०१ समिधाग्निं दुवस्यत
विश्वास-प्रस्तुतिः ...{Loading}...
स॒मिधा॒ग्निं दु॑वस्यत घृ॒तैर्बो॑धय॒ताति॑थिम्। आस्मि॑न् ह॒व्या जु॑होतन ॥१॥
मूलम् ...{Loading}...
स॒मिधा॒ग्निं दु॑वस्यत घृ॒तैर्बो॑धय॒ताति॑थिम्। आस्मि॑न् ह॒व्या जु॑होतन ॥१॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स॒मिधेति॑ स॒म्ऽइधा॑। अ॒ग्निम्। दु॒व॒स्य॒त॒। घृ॒तैः। बो॒ध॒य॒त॒। अति॑थिम्। आ। अ॒स्मि॒न्। ह॒व्या। जु॒हो॒त॒न॒। १।
महीधरः
म० अध्यायद्वयेन दर्शपौर्णमासेष्टिविषया मन्त्रा उक्ताः । अथाधानमन्त्रा उच्यन्ते प्रागग्निर्ज्योतिरित्यन्तेभ्यः ( ख०६)। | देवानां प्रजापतेरग्नेर्गन्धर्वाणां वार्षम् । आग्नेय्यश्चतस्रो गायत्र्यः। तत्र कात्यायनः ‘अमावास्यायामग्न्याधेयम्’ (४ । ७।१) | इत्यादिना कालविशेषादीनि ब्रह्मौदनपाकपर्यन्तानि कार्याण्युक्त्वा पश्चादिदमाह । ‘तं चातुष्प्राश्यं पचत्युद्वास्यासेचनं मध्ये कृत्वा सर्पिरसिच्याश्वत्थीस्तिस्रः समिधो घृताक्ता आदधाति समिधाग्निमिति प्रत्यृचम्’ (४ । ८ । ४ । ५) इति । अस्यार्थः । | चतुर्भिर्ऋत्विग्भिः प्राशितुं योग्यमोदनं पक्त्वा बहिरुद्वास्य तस्योदनस्य मध्ये घृतसेचनाय निम्नं स्थानं कृत्वा तत्सर्पिषापूर्य तिस्रः समिधस्तस्मिन्सर्पिष्यभ्यज्य तिसृभिर्ऋग्भिरग्नावभ्यादधातीति । समिधाग्निम् । हे ऋविजः, यूयं समिधा कृत्वा अग्निं दुवस्यत परिचरत । दुवस्यतिः परिचरणार्थः । सम्यगिध्यते दीप्यते वह्निर्यया काष्ठरूपया सा समित्तया । घृतैः होष्यमाणैः पूर्णाहुतिसंबन्धिभिरतिथिमातिथ्यकर्मणा पूजनीयमग्निं बोधयत प्रज्वालयत । अस्मिन् प्रज्वलितेऽग्नौ हव्या नानाविधानि हवींषि आ जुहोतन सर्वतो जुहुत । ‘तप्तनप्तनथनाच’ (पा० ७ । १ । ४५) इति तनबादेशः ॥ १॥
द्वितीया।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- आङ्गिरस ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब तीसरे अध्याय के पहिले मन्त्र में भौतिक अग्नि का किस-किस काम में उपयोग करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् लोगो ! तुम (समिधा) जिन इन्धनों से अच्छे प्रकार प्रकाश हो सकता है, उन लकड़ी घी आदिकों से (अग्निम्) भौतिक अग्नि को (बोधयत) उद्दीपन अर्थात् प्रकाशित करो तथा जैसे (अतिथिम्) अतिथि को अर्थात् जिसके आने-जाने वा निवास का कोई दिन नियत नहीं है, उस संन्यासी का सेवन करते हैं, वैसे अग्नि का (दुवस्यत) सेवन करो और (अस्मिन्) इस अग्नि में (हव्या) सुगन्ध कस्तूरी, केसर आदि, मिष्ट, गुड़, शक्कर आदि पुष्ट घी, दूध आदि, रोग को नाश करनेवाले सोमलता अर्थात् गुडूची आदि ओषधी, इन चार प्रकार के साकल्य को (आजुहोतन) अच्छे प्रकार हवन करो ॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे गृहस्थ मनुष्य आसन, अन्न, जल, वस्त्र और प्रियवचन आदि से उत्तम गुणवाले संन्यासी आदि का सेवन करते हैं, वैसे ही विद्वान् लोगों को यज्ञ, वेदी, कलायन्त्र और यानों में स्थापन कर यथायोग्य इन्धन, घी, जलादि से अग्नि को प्रज्वलित करके वायु, वर्षाजल की शुद्धि वा यानों की रचना नित्य करनी चाहिए ॥१॥
दयानन्द-सरस्वती (सं) - विषयः
अथ भौतिकोऽग्निः क्व क्वोपयोक्तव्य इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वांसो यूयं समिधा घृतैरग्निं बोधयत, तमतिथिमिव दुवस्यत। अस्मिन् हव्या होतव्यानि द्रव्याण्याजुहोतन प्रक्षिपत ॥१॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा गृहस्था मनुष्या आसनान्नजलवस्त्रप्रियवचनादिभिरुत्तमगुणमतिथिं सेवन्ते, तथैव विद्वद्भिर्यज्ञवेदीकलायन्त्रयानेष्वग्निं स्थापयित्वा यथायोग्यैरिन्धनाज्यजलादिभिः प्रदीप्य वायुवृष्टिजलशुद्धियानोपकाराश्च नित्यं कार्या इति ॥१॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचक लुप्तोपमालंकार आहे. जसे गृहस्थ लोक आसन, अन्न, जल, वस्त्र देऊन मधुर वाणीने अतिथी, संन्यासी इत्यादींचा सत्कार करतात. तसेच विद्वान लोकांनीही यज्ञ, कलायंत्रे, याने यांच्यात घृत, इंधन, जल इत्यादींद्वारे अग्नी प्रज्वलित करून वायूद्वारे पर्जन्याची शुद्धी करावी किंवा अग्नीद्वारे सतत याने तयार करावीत.
०२ सुसमिद्धाय शोचिषे
विश्वास-प्रस्तुतिः ...{Loading}...
सुस॑मिद्धाय शो॒चिषे॑ घृ॒तं ती॒व्रं जु॑होतन। अ॒ग्नये॑ जा॒तवे॑दसे ॥२॥
मूलम् ...{Loading}...
सुस॑मिद्धाय शो॒चिषे॑ घृ॒तं ती॒व्रं जु॑होतन। अ॒ग्नये॑ जा॒तवे॑दसे ॥२॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सुस॑मिद्धा॒येति सुऽस॑मिद्धाय। शो॒चिषे॑। घृ॒तम्। ती॒व्रम्। जु॒हो॒त॒न॒। अ॒ग्नये॑। जा॒तवे॑दस॒ इति॑ जा॒तऽवे॑दसे। २।
महीधरः
म० हे ऋत्विजः, अग्नये यूयं घृतेन जुहोतन जुहुत । जुहोतेः परस्य लोट्मध्यमबहुवचनस्य तस्य ‘तप्तनप्तनथनाश्च’ (पा. ७।१।४५) इति तनबादेशे गुणे जुहोतनेति रूपम् । किंभूतायाग्नये । सुसमिद्धाय शोभनतया सम्यग्दीप्ताय । अतएव शोचिषे शोचिष्मते दीप्तिमते ज्वलिताय । जातवेदसे जातं वेत्ति वेदयति वा जातवेदास्तस्मै । जातप्रज्ञानाय वा । किंभूतं घृतम् । तीव्रं स्वादुतमं समग्रं वा पटुतरं वा । ग्रहणोद्वासनाधिश्रयणावेक्षणादिभिः संस्कृतमित्यर्थः ॥ २॥
तृतीया ।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- सुश्रुत ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह भौतिक अग्नि कैसा है, किस प्रकार उपयोग करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य लोगो ! तुम (सुसमिद्धाय) अच्छे प्रकार प्रकाशरूप (शोचिषे) शुद्ध किये हुए दोषों का निवारण करने वा (जातवेदसे) सब पदार्थों में विद्यमान (अग्नये) रूप, दाह, प्रकाश, छेदन आदि गुण स्वभाववाले अग्नि में (तीव्रम्) सब दोषों के निवारण करने में तीक्ष्ण स्वभाववाले (घृतम्) घी मिष्ट आदि पदार्थों को (जुहोतन) अच्छे प्रकार गेरो ॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को इस प्रज्वलित अग्नि में जल्दी दोषों को दूर करनेवाले या शुद्ध किये हुए पदार्थों को गेर कर इष्ट सुखों को सिद्ध करना चाहिये ॥२॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स कीदृशः कथमुपयोजनीयश्चेत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्या ! यूयं सुसमिद्धाय सुसमिद्धे शोचिषे शोचिषि जातवेदसे जातवेदसि अग्नये अग्नौ तीव्रं घृतञ्जुहोतन ॥२॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैरस्मिन् प्रदीप्तेऽग्नौ शीघ्रं दोषनिवारकाणि शोधितानि द्रव्याणि प्रक्षिप्य सुखानि साधनीयानीति ॥२॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - प्रज्वलित अग्नी पदार्थांना शुद्ध करतो व सर्व दोष नष्ट करतो त्यासाठी माणसांनी घृत इत्यादी पदार्थ यज्ञात टाकले पाहिजेत. ज्यामुळे इष्ट सुखाची प्राप्ती होऊ शकेल.
०३ तं त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
तं त्वा॑ स॒मिद्भि॑रङ्गिरो घृ॒तेन॑ वर्द्धयामसि। बृ॒हच्छो॑चा यविष्ठ्य ॥३॥
मूलम् ...{Loading}...
तं त्वा॑ स॒मिद्भि॑रङ्गिरो घृ॒तेन॑ वर्द्धयामसि। बृ॒हच्छो॑चा यविष्ठ्य ॥३॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
तम्। त्वा॒। स॒मि॒द्भिरिति॑ स॒मित्ऽभिः॑। अ॒ङ्गि॒रः॒। घृ॒तेन॑। व॒र्द्ध॒या॒म॒सि॒। बृ॒हत्। शो॒च॒। य॒वि॒ष्ठ्य॒। ३।
महीधरः
म० हे अङ्गिरः, अङ्गतिर्गत्यर्थः । अङ्गिर्गतिरस्यास्तीति अङ्गिराः । रस्प्रत्ययो मत्वर्थीयः । तत्तद्यागेषु गमनवन्नग्ने । ‘अङ्गिरा उ ह्यग्निः’ (१।४।१।२५).ति श्रुतेः तं य उक्तगुणस्तथाविधं त्वा त्वां समिद्भिर्यज्ञसंबन्धिकाष्ठैर्घृतेन संस्कृताज्येन च वर्धयामसि वर्धयामः प्रवृद्धं कुर्मः । ‘इदन्तो मसि’ (पा० ७।१।४६ ) इति सिकारश्छान्दसः । हे यविष्ठ्य युवतम, कदाचिदपि स्थविरत्वरहितेत्यर्थः । तथाविधाग्ने, बृहत् महत् प्रवृद्धं यथा तथा शोच दीप्यस्व । ‘द्व्यचोऽतस्तिङः’ (पा० ६ । ३ । १३५) इति संहितायां दीर्घः । अतिशयेन युवा यविष्ठः । इष्ठनि परे ‘स्थूलदूरयुव-’ (पा० ६ । ४ । १५६) इत्यादिना वा टिलोपे गुणे च रूपम् । यविष्ठ एव यविष्ठ्यः । स्वार्थे तद्धितयकारः ॥ ३ ॥
चतुर्थी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- भारद्वाज ऋषिः
- निचृद् गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को उक्त अग्नि की नित्य वृद्धि करनी चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हम लोग जो (अङ्गिरः) पदार्थों को प्राप्त कराने वा (यविष्ठ्य) पदार्थों के भेद करने में अति बलवान् (बृहत्) बड़े तेज से युक्त अग्नि (शोच) प्रकाश करता है (तम्) उसको (समिद्भिः) काष्ठादि वा (घृतेन) घी आदि से (वर्द्धयामसि) बढ़ाते हैं ॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को जो सब गुणों से बलवान् पूर्व कहा हुआ अग्नि है, वह होम और शिल्पविद्या की सिद्धि के लिये लकड़ी, घी आदि साधनों से सेवन करके निरन्तर वृद्धियुक्त करना चाहिये ॥३॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्यैः स नित्यं वर्द्धनीय इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - वयं योऽङ्गिरोऽङ्गिरा यविष्ठ्य यविष्ठ्योग्निर्बृहच्छोचमहद् यथा स्यात्, तथा शोचति प्रकाशते त्वा तं समिद्भिर्घृतेन वर्द्धयामसि वर्द्धयामः प्रदीपयामः ॥३॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्यो गुणैर्महान् पूर्वोक्तोऽग्निर्वर्त्तते, स होमशिल्पविद्यासिद्धये साधनैरिन्धनादिभिः सेवित्वा नित्यं वर्द्धनीय इति ॥३॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी सर्वात बलवान असलेल्या अग्नीला होमात किंवा शिल्पविद्येच्या सिद्धीसाठी समिधा, घृत इत्यादी पदार्थ वापरून त्याला सतत प्रज्वलित ठेवावे.
०४ उप त्वाग्ने
विश्वास-प्रस्तुतिः ...{Loading}...
उप॑ त्वाग्ने ह॒विष्म॑तीर्घृ॒ताची॑र्यन्तु हर्यत। जु॒षस्व॑ स॒मिधो॒ मम॑ ॥४॥
मूलम् ...{Loading}...
उप॑ त्वाग्ने ह॒विष्म॑तीर्घृ॒ताची॑र्यन्तु हर्यत। जु॒षस्व॑ स॒मिधो॒ मम॑ ॥४॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उप॑। त्वा॒। अ॒ग्ने॒। ह॒विष्म॑तीः। घृ॒ताचीः॑। य॒न्तु॒। ह॒र्य्य॒त॒। जु॒षस्व॑। स॒मिध॒ऽइति॑ स॒म्ऽइधः॑। मम॑। ४।
महीधरः
म०. ‘उप त्वेति जपतीति’ (का० ४ । ८ । ६) हे अग्ने, हविष्मतीर्हविष्मत्यः हविर्युक्ताः घृताचीः घृताच्यो घृताक्ता एताः समिधस्त्वामुपयन्तु प्रत्युपगच्छन्तु । हे हर्यत प्रेप्सावन्, ‘हर्यतः । आचके’ ( निघ० २ । ६ । १०) इति | कान्तिकर्मसु पठितत्वात् । तथाविध हे अग्ने, मम मदीयाः समिधः त्वं जुषस्व सेवस्व । त्वामुपयतीरङ्गीकुर्वित्यर्थः । ‘छन्दसि परेऽपि’ ‘व्यवहिताश्च’ (पा० १।४ । ८१-८२) इति । उपयन्तु इत्युपसर्गक्रियापदयोर्व्यवहितत्वम् । हविष्मतीरित्यादौ ‘वा छन्दसि’ (पा० ६ । १ । १०६ ) इति पूर्वसवर्णदीर्घत्वम् ॥ ४ ॥
पञ्चमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- प्रजापतिर्ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह अग्नि कैसा है, सो अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (हर्य्यत) प्राप्ति का हेतु वा कामना के योग्य (अग्ने) प्रसिद्ध अग्नि (मम) यज्ञ करनेवाले मेरे (समिधः) लकड़ी घी आदि पदार्थों को (जुषस्व) सेवन करता है, जिस प्रकार (त्वा) उस अग्नि को घी आदि पदार्थ (यन्तु) प्राप्त हों, वैसे तुम (हविष्मतीः) श्रेष्ठ हवियुक्त (घृताचीः) घृत आदि पदार्थों से संयुक्त आहुति वा काष्ठ आदि सामग्री प्रतिदिन सञ्चित करो ॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्य लोग जब इस अग्नि में काष्ठ, घी आदि पदार्थों की आहुति छोड़ते हैं, तब वह उनको अति सूक्ष्म कर के वायु के साथ देशान्तर को प्राप्त कराके दुर्गन्धादि दोषों के निवारण से सब प्राणियों को सुख देता है, ऐसा सब मनुष्यों को जानना चाहिये ॥४॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स कीदृश इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्या ! यो हर्यताग्ने प्रापकः कमनीयोऽग्निर्मम समिधो जुषस्व जुषते सेवते। यथा तमेताः समिधो यन्तु, प्राप्नुवन्तु तथाऽस्मिन् यूयं हविष्मतीर्घृताचीः समिधः प्रतिदिनं सञ्चिनुत ॥४॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्यदाऽस्मिन्नग्नौ समिधः आहुतयश्च प्रक्षिप्यन्ते, स एताः परमसूक्ष्माः कृत्वा वायुना सह देशान्तरं प्रापयित्वा दुर्गन्धादिदोषाणां निवारणेन सर्वान् सुखयतीति वेदितव्यम् ॥४॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसे जेव्हा या अग्नीत समिधा, तूप इत्यादी पदार्थांची आहुती देतात तेव्हा अग्नी त्या पदार्थांना अतिसूक्ष्म करतो व वायूबरोबर सगळीकडे पसरवितो आणि दुर्गंध नाहीसा करून सर्व प्राण्यांना सुख देतो हे सर्व माणसांनी जाणले पाहिजे.
०५ भूर्भुवः स्वर्द्यौरिव
विश्वास-प्रस्तुतिः ...{Loading}...
भूर्भुवः॒ स्व᳙र्द्यौरि॑व भू॒म्ना पृ॑थि॒वीव॑ वरि॒म्णा। तस्या॑स्ते पृथिवि देवयजनि पृ॒ष्ठे᳙ऽग्निम॑न्ना॒दम॒न्नाद्या॒याद॑धे ॥५॥
मूलम् ...{Loading}...
भूर्भुवः॒ स्व᳙र्द्यौरि॑व भू॒म्ना पृ॑थि॒वीव॑ वरि॒म्णा। तस्या॑स्ते पृथिवि देवयजनि पृ॒ष्ठे᳙ऽग्निम॑न्ना॒दम॒न्नाद्या॒याद॑धे ॥५॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
भूः। भुवः॑। स्वः॑। द्यौरि॒वेति॒ द्यौःऽइ॑व। भू॒म्ना। पृ॒थि॒वीवेति॑ पृथि॒वीऽइ॑व। व॒रि॒म्णा॒। तस्याः॑। ते॒। पृ॒थि॒वि॒। दे॒व॒य॒ज॒नीति॑ देवऽयजनि। पृ॒ष्ठे। अ॒ग्निम्। अ॒न्ना॒दमित्य॑न्नऽअ॒दम्। अ॒न्नाद्या॒येत्य॑न्न॒ऽअद्या॑य। आ। द॒धे॒। ५।
महीधरः
म० ‘दारुभिर्ज्वलन्तमादधाति भूर्भुव इति संभारेषु’ (का० ४।९।१) इति । भूर्भुवःस्वरिति पूर्ववदिति च’ (४।९।१६) अस्यार्थः । आपो हिरण्यमूषाखूत्करः शर्करेति पञ्च संभारान्संपाद्य स्फ्येनोल्लिखितायां शुद्धायां भूमौ तान्संभारानवस्थाप्य तेषु शुष्ककाष्ठैर्ज्वलन्तमग्निं भूर्भुवःस्वरिति पञ्चाक्षराण्युच्चारयन्नादध्यात् । इदमाहवनीयाधानम् । एवमष्टाक्षरत्वादग्नेर्गायत्रत्वं श्रुत्योक्तम् । गायत्रीसहितस्याग्नेः प्रजापतिमुखादुत्पन्नत्वात् । अथ मन्त्रार्थः । एतेष्वाधानमन्त्रेषु भूरिति प्रथमा व्याहृतिः । भुव इति द्वितीया । स्वः इति तृतीया । एतास्तिस्रो व्याहृतयः पृथिव्यादिलोकत्रयनामानि । एतदुच्चारणपूर्वकं प्रजापतिना लोकत्रयस्य सृष्टत्वात् । अत एवाभिः स्थापयन् लोकत्रयमनेन स्मरेत् । एतासां व्याहृतीनां महिमा भूयादिति । भूर्भुवःस्वःशब्देन ब्रह्मक्षत्रविशो वा आत्मप्रजापशवो वा । सर्वे मद्वशगा भूयासुरिति प्रार्थयन्नग्नीनादध्यादित्यर्थः । ‘इध्मपूर्वार्धं गृहीत्वा द्यौरिव भूम्नेत्याहेति’ (का० ४ । ९ । १७)। देवा इज्यन्ते यस्यां पृथिव्यां सा देवयजनी तथाविधे हे पृथिवि, तस्यास्ते तव पृष्ठे देवयजनयोग्यायास्तवोपरि । अन्नादमन्नस्य हुतस्यात्तारमग्निं गार्हपत्यादिरूपमादधे स्थापयामि । किमर्थम् । अन्नाद्याय । अन्नं च तदाद्यं च तस्मै आद्यस्यान्नस्यात्तुं योग्यस्यान्नस्य सिद्ध्यर्थम् । आहिताग्न्यादित्वात्परनिपातः (पा० २ । २ । ३७) । यद्वान्नस्याद्याय भक्षणाय । यस्याः पृष्ठेऽग्निमाधाय भूम्ना द्यौरिव भूयासमिति शेषः । बहोर्भावो भूमा तेन । यथा द्यौनक्षत्रबहुत्वेन वह्वी एवं पुत्रपश्वादिभिर्बहुभूयासम् । वरिम्णा पृथिवीव भूयासम् । उरोर्भावो वरिमा तेन । यथा पृथिवी उरुत्वेन सर्वप्राणिनामाश्रयभूता एवमहं महत्त्वेन सर्वप्राणिनामाश्रयभूतो भूयासम् । यद्वा पूर्वार्धस्यायमर्थः । किंभूतमग्निम् । भूम्ना द्यौरिव वर्तमानम्। यथा द्यौर्नक्षत्रादिबहुत्वेन युक्ता तथा ज्वालाबहुत्वेन युक्तम् । किंच वरिम्णा पृथिवीव स्थितम् । यथा पृथिवी सर्वप्राण्याश्रयत्वरूपेण श्रेष्ठत्वेनोपेता तथा सर्ववस्तुशोधकत्वरूपेण श्रेष्ठत्वेनोपेतम् । अतएव क्वचिद्विधिवाक्ये अग्नये पावकायेत्याम्नातम् ॥ ५॥
षष्ठी।
अधिमन्त्रम् (VC)
- अग्निवायुसूर्य्या देवताः
- प्रजापतिर्ऋषिः
- दैवी बृहती, निचृद् बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उस अग्नि का किसलिये उपयोग करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - मैं (अन्नाद्याय) भक्षण योग्य अन्न के लिये (भूम्ना) विभु अर्थात् ऐश्वर्य्य से (द्यौरिव) आकाश में सूर्य के समान (वरिम्णा) अच्छे-अच्छे गुणों से (पृथिवीव) विस्तृत भूमि के तुल्य (ते) प्रत्यक्ष वा (तस्याः) अप्रत्यक्ष अर्थात् आकाशयुक्त लोक में रहनेवाली (देवयजनि) देव अर्थात् विद्वान् लोग जहाँ यज्ञ करते हैं वा (पृथिवी) भूमि के (पृष्ठे) पृष्ठ के ऊपर (भूः) भूमि (भुवः) अन्तरिक्ष (स्वः) दिव अर्थात् प्रकाशस्वरूप सूर्यलोक इनके अन्तर्गत रहने तथा (अन्नादम्) यव आदि सब अन्नों को भक्षण करनेवाले (अग्निम्) प्रसिद्ध अग्नि को (आदधे) स्थापन करता हूँ ॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में दो उपमालङ्कार हैं। हे मनुष्य लोगो ! तुम ईश्वर से तीन लोकों के उपकार करने वा अपनी व्याप्ति से सूर्य प्रकाश के समान तथा उत्तम-उत्तम गुणों से पृथिवी के समान अपने-अपने लोकों में निकट रहनेवाले रचे हुए अग्नि को कार्य की सिद्धि के लिये यत्न के साथ उपयोग करो ॥५॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स किमर्थ उपयोजनीय इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - अहमन्नाद्याय भूम्ना द्यौरिव वरिम्णा पृथिवीव तेऽस्याः प्रत्यक्षायास्तस्या अप्रत्यक्षाया अन्तरिक्षलोकस्थाया देवयजनि देवयजन्याः पृथिवि, पृथिव्याः पृष्ठे, पृष्ठोपरि भूर्भुवः स्वर्लोकान्तर्गतमन्नादमग्निमादधे, स्थापयामि ॥५॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारौ। हे मनुष्या ! यूयमीश्वरेण रचितं त्रैलोक्योपकारकं स्वव्याप्त्या सूर्यप्रकाशसदृशं श्रेष्ठैर्गुणैः पृथिवीसमानं स्वस्वलोके सन्निहितमिममग्निं कार्यसिद्ध्यर्थं प्रयत्नेनोपयोजयत ॥५॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात दोन उपमालंकार आहेत. हे माणसांनो ! ईश्वराने तिन्ही लोकांवर उपकार करण्यासाठी उत्तम अग्नी (सूर्य, विद्युत, भौतिक अग्नी) निर्माण केलेला आहे. त्याचा कार्यसिद्धीसाठी उपयोग करून घेण्याचा प्रयत्न करा.
०६ आयं गौः
विश्वास-प्रस्तुतिः ...{Loading}...
आयं गौः पृश्नि॑रक्रमी॒दस॑दन् मा॒तरं॑ पु॒रः। पि॒तरं॑ च प्र॒यन्त्स्वः॑ ॥६॥
मूलम् ...{Loading}...
आयं गौः पृश्नि॑रक्रमी॒दस॑दन् मा॒तरं॑ पु॒रः। पि॒तरं॑ च प्र॒यन्त्स्वः॑ ॥६॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ। अ॒यम्। गौः। पृश्निः॑। अ॒क्र॒मी॒त्। अस॑दत्। मा॒तर॑म्। पु॒रः। पि॒तर॑म्। च॒। प्र॒यन्निति॑ प्र॒ऽयन्। स्व॒रिति॒ स्वः᳙। ६।
महीधरः
म० ‘आयं गौरिति चोपतिष्ठते सार्पराज्ञीभिर्दक्षिणाग्निमादधातीति’ (का० ४ । ९ । १८-१९) । आयं गौरित्यादीनां तिसृणामृचां सार्पराज्ञीति नामधेयम् । सर्पराज्ञी कद्रूः पृथिव्यभिमानिनी । तया दृष्टत्वात् ताभिर्ऋग्भिराहवनीयमुपतिष्ठते । ततो दक्षिणाग्निमादध्यादिति सूत्रार्थः । गायत्रस्तृचः । अग्निः परावररूपेण स्तूयते । अयं दृश्यमानोऽग्निः आ अक्रमीत् सर्वत आहवनीयगार्हपत्यदक्षिणाग्निस्थानेषु सर्वतः क्रमणं पादविक्षेपं कृतवान् । किंभूतोऽग्निः । गच्छतीति गौः यज्ञनिष्पत्तये तत्तद्यजमानगृहेषु गन्ता । ‘गमेर्डोप्रत्ययः’ (उ० २ । ६६)। तथा पृश्निः चित्रवर्णः । लोहितशुक्लादिबहुविधज्वालोपेतः । आक्रमणमेवाह । पुरः प्राच्यां दिशि मातरं पृथिवीमसदत् आसीदत् आहवनीयरूपेण प्राप्तवान् । तथा स्वः प्रयन् आदित्यरूपेण स्वर्गे संचरन् पितरं च द्युलोकमपि असदत्प्राप्तवान् । स्वःशब्देन सूर्यः ( निघ० १ । ४ । १)। द्युलोकभूलोकयोर्मातापितृत्वमन्यत्रापि श्रूयते । ‘द्यौः पिता पृथिवी माता’ इति ॥ ६ ॥
सप्तमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- सर्प्पराज्ञी कद्रूर्ऋषिः
- निचृद् गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब अग्नि के निमित्त से पृथिवी का भ्रमण होता है, इस विषय को अगले मन्त्र में प्रकाशित किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अयम्) यह प्रत्यक्ष (गौः) गोलरूपी पृथिवी (पितरम्) पालने करनेवाले (स्वः) सूर्यलोक के (पुरः) आगे-आगे वा (मातरम्) अपनी योनिरूप जलों के साथ वर्त्तमान (प्रयन्) अच्छी प्रकार चलती हुई (पृश्निः) अन्तरिक्ष अर्थात् आकाश में (आक्रमीत्) चारों तरफ घूमती है ॥६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को जानना चाहिये कि जिससे यह भूगोल पृथिवी जल और अग्नि के निमित्त से उत्पन्न हुई अन्तरिक्ष वा अपनी कक्षा अर्थात् योनिरूप जल के सहित आकर्षणरूपी गुणों से सब की रक्षा करनेवाले सूर्य के चारों तरफ क्षण-क्षण घूमती है, इसी से दिन रात्रि, शुक्ल वा कृष्ण पक्ष, ऋतु और अयन आदि काल-विभाग क्रम से सम्भव होते हैं ॥६॥
दयानन्द-सरस्वती (सं) - विषयः
अथाग्निनिमित्तेन पृथिवीभ्रमणविषय उपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - अयं गौः पृथिवीगोलः स्वः पितरं पुरः प्रयन्मातरमपश्च प्रयन् पृश्निरन्तरिक्षे आक्रमीदाक्राम्यति समन्ताद् भ्रमति ॥६॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्यस्माज्जलाग्निनिमित्तोत्पन्नोऽयं भूगोलोऽन्तरिक्षे स्वकक्ष्यायामाकर्षणेन रक्षकस्य सूर्यस्याभितः प्रतिक्षणं भ्रमति, तस्मादहोरात्रशुक्लकृष्णपक्षर्त्वयनादीनि कालविभागाः क्रमशः सम्भवन्तीति वेद्यम् ॥६॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी हे जाणले पाहिजे की, जल व अग्नी यांनी निर्माण झालेली ही पृथ्वी जलासह अंतरिक्षामध्ये सूर्याभोवती आपल्या कक्षेत फिरत असते. त्यामुळेच क्रमाक्रमाने दिवस व रात्र शुक्ल किंवा कृष्णपक्ष, ऋतू व अयन इत्यादी काल विभाजन होत असते.
०७ अन्तश्चरति रोचनास्य
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒न्तश्च॑रति रोच॒नास्य प्रा॒णाद॑पान॒ती। व्य॑ख्यन् महि॒षो दिव॑म् ॥७॥
मूलम् ...{Loading}...
अ॒न्तश्च॑रति रोच॒नास्य प्रा॒णाद॑पान॒ती। व्य॑ख्यन् महि॒षो दिव॑म् ॥७॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒न्तरित्य॒न्तः। च॒र॒ति॒। रो॒च॒ना। अ॒स्य॒। प्रा॒णात्। अ॒पा॒न॒तीत्य॑पऽअ॒न॒ती। वि। अ॒ख्य॒न्। म॒हि॒षः। दिव॑म्। ७।
महीधरः
म० एवमादित्यरूपेणाग्निं स्तुत्वा वायुरूपेण स्तौति । अस्याग्ने रोचना । ‘रुच दीप्तौ’ दीप्तिः काचिच्छक्तिः वाय्वाख्या। अन्तश्चरति द्यावापृथिव्योर्मध्ये शरीरमध्ये चरति । ‘अन्तरिक्षेऽयं तिर्यङ्वायुः पवते’ इति श्रुतिः । किं कुर्वती । प्राणादपानती सर्वशरीरेषु प्राणव्यापारादनन्तरमपानव्यापारं कुर्वती। अपानादनन्तरं प्राणतीत्यप्यर्थो लभ्यते सामर्थ्यात् प्राणापानयोर्वायुविशेषयोः प्रेरिकेत्यर्थः । सति हि जठराग्नौ जीवनहेतोरौष्ण्यस्य शरीरे सद्भावात्प्राणापानौ प्रवर्तते । तस्मादग्निः प्राणापानरूप इत्यर्थः । एवं वाय्वादित्याभ्यां स्वशक्तिभूताभ्यामिदं जगदनुगृह्य य एनमुपतिष्ठते तस्य किं करोतीत्याह । व्यख्यदिति । महिषोऽग्निः दिवं व्यख्यत् । द्युलोकं भोगस्थानमनुष्ठातृभ्यो विशेषेण प्रकाशितवान् प्रकाशयति च । महि माहात्म्यं यागकर्तृस्वरूपं सनोति ददाति स महिषः । ‘अग्निर्वै महिषः स इदं जातो महान्’ इति श्रुतेः । व्यख्यत् विपूर्वस्य ख्या प्रकथन इत्यस्य ‘अस्यतिवक्तिख्यातिभ्योऽङ् (पा० ३ । १ । ५२ ) इति च्लेरङ् । आलोपः । ‘छन्दसि लुङ्लङ्लिटः’ (पा० ३ । ४ । ६) इति सर्वकालेषु लङ् । अपान इवाचरतीत्यपानती । क्विबन्तादपानशब्दाच्छतृप्रत्ययः । ‘उगितश्च’ (पा० ४ । १ । ६) इति ङीप् ॥ ७ ॥
अष्टमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- सर्पराज्ञी कद्रूर्ऋषिः
- विराड् गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
वह अग्नि कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (अस्य) इस अग्नि की (प्राणात्) ब्रह्माण्ड और शरीर के बीच में ऊपर जानेवाले वायु से (अपानती) नीचे को जानेवाले वायु को उत्पन्न करती हुई (रोचना) दीप्ति अर्थात् प्रकाशरूपी बिजुली (अन्तः) ब्रह्माण्ड और शरीर के मध्य में (चरति) चलती है, वह (महिषः) अपने गुणों से बड़ा अग्नि (दिवम्) सूर्यलोक को (व्यख्यत्) प्रकट करता है ॥७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को जानना चाहिये कि जो विद्युत् नाम से प्रसिद्ध सब मनुष्यों के अन्तःकरण में रहनेवाली जो अग्नि की कान्ति है, वह प्राण और अपान वायु के साथ युक्त होकर प्राण, अपान, अग्नि और प्रकाश आदि चेष्टाओं के व्यवहारों को प्रसिद्ध करती है ॥७॥
दयानन्द-सरस्वती (सं) - विषयः
सोऽग्निः कथंभूत इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - याऽस्याग्नेः प्राणादपानती सती रोचना दीप्तिर्विद्युच्छरीरब्रह्माण्डयोरन्तश्चरति, स महिषोऽग्निर्दिवं व्यख्यत् विख्यापयति ॥७॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मानवैर्योऽग्निविद्युदाख्या सर्वान्तःस्था कान्तिर्वर्तते, सा प्राणापानाभ्यां सह संयुज्य सर्वान् प्राणापानाग्निप्रकाशगत्यादीन् चेष्टाव्यवहारान् प्रसिद्धीकरोतीति बोध्यम् ॥७॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी हे जाणले पाहिजे की, विद्युतरूपी अग्नी माणसांच्या ठायी असतो तो प्राण, अपान वायूंबरोबर संयुक्त होऊन प्राण, अपान, भौतिक अग्नी व प्रकाश इत्यादींच्या व्यवहाराद्वारे प्रकट होतो.
०८ त्रिंशद्धाम विराजति
विश्वास-प्रस्तुतिः ...{Loading}...
त्रिँ॒श॒द्धाम॒ विरा॑जति॒ वाक् प॑त॒ङ्गाय॑ धीयते। प्रति॒ वस्तो॒रह॒ द्युभिः॑ ॥८॥
मूलम् ...{Loading}...
त्रिँ॒श॒द्धाम॒ विरा॑जति॒ वाक् प॑त॒ङ्गाय॑ धीयते। प्रति॒ वस्तो॒रह॒ द्युभिः॑ ॥८॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
त्रिँ॒शत्। धाम॑। वि। रा॒ज॒ति॒। वाक्। प॒त॒ङ्गाय॑। धी॒य॒ते॒। प्रति॑। वस्तोः॑। अह॑। द्युभि॒रिति॒ द्युऽभिः॑। ८।
महीधरः
म० ‘सुपां सुलुक्’ (पा० ७ । १ । ३२ ) इत्यादिना त्रिंशच्छब्दाद्धामशब्दाच्च सुपो लुक् । ‘धामानि त्रयाणि भवन्ति स्थानानि नामानि जन्मानीति’ (निरु० ९ । २८ । २९ )। अत्र धामशब्देन स्थानमुच्यते । अहोरात्रस्य त्रिंशन्मुहूर्ता धामशब्देनाभिप्रेताः । त्रिंशत्सु धामसु मुहूर्ताख्येषु स्थानेषु या वाक् विराजति शोभते स्तूयमाना सा वाक् पतङ्गाय धीयते अग्न्यर्थमुच्चार्यते । पतन् गच्छतीति पतङ्गः अग्निः । स ह्यरण्योः पतन् गार्हपत्यभावं गच्छति गार्हपत्यात्पतन्नाहवनीयतामित्यादि । सर्वदेवसंबन्धिनीमिः स्तुतिभिरग्निरेव सर्वात्मत्वात्स्तूयत इत्यर्थः । न केवलं त्रिंशत्सु धामसु या वाग्विराजति सैव पतङ्गाय धीयते । किं तर्हि प्रतिवस्तोः प्रत्यहं या स्तुतिलक्षणा वाक् या च द्युभिः अहोभिः यागपारायणाद्युत्सवभूतैः स्तुतिलक्षणा वाग्विराजति सा पतङ्गायैव धीयते नान्यस्यै देवतायै । ‘वस्तोः द्युः भानुः’ (निघ० १।९।१) - इत्यहर्नामसु पठितम् । अहेति निपातो विनिग्रहे । सर्वकालं सर्वा स्तुतिवागग्न्यर्थेवेत्यर्थः । यद्वास्या ऋचोऽयमर्थः । धाम स्थानं तच्च त्रिंशत् त्रिंशत्संख्याकं मासगतदिनभेदेन । तद्विराजति विशेषेण दीप्यते । आलस्यरहितानां यजमानानामनुष्ठानेनाहवनीयाद्यग्नीनां स्थानं मासगतेषु त्रिंशत्संख्याकेषु दिनेषु विशेषेण शोभत इत्यर्थः । वाक् स्तुतिरूपा पतङ्गायाग्नये धीयते उच्चार्यते । पतङ्गः पक्षी । तत्सदृशत्वादग्निः पतङ्गः। यथा कश्चित्पक्षी एकस्मात्स्थानात्स्थानान्तरं गच्छति तद्वदग्निरपि गार्हपत्यस्थानादाहवनीयस्थानं गच्छतीत्यग्नेः पक्षिसादृश्यम् । | अहेति निपातः पूर्वोक्तनिषेधार्थः । अस्या ऋचः पूर्वार्धेऽग्निमाहात्म्यज्ञापकं वाक्यद्वयेनार्थद्वयं यदुक्तं तावदेव न भवति | किंत्वन्यदप्युच्यत इत्यर्थः । वस्तोरित्यहर्नामसु पठितम् । प्रतिवस्तोः प्रत्यहं द्युभिः द्योतनैरयमग्निः स्तूयत इत्यध्याहारः । | द्युर्द्योतनं दीप्यतेः प्रयोगः ॥ ८ ॥
इत्यग्न्याधेयमन्त्राः ॥
नवमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- सर्पराज्ञी कद्रूर्ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह अग्नि कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - मनुष्यों को जो अग्नि (द्युभिः) प्रकाश आदि गुणों से (प्रतिवस्तोः) प्रतिदिन (त्रिंशत्) अन्तरिक्ष, आदित्य और अग्नि को छोड़ के पृथिवी आदि को जो तीस (धाम) स्थान हैं, उनको (विराजति) प्रकाशित करता है, उस (पतङ्गाय) चलने-चलाने आदि गुणों से प्रकाशयुक्त अग्नि के लिये (प्रतिवस्तोः) प्रतिदिन विद्वानों को (अह) अच्छे प्रकार (वाक्) वाणी (धीयते) अवश्य धारण करनी चाहिये ॥८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो वाणी प्राणयुक्त शरीर में रहनेवाले बिजुलीरूप अग्नि से प्रकाशित होती है, उसके गुणों के प्रकाश के लिये विद्वानों को उपदेश वा श्रवण नित्य करना चाहिये ॥८॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स कीदृश इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - मनुष्यैर्योऽग्निर्द्युभिः प्रतिवस्तोस्त्रिंशद्धाम धामानि विराजति प्रकाशयति, तस्मै पतङ्गाय पतनपातनादिगुणप्रकाशिताय प्रतिवस्तोः प्रतिदिनं विद्वद्भिरह वाग्धीयताम् ॥८॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - या वाणी प्राणयुक्तेन शरीरस्थेन विद्युदाख्येनाग्निना नित्यं प्रकाश्यते, सा तद् गुणप्रकाशाय विद्वद्भिर्नित्यमुपदेष्टव्या श्रोतव्या चेति ॥८॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - प्राणमय शरीरात विद्युतरूपी अग्नीमुळे जी वाणी प्रकट होते ती तेजस्वी व्हावी म्हणून सदैव विद्वानांचा उपदेश ऐकला पाहिजे.
०९ अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्निर्ज्योति॒र्ज्योति॑र॒ग्निः स्वाहा॒ सूर्यो॒ ज्योति॒र्ज्योतिः॒ सूर्यः॒ स्वाहा॑। अ॒ग्निर्वर्चो॒ ज्योति॒र्वर्चः॒ स्वाहा॒ सूर्यो॒ वर्चो॒ ज्योति॒र्वर्चः॒ स्वाहा॑। ज्योतिः॒ सूर्यः॒ सूर्यो॒ ज्योतिः॒ स्वाहा॑ ॥९॥
मूलम् ...{Loading}...
अ॒ग्निर्ज्योति॒र्ज्योति॑र॒ग्निः स्वाहा॒ सूर्यो॒ ज्योति॒र्ज्योतिः॒ सूर्यः॒ स्वाहा॑। अ॒ग्निर्वर्चो॒ ज्योति॒र्वर्चः॒ स्वाहा॒ सूर्यो॒ वर्चो॒ ज्योति॒र्वर्चः॒ स्वाहा॑। ज्योतिः॒ सूर्यः॒ सूर्यो॒ ज्योतिः॒ स्वाहा॑ ॥९॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒ग्निः। ज्योतिः॑। ज्योतिः॑। अ॒ग्निः। स्वाहा॑। सूर्य्यः॑। ज्योतिः॑। ज्योतिः॑। सूर्य्यः॑। स्वाहा॑। अ॒ग्निः। वर्च्चः॑। ज्योतिः॑। वर्च्चः॑। स्वाहा॑। सूर्य्यः॑। वर्च्चः॑। ज्योतिः॑। वर्च्चः॑। स्वाहा॑। ज्योतिः॑। सूर्य्यः॑। सूर्य्यः॑। ज्योतिः॑। स्वाहा॑। ९।
महीधरः
म० अथाग्निहोत्रहोममन्त्राः अग्निर्ज्योतिरित्यारभ्य उपप्रयन्त ( ख० ११ ) इत्यतः प्राक् । तन्मन्त्राणां प्रजापतिर्ऋषिः सामान्यतः । यत्र ऋषिविशेषोऽभिधीयतेऽनुक्रमणीकारैस्तत्र द्वावप्यृषी । ‘यथाग्निर्वर्चो द्वे तक्षापश्यत्परां जीवलश्चैलकिरिति’ ( अनु० १ । ११) सप्त लिङ्गोक्तदेवता गायत्र्यः । आद्याः पञ्चैकपदाः । अग्निर्ज्योतिः सूर्यो ज्योतिः एते द्वे एकपदे गायत्र्यौ तक्षा मुनिरपश्यत् । परां ज्योतिः सूर्यः इतीमां चेलकस्य पुत्रो जीवल ऋषिरपश्यदित्यर्थः । अथ ‘प्रदीप्तामभिजुहोत्यग्निर्ज्योतिरितीति’ ( का० ४ । १४ । १४ ) या समित् प्रदीप्ता तामभिलक्ष्य जुहुयात् । अग्निर्ज्योतिषमिति काण्वशाखोक्तमन्त्रेण ( अध्या० ३ । २।१) समित्प्रक्षेपः । मन्त्रार्थस्तु । योऽयमग्निर्देवः स एव ज्योतिर्दृश्यमानज्योतिःस्वरूपम् । यच्चेदं दृश्यमानं ज्योतिः तदेवाग्निर्देवः । देवस्य ज्योतिषश्च कदाचिदप्यवियोगादेकत्वेन प्रतिपादनम् । स्वाहा ज्योतीरूपायाग्नये हविः प्रदत्तम् । अयं सायंकालीनोऽग्निहोत्रहोममन्त्रः । सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातर्होममन्त्रः सायंहोममन्त्रवद्व्याख्येयः । सूर्यसंबन्धि तेजो रात्रावग्निं प्रविशतीति सायमग्निर्ज्योतिरिति मन्त्रो युक्तः । उदयकालेष्वग्निसंबन्धि ज्योतिः सूर्यं प्रविशति । तस्मात्प्रातः सूर्यो ज्योतिरिति मन्त्रः । ‘अग्निमादित्यः सायं प्रविशति तस्मादग्निर्दूरान्नक्तं ददृशे । उभे हि तेजसी संपद्येते उद्यन्तं वादित्यमग्निरनु समारोहति । तस्माद्धूम एवाग्नेर्दिवा ददृशे’ इति तित्तिरिश्रुतेः । ‘अग्निर्वर्च इति ब्रह्मवर्चसकामस्येति’ ( का० ४ । १४ । १५) ब्रह्मवर्चसकामस्तु अग्निर्वर्चः सूर्यो वर्च इति सायं प्रातश्च जुहुयात् । योऽग्निर्वर्चोनन्यभूतः यस्य तज्ज्योतिर्वर्चोनन्यभूतम् तस्मै सुहुतमस्तु । एवं ‘सूर्यो वर्च इति ज्योतिः सूर्य इति वा प्रातरिति’ (का० ४ । १५ । ११) प्रातर्होममन्त्रः ज्योतिः सूर्य इति । यत् ज्योतिः स सूर्य एव । यः सूर्यः स ज्योतिरेव । तस्मै स्वाहा ॥ ९ ॥
दशमी।
अधिमन्त्रम् (VC)
- अग्निसूर्यो देवते
- प्रजापतिर्ऋषिः
- पङ्क्तिः, याजुषी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अग्नि और सूर्य्य कैसे हैं, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अग्निः) परमेश्वर (स्वाहा) सत्य कथन करनेवाली वाणी को (ज्योतिः) जो विज्ञान प्रकाश से युक्त करके सब मनुष्यों के लिये विद्या को देता है, इसी प्रकार (अग्निः) जो प्रसिद्ध अग्नि (ज्योतिः) शिल्पविद्या साधनों के प्रकाश को देता है (सूर्यः) जो चराचर सब जगत् का आत्मा परमेश्वर (ज्योतिः) सब के आत्माओं में प्रकाश वा ज्ञान तथा सब विद्याओं का उपदेश करता है कि (स्वाहा) मनुष्य जैसा अपने हृदय से जानता हो, वैसे ही बोले तथा जो (सूर्यः) अपने प्रकाश से प्रेरणा का हेतु सूर्यलोक (ज्योतिः) मूर्तिमान् द्रव्यों का प्रकाश करता है (अग्निः) जो सब विद्याओं का प्रकाश करनेवाला परमेश्वर मनुष्यों के लिये (वर्च्चः) सब विद्याओं के अधिकरण चारों वेदों को प्रकट करता है। तथा जो (ज्योतिः) बिजुलीरूप से शरीर वा ब्रह्माण्ड में रहनेवाला अग्नि (वर्च्चः) विद्या और वृष्टि का हेतु है (सूर्यः) जो सब विद्याओं का प्रकाश करनेवाला जगदीश्वर सब मनुष्यों के लिये (स्वाहा) वेदवाणी से (वर्च्चः) सकल विद्याओं का प्रकाश और (ज्योतिः) बिजुली, सूर्य प्रसिद्ध और अग्नि नाम के तेज का प्रकाश करता है तथा जो (सूर्यः) सूर्यलोक भी (वर्च्चः) शरीर और आत्माओं के बल का प्रकाश करता है तथा जो (सूर्यः) प्राणवायु (वर्च्चः) सकल विद्या के प्रकाश करनेवाले ज्ञान को बढ़ाता है और (ज्योतिः) प्रकाशस्वरूप जगदीश्वर अच्छे प्रकार से हवन किये हुए पदार्थों को अपने रचे हुए पदार्थों में अपनी शक्ति से सर्वत्र फैलाता है, वही परमात्मा सब मनुष्यों का उपास्य देव और भौतिक अग्नि कार्य्यसिद्धि का साधन है ॥९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - स्वाहा शब्द का अर्थ निरुक्तकार की रीति से इस मन्त्र में ग्रहण किया है। अग्नि अर्थात् ईश्वर ने सामर्थ्य करके कारण से अग्नि आदि सब जगत् को उत्पन्न करके प्रकाशित किया है, उनमें से अग्नि अपने प्रकाश से आप वा और सब पदार्थों का प्रकाश करता है तथा परमेश्वर वेद के द्वारा सब विद्याओं का प्रकाश करता है। इसी प्रकार अग्नि और सूर्य भी शिल्पविद्या का प्रकाश करते हैं ॥९॥
दयानन्द-सरस्वती (सं) - विषयः
अथाग्निसूर्यौ कीदृशावित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - अग्निर्जगदीश्वरः स्वाहा ज्योतिः सर्वस्मै ददाति। एवं भौतिकोऽग्निः सर्वप्रकाशकं ज्योतिर्ददाति। सूर्यश्चराचरात्मा स्वाहा ज्योतिः सर्वात्मसु ज्ञानं ददाति। अयं सूर्यलोको ज्योतिर्दानं मूर्तद्रव्यप्रकाशनं च करोति। सर्वविद्याप्रकाशकोऽग्निर्जगदीश्वरो मनुष्यार्थं सर्वविद्याधिकरणं वर्च्चो वेदचतुष्टयं प्रादुर्भावयति। एवं ज्योतिर्विद्युदाख्योऽयमग्निः शरीरब्रह्माण्डस्थो वर्च्चो विद्यावृष्टिहेतुर्भवति। सूर्यः सकलविद्याप्रकाशको जगदीश्वरः सर्वमनुष्यार्थं स्वाहा ज्योतिर्वर्च्चः प्रकाशकं विद्युत्सूर्यप्रसिद्धाग्न्याख्यं तेजः करोति। एवं ज्योतिः सूर्यलोकोऽपि वर्च्चः शरीरात्मबलं प्रकाशयति। सूर्यः प्राणो ज्योतिः सकलविद्याप्रकाशकं ज्ञानं कारयति। तथाऽयं ज्योतिर्मयः सूर्यो जगदीश्वरः स्वाहा। ज्योतिः स्वाहुतं हविः स्वसृष्टपदार्थेषु स्वशक्त्या सर्वत्र प्रसारयति ॥९॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - स्वाहाशब्दार्थो निरुक्तकाररीत्यात्र गृहीतः। ईश्वरेणाऽग्निना कारणेनाग्न्यादिकं जगत् प्रकाश्यते। तत्राग्निः स्वप्रकाशेन स्वं स्वेतरं विश्वं च प्रकाशयति। परमेश्वरो वेदद्वारा सर्वा विद्याः प्रकाशयत्येवमग्निसूर्यावपि शिल्पादिविद्याः प्रकाशयत इति ॥९॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात ‘स्वाहा’ शब्दाचा अर्थ निरुक्ताप्रमाणे घेतलेला आहे. ईश्वराने आपल्या सामर्थ्याने अग्नी इत्यादी सर्व जगाला उत्पन्न केलेले आहे. त्यापैकी अग्नी स्वतः प्रकाशित असून, इतर पदार्थांना प्रकाशित करतो व परमेश्वर वेदाद्वारे सर्व विद्या प्रकट करतो. याचप्रमाणे अग्नी व सूर्य यांच्याद्वारे शिल्पविद्या प्रकट होते.
१० सजूर्देवेन सवित्रा
विश्वास-प्रस्तुतिः ...{Loading}...
स॒जूर्दे॒वेन॑ सवि॒त्रा स॒जू रात्र्येन्द्र॑वत्या। जु॒षा॒णोऽअ॒ग्निर्वे॑तु॒ स्वाहा॑। स॒जूर्दे॒वेन॑ सवि॒त्रा स॒जूरु॒षसेन्द्र॑वत्या। जु॒षा॒णः सूर्यो॑ वेतु॒ स्वाहा॑ ॥१०॥
मूलम् ...{Loading}...
स॒जूर्दे॒वेन॑ सवि॒त्रा स॒जू रात्र्येन्द्र॑वत्या। जु॒षा॒णोऽअ॒ग्निर्वे॑तु॒ स्वाहा॑। स॒जूर्दे॒वेन॑ सवि॒त्रा स॒जूरु॒षसेन्द्र॑वत्या। जु॒षा॒णः सूर्यो॑ वेतु॒ स्वाहा॑ ॥१०॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स॒जूरिति॑ स॒ऽजूः। दे॒वेन॑। स॒वि॒त्रा। स॒जूरिति॑ स॒ऽजूः। रात्र्या॑। इन्द्र॑व॒त्येतीन्द्र॑ऽवत्या। जु॒षा॒णः। अ॒ग्निः। वे॒तु॒। स्वाहा॑। स॒जूरिति॑ स॒ऽजूः। दे॒वेन॑। स॒वि॒त्रा। स॒जूरिति॑ स॒ऽजूः। उ॒षसा। इन्द्र॑व॒त्येतीन्द्र॑ऽवत्या। जु॒षा॒णः। सूर्यः॑। वे॒तु॒। स्वाहा॑। १०।
महीधरः
म० ‘सजूरिति वेति’ ( का० ४ । १४ । ९) जुहोतीत्यनुवर्तते । पूर्वोक्तमन्त्रैः सह सजूरित्यादिमन्त्रद्वयं विकल्पितम्। सजूर्देवेन । अग्निर्वेतु अस्मदीयं कर्म प्राप्नोतु । यद्वा वेतु आहुतिं भक्षयतु । ‘वी प्रजननकान्त्यसनखादनेषु’ इति धातोः प्रयोगः । किंभूतोऽग्निः । सवित्रा देवेन प्रेरकेण परमेश्वरेण सह सजूः । ‘जुषी प्रीतिसेवनयोः’ जोषणं जूः समाना जूः प्रीतिर्यस्यासौ सजूः । तथा इन्द्रवत्या रात्र्या इन्द्रेण देवेनोपेतया रात्रिदेवतया सजूः समानप्रीतिः । तथा जुषाणोऽस्मासु प्रीतियुक्तः । य उक्तगुणवानग्निर्दवस्तस्मै खाहा हूयमानमिदं द्रव्यं दत्तम् । प्रातःसूर्य उच्यते । अग्निमन्त्रवदयं सूर्यमन्त्रो व्याख्येयः । पूर्वार्धे रात्रिदेवतायाः स्थाने उषोदेवता योजनीया।१०॥
एकादशी।
अधिमन्त्रम् (VC)
- पूर्वार्द्धस्याग्निरुत्तरार्द्धस्य सूर्यश्च देवते
- प्रजापतिर्ऋषिः
- गायत्री भुरिग् गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
भौतिक अग्नि और सूर्य ये दोनों किस की सत्ता से वर्त्तमान हैं, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अग्निः) जो भौतिक अग्नि (देवेन) सब जगत् को ज्ञान देने वा (सवित्रा) सब जगत् को उत्पन्न करनेवाले ईश्वर के उत्पन्न किये हुए जगत् के साथ (सजूः) तुल्य वर्तमान (जुषाणः) सेवन करता हुआ (इन्द्रवत्या) बहुत बिजुली से युक्त (रात्र्या) अन्धकार रूप रात्रि के साथ (स्वाहा) वाणी को सेवन करता हुआ (वेतु) सब पदार्थों में व्याप्त होता है, इसी प्रकार (सूर्यः) जो सूर्यलोक (देवेन) सब को प्रकाश करनेवाले वा (सवित्रा) सब के अन्तर्यामी परमेश्वर के उत्पन्न वा धारण किये हुए जगत् के साथ (सजूः) तुल्य वर्तमान (जुषाणः) सेवन करता वा (इन्द्रवत्या) सूर्यप्रकाश से युक्त (उषसा) दिन के प्रकाश के हेतु प्रातःकाल के साथ (स्वाहा) अग्नि में होम की हुई आहुतियों को (जुषाणः) सेवन करता हुआ व्याप्त होकर हवन किये हुए पदार्थों को (वेतु) देशान्तरों में पहुँचाता है, उसी से सब व्यवहार सिद्ध करें ॥१०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! तुम लोग जो भौतिक अग्नि ईश्वर ने रचा है, वह इसी की सत्ता से अपने रूप को धारण करता हुआ दीपक आदि रूप से रात्रि के व्यवहारों को सिद्ध करता है। इसी प्रकार जो (सूर्य) प्रातःकाल को प्राप्त होकर सब मूर्तिमान् द्रव्यों के प्रकाश करने को समर्थ है, वही काम सिद्धि करने हारा है, इसको जानो ॥१०॥
दयानन्द-सरस्वती (सं) - विषयः
भौतिकावग्निसूर्यौ कस्य सत्तया वर्तेत इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - अयमग्निर्देवेन सवित्रा जगदीश्वरेणोत्पादितया सृष्ट्या सह सजूर्जुषाण इन्द्रवत्या रात्र्या सह स्वाहा जुषाणः सन् वेतु सर्वान् पदार्थान् व्याप्नोति। एवं सूर्य्यो देवेन सवित्रा सकलजगदुत्पादकेन धारितया सृष्ट्या सह सजूर्जुषाण इन्द्रवत्योषसा सह स्वाहा जुषाणः सन् हुतं द्रव्यं वेतु व्याप्नोति ॥१०॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्या ! यूयं योऽयमग्निरीश्वरेण निर्मितः स तत्सत्तया स्वस्वरूपं धारयन् सन् रात्रिस्थान् व्यवहारान् प्रकाशयति। एवं च सूर्य उषःकालमेत्य सर्वाणि मूर्त्तद्रव्याणि प्रकाशयितुं शक्नोतीति विजानीत ॥१०॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! ईश्वराने जो भौतिक अग्नी निर्माण केलेला आहे तो ईश्वराच्या सामर्थ्यानेच विविध रूपे धारण करतो. दीपक वगैरेच्या माध्यमाने रात्रीचे व्यवहार पार पाडले जातात. याचप्रमाणे प्रातःकाळी सूर्य पदार्थांना प्रकाशित करतो त्या ईश्वरामुळेच हे सर्व कार्य घडते हे जाणा.
११ उपप्रयन्तोऽअध्वरं मन्त्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒प॒प्र॒यन्तो॑ऽअध्व॒रं मन्त्रं॑ वोचेमा॒ग्नये॑। आ॒रेऽअ॒स्मे च॑ शृण्व॒ते ॥११॥
मूलम् ...{Loading}...
उ॒प॒प्र॒यन्तो॑ऽअध्व॒रं मन्त्रं॑ वोचेमा॒ग्नये॑। आ॒रेऽअ॒स्मे च॑ शृण्व॒ते ॥११॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उ॒प॒प्र॒यन्त॒ इत्यु॑पऽप्र॒यन्तः॑। अ॒ध्व॒रम्। मन्त्र॑म्। वो॒चे॒म॒। अ॒ग्नये॑। आ॒रे। अ॒स्मेऽइत्य॒स्मे। च॒ शृ॒ण्व॒ते। ११।
महीधरः
म० ‘सायमाहुत्या हुतायां यजमानोऽग्नी उपतिष्ठते | वात्सप्रेण न वा तिस्रस्त्रिरुपप्रयन्तो ११ अस्य प्रत्नां १६ परि ते ३६ चित्रावसविति १८ चेति’ ( का० ४ । १२ । १-३) आहवनीयगार्हपत्यावग्नी उपप्रयन्तो अध्वरमित्यारभ्य सुपोषः पोषैरित्यन्तं ३७ बृहदुपस्थानं देवदृष्टम् । तत्राद्ये द्वे आग्नेय्यौ गायत्र्यौ क्रमेण गोतमविरूपाभ्यामपि दृष्टे । आहवनीयोपस्थानमन्त्रा आदौ । वयमनुष्ठातारोऽग्नयेग्न्यर्थं मन्त्रं मननेन त्राणकरं शब्दसमूहं वोचेम उच्याम । किंभूता वयम् । अध्वरं यज्ञमुपप्रयन्त उपगच्छन्तः । किंभूतायाग्नये । आरे दूरे अस्मे अस्माकं समीपे इति शेषः । शृण्वते दूरे समीपे चास्मदीयं वाक्यं श्रोतुमुद्युक्ताय । वोचेमेति वक्तेराशीर्लिङि परस्मैपदोत्तमबहुवचने परे ‘लिङ्ग्याशिष्यङ्’ (पा० ३ । १ । ८६) इत्यङ् । यासुट् ‘अतो येयः’ (पा० ७ । २ । ८०) ‘वच उम्’ (पा० ७ । ४ । २०) ‘छन्दस्युभयथा’ (पा० ३ । ४ । ११७ ) इति सार्वधातुकत्वात् ‘लिङः सलोपोऽनन्त्यस्य’ (पा० ७ । २ । ७९ ) इति सलोपः यलोपः । वोचेम अस्मे ‘सुपां सुलुग्’ (पा० ७ । १ । ३९) इति शेआदेश आप्तः ॥११॥
द्वादशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- गोतम ऋषिः
- निचृद् गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब अगले मन्त्र में ईश्वर ने अपने स्वरूप का प्रकाश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अध्वरम्) क्रियामय यज्ञ को (उपप्रयन्तः) अच्छे प्रकार जानते हुए हम लोग (अस्मे) जो हम लोगों के (आरे) दूर वा (च) निकट में (शृण्वते) यथार्थ सत्यासत्य को सुननेवाले (अग्नये) विज्ञानस्वरूप अन्तर्यामी जगदीश्वर है, इसी के लिये (मन्त्रम्) ज्ञान को प्राप्त करानेवाले मन्त्रों को (वोचेम) नित्य उच्चारण वा विचार करें ॥११॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को वेदमन्त्रों के साथ ईश्वर की स्तुति वा यज्ञ के अनुष्ठान को करके जो ईश्वर भीतर-बाहर सब जगह व्याप्त होकर सब व्यवहारों को सुनता वा जानता हुआ वर्त्तमान है, इस कारण उससे भय मानकर अधर्म करने की इच्छा भी न करनी चाहिये। जब मनुष्य परमात्मा को जानता है, तब समीपस्थ और जब नहीं जानता तब दूरस्थ है, ऐसा निश्चय जानना चाहिये ॥११॥
दयानन्द-सरस्वती (सं) - विषयः
अथेश्वरेण स्वस्वरूपमुपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - अध्वरमुपप्रयन्तो वयमस्मे अस्माकमारे दूरे चात् समीपे शृण्वतेऽग्नये जगदीश्वराय मन्त्रं वोचेमोच्याम ॥११॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्वेदमन्त्रैरीश्वरस्य स्तुतियज्ञानुष्ठाने कृत्वा य ईश्वरोऽन्तर्बहिश्चाभिव्याप्य सर्वं शृण्वन् वर्तते, तस्माद् भीत्वा न कदाचिदधर्मं कर्त्तुमिच्छापि कार्या। यदा मनुष्य एतं जानाति तदा समीपस्थो यदैनं न जानाति, तदा दूरस्थ इति वेद्यम् ॥११॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी वेदमंत्रांद्वारे ईश्वराची स्तुती व यज्ञाचे अनुष्ठान केले पाहिजे. ईश्वर सर्वत्र व्याप्त असून, तो सर्व व्यवहार जाणतो हे समजावे. त्याचे भय बाळगावे व कधीही अधर्माची इच्छा करू नये. मनुष्य जेव्हा परमेश्वराला जाणतो तेव्हा तो त्याच्याजवळ असतो व जेव्हा तो त्याला जाणत नाही तेव्हा त्याच्यापासून दूर असतो हे निश्चितपणे जाणले पाहिजे.
१२ अग्निर्मूर्द्धा दिवः
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्निर्मू॒र्द्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्याऽअ॒यम्। अ॒पाँ रेताँ॑सि जिन्वति ॥१२॥
मूलम् ...{Loading}...
अ॒ग्निर्मू॒र्द्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्याऽअ॒यम्। अ॒पाँ रेताँ॑सि जिन्वति ॥१२॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒ग्निः। मू॒र्द्धा। दि॒वः। क॒कुत्। पतिः॑। पृ॒थि॒व्याः। अ॒यम्। अ॒पाम्। रेताँ॑सि। जि॒न्व॒ति॒। १२।
महीधरः
म० अयमग्निः अपां रेतांसि जिन्वति द्युलोकाद्वृष्टिरूपेण पतन्तीनामपां रेतांसि साराणि व्रीहियवादिरूपेण परिणतानि जिन्वति । जिन्वतिः प्रीतिकर्मा । प्रीणयति । वर्धयतीत्यर्थः । यद्वा अपां रेतांसि कारणानि जिन्वति पुष्णाति । आहुतिपरिणामेन वृष्टिं जनयतीत्यर्थः । ते वा एते आहुती उत्क्रामतः’ इत्यादिश्रुतेः । किंभूतोऽग्निः । दिवो मूर्धा द्युलोकस्य शिरःसमानः । यथा शिरः शरीरस्योपरि वर्तते तथायमग्निरहनि स्वतेजसा आदित्ये प्रविष्टत्वादादित्यरूपेण द्युलोकस्योपरि वर्तते । तथा ककुत् । ककुच्छब्दो गोपृष्टोन्नतावयववाची तद्वदादित्यरूपेण सर्वोपरिस्थत्वात्ककुत्सदृशः । यद्वा ककुदमिति महन्नाम ( निघ० ३ । ३ । १९) तस्यान्तलोप आर्षः । महत् जगत्कारणमित्यर्थः । तथा पृथिव्याः पतिः पालकः। दाहपाकप्रकाशैर्भूलोकस्थानामुपकारकत्वात् ॥ १२ ॥
त्रयोदशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- विरूप ऋषिः
- निचृद् गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब अगले मन्त्र में अग्नि शब्द से ईश्वर और भौतिक अग्नि का प्रकाश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अयम्) जो यह कार्य कारण से प्रत्यक्ष (ककुत्) सब से बड़ा (मूर्द्धा) सब के ऊपर विराजमान (अग्निः) जगदीश्वर (दिवः) प्रकाशमान सूर्य आदि लोक और (पृथिव्याः) प्रकाशरहित पृथिवी आदि लोकों का (पतिः) पालन करता हुआ (अपाम्) प्राणों के (रेतांसि) वीर्यों की (जिन्वति) रचना को जानता है, उसी को पूज्य मानो ॥१॥ (अयम्) यह अग्नि (ककुत्) सब पदार्थों से बड़ा (दिवः) प्रकाशमान पदार्थों के (मूर्द्धा) ऊपर विराजमान (पृथिव्याः) प्रकाश रहित पृथिवी आदि लोकों के (पतिः) पालन का हेतु होकर (अपाम्) जलों के (रेतांसि) वीर्यों को (जिन्वति) प्राप्त करता है ॥२॥१२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। जो जगदीश्वर प्रकाश वा अप्रकाशरूप दो प्रकार का जगत् अर्थात् प्रकाशवान् सूर्य आदि और प्रकाशरहित पृथिवी आदि लोकों को रच कर पालन करके प्राणों में बल को धारण करता है तथा जो भौतिक अग्नि पृथिवी आदि जगत् के पालन का हेतु होकर बिजुली जाठर आदि रूप से प्राण वा जलों के वीर्यों को उत्पन्न करता है ॥१२॥
दयानन्द-सरस्वती (सं) - विषयः
अथाग्निशब्देनेश्वरभौतिकावुपदिश्येते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्या ! यूयं योऽयं ककुन्मूर्द्धाग्निर्जगदीश्वरो दिवः पृथिव्याश्च पतिः पालकः सन्नपां रेतांसि जिन्वति स्रष्टुं जानाति, तमेव पूज्यं मन्यध्वमित्येकः ॥ योऽयमग्निः ककुद्दिवो मूर्द्धा पृथिव्याश्च पतिः पालनहेतुः सन्नपां रेतांसि जिन्वति, स सुखं प्रापयतीति द्वितीयः ॥१२॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। यो जगदीश्वरः प्रकाशाप्रकाशवद्विविधं जगदर्थात् प्रकाशवत् सूर्यादिकमप्रकाशवत् पृथिव्यादिकं च रचयित्वा पालयित्वा प्राणेषु बलं च दधाति, तथा योऽयमग्निः पृथिव्यादिजगतः पालनहेतुर्भूत्वा विद्युज्जाठरादिरूपः प्राणानां जलानां वीर्याणि जनयति, स एव सुखसाधको भवतीति ॥१२॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. जो जगदीश्वर प्रकाशस्वरूप व प्रकाशहीन असे दोन प्रकारचे जग अर्थात प्रकाशस्वरूप सूर्य व प्रकाशहीन पृथ्वी इत्यादी गोलांची रचना करून त्यांचे पालन करतो व प्राणशक्तीrला धारण करतो तसेच जो भौतिक अग्नी जगाच्या पालनाचे कारण असून विद्युत व जठराग्नी इत्यादी रूपाने प्राण व जल (वीर्य) इत्यादींनाही उत्पन्न करतो. त्याच्यापासूनच सर्व सुख प्राप्त होते.
१३ उभा वामिन्द्राग्नीऽआहुवध्याऽउभा
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒भा वा॑मिन्द्राग्नीऽआहु॒वध्या॑ऽउ॒भा राध॑सः स॒ह मा॑द॒यध्यै॑। उ॒भा दा॒तारा॑वि॒षाँ र॑यी॒णामु॒भा वाज॑स्य सा॒तये॑ हुवे वाम् ॥१३॥
मूलम् ...{Loading}...
उ॒भा वा॑मिन्द्राग्नीऽआहु॒वध्या॑ऽउ॒भा राध॑सः स॒ह मा॑द॒यध्यै॑। उ॒भा दा॒तारा॑वि॒षाँ र॑यी॒णामु॒भा वाज॑स्य सा॒तये॑ हुवे वाम् ॥१३॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उ॒भा। वा॒म्। इ॒न्द्रा॒ग्नी॒ऽइती॑न्द्राग्नी। आ॒हु॒वध्या॒ऽइत्या॑ऽहु॒वध्यै॑। उ॒भा। राध॑सः। स॒ह। मा॒द॒यध्यै॑। उ॒भा। दा॒तारौ॑। इ॒षाम्। र॒यी॒णाम्। उ॒भा। वाज॑स्य। सा॒तये॑। हु॒वे। वा॒म्। १३।
महीधरः
म० भरद्वाजदृष्टा ऐन्द्राग्नी त्रिष्टुप् द्व्यूना ॥ इन्द्रशब्देनात्राहवनीयः । तस्य यज्ञसाधकत्वरूपैश्वर्ययुक्तत्वात् । अग्निशब्देन गार्हपत्यः । अग्रे नीयत इत्यग्निरिति यास्कव्युत्पत्तेः । स हि प्रथममाधीयते । हे इन्द्राग्नी, वां युवामुभौ आहुवध्यै आह्वातुमिच्छामीति शेषः । ह्वयतेस्तुमर्थे कध्यैप्रत्ययः । किंच राधसः धनाद्धविर्लक्षणात् सह मादयध्यै युगपदेककर्मणि उभौ युवां मादयितुं हर्षयितुं वा इच्छामीति शेषः । ‘मदी हर्षे’ इति, ‘मद तृप्तौ’ इति धातोर्वा णिजन्तात्तुमर्थे शध्यैप्रत्ययः। गुणः । यत उभौ युवामिषामन्नानां रयीणां धनानां दातारौ । अत उभौ वां युवां वाजस्यान्नस्य सातये दानाय हुवे आह्वयामि । उभा । उभशब्दस्य विभक्तेराकारः । सातये ‘षणु दाने’ अस्य धातोः ‘ऊतियूति-’ (पा० ३ । ३ । ९७ ) इति क्तिन्नन्तो निपातः । हुवे ‘बहुलं छन्दसि’ (पा० ६।१।३४) इति ह्वयतेः शपि संप्रसारणे उवङ् ॥ १३ ॥
चतुर्दशी।
अधिमन्त्रम् (VC)
- इन्द्राग्नी देवते
- भरद्वाज ऋषिः
- विराट् त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अगले मन्त्र में भौतिक अग्नि और वायु का उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - मैं जो (उभा) दो (दातारौ) सुख देने के हेतु (इन्द्राग्नी) वायु और अग्नि हैं (वाम्) उनको (आहुवध्यै) गुण जानने के लिये (हुवे) ग्रहण करता हूँ (राधसः) उत्तम सुखयुक्त राज्यादि धनों के भोग के (सह) साथ (मादयध्यै) आनन्द के लिये (वाम्) उन (उभा) दोनों को (हुवे) ग्रहण करता हूँ तथा (इषाम्) सब को इष्ट (रयीणाम्) अत्यन्त उत्तम चक्रवर्ति राज्य आदि धन वा (वाजस्य) अत्यन्त उत्तम अन्न के (सातये) अच्छे प्रकार भोग करने के लिये (उभा) उन दोनों को (हुवे) ग्रहण करता हूँ ॥१३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - (इस मन्त्र में श्लेषालङ्कार है।) जो मनुष्य ईश्वर की सृष्टि में अग्नि और वायु के गुणों को जान कर कार्यों में संप्रयुक्त करके अपने-अपने कार्यों को सिद्ध करते हैं, वे सब भूगोल के राज्य आदि धनों को प्राप्त होकर आनन्द करते हैं, इन से भिन्न मनुष्य नहीं ॥१३॥
दयानन्द-सरस्वती (सं) - विषयः
अथेश्वरभौतिकावग्निवायू उपदिश्येते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - अहं यावुभौ दातारौ सुखदानहेतू वर्तेते, ताविन्द्राग्नी आहुवध्यै शब्दयितुं हुवे गृह्णामि राधसो भोगेन सह मादयध्यै मोदयितुमुभौ वां तौ हुव इषां रयीणां वाजस्य च सातय उभौ वां तौ हुवे गृह्णामि ॥१३॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। ये मनुष्या ईश्वरसृष्टौ सुष्ठु किलाग्निवायुगुणान् विदित्वैतौ संप्रयुज्य कार्याणि साधयन्ति, ते सर्वाणि सार्वभौमराज्यादिधनानि प्राप्य नित्यं मोदन्ते नेतर इति ॥१३॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे ईश्वराच्या सृष्टीत अग्नी व वायूच्या गुणांना जाणतात व त्यांना उपयोगात आणून आपापले काम सिद्ध करतात त्यांना सर्व भूगोलाचे राज्य वगैरे धन प्राप्त होते व ती आनंदात राहतात. जी माणसे हे जाणत नाहीत ती हे कार्य सिद्ध करू शकत नाहीत.
१४ अयं ते
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒यं ते॒ योनि॑र्ऋ॒त्वियो॒ यतो॑ जा॒तोऽअरो॑चथाः। तं जा॒नन्न॑ग्न॒ऽआरो॒हाथा॑ नो वर्द्धया र॒यिम् ॥१४॥
मूलम् ...{Loading}...
अ॒यं ते॒ योनि॑र्ऋ॒त्वियो॒ यतो॑ जा॒तोऽअरो॑चथाः। तं जा॒नन्न॑ग्न॒ऽआरो॒हाथा॑ नो वर्द्धया र॒यिम् ॥१४॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒यम्। ते॒। योनिः॑। ऋ॒त्वियः॑। यतः॑। जा॒तः। अरो॑चथाः। तम्। जा॒नन्। अ॒ग्ने॒। आ। रो॒ह॒। अथ॑। नः॒। व॒र्द्ध॒य॒। र॒यिम्। १४।
महीधरः
म० तिस्र आग्नेय्यः । आद्यानुष्टुप् देवश्रवोदेववातदृष्टा । हे अग्ने आहवनीय, ते तवायं गार्हपत्यो योनिः उत्पत्तिस्थानम् । किंभूतः । ऋत्वियः उत्पादनयोग्यः कालः ऋतुरुच्यते । ऋतुः प्राप्तोऽस्येति ऋत्वियः । ‘छन्दसि घस्’ (पा० ५। १ । १०६) इति ऋतुशब्दात्तस्य प्राप्तमित्यर्थे घस् । तस्य इयादेशः । सायंप्रातःकाले उत्पादनयोग्यो योनिः । यतो यस्मादृतुकालोपेताद्गार्हपत्याज्जात उत्पन्नस्त्वमरोचथाः कर्मकाले दीप्तोऽभूः । हे अग्ने, तं गार्हपत्यं जानन् स्वजनकमवगच्छन् आरोह पुनरुद्धरणाय कर्मान्ते प्रविश । अथानन्तरं नोऽस्मदर्थं रयिं धनं वर्धय पुनर्यागाय समृद्धं कुरु । ‘अन्येषामपि दृश्यते’ (पा० ६ । ३ । १३७) इति संहितायां वर्धयेति दीर्घः ॥ १४ ॥
पञ्चदशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- देववातभरतावृषी
- निचृद् अनुष्टुप्
- गान्धारः
१५ अयमिह प्रथमो
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्होता॒ यजि॑ष्ठोऽअध्व॒रेष्वीड्यः॑। यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रं वि॒भ्वं᳖ वि॒शेवि॑शे ॥१५॥
मूलम् ...{Loading}...
अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्होता॒ यजि॑ष्ठोऽअध्व॒रेष्वीड्यः॑। यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रं वि॒भ्वं᳖ वि॒शेवि॑शे ॥१५॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒यम्। इ॒ह। प्र॒थ॒मः। धा॒यि॒। धा॒तृभि॒रिति॑ धा॒तृऽभिः॑। होता॑। यजि॑ष्ठः। अ॒ध्व॒रेषु॑। ईड्यः॑। यम्। अप्न॑वानः। भृग॑वः। वि॒रु॒रु॒चुरिति॑ विऽरुरु॒चुः। वने॑षु। चि॒त्रम्। विभ्व᳙मिति॑ वि॒ऽभ्व॒म्। वि॒शेवि॑श॒ इति॑ वि॒शेऽवि॑शे। १५।
महीधरः
म० जगती वामदेवदृष्टा । द्वादशाक्षराश्चत्वारः पादा जगत्याः । द्वितीयोऽत्र व्यूहेनैकादशः चतुर्थो व्यूहेन द्वादशस्तेनैकोना जगती । अयमाहवनीय इह कर्मानुष्ठानस्थाने प्रथमो मुख्यः सन्धातृभिर्धायि अधायि आधानकर्तृभिराहितोऽभूत् । ‘बहुलं छन्दस्यमाङयोगेऽपि’ (पा० ६ । ४ । ७५) इत्यडभावः । दक्षिणाग्न्यपेक्षं प्राथम्यम् । किंभूतः । होता देवानामाह्वाता । यजिष्ठः अतिशयेन यष्टा । ‘अतिशायने तमबिष्ठनौ’ (पा० ५। ३ । ५५) इतीष्ठनि परे ‘तुरिष्टेमेयःसु’ (पा० ६ । ४ । १५४) इति तृचो लोपः। तथा अध्वरेषु सोमयागादिषु ईड्यः ऋत्विग्भिः स्तुत्यः । अप्नवानो भृगवो विशेविशेयमाहवनीयं वनेषु विरुरुचुः । अन्तर्भूतो णिच् । रोचयामासुः दीपितवन्तः । अप्नशब्दोऽपत्यनामसु पठितः ( निघ० २ । २।७) अप्नवानः पुत्रवन्तो भृगुवंशोत्पन्ना मुनयः । यद्वा अप्नवानृषिः अप्नवानस्तत्प्रभृतयो भृगवश्च मुनयः । विशेविशे विडिति मनुष्यनाम ( निघ० २ । ३ । ५)। यजमानरूपाय तस्मै तस्मै मनुष्याय तदुपकाराय । वनेषु ग्रामाद्बहिर्यजनाख्येष्वरण्यप्रदेशेषु यमग्निं विरुरुचुः दीपयन्ति स्म । किंभूतं यम्। चित्रं विविधकर्मोपयोगित्वेन आश्चर्यकारिणम् । अतएव विभ्वं विभुं विभुत्वशक्तियुतं यणादेशः ॥ १५ ॥
षोडशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वामदेव ऋषिः
- भुरिक् त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह अग्नि कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अप्नवानः) विद्या सन्तान अर्थात विद्या पढ़ाकर विद्वान् कर देनेवाले (भृगवः) यज्ञविद्या के जाननेवाले विद्वान् लोग (इह) इस संसार में (वनेषु) अच्छे प्रकार सेवन करने योग्य (अध्वरेषु) उपासना अग्निहोत्र से लेकर अश्वमेधपर्यन्त और शिल्पविद्यामय यज्ञों में (विशेविशे) प्रजा-प्रजा के प्रति (विभ्वम्) व्याप्त स्वभाव वा (चित्रम्) आश्चर्यगुणवाले (यम्) जिस ईश्वर और अग्नि को (विरुरुचुः) विशेष कर के प्रकाशित करते हैं (अयम्) वही (धातृभिः) यज्ञक्रिया के धारण करनेवाले विद्वान् लोगों को (ईड्यः) खोज करने योग्य (प्रथमः) यज्ञक्रिया का आदि साधन (होता) यज्ञ का ग्रहण करनेवाला (यजिष्ठः) उपासना और शिल्पविद्या का हेतु है, उसका (इह) इस संसार में (धायि) धारण करते हैं ॥१५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। विद्वान् लोग यज्ञ की सिद्धि के लिये मुख्य करके उपास्यदेव और साधन भौतिक अग्नि को ग्रहण करके इस संसार में प्रजा के सुखों को नित्य सिद्ध करें ॥१५॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः सोऽग्निः कीदृशः इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - अप्नवानो भृगवो विद्वांस इह वनेष्वध्वरेषु विशे विशे विभ्वं चित्रं यमग्निं विरुरुचुर्विदीपयन्ति, सोऽयं धातृभिः प्रथम ईड्यो होता यजिष्ठोऽग्निरिह धायि ध्रियते ॥१५॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। विद्वांसो यज्ञक्रियासिद्ध्यर्थमुपास्यसाधनत्वाभ्यामेतमग्निं स्तुत्वा गृहीत्वा वाऽस्यां सृष्टौ प्रजासुखानि निर्वर्तयेयुरिति ॥१५॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. विद्वानांनी यज्ञाच्या सिद्धीसाठी मुख्यत्वे परमेश्वराला उपास्यदेव मानून व साधनरूपाने भौतिक अग्नी वापरून जगातील लोकांना सुखी करावे.
१६ अस्य प्रत्नामनु
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒स्य प्र॒त्नामनु॒ द्युतँ॑ शु॒क्रं दु॑दुह्रे॒ऽअह्र॑यः। पयः॑ सहस्र॒सामृषि॑म् ॥१६॥
मूलम् ...{Loading}...
अ॒स्य प्र॒त्नामनु॒ द्युतँ॑ शु॒क्रं दु॑दुह्रे॒ऽअह्र॑यः। पयः॑ सहस्र॒सामृषि॑म् ॥१६॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒स्य। प्र॒त्नाम्। अनु॑। द्युत॑म्। शु॒क्रम्। दु॒दु॒ह्रे॒। अह्र॑यः। पयः॑। स॒ह॒स्र॒सामिति॑ सहस्र॒ऽसाम्। ऋषि॑म्। १६।
महीधरः
म०. गायत्र्यवत्सारदृष्टा गोऽग्निपयोदेवत्या । अस्याग्नेः प्रत्नां चिरन्तनकालभवां द्युतमनु दीप्तिमनुसृत्य अह्रयः नास्ति ह्रीर्येषामीदृशा लज्जारहिता दोग्धारः ऋषिं गां शुक्रं शुद्धं पयो दुदुह्रे दुदुहिरे । दुहेर्लिटि ‘इरयो रे’ (पा० ६ । ४ । ७६ ) इति रेआदेशे रूपम् । ‘ऋष गतौ’ । अर्षति दोहनस्थाने गच्छतीति ऋषिर्गौः । तां होमार्थ दुग्धवन्तः । सायंदोहनकालेऽग्निप्रकाशाभावे दुह्यमानं पयो भूमौ पतिष्यतीति शङ्कया दोग्धॄणां लज्जा भवति । सत्यामग्निदीप्तौ स्कन्नशङ्कानुदयाल्लज्जाभावादह्रयो दोग्धारः । किंभूतामृषिम् । सहस्रसाम् । ‘षोऽन्तकर्मणि’ । सहस्रसंख्याकानि कर्माणि स्यति समापयति क्षीरदध्याज्यहविःप्रदानेनेति सहस्रसा ताम् । स्यतेः क्विप् । यद्वास्या ऋचोऽर्थान्तरं गांप्रकृत्याग्निहोत्रब्राह्मणे श्रूयते ‘तासु हाग्निरभिदध्यौ मिथुन्येन यास्यामीति ताᳪं᳭ संबभूव तस्याᳪं᳭ रेतः प्रासिञ्चत्तत्पयोऽभवत्’ (२।२। ४ । १५) इत्यादि । तदभिप्रायमेषा ऋग्वदति । अह्रयः गावः नास्ति ह्रीर्लज्जा यासां ता अह्रयः अलज्जाः उज्ज्वलाः प्रशस्या इत्यर्थः । मलिनो हि लज्जते । अह्रयो गावोऽस्याग्नेः प्रत्नां चिरन्तनीमात्मानुषक्तां द्युतं दीप्तिं शुक्रं शुक्ररूपापन्नां द्युतमेव पयो दुग्धं दुदुह्रे | दुहन्ति क्षरन्ति । अग्निना शुक्ररूपेण सिक्तां स्वकान्तिमेव गावो दुग्धरूपेण क्षरन्तीत्यर्थः । सहस्रसामृषिमिति विशेषणद्वयं पयसः । सहस्रं सनोति सहस्रसास्तम् । चातुर्मास्यपशुसोमानां संभक्तारम् । पुंस्त्वमार्षम् । ‘जनसनखनक्रमगमो विट्’ (पा० ३ । २ । ६७ ) इति विट्प्रत्यये ‘विड्वनोरनुनासिकस्यात्’ ( पा० ६ । ४ । ४१ ) इत्याकारे वेर्लोपे सहस्रसा इति रूपम् । तथा ऋषिं द्रष्टारम् । गवि वर्तमानं द्रष्टृत्वं पयस्युपचर्यते। | ‘सा हैनानुदीक्ष्य हिंचकार’ इत्युपक्रम्य ‘ते देवा विदाञ्चक्रुरेष साम्नो हिङ्कारः’ इत्यादिना ग्रन्थेन गोभिर्हिङ्कारो दृष्ट इति प्रत्यपादि । यद्वा सहस्रसामृषिमिति विभक्तिलिङ्गवचनव्यत्ययेन अह्रय इत्यस्य विशेषणद्वयम् । किंभूता अह्रयः । सहस्रसाः ऋषयः । पूर्ववदर्थो वा ॥ १६ ॥
सप्तदशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- अवत्सार ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अह्रयः) सब विद्याओं को व्याप्त करानेवाले विद्वान् लोग (अस्य) इस भौतिक अग्नि की (सहस्रसाम्) असंख्यात कार्यों को देने वा (ऋषिम्) कार्यसिद्धि के प्राप्ति का हेतु (प्रत्नाम्) प्राचीन अनादिस्वरूप से नित्य वर्त्तमान (द्युतम्) कारण में रहनेवाली दीप्ति को जानकर (शुक्रम्) शुद्ध कार्यों को सिद्ध करनेवाले (पयः) जल को (अनु दुदुह्रे) अच्छे प्रकार पूरण करते हैं अर्थात् अग्नि में हवनादि करके वृष्टि से संसार को पूरण करते हैं ॥१६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को जैसे गुणसहित अग्नि का कारणरूप वा अनादिपन से नित्यपन जानना योग्य है, वैसे ही जगत् के अन्य पदार्थों का भी कारणरूप से अनादिपन जानना चाहिये। इनको जानकर कार्यों में उपयुक्त करके सब व्यवहारों की सिद्धि करनी चाहिये ॥१६॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स कीदृश इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - अह्रयो विद्वांसोऽस्याग्नेः सहस्रसामृषिं प्रत्नां द्युतं ज्ञात्वा शुक्रं पयश्चानुदुदुह्रे प्रपूरयन्ति ॥१६॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्यथाग्नेस्स्वगुणसहितस्य कारणरूपेणानादित्वेन नित्यत्वं विज्ञेयमस्ति, तथैवान्येषामपि जगत्स्थानां कार्यद्रव्याणां कारणरूपेणानादित्वं वेदितव्यमम्, एतद्विदित्वैतानग्न्यादीन् पदार्थान् कार्येषूपकृत्य सर्वे व्यवहाराः संसाधनीया इति ॥१६॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी हे जाणून घ्यावे की, अग्नी हा कारणरूप, अनादी व नित्य आहे तसेच जगातील अन्य पदार्थही कारणरूपाने अनादी आहेत हे जाणावे व त्यांना सर्व कार्यात आणि व्यवहारात प्रयुक्त करावे.
१७ तनूपाऽअग्नेऽसि तन्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
त॒नू॒पाऽअ॑ग्नेऽसि त॒न्वं᳖ मे पाह्यायु॑र्दाऽअ॑ग्ने॒ऽस्यायु॑र्मे देहि वर्चो॒दाऽअ॑ग्नेऽसि॒ वर्चो॑ मे देहि। अग्ने॒ यन्मे॑ त॒न्वा᳖ऽऊ॒नं तन्म॒ऽआपृ॑ण ॥१७॥
मूलम् ...{Loading}...
त॒नू॒पाऽअ॑ग्नेऽसि त॒न्वं᳖ मे पाह्यायु॑र्दाऽअ॑ग्ने॒ऽस्यायु॑र्मे देहि वर्चो॒दाऽअ॑ग्नेऽसि॒ वर्चो॑ मे देहि। अग्ने॒ यन्मे॑ त॒न्वा᳖ऽऊ॒नं तन्म॒ऽआपृ॑ण ॥१७॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
त॒नू॒पा इति॑ तनू॒ऽपाः। अ॒ग्ने॒। अ॒सि॒। त॒न्व᳖म्। मे॒। पा॒हि॒। आ॒यु॒र्दा इत्यायुः॒दाः। अ॒ग्ने॒। अ॒सि॒। आयुः॑। मे॒। दे॒हि॒। व॒र्च्चो॒दा इति॑ वर्च्चः॒ऽदाः। अ॒ग्ने॒। अ॒सि॒। वर्च्चः॑। मे॒। दे॒हि॒। अग्ने॑। यत्। मे॒। त॒न्वाः᳖ ऊ॒नम्। तत्। मे॒। आ। पृ॒ण॒। १७।
महीधरः
म० अथ यजूंषि चत्वार्यग्निदेवत्यानि । हे अग्ने, त्वं स्वभावत एव तनूपा असि अग्निहोत्रिशरीराणां पालकोऽसि । तनूं पाति पालयतीति तनूपाः । उदराग्नौ सत्यन्ने जीर्णे शरीरपालनमतो हे अग्ने, मे मम तन्वं शरीरं पाहि पालय । तन्वम् ‘वा छन्दसि’ (पा० ६ । १ । १०) इत्यमि पूर्वरूपाभावे यणादेश इत्युक्तम् । हे अग्ने, त्वमायुर्दा असि आयुषो दाता भवसि । अतो मे ममायुर्देहि अपमृत्युपरिहारेण । यावत्कालं वपुष्युदराग्नेरौष्ण्यमुपलभ्यते तावन्न म्रियत इति प्रसिद्धम् । हे अग्ने, त्वं वर्चोदा असि वर्चसो दातासि । अतो मे वर्चो देहि । वैदिकानुष्ठानप्रयुक्तं तेजो वर्चः । यद्दर्शनादेव महानयं ब्राह्मणो विद्वांस्तपसाग्निरिव ज्वलतीति बुद्धिर्नृणां भवति । किंच हे अग्ने, मे मम तन्वाः मदीयशरीरस्य यदङ्गं चक्षुरादिरूपमूनं दृष्टिपाटवादिरहितं तदङ्गं मे आपृण सर्वतः पूरय ॥ १७ ॥
अष्टादशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- अवत्सार ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब ईश्वर और भौतिक अग्नि क्या करते हैं, इस विषय का उपदेश अगले मन्त्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) जगदीश्वर ! (यत्) जिस कारण आप (तनूपाः) सब मूर्तिमान् पदार्थों के शरीरों की रक्षा करनेवाले (असि) हैं इससे आप (मे) मेरे (तन्वम्) शरीर की (पाहि) रक्षा कीजिये। हे (अग्ने) परमेश्वर ! आप (आयुर्दाः) सब को आयु के देनेवाले (असि) हैं, वैसे (मे) मेरे लिये (आयुः) पूर्ण आयु अर्थात् सौ वर्ष तक जीवन (देहि) दीजिये। हे (अग्ने) सर्वविद्यामय ईश्वर ! जैसे आप (वर्च्चोदाः) सब मनुष्यों को विज्ञान देनेवाले (असि) हैं, वैसे (मे) मेरे लिये भी ठीक-ठीक गुण ज्ञानपूर्वक (वर्च्चः) पूर्ण विद्या को (देहि) दीजिये। हे (अग्ने) सब कामों को पूरण करनेवाले परमेश्वर ! (मे) मेरे (तन्वाः) शरीर में (यत्) जितना (ऊनम्) बुद्धि बल और शौर्य आदि गुण कर्म हैं (तत्) उतना अङ्ग (मे) मेरा (आपृण) अच्छे प्रकार पूरण कीजिये ॥१॥ (अग्ने) यह भौतिक अग्नि (यत्) जैसे (तनूपाः) पदार्थों की रक्षा का हेतु (असि) है, वैसे जाठराग्नि रूप से (मे) मेरे (तन्वम्) शरीर की (पाहि) रक्षा करता है (अग्ने) जैसे ज्ञान का निमित्त यह अग्नि (आयुर्दाः) सब के जीवन का हेतु (असि) है वैसे (मे) मेरे लिये भी (आयुः) जीवन के हेतु क्षुधा आदि गुणों को (देहि) देता है। (अग्ने) यह अग्नि जैसे (वर्च्चोदाः) विज्ञानप्राप्ति का हेतु (असि) है, वैसे (मे) मेरे लिये भी (वर्च्चः) विद्याप्राप्ति के निमित्त बुद्धिबलादि को (देहि) देता है तथा (अग्ने) जो कामना के पूरण करने में हेतु भौतिक अग्नि है, वह (यत्) जितना (मे) मेरे (तन्वाः) शरीर में बुद्धि आदि सामर्थ्य (ऊनम्) कम है (तत्) उतना गुण (आपृण) पूरण करता है ॥२॥१७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। जिस कारण परमेश्वर ने इस संसार में सब प्राणियों के लिये शरीर के आयुनिमित्त विद्या का प्रकाश और सब अङ्गों की पूर्णता रची है, इसी से सब पदार्थ अपने-अपने स्वरूप को धारण करते हैं। इसी प्रकार परमेश्वर की सृष्टि में प्रकाश आदि गुणवान् होने से यह अग्नि भी सब पदार्थों के पालन का मुख्य साधन है ॥१७॥
दयानन्द-सरस्वती (सं) - विषयः
अथैश्वरभौतिकौ किं कुरुत इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने जगदीश्वर ! यद्यस्मात् त्वं तनूपा असि, तत् तस्मान्मे मम तन्वं पाहि। हे अग्ने ! यद्यस्मात् त्वमायुर्दा असि, तत् तस्मान्मे मह्यं पूर्णमायुर्देहि। हे अग्ने ! यद्यस्मात् त्वं वर्च्चोदा असि, तत् तस्मान्मे मह्यं वर्चः पूर्णविद्यां देहि। हे अग्ने ! मे मम तन्वा यद्यावदूनं बुद्धिबलशौर्यादिकमपर्याप्तमस्ति तत् तावदापृण समन्तात् प्रपूरयेत्येकः ॥१॥ अयमग्निर्यद्यस्मात् तनूपा अस्ति, तत् तस्मान्मे मम जाठररूपेण तन्वं पाति। यद्यस्मादयमग्निरायुर्दा आयुर्निमित्तमस्ति, तत् तस्मान्मे मह्यमायुर्ददाति। यद्यस्मादयमग्निर्वर्च्चोदा अस्ति, तत् तस्माद् वर्च्चो दीप्तिं ददाति। अयमग्निर्यद्यावन्मे मम तन्वा ऊनमपर्याप्तं तत् तावत् समन्तात् प्रपूरयतीति द्वितीयः ॥२॥१७॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। परमेश्वरेणास्मिञ्जगति यतः सर्वेभ्यः प्राणिभ्यः शरीरायुर्निमित्तविद्याप्रकाश-सर्वाङ्गपूर्तिर्निर्मिता, तस्मात् सर्वे पदार्थाः स्वस्वरूपं धारयन्ति। तथैवास्य सृष्टौ प्रकाशादिगुणवत्त्वादयमग्निरेतेषां मुख्यः साधकोऽस्तीति सर्वैर्वेदितव्यम् ॥१७॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. ज्या कारणामुळे परमेश्वराने या जगात सर्व प्राण्यांना सर्वांगपूर्ण शरीर व आयुष्य देऊन त्यासंबंधी ज्ञानही दिलेले आहे. त्यामुळेच सर्व पदार्थ आपापले स्वरूप धारण करतात तसेच परमेश्वराने या सृष्टीत प्रकाशस्वरूप अग्नीलाही सर्व पदार्थांचे पालन करण्याचे साधन म्हणून निर्माण केलेले आहे.
१८ इन्धानास्त्वा शतम्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्धाना॑स्त्वा श॒तँ हिमा॑ द्यु॒मन्तँ॒ समि॑धीमहि। वय॑स्वन्तो वय॒स्कृतँ॒ सह॑स्वन्तः सह॒स्कृत॑म्। अग्ने॑ सपत्न॒दम्भ॑न॒मद॑ब्धासो॒ऽअदा॑भ्यम्। चित्रा॑वसो स्व॒स्ति ते॑ पा॒रम॑शीय ॥१८॥
मूलम् ...{Loading}...
इन्धाना॑स्त्वा श॒तँ हिमा॑ द्यु॒मन्तँ॒ समि॑धीमहि। वय॑स्वन्तो वय॒स्कृतँ॒ सह॑स्वन्तः सह॒स्कृत॑म्। अग्ने॑ सपत्न॒दम्भ॑न॒मद॑ब्धासो॒ऽअदा॑भ्यम्। चित्रा॑वसो स्व॒स्ति ते॑ पा॒रम॑शीय ॥१८॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इन्धा॑नाः। त्वा॒। श॒तम्। हिमाः॑। द्यु॒मन्त॒मिति॑ द्यु॒ऽमन्त॑म्। सम्। इ॒धी॒म॒हि॒। वय॑स्वन्तः। व॒य॒स्कृत॑म्। व॒य॒स्कृत॒मिति॑ वयः॒ऽकृत॑म्। सह॑स्वन्तः। स॒ह॒स्कृत॑म्। स॒ह॒स्कृत॒मिति॑ सहः॒ऽकृत॑म्। अग्ने॑। स॒प॒त्न॒दम्भ॑न॒मिति॑ सपत्न॒ऽदम्भ॑नम्। अद॑ब्धासः। अदा॑भ्यम्। चित्रा॑वसो। चि॑त्रवसो॒ऽइति॒ चित्र॑ऽवसो। स्व॒स्ति। ते। पा॒रम्। अ॒शी॒य॒। १८।
महीधरः
म० अग्निदेवत्या महापङ्क्तिः । यस्याः षट् पादा अष्टाक्षराः सा महापङ्क्तिः । अत्र षष्ठः सप्ताक्षरः । हे अग्ने, शतं हिमाः शतं वर्षाणि अस्मदायुषि वर्तमानान् शतं संवत्सरान् त्वां समिधीमहि नैरन्तर्येण वयं दीपयामः । किंभूता वयम् । इन्धानाः त्वदनुग्रहेण दीप्यमानाः । तथा वयस्वन्तः । वय इति अन्ननाम ( निघ० २ । ७।७) अन्नवन्तः । सहस्वन्तः बलवन्तः । सह इति बलनाम (निघ० २ । ९ । १७) । अदब्धासः अदब्धाः अनुपहिंसिताः केनापि । दभ्नोतिर्हिंसाकर्मा । ‘आज्जसेरसुक्’ (पा. ७।१।५० ) इति असुक् । किंभूतं त्वाम् । द्युमन्तं दीप्तिमन्तम् । वयस्कृतं वयोऽन्नं करोतीति वयस्कृत् तम् । सहस्कृतं सहो बलं करोतीति सहस्कृत् तम् । सपत्नदम्भनं सपत्नानां शत्रूणां हिंसितारम् । अदाभ्यम् केनापि हिंसितुमयोग्यम् । चित्रावसो, रात्रिदेवत्यं यजुर्ऋषिदृष्टम् । रात्रिर्वै चित्रावसुः सा हीयᳪं᳭ संगृह्येव चित्राणि वसति’ (२ । ३ । ४ । २२) इति श्रुतेश्चित्रावसुशब्देन रात्रिः । चित्राणि विविधानि चन्द्रनक्षत्रान्धकाररूपाणि वसन्ति यस्यां रात्रौ सा चित्रावसुः । हे चित्रावसो रात्रे, स्वस्ति क्षेमं यथा तथा ते तव पारं समाप्तिमशीय व्याप्नवानि । अश्नोतेः ‘बहुलं छन्दसि’ । (पा० २।४ । ७३ ) इति शपो लुकि लिङ्युत्तमैकवचने रूपम् । यथा लोके मनुष्येषु सुप्तेषु चौरा गृहे प्रविशन्ति तद्वदत्र देवयजने रक्षांसि प्रविशन्तीति शङ्कया तन्निवारणाय रात्रिप्रार्थनम् ॥ १८॥
एकोनविंशी ।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- अवत्सार ऋषिः
- निचृद् ब्राह्मी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी अगले मन्त्र में परमेश्वर और भौतिक अग्नि का प्रकाश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (चित्रावसो) आश्चर्यरूप धनवाले (अग्ने) परमेश्वर ! (अदब्धासः) दम्भ, अहङ्कार और हिंसादि दोषरहित (वयस्वन्तः) प्रशंसनीय पूर्ण अवस्थायुक्त (सहस्वन्तः) अत्यन्त सहन स्वभावसहित (अदाभ्यम्) मानने योग्य (सपत्नदम्भनम्) शत्रुओं के नाश करने (वयस्कृतम्) अवस्था की पूर्ति करने (सहस्कृतम्) सहन करने-कराने तथा (द्युमन्तम्) अनन्त प्रकाशवाले (त्वा) आपका (इन्धानाः) उपदेश और श्रवण करते हुए हम लोग (शतम्) सौ वर्ष तक वा सौ से अधिक (हिमाः) हेमन्त ऋतुयुक्त (समिधीमहि) अच्छे प्रकार प्रकाश करें वा जीवें। इस प्रकार करता हुआ मैं भी जो (ते) आपकी कृपा से सब दुःखों से (पारम्) पार होकर (स्वस्ति) सुख को (अशीय) प्राप्त होऊँ ॥१॥ (अदब्धासः) दम्भ, अहङ्कार, हिंसादि दोषरहित (वयस्वन्तः) पूर्ण अवस्थायुक्त (सहस्वन्तः) अत्यन्त सहन करनेवाले (त्वा) उस (अदाभ्यम्) उपयोग करने योग्य (सपत्नदम्भनम्) आग्नेयादि शस्त्र-अस्त्रविद्या में हेतु होने से शत्रुओं को जिताने (वयस्कृतम्) अवस्था को बढ़ाने (सहस्कृतम्) सहन का हेतु (द्युमन्तम्) अच्छे प्रकार प्रकाशयुक्त (अग्ने) कार्यों को प्राप्त करानेवाले भौतिक अग्नि को (इन्धानाः) प्रज्वलित करते हुए हम लोग (शतम्) सौ वर्ष पर्यन्त (हिमाः) हेमन्त ऋतुयुक्त (समिधीमहि) जीवें। इस प्रकार करता हुआ मैं भी जो यह (चित्रावसो) आश्चर्यरूप धन के प्राप्ति का हेतु अग्नि है (ते) उसके प्रकाश से दारिद्र्य आदि दुःखों से (पारम्) पार होकर (स्वस्ति) अत्यन्त सुख को (अशीय) प्राप्त होऊँ ॥२॥१८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। मनुष्यों को अपने पुरुषार्थ, ईश्वर की उपासना तथा अग्नि आदि पदार्थों से उपकार लेके दुःखों से पृथक् होकर उत्तम-उत्तम सुखों को प्राप्त होकर सौ वर्ष जीना चाहिये अर्थात् क्षण भर भी आलस्य में नहीं रहना, किन्तु जैसे पुरुषार्थ की वृद्धि हो वैसा अनुष्ठान निरन्तर करना चाहिये ॥१८॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तावेवोपदिश्येते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे चित्रावसो अग्ने जगदीश्वरादब्धासो वयस्वन्तः सहस्वन्तोऽदाभ्यं सपत्नदम्भनं वयस्कृतं सहस्कृतं द्युमन्तं त्वामिन्धानाः सन्तो वयं शतं हिमाः समिधीमहि प्रकाशयेम जीवेमैवं कुर्वन्नहमपि यत्ते तव कृपया सर्वदुःखेभ्यः पारं गत्वा स्वस्ति सुखमशीय प्राप्नुयामित्येकः ॥ अदब्धासो वयस्वन्तः सहस्वन्तस्त्वा तमदाभ्यं सपत्नदम्भनं वयस्कृतं सहस्कृतमग्ने अग्निं नित्यमिन्धानाः प्रदीपयन्तो वयं शतं हिमाः शतं वर्षाणि जीवेमैवं कुर्वन्नहमपि योयं चित्रावसो चित्रावसुरग्निस्ते तस्य सकाशाद् दारिद्र्यादिदुःखेभ्यः पारं गत्वा स्वस्ति सुखमशीय प्राप्नुयामिति द्वितीयः ॥१८॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। मनुष्यैः पुरुषार्थेनेश्वरोपासनयाऽग्न्यादिपदार्थेभ्य उपकारकरणेन च सर्वदुःखान्तं गत्वा परं सुखं प्राप्य शतवर्षपर्यन्तं जीवितव्यम्, न च केनाप्येकक्षणमप्यालस्ये स्थातव्यम्। किंतु यथा पुरुषार्थो वर्द्धेत तथैवानुष्ठातव्यमिति ॥१८॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. माणसांनी आपला पुरुषार्थ, ईश्वराची उपासना तसेच अग्नी इत्यादी पदार्थांचा उपयोग करून घेऊन दुःख दूर करावे व उत्तम सुख प्राप्त करून घेऊन शंभर वर्षे जगावे. अर्थात क्षणभरही आळशी राहू नये, पुरुषार्थाची वृद्धीच होईल, असा निरन्तर प्रयत्न करावा.
१९ सं त्वमग्ने
विश्वास-प्रस्तुतिः ...{Loading}...
सं त्वम॑ग्ने॒ सूर्य॑स्य॒ वर्च्च॑सागथाः॒ समृषी॑णाँ स्तु॒तेन॑। सं प्रि॒येण॒ धाम्ना॒ सम॒हमायु॑षा॒ सं वर्च॑सा॒ सं प्र॒जया॒ संँरा॒यस्पोषे॑ण ग्मिषीय ॥१९॥
मूलम् ...{Loading}...
सं त्वम॑ग्ने॒ सूर्य॑स्य॒ वर्च्च॑सागथाः॒ समृषी॑णाँ स्तु॒तेन॑। सं प्रि॒येण॒ धाम्ना॒ सम॒हमायु॑षा॒ सं वर्च॑सा॒ सं प्र॒जया॒ संँरा॒यस्पोषे॑ण ग्मिषीय ॥१९॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सम्। त्वम्। अ॒ग्ने॒। सूर्य्य॑स्य। वर्च॑सा। अ॒ग॒थाः॒। सम्। ऋषी॑णाम्। स्तु॒तेन॑। सम्। प्रि॒येण॑। धाम्ना॑। सम्। अ॒हम्। आयु॑षा। सम्। वर्च॑सा। सम्। प्र॒जयेति॑ प्र॒ऽजया॑। सम्। रा॒यः। पोषे॑ण। ग्मि॒षी॒य॒। १९।
महीधरः
म० ‘सं त्वमित्युपविश्येति’ (का० ४ । १२ । ४)। उपप्रयन्त इत्यादिभिश्चित्रावसो इत्यन्तैर्मन्त्रैरुत्थानमत्र उपविश्येति विशेषः । हे अग्ने, त्वं सूर्यस्य वर्चसा तेजसा समगथाः रात्रौ सङ्गतोऽसि । ‘तद्यदस्तं यन्नादित्य आहवनीयं प्रविशति तेनैतदाह’ (२।३ । ४ । २४ ) इति श्रुतेः। ऋषीणां मन्त्राणां स्तुतेन स्तोत्रेण समगथाः । बहवो मन्त्रा अग्निं स्तुवन्ति । ‘तद्यदुपतिष्ठते तेनैतदाह’ (२ । ३ । ४ । २४) इति श्रुतेः । प्रियेण धाम्ना प्रियाभिराहुतिभिः समगथाः । ‘आहुतयो वा अस्य प्रियं धाम’ (२।३ । ४ । २४) इति श्रुतेः । यथा त्वमेतैस्त्रिभिः सङ्गतः एवमहमपि त्वत्प्रसादादायुषा अपमृत्युदोषरहितेन संग्मिषीय सङ्गतो भूयासम् । तथा वर्चसा विद्यैश्वर्यादिप्रयुक्ततेजसा संग्मिषीय । यथा प्रजया पुत्रादिकया संग्मिषीय, तथा रायस्पोषेण धनस्य पुष्ट्या संग्मिषीय । आयुरादीनि मम सन्त्वित्यर्थः । समगथाः गमेः ‘समो गम्यृच्छ’ (पा० १।३ । २९) इत्यादिना तङ्मध्यमैकवचने लुङि सिचि ‘गमश्च’ (पा० १।२ । १३ ) इंति सिचः कित्त्वे ‘अनुदात्तोपदेश-’ (पा० ६ । ४ । ३७) इत्यादिना मलोपे ‘ह्रस्वादङ्गात्’ (पा० ८ । २ । २७ ) इति सिचो लोपे रूपम् । ग्मिषीय । गमेराशीर्लिङि उत्तमैकवचने ‘इटोऽत्’ (पा० ३। ४ । १०६) इत्यकारे परे सीयुटि कृते छान्दसे इडागमे ‘गमहन-’ (पा० ६ । ४ । ९८ ) इत्युपधालोपे रूपम् ॥ १९॥
विंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- अवत्सार ऋषिः
- जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी परमेश्वर और अग्नि कैसे हैं, सो अगले मन्त्र में प्रकाशित किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) जगदीश्वर ! जो आप (सूर्यस्य) सब के अन्तर्गत प्राण वा (ऋषीणाम्) वेदमन्त्रों के अर्थों को देखनेवाले विद्वानों की जिस (संस्तुतेन) स्तुति करने (संप्रियेण) प्रसन्नता से मानने (संवर्चसा) विद्याध्ययन और प्रकाश करने (धाम्ना) स्थान (समायुषा) उत्तम जीवन (संप्रजया) सन्तान वा राज्य और (रायस्पोषेण) उत्तम धनों के भोग पुष्टि के साथ (समगथाः) प्राप्त होते हैं। उसी के साथ (अहम्) मैं भी सब सुखों को (संग्मिषीय) प्राप्त होऊँ ॥१॥१९॥ जो (अग्ने) भौतिक अग्नि पूर्व कहे हुए सबों के (समगथाः) सङ्गत होकर प्रकाश को प्राप्त होता है, उस सिद्ध किये हुए अग्नि के साथ (अहम्) मैं व्यवहार के सब सुखों को (संग्मिषीय) प्राप्त होऊँ ॥२॥१९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। मनुष्य लोग ईश्वर की आज्ञा का पालन, अपना पुरुषार्थ और अग्नि आदि पदार्थों के संप्रयोग से इन सब सुखों को प्राप्त होते हैं ॥१९॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तौ कीदृशावित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने जगदीश्वर ! यस्त्वं सूर्यस्य प्राणस्यर्षीणां येन संस्तुतेन संप्रियेण संवर्चसा धाम्ना समायुषा संप्रजया संरायस्पोषेण सह समगथास्तेनैवाहमपि सर्वाणि सुखानि संग्मिषीय सम्यक् प्राप्नुयामित्येकः ॥ योऽग्निः सूर्यस्य प्रत्यक्षस्य सवितृमण्डलस्यर्षीणां संस्तुतेन संप्रियेण संवर्चसा धाम्ना समायुषा संप्रजया संरायस्पोषेण समगथाः सङ्गतो भूत्वा राजते, तेन संसाधितेनाहं सर्वाणि व्यवहारसुखानि संग्मिषीय सम्यक् प्राप्नुयामिति द्वितीयः ॥१९॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। मनुष्या ईश्वरस्याज्ञापालनेन सम्यक् पुरुषार्थेनाग्न्यादिपदार्थानां संप्रयोगेणैतत् सर्वं सुखं प्राप्नुवन्तीति ॥१९॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. माणसे ईश्वराच्या आज्ञेचे पालन, आपला पुरुषार्थ व अग्नी इत्यादी पदार्थांचा उपयोग करून सर्व सुख प्राप्त करतात.
२० अन्ध स्थान्धो
विश्वास-प्रस्तुतिः ...{Loading}...
अन्ध॒ स्थान्धो॑ वो भक्षीय॒ मह॑ स्थ॒ महो॑ वो भक्षी॒योर्ज॒ स्थोर्जं॑ वो भक्षीय रा॒यस्पोष॑ स्थ रा॒यस्पोषं॑ वो भक्षीय ॥२०॥
मूलम् ...{Loading}...
अन्ध॒ स्थान्धो॑ वो भक्षीय॒ मह॑ स्थ॒ महो॑ वो भक्षी॒योर्ज॒ स्थोर्जं॑ वो भक्षीय रा॒यस्पोष॑ स्थ रा॒यस्पोषं॑ वो भक्षीय ॥२०॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अन्धः॑। स्थ॒। अन्धः॑। वः॒। भ॒क्षी॒य॒। महः॑। स्थ॒। महः॑। वः॒। भ॒क्षी॒य॒। ऊ॒र्जः॑। स्थ॒। ऊर्ज्ज॑म्। वः॒। भ॒क्षी॒य॒। रा॒यः। पोषः॑। स्थ॒। रा॒यः। पोष॑म्। वः॒। भ॒क्षी॒य॒। २०।
महीधरः
म०. ‘गां गच्छत्यन्धस्थेति’ । (का० ४ । १२ । ५) अन्धस्थ रेवती रमध्वमिति यजुर्द्वयेन गां गच्छति । गौर्दैवता । हे गावः, यूयमन्धस्थ अन्नरूपाः स्थ । क्षीराज्यादिरूपस्यान्नस्य जनकत्वादन्नत्वोपचारः । अतो भवत्प्रसादाद्वो युष्मत्संबन्धि अन्धः क्षीराज्यादिरूपमन्नमहं भक्षीय सेवेय । ‘भज सेवायाम्’ - इत्यस्याशीर्लिङयुत्तमैकवचने रूपम् । तथा यूयं महस्थ पूज्यरूपाः स्थ । ‘मह पूजायाम्’ । अतो वो युष्माकं पूज्यानां प्रसादादहमपि महो भक्षीय पूज्यत्वं सेवेय । गौर्न पदा स्प्रष्टव्येत्यादिस्मृतेर्गवां पूज्यत्वप्रसिद्धिः । यद्वा महःशब्देन दश वीर्याण्युच्यन्ते । तानि यथा ‘गौर्वै प्रतिधुक् तस्यै शृतं तस्यै शरस्तस्यै दधि तस्यै मस्तु तस्या आतञ्चनं तस्यै नवनीतं तस्यै घृतं तस्या आमिक्षा तस्यै वाजिनम्’ इति श्रुत्युक्तानि । प्रतिधुक् तत्कालदुग्धम् । शृतमुष्णं तत् । शरो दुग्धमण्डः । मस्तु दधिरसः । आतञ्चनं दधिपिण्डः । आमिक्षा स्फुटितं दुग्धम् । वाजिनमामिक्षाजलमिति श्रुत्यर्थः । एतद्दशवीर्यरूपा यूयं स्थ । अतो वो महो वीर्यमहं सेवेयेत्यर्थः । तथा यूयमूर्जस्थ बलरूपाः स्थ । गोक्षीरादेर्बलहेतुत्वात् बलरूपत्वोपचारः । ‘ऊर्ज बलप्राणनयोः’ । वो युष्माकं प्रसादादूर्जं भक्षीय बलं सेवेय । तथा रायस्पोषस्थ धनपुष्टिरूपाः स्थ । वैश्या हि क्षीराज्यादिक्रयेण धनं पुष्णन्ति अतो धनपुष्टित्वोपचारः । वो युष्माकं प्रसादाद्रायस्पोषं धनपुष्टिं भक्षीय सेवेय । अन्ध स्थेत्यादौ ‘खर्परे शरि’ (पा० ८।३ । ३६ । वा १ ) विसर्गलोपः ॥ २० ॥
एकविंशी।
अधिमन्त्रम् (VC)
- आपो देवता
- याज्ञवल्क्यः
- भुरिग् बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
अब अगले मन्त्र में यज्ञ से शुद्ध किये ओषधी आदि पदार्थों का उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (अन्धः) बलवान् वृक्ष वा ओषधि आदि पदार्थ (स्थ) हैं (वः) उनके प्रकाश से मैं (अन्धः) वीर्य को पुष्ट करनेवाले अन्नों को (भक्षीय) ग्रहण करूँ। जो (महः) बड़े-बड़े वायु अग्नि आदि वा विद्या आदि पदार्थ (स्थ) हैं (वः) उनसे मैं (महः) बड़ी-बड़ी क्रियाओं को सिद्धि करनेवाले कर्मों का (भक्षीय) सेवन करूँ। जो (ऊर्जः) जल, दूध, घी, मिष्ट वा फल आदि रसवाले पदार्थ (स्थ) हैं (वः) उनसे मैं (ऊर्जम्) पराक्रमयुक्त रस का (भक्षीय) भोग करूँ और जो (रायस्पोषः) अनेक गुणयुक्त पदार्थ (स्थ) हैं (वः) उन चक्रवर्तिराज्य और श्री आदि पदार्थों के मैं (रायस्पोषम्) उत्तम-उत्तम धनों के भोग का (भक्षीय) सेवन करूँ ॥२०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को जगत् के पदार्थों के गुणज्ञानपूर्वक क्रिया की कुशलता से उपकार को ग्रहण करके सब सुखों का भोग करना चाहिये ॥२०॥
दयानन्द-सरस्वती (सं) - विषयः
अथ यज्ञेन कृतशुद्धय ओषध्यादयः पदार्था उपदिश्यन्ते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - येऽन्धः स्थान्धो वीर्यवन्तो वृक्षौषध्यादयः पदार्थाः सन्ति, वस्तेषां सकाशादहमन्धोवीर्यकराण्यन्नानि भक्षीय स्वीकुर्य्याम्। ये महः स्थ महो महान्तो वाय्वग्न्यादयो विद्यादयो वा सन्ति, वस्तेषां सकाशान्महांसि क्रियासिद्धिकराण्यहं भक्षीय। य ऊर्ज्जः स्थोर्ज्जोः रसवन्तो जलदुग्धघृतमधुफलादयः सन्ति, वस्तेषां सकाशादूर्जं रसमहं भक्षीय भुञ्जीय। ये रायस्पोषः स्थ रायस्पोषो बहुगुणसमूहयुक्ताः पदार्थाः सन्ति, वस्तेषां सकाशादहं रायस्पोषं बहुशुभगुणैः पोषं भक्षीय सेवेय ॥२०॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्जगत्स्थानां पदार्थानां गुणज्ञानपुरःसरं क्रियाकौशलेनोपकारं सङ्गृह्य सर्वं सुखं भोक्तव्यमिति ॥२०॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी जगातील पदार्थांचे गुण ज्ञानपूर्वक जाणून कार्य करताना त्यांचा कुशलतेने उपयोग केला पाहिजे व सर्व सुख भोगले पाहिजे.
२१ रेवती रमध्वमस्मिन्
विश्वास-प्रस्तुतिः ...{Loading}...
रेव॑ती॒ रम॑ध्वम॒स्मिन् योना॑व॒स्मिन् गो॒ष्ठे᳙ऽस्मिल्ँ लो॒के᳙ऽस्मिन् क्षये॑। इ॒हैव स्त॒ माप॑गात ॥२१॥
मूलम् ...{Loading}...
रेव॑ती॒ रम॑ध्वम॒स्मिन् योना॑व॒स्मिन् गो॒ष्ठे᳙ऽस्मिल्ँ लो॒के᳙ऽस्मिन् क्षये॑। इ॒हैव स्त॒ माप॑गात ॥२१॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
रेव॑तीः। रम॑ध्वम्। अ॒स्मिन्। योनौ॑। अ॒स्मिन्। गो॒ष्ठे। गो॒स्थ इति॑ गो॒ऽस्थे॑। अ॒स्मिन्। लो॒के। अ॒स्मिन्। क्षये॑। इ॒ह। ए॒व। स्त॒। मा। अप॑। गा॒त॒। २१।
महीधरः
म० हे रेवतीः रेवत्यः धनवत्यो गावः, धनहेतुत्वेन धनवत्त्वं गवाम् । रयिर्विद्यते यासां ता रेवत्यः । रयिशब्दात् मतुप् । ‘रयेर्मतो बहुलम्’ (पा० ६ । १ । ३७ वा० ४) इति रयेर्मतौ परे संप्रसारणम् । ‘संप्रसारणाच्च’ (पा० ६। १।१०८ ) इति पररूपम् । ‘आद्गुणः’ (पा० ६ । १ । ८७)। ‘पशवो वै रेवन्तः’ (२ । ३ । ४ । २६) इति श्रुतेः । हे रेवत्यः, अस्मिन्योनौ दृश्यमानेऽग्निहोत्रहविर्दोहनस्थाने यूयं रमध्वं क्रीडत दोहनादूर्ध्वमस्मिन् गोष्ठे यजमानसंबन्धिगोवाटे रमध्वम् । गोष्ठशब्देन गृहाद्बहिर्विश्रम्भेण संचारप्रदेशः । सर्वदास्मिन् लोके ‘लोकृ दर्शने’ यजमानदृष्टिविषये रमध्वम् । रात्रौ अस्मिन् क्षये यजमानगृहे रमध्वम् । ‘क्षयो निवासे’ (पा. ६ । १ । २०१) इत्याद्युदात्तः । क्षयशब्दो निवासवाची । किंच । इहैव स्त यजमानगृहे एव भवत । मा अपगात अन्यत्र मा गच्छत । ‘इणो गा लुङि’ (पा० २ । ४ । ४५) इति एतेर्लुङि गादेशे रूपम् ॥ २१ ॥
द्वाविंशी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- याज्ञवल्क्यः
- उष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
अब विद्वानों के सत्कार के लिये उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (रेवतीः) विद्या, धन, इन्द्रिय, पशु और पृथिवी के राज्य आदि से युक्त श्रेष्ठ नीति (स्त) हैं वे (अस्मिन्) इस (योनौ) जन्मस्थल (अस्मिन् गोष्ठे) इन्द्रिय वा पशु आदि के रहने के स्थान (अस्मिल्ँ लोके) संसार वा (अस्मिन् क्षये) अपने रचे हुए घरों में (रमध्वम्) रमण करें, ऐसी इच्छा करते हुए तुम लोग (इहैव) इन्हीं में प्रवृत्त होओ अर्थात् (मापगात) इनसे दूर कभी मत जाओ ॥२१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जहाँ विद्वान् लोग निवास करते हैं, वहाँ प्रजा विद्या, उत्तम शिक्षा और धनवाली होकर निरन्तर सुखों से युक्त होती है। इससे मनुष्यों को ऐसी इच्छा करनी चाहिये कि हमारा और विद्वानों का नित्य समागम बना रहे अर्थात् कभी हम लोग विरोध से पृथक् न होवें ॥२१॥
दयानन्द-सरस्वती (सं) - विषयः
अथ विदुषां सत्कारायोपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! प्रशस्ता नीत्यादयो रेवती रेवत्यस्ता अस्मिन् योनावस्मिन् गोष्ठेऽस्मिन् लोकेऽस्मिन् क्षये रमध्वं रमन्तामितीच्छन्तो भवन्त इहैतेष्वेव नित्यं प्रवर्तन्ताम्, किन्त्वेतेभ्यो मापगात कदाचिद् दूरं मा गच्छन्तु ॥२१॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यत्र विद्वांसो निवसन्ति तत्र विद्यादीनां गुणानां निवासात् प्रजा विद्यासुशिक्षाधनवत्यो भूत्वा नित्यं सुखेन सह युञ्जते। तस्मात् सर्वैरेवमिच्छा कार्याऽस्माकं सङ्गसमीपाद् विद्वांसो विदुषां समीपाच्च वयं कदाचिद् दूरे मा भवेमेति ॥२१॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जेथे विद्वानांचा निवास असतो. तेथील प्रजा ज्ञान व उत्तम शिक्षण ग्रहण करते व श्रीमंत होते आणि सुखी बनते त्यामुळै माणसांनी ही इच्छा बाळगली पाहिजे. की आपण सतत विद्वानांच्या सान्निध्यात असावे, त्यांच्यापासून दूर जाता कामा नये.
२२ संहितासि विश्वरूप्यूर्जा
विश्वास-प्रस्तुतिः ...{Loading}...
सँ॒हि॒तासि॑ विश्वरू॒प्यू᳙र्जा मावि॑श गौप॒त्येन॑। उप॑ त्वाग्ने दि॒वेदि॑वे॒ दोषा॑वस्तर्धि॒या व॒यम्। नमो॒ भर॑न्त॒ऽएम॑सि ॥२२॥
मूलम् ...{Loading}...
सँ॒हि॒तासि॑ विश्वरू॒प्यू᳙र्जा मावि॑श गौप॒त्येन॑। उप॑ त्वाग्ने दि॒वेदि॑वे॒ दोषा॑वस्तर्धि॒या व॒यम्। नमो॒ भर॑न्त॒ऽएम॑सि ॥२२॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सँ॒हि॒तेति॑ सम्ऽहि॒ता। अ॒सि॒। वि॒श्व॒रू॒पीति॑ विश्वऽरू॒पी। ऊ॒र्जा। मा॒। आ। वि॒श॒। गौ॒प॒त्येन॑। उप॑। त्वा॒। अ॒ग्ने॒। दि॒वेदि॑व॒ इति॑ दि॒वेदि॑वे। दो॑षावस्त॒रिति॒ दोषा॑ऽवस्तः। धि॒या। व॒यम्। नमः॑। भर॑न्तः। आ। इ॒म॒सि॒। २२।
महीधरः
म० सᳪं᳭हितेत्यालभते’ ( का० ४ । १२ । ६ ) इति । गामित्यनुवर्तते । हे गौः, त्वं संहितासि क्षीराज्यरूपहविर्दानाय यज्ञकर्मभिः संयुक्तासि । किंभूता । विश्वरूपी विश्वं रूपं यस्याः सा । शुक्लकृष्णादिबहुरूपैर्युक्ता । सा त्वमूर्जा क्षीरादिरसेन गौपत्येन गोस्वामित्वेन मामाविश सर्वतः प्रविश । त्वत्प्रसादान्मम बहुविधो रसो बहुविधं गोस्वामित्वं च संपद्यतामित्यर्थः । ‘गार्हपत्यं गत्वोपतिष्ठत उप त्वेतीति’ (का० ४ । १२ । ७)। उप त्वा । तिस्रो गायत्र्य आग्नेय्यो मधुच्छन्दोदृष्टाः । हे दोषावस्तः हे अग्ने, दोषा रात्रिस्तस्यामपि वसति अजस्रं धार्यमाणत्वान्नोपशाम्यतीति दोषावस्ता । यद्वा अग्नौ हे देवाः, इत्युपक्रम्य तैः संगृह्य रात्रिं प्रविवेशेतीतिहासेन अग्ने रात्रौ प्रवेश उक्तस्तमयं मन्त्र आह । हे दोषावस्तः रात्रौ वसनशील गार्हपत्य, दिवेदिवे प्रतिदिनं वयं यजमानाः त्वा त्वामुप एमसि त्वां प्रत्यागच्छामः । ‘इदन्तो मसि’ । किंभूता वयम् । धिया श्रद्धायुक्तया वुद्ध्या नमोभरन्तः नमस्कारं संपादयन्तः । यद्वा नम इत्यन्ननाम ( निघ० २। ७ । २१)। अन्नं हविर्बिभ्रतः ॥ २२ ॥
त्रयोविंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वैश्वामित्रो मधुच्छन्दा ऋषिः
- भूरिग् आसुरी गायत्री, गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब अगले मन्त्र में अग्निशब्द से बिजुली के कर्मों का उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (नमः) अन्न को (भरन्तः) धारण करते हुए हम लोग (धिया) अपनी बुद्धि वा कर्म से जो (अग्ने) अग्नि बिजुली रूप से सब पदार्थों के (संहिता) साथ (ऊर्जा) वेग वा पराक्रम आदि गुणयुक्त (विश्वरूपी) सब पदार्थों में रूपगुणयुक्त (गौपत्येन) इन्द्रिय वा पशुओं के पालन करनेवाले जीव के साथ वर्त्तमान से (मा) मुझ में (आविश) प्रवेश करता है (त्वा) उस (दोषावस्तः) रात्रि को अपने तेज से दूर करनेवाले (अग्ने) विद्युद्रूप अग्नि को (दिवेदिवे) ज्ञान के प्रकाश होने के लिये प्रतिदिन (उपैमसि) समीप प्राप्त करते हैं ॥२२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को ऐसा जानना चाहिये कि जिस ईश्वर ने सब जगह मूर्त्तिमान् द्रव्यों में बिजुलीरूप से परिपूर्ण सब रूपों का प्रकाश करने, चेष्टा आदि व्यवहारों का हेतु विचित्र गुणवाला अग्नि रचा है, उसी की उपासना नित्य करनी चाहिये ॥२२॥
दयानन्द-सरस्वती (सं) - विषयः
अथाग्निशब्देन विद्युत्कर्माण्युपदिश्यन्ते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - नमोऽन्नं भरन्त सन्तो वयं धिया योऽग्निर्विद्युद्रूपेण सर्वेषु पदार्थेषु संहितोर्जा विश्वरूपी गौपत्येन मा मां विश प्रविशति त्वाग्ने तं दोषावस्तारमग्निं दिवे दिवे प्रतिदिनमुपैमसि ॥२२॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैरित्थं वेदितव्यं येनेश्वरेण सर्वत्र मूर्त्तद्रव्येषु विद्युद्रूपो व्याप्तः सर्वरूपप्रकाशश्चेष्टादिव्यवहार- हेतुविचित्रगुणोऽग्निर्निर्मितस्तस्यैवोपासनं नित्यं कार्यमिति ॥२२॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी हे जाणले पाहिजे की, ज्या ईश्वराने मूर्तिमान पदार्थात सर्वत्र विद्युतरूपाने असणारा व सर्व रूप प्रकाशित करण्याचे कारण असणारा अग्नी निर्माण केलेला आहे. त्याचीच (परमेश्वराची) सदैव उपासना केली पाहिजे.
२३ राजन्तमध्वराणां गोपामृतस्य
विश्वास-प्रस्तुतिः ...{Loading}...
राज॑न्तमध्व॒राणां॑ गो॒पामृ॒तस्य॒ दीदि॑विम्। वर्द्ध॑मानँ॒ स्वे दमे॑ ॥२३॥
मूलम् ...{Loading}...
राज॑न्तमध्व॒राणां॑ गो॒पामृ॒तस्य॒ दीदि॑विम्। वर्द्ध॑मानँ॒ स्वे दमे॑ ॥२३॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
राज॑न्तम्। अ॒ध्व॒राणा॑म्। गो॒पाम्। ऋ॒तस्य॑। दीदि॑विम्। वर्ध॑मानम्। स्वे। दमे॑। २३।
महीधरः
म० क्रियापदमनुवर्तते । वयमीदृशमग्निमुपैमः । कीदृशम् । | राजन्तं दीप्यमानमध्वराणां गोपां गोपायतीति गोपास्तं यज्ञानां गोप्तारम् । ऋतस्य सत्यवचनलक्षणस्य व्रतस्य दीदिविं दीपयितारम् । अग्निसमीपे व्रतं गृहीत्वा सत्यं वदतीत्याशयः । स्वे दमे अस्मदीये गृहे वर्धमानं चातुर्मास्यसोमपश्वादिभिरभिवृद्धिं गच्छन्तम् । दाम्यन्ति गृहस्था यत्रेति दमो गृहम् । : दिवेः किप्रत्ययो बाहुलकात् । लिड्वद्भावात् द्वित्वम् । ‘तुजादीनां दीर्घोऽभ्यासस्य’ (पा०६।१।७) इत्यभ्यासदीर्घः । देवयतीति दीदिविः ॥ २३ ॥
चतुर्विंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वैश्वामित्रो मधुच्छन्दा ऋषिः
- विराड् गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर ईश्वर और अग्नि के गुणों का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (नमः) अन्न से सत्कारपूर्वक (भरन्तः) धारण करते हुए हम लोग (धिया) बुद्धि वा कर्म से (अध्वराणाम्) अग्निहोत्र से लेकर अश्वमेधपर्यन्त यज्ञ वा (गोपाम्) इन्द्रिय पृथिव्यादि की रक्षा करने (राजन्तम्) प्रकाशमान (ऋतस्य) अनादि सत्यस्वरूप कारण के (दीदिविम्) व्यवहार को करने वा (स्वे) अपने (दमे) मोक्षरूप स्थान में (वर्धमानम्) वृद्धि को प्राप्त होनेवाले परमात्मा को (उपैमसि) नित्य प्राप्त होते हैं ॥१॥२३॥ जिस परमात्मा ने (अध्वराणाम्) शिल्पविद्यासाध्य यज्ञ वा (गोपाम्) पश्वादि की रक्षा करने[वाला, (राजन्तम्) प्रकाशमान] (ऋतस्य) जल के (दीदिविम्) व्यवहार को प्रकाश करनेवाला (स्वे) अपने (दमे) शान्तस्वरूप में (वर्धमानम्) वृद्धि को प्राप्त होता हुआ अग्नि प्रकाशित किया है, उसको (नमः) सत्क्रिया से (भरन्तः) धारण करते हुए हम लोग (धिया) बुद्धि और कर्म से (उपैमसि) नित्य प्राप्त होते हैं ॥२॥२३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है और नमः, भरन्तः, धिया, उप, आ, इमसि, इन छः पदों की अनुवृत्ति पूर्वमन्त्र से जाननी चाहिये। परमेश्वर आदि रहित सत्यकारणरूप से सम्पूर्ण कार्यों को रचता और भौतिक अग्नि जल की प्राप्ति के द्वारा सब व्यवहारों को सिद्ध करता है, ऐसा मनुष्यों को जानना चाहिये ॥२३॥
दयानन्द-सरस्वती (सं) - विषयः
पुनरीश्वराग्निगुणा उपदिश्यन्ते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - नमो भरन्तो वयं धियाऽध्वराणां गोपां राजन्तमृतस्य दीदिविं स्वे दमे वर्धमानं जगदीश्वरमुपैमसि नित्यमुपाप्नुम इत्येकः ॥२३॥ येन परमात्मनाऽध्वराणां गोपा राजन्नृतस्य दीदिविः स्वे दमे वर्धमानोऽग्निः प्रकाशितोऽस्ति, तं नमो भरन्तो वयं धियोपैमसि नित्यमुपाप्नुम इति द्वितीयः ॥२३॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। नमः, भरन्तः, धिया, उप, आ, इमानि, इत्येतेषां षण्णां पदानां पूर्वस्मान्मन्त्रादनुवृत्तिर्विज्ञेया। परमेश्वरोऽनादिस्वरूपस्य कारणस्य सकाशात् सर्वाणि कार्याणि रचयति भौतिकोऽग्निश्च जलस्य प्रापणेन सर्वान् व्यवहारान् साधयतीति वेद्यम् ॥२३॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. नमः भरन्तः, धिया, उप, आ, इमसि या सहा पदांची अनुवृत्ती पूर्वीच्या मंत्रातून जाणली पाहिजे. परमेश्वर अनादी सत्य कारणाद्वारे संपूर्ण जगाची रचना करतो व भौतिक अग्नी जलाच्या माध्यमाने सर्व व्यवहार सिद्ध करतो हे माणसांनी जाणले पाहिजे.
२४ स नः
विश्वास-प्रस्तुतिः ...{Loading}...
स नः॑ पि॒तेव॑ सू॒नवेऽग्ने॑ सूपाय॒नो भ॑व। सच॑स्वा नः स्व॒स्तये॑ ॥२४॥
मूलम् ...{Loading}...
स नः॑ पि॒तेव॑ सू॒नवेऽग्ने॑ सूपाय॒नो भ॑व। सच॑स्वा नः स्व॒स्तये॑ ॥२४॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सः। नः॒। पि॒तेवेति॑ पि॒ताऽइ॑व। सू॒नवे॑। अग्ने॑। सू॒पा॒य॒न इति॑ सुऽउ॒पा॒य॒नः। भ॒व॒। सच॑स्व। नः॒। स्व॒स्तये॑। २४।
महीधरः
म० हे अग्ने गार्हपत्य, स पूर्वोक्तगुणयुक्तस्त्वं नोऽस्माकं | सूपायनो भव । सुखेनोपैतुं शक्यः सूपायनः । सुष्ठूपप्राप्तुं | शक्यो भव । तत्र दृष्टान्तः । सूनवे पितेव यथा पुत्राय पिता भयं विना सुखेन प्राप्तुं शक्यः । किंच नोऽस्माकं स्वस्तये क्षेमाय सचस्व अनेन कर्मणा समवेतो भव । ‘षच समवाये’ इति धातुः । यद्वा सचस्व सेवस्व । ‘षच सेवने’ ॥ २४ ॥
पञ्चविंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वैश्वामित्रो मधुच्छन्दा ऋषिः
- विराड् गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब अगले मन्त्र में ईश्वर ही का उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) जगदीश्वर ! जो आप कृपा करके जैसे (सूनवे) अपने पुत्र के लिये (पितेव) पिता अच्छे-अच्छे गुणों को सिखलाता है, वैसे (नः) हमारे लिये (सूपायनः) श्रेष्ठ ज्ञान के देनेवाले (भव) हैं, वैसे (सः) सो आप (नः) हम लोगों को (स्वस्तये) सुख के लिये निरन्तर (सचस्व) संयुक्त कीजिये ॥२४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। हे सब के पालन करनेवाले परमेश्वर ! जैसे कृपा करनेवाला कोई विद्वान् मनुष्य अपने पुत्रों की रक्षा कर श्रेष्ठ-श्रेष्ठ शिक्षा देकर विद्या, धर्म अच्छे-अच्छे स्वभाव और सत्य विद्या आदि गुणों में संयुक्त करता है, वैसे ही आप हम लोगों की निरन्तर रक्षा करके श्रेष्ठ-श्रेष्ठ व्यवहारों में संयुक्त कीजिये ॥२४॥
दयानन्द-सरस्वती (सं) - विषयः
अथाग्रिमेण मन्त्रेणेश्वर एवोपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने जगदीश्वर ! यस्त्वं कृपया सूनवे पितेव नोऽस्मभ्यं सूपायनो भवसि, स त्वं नोऽस्मान् स्वस्तये सततं सचस्व संयोजय ॥२४॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। हे सर्वपितरीश्वर ! यथा कृपायमाणो विद्वान् पिता स्वसन्तानान् संरक्ष्य सुशिक्ष्य च विद्याधर्मसुशीलतादिषु संयोजयति, तथैव भवानस्मान् निरन्तरं रक्षित्वा श्रेष्ठेषु व्यवहारेषु संयोजयत्विति ॥२४॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. हे सर्वांचे पालन करणाऱ्या ईश्वरा ! एखादा विद्वान आपल्या पुत्रावर कृपादृष्टी ठेवतो व त्याचे रक्षण करतो. त्याला श्रेष्ठ शिक्षण देऊन सत्यविद्या, धर्म इत्यादी चांगले गुण शिकवितो तसेच तूही आमचे निरंतर रक्षण करून आम्हाला श्रेष्ठ कर्मात प्रवृत्त कर.
२५ अग्ने त्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने॒ त्वं नो॒ऽअन्त॑मऽउ॒त त्रा॒ता शि॒वो भ॑वा वरू॒थ्यः᳖। वसु॑र॒ग्निर्वसु॑श्रवा॒ऽअच्छा॑ नक्षि द्यु॒मत्त॑मँ र॒यिं दाः॑ ॥२५॥
मूलम् ...{Loading}...
अग्ने॒ त्वं नो॒ऽअन्त॑मऽउ॒त त्रा॒ता शि॒वो भ॑वा वरू॒थ्यः᳖। वसु॑र॒ग्निर्वसु॑श्रवा॒ऽअच्छा॑ नक्षि द्यु॒मत्त॑मँ र॒यिं दाः॑ ॥२५॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अग्ने॑। त्वम्। नः॒। अन्त॑मः। उ॒त। त्रा॒ता। शि॒वः। भ॒व॒। व॒रू॒थ्यः᳖। वसुः॑। अ॒ग्निः। वसु॑श्रवा॒ इति॒ वसु॑ऽश्रवाः। अच्छ॑। न॒क्षि॒। द्यु॒मत्त॑म॒मिति॑ द्यु॒मत्ऽत॑मम्। र॒यिम्। दाः॒। २५।
महीधरः
म० चतस्रो द्विपदा विराज आग्नेय्यः । दशार्णपादा विराट् बन्ध्वादिदृष्टाः । हे अग्ने गार्हपत्य, त्वं नोऽस्माकमन्तमः अन्तिकतमः सर्वदा समीपवर्ती भव । ‘अम् गतौ’ भजने शब्दे अमति समीपं प्राप्नोतीत्यम् क्विप् अतिशयितोऽम् अन्तमः अम्शब्दात्तमप् । यद्वान्तिकशब्दात्तमपि पृषोदरादित्वेन साधुः । उतापि च त्राता पालयिता । शिवः शान्तः । वरूथ्य वरूथाय हितो वरूथ्य तादृशश्च भव । पुत्रादिसमूहो वरूथ । यद्वा वरूथं गृहम् । तस्मै हितो भव । किभूत लम् । वसु वासयतीति वसुः । जनानां वासयिता । तथा अग्नि । अङ्गतीत्यग्नि । ‘अगि गतौ’ । आहवनीयादिरूपेण गमनशील । तथा वसुश्रवा वसुना धनेन श्रव कीर्तिर्यस्यासौ वसुश्रवा । धनप्रदोऽयमिति यस्य कीर्तिरित्यर्थः । किच हे अग्ने, त्वमच्छा नक्षि अभिव्याप्नुहि अस्मान् । ‘अच्छाभेराप्तुमिति शाकपूणि’ ( निरु० ५। २८ ) । नशिराप्नोतिकर्मा । यद्वा हे अच्छ निर्मलभाव अग्ने, नक्षि अस्मद्धोमस्थानं गच्छ । ‘नक्ष गतौ’ । यदा यदा वयं जुहुयामस्तदा समागच्छेत्यर्थ । किंच द्युमत्तमं रयि दा अतिदीप्तियुक्तं रयिं धनं देहि । ददातेर्लुडि रूपम् । ‘बहुलं छन्दस्यमाङयोगेऽपि’ (पा० ६ । ४ । ७५) इत्यडभावः ॥ २५ ॥
षड्विंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- सुबन्धुर्ऋषिः
- भुरिग् बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) सब की रक्षा करनेवाले जगदीश्वर ! जो (त्वम्) आप (वसुश्रवाः) सब को सुनने के लिये श्रेष्ठ कानों को देने (वसुः) सब प्राणी जिसमें वास करते हैं वा सब प्राणियों के बीच में बसने हारे और (अग्निः) विज्ञानप्रकाशयुक्त (नक्षि) सब जगह व्याप्त अर्थात् रहनेवाले हैं, सो आप (नः) हम लोगों के (अन्तमः) अन्तर्यामी वा जीवन के हेतु (त्राता) रक्षा करनेवाले (वरूथ्यः) श्रेष्ठ गुण, कर्म और स्वभाव में होने (शिवः) तथा मङ्गलमय मङ्गल करनेवाले (भव) हूजिये और (उत) भी (नः) हम लोगों के लिये (द्युमत्तमम्) उत्तम प्रकाशों से युक्त (रयिम्) विद्याचक्रवर्ति आदि धनों को (अच्छ दाः) अच्छे प्रकार दीजिये ॥२५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को ऐसा जानना चाहिये कि परमेश्वर को छोड़कर और हमारी रक्षा करने वा सब सुखों के साधनों का देनेवाला कोई नहीं है, क्योंकि वही अपने सामर्थ्य से सब जगह परिपूर्ण हो रहा है ॥२५॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स कीदृश इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने ! यस्त्वं वसुश्रवा वसुरग्निर्नक्षि सर्वत्र व्याप्तोऽसि, स त्वं नोऽस्माकमन्तमस्त्राता वरूथ्यः शिवो भव उतापि नोऽस्मभ्यं द्युमत्तमं रयिमच्छ दाः सम्यग्देहि ॥२५॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैरित्थं वेदितव्यं परमेश्वरं विहाय नोऽस्माकं कश्चिदन्यो रक्षको नास्तीति, कुतस्तस्य सर्वशक्तिमत्त्वेन सर्वत्राभिव्यापकत्वादिति ॥२५॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी हे जाणले पाहिजे की, परमेश्वराशिवाय आपले रक्षण करणारा किंवा सर्व सुखाची साधने देणारा कोणी नाही. कारण तोच आपल्या सामर्थ्याने सर्व ठिकाणी पूर्णपणे व्याप्त व परिपूर्ण आहे.
२६ तं त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
तं त्वा॑ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः। स नो॑ बोधि श्रु॒धी हव॑मुरु॒ष्या णो॑ऽअघाय॒तः स॑मस्मात् ॥२६॥
मूलम् ...{Loading}...
तं त्वा॑ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः। स नो॑ बोधि श्रु॒धी हव॑मुरु॒ष्या णो॑ऽअघाय॒तः स॑मस्मात् ॥२६॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
तम्। त्वा॒। शो॒चि॒ष्ठ। दी॒दि॒व॒ इति॑ दीदिऽवः। सु॒म्नाय॑। नू॒नम्। ई॒म॒हे॒। सखि॑भ्य॒ इति॒ सखि॑ऽभ्यः। सः। नः॒। बो॒धि॒। श्रु॒धि। हव॑म्। उ॒रु॒ष्य। नः॒। अ॒घा॒य॒त इत्य॑घऽयतः। स॒म॒स्मा॒त्। २६।
महीधरः
म० हे शोचिष्ठ दीप्तिमत्तम, हे दीदिव सर्वस्य दीपयितः , तं पूर्वोक्तगुणयुक्तं त्वा त्वां सखिभ्योऽर्थाय सुम्नाय । द्वितीयार्थे चतुर्थी । सुम्नं सुखं नूनं निश्चयेन ईमहे याचामहे । यद्वा सुम्नाय सुखार्थं सखिभ्योऽस्मत्सखीनामुपकाराय च त्वामीमहे । स त्वं नोऽस्मान् भवत्सेवकान् बोधि बुध्यस्व । हवमस्मदीयमाह्वानं श्रुधी शृणु । समस्मात्सर्वस्मात् अघायत शत्रोर्नोऽस्मानुरुष्य रक्ष । समशब्दः सर्वपर्यायः । शोचिरिति ज्वालानाम । शोचिरस्यास्तीति शोचिष्मान् मतुप् । अतिशयेन शोचिष्मान् शोचिष्ठ । ‘अतिशायने तमबिष्ठनौ’ (पा० ५। ३ । ५५ ) ‘विन्मतोर्लुक्’ (पा० ५। ३ । ६५) इतीष्ठनि मतुपो लुक् । दीदिव दिवेर्ज्वलनार्थस्य लिडादेशक्वसन्तस्य रूपम् । ‘मतुवसो रु सबुद्धौ छन्दसि’ (पा० ८ । ३ । १) इति रुत्वम् । बोधि । ‘बुध ज्ञाने’ लोण्मध्यमैकवचने ‘सेर्ह्यपिच्च’ ( पा० ३ । ४ । ८ ) इति हि । ‘बहुलं छन्दसि’ (पा० | २ । ४ । ७३ ) इति शपो लुक् ‘हुझल्भ्यो हेर्धि ’ ( पा० ६ । ४ । १०१)। छन्दसि गुणे घलोपौ । श्रुधी । ‘श्रुपृकृवृभ्यश्छन्दसि’ इति हेर्धि । संहितायाम् ‘अन्येषामपि दृश्यते’ (पा० ६ । ३ । १३७ ) इति दीर्घः । उरुष्य उरुष्यती रक्षणकर्मा । | ‘ऋचि तुनुघ-’ (पा० ६ । ३ । १३३) इत्यादिना दीर्घ । । ‘नश्च धातुस्थोरुषुभ्य’ (पा० ८ । ४ । २७) इति न इत्यस्य णत्वम् । अघायत । अघं परस्यति अघायति । ‘सुप आत्मन क्यच् (पा० ३ । १ । ८) इत्यत्र ‘छन्दसि परेच्छायामपि वक्तव्यम्’ इति क्यच् ‘अश्वाघस्यात्’ (पा. ७ । ४ । ३७) इत्याकारः । अघायतीति अघायन् तस्मात् अघायतः शतृप्रत्यये रूपम् ॥ २६ ॥
सप्तविंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- सुबन्धुर्ऋषिः
- स्वराड् बृहती,
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (शोचिष्ठ) अत्यन्त शुद्धस्वरूप (दीदिवः) स्वयं प्रकाशमान आनन्द के देनेवाले जगदीश्वर ! हम लोग वा (नः) अपने (सखिभ्यः) मित्रों के (सुम्नाय) सुख के लिये (तं त्वा) आप से (ईमहे) याचना करते हैं तथा जो आप (नः) हम को (बोधि) अच्छे प्रकार विज्ञान को देते हैं (सः) सो आप (नः) हमारे (हवम्) सुनने-सुनाने योग्य स्तुतिसमूह यज्ञ को (श्रुधि) कृपा करके श्रवण कीजिये और (नः) हम को (समस्मात्) सब प्रकार (अघायतः) पापाचरणों से अर्थात् दूसरे को पीड़ा करने रूप पापों से (उरुष्य) अलग रखिये ॥२६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सब मनुष्यों को अपने मित्र और सब प्राणियों के सुख के लिये परमेश्वर की प्रार्थना करना और वैसा ही आचरण भी करना कि जिससे प्रार्थित किया हुआ परमेश्वर अधर्म से अलग होने की इच्छा करनेवाले मनुष्यों को अपनी सत्ता से पापों से पृथक् कर देता है, वैसे ही उन मनुष्यों को भी पापों से बचकर धर्म के करने में निरन्तर प्रवृत्त होना चाहिये ॥२६॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स कीदृश इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे शोचिष्ठ दीदिवो जगदीश्वर ! वयं नोऽस्माकं सखिभ्यश्च नूनं सुम्नाय तं त्वामीमहे, यो भवान् नोऽस्मान् बोधि सम्यग्विज्ञानं बोधयति, सः त्वं नोऽस्माकं हवं श्रुधि कृपया शृणु, नोऽस्मान् समस्मात् सर्वस्मादघायतः परपीडाकरणरूपात् पापादुरुष्य सततं पृथग् रक्ष ॥२६॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सर्वैर्मनुष्यैः स्वार्थं स्वमित्रार्थं सर्वप्राण्यर्थं च सुखप्राप्तये परमेश्वरः प्रार्थनीयस्तथैवाचरणं च कार्यम्। प्रार्थितः सन् जगदीश्वरोऽधर्मान्निवृत्तिमिच्छुकान् मनुष्यान् स्वसत्तया सर्वेभ्यः पापेभ्यो निवर्त्तयति, तथैव स्वविचारपरमपुरुषार्थाभ्यां सर्वेभ्यः पापेभ्यो निवर्त्य धर्माचरणे सर्वैर्मनुष्यैर्नित्यं प्रवर्तितव्यमिति बोध्यम् ॥२६॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सर्व माणसांनी आपले मित्र व सर्व प्राणी यांच्या सुखासाठी परमेश्वराची प्रार्थना केली पाहिजे व तसेच आचरणही केले पाहिजे. त्यामुळे परमेश्वर, आपल्या सामर्थ्याने, अधर्मापासून दूर होण्याची इच्छा बाळगणाऱ्या माणसांना पापांपासून दूर करतो; पण माणसांनीही पापांपासून दूर होऊन सदैव धर्मात प्रवृत्त झाले पाहिजे.
२७ इडऽएह्यदितऽएहि काम्याऽएत
विश्वास-प्रस्तुतिः ...{Loading}...
इड॒ऽएह्यदि॑त॒ऽएहि॒ काम्या॒ऽएत॑। मयि॑ वः काम॒धर॑णं भूयात् ॥२७॥
मूलम् ...{Loading}...
इड॒ऽएह्यदि॑त॒ऽएहि॒ काम्या॒ऽएत॑। मयि॑ वः काम॒धर॑णं भूयात् ॥२७॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इडे॑। आ। इ॒हि॒। अदि॑ते। आ। इ॒हि॒। काम्याः॑। आ। इ॒त॒। मयि॑ वः॒। का॒म॒धर॑ण॒मिति॑ काम॒ऽधर॑णम्। भू॒या॒त्। २७।
महीधरः
म० ‘गा गच्छतीड एहीति’ (का० ४ । १२ । ८)। द्वे यजुषी गव्ये । हे इडे, एहि । हे अदिते, एहि आगच्छ होमस्थानम् । इडा मनोर्दुहिता । अदितिर्देवमाता । इडा मनुमिवास्मानेहि । अदितिरादित्यानिवास्मानेहि । अतस्मिस्तच्छब्दस्तद्वदतिदेशार्थ । ‘काम्या एतेत्यालभते’ (का० ४ । १२ । ९) इति गामालभते । मनुष्याणां ह्येतासु कामाः प्रविष्टा इति काम्याः । हे काम्याः सर्वैः कामयितव्याः , यूयमेत आ इति आगच्छत । वो युप्माकं कामधरणम् कामानां धरणमपेक्षितफलधारकत्वं यदस्ति तत् मयि अनुष्ठातरि भूयात् । युष्मत्प्रसादादहमभीष्टफलस्य धारयिता भूयासमित्यर्थः । अहं वः प्रियो भूयासमिति श्रुतिर्व्याचष्टे ॥ २७ ॥
अष्टाविंशी[२]।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- श्रुतबन्धुर्ऋषिः
- विराड् गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उस की प्रार्थना किसलिये करनी चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे परमेश्वर ! आपकी कृपा से (इडे) यह पृथिवी मुझ को राज्य करने के लिये (एहि) अवश्य प्राप्त हो तथा (अदिते) सब सुखों को प्राप्त करनेवाली नाशरहित राजनीति (एहि) प्राप्त हो। इसी प्रकार हे मघवन् ! अपनी पृथिवी और राजनीति के द्वारा (काम्याः) इष्ट-इष्ट पदार्थ (एत) प्राप्त हों तथा (मयि) मेरे बीच में (वः) उन पदार्थों की (कामधरणम्) स्थिरता (भूयात्) यथावत् हो ॥२७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को उत्तम-उत्तम पदार्थों की कामना निरन्तर करनी तथा उनकी प्राप्ति के लिये परमेश्वर की प्रार्थना और सदा पुरुषार्थ करना चाहिये। कोई मनुष्य अच्छी वा बुरी कामना के विना क्षणभर भी स्थित होने को समर्थ नहीं हो सकता, इससे सब मनुष्यों को अधर्मयुक्त व्यवहारों की कामना को छोड़कर धर्मयुक्त व्यवहारों की जितनी इच्छा बढ़ सके, उतनी बढ़ानी चाहिये ॥२७॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स किमर्थः प्रार्थनीय इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे जगदीश्वर ! भवत्कृपयेडेयं पृथिवी मह्यं राज्यकरणायेहि समन्तात् प्राप्नुयात्। एवमदितिः सर्वसुखप्रापिका नाशरहिता राज्यनीतिरेहि प्राप्नुयात्। एवं हे भगवन् ! पृथिवीराज्यनीतिभ्यां मह्यं काम्याः पदार्था एत समन्तात् प्राप्नुवन्तु तथा मयि वस्तेषां काम्यानां पदार्थानां कामधरणं भूयात् ॥२७॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैः काम्यानां पदार्थानां कामना सततं कार्या, तत्प्राप्तये जगदीश्वरस्य प्रार्थना पुरुषार्थश्च। नहि कश्चिदप्येकक्षणमपि कामान् विहाय स्थातुमर्हति, तस्मादधर्म्यव्यवहारात् कामनां निवर्त्य धर्म्ये व्यवहारे यावती वर्धयितुं शक्या तावती नित्यं वर्द्धनीयेति ॥२७॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी सदैव उत्तम पदार्थांची कामना बाळगून त्यांच्या प्राप्तीसाठी परमेश्वराची प्रार्थना केली पाहिजे. त्याबरोबरच पुरुषार्थ करणेही आवश्यक आहे. कोणताही मनुष्य चांगली किंवा वाईट इच्छा बाळगल्याखेरीज क्षणभरही राहू शकत नाही. म्हणून सर्व माणसांनी अधर्मयुक्त व्यवहाराच्या इच्छेचा त्याग करून धर्मयुक्त व्यवहाराची इच्छा वृद्धिंगत केली पाहिजे.
२८ सोमानं स्वरणम्
विश्वास-प्रस्तुतिः ...{Loading}...
सो॒मानँ॒ स्वर॑णं कृणु॒हि ब्र॑ह्मणस्पते। क॒क्षीव॑न्तं॒ यऽऔ॑शि॒जः ॥२८॥
मूलम् ...{Loading}...
सो॒मानँ॒ स्वर॑णं कृणु॒हि ब्र॑ह्मणस्पते। क॒क्षीव॑न्तं॒ यऽऔ॑शि॒जः ॥२८॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सो॒मान॑म्। स्व॑रणम्। कृ॒णु॒हि॒। ब्र॒ह्म॒णः॒। प॒ते॒। क॒क्षीव॑न्तम्। यः। औ॒शि॒जः। २८।
महीधरः
म० ‘सोमानमित्यनुदकं व्रतोपायनवत्’ (का० ४ । १२ । १०)। व्रतेत्यपरेणाहवनीयं प्रातिष्ठन्नवर्चं जपतीति सूत्रार्थः । सोमानं स्वरणं तृचो गायत्रो ब्रह्मणस्पतिदेवत्यस्तेनैव दृष्टः । अग्निमीक्षमाणस्य यजमानस्य जपे विनियुक्तः । हे ब्रह्मणस्पते वेदस्य पालक, सोमानं सोमानामभिषोतारम् । स्वरणं ‘स्वृ शब्दोपतापयो’ शब्दयितारम् । कृणुहि कुरु । मामिति शेषः । सुनोतीति सोमा तम् । ‘अन्येभ्योऽपि दृश्यन्ते’ (पा० ३ । २। ७५) इति मनिन् । स्वरतीति स्वरणः । नन्द्यादित्वात् ल्युः । सोमयागकर्तारं स्तुतिरूपशब्दयुक्तं च धनप्रदानैर्मां कुर्वित्यर्थः ।’ तत्रोपमानमुच्यते । कक्षीवन्तं कक्षीवन्नामकमृषिं दीर्घतमः - पुत्रं यथा सोमयागयुक्तं स्तुतियुक्तं च कृतवानसि तथा मां कुरु । उपमानद्योतक इवशब्दोऽत्र लुप्तो द्रष्टव्यः । कोऽसौ कक्षीवान् । य औशिजः उशिजः पुत्रः । उशिक् कक्षीवतो माता ॥ २८ ॥
एकोनत्रिंशी।
अधिमन्त्रम् (VC)
- बृहस्पतिर्देवता
- प्रबन्धु ऋषिः
- विराड् गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उस जगदीश्वर की किसलिये प्रार्थना करनी चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (ब्रह्मणस्पते) सनातन वेदशास्त्र के पालन करनेवाले जगदीश्वर ! आप (यः) जो मैं (औशिजः) सब विद्याओं के प्रकाश करनेवाले विद्वान् के पुत्र के तुल्य हूँ, उस मुझ को (कक्षीवन्तम्) विद्या पढ़ने में उत्तम नीतियों से युक्त (स्वरणम्) सब विद्याओं का कहने और (सोमानम्) औषधियों के रसों का निकालने तथा विद्या की सिद्धि करनेवाला (कृणुहि) कीजिये। ऐसा ही व्याख्यान इस मन्त्र का निरुक्तकार यास्कमुनि जी ने भी किया है, सो पूर्व लिखे हुए संस्कृत में देख लेना ॥२८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में लुप्तोपमालङ्कार है। पुत्र दो प्रकार के होते हैं, एक तो औरस अर्थात् जो अपने वीर्य से उत्पन्न होता और दूसरा जो विद्या पढ़ाने के लिये विद्वान् किया जाता है। हम सब मनुष्यों को इसलिये ईश्वर की प्रार्थना करनी चाहिये कि जिससे हम लोग विद्या से प्रकाशित सब क्रियाओं में कुशल और प्रीति से विद्या के पढ़ानेवाले पुत्रों से युक्त हों ॥२८॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स जगदीश्वरः किमर्थः प्रार्थनीय इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे ब्रह्मणस्पते ! त्वं योऽहमौशिजोऽस्मि तं कक्षीवन्तं स्वरणं सोमानं मां कृणुहि सम्पादय ॥२८॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र लुप्तोपमालङ्कारः। पुत्रो द्विविध एक औरसो द्वितीयो विद्याजः। सर्वैर्मनुष्यैरीश्वर एतदर्थं प्रार्थनीयः यस्माद् वयं विद्याप्रकाशितैः सर्वक्रियाकुशलैः प्रीत्या विद्याध्यापकैः पुत्रैर्युक्ता भवेमेति ॥२८॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात लुप्तोपमालंकार आहे. पुत्र दोन प्रकारचे असतात. एक औरस व दुसरा विद्या शिकवून ज्याला विद्वान केले जाते तो. आपण सर्वांनी ईश्वराची यासाठी प्रार्थना केली पाहिजे की, आम्ही विद्यायुक्त व कर्मकुशल बनावे व प्रेमाने विद्या ग्रहण करणारे पुत्र आम्हाला प्राप्त व्हावेत.
२९ यो रेवान्
विश्वास-प्रस्तुतिः ...{Loading}...
यो रे॒वान् योऽअ॑मीव॒हा व॑सु॒वित् पु॑ष्टि॒वर्द्ध॑नः। स नः॑ सिषक्तु॒ यस्तु॒रः ॥२९॥
मूलम् ...{Loading}...
यो रे॒वान् योऽअ॑मीव॒हा व॑सु॒वित् पु॑ष्टि॒वर्द्ध॑नः। स नः॑ सिषक्तु॒ यस्तु॒रः ॥२९॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यः। रे॒वान्। यः। अ॒मी॒व॒हेत्य॑मीऽव॒हा। व॒सु॒विदिति॑ वसु॒ऽवित्। पु॒ष्टि॒वर्द्ध॑न॒ इति॑ पुष्टि॒ऽवर्द्ध॑नः। सः। नः॒। सि॒ष॒क्त्विति सिषक्तुः। यः। तु॒रः। २९।
महीधरः
म० यो ब्रह्मणस्पतिः रेवान् धनवान् । यश्चामीवहा अमीवस्य रोगस्य हन्ता । ‘अम रोगे’ । ‘अमेरीवः’ । वसुवित् वसु धनं वेत्तीति । यश्च पुष्टिवर्धन पोषणस्य वर्धयिता। यश्च तुर ‘तुर वेगे’ ‘इगुपध-’ (पा० ३ । १।१३५) इति कः। वेगवान् अविलम्बितकारी । स ब्रह्मणस्पतिर्नोऽस्मान् सिषक्तु सेवताम् । ‘सिषक्ति सचते इति सेवमानस्य’ (निरु० ३ । २१) यद्वा अनयर्चा पुत्रः प्रार्थ्यते । यः पुत्रो रेवान्धनवान् यश्च व्याधेर्हन्ता जपादिना यो धनस्य लब्धा पुष्टेश्च वर्धयिता यः तुरः शीघ्रकारी तादृशः पुत्रोऽग्नेः प्रसादान्नोऽस्मान् सिषक्तु । सेवताम् ॥ २९ ॥
त्रिंशी ।
अधिमन्त्रम् (VC)
- बृहस्पतिर्देवता
- मेधातिथिर्ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह ईश्वर कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यः) जो वेदशास्त्र का पालन करने (रेवान्) विद्या आदि अनन्त धनवान् (अमीवहा) अविद्या आदि रोगों को दूर करने वा कराने (वसुवित्) सब वस्तुओं को यथावत् जानने (पुष्टिवर्द्धनः) पुष्टि अर्थात् शरीर वा आत्मा के बल को बढ़ाने और (तुरः) अच्छे कामों में जल्दी प्रवेश करने वा करानेवाला जगदीश्वर है (सः) वह (नः) हम लोगों को उत्तम-उत्तम कर्म वा गुणों के साथ (सिषक्तु) संयुक्त करे ॥२९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो इस संसार में धन है सो सब जगदीश्वर का ही है। मनुष्य लोग जैसी परमेश्वर की प्रार्थना करें, वैसा ही उनको पुरुषार्थ भी करना चाहिये। जैसे विद्या आदि धनवाला परमेश्वर है, ऐसा विशेषण ईश्वर का कह वा सुन कर कोई मनुष्य कृतकृत्य अर्थात् विद्या आदि धनवाला नहीं हो सकता, किन्तु अपने पुरुषार्थ से विद्या आदि धन की वृद्धि वा रक्षा निरन्तर करनी चाहिये। जैसे परमेश्वर अविद्या आदि रोगों को दूर करनेवाला है, वैसे मनुष्यों को भी उचित है कि आप भी अविद्या आदि रोगों को निरन्तर दूर करें। जैसे वह वस्तुओं को यथावत् जानता है, वैसे मनुष्यों को भी उचित है कि अपने सामर्थ्य के अनुसार सब पदार्थविद्याओं को यथावत् जानें। जैसे वह सब की पुष्टि को बढ़ाता है, वैसे मनुष्य भी सब के पुष्टि आदि गुणों को निरन्तर बढ़ावें। जैसे वह अच्छे-अच्छे कार्यों को बनाने में शीघ्रता करता है, वैसे मनुष्य भी उत्तम-उत्तम कार्यों को त्वरा से करें और जैसे हम लोग उस परमेश्वर की उत्तम कर्मों के लिये प्रार्थना निरन्तर करते हैं, वैसे परमेश्वर भी हम सब मनुष्यों को उत्तम पुरुषार्थ से उत्तम-उत्तम गुण वा कर्मों के आचरण के साथ निरन्तर संयुक्त करे ॥२९॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स कीदृश इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यो रेवानमीवहा वसुवित् पुष्टिवर्द्धनस्तुरो ब्रह्मणस्पतिर्जगदीश्वरोऽस्ति, स नोऽस्मान् शुभैर्गुणैः कर्मभिश्च सह सिषक्तु संयोजयतु ॥२९॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदिदं विश्वस्मिन् धनमस्ति तदिदं सर्वं जगदीश्वरस्यैव वर्तते। मनुष्यैर्यादृशी प्रार्थनेश्वरस्य क्रियते, स्वैरपि तादृश एव पुरुषार्थः कर्तव्यः। यथा नैव रेवानितीश्वरस्य विशेषणमुक्त्वा श्रुत्वा च कश्चित्कृतकृत्यो भवति, किं तर्हि स्वेनापि परमपुरुषार्थेन धनवृद्धिरक्षणे सततं कार्ये। यथा सोऽमीवहास्ति, तथैव मनुष्यैरपि रोगा नित्यं हन्तव्याः। यथा स वसुविदस्ति, तथैव यथाशक्ति पदार्थविद्या कार्या। यथा स सर्वेषां पुष्टिवर्द्धनस्तथैव सर्वेषां नित्यं पुष्टिर्वर्द्धनीया। यथा स शीघ्रकारी तथैवेष्टानि कार्याणि शीघ्रं कर्तव्यानि। यथा तस्य शुभगुणकर्मप्राप्त्यर्था प्रार्थना क्रियते, तथैव सर्वान् मनुष्यान् परमप्रयत्नेन शुभगुणकर्माचरणेन सह वर्त्तमानान् नित्यं संयोजयत्विति ॥२९॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या जगात जी संपत्ती आहे ती सर्व ईश्वराची आहे. माणसांनी परमेश्वराची जशी प्रार्थना केली पाहिजे. तसाच पुरुषार्थही केला पाहिजे. परमेश्वर विद्या इत्यादींनी ऐश्वर्यवान आहे हे केवळ ऐकून किंवा म्हणून कोणी विद्वान किंवा धनवान होऊ शकत नाही. त्यासाठी पुरुषार्थानेच विद्या इत्यादी धनाची वृद्धी व रक्षण केले पाहिजे. परमेश्वर जसा अविद्या वगैरे रोगांना दूर करणारा आहे तसेच माणसांनीही अविद्या इत्यादी रोगांपासून दूर राहावे. जसा परमेश्वर सर्व पदार्थांना यथायोग्य जाणतो तसेच सर्व माणसांनी सर्व पदार्थविद्या आपल्या सामर्थ्यानुसार यथायोग्यरीत्या जाणावी. जसा तो सर्वांना बलवान करतो तसेच माणसांनी सर्वांना बलवान करावे. जसे तो चांगले कार्य लवकर करतो तसेच सर्व माणसांनी लवकरात लवकर उत्तम कार्य करावे. आपण जसे उत्तम कर्म करताना परमेश्वराची प्रार्थना करतो तसेच परमेश्वरानेही सर्व माणसांना उत्तम पुरुषार्थाने उत्तम गुण व कर्माचे आचरण करण्यासाठी प्रेरित करावे (ही प्रार्थना होय) .
३० मा नः
विश्वास-प्रस्तुतिः ...{Loading}...
मा नः॒ शँसो॒ऽअर॑रुषो धू॒र्तिः प्रण॒ङ् मर्त्य॑स्य। रक्षा॑ णो ब्रह्मणस्पते ॥३०॥
मूलम् ...{Loading}...
मा नः॒ शँसो॒ऽअर॑रुषो धू॒र्तिः प्रण॒ङ् मर्त्य॑स्य। रक्षा॑ णो ब्रह्मणस्पते ॥३०॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मा। नः॒। शँसः॑। अर॑रुषः। धू॒र्तिः। प्रण॑क्। मर्त्य॑स्य। रक्ष॑। नः॒। ब्र॒ह्म॒णः॒। प॒ते॒। ३०।
महीधरः
म० रा दाने’ इति धातोः क्वसुन्नन्तस्य षष्ठ्येकवचने ररुष इति रूपम् । ररौ इति ररिवांस्तस्य ररुषः । दानं कृतवत इत्यर्थः । तस्य निषेधादररुष इति । कदाचिदपि हविर्दानमकृतवत इत्यर्थः । तादृशस्य मर्त्यस्य मनुष्यस्य शंसो धूर्तिश्च नोऽस्मान् मा प्रणक् प्रकर्षेण व्याप्नोतु । नशिर्व्याप्त्यर्थः । यद्वा ‘नश अदर्शने’ । मा प्रणक् प्रकर्षेण मा नाशयतु । शंसनं शंसोऽनिष्टचिन्तनम् । धूर्तिर्हिंसा । ‘ध्वरति धूर्वति’ ( निघ० २।१९) इति वधकर्मसु पठितत्वात् शत्रुकृतमनिष्टचिन्तनं शत्रुकृता हिंसा चास्मान् मा व्याप्नोत्वित्यर्थः । किंच हे ब्रह्मणस्पते वेदस्य पालकाग्ने, नोऽस्मान् रक्ष । ‘द्व्यचोऽतस्तिङः’ (पा० ६।३।१३५) इति संहितायां दीर्घः । णत्वं पूर्ववत् ॥३०॥
एकत्रिंशी[३]।
अधिमन्त्रम् (VC)
- ब्रह्मणस्पतिर्देवता
- सप्तधृतिर्वारुणिर्ऋषिः
- निचृद् गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उस परमेश्वर की प्रार्थना किसलिये करनी चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (ब्रह्मणस्पते) जगदीश्वर ! आपकी कृपा से (नः) हमारी वेदविद्या (मा, प्रणक्) कभी नष्ट मत हो और जो (अररुषः) दान आदि धर्मरहित परधन ग्रहण करनेवाले (मर्त्यस्य) मनुष्य की (धूर्तिः) हिंसा अर्थात् द्रोह है, उस से (नः) हम लोगों की निरन्तर (रक्ष) रक्षा कीजिये ॥३०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को सदा उत्तम-उत्तम काम करना और बुरे-बुरे काम छोड़ना तथा किसी के साथ द्रोह वा दुष्टों का सङ्ग भी न करना और धर्म की रक्षा वा परमेश्वर की उपासना स्तुति और प्रार्थना निरन्तर करनी चाहिये ॥३०॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स किमर्थः प्रार्थनीय इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे ब्रह्मणस्पते ! भवत्कृपया नोऽस्माकं शंसो मा प्रणक् कदाचिन्मा प्रणश्यतु। याऽररुषः परस्वादायिनो मर्त्यस्य धूर्तिर्हिंसास्ति तस्याः सकाशान्नोऽस्मान् सततं रक्ष ॥३०॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैः सदा प्रशंसनीयानि कर्माणि कर्तव्यानि नेतराणि, कस्यचिद् द्रोहो दुष्टानां सङ्गश्च नैव कर्तव्यः, धर्मस्य रक्षेश्वरोपासनं च सदैव कर्तव्यमिति ॥३०॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी सदैव उत्तम कर्म करावे व वाईट कर्माचा त्याग करावा. कुणाचाही द्वेष करू नये किंवा दुष्टांची संगती धरू नये, धर्माचे रक्षण करावे व परमेश्वराची सदैव उपासना स्तुती आणि प्रार्थना करावी.
३१ महि त्रीणामवोऽस्तु
विश्वास-प्रस्तुतिः ...{Loading}...
महि॑ त्री॒णामवो॑ऽस्तु द्यु॒क्षं मि॒त्रस्या॑र्य॒म्णः। दु॒रा॒धर्षं॒ वरु॑णस्य ॥३१॥
मूलम् ...{Loading}...
महि॑ त्री॒णामवो॑ऽस्तु द्यु॒क्षं मि॒त्रस्या॑र्य॒म्णः। दु॒रा॒धर्षं॒ वरु॑णस्य ॥३१॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
महि॑। त्री॒णाम्। अवः॑। अ॒स्तु॒। द्यु॒क्षम्। मि॒त्रस्य॑। अ॒र्य॒म्णः। दु॒रा॒धर्ष॒मिति॑ दुःऽआ॒धर्ष॑म्। वरु॑णस्य। ३१।
महीधरः
म०. सत्यधृतिदृष्ट आदित्यदेवत्यस्तृचो गायत्रीजपे विनियुक्तः पथि जप्त उपद्रवनाशकश्च । मित्रस्यार्यम्णो वरुणस्येति त्रीणां त्रयाणां देवानां संबन्धि अवः पालनमस्तु । किंभूतमवः । महि महत् तथा द्युक्षं द्युमन्ति सुवर्णादिद्रव्याणि क्षियन्ति निवसन्ति यस्मिन् पालने तथाविधम् । दुराधर्षं तिरस्कर्तुमशक्यम् । त्रीणां त्रिशब्दस्यामि छन्दसि त्रयादेशो वेति वाच्यम् (पा० ७ । १ । ५३)॥३१॥
द्वात्रिंशी।
अधिमन्त्रम् (VC)
- आदित्यो देवता
- सप्तधृतिर्वारुणिर्ऋषिः
- विराड् गायत्री
- षड्जः
३२ नहि तेषाममा
विश्वास-प्रस्तुतिः ...{Loading}...
न॒हि तेषा॑म॒मा च॒न नाध्व॑सु वार॒णेषु॑। ईशे॑ रि॒पुर॒घशँ॑सः ॥३२॥
मूलम् ...{Loading}...
न॒हि तेषा॑म॒मा च॒न नाध्व॑सु वार॒णेषु॑। ईशे॑ रि॒पुर॒घशँ॑सः ॥३२॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
न॒हि। तेषा॑म्। अ॒मा। च॒न। न। अध्व॒स्वित्यध्व॑ऽसु। वा॒र॒णेषु॑। ईशे॑। रि॒पुः। अ॒घशँ॑स॒ इत्य॒घऽशँ॑सः। ३२।
महीधरः
म० अमाशब्दो गृहनामसु पठितः (निघ० ३।४ ।११)। चनशब्दोऽप्यर्थे । अमा चन गृहेऽपि वर्तमानानां । तेषां तथा वारणेषु चोरव्याघ्रादयो यत्र स्थिता निवारयन्ति पथिकान् ते वारणास्तेषु चोरव्याघ्रभयाढ्येषु अध्वसु मार्गेषु वा वर्तमानानां तेषां मित्रार्यमवरुणैस्त्रिभिर्देवैः पालितानां यजमानानामुपद्रवायेति शेषः । अघशंसः सर्वदा पापस्य प्रशंसको रिपुः शत्रुः नहि ईशे समर्थो न भवति । ‘लोपस्त आत्मनेपदेषु’ (पा. ७।१।४१) इति तलोपः । ‘अधीगत्यर्थदयेशां कर्मणि’ ( पा० २।३। ५२ ) इति तेषामिति षष्ठी। मित्रादिभिः पालितानामस्माकं गृहेऽरण्ये वा नास्ति शत्रुबाध इत्यर्थः ॥ ३२॥
त्रयस्त्रिंशी।
अधिमन्त्रम् (VC)
- आदित्यो देवता
- सप्तधृतिर्वारुणिर्ऋषिः
- निचृद् गायत्री
- षड्जः
३३ ते हि
विश्वास-प्रस्तुतिः ...{Loading}...
ते हि पु॒त्रासो॒ऽअदि॑तेः॒ प्र जी॒वसे॒ मर्त्या॑य। ज्योति॒र्यच्छ॒न्त्यज॑स्रम् ॥३३॥
मूलम् ...{Loading}...
ते हि पु॒त्रासो॒ऽअदि॑तेः॒ प्र जी॒वसे॒ मर्त्या॑य। ज्योति॒र्यच्छ॒न्त्यज॑स्रम् ॥३३॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ते। हि। पु॒त्रासः॑। अदि॑तेः। प्र। जी॒वसे॑। मर्त्या॑य। ज्योतिः॑। यच्छ॑न्ति। अज॑स्रम्। ३३।
महीधरः
म० कथं तद्रक्षितानां शत्रुभयाभावस्तदाह । हि यतस्ते । अदितेः अखण्डितशक्तेर्देवमातुः पुत्रासः पुत्राः पूर्वोक्ता मित्रार्यमवरुणाः मर्त्याय मनुष्याय यजमानायाजस्रं निरन्तरमनुपक्षीणं ज्योतिः तेजः प्रयच्छन्ति । किमर्थं जीवसे जीवितुम् । यथा चिरं जीवनं भवति तथा तदुपायज्ञानं प्रयच्छन्तीत्यर्थः ॥ ३३ ॥
चतुस्त्रिंशी।
अधिमन्त्रम् (VC)
- आदित्यो देवता
- वारुणिः सप्तधृतिः
- विराड् गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
आदित्यों के क्या-क्या कर्म हैं, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (अदितेः) नाशरहित कारणरूपी शक्ति के (पुत्रासः) बाहिर भीतर रहनेवाले प्राण, सूर्यलोक, पवन और जल आदि पुत्र हैं (ते) वे (हि) ही (मर्त्याय) मनुष्यों के मरने वा (जीवसे) जीने के लिये (अजस्रम्) निरन्तर (ज्योतिः) तेज या प्रकाश को (यच्छन्ति) देते हैं ॥३३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो ये कारणरूपी समर्थ पदार्थों के उत्पन्न हुए प्राण, सूर्यलोक, वायु वा जल आदि पदार्थ हैं, वे ज्योति अर्थात् तेज को देते हुए सब प्राणियों के जीवन वा मरने के लिये निमित्त होते हैं ॥३३॥
दयानन्द-सरस्वती (सं) - विषयः
आदित्यानां किं कर्मास्तीत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - येऽदितेः पुत्रासः पुत्रास्ते हि मर्त्याय जीवसेऽजस्रं ज्योतिः प्रयच्छन्ति ॥३३॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - एते कारणादुत्पन्नाः प्राणवाय्वादयो नित्यं ज्योतिः प्रयच्छन्तः सर्वेषां जीवनाय मरणाय वा निमित्तानि भवन्तीति ॥३३॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी कारणरूपी अनादी शक्ती (प्रकृती) आहे तिच्यापासून प्राण, वायू व जल इत्यादी पदार्थ उत्पन्न झालेले आहेत. ते माणसांना तेजस्वी बनवितात व जीवन आणि मृत्यूचे निमित्त बनतात.
३४ कदा चन
विश्वास-प्रस्तुतिः ...{Loading}...
क॒दा च॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे॑। उपो॒पेन्नु म॑घव॒न् भूय॒ऽइन्नु ते॒ दानं॑ दे॒वस्य॑ पृच्यते ॥३४॥
मूलम् ...{Loading}...
क॒दा च॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे॑। उपो॒पेन्नु म॑घव॒न् भूय॒ऽइन्नु ते॒ दानं॑ दे॒वस्य॑ पृच्यते ॥३४॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
क॒दा। च॒न। स्त॒रीः। अ॒सि॒। न। इ॒न्द्र॒। स॒श्च॒सि॒। दा॒शुषे॑। उपो॒पेत्युप॑ऽउप। इत्। नु। म॒घ॒व॒न्निति॑ मघऽवन्। भूयः॑। इत्। नु। ते॒। दान॑म्। दे॒वस्य॑। पृ॒च्य॒ते॒। ३४।
महीधरः
म० ऐन्द्री पथ्या बृहती मधुच्छन्दोदृष्टा जपे विनियुक्ता । यस्यास्तृतीयः पादो द्वादशार्णोऽन्ये त्रयोऽष्टाक्षराः सा पथ्या बृहती । हे इन्द्र परमैश्वर्ययुक्त, कदाचन कदापि त्वं स्तरीर्नासि । ‘स्तृञ् हिंसायाम्’ स्तृणातीति स्तरीः हिंसको नासि । किं तर्हि दाशुषे सश्चसि । द्वितीयार्थे चतुर्थी । दाश्वांसं हविर्दत्तवन्तं यजमानं सेवसे । सश्चतिः सेवनकर्मा । किंच । हे मघवन् धनवन् , देवस्य प्रकाशमानस्य ते तव भूय इत् बहुतरमेव दानं नु इत् क्षिप्रमेव दाश्वांसमुपपृच्यते । ‘पृची संपर्के’ यजमानेन सह संपर्कं प्राप्नोति । ‘प्रसमुपोदः पादपूरणे’ (पा. ८।१।६) इत्येक उपशब्दः पादपूरणे । इच्छब्दावेवार्थे । नु क्षिप्रार्थः । न कदाचिद्यजमानं प्रति क्रुध्यसि सेवसे च। तं त्वदीयं भूयो धनं दाश्वांसमुपपृच्यत इति भावः ॥ ३४ ॥
पञ्चत्रिंशी।[४]
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- मधुच्छन्दा ऋषिः
- पथ्या बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
वह इन्द्र कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) सुख देनेवाले ईश्वर ! जो आप (स्तरीः) सुखों से आच्छादन करनेवाले (असि) हैं और (दाशुषे) विद्या आदि दान करनेवाले मनुष्य के लिये (कदाचन) कभी (इत्) ज्ञान को (नु) शीघ्र (सश्चसि) प्राप्त (न) नहीं करते तो उस काल में हे (मघवन्) विद्यादि धनवाले जगदीश्वर ! (देवस्य) कर्म फल के देनेवाले (ते) आपके (दानम्) दिये हुए (इत्) ही ज्ञान को (दाशुषे) विद्यादि देनेवाले के लिये (भूयः) फिर (नु) शीघ्र (उपोपपृच्यते) प्राप्त (कदाचन) कभी (न) नहीं होता ॥३४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो जगदीश्वर कर्म के फल को देनेवाला नहीं होता तो कोई भी प्राणी व्यवस्था के साथ किसी कर्म के फल को प्राप्त नहीं हो सकता ॥३४॥
दयानन्द-सरस्वती (सं) - विषयः
स इन्द्रः कीदृश इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे इन्द्र ! यदा त्वं स्तरीरसि तदा दाशुषे कदाचनेन्नु न सश्चसि तदा हे मघवन् ! देवस्य ते तव दानं तस्मै दाशुषे भूयः कदा चनेन्नु नोपोपपृच्यते ॥३४॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदीश्वरः कर्मफलप्रदाता न स्यात्, तर्हि न कश्चिदपि जीवो व्यवस्थया कर्मफलं प्राप्नुयादिति ॥३४॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जर परमेश्वर कर्माचे फळ देणारा नसता, तर कोणत्याही प्राण्याला कर्माचे फळ यथायोग्यरीत्या मिळाले नसते.
३५ तत् सवितुर्वरेण्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
तत् स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि। धियो॒ यो नः॑ प्रचो॒दया॑त् ॥३५॥
मूलम् ...{Loading}...
तत् स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि। धियो॒ यो नः॑ प्रचो॒दया॑त् ॥३५॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
तत्। स॒वि॒तुः। वरे॑ण्यम्। भर्गः॑। दे॒वस्य॑। धी॒म॒हि॒। धि॒यः॑। यः। नः॒। प्र॒। चो॒द॒या॒त्। ३५।
महीधरः
म०. विश्वामित्रदृष्टा सावित्री गायत्रीजपे विनियुक्ता । तदिति षष्ठ्यर्थे । तस्य देवस्य द्योतनात्मकस्य सवितुः प्रेरकस्यान्तर्यामिणो विज्ञानानन्दस्वभावस्य हिरण्यगर्भोपाध्यवच्छिन्नस्य वा आदित्यान्तरपुरुषस्य वा ब्रह्मणो वरेण्यं वरणीयं सर्वैः प्रार्थनीयं भर्गः सर्वपापानां सर्वसंसारस्य च भर्जनसमर्थं तेजः सत्यज्ञानानन्दादिवेदान्तप्रतिपाद्यं वयं धीमहि ध्यायामः । छान्दसं संप्रसारणम् । यद्वा मण्डलं पुरुषो रश्मय इति त्रयं भर्गःशब्दवाच्यम् । भर्गो वीर्यं वा । ‘वरुणाद्ध वा अभिषिषिचानाद्भर्गोऽपचक्राम वीर्यं वै भर्गः’ (५। ४।५।१) इति श्रुतेः । तस्य कस्य । यः सविता नोऽस्माकं धियः बुद्धीः कर्माणि वा प्रचोदयात्प्रकर्षेण चोदयति प्रेरयति सत्कर्मानुष्ठानाय । यद्वा वाक्यभेदेन योजना । सवितुर्देवस्य तत् वरेण्यं भर्गो ध्यायामः । यश्च नो बुद्धीः प्रेरयति तं च ध्यायामः । स च सवितैव । लिङ्गव्यत्ययेन योजना । सवितुर्दैवस्य तत् भर्गो धीमहि । यो यत् भर्गो नो बुद्धीः प्रेरयति ॥ ३५ ॥
षट्त्रिंशी।
अधिमन्त्रम् (VC)
- सविता देवता
- विश्वामित्र ऋषिः
- निचृद् गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
उस जगदीश्वर की कैसी स्तुति, प्रार्थना और उपासना करनी चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हम लोग (सवितुः) सब जगत् के उत्पन्न करने वा (देवस्य) प्रकाशमय शुद्ध वा सुख देनेवाले परमेश्वर का जो (वरेण्यम्) अति श्रेष्ठ (भर्गः) पापरूप दुःखों के मूल को नष्ट करनेवाला तेजःस्वरूप है (तत्) उसको (धीमहि) धारण करें और (यः) जो अन्तर्यामी सब सुखों का देनेवाला है, वह अपनी करुणा करके (नः) हम लोगों की (धियः) बुद्धियों को उत्तम-उत्तम गुण, कर्म, स्वभावों में (प्रचोदयात्) प्रेरणा करे ॥३५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को अत्यन्त उचित है कि इस सब जगत् के उत्पन्न करने वा सब से उत्तम सब दोषों के नाश करने तथा अत्यन्त शुद्ध परमेश्वर ही की स्तुति, प्रार्थना और उपासना करें। किस प्रयोजन के लिये, जिससे वह धारण वा प्रार्थना किया हुआ हम लोगों को खोटे-खोटे गुण और कर्मों से अलग करके अच्छे-अच्छे गुण, कर्म और स्वभावों में प्रवृत्त करे, इसलिये। और प्रार्थना का मुख्य सिद्धान्त यही है कि जैसी प्रार्थना करनी, वैसा ही पुरुषार्थ से कर्म का आचरण करना चाहिये ॥३५॥
दयानन्द-सरस्वती (सं) - विषयः
तस्य जगदीश्वरस्य कीदृश्यः स्तुतिप्रार्थनोपासनाः कार्या इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - वयं सवितुर्देवस्य परमेश्वरस्य यद्वरेण्यं भर्गः स्वरूपमस्ति तद्धीमहि। यः सविता देवोऽन्तर्यामी परमेश्वरः स नोऽस्माकं धियः प्रचोदयात् प्रेरयेत् ॥३५॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैः सकलजगदुत्पादकस्य सर्वोत्कृष्टस्य सकलदोषनाशकस्य शुद्धस्य परमेश्वरस्यैवोपासना नित्यं कार्या। कस्मै प्रयोजनायेत्यत्राह स स्तुतो धारितः प्रार्थित उपासितः सन्नस्मान् सर्वेभ्यो दुष्टगुणकर्मस्वभावेभ्यः पृथक्कृत्य सर्वेषु गुणकर्मस्वभावेषु नित्यं प्रवर्तयेदित्यस्मै। अयमेव प्रार्थनाया मुख्यः सिद्धान्तः। यादृशीं प्रार्थनां कुर्यात् तादृशमेव कर्माचरेदिति ॥३५॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी सृष्टिकर्ता, सर्वोत्कृष्ट, सर्व दोष नाहीसे करणारा, शुद्ध अशा परमेश्वराचीच स्तुती, प्रार्थना व उपासना करावी. परमेश्वराची प्रार्थना करण्याचा हाच उद्देश आहे की दुष्ट गुणांचा त्याग करून चांगल्या गुण, कर्म स्वभावाचा स्वीकार करावा. प्रार्थनेचे मुख्य तत्त्व हेच आहे की, जशी प्रार्थना करावयाची असेल तसाच पुरुषार्थ करून कर्मही करावे.
३६ परि ते
विश्वास-प्रस्तुतिः ...{Loading}...
परि॑ ते दू॒डभो॒ रथो॒ऽस्माँ२ऽअ॑श्नोतु वि॒श्वतः॑। येन॒ रक्ष॑सि दा॒शुषः॑ ॥३६॥
मूलम् ...{Loading}...
परि॑ ते दू॒डभो॒ रथो॒ऽस्माँ२ऽअ॑श्नोतु वि॒श्वतः॑। येन॒ रक्ष॑सि दा॒शुषः॑ ॥३६॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
परि॑। ते॒। दू॒डभः॑। दु॒र्दभ॒ऽइति॑ दुः॒ऽदभः॑। रथः॑। अ॒स्मान्। अ॒श्नो॒तु॒। वि॒श्वतः॑। येन॑। रक्ष॑सि। दा॒शुषः॑। ३६।
महीधरः
म०. आग्नेयी गायत्री वामदेवदृष्टा जपे विनियुक्ता। हे अग्ने, ते तव रथोऽस्मान् यजमानान् विश्वतः सर्वासु दिक्षु पर्यश्नोतु परितो व्याप्नोतु अस्मद्रक्षणाय सर्वतस्तिष्ठतु । किंभूतो रथः । दूडभः । दभ्नोतिर्वधकर्मा । दुःखेन दभ्यते दुर्दभः । केनापि सहसा हिंसितुमशक्यः । ‘उकारं दुर्दे० ’ (प्रा० का० ३।३। ४) इति प्रातिशाख्यसूत्रेण दुरो रेफस्य उकारः अग्निपदस्य डः । येन रथेन त्वं दाशुषो यजमानान् रक्षसि पालयसि । ‘यजमाना वै दाश्वांसः’ ( २ । ३ । ४ । ३८ ) इति श्रुतेः ॥३६॥
बृहदुपस्थानं समाप्तम् ।
सप्तत्रिंशी[५]।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वामदेव ऋषिः
- निचृद् गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
वह परमेश्वर कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे जगदीश्वर ! आप (येन) जिस ज्ञान से (दाशुषः) विद्यादि दान करनेवाले विद्वानों को (विश्वतः) सब ओर से (रक्षसि) रक्षा करते और जो (ते) आपका (दूडभः) दुःख से भी नहीं नष्ट होने योग्य (रथः) सब को जानने योग्य विज्ञान सब ओर से रक्षा करने के लिये है, वह (अस्मान्) आपकी आज्ञा के सेवन करनेवाले हम लोगों को (परि) सब प्रकार (अश्नोतु) प्राप्त हो ॥३६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को सब की रक्षा करनेवाले परमेश्वर वा विज्ञानों की प्राप्ति के लिये प्रार्थना और अपना पुरुषार्थ नित्य करना चाहिये, जिससे हम लोग अविद्या, अधर्म आदि दोषों को त्याग करके उत्तम-उत्तम विद्या, धर्म आदि शुभगुणों को प्राप्त होके सदा सुखी होवें ॥३६॥
दयानन्द-सरस्वती (सं) - विषयः
स जगदीश्वरः कीदृश इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे जगदीश्वर ! त्वं येन रथेन दाशुषो विश्वतो रक्षसि, स ते तव दूडभो रथो विज्ञानं विश्वतो रक्षितुमस्मान् पर्यश्नोतु सर्वतः प्राप्नोतु ॥३६॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैः सर्वाभिरक्षकस्य परमेश्वरस्य विज्ञानस्य च प्राप्तये प्रार्थनापुरुषार्थौ नित्यं कर्तव्यौ। यतो रक्षिताः सन्तो वयमसद्विद्याऽधर्मादिदोषांस्त्यक्त्वा सद्विद्याधर्मादिशुभगुणान् प्राप्य सदा सुखिनः स्यामेति ॥३६॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - विज्ञान प्राप्त व्हावे यासाठी माणसांनी सर्वांचा रक्षणकर्ता व विज्ञानदाता अशा परमेश्वराची प्रार्थना करून सदैव पुरुषार्थ करावा, ज्यामुळे माणसांची अविद्या, अधर्म इत्यादी दोष नष्ट होऊन उत्तम विद्या, धर्म इत्यादी शुभ गुण प्राप्त होऊन सदैव सुख मिळेल.
३७ भूर्भुवः स्वः
विश्वास-प्रस्तुतिः ...{Loading}...
भूर्भुवः॒ स्वः᳖ सुप्र॒जाः प्र॒जाभिः॑ स्याँ सु॒वीरो॑ वी॒रैः सु॒पोषः॒ पोषैः॑। नर्य॑ प्र॒जां मे॑ पाहि॒ शँस्य॑ प॒शून् मे॑ पा॒ह्यथ॑र्य पि॒तुं मे॑ पाहि ॥३७॥
मूलम् ...{Loading}...
भूर्भुवः॒ स्वः᳖ सुप्र॒जाः प्र॒जाभिः॑ स्याँ सु॒वीरो॑ वी॒रैः सु॒पोषः॒ पोषैः॑। नर्य॑ प्र॒जां मे॑ पाहि॒ शँस्य॑ प॒शून् मे॑ पा॒ह्यथ॑र्य पि॒तुं मे॑ पाहि ॥३७॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
भूः। भुवः॑। स्व॒रिति॒ स्वः᳖। सु॒प्र॒जा इति॑ सुऽप्र॒जाः। प्र॒जाभि॒रिति॑ प्र॒ऽजाभिः॑। स्या॒म्। सु॒वीर॒ इति॑ सु॒ऽवीरः॑। वी॒रैः। सु॒पोष॒ इति॑ सु॒पोषः॑। पोषैः॑। नर्य॑। प्र॒जामिति॑ प्र॒ऽजाम्। मे॒। पा॒हि॒। शँस्य॑। प॒शून्। मे॒। पा॒हि॒। अथ॑र्य। पि॒तुम्। मे॒ पा॒हि॒। ३७।
महीधरः
म० अथ क्षुल्लकोपस्थानमासुरिदृष्टम् । ‘भूर्भुवःस्वरिति वोभौ’ (का० ४ । १२ । १२) इति । वाशब्दो विकल्पार्थः । पूर्वोक्तेनोपप्रयन्त इत्यादिना वक्ष्यमाणेन भूर्भुवःस्वरित्यादिना वोभावग्नी उपतिष्ठेत । उभयोपस्थानं कुर्यादिति सूत्रार्थः। हे अग्ने, भूर्भुवःस्वः त्वं व्याहृत्यादित्रयात्मकः तदर्थभूतलोकत्रयात्मको वा । अतस्त्वत्प्रसादादहं प्रजाभिः बन्धुभृत्यादिरूपाभिः कृत्वा सुप्रजाः स्यामनुकूलत्वेन शोभनाः प्रजा यस्य तादृशो भवेयम् । तथा वीरैः पुत्रैः सुवीरः स्यां शास्त्रीयमार्गवर्तिशोभनपुत्रयुक्तो भवेयम् । तथा पोषैः हिरण्यादिपोषणैः सुपोषः स्यां बहुमूल्यार्हहिरण्यादियुक्तो भवेयम् ॥
प्रवत्स्यदुपस्थानमागतोपस्थानं चादित्यदृष्टम् ॥
‘प्रवत्स्यन् सर्वान्नर्येषि प्रतिमन्त्रम्’ (का० ४ । ११ । १३) इति । यद्वा यजमानो ग्रामान्तरं गन्तुमिच्छति तदानीं सर्वानग्नीन्नर्येत्यादिमन्त्रैरुपतिष्ठेत । अथ मन्त्रार्थः । नर्य नरेभ्यो हित गार्हपत्य, मे प्रजां पाहि । आहवनीयमुपतिष्ठते । हे शंस्य अनुष्ठातृभिः शंसितुं योग्याहवनीय, मे मम प्रजां पाहि रक्ष । दक्षिणाग्निमुपतिष्ठते । हे अथर्य दक्षिणाग्ने, मे पितुमन्नं पाहि । अतनवानथर्यः । ‘अत सातत्यगमने’ । सततं गार्हपत्यात्स्वस्थानं दक्षिणाग्निर्गच्छति तेनाथर्यः । निपातोऽयम् ॥ ३७॥
अष्टत्रिंशी[६]।
अधिमन्त्रम् (VC)
- प्रजापतिर्ऋषिः
- वामदेव ऋषिः
- ब्राह्मी उष्णिक्,
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर उस जगदीश्वर की प्रार्थना किसलिये करनी चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (नर्य) नीतियुक्त मनुष्यों पर कृपा करनेवाले परमेश्वर ! आप कृपा करके (मे) मेरी (प्रजाम्) पुत्र आदि प्रजा की (पाहि) रक्षा कीजिये वा (मे) मेरे (पशून्) गौ, घोड़े, हाथी आदि पशुओं की (पाहि) रक्षा कीजिये। हे (अथर्य) सन्देह रहित जगदीश्वर ! आप (मे) मेरे (पितुम्) अन्न की (पाहि) रक्षा कीजिये। हे (शंस्य) स्तुति करने योग्य ईश्वर ! आपकी कृपा से मैं (भूर्भुवः स्वः) जो प्रियस्वरूप प्राण, बल का हेतु उदान तथा सब चेष्टा आदि व्यवहारों का हेतु व्यान वायु है, उनके साथ युक्त होके (प्रजाभिः) अपने अनुकूल स्त्री, पुत्र, विद्या, धर्म, मित्र, भृत्य, पशु आदि पदार्थों के साथ (सुप्रजाः) उत्तम विद्या, धर्मयुक्त, प्रजासहित वा (वीरैः) शौर्य, धैर्य, विद्या, शत्रुओं के निवारण, प्रजा के पालन में कुशलों के साथ (सुवीरः) उत्तम शूरवीरयुक्त और (पोषैः) पुष्टिकारक पूर्ण विद्या से उत्पन्न हुए व्यवहारों के साथ (सुपोषः) उत्तम पुष्टि उत्पादन करनेवाला (स्याम्) नित्य होऊँ ॥३७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को ईश्वर की उपासना वा उस की आज्ञा के पालन का आश्रय लेकर उत्तम-उत्तम नियमों से वा उत्तम प्रजा, शूरता, पुष्टि आदि कारणों से प्रजा का पालन करके निरन्तर सुखों को सिद्ध करना चाहिये ॥३७॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स जगदीश्वरः किमर्थः प्रार्थनीय इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे नर्य्य ! त्वं कृपया मे मम प्रजां पाहि मे मम पशून् पाहि। हे अथर्य्य ! मे मम पितुं पाहि। हे शंस्य ! जगदीश्वर ! भवत्कृपयाऽहं भूर्भुवः स्वः प्राणापानव्यानैर्युक्तः सन् प्रजाभिः सुप्रजा वीरैः सुवीरः पोषैः सह च सुपोषः स्यां नित्यं भवेयम् ॥३७॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैरीश्वरोपासनाज्ञापालनमाश्रित्य सुनियमैः पुरुषार्थेन श्रेष्ठप्रजावीरपुष्ट्यादिकारणैः प्रजापालनं कृत्वा नित्यं सुखं सम्पादनीयम् ॥३७॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी ईश्वराची उपासना करावी व त्याच्या आज्ञेचे पालन करून उत्तम संताने निर्माण करावीत, शूर बनावे. पुष्टिकारक व्यवहाराने प्रजेचे पालन करावे व नित्य सुखी व्हावे.
३८ आगन्म विश्ववेदसमस्मभ्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
आग॑न्म वि॒श्ववे॑दसम॒स्मभ्यं॑ वसु॒वित्त॑मम्। अग्ने॑ सम्राड॒भि द्यु॒म्नम॒भि सह॒ऽआय॑च्छस्व ॥३८॥
मूलम् ...{Loading}...
आग॑न्म वि॒श्ववे॑दसम॒स्मभ्यं॑ वसु॒वित्त॑मम्। अग्ने॑ सम्राड॒भि द्यु॒म्नम॒भि सह॒ऽआय॑च्छस्व ॥३८॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ। अ॒ग॒न्म॒। वि॒श्ववे॑दस॒मिति॑ वि॒श्वऽवे॑दसम्। अ॒स्मभ्य॑म्। व॒सु॒वित्त॑म॒मिति॑ वसु॒वित्ऽत॑मम्। अग्ने॑। स॒म्रा॒डिति॑ सम्ऽराट्। अ॒भि। द्यु॒म्नम्। अ॒भि। सहः॑। आ। य॒च्छ॒स्व॒। ३८।
महीधरः
म० ‘समित्पाणिरुपेत्य कंचिदुपतिष्ठत आहवनीयगार्हपत्यदक्षिणाग्नीनागन्मेति प्रतिमन्त्रम्’ (का० ४ । १२ । १८) | इति । समिधं हस्ते आदाय कंचिदपि जनमगत्वेव प्रथममेवाग्न्यगारं प्राप्यागन्मेत्यादिमन्त्रत्रयेणाहवनीयादीनुपतिष्ठत इति सूत्रार्थः । अनुष्टुबाहवनीयदेवत्या । हे अग्ने, सम्राट् सम्यक् राजते दीप्यते सम्राट् तथाविधाग्ने आहवनीय, वयं त्वामागन्म त्वामुद्दिश्य ग्रामान्तरात्प्रत्यागताः । किंभूतं त्वाम् । विश्ववेदसं विश्वं वेत्ति वेदयतीति वा विश्ववेदास्तम् । विश्वं वेदो धनं यस्येति वा । सर्वज्ञं सर्वधनं वा । पुनः किंभूतम् । अस्मभ्यं वसुवित्तममस्मदर्थमतिशयेन वसुनो धनस्य वेदितारं लव्धारम् । किंच । हे अग्ने, द्युम्नं सहश्च अस्मभ्यमभि आयच्छस्व । ‘दाण् दाने’ । ‘पाघ्रा-’ (पा० ७ । ३ । १८) इत्यादिना यच्छादेशः । यशो बलं चास्मभ्यं देहि । ‘द्युम्नं द्योततेर्यशो वान्नं वा’ (निरु० ५। ५)। सह इति बलनाम (निघं० २।९) यच्छस्वेति यमे रूपं वा । आयच्छस्व आगमय । यच्छतिः स्थापनार्थो वा । अस्मासु यशो बलं च स्थापय ॥३८॥
एकोनचत्वारिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- आसुरिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब अग्नि शब्द से ईश्वर और भौतिक अग्नि का उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सम्राट्) प्रकाशस्वरूप (अग्ने) जगदीश्वर ! आप (अस्मभ्यम्) उपासना करनेवाले हम लोगों के लिये (द्युम्नम्) प्रकाशस्वरूप उत्तम यश वा (सहः) उत्तम बल को (अभ्यायच्छस्व) सब ओर से विस्तारयुक्त करते हो, इसलिये हम लोग (वसुवित्तमम्) पृथिवी आदि लोकों के जानने वा (विश्ववेदसम्) सब सुखों के जाननेवाले आपको (अभ्यागन्म) सब प्रकार प्राप्त होवें ॥१॥३८॥ जो यह (सम्राट्) प्रकाश होनेवाला (अग्ने) भौतिक अग्नि (अस्मभ्यम्) यज्ञ के अनुष्ठान करनेवाले हम लोगों के लिये (द्युम्नम्) उत्तम-उत्तम यश वा (सहः) उत्तम-उत्तम बल को (अभ्यायच्छस्व) सब प्रकार विस्तारयुक्त करता है, उस (वसुवित्तमम्) पृथिवी आदि लोकों को सूर्यरूप से प्रकाश करके प्राप्त कराने वा (विश्ववेदसम्) सब सुखों को जाननेवाले अग्नि को हम लोग (अभ्यागन्म) सब प्रकार प्राप्त होवें ॥३८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। मनुष्यों को परमेश्वर वा भौतिक अग्नि के गुणों को जानने वा उसके अनुसार अनुष्ठान करने से कीर्ति, यश और बल का विस्तार करना चाहिये ॥२॥३८॥
दयानन्द-सरस्वती (सं) - विषयः
अथाग्निशब्देनेश्वरभौतिकावर्थावुपदिश्येते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सम्राडग्ने जगदीश्वर ! त्वं अस्मभ्यं द्युम्नं सहश्चाभ्यायच्छस्व विस्तारय। एतदर्थं वयं वसुवित्तमं विश्ववेदसं त्वामभ्यागन्म प्राप्नुयामेत्येकः ॥१॥३८॥ यः सम्राडग्नेऽयमग्निरस्मभ्यं सहश्चाभ्यायच्छति सर्वतो विस्तारयति, तं वसुवित्तमं विश्ववेदसमग्निं वयमभ्यागन्म प्राप्नुयामेति द्वितीयः ॥२॥३८॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। मनुष्यैः परमेश्वरभौतिकाग्न्योर्गुणविज्ञानेन तदनुसारानुष्ठानेन सर्वतः कीर्तिबले नित्यं विस्तारणीय इति ॥३८॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. माणसांनी परमेश्वर व भौतिक अग्नीचे गुण जाणून त्यानुसार अनुष्ठान करून कीर्ती, यश व बल वाढवावे.
३९ अयमग्निर्गृहपतिर्गार्हपत्यः प्रजाया
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒यम॒ग्निर्गृ॒हप॑ति॒र्गार्ह॑पत्यः प्र॒जाया॑ वसु॒वित्त॑मः। अग्ने॑ गृहपते॒ऽभि द्यु॒म्नम॒भि सह॒ऽआय॑च्छस्व ॥३९॥
मूलम् ...{Loading}...
अ॒यम॒ग्निर्गृ॒हप॑ति॒र्गार्ह॑पत्यः प्र॒जाया॑ वसु॒वित्त॑मः। अग्ने॑ गृहपते॒ऽभि द्यु॒म्नम॒भि सह॒ऽआय॑च्छस्व ॥३९॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒यम्। अ॒ग्निः। गृ॒हप॑ति॒रिति॑ गृ॒हऽप॑तिः। गार्ह॑पत्य॒ इति॒ गार्ह॑ऽपत्यः॑। प्र॒जाया॒ इति॑ प्र॒जायाः॑। व॒सु॒वित्त॑म॒ इति॑ वसु॒वित्ऽत॑मः। अग्ने॑। गृ॒ह॒प॒त॒ इति॑ गृहऽपते। अ॒भि। द्यु॒म्नम्। अ॒भि। सहः॑। आ। य॒च्छ॒स्व॒। ३९।
महीधरः
म० गार्हपत्यमुपतिष्ठते । न्यङ्कुसारिणी बृहती । यस्या द्वितीयः पादो द्वादशाक्षरोऽन्ये त्रयोऽष्टाक्षराः सा न्यङ्कुसारिणी । अत्र तृतीयो नवार्णस्तेनैकाधिका । अयं पुरोऽवस्थितो गार्हपत्य एतन्नामकोऽग्निर्गृहस्य पतिः पालकः । प्रजायाः पुत्रपौत्रादिकायाः अनुग्रहार्थं वसुवित्तमः अतिशयेन धनस्य लब्धा । हे अग्ने, स त्वं द्युम्नं सहश्चाभ्यायच्छस्व देहि ॥ ३९ ॥
चत्वारिंशी। ।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- आसुरिर्ऋषिः
- भुरिग् बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
अब अगले मन्त्र में ईश्वर और भौतिक अग्नि का उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (गृहपते) घर के पालन करनेवाले (अग्ने) परमेश्वर ! जो (अयम्) यह (गृहपतिः) स्थान विशेषों के पालन हेतु (गार्हपत्यः) घर के पालन करनेवालों के साथ संयुक्त (प्रजाया वसुवित्तमः) प्रजा के लिये सब प्रकार धन प्राप्त करानेवाले हैं, सो आप जिस कारण (द्युम्नम्) सुख और प्रकाश से युक्त धन को (अभ्यायच्छस्व) अच्छी प्रकार दीजिये तथा (सहः) उत्तम बल, पराक्रम (अभ्यायच्छस्व) अच्छी प्रकार दीजिये ॥१॥३९॥ जिस कारण जो (गृहपतिः) उत्तम स्थानों के पालन का हेतु (प्रजायाः) पुत्र, मित्र, स्त्री और भृत्य आदि प्रजा को (वसुवित्तमः) द्रव्यादि को प्राप्त कराने वा (गार्हपत्यः) गृहों के पालन करनेवालों के साथ संयुक्त (अयम्) यह (अग्ने) बिजुली सूर्य वा प्रत्यक्षरूप से अग्नि है, इससे वह (गृहपते) घरों का पालन करनेवाला (अग्ने) अग्नि हम लोगों के लिये (अभिद्युम्नम्) सब ओर से उत्तम उत्तम धन वा (सहः) उत्तम-उत्तम बलों को (अभ्यायच्छस्व) सब प्रकार से विस्तारयुक्त करता है ॥२॥ ॥३९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। गृहस्थ लोग जब ईश्वर की उपासना और उसकी आज्ञा में प्रवृत्त होके कार्य्य की सिद्धि के लिये इस अग्नि को संयुक्त करते हैं, तब वह अग्नि अनेक प्रकार के धन और बलों को विस्तारयुक्त करता है, क्योंकि यह प्रजा में पदार्थों की प्राप्ति के लिये अत्यन्त सिद्धि करने हारा है ॥३९॥
दयानन्द-सरस्वती (सं) - विषयः
अथेश्वरभौतिकावग्नी उपदिश्येते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे गृहपतेऽग्ने परमात्मन् ! योऽयं भवान् गृहपतिर्गार्हपत्यः प्रजाया वसुवित्तमोऽग्निरस्ति, तस्मात् त्वमस्मदर्थं द्युम्नमभ्यायच्छस्व सहश्चाभ्यायच्छस्वेत्येकः ॥ यस्माद् गृहपतिः प्रजाया वसुवित्तमो गार्हपत्योऽयमग्निरस्ति तस्मात् सोऽभिद्युम्नं सहश्चाभ्यायच्छति आभिमुख्येन समन्तात् विस्तारयतीति द्वितीयः ॥३९॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। गृहस्थैर्यदेश्वरमुपास्यैतस्याज्ञायां वर्त्तित्वायमग्निः कार्यसिद्धये संयोज्यते, तदानेकविधे धनबले अत्यन्तं विस्तारयति। कुतः? प्रजाया मध्येऽस्याग्नेः पदार्थप्राप्तये साधकतमत्वादिति ॥३९॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. गृहस्थ जेव्हा ईश्वराची उपासना करतात तेव्हा त्याच्या आज्ञेत राहून कार्य सिद्ध व्हावे यासाठी अग्नीचा प्रयोग करतात तेव्हा अग्नी अनेक प्रकाराने त्यांचे धन व बल वाढवितो. कारण या अग्नीमुळेच प्रजेला पदार्थाची प्राप्ती होते.
४० अयमग्निः पुरीष्यो
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒यम॒ग्निः पु॒री॒ष्यो᳖ रयि॒मान् पु॑ष्टि॒वर्ध॑नः। अग्ने॑ पुरीष्या॒भि द्यु॒म्नम॒भि सह॒ऽआय॑च्छस्व ॥४०॥
मूलम् ...{Loading}...
अ॒यम॒ग्निः पु॒री॒ष्यो᳖ रयि॒मान् पु॑ष्टि॒वर्ध॑नः। अग्ने॑ पुरीष्या॒भि द्यु॒म्नम॒भि सह॒ऽआय॑च्छस्व ॥४०॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒यम्। अ॒ग्निः। पु॒री॒ष्यः᳖। र॒यि॒मानिति॑ रयि॒ऽमान्। पु॒ष्टि॒वर्ध॑न॒ इति॑ पुष्टि॒ऽवर्ध॑नः। अ॒ग्ने। पु॒री॒ष्य॒। अ॒भि। द्यु॒म्नम्। अ॒भि। सहः॑। आ। य॒च्छ॒स्व॒। ४०।
महीधरः
म० दक्षिणाग्निमुपतिष्ठते । अनुष्टुप् । योऽयमग्निः पुरीष्यः[८] पशव्यः । ‘पशवो वै पुरीषं’ इति श्रुतेः । रयिमान्धनवान् पुष्टिवर्धनः पोषस्य वर्धयिता । तं याचे । हे अग्ने, पुरीष्य पशुहित, द्युम्नं सहस्वाभ्यायच्छस्व देहि ॥ ४० ॥
एकचत्वारिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- आसुरिर्ऋषिः
- निचृद् अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर भौतिक अग्नि कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (पुरीष्य) कर्मों के पूरण करने में अतिकुशल (अग्ने) उत्तम से उत्तम पदार्थों के प्राप्त करानेवाले विद्वन् ! आप जो (अयम्) यह (पुरीष्यः) सब सुखों के पूर्ण करने में अत्युत्तम (रयिमान्) उत्तम-उत्तम धनयुक्त (पुष्टिवर्द्धनः) पुष्टि को बढ़ानेवाला (अग्निः) भौतिक अग्नि है, उस से हम लोगों के लिये (अभिद्युम्नम्) उत्तम-उत्तम ज्ञान को सिद्ध करनेवाले धन वा (अभिसहः) उत्तम-उत्तम शरीर और आत्मा के बलों को (आयच्छस्व) सब प्रकार से विस्तारयुक्त कीजिये ॥४०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को परमेश्वर की कृपा वा अपने पुरुषार्थ से अग्निविद्या को सम्पादन करके अनेक प्रकार के धन और बलों को विस्तारयुक्त करना चाहिये ॥४०॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्भौतिकोऽग्निः कीदृश इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे पुरीष्याग्ने विद्वंस्त्वं योऽयं पुरीष्यो रयिमान् पुष्टिवर्द्धनोऽग्निरस्ति, तस्मादभिद्युम्नमभिसहो वा यच्छस्व विस्तारय ॥४०॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैः परमेश्वरानुग्रहस्वपुरुषार्थाभ्यामग्निविद्यां प्राप्यानेकविधं धनं बलं च सर्वतो विस्तारणीयमिति ॥४०॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी परमेश्वराच्या कृपेने व आपल्या पुरुषार्थाने अग्निविद्या संपादन करून अनेक प्रकारे धन व बल वाढवावे.
४१ गृहा मा
विश्वास-प्रस्तुतिः ...{Loading}...
गृहा॒ मा बि॑भीत॒ मा वे॑पध्व॒मूर्जं॒ बिभ्र॑त॒ऽएम॑सि। ऊर्जं॒ बिभ्र॑द्वः सु॒मनाः॑ सुमे॒धा गृ॒हानैमि॒ मन॑सा॒ मोद॑मानः ॥४१॥
मूलम् ...{Loading}...
गृहा॒ मा बि॑भीत॒ मा वे॑पध्व॒मूर्जं॒ बिभ्र॑त॒ऽएम॑सि। ऊर्जं॒ बिभ्र॑द्वः सु॒मनाः॑ सुमे॒धा गृ॒हानैमि॒ मन॑सा॒ मोद॑मानः ॥४१॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
गृहाः॑। मा। बि॒भी॒त॒। मा। वे॒प॒ध्व॒म्। ऊर्ज॑म्। बिभ्र॑तः। आ। इ॒म॒सि॒। ऊर्ज॑म्। बिभ्र॑त्। वः॒। सु॒मना॒ इति॑ सु॒ऽमनाः॑। सु॒मे॒धा इति॑ सुऽमे॒धाः। गृ॒हान्। ए॒मि॒। मन॑सा। मोद॑मानः। ४१।
महीधरः
म० ‘गृहा मा बिभीतेति गृहानुपैति’ ( का० ४ । १२ । २२) इति । ग्रामान्तरादागतो गृहा मेत्यादिमन्त्रत्रयेण गृहं प्राप्नुयात् । तिस्रोऽपि वास्तुदेवत्याः शंयुदृष्टाः । त्रिष्टुब्विराड्रूपा । यस्या एकादशार्णास्त्रयः पादा एकोऽष्टार्णः सा विराड्रूपा । अत्र प्रथमो दशार्णस्तेनैकोना । हे गृहाः, यूयं मा बिभीत । पालको यजमानो गत इति भयं मा कुरुत । मा च वेपध्वम् । कोऽपि शत्रुरागत्य विनाशयिष्यतीति बुद्ध्या कम्पं मा कार्ष्ट । यतो वयमूर्जं बिभ्रतो धारयमाणानक्षीणान्नानेव युष्मान् एमसि । आ इमः आगताः स्मः । यथा यूयमूर्जं बिभ्रतः तथाहमपि ऊर्जं बिभ्रत् धारयन् सुमनाः शोभनमनस्कः सुमेधाः शोभनधारणप्रज्ञोपेतः । मनसा दुःखरहितेन मोदमानः हृष्यन् वो युष्मान् गृहानैमि आगच्छामि । एमः ऐमीत्यात्मनि विकल्पेन बहुवचनम् ‘अस्मदो द्वयोश्च’ (पा. १।२। ५९) इत्युक्तेः ॥ ४१ ॥
द्विचत्वारिंशी।
अधिमन्त्रम् (VC)
- वास्तुरग्निः
- आसुरिर्ऋषिः
- आर्षी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब अगले मन्त्र में गृहस्थाश्रम के अनुष्ठान का उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे ब्रह्मचर्याश्रम से सब विद्याओं को ग्रहण किये गृहाश्रमी तथा (ऊर्जम्) शौर्यादिपराक्रमों को (बिभ्रतः) धारण किये और (गृहाः) ब्रह्मचर्याश्रम के अनन्तर अर्थात् गृहस्थाश्रम को प्राप्त होने की इच्छा करते हुए मनुष्यो ! तुम गृहस्थाश्रम को यथावत् प्राप्त होओ उस गृहस्थाश्रम के अनुष्ठान से (मा बिभीत) मत डरो तथा (मा वेपध्वम्) मत कम्पो तथा पराक्रमों को धारण किये हुए हम लोग (गृहान्) गृहस्थाश्रम को प्राप्त हुए तुम लोगों को (एमसि) नित्य प्राप्त होते रहें और (वः) तुम लोगों में स्थित होकर इस प्रकार गृहस्थाश्रम में वर्त्तमान (सुमनाः) उत्तम ज्ञान (सुमेधाः) उत्तम बुद्धि युक्त (मनसा) विज्ञान से (मोदमानः) हर्ष, उत्साह युक्त (ऊर्जम्) अनेक प्रकार के बलों को (बिभ्रत्) धारण करता हुआ मैं अत्यन्त सुखों को (एमि) निरन्तर प्राप्त होऊँ ॥४१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को पूर्ण ब्रह्मचर्याश्रम को सेवन करके युवावस्था में स्वयंवर के विधान की रीति से दोनों के तुल्य स्वभाव, विद्या, रूप, बुद्धि और बल आदि गुणों को देखकर विवाह कर तथा शरीर-आत्मा के बल को सिद्ध कर और पुत्रों को उत्पन्न करके सब साधनों से अच्छे-अच्छे व्यवहारों में स्थित रहना चाहिये तथा किसी मनुष्य को गृहास्थाश्रम के अनुष्ठान से भय नहीं करना चाहिये, क्योंकि सब अच्छे व्यवहार वा सब आश्रमों का यह गृहस्थाश्रम मूल है। इस गृहस्थाश्रम का अनुष्ठान अच्छे प्रकार से करना चाहिये और इस गृहस्थाश्रम के विना मनुष्यों की वा राज्यादि व्यवहारों की सिद्धि कभी नहीं होती ॥४१॥
दयानन्द-सरस्वती (सं) - विषयः
अथ गृहाश्रमानुष्ठानमुपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे ब्रह्मचर्येण कृतविद्या गृहाश्रमिणो मनुष्या ऊर्जं बिभ्रतो गृहा यूयं गृहाश्रमं प्राप्नुत, तदनुष्ठानान्मा बिभीत मा वेपध्वं च। ऊर्जं बिभ्रतो वयं युष्मान् गृहानेमसि समन्तात् प्राप्नुमः। वो युष्माकं मध्ये स्थित्वैवं गृहाश्रमे वर्त्तमानः सुमनाः सुमेधा मनसा मोदमान ऊर्जं बिभ्रत् सन्नहं सुखान्येमि नित्यं प्राप्नुयाम् ॥४१॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैः पूर्णब्रह्मचर्याश्रमं संसेव्य युवावस्थायां स्वयंवरविधानेन स्वतुल्यस्वभावविद्यारूपबलवतीं सुपरीक्षितां स्त्रीमुद्वाह्य शरीरात्मबलं संपाद्य सन्तानोत्पत्तिं विधाय सर्वैः साधनैः सद्व्यवहारेषु स्थातव्यम्। नैव केनापि गृहाश्रमानुष्ठानात् कदाचित् भेतव्यं कम्पनीयं च। कुतः? सर्वेषां सद्व्यवहाराणामाश्रमाणां च गृहाश्रमो मूलमस्त्यत एष सम्यगनुष्ठातव्यः, नैतेन विना मनुष्यवृद्धी राज्यसिद्धिश्च जायते ॥४१॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी पूर्ण ब्रह्मचर्याचे पालन करून युवावस्थेत स्वयंवर पद्धतीने (स्त्री-पुरुष) दोघांनी स्वभाव, विद्या, रूप, बुद्धी व बल इत्यादी गुण पाहून विवाह करावा. शरीर व आत्मा यांचे बल वृद्धिंगत करून पुत्र उत्पन्न करावेत. सर्व साधनांनी युक्त होऊन चांगल्या कर्मात स्थित असावे. कोणत्याही माणसाला गृहस्थाश्रमाचे भय वाटता कामा नये. कारण सर्व चांगले व्यवहार व सर्व आश्रमांचे मूळ गृहस्थाश्रमच आहे. म्हणून गृहस्थाश्रमाचे पालन चांगल्या प्रकारे केले पाहिजे. गृहस्थाश्रमाखेरीज माणसांची किंवा राज्यव्यवहाराची सिद्धी कधीही होऊ शकत नाही.
४२ येषामद्ध्येति प्रवसन्
विश्वास-प्रस्तुतिः ...{Loading}...
येषा॑म॒द्ध्येति॑ प्र॒वस॒न् येषु॑ सौमन॒सो ब॒हुः। गृ॒हानुप॑ह्वयामहे॒ ते नो॑ जानन्तु जान॒तः ॥४२॥
मूलम् ...{Loading}...
येषा॑म॒द्ध्येति॑ प्र॒वस॒न् येषु॑ सौमन॒सो ब॒हुः। गृ॒हानुप॑ह्वयामहे॒ ते नो॑ जानन्तु जान॒तः ॥४२॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
येषा॑म्। अ॒ध्येतीत्य॑धि॒ऽएति॑। प्र॒वस॒न्निति॑ प्र॒ऽवस॑न्। येषु॑। सौ॒म॒न॒सः। ब॒हुः। गृ॒हान्। उप॑। ह्व॒या॒म॒हे॒। ते। नः॒। जा॒न॒न्तु॒। जा॒न॒तः। ४२।
महीधरः
म० अनुष्टुप् । प्रवसन् देशान्तरं गच्छन् यजमानो येषामध्येति । ‘इक् स्मरणे’ । यान् गृहान् स्मरति । ‘अधीगर्थदयेशां कर्मणि’ (पा. २ । ३ । ५२ ) इति षष्ठी । गृहविषयं क्षेमं सदा चिन्तयतीत्यर्थः । तथा येषु गृहेषु यजमानस्य बहुः सौमनसो सुमनसो भावः प्रीत्यतिशयः । वयं तान् गृहानुपह्वयामहे आह्वयामः । गृहाभिमानी देवोऽस्मत्समीपमागच्छत्वित्यर्थः । ते गृहदेवा आहूताः सन्तः जानतः उपकाराभिज्ञान् नोऽस्मान् जानन्तु । एते कृतघ्ना न भवन्तीत्यवगच्छन्तु ॥ ४२ ॥
त्रिचत्वारिंशी।
अधिमन्त्रम् (VC)
- वास्तुपतिरग्निर्देवता
- शंयुर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह गृहस्थाश्रम कैसा है, इस विषय का उपदेश अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (प्रवसन्) प्रवास करता हुआ अतिथि (येषाम्) जिन गृहस्थों का (अध्येति) स्मरण करता वा (येषु) जिन गृहस्थों में (बहुः) अधिक (सौमनसः) प्रीतिभाव है, उन (गृहान्) गृहस्थों का हम अतिथि लोग (उपह्वयामहे) नित्यप्रति प्रशंसा करते हैं, जो प्रीति रखनेवाले गृहस्थ लोग हैं (ते) वे (जानतः) जानते हुए (नः) हम धार्मिक अतिथि लोगों को (जानन्तु) यथावत् जानें ॥४२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - गृहस्थों को सब धार्मिक अतिथि लोगों के वा अतिथि लोगों को गृहस्थों के साथ अत्यन्त प्रीति रखनी चाहिये और दुष्टों के साथ नहीं। तथा उन विद्वानों के सङ्ग से परस्पर वार्त्तालाप कर विद्या की उन्नति करनी चाहिये और जो परोपकार करनेवाले विद्वान् अतिथि लोग हैं, उनकी सेवा गृहस्थों को निरन्तर करनी चाहिये औरों की नहीं ॥४२॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्ते गृहाश्रमिणः कीदृशाः सन्तीत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - प्रवसन्नतिथिर्येषामध्येति येषु बहुः सौमनसोऽस्ति। तान् गृहस्थान् वयमतिथय उपह्वयामहे। ये सुहृदो गृहस्थास्ते जानतो नोऽस्मानतिथीन् जानन्तु ॥४२॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - गृहस्थैः सर्वैर्धार्मिकैर्विद्वद्भिरतिथिभिः सह गृहस्थैः सहातिथिभिश्चात्यन्तः सुहृद्भावो रक्षणीयो नैव दुष्टैः सह, तेषां सङ्गे परस्परं संलापं कृत्वा विद्योन्नतिः कार्या। ये परोपकारिणो विद्वांसोऽतिथयः सन्ति, तेषां गृहस्थैर्नित्यं सेवा कार्या नेतरेषामिति ॥४२॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - गृहस्थांनी सर्व धार्मिक अतिथींबरोबर प्रेमाने वागले पाहिजे. अतिथींनीही गृहस्थांबरोबर प्रेमाने वागले पाहिजे. दुष्टांबरोबर प्रेमाने वागू नये. जे विद्वान अतिथी असतात, त्या विद्वानांबरोबर चर्चा करून विद्या वाढवावी व परोपकारी विद्वानांची सदैव सेवा करावी, इतरांची नव्हे.
४३ उपहूताऽइह गावऽउपहूताऽअजावयः
विश्वास-प्रस्तुतिः ...{Loading}...
उप॑हूताऽइ॒ह गाव॒ऽउप॑हूताऽअजा॒वयः॑। अथो॒ऽअन्न॑स्य की॒लाल॒ऽउप॑हूतो गृ॒हेषु॑ नः। क्षेमा॑य वः॒ शान्त्यै॒ प्रप॑द्ये शि॒वँ श॒ग्मँ शं॒योः शं॒योः ॥४३॥
मूलम् ...{Loading}...
उप॑हूताऽइ॒ह गाव॒ऽउप॑हूताऽअजा॒वयः॑। अथो॒ऽअन्न॑स्य की॒लाल॒ऽउप॑हूतो गृ॒हेषु॑ नः। क्षेमा॑य वः॒ शान्त्यै॒ प्रप॑द्ये शि॒वँ श॒ग्मँ शं॒योः शं॒योः ॥४३॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उप॑हूता॒ इत्युप॑ऽहूताः। इ॒ह। गावः॑। उप॑हूता॒ इत्युप॑ऽहूताः। अ॒जा॒वयः॑। अथो॒ऽइत्यथो॑। अन्न॑स्य। की॒लालः॑। उप॑हूत॒ इत्युप॑ऽहूतः। गृ॒हेषु॑। नः॒। क्षेमा॑य। वः॒। शान्त्यै॑। प्र॒। प॒द्ये॒। शि॒वम्। श॒ग्मम्। शं॒योरिति॑ श॒म्ऽयोः॑। शं॒योरिति॑ श॒म्ऽयोः॑। ४३।
महीधरः
म० त्र्यवसाना महापङ्क्तिः । यस्या अष्टार्णाः षट् पादाः सा महापङ्क्तिः । पञ्चमो नवमार्णस्तेनैकाधिका । इह गृहेषु गाव उपहूताः धेनवो बलीवर्दाश्च सुखेन तिष्ठन्त्वित्येवमनुज्ञाताः । यथा इह गृहेषु अजावयः उपहूताः अजात्वावित्वजातिद्वययुक्ताः पशव उपहूताः सुखेन वर्तन्तामित्यस्माभिरनुज्ञाताः। | अथो अपिच अन्नस्य कीलालः अन्नसंबन्धी रसविशेषो नोऽस्मदीयेषु गृहेषु उपहूतः समृद्धो भवत्वित्येवमस्माभिरनुज्ञातः ।
‘क्षेमाय व इति प्रविशति’ ( का० ४ । १२ । २३ ) इति । हे गृहाः, वो युष्मान् प्रपद्ये प्राप्नोमि । किमर्थम् । क्षेमाय विद्यमानस्य वसुनो रक्षणं क्षेमस्तदर्थम् । शान्त्यै मम सर्वानिष्टशमनाय । शंयोः शमिति सुखनाम ( निघं० ३ । ६ । १९) तत्कामयते इति शंयुः । ‘इदंयुरिदंकामयमानः’ (निरु० ६ ।३१) इति यास्कोक्तत्वात्तादृशस्य मम । शिवं शग्ममिति द्वे सुखनामनी (निघं० ३ । ६ । १८-२२) तत्राद्यमैहिकं द्वितीयमामुष्मिकम् । उभयविधं सुखं भूतादिति शेषः । शंयोरित्यभ्यासोऽत्यादरार्थः ॥ ४३ ॥
इत्युपस्थानमन्त्राः समाप्ताः ॥
चतुश्चत्वारिंशी।
अधिमन्त्रम् (VC)
- वास्तुपतिर्देवता
- शंयुर्बार्हस्पत्य ऋषिः
- भुरिग् जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर उस गृहस्थाश्रम को कैसे सिद्ध करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (इह) इस गृहस्थाश्रम वा संसार में (वः) तुम लोगों के (शान्त्यै) सुख (नः) हम लोगों की (क्षेमाय) रक्षा के (गृहेषु) निवास करने योग्य स्थानों में जो (गावः) दूध देनेवाली गौ आदि पशु (उपहूताः) समीप प्राप्त किये वा (अजावयः) भेड़-बकरी आदि पशु (उपहूताः) समीप प्राप्त हुए (अथो) इसके अनन्तर (अन्नस्य) प्राण धारण करनेवाले (कीलालः) अन्न आदि पदार्थों का समूह (उपहूताः) अच्छे प्रकार प्राप्त हुआ हो, इन सब की रक्षा करता हुआ जो मैं गृहस्थ हूँ सो (शंयोः) सब सुखों के साधनों से (शिवम्) कल्याण वा (शग्मम्) उत्तम सुखों को (प्रपद्ये) प्राप्त होऊँ ॥४३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - गृहस्थों को योग्य है कि ईश्वर की उपासना वा उसकी आज्ञा के पालन से गौ, हाथी, घोड़े आदि पशु तथा खाने-पीने योग्य स्वादु भक्ष्य पदार्थों का संग्रह कर अपनी वा औरों की रक्षा करके विज्ञान, धर्म, विद्या और पुरुषार्थ से इस लोक वा परलोक के सुखों को सिद्ध करें, किसी भी पुरुष को आलस्य में नहीं रहना चाहिये, किन्तु सब मनुष्य पुरुषार्थवाले होकर धर्म से चक्रवर्ती राज्य आदि धनों को संग्रह कर उनकी अच्छे प्रकार रक्षा करके उत्तम-उत्तम सुखों को प्राप्त हों, इससे अन्यथा मनुष्यों को न वर्तना चाहिये, क्योंकि अन्यथा वर्तनेवालों को सुख कभी नहीं होता ॥४३॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स कीदृशः संपादनीय इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - इहास्मिन् संसारे वो युष्माकं शान्त्यै नोऽस्माकं क्षेमाय गृहेषु गाव उपहूता अजावय उपहूता अथोऽन्नस्य कीलाल उपहूतोऽस्त्वेवं कुर्वन्नहं गृहस्थः शंयोः शिवं शग्मं च प्रपद्ये ॥४३॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - गृहस्थैरीश्वरोपासनाज्ञापालनाभ्यां गोहस्त्यश्वादीन् पशून् भक्ष्यभोज्यलेह्यचूष्यान् पदार्थांश्चोपसञ्चित्य स्वेषामन्येषां च रक्षणं कृत्वा विज्ञानधर्मपुरुषार्थैरैहिकपारमार्थिके सुखे संसेधनीये, नैव केनचिदालस्ये स्थातव्यम्। किन्तु ये मनुष्याः पुरुषार्थवन्तो भूत्वा धर्मेण चक्रवर्त्तिराज्यादीनुपार्ज्य संरक्ष्योन्नीय सुखानि प्राप्नुवन्ति, ते श्रेष्ठा गण्यन्ते नेतरे ॥४३॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - गृहस्थांनी ईश्वराची उपासना करावी व त्याच्या आज्ञा पाळाव्यात. गाई, घोडे इत्यादी पशू आणि खाद्यपदार्थांचा संग्रह करून आपले व इतरांचे रक्षण करावे. तसेच विज्ञान, धर्म, विद्या व पुरुषार्थ याद्वारे ऐहिक व पारलौकिक सुख प्राप्त करावे. कोणत्याही माणसाने आळशी राहता कामा नये. सर्व माणसांनी पुरुषार्थी बनून धर्माने चक्रवर्ती राज्य स्थापन करून धनाचा संग्रह करावा व त्यांचे चांगल्या प्रकारे रक्षण करून सुखी व्हावे. माणसांनी या विपरीत वागू नये. याविरुद्ध वागणाऱ्याला कधीच सुख मिळत नाही.
४४ प्रघासिनो हवामहे
विश्वास-प्रस्तुतिः ...{Loading}...
प्र॒घा॒सिनो॑ हवामहे म॒रुत॑श्च रि॒शाद॑सः। क॒र॒म्भेण॑ स॒जोष॑सः ॥४४॥
मूलम् ...{Loading}...
प्र॒घा॒सिनो॑ हवामहे म॒रुत॑श्च रि॒शाद॑सः। क॒र॒म्भेण॑ स॒जोष॑सः ॥४४॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्र॒घा॒सिन॒ इति॑ प्रऽघा॒सिनः॑। ह॒वाम॒हे॒। म॒रुतः॑। च॒। रि॒शाद॑सः। क॒र॒म्भेण॑। स॒जोष॑स॒ इति॑ स॒ऽजोष॑सः। ४४।
महीधरः
म० अथ चातुर्मास्यमन्त्राः प्रजापतिदृष्टाः । चातुर्मास्याख्यो यागः । स पर्वचतुष्टयात्मकः । वैश्वदेववरुणप्रघाससाकमेधशुनासीरीयाख्यानि चत्वारि पर्वाणि । तत्र वरुणप्रघासाख्ये द्वितीये पर्वणि दक्षिणोत्तरयोर्द्वयोर्वेद्योर्हविःष्वासादितेषु प्रतिप्रस्थाता पत्नीमुदानयंस्तदीयं जारं पृच्छेत् केन चरसीति । सापि तं ब्रूयात् । ‘आख्याते प्रघासिन इत्येनां वाचयति नयन्’ ( का० ५। ५। १०) इति । पत्न्या जारे कथिते सति एनां पत्नीं नयन् प्रतिप्रस्थाता प्रघासिन इति मन्त्रं वाचयति । मारुती गायत्री । वयं मरुतो हवामहे । चकारेण तदीयपरिचारकाः समुच्चीयन्ते । किंभूतान्मरुतः । प्रघासिनः ‘घस्लृ अदने’ प्रकर्षेण घस्यते भक्ष्यते इति प्रघासो हविर्विशेषः । स एषामस्तीति तान् प्रघासिनः एतन्नामकान् । शुक्रज्योतिरित्यादयः सप्तसप्तका मारुता गणाः । तत्र स्वतवांश्च प्रघासी चेति पठ्यते ( अध्या० १७ । ८५)। प्रघास्युपलक्षितान् मरुतः आह्वयामः । पुनः किंभूतान् । रिशादसः रिशतिर्हिंसार्थः । रिशां वैरिकृतां हिंसां दस्यन्ति उपक्षयन्तीति रिशादसः । ‘दसु उपक्षये’ क्विप् । यद्वा रिशन्ति हिंसन्तीति रिशाः । ‘इगुपध-’ (पा० ३ । १ । १३५) इति कः । रिशान् हिंसकान् दस्यन्तीति रिशादसः । यद्रा रिशन्तीति रिशन्तः । शतरि दीर्घश्छान्दसः । रिशतोऽऽस्यन्ति क्षिपन्ति ते रिशादसः । अस्यतेर्विच् । तथा करम्भेण सजोषसः यवमयो हविर्विशेषः करम्भः तेन सजोषसः समानप्रीतयस्तान् तथाविधान्मरुतो हवामहे ॥ ४४ ॥
पञ्चचत्वारिंशी।
अधिमन्त्रम् (VC)
- मरुतो देवताः
- प्रजापतिर्ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
गृहस्थ मनुष्यों को क्या-क्या करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हम लोग (करम्भेण) अविद्यारूपी दुःख से अलग होके (सजोषसः) बराबर प्रीति के सेवन करने (रिशादसः) दोष वा शत्रुओं को नष्ट करने (प्रघासिनः) पके हुए पदार्थों के भोजन करनेवाले अतिथि लोग और (मरुतः) अतिथि (च) और यज्ञ करनेवाले विद्वान् लोगों को (हवामहे) सत्कारपूर्वक नित्यप्रति बुलाते रहें ॥४४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - गृहस्थों को उचित है कि वैद्य, शूरवीर और यज्ञ को सिद्ध करनेवाले मनुष्यों को बुलाकर उनकी यथावत् सत्कारपूर्वक सेवा करके उनसे उत्तम-उत्तम विद्या वा शिक्षाओं को निरन्तर ग्रहण करें ॥४४॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्गृहस्थैः किं कर्तव्यमित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - वयं करम्भेण सजोषसो रिशादसः प्रघासिनोऽतिथीन् मरुत ऋत्विजश्च हवामहे ॥४४॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्वैद्यान् शूरवीरान् यज्ञसंपादकान् मनुष्यानाहूय सेवित्वा तेभ्यो विद्याशिक्षा नित्यं संग्राह्याः ॥४४॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - गृहस्थांनी वैद्य, वीर पुरुष व याज्ञिकांना आमंत्रित करून त्यांचा यथायोग्य सत्कार केला पाहिजे व सेवा केली पाहिजे आणि त्यांच्याकडून सदैव उत्तम प्रकारची विद्या प्राप्त केली पाहिजे.
४५ यद् ग्रामे
विश्वास-प्रस्तुतिः ...{Loading}...
यद् ग्रामे॒ यदर॑ण्ये॒ यत् स॒भायां॒ यदि॑न्द्रि॒ये। यदेन॑श्चकृ॒मा व॒यमि॒दं तदव॑यजामहे॒ स्वाहा॑ ॥४५॥
मूलम् ...{Loading}...
यद् ग्रामे॒ यदर॑ण्ये॒ यत् स॒भायां॒ यदि॑न्द्रि॒ये। यदेन॑श्चकृ॒मा व॒यमि॒दं तदव॑यजामहे॒ स्वाहा॑ ॥४५॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यत्। ग्रामे॑। यत्। अर॑ण्ये। यत्। स॒भाया॑म्। यत्। इन्द्रि॒ये। यत्। एनः॑। च॒कृ॒म। व॒यम्। इ॒दम्। तत्। अव॑। य॒जा॒म॒हे॒। स्वाहा॑। ४५।
महीधरः
म० मारुत्यनुष्टुप् । ‘करम्भपात्राणि जुहोति शूर्पेण मूर्धनि कृत्वा दक्षिणेऽग्नौ प्रत्यङ्मुखौ जायापती वा दक्षिणेनाहृत्य तीर्थेन पूर्वेण वेदिमपरेण वा यद्ग्राम इति’ ( का० ५। ५।११ ) इति । यवपिष्टेन निर्मितानि सन्तानपरिमितान्येकाधिकानि वर्तुलादिरूपाणि करम्भपात्राणि । तानि शूर्पेण पत्नी दक्षिणाग्नौ जुहुयादित्येकः पक्षः । दम्पती द्वौ वा जुहुयातामित्यपरः पक्षः । तौ च दक्षिणेन मार्गेण तानि पात्राण्याहृत्य वेदेः पूर्वदिशि पश्चिमदिशि वा स्थित्वा जुहुयाताम् । अथ मन्त्रार्थः । ग्रामे वसन्तो वयं यदेनः पापं ग्रामोपद्रवरूपं चकृम कृतवन्तः । तथारण्ये वसन्तो यदेनो मृगोपद्रवरूपं चकृम । तथा सभायां स्थिता यदेनो महाजनतिरस्कारादिकं चकृम । तथेन्द्रिये जिह्वोपस्थरूपे प्रीतिमन्तो वयं यदेनः कलञ्जभक्षणपरस्त्रीगमनादिकं चकृम । तथान्यत्रापि भृत्यस्वाम्यादौ यदेनः ताडनावज्ञादिकं चकृम तदिदं सर्वं पापमवयजामहे विनाशयामः । अवपूर्वो यजिर्नाशनार्थः । स्वाहा एतद्धविर्देवतायै पापविनाशिन्यै दत्तम् ॥ ४५ ॥
षट्चत्वारिंशी।
अधिमन्त्रम् (VC)
- मरुतो देवताः
- प्रजापतिर्ऋषिः
- स्वराड् अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर अगले मन्त्र में गृहस्थों के कर्मों का उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (वयम्) कर्म के अनुष्ठान करनेवाले हम लोग (यत्) ग्रामे) जो गृहस्थों से सेवित ग्राम (यत्) (अरण्ये) वानप्रस्थों ने जिस वन की सेवा की हो (यत्सभायाम्) विद्वान् लोग जिस सभा की सेवा करते हों और (यत्) (इन्द्रिये) योगी लोग जिस मन वा श्रोत्रादिकों की सेवा करते हों, उसमें स्थिर हो के जो (एनः) पाप वा अधर्म (चकृम) करा वा करेंगे सब (अवयजामहे) दूर करते रहें तथा जो-जो उन-उन उक्त स्थानों में (स्वाहा) सत्यवाणी से पुण्य वा धर्माचरण (चकृम) करना योग्य है (तत्) उस-उस को (यजामहे) प्राप्त होते रहें ॥४५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - चारों आश्रमों में रहनेवाले मनुष्यों को मन, वाणी और कर्मों से सत्य कर्मों का आचरण कर पाप वा अधर्मों का त्याग करके विद्वानों की सभा, विद्या तथा उत्तम-उत्तम शिक्षा का प्रचार करके प्रजा के सुखों की उन्नति करनी चाहिये ॥४५॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्गृहस्थकृत्यमुपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - वयं यद् ग्रामे यदरण्ये सत्सभायां यदिन्द्रिये यद्यत्रैनश्चकृमस्तदव यजामहे दूरीकुर्मः। यद्यत्र तत्र स्वाहा सत्यवाचा पुण्यकर्म चकृम तत्तत्सर्वं सङ्गच्छामहे ॥४५॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - चतुराश्रमस्थैर्मनुष्यैर्मनसा वाचा कर्मणा सदा सत्यं कर्माचर्यं पापं च त्यक्त्वा सभाविद्याशिक्षाप्रचारेण प्रजायाः सुखोन्नतिः कार्येति ॥४५॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - चारही आश्रमांत राहणाऱ्या माणसांनी मन, वाणी, कर्म यांनी सत्याचरण करावे. पापाचा, अधर्माचा त्याग करावा व विद्वानांच्या सभा आयोजित कराव्यात. विद्या व उत्तम शिक्षणाचा प्रचार करून प्रजेचे सुख वाढवावे.
४६ मो षू
विश्वास-प्रस्तुतिः ...{Loading}...
मो षू ण॑ऽइ॒न्द्रात्र॑ पृ॒त्सु दे॒वैरस्ति॒ हि ष्मा॑ ते शुष्मिन्नव॒याः। म॒हश्चि॒द्यस्य॑ मी॒ढुषो॑ य॒व्या ह॒विष्म॑तो म॒रुतो॒ वन्द॑ते॒ गीः ॥४६॥
मूलम् ...{Loading}...
मो षू ण॑ऽइ॒न्द्रात्र॑ पृ॒त्सु दे॒वैरस्ति॒ हि ष्मा॑ ते शुष्मिन्नव॒याः। म॒हश्चि॒द्यस्य॑ मी॒ढुषो॑ य॒व्या ह॒विष्म॑तो म॒रुतो॒ वन्द॑ते॒ गीः ॥४६॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मोऽइति॒ मो। सु। नः॒। इ॒न्द्र॒। अत्र॑। पृ॒त्स्विति॑ पृ॒त्ऽसु। दे॒वैः। अस्ति॑। हि। स्म॒। ते॒। शु॒ष्मि॒न्। अ॒व॒या इत्य॑व॒ऽयाः। म॒हः। चि॒त्। यस्य॑। मी॒ढुषः॑। य॒व्या। ह॒विष्म॑तः। म॒रुतः॑। वन्द॑ते। गीः। ४६।
महीधरः
म० एन्द्रमरुद्देवत्या विराट् । यस्या दशाक्षराश्चत्वारः पादाः सा विराट् । चतुर्थ एकाधिकोऽत्र । ‘मो षू ण इति यजमानो जपति’ (का० ५।५।१२) इति । पृत्स्विति संग्रामनाम ( निघं० २।११।२१) हे इन्द्र, अत्र पृत्सु एषु संग्रामेषु वर्तमानः देवैस्त्वया सह सख्यं प्राप्तैर्मरुन्नामकैर्देवैः सहितस्त्वं नोऽस्मान्मे विनाशयेति शेषः । मोशब्दो निषेधार्थः । सुशब्दो विनाशभावस्य सौष्ठवं ब्रूते । तथा सति विनाशलेशो मा भूदित्यर्थः संपद्यते । क उपकार इति चेत् । शुष्मेति बलनाम ( निघ० २।९।११)। हे शुष्मिन् बलवन्निन्द्र, ते तव अवयाः अवयुतो यागः पृथग्भागोऽस्ति हि स्म विद्यत एव खलु । अवपूर्वस्य यजतेरेतद्रूपम् । ‘मिह सेचने’ धातुः । मीढुषो वृष्टिप्रदत्वेन सेक्तुः । हविष्मतो हविर्योग्यस्य तव यव्या यवमयैः करम्भपात्रनिष्पन्ना होमक्रिया महश्चित् पूजा खलु । तस्य यथोक्तपूजोपेतस्य तवास्मासु कृपालुत्वं युक्तमिति भावः । किंच गीरस्मदीया स्तुतिरूपा वाक् मरुतो भवतः सखीन् वन्दते नमस्करोति । नमो मरुद्भ्य इत्येवमाकारायाः स्तुतेर्नमस्काररूपत्वात् । मरुद्विषयनमस्कारेणापि तुष्टस्य तव कृपैव युक्तेत्यर्थः । मो सु नः अत्र ‘सुञः’ (पा० ८।३ । १०७) इति षत्वम् । ‘अन्येषामपि दृश्यन्ते’ (पा० ६ । ३ । १३७) इति दीर्घः । ‘नश्च धातुस्थोरुषुभ्यः (पा० ८।४ । २७) इति न इत्यस्य णः । स्म इत्यस्यापि ‘पूर्वपदात्’ (पा० ८। ३ । १०६) इति षत्वम् । ‘अवयाः श्वेतवाः पुरोडाश्च’ (पा० ८।२।६७) इति विजन्तो निपातः । मीढुषः । ‘दाश्वान्साह्वामीढ्वांश्च’ (पा०६।१ । १२) इति क्वसन्तो निपातः ॥४६॥
सप्तचत्वारिंशी।
अधिमन्त्रम् (VC)
- इन्द्रमारुतौदेवते
- आगस्त्य ऋषिः
- भुरिक् पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
ईश्वर और शूरवीर के सहाय से युद्ध में विजय होता है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) शूरवीर ! आप (अत्र) इस लोक में (पृत्सु) युद्धों में (देवैः) विद्वानों के साथ (नः) हम लोगों की (सु) अच्छे प्रकार रक्षा कीजिये तथा (मो) मत हनन कीजिये। हे (शुष्मिन्) पूर्ण बलयुक्त शूरवीर ! (हि) निश्चय करके (चित्) जैसे (ते) आपकी (महः) बड़ी (गीः) वेदप्रमाणयुक्त वाणी (मीढुषः) विद्या आदि उत्तम गुणों के सींचने वा (हविष्मतः) उत्तम-उत्तम हवि अर्थात् पदार्थयुक्त (मरुतः) ऋतु-ऋतु में यज्ञ करनेवाले विद्वानों के (वन्दते) गुणों का प्रकाश करती है, जैसै विद्वान् लोग आप के गुणों का हम लोगों के अर्थ निरन्तर प्रकाश करके आनन्दित होते हैं, वैसे जो (अवयाः) यज्ञ करनेवाला यजमान है, वह आपकी आज्ञा से जिन (यव्या) उत्तम-उत्तम यव आदि अन्नों को अग्नि में होम करता है, वे पदार्थ सब प्राणियों को सुख देनेवाले होते हैं ॥४६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जब मनुष्य लोग परमेश्वर की आराधना कर अच्छे प्रकार सब सामग्री को संग्रह करके युद्ध में शत्रुओं को जीतकर चक्रवर्त्ति राज्य को प्राप्त कर प्रजा का अच्छे प्रकार पालन करके बड़े आनन्द को सेवन करते हैं, तब उत्तम राज्य होता है ॥४६॥
दयानन्द-सरस्वती (सं) - विषयः
ईश्वरशूरवीरसहायेन युद्धे विजयो भवतीत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे इन्द्र शूरवीरेश्वर ! कृपया त्वमत्र पृत्सु देवैर्विद्वद्भिः सहितान् नोऽस्मान् सु रक्ष मो हिन्धि। हे शुष्मिन् ! स्म ते तव महो गीर्ह्येतान् मीढुषो हविष्मतो मरुतो वन्दते चिदेते त्वां सततं वन्दन्तेऽभिवाद्यानदयन्तीव, योऽवया यजमानोऽस्ति, स त्वदाज्ञया यानि यव्या यव्यानि हवींष्यग्नौ जुहोति तानि सर्वान् प्राणिनः सुखयन्तीति ॥४६॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यदा मनुष्याः परमेश्वरमाराध्य सम्यक् सामग्रीः कृत्वा युद्धेषु शत्रून् विजित्य चक्रवर्तिराज्यं प्राप्य सम्पाल्य महान्तमानन्दं सेवन्ते तदा सुराज्यं जायत इति ॥४६॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जेव्हा माणसे परमेश्वराची उपासना करतात व सर्व पदार्थांचा संग्रह करून युद्धात शत्रूंना जिंकतात आणि चक्रवर्ती राज्य प्राप्त करून प्रजेचे उत्तम प्रकारे पालन करतात व आनंदी होतात तेच राज्य उत्तम ठरते.
४७ अक्रन् कर्म
विश्वास-प्रस्तुतिः ...{Loading}...
अक्र॒न् कर्म॑ कर्म॒कृतः॑ स॒ह वा॒चा म॑यो॒भुवा॑। दे॒वेभ्यः॒ कर्म॑ कृ॒त्वास्तं॒ प्रेत॑ सचाभुवः ॥४७॥
मूलम् ...{Loading}...
अक्र॒न् कर्म॑ कर्म॒कृतः॑ स॒ह वा॒चा म॑यो॒भुवा॑। दे॒वेभ्यः॒ कर्म॑ कृ॒त्वास्तं॒ प्रेत॑ सचाभुवः ॥४७॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अक्र॑न्। कर्म॑। क॒र्म॒कृत॒ इति॑ कर्म॒ऽकृतः॑। स॒ह। वा॒चा। म॒यो॒भुवेति॑ मयः॒ऽभुवा॑। दे॒वभ्यः॑। कर्म॑। कृ॒त्वा। अस्त॑म्। प्र। इ॒त। स॒चा॒भु॒व॒ इति॑ सचाऽभुवः। ४७।
महीधरः
म०. आग्नेय्यनुष्टुप् । ‘अक्रन्कर्मेत्येनां वाचयति’ (का० ५। ५। १३) इति । कर्मकृतः वरुणप्रघासाख्यकर्मकारिण ऋत्विजः वाचा स्तुतिरूपया सह कर्म वरुणप्रघासानुष्ठानरूपमक्रन् कृतवन्तः । कथंभूतया वाचा । मयोभुवा । मय इति सुखनाम ( निघ० ३।६।७) मयो भवति यया सा मयोभूः तया मन्त्ररूपस्तुत्येत्यर्थः । हे सचाभुवः, सचेति सहार्थेऽव्ययम् । सहभवनशीलाः परस्परं यजमानेन पत्न्या वास्मिन्कर्मणि सहावस्थिता हे ऋत्विजः, देवेभ्यो देवार्थं कर्म कृता वरुणप्रघासनामकं कर्मानुष्ठानायास्तं प्रेत गृहान् गच्छत । अस्तमिति गृहनाम (निघ० ३ । ४ । ५) ॥ ४७ ॥
अष्टचत्वारिंशी ।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- आगस्त्य ऋषिः
- विराड् अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
कौन-कौन मनुष्य यज्ञ युद्ध आदि कर्मों के करने को योग्य होते हैं, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो मनुष्य लोग (मयोभुवा) सत्यप्रिय मङ्गल के करानेवाली (वाचा) वेदवाणी वा अपनी वाणी के (सह) साथ (सचाभुवः) परस्पर संगी होकर (कर्मकृतः) कर्मों को करते हुए (कर्म) अपने अभीष्ट कर्म को (अक्रन्) करते हैं, वे (देवेभ्यः) विद्वान् वा उत्तम-उत्तम गुण वा सुखों के लिये (कर्म) करने योग्य कर्म वा (कृत्वा) अनुष्ठान करके (अस्तम्) पूर्णसुखयुक्त घर को (प्रेत) प्राप्त होते हैं ॥४७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को योग्य है कि सर्वथा आलस्य को छोड़कर पुरुषार्थ ही में निरन्तर रह के मूर्खपन को छोड़ कर वेदविद्या से शुद्ध की हुई वाणी के साथ सदा वर्तें और परस्पर प्रीति करके एक-दूसरे का सहाय करें। जो इस प्रकार के मनुष्य हैं, वे ही अच्छे-अच्छे सुखयुक्त मोक्ष वा इस लोक के सुखों को प्राप्त होकर आनन्दित होते हैं, अन्य अर्थात् आलसी पुरुष आनन्द को कभी नहीं प्राप्त होते ॥४७॥
दयानन्द-सरस्वती (सं) - विषयः
के यज्ञयुद्धादिकर्माणि कर्तुं योग्या भवन्तीत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - ये मयोभुवा वाचा सह सचाभुवः कर्मकृतः कर्माक्रँस्त कर्माक्रँस्त एतत्कृत्वा देवेभ्यस्तं सुखमयं गृहं प्रेत प्राप्नुवन्ति ॥४७॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्नित्यं पुरुषार्थे वर्तितव्यम्। न कदाचिदालस्ये स्थातव्यम् तथा वेदविद्यासंस्कृतया वाण्या सह भवितव्यम्, न च मूर्खत्वेन। सदा परस्परं प्रीत्या सहायः कर्तव्यः, ये चैवंभूतास्ते दिव्यसुखयुक्तं मोक्षाख्यं व्यावहारिकं चानन्दं प्राप्य मोदन्ते न चैवमलसा इति ॥४७॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी आळशीपणा सोडून सतत पुरुषार्थी बनावे. मूर्खपणा सोडून वेदविद्येने पवित्र झालेल्या वाणीचा स्वीकार करावा व प्रेमाने परस्परांना साह्य करावे अशा प्रकारची जी माणसे असतात ती मोक्षसुख भोगतात किंवा इहलोकाचे सुख उपभोगू शकतात व आनंदित होतात. आळशी माणसे मात्र अशा प्रकारचा आनंद भोगू शकत नाहीत.
४८ अवभृथ निचुम्पुण
विश्वास-प्रस्तुतिः ...{Loading}...
अव॑भृथ निचुम्पुण निचे॒रुर॑सि निचुम्पु॒णः। अव॑ दे॒वैर्दे॒वकृ॑तमेनो॑ऽयासिष॒मव॒ मर्त्यै॒र्मर्त्य॑कृतं पुरु॒राव्णो॑ देव रि॒षस्पा॑हि ॥४८ ॥
मूलम् ...{Loading}...
अव॑भृथ निचुम्पुण निचे॒रुर॑सि निचुम्पु॒णः। अव॑ दे॒वैर्दे॒वकृ॑तमेनो॑ऽयासिष॒मव॒ मर्त्यै॒र्मर्त्य॑कृतं पुरु॒राव्णो॑ देव रि॒षस्पा॑हि ॥४८ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अव॑भृ॒थेत्यव॑ऽभृथ। नि॒चु॒म्पु॒णेति॑ निऽचुम्पुण। नि॒चे॒रुरिति॑ निचे॒रुः। अ॒सि॒। नि॒चु॒म्पु॒ण इति॑ निऽचुम्पु॒णः। अव॑। दे॒वैः। दे॒वकृ॑त॒मिति॑ दे॒वऽकृ॑तम्। एनः॑। अ॒या॒सि॒ष॒म्। अव॑। मर्त्यैः॑। मर्त्य॑कृत॒मिति॒ मर्त्य॑ऽकृतम्। पु॒रु॒ऽराव्ण॒ इति पुरु॒ऽराव्णः॑। दे॒व॒। रि॒षः। पा॒हि॒। ४८।
महीधरः
म० यज्ञदैवतं यजुः । ‘मज्जयत्यवभृथेति’ (का० ५। । ५। ३०) अत्र विनियोगश्चिन्त्य इति । वरुणप्रघासस्य कर्मणोऽन्ते तदङ्गभूतं यदवभृथाख्यं कर्म जलसमीपे क्रियतेऽत्रानेन मन्त्रेण दम्पतीभ्यां जले स्नानं कर्तव्यम् । हे अवभृथ, अवाचीनानि पात्राणि जलमध्ये भ्रियन्ते यस्मिन्यज्ञविशेषे सोऽयमवभृथः । तत्संबोधनं हे अवभृथ यज्ञ, हे निचुम्पुण, ‘चुप मन्दायां गतौ’ । नितरां चोपति मन्दं गच्छति निचुम्पुणः । उण्र् त्ययो मुमागमश्च । यद्वा नीचैरस्मिन्क्वणन्ति नीचशब्देन । कर्म कुर्वन्त्यवभृथो निचुम्पुणः । ‘वीणस्थूणव्रणभ्रूण’ इत्यादिना नीचैःशब्दोपपदात्क्वणतेः णक्प्रत्ययान्तो निपातः धातोः पुंभाव उपपदस्य निचुम्भावश्च निपातितः । तथाविधावभृथ, यद्यपि त्वं निचेरुरसि नितरां चरतीति निचेरुः नितरां गमनशीलोऽसि तथाप्यत्र निचुम्पुणो भव मन्दगमनो भव । किं प्रयोजनमिति चेत् उच्यते । देवैर्द्योतनात्मकैरस्मदीयैरिन्द्रियैर्देवकृतं हविःस्वामिषु देवेषु कृतमेनः पापं यदस्ति तदावयासिषमस्मिन् जलेऽहमवनीतवानस्मि । तथा मर्त्यैः मनुष्यैरस्मत्सहायभूतैर्ऋत्विग्भिर्मर्त्यकृतं मर्त्येषु यज्ञदर्शनार्थमागतेषु कृतमवज्ञारूपं यदेनोऽस्ति तदप्यहमवायासिषमित्यनुवर्तते । इदमस्मत्त्यक्तं पापं यथा त्वां न व्याप्नोति तथा मन्दं गच्छेति भावः । किंच हे देवावभृथाख्य यज्ञ, रिषो वधात् पाहि पालय । रिषतेर्हिंसार्थस्य क्विबन्तस्य पञ्चम्यां रूपम् । किंभूताद्रिषः । पुरुराण्वः । ‘रा दाने’। पुरु बहु विरुद्धं फलं ददातीति पुरुरावा तस्मात् । ‘आतो मनिन्-’ (पा. ३।२ । ७४) इत्यादिना वनिप् । विरुद्धफलदायी वधस्त्वत्प्रसादादस्माकं मा भूदित्यर्थः ॥ ४८ ॥
एकोनपञ्चाशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- और्णवाभ ऋषिः
- ब्राह्मी अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब अगले मन्त्र में यज्ञ के अनुष्ठान करनेवाले यजमान के कर्मों का उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अवभृथ) विद्या धर्म के अनुष्ठान से शुद्ध (निचुम्पुण) धैर्य से शब्दविद्या को पढ़ानेवाले विद्वान् मनुष्य ! जैसे मैं (निचुम्पुणः) ज्ञान को प्राप्त कराने वा (निचेरुः) निरन्तर विद्या का संग्रह करनेवाला (देवैः) प्रकाशस्वरूप मन आदि इन्द्रियों से (देवकृतम्) किया वा (मर्त्यैः) मरणधर्मवाले (मर्त्यकृतम्) शरीरों से किये हुये (एनः) पापों को (अव अयासिषम्) दूर कर शुद्ध होता हूँ, वैसे तू भी (असि) हो। हे (देव) जगदीश्वर ! आप हम लोगों की (पुरुराव्णः) बहुत दुःख देने वा (रिषः) मारने योग्य शत्रु वा पाप से (पाहि) रक्षा कीजिये अर्थात् दूर कीजिये ॥४८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को उचित है कि पाप की निवृत्ति, धर्म की वृद्धि के लिये परमेश्वर की प्रार्थना निरन्तर करके जो मन, वाणी वा शरीर से पाप होते हैं, उनसे दूर रह के जो कुछ अज्ञान से पाप हुआ हो, उसके दुःखरूप फल को जानकर, फिर दूसरी वार उसको कभी न करें, किन्तु सब काल में शुद्ध कर्मों के अनुष्ठान ही की वृद्धि करें ॥४८॥
दयानन्द-सरस्वती (सं) - विषयः
अथ यज्ञानुष्ठातृकृत्यमुपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अवभृथ निचुम्पुण यथाहं निचुम्पुणो निचेरुः सन्देवैरिन्द्रियैर्देवकृतं मर्त्यैर्मर्त्यकृतमेनोऽवायासिषं दूरतस्त्यजामि तथा त्वमप्यसि भवावयाहि दूरतस्त्यज। हे देव ! जगदीश्वरास्मान् पुरुराव्णो रिषो हिंसालक्षणात् पापात् पाहि दूरे रक्ष ॥४८॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैः पापनिवृत्तये धर्मप्रवृत्तये परमेश्वरो नित्यं प्रार्थ्य यानि मनोवचःकर्मभिः पापानि सन्ति तेभ्यो दूरे स्थातव्यम्। यत्किंचिदज्ञानात् पापमनुष्ठितं तद् दुःखफलं विज्ञाय द्वितीयवारं न समाचरणीयम्, किन्तु सर्वदा पवित्रकर्मानुष्ठानमेव वर्धनीयम् ॥४८॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - भावार्थ ः या मंत्रात वाचक लुप्तोपमालंकार आहे. माणसांनी पापाची निवृत्ती व धर्माची वाढ व्हावी यासाठी सदैव परमेश्वराची प्रार्थना करावी. मन, वाणी किंवा शरीराने जे पाप केले जाते त्यापासून दूर राहावे. अज्ञानाने हातून पाप घडले असेल तर त्याचे दुःखरूपी फळ मिळते हे जाणून पुन्हा ते पाप कधीही करू नये. सदैव शुद्ध कर्माचे अनुसरणच करावे.
४९ पूर्णा दर्वि
विश्वास-प्रस्तुतिः ...{Loading}...
पू॒र्णा द॑र्वि॒ परा॑ पत॒
सुपू॑र्णा॒ पुन॒राप॑त।
व॒स्नेव॒+++(=वैश्यवत्)+++ वि॒क्री॑णावहा॒
इ॒षम् ऊर्जँ॑ शतक्रतो ॥४९॥
मूलम् ...{Loading}...
पू॒र्णा द॑र्वि॒ परा॑ पत॒ सुपू॑र्णा॒ पुन॒राप॑त। व॒स्नेव॒ वि॒क्री॑णावहा॒ऽइ॒षमूर्जँ॑ शतक्रतो ॥४९॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पू॒र्णा। द॒र्वि॒। परा॑। प॒त॒। सुपू॒र्णेति॒ सुऽपूर्णा। पुनः॑। आ। प॒त॒। वस्नेवेति॑ व॒स्नाऽइ॑व। वि। क्री॒णा॒व॒है॒। इष॑म्। ऊर्ज॑म्। श॒त॒क्र॒तो॒ऽइति॑ शतऽक्रतो। ४९।
महीधरः
म० द्वे ऐन्द्र्यावनुष्टुभौ । साकमेधगतं कर्म किंचिदुच्यते ॥ ‘स्थाल्याः दर्व्यादत्ते पूर्णा दर्वीति’ (का० ५। ६ । ३४)। दर्व्या स्थालीत ओदनग्रहणं करोति प्रथमया । द्वितीयया तं जुहोति । हे दर्वि, अन्नप्रदानसाधनभूते काष्ठादिनिर्मिते, त्वं पूर्णा स्थाल्याः सकाशादन्नं गृहीत्वा पूर्णा भूत्वा परा पूर्णत्वादेवोत्कृष्टा सती पत इन्द्रं प्रति गच्छ । सुपूर्णा कर्मफलेन सुष्ठु पूर्णा सती पुनरापत भूयोऽस्मान्प्रत्यागच्छ । एवं दर्वीमुक्त्वा इन्द्रमाह । हे शतक्रतो बहुकर्मन् इन्द्र, त्वं चाहं चोभौ वस्नेव ‘वस्नशब्देन मूल्यं तृतीयायाः पूर्वसवर्णः’ । मूल्येनेव । इषमभीष्टं हविःस्वरूपमन्नमूर्जं हविर्दानफलरूपं रसविशेषं च विक्रीणावहै परस्परं द्रव्यविनिमयरूपं विक्रयं करवावहै । अहं तुभ्यं हविर्ददामि त्वं मह्यं फलं देहीत्यर्थः ॥ ४९ ॥
पञ्चाशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- और्णवाभ ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
यज्ञ में हवन किया हुआ पदार्थ कैसा होता है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (दर्वि) पके हुए होम करने योग्य पदार्थों को ग्रहण करनेवाली (पूर्णा) द्रव्यों से पूर्ण हुई आहुति (परापत) होम हुए पदार्थों के अंशों को ऊपर प्राप्त करती वा जो आहुति आकाश में जाकर वृष्टि से (सुपूर्णा) पूर्ण हुई (पुनरापत) फिर अच्छे प्रकार पृथिवी में उत्तम जलरस को प्राप्त करती है, उससे हे (शतक्रतो) असंख्यात कर्म वा प्रज्ञावाले जगदीश्वर ! आप की कृपा से हम यज्ञ कराने और करनेवाले विद्वान् होता और यजमान दोनों (इषम्) उत्तम-उत्तम अन्नादि पदार्थ (ऊर्जम्) पराक्रमयुक्त वस्तुओं को (वस्नेव) वैश्यौं के समान (विक्रीणावहै) दें वा ग्रहण करें ॥४९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जब मनुष्य लोग सुगन्ध्यादि पदार्थ अग्नि में हवन करते हैं, तब वे ऊपर जाकर वायु वृष्टि-जल को शुद्ध करते हुए पृथिवी को आते हैं, जिससे यव आदि ओषधि शुद्ध होकर सुख और पराक्रम के देनेवाली होती हैं। जैसे कोई वैश्य लोग रुपया आदि को दे-ले कर अनेक प्रकार के अन्नादि पदार्थों को खरीदते वा बेचते हैं, वैसे हम सब लोग भी अग्नि में शुद्ध द्रव्यों को छोड़कर वर्षा वा अनेक सुखों को खरीदते हैं, खरीदकर फिर वृष्टि और सुखों के लिये अग्नि में हवन करते हैं ॥४९॥
दयानन्द-सरस्वती (सं) - विषयः
यज्ञे हुतं द्रव्यं कीदृशं भवतीत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - या दर्वि होतव्यद्रव्येण पूर्णा होमसाधिका भूत्वा परापत पतत्यूर्ध्वं द्रव्यं गमयति, याऽऽहुतिराकाशं गत्वा वृष्ट्या पूर्णा भूत्वा पुनरापतति समन्तात् पृथिवीं शोभनं जलरसं गमयति, तया हे शतक्रतो तव कृपया आवामृत्विग्यज्ञपती वस्नेवेषमूर्जं च विक्रीणावहै ॥४९॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यन्मनुष्यैः सुगन्ध्यादिद्रव्यमग्नौ हूयते तदूर्ध्वं गत्वा वायुवृष्टिजलादिकं शोधयत् पुनः पृथिवीमागच्छति, येन यवादय ओषध्यः शुद्धाः सुखपराक्रमप्रदा जायन्ते। यथा वणिग्जनो रूप्यादिकं दत्त्वा गृहीत्वा द्रव्यान्तराणि क्रीणीते विक्रीणीते च, तथैवाग्नौ द्रव्याणि दत्त्वा प्रक्षिप्य वृष्टिसुखादिकं क्रीणीते वृष्ट्योषध्यादिकं गृहीत्वा पुनर्वृष्टये विक्रीणीतेऽग्नौ होमः क्रियत इति ॥४९॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जेव्हा माणसे सुगंधी पदार्थ अग्नीला अर्पण करून हवन करतात तेव्हा ते पदार्थ अंतरिक्षात जाऊन वायू, वृष्टिजल शुद्ध करून पृथ्वीवर येतात. ज्यामुळे जव इत्यादी पदार्थ शुद्ध होऊन बल व सुख देतात. जसे वैश्य लोक रुपये इत्यादींचे देणे-घेणे करून अनेक प्रकारचे धान्य इत्यादी पदार्थ विकतात किंवा विकत घेतात. तसेच आपणही अग्नीला शुद्ध द्रव्ये अर्पण करून पर्जन्य इत्यादी अनेक प्रकारचे सुख विकत घेतो व पुन्हा वृष्टी व सुखासाठी अग्नीद्वारे हवन करतो.
५० देहि मे
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒हि मे॒, ददा॑मि ते॒,
नि मे॑ धेहि॒, नि ते॑ दधे।
नि॒हारं॑ च॒ हरा॑सि मे,
नि॒हारं॒ निह॑राणि ते॒
स्वाहा॑ ॥५०॥
मूलम् ...{Loading}...
दे॒हि मे॒ ददा॑मि ते॒ नि मे॑ धेहि॒ नि ते॑ दधे। नि॒हारं॑ च॒ हरा॑सि मे नि॒हारं॒ निह॑राणि ते॒ स्वाहा॑ ॥५०॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दे॒हि। मे॒। ददा॑मि। ते॒। नि। मे॒। धे॒हि॒। नि। ते॒। द॒धे॒। नि॒हार॒मिति॑ नि॒ऽहार॑म्। च॒। हरा॑सि। मे॒। नि॒हार॒मिति॑ नि॒ऽहार॑म्। नि। ह॒रा॒णि॒। ते॒। स्वाहा॑। ५०।
महीधरः
म० देहि म इति जुहोतीति’ ( का० ५। ६ । ३८)। इन्द्रो वदति । हे यजमान, त्वं मे मह्यमिन्द्राय देहि हविः प्रथमं प्रयच्छ । ते तुभ्यं यजमानाय ददामि । अपेक्षितं पश्चात्प्रयच्छामि । एवं प्रथमपादोक्त एवार्थो द्वितीयपादेनादरार्थं पुनरुच्यते । मे मह्यमिन्द्राय निधेहि प्रथमं त्वं हविर्नितरां संपादय । ते तुभ्यं यजमानाय निदधे अपेक्षितं फलं नितरां संपादयामि । एवमिन्द्रवाक्यं श्रुत्वोत्तरार्धेन यजमान आह । नितरां ह्रियत इति निहारो मूल्येन क्रेतव्यं पदार्थं ब्रूते । निहारं मूल्येन क्रेतव्यवस्तुरूपं फलं मे मह्यं यजमानाय हरासि प्रयच्छ । ‘लेटोऽडाटौ’ (पा० ३।४ । ९४) इत्याडागमः । उत्तरो निहारो मूल्यवाची । निहारं मूल्यभूतं हविः ते तुभ्यमिन्द्राय निहराणि नितरां समर्पयामि । स्वाहाशब्दो हविर्दानार्थः । पूर्वार्धे पादद्वयेनादरेणेन्द्रेण द्विवारं प्रोक्तमर्थमुत्तरार्धेन यजमानः सम्यगङ्गीकरोतीत्यर्थः ॥ ५० ॥
एकपञ्चाशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- और्णवाभ ऋषिः
- भुरिग् अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब अगले मन्त्र में सब आश्रमों में रहनेवाले मनुष्यों के व्यवहारों का उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मित्र ! तुम (स्वाहा) जैसे सत्यवाणी हृदय में कहे वैसे (मे) मुझ को यह वस्तु (देहि) दे वा मैं (ते) तुझ को यह वस्तु (ददामि) देऊँ वा देऊँगा तथा तू (मे) मेरी यह वस्तु (निधेहि) धारण कर मैं (ते) तुम्हारी यह वस्तु (निदधे) धारण करता हूँ और तू (मे) मुझको (निहारम्) मोल से खरीदने योग्य वस्तु को (हरासि) ले। मैं (ते) तुझको (निहारम्) पदार्थों का मोल (निहराणि) निश्चय करके देऊँ (स्वाहा) ये सब व्यवहार सत्यवाणी से करें, अन्यथा से व्यवहार सिद्ध नहीं होते हैं ॥५०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सब मनुष्यों को देना-लेना, पदार्थों को रखना-रखवाना वा धारण करना आदि व्यवहार सत्यप्रतिज्ञा से ही करने चाहिये। जैसे किसी मनुष्य ने कहा कि यह वस्तु तुम हमको देना, मैं यह देता तथा देऊँगा, ऐसा कहे तो वैसा ही करना। तथा किसी ने कहा कि मेरी यह वस्तु तुम अपने पास रख लेओ, जब इच्छा करूँ तब तुम दे देना। इसी प्रकार मैं तुम्हारी यह वस्तु रख लेता हूँ, जब तुम इच्छा करोगे तब देऊँगा वा उसी समय मैं तुम्हारे पास आऊँगा वा तुम आकर ले लेना इत्यादि ये सब व्यवहार सत्यवाणी ही से करने चाहियें और ऐसे व्यवहारों के विना किसी मनुष्य की प्रतिष्ठा वा कार्यों की सिद्धि नहीं होती और इन दोनों के विना कोई मनुष्य सुखों को प्राप्त होने को समर्थ नहीं हो सकता ॥५०॥
दयानन्द-सरस्वती (सं) - विषयः
अथ सर्वाश्रमव्यवहार उपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मित्र ! त्वं यथा स्वाहा सत्या वागाहेत्येवं मे मह्यमिदं देह्यहं च ते तुभ्यमिदं ददामि, त्वं मे ममेदं वस्तु निधेह्यहं ते तवेदं निदधे, त्वं मे मह्यं निहारं हरास्यहं ते तुभ्यं निहारं निहराणि नितरां ददानि ॥५०॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सर्वैर्मनुष्यैर्दानग्रहणनिःक्षेपोपनिध्यादिव्यवहाराः सत्यत्वेनैव कार्याः। तद्यथा केनचिदुक्तमिदं वस्तु त्वया देयं न वा। यदि वदेद् ददामि दास्यामि वेति तर्हि तत्तथैव कर्तव्यम्। केनचिदुक्तं ममेदं वस्तु त्वं स्वसमीपे रक्ष, यदाहमिच्छेयम्, तदा देयम्। एवमहं तवेदं वस्तु रक्षयामि, यदा त्वमेष्यसि तदा दास्यामि। तस्मिन् समये दास्यामि, त्वत्समीपमागमिष्यामि वा, त्वया ग्राह्यम्, मम समीपमागन्तव्यमित्यादयो व्यवहाराः सत्यवाचा कार्याः। नैतैर्विना कस्यचित् प्रतिष्ठाकार्यसिद्धी स्यातां नैताभ्यां विना कश्चित् सततं सुखं प्राप्तुं शक्नोतीति ॥५०॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सर्व माणसांनी देणे-घेणे, पदार्थांचा सांभाळ करणे, करविणे किंवा धारण करणे इत्यादी व्यवहार सत्याने करावेत. जर एखाद्याने एखादी वस्तू मागितली तर ती देणे अथवा न देणे अशी याबाबत सत्यवचनी असावे. वस्तू देताना-घेताना जसे बोलणे तशी कृती करावी म्हणजेच (बोले तैसा चाले) अशी कृती असावी. सर्व व्यवहार करताना सत्यवचनी असावे. त्याशिवाय कोणत्याही माणसाला प्रतिष्ठा प्राप्त होत नाही व त्याची कार्यपूर्तीही होत नाही व या दोन्हीखेरीज कोणताही माणूस सुख प्राप्त करण्यास समर्थ बनू शकत नाही.
५१ अक्षन्नमीमदन्त ह्यव
विश्वास-प्रस्तुतिः ...{Loading}...
अक्ष॒न्नमी॑मदन्त॒ ह्यव॑ प्रि॒याऽअ॑धूषत। अस्तो॑षत॒ स्वभा॑नवो॒ विप्रा॒ नवि॑ष्ठया म॒ती योजा॒ न्वि᳖न्द्र ते॒ हरी॑ ॥५१॥
मूलम् ...{Loading}...
अक्ष॒न्नमी॑मदन्त॒ ह्यव॑ प्रि॒याऽअ॑धूषत। अस्तो॑षत॒ स्वभा॑नवो॒ विप्रा॒ नवि॑ष्ठया म॒ती योजा॒ न्वि᳖न्द्र ते॒ हरी॑ ॥५१॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अक्ष॑न्। अमी॑मदन्त। हि। अव॑। प्रि॒याः। अ॒धू॒ष॒त॒। अस्तो॑षत। स्वभा॑नव॒ इति॑ स्वऽभा॑नवः। विप्राः॑। नवि॑ष्ठया। म॒ती। योज॑। नु। इ॒न्द्र॒। ते॒। हरी॒ऽइति॒ हरी॑। ५१।
महीधरः
म० ऐन्द्रीभ्यां पङ्क्तिभ्यां साकमेधगतपितृयज्ञाख्यकर्मणि आहवनीयोपस्थानम् । यस्या अष्टाक्षराः पञ्च पादाः सा पङ्क्तिः । ‘यज्ञोपवीतिनः सर्वे निष्क्रम्योदञ्चोऽक्षन्नमीमदन्तेत्याहवनीयमुपतिष्ठन्ते द्वाभ्यामिति’ (का० ५।९।२१)। पितृयज्ञाख्ये कर्मणि ये पितरः सन्ति तेऽस्माभिर्दत्तं हविःस्वरूपमन्नमक्षन् भक्षितवन्तः । कथमेतदवगम्यते । हि यस्मात् । अमीमदन्त हर्षं प्राप्ताः । अस्मदीयां भक्तिमवगम्य प्रियाः प्रीतियुक्ताः सन्तः अधूषत स्वकीयं शिरः कम्पितवन्तः । यद्वा प्रियास्तनूरवाधूषत । किंच स्वभानवः स्वयं दीप्तियुक्ताः विप्राः मेधाविनः सन्तः नविष्ठया नवतमया मती मत्या बुद्ध्या युक्ताः अस्तोषत स्तुतिं कृतवन्तः । अहो स्वाद्वन्नं बहु दत्तमहो भक्तिरित्याद्यभिधानं स्तुतिः । अतो हे इन्द्र, नु क्षिप्रं ते तव हरी एतन्नामकौ हरितवर्णावश्वौ योज गमनाय रथे योजय । तवाभीष्टायाः पितृतृप्तेः संपन्नत्वात्तैः पितृभिः सह त्वया आगन्तव्यमित्यर्थः । अक्षन् । अदेर्लुङि ‘लुड्सनोर्घस्लृ’ (पा० २ । ४ । ३७) इति घस्लादेशः । ‘मन्त्रे घस-’ (पा० २।४ । ८०) इत्यादिना च्लेर्लुक् । ‘गमहन-’ (पा० ६।९। ६८) इत्युपधालोपः । ‘खरि च’ (पा० ८।४ । ५५) इति चर्त्वम् । ‘शासिवसि-’ (पा० ८।३।६०) इति षत्वम् । अडागमः । अमीमदन्त ‘मद तृप्तियोगे’ चुरादिरात्मनेपदी लुङि णिलोपादौ रूपम् । अधूषत ‘धूञ् कम्पने’ लुङि सिचि व्यत्ययेन गुणाभावः । मती ‘सुपां सुलुक्’ (पा. ७।१।३९) इति तृतीयायाः पूर्वसवर्णदीर्घः । योज ‘युजिर् योगे’ ण्यन्ताल्लोटि ‘छन्दस्युभयथा’ (पा० ३।४ । ११७) इति शप आर्धधातुकत्वात् ‘णेरनिटि’ (पा० ६ । ४ । ५१) इति णिलोपः । ‘द्व्यचोऽतस्तिङः’ (पा० ६।३ । १३५) इति संहितायां दीर्घः ॥ ५१ ॥
द्विपञ्चाशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- गोतम ऋषिः
- विराट् पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
उस यज्ञादि व्यवहार से क्या-क्या होता है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) सभा के स्वामी ! जो (ते) आपके सम्बन्धी मनुष्य (स्वभानवः) अपनी ही दीप्ति से प्रकाश होने वा (अव प्रियाः) औरों को प्रसन्न करानेवाले (विप्राः) विद्वान् लोग (नविष्ठया) अत्यन्त नवीन (मती) बुद्धि से (हि) निश्चय करके परमात्मा की (अस्तोषत) स्तुति और (अक्षन्) उत्तम-उत्तम अन्नादि पदार्थों को भक्षण करते हुए (अमीमदन्त) आनन्द को प्राप्त होते और उसी से वे शत्रु वा दुःखों को (न्वधूषत) शीघ्र कम्पित करते हैं, वैसे ही यज्ञ में (इन्द्र) हे सभापते ! (ते) आपके सहाय से इस यज्ञ में निपुण हों और तू (हरी) अपने बल और पराक्रम को हम लोगों के साथ (योज) संयुक्त कर ॥५१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। मनुष्यों को उचित है कि प्रतिदिन नवीन-नवीन ज्ञान वा क्रिया की वृद्धि करते रहें। जैसे मनुष्य विद्वानों के सत्सङ्ग वा शास्त्रों के पढ़ने से नवीन-नवीन बुद्धि, नवीन-नवीन क्रिया को उत्पन्न करते हैं, वैसे ही सब मनुष्यों को अनुष्ठान करना चाहिये ॥५१॥
दयानन्द-सरस्वती (सं) - विषयः
तेन यज्ञादिव्यवहारेण किं भवतीत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे इन्द्र ! ते तव ये स्वभानवोऽवप्रिया विप्रा नविष्ठया मती मत्या हि खलु परमेश्वरमस्तोषत स्तुवन्त्यक्षन् श्रेष्ठान्नादिकमदन्त्यमीमदन्तानन्दयन्ति तस्मात् तं शत्रून् दुःखानि च न्वधूषत क्षिप्रं धुन्वन्ति, त्वमप्येतेषु स्वकीयौ हरी बलपराक्रमौ योज संयोजय ॥५१॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - (अत्रोपमालङ्कारः।) मनुष्यैः प्रतिदिनं नवीनविज्ञानक्रियावर्द्धनेन भवितव्यम्। यथा विद्वत्सङ्गशास्त्राध्ययनेन नवीनान्नवीनां मतिं क्रियां च जनयन्ति, तथैव सर्वैर्मनुष्यैरनुष्ठेयमिति ॥५१॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. माणसांनी दररोज नवनवीन ज्ञान किंवा कर्म यांची वृद्धी करावी. जी माणसे विद्वानांच्या संगतीत राहून किंवा शास्त्रांचे अध्ययन करून नवीन ज्ञान प्राप्त करतात व नवीन कर्म करतात. त्याप्रमाणेच सर्व माणसांनी त्यांचे अनुष्ठान करावे.
५२ सुसन्दृशं त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
सु॒स॒न्दृशं॑ त्वा व॒यं मघ॑वन् वन्दिषी॒महि॑। प्र नू॒नं पू॒र्णब॑न्धुर स्तु॒तो या॑सि॒ वशाँ॒२ऽअनु॒ योजा॒ न्वि᳖न्द्र ते॒ हरी॑ ॥५२॥
मूलम् ...{Loading}...
सु॒स॒न्दृशं॑ त्वा व॒यं मघ॑वन् वन्दिषी॒महि॑। प्र नू॒नं पू॒र्णब॑न्धुर स्तु॒तो या॑सि॒ वशाँ॒२ऽअनु॒ योजा॒ न्वि᳖न्द्र ते॒ हरी॑ ॥५२॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सु॒सं॒दृश॒मिति॑ सुऽसं॒दृश॑म्। त्वा॒। व॒यम्। मघ॑व॒न्निति॒ मघ॑ऽवन्। व॒न्दि॒षी॒महि॑। प्र। नू॒नम्। पू॒र्णब॑न्धुर॒ इति॑ पू॒र्णऽब॑न्धुरः। स्तु॒तः। या॒सि॒। वशा॑न्। अनु॑। योज॑। नु। इ॒न्द्र॒। ते॒। हरी॒ऽइति॒ हरी॑। ५२।
महीधरः
म० हे मघवन् , वयं त्वा त्वां वन्दिषीमहि स्तुतिकर्तारो भूयास्मेत्याशास्यते । किंभूतं त्वाम् । सुसंदृशं सुष्ठु सम्यक् पश्यति सुसंदृक् तं शोभनदर्शनम् । अनुग्रहदृष्ट्या सर्वस्य द्रष्टारम् । इत्थमस्माभिः स्तुतः त्वं वशान् कामयमानान् यजमानाननुलक्षीकृत्य नूनं प्रयासि अवश्यं गच्छसि । किंभूतः । पूर्णबन्धुरः । बन्धुरशब्दो रथनीडवाची । स्तोतृभ्यो देयैर्धनैः संपूर्णरथनीडोपेतो भूला गच्छसि । हे इन्द्र, स त्वं ते हरी योजेति पूर्ववत् ॥५२॥
त्रिपञ्चाशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- गोतम ऋषिः
- विराट् पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
वह इन्द्र कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (मघवन्) उत्तम-उत्तम विद्यादि धनयुक्त (इन्द्र) परमात्मन् ! (वयम्) हम लोग (सुसंदृशम्) अच्छे प्रकार व्यवहारों के देखनेवाले (त्वा) आपकी (नूनम्) निश्चय करके (वन्दिषीमहि) स्तुति करें तथा हम लोगों से (स्तुतः) स्तुति किये हुए आप (वशान्) इच्छा किये हुए पदार्थों को (यासि) प्राप्त कराते हो और (ते) अपने (हरी) बल पराक्रमों को आप (अनुप्रयोज) हम लोगों के सहाय के अर्थ युक्त कीजिये ॥१॥५२॥ (वयम्) हम लोग (सुसंदृशम्) अच्छे प्रकार पदार्थों को दिखाने वा (मघवन्) धन को प्राप्त कराने तथा (पूर्णबन्धुरः) सब जगत् के बन्धन के हेतु (त्वा) उस सूर्यलोक की (नूनम्) निश्चय करके (वन्दिषीमहि) स्तुति अर्थात् इसके गुण प्रकाश करते हैं। (स्तुतः) स्तुति किया हुआ यह हम लोगों को (वशान्) उत्तम-उत्तम व्यवहारों को सिद्धि करानेवाली कामनाओं को (यासि) प्राप्त कराता है (नु) जैसे (ते) इस सूर्य के (हरी) धारण-आकर्षण गुण जगत् में युक्त होते हैं, वैसे आप हम लोगों को विद्या की सिद्धि करनेवाले गुणों को (अनुप्रयोज) अच्छे प्रकार प्राप्त कीजिये ॥२॥५२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेष और उपमालङ्कार हैं। मनुष्यों को सब जगत् के हित करनेवाले जगदीश्वर ही की स्तुति करनी और किसी की न करनी चाहिये, क्योंकि जैसे सूर्यलोक सब मूर्तिमान् द्रव्यों का प्रकाश करता है, वैसे उपासना किया हुआ ईश्वर भी भक्तजनों के आत्माओं में विज्ञान को उत्पन्न करने से सब सत्यव्यवहारों को प्रकाशित करता है। इससे ईश्वर को छोड़कर और किसी की उपासना कभी न करनी चाहिये ॥५२॥
दयानन्द-सरस्वती (सं) - विषयः
स इन्द्रः कीदृश इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मघवन्निन्द्र ! वयं सुसंदृशं त्वा त्वां वन्दिषीमहि अस्माभिः स्तुतः पूर्णबन्धुरः संस्त्वं वशान् कामान् यासि प्रापयसि ते तव हरी त्वमनु प्रयोजेत्येकः ॥१॥५२॥ वयं सुसंदृशं मघवन् मघवन्तं पूर्णबन्धुरं त्वा तमिमं सूर्यलोकं नूनं वन्दिषीमहि। स्तुतः प्रकाशितगुणः सन्नयं वशानुत्कृष्टव्यवहारसाधकान् कामान् यासि प्रापयति। हे विद्वंस्त्वं यथा तेऽस्येन्द्रस्य हरी अस्मिन् जगति युङ्क्तः, तथैव विद्यासिद्धिकराण्यनुप्रयोजेति द्वितीयः ॥२॥५२॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र श्लेषोपमालङ्कारौ। मनुष्यैः सर्वजगद्धितकारी जगदीश्वरो वन्दितव्यो नैवेतरः। यथा सूर्यो मूर्तद्रव्याणि प्रकाशयति तथोपासितः सोऽपि भक्तजनात्मसु विज्ञानोत्पादनेन सर्वान् सत्यव्यवहारान् प्रकाशयति तस्मान्नैवेश्वरं विहाय कस्यचिदन्यस्योपासनं कर्तव्यमिति ॥५२॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेष व उपमालंकार आहेत. माणसांनी सर्व जगाचे हित करणाऱ्या जगदीश्वराचीच स्तुती केली पाहिजे, इतरांची नव्हे. कारण सूर्य जसा सर्व पदार्थांना प्रकाशित करतो तशी उपासना केल्यावर परमेश्वर भक्तांच्या आत्म्यांमध्ये सत्य ज्ञानाचा प्रकाश करतो व त्याद्वारे सत्य व्यवहार प्रकट होतात यासाठी परमेश्वराला सोडून दुसऱ्या कुणाची उपासना करता कामा नये.
५३ मनो न्वाह्वामहे
विश्वास-प्रस्तुतिः ...{Loading}...
मनो॒ न्वाह्वा॑महे नाराशँ॒सेन॒ स्तोमे॑न। पि॒तॄ॒णां च॒ मन्म॑भिः ॥५३॥
मूलम् ...{Loading}...
मनो॒ न्वाह्वा॑महे नाराशँ॒सेन॒ स्तोमे॑न। पि॒तॄ॒णां च॒ मन्म॑भिः ॥५३॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मनः॑। नु। आ। ह्वा॒म॒हे॒। ना॒रा॒शँ॒सेन॑। स्तोमे॑न। पि॒तॄ॒णाम्। च॒। मन्म॑भि॒रिति॒ मन्म॑ऽभिः। ५३।
महीधरः
म० तिस्र ऋचो मनोदेवत्या गायत्र्यो बन्धुदृष्टाः । ‘मनो न्वाह्वामह इति गार्हपत्यं तिसृभिरिति’ (का० ५। ९ । २२)। उपतिष्ठन्त इत्यनुवर्तते । नु क्षिप्रं मन आह्वामहे पितृयज्ञानुष्ठानेन चित्तं पितृलोकं गतमिवासीत् अत आहूयते । यद्वा मनः मनोऽभिमानि दैवतमाह्वामहे आह्वयामः । केन साधनेन । स्तोमेन स्तोत्रेण । कथंभूतेन । नाराशंसेन । शंसः प्रशंसनं नराणां मनुष्याणां योग्यः शंसो नराशंसः तत्संबन्धी नाराशंसस्तेन । स्तोत्रं द्विविधं दैवं मानुषं च । यत्र देवाः स्तूयन्ते तद्दैवम् । यत्र च मनुष्याः प्रशस्यन्ते तन्मानुषम् । तथाविधेन स्तोत्रेणेत्युक्तं भवति । किंच पितॄणां च मन्मभिः पितरो यैः स्तोत्रैर्मन्यन्ते ते मन्मानस्तैः तादृशैः स्तोत्रैराह्वयामः ॥ ५३ ॥
चतुःपञ्चाशी।
अधिमन्त्रम् (VC)
- मनो देवता
- बन्धुर्ऋषिः
- अतिपादनिचृद् गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
इसके आगे मन के लक्षण का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हम लोग (नाराशंसेन) पुरुषों के अत्यन्त प्रशंसनीय (स्तोमेन) स्तुतियुक्त व्यवहार और (पितॄणाम्) पालना करनेवाले ऋतु वा ज्ञानवान् मनुष्यों के (मन्मभिः) जिनसे सब गुण जाने जाते हैं, उन गुणों के साथ (मनः) संकल्पविकल्पात्मक चित्त को (न्वाह्वामहे) सब ओर से हटाके दृढ़ करते हैं ॥५३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को मनुष्यजन्म की सफलता के लिय विद्या आदि गुणों से युक्त मन को करना चाहिये। जैसे ऋतु अपने-अपने गुणों को क्रम-क्रम से प्रकाशित करते हैं, तथा जैसे विद्वान् लोग क्रम-क्रम से अनेक प्रकार की अन्य-अन्य विद्याओं को साक्षात्कार करते हैं, वैसा ही पुरुषार्थ करके सब मनुष्यों को निरन्तर विद्या और प्रकाश की प्राप्ति करनी चाहिये ॥५३॥
दयानन्द-सरस्वती (सं) - विषयः
अथ मनसो लक्षणमुपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - वयं नाराशंसेन स्तोमेन पितॄणां च मन्मभिर्मनो न्वाह्वामहे ॥५३॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्मनुष्यजन्मसाफल्यार्थं विद्यादिगुणयुक्तं मनः कर्तव्यम्। यथर्तवः स्वान् स्वान् गुणान् क्रमेण प्रकाशयन्ति, यथा च विद्वांसः क्रमशोऽन्यामन्यां च विद्यां साक्षात् कुर्वन्ति, तथैव सततमनुष्ठाय विद्याप्रकाशौ प्राप्तव्यौ ॥५३॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - मनुष्य जन्म सफल व्हावा, यासाठी माणसांनी आपले मन, विद्या इत्यादी गुणांनीयुक्त करावे. जसे ऋतू आपले गुणधर्म क्रमाक्रमाने प्रकट करतात व विद्वानही क्रमाने अनेक प्रकारच्या विद्यांचा साक्षात्कार करतात तसे सर्व माणसांनी सतत पुरुषार्थाने विद्येची व प्रकाशाची प्राप्ती करून घ्यावी.
५४ आ नऽएतु
विश्वास-प्रस्तुतिः ...{Loading}...
आ न॑ऽएतु॒ मनः॒ पुनः॒ क्रत्वे॒ दक्षा॑य जी॒वसे॑। ज्योक् च॒ सूर्यं॑ दृ॒शे ॥५४॥
मूलम् ...{Loading}...
आ न॑ऽएतु॒ मनः॒ पुनः॒ क्रत्वे॒ दक्षा॑य जी॒वसे॑। ज्योक् च॒ सूर्यं॑ दृ॒शे ॥५४॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ। नः॒। ए॒तु॒। मनः॑। पुन॒रिति॒ पुनः॑। क्रत्वे॑। दक्षा॑य। जी॒वसे॑। ज्योक्। च॒। सूर्य॑म्। दृ॒शे। ५४।
महीधरः
म० नोऽस्माकं मनः पूर्वोक्तं चित्तं पुनर्भूयः आ एतु आगच्छतु । किमर्थम् । क्रत्वे क्रतवे सङ्कल्पाय यज्ञं सङ्कल्पयितुं दक्षाय कर्मण्युत्साहाय । तथाच श्रुतिः ‘तदेव मनसा कामयत इदं मे स्यादिदं कुर्वीयेति स एव ऋतुरथ यदस्मै तत्समृध्यते स दक्षः’ इति । ज्योगिति निपातश्चिरवचनः । ज्योग्जीवसे चिरं जीवितुम् । सूर्य दृशे च चिरकालं सूर्यमवलोकयितुं च । एतेषां सङ्कल्पादीनां सिद्धये मनः पुनरागच्छतु । क्रत्वे । गुणाभावाद्यणादेशः । जीवसे तुमर्थे असेप्रत्ययः । दृशे । ‘दृशे विख्ये च’ (पा० ३ । ४ । ११) इति साधुः ॥ ५४ ॥
पञ्चपञ्चाशी।
अधिमन्त्रम् (VC)
- मनो देवता
- बन्धुर्ऋषिः
- विराड् गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह मन कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (मनः) जो स्मरण करनेवाला चित्त (ज्योक्) निरन्तर (सूर्यम्) परमेश्वर, सूर्यलोक वा प्राण को (दृशे) देखने वा (क्रत्वे) उत्तम विद्या वा उत्तम कर्मों की स्मृति वा (जीवसे) सौ वर्ष से अधिक जीने (च) और अन्य शुभ कर्मों के अनुष्ठान के लिये है, वह (नः) हम लोगों को (पुनः) वार-वार जन्म-जन्म में (आ) सब प्रकार से (एतु) प्राप्त हो ॥५४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को [चाहिये कि] उत्तम कर्मों के अनुष्ठान के लिये चित्त की शुद्धि वा जन्म-जन्म में उत्तम चित्त की प्राप्ति ही की इच्छा करें, जिससे मनुष्य जन्म को प्राप्त होकर ईश्वर की उपासना का साधन करके उत्तम-उत्तम धर्मों का सेवन कर सकें ॥५४॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तन्मनः कीदृशमित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यन्मनश्चित्तं ज्योक् निरन्तरं सूर्यं दृशे क्रत्वे दक्षाय जीवसे चान्येषां शुभकर्मणामनुष्ठानायास्ति तन्नोऽस्मान् पुनः पुनरासमन्तादेतु प्राप्नोतु ॥५४॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैः श्रेष्ठकर्मानुष्ठानेन चित्तशुद्धिं कृत्वा पुनः पुनर्जन्मनि चित्तप्राप्तिरेवापेक्ष्या येन मनुष्यजन्म प्राप्येश्वरोपासनं संराध्य निरन्तरं सद्धर्मोऽनुसेव्य इति ॥५४॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी उत्तम कर्म करण्यासाठी चित्त निर्मळ करावे व जन्मजन्मांतरी उत्तम चित्त प्राप्त व्हावे, अशीच कामना करावी. ज्यामुळे मनुष्य जन्म प्राप्त होऊन ईश्वराच्या उपासनेचे साधन मिळून उत्तम धर्माचे ग्रहण करता येऊ शकते.
५५ पुनर्नः पितरो
विश्वास-प्रस्तुतिः ...{Loading}...
पुन॑र्नः पितरो॒ मनो॒ ददा॑तु॒ दैव्यो॒ जनः॑। जी॒वं व्रातँ॑सचेमहि ॥५५॥
मूलम् ...{Loading}...
पुन॑र्नः पितरो॒ मनो॒ ददा॑तु॒ दैव्यो॒ जनः॑। जी॒वं व्रातँ॑सचेमहि ॥५५॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पुनः॑। नः॒। पि॒त॒रः॒। मनः॑। ददा॑तु। दैव्यः॑। जनः॑। जी॒वम्। व्रा॑तम्। स॒चे॒म॒हि॒। ५५।
महीधरः
म० हे पितरः, भवदनुज्ञया दैव्यो जनो देवसंबन्धी पुरुषः नोऽस्मभ्यं मनः पूर्वोक्तं चित्तं पुनर्भूयो ददातु प्रयच्छतु । प्रेरयत्वित्यर्थः । तथा सत्यनुष्ठानं कृत्वा भवत्प्रसादाज्जीवं जीवनवन्तं व्रातं पुत्रपश्वादिकं गणं वयं सचेमहि सेवेमहि । सचतिः सेवनार्थः ॥ ५५ ॥
षट्पञ्चाशी।
अधिमन्त्रम् (VC)
- मनो देवता
- बन्धुर्ऋषिः
- निचृद् गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर मन शब्द से बुद्धि का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (पितरः) उत्पादक वा अन्न, शिक्षा वा विद्या को देकर रक्षा करनेवाले पिता आदि लोग आपकी शिक्षा से यह (दैव्यः) विद्वानों के बीच में उत्पन्न हुआ (जनः) विद्या वा धर्म से दूसरे के लिये उपकारों को प्रकट करनेवाला विद्वान् पुरुष (नः) हम लोगों के लिये (पुनः) इस जन्म वा दूसरे जन्म में (मनः) धारणा करनेवाली बुद्धि को (ददातु) देवे, जिससे (जीवम्) ज्ञानसाधनयुक्त जीवन वा (व्रातम्) सत्य बोलने आदि गुण समुदाय को (सचेमहि) अच्छे प्रकार प्राप्त करें ॥५५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्वान् माता-पिता आचार्यों की शिक्षा के विना मनुष्यों का जन्म सफल नहीं होता और मनुष्य भी उस शिक्षा के विना पूर्ण जीवन वा कर्म के संयुक्त करने को समर्थ नहीं हो सकते। इस से सब काल में विद्वान् माता-पिता और आचार्यों को उचित है कि अपने पुत्र आदि को अच्छे प्रकार उपदेश से शरीर और आत्मा के बलवाले करें ॥५५॥
दयानन्द-सरस्वती (सं) - विषयः
पुनर्मनः शब्देन बुद्धिरुपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे पितरो जनका विद्याप्रदाश्च भवच्छिक्षया दैव्यो जनो विद्वान् नोऽस्मभ्यं पुनः पुनर्मनोधारणावतीं बुद्धिं ददातु, येन वयं जीवं व्रातं सचेमहि समवेयाम ॥५५॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - नहि मनुष्याणां विदुषां मातापित्राचार्याणां च सुशिक्षया विना मनुष्यजन्मसाफल्यं सम्भवति, न च मनुष्यास्तया विना पूर्णं जीवनं कर्म च समवैतुं शक्नुवन्ति, तस्मात् सर्वदा मातापित्राचार्यैः स्वसन्तानानि सम्यगुपदेशेन शरीरात्मबलवन्ति कर्त्तव्यानीति ॥५५॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - विद्वान आई-वडील व गुरू यांच्या संस्कारावाचून मनुष्य जन्म सफल होत नाही. माणसे ही अशा प्रकारच्या संस्कारावाचून पूर्ण जीवन जगण्यास किंवा कर्म करण्यास समर्थ होऊ शकत नाहीत. त्यासाठी विद्वान माता-पिता व आचार्य यांनी आपल्या पुत्रांना चांगला उपदेश करून त्यांचे शरीर व आत्मबल वाढवावे.
५६ वयं सोम
विश्वास-प्रस्तुतिः ...{Loading}...
व॒यँ सो॑म व्र॒ते तव॒ मन॑स्त॒नूषु॒ बिभ्र॑तः। प्र॒जाव॑न्तः सचेमहि ॥५६॥
मूलम् ...{Loading}...
व॒यँ सो॑म व्र॒ते तव॒ मन॑स्त॒नूषु॒ बिभ्र॑तः। प्र॒जाव॑न्तः सचेमहि ॥५६॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
व॒यम्। सो॒म॒। व्र॒ते। तव॑। मनः॑। त॒नूषु॑। बिभ्र॑तः। प्र॒जाव॑न्त॒ इति॑ प्रजाऽव॑न्तः। स॒चे॒म॒हि॒। ५६।
महीधरः
म० सोमदेवत्या गायत्री जपे विनियुक्ता । अत्र पितृयज्ञे सोमनामको देवोऽस्ति । सोमाय पितृमते इत्येवं हविषो विहितत्वात् । हे सोम, वयं यजमानाः तव व्रते कर्मणि वर्तमानाः तनूषु भवच्छरीरेषु मनो बिभ्रतः अस्मदीयं चित्तं धारयन्तः त्वत्कारुण्यात् प्रजावन्तः पुत्रपौत्रादिसंपन्नाः सन्तः सचेमहि सेवेमहि सेवितव्यानि वस्तूनीति शेषः । यद्वा ‘षच संबन्धे’ सर्वदा त्वत्संबद्धा भवेम ॥ ५६ ॥
सप्तपञ्चाशी।
अधिमन्त्रम् (VC)
- सोमो देवता
- बन्धुर्ऋषिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब सोमशब्द से ईश्वर और ओषधियों के रसों का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सोम) सब जगत् को उत्पन्न करनेवाले जगदीश्वर ! (तव) आपको (व्रते) सत्यभाषण आदि धर्मों के अनुष्ठान में वर्त्तमान होके (तनूषु) बड़े-बड़े सुखयुक्त शरीरों में (मनः) अन्तःकरण की अहङ्कारादि वृत्ति को (बिभ्रतः) धारण करते हुए और (प्रजावन्तः) बहुत पुत्र आदि राष्ट्र आदि धनवाले होके हम लोग (सचेमहि) सब सुखों को प्राप्त होवें ॥१॥५६॥ (तव) इस (सोम) सोमलता आदि ओषधियों के (व्रते) सत्य-सत्य गुण ज्ञान के सेवन में (तनूषु) सुखयुक्त शरीरों में (मनः) चित्त की वृत्ति को (बिभ्रतः) धारण करते हुए (प्रजावन्तः) पुत्र, राज्य आदि धनवाले होकर (वयम्) हम लोग (सचेमहि) सब सुखों को प्राप्त होवें ॥२॥५६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। ईश्वर की आज्ञा में वर्तमान हुए मनुष्य लोग शरीर आत्मा के सुखों को निरन्तर प्राप्त होते हैं। इसी प्रकार युक्ति से सोम आदि ओषधियों के सेवन से उन सुखों को प्राप्त होते हैं, परन्तु आलसी मनुष्य नहीं ॥५६॥
दयानन्द-सरस्वती (सं) - विषयः
अथ सोमशब्देनेश्वरौषधिरसा उपदिश्यन्ते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे सोम जगदीश्वर ! तव सत्याचरणरूपे व्रते वर्तमानास्तनूषु मनो बिभ्रतः प्रजावन्तः सन्तो वयं सर्वैः सुखैः सचेमहि समवेयामेत्येकः ॥१॥५६॥ तवास्य सोमस्य व्रते सत्याचरणनिमित्ते तनूषु मनो बिभ्रतः सन्तः प्रजावन्तो भूत्वा वयं सर्वैः सुखैः सचेमहि नित्यं समवेयामेति द्वितीयः ॥२॥५६॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। ईश्वरस्याज्ञायां वर्तमाना मनुष्याः शरीरात्मसुखं नित्यं प्राप्नुवन्ति। एवं सोमाद्योषधिसेविनोऽपि तत्सुखं समवयन्ति नेतर इति ॥५६॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. ईश्वराच्या आज्ञेप्रमाणे चालणाऱ्या माणसांना सदैव शरीर व आत्म्याचे सर्व सुख प्राप्त होते. त्याचप्रमाणे युक्तिपूर्वक सोम इत्यादी औषधांचे सेवन करण्याने सुख प्राप्त करता येते. आळशी लोकांना हे सुख मिळत नाही.
५७ एष ते
विश्वास-प्रस्तुतिः ...{Loading}...
ए॒ष ते॑ रुद्र भा॒गः स॒ह स्वस्राम्बि॑कया॒ तं जु॑षस्व॒ स्वाहै॒ष ते॑ रुद्र भा॒गऽआ॒खुस्ते॑ प॒शुः ॥५७॥
मूलम् ...{Loading}...
ए॒ष ते॑ रुद्र भा॒गः स॒ह स्वस्राम्बि॑कया॒ तं जु॑षस्व॒ स्वाहै॒ष ते॑ रुद्र भा॒गऽआ॒खुस्ते॑ प॒शुः ॥५७॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ए॒षः। ते॒। रु॒द्र॒। भा॒गः। स॒ह। स्वस्रा॑। अम्बि॑कया। तम्। जु॒ष॒स्व॒। स्वाहा॑। ए॒षः। ते॒। रु॒द्र॒। भा॒गः। आ॒खुः। ते॒। प॒शुः। ५७।
महीधरः
म० द्वे रौद्रे यजुषी विंशत्यक्षरद्वादशाक्षरे । साकमेधगतत्र्यम्बकहविर्विषया मन्त्रा उच्यन्ते । प्रथमस्य यजुषोऽवदानहोमे विनियोगः । तथाच ‘एष त इति जुहोतीति’ ( का० .. ५। १० । १२)। रोदयति विरोधिनां शतमिति रुद्रः । हे । रुद्र, ते तव स्वस्रा भगिन्या अम्बिकया अम्बिकानाम्न्या ‘सह एषोऽस्माभिर्दीयमानः पुरोडाशः भागः भजनीयः स्वीकर्तुं योग्यः । तं तथाविधं पुरोडाशं त्वं जुषस्व सेवस्व । । स्वाहा इदं हविर्दत्तं सुहुतमस्तु । अम्बिकाया रुद्रभगिनीत्वं श्रुत्योक्तम् । ‘अम्बिका ह वै नामास्य स्वसा तयास्यैष सह भागः’ (२। ६ । २।९) इति । योऽयं रुद्राख्यः क्रूरो देवस्तस्य विरोधिनं हन्तुमिच्छा भवति तदानया भगिन्या क्रूरदेवतया साधनभूतया तं हिनस्ति । सा चाम्बिका शरद्रूपं प्राप्य जरादिकमुत्पाद्य तं विरोधिनं हन्ति । रुद्राम्बिकयोरुग्रत्वमनेन हविषा शान्तं भवति । तथाच तित्तिरिः । ‘एष ते रुद्र भागः सह स्वस्राम्बिकयेत्याह शरद्वा अस्याम्बिका सा भिया एषा हिनस्ति यᳪं᳭ हिनस्ति तयैवैनᳪं᳭ सह शमयति’ । ‘अतिरिक्तमाखूत्कर उपकिरत्येष त इतीति’ (का० ५। १० । १३ ) इति । यजमानस्य यावन्तः पुत्रभृत्यादयः पुरुषाः सन्ति तान् गणयित्वा प्रतिपुरुषमेकैकः पुरोडाश इत्येतावतः पुरोडाशान्निरूप्य ततोऽप्यधिकमेकं पुरोडाशं निर्वपेत् सोऽयमतिरिक्त उच्यते । ‘त्रैयम्बकान्निर्वपति रौद्रानेककपालान्यावन्तो यजमानगृह्या एकाधिकान्’ (५।१०।१।२) इति कात्यायनोक्तेः । तत्र योऽयमतिरिक्तस्तं न जुहुयात् किंतु मूषकोत्खाते एष त इति मन्त्रेणोपकिरेत् । अथ मन्त्रार्थः । हे रुद्र, एषोऽस्माभिरुपकीर्यमाणोऽतिरिक्तः पुरोडाशः ते भागः त्वया भजनीयः । तथा ते तवाखुः पशुः मूषकः पशुत्वेन समर्पितः । आखुदानेन तुष्टो रुद्रस्तयाम्बिकया यजमानपशून्न मारयतीत्यर्थः ॥ ५७ ॥
अष्टपञ्चाशी।
अधिमन्त्रम् (VC)
- रुद्रो देवता
- बन्धुर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
मन के लक्षण कहने के अनन्तर प्राण के लक्षण का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (रुद्र) अन्यायकारी मनुष्यों को रुलानेवाले विद्वन् ! जो (ते) तेरा (एषः) यह (भागः) सेवन करने योग्य पदार्थ समूह है, उस को तू (अम्बिकया) वेदवाणी वा (स्वस्रा) उत्तम विद्या वा क्रिया के (सह) साथ (जुषस्व) सेवन कर तथा हे (रुद्र) विद्वन् ! जो (ते) तेरा (एषः) यह (भागः) धर्म से सिद्ध अंश वा (स्वाहा) वेदवाणी है, उस का सेवन कर और हे (रुद्र) विद्वन् ! जो (ते) तेरा (एषः) यह (आखुः) खोदने योग्य शस्त्र वा (पशुः) भोग्य पदार्थ है (तम्) उसको (जुषस्व) सेवन कर ॥१॥५७॥ जो (एषः) यह (रुद्र) प्राण है (ते) जिसका (एषः) यह (भागः) भाग है, जिसको (अम्बिकया) वाणी वा (स्वस्रा) विद्याक्रिया के (सह) साथ (जुषस्व) सेवन करता वा जो (ते) जिसका (स्वाहा) सत्यवाणी रूप (भागः) भाग है और जो इसके (आखुः) खोदनेवाले पदार्थ वा (पशुः) दर्शनीय भोग्य पदार्थ हैं, जिसका यह (जुषस्व) सेवन करता है, उसका सेवन सब मनुष्य सदा करें ॥२॥५७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। जैसे भाई पूर्ण विद्यायुक्त अपनी बहिन के साथ वेदादि शब्दविद्या को पढ़कर आनन्द को भोगता है, वैसे विद्वान् भी विद्या को प्राप्त होकर सुखी होता है। जैसे यह प्राण श्रेष्ठ शब्दविद्या से प्रिय आनन्ददायक होता है, वैसे सुशिक्षित विद्वान् भी सब को सुख करनेवाला होता है। इन दोनों के विना कोई भी मनुष्य सत्यज्ञान वा सुख भोगों को प्राप्त होने को समर्थ नहीं हो सकता ॥५७॥
दयानन्द-सरस्वती (सं) - विषयः
अथ मनलक्षणकथनानन्तरं प्राणलक्षणमुपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे रुद्र स्तोतस्ते तवैषो भागोऽस्ति, तं त्वमम्बिकया स्वस्रा सह जुषस्व। हे रुद्र ! ते तवैषोऽयं भागः स्वाहास्ति, तं सेवस्व। हे रुद्र ! ते तवैष आखुः पशुश्चास्ति, तं जुषस्व सेवस्वेत्येकः ॥१॥५७॥ योऽयं रुद्रः प्राणस्तेऽस्य रुद्रस्य योऽयं भागोऽयमम्बिकया स्वस्रा सह जुषस्व सेवते, तेऽस्य रुद्रस्यैषोऽयं स्वाहाभागस्तथा यस्तेऽस्याखुः पशुश्चास्ति, यमयं सततं सेवते तं सर्वे मनुष्याः सेवन्ताम् ॥२॥५७॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। यथा भ्राता प्रियया विदुष्या भगिन्या सह वेदादिशब्दविद्यां पठित्वाऽऽनन्दं भुङ्क्ते, यथा चाऽयं प्राणः श्रेष्ठया शब्दविद्यया प्रियो जायते, तथैव विद्वान् शब्दविद्यां प्राप्य सुखी जायते। नैताभ्यां विना कश्चिदपि सत्यं ज्ञानं सुखभोगं च प्राप्तुं शक्नोतीति ॥५७॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. जसा एखादा विद्वान बंधू आपल्या भगिनीबरोबर वेदादी शब्दविद्येचा (वेदवाणीचा) अभ्यास करून आनंदित होते तसेच विद्वानही विद्येची प्राप्ती करून सुखी होतो. जसा हा प्राण श्रेष्ठ शब्दविद्येने (वेदवाणीने) प्रिय, आनंददायक वाटतो तसेच सुशिक्षित विद्वानही सर्वांना सुखी करणारा असतो. या दोन्हीशिवाय कोणीही व्यक्ती सत्यज्ञान प्राप्त करू शकत नाही किंवा सुखाचा उपभोग घेऊ शकत नाही.
५८ अव रुद्रमदीमह्यव
विश्वास-प्रस्तुतिः ...{Loading}...
अव॑ रु॒द्रम॑दीम॒ह्यव॑ दे॒वं त्र्य॑म्बकम्। यथा॑ नो॒ वस्य॑स॒स्कर॒द् यथा॑ नः॒ श्रेय॑स॒स्कर॒द् यथा॑ नो व्यवसा॒यया॑त् ॥५८॥
मूलम् ...{Loading}...
अव॑ रु॒द्रम॑दीम॒ह्यव॑ दे॒वं त्र्य॑म्बकम्। यथा॑ नो॒ वस्य॑स॒स्कर॒द् यथा॑ नः॒ श्रेय॑स॒स्कर॒द् यथा॑ नो व्यवसा॒यया॑त् ॥५८॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अव॑। रु॒द्रम्। अ॒दी॒म॒हि॒। अव॑। दे॒वम्। त्र्य॑म्बक॒मिति॒ त्रिऽअ॑म्बकम्। यथा॑। नः॒। वस्य॑सः। कर॑त्। यथा॑। नः॒। श्रेय॑सः। कर॑त्। यथा॑। नः॒। व्य॒व॒सा॒यया॒दिति॑ विऽअवसा॒यया॑त्। ५८।
महीधरः
म०. द्वे रौद्र्यौ पङ्क्तिककुभौ । यस्या द्वितीयः पादः द्वादशाक्षरः प्रथमतृतीयावष्टाक्षरौ सा ककुप् । द्वयोर्जपे विनियोगः । तथा ‘आगम्याव रुद्रमदीमहीति जपतीति’ (का० ५।१०।१४)। रुद्रमव । असौ रुद्र इति मनसा तमवगत्यादीमहि त्वदनुग्रहादन्नं भक्षयेम । तथा त्र्यम्बकं त्रीण्यम्बकानि नेत्राणि यस्य तादृशं देवमव त्रिनेत्रोयं देव इति मनसावगत्यादीमहीत्यनुवर्तते । यद्वा अदीमहीत्यत्र णिचो लोपश्छान्दसः । अवयुत्यान्यदेवताभ्यः पृथक्कृत्य रुद्रमदीमहि आदयामो भोजयामः । अवगम्य ज्ञात्वा त्र्यम्बकमादयाम इति । यथा येन प्रकारेण नोऽस्मान्वस्यसः करत् वस्तृतरान् वसनशीलानसौ कुर्यात् । यथाच नोऽस्मान् श्रेयसः करत् ज्ञातिषु प्रशस्यतरान् कुर्यात् । यथा चास्मान् व्यवसाययात् सर्वेषु कार्येषु निश्चययुक्तान् कुर्यात्तथैनं जपाम इत्यर्थः । आशीरियम् । अदीमहि ‘छन्दस्युभयथा’ इत्यार्धधातुकत्वाल्लिङि णिचो लोपः (पा० ३ । ४ । ११७) । वस्यसः वसतीति वस्ता तृन् अतिशयेन वस्ता वसीयान् । ‘तुश्छन्दसि’ (पा० ५।३। ५९) इति ईयसुनि कृते ‘तुरिष्ठेमेयःसु’ (पा० ६।४ । १५४) इति तृनो लोपः । वसीयस इति प्राप्ते ईलोपश्छान्दसः ॥ करत् ‘छन्दसि लुङ्लङ्लिटः’ (पा० ३ । ४ । ६) इति लङ् । विकरणव्यत्ययेन शपि गुणः । ‘बहुलं छन्दस्यमाङ्योगेऽपि’ (पा० ६ । ४ । ७५) इत्यडभावः । व्यवसाययात् लेटि आडागमे ‘इतश्च लोपः परस्मैपदेषु’ (पा० ३ । ४। ९७) इति इलोपे रूपं विपूर्वस्य ण्यन्तस्य स्यतेः ॥ ५८ ॥
एकोनषष्टी।
अधिमन्त्रम् (VC)
- रुद्रो देवता
- बन्धुर्ऋषिः
- विराट् पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब अगले मन्त्र में रुद्र शब्द से ईश्वर का उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हम लोग (त्र्यम्बकम्) तीनों काल में एकरस ज्ञानयुक्त (देवम्) देने वा (रुद्रम्) दुष्टों को रुलानेवाले जगदीश्वर की उपासना करके सब दुःखों को (अवादीमहि) अच्छे प्रकार नष्ट करें (यथा) जैसे परमेश्वर (नः) हम लोगों को (वस्यसः) उत्तम-उत्तम वास करनेवाले (अवाकरत्) अच्छे प्रकार करे (यथा) जैसे (नः) हम लोगों को (श्रेयसः) अत्यन्त श्रेष्ठ (करत्) करे (यथा) जैसे (नः) हम लोगों को (व्यवसाययात्) निवास कराने वा उत्तम गुणयुक्त तथा सत्यपन से निश्चय देनेवाले परमेश्वर ही की प्रार्थना करें ॥५८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - कोई भी मनुष्य ईश्वर की उपासना वा प्रार्थना के विना सब दुःखों के अन्त को नहीं प्राप्त हो सकता, क्योंकि वही परमेश्वर सब सुखपूर्वक निवास वा उत्तम-उत्तम सत्य निश्चयों को कराता है। इससे जैसी उसकी आज्ञा है, उसका पालन वैसा ही सब मनुष्यों को करना योग्य है ॥५८॥
दयानन्द-सरस्वती (सं) - विषयः
अथ रुद्रशब्देनेश्वर उपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - वयं त्र्यम्बकं देवं रुद्रं जगदीश्वरमुपास्य दुःखान्यवादीमह्यवक्षाययेम। स यथा नोऽस्मान् वस्यसोऽव करद्, यथा नोऽस्मान् श्रेयसोऽव करद्, यथा नोऽस्मान् व्यवसाययात्, तथा तं वसीयांसं व्यवसायप्रदं परमेश्वरमेव प्रार्थयामः ॥५८॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - नहीश्वरस्योपासनेन विना कश्चिन्मनुष्यः सर्वदुःखान्तं गच्छति, यः सर्वान् सुखनिवासान् प्रशस्तान् सत्यनिश्चयान् करोति, तस्यैवाज्ञा सर्वैः पालनीयेति ॥५८॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ईश्वराच्या उपासनेखेरीज किंवा प्रार्थनेखेरीज कोणत्याही माणसाच्या दुःखांचा अंत होऊ शकत नाही. कारण तोच परमेश्वर सुखाने राहण्याची (जगण्याची, निवासाची) व्यवस्था करतो व सत्याने निश्चयी बनवितो. त्यामुळे त्याच्या आज्ञेचे पालन सर्व माणसांनी करावे.
५९ भेषजमसि भेषजम्
विश्वास-प्रस्तुतिः ...{Loading}...
भे॒ष॒जम॑सि भेष॒जं गवेऽश्वा॑य॒ पुरु॑षाय भेष॒जम्। सु॒खं मे॒षाय॑ मे॒ष्यै ॥५९॥
मूलम् ...{Loading}...
भे॒ष॒जम॑सि भेष॒जं गवेऽश्वा॑य॒ पुरु॑षाय भेष॒जम्। सु॒खं मे॒षाय॑ मे॒ष्यै ॥५९॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
भे॒ष॒जम्। अ॒सि॒। भे॒ष॒जम्। गवे॑। अश्वा॑य। पुरु॑षाय। भे॒ष॒जम्। सु॒खमिति॑ सु॒ऽखम्। मे॒षाय॑। मे॒ष्यै। ५९।
महीधरः
म० हे रुद्र, त्वं भेषजमसि औषधवत्सर्वोपद्रवनिवारकोऽसि । अतोऽस्मदीयेभ्यो गवे अश्वाय पुरुषाय च भैषज्यं सर्वव्याधिनिवारकमौषधं देहि । मेषाय मेष्यै च सुखं देहि । सु हितं स्वेभ्यः प्राणेभ्य इति सुखम् । अनेन मन्त्रेण गृहपशूनां क्षेमप्राप्तिर्भवति ॥ ५९॥
षष्टी।
अधिमन्त्रम् (VC)
- रुद्रो देवता
- बन्धुर्ऋषिः
- स्वराड् गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह परमेश्वर कैसा है, इस विषय का उपदेश अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे जगदीश्वर ! जो आप (भेषजम्) शरीर, अन्तःकरण, इन्द्रिय और गाय आदि पशुओं के रोगनाश करनेवाले (असि) हैं (भेषजम्) अविद्यादि क्लेशों को दूर करनेवाले (असि) हैं सो आप (नः) हम लोगों के (गवे) गौ आदि (अश्वाय) घोड़ा आदि (पुरुषाय) सब मनुष्य (मेषाय) मेढ़ा और (मेष्यै) भेड़ आदि के लिये (सुखम्) उत्तम-उत्तम सुखों को अच्छी प्रकार दीजिये ॥५९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - परमेश्वर की उपासना के विना किसी मनुष्य का शरीर, आत्मा और प्रजा का दुःख दूर होकर सुख नहीं हो सकता, इससे उसकी स्तुति, प्रार्थना और उपासना आदि के करने और औषधियों के सेवन से शरीर, आत्मा, पुत्र, मित्र और पशु आदि के दुःखों को यत्न से निवृत्त करके सुखों को सिद्ध करना उचित है ॥५९॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स कीदृश इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे रुद्र जगदीश्वर ! यः शरीररोगनाशकत्वाद् भेषजमस्यात्मरोगदूरीकरणाद् भेषजमस्येवं सर्वेषां दुःखनिवारकत्वाद् भेषजमसि स त्वं नोऽस्मभ्यमस्माकं वा गवेऽश्वाय पुरुषाय मेषाय मेष्यै सुखं देहि ॥५९॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - नहि परमेश्वरोपासनेन विना शरीरात्मप्रजानां दुःखापनयो भूत्वा सुखं जायते। तस्मात् सर्वैर्मनुष्यैरीश्वरौषधसेवनेन शरीरात्मप्रजापशूनां प्रयत्नेन दुःखानि निवार्य्य सुखं जननीयमिति ॥५९॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - परमेश्वराच्या उपासनेखेरीज कोणत्याही माणसाच्या शरीराचे, आत्म्याचे व संतानाचे दुःख दूर होऊ शकत नाही. त्यासाठी ईश्वराची स्तुती, प्रार्थना व उपासना करावी आणि औषधी सेवनाने शरीर, आत्मा, पुत्र, मित्र व पशू इत्यादींचे दुःख दूर करण्याचा प्रयत्न करून सुख निर्माण करावे.
६० त्र्यम्बकं यजामहे
विश्वास-प्रस्तुतिः ...{Loading}...
त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम्। उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ माऽमृता॑त्। त्र्य॑म्बकं यजामहे सुग॒न्धिं प॑ति॒वेद॑नम्। उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नादि॒तो मु॑क्षीय॒ मामुतः॑ ॥६०॥
मूलम् ...{Loading}...
त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम्। उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ माऽमृता॑त्। त्र्य॑म्बकं यजामहे सुग॒न्धिं प॑ति॒वेद॑नम्। उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नादि॒तो मु॑क्षीय॒ मामुतः॑ ॥६०॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
त्र्य॑म्बक॒मिति॒ त्रिऽअ॑म्बकम्। य॒जा॒म॒हे॒। सु॒ग॒न्धिमिति॑ सुऽग॒न्धिम्। पु॒ष्टि॒वर्ध॑न॒मिति॑ पुष्टि॒ऽवर्ध॑नम्। उ॒र्वा॒रु॒कमि॒वेत्यु॑र्वारु॒कम्ऽइ॑व। बन्ध॑नात्। मृ॒त्योः। मु॒क्षी॒य॒। मा। अ॒मृता॑त्। त्र्य॑म्बक॒मिति॒ त्रिऽअ॑म्बकम्। य॒जा॒म॒हे॒। सु॒ग॒न्धिमिति॑ सुऽग॒न्धिम्। प॒ति॒वेद॑न॒मिति॑ पति॒ऽवेद॑नम्। उ॒र्वा॒रु॒कमि॒वेत्यु॑र्वारु॒कम्ऽइ॑व। बन्ध॑नात्। इ॒तः। मु॒क्षी॒य॒। मा। अ॒मु॒तः॑। ६०।
महीधरः
म०. द्वे अनुष्टुभौ ‘अग्निं त्रिः परियन्ति पितृवत्सव्योरूनाघ्नानास्त्र्यम्बकमिति देववच्चैतेनैव दक्षिणानाघ्नानाः’ (का. ५।१०।१५। १६) इति । यथा पितृमेधे पुत्रादयः पुरुषाः स्वकीयान् वामोरूंस्ताडयन्तस्त्रिवारमप्रदक्षिणं परियन्ति । यथा च देवतासेवायां दक्षिणोरूंस्ताडयन्तस्त्रिः प्रदक्षिणं परियन्ति । एवमत्र पुरुषाः प्रथमेनैव त्र्यम्बकमन्त्रेणाग्निमप्रदक्षिणत्रयेण प्रदक्षिणत्रयेण च परियन्तीति सूत्रार्थः ॥ मन्त्रार्थस्तु । सुगन्धिं दिव्यगन्धोपेतं मर्त्यधर्महीनं पुष्टिवर्धनं धनधान्यादिपुष्टेर्वर्धयितारं त्र्यम्बकं नेत्रत्रयोपेतं रुद्रं यजामहे पूजयामः । ततो रुद्रप्रसादान्मृत्योर्मुक्षीय अपमृत्योः संसारमृत्योश्च मुक्तो भूयासम् । अमृतान्मा मुक्षीय खर्गरूपान्मुक्तिरूपाच्चामृतान्मा मुक्षीय मुक्तो मा भूयासम् । एकवचनं बह्वर्थे । मुक्ता मा भूयास्मेत्यर्थः । अभ्युदयनिःश्रेयसरूपात्फलद्वयान्मम भ्रंशो मा भूदित्यर्थः । मृत्योर्मोचने दृष्टान्तः-उर्वारुकमिव बन्धनादिति । यथोर्वारुकं कर्कन्ध्वादेः फलमत्यन्तपक्कं सत् बन्धनात् स्वस्य वृन्तात् प्रमुच्यते तद्वत् ॥ ‘कुमार्यश्चोत्तरेणेति’ (का० ५। १० । १७) । यजमानसंबन्धिन्यः कुमार्योऽपि पूर्वोक्तपुरुषवदुत्तरेण त्र्यम्बकमन्त्रेणाग्निं त्रिः परियन्ति । त्र्यम्बकं यजामहे । कीदृशम् । पतिवेदनं पतिं वेदयतीति तं भर्तुर्लम्भयितारं ‘विद्लृ लाभे । अन्यत्पूर्ववत् । इतो मुक्षीय इतो मातृपितृभ्रातृवर्गान्मुक्षीय मुक्ता भूयासममुतो मा मुक्षीय विवाहादूर्ध्वं भविष्यतः पत्युर्मुक्ता मा भूयासम् । जनकस्य गोत्रं गृहं च परित्यज्य पत्युर्गोत्रे गृहे च सर्वदा त्र्यम्बकप्रसादाद्वसामीत्यर्थः । ‘सा यदि त इत्याह ज्ञातिभ्यस्तदाह मामुत इति पतिभ्यस्तदाहेति’ (२ । ६ । २ । १४) इति श्रुतेरितोऽमुतःशब्दाभ्यां पितृपतिवर्गौं ग्राह्यौ ॥ ६० ॥
एकषष्टी।
अधिमन्त्रम् (VC)
- रुद्रो देवता
- वसिष्ठ ऋषिः
- विराड् ब्राह्मी अनुष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हम लोग जो (सुगन्धिम्) शुद्ध गन्धयुक्त (पुष्टिवर्धनम्) शरीर, आत्मा और समाज के बल को बढ़ानेवाला (त्र्यम्बकम्) रुद्ररूप जगदीश्वर है, उसकी (यजामहे) निरन्तर स्तुति करें। इनकी कृपा से (उर्वारुकमिव) जैसे खर्बूजा फल पक कर (बन्धनात्) लता के सम्बन्ध से छूट कर अमृत के तुल्य होता है, वैसे हम लोग भी (मृत्योः) प्राण वा शरीर के वियोग से (मुक्षीय) छूट जावें (अमृतात्) और मोक्षरूप सुख से (मा) श्रद्धारहित कभी न होवें तथा हम लोग (सुगन्धिम्) उत्तम गन्धयुक्त (पतिवेदनम्) रक्षा करने हारे स्वामी को देनेवाले (त्र्यम्बकम्) सब के अध्यक्ष जगदीश्वर का (यजामहे) निरन्तर सत्कारपूर्वक ध्यान करें और इसके अनुग्रह से (उर्वारुकमिव) जैसे खरबूजा पक कर (बन्धनात्) लता के सम्बन्ध से छूट कर अमृत के समान मिष्ट होता है, वैसे हम लोग भी (इतः) इस शरीर से (मुक्षीय) छूट जावें (अमुतः) मोक्ष और अन्य जन्म के सुख और सत्यधर्म के फल से (मा) पृथक् न होवें ॥६०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। मनुष्य लोग ईश्वर को छोड़कर किसी का पूजन न करें, क्योंकि वेद से अविहित और दुःखरूप फल होने से परमात्मा से भिन्न दूसरे किसी की उपासना न करनी चाहिये। जैसे खर्बूजा फल लता में लगा हुआ अपने आप पक कर समय के अनुसार लता से छूट कर सुन्दर स्वादिष्ट हो जाता है, वैसे ही हम लोग पूर्ण आयु को भोग कर शरीर को छोड़ के मुक्ति को प्राप्त होवें। कभी मोक्ष की प्राप्ति के लिये अनुष्ठान वा परलोक की इच्छा से अलग न होवें और न कभी नास्तिक पक्ष को लेकर ईश्वर का अनादर भी करें। जैसे व्यवहार के सुखों के लिये अन्न, जल आदि की इच्छा करते हैं, वैसे ही हम लोग ईश्वर, वेद, वेदोक्तधर्म और मुक्ति होने के लिये निरन्तर श्रद्धा करें ॥६०॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स कीदृश इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - वयं सुगन्धिं पुष्टिवर्धनं त्र्यम्बकं देवं यजामहे नित्यं पूजयेमहि। एतस्य कृपयाऽहं बन्धनादुर्वारुकमिव मृत्योर्मुक्षीय मुक्तो भूयासम्। अमृतान्मा मुक्षीमहि मा श्रद्धारहिता भूयासम्। वयं सुगन्धिं पतिवेदनं त्र्यम्बकं सर्वस्वामिनं जगदीश्वरं यजामहे सततं सत्कुर्वीमहि। एतदनुग्रहेणाहं बन्धनादुर्वारुकमिवेतो मुक्षीय पृथग्भूयासम्। वयममुतो मोक्षसुखात् सत्यसुखफलाद् धर्माद् विरक्ता मा भूयास्म ॥६०॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। नैव मनुष्या ईश्वरं विहाय कस्याप्यन्यस्य पूजनं कुर्य्युः, तस्य वेदाविहितत्वेन दुःखफलत्वात्। यथोर्वारुकफलं यदा लतायां लग्नं सत् स्वयं पक्वं भूत्वा समयं प्राप्य लताबन्धनान्मुक्त्वा सुस्वादु भवति, तथैव पूर्णमायुर्भुक्त्वा शरीरं त्यक्त्वा मुक्तिं प्राप्नुयाम। मा कदाचिन्मोक्षप्राप्त्यनुष्ठानात् परलोकात् परजन्मनो वा विरक्ता भवेम। नैव नास्तिकत्वमाश्रित्य कदाचिदीश्वरस्यानादरं कुर्य्याम। यथा व्यवहारिकसुखायान्नजलादिकमीप्सन्ति, तथैवेश्वरे वेदेषु तदुक्तधर्मे मुक्तौ च नित्यं श्रद्दधीमहि ॥६०॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. माणसांनी ईश्वराला सोडून कुणाचीही पूजा करू नये. कारण वेदविरुद्ध दुःखरूपी फळ मिळू नये यासाठी परमेश्वराखेरीज अन्य कुणाची उपासना करू नये. ज्याप्रमाणे खरबूज पिकल्यानंतर वेलीवरून योग्य वेळी (पिकल्यावर) आपोआप वेगळे होते व मधुर आणि स्वादिष्ट होते त्याप्रमाणेच आपणही पूर्ण आयुष्य भोगून मृत्यूनंतर मोक्ष प्राप्त करावा व मोक्षप्राप्तीच्या इच्छेपासून कधीही दूर होऊ नये किंवा कधी नास्तिक बनून ईश्वराचा अनादर करू नये. ज्याप्रमाणे व्यवहारात सुख मिळावे त्यासाठी अन्न, पाणी इत्यादींची इच्छा होते. त्याप्रमाणेच आपणही ईश्वर, वेद, वेदोक्त धर्म व मुक्ती यावर नित्य श्रद्धा ठेवावी.
६१ एतत्ते रुद्रावसम्
विश्वास-प्रस्तुतिः ...{Loading}...
ए॒तत्ते॑ रुद्राव॒सं तेन॑ प॒रो मूज॑व॒तोऽती॑हि। अव॑ततधन्वा॒ पिना॑कावसः॒ कृत्ति॑वासा॒ऽअहिँ॑सन्नः शि॒वोऽती॑हि ॥६१॥
मूलम् ...{Loading}...
ए॒तत्ते॑ रुद्राव॒सं तेन॑ प॒रो मूज॑व॒तोऽती॑हि। अव॑ततधन्वा॒ पिना॑कावसः॒ कृत्ति॑वासा॒ऽअहिँ॑सन्नः शि॒वोऽती॑हि ॥६१॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ए॒तत्। ते॒। रु॒द्र॒। अ॒व॒सम्। तेन॑। प॒रः। मूज॑वत॒ इति॒ मूज॑ऽवतः। अति॑। इ॒हि॒। अव॑ततध॒न्वेत्यव॑ततऽधन्वा। पिना॑कावस॒ इति॒ पिना॑कऽअवसः। कृत्ति॑वासा॒ इति॒ कृत्ति॑ऽवासाः। अहिँ॑सन्। नः॒। शि॒वः। अति॑। इ॒हि॒। ६१।
महीधरः
म० रौद्र्यास्तारपङ्क्तिः । यस्या अन्त्यौ द्वादशाक्षरावाद्यावष्टाक्षरौ पादौ सास्तारपङ्क्तिः । ‘मूतयोः कृत्वा वेणुयष्ट्यां वा कूपे वासज्योभयतः स्थाणुवृक्षवᳪं᳭शवल्मीकानामन्यतमस्मिन्नुत्क्षेपणवदासजत्येतत्त इतीति’ (का० ५। १० । २१)। व्रीहियवादीन् बद्ध्वा वहनार्थं तृणवंशादिनिर्मितः पात्रविशेषो मूतमित्युच्यते । तयोरुभयोर्मूतयोस्त्र्यम्बकान् हविःशेषान् प्रक्षिप्य स्वकीयेनांसेन वोढुं शक्यायां वंशयष्ट्यामग्रद्वये तन्मूतद्वयमवासज्योन्नते स्थाणौ वृक्षे वंशे वल्मीके वा मूतद्वययुतां वंशयष्टिं संसृजति । ततो गोभिराघ्रातुमशक्यत्वाद्गावो रोगं न प्राप्नुवन्तीत्यर्थः ॥ अथ मन्त्रार्थः । मूजवान्नाम कश्चित्पर्वतो रुद्रस्य वासस्थानम् । अवसशब्देन देशान्तरं गच्छतो मार्गमध्ये तटाकादिसमीपे भोक्तव्य ओदनविशेष उच्यते । हे रुद्र, एतत्ते तव अवसं हविःशेषाख्यं भोज्यं तेन सहितस्त्वं मूजवतः पर्वतात्परः परभागवतीं सन्नतीहि अतिक्रम्य गच्छ । कीदृशस्त्वम् । अवततधन्वा अवरोपितधनुष्कः । अस्मद्विरोधिनां त्वया निवारितत्वादित ऊर्ध्वं धनुषि ज्यासमारोपणस्य प्रयोजनाभावादवरोपणमेवेदानीं युक्तम् । तथा पिनाकावसः पिनाकाख्यं त्वदीयं धनुरावस्ते सर्वत आच्छादयतीति पिनाकावसः । यथा धनुर्दृष्ट्वा प्राणिनो न बिभ्यति तथा त्वदीयं धनुर्वस्त्रादिना प्रच्छाद्य गच्छेत्यर्थः । ‘कृत्तिवासा इत्यनवेक्षमेत्योपस्पृशन्त्यपः’ (का० ५। १० । २२-२३)। ति । उन्नते वृक्षादौ मूतद्वयेऽवसज्य प्रत्यावर्तमाना मूतद्वयस्यावेक्षणमकृत्वा वेदिसमीपे समागत्योदकं स्पृशेयुरिति सूत्रार्थः । मन्त्रार्थस्तु हे रुद्र, त्वं कृत्तिवासाः चर्माम्बरो नोऽस्मानहिंसन् हिंसामकुर्वन् शिवोऽस्मदीयपूजया संतुष्टः कोपरहितो भूत्वा अतीहि पर्वतमतिक्रम्य गच्छ ॥ ६१ ॥
द्विषष्टी।
अधिमन्त्रम् (VC)
- रुद्रो देवता
- वसिष्ठ ऋषिः
- पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब अगले मन्त्र में रुद्र शब्द से शूरवीर के कर्मों का उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (रुद्र) शत्रुओं को रुलानेवाले युद्धविद्या में कुशल सेनाध्यक्ष विद्वन् ! (अवततधन्वा) युद्ध के लिये विस्तारपूर्वक धनु को धारण करने (पिनाकावसः) पिनाक अर्थात् जिस शस्त्र से शत्रुओं के बल को पीस के अपनी रक्षा करने (कृत्तिवासः) चमड़े और कवचों के समान दृढ़ वस्त्रों के धारण करने (शिवः) सब सुखों के देने और (परः) उत्तम सामर्थ्यवाले शूरवीर पुरुष ! आप (मूजवतः) मूँज, घास आदि युक्त पर्वत से परे दूसरे देश में शत्रुओं को (अतीहि) प्राप्त कीजिये (एतत्) जो यह (ते) आपका (अवसम्) रक्षण करना है (तेन) उससे (नः) हम लोगों की (अहिंसन्) हिंसा को छोड़कर रक्षा करते हुए आप (अतीहि) सब प्रकार से हम लोगों का सत्कार कीजिये ॥६१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! तुम शत्रुओं से रहित होकर राज्य को निष्कण्टक करके सब अस्त्र-शस्त्रों का सम्पादन करके दुष्टों का नाश और श्रेष्ठों की रक्षा करो कि जिससे दुष्ट शत्रु सुखी और सज्जन लोग दुःखी कदापि न होवें ॥६१॥
दयानन्द-सरस्वती (सं) - विषयः
अथ रुद्रशब्देन शूरवीरकृत्यमुपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे रुद्र शूरवीर विद्वन् युद्धविद्याविचक्षण सेनाध्यक्ष ! अवततधन्वा पिनाकावसः कृत्तिवासाः शिवः परः प्रकृष्टसामर्थ्यः संस्त्वं मूजवतः पर्वतात् परं शत्रूनतीह्युल्लङ्घ्य तस्मात् पारङ्गमय। यदेतत्ते तवावसं पालनमस्ति तेनास्मानहिंसन्नतीहि ॥६१॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्या ! अजातशत्रुभिर्युष्माभिर्भूत्वा निश्शत्रुकं राज्यं कृत्वा सर्वाण्यस्त्रशस्त्राणि सम्पाद्य दुष्टानां दण्डहिंसाभ्यां श्रेष्ठानां पालनेन भवितव्यम्, यतो न कदाचिद् दुष्टा सुखिनः श्रेष्ठा दुःखिताश्च भवेयुरिति ॥६१॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! तुम्ही आपले राज्य शत्रुविहीन व निष्कंटक बनवा. सर्व शस्त्रास्त्रे मिळवा. दुष्टांचे निर्दालन करून श्रेष्ठांचे रक्षण करा. दुष्ट शत्रू सुखी व सज्जन लोक दुःखी, असे कधीही होता कामा नये.
६२ त्र्यायुषं जमदग्नेः
विश्वास-प्रस्तुतिः ...{Loading}...
त्र्या॒यु॒षं ज॒म॑दग्नेः क॒श्यप॑स्य त्र्यायु॒षम्। यद्दे॒वेषु॑ त्र्यायु॒षं तन्नो॑ऽअस्तु त्र्यायु॒षम् ॥६२॥
मूलम् ...{Loading}...
त्र्या॒यु॒षं ज॒म॑दग्नेः क॒श्यप॑स्य त्र्यायु॒षम्। यद्दे॒वेषु॑ त्र्यायु॒षं तन्नो॑ऽअस्तु त्र्यायु॒षम् ॥६२॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
त्र्या॒यु॒षमिति॑ त्रिऽआयु॒षम्। ज॒मद॑ग्नेरिति॑ ज॒मत्ऽअ॑ग्नेः। क॒श्यप॑स्य। त्र्या॒यु॒षमिति॑ त्रिऽआयु॒षम्। यत्। दे॒वेषु॑। त्र्या॒यु॒षमिति॑ त्रिऽआयु॒षम्। तत्। नः॒। अ॒स्तु॒। त्र्या॒यु॒षमिति॑ त्रिऽआयु॒षम्। ६२।
महीधरः
म० आशीर्देवतोष्णिक् । यस्याश्चत्वारः पादाः सप्ताक्षराः सोष्णिक् । ‘त्र्यायुषमिति यजमानो जपतीति’ (का० ५। २ । १६) । सोऽयं जपो वपनकालीनः । जमदग्नेः मुनेर्यत्त्र्यायुषं त्रयाणां बाल्ययौवनस्थाविराणामायुषां समाहारस्त्र्यायुषं तथा कश्यपस्यैतन्नामकस्य प्रजापतेः संबन्धि यत्त्र्यायुषं तथा देवेषु इन्द्रादिषु यत्त्र्यायुषमस्ति तत्सर्वं त्र्यायुषं नोऽस्माकं यजमानानामस्तु । जमदग्न्यादीनां बाल्यादिषु यादृशं चरितं तादृशं नो भूयादित्यर्थः ॥ ६२ ॥
त्रिषष्टी।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां तृतीयोऽध्यायः ॥ ३ ॥
अधिमन्त्रम् (VC)
- रुद्रो देवता
- नारायण ऋषिः
- उष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्य को कैसी आयु भोगने के लिये ईश्वर की प्रार्थना करनी चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे जगदीश्वर ! आप (यत्) जो (देवेषु) विद्वानों के वर्त्तमान में (त्र्यायुषम्) ब्रह्मचारी, गृहस्थ, वानप्रस्थ और संन्यास आश्रमों का परोपकार से युक्त आयु वर्त्तता जो (जमदग्नेः) चक्षु आदि इन्द्रियों का (त्र्यायुषम्) शुद्धि बल और पराक्रमयुक्त तीन गुणा आयु और जो (कश्यपस्य) ईश्वरप्रेरित (त्र्यायुषम्) तिगुणी अर्थात् तीन सौ वर्ष से अधिक भी आयु विद्यमान है (तत्) उस शरीर, आत्मा और समाज को आनन्द देनेवाले (त्र्यायुषम्) तीन सौ वर्ष से अधिक आयु को (नः) हम लोगों को प्राप्त कीजिये ॥६२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में चक्षुः सब इन्द्रियों में और परमेश्वर सब रचना करने हारों में उत्तम है, ऐसा सब मनुष्यों को समझना चाहिये। और (त्र्यायुषम्) इस पदवी की चार बार आवृत्ति होने से तीन सौ वर्ष से अधिक चार सौ वर्ष पर्यन्त भी आयु का ग्रहण किया है। इसकी प्राप्ति के लिये परमेश्वर की प्रार्थना करके और अपना पुरुषार्थ करना उचित है, सो प्रार्थना इस प्रकार करनी चाहिए−हे जगदीश्वर ! आपकी कृपा से जैसे विद्वान् लोग विद्या, धर्म, और परोपकार के अनुष्ठान से आनन्दपूर्वक तीन सौ वर्ष पर्यन्त आयु को भोगते हैं, वैसे ही तीन प्रकार के ताप से रहित शरीर, मन, बुद्धि, चित्त, अहङ्काररूप अन्तःकरण, इन्द्रिय और प्राण आदि को सुख करनेवाले विद्या-विज्ञान सहित आयु को हम लोग प्राप्त होकर तीन सौ वा चार सौ वर्ष पर्यन्त सुखपूर्वक भोगें ॥६२॥
दयानन्द-सरस्वती (सं) - विषयः
मनुष्येण कीदृशमायुर्भोक्तुमीश्वरः प्रार्थनीय इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे रुद्र जगदीश्वर ! तव कृपया यद्देवेषु त्र्यायुषं यज्जमदग्नेस्त्र्यायुषं कश्यपस्य तव व्यवस्थासिद्धं त्र्यायुषमस्ति तन्नोऽस्माकमस्तु ॥६२॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र चक्षुरिन्द्रियाणां कश्यप ईश्वरः स्रष्टॄणामुत्तमोऽस्तीति विज्ञेयम्। त्र्यायुषमित्यस्य चतुरावृत्त्या त्रिगुणादधिकं चतुर्गुणमप्यायुः सङ्गृह्यैतत्प्राप्त्यर्थं जगदीश्वरं प्रार्थ्य स्वेन पुरुषार्थश्च कर्त्तव्यः। तद्यथा−हे जगदीश्वर ! भवत्कृपया यथा विद्धांसो विद्यापरोपकारधर्मानुष्ठानेनानन्दतया त्रीणि शतानि वर्षाणि यावत्तावदायुर्भुञ्जते, तथैव यत्त्रिविधतापव्यतिरिक्तं शरीरेन्द्रियान्तःकरणप्राणसुखाढ्यं विद्याविज्ञानसहितमायुरस्ति तद्वयं प्राप्य त्रिशतवर्षं चतुःशतवर्षं वाऽऽयुः सुखेन भुञ्जीमहीति ॥६२॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात सर्व इंद्रियांमध्ये चक्षू उत्तम असतात व सर्व निर्मितीकारांमध्ये परमेश्वर उत्तम आहे, असे म्हटले असून, सर्वांनी ते जाणावे, असा उद्देश आहे. ‘त्र्यायुषम्’ या पदाची चार वेळा आवृत्ती झाल्यामुळे तीनशे ते चारशे वर्षांपर्यंतचे आयुष्य असा अर्थ घेतला पाहिजे व असे आयुष्य प्राप्त होण्यासाठी परमेश्वराची प्रार्थना करून पुरुषार्थ केला पाहिजे. त्यामुळे ही प्रार्थना म्हणावयास हवी - हे जगदीश्वरा ! तुझ्या कृपेने ज्याप्रमाणे विद्वान लोक विद्या, धर्म जाणून व परोपकारी बनून तीनशे वर्षांपर्यंत आनंदाने आयुष्य भोगतात. त्याप्रमाणेच आम्ही त्रिविध तापांपासून सुटका करणारी, शरीर, मन, बुद्धी, चित्त, अहंकाररूपी अंतःकरण, इंद्रिये, प्राण इत्यादींना सुख देणारी विज्ञानयुक्त विद्या जाणून तीनशे ते चारशे वर्षांपर्यंत आयुष्य भोगावे.
६३ शिवो नामासि
विश्वास-प्रस्तुतिः ...{Loading}...
शि॒वो नामा॑सि॒ स्वधि॑तिस्ते पि॒ता नम॑स्तेऽअस्तु॒ मा मा॑ हिँसीः। निव॑र्त्तया॒म्यायु॑षे॒ऽन्नाद्या॑य प्र॒जन॑नाय रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य ॥६३॥
मूलम् ...{Loading}...
शि॒वो नामा॑सि॒ स्वधि॑तिस्ते पि॒ता नम॑स्तेऽअस्तु॒ मा मा॑ हिँसीः। निव॑र्त्तया॒म्यायु॑षे॒ऽन्नाद्या॑य प्र॒जन॑नाय रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य ॥६३॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
शि॒वः। नाम॑। अ॒सि॒। स्वधि॑ति॒रिति॒ स्वऽधि॑तिः। ते॒। पि॒ता। नमः॑। ते॒। अ॒स्तु॒। मा। मा॒। हिँ॒सीः॒। नि। व॒र्त्त॒या॒मि॒। आ॑युषे। अ॒न्नाद्या॒येत्य॑न्न॒ऽअ॒द्याय॑। प्र॒जन॑ना॒येति प्र॒ऽजन॑नाय। रा॒यः। पोषा॑य। सु॒प्र॒जा॒स्त्वायेति॑ सुप्रजाः॒ऽत्वाय॑। सु॒वीर्य्या॒येति॑ सु॒ऽवीर्य्या॑य। ६३।
महीधरः
म० क्षुरदैवतं यजुः ‘शिवो नामेति लोहक्षुरमादायेति’ (का० ५।२ । १७) । हे क्षुर, त्वं नाम नाम्ना शिवः शान्तोऽसि । स्वधितिः वज्रं ते तव पिता । ते तुभ्यं नमोऽस्तु। मां मा हिंसीः । ‘निवर्तयामीति वपतीति’ (का० ५।२। १७)। यजमानदैवतं यजुः । निपूर्वो वृतिर्मुण्डनार्थः । हे यजमान, त्वां निवर्तयामि मुण्डयामि । किमर्थम् । आयुषे जीवनाय अन्नाद्यायान्नभक्षणाय प्रजननाय सन्तानाय रायो धनस्य पोषाय पुष्ट्यै सुप्रजास्त्वाय शोभनापत्यतायै सुवीर्याय शोभनसामर्थ्याय ॥ ६३ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे। अग्न्याधानादिपित्र्यान्तस्तृतीयोऽध्याय ईरियः ॥ ३ ॥
अधिमन्त्रम् (VC)
- रुद्रो देवता
- नारायण ऋषिः
- भुरिग् जगती,
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
अब अगले मन्त्र में रुद्र शब्द से उपदेश करने हारे गुणों का उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे जगदीश्वर और उपदेश करनेहारे विद्वन् ! जो आप (स्वधितिः) अविनाशी होने से वज्रमय (असि) हैं, जिस (ते) आपका (शिवः) सुखस्वरूप विज्ञान का देनेवाला (नाम) नाम (असि) है सो आप मेरे (पिता) पालने करनेवाले (असि) हैं (ते) आप के लिये मेरा (नमः) सत्कारपूर्वक नमस्कार (अस्तु) विदित हो तथा आप (मा) मुझे (मा) मत (हिँसीः) अल्पमृत्यु से युक्त कीजिये और मैं आप को (आयुषे) आयु के भोगने (अन्नाद्याय) अन्न आदि के भोगने (सुप्रजास्त्वाय) उत्तम-उत्तम पुत्र आदि वा चक्रवर्ति राज्य आदि की प्राप्ति होने (सुवीर्य्याय) उत्तम शरीर, आत्मा का बल, पराक्रम होने और (रायस्पोषाय) विद्या वा सुवर्ण आदि धन की पुष्टि के लिये (वर्त्तयामि) वर्त्तता और वर्त्ताता हूँ। इस प्रकार वर्त्तने से सब दुखों को छुड़ा के अपने आत्मा में उपास्यरूप से निश्चय करके अन्तर्यामिरूप आप का आश्रय करके सभों में वर्त्तता हूँ ॥६३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - कोई भी मनुष्य मङ्गलमय सब की पालना करनेवाले परमेश्वर की आज्ञा पालन के विना संसार वा परलोक के सुखों को प्राप्त होने को समर्थ नहीं होता। न कदापि किसी मनुष्य को नास्तिक पक्ष को लेकर ईश्वर का अनादर करना चाहिये। जो नास्तिक होकर ईश्वर का अनादर करता है, उसका सर्वत्र अनादर होता है। इस से सब मनुष्यों को आस्तिक बुद्धि से ईश्वर की उपासना करनी योग्य है ॥६३॥ इस तीसरे अध्याय में अग्निहोत्र आदि यज्ञों का वर्णन, अग्नि के स्वभाव वा अर्थ का प्रतिपादन, पृथिवी के भ्रमण का लक्षण, अग्नि शब्द से ईश्वर वा भौतिक अर्थ का प्रतिपादन, अग्निहोत्र के मन्त्रों का प्रकाश, ईश्वर का उपस्थान, अग्नि का स्वरूपकथन, ईश्वर की प्रार्थना, उपासना वा इन दोनों का फल, ईश्वर के स्वभाव का प्रतिपादन, सूर्य की किरणों के कार्य का वर्णन, निरन्तर उपासना, गायत्री मन्त्र का प्रतिपादन, यज्ञ के फल का प्रकाश, भौतिक अग्नि के अर्थ का प्रतिपादन, गृहस्थाश्रम के आवश्यक कार्यों के अनुष्ठान और लक्षण, इन्द्र और पवनों के कार्य का वर्णन, पुरुषार्थ का आवश्यक करना, पापों से निवृत्त होना, यज्ञ की समाप्ति अवश्य करनी, सत्य से लेने-देने आदि व्यवहार करना, विद्वान् वा ऋतुओं के स्वभाव का वर्णन, चार प्रकार के अन्तःकरण का लक्षण, रुद्र शब्द के अर्थ का प्रतिपादन, तीन सौ वर्ष आयु का सम्पादन करना और धर्म से आयु आदि पदार्थों के ग्रहण का वर्णन किया है। इससे दूसरे अध्याय के अर्थ के साथ इस तीसरे अध्याय के अर्थ की सङ्गति जाननी चाहिये ॥६३॥
दयानन्द-सरस्वती (सं) - विषयः
अथ रुद्रशब्देनोपदेशकगुणा उपदिश्यन्ते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे रुद्र ! यस्त्वं स्वधितिरसि यस्य ते तव शिवो नामास्ति। स त्वं मम पितासि ते तुभ्यं नमोऽस्तु। त्वं मां मा मा हिंसीर्मा हिन्ध्यहं त्वामायुषेऽन्नाद्याय सुप्रजास्त्वाय सुवीर्य्याय रायस्पोषाय वर्त्तयामि, त्वदाश्रयेण सर्वाणि दुःखानि निवर्त्तयामि ॥६३॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - नहि कश्चिन्मनुष्यो मङ्गलमयस्य सर्वपितुः परमेश्वरस्याज्ञापालनेनोपदेशकसङ्गेन विनैहिकपारमार्थिकसुखे प्राप्तुं शक्नोति। नैव केनापि नास्तिकत्वेन खल्वीश्वरस्य विदुषां चानादरः कर्त्तव्यः। यो नास्तिको भूत्वैतस्यैतेषां चानादरं करोति, न तस्य सर्वत्रादरो जायते। तस्मान्मनुष्यैरास्तिकैः सदा भवितव्यमिति ॥६३॥ अत्र तृतीयाध्यायेऽग्निहोत्रादियज्ञवर्णनमग्निस्वभावार्थप्रतिपादनं पृथिवीभ्रमणलक्षणं अग्निशब्देनेश्वरभौतिकार्थ-प्रतिपादनं अग्निहोत्रमन्त्रप्रकाशनमीश्वरोपस्थानमग्निस्वरूपमीश्वरप्रार्थनं तदुपासनं तत्फलवर्णनमीश्वरस्वभाव-प्रतिपादनं सूर्य्यकिरणकृत्यवर्णनं नित्योपासनं सावित्रीमन्त्रप्रतिपादनमीश्वरोपासनं यज्ञफलप्रकाशनं भौतिकाग्न्यर्थवर्णनं गृहाश्रमकरणावश्यकानुष्ठानलक्षणे इन्द्रमरुत्कृत्यं पुरुषार्थकरणावश्यकं पापान्निवर्त्तनं यज्ञपूर्त्त्यावश्यकं सत्यत्वेन ग्रहणदानव्यवहारकरणं विद्वत्पुरुषर्त्तुस्वभाववर्णनं चतुष्टयमन्तःकरणस्य लक्षणं रुद्रशब्दार्थप्रतिपादनं त्रिगुणायुष्करणावश्यकं धर्मेणायुरादिपदार्थसंग्रहणं च वर्णितमेतेनास्य तृतीयाध्यायार्थस्य द्वितायाध्यायार्थेन सह सङ्गतिरस्तीति बोद्धव्यम् ॥६३॥ इति श्रीमत्परिव्राजकाचार्य्यश्रीयुतदयानदसरस्वतीस्वामिना सुविरचिते संस्कृतार्य्यभाषाविभूषिते यजुर्वेदभाष्ये तृतीयोऽध्यायः सम्पूर्णः ॥३॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - कल्याण करणाऱ्या परमेश्वराची आज्ञा पाळल्याखेरीज कोणताही माणूस संसाराचे अथवा परलोकाचे सुख प्राप्त करू शकत नाही त्यासाठी कोणत्याही माणसाने नास्तिक वृत्तीने ईश्वराचा अनादर करता कामा नये. जो नास्तिक बनून ईश्वराचा अनादर करतो त्याचा सर्वत्र अनादर होतो. त्यासाठी सर्व माणसांनी आस्तिक बुद्धीने ईश्वराची उपासना केली पाहिजे.