०१ कृष्णोऽस्याखरेष्ठोऽग्नये त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
कृष्णो॑ऽस्याखरे॒ष्ठो᳙ऽग्नये॑ त्वा॒ जुष्टं॒ प्रोक्षा॑मि॒ वेदि॑रसि ब॒र्हिषे॑ त्वा॒ जुष्टां॒ प्रोक्षा॑मि ब॒र्हिर॑सि स्रु॒ग्भ्यस्त्वा॒ जुष्टं॒ प्रोक्षा॒मि ॥१॥
मूलम् ...{Loading}...
कृष्णो॑ऽस्याखरे॒ष्ठो᳙ऽग्नये॑ त्वा॒ जुष्टं॒ प्रोक्षा॑मि॒ वेदि॑रसि ब॒र्हिषे॑ त्वा॒ जुष्टां॒ प्रोक्षा॑मि ब॒र्हिर॑सि स्रु॒ग्भ्यस्त्वा॒ जुष्टं॒ प्रोक्षा॒मि ॥१॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
कृष्णः॑। अ॒सि॒। आ॒ख॒रे॒ष्ठः। आ॒ख॒रे॒स्थ इत्या॑खरे॒ऽस्थः। अ॒ग्नये॑। त्वा॒। जुष्ट॑म्। प्र। उ॒क्षा॒मि॒। वेदिः॑। अ॒सि॒। ब॒र्हिषे॑। त्वा॒। जुष्टा॑म्। प्र। उ॒क्षा॒मि॒। ब॒र्हिः। अ॒सि॒। स्रु॒ग्भ्य इति स्रु॒क्ऽभ्यः। त्वा॒। जुष्ट॑म्। प्र। उ॒क्षा॒मि॒। १।
महीधरः
म० ‘इध्मं प्रोक्षति विस्रᳪं᳭स्य वेदिं च बर्हिः प्रतिगृह्य वेद्यां कृत्वा पुरस्ताद्ग्रन्थि कृष्णोऽसीति प्रतिमन्त्रम्’ (का० २।७।१९) इति ॥ इध्मं विस्रस्य प्रोक्षेत् । वेदिं च प्रोक्षेत् । बर्हिरादाय वेद्यां पूर्वग्रन्थि कृत्वा प्रोक्षेत्क्रमान्मन्त्रत्रयेणेति सूत्रार्थः ॥ कृष्णोऽसि । हे इध्म, त्वं कृष्णोऽसि कृष्णमृगरूपो यज्ञोऽसि । इध्मपूलकस्य यज्ञसाधनत्वाद्यज्ञत्वोपचारः । किंभूतः। आखरेष्ठः । आ समन्तात् खरे कठिने वृक्षे तिष्ठतीति आखरेष्ठः। यद्वा खं स्वर्गं राति ददातीति खरः आहवनीयस्तत्रासमन्तात्तिष्ठतीत्याखरेष्ठः । अन्तोदात्तः कृष्णशब्दो वर्णवाची, अयं तु कृष्णशब्द आद्युदात्तत्वान्मृगवाची ॥ यज्ञः कदाचिद्देवेभ्योऽपक्रान्तः स्वगोपनाय कृष्णमृगो भूत्वा वने यज्ञियतरुमध्ये प्रविश्य कुत्रचित्कठिने वृक्षे तस्थौ । तदेतदभिप्रेत्य कृष्ण आखरेष्ठ इति द्वयमुच्यते । ‘यज्ञो ह देवेभ्योऽपचक्राम स कृष्णो भूत्वा चचार’ (१।१।४।१) इत्यादि श्रुतेः । ‘स्थे च भाषायाम्’ (पा० ६ । ३ । २० ) इति स्थे परपदे भाषायां सप्तम्यां अलुग्निषेधाद्वेदेऽलुक् । ‘पूर्वपदात्-’ (पा० ८ । ३ । १०६ ) इति षत्वम् । अतोऽग्नये जुष्टं प्रियं त्वां प्रोक्षामि । शुद्ध्यर्थं जलेनेति शेषः । ‘वेदिरसीति वेदिं प्रोक्षति’ । त्वं वेदिरसि । विद्यते लभ्यत इति वेदिः । ‘विद्लृ लाभे’ । देवैरसुरेभ्यो लब्धत्वाद्वेदिः । अतो बर्हिर्जुष्टां बर्हिषो धारणोपयोगितया प्रियां त्वां प्रोक्षामि । पृथ्वीरूपाया वेदेः प्रजारूपस्य बर्हिषो धारकत्वं युक्तम् ॥ बर्हिरसीति बर्हिःप्रोक्षणम् । हे दर्भ, त्वं बर्हिरसि प्रभूतत्वाद्वेदिबृंहणसमर्थमसि । अतः सुग्भ्यो जुष्टं स्रुचां धारणात्प्रियं त्वां प्रोक्षामि ॥१॥
अग्निर्देवेभ्यो निलायत । कृष्णो रूपं कृत्वा । स वनस्पतीन्प्राविशत् । कृष्णोऽस्याखरेष्ठोऽग्नये त्वा स्वाहेत्याह । अग्नय एवैनं जुष्टं करोति । - तैब्रा. ३.३.६.२
द्वितीया ।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- परमेष्ठी प्रजापतिर्ऋषिः
- निचृत् पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब दूसरे अध्याय में परमेश्वर ने उन विद्याओं की सिद्धि करने के लिये विशेष विद्याओं का प्रकाश किया है कि जो-जो प्रथम अध्याय में प्राणियों के सुख के लिये प्रकाशित की हैं। उन में से वेद आदि पदार्थों के बनाने को हस्तक्रियाओं के सहित विद्याओं के प्रकार प्रकाशित किये हैं, उन में से प्रथम मन्त्र में यज्ञ सिद्ध करने के लिये साधन अर्थात् उनकी सिद्धि के निमित्त कहे हैं।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जिस कारण यह यज्ञ (आखरेष्ठः) वेदी की रचना से खुदे हुए स्थान में स्थिर होकर (कृष्णः) भौतिक अग्नि से छिन्न अर्थात् सूक्ष्मरूप और पवन के गुणों से आकर्षण को प्राप्त (असि) होता है, इससे मैं (अग्नये) भौतिक अग्नि के बीच में हवन करने के लिये (जुष्टम्) प्रीति के साथ शुद्ध किये हुए (त्वा) उस यज्ञ अर्थात् होम की सामग्री को (प्रोक्षामि) घी आदि पदार्थों से सींचकर शुद्ध करता हूँ और जिस कारण यह (वेदिः) वेदी अन्तरिक्ष में स्थित (असि) होती है, इससे मैं (बर्हिषे) होम किये हुए पदार्थों को अन्तरिक्ष में पहुँचाने के लिये (जुष्टाम्) प्रीति से सम्पादन की हुई (त्वा) उस वेदि को (प्रोक्षामि) अच्छे प्रकार घी आदि पदार्थों से सींचता हूँ तथा जिस कारण यह (बर्हिः) जल अन्तरिक्ष में स्थिर होकर पदार्थों की शुद्धि करानेवाला (असि) होता है, इससे (त्वा) उसकी शुद्धि के लिये जो कि शुद्ध किया हुआ (जुष्टम्) पुष्टि आदि गुणों को उत्पन्न करनेहारा हवि है, उसको मैं (स्रुग्भ्यः) स्रुवा आदि साधनों से अग्नि में डालने के लिये (प्रोक्षामि) शुद्ध करता हूँ ॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ईश्वर उपदेश करता है कि सब मनुष्यों को वेदी बनाकर और पात्र आदि होम की सामग्री ले के उस हवि को अच्छी प्रकार शुद्ध कर तथा अग्नि में होम कर के किया हुआ यज्ञ वर्षा के शुद्ध जल से सब ओषधियों को पुष्ट करता है, उस यज्ञ के अनुष्ठान से सब प्राणियों को नित्य सुख देना मनुष्यों का परम धर्म है ॥१॥
दयानन्द-सरस्वती (सं) - विषयः
तत्रादौ वेद्यादिरचनमुपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यतोऽयं यज्ञ आखरेष्ठः कृष्णो[ऽसि] भवति तस्मात् त्वा तमहमग्नये जुष्टं प्रोक्षामि। यत इयं वेदिरन्तरिक्षस्थासि भवति, तस्मादहं त्वा तामिमां बर्हिषे जुष्टां प्रोक्षामि। यत इदं बर्हिरुदकमन्तरिक्षस्थं सच्छुद्धिकारि [असि] भवति, तस्मात् त्वा तच्छोधितं जुष्टं हविः स्रुग्भ्योऽहं प्रोक्षामि ॥१॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ईश्वर उपदिशति सर्वैर्मनुष्यैर्वेदिं रचयित्वा पात्रादिसामग्रीं गृहीत्वा सम्यक् शोधयित्वा तद्धविरग्नौ हुत्वा कृतो यज्ञः शुद्धेन वृष्टिजलेन सर्वा ओषधीः पोषयति। तेन सर्वे प्राणिनो नित्यं सुखयितव्या इति ॥१॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ईश्वराच्या उपदेशाप्रमाणे सर्व माणसांनी वेदी बनवावी. पात्रे व होमाचे सामान घ्यावे, शुद्ध आहुतीने होम करावा. अशा यज्ञामुळे पर्जन्याची शुद्धी होते. औषधी पुष्ट होतात व अशा यज्ञाच्या अनुष्ठानाने सर्व प्राण्यांना सदैव सुखी करणे हाच माणसाचा श्रेष्ठ धर्म आहे.
०२ अदित्यै व्युन्दनमसि
विश्वास-प्रस्तुतिः ...{Loading}...
अदि॑त्यै॒ व्युन्द॑नमसि॒ विष्णो॑ स्तु॒पो᳙ऽस्यूर्ण॑म्रदसं त्वा स्तृणामि स्वास॒स्थां दे॒वेभ्यो॒ भुव॑पतये॒ स्वाहा॒ भुवन॑पतये॒ स्वाहा॑ भू॒तानां॒ पत॑ये॒ स्वाहा॑ ॥२॥
मूलम् ...{Loading}...
अदि॑त्यै॒ व्युन्द॑नमसि॒ विष्णो॑ स्तु॒पो᳙ऽस्यूर्ण॑म्रदसं त्वा स्तृणामि स्वास॒स्थां दे॒वेभ्यो॒ भुव॑पतये॒ स्वाहा॒ भुवन॑पतये॒ स्वाहा॑ भू॒तानां॒ पत॑ये॒ स्वाहा॑ ॥२॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अदि॑त्यै। व्युन्द॑न॒मिति॑। वि॒ऽउन्द॑नम्। अ॒सि॒। विष्णोः॑। स्तु॒पः। अ॒सि॒। ऊर्ण॑म्रदस॒मित्यूर्ण॑ऽम्रदसम्। त्वा॒। स्तृ॒णा॒मि॒। स्वा॒स॒स्थामिति॑ सुऽआ॒स॒स्थाम्। दे॒वेभ्यः॑। भुवप॑तय॒ इति॒ भुव॑ऽपतये। स्वाहा॑। भुव॑नपतय॒ इति॒ भुव॑नऽपतये। स्वाहा॑। भू॒ताना॑म्। पत॑ये स्वाहा॑। २।
महीधरः
म०. ‘शेषं मूलेषूपसिञ्चत्यदित्यै व्युन्दनम्’ (का० २।७।२०) ‘इति । हे प्रोक्षणशेषोदक, त्वमदित्यै अदित्या भूम्याः व्युन्दनमसि विशेषेण क्लेदनमसि ॥ ‘बर्हिर्विस्रᳪं᳭स्य पुरस्तात्प्रस्तरग्रहणं विष्णोरिति’ (का० २।७।२१) इति । हे प्रस्तर दर्भमुष्टिरूप, त्वं विष्णोर्यज्ञस्य स्तुपोऽसि । ‘ष्ट्रयै स्त्यै शब्दसङ्घातयोः’ । औणादिको डुप्प्रत्ययः । दर्भसङ्घातरूपत्वात्केशसङ्घातरूपा शिखेव भवसि ॥ ‘वेदिᳪं᳭स्तृणात्यूर्णम्रदसमिति’ (का० २। ७ । २२) इति । हे वेदे, त्वां स्तृणामि बर्हिषा छादयामि । किंभूतां त्वाम् । ऊर्णम्रदसमूर्णमिव मृदुतरामतिशयेन मृदुर्म्रदीयसी । ईयलोपश्छान्दसः। यथा प्रभोरुपवेष्टुं भूमिः कम्बलादिनाच्छाद्यते काठिन्याभावाय तथा दभैंराच्छादिता वेदिर्मृदुः स्यात् । पुनः किंभूतां त्वां । देवेभ्यः स्वासस्थां देवोपकाराय सुखेनासितुं स्थानभूतां सुखेन आसेनासनेन स्थीयते यस्यां सा स्वासस्था ताम् । ‘स्कन्नमभिमृशति भुवपतये स्वाहेति’ (का० २।७। २२) इति । एतन्मन्त्रत्रयस्यात्रोत्कर्षः। भुवपत्यादयस्त्रयोऽग्नेर्भ्रातरः । स्वाहाशब्दो निपातो देवान्प्रति दानवाची। स्वाहाकारं च वषट्कारं च देवा उपजीवन्ति’ इति श्रुतेः । हविर्ग्रहकाले परिधिभ्यो बहिर्यद्धविः स्कन्नं तद्भुवपत्यादिभ्यः । अग्नेर्भ्रातरो वषट्कारभयाद्भूमिं प्राविशंस्तद्दुःखेनाग्निरपि पलाय्योदके प्राविशत्ततो देवैरानीय स्वाधिकारे स्थाप्यमान एवमवदद्यदेतैर्मद्भ्रातृभिर्मां परिधत्तैषां च यज्ञभागः कल्प्यतामिति । ततस्तेऽग्नेर्भ्रातरः परिधयो जातास्तेषां च स्कन्नं हविर्भागः कृत इति कथा ॥२॥
तृतीया।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- परमेष्ठी प्रजापतिर्ऋषिः
- स्वराड् जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
इस प्रकार किया हुआ यज्ञ क्या सिद्ध करनेवाला होता है, सो अगले मन्त्र में उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जिस कारण यह यज्ञ (अदित्यै) पृथिवी के (व्युन्दनम्) विविध प्रकार के ओषधि आदि पदार्थों का सींचनेवाला (असि) होता है, इससे मैं उसका अनुष्ठान करता हूँ और (विष्णोः) इस यज्ञ की सिद्धि कराने हारा (स्तुपः) शिखारूप (ऊर्णम्रदसम्) उलूखल (असि) है, इससे मैं (त्वा) उस अन्न के छिलके दूर करनेवाले पत्थर और उलूखल को (स्तृणामि) पदार्थों से ढाँपता हूँ तथा वेदी (देवेभ्यः) विद्वान् और दिव्य सुखों के हित कराने के लिये (असि) होती है, इससे उसको मैं (स्वासस्थाम्) ऐसी बनाता हूँ कि जिसमें होम किये हुए पदार्थ अच्छी प्रकार स्थिर हों और जिससे संसार का पति, भुवन अर्थात् लोकलोकान्तरों का पति, संसारी पदार्थों का स्वामी और परमेश्वर प्रसन्न होता है तथा भौतिक अग्नि सुखों का सिद्ध करानेवाला होता है, इस कारण (भुवपतये स्वाहा), (भुवनपतये स्वाहा), (भूतानां पतये स्वाहा) उक्त परमेश्वर की प्रसन्नता और आज्ञापालन के लिये उस वेदी के गुणों से जो कि सत्यभाषण अर्थात् अपने पदार्थों को मेरे हैं, यह कहना वा श्रेष्ठवाक्य आदि उत्तम वाणीयुक्त वेद हैं, उसके मन्त्रों के साथ स्वाहा शब्द का अनेक प्रकार उच्चारण करके यज्ञ आदि श्रेष्ठ कर्मों का विधान किया जाता है, इस प्रयोजन के लिये भी वेदी को रचता हूँ ॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - परमेश्वर सब मनुष्यों के लिये उपदेश करता है कि हे मनुष्यो ! तुमको वेदी आदि यज्ञ के साधनों का सम्पादन करके सब प्राणियों के सुख तथा परमेश्वर की प्रसन्नता के लिये अच्छी प्रकार क्रियायुक्त यज्ञ करना और सदा सत्य ही बोलना चाहिये और जैसे मैं न्याय से सब विश्व का पालन करता हूँ, वैसे ही तुम लोगों को भी पक्षपात छोड़कर सब प्राणियों के पालन से सुख सम्पादन करना चाहिये ॥२॥
दयानन्द-सरस्वती (सं) - विषयः
एवं कृतो यज्ञः किंहेतुको भवतीत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यतोऽयं विष्णुर्यज्ञोऽदित्या व्युन्दनकार्य्यसि भवति, तस्मात् तमहमनुतिष्ठामि। अस्य विष्णोर्यज्ञस्य स्तुपः प्रस्तर उलूखलाख्यः साधकोऽ(स्य)स्ति, तस्मात् तमहमूर्णम्रदसं स्तृणामि। वेदिर्देवेभ्यो हितासि भवति, तस्मात् तामहं स्वासस्थां रचयामि। कस्मै प्रयोजनायेत्यत्राह। यतोऽयं भुवपतिर्भुवनपतिर्भूतानां पतिरीश्वरः प्रसन्नो भवति, भौतिको वा। सुखसाधको भवति, तस्मै भुवपतये स्वाहा विधेया, भुवनपतये स्वाहा वाच्या, भूतानां च पतये स्वाहा प्रयोज्या भवतीत्यस्मै प्रयोजनाय ॥२॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ईश्वरः सर्वमनुष्येभ्य इदमुपदिशति युष्माभिर्वेद्यादीनि यज्ञसाधनानि सम्पाद्य सर्वप्राणिनां सुखाय परमेश्वरप्रीतये च सम्यक् क्रियायज्ञः कार्य्यः। सदैव सत्यमेव वाच्यम्। यथाऽहं न्यायेन सर्वं विश्वं पालयामि, तथैव युष्माभिरपि पक्षपातं विहाय सर्वेषां पालनेन सुखं सम्पादनीयमिति ॥२॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - परमेश्वर सर्व माणसांना असा उपदेश करतो की हे माणसांनो ! तुम्ही वेदी इत्यादी यज्ञ साधने प्राप्त करा व सर्व प्राण्यांना सुख मिळावे आणि परमेश्वर प्रसन्न व्हावा, यासाठी चांगल्या प्रकारे यज्ञकर्म करा. नेहमी सत्य वचनी बना. मी (परमेश्वर) जसा न्यायाने विश्वाचे पालन करतो तसेच पक्षपातरहित बनून सर्व प्राण्यांचे पालन करून सुख मिळवा.
०३ गन्धर्वस्त्वा विश्वावसुः
विश्वास-प्रस्तुतिः ...{Loading}...
ग॒न्ध॒र्वस्त्वा॑ वि॒श्वाव॑सुः॒ परि॑दधातु॒ विश्व॒स्यारि॑ष्ट्यै॒ यज॑मानस्य परि॒धिर॑स्य॒ग्निरि॒डऽई॑डि॒तः। इन्द्र॑स्य बा॒हुर॑सि॒ दक्षि॑णो॒ विश्व॒स्यारि॑ष्ट्यै॒ यज॑मानस्य परि॒धिर॑स्य॒ग्निरि॒डऽई॑डि॒तः। मि॒त्रावरु॑णौ त्वोत्तर॒तः परि॑धत्तां ध्रु॒वेण॒ धर्म॑णा॒ विश्व॒स्यारि॑ष्ट्यै॒ यज॑मानस्य परि॒धिर॑स्य॒ग्निरि॒डऽई॑डि॒तः ॥३॥
मूलम् ...{Loading}...
ग॒न्ध॒र्वस्त्वा॑ वि॒श्वाव॑सुः॒ परि॑दधातु॒ विश्व॒स्यारि॑ष्ट्यै॒ यज॑मानस्य परि॒धिर॑स्य॒ग्निरि॒डऽई॑डि॒तः। इन्द्र॑स्य बा॒हुर॑सि॒ दक्षि॑णो॒ विश्व॒स्यारि॑ष्ट्यै॒ यज॑मानस्य परि॒धिर॑स्य॒ग्निरि॒डऽई॑डि॒तः। मि॒त्रावरु॑णौ त्वोत्तर॒तः परि॑धत्तां ध्रु॒वेण॒ धर्म॑णा॒ विश्व॒स्यारि॑ष्ट्यै॒ यज॑मानस्य परि॒धिर॑स्य॒ग्निरि॒डऽई॑डि॒तः ॥३॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ग॒न्ध॒र्वः। त्वा॒। वि॒श्वाव॑सुः॒। वि॒श्व॑वसु॒रिति॑ वि॒श्वऽव॑सुः। परि॑। द॒धा॒तु॒। विश्व॑स्य। अरि॑ष्ट्यै। यज॑मानस्य। प॒रि॒धिरिति॑ परि॒ऽधिः। अ॒सि॒। अ॒ग्निः। इ॒डः। ई॒डि॒तः। इन्द्र॑स्य। बा॒हुः। अ॒सि॒। दक्षि॑णः। विश्व॑स्य। अरि॑ष्ट्यै। यज॑मानस्य। प॒रि॒धिरिति॑ परि॒ऽधिः। अ॒सि॒। अ॒ग्निः। इ॒डः। ई॒डि॒तः। मि॒त्रावरु॑णौ। त्वा॒। उ॒त्त॒र॒तः। परि॑। ध॒त्ता॒म्। ध्रु॒वेण॑। धर्म॑णा। विश्व॑स्य। अरि॑ष्ट्यै। यज॑मानस्य। प॒रि॒धिरिति॑ परि॒ऽधिः। अ॒सि॒। अ॒ग्निः। इ॒डः। ई॒डि॒तः। ३।
महीधरः
म० ‘परिधीन्परिदधाति मध्यमदक्षिणोत्तरान् गन्धर्व इति प्रतिमन्त्रम्’ ( का० २। ८ । १) इति । आदौ पश्चात् हे परिधे, विश्वावसुनामा गन्धर्वः त्वां परिदधातु आहवनीयस्य पश्चात्सर्वतः स्थापयतु । विश्वस्मिन्सर्वस्मिन्प्रदेशे वसतीति विश्वावसुः द्युलोकस्थं सोमं रक्षितुं तत्पार्श्वे सर्वत्र गन्धर्वोऽवसदिति श्रुत्यन्तरकथा । किमर्थं स्थापयतु । विश्वस्यारिष्ट्यै । “रिष हिंसायां’ रेषणं रिष्टिः न रिष्टिः अरिष्टिस्तस्यै । आहवनीयस्थानरूपस्य विश्वस्य हिंसापरिहाराय । परिध्यभावेऽसुराः प्रविश्य हिंसन्ति । किंच त्वं यजमानस्य परिधिरसि । न केवलमग्नेः परिधिः यजमानमप्यसुरेभ्यो रक्षितुं पश्चिमदिशि स्थापितोऽसि । किच अग्निरिडः ईडितश्चासि । आवहनीयस्य प्रथमो भ्राता भुवपतिनामाग्निरूपस्त्वमसि । ईड्यते स्तूयते इतीड् स्तुतियोग्यः । अतएव ईडितः स्तुतो होत्रादिभिः । ईड स्तुतौ’ । दक्षिणं परिधिं परिदधाति । इन्द्रस्य बाहुरसि । हे द्वितीय परिधे, त्वमिन्द्रस्य दक्षिणो बाहुरसि । रक्षणसमर्थत्वादिन्द्रबाहुत्वोपचारः । विश्वस्येत्यादि व्याख्यातम् । अत्राग्निशब्देन भुवनपतिनामा द्वितीयो भ्राता ॥ तृतीयमुत्तरं परिधिं परिदधाति । मित्रावरुणौ । हे तृतीयपरिधे, मित्रावरुणौ वाय्वादित्यौ ध्रुवेण स्थिरेण धर्मणा धारणेन उत्तरस्यां दिशि त्वां परिधत्तां परितः स्थापयताम् । विश्वस्येत्यादि पूर्ववत् । अत्राग्निर्भूतानां पतिस्तृतीयो भ्राता ॥३॥
चतुर्थी।
अधिमन्त्रम् (VC)
- अग्निः सर्वस्य
- परमेष्ठी प्रजापतिर्ऋषिः
- भुरिग् आर्ची त्रिष्टुप्, भुरिग् आर्ची पङ्क्तिः
- धैवतः, पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
उक्त यज्ञ अग्नि आदि पदार्थों से धारण किया जाता है, सो अगले मन्त्र में उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - विद्वान् लोगों ने जिस (गन्धर्वः) पृथिवी वा वाणी के धारण करनेवाले (विश्वावसुः) विश्व को बसानेवाले [(परिधिः) सब ओर से सब वस्तुओं को धारण करनेवाले] (इडः) स्तुति करने योग्य (अग्निः) सूर्य्यरूप अग्नि की (ईडितः) स्तुति (असि) की है, जो (विश्वस्य) संसार के वा विशेष करके (यजमानस्य) यज्ञ करनेवाले विद्वान् के (अरिष्ट्यै) दुःखनिवारण से सुख के लिये इस यज्ञ को (परिदधातु) धारण करता है, इससे विद्वान् [त्वा] उसको विद्या की सिद्धि के लिये (परिदधातु) धारण करे और विद्वानों से जो वायु (इन्द्रस्य) सूर्य्य का (बाहुः) बल और (दक्षिणः) वर्षा की प्राप्ति कराने अथवा (परिधिः) शिल्पविद्या का धारण करानेवाला तथा (इडः) दाह प्रकाश आदि गुणवाला होने से स्तुति के योग्य (ईडितः) खोजा हुआ और (अग्निः) प्रत्यक्ष अग्नि (असि) है। वे वायु वा अग्नि अच्छी प्रकार शिल्पविद्या में युक्त किये हुए (यजमानस्य) शिल्पविद्या के चाहनेवाले वा (विश्वस्य) सब प्राणियों के (अरिष्ट्यै) सुख के लिये (असि) होते हैं और जो ब्रह्माण्ड में रहने और गमन वा आगमन स्वभाववाले (मित्रावरुणौ) प्राण और अपान वायु हैं, वे (ध्रुवेण) निश्चल (धर्मणा) अपनी धारण शक्ति से (उत्तरतः) पूर्वोक्त वायु और अग्नि से उत्तर अर्थात् उपरान्त समय में (विश्वस्य) चराचर जगत् वा (यजमानस्य) सब से मित्रभाव में वर्त्तनेवाले सज्जन पुरुष के (अरिष्ट्यै) सुख के हेतु (त्वा) उस पूर्वोक्त यज्ञ को (परिधत्ताम्) सब प्रकार से धारण करते हैं तथा जो विद्वानों से (इडः) विद्या की प्राप्ति के लिये प्रशंसा करने के योग्य और (परिधिः) सब शिल्पविद्या की सिद्धि की अवधि तथा (ईडितः) विद्या की इच्छा करनेवालों से प्रशंसा को प्राप्त (अग्निः) बिजुलीरूप अग्नि (असि) है, वह भी इस यज्ञ को सब प्रकार से धारण करता है। इन के गुणों को मनुष्य यथावत् जान के उपयोग करे ॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ईश्वर ने जो सूर्य्य, विद्युत् और प्रत्यक्ष रूप से तीन प्रकार का अग्नि रचा है, वह विद्वानों से शिल्पविद्या के द्वारा यन्त्रादिकों में अच्छी प्रकार युक्त किया हुआ अनेक कार्य्यों को सिद्ध करनेवाला होता है ॥३॥
दयानन्द-सरस्वती (सं) - विषयः
स यज्ञोऽग्न्यादिभिर्धार्य्यत इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - विद्वद्भिर्योऽयं गन्धर्वो विश्वावसुरिडोऽग्निरीडितोऽ(स्य)स्ति, स विश्वस्य यजमानस्य चारिष्ट्यै यज्ञं परिदधाति, तस्मात् [त्वा] विद्यासिद्ध्यर्थं मनुष्यो यथावत् परिदधातु। विदुषा यो वायुरिन्द्रस्य बाहुर्दक्षिणः परिधिरिड ईडितोऽग्निश्चा(स्य)स्ति, स सम्यक् प्रयोजितो यजमानस्य विश्वस्यारिष्ट्यै [असि] भवति। यौ ब्रह्माण्डस्थौ गमनागमनशीलौ मित्रावरुणौ प्राणापानौ स्तस्तौ ध्रुवेण धर्मणोत्तरतो विश्वस्य यजमानस्यारिष्ट्यै तं यज्ञं परिधत्तां सर्वतो धारयतः। यो विद्वद्भिरिडः परिधिरीडितोऽग्निर्विद्युदस्ति, सोऽपीमं यज्ञं सर्वतः परिदधात्येतान् मनुष्यो यथागुणं सम्यग् दधातु ॥३॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ईश्वरेण यः सूर्य्यविद्युत्प्रत्यक्षरूपेण त्रिविधोऽग्निर्निर्मितः, स मनुष्यैर्विद्यया सम्यग्योजितः सन् बहूनि कार्य्याणि साधयतीति ॥३॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ईश्वराने सूर्य, विद्युत आणि प्रत्यक्ष भौतिक अग्नी असे तीन प्रकारचे अग्नी निर्माण केलेले आहेत. ते विद्वानांनी शिल्पविद्या (वेगवेगळ्या प्रकारची हस्तकौशल्ययुक्त विद्या) व यंत्रे यांच्यामध्ये प्रयुक्त करून अनेक प्रकारची कार्ये सिद्ध करावीत.
०४ वीतिहोत्रं त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
वी॒तिहो॑त्रं त्वा कवे द्यु॒मन्तँ॒ समि॑धीमहि। अग्ने॑ बृ॒हन्त॑मध्व॒रे ॥४॥
मूलम् ...{Loading}...
वी॒तिहो॑त्रं त्वा कवे द्यु॒मन्तँ॒ समि॑धीमहि। अग्ने॑ बृ॒हन्त॑मध्व॒रे ॥४॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वी॒तिहो॑त्र॒मिति॑ वी॒तिऽहो॑त्रम्। त्वा॒। क॒वे॒। द्यु॒मन्त॒मिति॑ द्यु॒ऽमन्त॒म्। सम्। इ॒धी॒म॒हि॒। अग्ने॑। बृ॒हन्त॑म्। अ॒ध्व॒रे। ४।
महीधरः
म० ‘प्रथमं परिधिᳪं᳭ समिधोपस्पृश्य वीतिहोत्रमित्यादधाति’ ( का० २। ८ । २) इति । इयमृक् अग्निदेवत्या गायत्रीच्छन्दस्का । हे कवे क्रान्तदर्शिन् हे अग्ने, अध्वरे यागे निमित्ते त्वां वयं समिधीमहि अनेनेध्मकाष्ठेन दीपयामः । अतीतानागतदूरवर्तिपदार्थानां यस्य युगपज्ज्ञानं स कविः । | किंभूतं त्वाम् । वीतिहोत्रम् । ‘इण् गतौ’ इतिर्गतिः व्याप्तिः पुत्रपौत्रपशुधनादिभिः समृद्धिरित्यर्थः । वीतये समृद्ध्यै होत्रं होमो यस्य स वीतिहोत्रस्तं यत्र होमे कृते समृद्धिप्राप्तिः स्यादित्यर्थः । यद्वा वीतिरभिलाषो होत्रे होतृकर्मणि यस्य तम् । तथा द्युमन्तम् । द्यौः कान्तिरस्यास्तीति द्युमान् तं स्वत एव द्युत्युपेतम् तथा बृहन्तं महान्तम् ॥ ४ ॥
पञ्चमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी प्रजापतिर्ऋषिः
- निचृद् गायत्री,
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब अग्नि शब्द से अगले मन्त्र में उक्त दो अर्थों का प्रकाश किया है ॥४॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (कवे) सर्वज्ञ तथा हर एक पदार्थ में अनुक्रम से विज्ञानवाले (अग्ने) ज्ञानस्वरूप परमेश्वर ! हम लोग (अध्वरे) मित्रभाव के रहने में (बृहन्तम्) सब के लिये बड़े से बड़े अपार सुख के बढ़ाने और (द्युमन्तम्) अत्यन्त प्रकाशवाले वा (वीतिहोत्रम्) अग्निहोत्र आदि यज्ञों को विदित करानेवाले (त्वा) आप को (समिधीमहि) अच्छी प्रकार प्रकाशित करें ॥ यह इस मन्त्र का प्रथम अर्थ हुआ ॥ हम लोग (अध्वरे) अहिंसनीय अर्थात् जो कभी परित्याग करने योग्य नहीं, उस उत्तम यज्ञ में जिसमें कि (वीतिहोत्रम्) पदार्थों की प्राप्ति कराने के हेतु अग्निहोत्र आदि क्रिया सिद्ध होती है और (द्युमन्तम्) अत्यन्त प्रचण्ड ज्वालायुक्त (बृहन्तम्) बड़े-बड़े कार्य्यों को सिद्ध कराने तथा (कवे) पदार्थों में अनुक्रम से दृष्टिगोचर होनेवाले (त्वा) उस (अग्ने) भौतिक अग्नि को (समिधीमहि) अच्छी प्रकार प्रज्वलित करें ॥ यह दूसरा अर्थ हुआ ॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। संसार में जितने क्रियाओं के साधन वा क्रियाओं से सिद्ध होनेवाले पदार्थ हैं, उन सबों को ईश्वर ही ने रचकर अच्छी प्रकार धारण किया है। मनुष्यों को उचित है कि उनकी सहायता से, गुण, ज्ञान और उत्तम-उत्तम क्रियाओं की अनुकूलता से अनेक प्रकार के उपकार लेने चाहियें ॥४॥
दयानन्द-सरस्वती (सं) - विषयः
अथाग्निशब्देनोभावार्थावुपदिश्येते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे कवे अग्ने जगदीश्वर ! वयमध्वरे बृहन्तं द्युमन्तं वीतिहोत्रं त्वां समिधीमहि ॥ इत्येकः ॥ वयमध्वरे वीतिहोत्रं द्युमन्तं बृहन्तं कवे कविं त्वा तमग्ने भौतिकमग्निं समिधीमहि ॥ इति द्वितीयः ॥४॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। यावन्ति क्रियासाधनानि क्रियया साध्यानि च वस्तूनि सन्ति, तानि सर्वाणीश्वरेणैव रचयित्वा ध्रियन्ते मनुष्यैस्तेषां सकाशाद् गुणज्ञानक्रियाभ्यां बहव उपकाराः संग्राह्याः ॥४॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. जगात जितकी कार्य करण्याची जितकी साधने आहेत किंवा कार्यामुळे सिद्ध होणारे पदार्थ आहेत त्या सर्वांना ईश्वराने निर्माण केलेले असून, त्यांना चांगल्या प्रकारे धारण केलेले आहे. माणसांनी त्यांच्या साह्याने ज्ञानयुक्त उत्तम कार्य करून अनेक प्रकारे त्यांचा उपयोग करून घेतला पाहिजे.
०५ समिदसि सूर्य्यस्त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
स॒मिद॑सि॒ सूर्य्य॑स्त्वा पु॒रस्ता॑त् पातु॒ कस्या॑श्चिद॒भिश॑स्त्यै। स॒वि॒तुर्बा॒हू स्थ॒ऽऊर्ण॑म्रदसं त्वा स्तृणामि स्वास॒स्थं दे॒वेभ्य॒ऽआ त्वा॒ वस॑वो रु॒द्राऽआ॑दि॒त्याः स॑दन्तु ॥५॥
मूलम् ...{Loading}...
स॒मिद॑सि॒ सूर्य्य॑स्त्वा पु॒रस्ता॑त् पातु॒ कस्या॑श्चिद॒भिश॑स्त्यै। स॒वि॒तुर्बा॒हू स्थ॒ऽऊर्ण॑म्रदसं त्वा स्तृणामि स्वास॒स्थं दे॒वेभ्य॒ऽआ त्वा॒ वस॑वो रु॒द्राऽआ॑दि॒त्याः स॑दन्तु ॥५॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स॒मिदिति॑ स॒म्ऽइत्। अ॒सि॒। सूर्य्यः॑। त्वा॒। पु॒रस्ता॑त्। पा॒तु॒। कस्याः॑। चि॒त्। अ॒भिश॑स्त्या॒ इत्य॒भिऽश॑स्त्यै। स॒वि॒तुः। बा॒हूऽइति॑ बा॒हू। स्थः॒। उर्ण॑म्रदस॒मित्यूर्ण॑ऽम्रदसम्। त्वा॒। स्तृ॒णा॒मि॒। स्वा॒स॒स्थमिति॑ सुऽआ॒स॒स्थम्। दे॒वेभ्यः॑। आ। त्वा॒। वस॑वः। रु॒द्राः। आ॒दि॒त्याः स॒द॒न्तु॒। ५।
महीधरः
म०. अनुपस्पृश्य द्वितीयं समिदसीति (का० २। ८।३) | इति ॥ हे इध्मकाष्ठ, त्वं समिदसि अग्नेः समिन्धनं दीपनमसि ॥ ‘सूर्यस्येति जपत्याहवनीयमीक्षमाणः’ ( का० २।८।४) | इति ॥ हे आहवनीय, सूर्यः पुरस्तात्पूर्वस्यां दिशि कस्याश्चिदभिशस्त्यै सर्वस्या अभिशस्तेर्हिंसायाः सकाशात्त्वा त्वां पातु रक्षतु । चतुर्थी पञ्चम्यर्थे । या काचिद्धिंसा प्रसक्ता तां सर्वां परिहरत्वित्यर्थः । इतरदिक्त्रये परिधित्रयं रक्षकं पूर्वस्यां तदभावात् सूर्यः । तथाच श्रुतिः ‘गुप्त्यै वा अभितः परिधयो भवन्त्यथैतत्सूर्यमिव पुरस्ताद्गोप्तारं करोति’ (१।३।४।८) इति। ‘बर्हिषस्तृणे तिरश्च्यो निदधाति सवितुरिति’ (का०२।८।५) इति । तृणद्वयं प्रस्तरस्थापनार्थं तिर्यग् निदध्यात् । हे तृणे, युवामुभे सवितुर्देवस्य बाहू स्थः । प्रस्तरधारणेन सूर्यस्य बाहू इव भवथः ॥ ‘तयोः प्रस्तरᳪं᳭ स्तृणात्यूर्णम्रदसमिति’ (का. २। ८ । १०) इति । ऊर्णमिव मृदुं देवेभ्यो देवानां स्वासस्थं सुखेनासनेन स्थीयते यत्र तादृशं त्वां स्तृणामि । ‘अभिविदधात्या वा वसवः’ (का० २ । ८ । ११) इति । प्रस्तरंप्रति पाणी निदधाति । वसवो रुद्रा आदित्याः सवनत्रयाभिमानिनस्त्रयो देवाः त्वामासदन्तु आसादयन्तु सर्वतः प्रसारयन्तु ॥ ५॥
षष्ठी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- परमेष्ठी प्रजापतिर्ऋषिः
- निचृद् ब्राह्मी बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उक्त यज्ञ के साधनों का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (चित्) जैसे कोई मनुष्य सुख के लिये क्रिया से सिद्ध किये पदार्थों की रक्षा करके आनन्द को प्राप्त होता है, वैसे ही यह यज्ञ (समित्) वसन्त ऋतु के समय के समान अच्छी प्रकार प्रकाशित (असि) होता है (त्वा) उसको (सूर्य्यः) ऐश्वर्य का हेतु सूर्य्यलोक (कस्याः) सब पदार्थों की (अभिशस्त्यै) प्रकटता करने के लिये (पुरस्तात्) पहिले ही से उनकी (पातु) रक्षा करनेवाला होता है तथा जो कि (सवितुः) सूर्य्यलोक के (बाहू) बल और वीर्य्य (स्थः) हैं, जिन से यह यज्ञ विस्तार को प्राप्त होता है (त्वा) उस (ऊर्णम्रदसम्) सुख के विघ्नों के नाश करने (स्वासस्थम्) और श्रेष्ठ अन्तरिक्षरूपी आसन में स्थित होनेवाले यज्ञ को (वसवः) अग्नि आदि आठ वसु अर्थात् अग्नि, पृथिवी, वायु, अन्तरिक्ष, सूर्य्य, प्रकाश, चन्द्रमा और तारागण ये वसु (रुद्राः) प्राण, अपान, व्यान, उदान, नाग, कूर्म्म, कृकल, देवदत्त, धनञ्जय और जीवात्मा, ये रुद्र (आदित्याः) बारह महीने (सदन्तु) प्राप्त करते हैं। (त्वा) उसी (ऊर्णम्रदसम्) अत्यन्त सुख बढ़ाने (स्वासस्थम्) और अन्तरिक्ष में स्थिर होनेवाले यज्ञ को मैं भी सुख की प्राप्ति वा (देवेभ्यः) दिव्य गुणों को सिद्ध करने के लिये (आस्तृणामि) अच्छी प्रकार सामग्री से आच्छादित करके सिद्ध करता हूँ ॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। ईश्वर सब मनुष्यों के लिये उपदेश करता है कि मनुष्यों को वसु, रुद्र और आदित्यसंज्ञक पदार्थों से जो-जो काम सिद्ध हो सकते हैं, सो-सो सब प्राणियों के पालन के निमित्त नित्य सेवन करने योग्य हैं। तथा अग्नि के बीच जिन-जिन पदार्थों का प्रक्षेप अर्थात् हवन किया जाता है, सो-सो सूर्य्य और वायु को प्राप्त होता है। वे ही उन अलग हुए पदार्थों की रक्षा करके फिर उन्हें पृथिवी में छोड़ देते हैं, जिससे कि पृथिवी में दिव्य ओषधि आदि पदार्थ उत्पन्न होते हैं। उनसे जीवों को नित्य सुख होता है, इस कारण सब मनुष्यों को इस यज्ञ का अनुष्ठान सदैव करना चाहिये ॥५॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तस्य यज्ञस्य साधकान्युपदिश्यन्ते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - चित् यथा कश्चिन्मर्त्यः सुखार्थं क्रियासिद्धानि द्रव्याणि रक्षित्वाऽऽनन्दयते, तथैव योऽयं यज्ञः समिदसि भवति [त्वा] तं सूर्य्यः कस्या अभिशस्त्यै पुरस्तात् पातु पाति, यौ सवितुर्बाहू स्थः स्तो यो याभ्यां नित्यं विस्तार्य्यते [त्वा] तमूर्णम्रदसं स्वासस्थं यज्ञं वसवो रुद्रा आदित्याः सदन्त्ववस्थापयन्ति प्रापयन्ति [त्वा] तं यज्ञमहमपि सुखाय देवेभ्य आस्तृणामि ॥५॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। ईश्वर सर्वेभ्य इदमुपदिशति−मनुष्यैर्वसुरुद्रादित्याख्येभ्यो यद्यदुपकर्तुं शक्यं तत्तत्सर्वस्याभिरक्षणाय नित्यमनुष्ठेयम्। योऽग्नौ द्रव्याणां प्रक्षेपः क्रियते, स सूर्य्यं वायुं वा प्राप्नोति तावेव तत्पृथग्भूतं द्रव्यं रक्षित्वा पुनः पृथिवीं प्रति विमुञ्चतः। येन पृथिव्यां दिव्या ओषध्यादयः पदार्था जायन्ते, येन च प्राणिनां नित्यं सुखं भवति तस्मादेतत् सदैवानुष्ठेयमिति ॥५॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. ईश्वर सर्व माणसांना उपदेश करतो की, वसू (पृथ्वी वगैरे) , रुद्र (वायू वगैरे) , आदित्य (बारा महिने) यांच्याकडून जी कामे सिद्ध होऊ शकतात, ती ती कामे माणसांनी सर्व प्राण्यांच्या पालनासाठी प्रयोगात आणली पाहिजेत. तसेच अग्नीमध्ये ज्या ज्या पदार्थांची आहुती दिली जाते ती ती सूर्य, वायू यांच्यात संयुक्त होते व त्या पदार्थांना शुद्ध करून पृथ्वीवर पाठविली जाते. त्यामुळे पृथ्वीवर दिव्य औषधी इत्यादी पदार्थ उत्पन्न होतात व जीवांना नित्य सुख मिळते. यासाठी सर्व माणसांनी नेहमी यज्ञाचे अनुष्ठान करावे.
०६ घृताच्यसि जुहूर्नाम्ना
विश्वास-प्रस्तुतिः ...{Loading}...
घृ॒ताच्य॑सि जु॒हूर्नाम्ना॒ सेदं प्रि॒येण॒ धाम्ना॑ प्रि॒यँ सद॒ऽआसी॑द घृ॒ताच्य॑स्युप॒भृन्नाम्ना॒ सेदं प्रि॒येण॒ धाम्ना॑ प्रि॒यँ सद॒ऽआसी॑द घृ॒ताच्य॑सि ध्रु॒वा नाम्ना॒ सेदं प्रि॒येण॒ धाम्ना॑ प्रि॒यँ सद॒ऽआसी॑द प्रि॒येण॒ धाम्ना॑ प्रि॒यँ सदऽआसी॑द। ध्रु॒वाऽअ॑सदन्नृ॒तस्य॒ योनौ॒ ता वि॑ष्णो पाहि पा॒हि य॒ज्ञं पा॒हि य॒ज्ञप॑तिं पा॒हि मां य॑ज्ञ॒न्य᳖म् ॥६॥
मूलम् ...{Loading}...
घृ॒ताच्य॑सि जु॒हूर्नाम्ना॒ सेदं प्रि॒येण॒ धाम्ना॑ प्रि॒यँ सद॒ऽआसी॑द घृ॒ताच्य॑स्युप॒भृन्नाम्ना॒ सेदं प्रि॒येण॒ धाम्ना॑ प्रि॒यँ सद॒ऽआसी॑द घृ॒ताच्य॑सि ध्रु॒वा नाम्ना॒ सेदं प्रि॒येण॒ धाम्ना॑ प्रि॒यँ सद॒ऽआसी॑द प्रि॒येण॒ धाम्ना॑ प्रि॒यँ सदऽआसी॑द। ध्रु॒वाऽअ॑सदन्नृ॒तस्य॒ योनौ॒ ता वि॑ष्णो पाहि पा॒हि य॒ज्ञं पा॒हि य॒ज्ञप॑तिं पा॒हि मां य॑ज्ञ॒न्य᳖म् ॥६॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
घृ॒ताची॑। अ॒सि॒। जु॒हूः। नाम्ना॑। सा। इ॒दम्। प्रि॒येण॑। धाम्ना॑। प्रि॒यम्। सदः॑। आ। सी॒द॒। घृ॒ताची॑। अ॒सि॒। उ॒प॒भृदित्यु॑प॒ऽभृत्। नाम्ना॑। सा। इ॒दम्। प्रि॒येण॑। धाम्ना॑। प्रि॒यम्। सदः॑। आ। सी॒द॒। घृ॒ताची॑। अ॒सि॒। ध्रु॒वा। नाम्ना॑। सा। इ॒दम्। प्रि॒येण॑। धाम्ना॑। प्रि॒यम्। सदः॑। आ। सी॒द॒। प्रि॒येण॑। धाम्ना॑। प्रि॒यम्। सदः॑। आ। सी॒द॒। ध्रु॒वा। अ॒स॒द॒न्। ऋ॒तस्य॑। योनौ॑। ता। वि॒ष्णो॒ऽइति॑ विष्णो। पा॒हि। पा॒हि। य॒ज्ञम्। पा॒हि। य॒ज्ञप॑ति॒मिति॑ य॒ज्ञऽप॑तिम्। पा॒हि। माम्। य॒ज्ञ॒न्य᳖मिति॑ यज्ञ॒ऽन्य᳖म्। ६।
महीधरः
म० ‘सव्याशून्ये जुहूं प्रतिगृह्य निदधाति घृताचीत्येवमितरे उत्तराभ्यां प्रतिमन्त्रम्’ (का० २। ८ । १२-१३) इति । हे जुहु, त्वं घृताची असि । घृतमञ्चति प्राप्नोतीति घृताची घृतपूर्णा भवसि । नाम्ना च जुहूः । हूयतेऽनयेति जुहूः । ‘क्विपि द्युतिगमिजुहोतीनां द्वे च जुहोतेर्दीर्घश्च’ (पा० क०. | ३ । २ । १७८) इति द्वित्वं दीर्घश्च । सा त्वं प्रियेण धाम्ना । देववल्लभेनाज्येन सह इदं प्रियं सदः प्रस्तरलक्षणमासीद | अधितिष्ठ । ‘एतद्वै देवानां प्रियतमं धाम यदाज्यम्’ (२ । ३ । | २ । १७) इति श्रुतेः । प्रियधामशब्देनाज्यम् । उपभृतं सादयति । उप समीपे स्थित्वा बिभर्ति आज्यं धारयतीत्युपभृत् । व्याख्यातमन्यत् । ध्रुवां सादयति । ‘ध्रुव स्थैर्ये’ । | यथा होमार्थं जुहूपभृतोश्चलनं तद्वदस्याश्चलनाभावेन स्थिरत्वान्नाम्ना ध्रुवा । अन्यद्व्याख्यातम् । ‘प्रियेण धाम्नेति हवीᳪं᳭षि वेद्यां कृत्वा’ (का० २ । ८ । १९) इति । हे हविः, प्रियेण धाम्नाज्येन सह प्रियं सद आसीदेत्येकै हविः संबोध्य वचनम् । “धुवा असदन्निति सर्वाण्यालभते’ (का० २।८।१९) इति । ऋतस्यावश्यंभाविफलोपेतत्वेन सत्यस्य यज्ञस्य योनौ स्थाने ध्रुवाणि यानि हवींषि असदन्नतिष्ठन् । हे विष्णो व्यापक यज्ञपुरुष, ता तानि हवींषि पाहि रक्ष । यज्ञं च पाहि यज्ञपतिं च पाहि । ‘पाहि मामित्यात्मानम्’ (का० २ । ८ । २०) | इति । यज्ञं नयतीति यज्ञनीः तं यज्ञन्यमध्वर्युं मां पाहि ॥६॥
सप्तमी।
अधिमन्त्रम् (VC)
- विष्णुः सर्वस्य
- परमेष्ठी प्रजापतिर्ऋषिः
- ब्राह्मी त्रिष्टुप्, निचृत् त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उक्त यज्ञ से क्या-क्या प्रिय सुख सिद्ध होता है, सो अगले मन्त्र में प्रकाशित किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो [(नाम्ना)] (जुहूः) हवि अग्नि में डालने के लिये सुख की उत्पन्न करनेवाली (घृताची) घृत को प्राप्त करानेवाली आदान क्रिया (असि) है (सा) वह यज्ञ में युक्त की हुई सार ग्रहण की क्रिया है सो (प्रियेण) सुखों से तृप्त करनेवाला शोभायमान (धाम्ना) स्थान के साथ वर्त्तमान होके (इदम्) यह (प्रियम्) जिस में तृप्त करनेवाले (सदः) उत्तम-उत्तम सुखों को प्राप्त होते हैं, उन को (आसीद) सिद्ध करती है। जो (नाम्ना) प्रसिद्धि से (उपभृत) समीप प्राप्त हुए पदार्थों को धारण करने तथा (घृताची) जल को प्राप्त करानेवाली हस्तक्रिया (असि) है (सा) वह यज्ञ में युक्त की हुई (प्रियेण) प्रीति के हेतु (धाम्ना) स्थल से (इदम्) यह ओषधि आदि पदार्थों का समूह (प्रियम्) जो कि आरोग्यपूर्वक सुखदायक और (सदः) दुःखों का नाश करनेवाला है, उस को (आसीद) अच्छी प्रकार प्राप्त कराती है तथा जो [(नाम्ना)] (ध्रुवा) स्थिर सुखों वा (घृताची) आयु के निमित्त की देनेवाली विद्या (असि) होती है (सा) वह अच्छी प्रकार उत्तम कार्यों में युक्त की हुई (प्रियेण) प्रीति उत्पन्न करनेवाले [धाम्ना] स्थिरता के निमित्त से (इदम्) इस (प्रियम्) आनन्द करानेवाले जीवन वा (सदः) वस्तुओं को (आसीद) प्राप्त करती है। जिस क्रिया करके (प्रियेण) प्रसन्नता के करने हारे (धाम्ना) हृदय से (प्रियम्) प्रसन्नता करनेवाला (सदः) ज्ञान (आसीद) अच्छी प्रकार प्राप्त होता है, (सा) वह विज्ञानरीति सब को नित्य सिद्ध करनी चाहिये। हे (विष्णो) व्यापकेश्वर ! जैसे जो-जो (ऋतस्य योनौ) शुद्ध यज्ञ में (ध्रुवा) स्थिर वस्तु (असदन्) हो सके, वैसे ही [ता] उनकी निरन्तर (पाहि) रक्षा कीजिये तथा कृपा कर के [(यज्ञम्)] यज्ञ की (पाहि) रक्षा कीजिये (यज्ञन्यम्) यज्ञ प्राप्त करने (यज्ञपतिम्) यज्ञ को पालन करने हारे यजमान की (पाहि) रक्षा करो और यज्ञ को प्रकाशित करनेवाले (माम्) मुझे (च) भी (पाहि) पालिये ॥६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो यज्ञ पूर्वोक्त मन्त्र में वसु, रुद्र और आदित्य से सिद्ध होने के लिये कहा है, वह वायु और जल की शुद्धि के द्वारा सब स्थान और सब वस्तुओं को प्रीति कराने हारे उत्तम सुख को बढ़ानेवाले कर देता है, सब मनुष्यों को उनकी वृद्धि वा रक्षा के लिये व्यापक ईश्वर की प्रार्थना और सदा अच्छी प्रकार पुरुषार्थ करना चाहिये ॥६॥
दयानन्द-सरस्वती (सं) - विषयः
स किं किं प्रियं सुखं साधयतीत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - या जुहूर्नाम्ना घृताच्यसि भवति सा यज्ञे प्रयुक्ता सती प्रियेण धाम्ना सह वर्त्तमानमिदं प्रियं सद आसीद आसादयति। योपभृन्नाम्ना घृताच्य(स्य)स्ति, साऽथ यत्ते प्रयुक्ता सती प्रियेण धाम्नेदं प्रियं सद आसीद समन्तात् प्रापयति। या ध्रुवा नाम्ना घृताच्यसि भवति, सा सम्यक् स्थापिता सती प्रियेण धाम्नेदं प्रियं सद आसीद आगमयति। यथा क्रियया प्रियेण धाम्ना प्रियं सद आसीद समन्तात् प्राप्नोति। सा सर्वैर्नित्यं साध्या। हे विष्णो ! यथेमानि ऋतस्य योनौ ध्रुवा ध्रुवाणि वस्तून्यसदन् भवेयुस्तथैवैतानि निरन्तरं पाहि, तथा कृपया यज्ञं पाहि। यज्ञन्यं यज्ञपतिं पाहि यज्ञन्यं मां च पाहि ॥६॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यो यज्ञः पूर्वोक्ते मन्त्रे वसुरुद्रादित्यैः सिध्यति, स वायुजलशुद्धिद्वारा सर्वाणि स्थानानि सर्वाणि वस्तूनि च प्रियाणि निश्चलसुखसाधकानि ज्ञानवर्धकानि च करोति, तेषां वृद्धये रक्षणाय च सर्वैर्मनुष्यैर्व्यापकेश्वरस्य प्रार्थना सम्यक् पुरुषार्थश्च कर्त्तव्य इति ॥६॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - पूर्वोक्त मंत्रात वसू, रुद्र, आदित्य इत्यादींद्वारे जो यज्ञ सिद्ध करावा असे सांगितलेले आहे. तो यज्ञ वायू व जलाची शुद्धी करतो आणि सर्व स्थाने व सर्व पदार्थ उत्तम व सुखकारक बनवितो त्यासाठी सर्व माणसांनी यज्ञाची वृद्धी व्हावी व रक्षण व्हावे यासाठी सर्वव्यापक ईश्वराची प्रार्थना करून चांगल्या प्रकारे पुरुषार्थ करावा.
०७ अग्ने वाजजिद्
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने॑ वाजजि॒द् वाजं॑ त्वा सरि॒ष्यन्तं॑ वाज॒जितँ॒ सम्मा॑र्ज्मि। नमो॑ दे॒वेभ्यः॑ स्व॒धा पि॒तृभ्यः॑ सु॒यमे॑ मे भूयास्तम् ॥७॥
मूलम् ...{Loading}...
अग्ने॑ वाजजि॒द् वाजं॑ त्वा सरि॒ष्यन्तं॑ वाज॒जितँ॒ सम्मा॑र्ज्मि। नमो॑ दे॒वेभ्यः॑ स्व॒धा पि॒तृभ्यः॑ सु॒यमे॑ मे भूयास्तम् ॥७॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अग्ने॑। वा॒ज॒जि॒दिति॑ वाजऽजित्। वाज॑म्। त्वा॒। स॒रि॒ष्यन्त॑म्। वा॒ज॒जित॒मिति॑ वाज॒ऽजित॑म्। सम्। मा॒र्ज्मि॒। नमः॑। दे॒वेभ्यः॑। स्व॒धा। पि॒तृभ्य॒ इति॑ पि॒तृऽभ्यः॑। सु॒यमे॒ऽइति॑ सु॒ऽयमे॑। मे॒। भू॒या॒स्त॒म्। ७।
महीधरः
म० ‘इध्मसन्नहनैरनुपरिधि समार्य्ट्उग्ने वाजजिदिति त्रिस्त्रिः परिक्रामम्’ (का० ३ । १ । १३) इति । वाजमन्नं जयतीति वाजजित् । तत्संबुद्धौ हे वाजजित् हे अग्ने, त्वामहं संमार्ज्मि शोधयामि । किंभूतं त्वाम् । वाजं सरिष्यन्तमन्नमुद्दिश्य गमिष्यन्तमन्नसंपादनोपयुक्तम् । तथा वाजजितमन्नमुद्दिश्य जयोपेतम् । अन्नप्रतिबन्धनिवारकमित्यर्थः । ‘अपरमाहवनीयादञ्जलिं करोति नमो देवेभ्य इति’ (का०३।१।१५) इति । ये देवा अनुष्ठानमनुगृह्णन्ति तेभ्यो नमस्करोति । ‘स्वधा पितृभ्य इति दक्षिणत उत्तानम्’ (का० ३।१।१५) इति । प्राङ्मुखेनादौ देवनत्यर्थमञ्जलिः कृतः । इदानीं पितृनत्यर्थं दक्षिणामुख उत्तानमञ्जलिं कुर्यात् । ये पितरः पालकाः सन्ति तेभ्यः स्वधाऽस्तु । स्वधाशब्दो निपातः पितॄनुद्दिश्य देयद्रव्यस्य दाने वर्तते । अतो यद्देयं तद्दास्याम इत्यर्थः । अनेन मत्रद्वयेन देवाः पितरश्चोपचर्यन्ते । ‘सुयमे म इति जुहूपभृतावादाय’ ( का० ३ । १।१६) इति । हे जुहूपभृतौ मे मदर्थं सुयमे सुष्ठु नियते युवां भूयास्तं भवतम् । यथा युवयोः स्थितमाज्यं न स्कन्दति तथा धारयतमित्यर्थः ॥ ७ ॥
अष्टमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी प्रजापतिर्ऋषिः
- बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह यज्ञ कैसा है, सो अगले मन्त्र में प्रकाशित किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जिससे यह (अग्ने) अग्नि (वाजजित्) अर्थात् जो उत्कृष्ट अन्न को प्राप्त करानेवाला होके सब पदार्थों को शुद्ध करता है, इससे मैं (त्वा) उस (वाजम्) वेगवाले (सरिष्यन्तम्) सब पदार्थों को अन्तरिक्ष में पहुँचाने और (वाजजितम्) [वाज] अर्थात् युद्ध को जीतानेवाले भौतिक अग्नि को (सम्मार्ज्मि) अच्छी प्रकार शुद्ध करता हूँ, यज्ञ में युक्त किये हुए जिस अग्नि से (देवेभ्यः) सुखकारक पूर्वोक्त वसु आदि से सुख के लिये (नमः) अत्यन्त मधुर श्रेष्ठ जल तथा (पितृभ्यः) पालन के हेतु जो वसन्त आदि ऋतु हैं, उनसे जो आरोग्य के लिये (स्वधा) अमृतात्मक अन्न किये जाते हैं, वे (सुयमे) बल वा पराक्रम के देनेवाले उस यज्ञ से (मे) मेरे लिये (भूयास्तम्) होवें ॥७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ईश्वर उपदेश करता है कि प्रथम मन्त्र में कहे हुए यज्ञ का मुख्य साधन अग्नि होता है, क्योंकि जैसे प्रत्यक्ष में भी उसकी लपट देखने में आती है, वैसे अग्नि का ऊपर ही को चलने जलने का स्वभाव है तथा सब पदार्थों के छिन्न-भिन्न करने का भी उसका स्वभाव है और यान वा अस्त्र-शस्त्रों में अच्छी प्रकार युक्त किया हुआ शीघ्र गमन वा विजय का हेतु होकर वसन्त आदि ऋतुओं से उत्तम-उत्तम पदार्थों का सम्पादन करके अन्न और जल को शुद्ध वा सुख देनेवाले कर देता है, ऐसा जानना चाहिये ॥७॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स यज्ञः कीदृश इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यतोऽयम[ग्नेऽ]ग्निर्वाजजिद् भूत्वा सर्वान् पदार्थान् संमार्ष्टि, तस्मात् [त्वा] तमहं वाजं सरिष्यन्तं वाजजितं संमार्ज्मि, येन यज्ञेन प्रयुक्तेनाग्निना देवेभ्यो नमः पितृभ्यः स्वधा सुयमे भवतस्तेनैते मे मम सुयमे भूयास्तं भूयास्ताम् ॥७॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ईश्वर उपदिशति−मनुष्यैर्यः पूर्वमन्त्रोक्तोऽग्निः [सः] यज्ञस्य मुख्यसाधनः कर्त्तव्यः। कुतः? अग्नेरूर्ध्वगमनशीलेन सर्वपदार्थछेदकत्वाच्च। यानास्त्रेषु सम्यक् प्रयुक्तः शीघ्रगमनविजयहेतुः सन्नृतुभिर्दिव्यान् पदार्थान् सम्पाद्य शुद्धे सुखप्रापके अन्नजले करोतीति विज्ञातव्यम् ॥७॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ईश्वराच्या उपदेशानुसार पूर्वोक्त मंत्रात सांगितलेल्या यज्ञाचे मुख्य साधन अग्नी आहे. कारण प्रत्यक्षात अग्नीची ज्वाला वर जाते हे दिसून येते. अग्नीचा स्वभाव वर जाण्याचा आहे. सर्व पदार्थांचे भेदन करण्याचाही त्याचा स्वभाव आहे. शस्त्रास्त्रांमध्ये चांगल्या प्रकारे युक्त करून शीघ्र गमन करण्याचे किंवा विजय मिळविण्याचे कारणही अग्नीच होय. अग्नीमुळेच वसंत इत्यादी ऋतूंमध्ये उत्तम उत्तम पदार्थांची प्राप्ती होते. अन्न व जल शुद्ध होते, असा हा अग्नी सुखकारक आहे हे जाणले पाहिजे.
०८ अस्कन्नमद्य देवेभ्यऽआज्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
अस्क॑न्नम॒द्य दे॒वेभ्य॒ऽआज्यँ॒ संभ्रि॑यास॒मङ्घ्रि॑णा विष्णो॒ मा त्वाव॑क्रमिषं॒ वसु॑मतीमग्ने ते छा॒यामुप॑स्थेषं॒ विष्णो॒ स्थान॑मसी॒तऽइन्द्रो॑ वी॒र्य्य᳖मकृणोदू॒र्ध्वो᳖ऽध्व॒रऽआस्था॑त् ॥८॥
मूलम् ...{Loading}...
अस्क॑न्नम॒द्य दे॒वेभ्य॒ऽआज्यँ॒ संभ्रि॑यास॒मङ्घ्रि॑णा विष्णो॒ मा त्वाव॑क्रमिषं॒ वसु॑मतीमग्ने ते छा॒यामुप॑स्थेषं॒ विष्णो॒ स्थान॑मसी॒तऽइन्द्रो॑ वी॒र्य्य᳖मकृणोदू॒र्ध्वो᳖ऽध्व॒रऽआस्था॑त् ॥८॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अस्क॑न्नम्। अ॒द्य। दे॒वेभ्यः॑। आज्य॑म्। सम्। भ्रि॒या॒स॒म्। अङ्घ्रि॑णा। वि॒ष्णो॒ऽइति॑ विष्णो। मा। त्वा॒। अव॑। क्र॒मि॒ष॒म्। वसु॑मती॒मिति॒ वसु॑ऽमतीम्। अ॒ग्ने॒। ते॒। छा॒याम्। उप॑। स्थे॒ष॒म्। विष्णोः॑। स्थान॑म्। अ॒सि॒। इ॒तः। इन्द्रः॑। वी॒र्य्य᳖म्। अ॒कृ॒णो॒त्। ऊ॒र्ध्वः। अ॒ध्व॒रः। आ। अ॒स्था॒त्। ८।
महीधरः
म० तथा सति अद्यास्मिन्ननुष्ठानदिने देवेभ्यो देवोपकारायाज्यं युवयोः स्थितं घृतम् अस्कन्नं भूमौ यथा न स्कन्दति तथा संभ्रियासं सम्यक् पोषणं करोमि धारणं वा । आशीर्लिङि उत्तमे रूपम् । ‘दक्षिणातिक्रामत्यङ्घ्रिणा पादेन त्वा त्वाम् अहं मा अवक्रमिषम् मा कार्षम् । पादेनातिक्रमणदोषो मे मा भूदित्यर्थः । ‘वसुमतीमित्यवस्थाय’ (का० ३।१।१९) इति । हे अग्ने, ते तव छायां छायावत्समीपवर्तिनीं वसुमतीं भूमिम् अहमुपस्थेषम् उपतिष्ठेयं सेवेय । उपपूर्वस्तिष्ठतिः सेवार्थः । स एवमेवोपकारः कथ्यते । हे वसुमति, त्वं विष्णोर्यज्ञस्य स्थानमसि । अत्र स्थित्वा यागः कर्तुं शक्यत इत्यर्थः । आहवनीयसमीपवर्तित्वादस्या भूमेर्यज्ञस्थानत्वम् । यद्वा अयमर्थः । हे अग्ने, ते तव वसुमतीं धनवतीं धनप्राप्तिकरीं छायामाश्रयं उपस्थेषं सेवेय । छायाशब्द आश्रयवाचकः । युष्मत्पादच्छायायां वसामीति यावत् । यतस्त्वं विष्णोर्यज्ञस्य स्थानमसि । ‘इत इन्द्र इति जुहोति’ (का० ३।२।१) इति । पूर्वमन्त्रे यज्ञसंबन्धि यत्स्थानमुक्तं तदेव देवानां विजयहेतुत्वादितःशब्देन परामृश्यते । देवयजनव्यतिरिक्तभूमिरसुराधीनत्वेन तत्र देवानां पराजयेऽपि यज्ञप्रदेशः पराजयरहितः । तदेवोच्यते मन्त्रेण । इत इन्द्रः । इन्द्र इतोऽस्माद्देवयजनस्थानात् उद्युक्तः सन्निति शेषः । वीर्यमकृणोत् वीरस्य कर्म वीर्यं शत्रुवधरूपमकरोत् । अतएवाध्वरो यज्ञ ऊर्ध्वमास्थात् उन्नतः स्थितः । इन्द्रेण वीर्ये कृते शत्रुकृतविघ्नाभावादध्वरस्यौन्नत्यम् ॥ ८॥
नवमी।
अधिमन्त्रम् (VC)
- विष्णुर्देवता
- परमेष्ठी प्रजापतिर्ऋषिः
- विराड् ब्राह्मी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उक्त यज्ञ कैसा होकर क्या करता है, सो अगले मन्त्र में प्रकाश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - मैं (देवेभ्यः) उत्तम सुखों की प्राप्ति के लिये जो (अस्कन्नम्) निश्चल सुखदायक (आज्यम्) घृत आदि उत्तम-उत्तम पदार्थ हैं, उसको (अङ्घ्रिणा) पदार्थ पहुँचानेवाले अग्नि से (अद्य) आज (संभ्रियासम्) धारण करूँ और (त्वा) उसका मैं (मावक्रमिषम्) कभी उल्लङ्घन न करूँ। तथा हे अग्ने जगदीश्वर ! (ते) आपके (वसुमतीम्) पदार्थ देनेवाले (छायाम्) आश्रय को (उपस्थेषम्) प्राप्त होऊँ। जो यह (अग्ने) अग्नि (विष्णोः) यज्ञ के (स्थानम्) ठहरने का स्थान (असि) है, उसके भी (वसुमतीम्) उत्तम पदार्थ देनेवाले (छायाम्) आश्रय को मैं (उपस्थेषम्) प्राप्त होकर यज्ञ को सिद्ध करता हूँ तथा जो (ऊर्ध्वः) आकाश और जो (अध्वरः) यज्ञ अग्नि में ठहरनेवाला (आ) सब प्रकार से (अस्थात्) ठहरता है, उसको (इन्द्रः) सूर्य्य और वायु धारण करके (वीर्य्यम्) कर्म अथवा पराक्रम को (अकृणोत्) करते हैं ॥८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ईश्वर उपदेश करता है कि जिस पूर्वोक्त यज्ञ से जल और वायु शुद्ध होकर बहुत-सा अन्न उत्पन्न करनेवाले होते हैं, उसको सिद्ध करने के लिये मनुष्यों को बहुत सी सामग्री जोड़नी चाहिये। जैसे मैं सर्वत्र व्यापक हूँ, मेरी आज्ञा कभी उल्लङ्घन नहीं करनी चाहिये, किन्तु जो असंख्यात सुखों का देनेवाला मेरा आश्रय है, उसको सदा ग्रहण करके अग्नि में जो हवन किया जाता है तथा जिस को सूर्य्य अपनी किरणों से खेंच कर वायु के योग से ऊपर मेघमण्डल में स्थापन करता है और फिर वह उस को वहाँ से मेघ द्वारा गिरा देता है और जिससे पृथिवी पर बड़ा सुख उत्पन्न होता है, उस यज्ञ का अनुष्ठान सब मनुष्यों को सदा करना योग्य है ॥८॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स कीदृशो भूत्वा किं करोतीत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - अहं देवेभ्यो यदस्कन्नमविक्षुब्धमाज्यमङ्घ्रिणा संभ्रियासं [विष्णो] अद्य त्वा तदहं मावक्रमिषं मोल्लङ्घयेयम्। हे अग्ने जगदीश्वर ! ते तव वसुमतीं छायामहमुपस्थेषमुपपत्सीय। योऽयमग्निर्विष्णोर्यज्ञस्य स्थानम(स्य)स्ति तस्यापि वसुमतीं छायामुपस्थाय यज्ञं साधयामि। य ऊर्ध्वोऽध्वरोऽग्नौ हुतः समन्तात् तिष्ठति तमित इन्द्रो धृत्वा वीर्य्यमकृणोत् करोति ॥८॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ईश्वर उपदिशति येन पूर्वोक्तेन यज्ञेनान्नजले शुद्धे पुष्कले भवतस्तदेतस्य सिध्यर्थं मनुष्यैः पुष्कलाः संभाराः सदा चेतव्याः। नैव मम व्यापकस्याज्ञामुल्लङ्घ्य वर्तितव्यम्। किन्तु बहुसुखप्रापकं मदाश्रयं गृहीत्वाऽग्नौ यो यज्ञः क्रियते, यमिन्द्रः स्वकीयैः किरणैश्छित्त्वा वायुना सहोर्ध्वमाकृष्योर्ध्वं मेघमण्डले स्थापयति, पुनस्तस्माद् भूमिं प्रति निपातयति, येन भूमौ महद्वीर्य्यं जायते, स सदाऽनुष्ठातव्य इति ॥८॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ईश्वर उपदेश करतो की, ज्या पूर्वोक्त यज्ञामुळे जल व वायू शुद्ध होऊन पुष्कळ अन्न उत्पन्न होते, त्यासाठी माणसांनी पुष्कळ यज्ञसामग्री एकत्रित करावी. मी (परमेश्वर) सर्वव्यापक असून, माझ्या आज्ञेचे उल्लंघन करू नये. असंख्य सुख ज्या आश्रयामुळे प्राप्त होते तो (माझा) आश्रय सदैव घेतला पाहिजे. अग्नीत जी आहुती दिली जाते त्यांना सूर्य आपल्या किरणांद्वारे ओढून घेतो व वायूच्या साह्याने त्यांची मेघमंडळात स्थापना करतो आणि त्यांना पुन्हा मेघांद्वारेच खाली पाडतो. त्यामुळे पृथ्वीवर अनुकूल परिस्थिती निर्माण होते. अशा यज्ञाचे अनुष्ठान सर्व माणसांनी सदैव केले पाहिजे.
०९ अग्ने वेर्होत्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने॒ वेर्हो॒त्रं वेर्दू॒त्य᳙मव॑तां॒ त्वां द्यावा॑पृथि॒वीऽअव॒ त्वं द्यावा॑पृथि॒वी स्वि॑ष्ट॒कृद्दे॒वेभ्य॒ऽइन्द्र॒ऽआज्ज्ये॑न ह॒विषा॑ भू॒त्स्वाहा॒ सं ज्योति॑षा॒ ज्योतिः॑ ॥९॥
मूलम् ...{Loading}...
अग्ने॒ वेर्हो॒त्रं वेर्दू॒त्य᳙मव॑तां॒ त्वां द्यावा॑पृथि॒वीऽअव॒ त्वं द्यावा॑पृथि॒वी स्वि॑ष्ट॒कृद्दे॒वेभ्य॒ऽइन्द्र॒ऽआज्ज्ये॑न ह॒विषा॑ भू॒त्स्वाहा॒ सं ज्योति॑षा॒ ज्योतिः॑ ॥९॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अग्नेः॑। वेः। हो॒त्रम्। वेः। दू॒त्य᳖म्। अव॑ताम्। त्वाम्। द्यावा॑पृथि॒वीऽइति॒ द्यावा॑ऽपृथि॒वी। अव॑। त्वम्। द्यावा॑पृथि॒वीऽइति॒ द्यावा॑ऽपृथि॒वी। स्वि॒ष्ट॒कृदिति॑ स्विष्ट॒ऽकृत्। दे॒वेभ्यः॑। इन्द्रः॑। आज्ये॑न। ह॒विषा॑। भू॒त्। स्वाहा॑। सम्। ज्योति॑षा। ज्योतिः॑। ९।
महीधरः
म० तस्मात् हे अग्ने, होत्रं वेः होतुः कर्म विद्धि। । लङि अडभावे रूपम् । दूत्यं दूतकर्म च वेः विद्धि । होतृत्वं दूतत्वं चाग्नेः कर्म । तथाच श्रुतिः ‘उभयं वा एतदग्निर्देवानाᳪं᳭ होता च दूतश्च’ (१।४।५ । ४) इति । ईदृशं त्वां द्यावापृथिवी अवतां पालयताम् । हे अग्ने, त्वमपि द्यावापृथिवी लोकद्वयदेवते अव पालय । इत्थमन्योन्यपालने सति इन्द्रः आज्येन हविषास्माभिर्दत्तेन देवेभ्यो देवार्थं स्विष्टकृत् भूत् । सुष्ठु इष्टं करोतीति स्विष्टकृत् तादृशो भवतु । अडभावश्छान्दसः । यद्यस्माभिरिज्यते तत्तदिष्टं सर्वं वैकल्यरहितं करोत्वित्यर्थः । स्वाहा सुहुतं अस्तु । इन्द्रं देवमुद्दिश्य इदमाज्यं दत्तमित्यर्थः ।स्वाहेति निपातो देवोद्देशेन दाने वर्तते। जुह्वा ध्रुवां समनक्ति संज्योतिषा’ (का० ३।२।२) इति । संगच्छतामित्यध्याहारः । ज्योतिषा ध्रुवास्थिताज्यरूपज्योतिषा सह ज्योतिर्जुह्वासिच्यमानरूपं ज्योतिः संगच्छताम् ॥ ९॥
दशमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी प्रजापतिर्ऋषिः
- जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर उस यज्ञ से क्या लाभ होता है, सो अगले मन्त्र में प्रकाशित किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) परमेश्वर ! जो (द्यावापृथिवी) प्रकाशमय सूर्यलोक और पृथिवी यज्ञ की (अवताम्) रक्षा करते हैं, उनकी (त्वम्) आप (वेः) रक्षा करो तथा जैसे यह भौतिक अग्नि (होत्रम्) यज्ञ और (दूत्यम्) दूत कर्म को प्राप्त होकर (द्यावापृथिवी) प्रकाशमय सूर्य्यलोक और पृथिवी की रक्षा करता है, वैसे हे भगवान् ! (देवेभ्यः) विद्वानों के लिये (स्विष्टकृत्) उनकी इच्छानुकूल अच्छे-अच्छे कार्य्यों के करनेवाले आप हम लोगों की (अव) रक्षा कीजिये। जो यह (आज्येन) यज्ञ के निमित्त अग्नि में छोड़ने योग्य घृत आदि उत्तम-उत्तम पदार्थ (हविषा) संस्कृत अर्थात् अच्छी प्रकार शुद्ध किये हुए होम के योग्य कस्तूरी केसर आदि पदार्थ वा (ज्योतिषा) प्रकाशयुक्त लोकों के साथ (ज्योतिः) प्रकाशमय किरणों से (स्विष्टकृत्) अच्छे-अच्छे वाञ्छित कार्य्य सिद्ध करानेवाला (इन्द्रः) सूर्य्यलोक भी (द्यावापृथिवी) हमारे न्याय वा पृथिवी के राज्य की रक्षा करनेवाला (अभूत्) होता है, वैसे आप (ज्योतिः) विज्ञानरूप ज्योति के दान से हम लोगों की (अव) रक्षा कीजिये, इस कर्म को (स्वाहा) वेदवाणी कहती है ॥९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ईश्वर ने मनुष्यों के लिये वेदों में उपदेश किया है कि जो-जो अग्नि, पृथिवी, सूर्य्य और वायु आदि पदार्थों के निमित्तों को जान के होम और दूतसम्बन्धी कर्म का अनुष्ठान करना योग्य है, सो-सो उनके लिये वाञ्छित सुख के देनेवाले होते हैं। अष्टम मन्त्र से कहे हुए यह साधन का फल नवमें मन्त्र से प्रकाशित किया है ॥९॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तेन किं भवतीत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे परमेश्वर ! ये द्यावापृथिवी यज्ञमवतां रक्षतस्ते त्वं वेः रक्ष। यथायमग्निर्होत्रं दूत्यं च कर्म प्राप्तो द्यावापृथिवी रक्षति, तथा हे भगवन् ! देवेभ्यः स्विष्टकृत् त्वमस्मान् वेः सदा पालय। यथायमाज्येन हविषा ज्योतिषा सह ज्योतिः स्विष्टकृदिन्द्रो द्यावापृथिव्यो रक्षको भूद्भवति, तथा त्वं विज्ञानज्योतिःप्रदानेनास्मान् समवेति स्वाहा ॥९॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ईश्वरो मनुष्येभ्यो वेदेषूपदिष्टवानस्ति। मनुष्यैर्यद्यदग्निपृथिवीसूर्य्यवाय्वादिभ्यः पदार्थेभ्यो होत्रं दूत्यं च कर्मनिमित्तं विदित्वाऽनुष्ठीयते तत्तदिष्टकारि भवति। अष्टममन्त्रेण यज्ञसाधनं यदुक्तं तत्फलं नवमेन प्रकाशितमिति ॥९॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ईश्वराने वेदाद्वारे माणसांना उपदेश केलेला आहे की, जो अग्नी, पृथ्वी, सूर्य व वायू इत्यादी पदार्थांचे निमित्त आहे त्या अग्नीद्वारे होम केला पाहिजे. तो दूताचे कर्मही करण्यायोग्य आहे व सर्व माणसांना मनोवांछित सुख देणारा आहे. आठव्या मंत्रात सांगितलेल्या साधनेचे फळ नवव्या मंत्रात स्पष्ट केलेले आहे.
१० मयीदमिन्द्रऽइन्द्रियं दधात्वस्मान्
विश्वास-प्रस्तुतिः ...{Loading}...
मयी॒दमिन्द्र॑ऽइन्द्रि॒यं द॑धात्व॒स्मान् रायो॑ म॒घवा॑नः सचन्ताम्। अ॒स्माकँ॑ सन्त्वा॒शिषः॑ स॒त्या नः॑ सन्त्वा॒शिष॒ऽउप॑हूता पृथि॒वी मा॒तोप॒ मां पृ॑थि॒वी मा॒ता ह्व॑यताम॒ग्निराग्नी॑ध्रा॒त् स्वाहा॑ ॥१०॥
मूलम् ...{Loading}...
मयी॒दमिन्द्र॑ऽइन्द्रि॒यं द॑धात्व॒स्मान् रायो॑ म॒घवा॑नः सचन्ताम्। अ॒स्माकँ॑ सन्त्वा॒शिषः॑ स॒त्या नः॑ सन्त्वा॒शिष॒ऽउप॑हूता पृथि॒वी मा॒तोप॒ मां पृ॑थि॒वी मा॒ता ह्व॑यताम॒ग्निराग्नी॑ध्रा॒त् स्वाहा॑ ॥१०॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मयि॑। इ॒दम्। इन्द्रः॑। इ॒न्द्रि॒यम्। द॒धा॒तु। अ॒स्मान्। रायः॑। म॒घवा॒न॒ इति॑ म॒घऽवा॑नः। स॒च॒न्ता॒म्। अ॒स्माक॑म्। स॒न्तु॒। आ॒शिष॒ इत्या॒ऽशिषः॑। स॒त्याः। नः॒। स॒न्तु॒। आ॒शिष॒ इत्या॒ऽशिषः॑। उप॑हू॒तेत्युप॑ऽहूता। पृ॒थि॒वी। मा॒ता। उप॑। माम्। पृ॒थि॒वी। मा॒ता। ह्व॒य॒ता॒म्। अ॒ग्निः। आग्नी॑ध्रात्। स्वाहा॑। १०।
महीधरः
म० ‘आशासने मयीदमिति यजमानो जपति’ (का० ३॥४॥ २१) इति । प्रधानयागानन्तरं पुरोडाशशेषप्राशनसमये होतरि आशिषं प्रयुञ्जाने सति यजमानो जपति । इन्द्रः परमेश्वर इदमिन्द्रियं मयि दधातु । इदम् अस्मदपेक्षितम् इन्द्रियं वीर्य मयि यजमाने स्थापयतु । किंच रायो धनानि दैवमानुषभेदेन द्विविधानि मघवानः धनवन्तश्चास्मान्यजमानान् सचन्तां सेवन्ताम् । ‘षच सेवने । किंच अस्माकं यजमानानामाशिषोऽभीष्टार्थस्याशंसनानि सन्तु विद्यन्ताम् । किंच नोऽस्माकमाशिषः पूर्वोक्ताः सत्या अवितथाः सन्तु । मघमिति धननाम तद्विद्यते येषां ते मघवानः । अस्त्यर्थे वन्प्रत्ययः (पा० ५। २ । १०९)। “एकैकमाहरति द्यावापृथिव्योरुपह्वानेऽग्नीधे षडवत्तम् । प्राश्नात्युपहूता पृथिवीति’ (का० ३।४।१८-२०) यदा होता द्यावापृथिव्योरुपह्वानं करोति तदोभयोः पुरोडाशयोरेकैकमंशं षडवत्ते षडवत्ते कृत्वाग्नीधे ददाति स चोपहूतेति मन्त्रेण तत्प्राश्नातीति सूत्रार्थः । उपहूता येयं पृथिवी दृश्यते सा जगतो माता निर्मात्री मयोपहूता अभ्यनुज्ञाता । सा च पृथिवी माता मातृत्वेनास्माभिर्भाविता सती मामुपह्वयतामनुजानातु हविःशेषभक्षणायाज्ञां ददातु । अहं चाग्नीध्रात् । अग्नीध इदं कर्माग्नीध्रं तस्माद्धेतोरग्निः सन् तं भागं प्राश्नामीति शेषः । स्वाहा सुहुतमस्तु जाठरेऽग्नौ ॥ १०॥
एकादशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- परमेष्ठी प्रजापतिर्ऋषिः
- भुरिग् ब्राह्मी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब अगले मन्त्र में उक्त यज्ञ से उत्पन्न होनेवाले फल का उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रः) परमेश्वर (मयि) मुझ में (इदम्) प्रत्यक्ष (इन्द्रियम्) ऐश्वर्य की प्राप्ति के चिह्न तथा परमेश्वर ने जो अपने ज्ञान से देखा वा प्रकाशित किया है और जो सब सुखों को सिद्ध करानेवाले जो विद्वानों को दिया है, जिस को वे इन्द्र अर्थात् विद्वान् लोग प्रीतिपूर्वक सेवन करते हैं, उन्हें तथा (रायः) विद्या सुवर्ण वा चक्रवर्त्ति राज्य आदि धनों को (दधातु) नित्य स्थापन करें और उसकी कृपा से तथा हमारे पुरुषार्थ से (मघवानः) जिनमें कि बहुत धन, राज्य आदि पदार्थ विद्यमान हैं, जिन करके हम लोग पूर्ण ऐश्वर्य्ययुक्त हों, वैसे धन (नः) हम विद्वान् धर्मात्मा लोगों को (सचन्ताम्) प्राप्त हों तथा इसी प्रकार (अस्माकम्) हम परोपकार करनेवाले धर्मात्माओं की (आशिषः) कामना (सत्याः) सिद्ध (सन्तु) हों और ऐसे ही (नः) हमारी (आशिषः) न्यायपूर्वक इच्छायुक्त जो क्रिया हैं, वे भी (सत्याः) सिद्ध (सन्तु) हों तथा इसी प्रकार (माता) धर्म, अर्थ, काम और मोक्ष की सिद्धि से मान्य करनेहारी विद्या और (पृथिवी) बहुत सुख देनेवाली भूमि है, (उपहूता) जिसको राज्य आदि सुख के लिये मनुष्य क्रम से प्राप्त होते हैं, वह (माम्) सुख की इच्छा करनेवाले मुझको (उपह्वयताम्) अच्छी प्रकार उपदेश करती है तथा मेरा अनुष्ठान किया हुआ यह (अग्निः) जिस भौतिक अग्नि को कि (आग्नीध्रात्) इन्धनादि से प्रज्वलित करते हैं, वह वाञ्छित सुखों का करनेवाला होकर (नः) हमारे सुखों का आगमन करावे, क्योंकि ऐसे ही अच्छी प्रकार होम को प्राप्त होके चाहे हुए कार्यों को सिद्ध करनेहारा होता है (स्वाहा) सब मनुष्यों के करने के लिये वेदवाणी इस कर्म को कहती है ॥१०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य पुरुषार्थी, परोपकारी, ईश्वर के उपासक हैं, वे ही श्रेष्ठ ज्ञान, उत्तम धन और सत्य कामनाओं को प्राप्त होते हैं, और नहीं। जो सब को मान्य देने के कारण इस मन्त्र में पृथिवी शब्द से भूमि और विद्या का प्रकाश किया है, सो ये सब मनुष्यों को उपकार में लाने के योग्य हैं। ईश्वर ने इस वेदमन्त्र से यही प्रकाशित किया है तथा जो नवम मन्त्र से अग्नि आदि पदार्थों से इच्छित सुख की प्राप्ति कही है, वही बात दशम मन्त्र से प्रकाशित की है ॥१०॥
दयानन्द-सरस्वती (सं) - विषयः
अथ तज्जन्यं फलमुपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - इन्द्रो मयीदमिन्द्रियं रायश्च दधातु तत्कृपया स्वपुरुषार्थेन च यथा वयं मघवानो भवेम, तथाऽस्मान् रायः सचन्ताम्, एवं चास्माकमाशिषः सत्याः सन्त्वेवं मातेयं पृथिवी विद्योपहूता च सती मामुपाह्वयतामुपदिशताम्। तथा मयाऽनुष्ठितोऽयमग्निराग्नीध्रादिष्टकृत्सन् नोऽस्माकं सुखान्युपह्वयति एवं सम्यग्घुतमिष्टकारि भवतीति स्वाहा वेदवाण्याह ॥१०॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये पुरुषार्थिन ईश्वरोपासकास्त एव शोभनं मनः, श्रेष्ठान्युत्तमानि धनानि, सत्या इच्छाश्च प्राप्नुवन्ति, नेतरे। सर्वस्य मान्यप्राप्तिहेतुत्वाद् भूमिविद्ये पृथिवीशब्देनात्र प्रकाशिते स्तः। सर्वैरेते सदोपकर्त्तव्ये भवत इतीश्वरोऽनेन वेदमन्त्रेणाह। नवममन्त्रेणाग्न्यादिभ्यः साधितेभ्य इष्टसुखप्राप्तिरुदिता, सैवानेन दशमेन मन्त्रेण प्रकाशितेति ॥१०॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी माणसे पुरुषार्थी, परोपकारी व ईश्वरभक्त असतात त्यांनाच श्रेष्ठ ज्ञान, उत्तम धन प्राप्त होते व त्यांच्या सर्व कामना पूर्ण होतात, इतरांच्या नव्हेत. या मंत्रात पृथ्वी या शब्दाचा अर्थ भूमी व विद्येचा प्रकाश असा केलेला आहे. तो सर्वांनी जाणावा, मान्य करावा व त्याचा लाभ घ्यावा. ईश्वराने या वेदमंत्रात हाच अर्थ प्रकट केलेला आहे. नवव्या मंत्रात अग्नीपासून इच्छित सुख मिळावे असे म्हटलेले आहे. तेच दहाव्या मंत्रातही स्पष्ट केलेले आहे.
११ उपहूतो द्यौष्पितोप
विश्वास-प्रस्तुतिः ...{Loading}...
उप॑हूतो॒ द्यौष्पि॒तोप॒ मां द्यौष्पि॒ता ह्व॑यताम॒ग्निराग्नी॑ध्रा॒त् स्वाहा॑। दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳙ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम्। प्रति॑ गृह्णाम्य॒ग्नेष्ट्वा॒स्ये᳖न॒ प्राश्ना॑मि ॥११॥
मूलम् ...{Loading}...
उप॑हूतो॒ द्यौष्पि॒तोप॒ मां द्यौष्पि॒ता ह्व॑यताम॒ग्निराग्नी॑ध्रा॒त् स्वाहा॑। दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳙ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम्। प्रति॑ गृह्णाम्य॒ग्नेष्ट्वा॒स्ये᳖न॒ प्राश्ना॑मि ॥११॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
उप॑हूत॒ इत्युप॑ऽहूतः। द्यौः। पि॒ता। उप॑। माम्। द्यौः। पि॒ता। ह्व॒य॒ता॒म्। अ॒ग्निः। आग्नी॑ध्रात्। स्वाहा॑। दे॒वस्य॑। त्वा॒। स॒वि॒तुः। प्र॒स॒व इति॑ प्रऽस॒वे। अ॒श्विनोः॑। बा॒हुभ्या॒मिति॑ बा॒हुऽभ्या॑म्। पू॒ष्णः। हस्ता॑भ्याम्। प्रति॑। गृ॒ह्णा॒मि॒। अ॒ग्नेः। त्वा॒। आ॒स्ये᳖न। प्र। अ॒श्ना॒मि॒। ११।
महीधरः
म० द्वितीयं प्राश्नाति । एवं द्यौः पिता जगत्पालक उपह्वयतामित्यादि समानार्थम् । देवस्य त्वा । इतःप्रभृति ‘ओंप्रतिष्ठ’ (ख० १३) इत्यन्तं ब्रह्मत्वम् । तस्याङ्गिरसो बृहस्पतिर्ऋषिः । ‘देवस्य त्वेति प्रतिगृह्णाति’ (का० २।२।१६) इति । ब्रह्मा देवस्य त्वेति प्राशित्रं गृह्णाति । मन्त्रो व्याख्यातः । प्रतिगृह्णामि स्वीकरोमीति शेषः । ‘अग्नेष्ट्वेति प्राश्नाति दन्तैरनुपस्पृशन्’ (का० २।२।१८) इति । हे प्राशित्र अग्नेः आस्य, ते वह्निदेवताया मुखेन त्वा त्वां प्राश्नामि भक्षयामि ॥ ११॥
द्वादशी।
अधिमन्त्रम् (VC)
- द्यावापृथिवी देवते
- परमेष्ठी प्रजापतिर्ऋषिः
- ब्राह्मी बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी अगले मन्त्र में उक्त अर्थ को दृढ़ किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - मुझसे जो (द्यौः) प्रकाशमय (पिता) सर्वपालक ईश्वर (उपहूतः) प्रार्थना किया हुआ (माम्) सुख भोगनेवाले मुझ को (उपह्वयताम्) अच्छी प्रकार स्वीकार करे, इसी प्रकार जो (द्यौः) प्रकाशवान् (पिता) सब उत्तम क्रियाओं के पालने का हेतु सूर्य्यलोक मुझसे (उपहूतः) क्रियाओं में प्रयुक्त किया हुआ (माम्) सब सुख भोगनेवाले मुझको विद्या के लिये (उपह्वयताम्) युक्त करता है, तथा जो (अग्निः) जाठराग्नि (स्वाहा) अच्छे भोजन किये हुए अन्न को (आग्नीध्रात्) उदर में अन्न के कोठे में पचा देता है, उससे मैं (देवस्य) हर्ष देने (सवितुः) और सब के उत्पन्न करनेवाले परमेश्वर के उत्पन्न किये हुए (प्रसवे) संसार में विद्यमान और (त्वा) उस उक्त भोग को (अश्विनोः) प्राण और अपान के (बाहुभ्याम्) आकर्षण और धारण गुणों से तथा (पूष्णः) पुष्टि के हेतु समान वायु के (हस्ताभ्याम्) शोधन वा शरीर के अङ्ग-अङ्ग में पहुँचाने के गुण से (प्रतिगृह्णामि) अच्छी प्रकार ग्रहण करता हूँ, ग्रहण करके (अग्नेः) प्रज्वलित अग्नि के बीच में पकाकर (त्वा) उस भोजन करने योग्य अन्न को (आस्येन) अपने मुख से (प्राश्नामि) भोजन करता हूँ ॥११॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। मनुष्यों को अपने आत्मा की शुद्धि के लिये अनन्त विद्या के प्रकाश करनेवाले परमेश्वर पिता का आह्वान अर्थात् अच्छी प्रकार नित्य सेवन करना चाहिये तथा विद्या की सिद्धि के लिये उदर की अग्नि को दीप्त कर और नेत्रों से अच्छी प्रकार देख के संस्कार किये हुए प्रमाणयुक्त अन्न का नित्य भोजन करना चाहिये। सब भोग इस संसार में जो कि ईश्वर के उत्पन्न किये पदार्थ हैं, उन से सिद्ध होते हैं। वह भोग विद्या और धर्मयुक्त व्यवहार से भोगना चाहिये और वैसे ही औरों को वर्ताना चाहिये। जो पूर्वमन्त्र से पृथिवी में विद्या से प्राप्त होने वा मान्य के करानेवाले पदार्थ कहे हैं, उनका भोग धर्म वा युक्ति के साथ सब मनुष्यों को करना चाहिये। ऐसा इस मन्त्र से प्रतिपादन किया है ॥११॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेवार्थं द्रढयति ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - मया द्यौः पितेश्वर उपहूतो मामुपह्वयतां स्वीकरोत्वेवं मया द्यौः पिता पालनहेतुः सूर्य्यलोक उपहूतः स्पर्द्धितः सन् मां विद्यायै उपह्वयति। योऽग्निः स्वाहा सुहुतं भुक्तमन्नमाग्नीध्रात् पचति, यो देवस्य सवितुः प्रसवे वर्त्तमानोऽस्ति, तमहं भोगमश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि। गृहीत्वा च प्रदीप्तस्याग्नेर्मध्ये पाचयित्वाऽऽस्येन प्राश्नामि ॥११॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। मनुष्यैरात्मशुद्ध्यर्थमनन्तविद्याप्रकाशकस्य परमेश्वरस्याह्वानं नित्यं कार्य्यम्। तथा च विद्यासिद्धये चक्षुषां संशोध्य जाठराग्निं प्रदीप्य, संस्कृतं मितमन्नं नित्यं भोक्तव्यम्। ईश्वरेण जगत्युत्पादितैः पदार्थैर्यः सर्वो भोगः सिध्यति, स च विद्याधर्मयुक्तेन व्यवहारेण भोक्तव्यो भोजयितव्यश्च। ये पूर्वमन्त्रेण पृथिव्यां विद्यया प्राप्तव्या मान्यकारिणः पदार्था उक्तास्तेषां भोगो धर्मेण युक्त्या च सर्वैः कार्य्य इत्यनेन प्रतिपादितः ॥११॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. माणसांनी आपल्या आत्म्याच्या शुद्धीसाठी अनन्त विद्या प्रकट करणारा असा जो पितारूपी परमेश्वर आहे. त्याचा आदेश चांगल्या प्रकारे पालन केला पाहिजे. विद्येची सिद्धी करावयाची असेल तर जठराग्नी प्रदीप्त केला पाहिजे. डोळ्यांनी परीक्षा केलेले, संस्कारित व प्रमाणित केलेले अन्न खाल्ले पाहिजे. ईश्वराने निर्माण केलेल्या पदार्थांपासूनच सर्व भोग प्राप्त होऊ शकतात. त्यामुळे त्या पदार्थांचा भोग ज्ञानाने व धर्मयुक्त व्यवहाराने भोगला पाहिजे व इतरांनाही तसेच भोगावयास लावले पाहिजे. या पूर्वीच्या मंत्रात पृथ्वीवरील विद्येने प्राप्त होणाऱ्या पदार्थांचा उल्लेख केलेला आहे. त्यांचा माणसांनी धर्माने व युक्तीने उपभोग करावा, असे म्हटले आहे. तेच या मंत्रातही सांगितलेले आहे.
१२ एतं ते
विश्वास-प्रस्तुतिः ...{Loading}...
ए॒तं ते॑ देव सवितर्य॒ज्ञं प्राहु॒र्बृह॒स्पत॑ये ब्र॒ह्मणे॑। तेन॑ य॒ज्ञम॑व॒ तेन॑ य॒ज्ञप॑तिं॒ तेन॒ माम॑व ॥१२॥
मूलम् ...{Loading}...
ए॒तं ते॑ देव सवितर्य॒ज्ञं प्राहु॒र्बृह॒स्पत॑ये ब्र॒ह्मणे॑। तेन॑ य॒ज्ञम॑व॒ तेन॑ य॒ज्ञप॑तिं॒ तेन॒ माम॑व ॥१२॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ए॒तम्। ते॒। दे॒व॒। स॒वि॒तः॒। य॒ज्ञम्। प्र। आ॒हुः॒। बृह॒स्पत॑ये। ब्र॒ह्मणे॑। तेन॑। य॒ज्ञम्। अ॒व॒। तेन॑। य॒ज्ञप॑ति॒मिति॑ य॒ज्ञऽप॑तिम्। तेन॑। माम्। अ॒व॒। १२।
महीधरः
म० ‘एतं त इति समिदामन्त्रितः प्रसौति’ (का० २। २।२१) इति समिधमाधातुमनुज्ञाप्रदानाय बोधितो ब्रह्मा मन्त्रेणानुजानीयात् । एतं त इत्यादिः ओंप्रतिष्ठेत्यन्तो मन्त्रः । हे देव दानादिगुणयुक्त, हे सवितः प्रसवितः, एतं यज्ञमिदानीं क्रियमाणमिमं मखं ते तुभ्यं त्वदर्थं प्राहुर्यजमानाः कथयन्ति । अनुज्ञापयन्तीत्यर्थः । किंच त्वया प्रेरितो देवानां यज्ञे यो ब्रह्मा तस्मै ब्रह्मणे बृहस्पतये च प्राहुः बृहस्पतिर्वै देवानां ब्रह्मा तदधिष्ठित एवायं मानुषो ब्रह्मत्वं करोति । किंच । तेन हेतुना त्वदीयत्वेन यज्ञमव रक्ष । तथा तेनैव हेतुना यज्ञपतिं यजमानं चाव रक्ष । तथा तेनैव हेतुना मां ब्रह्माणमव पालय ॥ १२॥
त्रयोदशी।
अधिमन्त्रम् (VC)
- सविता देवता
- परमेष्ठी प्रजापतिर्ऋषिः
- भुरिग् बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
किस प्रयोजन के लिये और किस ने यह विद्या का प्रबन्ध प्रकाशित किया है, सो अगले मन्त्र में उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (देव) दिव्य सुख वा उत्तम गुण देने तथा (सवितः) सब ऐश्वर्य का विधान करनेवाले जगदीश्वर ! वेद और विद्वान् आप के प्रकाशित किये हुए (एतम्) इस पूर्वोक्त यज्ञ को (प्राहुः) अच्छी प्रकार कहते हैं कि जिससे (बृहस्पतये) बड़ों में बड़ी जो वेदवाणी है, उसके पालन करनेवाले (ब्रह्मणे) चारों वेदों के पढ़ने से ब्रह्मा की पदवी को प्राप्त हुए विद्वान् के लिये सुख और श्रेष्ठ अधिकार प्राप्त होते हैं। इस (यज्ञम्) यज्ञ सम्बन्धी धर्म से (यज्ञपतिम्) यज्ञ को करने वा सब प्राणियों को सुख देनेवाले विद्वान् और उस विद्या वा धर्म के प्रकाश से (माम्) मेरी भी (अव) रक्षा कीजिये ॥१२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ईश्वर ने सृष्टि के आदि में दिव्यगुणवाले अग्नि, वायु, रवि और अङ्गिरा ऋषियों के द्वारा चारों वेद के उपदेश से सब मनुष्यों के लिये विद्याप्राप्ति के साथ यज्ञ के अनुष्ठान की विधि का उपदेश किया है, जिससे सब की रक्षा होती है, क्योंकि विद्या और शुद्धि क्रिया के बिना किसी को सुख वा सुख की रक्षा प्राप्त नहीं हो सकती। इसलिये हम सब को उचित है कि परस्पर प्रीति के साथ अपनी वृद्धि और रक्षा यत्न से करनी चाहिये। जो ग्यारहवें मन्त्र से यज्ञ का फल कहा है, उसका प्रकाश परमेश्वर ही ने किया है, ऐसा इस मन्त्र से विधान है ॥१२॥
दयानन्द-सरस्वती (सं) - विषयः
कस्मै प्रयोजनाय केनायं विद्याप्रबन्धः प्रकाशित इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे देव सवितर्जगदीश्वर ! वेदा विद्वांसश्च यमेतं यज्ञं भवत्प्रकाशितं प्राहुर्येन बृहस्पतये ब्रह्मणे सुखाधिकाराः प्राप्नुवन्ति, तेनेमं यज्ञं यज्ञपतिं मां चाव सततं रक्ष ॥१२॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ईश्वरेण सृष्ट्यादौ गुणवद्भ्योऽग्निवायुरव्यङ्गिरोभ्यश्चतुर्वेदोपदेशेन सर्वेषां मनुष्याणां विद्याप्राप्त्या सुखाय यज्ञानुष्ठानविधिरुपदिष्टोऽनेनैव रक्षणविधानं च। नैव विद्याशुद्धिक्रियाभ्यां विना कस्यचित् सुखरक्षणे भवितुमर्हतस्तस्मात् सर्वैः परस्परं प्रीत्यै तयोर्वृद्धिरक्षणे प्रयत्नतः सदैव कार्य्ये। यश्चैकादशेन मन्त्रेण यज्ञफलभोग उक्तस्तत्प्रकाश ईश्वरेणैव कृत इति गम्यते ॥१२॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ईश्वराने सृष्टीच्या आरंभी माणसांसाठी दिव्य गुणांनी युक्त असलेल्या अग्नी, वायू, आदित्य व अंगीरा ऋषीद्वारे चारही वेदांमधून विद्या व यज्ञाच्या अनुष्ठानाचाही उपदेश केलेला आहे. त्यामुळे सर्वांचे रक्षण होते, कारण वेदविद्या व यज्ञाद्वारे शुद्धिक्रिया केल्याखेरीज कुणालाही सुख मिळू शकत नाही व सुखाचे रक्षणही होऊ शकत नाही. म्हणून प्रयत्नपूर्वक व परस्पर प्रेमाने आपले रक्षण व्हावे व उन्नतीही व्हावी, असे वागले पाहिजे. अकराव्या मंत्रात यज्ञाच्या ज्या फळाचे वर्णन केलेले आहे त्याचेच स्पष्टीकरण या मंत्रात केले आहे.
१३ मनो जूतिर्जुषतामाज्यस्य
विश्वास-प्रस्तुतिः ...{Loading}...
मनो॑ जू॒तिर्जु॑षता॒माज्य॑स्य॒ बृह॒स्पति॑र्य॒ज्ञमि॒मं त॑नो॒त्वरि॑ष्टं य॒ज्ञँ समि॒मं द॑धातु। विश्वे॑ दे॒वास॑ऽइ॒ह मा॑दयन्ता॒मो३म्प्रति॑ष्ठ ॥१३॥
मूलम् ...{Loading}...
मनो॑ जू॒तिर्जु॑षता॒माज्य॑स्य॒ बृह॒स्पति॑र्य॒ज्ञमि॒मं त॑नो॒त्वरि॑ष्टं य॒ज्ञँ समि॒मं द॑धातु। विश्वे॑ दे॒वास॑ऽइ॒ह मा॑दयन्ता॒मो३म्प्रति॑ष्ठ ॥१३॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मनः॑। जू॒तिः। जु॒ष॒ता॒म्। आज्य॑स्य। बृह॒स्पतिः॑। य॒ज्ञम्। इ॒मम्। त॒नो॒तु॒। अरि॑ष्टम्। य॒ज्ञम्। सम्। इ॒मम्। द॒धा॒तु॒। विश्वे॑। दे॒वासः॑। इ॒ह। मा॒द॒य॒न्ता॒म्। ओ३म्। प्र। ति॒ष्ठ॒। १३।
महीधरः
म० किंच । मनः आज्यस्य जुषताम् । कर्मणि षष्ठी। मनः घृतं सेवताम् । हे सवितः, त्वदीयं चित्तं यज्ञसंबन्धिन्याज्ये स्थापयेत्यर्थः । किंभूतं मनः । जूतिः । जवतेर्गतिकर्मणो जूतिरिति क्तिन्प्रत्ययान्तो निपातः । स्त्रीत्वं छान्दसम् । अतीतानागतवर्तमानकालगतपदार्थेषु गमनशीलं हि मनः । जवते शीघ्रं गच्छतीति जूतिः । किंच बृहस्पतिरिमं यज्ञं तनोतु विस्तारयतु ब्रह्मत्वात् । तत इमं यज्ञमरिष्टं हिंसारहितं कृत्वा संदधातु । इडाभक्षणेन हि मध्ये यज्ञो विच्छिन्न इत्येवमुच्यते । किंच विश्वेदेवासः सर्वे देवाः इह यज्ञकर्मणि मादयन्ताम् । ‘मद तृप्तौ’ चुरादिः । तृप्यन्ताम् । एवं प्रार्थितः सविता देवः ओंप्रतिष्ठेत्यनुज्ञां प्रयच्छतु । ओमित्यङ्गीकारार्थः । तथास्तु । प्रतिष्ठ प्रयाणं कुरु । समिदाधानकाले यजमानस्याभिप्रेतं प्रयाणमवगम्य सविता देवोऽङ्गीकृत्य प्रयाणे प्रेरयतीत्यर्थः ॥ १३ ॥
चतुर्दशी।
अधिमन्त्रम् (VC)
- बृहस्पतिर्देवता
- परमेष्ठी प्रजापतिर्ऋषिः
- विराड् जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
जिससे यज्ञ किया जा सकता है, सो विषय अगले मन्त्र में प्रकाशित किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (जूतिः) अपने वेग से सब जगह जानेवाला (मनः) विचारवान् ज्ञान का साधन मेरा मन (आज्यस्य) यज्ञ की सामग्री का (जुषताम्) सेवन करे (बृहस्पतिः) बड़े-बड़े जो प्रकृति और आकाश आदि पदार्थ हैं, उनका जो पति अर्थात् पालन करने हारा ईश्वर है, वह (इमम्) इस प्रकट और अप्रकट (अरिष्टम्) अहिंसनीय (यज्ञम्) सुखों के भोगरूपी यज्ञ को (तनोतु) विस्तार करे तथा (इमम्) इस (अरिष्टम्) जो छोड़ने योग्य नहीं (यज्ञम्) जो हमारे अनुष्ठान करने योग्य विज्ञान की प्राप्तिरूप यज्ञ है, इस को (संदधातु) अच्छी प्रकार धारण करावे। हे (विश्वे देवासः) सकल विद्वान् लोगो ! तुम इन पालन करने योग्य दो यज्ञों का धारण वा विस्तार करके (इह) इस संसार वा अपने मन में (मादयन्ताम्) आनन्दित होओ। हे (ओ३म्) ओंकार के अर्थ जगदीश्वर ! आप (बृहस्पतिः) प्रकृत्यादि के पालन करने हारे (इह) इस संसार वा विद्वानों के हृदय में (प्रतिष्ठ) कृपा करके इस यज्ञ वा वेदविद्यादि को स्थापन कीजिये ॥१३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ईश्वर आज्ञा देता है कि हे मनुष्यो ! तुम्हारा मन अच्छे ही कामों में प्रवृत्त हो तथा मैंने जो संसार में यज्ञ करने की आज्ञा दी है, उसका उक्त प्रकार से यथावत् अनुष्ठान करके सुखी हो तथा औरों को भी सुखी करो। (ओम्) यह परमेश्वर का नाम है, जैसे पिता और पुत्र का प्रिय सम्बन्ध है, वैसे ही परमेश्वर के साथ (ओम्) ओंकार का सम्बन्ध है, तथा अच्छे कामों के बिना किसी की प्रतिष्ठा नहीं हो सकती, इसलिये सब मनुष्यों को सर्वथा अधर्म छोड़कर धर्म कामों का ही सेवन करना योग्य है, जिससे संसार में निश्चय करके अविद्यारूपी अन्धकार निवृत्त होकर विद्यारूपी सूर्य्य प्रकाशित हो। बारहवें मन्त्र से जिस यज्ञ का प्रकाश किया था, उसके अनुष्ठान से सब मनुष्यों की प्रतिष्ठा वा सुख होते हैं, यह इस में प्रकाशित किया है ॥१३॥
दयानन्द-सरस्वती (सं) - विषयः
येन यज्ञः कर्तुं शक्यस्तदुपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - मम जूतिर्मन आज्यस्य जुषतां बृहस्पतिर्यमिमं यज्ञमरिष्टं तनोतु संदधातु। हे विश्वे देवास ! एतमरिष्टं यज्ञद्वयं संतन्य संधाय चेह मादयन्ताम्। हे ओंकारवाच्य बृहस्पते ! त्वमिह प्रतिष्ठ कृपयेमं यज्ञं विद्यां च प्रतिष्ठापय ॥१३॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ईश्वर आज्ञापयति हे मनुष्या ! युष्मन्मनः सत्कर्माण्येव प्राप्नोतु, मया योऽयं संसारे यज्ञः कर्त्तुमाज्ञाप्यते तमेवानुष्ठाय सुखिनो भवन्तु भावयन्तु वा। ओमिति परमेश्वरस्यैव नाम, यथा पितापुत्रयोः प्रियः सम्बन्धस्तथैवेश्वरेण सहोंकारस्य सम्बन्धोऽस्ति। नैव कस्यचित् सत्क्रियया विना प्रतिष्ठा भवितुमर्हति। तस्मात् सर्वैर्मनुष्यैः सर्वधाऽधर्मं विहाय धर्मकार्य्याण्येव सेवनीयानि। यतः खल्वविद्यान्धकारनिवृत्तये विद्यार्कः प्रकाशेत। द्वादशमन्त्रेण यो यज्ञः प्रकाशितस्तस्यानुष्ठानेन सर्वेषां प्रतिष्ठासुखे भवत इत्यनेन प्रकाशितम् ॥१३॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ईश्वर आज्ञा देतो की हे माणसांनो ! तुमचे मन सत्कर्माकडे प्रवृत्त व्हावे यासाठी मी यज्ञ करण्याची आज्ञा दिलेली आहे. वरील विधीनुसार त्याचे अनुष्ठान करून सुखी व्हावे व इतरांनाही सुखी करावे. ओ३म् हे परमेश्वराचे नाव आहे. ज्याप्रमाणे पिता व पुत्राचा प्रेमाचा संबंध असतो त्याप्रमाणेच परमेश्वर व ओ३म चा संबंध आहे. सत्कर्माशिवाय कुणालाही प्रतिष्ठा प्राप्त होत नाही. सर्व माणसांनी नेहमी अधर्माचा त्याग करून धार्मिक कार्य अंगीकारले पाहिजे. त्यामुळे जगात निश्चितपणे अविद्यारूपी अंधकार नष्ट होऊन विद्यारूपी सूर्याचा उदय होईल. बाराव्या मंत्रात यज्ञासंबंधी जे वर्णन केलेले आहे त्याच्या अनुष्ठानाने सर्व माणसांना प्रतिष्ठा व सुख प्राप्त होते. या मंत्रात हेच विशद केलेले आहे.
१४ एषा तेऽअग्ने
विश्वास-प्रस्तुतिः ...{Loading}...
ए॒षा ते॑ऽअग्ने स॒मित्तया॒ वर्ध॑स्व॒ चा च प्यायस्व। व॒र्धि॒षी॒महि॑ च व॒यमा च॑ प्यासिषीमहि। अग्ने॑ वाजजि॒द् वाजं॑ त्वा संसृ॒वाँसं॑ वाज॒जितँ॒ सम्मा॑र्ज्मि ॥१४॥
मूलम् ...{Loading}...
ए॒षा ते॑ऽअग्ने स॒मित्तया॒ वर्ध॑स्व॒ चा च प्यायस्व। व॒र्धि॒षी॒महि॑ च व॒यमा च॑ प्यासिषीमहि। अग्ने॑ वाजजि॒द् वाजं॑ त्वा संसृ॒वाँसं॑ वाज॒जितँ॒ सम्मा॑र्ज्मि ॥१४॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ए॒षा। ते॒। अ॒ग्ने॒। स॒मिदिति॑ स॒म्ऽइत्। तया॑। वर्ध॑स्व। च॒। आ॒। च॒। प्या॒य॒स्व॒। व॒र्धि॒षी॒महि॑। च॒। व॒यम्। आ। च॒। प्या॒सि॒षी॒म॒हि॒। अग्ने॑। वा॒ज॒जि॒दिति॑ वाजऽजित्। वाज॑म्। त्वा॒। स॒सृ॒वाँस॒मिति॑ स॒सृ॒वाँस॑म्। वा॒ज॒जित॒मिति॑ वाज॒ऽजित॑म्। सम्। मा॒र्ज्मि॒। १४।
महीधरः
म० एषा त इति होतानुमन्त्रयते’ (का० ३ । ५। २) इति । ब्रह्मत्वं समाप्तम् । अतः प्राकृतमार्षम् । इयमनुष्टुबग्निदेवत्या । हे अग्ने, एषा ते तव समित् समिन्धनहेतुः काष्ठविशेषः । तया समिधा त्वं वर्धस्व वृद्धिं गच्छ । आप्यायस्व च । अस्मानपि सर्वतो वृद्धिं प्रापय । तथाच सति त्वत्प्रसादाद्वयं वर्धिषीमहि वृद्धिं प्राप्नुयाम प्यासिषीमहि च । अस्मदीयपुत्रपश्वादीन्सर्वतो वृद्धान्करवाम । ‘संमार्ष्टि पूर्ववदपरिक्रामᳪं᳭ सकृत्सकृत्ससृवाᳪं᳭सम्’ (का० ३।५। ४) इति । ‘पूर्वमग्ने वाजजिदिति’ (ख० ७) मन्त्रेण यथेध्मसन्नहनैरग्नेः संमार्गः कृतस्तथात्रापि संमार्ष्टि । तत्र परिक्रम्य त्रिस्त्रिः कृतः । अत्र तु परिक्रमणं विनैकैकवारमिति विशेष इति सूत्रार्थः । मन्त्रो व्याख्यातः । इयान्विशेषः । हे अग्ने, त्वां संमार्ज्मि । किंभूतं त्वाम् । वाजं ससृवांसमन्नमुद्दिश्य गतवन्तमन्नं संपादितवन्तमित्यर्थः । अन्यत् पूर्ववत् ॥ १४ ॥
पञ्चदशी।
अधिमन्त्रम् (VC)
- अग्निः सर्वस्य
- परमेष्ठी प्रजापतिर्ऋषिः
- अनुष्टुप्, भुरिग् आर्ची गायत्री
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
यज्ञ में अग्नि से कैसे उपकार लेना चाहिये, सो अगले मन्त्र में प्रकाश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) परमेश्वर ! (ते) आपकी जो (एषा) यह (समित्) अच्छी प्रकार पदार्थों के गुणों की प्रकाश करनेवाली वेदविद्या है, (तया) उससे हम लोगों की की हुई स्तुति को प्राप्त होकर आप नित्य (वर्धस्व) हमारे ज्ञान में वृद्धि को प्राप्त हूजिये, (च) और उस वेदविद्या से हम लोगों की भी नित्य वृद्धि कीजिये। इसी प्रकार हे भगवन् ! आप के गुणों को जाननेहारे हम लोगों से (च) भी प्रकाशित होकर आप (प्यायस्व) हमारे आत्माओं में वृद्धि को प्राप्त हूजिये। इसी प्रकार हम को भी बढ़ाइये। हे भगवन् ! (अग्ने) विज्ञानस्वरूप विजय देने और (वाजजित्) सब के वेग को जीतनेवाले परमेश्वर हम लोग (वाजम्) जो कि ज्ञानस्वरूप (ससृवांसम्) अर्थात् सबको जाननेवाले (त्वा) आपकी (वर्धिषीमहि) स्तुतियों से वृद्धि तथा प्राप्ति करें (च) और आप कृपा करके हम को भी सब के वेग के जीतने तथा ज्ञानवान् अर्थात् सब के मन के व्यवहारों को जाननेवाले कीजिये और जैसे हम लोग आपकी (आप्यासिषीमहि) अधिक-अधिक स्तुति करें, वैसे ही आप भी हम लोगों को सब उत्तम-उत्तम गुण और सुखों से (आप्यायस्व) वृद्धियुक्त कीजिये। हम आपके आश्रय को प्राप्त होकर तथा आपकी आज्ञा के पालने से (संमार्ज्मि) अच्छी प्रकार शुद्ध होते हैं ॥१॥ जो (एषा) यह (अग्ने) भौतिक अग्नि है (ते) उसकी (समित्) बढ़ाने अर्थात् अच्छी प्रकार प्रदीप्त करनेवाली लकड़ियों का समूह है (तया) उससे यह अग्नि (वर्धस्व) बढ़ता और (आप्यायस्व) परिपूर्ण भी होता है। हम लोग (त्वा) उस (वाजम्) वेग और (ससृवांसम्) शिल्पविद्या के गुणों को देने तथा (वाजजितम्) संग्राम के जिताने के साधन अग्नि को विद्या की वृद्धि के लिये (वर्धिषीमहि) बढ़ाते हैं। (च) और (आप्यासिषीमहि) कलाओं में परिपूर्ण भी करते हैं, जिससे यह शिल्पविद्या से सिद्ध किये हुए विमान आदि यानों तथा वेगवाले शिल्पविद्या के गुणों की प्राप्ति से संग्राम को जितानेवाले हमको विजय के साथ बढ़ाता है, इससे (त्वा) उस अग्नि को हम (संमार्ज्मि) अच्छी प्रकार प्रयोग करते हैं ॥२॥१४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है और एक-एक अर्थ के दो-दो क्रियापद आदर के लिये जानने चाहिये। जो मनुष्य परमेश्वर की आज्ञा के पालने और क्रिया की कुशलता में उन्नति को प्राप्त होते हैं, वे विद्या और सुख में सब को आनन्दित कर और दुष्ट शत्रुओं को जीतकर शुद्ध होके सुखी होते हैं। जो आलस्य करनेवाले हैं, वे ऐसे कभी नहीं हो सकते और चार चकारों से ईश्वर की धर्मयुक्त आज्ञा सूक्ष्म वा स्थूलता से अनेक प्रकार की और क्रियाकाण्ड में करने योग्य कार्य्य भी अनेक प्रकार के हैं, ऐसा समझना चाहिये। जो तेरहवें मन्त्र में वेदविद्या कही है, उस से सुख के लिये यज्ञ का सन्धान तथा पुरुषार्थ करना चाहिये, ऐसा इस मन्त्र में प्रतिपादन किया है ॥१४॥
दयानन्द-सरस्वती (सं) - विषयः
अग्निना यज्ञे कथमुपकारो ग्राह्य इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने जगदीश्वर ! ते तव यैषा समित् वेदविद्यास्ति तयास्माभिः स्तुतः सँस्त्वं वर्धस्व चास्मान् नित्यं वर्धय। हे भगवन्नेवं भवद्विदितगुणैरस्माभिः प्रकाशितः संस्त्वं प्यायस्व चास्मान् नित्यं प्यायय। हे भगवन्नग्ने वाजजिद्वाजं ससृवांसं त्वां वयं वर्धिषीमहि। कृपया भवान् चास्मानपि वाजजितः सस्रुषो वाजान् करोतु, यथा वयं भवन्तमाप्यासिषीमहि, तथैव भवांश्चास्मान् सर्वैः शुभगुणैराप्यायताम्। अहं भवन्तमाश्रित्य संमार्ज्मि भवदाज्ञानुष्ठानेन शुद्धो भवामीत्येकः ॥ यैषा तेऽस्याग्नेर्वर्धिका समिदस्ति तया चायं वर्धते आप्यायते च वयं तं वाजं ससृवांसं वाजजितमग्निं विद्यावृद्धये वर्धिषीमहि, आप्यासिषीमहि च। यतोऽयं शिल्पविद्यासिद्धैर्विमानादिभिर्यानैर्वाजान् सस्रुषो वाजजितोऽस्मान् विजयेन वर्धयति, तमहं संमार्ज्मीति द्वितीयः ॥१४॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। क्रियाद्वयं चादरार्थं विज्ञेयम्। ये मनुष्याः परमेश्वराज्ञापालने क्रियाकौशले च वर्धन्ते, ते विद्यायां सर्वानानन्दयित्वा दुष्टान् शत्रून् जित्वा शुद्धा भूत्वा सुखयन्ति, नेतरेऽलसाः। चकारचतुष्टयेनेश्वराज्ञा धर्म्या सूक्ष्मस्थूलतयाऽनेकविधास्ति तथा क्रियाकाण्डे कर्त्तव्यानि कर्माण्यनेकानि सन्तीति विज्ञेयम्। त्रयोदशमन्त्रेण या वेदविद्या प्रतिपादितास्ति, तया सुखार्थं यज्ञसंधानमुक्तमनेनैतयैवं पुरुषार्थः कार्य्य इति प्रकाशितम् ॥१४॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. एकेका अर्थाची दोन दोन क्रियापदे आदरासाठी वापरलेली आहेत. जी माणसे परमेश्वराच्या आज्ञेचे पालन करतात व कर्मकुशलतेने ज्यांची उन्नती होते, त्यांना विद्या व सुख प्राप्त होऊन ती सर्वांना आनंदित करतात आणि दुष्ट शत्रूंना जिंकून घेतात व सुखी होतात. जी माणसे आळशी असतात ती अशा प्रकारचा व्यवहार कधीच करीत नाहीत. चार चकारांनी ईश्वराची आज्ञा सूक्ष्म व स्थूलरूपाने पालन करून ही अनेक प्रकारची कार्ये करावयाची असतात, हे जाणले पाहिजे. तेराव्या मंत्रात वेदविद्येबाबत जे सांगितले आहे त्याद्वारे सुख लाभावे म्हणून यज्ञाचे अनुष्ठान करावे व पुरुषार्थ करावा, असे या मंत्रात प्रतिपादित केलेले आहे.
१५ अग्नीषोमयोरुज्जितिमनूज्जेषं वाजस्य
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्नीषोम॑यो॒रुज्जि॑ति॒मनूज्जे॑षं॒ वाज॑स्य मा प्रस॒वेन॒ प्रोहा॑मि। अ॒ग्नीषोमौ॒ तमप॑नुदतां॒ यो᳙ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो वाज॑स्यैनं प्रस॒वेनापो॑हामि। इ॒न्द्रा॒ग्न्योरुज्जि॑ति॒मनूज्जे॑षं॒ वाज॑स्य मा प्रस॒वेन॒ प्रोहा॑मि। इ॒न्द्रा॒ग्नी तमप॑नुदतां॒ यो᳙ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो वाज॑स्यैनं प्रस॒वेनापो॑हामि ॥१५॥
मूलम् ...{Loading}...
अ॒ग्नीषोम॑यो॒रुज्जि॑ति॒मनूज्जे॑षं॒ वाज॑स्य मा प्रस॒वेन॒ प्रोहा॑मि। अ॒ग्नीषोमौ॒ तमप॑नुदतां॒ यो᳙ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो वाज॑स्यैनं प्रस॒वेनापो॑हामि। इ॒न्द्रा॒ग्न्योरुज्जि॑ति॒मनूज्जे॑षं॒ वाज॑स्य मा प्रस॒वेन॒ प्रोहा॑मि। इ॒न्द्रा॒ग्नी तमप॑नुदतां॒ यो᳙ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो वाज॑स्यैनं प्रस॒वेनापो॑हामि ॥१५॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒ग्नीषोम॑योः। उज्जि॑ति॒मित्युत्ऽजि॑तिम्। अनु॑। उत्। जे॒ष॒म्। वाज॑स्य। मा॒ प्र॒स॒वेनेति॑ प्रऽस॒वेन॑। प्र। ऊ॒हा॒मि॒। अ॒ग्नीषोमौ॑। तम्। अप॑। नु॒द॒ता॒म्। यः। अ॒स्मान्। द्वेष्टि॑। यम्। च॒। व॒यम्। द्वि॒ष्मः। वाज॑स्य। ए॒न॒म्। प्र॒स॒वेनेति॑ प्रऽस॒वेन॑। अप॑। ऊ॒हा॒मि। इ॒न्द्रा॒ग्न्योः। उज्जि॑ति॒मित्युत्ऽजि॑तिम्। अनु॑। उत्। जे॒ष॒म्। वाज॑स्य। मा। प्र॒स॒वेनेति॑ प्रऽस॒वेन॑। प्र। ऊ॒हा॒मि॒। इ॒न्द्रा॒ग्नीऽइती॑न्द्रा॒ग्नी। तम्। अप॑। नु॒द॒ता॒म्। यः। अ॒स्मान्। द्वेष्टि॑। यम्। च॒। व॒यम्। द्वि॒ष्मः। वाज॑स्य। ए॒न॒म्। प्र॒स॒वेनेति॑ प्रऽस॒वेन॑। अप॑। ऊ॒हा॒मि॒। १५।
महीधरः
म० ‘जुहूपभृतौ व्यूहत्यग्नीषोमयोरिति’ (का० ३।५। १७-१८) इति । तत्र जुहूं प्राचीं प्रेरयति यजमानः । व्यूहनं परस्परविपरीतत्वेनापनोदनम् । अग्नीषोमयोर्द्वितीयपुरोडाशदेवतयोरुज्जितिमनु अविघ्नेन हविःस्वीकाररूपमुत्कृष्टं जयमनुसृत्याहमुज्जेषमुत्कृष्टं जयं प्राप्तवानस्मि । वाजस्यान्नस्य पुरोडाशादेः प्रसवेनाभ्यनुज्ञया मां प्रोहामि मां यजमानं जुहूरूपधारिणं प्रोत्साहयामि । यद्यप्यूहतिधातुर्वितर्कार्थस्तदाप्युपसर्गवशादुत्साहार्थः । अन्यत्पूर्ववत् । उपभृतं प्रतीचीं प्रेरयति । यः शत्रुरसुरादिरस्मान्द्वेष्टि अस्मदीययज्ञविनाशाय द्वेषं करोति । यं च वयं द्विष्मः । यमालस्यादिरूपमस्मदीयानुष्ठानविरोधिनं शत्रुं द्विष्मः विनाशायोद्योगं कुर्मः तमुभयविधं शत्रुमग्नीषोमौ देवावपनुदतां निराकुरुताम् । किंच । अहमप्येनं द्विविधं शत्रुमुपभृद्रूपं वाजस्य प्रसवेन पुरोडाशदेवताया अभ्यनुज्ञयापोहामि निराकरोमि । उत्तरौ मन्त्रौ ( इन्द्राग्नी ) दर्शदेवताविषयौ समानार्थौ ॥ १५ ॥
षोडशी।
अधिमन्त्रम् (VC)
- अग्नीषोमौ देवते
- परमेष्ठी प्रजापतिर्ऋषिः
- ब्राह्मी बृहती, निचृद् अतिजगती
- मध्यमः, निषादः
दयानन्द-सरस्वती (हि) - विषयः
अब उस यज्ञ से क्या क्या दूर करना चाहिये, यह विषय अगले मन्त्र में प्रकाशित किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - मैं (अग्नीषोमयोः) प्रसिद्ध भौतिक अग्नि और चन्द्रलोक के (उज्जितिम्) दुःख के सहने योग्य शत्रुओं को (अनूज्जेषम्) यथाक्रम से जीतूँ और (वाजस्य) युद्ध के (प्रसवेन) उत्पादन से विजय करनेवाले (मा) अपने आप को (प्रोहामि) अच्छी प्रकार शुद्ध तर्कों से युक्त करूँ। जो मुझ से अच्छी प्रकार विद्या से क्रियाकुशलता में युक्त किये हुए (अग्नीषोमौ) उक्त अग्नि और चन्द्रलोक हैं, वे (यः) जो कि अन्याय में वर्त्तनेवाला दुष्ट मनुष्य (अस्मान्) न्याय करनेवाले हम लोगों को (द्वेष्टि) शत्रुभाव से वर्त्तता है (यं च) और जिस अन्याय करनेवाले से (वयम्) न्यायाधीश हम लोग (द्विष्मः) विरोध करते हैं, (तम्) उस शत्रु वा रोग को (अपनुदताम्) दूर करते हैं और मैं भी (एनम्) इस दुष्ट शत्रु को (वाजस्य) यान वेगादि गुणों से युक्त सेनावाले संग्राम की (प्रसवेन) अच्छी प्रकार प्रेरणा से (अपोहामि) दूर करता हूँ। मैं (इन्द्राग्न्योः) वायु और विद्युत् रूप अग्नि की (उज्जितिम्) विद्या से अच्छी प्रकार उत्कर्ष को (अनूज्जेषम्) अनुक्रम से प्राप्त होऊँ और मैं (वाजस्य) ज्ञान की प्रेरणा के द्वारा वेग की प्राप्ति के (प्रसवेन) ऐश्वर्य्य के अर्थ उत्पादन से वायु और बिजुली की विद्या के जाननेवाले (माम्) अपने आप को नित्य (प्रोहामि) अच्छी प्रकार तर्कों से सुखों को प्राप्त होता हूँ और मुझ से जो अच्छे प्रकार सिद्ध किये हुए (इन्द्राग्नी) वायु और विद्युत् अग्नि हैं, वह (यः) जो मूर्ख मनुष्य (अस्मान्) हम विद्वान् लोगों से (द्वेष्टि) अप्रीति से वर्त्तता है (च) और (यम्) जिस मूर्ख से (वयम्) हम विद्वान् लोग (द्विष्मः) अप्रीति से वर्तते हैं (तम्) उस वैर करनेवाले मूढ़ को (अपनुदताम्) दूर करते हैं तथा मैं भी (एनम्) इसे (वाजस्य) विज्ञान के (प्रसवेन) प्रकाश से (अपोहामि) अच्छी-अच्छी शिक्षा दे कर शुद्ध करता हूँ ॥१५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ईश्वर उपदेश करता है कि सब मनुष्यों को विद्या और युक्तियों से अग्नि और जल के मेल से कलाओं की कुशलता करके वेगादि गुणों के प्रकाश से तथा वायु और विद्युत् अग्नि की विद्या से सब दरिद्रता के विनाश और शत्रुओं के पराजय से श्रेष्ठ शिक्षा देकर अज्ञान को दूर कर और उन मूढ़ मनुष्यों को विद्वान् करके अनेक प्रकार के सुख इस संसार में सिद्ध करने योग्य और औरों को सिद्ध कराने के योग्य हैं। इस प्रकार अच्छे प्रयत्न से सब पदार्थविद्या संसार में प्रकाशित करनी योग्य है। पूर्व मन्त्र में जो कार्य प्रकाश किया, उसकी पुष्टि इस मन्त्र से की है ॥१५॥
दयानन्द-सरस्वती (सं) - विषयः
अथ तेन किं किं दूरीकर्त्तव्यमित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - अहमग्नीषोमयोरुज्जितिमनूज्जेषमहं वाजस्य प्रसवेन मा मां प्रोहामि, मया सम्यक् साधितावग्नीषोमौ योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तमपनुदतः। अहमेनं वाजस्य प्रसवेनापोहामि। अहमिन्द्राग्न्योरुज्जितिमनूज्जेषमहं वाजस्य प्रसवेन मा मां नित्यं प्रोहामि। अस्माभिः सम्यक् साधिताविन्द्राग्नी योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तमपनुदतः। अहं वाजस्य प्रसवेनैनमपोहामि ॥१५॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ईश्वर उपदिशति सर्वैर्मनुष्यैरिह विद्यायुक्तिभ्यामग्निजलयोर्मेलनेन कलाकौशलाद् वेगादिगुणानां प्रकाशेन तथा वायुविद्युतोर्विद्ययातो सर्वदारिद्र्यनाशेन शत्रूणां विजयेन सुशिक्षया मनुष्याणां मूढत्वं दूरीकृत्य विद्वत्त्वं प्रापय्य च विविधानि सुखानि प्राप्तव्यानि प्रापयितव्यानि चैवं सम्यक् सर्वाः पदार्थविद्या जगति प्रकाशनीयाः। पूर्वेण मन्त्रेण यत्कार्य्यं प्रकाशितं तदनेन पोषितम् ॥१५॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ईश्वर असा उपदेश करतो की, सर्व माणसांनी अग्नी व जल यांचा विद्या व युक्तीने संयोग करून कुशलतापूर्वक गती, वायू, विद्युत व अग्नी यांच्यासंबंधीची विद्या जाणून दारिद्र्याचा नाश केला पाहिजे. शत्रूंचा पराजय करून त्यांचे अज्ञान दूर करून त्यांना उत्तम शिक्षण दिले पाहिजे. मूढ लोकांना विद्वान केले पाहिजे. याप्रमाणे अनेक प्रकारचे सुख या जगात सिद्ध करण्याजोगे आहे व इतरांनाही सिद्ध करावयास लावण्याजोगे आहे. यासाठी सर्व पदार्थविद्या जगात प्रयत्नपूर्वक प्रकट केली पाहिजे. पूर्वीच्या मंत्रात ज्या कार्याचे वर्णन केलेले आहे त्याचेच समर्थन या मंत्रात केलेले आहे.
१६ वसुभ्यस्त्वा रुद्रेभ्यस्त्वादित्येभ्यस्त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
वसु॑भ्यस्त्वा रु॒द्रेभ्य॑स्त्वादि॒त्येभ्य॑स्त्वा॒ संजा॑नाथां द्यावापृथिवी मि॒त्रावरु॑णौ त्वा॒ वृष्ट्या॑वताम्। व्यन्तु॒ वयो॒क्तँ रिहा॑णा म॒रुतां॒ पृष॑तीर्गच्छ व॒शा पृश्नि॑र्भू॒त्वा दिवं॑ गच्छ॒ ततो॑ नो॒ वृष्टि॒माव॑ह। च॒क्षु॒ष्पाऽअ॑ग्नेऽसि॒ चक्षु॑र्मे पाहि ॥१६॥
मूलम् ...{Loading}...
वसु॑भ्यस्त्वा रु॒द्रेभ्य॑स्त्वादि॒त्येभ्य॑स्त्वा॒ संजा॑नाथां द्यावापृथिवी मि॒त्रावरु॑णौ त्वा॒ वृष्ट्या॑वताम्। व्यन्तु॒ वयो॒क्तँ रिहा॑णा म॒रुतां॒ पृष॑तीर्गच्छ व॒शा पृश्नि॑र्भू॒त्वा दिवं॑ गच्छ॒ ततो॑ नो॒ वृष्टि॒माव॑ह। च॒क्षु॒ष्पाऽअ॑ग्नेऽसि॒ चक्षु॑र्मे पाहि ॥१६॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वसु॑भ्य॒ इति॒ वसु॑ऽभ्यः। त्वा॒। रु॒द्रेभ्यः॑। त्वा॒। आ॒दि॒त्येभ्यः॑। त्वा॒। सम्। जा॒ना॒था॒म्। द्या॒वा॒पृथि॒वी॒ऽ इति॑ द्यावाऽपृथिवी। मि॒त्रावरु॑णौ। त्वा॒। वृष्ट्या॑। अ॒व॒ता॒म्। व्यन्तु॑। वयः॑। अ॒क्तम्। रिहा॑णाः। म॒रुता॑म्। पृष॑तीः। ग॒च्छ॒। व॒शा। पृश्निः॑। भू॒त्वा। दिव॑म्। ग॒च्छ॒। ततः॑। नः। वृष्टि॑म्। आ॑। व॒ह॒। च॒क्षु॒ष्पाः। अ॒ग्ने॒। अ॒सि॒। चक्षुः॑। मे॒। पा॒हि॒। १६।
महीधरः
म० ‘जुह्वा परिधीननक्ति यथापूर्वं वसुभ्य इति प्रतिमन्त्रम्’ (का० ३।५।२४) इति । हे मध्यमपरिधे, वसुभ्यः वसुदेवताप्रीत्यर्थं त्वा त्वामनज्मीति शेषः । एवं दक्षिणोत्तरपरिधिमन्त्रौ व्याख्येयौ। परिधित्रयाञ्जनेन सवनत्रयदेवताः प्रीयन्त इति भावः । ‘संजानाथामिति प्रस्तरादानम्’ (का० ३।६। ३) इति । हे द्यावापृथिवी द्युलोकभूलोकदेव्यौ, युवां संजानाथां गृह्यमाणं प्रस्तरं सम्यगवगच्छतम् । किंच हे प्रस्तर, मित्रावरुणौ प्राणापानवायू वृष्ट्या जलवर्षणेन त्वा त्वामवतां रक्षताम् । ‘वायुर्वै वर्षस्येष्टे’ (१।८ । ३-१२) इत्युक्तत्वाद्वर्षाधीशो वायुः । स चाध्यात्मगतः प्राणोदानरूपो मित्रावरुणशब्दाभ्यामुच्यते । स च प्रस्तररूपं यजमानं वृष्ट्यावतु । ‘यजमानो वै प्रस्तरः’ (१।८।१।४४) इति श्रुतेः । ‘अनक्त्येनं व्यन्तु वय इत्यग्रं जुह्वामुपभृति मध्यं मूलमितरस्याम्’ (का० ३ । ६।४-७) इति । इतरस्यां ध्रुवायाम् । वयः पक्षिणः व्यन्तु । ‘वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु’ । पक्षिरूपापन्नानि गायत्र्यादीनि छन्दांसि गच्छन्तु । प्रस्तरमादायेति शेषः । किंभूताः वयः । अक्तं रिहाणाः । अक्तं घृतलिप्तं प्रस्तरं लिहिनाः आस्वादयन्तः । रलयोरैक्यम् ॥ ‘मरुतामिति नीचैर्हृत्वा तृणमादायानुप्रहरति’ (का० ३।६। ८) इति । एकं तृणं प्रस्तरात्पृथक्कृत्य प्रस्तरं नीचैर्हृत्वाग्नौ प्रक्षिपेदिति सूत्रार्थः । मरुतामिति प्रस्तरदेवत्या बृहती कपिदृष्टा । चतुर्थः पाद आग्नेयः । हे प्रस्तर, त्वं मरुतां पृषतीर्गच्छ । मरुन्नामकानां देवानां संबन्धिनीः पृषतीर्वाहनरूपा अश्वाश्चित्रवर्णा गच्छ प्राप्नुहि । वायुवाहनवद्वेगेन गच्छेत्यर्थः । अन्तरिक्षं वशापृश्निर्भूत्वा । वशा स्वाधीना पृश्निरल्पतनुर्गौर्भूत्वा दिवं गच्छ । कामधेनुवत्तृप्तिकरी भूत्वा स्वर्गं गच्छेत्यर्थः । ततः स्वर्गप्राप्तेरनन्तरं नोऽस्मदर्थं वृष्टिमावह भूलोके वृष्टिमानय । यद्वा । ‘इयं वै वशापृश्निर्यदिदमस्यां मूलि चामूलं चान्नाद्यं प्रतिष्ठितं तेनेयं वशापृश्निः’ (१।८।३ । १५) इति श्रुतेर्वशापृश्निशब्देन भूमिरुच्यते । वशापृश्निर्भूत्वा पृथिवी भूत्वा दिवं गच्छ । पृथिवीसंबन्धिभागानादाय द्युलोकं तर्पयेत्यर्थः । हे प्रस्तर, त्वमन्तरिक्षं गत्वा तत्रस्थान्मरुतः सवाहनान्संतर्प्य स्वर्गं गत्वा देवांश्च संतर्प्य पृथिव्यां वृष्टिं कुर्वित्याहुतिपरिणामः सूचित इति भावः । ‘चक्षुष्पा इत्यात्मानमालभते’ (का० ३।६।१५) इति । हे अग्ने, त्वं यतश्चक्षुष्पा असि । चक्षुः पातीति चक्षुष्पाः । ज्वालयान्धकारं निवर्त्य चक्षुःपालकोऽसि । अतो मे मम चक्षुः पाहि पालय । प्रस्तरप्रहरणप्रसक्तं चक्षुष उपद्रवं परिहरेत्यर्थः ॥ १६ ॥
सप्तदशी।
अधिमन्त्रम् (VC)
- पूर्वार्द्धे द्यावापृथिवी मित्रावरुणौ च देवताः
- परमेष्ठी प्रजापतिर्ऋषिः
- भूरिग् आर्ची पङ्क्तिः, भुरिक् त्रिष्टुप्,
- धैवतः, पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
उक्त यज्ञ से क्या होता है, सो अगले मन्त्र में उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हम लोग (वसुभ्यः) अग्नि आदि आठ वसुओं से (त्वा) उस यज्ञ को तथा (रुद्रेभ्यः) पूर्वोक्त एकादश रुद्रों से (त्वा) पूर्वोक्त यज्ञ को और (आदित्येभ्यः) बारह महीनों से (त्वा) उस क्रियासमूह को नित्य उत्तम तर्कों से जानें और यज्ञ से ये (द्यावापृथिवी) सूर्य्य का प्रकाश और भूमि (संजानाथाम्) जो उन से शिल्पविद्या उत्पन्न हो सके, उनके सिद्ध करनेवाले हों और (मित्रावरुणौ) जो सब जीवों का बाहिर का प्राण और जीवों के शरीर में रहनेवाला उदानवायु है, वे (वृष्ट्या) शुद्ध जल की वर्षा से (त्वा) जो संसार सूर्य्य के प्रकाश और भूमि में स्थित है, उसकी (अवताम्) रक्षा करते हैं। जैसे (वयः) पक्षी अपने-अपने ठिकानों को रचते और (व्यन्तु) प्राप्त होते हैं, वैसे उन छन्दों से (रिहाणाः) पूजन करनेवाले हम लोग (त्वा) उस यज्ञ का अनुष्ठान करते हैं और जो यज्ञ में हवन की आहुति (पृश्निः) अन्तरिक्ष में स्थिर और (वशा) शोभित (भूत्वा) होकर (मरुताम्) पवनों के संग से (दिवम्) सूर्य्य के प्रकाश को (गच्छ) प्राप्त होती है, वह (ततः) वहाँ से (नः) हम लोगों के सुख के लिये (वृष्टिम्) वर्षा को (आवह) अच्छे प्रकार वर्षाती है, उस वर्षा का जल (पृषतीः) नाड़ी और नदियों को प्राप्त होता है। जिस कारण यह अग्नि (चक्षुष्पाः) नेत्रों की रक्षा करनेवाला (असि) है, इससे (मे) हमारे (चक्षुः) नेत्रों के बाहिरले भीतरले विज्ञान की (पाहि) रक्षा करता है ॥१६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में लुप्तोपमालङ्कार है। मनुष्य लोग यज्ञ में जो आहुति देते हैं, वह वायु के साथ मेघमण्डल में जाकर सूर्य्य से खिंचे हुए जल को शुद्ध करती है, फिर वहाँ से वह जल पृथिवी में आकर ओषधियों को पुष्ट करता है। वह उक्त आहुति वेदमन्त्रों से ही करनी चाहिये, क्योंकि उसके फल को जानने में नित्य श्रद्धा उत्पन्न होवे। जो यह अग्नि सूर्य्यरूप होकर सब को प्रकाशित करता है, इसी से सब दृष्टिव्यवहार की पालना होती है। ये जो वसु आदि देव कहाते हैं, इनसे विद्या के उपकारपूर्वक दुष्ट गुण और दुष्ट प्राणियों को नित्य निवारण करना चाहिये, यही सब का पूजन अर्थात् सत्कार है। जो पूर्व मन्त्र में कहा था, उसका इससे विशेषता करके प्रकाश किया है ॥१६॥
दयानन्द-सरस्वती (सं) - विषयः
तस्मात् किं भवतीत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - वयं वसुभ्यस्त्वा तं रुद्रेभ्यस्त्वा तमादित्येभ्यस्त्वा तं नित्यं प्रोहामः। यज्ञेनेमे द्यावापृथिवी संजानाथाम्। मित्रावरुणौ वृष्ट्या त्वा तमिमं संसारं द्यावापृथिवीस्थमवतामवतः। यथा वयः पक्षिणोऽक्तं व्यक्तं स्थानं व्यन्तु व्यन्ति गच्छन्ति, तथा रिहाणा वयं छन्दोभिस्तं यज्ञं नित्यमनुतिष्ठामः। यज्ञे कृताहुतिर्वशा पृश्निरन्तरिक्षे भूत्वा मरुतां संगेन दिवं गच्छ गच्छति सा ततो नोऽस्माकं वृष्टिमावह समन्ताद्वर्षयति, तज्जलं पृषतीर्नाडीर्नदीर्वा गच्छति यतोऽयमग्निश्चक्षुष्पा अस्यस्त्यतो मे मम चक्षुः पाहि पाति ॥१६॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र लुप्तोपमालङ्कारः। प्रोहामि। अपोहामीति पदद्वयानुवृत्तिश्च। मनुष्यैरग्नौ याऽहुतिः क्रियते सा वायोः सङ्गेन मेघमण्डलं गत्वा सूर्य्याकर्षितजलं शुद्धं भावयित्वा, पुनस्तस्मात् पृथिवीमागत्यौषधीः पुष्णाति। सा वेदमन्त्रैरेव कर्त्तव्या, यतस्तस्याः फलज्ञाने नित्यं श्रद्धोत्पद्येत। अयमग्निः सूर्यरूपो भूत्वा सर्वं प्रकाशयत्यतो दृष्टिव्यवहारस्य पालनं जायते। एतेभ्यो वस्वादिभ्यो विद्योपकारेण दुष्टानां गुणानां प्राणिनां चापोहनं निवारणं नित्यं कर्त्तव्यम्। इदमेव सर्वेषां पूजनं सत्करणं चेति। यत्पूर्वेण मन्त्रेणोक्तं तदनेन विशिष्टतया प्रकाशितमिति ॥१६॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात लुप्तोपमालंकार आहे. माणसे यज्ञात जी आहुती देतात ती वायूबरोबर मेघमंडळात जाते व सूर्याच्या साह्याने जल शुद्ध करते. तेथून ते जल पृथ्वीवर येऊन वृक्षांना, वनस्पतींना पुष्ट करते. ती आहुती वेदमंत्राद्वारेच द्यावी म्हणजे त्याचे फळ जाणून नित्य श्रद्धा उत्पन्न होईल. अग्नी हा सूर्यरूपाने सर्वत्र प्रकाश पसरवितो. त्यामुळेच सर्व दृश्य व्यवहार पार पडतात. वसू इत्यादींना देव म्हटले जाते. त्यांच्यासंबंधीची विद्या जाणून दुष्ट गुण व दुष्ट प्राण्यांचा नाश केला पाहिजे. हीच त्यांची पूजा होय. पूर्वीच्या मंत्रात जे म्हटले आहे तेच या मंत्रात विशेषरूपाने स्पष्ट केलेले आहे.
१७ य परिधिम्
विश्वास-प्रस्तुतिः ...{Loading}...
य प॑रि॒धिं प॒र्य्यध॑त्था॒ऽअग्ने॑ देवप॒णिभि॑र्गु॒ह्यमा॑नः। तं त॑ऽए॒तमनु॒ जोषं॑ भराम्ये॒ष मेत्त्वद॑पचे॒तया॑ताऽअ॒ग्नेः प्रि॒यं पाथो॑ऽपी॑तम् ॥१७॥
मूलम् ...{Loading}...
य प॑रि॒धिं प॒र्य्यध॑त्था॒ऽअग्ने॑ देवप॒णिभि॑र्गु॒ह्यमा॑नः। तं त॑ऽए॒तमनु॒ जोषं॑ भराम्ये॒ष मेत्त्वद॑पचे॒तया॑ताऽअ॒ग्नेः प्रि॒यं पाथो॑ऽपी॑तम् ॥१७॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यम्। प॑रि॒धिम्। परि॒। अध॑त्थाः। अग्ने॑। दे॒व॒। प॒णिभि॒रिति॑ प॒णिऽभिः॑। गु॒ह्यमा॑नः। तम्। ते॒। ए॒तम्। अनु॑। जोष॑म्। भ॒रा॒मि॒। ए॒षः। मा। इत्। त्वत्। अ॒प॒। चे॒तया॑तै। अ॒ग्नेः। प्रि॒यम्। पाथः॑। अपी॑तम्। १७।
महीधरः
म० परिधीननुप्रहरति यं परिधिमिति प्रथमम्’ (का० ३।६ । १७) इति । एकादशिनस्त्रयोऽष्टकश्च विराड्रूपः प्रथमोऽष्टकः । यं परिधिम् । त्रिष्टुब्विराड्रूपा आग्नेयी यजुरन्ता । अग्नेः प्रियमिति यजुः देवलदृष्टा । हे अग्ने देव आहवनीय, पणिभिरसुरैः गुह्यमानः । ‘गुहू संवरणे’ संव्रियमाणः संरुध्यमानः सन् त्वं यं परिधिं पश्चिमदिशि पर्यधत्थाः । असुरोपद्रवनिवारणाय परिहितवानसि स्थापितवानसि । ते तव जोषं प्रियं तमेतं परिधिमनु भरामि वह्नौ प्रक्षिपामि । अनुर्भिन्नक्रमः । हरतेर्हस्य भः । एष परिधिः त्वत् त्वत्तः सकाशात् न इत् । इत् एवार्थे । नैव अपचेतयातै मा अपचेतयतु । त्वत्तोऽपगन्तुं मा जानात्वित्यर्थः । त्वय्येव तिष्ठतु । ‘चिती संज्ञाने’ णिजन्ताल्लेट् तस्यात्मनेपदे प्रथमैकवचनं तान्तम् । ‘टित आत्मनेपदानाम्’ (पा० ३ । ४ । ७९) इति तस्यैकारः । ‘वैतोऽन्यत्र’ (पा० ३ । ४ । ९६) इति लेडेकारस्य पाक्षिक ऐ ‘लेटोऽडाटौ’ (पा० ३ । ४ । ९४ ) इत्याडागमः । गुणायादेशौ अपपूर्वः । अपचेतयातै अपचेतयतु । एष परिधिस्त्वत्तोऽपगतचित्तो मास्त्वित्यर्थः ॥ ‘इतरौ च युगपदग्नेः प्रियमिति’ (का. ३।६।१७) इति दक्षिणोत्तरौ परिधी युगपत्प्रक्षिपेत् । हे परिधी, अग्नेः प्रियं पाथः युवामपीतमपिगच्छतम् । पाथ इत्यन्ननाम । (नि० नै० ९।७) आहवनीयस्याभिप्रेतमन्नमपिगच्छतम् । अग्नेरन्नत्वं भवद्भ्यां प्राप्यतामित्यर्थः ॥ १७ ॥
अष्टादशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- देवल ऋषिः
- निचृद् जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
उक्त अग्नि कैसा है, जो अगले मन्त्र में प्रकाश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) सर्वत्र व्यापक ईश्वर ! आप (देवपणिभिः) दिव्य गुणवाले विद्वानों की स्तुतियों से (गुह्यमानः) अच्छी प्रकार अपने गुणों के वर्णन को प्राप्त होते हुए (यम्) उन गुणों के अनुकूल (जोषम्) प्रीति से सेवन के योग्य (परिधिम्) प्रभुता को (पर्य्यधत्थाः) निरन्तर धारण करते हैं, (तम्) उस आपको (इत्) ही (एषः) मैं (अनुभरामि) अपने हृदय में धारण करता हूँ तथा मैं (त्वत्) आप से (मा) (अपचेतयातै) कभी प्रतिकूल न होऊँ और (अग्नेः) हे जगदीश्वर ! आप की सृष्टि में जो मैंने (प्रियम्) प्रीति बढ़ाने और (पाथः) शरीर की रक्षा करनेवाला अन्न (अपीतम्) पाया है, उससे भी कभी (मा) (अपचेतयातै) प्रतिकूल न होऊँ ॥१॥ हे जगदीश्वर ! (ते) आपकी सृष्टि में (एषः) यह (अग्ने) भौतिक अग्नि (देवपणिभिः) दिव्य गुणवाले पृथिव्यादि पदार्थों के व्यवहारों से (गुह्यमानः) अच्छी प्रकार स्वीकार किया हुआ (यम्) जिस (परिधिम्) विद्यादि गुणों से धारण (जोषम्) और प्रीति करने योग्य कर्म को (पर्य्यधत्थाः) सब प्रकार से धारण करता है (तमित्) उसी को मैं (अनुभरामि) उसके पीछे स्वीकार करता हूँ और उस से कभी (मा) (अपचेतयातै) प्रतिकूल नहीं होता हूँ तथा मैंने जो (अग्नेः) इस अग्नि के सम्बन्ध से (प्रियम्) प्रीति देने और (पाथः) शरीर की रक्षा करनेवाला अन्न (अपीतम्) ग्रहण किया है, उसको मैं (जोषम्) अत्यन्त प्रीति के साथ नित्य (अनुभरामि) क्रम से पाता हूँ ॥२॥१७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। पहिले अन्वय में अग्नि शब्द से जगदीश्वर का ग्रहण और दूसरे में भौतिक अग्नि का है। जो प्रति वस्तु में व्यापक होने से सब पदार्थों का धारण करनेवाला और विद्वानों के स्तुति करने योग्य ईश्वर है, उसकी सब मनुष्यों को प्रीति के साथ नित्य सेवा करनी चाहिये। जो मनुष्य उसकी आज्ञा नित्य पालते हैं, वे प्रिय सुख को प्राप्त होते हैं तथा जो यह ईश्वर ने प्रकाश, दाह और वेग आदि गुणवाला मूर्तिमान् पदार्थों को प्राप्त होनेवाला अग्नि रचा है, उस से भी मनुष्यों को क्रिया की कुशलता के द्वारा उत्तम-उत्तम व्यवहार सिद्ध करने चाहियें, जिससे कि उत्तम-उत्तम सुख सिद्ध होवें। जो पूर्व मन्त्र से वृष्टि आदि पदार्थों का साधक कहा है, उसका इस मन्त्र से व्यापकत्व प्रकाश किया है ॥१७॥
दयानन्द-सरस्वती (सं) - विषयः
सोऽग्निः कीदृश इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने जगदीश्वर ! एष देवपणिभिर्गुह्यमानस्त्वं यमेतं जोषं परिधिं पर्य्यधत्थाः सर्वतो दधासि तमित् त्वामहमनुभरामि। अहं त्वा मापचेतयातै कदाचिद्विरुद्धो मा भवेयम्। मया तवाग्नेः सृष्टौ यत् प्रियं पाथोऽपीतं तस्मादहं मा कदाचितपचेतयातै। इत्येकः ॥ हे जगदीश्वर ! ते तव सृष्टौ योऽयं देवपणिभिर्गुह्यमान एषोऽग्निर्यं परिधिं जोषं पर्य्यधत्थाः सर्वतो दधाति, तमित्तमहमनुभरामि, तस्मात् कदाचिन्माऽपचेतयातै मया यदस्याग्नेः प्रियं पाथोऽपीतं तदहं जोषं नित्यमनुभरामीति द्वितीयः ॥१७॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। सर्वैर्मनुष्यैर्यः प्रतिवस्तुषु व्यापकत्वेन धारको विद्वद्भिः स्तोतव्यः संप्रीत्या नित्यमनुसेवनीयः। यतस्तदाज्ञापालनेन प्रियं सुखं प्राप्नुयुः। सोऽयमीश्वरेण प्रकाशदाहवेगगुणादिसहितो मूर्त्तद्रव्यानुगतोऽग्नी रचितस्तस्मान्मनुष्यैः कलाकौशलादिषु प्रयोजितादग्नेर्व्यवहाराः संसाधनीयाः, यतः सुखानि सिध्येयुः। यत्पूर्वेण मन्त्रेण वृष्ट्यादिसाधकत्वमुक्तं तस्यानेन व्यापकत्वं प्रकाशितमिति संगतिः ॥१७॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. अग्नी या शब्दाचा एक अर्थ जगदीश्वर असा आहे. दुसरा अर्थ भौतिक अग्नी आहे. परमेश्वररूपी अग्नी प्रत्येक वस्तूमध्ये भरलेला आहे व त्यांना तो धारण करणारा आहे. विद्वानांनी स्तुती करावी असा तो असून, त्याचीच सर्व माणसांनी भक्ती केली पाहिजे. जी माणसे त्याच्या आज्ञेचे सदैव पालन करतात त्यांच्या सर्व इच्छा पूर्ण होतात व ते सुखी होतात.
सविता जोशी ← दयानन्दः (म) - पादटिप्पनी
टिप्पणी: परमेश्वराने प्रत्यक्ष पदार्थात प्रकाश, दाह व गती असणारा अग्नी निर्माण केलेला आहे. त्याद्वारे माणसांनी कार्यात कौशल्य दाखवून उत्तम व्यवहार सिद्ध केले पाहिजेत. त्यामुळे सुख प्राप्त होईल. पूर्वीच्या मंत्रात अग्नीला वृष्टी इत्यादी पदार्थांचा साधक म्हटले आहे. त्याचेच या मंत्रात अधिक विवेचन केलेले आहे.
१८ संस्रवभागा स्थेषा
विश्वास-प्रस्तुतिः ...{Loading}...
सँ॒स्र॒वभा॑गा स्थे॒षा बृ॒हन्तः॑ प्रस्तरे॒ष्ठाः प॑रि॒धेया॑श्च दे॒वाः। इ॒मां वाच॑म॒भि विश्वे॑ गृ॒णन्त॑ऽआ॒सद्या॒स्मिन् ब॒र्हिषि॑ मादयध्वँ॒ स्वाहा॒ वाट् ॥१८॥
मूलम् ...{Loading}...
सँ॒स्र॒वभा॑गा स्थे॒षा बृ॒हन्तः॑ प्रस्तरे॒ष्ठाः प॑रि॒धेया॑श्च दे॒वाः। इ॒मां वाच॑म॒भि विश्वे॑ गृ॒णन्त॑ऽआ॒सद्या॒स्मिन् ब॒र्हिषि॑ मादयध्वँ॒ स्वाहा॒ वाट् ॥१८॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सँ॒स्र॒वभा॑गाः। स्थ॒। इ॒षा। बृ॒हन्तः॑। प्र॒स्तरे॒ष्ठाः। प॒रि॒धेयाः॑। च॒। दे॒वाः। इ॒माम्। वाच॑म्। अ॒भि। विश्वे॑। गृ॒णन्तः॑। आ॒सद्य॑। अ॒स्मिन्। ब॒र्हिषि॑। मा॒द॒य॒ध्व॒म्। स्वाहा॑। वाट्। १८।
महीधरः
म० सᳪं᳭स्रवभागा इति सᳪं᳭स्रवान् जुहोति’ (का० ३।६। १८) इति वैश्वदेवी त्रिष्टुब्यजुरन्ता । स्वाहा वाडिति यजुः । | सोमशुष्म ऋषिः । हे विश्वेदेवाः, यूयं संस्रवभागाः स्थ । विलीनमाज्यं संस्रवः स एव भागो येषां ते संस्रवभागाः। तथाविधा भवथ । तथा इषा संस्रवलक्षणेनान्नेन बृहन्तो महान्तः स्थ । किंच ये प्रस्तरेष्ठाः प्रस्तरे तिष्ठन्तीति प्रस्तरेष्ठाः प्रस्तरस्थायिनः । ये च परिधेयाः परिधिभवाः सन्ति ते विश्वेदेवा इमां मदीयां वाचमभिगृणन्तः सर्वत्र वर्णयन्तः । अयं यजमानः सम्यक् यजतीत्येवं सर्वेषां देवानां मध्ये कथयन्तो यूयमस्मिन् बर्हिषि यज्ञ आसद्योपविश्य मादयध्वं तृप्यध्वं मोदध्वं वा । स्वाहेति वाडिति च शब्दौ हविर्दानार्थौ । सर्वथा दत्तमित्यादरं दर्शयितुं शब्दद्वयप्रयोगः । यद्यपि ‘स्वाहाकारेण वा वषट्कारेण वा’ इति श्रुतेर्वषट्कारो दानार्थः तथापि देवानां परोक्षप्रियत्वात्प्रत्यक्षत्वपरिहाराय वाडितिशब्दः प्रयुक्तः ॥ १८ ॥
एकोनविंशी।
अधिमन्त्रम् (VC)
- विश्वेदेवा देवताः
- परमेष्ठी प्रजापतिर्ऋषिः
- स्वराट् त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
वह यज्ञ कैसे और किस प्रयोजन के लिये करना चाहिये, सो अगले मन्त्र में प्रकाशित किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (बृहन्तः) वृद्धि को प्राप्त होने (प्रस्तरेष्ठाः) उत्तम न्याय विद्यारूपी आसन में स्थित होनेवाले (परिधेयाः) सब प्रकार से धारणावती बुद्धियुक्त (च) और (इमाम्) इस प्रत्यक्ष (वाचम्) चार वेदों की वाणी का उपदेश करनेवाले (देवाः) विद्वानो ! तुम (इषा) अपने ज्ञान से (संस्रवभागाः) घृतादि पदार्थों के होम में छोड़नेवाले (स्थ) होओ तथा (स्वाहा) अच्छे-अच्छे वचनों से (वाट्) प्राप्त होने और सुख बढ़ानेवाली क्रिया को प्राप्त होकर (अस्मिन्) प्रत्यक्ष (बर्हिषि) ज्ञान और कर्मकाण्ड में (मादयध्वम्) आनन्दित होओ, वैसे ही औरों को भी आनन्दित करो। इस प्रकार उक्त ज्ञान को कर्मकाण्ड में उक्त वेदवाणी की प्रशंसा करते हुए तुम लोग अपने विचार से उत्तम ज्ञान को प्राप्त होनेवाली क्रिया को प्राप्त होकर (बृहन्तः) बढ़ने और (प्रस्तरेष्ठाः) उत्तम कामों में स्थित होनेवाले (विश्वे) सब (देवाः) उत्तम-उत्तम पदार्थ (परिधेयाः) धारण करो वा औरों को धारण कराओ और उनकी सहायता से उक्त ज्ञान वा कर्मकाण्ड में सदा (मादयध्वम्) हर्षित होओ ॥१८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ईश्वर आज्ञा देता है कि जो धार्मिक पुरुषार्थी वेदविद्या के प्रचार वा उत्तम व्यवहार में वर्त्तमान हैं, उन्हीं को बड़े-बड़े सुख होते हैं। जो पूर्व मन्त्र में ईश्वर और भौतिक अर्थ कहे हैं, उनसे ऐसे-ऐसे उपकार लेना चाहिए, सो इस मन्त्र में कहा है ॥१८॥
दयानन्द-सरस्वती (सं) - विषयः
स यज्ञः कथं किमर्थञ्च कर्त्तव्य इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे बृहन्तः प्रस्तरेष्ठाः परिधेया देवा विद्वांसो यूयमिमां वाचमभिगृणन्त इषा संस्रवभागा स्थ भवत स्वाहावाडासाद्यास्मिन् बर्हिषि मादयध्वमन्यानेतल्लक्षणान् मनुष्यान् कृत्वा हर्षयत चैवमस्मिन् बर्हिषि इमां वाचमभिगृणद्भिर्युष्माभिरिषा स्वाहा वाडासाद्य प्रस्तरेष्ठा विश्वेदेवाः सर्वे विद्वांसः सदा परिधेयाः। तान् प्राप्य चास्मिन् बर्हिषि मादयध्वम् ॥१८॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ईश्वर आज्ञापयति ये मनुष्या धार्मिकाः पुरुषार्थिनो वेदविद्याप्रचारे उत्तमे व्यवहारे च नित्यं वर्त्तन्ते तेषामेव बृहन्ति सुखानि भवन्ति। यौ पूर्वस्मिन् मन्त्रेऽग्निशब्देनेश्वरभौतिकार्थावुक्तावनेन तयोः सकाशादीदृशा उपकारा ग्राह्या इत्युच्यते ॥१८॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ईश्वर अशी आज्ञा देतो की जे लोक धार्मिक पुरुषार्थी, वेदविद्येचे प्रसारक व उत्तम व्यवहार करणारे असतात त्यांनाच अनेक प्रकारचे सुख प्राप्त होते. पूर्वीच्या मंत्रात अग्नीचा अर्थ ईश्वर व भौतिक अग्नी असा केलेला आहे. त्यांचा लाभ घेतला पाहिजे, असे या मंत्रात म्हटले आहे.
१९ घृताची स्थो
विश्वास-प्रस्तुतिः ...{Loading}...
घृ॒ताची॑ स्थो॒ धुर्यौ॑ पातँ सु॒म्ने स्थः॑ सु॒म्ने मा॑ धत्तम्। य॒ज्ञ नम॑श्च त॒ऽउप॑ च य॒ज्ञस्य॑ शि॒वे सन्ति॑ष्ठस्व॒ स्वि᳖ष्टे॒ मे॒ संति॑ष्ठस्व ॥१९॥
मूलम् ...{Loading}...
घृ॒ताची॑ स्थो॒ धुर्यौ॑ पातँ सु॒म्ने स्थः॑ सु॒म्ने मा॑ धत्तम्। य॒ज्ञ नम॑श्च त॒ऽउप॑ च य॒ज्ञस्य॑ शि॒वे सन्ति॑ष्ठस्व॒ स्वि᳖ष्टे॒ मे॒ संति॑ष्ठस्व ॥१९॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
घृ॒ताची॑। स्थः॒। धुर्य्यौ॑। पा॒त॒म्। सु॒म्ने। स्थः॒। सु॒म्ने। मा॒। ध॒त्त॒म्। यज्ञ॑। नमः॑। च॒। ते॒। उप॑। च॒। य॒ज्ञस्य॑। शिवे॑। सम्। ति॒ष्ठ॒स्व॒। स्विष्टे॒ इति॑ सुऽइ॑ष्टे। मे॒। सम्। ति॒ष्ठ॒स्व॒। १९।
महीधरः
म०. ‘घृताची इति धुरि निदधाति’ (का० ३ । ६ । १९) इति । जुहूपभृतौ शकटधुरि निदध्यात् । हे जुहूपभृतौ, युवां घृताची स्थः । घृतमञ्चतः प्राप्नुत इति घृताच्यौ । पूर्वसवर्णदीर्घः । तथाविधे युवां धुर्यावनड्वाहौ पातं रक्षतम् । धुरं वहतस्तौ धुर्यो । किंच युवां सुम्ने सुखरूपे स्थः भवथः तस्मात्सुम्ने सुखे मा मां धत्तं स्थापयतम् ॥ ‘यज्ञ नमश्च त इति वेदिमालभते’ (का० ३ । ६ । २१) इति । अस्य मन्त्रस्य शूर्पं यवान्कृषिरुद्वालवान् धानान्नर्वानिति पञ्च ऋषयः यज्ञो देवता । हे यज्ञ, ते तुभ्यं नमः अस्तु । उप उपचयो वृद्धिश्च तेऽस्तु । चकारावन्योन्यसमुच्चयार्थौ । नमउपशब्दाभ्यां यज्ञस्य यदतिरिक्तं यच्च न्यूनं जातं तत् पूर्णं जायते । तथाच श्रुतिः ‘स यदतिरेचयति तन्नमस्कारेण शमयति अथ यदूनं करोत्युपचेति तेन तदन्यूनं भवति’ इति । किंच । यज्ञस्य शिवे संतिष्ठस्व अन्यूनातिरिक्तं यज्ञं कुर्वित्यर्थः । ‘यद्वै यज्ञस्यान्यूनातिरिक्तं तच्छिवं तेन तदुभयं शमयति’ इति श्रुतेः । मे मम स्विष्टे संतिष्ठस्व । साधु इष्टं स्विष्टम् । शोभने योगे तिष्ठसि । प्राप्तिं कुर्वित्यर्थः ॥ १९॥
विंशी।
अधिमन्त्रम् (VC)
- अग्निवायू देवते
- परमेष्ठी प्रजापतिर्ऋषिः
- भुरिक् पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब उक्त यज्ञ से क्या होता है, सो अगले मन्त्र में प्रकाशित किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो अग्नि और वायु (धुर्य्यौ) यज्ञ के मुख्य अङ्ग को प्राप्त करानेवाले (च) और (सुम्ने) सुखरूप (स्थ) हैं तथा (घृताची) जल को प्राप्त करानेवाली क्रियाओं को कराने हारे (स्थः) हैं और सब जगत् को (पातम्) पालते हैं, वे मुझ से अच्छी प्रकार उत्तम-उत्तम क्रिया-कुशलता में युक्त हुए (मा) मुझे, यज्ञ करानेवाले को (सुम्ने) सुख में (धत्तम्) स्थापन करते हैं। जैसे यह (यज्ञ) जगदीश्वर (च) और (नमः) नम्र होना (ते) तेरे लिये (शिवे) कल्याण में (उपसंतिष्ठस्व) समीप स्थित होते हैं, वे वैसे ही (मे) मेरे लिये भी स्थित होते हैं, इस कारण जैसे मैं (यज्ञस्य) यज्ञ का अनुष्ठान करके (सुम्ने) सुख में स्थित होता हूँ, वैसे तुम भी उस में (संतिष्ठस्व) स्थित होओ ॥१९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में लुप्तोपमालङ्कार है। ईश्वर कहता है कि हे मनुष्यो ! रस के परमाणु करने, जगत् के पालन के निमित्त सुख करने, क्रियाकाण्ड के हेतु और ऊपर को तथा टेढ़े वा सूधे जानेवाले अग्नि और वायु के गुणों से कार्य्यों को सिद्ध करो। इस से तुम लोग सुखों में अच्छी प्रकार स्थिर हो तथा मेरी आज्ञा पालो और मुझ को ही बार-बार नमस्कार करो ॥१९॥
दयानन्द-सरस्वती (सं) - विषयः
अथोक्तेन यज्ञेन किं भवतीत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यावग्निवायू यज्ञस्य धुर्य्ये सुम्ने स्थो घृताची स्थः सर्वं जगत् पातं रक्षतस्तौ मया सम्यक् प्रयोजितौ सुम्ने सुखे मा मां धत्तं धारयतः। यज्ञो नमश्च ये यथा ते तव शिवे उपसंतिष्ठेते मे ममाप्येते तथैव संतिष्ठेताम्। तस्माद् यथाहं तस्य यज्ञस्यानुष्ठाने संतिष्ठे तथा त्वमप्यत्र संतिष्ठस्व। यथाऽहं यज्ञमनुष्ठाय सुखे संतिष्ठे तथा त्वमपि तत्र संतिष्ठस्व ॥१९॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र लुप्तोपमालङ्कारः। ईश्वरोऽभिवदति हे मनुष्या ! यूयमेतयोरसच्छेदकधारकयोर्जगत्पालनहेत्वोः सुखकारिणोः क्रियाकाण्डस्य निमित्तयोरूर्ध्वतिर्य्यग्गमनशीलयोरग्निवाय्वोः सकाशात् कार्य्याणि साधित्वा सुखेषु संस्थितिं कुरुत, मदाज्ञापालनं मां च सततं नमस्कुरुत। पूर्वमन्त्रोक्तैरुपकारैः परमं सुखं भवतीत्यनेनोक्तमिति ॥१९॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात लुप्तोपमालंकार आहे. ईश्वर म्हणतो की, हे माणसांनो ! रसाचे परमाणू करणे, जगाचे पालन करून सुख देणे, कार्य सिद्ध करणे, वक्र किंवा सरळ वर जाणे असे अग्नी व वायूचे गुण जाणून कार्य सिद्ध करा व स्थिर सुख प्राप्त करा. तसेच माझ्या आज्ञेचे पालन करून नम्रतेने वारंवार मला नमन करा.
२० अग्नेऽदब्धायोऽशीतम पाहि
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने॑ऽदब्धायोऽशीतम पा॒हि मा॑ दि॒द्योः पा॒हि प्रसि॑त्यै पा॒हि दुरि॑ष्ट्यै पा॒हि दुर॑द्म॒न्याऽअ॑वि॒षं नः॑ पि॒तुं कृ॑णु। सु॒षदा॒ योनौ॒ स्वाहा॒ वाड॒ग्नये॑ संवे॒शप॑तये॒ स्वाहा॒ सर॑स्वत्यै यशोभ॒गिन्यै॒ स्वाहा॑ ॥२०॥
मूलम् ...{Loading}...
अग्ने॑ऽदब्धायोऽशीतम पा॒हि मा॑ दि॒द्योः पा॒हि प्रसि॑त्यै पा॒हि दुरि॑ष्ट्यै पा॒हि दुर॑द्म॒न्याऽअ॑वि॒षं नः॑ पि॒तुं कृ॑णु। सु॒षदा॒ योनौ॒ स्वाहा॒ वाड॒ग्नये॑ संवे॒शप॑तये॒ स्वाहा॒ सर॑स्वत्यै यशोभ॒गिन्यै॒ स्वाहा॑ ॥२०॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अग्ने॑। अ॒द॒ब्धा॒यो॒ऽ इत्य॑दब्धऽआ॒यो। अ॒शी॒त॒म॒। अ॒शि॒त॒मेत्य॑शिऽतम। पा॒हि। मा॒। दि॒द्योः। पा॒हि। प्रसि॑त्या॒ इति॒ प्रऽसि॑त्यै। पा॒हि। दुरि॑ष्ट्या॒ इति॒ दुःऽइ॑ष्ट्यै। पा॒हि। दु॒र॒द्म॒न्या इति॑ दुःऽअद्म॒न्यै॑। अ॒वि॒षम्। नः॒। पि॒तुम्। कृ॒णु॒। सु॒षदा॑। सु॒सदेति॑ सु॒ऽसदा॑। योनौ॑। स्वाहा॑। वाट्। अ॒ग्नये॑। सं॒वे॒शप॑तय॒ इति॑ संवे॒शऽप॑तये। स्वाहा॑। सर॑स्वत्यै। य॒शो॒भ॒गिन्या॒ इति॑ यशःऽभ॒गिन्यै॑। स्वाहा॑। २०।
महीधरः
म० ‘स्रुक्स्रुवं प्रगृह्णात्यग्नेऽदब्धायो’ (का० ३।७।१७) इति । दभ्नोतिर्हिंसाकर्मा (निघं० २। १९ । १)। आयुरिति मनुष्यनाम ( निघं० २ । ३ । १७) । अदब्धोऽनुपहिंसित आयुर्मनुष्यो यजमानो यस्य सोऽदब्धायुः । ‘अश भोजने’ । अश्नाति भुङ्क्ते इत्यशी । यद्वा ‘अशू व्याप्तौ’ अश्नुते व्याप्नोतीत्यशी । अतिशयेनाशी अशीतमः । दीर्घश्छान्दसः । हे अदब्धायो अहिंसित यजमान, हे अशीतम भोक्तृतम, यद्वा व्यापकतम, हे अग्ने गार्हपत्य, मा मां दिद्योः वज्रात्पाहि । शत्रुप्रयुक्ताद्वज्रसमादायुधान्मां पाहि । दिद्युरिति वज्रनाम ( निघं० २।२०।१) प्रसित्यै प्रसितेर्बन्धनहेतुभूताज्जालान्मां पाहि । ‘प्रसितिः प्रसयनात्तन्तुर्वा जालं वा’ (निरु० ६ । १२) इति यास्कः । दुष्टा इष्टिर्दुरिष्टिः अशास्त्रीयो यागस्तस्मान्मां पाहि । | दुरद्मनी । अदनमद्मनी दुष्टा अद्मनी दुरद्मनी दुर्भोजनं ततो मां पाहि । चतुर्थ्यः पञ्चम्यर्थे । ‘भीत्रार्थानाम्-’ (पा० १। | ४।२५) इति पञ्चमी । किंच नोऽस्माकं पितुमन्नमविषं कृणु हविर्विषरहितं कुरु । योनिरिति गृहनाम (निघं० ३ । | ४) । सुष्ठु सद्यते स्थीयते यस्यां सा सुषदा तस्यां सुषदा। विभक्तेराकारः । सम्यगवस्थानयोग्ये गृहे मां स्थापयेति शेषः । यद्वा गृहे स्थितानां नोऽस्माकं पितुमविषं कुरु । स्वाहा वाडिति पदे व्याख्याते । ‘दक्षिणाग्नौ जुहोत्यग्नय इति सरस्वत्या इति च’ (का० ४।७।१८) इति । स्त्रीपुंसयोरभिलाषपूर्वकमेकत्र शयनं संवेशः । तस्य पतिर्योऽग्निस्तस्मै स्वाहा हविर्दत्तम् । जीवतः पुरुषस्य प्रशंसा यशः तस्य यशसो भगिनी वाग्रूपा सरस्वती तस्यै हविर्दत्तम् ॥ २० ॥
एकविंशी।
अधिमन्त्रम् (VC)
- अग्निसरस्वत्यौ देवते
- परमेष्ठी प्रजापतिर्ऋषिः
- भुरिग् ब्राह्मी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
उक्त अग्नि कैसा और क्यों प्रार्थना करने योग्य है, सो अगले मन्त्र में प्रकाशित किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अदब्धायो) निर्विघ्न आयु देनेवाले (अग्ने) जगदीश्वर ! आप (अशीतम) चराचर संसार में व्यापक यज्ञ को (दुरिष्ट्यै) दुष्ट अर्थात् वेदविरुद्ध यज्ञ से (पाहि) रक्षा कीजिये (मा) मुझे (दिद्योः) अति दुःख से (पाहि) बचाइये तथा (प्रसित्यै) भारी-भारी बन्धनों से (पाहि) अलग रखिये (दुरद्मन्यै) जो दुष्ट भोजन करना है, उस विपत्ति से (पाहि) बचाइये और (नः) हमारे लिये (अविषम्) विष आदि दोषरहित (पितुम्) अन्नादि पदार्थ (कृणु) उत्पन्न कीजिये तथा (नः) हम लोगों को (सुषदा) सुख से स्थिरता को देनेवाले (योनौ) घर में (स्वाहा) (वाट्) वेदोक्त वाक्यों से सिद्ध होनेवाली उत्तम क्रियाओं में स्थिर (कृणु) कीजिये, जिससे हम लोग (यशोभगिन्यै) सत्यवचन आदि उत्तम कर्मों का सेवन करनेवाली (सरस्वत्यै) पदार्थों के प्रकाशित कराने में उत्तम ज्ञानयुक्त वेदवाणी के लिये (स्वाहा) धन्यवाद वा (संवेशपतये) अच्छी प्रकार जिन पृथिव्यादि लोकों में प्रवेश करते हैं, उनके पति अर्थात् पालन करनेहारे जो (अग्नये) आप हैं, उनके लिये (स्वाहा) धन्यवाद और (नमः) नमस्कार करते हैं ॥१॥ हे भगवन् जगदीश्वर ! आपने जो यह (अदब्धायो) निर्विघ्न आयु का निमित्त (अग्ने) भौतिक अग्नि बनाया है, वह भी (अशीतम) सर्वत्र व्यापक यज्ञ को (दुरिष्ट्यै) दुष्ट यज्ञ से (पाहि) रक्षा करता है तथा (मा) मुझे (दिद्योः) अति दुःखों से (पाहि) बचाता है (प्रसित्यै) बड़े-बड़े दारिद्र्य के बन्धनों से (पाहि) बचाता है तथा (दुरद्मन्यै) दुष्ट भोजन करानेवाली क्रियाओं से (पाहि) बचाता है और (नः) हमारे (पितुम्) अन्न आदि पदार्थ (अविषम्) विष आदि दोषरहित (कृणु) कर देता है वह (सुषदा) सुख से स्थिति देनेवाले (योनौ) घर अथवा दूसरे जन्मों में (स्वाहा) (वाट्) वेदोक्त वाक्यों से सिद्ध होनेवाली क्रियाओं का हेतु है, हम लोग उस (संवेशपतये) पृथिव्यादि लोकों के पालनेवाले (अग्नये) भौतिक अग्नि को ग्रहण करके (स्वाहा) होम तथा उसके साथ (यशोभगिन्यै) (सरस्वत्यै) उक्त गुणवाली वेदवाणी की प्राप्ति के लिये (स्वाहा) परमात्मा का धन्यवाद करते हैं ॥२०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। मनुष्यों को जो सर्वव्यापक सब प्रकार से रक्षा करने, उत्तम जन्म देने, उत्तम कर्म कराने और उत्तम विद्या वा उत्तम भोग देनेवाला जगदीश्वर है, उसी का सेवन सदा करना योग्य है तथा जो यह अपनी सृष्टि में परमेश्वर ने भौतिक अग्नि, प्रत्यक्ष सूर्य्यलोक और बिजुली रूप से प्रकाशित किया है, वह भी अच्छी प्रकार विद्या से उपकार लेने में संयुक्त किया हुआ सब प्रकार से रक्षा और उत्तम भोग का हेतु होता है। जिसकी कीर्ति के निमित्त सत्यलक्षणयुक्त वेदवाणी से उत्तम जन्म अथवा सब पदार्थों से अच्छी-अच्छी विद्या प्रकाशित होती हैं, वे सब विद्वानों के स्वीकार करने योग्य हैं। इस मन्त्र में (नमः) और (यज्ञ) ये दोनों पद पूर्व मन्त्र से लिये हैं ॥२०॥
दयानन्द-सरस्वती (सं) - विषयः
अथ सोऽग्निः कीदृशः किमर्थः प्रार्थनीयश्चेत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अदब्धायोऽशीतमाग्ने जगदीश्वर ! त्वं यज्ञं दुरिष्ट्यै पाहि। मां दिद्योः प्रमादाद् दुःखात् पाहि, प्रसित्यै पाहि, दुरद्मन्यै पाहि, नोऽस्माकमविषं पितुं कृणु नोऽस्मान् सुषदायां योनौ स्वाहा वाट् सत्क्रियायां च कृणु, वयं यशोभगिन्यै स्वाहा सरस्वत्यै संवेशपतयेऽग्नये तुभ्यं स्वाहा नमश्च नित्यं कुर्म इत्येकः ॥ हे जगदीश्वर ! योऽयं भवताऽदब्धायुरशीतमोऽग्निर्निर्मितः स यज्ञं दुरिष्ट्याः पाति। मां दिद्योः पाति। प्रसित्याः पाति। दुरद्मन्याः पाति। नोऽस्माकमविषं पितुं करोति, सुषदायां योनौ स्वाहा वाट् सत्क्रियायां च हेतुरस्ति वयं तस्मै संवेशपतयेऽग्नये स्वाहा, यशोभगिन्यै सरस्वत्यै स्वाहा कुर्म इति द्वितीयः ॥२०॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। मनुष्यैः सर्वथा सर्वस्माद् दुःखाद् रक्षक उत्तमजन्मनिमित्तकर्माज्ञापक उत्तमभोगप्रदाता जगदीश्वरोऽस्ति, स एव सदा सेवनीयः। तेन स्वसृष्टौ सूर्य्यविद्युत्प्रत्यक्षरूपेण योऽयमग्निः प्रकाशितः, सोऽपि सम्यग् विद्योपकारे संयोजितः सन् सर्वथा रक्षणोत्तमभोगहेतुर्भवति। यया कीर्तिहेतुभूतया सत्यलक्षणया वेदरूपया वाचोत्तमानि जन्मानि सर्वपदार्थेभ्य उत्कृष्टा विविधा विद्या च प्रकाशिता भवति, सा सदैव स्वीकर्त्तव्या स्वीकारयितव्या वेति। अत्र नमो यज्ञ इति च पदद्वयं पूर्वस्मान्मन्त्रादाकर्षितम्। पूर्वमन्त्रोक्तानां मनुष्यैरनुष्ठितानां कर्मणां फलमनेनोक्तमिति वेद्यम् ॥२०॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. जो परमेश्वर, सर्वव्यापक व सर्वांचा रक्षक, उत्तम जन्म देणारा, उत्तम कर्म करविणारा तसेच (सर्व) माणसांना विद्या व उत्तम भोग देणारा आहे त्याचीच सदैव भक्ती केली पाहिजे. या सृष्टीत परमेश्वराने भौतिक अग्नी, सूर्यरूपी अग्नी व विद्युतरूपी अग्नी प्रकट केलेले आहेत. त्या अग्नी विद्येला चांगल्या प्रकारे जाणून व्यवहारात उपयोग केल्यास तो (अग्नी) सर्वप्रकारे रक्षण करतो व सर्व भोगांचे कारण आहे. ज्या यज्ञाग्नीमुळे व सत्यवचनयुक्त अशा वेदवाणीद्वारे उत्तम जन्म मिळतो आणि सर्व पदार्थांचे ज्ञान होते. त्याचा (यज्ञ व वेदवाणी) विद्वानांनी स्वीकार केला पाहिजे व इतरांना त्याचा स्वीकार करावयास लावला पाहिजे. या मंत्रात (नम) व (यज्ञ) ही दोन पदे पूर्वीच्या मंत्रातून घेतलेली आहेत.
२१ वेदोऽसि येन
विश्वास-प्रस्तुतिः ...{Loading}...
वे॒दो᳖ऽसि॒ येन॒ त्वं दे॑व वेद दे॒वेभ्यो॑ वे॒दोऽभ॑व॒स्तेन॒ मह्यं॑ वे॒दो भूयाः॑। देवा॑ गातुविदो गा॒तुं वि॒त्त्वा गा॒तुमि॑त। मन॑सस्पतऽइ॒मं दे॑व य॒ज्ञँ स्वाहा॒ वाते॑ धाः ॥२१॥
मूलम् ...{Loading}...
वे॒दो᳖ऽसि॒ येन॒ त्वं दे॑व वेद दे॒वेभ्यो॑ वे॒दोऽभ॑व॒स्तेन॒ मह्यं॑ वे॒दो भूयाः॑। देवा॑ गातुविदो गा॒तुं वि॒त्त्वा गा॒तुमि॑त। मन॑सस्पतऽइ॒मं दे॑व य॒ज्ञँ स्वाहा॒ वाते॑ धाः ॥२१॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वे॒दः। अ॒सि॒। येन॑। त्वम्। दे॒व॒। वे॒द॒। दे॒वेभ्यः॑। वे॒दः। अभ॑वः। तेन॑। मह्य॑म्। वे॒दः॒। भू॒याः॒। देवाः॑। गा॒तु॒वि॒द॒ इति॑ गातुऽविदः। गा॒तुम्। वि॒त्त्वा। गा॒तुम्। इ॒त॒। मन॑सः। प॒ते॒। इ॒मम्। दे॒व॒। य॒ज्ञम्। स्वाहा॑। वाते॑। धाः॒। २१।
महीधरः
म० ‘पत्नी वेदं प्रमुञ्चति वेदोऽसि’ (क० ३।८।१) इति । हे कुशमुष्टिनिर्मित पदार्थ, त्वं वेदोऽसि । ऋगाद्यात्मकोऽसि यद्वा वेत्तीति वेदः ज्ञातासि । हे देव द्योतनात्मक वेद, हे वेद, येन कारणेन त्वं देवेभ्यः । षष्ठ्यर्थे चतुर्थी । देवानां वेदोऽभवः ज्ञापकोऽभूः तेन कारणेन मह्यं मम वेदो भूयाः ज्ञापको भव ॥ ‘समिष्टयजुर्जुहोति देवा गातुविद इति’ (का० ३ । ८ । ४) इति । इयं विराट्छन्दस्का वातदेवत्या मनसस्पतिदृष्टा ऋक् । अस्याः पूर्वार्धेन देवता विसृजति । ‘गै शब्दे’ । गीयते नानाविधैर्वैदिकशब्दैः प्रतिपाद्यते इति गातुर्यज्ञः तं विदन्ति जानन्तीति गातुविदः । हे गातुविदः यज्ञवेत्तारो देवाः, गातुं वित्त्वा विदित्त्वा । ‘विद ज्ञाने’ । अस्मदीयो यज्ञः प्रवृत्त इति ज्ञात्वा । गातुमित यज्ञं प्रत्यागच्छत । यद्वा गातुर्गन्तव्यो मार्गः तं गच्छत । अस्मदीययज्ञेन तुष्टाः सन्तः स्वमार्गं गच्छत । एवं देवान्विसृज्य चन्द्रं प्रत्याह । हे मनसस्पते, मनोऽधिपश्चन्द्रः । यद्वा देवान् यष्टुं मनसः प्रवर्तकः परमेश्वरः तं प्रत्युच्यते । हे मनसस्पते परमेश्वर, हे देव, इममनुष्ठितं यज्ञं स्वाहा त्वद्धस्ते ददामि । त्वं च तं यज्ञं वाते वायुरूपे देवे धाः स्थापय । वाते हि यज्ञोऽवतिष्ठते । तदुक्तं श्रुत्या ‘वायुरेवाग्निस्तस्माद्यदैवाध्वर्युरुत्तमं कर्म करोत्यथैतमेवाप्येति’ इति ॥ २१॥
द्वाविंशी।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- वामदेव ऋषिः
- भुरिग् ब्राह्मी बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
सो जगदीश्वर कैसा है। सो इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (देव) शुभ गुणों के देनेहारे जगदीश्वर ! (त्वम्) आप (वेदः) चराचर जगत् के जाननेवाले (असि) हैं, सब जगत् को (वेद) जानते हैं तथा (येन) जिस विज्ञान वा वेद से (देवेभ्यः) विद्वानों के लिये (वेदः) पदार्थों के जाननेवाले (अभवः) होते हैं, (तेन) उस विज्ञान के प्रकाश से आप (मह्यम्) मेरे लिये, जो कि मैं विशेष ज्ञान की इच्छा कर रहा हूँ, (वेदः) विज्ञान देनेवाले (भूयाः) हूजिये। हे (गातुविदः) स्तुति के जाननेवाले (देवाः) विद्वानो ! जिस वेद से मनुष्य सब विद्याओं को जानते हैं, उससे तुम लोग (गातुम्) विशेष ज्ञान को (वित्त्वा) प्राप्त होकर (गातुम्) प्रशंसा करने योग्य वेद को (इत) प्राप्त हो। हे (मनसस्पते) विज्ञान से पालन करने हारे (देव) सर्वजगत् प्रकाशक परमेश्वर आप (इमम्) प्रत्यक्ष अनुष्ठान करने योग्य (यज्ञम्) क्रियाकाण्ड से सिद्ध होनेवाले यज्ञरूप संसार को (स्वाहा) क्रिया के अनुकूल (वाते) पवन के बीच (धाः) स्थित कीजिये। हे विद्वानो ! उस विज्ञान से विशेष ज्ञान देनेवाले परमेश्वर ही की नित्य उपासना करो ॥२१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे विद्वान् मनुष्यो ! तुम लोगों को जिस वेद जाननेवाले परमेश्वर ने वेदविद्या प्रकाशित की है, उसकी उपासना करके उसी वेदविद्या को जान कर और क्रियाकाण्ड का अनुष्ठान करके सब का हित सम्पादन करना चाहिये, क्योंकि वेदों के विज्ञान के विना तथा उसमें जो-जो कहे हुए काम हैं, उनके किये विना मनुष्यों को कभी सुख नहीं हो सकता। तुम लोग वेदविद्या से जो सब का साक्षी ईश्वर देव है, उस को सब जगह व्यापक मानके नित्य धर्म में रहो ॥२१॥
दयानन्द-सरस्वती (सं) - विषयः
स जगदीश्वरः कीदृशोऽस्तीत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे देव जगदीश्वर ! येन त्वं वेदोऽसि सर्वं च वेद, येन च त्वं देवेभ्यो वेदोऽभवस्तेन त्वं मह्यमपि वेदो भूयाः। हे गातुविदो देवा भवन्तो येन वेदेन सर्वा विद्या विदन्ति, येन यूयं गातुं वित्त्वा गातुमित। हे मनसस्पते देव ! त्वमिमं यज्ञं वाते धाः स्वाहा हे देवास्तमिमं मनसस्पतिं परमेश्वरमेव देवं नित्यमुपासीध्वम् ॥२१॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे विद्वांसो मनुष्या ! यूयं येन सर्ववेत्रा वेदविद्या प्रकाशिता तमेवोपास्यं विदित्वा क्रियाकाण्डमनुष्ठाय सर्वहितं सम्पादयत। नैव वेदविज्ञानेन तत्रोक्तविधानानुकूलस्यानुष्ठानेन च विना मनुष्याणां कदाचित् सुखं सम्भवति, वेदविद्यया सर्वसाक्षिणमीश्वरं देवं सर्वतो व्यापकं मत्वैव नित्यं धर्मस्यानुष्ठातारो भवतेति ॥२१॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे विद्वान माणसांनो ! तुमच्यासाठी ज्या परमेश्वराने वेदविद्या प्रकट केलेली आहे त्याची उपासना करून वेदविद्या जाणा व कार्याचे अनुष्ठान करून सर्वांचे हित करा. कारण वेदाच्या ज्ञानाशिवाय व त्यात सांगितलेले कर्म केल्याशिवाय माणसांना कधीच सुख प्राप्त होऊ शकत नाही. ईश्वर हा सर्वसाक्षी व सर्वव्यापक आहे, असे वेदात वर्णिलेले आहे. हे जाणून तुम्ही सदैव धर्माचे पालन करा.
२२ सं बर्हिरङ्क्ता
विश्वास-प्रस्तुतिः ...{Loading}...
सं ब॒र्हिर॑ङ्क्ताँ ह॒विषा॑ घृ॒तेन॒ समा॑दि॒त्यैर्वसु॑भिः॒ सम्म॒रुद्भिः। समिन्द्रो॑ वि॒श्वदे॑वेभिरङ्क्तां दि॒व्यं नभो॑ गच्छतु॒ यत् स्वाहा॑ ॥२२॥
मूलम् ...{Loading}...
सं ब॒र्हिर॑ङ्क्ताँ ह॒विषा॑ घृ॒तेन॒ समा॑दि॒त्यैर्वसु॑भिः॒ सम्म॒रुद्भिः। समिन्द्रो॑ वि॒श्वदे॑वेभिरङ्क्तां दि॒व्यं नभो॑ गच्छतु॒ यत् स्वाहा॑ ॥२२॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सम्। ब॒र्हिः। अ॒ङ्क्ता॒म्। ह॒विषा॑। घृ॒तेन॑। सम्। आ॒दि॒त्यैः। वसु॑भि॒रिति॒ वसु॑ऽभिः। सम्। म॒रुद्भि॒रिति॑ म॒रुत्ऽभिः॑। सम्। इन्द्रः॑। वि॒श्वदे॑वेभि॒रिति॑ वि॒श्वऽदे॑वेभिः। अ॒ङ्क्ता॒म्। दि॒व्यम्। नभः॑। ग॒च्छ॒तु॒। यत्। स्वाहा॑। २२।
महीधरः
म० ‘बर्हिः संबर्हिरिति’ (का० ३ । ८ । ५ ) इति बर्हिर्जुहोति । इयमृक् त्रिष्टुप् विराड्रूपा बर्हिर्देवत्या । इन्द्रो हविषा | हविःसंस्कारयुक्तेन घृतेन बर्हिः दर्भं समङ्क्ताम् सम्यगञ्जनोपेतं करोतु । स चन्द्रः केवलो न किंतु आदित्यैर्वसुभिर्मरुद्भिः विश्वदेवेभिर्विश्वनामकैश्च गणदेवैः सहितः समङ्क्ताम् । समित्यस्योपसर्गस्यावृत्त्या अङ्क्तामित्यस्य क्रियापदस्याप्यावृत्तिर्बोद्धव्या । वस्वादिसहितेनेन्द्रण समङ्क्तां तद् बर्हिर्यद्दिव्यं नभो आदित्यलक्षणं ज्योतिः तद्गच्छतु आदित्यं प्राप्नोतु । स्वाहा इदं बर्हिर्देवोद्देशेन दत्तम् । नभः इत्यादित्यनामसु (निघ० १।४) पठितम् । दिवि भवं दिव्यम् ॥ २२ ॥
त्रयोविंशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता
- वामदेव ऋषिः
- विराट् त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
यज्ञ में चढ़ा हुआ पदार्थ अन्तरिक्ष में ठहर कर किसके साथ रहता है, सो अगले मन्त्र में प्रकाश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य ! तुम (यत्) जब हवन करने योग्य द्रव्य को (हविषा) होम करने योग्य (घृतेन) घी आदि सुगन्धियुक्त पदार्थ से संयुक्त करके हवन करोगे, तब वह (आदित्यैः) बारह महीनों (वसुभिः) अग्नि आदि आठों निवास के स्थान और (मरुद्भिः) प्रजा के जनों के साथ मिल के सुख को (समङ्क्ताम्) अच्छी प्रकार प्रकाश करेगा। (इन्द्रः) सूर्य्यलोक जो यज्ञ में छोड़ा हुआ (स्वाहा) उत्तम क्रिया से सुगन्ध्यादि पदार्थयुक्त हवि (संगच्छतु) पहुँचाता है, उससे (सम्) अच्छी प्रकार मिश्रित हुए (विश्वदेवेभिः) अपनी किरणों से (दिव्यम्) जो उस के प्रकाश में इकट्ठा होनेवाला (नभः) जल को (समङ्क्ताम्) अच्छी प्रकार प्रकट करता है ॥२२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो हवि अच्छी प्रकार शुद्ध किया हुआ यज्ञ के निमित्त अग्नि में छोड़ा जाता है, वह अन्तरिक्ष में वायु जल और सूर्य्य की किरणों के साथ मिल कर इधर-उधर फैल कर आकाश में ठहरनेवाले सब पदार्थों को दिव्य करके अच्छी प्रकार प्रजा को सुखी करता है। इससे मनुष्यों को उत्तम सामग्री और उत्तम-उत्तम साधनों से उक्त तीन प्रकार के यज्ञ का नित्य अनुष्ठान करना चाहिये ॥२२॥
दयानन्द-सरस्वती (सं) - विषयः
अग्नौ हुतं द्रव्यमन्तरिक्षस्थं भूत्वा केन चरतीत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य ! भवानिदं यद्यदा होतव्यं द्रव्यं हविषा घृतेन सह संयुक्तं कृत्वाऽऽदित्यैर्वसुभिर्मरुद्भिः सह सुखं समङ्क्ताम्। अयमिन्द्रो यज्ञे स्वाहा यत्सुगन्ध्यादि द्रव्ययुक्तं हविः समङ्क्ताम्, यत्संमिश्रितैर्विश्वदेवेभिर्दिव्यं नभः संगच्छतु सम्यक् प्रकटयति ॥२२॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यज्ञे संशोधितं यद्धविरग्नौ प्रक्षिप्यते तदन्तरिक्षे वायुजलसूर्य्यकिरणैः सह वर्त्तमानमितस्ततो गत्वाऽऽकाशस्थान् सर्वान् पदार्थान् दिव्यान् कृत्वा सततं प्रजाः सुखयति तस्मात् सर्वैर्मनुष्यैरुत्तमसामग्र्या श्रेष्ठैः साधनैस्त्रिविधो यज्ञो नित्यमनुष्ठेय इति ॥२२॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी आहुती शुद्ध करून यज्ञाग्नीत टाकली जाते ती अंतरिक्षात वायू, जल व सूर्यकिरणांशी संयुक्त होते व अंतरिक्षातील इकडे तिकडे पसरलेल्या सर्व पदार्थांमध्ये दिव्यत्व निर्माण करते. त्यामुळे सर्व लोक सुखी होतात. यासाठी माणसांनी उत्तम पदार्थ व साधनांनी वरील तीन प्रकारच्या यज्ञाचे सदैव अनुष्ठान करावे.
२३ कस्त्वा विमुञ्चति
विश्वास-प्रस्तुतिः ...{Loading}...
कस्त्वा॒ विमु॑ञ्चति॒ स त्वा॒ विमु॑ञ्चति॒ कस्मै॑ त्वा॒ विमु॑ञ्चति॒ तस्मै॑ त्वा॒ विमु॑ञ्चति॒। पोषा॑य॒ रक्ष॑सां भा॒गो᳖ऽसि ॥२३॥
मूलम् ...{Loading}...
कस्त्वा॒ विमु॑ञ्चति॒ स त्वा॒ विमु॑ञ्चति॒ कस्मै॑ त्वा॒ विमु॑ञ्चति॒ तस्मै॑ त्वा॒ विमु॑ञ्चति॒। पोषा॑य॒ रक्ष॑सां भा॒गो᳖ऽसि ॥२३॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
कः। त्वा॒। वि। मु॒ञ्च॒ति॒। सः। त्वा॒। वि। मु॒ञ्च॒ति॒। कस्मै॑। त्वा॒। वि। मु॒ञ्च॒ति॒। तस्मै॑। त्वा॒। वि। मु॒ञ्च॒ति॒। पोषा॑य। रक्ष॑साम्। भा॒गः। अ॒सि॒। २३।
महीधरः
म० ‘वेद्यां प्रणीतां निनयति परीत्य कस्त्वेति’ (का. ३ । ८ । ६) इति । व्याख्यातो मन्त्रः प्रजापतिदैवतः । | तत्र यज्ञयोगे नियुक्तः । अत्र तु यज्ञविमोके । पोषाय यजमानं पुत्रादिभिः पोषयितुं त्वां निनयामीति शेषः । यज्ञं प्रयुज्याविमोके यजमानस्याप्रतिष्ठापत्तेर्विमोकः कार्यः । ‘यो वै यज्ञं प्रयुज्य न विमुञ्चत्यप्रतिष्ठानो वै स भवति’ (का० ३ । ८। ७) इति श्रुत्यन्तरवचनात् । पुरोडाशकपालेन कणानपास्यत्यधः कृष्णाजिनᳪं᳭ रक्षसामितीति । हे कणसमूह, त्वं रक्षसां भागोऽसि तेषां नीचजातित्वान्निकृष्टकणरूपो भागो युक्तः ॥ २३ ॥
चतुर्विंशी।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- वामदेव ऋषिः
- निचृद् बृहती
- मध्यमः
२४ सं वर्चसा
विश्वास-प्रस्तुतिः ...{Loading}...
सं वर्च॑सा॒ पय॑सा॒ सं त॒नूभि॒रग॑न्महि॒ मन॑सा॒ सँ शि॒वेन॑। त्वष्टा॑ सु॒दत्रो॒ विद॑धातु॒ रायोऽनु॑मार्ष्टु त॒न्वो᳙ यद्विलि॑ष्टम् ॥२४॥
मूलम् ...{Loading}...
सं वर्च॑सा॒ पय॑सा॒ सं त॒नूभि॒रग॑न्महि॒ मन॑सा॒ सँ शि॒वेन॑। त्वष्टा॑ सु॒दत्रो॒ विद॑धातु॒ रायोऽनु॑मार्ष्टु त॒न्वो᳙ यद्विलि॑ष्टम् ॥२४॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सम्। वर्च॑सा। पय॑सा। सम्। त॒नूभिः॑। अग॑न्महि। मन॑सा। सम्। शि॒वेन॑। त्वष्टा॑। सु॒दत्र॒ इति॑ सु॒ऽदत्रः॑। वि। द॒धा॒तु॒। रायः॑। अनु॑। मा॒र्ष्टु॒। त॒न्वः᳙। यत्। विलि॑ष्ट॒मिति॒ विऽलि॑ष्टम्। २४।
महीधरः
म० त्वष्टृदेवत्या त्रिष्टुप् । इतः परं याजमानम् । ‘पूर्णपात्रं निनयति परीत्य सन्नतं यजमानोऽञ्जलिना प्रतिगृह्णाति सं वर्चसेति सुखं विमृष्टः’ ( का० ३ । ८।८-१०) इति । समित्युपसर्गोऽगन्महीत्यनेन संबद्धः प्रत्येकम् । वर्चसा ब्रह्मवर्चसेन वयं समगन्महि सङ्गता भवामः । पयसा क्षीरादिरसेन समगन्महि । तनूभिरनुष्ठानक्षमैः शरीरावयवैः । यद्वा तनूभिर्भार्यापुत्रादिभिः समगन्महि । शिवेन शान्तेन कर्मश्रद्धायुक्तेन मनसा समगन्महि । यज्ञमुपगच्छतो नरस्य वर्चसाद्यपैति तदनेन पुनराप्याययति । किंच सुदत्रः शोभनदानः त्वष्टा रायो धनानि विदधातु करोतु । तन्वः शरीरस्य मदीयस्य यत् विलिष्टं विशेषेण न्यूनमङ्गं तदनुमार्ष्टु न्यूनत्वपरिहारेणानुकूलं कृत्वा शोधयतु । धनस्य शरीरस्य पुष्टिं करोत्वित्यर्थः । सुष्ठु ददातीति सुदत्रः सुपूर्वाद्ददातेः ष्ट्रन् । ‘सर्वधातुभ्यः’ (उ० ४ । १६० ) इति ष्ट्रन् । बाहुलकत्वाद्ध्रस्वः ॥ २४ ॥
पञ्चविंशी।
अधिमन्त्रम् (VC)
- त्वष्टा देवता
- वामदेव ऋषिः
- विराट् त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
उक्त यज्ञ से हम लोग किस-किस पदार्थ को प्राप्त होते हैं, सो अगले मन्त्र में प्रकाशित किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हम लोग पुरुषार्थी होकर (वर्चसा) जिस में सब पदार्थ प्रकाशित होते हैं, उस वेद का पढ़ना वा (पयसा) जिससे पदार्थों को जानते हैं, उस ज्ञान (मनसा) जिससे सब व्यवहार विचारे जाते हैं, उस अन्तःकरण (शिवेन) सब सुख और (तनूभिः) जिन में विपुल सुख प्राप्त होते हैं, उन शरीरों के साथ (रायः) श्रेष्ठ विद्या और चक्रवर्त्तिराज्य आदि धनों को (समगन्महि) अच्छी प्रकार प्राप्त हों सो (सुदत्रः) अच्छी प्रकार सुख देने और (त्वष्टा) दुःखों तथा प्रलय के समय सब पदार्थों को सूक्ष्म करनेवाला ईश्वर कृपा करके हमारे लिये (रायः) उक्त विद्या आदि पदार्थों को (संविदधातु) अच्छी प्रकार विधान करे और हमारे (तन्वः) शरीर को (यत्) जितनी (विलिष्टम्) व्यवहारों की सिद्धि करने की परिपूर्णता है, उसे (समनुमार्ष्टु) अच्छी प्रकार निरन्तर शुद्ध करे ॥२४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को सब कामना परिपूर्ण करनेवाले परमेश्वर की आज्ञा पालन करके और अच्छी प्रकार पुरुषार्थ से विद्या का अध्ययन, विज्ञान, शरीर का बल, मन की शुद्धि, कल्याण की सिद्धि तथा उत्तम से उत्तम लक्ष्मी की प्राप्ति सदैव करनी चाहिये। इस सम्पूर्ण यज्ञ की धारणा वा उन्नति से सब सुखों को प्राप्त होके औरों को सुख प्राप्त कराना चाहिये तथा सब व्यवहार और पदार्थों को नित्य शुद्ध करना चाहिये ॥२४॥
दयानन्द-सरस्वती (सं) - विषयः
तेन यज्ञेन वयं किं किं प्राप्नुम इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - वयं यस्य कृपया वर्च्चसा पयसा मनसा शिवेन तनूभिश्च सह रायः समगन्महि। सुदत्रस्त्वष्टेश्वरः कृपयाऽस्मभ्यं रायः संविदधातु यदस्माकं तन्वो विलिष्टं तत्समनुमार्ष्टु ॥२४॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैः सर्वकामप्रदस्येश्वरस्याज्ञापालनसम्यक्पुरुषार्थाभ्यां विद्याध्ययनं, विज्ञानं, शरीरबलं, मनःशुद्धिः, कल्याणसिद्धिः, सर्वोत्तमश्रीप्राप्तिश्च सदैव कार्य्या। तथा सर्वे व्यवहाराः पदार्थाश्च नित्यं शुद्धा भावनीयाः ॥२४॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी सर्व कामना पूर्ण करणाऱ्या ईश्वराच्या आज्ञेचे पालन केले पाहिजे व चांगल्या प्रकारे पुरुषार्थ करून विद्येचे अध्ययन, विज्ञान, शारीरिक सामर्थ्य, मनःशुद्धी, कल्याणाची प्राप्ती करून घेऊन उत्तम लक्ष्मी मिळविली पाहिजे. याप्रमाणे उपरोक्त यज्ञ करावा व उन्नती करून सर्व सुख प्राप्त करून घ्यावे. तसेच इतरांनाही सुखी करावे. सर्व पदार्थ व सर्व व्यवहार नेहमी शुद्ध ठेवावेत.
२५ दिवि विष्णुर्व्यक्रंस्त
विश्वास-प्रस्तुतिः ...{Loading}...
दि॒वि विष्णु॒र्व्य᳖क्रँस्त॒ जाग॑तेन॒ च्छन्द॑सा॒ ततो॒ निर्भ॑क्तो॒ यो᳙ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो᳙ऽन्तरि॑क्षे॒ विष्णु॒र्व्य᳖क्रँस्त॒ त्रैष्टु॑भेन॒ च्छन्द॑सा॒ ततो॒ निर्भ॑क्तो॒ यो᳙ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः। पृ॑थि॒व्यां विष्णु॒र्व्य᳖क्रँस्त गाय॒त्रेण॒ च्छन्द॑सा॒ ततो॒ निर्भ॑क्तो॒ यो᳙ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो᳙ऽस्मादन्ना॑द॒स्यै प्र॑ति॒ष्ठाया॒ऽअग॑न्म॒ स्वः᳙ सं ज्योति॑षाभूम ॥२५॥
मूलम् ...{Loading}...
दि॒वि विष्णु॒र्व्य᳖क्रँस्त॒ जाग॑तेन॒ च्छन्द॑सा॒ ततो॒ निर्भ॑क्तो॒ यो᳙ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो᳙ऽन्तरि॑क्षे॒ विष्णु॒र्व्य᳖क्रँस्त॒ त्रैष्टु॑भेन॒ च्छन्द॑सा॒ ततो॒ निर्भ॑क्तो॒ यो᳙ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः। पृ॑थि॒व्यां विष्णु॒र्व्य᳖क्रँस्त गाय॒त्रेण॒ च्छन्द॑सा॒ ततो॒ निर्भ॑क्तो॒ यो᳙ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो᳙ऽस्मादन्ना॑द॒स्यै प्र॑ति॒ष्ठाया॒ऽअग॑न्म॒ स्वः᳙ सं ज्योति॑षाभूम ॥२५॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दि॒वि। विष्णुः॑। वि। अ॒क्रँ॒स्त॒। जाग॑तेन। छन्द॑सा। ततः॑। निर्भ॑क्त॒ इति॒ निःऽभ॑क्तः। यः। अ॒स्मान्। द्वेष्टि॑। यम्। च॒। व॒यम्। द्वि॒ष्मः। अ॒न्तरि॑क्षे। विष्णुः॑। वि। अ॒क्रँ॒स्त॒। त्रैष्टु॑भेन। त्रैस्तु॑भे॒नेति॒ त्रैस्तु॑भेन। छन्द॑सा। ततः॑। निर्भ॑क्त॒ इति निःऽभ॑क्तः। यः। अ॒स्मान्। द्वेष्टि॑। यम्। च॒। व॒यम्। द्वि॒ष्मः। पृ॒थि॒व्याम्। विष्णुः॑। वि। अ॒क्रँ॒स्त॒। गा॒य॒त्रेण॑। छन्द॑सा। ततः॑। निर्भ॑क्त॒ इति॒ निःऽभ॑क्तः। यः। अ॒स्मान्। द्वेष्टि॑। यम्। च॒। व॒यम्। द्वि॒ष्मः। अ॒स्मात्। अन्ना॑त्। अ॒स्यै। प्र॒ति॒ष्ठायै॑। प्र॒ति॒स्थाया॒ इति॑ प्रति॒ऽस्थायै॑। अग॑न्म। स्व॒रिति॒ स्वः᳙। सम्। ज्योति॑षा। अ॒भू॒म॒। २५।
महीधरः
म० ‘विष्णुक्रमान्क्रमते दिवि विष्णुरिति प्रतिमन्त्रम्’ (का० ३ । ८ । ११) इति । विष्णुपादबुद्ध्या स्वपादस्य भूमौ प्रक्षेपा विष्णुक्रमाः। विष्णुर्यज्ञपुरुषः जागतेन छन्दसा जगतीच्छन्दोरूपेण स्वकीयपादेन दिवि द्युलोके व्यक्रंस्त विशेषेण क्रमणं कृतवान् । तथा सति ततो द्युलोकात् निर्भक्तो भागरहितः कृत्वा निःसारितः । कः । योऽस्मान्द्वेष्टि यं च वयं द्विष्मः । योऽस्मान् दृष्ट्वा न प्रीयते यं च दृष्ट्वा वयं न प्रीयामहे स द्विविधोऽपि शत्रुर्दिवो निःसारितः । एवमुत्तरावपि विष्णुक्रममन्त्रौ व्याख्येयौ । ‘अस्मादन्नादिति भागमवेक्षते’ (का. ३ । ८ । १३) इति । योऽयं भागोऽवेक्ष्यते अस्मादनाद्यजमानभागान्निर्भक्त इति वाक्यशेषोऽनुवर्तनीयः। ‘अस्यै प्रतिष्ठाया इति भूमिं’ (का० ३।८।१४) इति । अवेक्षत इति चतुर्षु मन्त्रविनियोगेष्वनुवर्तते । अस्यै अस्याः पुरतो दृश्यमानायाः प्रतिष्ठाहेतोर्यज्ञियभूमेः निर्भक्त इत्यादि पूर्ववत् । ‘अगन्म स्वरिति प्राक्’ ( का० ३।८।१५) इति पूर्वस्यां दिशि स्थितं स्वः स्वर्गं सूर्यं वा वयमगन्म प्राप्ताः । यज्ञानुष्ठानेन । । ‘संज्योतिषेत्याहवनीयम्’ (का० ३ । ८ । १६) इति । ज्योतिषाहवनीयलक्षणेन वयं समभूम सङ्गता अभूम ॥ २५ ॥
षड्विंशी।
अधिमन्त्रम् (VC)
- सत्रस्य विष्णुर्देवता
- वामदेव ऋषिः
- निचृद् आर्ची पङ्क्तिः, आर्ची पङ्क्तिः, भुरिग् जगती,
- पञ्चमः, निषादः
दयानन्द-सरस्वती (हि) - विषयः
वह यज्ञ तीनों लोक में विस्तृत होकर कौन-कौन सुख का साधन होता है, सो अगले मन्त्र में प्रकाशित किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (जागतेन) सब लोकों के लिये सुख देनेवाले (छन्दसा) आह्लादकारक जगती छन्द से हमारा अनुष्ठान किया हुआ यह (विष्णुः) अन्तरिक्ष में ठहरनेवाले पदार्थों में व्यापक यज्ञ (दिवि) सूर्य्य के प्रकाश में (व्यक्रंस्त) जाता है, वह फिर (ततः) वहाँ से (निर्भक्तः) विभाग अर्थात् परमाणुरूप होके सब जगत् को तृप्त करता है। (यः) जो विरोधी शत्रु (अस्मान्) यज्ञ के अनुष्ठान करनेवाले हम लोगों से (द्वेष्टि) विरोध करता है (च) तथा (यम्) दण्ड देकर शिक्षा करने योग्य जिस दुष्ट प्राणी से (वयम्) हम लोग यज्ञ के अनुष्ठान करनेवाले (द्विष्मः) अप्रीति करते हैं, उसको उसी यज्ञ से दूर करते हैं। हम लोगों ने जो यह (विष्णुः) यज्ञ (त्रैष्टुभेन) तीन प्रकार के सुख करने और (छन्दसा) स्वतन्त्रता देनेवाले त्रिष्टुप् छन्द से अग्नि में अच्छी प्रकार संयुक्त किया है, वह (अन्तरिक्षे) आकाश में (व्यक्रंस्त) पहुँचता है, वह फिर (ततः) उस अन्तरिक्ष से (निर्भक्तः) अलग हो के वायु और वर्षा जल की शुद्धि से सब संसार को सुख पहुँचाता है (यः) जो दुःख देनेवाला प्राणी (अस्मान्) सब के उपकार करनेवाले हम लोगों को (द्वेष्टि) दुःख देता है (च) तथा (यम्) सब के अहित करनेवाले दुष्ट को (वयम्) हम लोग सब के हित करनेवाले (द्विष्मः) पीड़ा देते हैं, उसे उक्त यज्ञ से निवारण करते हैं। हम लोगों से जो (विष्णुः) यज्ञ (गायत्रेण) संसार की रक्षा सिद्ध करने और (छन्दसा) अति आनन्द करनेवाले गायत्री छन्द से निरन्तर किया जाता है, वह (पृथिव्याम्) विस्तारयुक्त इस पृथिवी में (व्यक्रंस्त) विविध सुखों की प्राप्ति के हेतु से विस्तृत होता है, (ततः) उस पृथिवी से (निर्भक्तः) अलग होकर अन्तरिक्ष में जाकर पृथिवी के पदार्थों की पुष्टि करता है। (यः) जो पुरुष हमारे राज्य का विरोधी (अस्मान्) हम लोग जो कि न्याय करनेवाले हैं, उन से (द्वेष्टि) वैर करता है (च) तथा (यम्) जिस शत्रु जन से (वयम्) हम लोग न्यायाधीश (द्विष्मः) वैर करते हैं, उसका इस उक्त यज्ञ से नित्य निषेध करते हैं। हम लोग (अस्मात्) यज्ञ से शोधा हुआ प्रत्यक्ष (अन्नात्) जो भोजन करने योग्य अन्न है, उस से (स्वः) सुखरूपी स्वर्ग को (अगन्म) प्राप्त हों तथा (अस्यै) इस प्रत्यक्ष प्राप्त होनेवाली (प्रतिष्ठायै) प्रतिष्ठा अर्थात् जिसमें सत्कार को प्राप्त होते हैं, उसके लिये (ज्योतिषा) विद्या और धर्म के प्रकाश से संयुक्त (समभूम) अच्छी प्रकार हों ॥२५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो-जो मनुष्य लोग सुगन्धि आदि पदार्थ अग्नि में छोड़ते हैं, वे अलग-अलग होकर सूर्य्य के प्रकाश तथा भूमि में फैलकर सब सुखों को सिद्ध करते हैं तथा जो वायु, अग्नि, जल और पृथिवी आदि पदार्थ शिल्पविद्यासिद्ध कलायन्त्रों से विमान आदि यानों में युक्त किये जाते हैं, वे सब सूर्य्यप्रकाश वा अन्तरिक्ष में सुख से विहार करते हैं। जो पदार्थ सूर्य्य की किरण वा अग्नि के द्वारा परमाणुरूप होके अन्तरिक्ष में जाकर फिर पृथिवी पर आते हैं, फिर भूमि से अन्तरिक्ष वा वहाँ से भूमि को आते-जाते हैं, वे भी संसार को सुख देते हैं। मनुष्यों को उचित है कि इसी प्रकार बार-बार पुरुषार्थ से दोष, दुःख और शत्रुओं को अच्छी प्रकार निवारण करके सुख भोगना भुगवाना चाहिये तथा यज्ञ से शुद्ध वायु, जल, ओषधि और अन्न की शुद्धि के द्वारा आरोग्य, बुद्धि और शरीर के बल की वृद्धि से अत्यन्त सुख को प्राप्त होके विद्या के प्रकाश से नित्य प्रतिष्ठा को प्राप्त होना चाहिये ॥२५॥
दयानन्द-सरस्वती (सं) - विषयः
स यज्ञस्त्रिषु लोकेषु विस्तृतः सन् किं किं सुखं साधयतीत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - अस्माभिर्जागतेन छन्दसाऽनुष्ठितोऽयं विष्णुर्यज्ञो दिवि व्यक्रंस्त स पुनस्ततो निर्भक्तः सन् छन्दसा सर्वं जगत् प्रीणाति, योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तमनेन निराकुर्मः। अस्माभिर्योऽयं यज्ञस्त्रैष्टुभेन छन्दसाऽग्नौ प्रयोजितेऽन्तरिक्षे व्यक्रँस्त स पुनस्ततः स्थानान्निर्भक्तः सन् वायुवृष्टिजलशुद्धिद्वारा सर्वं जगत् सुखयति, योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तमनेन निवारयामः। अस्माभिर्योऽयं विष्णुर्यज्ञो गायत्रेण छन्दसा पृथिव्यामनुष्ठीयते, स पृथिव्यां व्यक्रंस्त स ततो निर्भक्तः सन् पृथिवीस्थान् पदार्थान् पोषयति। योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तमनेन निषिध्यामः। वयमस्मादन्नात् स्वरगन्म। वयमनेन यज्ञेनास्यै प्रतिष्ठायै ज्योतिषा संयुक्ताः समभूम भवेम ॥२५॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्यावन्ति सुगन्ध्यादिगुणयुक्तानि द्रव्याण्यग्नौ प्रक्षिप्यन्ते, तानि पृथक्-पृथग् भूत्वा सूर्य्यप्रकाशे आकाशे भूमौ च विहृत्य सर्वाणि सुखानि साधयन्ति। तथा च वाय्वग्निजलपृथिव्यादीनि शिल्पविद्यासिद्धैः कलायन्त्रैर्विमानादियानेषु प्रयोज्यन्ते, तानि सूर्य्यप्रकाशेऽन्तरिक्षे च सर्वान् प्राणिनः सुखेन विहारयन्ति। यद् द्रव्यं सूर्य्यकिरणाग्निद्वारा विच्छिद्यान्तरिक्षं [गच्छति] पुनस्तदेव भुवमागत्य पुनर्भूमेः सकाशादुपरि गत्वा, पुनस्तत आगच्छत्येवमेव पुनः पुनर्मनुष्यैरित्थं पुरुषार्थेन दोषदुःखशत्रून् सम्यग् निवार्य्य सुखं भोक्तव्यं भोजयितव्यं च। यज्ञशोधितैर्वायुजलौषध्यन्नैरारोग्यबुद्धिशरीरबलवर्धनान्महत्सुखं प्राप्य विद्याप्रकाशेन नित्यं प्रतिष्ठीयताम् ॥२५॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसे ज्या ज्या सुगंधी पदार्थांची अग्नीत आहुती देतात ते ते पदार्थ वेगवेगळे होऊन सूर्यप्रकाशात समाविष्ट होऊन पृथ्वीवर पसरतात आणि त्यापासून सर्व प्रकारचे सुख मिळते. वायू, अग्नी, जल व पृथ्वीवरील (पदार्थ) इत्यादी जे पदार्थ शिल्पविद्यायुक्त कलायंत्रांनी बनविलेल्या विमान इत्यादी यानात वापरले जातात ते सर्व सूर्यप्रकाशात अंतरिक्षामध्ये विहार करतात. जे पदार्थ सूर्यकिरणांद्वारे अथवा अग्नीद्वारे परमाणूरूप बनून अंतरिक्षात जातात ते पुन्हा पृथ्वीवर येतात. पुन्हा ते भूमीवरून आकाशात जातात व तेथून भूमीवर येणे-जाणे करतात. तेही जगाला सुखी करतात. यानुसार माणसांनी वारंवार पुरुषार्थाने दोष, दुःख व शत्रूंचा नाश करून सुख भोगले पाहिजे व इतरांनाही सुख दिले पाहिजे.
सविता जोशी ← दयानन्दः (म) - पादटिप्पनी
टिप्पणी: यज्ञाने वायू, जल, वृक्षौषधी आणि अन्नाची शुद्धी करून आरोग्य, बुद्धी, शरीरबळ वाढवून अत्यंत सुखी व्हावे व विद्येचा प्रसार करून सदैव प्रतिष्ठा प्राप्त करावी.
२६ स्वयम्भूरसि श्रेष्ठो
विश्वास-प्रस्तुतिः ...{Loading}...
स्व॒यं॒भूर॑सि॒ श्रेष्ठो॑ र॒श्मिर्व॑र्चो॒दाऽअ॑सि॒ वर्चो॑ मे देहि। सूर्य॑स्या॒वृत॒मन्वाव॑र्ते ॥२६॥
मूलम् ...{Loading}...
स्व॒यं॒भूर॑सि॒ श्रेष्ठो॑ र॒श्मिर्व॑र्चो॒दाऽअ॑सि॒ वर्चो॑ मे देहि। सूर्य॑स्या॒वृत॒मन्वाव॑र्ते ॥२६॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स्व॒यं॒भूरिति॑ स्वय॒म्ऽभूः। अ॒सि॒। श्रेष्ठः॑। र॒श्मिः। व॒र्चो॒दा इति॑ वर्चः॒ऽदाः। अ॒सि॒। वर्चः॑। मे॒। दे॒हि॒। सूर्य्य॑स्य। आ॒वृत॒मित्या॒ऽवृत॑म्। अनु॑। आ। व॒र्त्ते॒। २६।
महीधरः
म०. ‘स्वयंभूरिति सूर्यम्’ (का० ३ । ८ । १७) इति । हे सूर्य, त्वं स्वयंभूरकृतकः स्वयंसिद्धोऽसि । श्रेष्ठः प्रशस्यतमो रश्मिः मण्डलशरीराभिमानी हिरण्यगर्भाख्योऽसि । सूर्यस्य सप्त रश्मयः सन्ति । चतुर्दिक्षु चत्वारः । एक उपर्येकोऽधस्तात्सप्तमो मण्डलाभिमानी हिरण्यगर्भः पुरुषः स श्रेष्ठः स त्वमसि । यतस्त्वं वर्चीदा असि तेजसो दातासि अतो मे वर्चः ब्रह्मवर्चसं देहि ॥ ‘सूर्यस्येत्यावर्तते प्रदक्षिणम्’ (का० ३ । ८ । १९) इति । आवर्तनमावृत् । सूर्यस्य संबन्धि नीमावृतमावर्तनमनुसृत्याहमपि आवर्ते प्रादक्षिण्येनावर्तनं करोमि ॥ २६ ॥
सप्तविंशी।
अधिमन्त्रम् (VC)
- ईश्वरो देवता
- वामदेव ऋषिः
- उष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
अब अगले मन्त्र में सूर्य्य शब्द से ईश्वर और विद्वान् मनुष्य का उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे जगदीश्वर ! आप विद्वन् वा (श्रेष्ठः) अत्यन्त प्रशंसनीय और (रश्मिः) प्रकाशमान वा (स्वयंभूः) अपने आप होनेवाले (असि) हैं तथा (वर्चोदाः) विद्या देनेवाले (असि) हैं, इसी से आप (मे) मुझे (वर्चः) विज्ञान और प्रकाश (देहि) दीजिये, मैं (सूर्य्यस्य) जो आप चराचर जगत् के आत्मा हैं, उनके (आवृतम्) निरन्तर सज्जन जन जिसमें वर्त्तमान होते हैं, उस उपदेश को (अन्वावर्ते) स्वीकार करके वर्त्तता हूँ ॥२६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - परमेश्वर और [विद्वान्] जीव का कोई माता वा पिता नहीं है, किन्तु यही सब का माता पिता है तथा जिससे बढ़ कर कोई विज्ञानप्रकाशक विद्या देनेवाला नहीं है। जैसे सब मनुष्यों को इस परमेश्वर ही की आज्ञा में वर्त्तमान होना चाहिये, वैसे ही जो विद्वान् भी प्रकाशवाले पदार्थों में अवधिरूप और व्यवहारविद्या का हेतु है, जिस के उपदेशरूप प्रकाश को प्राप्त होकर प्रकाशित होते हैं, वह क्यों न सेवना चाहिये ॥२६॥
दयानन्द-सरस्वती (सं) - विषयः
अथ सूर्य्यशब्देनेश्वरविद्वदर्थावुपदिश्येते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे जगदीश्वर ! विद्वन्वा त्वं श्रेष्ठो रश्मिः स्वयंभूरसि, वर्च्चोदा असि, त्वं मे वर्च्चो देहि। अहं सूर्य्यस्य तवावृतमाज्ञापालनमन्वावर्त्ते ॥२६॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - नैव परमेश्वरस्य विदुषो जीवस्य वा कौचिन्मातापितरौ कदाचित् स्तः किंत्वयमेव सर्वस्य माता पिता चास्ति। तथा नैतस्मात् कश्चिदुत्तमः प्रकाशहेतुर्विद्याप्रदो वा पदार्थोऽस्ति। अतः सर्वैर्मनुष्यैरस्यैवाज्ञायामनुवर्त्तनीयम् ॥२६॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - परमेश्वर व विद्वानांचा कोणी माता-पिता नसतो. तर तेच सर्वांचे माता-पिता असतात. त्यांच्यापेक्षा जास्त विज्ञानयुक्त अशी विद्या देणारा कोणीही नसतो.
सविता जोशी ← दयानन्दः (म) - पादटिप्पनी
टिप्पणी: सर्व माणसांनी परमेश्वराच्या आज्ञेचेच पालन केले पाहिजे. तसेच जे विद्वान पदार्थांची व व्यवहाराची विद्या शिकवितात तेही परमेश्वराचे उपदेशरूपी ज्ञान प्राप्त करून स्वतः प्रकाशित होतात. तेव्हा त्या परमेश्वराचा अंगीकार करणे योग्य नव्हे काय?
२७ अग्ने गृहपते
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने॑ गृहपते सुगृहप॒तिस्त्वया॑ऽग्ने॒ऽहं गृ॒हप॑तिना भूयासँ सुगृहप॒तिस्त्वं मया॑ऽग्ने गृ॒हप॑तिना भूयाः। अ॒स्थू॒रि णौ॒ गार्ह॑पत्यानि सन्तु श॒तँ हिमाः॒ सूर्य्य॑स्या॒वृत॒मन्वाव॑र्ते ॥२७॥
मूलम् ...{Loading}...
अग्ने॑ गृहपते सुगृहप॒तिस्त्वया॑ऽग्ने॒ऽहं गृ॒हप॑तिना भूयासँ सुगृहप॒तिस्त्वं मया॑ऽग्ने गृ॒हप॑तिना भूयाः। अ॒स्थू॒रि णौ॒ गार्ह॑पत्यानि सन्तु श॒तँ हिमाः॒ सूर्य्य॑स्या॒वृत॒मन्वाव॑र्ते ॥२७॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अग्ने॑। गृ॒ह॒प॒त॒ इति॑ गृहऽपते। सु॒गृ॒ह॒प॒तिरिति॑ सुऽगृहप॒तिः। त्वया॑। अ॒ग्ने॒। अ॒हम्। गृ॒हप॑ति॒नेति॑ गृ॒हऽप॑तिना। भू॒या॒स॒म्। सु॒गृ॒ह॒प॒तिरिति॑ सुऽगृहप॒तिः। त्वम्। मया॑। अ॒ग्ने॒। गृ॒हप॑ति॒नेति॑ गृ॒हऽप॑तिना। भू॒याः॒। अ॒स्थू॒रि। नौ॒। गार्ह॑पत्या॒नीति॒ गार्ह॑ऽपत्यानि। स॒न्तु॒। श॒तम्। हिमाः॑। सूर्य्य॒स्य। आ॒वृत॒मित्या॒ऽवृत॑म्। अनु॑। आ। व॒र्त्ते॒। २७।
महीधरः
म०. ‘गार्हपत्यमुपतिष्ठतेऽग्ने गृहपते’ (का० ३ । ८ । २१) इति । हे गृहपते अस्मदीयगृहस्य पालक हे अग्ने, त्वया गृहपतिना गृहपालकेन कृत्वा । त्वत्प्रसादेनेत्यर्थः । अहं सुगृहपतिः शोभनो गृहपतिः भूयासं भवेयम् । तथा हे अग्ने, त्वमपि मया गृहपतिना मदीयसेवयेत्यर्थः । सुगृहपतिः शोभनो गृहपालको भूयाः भव । अग्नेपदस्यावृत्तिरादरार्था । एवं सति नौ आवयोर्गार्हपत्यानि गृहपतिभ्यां स्त्रीपुरुषाभ्यां निष्पाद्यानि कर्माणि शतं हिमाः वर्षाणि शतवर्षपर्यन्तमस्थूरीव सन्तु । निरन्तरमवहितानि प्रवर्तन्ताम् । एकपार्श्वे बलीवर्दयुक्तं शकटं स्थूरि न स्थूरि अस्थूरि । लुप्तोपमानम् । बलीवर्दयुक्तं शकटं यथा निरन्तरम् अव्यवहितं प्रसरति तथास्माकं गार्हपत्यानि सन्तु । ‘गृहपतिना संयुक्ते ञ्यः’ (पा० ४ । ४ । ९० ) इति ञ्यप्रत्ययः ‘सूर्यस्येत्यावर्तते प्रदक्षिणम्’ (का० ३ । ८ । २३) इति व्याख्यातम् ॥ २७॥
अष्टाविंशी।
अधिमन्त्रम् (VC)
- सर्वस्याग्निः
- वामदेव ऋषिः
- निचृत् पङ्क्तिः, गायत्री
- पञ्चमः, षड्जः
दयानन्द-सरस्वती (हि) - विषयः
गृहस्थ लोगों को इसके अनुष्ठान से क्या-क्या सिद्ध करना चाहिये, सो अगले मन्त्र में प्रकाशित किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (गृहपते) घर के पालन करने हारे (अग्ने) परमेश्वर और विद्वान् (त्वम्) आप (सुगृहपतिः) ब्रह्माण्ड, शरीर और निवासार्थ घरों के उत्तमता से पालन करनेवाले हैं, उस (गृहपतिना) उक्त गुणवाले (त्वया) आप के साथ (अहम्) मैं (सुगृहपतिः) अपने घर का उत्तमता से पालन करने हारा (भूयासम्) होऊँ। हे परमेश्वर ! विद्वान् वा (मया) जो मैं श्रेष्ठ कर्म का अनुष्ठान करनेवाला (गृहपतिना) धर्मात्मा और पुरुषार्थी मनुष्य हूँ, उस मुझ से आप उपासना को प्राप्त हुए मेरे घर के पालन करने हारे (भूयाः) हूजिये। इसी प्रकार (नौ) जो हम स्त्री-पुरुष घर के पति हैं, सो हमारे (गार्हपत्यानि) अर्थात् जो गृहपति के संयोग से घर के काम सिद्ध होते हैं, वे (अस्थूरि) जैसे निरालस्यता हो, वैसे सिद्ध (सन्तु) हों। इस प्रकार अपने वर्त्तमान में वर्त्तते हुए हम स्त्री वा पुरुष (सूर्य्यस्य) आप और विद्वान् के (आवृतम्) वर्त्तमान अर्थात् जिस में अच्छी प्रकार रात्रि वा दिन होते हैं, उस में (शतं हिमाः) सौ वर्ष वा सौ से अधिक भी वर्तें ॥२७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। हम दोनों स्त्रीपुरुष पुरुषार्थी होकर जो इन सब पदार्थों की स्थिति के योग्य संसाररूपी घर का निरन्तर रक्षा करनेवाला जगदीश्वर और विद्वान् है, उसका आश्रय करके भौतिक अग्नि आदि पदार्थों से स्थिर सुख करनेवाले सब काम सिद्ध करते हुए सौ वर्ष जीवें तथा जितेन्द्रियता से सौ वर्ष से अधिक भी सुखपूर्वक जीवन भोगें ॥२७॥
दयानन्द-सरस्वती (सं) - विषयः
अथ गृहाश्रमिभिरस्यानुष्ठानेन किं किं साधनीयमित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे गृहपतेऽग्ने जगदीश्वर ! विद्वन्वा त्वं सुगृहपतिरसि त्वया गृहपतिना सहाहं सुगृहपतिर्भूयासम्। मया गृहपतिनोपासितस्त्वं मम गृहपतिर्भूयाः। एवं नौ स्त्रीपुरुषयोर्गार्हपत्यान्यस्थूरि सन्त्वेवं वर्त्तमानोऽहं वर्त्तमाना च सूर्य्यस्यावृतं शतं हिमा अन्वावर्त्ते ॥२७॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। आवां स्त्रीपुरुषौ सुपुरुषार्थिनौ भूत्वा योऽस्य सर्वेषां स्थित्यर्थस्य जगतो गृहस्य सततं रक्षको जगदीश्वरो विद्वान् वाऽस्ति, तमाश्रित्य भौतिकाग्न्यादिभ्यः पदार्थेभ्यः स्थिरसुखसाधकानि सर्वाणि कर्माणि संसाध्य शतं वर्षाणि जीवेव, तथा जितेन्द्रियत्वभावेन शतादधिकमपि सुखेन जीवनं भुञ्ज्वहे इति ॥२७॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. स्त्री-पुरुष यांनी पुरुषार्थी बनून या संसाररूपी घराचे रक्षण करणारा जगदीश्वर व विद्वान यांच्या आश्रयाने भौतिक अग्नी इत्यादी पदार्थांद्वारे (घरातील) सर्व कार्य सिद्ध करावे आणि जितेन्द्रिय बनून शंभर वर्षापेक्षा जास्त चांगल्या प्रकारे जगावे.
२८ अग्ने व्रतपते
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने॑ व्रतपते व्र॒तम॑चारिषं॒ तद॑शकं॒ तन्मे॑ऽराधी॒दम॒हं यऽए॒वाऽस्मि॒ सो᳖ऽस्मि ॥२८॥
मूलम् ...{Loading}...
अग्ने॑ व्रतपते व्र॒तम॑चारिषं॒ तद॑शकं॒ तन्मे॑ऽराधी॒दम॒हं यऽए॒वाऽस्मि॒ सो᳖ऽस्मि ॥२८॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अग्ने॑। व्र॒त॒प॒त॒ऽइति॑ व्रतऽपते। व्र॒तम्। अ॒चा॒रि॒ष॒म्। तत्। अ॒श॒क॒म्। तत्। मे॒। अ॒रा॒धि॒। इ॒दम्। अ॒हम्। यः। ए॒व। अस्मि॑। सः। अ॒स्मि॒। २८।
महीधरः
म० ‘व्रतं विसृजते येनोपेयात्’ (का. ३ । ८ । २९ ) इति । व्रतग्रहणे मन्त्रद्वयमुक्तं तयोर्मध्ये येन व्रतादानं कृतं प्रथमेन द्वितीयेन वा । अत्रापि तदनुसारेण व्रतं विसृजेत् । हे अग्ने हे व्रतपते कर्मपालक, व्रतमचारिषं कर्मानुष्ठितवानस्मि तदशकं शकितवान् । त्वत्प्रसादात्तत्कर्मशक्तोऽभवम् । त्वया च तन्मे मदीयं कर्म अराधि साधितम् । द्वितीयो मन्त्रः । हे अग्ने, इदं कर्म समाप्य योऽहं कर्मणः पुरा अस्मि स एव मनुष्योऽस्मि ॥ २८ ॥
इति दर्शपूर्णमासेष्टिमन्त्राः समाप्ताः ॥
एकोनत्रिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वामदेव ऋषिः
- भुरिग् उष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
अब जो सत्याचरण से सुख होता है, सो अगले मन्त्र में प्रकाशित किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (व्रतपते) न्याययुक्त नियत कर्म के पालन करने हारे (अग्ने) सत्यस्वरूप परमेश्वर ! आपने जो कृपा करके (मे) मेरे लिये (व्रतम्) सत्यलक्षण आदि प्रसिद्ध नियमों से युक्त सत्याचरण व्रत को (अराधि) अच्छी प्रकार सिद्ध किया है, (तत्) उस अपने आचरण करने योग्य सत्य नियम को (अशकम्) जिस प्रकार मैं करने को समर्थ होऊँ (अचारिषम्) अर्थात् उसका आचरण अच्छी प्रकार कर सकूँ, वैसा मुझ को कीजिये (यः) जो मैंने उत्तम वा अधम कर्म किया है, (तदेवाहम्) उसी को भोगता हूँ, अब भी जो मैं जैसा करनेवाला (अस्मि) हूँ, वैसे कर्म के फल भोगनेवाला (अस्मि) होता हूँ ॥२८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्य को यही निश्चय करना चाहिये कि मैं अब जैसा कर्म करता हूँ, वैसा ही परमेश्वर की व्यवस्था से फल भोगता हूँ और भोगूँगा। सब प्राणी अपने कर्म से विरुद्ध फल को कभी नहीं प्राप्त होते, इससे सुख भोगने के लिये धर्मयुक्त कर्म ही करना चाहिये कि जिससे कभी दुःख नहीं हो ॥२८॥
दयानन्द-सरस्वती (सं) - विषयः
अथ यत्सत्याचरणेन सुखं भवेत् तदुपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे व्रतपतेऽग्ने ! भवता कृपया मदर्थं यद् व्रतमराधि, तदहमशकमचारिषम्। यन्मयाऽराधि तदेवाहं भुञ्जे, योऽहं यादृशकर्मकार्य्यस्मि सोऽहं तादृशफलभोग्यस्मि भवामि ॥२८॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्येणेदं निश्चेतव्यं मयेदानीं यादृशं कर्म क्रियते तादृशमेवैश्वरव्यवस्थया फलं भुज्यते भोक्ष्यते च। नहि कश्चिदपि जीवः स्वकर्मविरुद्धं फलमधिकं न्यूनं वा प्राप्तुं शक्नोति। तस्मात् सुखभोगाय धर्म्याण्येव कर्माणि कार्य्याणि, यतो नैव कदाचिद् दुःखानि स्युरिति ॥२८॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी हे निश्चित जाणावे की मी जसे कर्म करतो तसे फळ परमेश्वरी व्यवस्थेप्रमाणे भोगतो व पुढेही भोगेन. सर्व प्राण्यांना त्यांच्या कर्माच्या विरुद्ध फळ कधीच मिळत नाही. तेव्हा सुख प्राप्त व्हावे यासाठी धर्मयुक्त कर्मच केले पाहिजे. ज्यामुळे कधीच दुःख होणार नाही.
२९ अग्नये कव्यवाहनाय
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्नये॑ कव्य॒वाह॑नाय॒ स्वाहा॒ सोमा॑य पितृ॒मते॒ स्वाहा॑। अप॑हता॒ऽअसु॑रा॒ रक्षाँ॑सि वेदि॒षदः॑ ॥२९॥
मूलम् ...{Loading}...
अ॒ग्नये॑ कव्य॒वाह॑नाय॒ स्वाहा॒ सोमा॑य पितृ॒मते॒ स्वाहा॑। अप॑हता॒ऽअसु॑रा॒ रक्षाँ॑सि वेदि॒षदः॑ ॥२९॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒ग्नये॑। क॒व्य॒वाह॑ना॒येति॑ कव्य॒ऽवाह॑नाय। स्वाहा॑। सोमा॑य। पि॒तृ॒मत॒ इति॑ पितृ॒ऽमते॑। स्वाहा॑। अप॑हता॒ इत्यप॑ऽहताः। असु॑राः। रक्षाँ॑सि। वे॒दि॒षदः॑। वे॒दि॒सद॑ इति॑ वेदि॒ऽषदः॑। २९।
महीधरः
म० ‘सारतण्डुलमपूर्णᳪं᳭ श्रपयित्वाभिघार्योद्वास्य मेक्षणेन | जुहोत्यग्नय इति सोमायेति च’ (का० ४ । १ । ७ )। कवयः | क्रान्तदर्शिनः पितरस्तेषां संबन्धि कव्यं हविः । तद्वोढुमधिकारो यस्यास्ति स कव्यवाहनः । तस्मै अग्नये स्वाहा हविर्दत्तम् । पितृमान् पितृसंयुक्तः तस्मै सोमनामकाय देवाय स्वाहा हविर्दत्तम् । स्वाहाकारेण वषट्कारेण वा देवेभ्योऽन्नदानश्रुतेर्दैवाविमौ मन्त्रौ । ‘दक्षिणेनोल्लिखत्यपहता इति’ ( का० ४ । १। ८) इति वेद्यां सीदन्ति वेदिषदः तादृशा असुराः अपहता वेदिसकाशादपगताः । तथा रक्षांसि वेद्या अपहतानि । | असुरत्वं रक्षस्त्वं चेति जातिविशेषौ देवविरोधिनौ ॥ २९ ॥
त्रिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वामदेव ऋषिः
- स्वराड् आर्षी अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब संसारी अग्नि और चन्द्रमा कैसे गुणवाले हैं, सो अगले मन्त्र में प्रकाश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - मनुष्यों को उचित है कि (कव्यवाहनाय) विद्वानों को हित देने, कर्मों की प्राप्ति कराने तथा (अग्नये) सब पदार्थों को अपने आप एक स्थान से दूसरे स्थान को पहुँचानेवाले भौतिक अग्नि का ग्रहण करके सुख के लिये (स्वाहा) वेदवाणी से (पितृमते) जिस में वसन्त आदि ऋतु पालने के हेतु होने से पितर संयुक्त होते हैं, (सोमाय) जिससे ऐश्वर्यों को प्राप्त होते हैं, उस सोमलता को लेके (स्वाहा) अपने पदार्थों को धारण करनेवाले धर्म से युक्त विधान करके जो (वेदिषदः) इस पृथिवी में रमण करनेवाले (रक्षांसि) औरों को दुःखदायी स्वार्थीजन तथा (असुराः) दुष्ट स्वभाववाले मूर्ख हैं, उनको (अपहताः) विनष्ट कर देना चाहिये ॥२९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्वानों से युक्ति के साथ शिल्पविद्या में संयुक्त किया हुआ यह अग्नि उनके लिये उत्तम-उत्तम कार्यों की प्राप्ति करनेवाला होता है। मनुष्यों को यह यत्न नित्य करना चाहिये कि जिससे संसार के उपकार से सब सुख और पृथिवी के दुष्टजन वा दोषों की निवृत्ति हो जाये ॥२९॥
दयानन्द-सरस्वती (सं) - विषयः
अथ भौतिकावग्नीषोमौ कीदृशगुणौ वर्तेते इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - मनुष्यैः कव्यवाहनायाग्नये स्वाहा पितृमहे सोमाय स्वाहा विधाय ये वेदिषदो रक्षांस्यसुराश्च ते नित्यमपहताः कार्य्याः ॥२९॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - विद्वद्भिर्युक्त्या संयोजितोऽयमग्निः शिल्पिनां कार्य्याणि वहति, येन संसारस्योपकारेण सामयिकं सुखं पृथिवीस्थानां दुष्टानां दोषाणां च निवृत्तिः स्यादयं प्रयत्नो नित्यं विधेय इति ॥२९॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - विद्वानांनी कौशल्याने शिल्पविद्येत संयुक्त केलेल्या अग्नीमुळे उत्तम कार्य सिद्ध होते, त्यासाठी माणसांनी सतत प्रयत्नशील राहिले पाहिजे. ज्यामुळे जगावर उपकार होईल व सुख प्राप्त होईल आणि दुष्ट लोकांचे व दोषांचे निवारण होईल.
३० ये रूपाणि
विश्वास-प्रस्तुतिः ...{Loading}...
ये रू॒पाणि॑ प्रतिमु॒ञ्चमा॑ना॒ऽअसु॑राः॒ सन्तः॑ स्व॒धया॒ चर॑न्ति। प॒रा॒पुरो॑ नि॒पुरो॒ ये भर॑न्त्य॒ग्निष्टाल्ँ लो॒कात् प्रणु॑दात्य॒स्मात् ॥३०॥
मूलम् ...{Loading}...
ये रू॒पाणि॑ प्रतिमु॒ञ्चमा॑ना॒ऽअसु॑राः॒ सन्तः॑ स्व॒धया॒ चर॑न्ति। प॒रा॒पुरो॑ नि॒पुरो॒ ये भर॑न्त्य॒ग्निष्टाल्ँ लो॒कात् प्रणु॑दात्य॒स्मात् ॥३०॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ये। रू॒पाणि॑। प्र॒ति॒मु॒ञ्चमा॑ना॒ इति॑ प्रतिऽमुञ्चमा॑नाः। असु॑राः। सन्तः॑। स्व॒धया॑। चर॑न्ति। प॒रा॒पुर॒ इति॑ परा॒ऽपुरः॑। नि॒ऽपुर॒ इति॑ नि॒पुरः॑। ये। भर॑न्ति। अ॒ग्निः। तान्। लो॒कात्। प्र। नु॒दा॒ति॒। अ॒स्मात्। ३०।
महीधरः
म० ‘उल्मुकं परस्तात्करोति ये रूपाणीति’ ( का० ४ ॥ १।९) इयं त्रिष्टुप् कव्यवाहनाग्निदेवत्या । स्वधया पैतृकान्नेन निमित्तेन पितॄणामन्नमस्माभिर्भक्षणीयमिति हेतोः स्वीयरूपाणि प्रतिमुञ्चमानाः पितृसमानरूपाणि स्वीकुर्वन्तः सन्तो ये असुरा देवविरोधिनश्चरन्ति पितृयज्ञस्थाने प्रसरन्ति । तथा ये असुराः परापुरः निपुरश्च भरन्ति । पराक्रान्ताः पुरः परापुरः स्थूलदेहान् । निकृष्टाः पुरः निपुरः सूक्ष्मदेहान् ये धारयन्ति । स्वमसुरत्वं प्रच्छादयितुं ये स्थूलसूक्ष्मशरीराणि बिभ्रति । अग्निरुल्मुकरूपः अस्माल्लोकात् पितृयज्ञस्थानात्तानसुरान् प्रणुदाति प्रणुदतु प्रेरयतु । प्रकर्षेणापसारयत्वित्यर्थः ॥ ३० ॥
एकत्रिंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- वामदेव ऋषिः
- भुरिक् पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
उक्त असुर कैसे लक्षणोंवाले होते हैं, सो अगले मन्त्र में प्रकाश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ये) जो दुष्ट मनुष्य (रूपाणि) ज्ञान के अनुकूल अपने अन्तःकरणों में विचारे हुए भावों को (प्रतिमुञ्चमानाः) दूसरे के सामने छिपा कर विपरीत भावों के प्रकाश करने हारे (असुराः) धर्म को ढाँपते (सन्तः) हैं। (स्वधया) पृथिवी में जहाँ-तहाँ (चरन्ति) जाते-आते हैं तथा जो (परापुरः) संसार से उलटे अपने सुखकारी कामों को नित्य सिद्ध करने के लिये यत्न करने (निपुरः) और दुष्ट स्वभावों को परिपूर्ण करनेवाले (सन्तः) हैं अर्थात् जो अन्याय से औरों के पदार्थों को धारण करते हैं, (तान्) उन दुष्टों को (अग्निः) जगदीश्वर (अस्मात्) इस प्रत्यक्ष और अप्रत्यक्ष लोक से (प्रणुदाति) दूर करे ॥३०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो दुष्ट मनुष्य अपने मन, वचन और शरीर से झूठे आचरण करते हुए अन्याय से अन्य प्राणियों को पीड़ा देकर अपने सुख के लिये औरों के पदार्थों को ग्रहण कर लेते हैं, ईश्वर उन को दुःखयुक्त करता है और नीच योनियों में जन्म देता है कि वे अपने पापों के फलों को भोग के फिर भी मनुष्य देह के योग्य होते हैं। इस से सब मनुष्यों को योग्य है कि ऐसे दुष्ट मनुष्य वा पापों से बचकर सदैव धर्म का ही सेवन किया करें ॥३०॥
दयानन्द-सरस्वती (सं) - विषयः
कीदृग्लक्षणास्तेऽसुरा भवन्तीत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - अग्निरीश्वरो ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति, ये च पुरापुरो निपुरः सन्तोऽन्यायेन परपदार्थान् भरन्ति धरन्ति, तानस्माल्लोकात् प्रणुदाति दूरीकरोतु ॥३०॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये दुष्टा मनुष्या मनोदेहवाग्भिर्मिथ्या चरित्वा पृथिव्यामन्यायेनान्यान् प्राणिनः पीडयित्वा स्वसुखाय परपदार्थान् सञ्चिन्वन्ति। ईश्वरस्तान् दुःखयुक्तान् मनुष्येतरनीचशरीरधारिणः कृत्वा, तेषु पापफलानि भुक्त्वा पुनर्मनुष्यदेहधारणे योग्यान् करोति। अतो मनुष्यैरीदृशेभ्यो मनुष्येभ्यः पापकर्मभ्यो वा पृथक् स्थित्वा सदैव धर्म एव सेवनीय इति ॥३०॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जी दुष्ट माणसे मन, वचन व शरीर यांनी वाईट वर्तन करून अन्यायाने इतर प्राण्यांना त्रास देतात व आपल्या सुखासाठी इतरांचे पदार्थ हिरावून घेतात. ईश्वर त्यांना नीच योनीत जन्म देऊन दुःख भोगावयास लावतो ते आपल्या पापाचे फळ भोगून पुन्हा मनुष्यदेह प्राप्त करतात. त्यासाठी दुष्ट माणसांपासून व पापांपासून सावध राहावे व सदैव धर्माचे पालन करावे.
३१ अत्र पितरो
विश्वास-प्रस्तुतिः ...{Loading}...
अत्र॑ पितरो मादयध्वं यथाभा॒गमावृ॑षायध्वम्। अमी॑मदन्त पि॒तरो॑ यथाभा॒गमावृ॑षायिषत ॥३१॥
मूलम् ...{Loading}...
अत्र॑ पितरो मादयध्वं यथाभा॒गमावृ॑षायध्वम्। अमी॑मदन्त पि॒तरो॑ यथाभा॒गमावृ॑षायिषत ॥३१॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अत्र॑। पि॒त॒रः॒। मा॒द॒य॒ध्व॒म्। य॒था॒भा॒गमिति॑ यथाऽभा॒गम्। आ। वृ॒षा॒य॒ध्व॒म्। वृ॒षा॒य॒ध्व॒मिति॑ वृषऽयध्वम्। अमी॑मदन्त। पि॒तरः॑। य॒था॒भा॒गमिति॑ यथाऽभा॒गम्। आ। अ॒वृ॒षा॒यि॒ष॒त॒। ३१।
महीधरः
म० ‘अत्र पितर इत्युक्त्वोदङ्ङास्त आ तमनादावृत्यामीमदन्तेति जपतीति’ ( का० ४ । १।१३-१४ )। आ तमनात् श्वासनिरोधेन ग्लानिपर्यन्तमुदङ्मुख आस्त इति सूत्रार्थः । हे पितरः, यूयमत्रास्मिन् बर्हिषि मादयध्वं हृष्टा भवत । ततो हविषि यथाभागं स्वं स्वं भागमनतिक्रम्य आवृषायध्वं समन्ताद्वृषवदाचरत । यथा वृषः स्वाभीष्टं घासं प्राप्य तृप्तिपर्यन्तं स्वीकरोति तद्वत्स्वीकुरुत । आङ्पूर्वाद्वृषशब्दात् ‘कर्तुः क्यङ् सलोपश्च’ (पा० ३।१।११) इति क्यङ् ततो लोट् । पितरः अमीमदन्त । यान् पितॄन् प्रति मादयध्वमित्युक्तं ते पितरोऽमीमदन्त हृष्टाः यथाभागमावृषायिषत स्वं भागमनतिक्रम्य वृषवत् स्वीचक्रुः । लुङि रूपम् । ‘यथाभागमाशिषुरित्येवैतदाह’ ( २ । ४ । २ । २२) इति श्रुतिः। स्वं भागं जक्षुरित्यर्थः ॥ ३१॥
द्वात्रिंशी।
अधिमन्त्रम् (VC)
- पितरो देवताः
- वामदेव ऋषिः
- बृहती
- मध्यमः
३२ नमो वः
विश्वास-प्रस्तुतिः ...{Loading}...
नमो॑ वः पितरो॒ रसा॑य॒ नमो॑ वः पितरः॒ शोषा॑य॒ नमो॑ वः पितरो जी॒वाय॒ नमो॑ वः पितरः स्व॒धायै॒ नमो॑ वः पितरो घो॒राय॒ नमो॑ वः पितरो म॒न्यवे॒ नमो॑ वः पितरः॒ पित॑रो॒ नमो॑ वो गृ॒हान्नः॑ पितरो दत्त स॒तो वः॑ पितरो देष्मै॒तद्वः॑ पितरो॒ वासः॑ ॥३२॥
मूलम् ...{Loading}...
नमो॑ वः पितरो॒ रसा॑य॒ नमो॑ वः पितरः॒ शोषा॑य॒ नमो॑ वः पितरो जी॒वाय॒ नमो॑ वः पितरः स्व॒धायै॒ नमो॑ वः पितरो घो॒राय॒ नमो॑ वः पितरो म॒न्यवे॒ नमो॑ वः पितरः॒ पित॑रो॒ नमो॑ वो गृ॒हान्नः॑ पितरो दत्त स॒तो वः॑ पितरो देष्मै॒तद्वः॑ पितरो॒ वासः॑ ॥३२॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
नमः॑। वः॒। पि॒त॒रः॒। रसा॑य। नमः॑। वः॒। पि॒त॒रः॒। शोषा॑यः नमः॑। वः॒। पि॒त॒रः॒। जी॒वाय॑। नमः॑। वः॒। पि॒त॒रः॒। स्व॒धायै॑। नमः॑। वः॒। पि॒त॒रः॒। घो॒राय॑। नमः॑। वः॒। पि॒त॒रः॒। म॒न्यवे॑। नमः॑। वः॒। पि॒त॒रः॒। पि॒त॒रः॑। नमः॑। वः॒। गृ॒हान्। नः॒। पि॒त॒रः॒। द॒त्त॒। स॒तः। वः॒। पि॒त॒रः॒। दे॒ष्म॒। ए॒तत्। वः॒। पि॒त॒रः॒। वासः॑। ३२।
महीधरः
म० ‘नमो व इत्यञ्जलिं करोतीति’ ( का० ४।१।१५)। षट्कृत्वो नमस्करोति । ‘षड्वा ऋतवः पितरः’ इति श्रुतेः । रसादिशब्देन वसन्तादिषडृतव उच्यन्ते । ते च पितॄणां स्वरूपभूताः अतस्तेभ्यो नमस्करोति । हे पितरः, वो युष्माकं संबन्धिने रसाय रसभूताय वसन्ताय नमः । यतो मध्वादयो रसा वृक्षेषु जायन्तेऽतो रसशब्देन वसन्तः । युष्मद्रूपाय वसन्ताय नम इत्यर्थः । एवमग्रेतना मन्त्रा व्याख्येयाः । शोषाय । शुष्यन्त्योषधयो यत्रेति शोषो ग्रीष्मः । जीवाय जीवनहेतुभूताय जलाय वर्षर्तवे । स्वधायै शरदे । ‘स्वधा वै शरत् स्वधा वै पितृणामन्नं’ इति श्रुतेः । शरदि हि प्रायशोऽन्नानि भवन्ति । घोराय विषमाय हेमन्ताय । हेमन्तः शीतप्रचुरत्वेन दुःखदत्वात् घोरः । मन्यवे मन्युः क्रोधस्तद्रूपाय शिशिराय । शिशिरस्तु सर्वोषधीर्दहति । हे पितरः, एवंविधऋतुरूपेभ्यो वो युष्मभ्यं नमः। हे पितरः, वो नम इत्यभ्यास आदरातिशयार्थः । हे पितरः, नोऽस्मभ्यं गृहान् दत्त । भार्यापुत्रपौत्रादयो गृहाः। हे पितरः, वो युष्मभ्यं सतः विद्यमानात् देष्म ददामः । सतो धनादि युष्मभ्यमस्माभिर्दातव्यम् । ददतामस्माकं कदाचिद्द्रव्यक्षयो मास्त्वित्यर्थः ॥ ‘एतद्व इत्युपास्यति सूत्राणि प्रतिपिण्डमूर्णा दशा वा वयस्युत्तरे यजमानलोमानि वेति’ (का० ४ । ७ । १६-१८)। हे पितरः, वो युष्मभ्यमेतद्वासःसूत्रमेव परिधानमस्तु ॥ ३२ ॥
त्रयस्त्रिंशी।
अधिमन्त्रम् (VC)
- पितरो देवताः
- वामदेव ऋषिः
- ब्राह्मी बृहती, स्वराड् बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
अब पितृयज्ञ किस प्रकार से और किस प्रयोजन के लिये किया जाता है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (पितरः) विद्या के आनन्द को देनेवाले विद्वान् लोगो ! (रसाय) विज्ञानरूपी आनन्द की प्राप्ति के लिये (वः) तुम को हमारा (नमः) नमस्कार हो। हे (पितरः) दुःख का विनाश और रक्षा करनेवाले विद्वानो ! (शोषाय) दुःख और शत्रुओं की निवृत्ति के लिये (वः) तुम को हमारा (नमः) नमस्कार हो। हे (पितरः) धर्मयुक्त जीविका के विज्ञान करानेवाले विद्वानो ! (जीवाय) जिससे प्राण का स्थिर धारण होता है, उस जीविका के लिये (वः) तुम को हमारा (नमः) शील-धारण विदित हो। हे (पितरः) विद्या, अन्न आदि भोगों की शिक्षा करने हारे विद्वानो ! (स्वधायै) अन्न, पृथिवी, राज्य और न्याय के प्रकाश के लिये (वः) तुम को हमारा (नमः) नम्रीभाव विदित हो। हे (पितरः) पाप और आपत्काल के निवारक विद्वान् लोगो ! (घोराय) दुःखसमूह की निवृत्ति के लिये (वः) तुम को हमारा (नमः) क्रोध का छोड़ना विदित हो। हे (पितरः) श्रेष्ठों के पालन करने हारे विद्वानो ! (मन्यवे) दुष्टाचरण करनेवाले दुष्ट जीवों में क्रोध करने के लिये (वः) तुम को हमारा (नमः) सत्कार विदित हो। हे (पितरः) ज्ञानी विद्वानो ! (वः) तुम को विद्या के लिये (नमः) हमारी विज्ञान ग्रहण करने की इच्छा विदित हो। हे (पितरः) प्रीति के साथ रक्षा करनेवाले विद्वानो ! (वः) तुम्हारे सत्कार होने के लिये हमारा (नमः) सत्कार करना तुम को विदित हो। आप लोग हमारे (गृहान्) घरों में नित्य आओ और आके रहो। हे (पितरः) विद्या देनेवाले विद्वानो ! (नः) हमारे लिये शिक्षा और विद्या नित्य (दत्त) देते रहो। हे पिता-माता आदि विद्वान् पुरुषो ! हम लोग (वः) तुम्हारे लिये जो-जो (सतः) विद्यमान पदार्थ हैं, वे नित्य (देष्म) देवें। हे (पितरः) सेवा करने योग्य पितृ लोगो ! हमारे दिये इन (वासः) वस्त्रादि को ग्रहण कीजिये ॥३२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में अनेक बार (नमः) यह पद अनेक शुभगुण और सत्कार प्रकाश करने के लिये धरा है। जैसे वसन्त, ग्रीष्म, शरद्, हेमन्त और शिशिर ये छः ऋतु रस, शोष जीव, अन्न, कठिनता और क्रोध के उत्पन्न करनेवाले होते हैं, वैसे ही पितर भी अनेक विद्याओं के उपदेश से मनुष्यों को निरन्तर सुख देते हैं। इस से मनुष्यों को चाहिये कि उक्त पितरों को उत्तम-उत्तम पदार्थों से सन्तुष्ट करके उनसे विद्या के उपदेश का निरन्तर ग्रहण करें ॥३२॥
दयानन्द-सरस्वती (सं) - विषयः
अथ कथं किमर्थोऽयं पितृयज्ञः क्रियत इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे पितरो रसाय वो युष्मभ्यं नमोस्तु। हे पितरः शोषाय वो नमोस्तु। हे पितरो जीवाय वो नमोस्तु। हे पितरः स्वधायै वो नमोस्तु। हे पितरो घोराय वो नमोस्तु। हे पितरो मन्यवे वो नमोस्तु। हे पितरो विद्यायै वो नमोस्तु। हे पितरः सत्काराय वो नमस्तु। यूयमस्माकं गृहाणि नित्यमागच्छत। आगत्य च शिक्षाविद्ये नित्यं दत्त। हे पितरो वयं वो युष्मभ्यं सतः पदार्थान् नित्यं देष्म। पितरो यूयमस्माभिरेतद्दत्तं वासो वस्त्रादिकं स्वीकुरुत ॥३२॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्रानेके नमः शब्दा अनेकशुभगुणसत्कारद्योतनार्था। यथा वसन्तग्रीष्मवर्षाशरद्धेमन्तशिशिराः षडृतवो रसशोषजीवान्नघनत्वमन्यूत्पादका भवन्ति, तथैव ये पितरोऽनेकविद्योपदेशैर्मनुष्यान् सततं प्रीणयन्ति तानुत्तमैः पदार्थैः सत्कृत्य तेभ्यः सततं विद्योपदेशा ग्राह्याः ॥३२॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात अनेकदा (नमः) हे पद चांगले गुण व आदर व्यक्त करण्यासाठी आलेले आहे, जसे वसंत, ग्रीष्म, वर्षा, शरद, हेमंत व शिशिर हे सहा ऋतू रस, शोष, चैतन्य, अन्न, काठिण्य, क्रोध उत्पन्न करणारे असतात. तसेच पितरही माणसांना अनेक प्रकारच्या विद्यांचा उपदेश करून निरंतर सुख देतात. त्यासाठी माणसांनी पितरांना उत्तम पदार्थ देऊन संतुष्ट करावे व त्यांच्याकडून विद्या ग्रहण करावी.
३३ आधत्त पितरो
विश्वास-प्रस्तुतिः ...{Loading}...
आध॑त्त पितरो॒ गर्भं॑ कुमा॒रं पुष्क॑रस्रजम्। यथे॒ह पुरु॒षोऽस॑त् ॥३३॥
मूलम् ...{Loading}...
आध॑त्त पितरो॒ गर्भं॑ कुमा॒रं पुष्क॑रस्रजम्। यथे॒ह पुरु॒षोऽस॑त् ॥३३॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
आ। ध॒त्त॒। पि॒त॒रः॒। गर्भ॑म्। कु॒मा॒रम्। पुष्क॑रस्रज॒मिति॒ पुष्क॑रऽस्रजम्। यथा॑। इ॒ह। पुरु॑षः। अस॑त्। ३३।
महीधरः
म० ‘आधत्तेति मध्यमं पिण्डं पत्नी प्राश्नाति पुत्रकामेति’ (का० ४ । १।२२)। गायत्री पितृदेवत्या । हे पितरः, यथा इहास्मिन्नेव ऋतौ पुरुषः असत् पुरुषः देवपितृमनुष्याणामपेक्षितार्थस्य पूरयिता भूयात् । तथा कुमारं गर्भं पुत्ररूपं गर्भं यूयमाधत्त संपादयत । किंभूतं कुमारम् । येन प्रकारेणेह पुष्करस्रजं पुष्कराणां पद्यानां स्रक् माला ययोस्तौ पुष्करस्रजौ । अश्विनौ अश्विनीकुमारौ । पुष्करस्रजौ पद्ममालिनौ देवानां भिषजौ तत्तुल्यः कुमारः पुष्करस्रक् तम् । अश्विसाम्यकथनेन रोगहीनं सुन्दरं च पुत्रमाधत्तेति सूचितम् ॥ ३३ ॥
चतुस्त्रिंशी।
अधिमन्त्रम् (VC)
- पितरो देवताः
- वामदेव ऋषिः
- निचृद् गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
उक्त पितरों को क्या क्या करना चाहिये, सो अगले मन्त्र में उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (पितरः) विद्यादान से रक्षा करनेवाले विद्वान् पुरुषो ! आप (यथा) जैसे यह ब्रह्मचारी (इह) इस संसार वा हमारे कुल में अपने शरीर और आत्मा के बल को प्राप्त होके विद्या और पुरुषार्थयुक्त मनुष्य (असत्) हो वैसे (गर्भम्) गर्भ के समान (पुष्करस्रजम्) विद्या ग्रहण के लिये फूलों की माला धारण किये हुए (कुमारम्) ब्रह्मचारी को (आधत्त) अच्छी प्रकार स्वीकार कीजिये ॥३३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में लुप्तोपमालङ्कार है। ईश्वर आज्ञा देता है कि विद्वान् पुरुष और स्त्रियों को चाहिये कि विद्यार्थी, कुमार वा कुमारी को विद्या देने के लिये गर्भ के समान धारण करें। जैसे क्रम-क्रम से गर्भ के बीच देह बीच बढ़ता है, वैसे अध्यापक लोगों को चाहिये कि अच्छी-अच्छी शिक्षा से ब्रह्मचारी, कुमार वा कुमारी को श्रेष्ठ विद्या में वृद्धियुक्त करें तथा (उनका) पालन करें। वे विद्या के योग से धर्मात्मा और पुरुषार्थयुक्त होकर सदा सुखी हों, यह अनुष्ठान सदैव करना चाहिये ॥३३॥
दयानन्द-सरस्वती (सं) - विषयः
तैः किं किं कर्तव्यमित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे पितरो ! यूयं यथायं ब्रह्मचारीह शरीरात्मबलं प्राप्य पुरुषवद्भवति, तथैव गर्भमिव पुष्करस्रजं कुमारं विद्यार्थिनमाधत्त धारयत ॥३३॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र लुप्तोपमालङ्कारः। ईश्वर आज्ञापयति। विद्वद्भिर्विदुषीभिश्च विद्यार्थिनः कुमारा विद्यार्थिन्यः कुमार्य्यश्च विद्यादानाय गर्भवद्धार्य्याः। यथा गर्भे देहः क्रमेण वर्धते तथैव सुशिक्षयैव एताश्च सद्विद्यायां वर्धयितव्याः पालनीयाश्च। यतो विद्यायोगेन धार्मिकाः पुरुषार्थयुक्ता भूत्वा सदैव सुखयुक्ता भवेयुरित्येतत् सदैवानुष्ठेयमिति ॥३३॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात लुप्तोपमालंकार आहे. ईश्वर अशी आज्ञा करतो की विद्वान स्त्री व पुरुष यांनी विद्यार्थी-कुमार किंवा कुमारी यांना विद्या देण्यासाठी गर्भाप्रमाणे धारण करावे. ज्याप्रमाणे गर्भामध्ये देह क्रमाक्रमाने वाढतो त्याप्रमाणेच अध्यापकांनीही ब्रह्मचारी कुमार व कुमारी यांना श्रेष्ठ विद्या शिकवून वाढवावे व त्यांचे पालन करावे म्हणजे विद्येच्या योगाने ते धर्मात्मा व पुरुषार्थी सदैव सुखी होतील, असे अनुष्ठान सदैव करावे.
३४ ऊर्जं वहन्तीरमृतम्
विश्वास-प्रस्तुतिः ...{Loading}...
ऊर्जं॒ वह॑न्तीर् अ॒मृतं॑ घृ॒तं
पयः॑ की॒लालं॑ परि॒स्रु॑तम्।
स्व॒धा स्थ॑ त॒र्पय॑त मे पि॒तॄन् ॥३४॥
मूलम् ...{Loading}...
ऊर्जं॒ वह॑न्तीर॒मृतं॑ घृ॒तं पयः॑ की॒लालं॑ परि॒स्रु॑तम्। स्व॒धा स्थ॑ त॒र्पय॑त मे पि॒तॄन् ॥३४॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
ऊर्ज॑म्। वह॑न्तीः। अ॒मृत॑म्। घृ॒तम्। पयः॑। की॒लाल॑म्। प॒रि॒स्रुत॒मिति॑ परि॒ऽस्रुत॑म्। स्व॒धाः। स्थ॒। त॒र्पय॑त। मे॒। पि॒तॄन्। ३४।
महीधरः
म०. ‘ऊर्जमित्यपो निषिञ्चतीति’ ( का० ४ । १।१९)। अब्देवत्या विराट् । हे आपः, यूयं स्वधास्थ पित्र्यहविःस्वरूपा भवथ । अतो मे पितॄंस्तर्पयत । कथंभूता आपः । परिस्रुतं वहन्तीः । पुष्पेभ्यो निःसृतं सारं वहन्त्यः । तच्च सारं त्रिविधम् ऊर्जशब्देन घृतशब्देन पयःशब्देन चाभिधेयम् । तत्रोर्जशब्दोऽन्नगतं स्वादुत्वमभिधत्ते । घृतपयसी प्रसिद्धे । तच्च त्रिविधमपि कीदृशम् । अमृतं सर्वरोगविनाशकं मृत्युनाशकं च । नास्ति मृतं यस्मात्तत् । पुनः कीदृशम् । कीलालम् ‘कील बन्धने’ । कीलनं कीलो बन्धः तमलति वारयतीति कीलालम् । ‘अलं वारणपर्याप्त्योः’ इति धातुः । सर्वबन्धनिवर्तकम् । ईदृशस्य त्रिविधस्य सारस्य वहनादपां पितृतर्पकत्वमुपपन्नम् ॥ ३४ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे । इध्मप्रोक्षादिपित्र्यान्तो द्वितीयोऽध्याय ईरितः ॥ २ ॥
अधिमन्त्रम् (VC)
- आपो देवता
- वामदेव ऋषिः
- भुरिग् उष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
उक्त पितर कौन-कौन पदार्थों से सत्कार करने योग्य हैं, सो अगले मन्त्र में उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे पुत्रादिको ! तुम (मे) मेरे (पितॄन्) पूर्वोक्त गुणवाले पितरों को (ऊर्जम्) अनेक प्रकार के उत्तम-उत्तम रस (वहन्तीः) सुख प्राप्त करनेवाले स्वादिष्ट जल (अमृतम्) सब रोगों को दूर करनेवाले ओषधि मिष्टादि पदार्थ (पयः) दूध (घृतम्) घी (कीलालम्) उत्तम-उत्तम रीति से पकाया हुआ अन्न तथा (परिस्रुतम्) रस से चूते हुए पके फलों को देके (तर्पयत) तृप्त करो। इस प्रकार तुम उनके सेवन से विद्या को प्राप्त होकर (स्वधाः) परधन का त्याग करके अपने धन के सेवन करनेवाले (स्थ) होओ ॥३४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ईश्वर आज्ञा देता है कि सब मनुष्यों को पुत्र और नौकर आदि को आज्ञा देके कहना चाहिये कि तुम को हमारे पितर अर्थात् पिता-माता आदि वा विद्या के देनेवाले प्रीति से सेवा करने योग्य हैं। जैसे कि उन्होंने बाल्यावस्था वा विद्यादान के समय हम और तुम पाले हैं, वैसे हम लोगों को भी वे सब काल में सत्कार करने योग्य हैं, जिससे हम लोगों के बीच में विद्या का नाश और कृतघ्नता आदि दोष कभी न प्राप्त हों ॥३४॥ ईश्वर ने इस दूसरे अध्याय में जो-जो वेदि आदि यज्ञ के साधनों का बनाना, यज्ञ का फल गमन वा साधन, सामग्री का धारण, अग्नि के दूतपन का प्रकाश, आत्मा और इन्द्रियादि पदार्थों की शुद्धि, सुखों का भोग, वेद का प्रकाश, पुरुषार्थ का साधन, युद्ध में शत्रुओं का जीतना, शत्रुओं का निवारण, द्वेष का त्याग, अग्नि आदि पदार्थों को सवारियों में युक्त करना, पृथिवी आदि पदार्थों से उपकार लेना, ईश्वर में प्रीति, अच्छे-अच्छे गुणों का विस्तार और सब की उन्नति करना, वेद शब्द के अर्थ का वर्णन, वायु और अग्नि आदि का परस्पर मिलाना, पुरुषार्थ का ग्रहण, उत्तम-उत्तम पदार्थों का स्वीकार करना, यज्ञ में होम किये हुए पदार्थों का तीनों लोक में जाना आना, स्वयंभू शब्द का वर्णन, गृहस्थों का कर्म, सत्य का आचरण, अग्नि में होम, दुष्टों का निवारण और जिन-जिन का सेवन करना कहा है, उन-उन का सेवन मनुष्यों को प्रीति के साथ करना अवश्य है। इस प्रकार से प्रथमाध्याय के अर्थ के साथ द्वितीयाध्याय के अर्थ की संगति जाननी चाहिए ॥३४॥
दयानन्द-सरस्वती (सं) - विषयः
एते पितरः केन केन पदार्थेन सत्कर्त्तव्या इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे पुत्रादयो ! यूयं मे मम पितॄनूर्जं वहन्तीरमृतं घृतं पयः कीलालं परिस्रुतं दत्त्वा तर्पयतैवं तत्सेवनेन विद्याः प्राप्य स्वधाः स्थ परस्वत्यागेन सदा स्वसेविनो भवत ॥३४॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ईश्वर आज्ञापयति। मनुष्याः सर्वान् पुत्रप्रभृतीन् प्रत्येवमादिशन्तु युष्माभिर्मम पितरो जनका विद्याप्रदाश्च प्रीत्या नित्यं सेवनीयाः। यथा तैर्बाल्यावस्थायां विद्याप्रदानसमये च वयं यूयं च पालितास्तथैवास्माभिरपि ते सर्वदा सर्वथा सत्कर्त्तव्याः। यतो नैवाऽस्माकं मध्ये कदाचिद्विद्यानाशकृतघ्नतादोषौ भवेतामिति ॥३४॥ ईश्वरेण यद्यदस्मिन्नध्याये वेद्यादिरचनं, यज्ञस्य फलगमनसाधकानि सामग्रीधारणम्, अग्नेर्दूतत्वप्रकाशनम्, आत्मेन्द्रियादिशोधनं, सुखभोगो, वेदप्रकाशनं, पुरुषार्थसाधनं, युद्धे विजयकरणं, शत्रुनिवारणं, द्वेषत्यागोऽग्न्यादीनां यानेषु योजनं, पृथिव्यादिभ्य उपकारग्रहणम्, ईश्वरे प्रीतिर्दिव्यगुणविस्तरणं, सर्वरक्षणं, वेदशब्दार्थवर्णनं, वाय्वग्न्यादीनां परस्परमेलनं, पुरुषार्थग्रहणम्, उत्तमानां पदार्थानां स्वीकरणं, त्रिषु लोकेषु यज्ञाहुतद्रव्यस्य गमनं, पुनस्तस्मादागमनं, स्वयंभूशब्दार्थवर्णनं, गृहस्थकृत्यं, सत्याचरणम्, अग्नौ होमो, दुष्टानां निवारणं, पितृणां सेवनं चोक्तं तत्तन्मनुष्यैः संप्रीत्या सेवनीयमिति प्रथमाध्यायार्थेन सहास्य द्वितीयाध्यायार्थस्य संगतिरस्तीति वेद्यम् ॥३४॥ इति श्रीमत्परिव्राजकाचार्य्यश्रीयुतदयानदसरस्वतीस्वामिना सुविरचिते संस्कृतार्य्यभाषाविभूषिते यजुर्वेदभाष्ये द्वितीयोऽध्यायः सम्पूर्णः ॥२॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ईश्वर अशी आज्ञा देतो की सर्व माणसांनी पुत्रांना व सेवकांना जसा आदेश द्यावा. ‘‘आमचे पितर अर्थात माता, पिता व विद्वानांची प्रेमाने सेवा करा. बाल्यावस्थेत त्यांनी आमचे पालन करून विद्यादान केलेले आहे त्यामुळे आपणही सदैव त्यांचा सत्कार करणे योग्य आहे. कारण त्यामुळे आमच्यात विद्यानाश व कृतघ्नता इत्यादी दोष येणर नाहीत. ’’