो (अच्युतक्षित्) नाशरहित पदार्थों को निवास करानेवाला (असि) है वा (दिवम्) विद्यादि प्रकाश को प्रकाशित करता है, उसको तुम (दृंह) बढ़ाओ जो (अग्नेः) बिजुली आदि अग्नि वा (पुरीषम्) पशुओं की पूर्ति करनेवाला यज्ञ (असि) है, उसका अनुष्ठान तुम किया करो ॥१३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को योग्य है कि विद्या क्रिया से सिद्ध वा त्रिलोकी के पदार्थों को पुष्ट करनेवाले, विद्याक्रियामय यज्ञ का अनुष्ठान करके सुखी रहें और सब को रक्खें ॥१३॥
दयानन्द-सरस्वती (सं) - विषयः
पुनरयं यज्ञः कीदृश इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! यो यज्ञो ध्रुवोऽ(स्य)स्ति पृथिवीं वर्धयति, तं त्वं दृंह। यो ध्रुवक्षिदस्यस्त्यन्तरिक्षमाकाशस्थान् पदार्थान् पोषयति, तं त्वं दृंह योऽच्युतक्षिद(स्य)स्ति दिवं प्रकाशयति, तं त्वं दृंह योऽग्नेः पुरीषम(स्य)स्ति तं त्वमनुतिष्ठ ॥१३॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्विद्याक्रियासिद्धं त्रैलोक्यस्थपदार्थपोषकं विद्याक्रियामयं यज्ञमनुष्ठाय सुखयितव्यम् ॥१३॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी ज्ञान व कर्म यांनी सिद्ध झालेल्या व त्रैलोक्यातील पदार्थांना पुष्ट करणाऱ्या ज्ञान व कर्मयुक्त यज्ञाचे अनुष्ठान करून सुखी व्हावे व सर्वांना सुखी करावे.
१४ युञ्जते मनऽउत
विश्वास-प्रस्तुतिः ...{Loading}...
यु॒ञ्जते॒ मन॑ऽउ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृ॒ह॒तो वि॑प॒श्चितः॑। वि होत्रा॑ दधे वयुना॒विदेक॒ऽइन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः॒ स्वाहा॑ ॥१४॥
मूलम् ...{Loading}...
यु॒ञ्जते॒ मन॑ऽउ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृ॒ह॒तो वि॑प॒श्चितः॑। वि होत्रा॑ दधे वयुना॒विदेक॒ऽइन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः॒ स्वाहा॑ ॥१४॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यु॒ञ्जते॑। मनः॑। उ॒त। यु॒ञ्ज॒ते॒। धियः॑। विप्राः॑। विप्र॑स्य। बृ॒ह॒तः। वि॒प॒श्चित॒ इति॑ विपः॒ऽचितः॑। वि। होत्राः॑। द॒धे॒। व॒यु॒ना॒वित्। व॒यु॒न॒विदिति॑ वयुन॒ऽवित्। एकः॑। इत्। म॒ही। दे॒वस्य॑। स॒वि॒तुः। परि॑ष्टुतिः। परि॑स्तुति॒रितिः॒। स्वाहा॑। १४।
महीधरः
म० अस्ति तावत्प्राचीनवंशा शाला । तस्यामाहवनीयाद्यग्नित्रयमैष्टिकवेदिश्चास्ति । तस्याः शालायाः पुरतः षट्त्रिंशत्पददीर्घा सौमिकी वेदिर्विधेया । तद्वेद्या अग्रभागे पूर्वोक्तोत्तरवेदिः । ततः पश्चान्मध्यभागे हविर्धानाख्यो मण्डपो विधेयः। ततोऽपि पश्चात्सदोऽभिधानोदग्वंशा शाला निर्मातव्या । तस्याः स्थाने प्राचीनशालायाः पुरतो दक्षिणोत्तरभागयोर्हविर्धानसंज्ञके द्वे शकटे स्थापिते स्तः । तच्छकटद्वयं पुरतः प्रवर्त्य तदावरकत्वेन हविर्धानाख्यमण्डपो विधेयः । तच्छकटद्वयं सावित्रहोमादूर्ध्वं प्रवर्तनीयम् । तदाह तित्तिरिः ‘सावित्र्यर्चा हुत्वा हविर्धाने प्रवर्तयति’ इति । तं होमं विधत्ते कात्यायनः ‘चतुर्गृहीतᳪं᳭ शालाद्वार्ये जुहोति युञ्जत इति स गार्हपत्योऽतः’ (८ । ३ । २९) इति । प्राचीनशालाया द्वारसमीपे पूर्वसिद्ध आहवनीयो वर्तते तस्मिन् जुहुयात्स च पूर्वमाहवनीयोऽपि सन्नुत्तरवेद्याख्येऽन्यस्मिन्नाहवनीये निष्पन्ने सति तदपेक्षया स्वयं गार्हपत्यो भवतीति सूत्रार्थः । सावित्री जगती श्यावाश्वदृष्टा । विप्रस्य ब्राह्मणस्य यजमानस्य संबन्धिनो विप्रा ब्राह्मणा ऋत्विजो मनो युञ्जन्ति लौकिकचिन्ताभ्यो मनो निवार्य यज्ञचिन्तायां नियमयन्ति । उत धिय इन्द्रियाण्यपि यज्ञार्थेषु नियमयन्ति । कीदृशस्य विप्रस्य । बृहतो महतः । तथा विपश्चितः सर्वज्ञस्य । अधीतवेदत्वाद्बृहत्त्वमर्थाभिज्ञत्वाद्विपश्चित्त्वम् । किंभूता विप्राः । होत्राः होमकर्तारः । तदिदं विप्राणां मनोनियमनादिसामर्थ्यमेकइत् एकएव विदधे ससर्ज । किंभूत एकः । वयुनावित् ‘वयुनं वेत्तेः कान्तिर्वा प्रज्ञा वा’ (निरु० ५। १४) इति यास्कोक्तेर्वयुनं प्रज्ञां सर्वभूतानां मनोवृत्तिं वेत्तीति वयुनवित् । संहितायां दीर्घः । सर्वधीसाक्षीत्यर्थः । नन्वेकस्य सर्वसृष्टौ कथं सामर्थ्यं तत्राह । यतः सवितुः प्रेरकस्यान्तर्यामिणो देवस्य परिष्टुतिः सर्वदोक्ता स्तुतिः मही महती । तथाचाथर्वणिकाः ‘यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः’ इति । बृहदारण्यकेऽपि स एव सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किंच’ (मा० ४ । २ । २४ । का० ४।४ । २१) इति । श्वेताश्वतराश्च ‘परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च’ इति । यद्वास्य मन्त्रस्यार्थान्तरम् । विप्रा ऋत्विजो विपश्चितो यज्ञस्य कर्मणीति शेषः । मनो धियो वाचश्च युञ्जते प्रयुञ्जते । ‘यज्ञो वै विपश्चित्’ (३ । ५। ३ । ११) इति श्रुतेः । किंभूतस्य विपश्चितः । विप्रस्य विशेषेण प्राति पूरयति फलमिति विप्रस्तस्य । फलदानं प्रति प्राप्तक्रियाशक्तेः । ‘प्रा पूर्तौ’ । तथा बृहतः महतः सर्वसाधनसंपन्नस्य । होत्रा होतारः सप्त वषट्कर्तारः विदधे विदधते स्वस्वकर्मणीति शेषः । पुरुषवचनव्यत्ययः । तन्मध्ये वयुनाविदेकइत् त्रिवेदज्ञानवान्ब्रह्माख्य एक एव । सवितुर्देवस्य मही महती परिष्टुतिः स्तवनम् । ब्रह्माद्या ऋत्विजो यत्कर्म कुर्वते तत्सवितुः प्रेरणेनैवेति सवितुर्महती स्तुतिरित्यर्थः ॥ १४ ॥
पञ्चदशी।
अधिमन्त्रम् (VC)
- सविता देवता
- गोतम ऋषिः
- स्वराड् आर्षी जगती
- निषादः
१५ इदं विष्णुर्विचक्रमे
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒दं विष्णु॒र्विच॑क्रमे त्रे॒धा निद॑धे प॒दम्। समू॑ढमस्य पाँसु॒रे स्वाहा॑ ॥१५॥
मूलम् ...{Loading}...
इ॒दं विष्णु॒र्विच॑क्रमे त्रे॒धा निद॑धे प॒दम्। समू॑ढमस्य पाँसु॒रे स्वाहा॑ ॥१५॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इ॒दम्। विष्णुः॑। वि। च॒क्र॒मे॒। त्रे॒धा। नि। द॒धे॒। प॒दम्। समू॑ढ॒मिति॒ सम्ऽऊ॑ढम्। अ॒स्य॒। पाँ॒सु॒रे। स्वाहा॑। १५।
महीधरः
म० ‘दक्षिणे वर्त्मनि दक्षिणस्यानसो हिरण्यं निधायाभिजुहोतीदं विष्णुरिति’ ( का० ८।३ । ३१) । दक्षिणशकटसंबन्धिदक्षिणचक्रमार्गे हिरण्यं निधाय तत्रैष होमः । विष्णुदेवत्या गायत्री मेधातिथिदृष्टा । विष्णुः त्रिविक्रमावतारं कृत्वा इदं विश्वं विचक्रमे विभज्य क्रमते स्म । तदेवाह । त्रेधा पदं निदधे भूमावेकं पदमन्तरिक्षे द्वितीयं दिवि तृतीयमिति क्रमादग्निवायुसूर्यरूपेणेत्यर्थः । पांसवो भूम्यादिलोकरूपा विद्यन्ते यस्य तत्पांसुरं तस्मिन्पांसुरे अस्य विष्णोः पदे समूढं सम्यगन्तर्भूतं विश्वमिति शेषः । यद्वायमर्थः । अस्य विष्णोः पदं पद्यते ज्ञायत इति पदमद्वैताख्यं स्वरूपं समूढमन्तर्हितमज्ञातमकृतात्मभिः । कस्मिन्निव । पांसुरे इव लुप्तोपमानं । पांसुले रजस्वले प्रदेशे निहितं यथा न ज्ञायते तद्वत् । तदुक्तं ‘तद्विष्णोः परमं पदᳪं᳭ सदा पश्यन्ति सूरयः’ (अध्या० ६ । ५) इति । स्वाहा तस्मै विष्णवे हविर्दत्तम् ॥ १५ ॥
षोडशी। ।
अधिमन्त्रम् (VC)
- विष्णुर्देवता
- मेधातिथिर्ऋषिः
- भूरिग् आर्षी गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह जगदीश्वर कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (विष्णुः) जो सब जगत् में व्यापक जगदीश्वर जो कुछ यह जगत् है, उसको (विचक्रमे) रचता हुआ (इदम्) इस प्रत्यक्ष अप्रत्यक्ष जगत् को (त्रेधा) तीन प्रकार का धारण करता है (अस्य) इस प्रकाशवान्, प्रकाशरहित और अदृश्य तीन प्रकार के परमाणु आदि रूप (स्वाहा) अच्छे प्रकार देखने और दिखलाने योग्य जगत् का ग्रहण करता हुआ (इदम्) इस (समूढम्) अच्छे प्रकार विचार करके कथन करने योग्य अदृश्य जगत् को (पांसुरे) अन्तरिक्ष में स्थापित करता है, वही सब मनुष्यों को उत्तम रीति से सेवने योग्य है ॥१५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - परमेश्वर ने जिस प्रथम प्रकाशवाले सूर्यादि, दूसरा प्रकाशरहित पृथिवी आदि और जो तीसरा परमाणु आदि अदृश्य जगत् है, उस सब को कारण से रचकर अन्तरिक्ष में स्थापन किया है, उनमें से ओषधी आदि पृथिवी में, प्रकाश आदि सूर्यलोक में और परमाणु आदि आकाश और इस सब जगत् को प्राणों के शिर में स्थापित किया है। इस लिखे हुए शतपथ के प्रमाण से ‘गय’ शब्द से प्राणों का ग्रहण किया है, इसमें महीधर जो कहता है कि त्रिविक्रम अर्थात् वामनावतार को धारण करके जगत् को रचा है, यह उसका कहना सर्वथा मिथ्या है ॥१५॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स जगदीश्वरः कीदृश इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यो विष्णुर्जगदीश्वरो यत्किञ्चिदिदं प्रत्यक्षाप्रत्यक्षं जगद् वर्त्तते तत् सर्वं विचक्रमे रचितवान्। त्रेधा निदधे निदधात्यस्य त्रिविधस्य जगतः परमाण्वादिरूपं स्वाहा सुहुतं समूढमदृश्यं पदं पांसुरेऽन्तरिक्षे निहितवानस्ति, स सर्वैः सुसेवनीयः ॥१५॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - परमेश्वरेण यत् प्रथमं प्रकाशवत् सूर्यादि, द्वितीयमप्रकाशवत् पृथिव्यादि प्रसिद्धं जगद्रचितमस्ति, यच्च तृतीयं परमाण्वाद्यदृश्यं सर्वमेतत्कारणावयवै रचयित्वाऽन्तरिक्षे स्थापितम्, तत्रौषध्यादि पृथिव्याम्, अग्न्यादिकं सूर्य्ये, परमाण्वादिकमाकाशे निहितम्, सर्वमेतत् प्राणानां शिरसि स्थापितवानस्ति। सा हैषा गयांस्तत्रे। प्राणा वै गयास्तत्प्राणांस्तत्रे तद्यद् गयांस्तत्रे तद् गायत्री नाम। (शत०१४.८.१५.६-७) अनेन गयशब्देन प्राणानां ग्रहणम् ॥ अत्र महीधरः प्रबुक्कति त्रिविक्रमावतारं कृत्वेत्यादि तदशुद्धं सज्जनैर्बोध्यम् ॥१५॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - परमेश्वराने प्रथम सूर्य, दुसरी पृथ्वी (प्रकाशरहित) व तिसरे परमाणू जग प्रकृतिरूपी कारणापासून निर्माण करून त्यांना अंतरिक्षात स्थापन केलेले आहे. पृथ्वीवर औषधी (वृक्ष-वनस्पती इत्यादी) , सूर्यामध्ये प्रकाश व आकाशात परमाणू निर्माण केलेले आहेत व सर्व जग प्राणामध्ये स्थित केलेले आहे. शतपथ ब्राह्मणात गय हा शब्द प्राणासाठी वापरलेला आहे. त्यामुळे महिधराच्या कथनानुसार त्रिविक्रम अर्थात वामनावतार धारण करून परमेश्वराने जगाची रचना केलेली आहे. हे विधान असत्य आहे.
१६ इरावती धेनुमती
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒रा॑वती धेनु॒मती॒ हि भू॒तँ सूय॑व॒सिनी॒ मन॑वे दश॒स्या। व्य॑स्कभ्ना॒ रोद॑सी विष्णवे॒ते दा॒धर्त्थ॑ पृथि॒वीम॒भितो॑ म॒यूखैः॒ स्वाहा॑ ॥१६॥
मूलम् ...{Loading}...
इ॒रा॑वती धेनु॒मती॒ हि भू॒तँ सूय॑व॒सिनी॒ मन॑वे दश॒स्या। व्य॑स्कभ्ना॒ रोद॑सी विष्णवे॒ते दा॒धर्त्थ॑ पृथि॒वीम॒भितो॑ म॒यूखैः॒ स्वाहा॑ ॥१६॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इरा॑वती॒ इतीरा॑ऽवती। धे॒नु॒मती॒ इति॑ धे॒नु॒ऽमती॑। हि। भू॒तम्। सू॒य॒व॒सिनी॑। सु॒य॒व॒सिनी॒ इति॑ सु॒ऽयव॒सिनी॑। मन॑वे। द॒श॒स्या। वि। अ॒स्क॒भ्नाः॒। रोद॑सी॒ इति॒ रोद॑सी। वि॒ष्णो॒ऽइति॑ विष्णो। ए॒तेऽइत्ये॒ते॑। दा॒धर्त्थ॑। पृ॒थि॒वीम्। अ॒भितः॑। म॒यूखैः॑। स्वाहा॑। १६।
महीधरः
म० ‘स्रुक्स्थाल्यौ प्रतिगृह्य प्रतिप्रस्थातोत्तरस्येरावती इति ’ पूर्ववदिति’ (का० ८ । ३ । ३५) यथा दक्षिणशकटदक्षिणचक्रमार्गे अध्वर्युर्हुतवान् तथा उत्तरशकटसंबन्ध्युत्तरचक्रमार्गे प्रतिप्रस्थाता जुहुयादिति सूत्रार्थः । वैष्णवी त्रिष्टुब् वसिष्ठदृष्टा । हे रोदसी द्यावापृथिव्यौ, युवामीदृश्यौ भूतं भवतम् । भवतेर्लुङि मध्यमद्विवचने रूपम् । अडभावश्छान्दसः । किंभूते युवाम् । इरावती इरावत्यौ अन्नवत्यौ सस्यवत्यौ । धेनुमती बहुधेनुयुक्ते । सुयवसिनी सुष्ठु यवसानि विद्यन्ते ययोस्ते सुयवसिनी । यवसशब्देनात्राभ्यवहार्याणि वस्तूनि । तथा मनवे दशस्या । मनुते जानातीति मनुर्ज्ञानवान्यजमानः तस्मै दशस्या दात्र्यौ यज्ञसाधनानाम् । ‘दाशृ दाने’ दाशतस्ते दशस्या । असुन्प्रत्यये उपधाह्रस्वः ओविभक्तेर्यादेशश्च । एवं द्यावापृथिव्यौ संप्रार्थ्य विष्णुमाह । हे विष्णो, एते रोदसी त्वं व्यस्कभ्नाः विभज्य स्तम्भितवानसि । किंच पृथिवीं मयूखैः स्वतेजोरूपैर्नानाजीवैर्वराहाद्यनेकावतारैर्वा अभितो दाधर्थ दधर्थ सर्वतो धारितवानसि । ‘तुजादीनां दीर्घोऽभ्यासस्य’ (पा० । ६ । १ । ७) इत्यभ्यासदीर्घः । स्वाहा तस्मै विष्णवे हविर्दत्तम् ॥ १६ ॥
सप्तदशी।
अधिमन्त्रम् (VC)
- विष्णुर्देवता
- वसिष्ठ ऋषिः
- स्वराड् आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अगले मन्त्र में ईश्वर और सूर्य के गुणों का उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (विष्णो) सर्वव्यापी जगदीश्वर ! जो आप जिस (इरावती) उत्तम अन्नयुक्त (धेनुमती) प्रशंसनीय बहुत वाणीयुक्त प्रजा वा पशुयुक्त (सूयवसिनी) बहुत मिश्रित, अमिश्रित वस्तुओं से सहित भूमि वा वाणी (पृथिवीम्) भूमि (हि) निश्चय करके (स्वाहा) वेदवाणी वा (भूतम्) उत्पन्न हुए सब जगत् को (मयूखैः) ज्ञानप्रकाशकादि गुणों से (अभितः) सब ओर से (दाधर्थ) धारण और (रोदसी) प्रकाश वा पृथिवीलोक का (व्यस्कभ्नाः) सम्यक् स्तम्भन करते हो उन (मनवे) विज्ञानयुक्त (दशस्या) दंशन अर्थात् दाँतों के बीच में स्थित जिह्वा के समान आचरण करनेवाले आपके लिये (एते) ये हम लोग सब जगत् को निवेदन करते हैं ॥१॥१६॥ जो (विष्णो) व्यापनशील प्राण जो (इरावती) उत्तम अन्नयुक्त (धेनुमती) पशुसहित (सूयवसिनी) बहुत मिश्रित, अमिश्रित पदार्थवाली भूमि वा वाणी है, उस (पृथिवीम्) भूमि (स्वाहा) वा इन्द्रिय को (मयूखैः) किरणों, अपने बल आदि (अभितः) सब प्रकार (दाधर्थ) धारण करता वा (रोदसी) प्रकाश-भूमि को (व्यस्कभ्नाः) स्तम्भन करता है, उस (दशस्या) दशन और दाँत के समान आचरण करने वा (मनवे) विज्ञापनयुक्त सूर्य के लिये (हि) निश्चय करके (भूतम्) सब जगत् को करने के लिये ईश्वर ने दिया है, ऐसा (एते) ये सब हम लोग जानते हैं ॥२॥१६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। जैसे सूर्य अपनी किरणों से सब भूमि आदि जगत् को प्रकाश आकर्षण और विभाग करके धारण करता है, वैसे ही परमेश्वर और प्राण ने अपने सामर्थ्य से सब सूर्य आदि जगत् को धारण करके अच्छे प्रकार स्थापन किया है ॥१६॥
दयानन्द-सरस्वती (सं) - विषयः
पुनरीश्वरसूर्यगुणा उपदिश्यन्ते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विष्णो जगदीश्वर ! यस्त्वं येरावती धेनुमती सूयवसिनी भूमिं स्वाहा हि किल वाणीं भूतमुत्पन्नं सकलं जगच्च मयूखैरभितो दाधर्थ धरसि रोदसी व्यस्कभ्नाः प्रतिबध्नासि तस्मै दशस्याय मनवे वयमेते च सर्वं जगन्निवेदयामो निवेदयन्तीत्येकः ॥ यो विष्णुः प्राणो येरावती धेनुमती सूयवसिनी भूमिर्वाग्वास्ति तां पृथिवीं स्वाहा वागिन्द्रियं च मयूखैरभितो दाधर्थ धरति, रोदसी व्यस्कभ्नाः प्रतिबध्नाति, तस्मै दशस्याय मनवे प्राणाय भूतं हि किलोत्पन्नं सर्वं कार्यं जगत्प्रकाशितुं समर्थं प्राणं सर्वे विजानीतेति द्वितीयः ॥१६॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। यथा सूर्यः स्वकिरणैः स्वकान्तिभिः सर्वं भूम्यादिकं जगत्संस्तभ्याकृष्य धरति, तथैव परमेश्वरः प्राणो वा स्वसामर्थ्येन सर्वं प्राणादिकं जगद्रचित्वा संधार्य व्यवस्थापयति ॥१६॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. ज्याप्रमाणे सूर्य आपल्या किरणांनी भूमी इत्यादी सर्व जगाला प्रकाशित करून आकर्षण, विकर्षण विभागून धारण करतो. त्याप्रमाणेच परमेश्वर व प्राण यांनी आपल्या सामर्थ्याने सूर्य वगैरे सर्व जगाला धारण करून चांगल्या प्रकारे स्थित केलेले आहे.
१७ देवश्रुतौ देवेष्वाघोषतम्
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒व॒श्रुतौ॑ दे॒वेष्वाघो॑षतं॒ प्राची॒ प्रेत॑मध्व॒रं क॒ल्पय॑न्तीऽऊ॒र्ध्वं य॒ज्ञं न॑यतं॒ मा जि॑ह्वरतम्। स्वं गो॒ष्ठमाव॑दतं देवी दुर्ये॒ऽआयु॒र्मा निर्वा॒दिष्टं प्र॒जां मा निर्वा॑दिष्ट॒मत्र॑ रमेथां॒ वर्ष्म॑न् पृथि॒व्याः ॥१७॥
मूलम् ...{Loading}...
दे॒व॒श्रुतौ॑ दे॒वेष्वाघो॑षतं॒ प्राची॒ प्रेत॑मध्व॒रं क॒ल्पय॑न्तीऽऊ॒र्ध्वं य॒ज्ञं न॑यतं॒ मा जि॑ह्वरतम्। स्वं गो॒ष्ठमाव॑दतं देवी दुर्ये॒ऽआयु॒र्मा निर्वा॒दिष्टं प्र॒जां मा निर्वा॑दिष्ट॒मत्र॑ रमेथां॒ वर्ष्म॑न् पृथि॒व्याः ॥१७॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दे॒व॒श्रुता॒विति॑ देव॒ऽश्रुतौ॑। दे॒वेषु॑। आ। घो॒ष॒त॒म्। प्राची॒ऽइति॒ प्राची॑। प्र। इ॒त॒म्। अ॒ध्व॒रम्। क॒ल्पय॑न्तीऽइति॑ क॒ल्पय॑न्ती। ऊ॒र्ध्वम्। य॒ज्ञम्। न॒य॒त॒म्। मा। जि॒ह्व॒र॒त॒म्। स्वम्। गो॒ष्ठम्। गो॒स्थमिति॑ गो॒ऽस्थम्। आ। व॒द॒त॒म्। दे॒वी॒ऽइति॑ देवी। दु॒र्ये॒ऽइति॑ दुर्ये। आयुः॑। मा। निः। वा॒दि॒ष्ट॒म्। प्र॒जामिति॑ प्र॒ऽजाम्। मा। निः। वा॒दि॒ष्ट॒म्। अत्र॑। र॒मे॒था॒म्। वर्ष्म॑न्। पृ॒थि॒व्याः। १७।
महीधरः
म० ‘दक्षिणया द्वारानीता पत्नी पाणिभ्याᳪं᳭ शेषं प्रतिगृह्याक्षधुरावनक्ति पराग्देवश्रुताविति’ (का० ८ । ३ । ३२) प्रतिप्रस्थात्रा समानीता पत्नी होमशेषेणाज्येनाक्षस्योभावग्रभागावञ्ज्यादिति सूत्रार्थः । अक्षधुरौ देवते । देवेषु श्रूयते देवश्रुतौ । शृणोतेः क्विप्तुगागमश्च । हे देवश्रुतौ देवसभायां प्रसिद्धे अक्षधुरौ अक्षाग्रभागौ, युवां यजमानोऽयं यक्ष्यतीति देवेषु आघोषतम् उच्चध्वनिना कथयतम् । ‘घुषिर् शब्दे’ । ‘प्राची प्रेतमिति वाचयतीति’ (का० ८ । ४ । ३) हविर्धानाख्ये यदा प्रवर्तेते तदा यजमानं वाचयेदिति सूत्रार्थः । त्रयाणां यजुषां हविर्धाने देवते । हे उभे शकटे, युवां प्राची प्राङ्मुखे प्रेतं प्रकर्षेण गच्छतम् । प्रागञ्चतस्ते प्राची। किंभूते युवाम् । अध्वरं कल्पयन्ती इदं कर्म समर्थं कुर्वाणे । किंच यज्ञमिममूर्ध्वं नयतं उपरिवर्तिदेवान्प्रति प्रापयतम् । मा जिह्वरतं मा कुटिले भवतम् । ‘ह्वृ कौटिल्ये’ णिजन्तस्य लुङि रूपम् । यद्वा ‘ह्वल चलने’ मा चलतम् । ‘स्वं गोष्ठमिति च खर्जतीति’ (का० ८ । ४ । ४) । प्रवर्त्यमानयोः शकटयोरक्षे खर्जति ध्वनिं कुर्वति सति स्वं गोष्ठमिति यजमानं वाचयेदिति सूत्रार्थः। दुर्यशब्दो गृहवाची । ‘गृहा वै दुर्याः’ (३ । ५। ३ । १८) इति श्रुतेः । तेन गृहसदृशे शकटे लक्ष्यते । हे देवि दुर्ये गृहसदृशशटकद्वयरूपे देवते, स्वं गोष्ठं स्वकीयं गोस्थानमावदतं सर्वतः कथयतम् । योऽयमक्षशब्दस्तेन यजमानस्य गृहं बहूनां गवां यथा स्थानं भवति तथा कथयतमित्यर्थः । युवाभ्यामुञ्चारितं तथैव स्यादिति भावः । किंच आयुर्मा निर्वादिष्टं यजमानस्य यावदायुरस्ति तावत्सर्वं मा निराकार्ष्टम् । वदतेर्लुङि मध्यमद्विवचने रूपम् । यद्वा निकृष्टं पशुधनादिरहितं मा उच्चारयतम् । प्रजां मा निर्वादिष्टं यजमानस्य प्रजां पुत्रादिरूपां मा निराकार्ष्टम् । अनेनाक्षशब्देनायुःप्रजयोर्निराकरणं मा भूदिति भावः । उभयबद्धो योऽक्षः स दुष्टवाक् वरुणदेवरूपः । तदाह श्रुतिः ‘वरुणो वा एष दुर्वागुभयतोबद्धो यदक्षः’ - (३ । ५ । ३ । १८) इति । तस्माच्छापरूपदुर्वाक्यपरिहारायाशीर्वादरूपं सुवाक्यमनेन मन्त्रेण प्रार्थ्यते । ‘पश्चादुत्तरवेदेस्त्रिषु प्रक्रमेषु मत्या वा नभ्यस्थे अभिमन्त्रयतेऽत्र रमेथामिति’ (का० ८ । ४ । ५)। वेदिनिकटस्थापिते उभे शकटे अमिमन्त्रयेदिति सूत्रार्थः। हे शकटे, पृथिव्याः वर्ष्मन् वर्ष्मणि भूमेः शरीरभूतेऽत्रास्मिन्देवयजने युवां रमेथां क्रीडां कुरुतं वर्ष्मणि स्तीर्णे वा । ‘सुपां सुलुक्’ (पा. ७।१।३९ )। इति ङेर्लोपे ‘न ङिसंबुद्ध्योः’ (पा० ८ । २ । ८) इति नलोपाभावः । देवयजनस्य भूमेः शरीरत्वं तित्तिरिणोक्तम् ‘वर्त्म ह्येतत्पृथिव्या यद्देवयजनम्’ इति ॥ १७ ॥
अष्टादशी।
अधिमन्त्रम् (VC)
- विष्णुर्देवता
- वसिष्ठ ऋषिः
- स्वराड् ब्राह्मी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर वे प्राण और अपान कैसे हैं, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम जैसे जो (देवेषु) विद्वान् वा दिव्यगुणों में (देवश्रुतौ) विद्वानों से श्रवण किये हुए प्राण, अपान वायु (घोषतम्) व्यक्त शब्द करें और जो (प्राची) प्राप्त करने वा (कल्पयन्ती) सामर्थ्यवाली प्रकाश भूमि (ऊर्ध्वम्) उत्तम गुणयुक्त (यज्ञम्) विज्ञान वा शिल्पमय यज्ञ को (प्रेतम्) जनाते रहें (नयतम्) प्राप्त करें (मा जिह्वरतम्) कुटिल गतिवाले न हों, जो (देवी) दिव्यगुण सम्पन्न (दुर्ये) गृहरूप (स्वम्) अपने (गोष्ठम्) किरण और अवयवों के स्थान के (आवदतम्) उपदेश निमित्तक हों (आयुः) आयु को (मा निर्वादिष्टम्) नष्ट न करें (प्रजाम्) उत्पन्न हुई सृष्टि को (मा निर्वादिष्टम्) न नष्ट करें और वे (पृथिव्याः) आकाश के मध्य (अत्र) इस (वर्ष्मन्) सुख से सेवनयुक्त जगत् में (रमेथाम्) रमण करें तथा किया करो ॥१७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को जितना जगत् अन्तरिक्ष में वर्त्तता है, उतने से बहुत-बहुत उत्तम सुखों का सम्पादन करना चाहिये ॥१७॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तौ कीदृशावित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्या ! यथा यौ देवेषु देवश्रुतौ घोषतं व्यक्तं शब्दं कुरुतो ये प्राची कल्पयन्त्यूर्ध्वं यज्ञमेतो नयतस्ते च रोदसी यथा मा जिह्वरतं कुटिले न भवेतां तथा कुरुतम्। ये देवी दुर्ये स्वं गोष्ठं समन्तात् प्राप्नुतस्ताभ्यां कस्याप्यायुर्मा निर्वादिष्टं प्रजां मा निर्वादिष्टं विनष्टाम्मा कुरुतं पृथिव्यामन्तरिक्षस्य च मध्ये वर्ष्मणि जगति रमेथां तथानुतिष्ठत ॥१७॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैर्यावज्जगदन्तरिक्षस्य मध्ये वर्त्तते, तावता सर्वेण बहूनि सुखानि सम्पादनीयानि ॥१७॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - अंतरिक्षात जेवढे जग विस्तारलेले आहे त्यापासून सर्वांनी उत्तम प्रकारचे सुख प्राप्त करून घ्यावे.
१८ विष्णोर्नु कम्
विश्वास-प्रस्तुतिः ...{Loading}...
विष्णो॒र्नु कं॑ वी॒र्या᳖णि॒ प्रवो॑चं॒ यः पार्थि॑वानि विम॒मे रजाँ॑सि। योऽअस्क॑भाय॒दुत्त॑रँ स॒धस्थं॑ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यो विष्ण॑वे त्वा ॥१८॥
मूलम् ...{Loading}...
विष्णो॒र्नु कं॑ वी॒र्या᳖णि॒ प्रवो॑चं॒ यः पार्थि॑वानि विम॒मे रजाँ॑सि। योऽअस्क॑भाय॒दुत्त॑रँ स॒धस्थं॑ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यो विष्ण॑वे त्वा ॥१८॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
विष्णोः॑। नु। क॒म्। वी॒र्या᳖णि। प्र। वो॒च॒म्। यः। पार्थि॑वानि। वि॒म॒मऽइति॑ विऽम॒मे। रजाँ॑सि। यः। अस्क॑भायत्। उत्त॑रमित्युत्ऽत॑रम्। स॒धस्थ॒मिति॑ स॒धऽस्थ॑म्। वि॒च॒क्र॒मा॒ण इति॑ विऽचक्रमा॒णः। त्रे॒धा। उ॒रु॒गा॒यऽइत्यु॑रुऽगा॒यः। विष्ण॑वे। त्वा। १८।
महीधरः
म० ‘उत्तरेण परिक्रम्य दक्षिणमुपस्तभ्नाति विष्णोर्नुकमिति’ (का० ८ । ४ । ६) । दक्षिणशकटस्याग्रं ओढुमाधारभूतं काष्ठं स्थापयेदित्यर्थः । तिस्रो वैष्णव्यस्त्रिष्टुभः आद्ये यजुरन्ते । विष्णवे त्वेति यजुः । नुकमित्यव्ययमवधारणार्थम् । विष्णोरेव वीर्याणि कर्माण्यहं प्रवोचं प्रब्रवीमि । प्रपूर्वस्य वचेर्लुङि रूपं वचेरुम् अडभावः । कानि कर्माणीत्याह । यो विष्णुः पार्थिवानि रजांसि पृथिव्यन्तरिक्षद्युलोकस्थानानि विममे निर्ममे । ‘लोका रजांस्युच्यन्ते’ (निरु० ४ । १९) इति यास्कोक्तेः रजःशब्दो लोकवाचकः । यद्वा यः पार्थिवानि रजांसि पार्थिवपरमाणून्विममे परिगणितवान् । यश्च विष्णुरुत्तरमुपरितनं सधस्थं देवानां सहवासस्थानं द्युलोकरूपमस्कभायत् यथाधो न पतति तथा स्तम्भितवान् । सह देवाः तिष्ठन्ति यस्मिंस्तत्सधस्थम् । ‘सधमादस्थयोश्छन्दसि’ (पा० ३ । ६ । ९६) इति सहस्य सधादेशः । ‘स्कम्भ रोधने’ । ‘क्र्यादिभ्यः श्ना’ । ‘हलः श्नः शानज्झौ’ (पा० ३ । १। ८३) इति हेरनुवृत्तौ ‘छन्दसि शायजपि’ (पा० ३ । १। ८४) इति । यद्यपि हौ परे श्नाप्रत्ययस्य शायजादेशोऽविहितस्तथाप्यत्र ‘व्यत्ययो बहुलम्’ (पा० ३।१ । ८५) इति लड्यपि श्नः शायजादेशे अस्कभायदिति रूपम् । कीदृशो विष्णुः । त्रेधा विचक्रमाणस्त्रिषु लोकेष्वग्निवायुसूर्यरूपेण पदत्रयं निदधानः । विपूर्वस्य क्रमतेः ‘लिटः कानज्वा’ (पा० ३ । २ । १०६) इति कानचि रूपम् । तथा उरुगायः उरुर्गायो गमनं यस्य उरुभिर्महात्मभिर्गीयत इति वा ‘दक्षिणतः स्थूणामुपनिहन्ति विष्णवे त्वेति’ (का० ८ । ४ । ७) हे स्थूणे काष्ठ, विष्णवे हविर्धानशकटाभिमानिविष्णुप्रीत्यर्थं त्वां निहन्मि निखनामीति शेषः ॥ १८ ॥
एकोनविंशी।
अधिमन्त्रम् (VC)
- विष्णुर्देवता
- औतथ्यो दीर्घतमा ऋषिः
- स्वराड् आर्षी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब अगले मन्त्र में व्यापक ईश्वर के गुणों का उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम (यः) जो (विचक्रमाणः) जगत् रचने के लिये कारण के अंशों को युक्त करता हुआ (उरुगायः) बहुत अर्थों को वेद द्वारा उपदेश करनेवाला जगदीश्वर (पार्थिवानि) पृथिवी के विकार अर्थात् पृथिवी के गुणों से उत्पन्न होनेवाले या अन्तरिक्ष में विदित (त्रेधा) तीन प्रकार के (रजांसि) लोकों को (विममे) अनेक प्रकार से रचता है, जो (उत्तरम्) पिछले अवयवों के (सधस्थम्) साथ रहनेवाले कारण को (अस्कभायत्) रोक रखता है (यः) जो (विष्णवे) उपासनादि यज्ञ के लिये आश्रय किया जाता है, उस (विष्णोः) व्यापक परमेश्वर के (वीर्याणि) पराक्रमयुक्त कर्मों का (प्रवोचम्) कथन करूँ और हे परमेश्वर ! (नु) शीघ्र ही (कम्) सुखस्वरूप (त्वा) आपका आश्रय करता हूँ ॥१८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सब मनुष्यों को जिस परमेश्वर ने पृथिवी, सूर्य और त्रसरेणु आदि भेद से तीन प्रकार के जगत् को रचकर धारण किया है, उसी की उपासना करनी चाहिये ॥१८॥
दयानन्द-सरस्वती (सं) - विषयः
अथ व्यापकेश्वरगुणा उपदिश्यन्ते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्या ! यूयं यो विचक्रमाण उरुगायो विष्णुर्जगदीश्वरः पार्थिवानि रजांसि त्रेधा विममे, यः उत्तरसधस्थमस्कभायत् प्रतिबध्नाति, यो विष्णवे उपासनादियज्ञायाश्रीयते यस्य विष्णोर्वीर्याणि विद्वांसो वदन्ति, यं सर्वे संश्रयन्ते, कं सुखरूपं देवमहं प्रवोचं नु शीघ्रमाश्रये ॥१८॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सर्वैर्मनुष्यैर्येन परमेश्वरेण पृथिवीसूर्यत्रसरेणुभेदेन त्रिविधं जगद्रचित्वा ध्रियते स एवोपासनीयः ॥१८॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्या परमेश्वराने पृथ्वी, सूर्य व त्रसरेणू इत्यादी तीन प्रकारचे जग निर्माण करून धारण केलेले आहे ते जाणून घेऊन माणसांनी त्याचीच उपासना केली पाहिजे.
१९ दिवो वा
विश्वास-प्रस्तुतिः ...{Loading}...
दि॒वो वा॑ विष्णऽउ॒त वा॑ पृथि॒व्या म॒हो वा॑ विष्णऽउ॒रोर॒न्तरि॑क्षात्। उ॒भा हि हस्ता॒ वसु॑ना पृ॒णस्वा प्रय॑च्छ॒ दक्षि॑णा॒दोत स॒व्याद्विष्ण॑वे त्वा ॥१९॥
मूलम् ...{Loading}...
दि॒वो वा॑ विष्णऽउ॒त वा॑ पृथि॒व्या म॒हो वा॑ विष्णऽउ॒रोर॒न्तरि॑क्षात्। उ॒भा हि हस्ता॒ वसु॑ना पृ॒णस्वा प्रय॑च्छ॒ दक्षि॑णा॒दोत स॒व्याद्विष्ण॑वे त्वा ॥१९॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दि॒वः। वा॒। वि॒ष्णो॒ऽइति॑ विष्णो। उ॒त। वा॒। पृ॒थि॒व्याः। म॒हः। वा॒। वि॒ष्णो॒ऽइति॑ विष्णो। उ॒रोः। अ॒न्तरि॑क्षात्। उ॒भा। हि। हस्ता॑। वसु॑ना। पृ॒णस्व॑। आ। प्र। य॒च्छ॒। दक्षि॑णात्। आ। उ॒त। स॒व्यात्। विष्ण॑वे। त्वा॒। १९।
महीधरः
म०. ‘दिवो वेत्युत्तरं प्रतिप्रस्थातोत्तरस्थूणं पूर्ववदिति’ । (का० ८ । ४ । ८-९)। यथाध्वर्युर्दक्षिणशकटं मन्त्रेणोपष्टभ्य विष्णवे त्वेति स्थूणां निखातवानेवं प्रतिप्रस्थातोत्तरशकटे कुर्यादिति सूत्रार्थः । हे विष्णो, दिवो द्युलोकादुत अपिच पृथिव्याः भूलोकात् वापिच महो महतः उरोविस्तीर्णादन्तरिक्षलोकाद्वा समानीतेन वसुना द्रव्येण उभा हि हस्ता उभावपि स्वकीयौ हस्तौ पृणस्व पूरयस्व । ततो धनपूर्णाद्दक्षिणादुत सव्याद्वामाद्धस्तात् आ प्रयच्छ बहुकृत्व आवृत्य प्रकृष्टं मणिमुक्तादिधनमस्मभ्यं देहि । विष्णवे त्वेत्ययं मन्त्रः पूर्ववत् ॥१९॥
विंशी।
अधिमन्त्रम् (VC)
- विष्णुर्देवता
- औतथ्यो दीर्घतमा ऋषिः
- निचृद् आर्षी जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह जगदीश्वर कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (विष्णो) सर्वव्यापी परमेश्वर ! आप कृपा करके हम लोगों को (दिवः) प्रसिद्ध वा बिजुली अग्नि से (वसुना) द्रव्य के साथ (आपृणस्व) सुखों से पूर्ण कीजिये और (पृथिव्याः) भूमि से उत्पन्न हुए पदार्थ (उत) भी (वा) अथवा (महः) महत्तत्त्व अव्यक्त और (उत) भी (उरोः) बहुत (अन्तरिक्षात्) अन्तरिक्ष से द्रव्य के साथ सुखों को (हि) निश्चय करके पूर्ण कीजिये (विष्णो) सब में प्रविष्ट ईश्वर ! आप (दक्षिणात्) दक्षिण (उत) और (सव्यात्) वाम पार्श्व से सुखों को दीजिये (त्वा) उस आप को (विष्णवे) योग विज्ञान यज्ञ के लिये पूजन करते हैं ॥१९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सब मनुष्यों को योग्य है कि जिस व्यापक परमेश्वर ने महत्तत्त्व, सूर्य, भूमि, अन्तरिक्ष, वायु, जल आदि पदार्थ वा उन में रहनेवाले ओषधी आदि वा मनुष्यादिकों को रच धारण कर सब प्राणियों के लिये सुखों को धारण करता है, उसी की उपासना करें ॥१९॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स कीदृश इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विष्णो ! त्वं कृपयाऽस्मान् दिवः प्रसिद्धाग्नेर्विद्युतो वा वसुनाऽऽपृणस्व सुखानि प्रयच्छ, उतापि पृथिव्याः सकाशादुत्पन्नेभ्यः पदार्थेभ्यो महत्तत्त्वाच्चाव्यक्तादुतोरोरन्तरिक्षाद्वा वसुना द्यां पृणस्व। हे विष्णो ! त्वं दक्षिणादुत च सव्यात् सुखानि प्रयच्छ, तं त्वा त्वां विष्णवे यज्ञाय वयमर्चयेम ॥१९॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - येन व्यापकेनेश्वरेण महत्तत्त्वसूर्य्यभूम्यन्तरिक्षवाय्वग्निजलादीन् पदार्थान् तत्रस्थानन्यांश्चौषध्यादीन् मनुष्यादींश्च रचित्वा धृत्वा सर्वेभ्यः प्राणिभ्यः सुखानि धीयन्ते तस्यैवोपासना सर्वैः कार्येति ॥१९॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सर्वव्यापक परमेश्वराने महत्त्वत्व सूर्य, भूमी, आकाश, वायू, अग्नी, जल इत्यादी पदार्थ व औषधी तसेच माणसांनाही उत्पन्न केलेले असून, सर्व प्राण्यांना सुख प्राप्त करून दिलेले आहे. त्याचीच सर्व माणसांनी उपासना करावी.
२० प्र तद्विष्णु
विश्वास-प्रस्तुतिः ...{Loading}...
प्र तद्विष्णु॑ स्तवते वी॒र्य्ये᳖ण मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः। यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेष्वधिक्षि॒यन्ति॒ भुव॑नानि॒ विश्वा॑ ॥२०॥
मूलम् ...{Loading}...
प्र तद्विष्णु॑ स्तवते वी॒र्य्ये᳖ण मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः। यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेष्वधिक्षि॒यन्ति॒ भुव॑नानि॒ विश्वा॑ ॥२०॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्र। तत्। विष्णुः॑। स्त॒व॒ते॒। वी॒र्ये᳖ण। मृ॒गः। न। भी॒मः। कु॒च॒रः। गि॒रि॒ष्ठाः। गि॒रि॒स्था इति॑ गिरि॒ऽस्थाः। यस्य॑। उ॒रुषु॑। त्रि॒षु। वि॒क्रम॑णे॒ष्विति॑ वि॒ऽक्रम॑णेषु। अ॒धि॒क्षि॒यन्तीत्य॑धिऽक्षि॒यन्ति॑। भुव॑नानि। विश्वा॑। २०।
महीधरः
म० ‘प्रतद्विष्णुरिति वाचयति मध्यमं छदिरालभ्येति’ (का. ८ । ४ । १३) । तत् स प्रसिद्धो विष्णुः वीर्येणासाधारणवीरकर्मणा प्रस्तवते प्रस्तूयते गर्वैरिति शेषः । तदिति लिङ्गव्यत्ययः । प्रस्तवते इत्यत्र व्यत्ययेन यकः स्थाने शप्प्रत्ययः। किंभूतो विष्णुः । ‘मृजूष् शुद्धौ मार्ष्टि शोधयतीति मृगः। नोऽनर्थकः पादपूरणः । भीमः बिभेत्यस्मादसौ भीमः । ‘भीमादयोपादाने’ (पा० ३ । ४ । ७४ ) । इति मप्रत्ययः। कुचरः कौ पृथिव्यां मत्स्यादिरूपेण चरतीति कुचरः । गिरिष्ठाः गिरि वेदवाण्यां गिरौ देहे वान्तर्यामिरूपेण तिष्ठतीति गिरिष्ठाः । अथवा न इवार्थः । गिरिष्ठाः पर्वतस्थितः कुचरः कुत्सितचारी प्राणिवधजीवनो भीमः भयंकरो मृगो न सिंह इव । स यथा वीर्येण स्तूयते तद्वत् । स को विष्णुरित्याह । यस्य विष्णोरुरुषु प्रभूतेषु त्रिषु विक्रमणेषु पादप्रक्षेपणस्थानेषु लोकेषु विश्वा विश्वानि सर्वाणि भुवनानि भूतजातानि अधिक्षियन्ति अधिनिवसन्ति स स्तूयत इत्यर्थः ॥२०॥
एकविंशी।
अधिमन्त्रम् (VC)
- विष्णुर्देवता
- औतथ्यो दीर्घतमा ऋषिः
- विराड् आर्ची त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यस्य) जिसके (उरुषु) अत्यन्त (त्रिषु) (विक्रमणेषु) विविध प्रकार के क्रमों में (विश्वा) सब (भुवनानि) लोक (अधिक्षियन्ति) निवास करते हैं और वह (विष्णुः) व्यापक ईश्वर (वीर्येण) अपने पराक्रम से (भीमः) भय करनेवाले (कुचरः) निन्दित प्राणिवध को करने और (गिरिष्ठाः) पर्वत में रहनेवाले (मृगः) सिंह के (न) समान पापियों को घोर दुःख देता हुआ (प्रस्तवते) उपदेश करता है, (तत्) इससे उसको कभी न भूलना चाहिये ॥२०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे सिंह अपने पराक्रम से अपनी इच्छा के समान अन्य पशुओं का नियम करता फिरता है, वैसे जगदीश्वर अपने पराक्रम से सब लोकों का नियम करता है ॥२०॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स कीदृश इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यस्योरुषु त्रिषु विक्रमणेषु विश्वानि भुवनान्यधिक्षियन्ति, यश्चासौ विष्णुर्वीर्येण भीमः कुचरो गिरिष्ठा मृगो न सिंह इव विचरन्नुपदिशति, तत् तस्मात् स नैव कदापि विस्मरणीयः ॥२०॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा सिंहः स्वपराक्रमेण यथेष्टं विक्रमते, तथैव जगदीश्वरः खलु पराक्रमेण सर्वान् लोकान् नियच्छति ॥२०॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जसा पराक्रमी सिंह आपल्या इच्छेप्रमाणे सर्व प्राण्यांवर नियंत्रण ठेवतो. तसे परमेश्वर आपल्या सामर्थ्याने सर्व लोकांवर नियंत्रण ठेवतो.
२१ विष्णो रराटमसि
विश्वास-प्रस्तुतिः ...{Loading}...
विष्णो॑ र॒राट॑मसि॒ विष्णोः॒ श्नप्त्रे॑ स्थो॒ विष्णोः॒ स्यूर॑सि॒ विष्णोर्ध्रु॒वो᳖ऽसि॒। वै॒ष्ण॒वम॑सि॒ विष्ण॑वे त्वा ॥२१॥
मूलम् ...{Loading}...
विष्णो॑ र॒राट॑मसि॒ विष्णोः॒ श्नप्त्रे॑ स्थो॒ विष्णोः॒ स्यूर॑सि॒ विष्णोर्ध्रु॒वो᳖ऽसि॒। वै॒ष्ण॒वम॑सि॒ विष्ण॑वे त्वा ॥२१॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
विष्णोः॑। र॒राट॑म्। अ॒सि॒। विष्णेः॑। श्नप्त्रे॒ऽइति॒ श्नप्त्रे॑। स्थः॒। विष्णोः॑। स्यूः। अ॒सि॒। विष्णोः॑। ध्रु॒वः। अ॒सि॒। वै॒ष्ण॒वम्। अ॒सि॒। विष्ण॑वे। त्वा॒। २१।
महीधरः
म० ‘विष्णो रराटमिति रराट्यमिति’ । (का० ८।४ । १५) वाचयतीत्यनुवर्तते । हविर्धानाख्ये द्वे शकटे दक्षिणोत्तरभागयोः स्थापयित्वा तदावरकत्वेन परितो हविर्धानाख्यं मण्डपं कुर्यात् । स च मण्डपो विष्णुदेवताकत्वाद्विष्णुरित्युपचर्यते। विष्णोश्च मूर्तिधरस्य सर्वावयवसद्भावाल्ललाटाख्योऽवयवोऽस्ति । तद्वद्धविर्धानमण्डपस्यापि पूर्वद्वारवर्तिस्तम्भयोर्मध्ये काचिद्दर्भमाला ग्रथ्यते । तां मालां तद्बन्धनाधारतिर्यग्वंशं वा संबोध्य पुरुषललाटत्वेनोपचर्यते । दर्भमयमालाधारवंश । त्वं विष्णोः विष्णुमूर्तित्वेनोपचरितस्य हविर्धानमण्डपस्य रराटमसि ललाटस्थानीयोऽसि । ‘विष्णोः श्नप्त्रे स्थ इत्युच्छ्राय्याविति’ (का. ८।४।१६)। उच्छाय्यौ रराटीप्रान्तावुपस्पृश्य वाचयेदित्यर्थः । हे रराट्यन्तौ, युवां विष्णोः विष्णुनामकस्य हविर्धानमण्डपस्य श्नप्त्रे स्थः ओष्ठसन्धिरूपे भवथः । ‘द्वार्याः परिषीव्यति लस्यूजनि प्रतिहृतया रज्वा विष्णोः स्यूरसीति’ ( का. ८।४।१८)। बृहत्सूचिसमर्पितया रज्ज्वा द्वारशाखाः सीव्यतीति सूत्रार्थः । हे लस्यूजनि, त्वं विष्णोर्हविर्धानस्य स्यूरसि । सीव्यन्त्यनेनेति स्यूः सूचिः । ‘षिवु तन्तुसन्ताने । क्विपि ‘च्छ्वोः शूडनुनासिके च’ (पा० ६ । ४ । १६) इति वस्योडादेशः । ‘विष्णोर्रुे वोऽसीति ग्रन्थिं करोति’ ( का० ८।४।१६) हे रज्जुग्रन्थे, त्वं विष्णोः हविर्धानस्य ध्रुवोऽसि ग्रन्थिर्भवसि । ‘प्राग्वᳪं᳭शᳪं᳭ हविर्धानं निष्ठाप्य वैष्णवमसीत्यालभते’ (का. ८ । ४ । २१) प्रागग्रैर्वंशैर्मण्डपं निर्मायानेन मन्त्रेण स्पृशेदिति सूत्रार्थः । हे हविर्धान, त्वं वैष्णवमसि विष्णुदेवताकत्वेन तत्संबन्धि भवसि । तस्माद्विष्णवे विष्णुप्रीत्यर्थं त्वा त्वां स्पृशामीति शेषः ॥ २१ ॥
द्वाविंशी।
अधिमन्त्रम् (VC)
- विष्णुर्देवता
- औतथ्यो दीर्घतमा ऋषिः
- भूरिग् आर्ची पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह जगदीश्वर कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो यह अनेक प्रकार का जगत् है, वह (विष्णोः) व्यापक परमेश्वर के सकाश से (रराटम्) उत्पन्न होकर प्रकाशित है, (विष्णोः) सर्व सुख प्राप्त करनेवाले ईश्वर से (स्यूः) विस्तृत (असि) है। [(विष्णोः) सब जगत् के पालक ईश्वर से उत्पन्न होने के कारण अपनी-अपनी सत्ता में (ध्रुवः) निश्चल है,] सब जगत् (वैष्णवम्) यज्ञ का साधन (असि) है और (विष्णोः) सब में प्रवेश करनेवाले जिस ईश्वर के (श्नप्त्रे) जड़-चेतन के समान दो प्रकार का शुद्ध जगत् है, उस सब जगत् के उत्पन्न करनेवाले जगदीश्वर ! हम लोग (त्वा) आप को (विष्णवे) यज्ञ का अनुष्ठान करने के लिये आश्रय करते हैं ॥२१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को उचित है कि इस सब जगत् का परमेश्वर ही रचने और धारण करनेवाला व्यापक इष्टदेव है, ऐसा जानकर सब कामनाओं की सिद्धि करें ॥२१॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स कथंभूत इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यदिदं विविधं जगद(स्य)स्ति तद्विष्णो रराटम(स्य)स्ति विष्णोः सकाशादुत्पद्य वर्त्तत इति यावत्। विष्णोः स्यूर(स्य)स्ति सर्वं जगद्वैष्णवम(स्य)स्ति यस्य विष्णोर्जगति द्वे श्नप्त्रे इव जडचेतनसमूहौ स्थः वर्त्तते, तं सर्वजगदुत्पादकं जगदीश्वरं त्वां विष्णवे यज्ञानुष्ठानाय वयमाश्रयामः ॥२१॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैः सर्वस्यास्य जगतः परमेश्वर एव रचको धारको व्यापक इष्टदेवोऽस्तीति विज्ञाय सर्वकामसिद्धिः सम्पादनीया ॥२१॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सर्व जगाचा निर्माणकर्मा व धारणकर्मा एकच व्यापक इष्टदेव आहे हे जाणून माणसांनी सर्व कामनांची पूर्तता करावी.
२२ देवस्य त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳙ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम्। आद॑दे॒ नार्य॑सी॒दम॒हँ रक्ष॑सां ग्री॒वाऽअपि॑ कृन्तामि। बृ॒हन्न॑सि बृ॒हद्र॑वा बृह॒तीमिन्द्रा॑य॒ वाचं॑ वद ॥२२॥
मूलम् ...{Loading}...
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳙ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम्। आद॑दे॒ नार्य॑सी॒दम॒हँ रक्ष॑सां ग्री॒वाऽअपि॑ कृन्तामि। बृ॒हन्न॑सि बृ॒हद्र॑वा बृह॒तीमिन्द्रा॑य॒ वाचं॑ वद ॥२२॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दे॒वस्य॑। त्वा॒। स॒वि॒तुः। प्र॒स॒व इति॑ प्रऽस॒वे। अ॒श्विनोः॑। बा॒हुभ्या॒मिति॑ बा॒हुऽभ्या॑म्। पू॒ष्णः। हस्ता॑भ्यामिति॒ हस्ता॑ऽभ्याम्। आद॑दे। नारी॑। अ॒सि॒। इ॒दम्। अ॒हम्। रक्ष॑साम्। ग्री॒वाः। अपि॑। कृ॒न्ता॒मि॒। बृ॒हन्। अ॒सि॒। बृ॒हद्र॑वा॒ इति॑ बृ॒हत्ऽर॑वाः। बृ॒ह॒तीम्। इन्द्रा॑य। वाच॑म्। व॒द॒। २२।
महीधरः
म० इत उत्तरमुपरवमन्त्रा देवस्य त्वेत्यस्मात् (क० २६) प्राक् । ‘दक्षिणस्यानसोऽधः प्रउगं खनत्युपरवानभ्यादिकरोत्यवटवदिति’ (का ८ । ४ । २५)। यथा यूपस्यावटः क्रियते तथात्राप्युपरवनामकांश्चतुरो गर्तानभ्रिस्वीकारमारभ्य परिलेखनपूर्वकं कुर्यादित्यर्थः । अवटार्थमभ्रिस्वीकारमेवाह ‘देवस्य त्वेत्यभ्रिमादायेति’ (का० ६ । २ । ८)। अभ्रिशब्देन काष्ठनिर्मितं खननसाधनमुच्यते । अभ्रिर्देवता । हे अभ्रे, सवितुर्देवस्य प्रसवे वर्तमानः सन्नश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां त्वामाददे स्वीकरोमि । त्वं तु नार्यसि खननसाधनत्वेन कर्मोपयोगित्वान्नराणां पुरुषाणामनुष्ठातॄणां संबन्धिनी भवसि । ‘यूपावटं परिलिखतीदमिति’ (का० ६।२।८)। य इदं चतुरोऽवटान्परिलिखामि । इदमिति विभक्तिव्यत्ययः । अनेन परिलेखनेन रक्षसां यज्ञघ्नानां ग्रीवा अपिकृन्तामि कण्ठप्रदेशान्छिनद्मि । बृहन्नसीति यथापरिलिखितं खनतीति’ (का. ८।५। ७) । आग्नेयीं विदिशमारभ्य चतसृषु विदिक्षु चतुर उपरवान्खातुं भूमिः परिलिखिता । तेन परिलेखनक्रमेणावटान्खनेदिति सूत्रार्थः । हे उपरवाख्यगर्त, त्वं बृहन्नसि महान् भवसि वर्तुलस्य गर्तस्य प्रादेशपरिमाणेन विस्तृतत्वाद्बाहूपरिमाणेन
उपरवविधिः
सोमाभिषवणम्
खातत्वाच्च महत्त्वम् । तथा त्वं बृहद्रवाः बृहन्महान् रवो ध्वनिर्यस्य सः । सकारान्तो रवस्शब्दः । खातुं भूमौ प्रहारे महान्ध्वनिर्भवतीत्यर्थः । तस्मात्त्वमिन्द्रायेन्द्रप्रीत्यर्थं बृहती वाचं वद प्रौढध्वनियुक्तं वाक्यं वद ॥ २२ ॥
त्रयोविंशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- औतथ्यो दीर्घतमा ऋषिः
- साम्नी पङ्क्तिः भुरिग् आर्षी बृहती,
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर यह यज्ञ किसलिये करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् मनुष्य ! जैसे मैं (देवस्य) सब को प्रकाश करने आनन्द देने वा (सवितुः) सकल जगत् को उत्पन्न करनेवाले ईश्वर के (प्रसवे) उत्पन्न किये हुए संसार में जिस यज्ञ को (आददे) ग्रहण करता हूँ, वैसे तू भी (त्वा) उसको ग्रहण कर। जैसे मैं (नारी) यज्ञक्रिया वा (इदम्) यज्ञ के अनुष्ठान का ग्रहण करता हूँ, वैसे तू भी ग्रहण कर। जैसे (अहम्) मैं (रक्षसाम्) दुष्ट स्वभाववाले शुत्रओं के (ग्रीवाः) शिरों को भी (अपिकृन्तामि) छेदन करता हूँ, वैसे तुम भी छेदन करो। जैसे मैं इस अनुष्ठान से (बृहद्रवाः) बड़ाई पाया बड़ा होता हूँ, वैसे तू भी हो और जैसे मैं (इन्द्राय) परमैश्वर्य की प्राप्ति के लिये (बृहतीम्) बड़ी (वाचम्) वाणी का उपदेश करता हूँ, वैसे तू भी (वद) कर ॥२२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे विद्वान् लोग ईश्वर की सृष्टि में विद्या से पदार्थों की परीक्षा करके कार्य्यों में उपयोग कर सुखों को प्राप्त करते हैं, वैसे ही सब मनुष्यों को इस यज्ञ का अनुष्ठान कर सब सुखों को पहुँचना चाहिये ॥२२॥
दयानन्द-सरस्वती (सं) - विषयः
पुनरयं यज्ञः किमर्थः कर्त्तव्य इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य ! यथाऽहं देवस्य सवितुः प्रसवेऽश्विनोर्यथा बाहुभ्यां पूष्णो यथा हस्ताभ्यां यं यज्ञमाददे त्वा तं त्वमपि तथादत्स्व। यथाऽहं नारीं यज्ञक्रियामिदं यज्ञानुष्ठानं कर्म चाददे तथा त्वमप्यादत्स्व। यथाऽहं रक्षसां ग्रीवाः कृन्तामि तथा त्वमपि कृन्त। यथा चाहमेतदनुष्ठानेन बृहद्रवा बृहन्भवामि तथा त्वमपि भव। यथा चाहमिन्द्राय बृहतीं वाचं वदामि तथा चैतां त्वमपि वद ॥२२॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा विद्वद्भिरीश्वरसृष्टौ विद्यया पदार्थान् सुपरीक्ष्य कार्येषूपयुज्य सुखानि प्राप्यन्ते, तथैव मनुष्यैरिदमनुष्ठाय सर्वाणि सुखानि प्रापणीयानि ॥२२॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. ज्याप्रमाणे विद्वान लोक विश्वातील (सृष्टीतील) पदार्थांचे ज्ञान प्राप्त करून घेतात, त्यांची परीक्षा करून त्यांचा कार्यात उपयोग करून घेतात व सुखी होतात. त्याप्रमाणेच सर्व माणसांनी या प्रकारच्या यज्ञाचे अनुष्ठान करून सर्वांना सुख द्यावे.
२३ रक्षोहणं बलगहनम्
विश्वास-प्रस्तुतिः ...{Loading}...
र॒क्षो॒हणं॑ बलग॒हनं॑ वैष्ण॒वीमि॒दम॒हं तं ब॑ल॒गमुत्कि॑रामि॒ यं मे॒ निष्ट्यो॒ यम॒मात्यो॑ निच॒खाने॒दम॒हं तं ब॑ल॒गमुत्कि॑रामि॒ यं मे॑ समा॒नो यमस॑मानो निच॒खाने॒दम॒हं तं ब॑ल॒गमुत्कि॑रामि॒ यं मे॒ सब॑न्धु॒र्यमस॑बन्धुर्निच॒खाने॒दम॒हं तं ब॑ल॒गमुत्कि॑रामि॒ यं मे॑ सजा॒तो यमस॑जातो निच॒खानोत्कृ॒त्याङ्कि॑रामि ॥२३॥
मूलम् ...{Loading}...
र॒क्षो॒हणं॑ बलग॒हनं॑ वैष्ण॒वीमि॒दम॒हं तं ब॑ल॒गमुत्कि॑रामि॒ यं मे॒ निष्ट्यो॒ यम॒मात्यो॑ निच॒खाने॒दम॒हं तं ब॑ल॒गमुत्कि॑रामि॒ यं मे॑ समा॒नो यमस॑मानो निच॒खाने॒दम॒हं तं ब॑ल॒गमुत्कि॑रामि॒ यं मे॒ सब॑न्धु॒र्यमस॑बन्धुर्निच॒खाने॒दम॒हं तं ब॑ल॒गमुत्कि॑रामि॒ यं मे॑ सजा॒तो यमस॑जातो निच॒खानोत्कृ॒त्याङ्कि॑रामि ॥२३॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
र॒क्षो॒हण॑म्। र॒क्षो॒हन॒मिति॑ रक्षःऽहन॑म्। ब॒ल॒ग॒हन॒मिति॑ बलऽग॒हन॑म्। वै॒ष्ण॒वीम्। इ॒दम्। अ॒हम्। तम्। ब॒ल॒गम्। उत्। कि॒रा॒मि॒। यम्। मे॒। निष्ट्यः॑। यम्। अ॒मात्यः॑। नि॒च॒खानेति॑ निऽच॒खान॑। इ॒दम्। अ॒हम्। तम्। ब॒ल॒गम्। उत्। कि॒रा॒मि॒। यम्। मे॒। स॒मा॒नः। यम्। अस॑मानः। नि॒च॒खानेति॑ निऽच॒खान॑। इ॒दम्। अ॒हम्। तम्। ब॒ल॒गम्। उत्। कि॒रा॒मि॒। यम्। मे॒। सब॑न्धु॒रिति॒ सऽब॑न्धुः। यम्। अस॑बन्धु॒रित्यस॑ऽबन्धुः। नि॒च॒खानेति॑ निऽच॒खान॑। इ॒दम्। अ॒हम्। तम्। ब॒ल॒गम्। उत्। कि॒रा॒मि॒। यम्। मे॒। स॒जा॒त इति॑ सऽजा॒तः। यम्। अस॑जातः। नि॒च॒खानेति॑ निऽच॒खान॑। उत्। कृ॒त्याम्। कि॒रा॒मि॒। २३।
महीधरः
म० किंभूतां वाचम् । रक्षोहणं रक्षांसि हन्तीति रक्षोहा तां रक्षोवधविषयाम् । तथा वलगहनम् वलगान् हन्तीति वलगहा ताम् । ‘बहुलं छन्दसि’ (पा० ३।२। ८८ ) इति क्विप् । पराजयं प्राप्य पलायमानै राक्षसैरिन्द्रादिवधार्थमभिचाररूपेण भूमौ निखाता अस्थिकेशनखादिपदार्थाः कृत्याविशेषा वलगाः। ‘वलगो वृणोतेः’ (निरु० ६ । २) इति यास्कः । यस्य वधार्थं क्रियते तं वृण्वन्नाच्छादयन् गच्छतीति वलगः । ते वलगा बाहुमात्रे खातास्ततस्तदुद्धारार्थमुपरवस्य तावन्मात्रखननम् । ‘तान्बाहुमात्रान्खनेत्’ इति श्रुतिः (३।५। ४ । ९) तदाह तित्तिरिः ‘असुरा वै निर्यन्तो देवानां प्राणेषु वलगान् न्यखनन् तान् बाहुमात्रे त्वविन्दन् तस्माद्बाहुमात्राः खायन्ते’ इति । तथा वैष्णवीं यज्ञरक्षकस्य विष्णोः संबन्धिनीम् । ईदृशीं वाचमिन्द्राय वदेति संबन्धः । ‘इदमहमित्युत्किरति यथाखातं प्रतिमन्त्रमिति’ (का० ८ । ५। ८) । येन क्रमेण चत्वारो गर्ताः खातास्तेन क्रमेण चतुर्भ्यो गर्तेभ्यः खातं मृत्तृणादिकं चतुर्भिर्मन्त्रैरुत्किरेदिति सूत्रार्थः । ‘ष्ठ्यै स्त्यै शब्दसङ्घातयोः’ नितरां स्त्यायति सङ्घातरूपेण सह वर्तत इति निष्ट्यः । यद्वा निर्गत्य शरीरात् स्त्यायति विस्तीर्णो भवतीति निष्ट्यः पुत्रादिः । यद्वा निर्गतो वर्णाश्रमेभ्यो निष्ट्यः चण्डालादिः ‘निसो गते’ (पा० ४ । २ । १०४ वा० ४) इति वार्तिकेन ‘निस उपसर्गाद्गतार्थे त्यप्’ इति काशिकायाम् । अमाशब्दो गृहार्थः सहार्थो वा । अमा गृहे सह वा भवोऽमात्यः ‘अव्ययात्त्यप्’ (पा० ४ । २ । १०४ ) इति भवार्थे त्यप् । धनिकस्य स्वामिनो धनगृहादिनिर्वाहकोऽमात्यः । केनापि निमित्तेन कुपितः पुत्रोऽमात्यो वा मे मह्यं मद्बाधार्थं यं वलगं निचखान निखातवान् तं वलगमहमुत्किरामि उद्वपामि उद्धृत्यान्यत्र परित्यजामि । इदंशब्दः क्रियाविशेषणम् । इदं प्रत्यक्षं यथा भवति तथोद्वपामीत्यर्थः । द्वितीयमुत्किरति समानो धनकुलादिभिः सदृशः । असमानो न्यूनोऽधिको वा । अन्यत्पूर्ववत् । तृतीयमुत्किरति । सबन्धुः कुलशीलादिभिः समानो मातुलपैतृष्वसेयादिः तद्विपरीतोऽसबन्धुः । अन्यत्पूर्ववत् । चतुर्थमुत्किरति । सजातः समानजन्मा भ्राता तद्विपरीतोऽसजातः । अन्यत् पूर्ववत् । ‘उत्कृत्यां किरामीति पश्चात्सर्वेभ्यः’ (का० ८ । ५। ९) इति । असाधारणैर्मन्त्रैः पूर्वोक्तक्रमेणोत्किरणं कृत्वा पश्चात्साधारणेन मन्त्रेण चतुर्भ्यो गर्तेभ्य उत्किरेदिति सूत्रार्थः । येयं कृत्या शत्रुभिरभिचरद्भिः संपादिता वलगरूपा तामुत्किरामि उद्धृत्य दूरे क्षिपामि ॥ २३ ॥
चतुर्विंशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- औतथ्यो दीर्घतमा ऋषिः
- याजुषी बृहती, भुरिग् अष्टिः, स्वराड् ब्राह्मी उष्णिक्
- मध्यमः, गान्धारः, ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
सृष्टि से मनुष्यों को किस प्रकार का उपकार ग्रहण करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् मनुष्य ! जैसे (अहम्) मैं (बलगहनम्) बलों को बिडोलने और (रक्षोहणम्) राक्षसों के हनन करनेवाले कर्म और (वैष्णवीम्) व्यापक ईश्वर की वेदवाणी का अनुष्ठान करके (यम्) जिस (बलगम्) बल प्राप्त करानेवाले यज्ञ को (उत्किरामि) उत्कृष्टपन से प्रेरित अर्थात् इस संसार में प्रकाशित करता हूँ (तम्) उस यज्ञ को वैसे ही तू भी (इदम्) इसको प्रकाशित कर और जैसे (मे) मेरा (निष्ट्यः) यज्ञ में कुशल (अमात्यः) मेधावी विद्वान् मनुष्य (यम्) जिस यज्ञ वा (इदम्) भूगर्भ विद्या की परीक्षा के लिये स्थान को (निचखान) निःसन्देह करता है, वैसे (तम्) उसको तेरा भी भृत्य खोदे। जैसे (अहम्) भूगर्भविद्या का जाननेवाला मैं (यम्) जिस (बलगम्) बल प्राप्त करनेवाले खेती आदि यज्ञ वा (इदम्) खननरूपी कर्म को (उत्किरामि) अच्छे प्रकार सम्पादन करता हूँ, वैसे (तम्) उस को तू भी कर। जैसे (मे) मेरा (समानः) सदृश वा असदृश मनुष्य (यम्) जिस कर्म को (निचखान) खनन करता है, वैसे तेरा भी खोदे। जैसे (अहम्) पढ़ने-पढ़ानेवाला मैं (यम्) जिस (बलगम्) आत्मबल प्राप्त करनेवाले यज्ञ वा (इदम्) इस पढ़ने-पढ़ाने रूपी कार्य को (उत्किरामि) सम्पन्न करता हूँ, वैसे (तम्) उसको तू भी कर। जैसा (मे) मेरा (सबन्धुः) तुल्य बन्धु मित्र वा (असबन्धुः) तुल्य बन्धु रहित अमित्र (यम्) जिस पालनरूपी यज्ञ वा इस कर्म को (निचखान) निःसन्देह करता है, वैसे उसको तेरा भी करे। जैसे (अहम्) सब का मित्र मैं (यम्) जिस (बलगम्) राज्यबल प्राप्त करनेवाले यज्ञ वा (इदम्) इस कार्य को (उत्किरामि) सम्पन्न करता हूँ, वैसे (तम्) उसको तू भी कर। जैसे (सजातः) साथ उत्पन्न हुआ (असजातः) साथ से अलग उत्पन्न हुआ मनुष्य (यम्) जिस यज्ञ वा (कृत्याम्) उत्तम क्रिया को (निचखान) निःसन्देह करता है, वैसा तेरा भी इस यज्ञ वा इस क्रिया को निःसन्देह करे। जैसे मैं इस सब कर्म को (उत्किरामि) सम्पादन करता हूँ, वैसे तुम भी करो ॥२३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को ईश्वर की इस सृष्टि में विद्वानों का अनुकरण सदा करना और मूर्खों का अनुकरण कभी न करना चाहिये ॥२३॥
दयानन्द-सरस्वती (सं) - विषयः
सृष्टेर्मनुष्यैः कीदृश उपकारो ग्राह्य इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन्मनुष्य ! यथा कश्चिद् बलगहनं यथा रक्षोहणं वैष्णवीं वाचमनुष्ठाय यं बलगं यज्ञं यथाहमुत्किरामि तथा त्वमप्येतमुत्किर। यथा कस्यचिन्मे मम निष्ट्योऽमात्यो यं यज्ञमिदं स्थानादि च निचखान, तथा तव भृत्यो निखनतु। यथाऽहं यं बलगं यज्ञमुत्किरामि तथा तं त्वमप्युत्किर। यथा मे मम वा समानोऽसमानश्च यं यज्ञमिदं कर्म च निचखान तथा तवापि निखनतु। यथाहं यं बलगं यज्ञमुत्किरामि तथा त्वमप्येतमुत्किर। यथा मे मम सबन्धुरसबन्धुश्च यं यज्ञमिदं कर्म च निचखान, तथा तवापि चैतं निखनतु। यथाऽहं यं बलगं यज्ञमुत्किरामि तथा त्वमप्येतमुत्किर। यथा मे मम सजातोऽसजातश्च यं यज्ञं कृत्यां निचखान तथा तवाप्येतमेतां च निखनतु। यथाहमेतत् सर्वमुत्किरामि तथा त्वमप्येनमुत्किर ॥२३॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैरस्यामीश्वरसृष्टौ धार्मिकविद्वदनुकरणं कार्यं नेतरेषामिति ॥२३॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. ईश्वराच्या या सृष्टीत माणसांनी नेहमी विद्वानांचे अनुकरण केले पाहिजे. मूर्खांचे अनुकरण कधीही करू नये.
२४ स्वराडसि सपत्नहा
विश्वास-प्रस्तुतिः ...{Loading}...
स्व॒राड॑सि सपत्न॒हा स॑त्र॒राड॑स्यभिमाति॒हा ज॑न॒राड॑सि रक्षो॒हा स॑र्व॒राड॑स्यमित्र॒हा ॥२४॥
मूलम् ...{Loading}...
स्व॒राड॑सि सपत्न॒हा स॑त्र॒राड॑स्यभिमाति॒हा ज॑न॒राड॑सि रक्षो॒हा स॑र्व॒राड॑स्यमित्र॒हा ॥२४॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स्व॒राडिति॑ स्व॒ऽराट्। अ॒सि॒। स॒प॒त्न॒हेति॑ सपत्न॒ऽहा। स॒त्र॒राडिति॑ सत्र॒ऽराट्। अ॒सि॒। अ॒भि॒मा॒ति॒हेत्य॑भिमाति॒ऽहा। ज॒न॒राडिति॑ जन॒ऽराट्। अ॒सि॒। र॒क्षो॒हेति॑ रक्षः॒ऽहा। स॒र्व॒राडिति॑ सर्व॒ऽराट्। अ॒सि॒। अ॒मि॒त्र॒हेत्य॑मित्र॒ऽहा। २४।
महीधरः
म०. ‘स्वराडित्यभिमर्शयति यथा खातं प्रतिमन्त्रमिति’ (का० ८ । ५। १३)। खननक्रमेण चतुर्षु गर्तेषु यजमानहस्तस्य स्पर्शं चतुर्भिर्मन्त्रैः कारयेदिति सूत्रार्थः । चत्वारि यजूंषि औपरवाणि । तत्र प्रथमं हे प्रथमगर्त, त्वं स्वराडसि स्वेनैव राजत इति स्वराट् स्वयमेव राजमानो भवसि । अतः सपत्नहा शत्रुघाती भवेति शेषः । अथ द्वितीयं सत्रराट् सत्रेषु द्वादशाहादिषु राजत इति सत्रराट् । अभिमातिहा शत्रुघाती । अथ तृतीयं जनराट् जनेषु यजमानेषु राजत इति जनराट् । रक्षोहा यज्ञविनाशकराक्षसघाती । अथ चतुर्थं सर्वराट् सर्वेषु राजत इति सर्वराट् अमित्रहा शत्रुघाती ॥ २४ ॥
पञ्चविंशी।
अधिमन्त्रम् (VC)
- सूर्यविद्वांसौ देवते
- औतथ्यो दीर्घतमा ऋषिः
- भुरिग् आर्षी अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब अगले मन्त्र में सूर्य और सभाध्यक्ष के गुणों का उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् मनुष्य ! जिस कारण आप (स्वराट्) अपने आप प्रकाशमान (असि) हैं, इससे (सपत्नहा) शत्रुओं के मारनेवाले होते हो। जिस कारण तुम (सत्रराट्) यज्ञों में प्रकाशमान हो, इससे (अभिमातिहा) अभिमानयुक्त मनुष्यों को मारनेवाले होते हो, जिस से (जनराट्) धार्मिक विद्वानों में प्रकाशित हैं, इससे (रक्षोहा) राक्षस दुष्टों को मारनेवाले होते हैं, जिससे आप (सर्वराट्) सब में प्रकाशित हैं, इस से (अमित्रहा) अमित्र अर्थात् शत्रुओं के मारनेवाले होते हैं ॥१॥२४॥ जिस कारण यह सूर्यलोक (स्वराट्) अपने आप (असि) प्रकाशित है, इससे (सपत्नहा) मेघ के अवयवों को काटनेवाला होता है। जिस कारण यह (सत्रराट्) यज्ञों में प्रकाशित (असि) है, इससे (अभिमातिहा) अभिमानकारक चोर आदि का हनन करनेवाला होता है। जिस कारण यह (जनराट्) धार्मिक विद्वानों के मन में प्रकाशित (असि) है, इससे (रक्षोहा) राक्षस वा दुष्टों का हनन करनेवाला होता है। जिस से यह (सर्वराट्) सब में प्रकाशमान (असि) है, इससे (अमित्रहा) दुष्टों को दण्ड देने का निमित्त होता है ॥२॥२४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। विद्वान् मनुष्य ! जैसे सूर्य अपने प्रकाश से चोर, व्याघ्र आदि प्राणियों को भय दिखा कर अन्य प्राणियों को सुखी करता है, वैसे ही तू भी सब शत्रुओं को निवारण कर प्रजा को सुखी कर ॥२४॥
दयानन्द-सरस्वती (सं) - विषयः
अथ सूर्यसभाद्यध्यक्षगुणा उपदिश्यन्ते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् मनुष्य ! यतस्त्वं स्वराडसि तस्मात् सपत्नहाऽसि भवसि। यतस्त्वं सत्रराडसि तस्माभिमातिहा वर्तसे, यतस्त्वं जनराडसि तस्माद्रक्षोहाऽसि भवसि। यतस्त्वं सर्वराडसि तस्मादमित्रहाऽसि भवसि। यतस्त्वं सर्वराडसि तस्मादमित्रहाऽसि भवसीत्येकः ॥१॥२४॥ यतोऽयं सूर्यलोकः स्वराडस्ति तस्मात् सपत्नहा भवति, यतोऽयं सत्रराडस्ति तस्मादभिमातिहा वर्त्तते। यतोऽयं जनराडस्ति तस्माद्रक्षोहा जायते। यतोऽयं सर्वराडस्ति तस्मादमित्रहा वर्त्तत इति द्वितीयः ॥२॥२४॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। हे विद्वन् ! यथा सूर्यः स्वप्रकाशेन चोरव्याघ्रादीन् भीषयित्वा सर्वान् सुखयति तथैव त्वं शत्रून्निवार्य्य प्रजाः सुखय ॥२४॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. हे विद्वान माणसा ! सूर्य जसा आपल्या प्रकाशाने चोर, वाघ इत्यादी प्राण्यांना भयभीत करून इतर प्राण्यांना सुखी करतो तसे तुही सर्व शत्रूंचे निवारण करून लोकांना सुखी कर.
२५ रक्षोहणो वो
विश्वास-प्रस्तुतिः ...{Loading}...
र॒क्षो॒हणो॑ वो बलग॒हनः॒ प्रोक्षा॑मि वैष्ण॒वान् र॑क्षो॒हणो॑ वो बलग॒हनोऽव॑नयामि वैष्ण॒वान् र॑क्षो॒हणो॑ वो बलग॒हनोऽव॑स्तृणामि वैष्ण॒वान् र॑क्षो॒हणौ॑ वां बलग॒हना॒ऽउप॑दधामि वैष्ण॒वी र॑क्षो॒हणौ॑ वां बलग॒हनौ॒ पर्यू॑हामि वैष्ण॒वी वै॑ष्ण॒वम॑सि वैष्ण॒वा स्थ॑ ॥२५॥
मूलम् ...{Loading}...
र॒क्षो॒हणो॑ वो बलग॒हनः॒ प्रोक्षा॑मि वैष्ण॒वान् र॑क्षो॒हणो॑ वो बलग॒हनोऽव॑नयामि वैष्ण॒वान् र॑क्षो॒हणो॑ वो बलग॒हनोऽव॑स्तृणामि वैष्ण॒वान् र॑क्षो॒हणौ॑ वां बलग॒हना॒ऽउप॑दधामि वैष्ण॒वी र॑क्षो॒हणौ॑ वां बलग॒हनौ॒ पर्यू॑हामि वैष्ण॒वी वै॑ष्ण॒वम॑सि वैष्ण॒वा स्थ॑ ॥२५॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
र॒क्षो॒हणः॑। र॒क्षो॒हन॒ इति॑ रक्षः॒ऽहनः॑। वः॒। ब॒ल॒ग॒हन॒ इति॑ बलग॒ऽहनः॑। प्र। उ॒क्षा॒मि॒। वै॒ष्ण॒वान्। र॒क्षो॒हणः॑। र॒क्षो॒हन॒ इति॑ रक्षः॒ऽहनः॑। वः॒। ब॒ल॒ग॒हन॒ इति॑ बलग॒ऽहनः॑। अव॑। न॒या॒मि॒। वै॒ष्ण॒वान्। र॒क्षो॒हणः॑। र॒क्षो॒हन॒ इति॑ रक्षः॒ऽहनः॑। वः॒। ब॒ल॒ग॒हन॒ इति॑ बलग॒ऽहनः॑। अव॑। स्तृ॒णा॒मि॒। वै॒ष्ण॒वान्। र॒क्षो॒हणौ॑। र॒क्षो॒हना॒विति॑ रक्षः॒ऽहनौ॑। वा॒म्। ब॒ल॒ग॒हना॒विति॑ बलग॒ऽहनौ॑। उप॑। द॒धा॒मि॒। वै॒ष्ण॒वीऽइति॑ वैष्ण॒वी। र॒क्षो॒हणौ॑। र॒क्षो॒हना॒विति॑ रक्षः॒ऽहनौ॑। वा॒म्। ब॒ल॒ग॒हना॒विति॑ बलग॒ऽहनौ॑। परि॑। ऊ॒हा॒मि॒। वैष्ण॒वीऽइति॑ वैष्ण॒वी। वै॒ष्ण॒वम्। अ॒सि॒। वै॒ष्ण॒वाः। स्थः॒। । २५।
महीधरः
म० ‘प्रोक्षत्येनान् रक्षोहण इति भेदे मन्त्रावृत्तिरिति’ (का० ८ । ५ । २२-२३) चतुरो गर्तान्मन्त्रेण प्रोक्षेत् । तस्य मन्त्रस्य गर्तभेदे सत्यावृत्तिः कर्तव्येति सूत्रार्थः । सप्त यजूंषि वैष्णवानि । वैष्णवान्विष्णुदेवताकान् गर्तान्वो युष्मान्प्रोक्षामि । कीदृशान् । रक्षोहणो राक्षसहन्तॄन् वलगहनः अभिचारसाधनहन्तॄन् । ‘अवनयनेऽवस्तरणे चावटवद्रक्षोहणो रक्षोहण इति’ (का० ८ । ५। २४ ) । गर्तेषु प्रोक्षणशेषोदकसेचनमवनयनं दभैराच्छादनं संस्तरणं तयोर्द्वयोरपि क्रिययोर्गतभेदात्तन्मन्त्रावृत्तिर्द्रष्टव्येति सूत्रार्थः। तत्रावनयनमन्त्रः । अवनयामि सिंचामि । अन्यत्पूर्ववत् । अथावस्तरणमन्त्रः । आस्तृणामि दर्भैराच्छादयामि । अन्यत्पूर्ववत् । ‘तनूनुपरि कुशान्कृत्वाधिषवणे फलके द्व्यङ्गुलान्तरे प्रक्षालिते प्राची अरत्निमात्रे संतृण्णे वोपदधाति पर्यूहति च रक्षोहणौ रक्षोहणाविति’ (का० ८ । ५।२५) ययोः फलकयोरुपरि सोमोऽभिषूयते ते द्वे अधिषवणफलके तयोरुभयोर्मध्ये द्व्यङ्गुलव्यवहिते अरत्निप्रमाणे संतृण्णे ईषद्बन्धनोपेते चतुर्णां गर्तानामुपरि स्थापयेत् । तयोः परितो मृदा छिद्रपिधानं कुर्यादित्यर्थः । तत्रोपधानमन्त्रः । यावधिषवणफलकविशेषौ रक्षोहणौ रक्षसां नाशकौ वलगहनौ कृत्याविनाशकौ वैष्णवी वैष्णवौ विष्णुदेवताकौ । लिङ्गव्यत्ययः । तौ वां युवामहमुपदधामि द्वयोर्गर्तयोरुपरि एकैकं फलकं स्थापयामि । अथ पर्यूहणमन्त्रः । पर्यूहामि मृदा परितश्छादयामि । अन्यत्पूर्ववत् । ‘तयोश्चर्माधिषवणं परिकृत्तᳪं᳭ सर्वरोहितं निदधाति वैष्णवमसीति’ (का० ८ । ५ । २६ )। यस्मिंश्चर्मणि सोमोऽभिषूयते तच्चर्माधिषवणाख्यम् अग्रभागे छिन्नं सर्वमपि लोहितवर्णं तयोः फलकयोरुपरि स्थापयेदिति सूत्रार्थः । हे चर्म, त्वं वैष्णवमसि यज्ञरक्षकविष्णुसंबन्धि भवसि । ‘तस्मिन् ग्राव्णः पञ्च वैष्णवाः स्थेति’ (का० ८।५।२७) । निदधातीत्यनुवर्तते । तस्मिंश्चर्मणि । सोमाभिषवहेतून् पञ्च पाषाणान्स्थापयेदिति सूत्रार्थः । हे ग्रावाणः, यूयं वैष्णवाः स्थ यज्ञरक्षकविष्णुसंबन्धिनो भवथ ॥ २५॥
षड्डिशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- औतथ्यो दीर्घतमा ऋषिः
- ब्राह्मी बृहती, आर्षी पङ्क्तिः
- मध्यमः, पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
यजमान सभा आदि के अध्यक्ष यज्ञानुष्ठान करनेवाले मनुष्यों को यज्ञ सामग्री का ग्रहण करावें, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सभाध्यक्ष आदि मनुष्यो ! जैसे तुम (रक्षोहणः) दुःखों का नाश करनेवाले हो, वैसे शत्रुओं के बल को अस्तव्यस्त करने हारा मैं (वैष्णवान्) यज्ञ देवतावाले (वः) आप लोगों का सत्कार कर युद्ध में शस्त्रों से (प्रोक्षामि) इन घमण्डी मनुष्यों को शुद्ध करूँ। जैसे आप (रक्षोहणः) अधर्मात्मा दुष्ट दस्युओं को मारनेवाले हैं, वैसे (बलगहनः) शत्रुसेना की थाह लेनेवाला मैं (वैष्णवान्) यज्ञसम्बन्धी (वः) तुम को सुखों से मान्य कर दुष्टों को (अवनयामि) दूर करता हूँ। जैसे (बलगहनः) अपनी सेना को व्यूहों की शिक्षा से विलोडन करनेवाला मैं (रक्षोहणः) शत्रुओं को मारने वा (वैष्णवान्) यज्ञ के अनुष्ठान करनेवाले (वः) तुम को (अवस्तृणामि) सुख से आच्छादित करता हूँ, वैसे तुम भी किया करो। जैसे (रक्षोहणौ) राक्षसों के मारने वा (बलगहनौ) बलों को विलोडन करनेवाले (वाम्) यज्ञपति वा यज्ञ करानेवाले विद्वान् का धारण करते हो, वैसे मैं भी (उपदधामि) धारण करता हूँ। जैसे (रक्षोहणौ) राक्षसों के मारने (बलगहनौ) बलों को विलोडनेवाले (वाम्) प्रजा सभाध्यक्ष आप (वैष्णवी) सब विद्याओं में व्यापक विद्वानों की क्रिया वा (वैष्णवम्) जो विष्णुसम्बन्धी ज्ञान है, इन सब को तर्क से जानते हैं, वैसे मैं भी (पर्यूहामि) तर्क से अच्छे प्रकार जानूँ और जैसे आप सब लोग (वैष्णवाः) व्यापक परमेश्वर की उपासना करनेवाले (स्थ) हैं, वैसा मैं भी होऊँ ॥२५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमा और उपमालङ्कार हैं। मनुष्यों को परमेश्वर की उपासनायुक्त व्यवहार से शरीर और आत्मा के बल को पूर्ण कर के यज्ञ से प्रजा की पालना और शत्रुओं को जीतकर सब भूमि के राज्य की पालना करनी चाहिये ॥२५॥
दयानन्द-सरस्वती (सं) - विषयः
यजमानः सभाद्यध्यक्षादयो यज्ञानुष्ठातॄन् मनुष्यान् यज्ञसामग्रीं ग्राहयेयुरित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सभाध्यक्षादयो मनुष्या ! यूयं यथा रक्षोहणः स्थ तथा बलगहनोऽहं वो युष्मान् सत्कृत्यैतान् दुष्टान् युद्धे शस्त्रैः प्रोक्षामि। यथा रक्षोहणो यूयं नो दुःखानि हथ, तथा बलगहनोऽहं वो युष्मान् सुखैः संमान्यैतानवनयामि। यथा रक्षोहणो वैष्णवान् वो युष्मानेतांश्चावस्तृणीथ, तथा बलगहनोऽहमेवैतानवस्तृणामि। यथा रक्षोहणौ बलगहनौ यज्ञस्वामिसम्पादकौ वामुपधत्तस्तथैवाहमेतानुपदधामि। यथा रक्षौहणौ बलगहनौ वां या वैष्णवी क्रियास्ति तया पर्यूहतस्तथैवाहमेतां पर्यूहामि यद्वैष्णवं ज्ञानं यूयं सर्वत ऊहथ, तदहमपि पर्यूहामि, यूयं वैष्णवा स्थ तथा वयमपि भवेम ॥२५॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारौ। मनुष्यैः परमेश्वरोपासनायुक्तव्यवहाराभ्यां पूर्णं शरीरात्मबलं सम्पाद्य यज्ञेन प्रजापालनं शत्रून् विजित्य सार्वभौमराज्यं च प्रशासनीयम् ॥२५॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार व उपमालंकार आहेत. सभाध्यक्ष (राजा) इत्यादी माणसांनी परमेश्वराची उपासना करून शरीर व आत्मा यांचे बल वाढवावे व यज्ञ करून प्रजेचे पालन करावे आणि शत्रूंना जिंकून सर्व पृथ्वीवरील राज्याचे पालन करावे.
२६ देवस्य त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳙ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम्। आद॑दे॒ नार्य॑सी॒दम॒हँ रक्ष॑सां ग्री॒वाऽअपि॑कृन्तामि॒। यवो॑ऽसि य॒वया॒स्मद् द्वेषो॑ य॒वयारा॑तीर्दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वा॒ शुन्ध॑न्ताल्ँ लो॒काः पि॑तृ॒षद॑नाः पितृ॒षद॑नमसि ॥२६॥
मूलम् ...{Loading}...
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳙ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम्। आद॑दे॒ नार्य॑सी॒दम॒हँ रक्ष॑सां ग्री॒वाऽअपि॑कृन्तामि॒। यवो॑ऽसि य॒वया॒स्मद् द्वेषो॑ य॒वयारा॑तीर्दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वा॒ शुन्ध॑न्ताल्ँ लो॒काः पि॑तृ॒षद॑नाः पितृ॒षद॑नमसि ॥२६॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दे॒वस्य॑। त्वा॒। स॒वि॒तुः। प्र॒स॒व इति॑ प्रऽस॒वे। अ॒श्विनोः॑। बा॒हुभ्या॒मिति॑ बा॒हुऽभ्याम्। पू॒ष्णः। हस्ता॑भ्या॒मिति॒ हस्ता॑ऽभ्याम्। आ। द॒दे॒। नारि॑। अ॒सि॒। इ॒दम्। अ॒हम्। रक्ष॑साम्। ग्री॒वाः। अपि॑। कृ॒न्ता॒मि॒। यवः॑। अ॒सि॒। य॒वय॑। अ॒स्मत्। द्वेषः॑। य॒वय॑। अरा॑तीः। दि॒वे। त्वा॒। अ॒न्तरिक्षा॑य। त्वा॒। पृ॒थि॒व्यै। त्वा॒। शुन्ध॑न्ताम्। लो॒काः। पि॒तृ॒षद॑नाः। पि॒तृ॒सद॑ना॒ इति॑ पितृ॒ऽसद॑नाः। पि॒तृ॒षद॑नम्। पि॒तृ॒सद॑न॒मिति॑ पितृ॒ऽसद॑नम्। अ॒सि॒। २६।
महीधरः
म० इत उत्तरमौदुम्बरीमन्त्राः । ‘औदुम्बरीं मिनोति यजमानमात्रीं यूपवच्छेतेऽभ्र्यादि करोत्यावस्तरणादिति’ (का. ८।५ । ३०-३२) । उदुम्बरवृक्षादुत्पन्नां कांचिच्छाखां यजमानदेहमितां सदोमण्डपमध्ये निखनेत् । सा च शाखा निखननात्पूर्वं यूपवद्भूमौ शयित्वा वर्तते यूपावटखननवदभ्रिस्वीकारमारभ्य दर्भोपस्तरणपर्यन्तान्पदार्थान्मन्त्रैरेव कुर्यादिति सूत्रार्थः । सूपावटप्रदेशे ‘देवस्य त्वेत्यभ्रिमादायेति’ (का.६ । २। ८) व्याख्यातं यजुः । ‘यूपावटं परिलिखतीदमहमिति’ ( का० ६ । २ । ८) एतदपि व्याख्यातम् । ‘यवोऽसीत्यप्सु यवानोप्येति’ ( का० ६।२।१५)। यवदेवत्यम् । हे धान्यविशेष, त्वं यवोऽसि यौति पृथक्करोतीति यवः अस्मत् द्वेषो द्वेष्टॄन् शत्रून् द्वेषो दौर्भाग्यं वा अस्मत् अस्मत्तो यवय पृथक्कुरु । तथा अरातीः अदानानि च यवय पृथक्कुरु । अनेन सोभाग्यं धनं च प्रार्थ्यत इति भावः । ‘प्रोक्षत्यग्रमध्यमूलानि दिवे त्वेति प्रतिमन्त्रं प्रोक्षामीति सर्वत्र साकाङ्क्षत्वादिति’ (६ । २ । १५-१६) । तत्र प्रथमो मन्त्रः । हे औदुम्बर्यग्रभाग, दिवे द्युलोकप्रीत्यर्थं त्वा त्वां प्रोक्षामीति शेषः । द्वितीयः । हे मध्यभाग, अन्तरिक्षायान्तरिक्षलोकप्रीत्यै त्वां प्रोक्षामि । अथ तृतीयः । हे मूलभाग, पृथिव्यै पृथिवीप्रीत्यै त्वां प्रोक्षामि । ‘अवटे शेषमासिञ्चति शुन्धन्तामिति’ (का० ६ । २।१७ ) द्वे यजुषी पित्र्ये । पितरः सीदन्ति येषु लोकेषु ते पितृषदनाः लोकाः शुन्धन्तामनेनोदकसेचनेन शुद्धा भवन्तु । खननेनोत्पन्नस्य क्रौर्यस्य शान्त्यर्थमिदमुदकसेचनम् । तदाह तित्तिरिः ‘क्रूरमिव वा एतत्करोति यत्खनति यत्पयोऽवनयति शान्त्यै तदिति’ । ‘बर्हीᳪं᳭षि प्राञ्च्युदञ्चि च प्रास्यति पितृषदनमसीति’ (का० ६ । २ । १८) । तस्मिन्नवटे प्रागग्रानुदगग्रांश्च दर्भानास्तृणातीति सूत्रार्थः । पितरः सीदन्त्युपविशन्ति यस्मिन् तत्पितृषदनम् । हे बर्हिः, त्वं पितृषदनमसि ॥ २६ ॥
सप्तविंशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- औतथ्यो दीर्घतमा ऋषिः
- निचृद् आर्षी पङ्क्तिः, निचृद् आर्षी त्रिष्टुप्
- पञ्चमः, धैवतः
दयानन्द-सरस्वती (हि) - विषयः
किसलिये इस यज्ञ को करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् मनुष्य ! जैसे मैं (सवितुः) सब जगत् के उत्पन्न करने और (देवस्य) सब आनन्द के देनेवाले परमेश्वर के (प्रसवे) उत्पन्न किये हुए संसार में (अश्विनोः) प्राण और अपान के (बाहुभ्याम्) बल और वीर्य तथा (पूष्णः) अतिपुष्ट वीर के (हस्ताभ्याम्) प्रबल प्रतापयुक्त भुज और दण्ड से अनेक उपकारों को (आददे) लेता वा (इदम्) इस जगत् की रक्षा कर (रक्षसाम्) दुष्टकर्म करनेवाले प्राणियों के (ग्रीवाः) शिरों का (अपि) (कृन्तामि) छेदन ही करता हूँ, तथा जैसे पदार्थों का उत्तम गुणों से मेल करता हूँ, वैसे तू भी उपकार ले और (यवय) उत्तम गुणों से पदार्थों का मेल कर। जैसे मैं (द्वेषः) ईर्ष्या आदि दोष वा (अरातीः) शत्रुओं को (अस्मत्) अपने से दूर कराता हूँ, वैसे तू भी (यवय) दूर करा। हे विद्वन् ! जैसे हम लोग (दिवे) ऐश्वर्य्यादि गुण के प्रकाश होने के लिये (त्वा) तुझ को (अन्तरिक्षाय) आकाश में रहनेवाले पदार्थ को शोधने के लिये (त्वा) तुझ को (पृथिव्यै) पृथिवी के पदार्थों की पुष्टि होने के लिये (त्वा) तुझ को सेवन करते हैं, वैसे तुम लोग भी करो। जैसे (पितृषदनम्) विद्या पढ़े हुए ज्ञानी लोगों का यह स्थान (असि) है और जिस से (पितृषदनाः) जैसे ज्ञानियों में ठहर पवित्र होते हैं, वैसे मैं शुद्ध होऊँ तथा सब मनुष्य (शुन्धन्ताम्) अपनी शुद्धि करें और हे स्त्री ! तू भी यह सब इसी प्रकार कर ॥२६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को योग्य है कि ठीक-ठीक क्रियाक्रमपूर्वक विद्वानों का आश्रय और यज्ञ का अनुष्ठान करके सब प्रकार से अपनी शुद्धि करें ॥२६॥
दयानन्द-सरस्वती (सं) - विषयः
किमर्थोऽयं यज्ञोऽनुष्ठातव्य इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्या ! यथा अहं सवितुर्देवस्य प्रसवे यथाऽश्विनोर्बाहुभ्यां यथा पूष्णो हस्ताभ्यामनेकानुपकारानाददे। इदं विश्वं संरक्ष्य रक्षसां ग्रीवा अपिकृन्तामि। यथा पदार्थान् यावयामि तथा त्वमप्यादत्स्व यवय च। यथाऽहं द्वेषोऽरातीः शत्रूनस्मद् दूरीकारयामि तथा त्वमपि यवय। हे विद्वन् ! यथाऽहं दिवे त्वा त्वां तमन्तरिक्षाय त्वा त्वां पृथिव्यै त्वा त्वामाश्रयामि, तथा सर्वे जना आश्रयन्ताम्। यथा पितृषदनमस्ति येन पितृषदना लोकाः शुन्धन्ति, यदहं शुन्धे तथेदं सर्वे शुन्धन्ताम्। हे नारि ! त्वमप्येतत्सर्वमेवमेव समाचर ॥२६॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। मनुष्यैर्यथाक्रियं यथानुक्रमं विद्वदाश्रयं कृत्वा यज्ञमनुष्ठाय सर्वेषां शुद्धिः सम्पादनीया ॥२६॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. माणसांनी व्यवस्थित कार्य करून विद्वानांचा आश्रय घ्यावा व यज्ञाचे अनुष्ठान करून सर्व प्रकारे आपल्याला पवित्र करावे.
२७ उद्दिवं स्तभानान्तरिक्षम्
विश्वास-प्रस्तुतिः ...{Loading}...
उद्दिवँ॑ स्तभा॒नान्तरि॑क्षं पृण॒ दृँह॑स्व पृथि॒व्यां द्यु॑ता॒नस्त्वा॑ मारु॒तो मि॑नोतु मि॒त्रावरु॑णौ ध्रु॒वेण॒ धर्म॑णा। ब्र॒ह्म॒वनि॑ क्षत्र॒वनि॑ रायस्पोष॒वनि॒ पर्यू॑हामि। ब्रह्म॑ दृँह क्ष॒त्रं दृँ॒हायु॑र्दृँह प्र॒जां दृँ॑ह ॥२७॥
मूलम् ...{Loading}...
उद्दिवँ॑ स्तभा॒नान्तरि॑क्षं पृण॒ दृँह॑स्व पृथि॒व्यां द्यु॑ता॒नस्त्वा॑ मारु॒तो मि॑नोतु मि॒त्रावरु॑णौ ध्रु॒वेण॒ धर्म॑णा। ब्र॒ह्म॒वनि॑ क्षत्र॒वनि॑ रायस्पोष॒वनि॒ पर्यू॑हामि। ब्रह्म॑ दृँह क्ष॒त्रं दृँ॒हायु॑र्दृँह प्र॒जां दृँ॑ह ॥२७॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उत्। दिव॑म्। स्त॒भा॒न॒। आ। अ॒न्तरि॑क्षम्। पृ॒ण॒। दृँह॑स्व। पृ॒थि॒व्याम्। द्यु॒ता॒नः। त्वा॒। मा॒रु॒तः। मि॒नो॒तु॒। मि॒त्राव॑रुणौ। ध्रु॒वेण॑। धर्म॑णा। ब्र॒ह्म॒वनीति॑ ब्रह्म॒ऽवनि॑। त्वा॒। क्ष॒त्र॒वनीति॑ क्षत्र॒ऽवनि॑। रा॒य॒स्पो॒ष॒वनीति॑ रायस्पोष॒ऽवनि॑। परि॑। ऊ॒हा॒मि॒। ब्रह्म॑। दृँ॒ह॒। क्ष॒त्रम्। दृँ॒ह॒। आयुः॑। दृँ॒ह॒। प्र॒जामिति॑ प्र॒ऽजाम्। दृँ॒ह॒॑। २७।
महीधरः
म० ‘उद्दिवमित्युच्छ्रयतीति’ (का० ८।५। ३३) - उच्छ्यणमूर्ध्वाग्रत्वेन स्थापनम् । पञ्च यजूंष्यौदुम्बरीदेवत्यानि । हे औदुम्बरि, त्वं दिवं द्युलोकमुत्तभान स्तम्भय ऊर्ध्वः सन् यथा न पतति तथा कुर्वित्यर्थः । अन्तरिक्षं पृण पूरय । पृथिव्यां दृंहस्व दृढा भव । पृथिव्यामिति सप्तमी द्वितीयार्थे । पृथिवीं दृढीकुरु । ‘द्युतान इति मिनोतीति’ (का० ८।५। ३४) । शाखां गर्ते प्रक्षिपतीति सूत्रार्थः । हे औदुम्बरि, | द्युतानः दीप्यमानो मारुतो वायुः ध्रुवेण स्थिरेण धर्मणा धारणेन त्वां मिनोतु गर्ते प्रक्षिपतु ‘डुमिञ् प्रक्षेपे’ स्वादिः । तथा मित्रावरुणौ देवौ ध्रुवेण धर्मणा त्वां प्रक्षिपतामिति शेषः । ‘पर्यूहणाद्योपसेचनात्कृत्वेति’ (का० ८ । ५। ३५) । पर्यूहणमारभ्योपसेचनपर्यन्तं यथा यूपे कृतं तथात्रापि कुर्यादित्यर्थः । । तत्र यूपस्थाने ‘ब्रह्मवनि त्वेति पाᳪं᳭सुभिः पर्यूहतीति’ (का. । ६ । ३ । १०)। हे औदुम्बरि, त्वा त्वां पर्यूहामि परितो मृत्तिकां क्षिपामि । किंभूतां त्वाम् । ब्रह्मवनि ब्रह्म ब्राह्मणजातिं वनति संभजत इति ब्रह्मवनिः । क्षत्रं क्षत्रियजातिं वनतीति क्षत्रवनिः । रायो धनस्य पोषं पुष्टिं वनतीति रायस्पोषवनिः । सर्वत्र ‘सुपां सुलुक्’ (पा० ७ । १ । ३९) इति विभक्तेर्लुक्। ‘ब्रह्म दृᳪं᳭हेति मैत्रावरुणदण्डेन समन्तं त्रिः पर्यूषतीति’ (का. ६। ३ । ११) । परितो दृढीकुर्यादिति सूत्रार्थः । हे औदुम्बरि, ब्रह्म ब्राह्मणजातिं क्षत्रं क्षत्रियजातिमायुः जीवनं प्रजां पुत्रादिरूपां च दृंह दृढीकुरु ॥ २७ ॥
अष्टाविंशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- औतथ्यो दीर्घतमा ऋषिः
- ब्राह्मी जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
अच्छे प्रकार सेवन किया हुआ सभापति और अनुष्ठान किया हुआ यज्ञ क्या करता है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे परम विद्वन् ! जैसे (त्वा) आपको (मारुतः) वायु (ध्रुवेण) निश्चल (धर्मणा) धर्म से (मिनोतु) प्रयुक्त करे (मित्रावरुणौ) प्राण और अपान भी धर्म से प्रयुक्त करते हैं, वैसे आप कृपा करके हम लोगों के लिये (दिवम्) विद्या गुणों के प्रकाश को (उत्तभान) अज्ञान से उघाड़ देओ तथा (अन्तरिक्षम्) सब पदार्थों के अवकाश को (पृण) परिपूर्ण कीजिये (पृथिव्याम्) भूमि पर (द्युतानः) सद्विद्या के गुणों का विस्तार करते हुए आप सुखों को (दृंहस्व) बढ़ाइये (ब्रह्म) वेदविद्या को (दृंह) बढ़ाइये (क्षत्रम्) राज्य को बढ़ाइये (आयुः) अवस्था को (दृंह) बढ़ाइये और (प्रजाम्) उत्पन्न हुई प्रजा को (दृंह) वृद्धियुक्त कीजिये। इसलिये मैं (ब्रह्मवनि) ब्रह्मविद्या को सेवन करने वा कराने (क्षत्रवनि) राज्य को सेवन करने-कराने (रायस्पोषवनि) और धनसमूह की पुष्टि को सेवने वा सेवन करानेवाले आप को (पर्यूहामि) सब प्रकार के तर्कों से निश्चय करता हूँ, वैसे आप मुझ को सर्वथा सुखदायक हूजिये और आप को सब मनुष्य तर्कों से जानें ॥२७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे मनुष्यो ! आप लोग जैसे जगदीश्वर सत्य भाव से प्रार्थित और सेवन किया हुआ अत्युत्तम विद्वान् सब को सुख देता है, वैसे यह यज्ञ भी विद्या गुण को बढ़ाकर सब जीवों को सुख देता है, यह जानो ॥२७॥
दयानन्द-सरस्वती (सं) - विषयः
सेवितः सभाध्यक्षोऽनुष्ठितो यज्ञश्च किं करोतीत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे परमविद्वन् ! यथा त्वा त्वां मारुतो ध्रुवेण धर्मणा मिनोति मित्रावरुणौ मिनुतस्तथा त्वं कृपयाऽस्मदर्थं दिवमुत्तभानान्तरिक्षं पृण, पृथिव्यां द्युतानः सन् सुखानि दृंह, ब्रह्म दृंह, क्षत्रं दृंहायुर्दृंह, प्रजां दृंह, ब्रह्मवनिं क्षत्रवनिं रायस्पोषवनिं त्वामहं पर्यूहामि, तथा त्वां सर्वे मनुष्याः पर्यूहन्तु ॥२७॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्या ! यूयं यथा जगदीश्वरः सत्यभावेन प्रार्थितः सद्विद्वाँश्च सेवितः सर्वान् सुखयति, तथैवायं यज्ञो विद्यादीन् संवृध्य सर्वान् मनुष्यादीन् प्राणिनः सुखयतीति विजानीत ॥२७॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे माणसांनो ! ज्याप्रमाणे खऱ्या भक्तीने परमेश्वराची प्रार्थना करणारा विद्वान सर्वांना सुख देतो त्याप्रमाणेच हा यज्ञही विद्येची वृद्धी करून सर्व जीवांना सुखी करतो, हे जाणा.
२८ ध्रुवासि ध्रुवोऽयम्
विश्वास-प्रस्तुतिः ...{Loading}...
ध्रु॒वासि॑ ध्रु॒वो᳙ऽयं यज॑मानो॒ऽस्मिन्ना॒यत॑ने प्र॒जया॑ प॒शुभि॑र्भूयात्। घृ॒तेन॑ द्यावापृथिवी पूर्येथा॒मिन्द्र॑स्य छ॒दिर॑सि विश्वज॒नस्य॑ छा॒या ॥२८॥
मूलम् ...{Loading}...
ध्रु॒वासि॑ ध्रु॒वो᳙ऽयं यज॑मानो॒ऽस्मिन्ना॒यत॑ने प्र॒जया॑ प॒शुभि॑र्भूयात्। घृ॒तेन॑ द्यावापृथिवी पूर्येथा॒मिन्द्र॑स्य छ॒दिर॑सि विश्वज॒नस्य॑ छा॒या ॥२८॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ध्रु॒वा। अ॒सि॒। ध्रु॒वः। अ॒यम्। यज॑मानः। अ॒स्मिन्। आ॒यत॑न॒ इत्या॒ऽयत॑ने। प्र॒जयेति॑ प्र॒ऽजया॑। प॒शुभि॒रिति॑ प॒शुऽभिः॑। भू॒या॒त्। घृ॒तेन॑। द्या॒वा॒पृ॒थि॒वी॒ऽइति॑ द्यावापृथिवी। पू॒र्ये॒था॒म्। इन्द्र॑स्य। छ॒दिः। अ॒सि॒। वि॒श्व॒ज॒नस्येति॑ विश्वऽज॒नस्य॑। छा॒या। २८।
महीधरः
म० ‘धुवासीति वाचयत्यौदुम्बरीमालम्भ्येति’ ( का० ८ । ५। ३५)। आलम्भनं स्पर्शनम् । हे औदुम्बरि, त्वं ध्रुवासि स्थिरा भवसि । त्वमिवायं यजमानोऽस्मिन्नायतने स्वकीये गृहे ध्रुवो भूयात् प्रजया पुत्रादिकया पशुभिः गवादिभिश्च सह स्थिरोस्तु । ‘स्रुवेण विशाखे जुहोति घृतेनेति’ (का. ८ । ५। ३७) । औदुम्बर्या विशाखे यस्मिन्प्रदेशे द्विधा शाखोत्पत्तिस्तत्र जुहुयादिति सूत्रार्थः । हूयमानेनानेन घृतेन द्यावापृथिवी द्यावापृथिव्यौ पूर्येथां पूरिते भवताम् । ‘इन्द्रस्य छदिरिति मध्यमं छदिरारोपयति’ (का० ८।६।१०) औदुम्बरीनिखननादूर्ध्वं सदोनामकं मण्डपं निर्माय तस्योपरि प्रावरणाय मध्यं कटमारोपयेदिति सूत्रार्थः । छदिःशब्देन तृणनिर्मितः कट उच्यते । हे तृणमय कट, त्वमिन्द्रस्य छदिरसि इन्द्रसंबन्धी कटो भवसि । अतस्त्वं विश्वजनस्य छाया भवेति शेषः । सदोमध्यवर्तिनः सर्वजनस्य यजमानर्त्विग्रूपस्य प्राणिनः प्रावरणाय छाया भवेत्यर्थः । सदस इन्द्रदेवताकत्वेन तदीयच्छदिष इन्द्रसंबन्धित्वम् ॥ २८ ॥
एकोनत्रिंशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- औतथ्यो दीर्घतमा ऋषिः
- आर्षी जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर उस यज्ञ से क्या होता है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे यज्ञ करनेवाले यजमान की स्त्री ! जैसे तू (प्रजया) राज्य वा अपने संतानों और (पशुभिः) हाथी, घोड़े, गाय आदि पशुओं के सहित (अस्मिन्) इस (आयतने) जगत् वा अपने स्थान वा सब के सत्कार कराने के योग्य यज्ञ में (ध्रुवा) दृढ़ संकल्प (असि) है, वैसे (अयम्) यह (यजमानः) यज्ञ करनेवाला तेरा पति यजमान भी (ध्रुवः) दृढ़ संकल्प है। तुम दोनों (घृतेन) घृत आदि सुगन्धित पदार्थों से (द्यावापृथिवी) आकाश और भूमि को (पूर्येथाम्) परिपूर्ण करो। हे यज्ञ करनेवाली स्त्री ! तू (इन्द्रस्य) अत्यन्त ऐश्वर्य को भी अपने यज्ञ से (छदिः) प्राप्त करनेवाली (असि) है। अब तू और तेरा पति यह यजमान (विश्वजनस्य) संसार का (छाया) सुख करनेवाला (भूयात्) हो ॥२८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि जिन यज्ञ करनेवाले यजमान की पत्नी और यजमान से तथा जिस यज्ञ से दृढ़ विद्या और सुखों को पाकर दुःखों को छोड़ें उनका सत्कार तथा उस यज्ञ का अनुष्ठान सदा ही करते रहें ॥२८॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तेन किं भविष्यतीत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे यज्ञानुष्ठात्रि यजमानपत्नि ! यथा त्वमस्मिन्नायतने जगति स्वस्थाने यज्ञे वा प्रजया पशुभिः सह ध्रुवासि, तथाऽयं यजमानोऽपि ध्रुवोऽस्ति। युवां घृतेन द्यावापृथिवी पूर्येथां पूरणे कुर्यातमिन्द्रस्य छदिरसि विश्वजनस्य छायाऽसि यत्सङ्गेन प्राणिसमूहः सुखीभूयादस्मात् तां तं त्वां वयं प्रशंसामः ॥२८॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्याभ्यां यज्ञानुष्ठातृभ्यां यजमानतत्पत्नीभ्यां येन यज्ञेन च निश्चला विद्या सुखानि च प्राप्य दुःखानि नश्येयुस्तौ सदा सत्कर्तव्यौ यज्ञश्च सदाऽनुष्ठेयः ॥२८॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे यज्ञ करणारे यजमान व यजमानपत्नी, दृढ विद्या व सुख देणाऱ्या तसेच दुःखाचा नाश करणाऱ्या यज्ञाचा स्वीकार करतात त्यांचा माणसांनी सत्कार करावा व नेहमी अशा यज्ञाचे अनुष्ठान करावे.
२९ परि त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
परि॑ त्वा गिर्वणो॒ गिर॑ऽइ॒मा भ॑वन्तु वि॒श्वतः॑। वृ॒द्धायु॒मनु॒ वृद्ध॑यो॒ जुष्टा॑ भवन्तु॒ जुष्ट॑यः ॥२९॥
मूलम् ...{Loading}...
परि॑ त्वा गिर्वणो॒ गिर॑ऽइ॒मा भ॑वन्तु वि॒श्वतः॑। वृ॒द्धायु॒मनु॒ वृद्ध॑यो॒ जुष्टा॑ भवन्तु॒ जुष्ट॑यः ॥२९॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
परि॑। त्वा। गि॒र्व॒णः॒। गिरः॑। इ॒माः। भ॒व॒न्तु॒। वि॒श्वतः॑। वृ॒द्धायु॒मिति॑ वृ॒द्धऽआ॑युम्। अनु॑। वृद्ध॑यः। जुष्टाः॑। भ॒व॒न्तु॒। जुष्ट॑यः। २९।
महीधरः
म० ‘परि त्वेति परिवार्येति’ (का० ८ । ६ । १२ ) परितः कुड्यवदावरणं कृत्वेति सूत्रार्थः । ऐन्द्र्यनुष्टुबनिरुक्ता मधुच्छन्दोदृष्टा । गीर्भिः स्तुतिभिर्वननीयो भजनीयो गिर्वण इन्द्रः सदोऽभिमानी । हे गिर्वण इन्द्र, स्तोत्रशस्त्ररूपा गिरः त्वा त्वां विश्वतः सर्वतः कटरूपेण परिभवन्तु परिगृह्णन्तु । किंभूतं त्वाम् । वृद्धायुं वृद्धा आयवो मनुष्या यजमानादयो मरुतो वा यस्य तम् । यद्वा वृद्धः श्रेष्ठश्चासावायुश्च तं महामनुष्यम् । किंभूताः गिरः। अनुवृद्धयः अनु सवनक्रमेण वृद्धिर्यासां ताः शनैः प्रातःसवनं तत उच्चैर्माध्यन्दिनं सवनं तारस्वरेण तृतीयं सवनमिति क्रमः । किंच जुष्टयोऽस्मत्सेवास्तव जुष्टाः प्रियाः भवन्तु ‘जुषी प्रीतिसेवनयोः’ जोषणं जुष्टिः ॥ २९ ॥
त्रिंशी।
अधिमन्त्रम् (VC)
- ईश्वरसभाध्यक्षौ देवते
- औतथ्यो दीर्घतमा ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
ईश्वर और सभाध्यक्ष से क्या-क्या होने को योग्य है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (गिर्वणः) स्तुतियों से स्तुति करने योग्य ईश्वर वा सभाध्यक्ष ! (इमाः) ये मेरी की हुई (विश्वतः) समस्त (गिरः) स्तुतियाँ (परि) सब प्रकार से (भवन्तु) हों और उसी समय की ही न हों, किन्तु (वृद्धायुम्) वृद्धों के समान आचरण करनेवाले आपके (अनु) पश्चात् (वृद्धयः) अत्यन्त बढ़ती हुई और (जुष्टयः) प्रीति करने योग्य (जुष्टाः) प्यारी हों ॥२९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। जैसे सम्पूर्ण उत्तम गुण, कर्म्मों के साथ वर्त्तमान जगदीश्वर और सभापति स्तुति करने योग्य हैं, वैसे ही तुम लोगों को भी होना चाहिये ॥२९॥
दयानन्द-सरस्वती (सं) - विषयः
ईश्वरसभाध्यक्षाभ्यां किं किं भवितुं योग्यमित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे गिर्वण ईश्वर सभाध्यक्ष ! इमा मत्कृता विश्वतो गिरस्त्वां परि परितो भवन्तु। न तत्क्षण एव, किन्तु वृद्धायुं त्वामनु वृद्धयो जुष्टयो जुष्टाश्च भवन्तु ॥२९॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। हे मनुष्या ! यथाऽखिलैः शुभगुणकर्म्मभिः सह वर्त्तमानो जगदीश्वरः सभापतिर्वा स्तोतुमर्होऽस्ति, तथैव युष्माभिरपि भवितव्यम् ॥२९॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. हे माणसांनो ! ज्याप्रमाणे संपूर्ण उत्तम गुणकर्मयुक्त ईश्वर व सभ्याध्यक्ष (राजा) हे स्तुती करण्यायोग्य असतात त्याप्रमाणे तुम्हीही तसेच बनले पाहिजे.
३० इन्द्रस्य स्यूरसीन्द्रस्य
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र॑स्य॒ स्यूर॒सीन्द्र॑स्य ध्रु॒वो᳖ऽसि ऐ॒न्द्रम॑सि वैश्वदे॒वम॑सि ॥३०॥
मूलम् ...{Loading}...
इन्द्र॑स्य॒ स्यूर॒सीन्द्र॑स्य ध्रु॒वो᳖ऽसि ऐ॒न्द्रम॑सि वैश्वदे॒वम॑सि ॥३०॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इन्द्र॑स्य। स्यूः। अ॒सि॒। इन्द्र॑स्य। ध्रु॒वः। अ॒सि॒। ऐ॒न्द्रम्। अ॒सि॒। वै॒श्व॒दे॒वमिति॑ वैश्वऽदे॒वम्। अ॒सि॒। ३०।
महीधरः
म० परिषीवणग्रन्थ्यभिमर्शनान्यैन्द्रैरिति’ (का० ८ । ६ । १२) । इन्द्रदेवताकैस्त्रिभिर्मन्त्रैः परिषीवणादित्रयं कुर्यादिति सूत्रार्थः । तत्र प्रथमः । हे रज्जो, त्वमिन्द्रस्य सदोऽभिमानिदेवस्य संबन्धिनी स्यूः सीवनमसि । सीव्यतेऽनया सा स्यूः क्विप् ‘छ्वोः शूडनुनासिके च’ (पा० ६ । ४ । १९) इति ऊडादेशः । द्वितीयः । हे ग्रन्थे, त्वमिन्द्रसंबन्धी भूत्वा ध्रुवः स्थिरो भवसि। अथ तृतीयः । हे सदः, त्वमिन्द्रसंबन्धि भवसि । ‘हविर्धानापरान्तमुत्तरेणाग्नीध्रमग्न्यगारद्वारमन्तवेद्यर्थं भूयः सर्वं वा निष्टाप्य वैश्वदेवमसीत्यालभते’ (का० ८ । ६ । १३-१४) इति हविर्धानमण्डपस्यापरान्तो वायव्यकोणस्तस्योत्तरभागे किंचिदाग्नीध्रनामकमग्निस्थानं कृत्वा तस्य स्पर्शं कुर्यादिति सूत्रार्थः । हे आग्नीध्र, त्वं सर्वदेवसंबन्धि भवसि ॥ ३० ॥
उत्तरवेदी
धिष्ण्य
एकत्रिंशी।
अधिमन्त्रम् (VC)
- ईश्वरसभाध्यक्षौ देवते
- मधुच्छन्दा ऋषिः
- आर्ची उष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर वे कैसे हैं, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे जगदीश्वर वा सभाध्यक्ष ! जैसे (वैश्वदेवम्) समस्त पदार्थों का निवास स्थान अन्तरिक्ष है, वैसे आप (ऐन्द्रम) सब के आधार हैं, इसी से हम लोगों को (इन्द्रस्य) परमैश्वर्य का (स्यूः) संयोग करनेवाले (असि) हैं और (इन्द्रस्य) सूर्य आदि लोक वा राज्य को (ध्रुवः) निश्चल करनेवाले (असि) हैं ॥३०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेष और उपमालङ्कार हैं। सकल ऐश्वर्य्य का देनेवाला जगदीश्वर है, वैसे सभाध्यक्षादि मनुष्यों को होना चाहिये ॥३०॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तौ कथंभूतावित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे जगदीश्वर वा सभाध्यक्ष ! यथा वैश्वदेवमन्तरिक्षमस्ति, तथा त्वमैन्द्रं परमैश्वर्य्यस्याधिकरणमसि। अत एव सर्वेषामस्मदादीनामिन्द्रस्य परमैश्वर्य्यस्य स्यूरसि, इन्द्रस्य सूर्यादिलोकस्य राज्यस्य वा ध्रुवोऽसि ॥३०॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र श्लेषोपमालङ्कारौ। यथा सकलैश्वर्याधिष्ठानमीश्वरोऽस्ति, तथा सभाध्यक्षादिभिरपि भवितव्यम् ॥३०॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेष व उपमालंकार आहेत. जसे परमेश्वर संपूर्ण ऐश्वर्य देतो तसे राजा इत्यादींनीही बनावे.
३१ विभूरसि प्रवाहणो
विश्वास-प्रस्तुतिः ...{Loading}...
वि॒भूर॑सि प्र॒वाह॑णो॒ वह्नि॑रसि हव्य॒वाह॑नः। श्वा॒त्रो᳖ऽसि प्रचे॑तास्तु॒थो᳖ऽसि वि॒श्ववे॑दाः ॥३१॥
मूलम् ...{Loading}...
वि॒भूर॑सि प्र॒वाह॑णो॒ वह्नि॑रसि हव्य॒वाह॑नः। श्वा॒त्रो᳖ऽसि प्रचे॑तास्तु॒थो᳖ऽसि वि॒श्ववे॑दाः ॥३१॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वि॒भूरिति॒ वि॒ऽभूः। अ॒सि॒। प्रवा॒ह॑णः। प्रवा॒ह॑न॒ इति॑ प्र॒ऽवाह॑नः। वह्निः॑। अ॒सि॒। ह॒व्य॒वाह॑न॒ इति॑ हव्य॒ऽवाह॑नः। श्वा॒त्रः। अ॒सि॒। प्रचे॑ता॒ इति॒ प्रऽचे॑ताः। तु॒थः। अ॒सि॒। वि॒श्ववे॑दा॒ इति॑ वि॒श्वऽवे॑दाः। ३१।
महीधरः
म० इत उत्तरं षोडश धिष्ण्यमन्त्राः । तदाह ‘धिष्ण्यान्निवपत्युद्धतावोक्षिते पुरीषं निवपति स्फ्येनान्वारब्ध उदङ् उपविश्य विभूरसीति प्रतिमन्त्रमिति’ ( का० ८।६ । १५)। अग्नीनामाश्रयभूता मृदा निर्मिताः स्वल्पवेदिका धिष्ण्यान्युच्यन्ते । ‘आग्नीध्रीयं पूर्वमिति’ (का० ८।६।१६)। विभूशब्दप्रवाहणशब्दावाग्नीध्रीयधिष्ण्यस्य नामनी । ‘ते वै द्विनामानो भवन्ति’ ( ३ । ६ । २ । २४ ) इति श्रुतेः । अष्टयजुषां धिष्ण्या अग्नयो देवताः । हे आग्नीध्रीय धिष्ण्य, त्वं विभूः प्रवाहणश्चासि । विविधं भवतीति विभूः एतस्मादेव धिष्ण्यादितरधिष्ण्येष्वग्निविहरणादेतस्य विभुत्वम् । प्रवाहयतीति प्रवाहणः । तस्य हि दक्षिणोत्तरत ऋविजो गच्छन्ति । हविषः प्रवाहयितृत्वाद्वा प्रवाहणत्वम् । धिष्ण्यगतानग्नीन् प्रत्यन्ये देवा ऊचुः प्रत्येकं स्वं नामधेयं संपादयतेति । तदाह तित्तिरिः ‘तान् देवा अब्रुवन् द्वे द्वे नामनी कुरुतेति’ । मैत्रावरुणहोतृब्राह्मणाच्छंसिपोतृनेष्ट्रच्छावाकानां धिष्ण्यान् सदसि कुर्यात् । तदाह ‘षट् सदसि प्रत्यङ्मुखो द्वारमपरेण होतुर्दक्षिणपूर्वेणौदुम्बरीं मैत्रावरुणस्य होतृधिष्ण्यमुत्तरेण चतुरः समान्तरान्ब्राह्मणाच्छंसिपोतृनेष्ट्राच्छावाकानामिति’ (का. ८ । ६ । १८ -२१)। होतुर्धिष्ण्यं हे होतृधिष्ण्य, वह्निर्हव्यवाहनश्चासि । वहति यज्ञकर्म निर्वहतीति वह्निः । हव्यं वहति देवान् प्रति प्रापयतीति हव्यवाहनः । यथाग्नीध्रीयधिष्ण्यस्य नामद्वयमुक्तं तथा होत्रादिधिष्ण्यानामपि बोध्यम् । मैत्रावरुणधिष्ण्यं हे मैत्रावरुणधिष्ण्य, त्वं श्वात्रः प्रचेताश्चासि शु क्षिप्रमततीति श्वात्रो मित्रः । प्रकृष्टे चेतो ज्ञानं यस्य स प्रचेताः वरुणः तद्रूपोऽसि । ब्राह्मणाच्छंसिनः हे ब्राह्मणाच्छंसिधिष्ण्य, त्वं तुथो विश्ववेदाश्चासि । ‘ब्रह्म वै तुथः’ (४ । ३ । ४ । १५) इति श्रुतेः ब्रह्मरूपोऽसि । विश्वं वेत्ति विश्ववेदाः सर्वज्ञः । यद्वा तुथशब्देन देवान्प्रति दक्षिणानां विभागकर्ता पुरुष उच्यते । तदाह तित्तिरिः । तुथो ह स्म वै विश्ववेदा देवानां दक्षिणा विभजतीति ॥ ३१॥
मार्जालीयः
द्वात्रिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- मधुच्छन्दा ऋषिः
- विराड् आर्षी अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर वे कैसे हैं, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे जगदीश्वर वा विद्वन् ! जिससे आप जैसे व्यापक आकाश और ऐश्वर्य्ययुक्त राजा होता है, वैसे (विभूः) व्यापक और ऐश्वर्य्ययुक्त (असि) हैं। (वह्निः) जैसे होम किये पदार्थों को योग्य स्थान में पहुँचानेवाला अग्नि है, वैसे (हव्यवाहनः) हवन करने के योग्य पदार्थों को सम्पादन करनेवाले (असि) हैं, जैसे जीवों में प्राण हैं, वैसे (प्रचेताः) चेत करनेवाले (श्वात्रः) विद्वान् (असि) हैं, जैसे सूत्रात्मा पवन सब में व्याप्त है, वैसे (विश्ववेदाः) विश्व को जानने (तुथः) ज्ञान को बढ़ानेवाले (असि) हैं। इस से आप सत्कार करने योग्य हैं, ऐसा हम लोग जानते हैं ॥३१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेष और उपमालङ्कार हैं। सब मनुष्यों को उचित है कि ईश्वर और विद्वान् का सत्कार करना कभी न छोड़ें, क्योंकि अन्य किसी से विद्या और सुख का लाभ नहीं हो सकता है। इसलिये इन को जानें ॥३१॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तौ कथंभूतावित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे जगदीश्वर वा विद्वन् ! यस्मात् त्वं यथाऽऽकाशो वैभवयुक्तो राजा वा तथा विभूरसि, यथा वायुर्महानदो वा तथा प्रवाहणोऽसि, यथा वह्निस्तथा हव्यवाहनोऽसि, यथा प्राणस्तथा प्रचेता श्वात्रोऽसि, यथा सूत्रात्मा पवनस्तथा विश्ववेदास्तुथश्चासि, तस्मात् सत्कर्त्तव्योऽसीति वयं विजानीमः ॥३१॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र श्लेषोपमालङ्कारौ। न सर्वैर्मनुष्यैरीश्वरविदुषोः सत्कारः कदापि त्यक्तव्यो नैतयोः प्राप्त्या विना कस्यचिद् विद्यासुखलाभो भवितुमर्हति, तस्मात् तौ सर्वथा वेद्यौ स्तः ॥३१॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेष व उपमालंकार आहेत. सर्व माणसांनी ईश्वराचे स्मरण व विद्वानांचा आदर केला पाहिले. कारण इतर कोणाकडूनही विद्या व सुख यांची प्राप्ती होऊ शकत नाही, हे जाणले पाहिजे.
३२ उशिगसि कविरङ्घारिरसि
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒शिग॑सि क॒विरङ्घा॑रिरसि॒ बम्भा॑रिरव॒स्यूर॑सि दुव॑स्वाञ्छु॒न्ध्यूर॑सि मार्जा॒लीयः॑। स॒म्राड॑सि कृ॒शानुः॑ परि॒षद्यो॑ऽसि॒ पव॑मानो॒ नभो॑ऽसि प्र॒तक्वा॑ मृ॒ष्टो᳖ऽसि हव्य॒सूद॑नऽऋ॒तधा॑मासि॒ स्व᳖र्ज्योतिः ॥३२॥
मूलम् ...{Loading}...
उ॒शिग॑सि क॒विरङ्घा॑रिरसि॒ बम्भा॑रिरव॒स्यूर॑सि दुव॑स्वाञ्छु॒न्ध्यूर॑सि मार्जा॒लीयः॑। स॒म्राड॑सि कृ॒शानुः॑ परि॒षद्यो॑ऽसि॒ पव॑मानो॒ नभो॑ऽसि प्र॒तक्वा॑ मृ॒ष्टो᳖ऽसि हव्य॒सूद॑नऽऋ॒तधा॑मासि॒ स्व᳖र्ज्योतिः ॥३२॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उ॒शिक्। अ॒सि॒। क॒विः। अङ्घा॑रिः। अ॒सि॒। बम्भा॑रिः। अ॒व॒स्यूः। अ॒सि॒। दुव॑स्वान्। शु॒न्ध्यूः। अ॒सि॒। मा॒र्जा॒लीयः॑। स॒म्राडिति॑ स॒म्ऽराट्। अ॒सि॒। कृ॒शानुः॑। प॒रि॒षद्यः॑। प॒रि॒षद्य॒ इति॑ परि॒ऽसद्यः॑। अ॒सि॒। पव॑मानः। नभः॑। अ॒सि॒। प्र॒तक्वेति॑ प्र॒ऽतक्वा॑। मृ॒ष्टः। अ॒सि॒। ह॒व्य॒सूद॑न॒ इति॑ हव्य॒ऽसूद॑नः। ऋ॒तधा॒मेत्यृ॒तऽधा॑मा। अ॒सि॒। स्व॑र्ज्योति॒रिति॒ स्वः॑ऽज्योतिः॑। ३२।
महीधरः
म० पोतुः । हे पोतृधिष्ण्य, त्वमुशिक् कमनीयः कविः विद्वांश्चासि ॥ नेष्टुः अङ्घस्यांहसः पापस्यारिरङ्घारिः । बिभर्तीति बम्भारिः त्वं तद्रूपोसि हे नेष्टृधिष्ण्य । दिवि सोमरक्षकौ द्वावङ्घारिबम्भारी । तथाच सोमरक्षकमन्त्रे स्वानभ्राजाङ्घारे बम्भारे (अध्या० ४ क० २७) इत्याम्नातम् । अच्छावाकस्य । हे अच्छावाकधिष्ण्य, त्वमवस्यूः दुवस्वान् चासि । अवोऽन्नमिच्छतीत्यवस्युः । ‘सुप आत्मनः क्यच्’ (पा० ३।१।८) . ‘क्याच्छन्दसि’ (पा० ३।२। १७०) इति क्यजन्तादुप्रत्ययः दीर्घश्छान्दसः औणादिक ऊप्रत्ययो वा । दुवोऽस्यास्तीति दुवस्वान्हविष्मान् । दुव इति हविर्नाम । अच्छावाको हि पुरोडाशभागं लभते । एवं होत्रादिधिष्ण्यान्सदसि निर्माय वेदेर्दक्षिणभागे मार्जालीयं निर्माति । तदाह ‘आग्नीध्राद्दक्षिणांसंप्रति वेद्यन्ते । दक्षिणामुखो मार्जालीयमिति’ (का० ८।६।२१)। शुन्धयतीति शुन्ध्यूः । मार्ष्टीति मार्जालीयः । तत्र हि पात्राणि प्रक्षाल्यन्ते । । ‘सदोद्वारं पूर्वेण तिष्ठन्ननुदिशत्याहवनीयबहिष्पवमानदेशचात्वालशामित्रौदुम्बरीब्रह्मासनशालाद्वार्यप्रजाहितान् सम्राडसीति प्रतिमन्त्रमिति’ (का० ८।६।२३)। सदोद्वारस्य पूर्वभागेऽवस्थायाहवनीयादीन् सम्राडसीत्याद्यष्टमन्त्रैः क्रमेण निर्दिशेदिति सूत्रार्थः । तत्रादावाहवनीयम् । हे उत्तरवेदिगताहवनीय, त्वं सम्राट् कृशानुश्चासि । बहुविधाहुत्याधारत्वेन सम्यग्राजत इति सम्राट् । पयोव्रतादिभिः कृशं क्षीणं यजमानमनुगच्छतीति कृशानुः । बहिष्पवमानदेशम् हे बहिष्पवमानदेश, त्वं परिषद्यः | पवमानश्चासि। स्तोतुं समेता ऋत्विजः परिषत् तद्योग्यः परिषद्यः अतएव शुद्धत्वात्पवमानः । चात्वालं हे चात्वाल, त्वं नभोसि खनने छिद्ररूपत्वादाकाशः, न भातीति वा । तथा प्रतक्वा प्रदक्षिणं तकन्ति गच्छन्ति ऋत्विजो यत्र स प्रतक्वा । तकतिर्गत्यर्थः ‘अन्येभ्योऽपि दृश्यन्ते’ (पा० ३ । २ । ७५) इति वनिप् । शामित्रम् पशुविशसनप्रदेशः शामित्रशब्देनोच्यते । हे शामित्र, त्वं मृष्टोऽसि पशुविशसनस्य विहितत्वेनाशुद्धिहेतुत्वाभावात्सत्यपि विशसने शुद्धोऽसि । यद्वा मृष्टः शृतत्वान्मिष्टः पक्वं हविर्मृष्टं भवति । तथा हव्यस्य हृदयजिह्वादिरूपस्य हविषः सूदनः पाकहेतुश्चासि । औदुम्बरीम् हे औदुम्बरि, त्वमृतधामा ऋतं सामगानं धामोपवेशनस्थानं यस्याः सा । ‘औदुम्बरीं स्पृष्ट्वोद्गायति’ इत्युक्तेः । स्वर्ज्योतिः उन्नतत्वेन स्वर्गे प्रकाशकः यद्वा सूर्यज्योतिः ॥ ३२॥
त्रयस्त्रिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- मधुच्छन्दा ऋषिः
- स्वराड् ब्राह्मी त्रिष्टुप्
- धैवतः
३३ समुद्रोऽसि विश्वव्यचाऽअजोऽस्येकपादहिरसि
विश्वास-प्रस्तुतिः ...{Loading}...
स॒मु॒द्रो᳖ऽसि वि॒श्वव्य॑चाऽअ॒जो᳙ऽस्येक॑पा॒दहि॑रसि बु॒ध्न्यो᳙ वाग॑स्यै॒न्द्रम॑सि॒ सदो॒स्यृत॑स्य द्वारौ॒ मा मा॒ सन्ता॑प्त॒मध्व॑नामध्वपते॒ प्र मा॑ तिर स्व॒स्ति मे॒ऽस्मिन् प॒थि दे॑व॒याने॑ भूयात् ॥३३॥
मूलम् ...{Loading}...
स॒मु॒द्रो᳖ऽसि वि॒श्वव्य॑चाऽअ॒जो᳙ऽस्येक॑पा॒दहि॑रसि बु॒ध्न्यो᳙ वाग॑स्यै॒न्द्रम॑सि॒ सदो॒स्यृत॑स्य द्वारौ॒ मा मा॒ सन्ता॑प्त॒मध्व॑नामध्वपते॒ प्र मा॑ तिर स्व॒स्ति मे॒ऽस्मिन् प॒थि दे॑व॒याने॑ भूयात् ॥३३॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स॒मु॒द्रः। अ॒सि॒। वि॒श्वव्य॑चा॒ इति॑ वि॒श्वऽव्य॑चाः। अ॒जः। अ॒सि॒। एक॑पा॒दित्येक॑ऽपात्। अहिः॑। अ॒सि॒। बु॒ध्न्यः᳖। वाक्। अ॒सि॒। ऐ॒न्द्रम्। अ॒सि॒। स॒दः॑। अ॒सि॒। ऋत॑स्य। द्वा॒रौ॒। मा। मा॒। सम्। ता॒प्त॒म्। अध्व॑नाम्। अ॒ध्व॒प॒त॒ इत्य॑ध्वऽपते। प्र। मा॒। ति॒र। स्व॒स्ति। मे॒। अ॒स्मिन्। प॒थि। दे॒व॒यान॒ इति॑ देव॒ऽयाने॑। भू॒या॒त्। ३३।
महीधरः
म० ब्रह्मासनम् हे ब्रह्मासन, त्वं समुद्रः विश्वव्यचाश्चासि । सर्वे देवाः सम्यगुत्कर्षेण द्रवन्त्यत्रेति समुद्रः समुद्र इवागाधो ज्ञानेन, ब्रह्मा यत्र तिष्ठतीति वा । विश्वं सर्वं यज्ञं व्यचति गच्छति कृताकृतप्रत्यवेक्षणायेति विश्वव्यचाः । शालाद्वार्यम्, हे प्राचीनवंशशालाद्वारवर्तिन्नग्ने, त्वमजोऽसि । अजति आहवनीयरूपेण यज्ञप्रदेशे गच्छतीत्यजः । यद्वा परब्रह्मत्वमुपचर्यते । न जायत इत्यजः । एकः पातीत्येकपात् । यद्वा एकः पादः सर्वाणि भूतानि यस्येत्येकपात् । ‘पादोऽस्य विश्वा भूतानि’ इति श्रुतेः॥ प्राजहितम् पत्नीशालापश्चिमभागवर्ती पुरातनो गार्हपत्योऽग्निः प्राजहित उच्यते । हे प्राजहित, त्वमहिरसि । न हीयत इत्यहिः शालाद्वारीये नूतने गार्हपत्ये उत्पनेऽपि अयमग्निः स्वरूपेण न हीयते । बुध्नो मूलं तत्र भवो बुध्न्यः। आधानकाले प्रथममाहितत्वान्मूलभावित्वम् । स हि प्रथमं मथ्यते । नामभिरेवात्र धिष्ण्यानां स्तुतिः । उक्तं च । ‘स्तुतिः स्वनाम्ना कर्मणा वाथ रूपैरिति’ (का० ९ । ८ । २२) । वागसीति सदोऽभिमर्शनमिति । हे सदः, त्वं वागसि वाचास्मिन्कर्म कुर्वन्तीति वाक्शब्देनाभेदोपचारेण सद उच्यते । ऐन्द्रमिन्द्रदेवताकं चासि ॥ सीदन्त्यस्मिन्निति सदः । ‘ऋतस्य द्वाराविति द्वार्ये (का. ९।८।२३) इति । द्वार्ये सदोद्वारशाखे अभिमृशतीति सूत्रार्थः । हे ऋतस्य यज्ञस्य द्वारौ द्वारदेशस्थायिन्यौ शाखे, युवां मा मां मा संताप्तं मा संतापयतं प्रवेशनिःक्रमणे स्खलनादिना । तपतेर्लुङि मध्यमैकवचने ‘झलो झलि’ (पा० ८।२। २६) इति सिलोपे रूपम् । ‘अभिमन्त्रणमुत्तरैरध्वनामध्वपत | इति सूर्यम्’ (का० ५। ८ । २४-२५)। उत्तरैस्त्रिभिर्मन्त्रैस्त्रयाणामभिमन्त्रणं दर्शनमित्यर्थः । तत्राध्वनामिति सूर्यमभिमन्त्रयत इति सूत्रार्थः । अध्वपते मार्गपालक रवे, अध्वनां मार्गाणां मध्ये वर्तमानं मा मां त्वं प्रतिर प्रवर्धय । तिरतिर्वृद्ध्यर्थः । किंच अस्मिन् देवयाने देवयानप्रापके पथि यज्ञमार्गे मे मम स्वस्ति कल्याणं भूयात् ॥ ३३ ॥
चतुस्त्रिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- मधुच्छन्दा ऋषिः
- ब्राह्मी पङ्क्तिः
- पञ्चमः
३४ मित्रस्य मा
विश्वास-प्रस्तुतिः ...{Loading}...
मि॒त्रस्य॑ मा॒ चक्षु॑षेक्षध्व॒मग्न॑यः। सगराः॒ सग॑रा स्थ॒ सग॑रेण॒ नाम्ना॒ रौद्रे॒णानी॑केन पा॒त मा॑ग्नयः पिपृ॒त मा॑ग्नयो गोपा॒यत॑ मा॒ नमो॑ वोऽस्तु॒ मा मा॑ हिँसिष्ट ॥३४॥
मूलम् ...{Loading}...
मि॒त्रस्य॑ मा॒ चक्षु॑षेक्षध्व॒मग्न॑यः। सगराः॒ सग॑रा स्थ॒ सग॑रेण॒ नाम्ना॒ रौद्रे॒णानी॑केन पा॒त मा॑ग्नयः पिपृ॒त मा॑ग्नयो गोपा॒यत॑ मा॒ नमो॑ वोऽस्तु॒ मा मा॑ हिँसिष्ट ॥३४॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मित्र॒स्य॑। मा॒। चक्षु॑षा। ईक्ष॒ध्व॒म्। अग्न॑यः। स॒ग॒राः। स्थ॒। सग॑रेण। नाम्ना॑ रौद्रे॑ण। अनी॑केन। पा॒त। मा॒। अ॒ग्न॒यः॒। पि॒पृ॒त। मा॒। अग्न॑यः। गो॒पा॒यत॑ मा॒। नमः॑। वः॒। अ॒स्तु॒। मा। मा॒। हिंँ॒सि॒ष्ट॒। ३४।
महीधरः
म० मित्रस्येत्यृत्विजः’ (का. ९। ८ । २६) इति । अभिमन्त्रयत इति शेषः । हे ऋत्विजः, मित्रस्यादित्यस्य चक्षुषा नेत्रेण मा मामीक्षध्वं पश्यत सख्युर्नेत्रेण वा सखा यथा सखायं हितचक्षुषा पश्यति तथा मां पश्यध्वमित्यर्थः । ‘अग्नयः सगरा इति धिष्ण्यानि’ ( का० ९ । ८।२७) इति । अभिमन्त्रयत इति शेषः । हे अग्नयः सगराः । ‘गृ स्तुतौ’ गरेण स्तुत्या सहिताः सगराः यूयं सगरेण नाम्ना स्तुतिसहितेन नाम्ना धिष्ण्या इति नाम्ना व्यवह्रियमाणत्वात्सगराः स्थ समानस्तुतयो भवथ । समानो गरो येषां ते सगराः । हे अग्नयः, ते यूयं रौद्रेणानीकेन शत्रुविनाशकत्वादुग्रेण भवदीयेन सैन्येन मा मां पात रक्षत । यद्वा रुद्रदेवत्येन मुखेन मां पात अनीकं मुखं सैन्यं च । हे अग्नयः, मा मां पिपृत धनादिभिः पूरयत । मा मां गोपायत रक्षत । ‘अभ्यासे भूयांसमर्थं मन्यन्ते’ (निरु०१०। ४२) इति यास्कोक्तेः निरन्तरं रक्षतेत्यर्थः । वो युष्मभ्यं नमोऽस्तु । मा मां मा हिंसिष्ट मा वधिष्ट । निर्विघ्नं यज्ञं कारयतेत्यर्थः ॥ ३४॥
पञ्चत्रिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- मधुच्छन्दा ऋषिः
- स्वराड् ब्राह्मी बृहती
- मध्यमः
३५ ज्योतिरसि विश्वरूपम्
विश्वास-प्रस्तुतिः ...{Loading}...
ज्योति॑रसि वि॒श्वरू॑पं॒ विश्वे॑षां दे॒वानाँ॑ स॒मित्। त्वँ सो॑म तनू॒कृद्भ्यो॒ द्वेषो॑भ्यो॒ऽन्यकृतेभ्यऽउ॒रु य॒न्तासि॒ वरू॑थँ॒ स्वाहा॑। जुषा॒णोऽ अ॒प्तुराज्य॑स्य वेतु॒ स्वाहा॑ ॥३५॥
मूलम् ...{Loading}...
ज्योति॑रसि वि॒श्वरू॑पं॒ विश्वे॑षां दे॒वानाँ॑ स॒मित्। त्वँ सो॑म तनू॒कृद्भ्यो॒ द्वेषो॑भ्यो॒ऽन्यकृतेभ्यऽउ॒रु य॒न्तासि॒ वरू॑थँ॒ स्वाहा॑। जुषा॒णोऽ अ॒प्तुराज्य॑स्य वेतु॒ स्वाहा॑ ॥३५॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ज्योतिः॑। अ॒सि॒। वि॒श्वरू॑प॒मिति॑ वि॒श्वऽरू॑पम्। विश्वे॑षाम्। दे॒वाना॑म्। स॒मिदिति॑ स॒म्ऽइत्। त्वम्। सो॒म॒। त॒नू॒कृद्भ्य॒ इति॑ तनू॒कृत्ऽभ्यः॑। द्वेषो॑भ्य॒ इति॒ द्वेषः॑ऽभ्यः। अ॒न्यकृ॑तेभ्य इत्य॒न्यऽकृ॑तेभ्यः। उ॒रु। य॒न्ता। अ॒सि॒। वरू॑थम्। स्वाहा॑। जु॒षा॒णः। अ॒प्तुः। आज्य॑स्य। वे॒तु॒। स्वाहा॑। ३५।
महीधरः
म०. ‘ध्रुवायाः पुरस्तात्पृषदाज्यमाज्यं दधिमिश्रं पञ्चगृहीतं ज्योतिरसीति समिदन्तेन’ (का० ५ । ४ । २६) इति । हे आज्य, त्वं ज्योतिरसि । किंभूतम् । विश्वरूपं सर्वरूपं बहुष्वाहुतिषूपयुक्तत्वाद्विश्वरूपत्वम् । आज्यत्वाद्वा दीप्यमानत्वाद्वा ज्योतिष्ट्वम् । विश्वेषां सर्वेषां देवानां समित्समिन्धनं सम्यग्दीपकम् । देवा ह्याज्यं भुक्त्वा दीप्यन्ते । ‘प्रदीप्तमिध्मं त्वᳪं᳭ सोमेति प्रचरण्याभिजुहोति’ ( का० ८ । ७ । १) इति । जुहूरिव होमसाधना काचित्स्रुक् प्रचरणीत्युच्यते । अवसानरहिता सोमदेवत्या गायत्री भृगुसुतक्रतुदृष्टा । तनूं शरीरं कृन्तन्ति छिन्दन्तीति तनूकृतो राक्षसाः । ‘कृती छेदने’ । द्विषन्तीति द्वेषांसि दौर्भाग्यानि । अन्यैरस्मद्विरोधिभिः कृतानि प्रेरितान्यन्यकृतानि । हे सोम, त्वं तेभ्यो यन्ता नियन्तासि । यच्छतीति यन्ता ‘यम उपरमे’ तृच् । यथा तादृशा अस्मान्मा बाधन्ते तथास्मान्सुरक्षितप्रदेशे संस्थाप्य पालयसीत्यर्थः । तस्मात्त्वमेवास्माकमुरु प्रभूतं वरूथं बलमसि तस्मै तुभ्यमिदं हुतमस्तु । सोमं नेतुं तमुद्दिश्यासावाज्याहुतीर्हुतेति भावः । ‘जुषाणोऽप्तुरिति द्वितीयाम्’ (का. ७ । ८ । २) इति । जुहोतीत्यनुवर्तते। अप्तुदेवत्यैकपदा विराट् यजुरन्ता । ‘विराजो दश’ इत्युक्तेर्दशाक्षरत्वाद्विराट् । अप्तुश्चात्र सोमः । आप्नोति पीतः सन् शरीरमित्याप्तुः ‘आप्लृ व्याप्तौ’ ‘आप्नोतेर्र्पस्वश्च’ ( उणा० १ । ७४ ) इति तुप्रत्ययो धातोर्ह्रस्वश्च । जुषाणः प्रीयमाणोऽप्तुसोम आज्यस्य वेतु आज्यं पिबतु । कर्मण्यपीति केचित् । स्वाहा तस्मै सुहुतमस्तु ॥ ३५॥
षट्त्रिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- मधुच्छन्दा ऋषिः
- अतिजगती
- पञ्चमः
३६ अग्ने नय
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने॒ नय॑ सु॒पथा॑ रा॒येऽअ॒स्मान् विश्वा॑नि देव व॒युना॑नि वि॒द्वान्। यु॒यो॒ध्य᳙स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑ऽउक्तिं विधेम ॥३६॥
मूलम् ...{Loading}...
अग्ने॒ नय॑ सु॒पथा॑ रा॒येऽअ॒स्मान् विश्वा॑नि देव व॒युना॑नि वि॒द्वान्। यु॒यो॒ध्य᳙स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑ऽउक्तिं विधेम ॥३६॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अग्ने॑। नय॑। सु॒पथेति॑ सु॒ऽपथा॑। रा॒ये। अ॒स्मान्। विश्वा॑नि। दे॒व॒। व॒युना॑नि। वि॒द्वान्। यु॒यो॒धि। अ॒स्मत्। जु॒हु॒रा॒णम्। एनः॑। भूयि॑ष्ठाम्। ते॒। नम॑उक्ति॒मिति॒ नमः॑ऽउक्तिम्। वि॒धे॒म॒। ३६।
महीधरः
म० ‘अग्ने नयेति वाचयति’ (का० ८ । ७ । ६) इति । आग्नेयी त्रिष्टुबगस्त्यदृष्टा । हे अग्ने हे देव, विश्वानि सर्वाणि वयुनानि मार्गान् ज्ञानानि वा विद्वान् जानानस्त्वमस्माननुष्ठातॄन् राये धनाय यज्ञफलाय सुपथा शोभनमार्गेण नय प्रापय । किंच अस्मदस्मत्तोऽनुष्ठातृभ्यः एनः पापं युयोधि पृथक्कुरु । ‘यु मिश्रणामिश्रणयोः’ यौतेः शपः श्लुः ‘वा छन्दसि’ (पा० ३।४। ८८ ) इति हेः पित्त्वपक्षे ‘अङितश्च’ (पा० ६ । ४ । । १०३) इति हेर्धिः पित्त्वाद्गुणः । किंभूतमेनः । जुहुराणम् । ‘हुर्छा कौटिल्ये’ अस्मात् हुर्छतेः सनो लुक् छलोपश्च ( उणा. | २ । ८८) औणादिकसूत्रेणानच्प्रत्यये रूपम् । हूर्छितुं कुटिलीकर्तुमिच्छतीति जुहुराणम् । अभिलषितक्रियाप्रतिबन्धकमित्यर्थः । किंच ते तव भूयिष्ठां बहुलतमां नमउक्तिं हविषां वचनं याज्यापुरोनुवाक्यालक्षणां विधेम करवाम । नम इत्यन्ननाम । यद्वा नमस्कारविषयामुक्तिं संपादयाम ॥ ३६ ॥
सप्तत्रिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- आगस्त्य ऋषिः
- निचृद् आर्षी त्रिष्टुप्
- धैवतः
३७ अयं नोऽअग्निर्वरिवस्कृणोत्वयम्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒यं नो॑ऽअ॒ग्निर्वरि॑वस्कृणोत्व॒यं मृधः॑ पु॒रऽए॑तु प्रभि॒न्दन्। अ॒यं वाजा॑ञ्जयतु॒ वाज॑साताव॒यँ शत्रू॑ञ्जयतु॒ जर्हृ॑षाणः॒ स्वाहा॑ ॥३७॥
मूलम् ...{Loading}...
अ॒यं नो॑ऽअ॒ग्निर्वरि॑वस्कृणोत्व॒यं मृधः॑ पु॒रऽए॑तु प्रभि॒न्दन्। अ॒यं वाजा॑ञ्जयतु॒ वाज॑साताव॒यँ शत्रू॑ञ्जयतु॒ जर्हृ॑षाणः॒ स्वाहा॑ ॥३७॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒यम्। नः॒। अ॒ग्निः। वरि॑वः। कृ॒णो॒तु॒। अ॒यम्। मृधः॑। पु॒रः। ए॒तु॒। प्र॒भि॒न्दन्निति॑ प्रऽभि॒न्दन्। अ॒यम्। वाजा॑न्। ज॒य॒तु॒। वाज॑साता॒विति॒ वाज॑ऽसातौ। अ॒यम्। शत्रू॑न्। ज॒य॒तु॒। जर्हृ॑षाणः। स्वाहा॑। ३७।
महीधरः
म० ‘उत्तरेण सदो हृत्वाग्नीध्रेऽग्निं निदधाति ग्रावद्रोणकलशसोमपात्राणि चायं न इति जुहोत्यस्मिन्’ (का० ८ । ७। ७-९) इति । शालामुखीयमग्निं ग्रावादीनि च सदस उत्तरभागे नीत्वाग्नीध्रमण्डपे निधाय तत्रत्यधिष्ण्यगतेऽग्नौ घृतेन जुहुयादिति सूत्रार्थः । आग्नेयी त्रिष्टुब्यजुरन्ता । अयमग्निर्नोऽस्माकं वरिवः धनं कृणोतु करोतु । अयमेवानिर्मृधः संग्रामान्प्रभिन्दन्विदारयन्सन् पुर एतु अग्रतो यातु । अयमेवाग्निर्वाजसातौ वाजानामन्नानां संभजने निमित्ते वाजान् शत्रुसंबन्धीन्यन्नानि अस्मभ्यं दातुं जयतु । ततोऽयमेवाग्निर्जर्हृषाणोऽत्यर्थं हृष्यन् शत्रूञ्जयतु स्वाहा तुभ्यं सुहुतमस्तु ॥ ३७ ॥
अष्टत्रिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- आगस्त्य ऋषिः
- भुरिग् आर्षी त्रिष्टुप्
- धैवतः
३८ उरु विष्णो
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒रु वि॑ष्णो॒ विक्र॑मस्वो॒रु क्षया॑य नस्कृधि। घृतं घृ॑तयोने पिब॒ प्रप्र॑ य॒ज्ञप॑तिं तिर॒ स्वाहा॑ ॥३८॥
मूलम् ...{Loading}...
उ॒रु वि॑ष्णो॒ विक्र॑मस्वो॒रु क्षया॑य नस्कृधि। घृतं घृ॑तयोने पिब॒ प्रप्र॑ य॒ज्ञप॑तिं तिर॒ स्वाहा॑ ॥३८॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उ॒रु। वि॒ष्णो॒ऽइति॑ विष्णो। वि। क्र॒म॒स्व॒। उ॒रु। क्षया॑य। नः॒। कृ॒धि॒। घृ॒तम्। घृ॒त॒यो॒न॒ इति॑ घृतऽयोने। पि॒ब॒। प्रप्रेति॒ प्रऽप्र॑। य॒ज्ञप॑ति॒मिति॑ य॒ज्ञऽप॑तिम्। ति॒र॒। स्वाहा॑। ३८।
महीधरः
म०. ‘उरु विष्णविति जुहोति’ ( का० ८ । ७।१५) इति। पूर्वमन्त्रेणाग्नीध्रीये होमोऽनेन त्वाहवनीय इति सूत्रार्थः । वैष्णव्यनुष्टुब्यजुरन्ता । हे विष्णो व्यापिन् आहवनीय, उरु विक्रमस्व शत्रुषु बहुलं पराक्रमं कुरु । किंच क्षयाय ब्रह्मगृहनिवासाय नोऽस्मानुरु बहु यथा तथा कृधि कुरु । हे घृतयोने अग्ने, घृतं पिब हूयमानमिदमाज्यं भक्षय । ‘अग्निर्यस्यै योनेरसृज्यत | तस्यै घृतमुल्बमासीत्’ इति श्रुतेर्घृतयोनित्वम् । किंच यज्ञपतिं यजमानं प्रतिर अतिशयेन वर्धय । ‘प्रसमुपोदः पादपूरणे’ (पा० ८।१।६) इति प्रशब्दस्य द्वित्वम् । स्वाहा तस्मै | तुभ्यं सुहुतमस्तु ॥ ३८ ॥
एकोनचत्वारिंशी॥
अधिमन्त्रम् (VC)
- विष्णुर्देवता
- आगस्त्य ऋषिः
- भुरिग् आर्षी अनुष्टुप्
- गान्धारः
३९ देव सवितरेष
विश्वास-प्रस्तुतिः ...{Loading}...
देव॑ सवितरे॒ष ते॒ सोम॒स्तँ र॑क्षस्व॒ मा त्वा॑ दभन्। ए॒तत्त्वं दे॑व सोम दे॒वो दे॒वाँ२ऽउपागा॑ऽइ॒दम॒हं म॑नु॒ष्या᳖न्त्स॒ह रा॒यस्पोषे॑ण॒ स्वाहा॒ निर्वरु॑णस्य॒ पाशा॑न्मुच्ये ॥३९॥
मूलम् ...{Loading}...
देव॑ सवितरे॒ष ते॒ सोम॒स्तँ र॑क्षस्व॒ मा त्वा॑ दभन्। ए॒तत्त्वं दे॑व सोम दे॒वो दे॒वाँ२ऽउपागा॑ऽइ॒दम॒हं म॑नु॒ष्या᳖न्त्स॒ह रा॒यस्पोषे॑ण॒ स्वाहा॒ निर्वरु॑णस्य॒ पाशा॑न्मुच्ये ॥३९॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
देव॑। स॒वि॒तः॒। ए॒षः। ते॒। सोमः॑। तम्। र॒क्ष॒स्व॒। मा। त्वा॒। द॒भ॒न्। ए॒तत्। त्वम्। दे॒व॒। सो॒म॒। दे॒वः। दे॒वान्। उप॑। अ॒गाः॒। इ॒दम्। अ॒हम्। म॒नु॒ष्या॒न्। स॒ह। रा॒यः। पोषे॑ण। स्वाहा॑। निः। वरु॑णस्य। पाशा॑त्। मु॒च्ये॒। ३९।
महीधरः
म० ‘दक्षिणेऽनसि कृष्णाजिनमास्तीर्य तस्मिन्सोमं निदधाति देव सवितः’ (का० ८।७।१७) इति । अनसि शकटे । सावित्रं यजुः । हे सवितः सर्वस्य प्रेरक देव, एष सोमस्ते तवार्पितः तं तादृशं सोमं त्वं रक्षस्व पालय । मा त्वा दभन् सोमस्य रक्षितारं त्वामसुरा मा विहिंसिषुः । एतत्त्वमिति विसृज्योपतिष्ठते’ ( का० ८ । ७ । १८) इति । कृष्णाजिने स्थापितं बद्धं सोमं विस्रस्योपस्थानं कुर्यादिति सूत्रार्थः । सौम्यं यजुः । हे सोम देव, त्वं देवः सन्भवदीयान्देवानेतदिदानीमुपागाः प्राप्तोऽसि । अहं मनुष्यो यजमानो मदीयान्मनुष्यानिदमिदानीं रायस्पोषेण सह पश्वादिधनेन सार्धमुपागतोऽस्मीत्यनुषङ्गः । ‘स्वाहा निरिति निष्क्रम्य’ ( का० ८।७।१९.)इति हविर्धानमण्डपान्निर्गत्येति सूत्रार्थः । हानं हा न हा अहा स्वस्याहा स्वाहा स्वात्यागः सोमेनात्मानं निष्क्रीयात्मीयोऽहमस्मीत्यर्थः । यद्वा स्वाहा सोमरूपमन्नं देवेभ्यो दत्तमस्तु । अनेन सोमप्रदानेनाहं वरुणपाशान्निर्मुच्ये निर्मुक्तोऽस्मि ॥ ३९ ॥
चत्वारिंशी।
अधिमन्त्रम् (VC)
- सोमसवितारौ देवते
- आगस्त्य ऋषिः
- साम्नी बृहती, निचृद् आर्षी पङ्क्तिः
- मध्यमः, पञ्चमः
४० अग्ने व्रतपास्त्वे
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने॑ व्रतपा॒स्त्वे व्र॑तपा॒ या तव॑ त॒नूर्मय्यभू॑दे॒षा सा त्वयि॒ यो मम॑ त॒नूस्त्वय्यभू॑दि॒यँ सा मयि॑। य॒था॒य॒थं नौ॑ व्रतपते व्र॒तान्यनु॑ मे दी॒क्षां दी॒क्षाप॑ति॒रमँ॒स्तानु॒ तप॒स्तप॑स्पतिः ॥४०॥
मूलम् ...{Loading}...
अग्ने॑ व्रतपा॒स्त्वे व्र॑तपा॒ या तव॑ त॒नूर्मय्यभू॑दे॒षा सा त्वयि॒ यो मम॑ त॒नूस्त्वय्यभू॑दि॒यँ सा मयि॑। य॒था॒य॒थं नौ॑ व्रतपते व्र॒तान्यनु॑ मे दी॒क्षां दी॒क्षाप॑ति॒रमँ॒स्तानु॒ तप॒स्तप॑स्पतिः ॥४०॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अग्ने॑। व्र॒त॒पा॒ इति॑ व्रतऽपाः। ते॒। व्र॒त॒पा॒ इति॑ व्रतऽपाः। या। तव॑। त॒नूः। मयि॑। अभू॑त्। ए॒षा। सा। त्वयि॑। योऽइति॒ यो। मम॑। तनूः। त्वयि॑। अभू॑त्। इ॒यम्। सा। मयि॑। य॒था॒य॒थमिति॑ यथाऽय॒थम्। नौ। व्र॒त॒प॒त॒ इति॑ व्रतऽपते। व्र॒तानि॑। अनु। मे॒। दी॒क्षाम्। दी॒क्षाप॑ति॒रिति॑ दीक्षाऽप॑तिः। अमं॑स्त। अनु॑। तपः॑। तप॑स्पति॒रिति॒ तपः॑ऽपतिः। ४०।
महीधरः
म० ‘अग्ने व्रतपा इत्याहवनीये समिधमाधायेति’ (का. ८।३।४) आग्नेयं यजुः यजमानोऽग्निशरीरेणात्मशरीरस्य कृतव्यत्ययोऽधस्तनं कर्मकलापं कृत्वाथ यथा स्वशरीरं कुर्वाण आह हे अग्ने, व्रतपाः स्वभावतः सर्वेषां व्रतानां पालकोऽसि तस्मात्कारणादिदानीमपि त्वं व्रतपाः मदीयव्रतस्य पालको भवेति शेषः। हे अग्ने, व्रतप्रार्थनकाले तव संबन्धिनी या तनूर्मयि अभूदवस्थिता सा एषा तव तनूः त्वयि भवत्विति शेषः । यो या उ या च मम तनूस्त्वय्यभूत्सा इयं मयि भवतु । किंच हे व्रतपते व्रतपालकाग्ने, नौ आवयोर्व्रतानि कर्माणि यथायथं यथास्वं स्वसंबन्धमनतिक्रम्य सन्त्विति शेषः । अनुष्ठानरूपं व्रतं ममास्तु तत्पालनरूपं व्रतं तवास्त्वित्यर्थः । किंच दीक्षापतिः दीक्षायाः पालकोऽग्निः मे दीक्षां मदीयदीक्षार्थं नियममन्वमंस्त अनुमतवान् । अङ्गीकृतवानित्यर्थः । तपस्पतिः तपसः पालकोऽग्निस्तपो मदीयामुपसदमन्वमंस्तानुमतवान् ॥ ४० ॥
एकचत्वारिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- आगस्त्य ऋषिः
- निचृद् ब्राह्मी त्रिष्टुप्
- गान्धारः
४१ उरु विष्णो
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒रु वि॑ष्णो॒ विक्र॑मस्वो॒रु क्षया॑य नस्कृधि। घृ॒तं घृ॑तयोने पिब॒ प्रप्र॑ य॒ज्ञप॑तिं तिर॒ स्वाहा॑ ॥४१॥
मूलम् ...{Loading}...
उ॒रु वि॑ष्णो॒ विक्र॑मस्वो॒रु क्षया॑य नस्कृधि। घृ॒तं घृ॑तयोने पिब॒ प्रप्र॑ य॒ज्ञप॑तिं तिर॒ स्वाहा॑ ॥४१॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उ॒रु। वि॒ष्णो॒ऽइति॑ विष्णो। वि। क्र॒म॒स्व॒। उ॒रु। क्षया॑य। नः॒। कृ॒धि॒। घृ॒तम्। घृ॒त॒यो॒न॒ इति॑ घृतऽयोने। पि॒ब॒। प्रप्रेति॒ प्रऽप्र॑। य॒ज्ञप॑ति॒मिति॑ य॒ज्ञऽप॑तिम्। ति॒र॒। स्वाहा॑। ४१।
महीधरः
म० इदानीं यूपसंपादनमन्त्राः ‘गृहेषु यूपाहुतिं जुहोति चतुर्ग्रहीताᳪं᳭स्रुवेण वोरु विष्णविति’ (का० ६।१।३-४) इति । चतुर्गृहीतमाज्यमाहवनीये जुहोति यूपं छेत्तुं गमिष्यन्सा यूपाहुतिरिति सूत्रार्थः । व्याख्याता ॥ ४१ ॥
द्विचत्वारिंशी।
अधिमन्त्रम् (VC)
- विष्णुर्देवता
- आगस्त्य ऋषिः
- भुरिग् आर्षी अनुष्टुप्
- गान्धारः
४२ अत्यन्याँ२ऽअगां नान्याँ२ऽउपागामर्वाक्
विश्वास-प्रस्तुतिः ...{Loading}...
अत्य॒न्याँ२ऽअगां॒ नान्याँ२ऽउपा॑गाम॒र्वाक् त्वा॒ परे॒भ्योऽवि॑दं प॒रोऽव॑रेभ्यः। तं त्वा॑ जुषामहे देव वनस्पते देवय॒ज्यायै॑ दे॒वास्त्वा॑ देवय॒ज्यायै॑ जुषन्तां॒ विष्ण॑वे त्वा। ओष॑धे॒ त्राय॑स्व॒ स्वधि॑ते॒ मैनँ॑ हिँसीः ॥४२॥
मूलम् ...{Loading}...
अत्य॒न्याँ२ऽअगां॒ नान्याँ२ऽउपा॑गाम॒र्वाक् त्वा॒ परे॒भ्योऽवि॑दं प॒रोऽव॑रेभ्यः। तं त्वा॑ जुषामहे देव वनस्पते देवय॒ज्यायै॑ दे॒वास्त्वा॑ देवय॒ज्यायै॑ जुषन्तां॒ विष्ण॑वे त्वा। ओष॑धे॒ त्राय॑स्व॒ स्वधि॑ते॒ मैनँ॑ हिँसीः ॥४२॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अति॑। अ॒न्यान्। अगा॑म्। उप॑। अ॒गा॒म्। अ॒र्वाक्। त्वा॒। परे॑भ्यः। अवि॑दम्। प॒रः॒। अव॑रेभ्यः। तम्। त्वा॒। जु॒षा॒म॒हे॒। दे॒व॒। व॒न॒स्प॒ते॒। दे॒व॒य॒ज्याया॒ इति॑ देवऽय॒ज्यायै॑। दे॒वाः। त्वा॒। दे॒व॒य॒ज्याया इति देवऽय॒ज्यायै॑। जु॒ष॒न्ता॒म्। विष्ण॑वे। त्वा॒। ओष॑धे। त्रा॑यस्व। स्वधि॑ते। मा। ए॒न॒म्। हिँ॒सीः॒। ४२।
महीधरः
म०. ‘आज्यशेषमादाय स तक्षा गच्छति यूपमभिमृशत्यत्यन्यानिति प्राङ् तिष्ठन्नभिमन्त्रयते वेति’ ( का० ६ । १ । ५-७)। यूपाहुतिशेषाज्ययुतो यूपतक्षणार्थ वनं गत्वा यूपमभिमृशेदभिमन्त्रयेद्वेति सूत्रार्थः । वनस्पतिदेवत्यम् । वृक्षा द्विविधाः यूप्या अयूप्याश्च । पलाशखदिरबिल्वादयो यूप्याः निम्बजम्बीरादयस्त्वयूप्याः । हे पुरोवर्ति यूपवृक्ष, त्वत्तोऽन्यान्कांश्चिद्यूप्यानपि समप्रदेशजन्मादिलक्षणरहितानत्यगाम् अतिक्रान्तवानस्मि अन्यांश्चायूप्यान्नोपागाम् । किंच परेभ्यो वृक्षेभ्यो दूरवर्तिभ्योर्वाक् निकटं त्वा त्वामविदं लब्धवानस्मि । अवरेभ्यो निकटेभ्यः परः परस्तादविदं विद्लृ लाभे’ ‘पुषादि-’ (पा० | ३।१।५५) इत्यङ् लुङि रूपम् । किंच हे वनस्पते वनस्य पते, हे देव दीप्यमान वृक्ष, देवयज्यायै देवयागार्थं तं तादृशं त्वां वयं । जुषामहे सेवामहे। देवा अपि देवयज्यायै त्वा जुषन्तां सेवन्ताम् । । ‘स्रुवेणोपस्पृशति विष्णवे त्वेति’ (का० ६।१।११)। हे यूपवृक्ष, त्वा त्वां विष्णवे यज्ञाय उपस्पृशामीति शेषः । ‘यज्ञो वै विष्णुः’ इति श्रुतेः ‘ओषध इति कुशतरुणं तिरस्कृत्येति’ (का. ६।१।१२)। यूपवृक्षस्य कुशमन्तर्धानं कुर्यादिति सूत्रार्थः । हे ओषधे, त्वं त्रायस्व स्वधितिभयात् मां रक्ष । स्वधित इति परशुना प्रहरतीति’ (का० ६।१।१३)। हे स्वधिते । परशो, एनं यूपं मा वधीः ॥ ४२ ॥
त्रिचत्वारिंशी ।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां पंचमोऽध्यायः ॥५॥ -
अधिमन्त्रम् (VC)
- अग्निर्देवता
- आगस्त्य ऋषिः
- भुरिग् अत्यष्टिः
- धैवतः
४३ द्यां मा
विश्वास-प्रस्तुतिः ...{Loading}...
द्यां मा ले॑खीर॒न्तरि॑क्षं॒ मा हिँ॑सीः पृथि॒व्या सम्भव॑। अ॒यँहि त्वा॒ स्वधि॑ति॒स्तेति॑जानः प्रणि॒नाय॑ मह॒ते सौभ॑गाय। अत॒स्त्वं दे॑व वनस्पते श॒तव॑ल्शो॒ वि॒रो॑ह स॒हस्र॑वल्शा॒ वि व॒यँ रु॑हेम ॥४३॥
मूलम् ...{Loading}...
द्यां मा ले॑खीर॒न्तरि॑क्षं॒ मा हिँ॑सीः पृथि॒व्या सम्भव॑। अ॒यँहि त्वा॒ स्वधि॑ति॒स्तेति॑जानः प्रणि॒नाय॑ मह॒ते सौभ॑गाय। अत॒स्त्वं दे॑व वनस्पते श॒तव॑ल्शो॒ वि॒रो॑ह स॒हस्र॑वल्शा॒ वि व॒यँ रु॑हेम ॥४३॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
द्याम्। मा। ले॒खीः॒। अ॒न्तरि॑क्षम्। मा। हिँ॒सीः॒। पृ॒थि॒व्या। सम्। भ॒व॒। अयम्। हि। त्वा॒। स्वधि॑ति॒रिति॒ स्वऽधि॑तिः। तेति॑जानः। प्र॒णि॒नाय॑ प्र॒ति॒नायेति॑ प्रऽनि॒नाय॑। म॒ह॒ते। सौभ॑गाय। अतः॑। त्वम्। दे॒व॒। व॒न॒स्प॒ते॒। श॒तवल्श॒ इति॑ श॒तऽव॑ल्शः। वि। रो॒ह॒। स॒हस्र॑वल्शा॒ इति॑ स॒हस्र॑ऽवल्शाः। वि। व॒यम्। रु॒हे॒म॒। ४३।
महीधरः
म० ‘द्यां मा लेखीरिति पतन्तमभिमन्त्रयते’ (का० ६ । १।१६) इति । हे यूपवृक्ष, द्यां द्युलोकं त्वं मा लेखीः माहिंसीः । ‘लिख अक्षरविन्यासे’ इह तु हिंसार्थः । अन्तरिक्षं च मा हिंसीः। पृथिव्या सह संभव सङ्गतो भव । यूपस्य वज्ररूपत्वाल्लोकानां शान्तिराशास्यत इति भावः । ‘अयᳪं᳭हि त्वेति शोधनमभिमन्त्रणशेषो वा सविशेषोपदेशादिति’ (का० ६ । १ । १८-१९) हि यस्मात् हे छिन्नवृक्ष, तेतिजानोऽतितीक्ष्णोऽयं स्वधितिः कुठारो महते सौभगाय सौभाग्याय दर्शनीयत्वाय । यद्वा सुभगो यज्ञः स एव सौभगः स्वार्थेऽण् । यज्ञाय त्वां प्रणिनाय प्रणयति यूपत्वं प्रापयति । ‘छन्दसि लुङ्लङ्लिटः’ (पा० ३ । ४ । ६) इति वर्तमाने लिट् । ‘तिज निशाने’ अस्माद्यङन्ताच्छानचि तेतिजान इति रूपम् । अतस्त्वया छेदान्न भेतव्यमिति भावः । अतस्त्वमित्यावृश्चने जुहोति यूपे वेति’ ( का० ६।१। २०-२१)। हे देव वनस्पते, अतोऽस्मात्स्थाणोः त्वं शतवल्शः बह्वङ्कुरः सन् विरोह विशेषेण जायस्व । वयं च सहस्रवल्शाः पुत्रपौत्रादिभिर्बहुशाखोपेता विरुहेम प्रजायेमहि ॥ ४३ ॥
श्रीमन्महीधरकृते वेददीपे मनोरमे। आतिथ्यात्स्थाणुहोमान्तः पञ्चमोऽध्याय ईरितः ॥५॥
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां पञ्चमोऽध्यायः ॥५॥
अधिमन्त्रम् (VC)
- यज्ञो देवता
- आगस्त्य ऋषिः
- ब्राह्मी त्रिष्टुप्
- धैवतः