०१ इषे त्वोर्जे
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒षे त्वो॒र्जे त्वा॑ वा॒यव॑ स्थ दे॒वो वः॑ सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑ण॒ऽआप्या॑यध्वमघ्न्या॒ऽइन्द्रा॑य भा॒गं प्र॒जाव॑तीरनमी॒वाऽअ॑य॒क्ष्मा मा व॑ स्ते॒नऽई॑शत॒ माघशँ॑सो ध्रु॒वाऽअ॒स्मिन् गोप॑तौ स्यात ब॒ह्वीर्यज॑मानस्य प॒शून् पा॑हि ॥१॥
मूलम् ...{Loading}...
इ॒षे त्वो॒र्जे त्वा॑ वा॒यव॑ स्थ दे॒वो वः॑ सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑ण॒ऽआप्या॑यध्वमघ्न्या॒ऽइन्द्रा॑य भा॒गं प्र॒जाव॑तीरनमी॒वाऽअ॑य॒क्ष्मा मा व॑ स्ते॒नऽई॑शत॒ माघशँ॑सो ध्रु॒वाऽअ॒स्मिन् गोप॑तौ स्यात ब॒ह्वीर्यज॑मानस्य प॒शून् पा॑हि ॥१॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
इ॒षे। त्वा॒। ऊ॒र्ज्जे। त्वा॒। वा॒यवः॑। स्थ॒। दे॒वः। वः॒। स॒वि॒ता। प्र। अ॒र्प॒य॒तु॒। श्रे॑ष्ठतमा॒येति॒ श्रे॑ष्ठऽतमाय। कर्म्म॑णे। आ। प्या॒य॒ध्व॒म्। अ॒घ्न्याः॒। इन्द्रा॑य। भा॒गं। प्र॒जाव॑ती॒रिति॑। प्र॒जाऽव॑तीः। अ॒न॒मी॒वाः। अ॒य॒क्ष्माः। मा। वः॒। स्ते॒नः। ई॒श॒त॒। मा अ॒घशँ॑सः॒ इत्य॒घऽशँ॑सः। ध्रुवाः। अस्मिन्। गोप॑ता॒विति॒ गोऽप॑तौ। स्या॒त॒। ब॒ह्वीः। यज॑मानस्य। प॒शून्। पा॒हि॒। १।
महीधरः
उपोद्घातम्
महीधरभाष्यम् ।
प्रणम्य लक्ष्मीं नृहरिं गणेशं भाष्यं विलोक्यौवटमाधवीयम् ।
यजुर्मनूनां विलिखामि चार्थं परोपकाराय निजेक्षणाय ॥ १ ॥
दूरादसूयां निर्धूय कृपां कृत्वा ममोपरि ।
विलोक्यो वेददीपोऽयं बुद्धिमद्भिर्द्विजोत्तमैः ॥ २ ॥
तत्रादौ ब्रह्मपरम्परया प्राप्तं वेदं वेदव्यासो मन्दमतीन्मनुष्यान्विचिन्त्य तत्कृपया चतुर्धा व्यस्य ऋग्यजुःसामाथर्वाख्यांश्चतुरो वेदान् पैलवैशम्पायनजैमिनिसुमन्तुभ्यः क्रमादुपदिदेश ते च स्वशिष्येभ्यः । एवं परम्परया सहस्रशाखो वेदो जातः । तत्र व्यासशिष्यो वैशम्पायनो याज्ञवल्क्यादिभ्यः स्वशिष्येभ्यो यजुर्वेदमध्यापयत् । तत्र दैवात्केनापि हेतुना क्रुद्धो वैशम्पायनो याज्ञवल्क्यं प्रत्युवाच मदधीतं त्यजेति । स योगसामर्थ्यान्मूर्तां विद्यां विधायोद्ववाम । वान्तानि यजूंषि गृह्णीतेति गुरूक्ता अन्ये वैशम्पायनशिष्यास्तित्तिरयो भूला यजूंष्यभक्षयन् । तानि यजूंषि बुद्धिमालिन्यात्कृष्णानि जातानि । ततो दुःखितो याज्ञवल्क्यः सूर्यमाराध्य अन्यानि शुक्लानि यजूंषि प्राप्तवान् । तानि च जाबालबौधेयकाण्वमाध्यन्दिनादिभ्यः पञ्चदशशिष्येभ्यः पाठितवान् । तथाच श्रुतिः ‘आदित्यानीमानि शुक्लानि यजूᳪं᳭षि वाजसनेयेन याज्ञवल्क्येनाख्यायन्ते’ (बृह० ५।५।३३) इति । अस्यार्थः । आदित्यादधीतान्यादित्यानि । शुक्लानि शुद्धानि । वाजस्यान्नस्य सनिर्दानं यस्य स वाजसनिस्तदपत्यं वाजसनेयस्तेन याज्ञवल्क्येन शिष्येभ्य आख्यायन्ते कथ्यन्त इत्यर्थः । तत्र मध्यन्दिनेन महर्षिणा लब्धो यजुर्वेदशाखाविशेषो माध्यन्दिनः । यद्यपि याज्ञवल्क्येन बहुभ्यः शिष्येभ्य उपदिष्टः, तथापि ईश्वरकृपया मध्यन्दिनसंबन्धितया लोके प्रख्यायते । तं माध्यन्दिनं वेदं येऽधीयन्ते विदन्ति वा शिष्यपरम्परया वर्तमानास्तेऽपि माध्यन्दिना उच्यन्ते ॥
अतएव ‘स्वाध्यायोऽध्येतव्यः’ (शत० ब्रा० ११।५। ६ । ७) इति स्वशाखाध्ययनं विहितम् । तच्चाध्ययनं प्रतिमन्त्रमृषिछन्दोदेवताविनियोगार्थज्ञानपूर्वकं विधेयम् । अन्यथा दोषश्रवणात् । ‘एतान्यविदित्वा योऽधीतेऽनुब्रूते जपति जुहोति यजते याजयते तस्य ब्रह्म निर्वीर्यं यातयामं भवत्यथान्तराश्वगर्तं वापद्यते स्थाणुं वर्च्छति प्रवामीयते पापीयान्भवति (अनुक्रम १।१) इति कात्यायनोक्तेः । ऋष्यादिज्ञाने फलश्रवणाच्च । ‘अथ विज्ञायैतानि योऽधीते तस्य वीर्यवदथ योऽर्थवित्तस्य वीर्यवत्तरं भवति जपित्वा हुत्वेष्ट्वा तत्फलेन युज्यते’ ( अनु० १।१) इत्युक्तेश्च । तस्माद्वेदमन्त्राणामृष्यादिज्ञानमर्थज्ञानं चावश्यकम् । अन्यथा फलवैकल्यात् । तत्र यजुर्वेदमन्त्रेषु कानिचित् यजूंषि काश्चन ऋचः । तत्र ऋचां नियताक्षरपादावसानानामावश्यकं छन्दः कात्यायनेनोक्तम् । यजुषां षडुत्तरशताक्षरावसानानामेकाक्षरादीनां पिङ्गलेन ‘दैव्येकम्’ इत्यादिनोक्तं छन्दो बोद्धव्यम् । तदधिकानां तु ‘होता यक्षद्वनस्पतिमभिहि’ (अध्या० २१ । ४६) इत्यादीनां नास्ति छन्दःकल्पना ॥–तत्राद्याध्याये द्वितीयाध्यायाष्टाविंशतिकण्डिकाश्चेति दर्शपूर्णमासमन्त्राः । तेषां परमेष्ठी प्रजापतिर्ऋषिर्देवता प्राजापत्या वा । द्वितीयाध्यायान्तिमकण्डिकाषट्कं पितृयज्ञमन्त्रास्तेषां प्रजापतिर्ऋषिः । आद्येऽध्याये सर्वाणि यजूंषि । एका ‘पुरा क्रूरस्य’ (१ । २८) इति ऋक् । यजुषां पिङ्गलोक्तं छन्दो बोद्धव्यं विस्तरभयान्नोच्यते ।
ऋचांतु छन्दांसि वक्तव्यानि । तत्राद्यायां कण्डिकायां पञ्च मन्त्राः । द्वौ त्र्यक्षरौ । तृतीयश्चतुरक्षरः । चतुर्थो द्विषष्ट्यक्षरः । पञ्चमो नवाक्षरः । तत्र प्रकृतिवादादौ दर्शपूर्णमासमन्त्राः । यत्र कृत्स्नाङ्गानामुपदेशः क्रियते सा प्रकृतिः । यत्र विशेषाङ्गमात्रमुपदिश्यतेऽङ्गान्तराणि तु प्रकृतेरतिदिश्यन्ते सा विकृतिः । तत्र प्रकृतिस्त्रिविधा–अग्निहोत्रम्, इष्टिः, सोमश्चेति । तत्र यद्यपि कृताधानस्यैव दर्शपूर्णमासयोरधिकारादादौ अग्न्याधानमन्त्रा वक्तुमुचितास्तथाप्याधाने पवमानेष्टयो विधेयास्ता अन्तराधानस्यैवासिद्धेः । पवमानेष्टीनां च दर्शपूर्णमासविकृतित्वात्सोमेऽपि दीक्षणीयप्रायणीयादिषु दर्शपूर्णमाससापेक्षत्वादादौ दर्शपूर्णमासमन्त्रा गदितुं युक्ताः । ते चेषेत्वादयः।-तत्रेषेत्वेति द्विपदस्यक्षरो मन्त्रः । तस्य दैव्यनुष्टुप्छन्दः । शाखा देवता । पलाशशाखाच्छेदने विनियोगः । शाखादीनामचेतनत्वेऽपि तदभिमानिनीनां देवतानां सत्त्वाद्देवतात्वम् । ‘अभिमानिव्यपदेशस्तु’ इति व्याससूत्रोक्तेः । ‘मृदब्रवीदापोऽब्रुवन्’ इति श्रुतेश्च । तस्माच्छाखोखापयःस्रुक्यूपादीनामपि देवतात्वम् । तत्र प्रतिपदि दर्शयागं चिकीर्षुरमावास्यायां प्रातरग्निहोत्रं हुत्वा दर्शयागार्थं ‘ममाग्नेवर्चः’ (कात्या. २। १ । ३) इति मन्त्रेणाग्निषु समिदाधानरूपमन्वाधानं कृत्वा वत्सापाकरणं कुर्यात् । दर्शयागे त्रीणि हवींषि सन्ति । आग्नेयोऽष्टाकपाल ऐन्द्रं दध्यैन्द्रं पय इति । तत्र प्रतिपदि दधि होतुं दध्नो निष्पत्त्यै रात्रावमावास्यायां गावो दोग्धव्याः । तद्दोहनार्थं प्रातर्लौकिकदोहादूर्ध्वं स्वमातृभिः सह चरन्तो वत्साः स्वमातृभ्यः पलाशशाखयाऽपाकरणीयाः। तदर्थं पलाशशाखाच्छेदनम् । गायत्र्या पक्षिरूपं विधाय यदा दिवः सोमवल्ल्याहृता तदा तत्पत्रं भूमावुप्तं ततः पलाशोऽभवदिति श्रुत्या ( श० ब्रा० १। ७ । १ - ८ । २ । १०) पलाशस्य प्राशस्त्यं ब्रह्मत्वं चोक्तं तस्मात्पलाशशाखाच्छेदनम् ॥
म० अथ मन्त्रार्थः क्रियापदाध्याहारेण । हे शाखे, इषे वृष्ट्यै त्वा त्वां छिनद्मि । इष्यते काङ्क्ष्यते सर्वैर्व्रीह्यादिधान्यनिष्पत्तये सा इट् । श्रुत्या वृष्टिर्व्याख्याता। कर्मणि क्विप् । ‘वृष्ट्यै तदाह यदाहेषे त्वा’ (१।७।१।२) इति श्रुतेः । ‘पर्णशाखां छिनत्ति शामीलीं वेषे त्वेत्यूर्जे त्वेति वा छिनद्मि इति वोभयोः साकाङ्क्षत्वात्सन्नमयामीति वोत्तर’ (कात्या० ४ । २ । १-३) इति कात्यायनोक्तेः छिनद्मीति क्रियापदमध्याहर्तव्यम् । कात्यायनसूत्रस्यायमर्थः-पलाशशाखा शमीशाखा वात्र विकल्पिता । तच्छेदने इषे त्वोर्जे त्वेति द्वौ मन्त्रौ विकल्पितौ । तयोः क्रियापदाकाङ्क्षत्वादर्थावबोधाय छिनद्मि इति पदमध्याहर्तव्यमित्येकः पक्षः । इषे त्वेति छेदनार्थो मन्त्रः । ऊर्जे त्वेति संनमनार्थः । संनमनं ऋजूकरणं शाखालग्नधूल्याद्यपनयनम् । इदं पक्षान्तरमित्यर्थः । ऊर्जे वा । शाखैव देवता । हे शाखे, त्वा त्वां संनमयामि ऋजूकरोमि । किमर्थम् । ऊर्जे ‘ऊर्ज बलप्राणनयोः’ । ऊर्जति सर्वान्मनुष्यपश्वादीन्बलयति पानादिना दृढशरीरान्करोति । यद्वा । प्राणयति प्रकर्षेण चेष्टयतीति व्युत्पत्तिद्वयेन वृष्टिगतो जलात्मको रस ऊर्जशब्देनोच्यते । तस्मै रसाय त्वामनुमार्ज्मि । ‘यो वृष्टादूर्ग्रसो जायते तस्मै तदाह’ (१। ७ । १ । २) इति श्रुतेः । एतन्मन्त्रद्वयपाठेनाध्वर्युरिष्यमाणमन्नं बलकरमाज्यक्षीरादिरसं च यजमाने संपादयत्येव । ‘इषे त्वोर्जे त्वेत्याहेषमेवोर्जं यजमाने दधाति’ इति तित्तिरिवचनात् । कात्यायनः ‘मातृभिर्वत्सान्संसृज्य वत्सं शाखयोपस्पृशति वायवः स्थ’ (४ । २ । ७) इति वायुर्देवता । ‘वा गतिगन्धनयोः’ । वान्ति गच्छन्तीति वायवो गन्तारः । हे वत्साः, यूयं वायवः स्थ मातृभ्यः सकाशादन्यत्र गन्तारो भवत । मातृभिः सह गमने सति सायं दोहो न लभ्यत इत्यभिप्रायः । यद्वा । वायुसादृश्याद्वत्सानां वायुत्वम् । यथा वायुः पादप्रक्षालननिष्टीवनादिभिरुपहतां भूमिं शोषयित्वा पुनाति, एवं वत्सा अप्यनुलेपनहेतुभूतगोमयादिदानेन भूमिं पुनन्ति तस्माद्वायुसादृश्यम् । अथवा नृणां यथा स्वनिवासाय गृहनिर्माणसामर्थ्यमस्ति एवं पशूनां तदभावान्निरावरणेऽन्तरिक्षे संचरणादन्तरिक्षमेव पशूनां देवता । तस्यान्तरिक्षस्य वायुरधिपतिः । स च वायुः स्वावयवानिव पशून्यालयतीति पशूनां वायुरूपत्वम् । तथा पालनाय पशून्वायवे समर्पयितुं वायुरूपत्वमापाद्य वायवः स्थेति मन्त्रः प्रवर्तते । तदुक्तं तित्तिरिणा ‘वायवः स्थेत्याह वायुर्वा अन्तरिक्षस्याध्यक्षोऽन्तरिक्षदेवत्याः खलु पशवो वायव एवैतान्परिददाति’ इति । यद्वा तृणभक्षणायाहनि तत्र तत्रारण्ये चरित्वा सायंकाले वायुवेगेन यजमानगृहे समागमनाय पशून्प्रवर्तयितुं वायुरूपत्वमुच्यते । कात्यायनः ‘देवो व इति मातॄणामेकां व्याकृत्येन्द्रं भवति माहेन्द्रं वा’ (४ । २ । ९ । १०) इति । अस्यार्थः । पूर्वसूत्राच्छाखयोपस्पृशतीति पदद्वयमनुवर्तते । वत्सानां मातरो या गावः सन्ति तासां मध्ये एकां गां व्याकृत्य पृथक्कृत्य देवो व इति मन्त्रेण शाखयोपस्पृशेत् । तथा सति गोसंबन्धि दधिरूपं हविरैन्द्रं माहेन्द्रं वा भवतीति देवो व इति मन्त्रस्येन्द्रो देवता । ‘षू प्रेरणे’ । सुवति स्वस्वव्यापारे प्रेरयतीति सविता । देवः द्योतमानः परमेश्वरः । हे गावः, वो युष्मान् प्रार्पयतु प्रभूततृणोपेतं वनं गमयतु । किमर्थम् । श्रेष्ठतमाय कर्मणे । चतुर्विधं कर्म । अप्रशस्तम् , प्रशस्तं, श्रेष्ठम् , श्रेष्ठतमं चेति । लोकविरुद्धं वधबन्धचोर्यादिकमप्रशस्तम् । लोकैः श्लाघनीयं बन्धुवर्गपोषणादिकं | प्रशस्तम् । स्मृत्युक्तं वापीकूपतडागादिकं श्रेष्ठम् । वेदोक्तं यज्ञरूपं श्रेष्ठतममिति तल्लक्षणम् । ‘यज्ञो वै श्रेष्ठतमं कर्म’ (१।७। १। ५) इति श्रुतेः । हे अघ्न्याः गावः, गोवधस्योपपातकरूपत्वाद्धन्तुमयोग्या अघ्न्या उच्यन्ते । तथाविधा यूयमिन्द्राय भागं इन्द्रमुद्दिश्य संपादयिष्यमाणदधिरूपहेतु क्षीरम् । आप्यायध्वं समन्ताद्वर्धयध्वम् । सर्वास्वपि गोषु प्रभूतक्षीरं कुरुत । । ओप्यायी वृद्धौ’ । वो युष्मानपहर्तुं स्तेनश्चौरो मा ईशत ईश्वरः समर्थो मा भूत् । अघशंसः अघेन तीव्रपापेन भक्षणादिना शंसो घातको व्याघ्रादिरपि मा ईशत वो हिंसको मा भूत् । कीदृशीर्युष्मान् । प्रजावतीः बह्वपत्याः । अनमीवाः अमीवा व्याधिः स नास्ति यासां ताः अनमीवाः कृमिदष्टत्वादिस्वल्परोगरहिताः । | अयक्ष्माः यक्ष्मा रोगराजः । प्रबलरोगरहिताः। किंच यूयं गोपतौ गवां युष्माकं पत्यावस्मिन् यजमाने ध्रुवाः शाश्वतिकीः बह्वीर्बहुविधाः स्यात भवत । ‘यजमानस्य पशूनित्यग्न्यगारस्यान्यतरस्य पुरस्ताच्छाखामुपगूहति’ ( का० ४ । २ । ११) इति । | हे पलाशशाखे, त्वमुन्नतप्रदेशे स्थित्वा प्रतीक्षमाणा सती यजमानस्य पशून् अरण्ये संचरतश्चोरव्याघ्रादिभयात् पाहि रक्ष । शाखया रक्षिता गावो निरुपद्रवाः सत्यः सायं पुनरागच्छन्तीत्याशयः । यद्यप्यचेतना शाखा तथापि तदभिमानिनीदेवतामुद्दिश्यैवमुक्तम् । यथा शास्त्रज्ञा अचेतनेऽपि शालग्रामे शास्त्रदृष्ट्या विष्णुसंनिधिमभिप्रेत्य विष्णुं संबोध्य षोडशोपचारान्विदधत इत्युक्तं प्राक् ॥
अथ व्याकरणप्रक्रिया । इषे । इषेरिच्छार्थस्य कर्मणि क्विप् । कित्त्वादुपधाया गुणाभावः । तस्माच्चतुर्थ्येकवचनम् । इषशब्दगत इकारो धातुस्वरेण प्रातिपदिकस्वरेण चोदात्तः । स्वरविधौ व्यञ्जनस्याविद्यमानत्वात् । चतुर्थ्येकवचनस्य (पद्यं) प्रत्ययत्वादाद्युदात्तत्वे प्राप्ते ‘अनुदात्तौ सुप्पितौ’ (पा० ३ । १। ४) इति तदपवादेनानुदात्तत्वे प्राप्तेऽपि ‘सावेकाचस्तृतीयादिर्विभक्तिः’ (पा० ६ । १ । १६८) इत्युदात्तत्वम् । तस्मिन् सति ‘अनुदात्तं पदमेकवर्जम्’ (पा० ६।१।१५८) इतीकारोऽनुदात्तः । यद्यप्येकशब्देन द्वयोरुदात्तयोरन्यतरो यः कोऽपि वक्तुं शक्यते तथापि ‘सति शिष्टस्वरो बलीयान्’ (पा० ६।१।१५८) इति न्यायेन विभक्तिगत उदात्त एव प्रबलः ॥ तथा सत्यनुदात्तादिकमुदात्तान्तमिदं पदं संपन्नम् । त्वा । युषेर्भजनार्थस्य ‘युष्यसिभ्यां मदिक्’ (उ० १ । १४४ ) इति मदिक्प्रत्ययान्तस्य युष्मच्छब्दस्य द्वितीयायां त्वेति रूपम् । तस्य प्रातिपदिकस्वरेण यद्यपि उदात्तः प्राप्तस्तथापि ‘अनुदात्तं सर्वमपादादौ’ (पा० ८।१।१८) इत्यस्य सूत्रस्य अनुवृत्तौ सत्यां ‘त्वामौ द्वितीयायाः’ (पा० ८।१।२३) इति त्वादेशविधानादयं शब्दोऽनुदात्तः ॥ ऊर्जे । ‘ऊर्ज बलप्राणनयोः’ अस्मात्क्विप् । ऊर्जति बलवन्तं प्राणवन्तं वा करोतीत्यूर्क् अन्नम् । ‘ऊर्गित्यन्ननामोर्जयति सतः’ (निरु० ९।२७) इति यास्कः । स्वर इषेवत् । संहितायां तु ‘उदात्तस्य स्वरितः’ (पा० ८ । ४ । ६६) इति त्वाशब्दस्य स्वरितत्वम् । मन्त्रद्वयस्य संहितायां ऊर्ज इति ऊकारस्य ‘स्वरितात्संहितायामनुदात्तानाम्’ (पा० १।२।३९) इति प्रचयाभिधायामेकश्रुतौ प्राप्तायां तदपवादकत्वेन ‘उदात्तस्वरितपरस्य सन्नतरः’ (पा० १।२ । ४०) इत्यत्यन्तनीचोऽनुदात्तो भवति। अग्रिमस्य त्वाशब्दस्य स्वरितत्वम् । एवमुत्तरपदेषु संहितायां स्वरा ऊहनीयाः । वायवः वातेर्गत्यर्थात् ‘कृवापाजिमिस्वदिसाध्यशूभ्य उण्’ (उ० १।१) इत्युण् । सति शिष्टप्रत्ययस्वरेणान्तोदात्तो वायुशब्दः । जसः सुप्त्वादनुदात्तत्वम् । ‘जसि च’ (पा० ७।३। १०६) इति गुणेऽवादेशे च ‘स्थानेऽन्तरतमः’ (पा० १।१। ५०) इति परिभाषया उदात्त एव जाते वायव इति मध्योदात्तं पदम् । जसः स्वरितत्वं पूर्ववत् ॥ स्थ । अस्तेर्लिटि शपो लुकि ‘श्नसोरल्लोपः’ (पा० ६।४।१११) इति अकारलोपः। ‘तिङ्ङतिङः’ (पा० ८ । १ । २८) इति निघातः ॥ देवः । पचादित्वादच् । ‘चितः’ (पा० ६।१ । १६३ )इत्यन्तोदात्तः ॥ वः ‘बहुवचनस्य वस्नसौ’ (पा० ८।१।२१) इत्यनुदात्तो वसादेशः। सविता ‘षू प्रेरणे’ । ‘ण्वुल्तृचौ’ (पा० ३।१।१३३) इति तृच् । इडागमः चित्त्वादन्तोदात्तः ॥ प्र ‘उपसर्गाश्चाभिवर्जम्’ (फि० ४ । १२) इत्याद्युदात्तः । अर्पयतु ‘ऋ गतौ’ ‘हेतुमति च’ (पा० ३ । १ । २६) । इति णिच् ‘अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुग् णौ’ (पा०७।३।३६) इति पुक् । ‘पुगन्त’ (पा० ७। ३ । ८६ ) इति गुणः निघातश्च । श्रेष्ठतमाय । प्रशस्यशब्दात् ‘अतिशायने तमबिष्ठनौ’ (पा० ५। ३ । ५५) इतीष्ठन् ‘प्रशस्यस्य श्रः’ (पा० ५।३।६०) इति प्रादेशः । ‘ञ्नित्यादिर्नित्यम्’ (पा० ६।१।१९७) इत्याद्युदात्तत्वम् । ततः पुनः तमप् । तस्य पित्त्वादनुदात्तत्वम् । स्वरितप्रचयाः पूर्ववत् ॥ कर्मणे । करोतेर्मनिन् मित्त्वादाद्युदात्तः । आ उदात्तः । प्यायध्वम् ‘ओप्यायी वृद्धौ’ । ‘हेतुमति च’ (पा० ३।१।२६) इति णिच् । तस्य ‘छन्दस्युभयथा’ (पा० ३।४।११७) इत्यार्धधातुकत्वात् ‘णेरनिटि’ (पा० ६।४।५१) इति णिलोपः । निघातः ॥ अघ्न्याः ‘अघ्न्या अहन्तव्या भवन्त्यघ्नीति वा’ (निरु० ११ । ४३ ) इति यास्कः । अघे नञि वोपपदे हन्तेः ‘अघ्न्यादयश्च’ (उ० ४ । ११३ ) इति यगन्तो निपातः । संबुद्धित्वात् ‘आमन्त्रितस्य च’ (पा० ६ । १ । १९८) इत्याष्टमिको निघातः ॥ इन्द्राय ‘इदि परमैश्वर्ये’ ‘इन्धी दीप्तौं’ वा । इन्दति इध्यते वा तेजोभिरिति इन्द्रः । ‘ऋज्रेन्द्र’ (उ० २ । २९) इत्यादिना रन्प्रत्ययान्तो निपातः । नित्त्वादाद्युदात्तः । स्वरितप्रचयौ च ॥ | भागं ‘भज भागसेनवयोः’ । ‘अकर्तरि च कारके संज्ञायाम्’ | (पा० ३।३।१९) इति घञ् । ञित्त्वादाद्युदात्ते प्राप्ते ‘कर्षात्वतो घञोऽन्त उदात्तः’ (पा० ६।१।१५९) इत्यन्तोदात्तत्वम् ॥ तस्य ‘अमि पूर्वः’ (पा० ६।१।१०७) इत्यमा सहैकादेश ‘एकादेश उदात्तेनोदात्तः’ (पा० ८।२।५) इत्युदात्त एव । प्रजावतीः ‘उपसर्गे च संज्ञायाम्’ (पा० ३ । २।९९) इति जनेर्डप्रत्ययः | ततष्टाप् । तेन सहैकादेशेऽप्युदात्तान्तः प्रजाशब्दः । तस्मात् ‘तदस्यास्त्यस्मिन्निति मतुप्’ (पा० ५।२।९४ )। ‘मादुपधायाश्च मतोर्वोऽयवादिभ्यः’ (पा० ८ । २।९) इति मस्य वः । ‘उगितश्च’ (पा० ४।१।६) इति डीप् । मतुप्ङीपोरनुदात्तत्वात्प्रजाशब्दस्वर एव । ‘वा छन्दसि’ (पा० ६।१।१०६) इति पूर्वसवर्णदीर्घत्वम् ॥ अनमीवाः ‘अम रोगे’ । ‘अमेरीवः’ इति ईवप्रत्ययः । यद्वा ‘शेवयह्वजिह्वाग्रीवाप्वामीवाः’ (उ० १ । १५३) इत्यमेर्वन्प्रत्ययान्तो निपातः । तस्य ‘नञो बहुव्रीहौ’ (पा० २।२। ६) ‘समासस्य च’ (पा० ६।१।२२३ । २-१६२ ) इत्यन्तोदात्ते प्राप्ते तदपवादेन ‘बहुव्रीहौ प्रकृत्या पूर्वपदम्’ (पा० ६।२। १) इति पूर्वपदप्रकृतिस्वरत्वे प्राप्ते तदपवादेन ‘नञ्सुभ्याम्’ (पा० ६।२।१७२) इत्यन्तोदात्तत्वम् ॥ अयक्ष्माः तद्वत् स्वरः ॥ मा। निपातत्वादाद्युदात्तः ॥ स्तेनः ‘स्तेन चौर्ये’ । स्तेनयति चोरयतीति स्तेनः । पचाद्यच् । चित्त्वादन्तोदात्तः ॥ ईशत ‘ईश ऐश्वर्ये’ । ‘छन्दसि लुङ्लङ्लिटः’ (पा० ३ । ४ । ६) इति लङ् । ‘व्यत्ययो बहुलम्’ (पा० ३।१।८५) इति बहुवचनम् । ‘न माङ्योगे’ ( पा० ६।४।७४ ) इत्यडभावः । निघातश्च ॥ अघशंसः ‘अघ पापकरणे’ । पचाद्यजन्तोऽघशब्दोऽन्तोदात्तः । अघं शंसति इच्छतीत्यघशंसः । ‘शसि इच्छायाम्’ अच् । ‘तत्पुरुषे तुल्यार्थ-’ (पा० ६।२।२) इत्यादिना पूर्वपदप्रकृतिस्वरत्वम् ॥ ध्रुवाः ‘ध्रुव स्थैर्ये’ । ‘इगुपधज्ञाप्रीकिरः कः’ (पा० ३।१।१३५) इति कः । प्रत्ययस्वरेणान्तोदात्तो ध्रुवशब्दः ॥ अस्मिन् ‘इणो दमुक्’ इति इतेर्दमुक् । अन्तोदात्त इदंशब्दः तस्मात् ङेः स्मिन् । तस्य ‘ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः’ (पा० ६।१।१७१) इत्युदात्तत्वम् ॥ गोपतौ ‘गमेर्डोः’ ( पा० २।६।६ ) इति गोशब्दः प्रत्ययस्वरेणोदात्तः । गवां पतिरिति तत्पुरुषे ‘पत्यावैश्वर्ये’ (पा० ६।२।१८ ) इति पूर्वपदप्रकृतिस्वरत्वम् ॥ स्यात । अस्तेः प्रार्थनायां लिङ् । ‘तस्थस्थमिपां’ (पा० ३।४।१०१) यासुट् सलोपोऽलोपश्च । “तिङ्ङतिङः’ (पा० ८1१।२८)। बह्वीः । बहुशब्दात् ‘वोतो गुणवचनात्’ (पा० ४।१।४४) इति ङीष् । ‘वा छन्दसि’ (पा० ६।१।१०६) इति जसः पूर्वसवर्णत्वम् । प्रत्ययस्वरेणान्तोदात्तः । यजमानस्य ‘पूज्यजोः शानन्’ (पा० ३। २। १२८) इति यजतेः शानन् । नित्त्वादाद्युदात्तः । ‘पशून्’ पश्यन्ति गन्धेनेति पशवः । ‘अर्जिदृशिकमि’ ( उ० १।२७) इत्यादिना दृशेः कुप्रत्ययः पशादेशश्च । प्रत्ययस्वरेणान्तोदात्तः ॥ पाहि पा रक्षणे’ लोट् । ‘तिङ्तिङः’ (पा० ८।१।२८) एवमग्रे पदस्वरप्रक्रियोहनीया विस्तरभयान्नोच्यते ॥१॥
अधिमन्त्रम् (VC)
- सविता देवता
- परमेष्ठी प्रजापतिर्ऋषिः
- स्वराड्बृहती, ब्राह्मी उष्णिक्,
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
इसके प्रथम अध्याय के प्रथम मन्त्र में उत्तम-उत्तम कामों की सिद्धि के लिये मनुष्यों को ईश्वर की प्रार्थना करनी अवश्य चाहिये, इस बात का प्रकाश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य लोगो ! जो (सविता) सब जगत् की उत्पत्ति करनेवाला सम्पूर्ण ऐश्वर्ययुक्त (देवः) सब सुखों के देने और सब विद्या के प्रसिद्ध करनेवाला परमात्मा है, सो (वः) तुम हम और अपने मित्रों के जो (वायवः) सब क्रियाओं के सिद्ध करानेहारे स्पर्श गुणवाले प्राण अन्तःकरण और इन्द्रियाँ (स्थ) हैं, उनको (श्रेष्ठतमाय) अत्युत्तम (कर्मणे) करने योग्य सर्वोपकारक यज्ञादि कर्मों के लिये (प्रार्पयतु) अच्छी प्रकार संयुक्त करे। हम लोग (इषे) अन्न आदि उत्तम-उत्तम पदार्थों और विज्ञान की इच्छा और (ऊर्जे) पराक्रम अर्थात् उत्तम रस की प्राप्ति के लिये (भागम्) सेवा करने योग्य धन और ज्ञान के भरे हुए (त्वा) उक्त गुणवाले और (त्वा) श्रेष्ठ पराक्रमादि गुणों के देने हारे आपका सब प्रकार से आश्रय करते हैं। हे मित्र लोगो ! तुम भी ऐसे होकर (आप्यायध्वम्) उन्नति को प्राप्त हो तथा हम भी हों। हे भगवन् जगदीश्वर ! हम लोगों के (इन्द्राय) परम ऐश्वर्य्य की प्राप्ति के लिये (प्रजावतीः) जिनके बहुत सन्तान हैं तथा जो (अनमीवाः) व्याधि और (अयक्ष्माः) जिनमें राजयक्ष्मा आदि रोग नहीं हैं, वे (अघ्न्याः) जो-जो गौ आदि पशु वा उन्नति करने योग्य हैं, जो कभी हिंसा करने योग्य नहीं, जो इन्द्रियाँ वा पृथिवी आदि लोक हैं, उन को सदैव (प्रार्पयतु) नियत कीजिये। हे जगदीश्वर ! आपकी कृपा से हम लोगों में से दुःख देने के लिये कोई (अघशंसः) पापी वा (स्तेनः) चोर डाकू (मा ईशत) मत उत्पन्न हो तथा आप इस (यजमानस्य) परमेश्वर और सर्वोपकार धर्म के सेवन करनेवाले मनुष्य के (पशून्) गौ, घोड़े और हाथी आदि तथा लक्ष्मी और प्रजा की (पाहि) निरन्तर रक्षा कीजिये, जिससे इन पदार्थों के हरने को पूर्वोक्त कोई दुष्ट मनुष्य समर्थ (मा) न हो, (अस्मिन्) इस धार्मिक (गोपतौ) पृथिवी आदि पदार्थों की रक्षा चाहनेवाले सज्जन मनुष्य के समीप (बह्वीः) बहुत से उक्त पदार्थ (ध्रुवाः) निश्चल सुख के हेतु (स्यात) हों। इस मन्त्र की व्याख्या शतपथ-ब्राह्मण में की है, उसका ठिकाना पूर्व संस्कृत-भाष्य में लिख दिया और आगे भी ऐसा ही ठिकाना लिखा जायगा, जिसको देखना हो, वह उस ठिकाने से देख लेवे ॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्वान् मनुष्यों को सदैव परमेश्वर और धर्मयुक्त पुरुषार्थ के आश्रय से ऋग्वेद को पढ़ के गुण और गुणी को ठीक-ठीक जानकर सब पदार्थों के सम्प्रयोग से पुरुषार्थ की सिद्धि के लिये अत्युत्तम क्रियाओं से युक्त होना चाहिये कि जिससे परमेश्वर की कृपापूर्वक सब मनुष्यों को सुख और ऐश्वर्य की वृद्धि हो। सब लोगों को चाहिये कि अच्छे-अच्छे कामों से प्रजा की रक्षा तथा उत्तम-उत्तम गुणों से पुत्रादि की शिक्षा सदैव करें कि जिससे प्रबल रोग, विघ्न और चोरों का अभाव होकर प्रजा और पुत्रादि सब सुखों को प्राप्त हों, यही श्रेष्ठ काम सब सुखों की खान है। हे मनुष्य लोगो ! आओ अपने मिलके जिसने इस संसार में आश्चर्यरूप पदार्थ रचे हैं, उस जगदीश्वर के लिये सदैव धन्यवाद देवें। वही परम दयालु ईश्वर अपनी कृपा से उक्त कामों को करते हुए मनुष्यों की सदैव रक्षा करता है ॥१॥
दयानन्द-सरस्वती (सं) - विषयः
अथोत्तमकर्मसिध्यर्थमीश्वरः प्रार्थनीय इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्या अयं सविता देवो भगवान् वायवस्थ यान्यस्माकं वो युष्माकं च प्राणान्तःकरणेन्द्रियाणि सन्ति तानि श्रेष्ठतमाय कर्मणे प्रार्पयतु। वयमिषेऽन्नायोत्तमेच्छायै सवितारं देवं त्वा त्वां तथोर्ज्जे पराक्रमोत्तमरसप्राप्तये भागं भजनीयं त्वा त्वां सततमाश्रयामः; एवं भूत्वा यूयमाप्यायध्वं वयं चाप्यायामहे। हे परमेश्वर ! भवान् कृपयाऽस्माकमिन्द्राय परमैश्वर्य्यप्राप्तये श्रेष्ठतमाय कर्मणे चेमाः प्रजावतीरनमीवा अयक्ष्मा गाः सदैव प्रार्पयतु। हे परमात्मन् ! भवत्कृपयास्माकं मध्ये कश्चिदघशंसः पापी स्तेनश्चोरश्च मेशत कदाचिन्मोत्पद्यताम्। तथा त्वमस्य यजमानस्य जीवस्य पशून् पाहि सततं रक्ष। यतो वः ता गा इमान् पशूंश्चाघशंसः स्तेनो मेशत। हर्तुं समर्थो न भवेद् यतोऽस्मिन् गोपतौ पृथिव्यादिरक्षणमिच्छुकस्य धार्मिकमनुष्यस्य समीपे बह्वीर्बह्व्यो गावो ध्रुवाः स्यात भवेयुः ॥१॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैः सदैव धर्म्यं पुरुषार्थमाश्रित्यर्ग्वेदाध्ययनेन गुणगुणिनौ ज्ञात्वा सर्वपदार्थानां संप्रयोगेण पुरुषार्थसिद्धये श्रेष्ठतमाभिः क्रियाभिः संयुक्तैर्भवितव्यम्। यत ईश्वरानुग्रहेण सर्वेषां सुखैश्वर्य्यस्य वृद्धिः स्यात्। तथा सम्यक् क्रियया प्रजाया रक्षणशिक्षणे सदैव कर्त्तव्ये। यतो नैव कश्चिद् रोगाख्यो विघ्नश्चोरश्च प्रबलः कदाचिद् भवेत् प्रजाश्च सर्वाणि सुखानि प्राप्नुयुः। येनेयं विचित्रा सृष्टी रचिता तस्मै जगदीश्वराय सदैव धन्यवादा वाच्याः। एवं कुर्वतो भवतः परमदयालुरीश्वरः कृपया सदैव रक्षयिष्यतीति मन्तव्यम् ॥१॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - विद्वान माणसांनी परमेश्वराच्या आश्रयाने धर्मयुक्त पुरुषार्थ करावा व ऋग्वेदाचा अभ्यास करून गुण व गुणवान यांना योग्यप्रकारे जाणावे. सर्व पदार्थांचा चांगल्याप्रकारे उपयोग करून अत्युत्तम कार्य करावे. जेणेकरून परमेश्वराच्या कृपेने सर्व माणसांचे ऐश्वर्य वाढावे व त्यांना सुख प्राप्त व्हावे. सर्व माणसांनी चांगले कार्य करावे व प्रजेचे रक्षण करावे. भयंकर रोग, संकटे, चोर, डाकू इत्यादी दुष्ट गोष्टी नष्ट व्हाव्यात आणि संतानांना उत्तम गुणांनी शिक्षित करावे. अर्थात् प्रजा, पुत्र इत्यादी सुखी व्हावेत. अशा प्रकारचे श्रेष्ठ कर्म ही सुखाची खाण आहे. हे माणसांनो! ज्या परमेश्वराने या सृष्टीत आश्चर्यकारक पदार्थ निर्माण केलेले आहेत, त्याबद्दल आपण सर्वांनी कृतज्ञ राहिले पाहिजे. वरील चांगले कार्य करताना अत्यंत दयाळू परमेश्वर माणसांचे सदैव रक्षण करतो.
०२ वसोः पवित्रमसि
विश्वास-प्रस्तुतिः ...{Loading}...
वसोः॑ प॒वित्र॑मसि॒ द्यौर॑सि पृथि॒व्य᳖सि मात॒रिश्व॑नो घ॒र्मोऽसि वि॒श्वधा॑ऽअसि। प॒र॒मेण॒ धाम्ना॒ दृँह॑स्व॒ मा ह्वा॒र्मा ते॑ य॒ज्ञप॑तिर्ह्वार्षीत् ॥२॥
मूलम् ...{Loading}...
वसोः॑ प॒वित्र॑मसि॒ द्यौर॑सि पृथि॒व्य᳖सि मात॒रिश्व॑नो घ॒र्मोऽसि वि॒श्वधा॑ऽअसि। प॒र॒मेण॒ धाम्ना॒ दृँह॑स्व॒ मा ह्वा॒र्मा ते॑ य॒ज्ञप॑तिर्ह्वार्षीत् ॥२॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वसोः॑। प॒वित्र॑म्। अ॒सि॒। द्यौः। अ॒सि॒। पृ॒थि॒वी। अ॒सि॒। मा॒त॒रिश्व॑नः। घ॒र्मः। असि॒। वि॒श्वधा॒ इति॑ वि॒श्वधाः॑। अ॒सि॒। प॒र॒मेण॑। धाम्ना॑। दृँह॑स्व। मा। ह्वाः। मा। ते॒। य॒ज्ञप॑ति॒रिति॑ य॒ज्ञऽप॑तिः। ह्वा॒र्षी॒त्। २।
महीधरः
म० ‘वसोः पवित्रमिति पवित्रमस्यां बध्नाति कुशौ त्रिवृद्वा’ (का. ४।२।१५।१६ ) इति । वासयति वृष्ट्यादिद्वारा स्थापयति विश्वमिति वसुः यज्ञः । ‘यज्ञो वै वसुर्यज्ञस्य पवित्रमसि’ (१। ७।१।९) इति श्रुतेः । यज्ञशब्देन तदीयहविर्द्रव्यरूपं क्षीरं लक्ष्यते । हे दर्भमय पवित्र, वसोः इन्द्रदेवताया निवासहेतोः पयसः शोधकं पवित्रं त्वं असि । अनेन मन्त्रेण पवित्रं कृत्वा पर्णशाखायां बध्नीयात् । द्वौ कुशौ कुशत्रयं वा पवित्रमुच्यते ॥ ‘द्यौरसीति स्थाल्यादानम्’ (का० ४ । २ । १९) इति । यस्यां स्थाल्यां क्षीरं प्रक्षेप्तव्यं तद्ग्रहणार्थोऽयं मन्त्रः । हे स्थालि, मृज्जलाभ्यां निष्पना त्वं द्यौरसि जलहेतुवृष्टिप्रदद्युलोकरूपासि । द्युसंबन्धात्तद्रूपत्वमस्यामुपचर्यते । तथा पृथिव्यसि पृथिव्याः सकाशादुद्धृतया मृदा निष्पन्नत्वात्पृथिवीरूपत्वम् ॥ ‘मातरिश्वन इत्यधिश्रयति’ ( का० ४ । २ । २० ) इति । गार्हपत्यादुदीचोऽङ्गारान्निरुह्य तेषूखामधिश्रयति । हे उखे, त्वं मातरिश्वनः वायोः घर्मः दीपकोऽन्तरिक्षलोकोऽसि । मातर्यन्तरिक्षे श्वसिति निश्वासवच्चेष्टां करोतीति मातरिश्वा वायुः । घर्मः । ‘घृ क्षरणदीप्त्योः’ । घर्मः दीपकः संचारस्थानप्रदानेन वायोर्दीपकोऽभिव्यञ्जकोऽन्तरिक्षलोकः । हे स्थालि, तवोदरेऽप्यन्तरिक्षरूपस्यावकाशस्य वायुसंचारस्य सद्भावात्त्वमपि वायोर्घर्मरूपासि ॥ द्यौरसि पृथिव्यसीति पूर्वमन्त्रे लोकद्वयरूपत्वमुखाया उक्तम् । | अत्र मातरिश्वनो घर्मोऽसीत्यन्तरिक्षलोकरूपत्वमुच्यते । तस्मादेषां त्रयाणां लोकानां धारणात् त्वं विश्वधा असि विश्वं दधातीति विश्वधाः विश्वधारणसमर्थासि लोकत्रयरूपत्वात् । किंच परमेण धाम्ना उत्तमेन बहुक्षीरधारणसामर्थ्यरूपेण तेजसा हे उखे, त्वं दृंहस्व दृढा भव । त्वनिष्ठस्य क्षीरस्य गलनं वारयितुम् । अन्यथा भग्नायास्तव छिद्रेण क्षीरं गलेत् । ‘दृहि वृहि वृद्धौ’ इति धातुर्यद्यपि वृद्ध्यर्थस्तथापि दार्ढ्ये सति भङ्गाभावेन चिरमवस्थानाद्दार्ढ्यं नाम कालवृद्धिरेव भवति । किंच । हे उखे, मा ह्वाः कुटिला मा भव ।‘ह्वृ कौटिल्ये’ । यद्युखा कुटिला भवेत्तदानीमवाङ्मुखायां सत्यां तत्स्थं क्षीरं गलेत् । अतः क्षीरधारणाय दार्ढ्यमकौटिल्यं चार्थ्यते । किंच ते यज्ञपतिः त्वत्संबन्धी यजमानः मा ह्वार्षीत् कुटिलो मा भूत् । त्वनिष्ठक्षीरस्कन्दनेनानुष्ठानविघ्न एव यजमानस्य कौटिल्यम् । तच्च त्वदीयेन दार्ढ्येन कौटिल्याभावेन च न भविष्यतीति प्रार्थ्यते ॥२॥
तृतीया।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- परमेष्ठी प्रजापतिर्ऋषिः
- स्वराट् आर्षी त्रिष्टुप्,
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
वह यज्ञ किस प्रकार का होता है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्यायुक्त मनुष्य ! तू जो (वसोः) यज्ञ (पवित्रम्) शुद्धि का हेतु (असि) है। (द्यौः) जो विज्ञान के प्रकाश का हेतु और सूर्य की किरणों में स्थिर होनेवाला (असि) है। जो (पृथिवी) वायु के साथ देशदेशान्तरों में फैलनेवाला (असि) है। जो (मातरिश्वनः) वायु को (घर्मः) शुद्ध करनेवाला (असि) है। जो (विश्वधाः) संसार का धारण करनेवाला (असि) है तथा जो (परमेण) उत्तम (धाम्ना) स्थान से (दृँहस्व) सुख का बढ़ानेवाला है। इस यज्ञ का (मा) मत (ह्वाः) त्याग कर तथा (ते) तेरा (यज्ञपतिः) यज्ञ की रक्षा करनेवाला यजमान भी उसको (मा) न (ह्वार्षीत्) त्यागे। धात्वर्थ के अभिप्राय से यज्ञ शब्द का अर्थ तीन प्रकार का होता है अर्थात् एक जो इस लोक और परलोक के सुख के लिये विद्या, ज्ञान और धर्म के सेवन से वृद्ध अर्थात् बड़े-बड़े विद्वान् हैं, उनका सत्कार करना। दूसरा अच्छी प्रकार पदार्थों के गुणों के मेल और विरोध के ज्ञान से शिल्पविद्या का प्रत्यक्ष करना और तीसरा नित्य विद्वानों का समागम अथवा शुभगुण विद्या सुख धर्म और सत्य का नित्य दान करना है ॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्य लोग अपनी विद्या और उत्तम क्रिया से जिस यज्ञ का सेवन करते हैं, उससे पवित्रता का प्रकाश, पृथिवी का राज्य, वायुरूपी प्राण के तुल्य राजनीति, प्रताप, सब की रक्षा, इस लोक और परलोक में सुख की वृद्धि, परस्पर कोमलता से वर्त्तना और कुटिलता का त्याग इत्यादि श्रेष्ठ गुण उत्पन्न होते हैं। इसलिये सब मनुष्यों को परोपकार तथा अपने सुख के लिये विद्या और पुरुषार्थ के साथ प्रीतिपूर्वक यज्ञ का अनुष्ठान नित्य करना चाहिये ॥२॥
दयानन्द-सरस्वती (सं) - विषयः
स यज्ञः कीदृशो भवतीत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन्मनुष्य ! त्वं यो वसोर्वसुरयं यज्ञः पवित्रमसि पवित्रकारकोऽस्ति। द्यौरसि सूर्य्यरश्मिस्थो भवति। पृथिव्यसि वायुना सह विस्तृतो भवति। तथा मातरिश्वनो घर्मोऽसि वायोः शोधको भवति। विश्वधा असि संसारस्य सुखधारको भवति। परमेण धाम्ना सह दृंहस्व दृंहते वर्धते। तमिमं यज्ञं मा ह्वार्मा त्यज। तथा ते तव यज्ञपतिस्तं मा ह्वार्षीत् मा त्यजतु ॥२॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्याणां विद्याक्रियाभ्यां सम्यगनुष्ठितेन यज्ञेन पवित्रता प्रकाशः पृथिवी राज्यं वायुप्राणवद् राज्यनीतिः प्रतापः सर्वरक्षा अस्मिंल्लोके परलोके च परमसुखवृद्धिः परस्परमार्जवेन वर्त्तमानं कुटिलतात्यागश्च जायते। अत एव सर्वैर्मनुष्यैः परोपकाराय विद्यापुरुषार्थाभ्यां प्रीत्या नित्यमनुष्ठातव्य इति ॥२॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - आपले ज्ञान व उत्तम कर्म यांनी माणसे जो यज्ञ करतात त्यामुळे पावित्र्य, पृथ्वीचे राज्य, शुद्ध वायुरूपी प्राणाप्रमाणे राजकारण, पराक्रम, सर्वांचे रक्षण, इहलोक व परलोकाच्या सुखात वाढ, परस्पर सौहार्द, कुटिलतेचा त्याग इत्यादी श्रेष्ठ गोष्टी उत्पन्न होतात त्यासाठी सर्व लोकांनी परोपकार करावा व आपल्या सुखासाठी विद्या प्राप्त करून पुरुषार्थाने व प्रेमाने यज्ञाचे सदैव अनुष्ठान करावे. (येथे यज्ञ तीन प्रकारचा असतो हे सांगितलेले आहे. अर्थात एक इहलोक व परलोकाचे सुख प्राप्त करण्याची विद्या, ज्ञानी व धार्मिक विद्वानांचा सत्कार, दुसरा पदार्थांच्या संयोग व वियोगाच्या ज्ञानाने शिल्प (हस्तकौशल्य) विद्येचे प्रात्यक्षिकीकरण आणि तिसरा सदैव विद्वानांची संगती, धर्म व सत्य यांचे पालन.
०३ वसोः पवित्रमसि
विश्वास-प्रस्तुतिः ...{Loading}...
वसोः॑ प॒वित्र॑मसि श॒तधा॑रं॒ वसोः॑ प॒वित्र॑मसि स॒हस्र॑धारम्। दे॒वस्त्वा॑ सवि॒ता पु॑नातु॒ वसोः॑ प॒वित्रे॑ण श॒तधा॑रेण सु॒प्वा᳙ काम॑धुक्षः ॥३॥
मूलम् ...{Loading}...
वसोः॑ प॒वित्र॑मसि श॒तधा॑रं॒ वसोः॑ प॒वित्र॑मसि स॒हस्र॑धारम्। दे॒वस्त्वा॑ सवि॒ता पु॑नातु॒ वसोः॑ प॒वित्रे॑ण श॒तधा॑रेण सु॒प्वा᳙ काम॑धुक्षः ॥३॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
वसोः॑। प॒वित्र॑म्। अ॒सि॒। श॒तधा॑र॒मिति॑ श॒तऽधा॑रम्। वसोः॑। प॒वित्र॑म्। अ॒सि॒। स॒हस्र॑धार॒मिति॑ स॒हस्र॑ऽधारम्। दे॒वः। त्वाः॒। स॒वि॒ता। पु॒ना॒तु॒। वसोः॑। प॒वित्रे॑ण। श॒तधा॑रे॒णेति॑ श॒तऽधा॑रेण। सु॒प्वेति॑ सु॒ऽप्वा᳙। काम्। अ॒धु॒क्षः॒। ३।
महीधरः
म० ‘वसोः पवित्रमिति पवित्रमस्यां करोत्युदग्वा’ इति । अस्यामुखायां स्थापनीयस्य पवित्रस्य प्रागग्रत्वं सामान्यतः प्राप्तमिति सिद्धवत्कृत्वोदगग्रत्वं विकल्प्यते । हे शाखापवित्र, वसोः इन्द्रदेवतानिवासहेतोः पयसः शोधकं पवित्रं त्वम् असि । पवित्रेण व्यवधाने सति क्षीरेण सह स्थाल्यां पततां तृणपर्णादीनां प्रतिबध्यमानत्वात्पवित्रस्य क्षीरशोधकत्वम् । किंभूतं पवित्रम् । शतधारं शतसंख्या धारा यस्मिन् । तथा सहस्रधारं सूक्ष्मैः पवित्रच्छिद्रैः स्थाल्यां पतन्तीनां क्षीरधाराणां शतसहस्रसंख्याकानां सद्भावाच्छोधकत्वमाहर्तुम् । वसोः पवित्रमिति द्विरुक्तिः । अभ्यासे भूयांसमर्थं मन्यन्ते ( निरु. १०। ४२ ) इति । ‘देवस्यत्वेत्यासिच्यमाने जपति’ ( का० ४ । २ । २३ ) इति । पयो देवता । दोहनादूर्ध्वं स्थाल्यां सिच्यमान हे क्षीर, सविता प्रेरको देवः पूर्वोक्तरीत्या । शतधारेण वसोः पवित्रेण । त्वा त्वाम् । पुनातु शोधयतु । सुप्वेति पवित्रविशेषणम् । सुष्ठु पुनातीति सुपूः तेन सुप्वा । नुडागमाभाव आर्षः ॥ कामधुक्ष इति प्रश्नः ( ४ । २ । २४ ) इति एकस्यां गवि दुग्धायां दोग्धारं प्रत्यध्वर्युः पृच्छेत् । हे दोग्धः, विद्यमानानां गवां मध्ये त्वं कां गाम् अधुक्षः दुग्धवानसि ॥ ३ ॥
चतुर्थी।
अधिमन्त्रम् (VC)
- सविता देवता
- परमेष्ठी प्रजापतिर्ऋषिः
- भुरिक् जगती,
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर उक्त यज्ञ कैसा सुख करता है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (वसोः) यज्ञ (शतधारम्) असंख्यात संसार का धारण करने और (पवित्रम्) शुद्धि करनेवाला कर्म (असि) है तथा जो (वसोः) यज्ञ (सहस्रधारम्) अनेक प्रकार के ब्रह्माण्ड को धारण करने और (पवित्रम्) शुद्धि का निमित्त सुख देनेवाला (असि) है, (त्वा) उस यज्ञ को (देवः) स्वयं प्रकाशस्वरूप (सविता) वसु आदि तेंतीस देवों का उत्पत्ति करनेवाला परमेश्वर (पुनातु) पवित्र करे। हे जगदीश्वर ! आप हम लोगों से सेवित जो (वसोः) यज्ञ है, उस (पवित्रेण) शुद्धि के निमित्त वेद के विज्ञान (शतधारेण) बहुत विद्याओं का धारण करनेवाले वेद और (सुप्वा) अच्छी प्रकार पवित्र करनेवाले यज्ञ से हम लोगों को पवित्र कीजिये। हे विद्वान् पुरुष वा जानने की इच्छा करनेवाले मनुष्य ! तू (काम्) वेद की श्रेष्ठ वाणियों में से कौन-कौन वाणी के अभिप्राय को (अधुक्षः) अपने मन में पूर्ण करना अर्थात् जानना चाहता है ॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य पूर्वोक्त यज्ञ का सेवन करके पवित्र होते हैं, उन्हीं को जगदीश्वर बहुत-सा ज्ञान देकर अनेक प्रकार के सुख देता है, परन्तु जो लोग ऐसी क्रियाओं के करनेवाले वा परोपकारी होते हैं, वे ही सुख को प्राप्त होते हैं, आलस्य करनेवाले कभी नहीं। इस मन्त्र में (कामधुक्षः) इन पदों से वाणी के विषय में प्रश्न है ॥३॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स कीदृश इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यो वसोर्वसुर्यज्ञः शतधारं पवित्रमसि शतधा शुद्धिकारकोऽस्ति सहस्रधारं पवित्रमसि सुखदोऽस्ति त्वा तं सविता देवः पुनातु। हे जगदीश्वर ! भवान् वसोः वसुर्यज्ञः तेनास्माभिरनुष्ठितेन पवित्रेण शतधारेण सुप्वा यज्ञेनास्मान् पुनातु। हे विद्वन् ! जिज्ञासो वा त्वं कां वाचमधुक्षः प्रपूरयितुमिच्छसि ॥३॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ये मनुष्याः पूर्वोक्तं यज्ञमनुष्ठाय पवित्रा भवन्ति, तान् जगदीश्वरो बहुविधेन विज्ञानेन सह वर्त्तमानान् कृत्वैतेभ्यो बहुविधं सुखं ददाति, परन्तु ये क्रियावन्तः परोपकारिणः सन्ति, ते सुखमाप्नुवन्ति नेतरेऽलसाः। अत्र कामधुक्ष इति प्रश्नोऽस्ति ॥३॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे लोक पूर्वोक्त यज्ञ करून पवित्र होतात. त्यांनाच परमेश्वर पुष्कळ ज्ञान व अनेक प्रकारचे सुख देतो; पण जी माणसे परोपकारी असून, अशा प्रकारचे कार्य करतात त्यांनाच हे सुख प्राप्त होते. आळशी लोकांना हे सुख प्राप्त होत नाही. या मंत्रात (कामधुक्षः) या शब्दाद्वारे माणसांना वाणीसंबंधी प्रश्न विचारलेले आहेत.
०४ सा विश्वायुः
विश्वास-प्रस्तुतिः ...{Loading}...
सा वि॒श्वायुः॒ सा वि॒श्वक॑र्मा॒ सा वि॒श्वधा॑याः। इन्द्र॑स्य त्वा भा॒गँ सोमे॒नात॑नच्मि॒ विष्णो॑ ह॒व्यँर॑क्ष ॥४॥
मूलम् ...{Loading}...
सा वि॒श्वायुः॒ सा वि॒श्वक॑र्मा॒ सा वि॒श्वधा॑याः। इन्द्र॑स्य त्वा भा॒गँ सोमे॒नात॑नच्मि॒ विष्णो॑ ह॒व्यँर॑क्ष ॥४॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
सा। वि॒श्वायु॒रिति॑ वि॒श्वऽआ॑युः। सा। वि॒श्वक॒र्मेति॑ वि॒श्वऽक॑र्मा। सा। विश्वधा॑या॒ इति॑ वि॒श्वऽधा॑याः। इन्द्र॑स्य। त्वा॒। भा॒गं। सोमे॑न। आ। त॒न॒च्मि॒। विष्णो॒ इति॒ वि॒ष्णो॑। ह॒व्यं। र॒क्ष॒। ४।
महीधरः
म० प्रोक्ते ‘सा विश्वायुरित्याह’ (का० ४ । २ । २५) इति पूर्वोक्तप्रश्नस्योत्तरे अमूं गामिति दोग्ध्रा प्रोक्ते सति सा विश्वायुरिति मन्त्रेण दोग्धारं प्रत्यध्वयुर्ब्रूयात् । या गौस्त्वया दुग्धा मया च पृष्टा सा विश्वायुःशब्देनाभिधेया । विश्वमायुर्यस्याः सा विश्वायुः । यजमानस्य संपूर्णं आयुः प्रयच्छतीत्यर्थः । ‘एवमितरे उत्तराभ्याम्’ (का० ४ । २ । २६) इति । यथा प्रथमा गौः पृष्टा एवमितरे द्वितीयतृतीये गावौ तद्दोहनादूर्ध्वं कामधुक्ष इति मन्त्रेण प्रष्टव्ये । दोग्धा तूत्तरेऽमूमिति प्रोक्ते सा विश्वकर्मा सा विश्वधाया इति मन्त्राभ्यां क्रमेण तयोराशिषं ब्रूयात् । या द्वितीया गौस्त्वया पृष्टा सा विश्वकर्मा, या तृतीया गौस्त्वया पृष्टा सा विश्वधायाः । ‘डुधाञ् धारणपोषणयोः’ । विश्वान्सर्वान्देवान्दधाति क्षीरदध्यादिहविर्दानेन पुष्णातीति विश्वधायाः। असुन्प्रत्ययो णिच्च । णित्त्वात् ‘आतो युक् चिण्कृतोः’ (पा० ७। ३ । ३३) इति युक् । यद्वा । ‘धेट् पाने’ । विश्वानिन्द्रादिदेवान् क्षीरादिहव्यं धापयति पाययतीति विश्वधायाः । ‘उद्वास्यातनक्ति प्राग्घुतशेषेणेन्द्रस्य त्वा’ (का. ४ । २ । ३२) इति । क्वथितं क्षीरमग्नेरुद्वास्य मन्दोष्णे तत्र प्रातःकालीनहोमावशिष्टेन दध्ना दधिनिष्पत्तये आतञ्चनं कुर्यात् । हे क्षीर, इन्द्रस्य भागं त्वां सोमेन सोमवल्लीरसेन आतनच्मि दध्यर्थं कठिनीकरोमि । तञ्चतिः कठिनीकरणार्थः । यद्यप्यत्रातञ्चनहेतुर्दधिशेषस्तथापि भावनया तस्यैव सोमत्वं संपाद्यते । यथा कश्चित्पुमान्बन्धुत्वेन भावितो बन्धुर्भवति प्रातिकूल्येन भावितः शत्रुश्च । तदुक्तं वसिष्ठेन ‘बन्धुत्वे भावितो बन्धुः परत्वे भावितः परः । विषामृतदशैवेह स्थितिर्भावनिबन्धिनी॥’ इति । भोज्यं वा विषत्वेन भावितं वान्तिं करोति । अमृतत्वेन भावितं जीर्णं सद्बलहेतुर्भवति । तथात्र दधिशेषस्य भावनया सोमत्वम् ॥ ‘सोदकेनापि दधात्यमृण्मयेन विष्णो हव्यमिति’ (का० ४ । २।३४) इति । हे विष्णो, इदं हव्यं क्षीरं रक्ष । सर्वत्र सृष्टौ पालने संहारे च ब्रह्मविष्णुमहेश्वरा अभिमानिन्यो देवताः । अतो विष्णुं संबोध्य हविषो रक्षा प्रार्थ्यते ॥ ४ ॥
पञ्चमी ।
अधिमन्त्रम् (VC)
- विष्णुर्देवता
- परमेष्ठी प्रजापतिर्ऋषिः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
जो पूर्वोक्त मन्त्र में तीन प्रश्न कहे हैं, उनके उत्तर अगले मन्त्र में क्रम से प्रकाशित किये हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (विष्णो) व्यापक ईश्वर ! आप जिस वाणी का धारण करते हैं, (सा) वह (विश्वायुः) पूर्ण आयु की देनेवाली (सा) वह (विश्वकर्मा) जिससे कि सम्पूर्ण क्रियाकाण्ड सिद्ध होता है और (सा) वह (विश्वधायाः) सब जगत् को विद्या और गुणों से धारण करनेवाली है। पूर्व मन्त्र में जो प्रश्न है, उसके उत्तर में यही तीन प्रकार की वाणी ग्रहण करने योग्य है, इसी से मैं (इन्द्रस्य) परमेश्वर के (भागम्) सेवन करने योग्य यज्ञ को (सोमेन) विद्या से सिद्ध किये रस अथवा आनन्द से (आ तनच्मि) अपने हृदय में दृढ़ करता हूँ तथा हे परमेश्वर ! (हव्यम्) पूर्वोक्त यज्ञ सम्बन्धी देने-लेने योग्य द्रव्य वा विज्ञान की (रक्ष) निरन्तर रक्षा कीजिये ॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - तीन प्रकार की वाणी होती है अर्थात् प्रथम वह जो कि ब्रह्मचर्य में पूर्ण विद्या पढ़ने वा पूर्ण आयु होने के लिये सेवन की जाती है। दूसरी वह जो गृहाश्रम में अनेक क्रिया वा उद्योगों से सुखों की देनेवाली विस्तार से प्रकट की जाती और तीसरी वह जो इस संसार में सब मनुष्यों के शरीर और आत्मा के सुख की वृद्धि वा ईश्वर आदि पदार्थों के विज्ञान को देनेवाली वानप्रस्थ और संन्यास आश्रम में विद्वानों से उपदेश की जाती है। इस तीन प्रकार की वाणी के विना किसी को सब सुख नहीं हो सकते, क्योंकि इसी से पूर्वोक्त यज्ञ तथा व्यापक ईश्वर की स्तुति, प्रार्थना और उपासना करना योग्य है। ईश्वर की यह आज्ञा है कि जो नियम से किया हुआ यज्ञ संसार में रक्षा का हेतु और प्रेम सत्यभाव से प्रार्थित ईश्वर विद्वानों की सर्वदा रक्षा करता है, वही सब का अध्यक्ष है, परन्तु जो क्रिया में कुशल धार्मिक परोपकारी मनुष्य हैं, वे ही ईश्वर और धर्म को जानकर मोक्ष और सम्यक् क्रियासाधनों से इस लोक और परलोक के सुख को प्राप्त होते हैं ॥४॥
दयानन्द-सरस्वती (सं) - विषयः
अत्र त्रिविधस्य प्रश्नस्य त्रीण्युत्तराण्युपदिश्यन्ते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विष्णो व्यापकेश्वर ! भवता या वाग्धार्य्यते सा विश्वायुः सा विश्वकर्मा सा विश्वधाया अस्ति। तया त्रिविधया गृहीतयैवाहं यमिन्द्रस्य [त्वा तं] भागं यज्ञं सोमेनातनच्मि तं हव्यं यज्ञं त्वं सततं रक्ष ॥४॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - त्रिविधा वाग्भवति। या ब्रह्मचर्य्याश्रमे पूर्णविद्यापठनाय पूर्णायुः करणाय च सेव्यते सा प्रथमा। या गृहाश्रमेऽनेकक्रिययोद्योगसुखप्रापकफला विस्तीर्य्यते सा द्वितीया या च सर्वमनुष्यैः सर्वमनुष्येभ्यः शरीरात्मसुखवर्धनायेश्वरादिपदार्थविज्ञानप्रकाशिका वानप्रस्थसंन्यासाश्रमे खलूपदिश्यते सा तृतीया। न चैनया विना कस्यापि सर्वं सुखं भवितुमर्हति। अनयैव मनुष्यैः पूर्वोक्तो यज्ञोऽनुष्ठातव्यः। व्यापकेश्वरः स्तोतव्यः प्रार्थनीय उपासनीयश्च भवति। अनुष्ठितोऽयं यज्ञो जगति रक्षाहेतुः प्रेम्णा सत्यभावेन प्रार्थितश्चेश्वरस्तान् सर्वदा रक्षति। परन्तु ये क्रियाकुशला धार्मिकाः परोपकारिणा जनाः सन्ति त ईश्वरं धर्मं च विज्ञाय सम्यक् क्रियया साधनेनैहिकं पारत्रिकं च सुखं प्राप्नुवन्ति नेतरे ॥४॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - वाणी ही तीन प्रकारची असते. प्रथम वाणी अर्थात ब्रह्मचर्यपूर्वक पूर्णविद्या प्राप्त करून दीर्घायू बनण्यासाठी स्वीकारली जाते ती. दुसरी वाणी म्हणजे गृहस्थाश्रमात विविध प्रकारची कामे करून सुख मिळवण्यासाठी विस्तारपूर्वक प्रकट केली जाते ती व तिसरी वाणी म्हणजे ईश्वराला जाणण्यासाठी वानप्रस्थ व संन्यासी विद्वान ज्या वाणीचा उपदेश करतात ती. (ज्यामुळे या जगातील सर्व माणसांची शरीरे व आत्मे यांचे सुख वाढते. ) या तिन्ही प्रकारच्या वाणीशिवाय कुणालाही सुख मिळू शकत नाही त्यामुळे याद्वारेच पूर्वोक्त यज्ञ व सर्वव्यापक ईश्वराची स्तुती, प्रार्थना व उपासना करणे योग्य आहे. ईश्वराची अशी आज्ञा आहे की, या नियमानुसार केलेल्या यज्ञाने जगात माणसांचे रक्षण होते. प्रेमाने व सत्याने प्रार्थना केल्यामुळे ईश्वर विद्वानांचे रक्षण करतो कारण तोच सर्वांच्या मुख्य अधिष्ठाता आहे; पण जी माणसे कर्मकुशल, धार्मिक व परोपकारी असतात तीच ईश्वर व धर्म यांना जाणून सम्यक साधनांनी मोक्षप्राप्ती करून इहलोक व परलोकाचे सुख प्राप्त करतात.
०५ अग्ने व्रतपते
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने॑ व्रतपते व्र॒तं च॑रिष्यामि॒ तच्छ॑केयं॒ तन्मे॑ राध्यताम्। इ॒दम॒हमनृ॑तात् स॒त्यमुपै॑मि ॥५॥
मूलम् ...{Loading}...
अग्ने॑ व्रतपते व्र॒तं च॑रिष्यामि॒ तच्छ॑केयं॒ तन्मे॑ राध्यताम्। इ॒दम॒हमनृ॑तात् स॒त्यमुपै॑मि ॥५॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अग्ने॑। व्र॒त॒प॒त॒ इति॑ व्रतऽपते। व्र॒तं। च॒रि॒ष्या॒मि॒। तत्। श॒के॒यं॒। तत्। मे॒। रा॒ध्यता॒म्। इ॒दं। अ॒हं। अनृ॑तात्। स॒त्यं। उप॑ ए॒मि॒। ५।
महीधरः
म० ‘अपरेणाहवनीयं प्राङ्निष्ठन्नग्निमीक्षमाणोऽप उपस्पृश्य व्रतमुपेत्यग्ने व्रतपत इदमहमिति वा’ (२।१।११) इति । हे व्रतपते, व्रतस्यानुष्ठेयस्य कर्मणः पते पालक हे अग्ने, त्वदनुज्ञया व्रतं चरिष्यामि कर्मानुष्ठास्यामि । तच्छकेयं तत्कर्मानुष्ठातुं शक्तो भूयासं त्वत्प्रसादात् । तन्मे राध्यतां मदीयं तत्कर्म निर्विघ्नं सत् फलपर्यन्तं सिध्यतु । शकेराशीर्लिड्यामुट् । लिड्याशिष्यङ्’ (पा० ३।१।८६) ‘अतो येयः’ (पा० ७॥२॥ ८०)। गुणः । शकेयम् । ‘अग्निर्वै देवानां व्रतपतिः’ (१।१। १२) इति श्रुतिः । इदमहम् । अहं यजमानोऽस्मादनृतान्मनुष्यजन्मन उद्गत्य सत्यं देवताशरीरम् उपैमि प्राप्नोमि । सत्यमनुष्ठीयमानकर्मरूपेण प्रत्यक्षमिति मन्वान इदमिति विशिनष्टि । अनृतं मनुष्यजन्म शीघ्रविनाशित्वात् । यथा स्वप्न गजादयो बोधमात्रेण शीघ्रं निवर्तमाना अनृता उच्यन्ते। सत्यं देवजन्म बहुकालस्थायित्वात् । यथा जागरणगजादयः। श्रुतिरपि ‘इदमहमनृतात्सत्यमुपैमि’ (१।१।१।४) इति । तन्मनुष्येभ्यो देवानुपावर्तत इति । यद्वा लोकप्रसिद्धे एव सत्यानृते ग्राह्ये । नानृतं वदेदिति कर्मण्यनृतनिषेधात् । अनृतवदनादुद्गत्याहमिदं सत्यवदनमुपैमि । अत इदं सत्यवदनं कर्माङ्गत्वात्कर्मकाले पालनीयम् ॥ ५॥
षष्ठी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी प्रजापतिर्ऋषिः
- आर्ची त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
उक्त वाणी का व्रत क्या है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (व्रतपते) सत्यभाषण आदि धर्मों के पालन करने और (अग्ने) सत्य उपदेश करनेवाले परमेश्वर ! मैं (अनृतात्) जो झूँठ से अलग (सत्यम्) वेदविद्या, प्रत्यक्ष आदि प्रमाण, सृष्टिक्रम, विद्वानों का सङ्ग, श्रेष्ठ विचार तथा आत्मा की शुद्धि आदि प्रकारों से जो निर्भ्रम, सर्वहित, तत्त्व अर्थात् सिद्धान्त के प्रकाश करनेहारों से सिद्ध हुआ, अच्छी प्रकार परीक्षा किया गया (व्रतम्) सत्य बोलना, सत्य मानना और सत्य करना है, उसका (उपैमि) अनुष्ठान अर्थात् नियम से ग्रहण करने वा जानने और उसकी प्राप्ति की इच्छा करता हूँ। (मे) मेरे (तत्) उस सत्यव्रत को आप (राध्यताम्) अच्छी प्रकार सिद्ध कीजिये जिससे कि (अहम्) मैं उक्त सत्यव्रत के नियम करने को (शकेयम्) समर्थ होऊँ और मैं (इदम्) इसी प्रत्यक्ष सत्यव्रत के आचरण का नियम (चरिष्यामि) करूँगा ॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - परमेश्वर ने सब मनुष्यों को नियम से सेवन करने योग्य धर्म का उपदेश किया है, जो कि न्याययुक्त, परीक्षा किया हुआ, सत्य लक्षणों से प्रसिद्ध और सब का हितकारी तथा इस लोक अर्थात् संसारी और परलोक अर्थात् मोक्ष सुख का हेतु है, यही सब को आचरण करने योग्य है और उससे विरुद्ध जो कि अधर्म कहाता है, वह किसी को ग्रहण करने योग्य कभी नहीं हो सकता, क्योंकि सर्वत्र उसी का त्याग करना है। इसी प्रकार हमको भी प्रतिज्ञा करनी चाहिये कि हे परमेश्वर ! हम लोग वेदों में आप के प्रकाशित किये सत्यधर्म का ही ग्रहण करें तथा हे परमात्मन् ! आप हम पर ऐसी कृपा कीजिये कि जिससे हम लोग उक्त सत्यधर्म का पालन कर के अर्थ, काम और मोक्षरूप फलों को सुगमता से प्राप्त हो सकें। जैसे सत्यव्रत के पालने से आप व्रतपति हैं, वैसे ही हम लोग भी आप की कृपा और अपने पुरुषार्थ से यथाशक्ति सत्यव्रत के पालनेवाले हों तथा धर्म करने की इच्छा से अपने सत्कर्म के द्वारा सब सुखों को प्राप्त होकर सब प्राणियों को सुख पहुँचानेवाले हों, ऐसी इच्छा सब मनुष्यों को करनी चाहिये ॥५॥
दयानन्द-सरस्वती (सं) - विषयः
किंच तद्वाचो व्रतमित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे व्रतपते अग्ने सत्यधर्मोपदेशकेश्वर ! अहं यदिदमनृतात् पृथग्वर्त्तमानं सत्यं व्रतमाचरिष्यामि तन्मे मम भवता स्वकृपया राध्यतां संसेध्यतां यदुपैमि प्राप्नोमि यच्चानुष्ठातुं शकेयं तदपि सर्वं राध्यतां संसेध्यताम् ॥५॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ईश्वरेण सर्वमनुष्यैरनुष्ठेयोऽयं धर्म उपदिश्यते। यो न्यायः पक्षपातरहितः सुपरीक्षितः सत्यलक्षणान्वितः सर्वहिताय वर्त्तमान ऐहिकपारमार्थिकसुखहेतुरस्ति स एव सर्वमनुष्यैः सदाचरणीयः। यच्चैतस्माद्विरुद्धो ह्यधर्मः स नैव केनापि कदाचिदनुष्ठेयः। एवं हि सर्वैः प्रतिज्ञा कार्य्या। हे परमेश्वर ! वयं वेदेषु भवदुपदिष्टमिमं सत्यधर्ममाचरितुमिच्छामः। येयमस्माकमिच्छा सा भवत्कृपया सम्यक् सिध्येत्। यतो वयमर्थकाममोक्षफलानि प्राप्तुं शक्नुयाम। यथा चाधर्मं सर्वथा त्यक्त्वाऽनर्थकुकामबन्धदुःखफलानि पापानि त्यक्तुं त्याजयितुं च समर्था भवेम। यथा भवान् सत्यव्रतपालकत्वाद् व्रतपतिर्वर्त्तते तथैव वयमपि भवत्कृपया स्वपुरुषार्थेन यथाशक्ति सत्यव्रतपालका भवेम। एवं सदैव धर्मं चिकीर्षवः सत्क्रियावन्तो भूत्वा सर्वसुखोपगताः सर्वप्राणिनां सुखकारकाश्च भवेमेति सर्वैः सदैवेषितव्यम् ॥ शतपथब्राह्मणेऽस्य मन्त्रस्य व्याख्यायामुक्तं मनुष्याणां द्विविधमेवाचरणं सत्यमनृतं च तत्र ये वाङ्मनःशरीरैः सत्यमेवाचरन्ति ते देवाः। ये चैवानृतमाचरन्ति ते मनुष्या अर्थादसुरराक्षसाः सन्तीति वेद्यम् ॥५॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सर्व माणसांनी आचरणात आणावा अशा वेद धर्माचा उपदेश परमेश्वराने केलेला आहे. तो सत्य लक्षणांनी युक्त व न्यायपूर्ण असा आहे. तो सर्वांचे हित करणारा असून, इहलोक व परलोकाच्या सुखाचा हेतू आहे. सर्वांनी आचरणात आणावा असा तो योग्य धर्म आहे. या विरुद्ध जे आचरण असेल तो अधर्म होय. कारण तो स्वीकारण्यायोग्य नसतो त्यासाठी अधर्माचा सर्वकाळी, सर्वस्थळी त्याग केला पाहिजे व ही शपथ घेतली पाहिजे की, हे परमेश्वरा, आमच्यावर अशी कृपा कर की तू प्रकट केलेल्या (वेदातील) सत्यधर्माचा स्वीकार करून आम्ही त्याच सत्यधर्माचे पालन करावे. त्यामुळे आम्हाला अर्थ, काम, मोक्षरूपी फळ सहज प्राप्त व्हावे. जसा तू सत्यव्रती आहेस प्राप्त व्हावे. जसा तू सत्यव्रती आहेस त्याप्रमाणेच आमच्या सामर्थ्यानुसार आम्हीही सत्यव्रती बनावे व धर्मपालनाच्या इच्छेने सत्कर्म करून सुख प्राप्त करावे. सर्व प्राण्यांना सुखी करावे, अशी इच्छा सर्व माणसांनी बाळगावी.
सविता जोशी ← दयानन्दः (म) - पादटिप्पनी
टिप्पणी: शतपथ ब्राह्मणामध्ये या मंत्राची व्याख्या केलेली आहे. मनुष्याचे आचरण दोन प्रकारचे असते. एक सत्य व दुसरे असत्य. जे पुरुष मन, वाणी व शरीर यांनी सत्याचे आचरण करतात, त्यांना देव म्हणतात आणि जे असत्याचे आचरण करतात ते राक्षस समजले जातात.
०६ कस्त्वा युनक्ति
विश्वास-प्रस्तुतिः ...{Loading}...
कस्त्वा॑ युनक्ति॒ स त्वा॑ युनक्ति॒ कस्मै॑ त्वा युनक्ति॒ तस्मै॑ त्वा युनक्ति। कर्म॑णे वां॒ वेषा॑य वाम् ॥६॥
मूलम् ...{Loading}...
कस्त्वा॑ युनक्ति॒ स त्वा॑ युनक्ति॒ कस्मै॑ त्वा युनक्ति॒ तस्मै॑ त्वा युनक्ति। कर्म॑णे वां॒ वेषा॑य वाम् ॥६॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
कः। त्वा॒। यु॒न॒क्ति॒। सः। त्वा॒। यु॒न॒क्ति॒। कस्मै॑। त्वा॒। यु॒न॒क्ति॒। तस्मै॑। त्वा॒। यु॒न॒क्ति॒। कर्म्म॑णे। वां॒। वेषा॑य। वा॒म्। ६।
महीधरः
म० एवं व्रतमुपेत्य ब्रह्माणं वृत्वापां प्रणयनं कुर्यात् । ‘ब्रह्मन्नपः प्रणेष्यामि यजमान वाचं यच्छेत्याहानुज्ञात उत्तरेणाहवनीयं संप्रति निदधाति कस्त्वा युनक्ति’ (का० २।३।२-३) इति । अत्र मन्त्रं प्रयुञ्जानोऽध्वर्युर्यज्ञारम्भकर्मण्यात्मनः कर्तृत्वमपनीय प्रजापतेर्यज्ञकर्तृत्वं प्रश्नोत्तररूपाभ्यां मन्त्रवाक्याभ्यां प्रतिपादयति । प्रणीतानामपां धारक हे पात्र, त्वां कः पुरुषो युनक्ति आहवनीयस्योत्तरभागे स्थापयतीति प्रश्नः । तच्छब्दः प्रसिद्धार्थवाची। सर्वेषु वेदेषु जगन्निर्वाहकत्वेन प्रसिद्धो यः प्रजापतिरस्ति सः एव परमेश्वरः हे पात्र, त्वां युनक्ति इत्युत्तरम् । पुनरपि कस्मै प्रयोजनाय त्वां युनक्ति इति प्रश्नः । तस्मै प्रजापतये तत्प्रीत्यर्थं त्वा युनक्ति इत्युत्तरम् । सर्वकर्माणि परमेश्वरप्रीत्यर्थमनुष्ठेयानीति भगवद्गीतास्वर्जुनं प्रति भगवतोक्तम् ‘सर्वकर्माण्यपि सदा’ (१८५६) ब्रह्मार्पणं’ (४।२४) इति च परिस्तीर्य द्वन्द्वशः पात्राण्यासाद्य शूर्पं चाग्निहोत्रहवणीं चादत्ते। ‘कर्मणे वामिति शूर्पाग्निहोत्रहवण्यादाय’ (का०२।३।१०) इति। कर्मणे हे अग्निहोत्रहवणि, हे शूर्प, वां युवां कर्मार्थमहमादद इति शेषः । वेषाय च । ‘विष्लृ व्याप्तौ’ । घञ् । वेषो व्याप्तिः । सूचितकर्मसु व्याप्त्यर्थं च वां युवामहमाददे । शकटेऽवस्थितानां व्रीहीणां हविरर्थं पृथक्करणं प्रोक्षणार्थोदकधारणमित्यादयोऽग्निहोत्रहवणीव्यापाराः । व्रीहिनिर्वापधारणमुलूखले व्रीहिप्रक्षेपः पुनरुद्धरणं चेत्यादयः शूर्पव्यापाराः ॥ ६ ॥
सप्तमी।
अधिमन्त्रम् (VC)
- प्रजापतिर्देवता
- परमेष्ठी प्रजापतिर्ऋषिः
- आर्ची पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
किसने सत्य करने और असत्य छोड़ने की आज्ञा दी है, सो अगले मन्त्र में उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (कः) कौन सुख स्वरूप (त्वा) तुझको अच्छी-अच्छी क्रियाओं के सेवन करने के लिये (युनक्ति) आज्ञा देता है। (सः) सो जगदीश्वर (त्वा) तुम को विद्या आदिक शुभ गुणों के प्रकट करने के लिये विद्वान् वा विद्यार्थी होने को (युनक्ति) आज्ञा देता है। (कस्मै) वह किस-किस प्रयोजन के लिये (त्वा) मुझ और तुझ को (युनक्ति) युक्त करता है, (तस्मै) पूर्वोक्त सत्यव्रत के आचरण रूप यज्ञ के लिये (त्वा) धर्म के प्रचार करने में उद्योगी को (युनक्ति) आज्ञा देता है, (सः) वही ईश्वर (कर्मणे) उक्त श्रेष्ठ कर्म करने के लिये (वाम्) कर्म करने और करानेवालों को नियुक्त करता है, (वेषाय) शुभ गुण और विद्याओं में व्याप्ति के लिये (वाम्) विद्या पढ़ने और पढ़ानेवाले तुम लोगों को उपदेश करता है ॥६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में प्रश्न और उत्तर से ईश्वर जीवों के लिये उपदेश करता है। जब कोई किसी से पूछे कि मुझे सत्य कर्मों में कौन प्रवृत्त करता है? इसका उत्तर ऐसा दे कि प्रजापति अर्थात् परमेश्वर ही पुरुषार्थ और अच्छी-अच्छी क्रियाओं के करने की तुम्हारे लिये वेद के द्वारा उपदेश की प्रेरणा करता है। इसी प्रकार कोई विद्यार्थी किसी विद्वान् से पूछे कि मेरे आत्मा में अन्तर्यामिरूप से सत्य का प्रकाश कौन करता है? तो वह उत्तर देवे कि सर्वव्यापक जगदीश्वर। फिर वह पूछे कि वह हमको किस-किस प्रयोजन के लिये उपदेश करता और आज्ञा देता है? उसका उत्तर देवे कि सुख और सुखस्वरूप परमेश्वर की प्राप्ति तथा सत्य विद्या और धर्म के प्रचार के लिये। मैं और आप दोनों को कौन-कौन काम करने के लिये वह ईश्वर उपदेश करता है? इसका परस्पर उत्तर देवें कि यज्ञ करने के लिये। फिर वह कौन-कौन पदार्थ की प्राप्ति के लिये आज्ञा देता है? इसका उत्तर देवें कि सब विद्याओं की प्राप्ति और उनके प्रचार के लिये। मनुष्यों को दो प्रयोजनों में प्रवृत्त होना चाहिये अर्थात् एक तो अत्यन्त पुरुषार्थ और शरीर की आरोग्यता से चक्रवर्त्ती राज्यलक्ष्मी की प्राप्ति करना और दूसरे सब विद्याओं को अच्छी प्रकार पढ़ के उनका प्रचार करना चाहिये। किसी मनुष्य को पुरुषार्थ को छोड़ के आलस्य में कभी नहीं रहना चाहिये ॥६॥
दयानन्द-सरस्वती (सं) - विषयः
केन सत्यमाचरितुमसत्यं त्यक्तुमाज्ञा दत्तेत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य ! कस्त्वां युनक्ति स त्वां युनक्ति कस्मै त्वां युनक्ति तस्मै त्वां युनक्ति स एव वां कर्मणे नियोजयति। एवं च वां वेषायाज्ञापयति ॥६॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र प्रश्नोत्तराभ्यामीश्वरो जीवेभ्य उपदिशति। कश्चित् कंचित्प्रति ब्रूते। को मां सत्यक्रियायां प्रवर्त्तयतीति सोऽस्योत्तरं ब्रूयात्। ईश्वरः पुरुषार्थक्रियाकरणाय त्वामादिशतीति। एवं कश्चिद्विद्यार्थी विद्वांसं प्रति पृच्छेत् को मदात्मन्यन्तर्यामिरूपतया सत्यं प्रकाशयतीति। स उत्तरं दद्यात् सर्वव्यापको जगदीश्वर इति। कस्मै प्रयोजनायेति केनचित् पृच्छ्यते। सुखप्राप्तये परमेश्वरप्राप्तये चेत्युत्तरं ब्रूयात्। पुनः कस्मै प्रयोजनायेति मां नियोजयतीति पृच्छ्यते। सत्यविद्याधर्मप्रचारायेत्युत्तरं ब्रूयात्। आवां किं करणायेश्वर उपदिशति। यज्ञानुष्ठानायेति परस्परमुत्तरं ब्रूयाताम्। पुनः स किमाप्तय आज्ञापयतीति। सर्वविद्यासुखेषु व्याप्तये तत्प्रचारायेत्युत्तरं ब्रूयात्। मनुष्यैर्द्वाभ्यां प्रयोजनाभ्यां प्रवर्त्तितव्यम्। एकमत्यन्तपुरुषार्थशरीरारोग्याभ्यां चक्रवर्त्तिराज्यश्रीप्राप्तिकरणम्। द्वितीयं सर्वा विद्याः सम्यक् पठित्वा तासां सर्वत्र प्रचारीकरणं चेति। नैव केनचिदपि कदाचित्पुरुषार्थं त्यक्त्वाऽलस्ये स्थातव्यमिति ॥६॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात ईश्वराने प्रश्नोत्तर रूपाने जीवाला उपदेश केलेला आहे. जर एखाद्याने प्रश्न विचारला की, मला सत्याने वागण्यास कोण प्रवृत्त करते? तर त्याने उत्तर दिले पाहिजे की, अर्थात प्रजापती परमेश्वर वेदांद्वारे उपदेश करून पुरुषार्थाने सत्यकर्म करण्याची प्रेरणा देतो. याचप्रकारे एखाद्या विद्यार्थ्याने एखाद्या विद्वानास विचारावे की माझ्या आत्म्यामध्ये सत्याचा प्रकाश कोण करतो? तर त्याने उत्तर द्यावे की सर्वव्यापक ईश्वरच अन्तःकरणात प्रकाश पाडतो. पुन्हा त्याने प्रश्न विचारावा की तो आम्हाला कोणकोणत्या उद्दिष्टांसाठी उपदेश करतो व आज्ञा देतो? तर असे उत्तर दिले पाहिजे की, सुखासाठी व सुखस्वरूप परमेश्वराची प्राप्ती, सत्यविद्या व धर्मप्रचार यासाठी. आपल्या दोघांना (प्रश्नोत्तर करणाऱ्यांना) कोणकोणते कार्य करण्यासाठी ईश्वर उपदेश करतो? तर त्याचे असे उत्तर द्यावे की सत्याचरणरूपी यज्ञ करण्यासाठी व विद्या प्राप्त करण्यासाठी आणि त्यांचा प्रसार व्हावा यासाठी. माणसांसमोर दोन उद्दिष्टे हवीत. एक असा की अत्यंत पुरुषार्थाने व निरोगी शरीराने चक्रवर्ती राज्याची प्राप्ती करणे आणि दुसरा उद्देश असा की सर्व विद्या चांगल्या प्रकारे शिकून त्यांचा प्रचार व प्रसार करणे. कोणत्याही माणसाने पुरुषार्थ सोडून आळशी राहता कामा नये.
०७ प्रत्युष्टंरक्षः प्रत्युष्टाऽअरातयो
विश्वास-प्रस्तुतिः ...{Loading}...
प्रत्यु॑ष्टँ॒रक्षः॒ प्रत्यु॑ष्टा॒ऽअरा॑तयो॒ निष्ट॑प्तँ॒रक्षो॒ निष्ट॑प्ता॒ऽअरा॑तयः। उ॒र्व᳙न्तरि॑क्ष॒मन्वे॑मि ॥७॥
मूलम् ...{Loading}...
प्रत्यु॑ष्टँ॒रक्षः॒ प्रत्यु॑ष्टा॒ऽअरा॑तयो॒ निष्ट॑प्तँ॒रक्षो॒ निष्ट॑प्ता॒ऽअरा॑तयः। उ॒र्व᳙न्तरि॑क्ष॒मन्वे॑मि ॥७॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्रत्यु॑ष्ट॒मिति॒ प्रति॑ऽउष्टम्। रक्षः॑। प्रत्यु॑ष्टा॒ इति॒ प्रति॑ऽउष्टाः। अरा॑तयः। निष्ट॑प्तम्। निस्त॑प्त॒मिति॒। निःऽत॑प्तम्। रक्षः॑। निष्ट॑प्ताः। निस्त॑प्ता॒ इति॒ निःऽत॑प्ताः। अरा॑तयः। उ॒रु। अ॒न्तरि॑क्षम्। अनु॑ऽए॒मि॒। ७।
महीधरः
म० ‘प्रतपनं प्रत्युष्टं निष्टप्तमिति वा’ (का० २।३।११) इति । रक्षः राक्षसजातिः। प्रत्युष्टं प्रत्येकं दग्धम् । ‘उष दाहे’ । अनेनाग्निहोत्रहवणीशूर्पयोः प्रतपनेनात्र स्थिता राक्षसा दग्धा इत्यर्थः । अरातयोऽपि प्रत्युष्टाः प्रत्येकं दग्धाः । ‘रा दाने । हविषो दक्षिणाया वा दानं रातिः । रातेः प्रतिबन्धका अरातयस्तेऽपि दग्धाः । अन्यथा न यज्ञसाधनमित्यर्थः । शूर्पादौ निगूढं रक्षो निष्टप्तं निःशेषेण तप्तं संतप्तम् । ‘तप संतापे’।
अरातयश्च निष्टप्ताः । अनयोर्मन्त्रयोर्विकल्पः ॥ ‘गच्छत्युर्वन्तरिक्षम्’ (का० २।३।१२) इति । उरु विस्तीर्णम् । अन्तरिक्षम् अवकाशम् । अन्वेमि अनुसृत्य गच्छामि । गच्छतः पुरुषस्य पार्श्वयोरेव स्थितं रक्षोऽनेन मन्त्रेण निराक्रियत इत्याशयः ॥७॥
अष्टमी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- परमेष्ठी प्रजापतिर्ऋषिः
- प्राजापत्या जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
सब मनुष्यों को उचित है कि दुष्ट गुण और दुष्ट स्वभाववाले मनुष्यों का निषेध करें, इस बात का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - मुझ को चाहिये कि पुरुषार्थ के साथ (रक्षः) दुष्ट गुण और दुष्ट स्वभाववाले मनुष्य को (प्रत्युष्टम्) निश्चय करके निर्मूल करूँ तथा (अरातयः) जो राति अर्थात् दान आदि धर्म से रहित दयाहीन दुष्ट शत्रु हैं, उनको (प्रत्युष्टाः) प्रत्यक्ष निर्मूल (रक्षः) वा दुष्ट स्वभाव, दुष्टगुण, विद्याविरोधी, स्वार्थी मनुष्य और (निष्टप्तम्) (अरातयः) छलयुक्त होके विद्या के ग्रहण वा दान से रहित दुष्ट प्राणियों को (निष्टप्ताः) निरन्तर सन्तापयुक्त करूँ। इस प्रकार करके (अन्तरिक्षम्) सुख के सिद्ध करनेवाले उत्तम स्थान और (उरु) अपार सुख को (अन्वेमि) प्राप्त होऊँ ॥७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ईश्वर आज्ञा देता है कि सब मनुष्यों को अपना दुष्ट स्वभाव छोड़कर विद्या और धर्म के उपदेश से औरों को भी दुष्टता आदि अधर्म के व्यवहारों से अलग करना चाहिये तथा उन को बहु प्रकार का ज्ञान और सुख देकर सब मनुष्य आदि प्राणियों को विद्या, धर्म, पुरुषार्थ और नाना प्रकार के सुखों से युक्त करना चाहिये ॥७॥
दयानन्द-सरस्वती (सं) - विषयः
सर्वैर्दुष्टगुणानां दुष्टमनुष्याणां च निषेधः कर्त्तव्य इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - मया रक्षः प्रत्युष्टमरातयः प्रत्युष्टा रक्षो निष्टप्तमरातयो निष्टप्ताः पुरुषार्थेन सदैव कार्य्याः। एवं कृत्वान्तरिक्षमुरु बहुसुखं चान्वेमि ॥७॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - इदमीश्वर आज्ञापयति सर्वैर्मनुष्यैः स्वकीयं दुष्टस्वभावं त्यक्त्वाऽन्येषामपि विद्याधर्मोपदेशेन त्याजयित्वा दुष्टस्वभावान् मनुष्यांश्च निवार्य्य बहुविधं ज्ञानं सुखं च संपाद्य विद्याधर्मपुरुषार्थान्विताः सुखिनः सर्वे प्राणिनः सदा संपादनीयाः ॥७॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ईश्वर अशी आज्ञा देतो की सर्व माणसांनी आपल्या दुष्ट स्वभावाचा त्याग करून इतरांनाही दुष्टपणा व अधर्माच्या व्यवहारापासून दूर करून विद्या व धर्माचा उपदेश केला पाहिजे. त्यांना अनेक प्रकारचे ज्ञान देऊन सुखी केले पाहिजे. उक्त विद्यायु करून धार्मिक व पुरुषार्थी बनवून विविध सुखांनी संपन्न केले पाहिजे.
०८ धूरसि धूर्व
विश्वास-प्रस्तुतिः ...{Loading}...
धूर॑सि॒ धूर्व॒ धूर्व॑न्तं॒ धूर्व॒ तं यो॒ऽस्मान् धूर्व॑ति॒ तं धू॑र्व॒ यं व॒यं धूर्वा॑मः। दे॒वाना॑मसि॒ वह्नि॑तमँ॒ सस्नि॑तमं॒ पप्रि॑तमं॒ जुष्ट॑तमं देव॒हूत॑मम् ॥८॥
मूलम् ...{Loading}...
धूर॑सि॒ धूर्व॒ धूर्व॑न्तं॒ धूर्व॒ तं यो॒ऽस्मान् धूर्व॑ति॒ तं धू॑र्व॒ यं व॒यं धूर्वा॑मः। दे॒वाना॑मसि॒ वह्नि॑तमँ॒ सस्नि॑तमं॒ पप्रि॑तमं॒ जुष्ट॑तमं देव॒हूत॑मम् ॥८॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
धूः। अ॒सि॒। धूर्व॑। धूर्व॑न्तं। धूर्व॑। तं। यः। अ॒स्मान्। धूर्व॑ति। तं। धू॒र्व॒। यं। व॒यं। धूर्वा॑मः। दे॒वाना॑म्। अ॒सि॒। वह्नि॑तम॒मिति॒ वह्नि॑ऽतमम्। सस्नि॑तम॒मिति॒ सस्नि॑ऽतमम्। पप्रि॑तम॒मिति॒ पप्रि॑ऽतमम्। जुष्ट॑तम॒मिति॒ जुष्ट॑ऽतमम्। दे॒व॒हूत॑म॒मिति दे॒व॒हूऽत॑मम्। ८।
महीधरः
म०. ‘श्रपणस्य पश्चादनस्तिष्ठति समङ्गि धूरसीति धुरभिमर्शनम्’ (२।२।१३।१३) इति । अस्यायमर्थः । श्रपणस्य पुरोडाशपाकहेतोर्गार्हपत्यस्य पश्चादनः शकटं व्रीहियुक्तं तिष्ठति । तच्च समङ्गि सम्यगङ्गानि यस्य तत्सर्वाङ्गोपेतं तस्य धुरं बलीवर्दवहनयोग्यं युगप्रदेशं धूरसीति मन्त्रेण स्पृशेदिति ॥ अथ मन्त्रार्थः-व्रीहिरूपहविर्धारकशकटसंबन्धिनो युगस्य बलीवर्दवहनप्रदेशे कश्चिद्धिंसकोऽग्निः शास्त्रदृष्टोऽस्ति तं प्रार्थयते । ‘अग्निर्वा एष धुर्यस्तमेतदत्येष्यन्भवति’ (१।१२।१०) इति श्रुतेः। हे वह्ने, त्वं धूरसि हिंसकोऽसि । ‘तुर्वी थुर्वी दुर्वी धुर्वी हिंसार्थाः ’ धुर्वतेः क्विप् । यतो धूरसि अतः धूर्वन्तं हिंसन्तं पाप्मानं धूर्व विनाशय । किंच यः राक्षसादिर्यागविघ्नेन अस्मान् धूर्वति हिंसितुमुद्युक्तस्तमपि धूर्व विनाशय । यं च वयं धूर्वामः तमपि धूर्व । यमालस्यादिरूपं वैरिणं वयमनुष्ठातारो धूर्वामो हिंसितुमुद्यतास्तमपि धूर्व विनाशय । शकटस्थिताग्न्यतिक्रमणनिमित्तमपराधमपह्नोतुमग्न्याधारभूता शकटस्य धूरनेन मन्त्रेण स्पृश्यते ‘देवानामित्युपस्तम्भनस्य पश्चादीषाम्’ (का० २।३।१४) इति । शकटस्य दीर्घं काष्ठमीषा तद्ग्रस्य भूमिस्पर्शो मा भूदिति । तदाधारत्वेन स्थापितं काष्ठमुपस्तम्भनं तस्य पश्चाद्भागे तामीषां स्पृशेत् । देवानामसि । हे शकट, त्वं देवानां संबन्धि असि भवसि । किंभूतं वह्नितमम् ‘वह प्रापणे’। वहतीति वह्नि अतिशयेन वह्नि वह्नितमम् । व्रीहिरूपस्य हविषोऽतिशयेन प्रापकम् । तथा सस्नितमं ‘ष्णा शौचे’ अतिशयेन शुद्धम् । ‘आदृगमहन-’ (पा० ३।२।१७१) इत्यादिना किप्रत्ययः । यद्वा ‘स्रै वेष्टने’ । दार्ढ्याय चर्मादिभिरतिशयेन वेष्टितम् । पप्रितमम् । ‘प्रा पूरणे’ व्रीहिभिरतिशयेन पूरितम् । जुष्टतमं ‘जुषी प्रीतिसेवनयोः’ । देवानामतिशयेन प्रियम् ।’ देवहूतमम् । ‘ह्वेञ् स्पर्धायां शब्दे च’ देवानामतिशयेनाह्वातृ । व्रीहिपूर्णं शकटं दृष्ट्वा देवा आहूता इव शीघ्रमागच्छन्ति ॥८॥
नवमी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी प्रजापतिर्ऋषिः
- निचृत् अतिजगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
सब क्रियाओं के धारण करनेवाले ईश्वर और पदार्थविद्या की सिद्धि के हेतु भौतिक अग्नि का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे परमेश्वर ! आप (धूः) सब दोषों के नाश और जगत् की रक्षा करनेवाले (असि) हैं, इस कारण हम लोग इस बुद्धि से (देवानाम्) विद्वानों को विद्या मोक्ष और सुख में (वह्नितमम्) यथायोग्य पहुँचाने (सस्नितमम्) अतिशय कर के शुद्ध करने (पप्रितमम्) सब विद्या और आनन्द से संसार को पूर्ण करने (जुष्टतमम्) धार्मिक भक्तजनों के सेवा करने योग्य और (देवहूतमम्) विद्वानों की स्तुति करने योग्य आप की नित्य उपासना करते हैं। (यः) जो कोई द्वेषी, छली, कपटी, पापी, कामक्रोधादियुक्त मनुष्य (अस्मान्) धर्मात्मा और सब को सुख से युक्त करनेवाले हम लोगों को (धूर्वति) दुःख देता है और (यम्) जिस पापीजन को (वयम्) हम लोग (धूर्वामः) दुःख देते हैं, (तम्) उसको आप (धूर्व) शिक्षा कीजिये तथा जो सबसे द्रोह करने वा सबको दुःख देता है, उसको भी आप सदैव (धूर्व) ताड़ना कीजिये ॥८॥ हे शिल्पविद्या को जानने की इच्छा करनेवाले मनुष्य ! तू जो भौतिक अग्नि (धूः) सब पदार्थों का छेदन और अन्धकार का नाश करनेवाला (असि) है तथा जो कला चलाने की चतुराई से यानों में विद्वानों को (वह्नितमम्) सुख पहुँचाने (सस्नितमम्) शुद्धि होने का हेतु (पप्रितमम्) शिल्पविद्या का मुख्य साधन (जुष्टतमम्) कारीगर लोग जिस का सेवन करते हैं तथा जो (देवहूतमम्) विद्वानों को स्तुति करने योग्य अग्नि है, उस को (वयम्) हम लोग (धूर्वामः) ताड़ते हैं और जिसका सेवन युक्ति से न किया जाय तो (अस्मान्) हम लोगों को (धूर्वति) पीड़ा करता है, (तम्) उस (धूर्वन्तम्) पीड़ा करनेवाले अग्नि को (धूर्व) यानादिकों में युक्त कर तथा हे वीर पुरुष ! तुम (यः) जो दुष्ट शत्रु (अस्मान्) हम लोगों को (धूर्वति) दुःख देता है (तम्) उस को (धूर्व) नष्ट कर तथा जो कोई चोर आदि है, उसका भी (धूर्व) नाश कीजिये ॥८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो ईश्वर सब जगत् को धारण कर रहा है, वह पापी दुष्ट जीवों को उन के किये हुए पापों के अनुकूल दण्ड देकर दुःखयुक्त और धर्मात्मा पुरुषों को उत्तम कर्मों के अनुसार फल देके उन की रक्षा करता है, वही सब सुखों की प्राप्ति, आत्मा की शुद्धि कराने और पूर्ण विद्या का देनेवाला, विद्वानों के स्तुति करने योग्य तथा प्रीति और इष्ट बुद्धि से सेवा करने योग्य है, दूसरा कोई नहीं। तथा यह प्रत्यक्ष भौतिक अग्नि भी सम्पूर्ण शिल्पविद्याओं की क्रियाओं को सिद्ध करने तथा उनका मुख्य साधन और पृथिवी आदि पदार्थों में अपने प्रकाश अथवा उनकी प्राप्ति से श्रेष्ठ है, क्योंकि जिस से सिद्ध की हुई आग्नेय आदि उत्तम शस्त्रास्त्रविद्या से शत्रुओं का पराजय होता है, इस से यह भी विद्या की युक्तियों से होम और विमान आदि के सिद्ध करने के लिये सेवा करने के योग्य है ॥८॥
दयानन्द-सरस्वती (सं) - विषयः
अथ सर्वविद्याधारकेश्वरो विद्यासाधनीभूतो भौतिकोऽग्निश्चोपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे परमेश्वर ! यतस्त्वं धूरसि सर्वाभिरक्षकश्चासि तस्माद्वयमिष्टबुद्ध्या देवानां वह्नितमं सस्नितमं पप्रितमं जुष्टतमं देवहूतमं त्वां नित्यमुपास्महे। योऽस्मान् धूर्वति यं च वयं धूर्वामस्तं त्वं धूर्व। यश्च सर्वद्रोही तमपि धूर्वन्तं सर्वहिंसकं सदैव धूर्व। इत्येकः। हे शिल्पविद्यां चिकीर्षो ! त्वं यो भौतिकोऽग्निधूः सर्वपदार्थच्छेदकत्वाद्धिंसको (असि) अस्ति तं कलाकौशलेन यानेषु सम्प्रयोजनीयं देवानां वह्नितमं सस्नितमं पप्रितमं जुष्टतमं देवहूतममग्निं [यं च] वयं धूर्वामस्ताडयामः। योऽयुक्त्या सेवितोऽस्मान् धूर्वति तं धूर्वन्तमग्निं धूर्व। हे वीर ! त्वं यो दुष्टशत्रुरस्मान् धूर्वति तमप्याग्नेयास्त्रेण धूर्व यश्च दस्युरस्ति तमपि धूर्व ॥८॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यो धातेश्वरः सर्वं जगद्दधाति पापिनो दुष्टान् जीवान् तत्कृतपापफलदानेन ताडयति धार्मिकांश्च रक्षति। सर्वसुखप्रापक आत्मशुद्धिकारकः पूर्णविद्याप्रदाता विद्वद्भिः स्तोतव्यः प्रीत्येष्टबुद्ध्या च सेवनीयोऽस्ति। स एव सर्वैर्मनुष्यैर्भजनीयः। तथैव योऽग्निः सकलशिल्पविद्याक्रियासाधकतमः पृथिव्यादिपदार्थानां मध्ये प्रकाशकप्रापकतमतया श्रेष्ठोऽस्ति। यस्य प्रयोगेणाग्नेयास्त्रादिविद्यया शत्रूणां पराजयो भवति स एव शिल्पिभिर्विद्यायुक्त्या होमयानक्रियासिध्यर्थं सेवनीयः ॥८॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जो ईश्वर जगाला धारण करतो, पापी दुष्ट जीवांना त्यांच्या पापानुसार दुःख भोगण्याची शिक्षा देतो व धार्मिक माणसांना उत्तम कर्मानुसार फळ देतो व त्यांचे रक्षण करतो तोच सर्व सुख देतो. तोच आत्म्याला शुद्ध करतो. पूर्ण विद्या देतो. विद्वान लोक त्याची स्तुती करतात. तोच भक्ती करण्यायोग्य आहे व शुद्ध बुद्धीने प्राप्त करण्यायोग्य आहे. दुसरा कुणीही नाही.
सविता जोशी ← दयानन्दः (म) - पादटिप्पनी
टिप्पणी: हा भौतिक अग्नीसुद्धा शिल्पविद्या क्रियान्वित करण्याचे मुख्य साधन असून, पृथ्वीवरील प्रकाश व पदार्थांची प्राप्ती त्याच्यामुळेच होते. पृथ्वी इत्यादी पदार्थात तो स्थित असतो. त्यामुळे तो श्रेष्ठ आहे. त्याच्यामुळेच आग्नेय शस्त्रास्त्र विद्येने शत्रूंचा पराभव होतो त्यासाठी हा भौतिक अग्नी होम करणे, विमान चालविणे इत्यादींसाठी उपयोगात आणला पाहिजे.
०९ अह्रुतमसि हविर्धानम्
विश्वास-प्रस्तुतिः ...{Loading}...
अह्रु॑तमसि हवि॒र्धानं॒ दृँह॑स्व॒ मा ह्वा॒र्मा ते॑ य॒ज्ञप॑तिर्ह्वार्षीत्। विष्णु॑स्त्वा क्रमतामु॒रु वाता॒याप॑हतँ॒रक्षो॒ यच्छ॑न्तां॒ पञ्च॑ ॥९॥
मूलम् ...{Loading}...
अह्रु॑तमसि हवि॒र्धानं॒ दृँह॑स्व॒ मा ह्वा॒र्मा ते॑ य॒ज्ञप॑तिर्ह्वार्षीत्। विष्णु॑स्त्वा क्रमतामु॒रु वाता॒याप॑हतँ॒रक्षो॒ यच्छ॑न्तां॒ पञ्च॑ ॥९॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अह्रु॑तम्। अ॒सि॒। ह॒वि॒र्धान॒मिति॑ हविः॒ऽधान॑म्। दृँह॑स्व। मा। ह्वाः॒। मा। ते॒। य॒ज्ञप॑ति॒रिति॑ य॒ज्ञऽप॑तिः। ह्वा॒र्षी॒त्। विष्णुः॑। त्वा॒। क्र॒म॒तां॒। उ॒रु। वाता॒य। अप॑हत॒मित्यप॑ऽहतम्। रक्षः॑। यच्छ॑न्ताम्। पञ्च॑। ९।
महीधरः
म० अह्रुतमसि । ‘ह्वृ कौटिल्ये’ । क्तप्रत्ययः । ‘ह्रुह्वरेश्छन्दसि’ (पा० ७।२।३१ ) इति निष्ठायां ह्रुआदेशः । अह्रुतम् अकुटिलम् असि । आरोहणेऽपि भङ्गभीतिर्नास्तीत्यर्थः । हविर्धानम् । ‘डुधाञ् धारणपोषणयोः’ । हविषो व्रीहिरूपस्य धारकं पोषकं भवसि । अतः दृंहस्व ।मा ह्वार्मा ते यज्ञपतिर्ह्वार्षीदिति पूर्ववद्व्याख्येयम् । ‘विष्णुस्त्वेत्यारोहणम्’ (का० १।३। १५) इति । हे शकट, विष्णुः व्यापको यज्ञः त्वा त्वां । क्रमतां पादेनाक्रम्यारोहतु नाहं समर्थ इति भावः । ‘प्रेक्षत उरु वातायेति हविष्यात्’ (का० १।३।१६) इति । हे शकट, वाताय उरु भवेति शेषः । तदन्तर्वर्तिव्रीहिषु वायुसंचाराय विस्तीर्णं भव । शकटस्य व्रीहीणां तृणाद्याच्छादितत्वात्संकोचे वायुप्रवेशाभावादाच्छादनमपनीय यथा वायुः प्रविशति तथा संकोचं परित्यजेत्यर्थः । वायुरूपप्राणवेशाद्धविः सप्राणं क्रियते मन्त्रेण । किंच वायुप्रवेशरहितं सर्वं वस्तु वरुणदेवत्यं भवति । वरुणश्च बन्धकारित्वाद्यज्ञनिरोधकस्तन्निवृत्त्यर्थमयं मन्त्रः । यद्वै किंच वातो नाभिभवति तत्सर्वं वरुणदेवत्यमुरुवातायेत्याह वारुणमेवैतत्करोति इति तित्तिरिवचनात् ‘अपहतमिति निरस्यत्यन्यदविद्यमानेऽभिमृशेत्’ (का० २।३।१७-१८) इति । व्रीहिभ्योऽन्यत्तृणादिकं यदि तत्र भवेत्तदनेन निरस्येत् । तृणाद्यभावे व्रीहीनभिमृशेदिति सूत्रार्थः । अथ मन्त्रार्थः – रक्षः यज्ञविघातकम् । अपहतं निराकृतं तृणादिकमेव रक्ष उच्यते । ‘यच्छन्तामित्यालभते’ (का० २।३।१९) इति । पञ्च पञ्चसंख्याका अङ्गुलयो व्रीहिरूपं हविः यच्छन्तां नियच्छन्तु । अनेन पञ्चाङ्गुलियुक्तेन मुष्टिना व्रीहीन्गृह्णीयादित्यर्थ उक्तो भवति ॥ ९॥
दशमी।
अधिमन्त्रम् (VC)
- विष्णुर्देवता
- परमेष्ठी प्रजापतिर्ऋषिः
- निचृत् त्रिष्टुप्,
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब यजमान और भौतिक अग्नि के कर्म का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे ऋत्विग् मनुष्य ! तुम जो अग्नि से बढ़ा हुआ (अह्रुतम्) कुटिलतारहित (हविर्धानम्) होम के योग्य पदार्थों का धारण करना है, उस को (दृंहस्व) बढ़ाओ, किन्तु किसी समय में (मा ह्वाः) उस का त्याग मत करो तथा यह (ते) तुम्हारा (यज्ञपतिः) यजमान भी उस यज्ञ के अनुष्ठान को (मा ह्वार्षीत्) न छोड़े। इस प्रकार तुम लोग (पञ्च) एक तो ऊपर की चेष्टा होना, दूसरा नीचे को, तीसरा चेष्टा से अपने अङ्गों को संकोचना, चौथा उनका फैलाना, पाँचवाँ चलना-फिरना आदि इन पाँच प्रकार के कर्मों से हवन के योग्य जो द्रव्य हो उसको अग्नि में (यच्छन्ताम्) हवन करो। (त्वा) वह जो हवन किया हुआ द्रव्य है, उस को (विष्णुः) जो व्यापनशील सूर्य्य है, वह (अपहतम्) (रक्षः) दुर्गन्धादि दोषों का नाश करता हुआ (उरु वाताय) अत्यन्त वायु की शुद्धि वा सुख की वृद्धि के लिये (क्रमताम्) चढ़ा देता है ॥९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जब मनुष्य परस्पर प्रीति के साथ कुटिलता को छोड़कर शिक्षा देनेवाले के शिष्य होके विशेष ज्ञान और क्रिया से भौतिक अग्नि की विद्या को जानकर उस का अनुष्ठान करते हैं, तभी शिल्पविद्या की सिद्धि के द्वारा सब शत्रु दारिद्र्य और दुःखों से छूटकर सब सुखों को प्राप्त होते हैं। इस प्रकार विष्णु अर्थात् व्यापक परमेश्वर ने सब मनुष्यों के लिये आज्ञा दी है, जिसका पालन करना सबको उचित है ॥९॥
दयानन्द-सरस्वती (सं) - विषयः
अथ यजमानभौतिकाग्निकृत्यमुपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे ऋत्विक् ! त्वं यदग्निना दृंहितमह्रुतं हविर्धानमस्यास्ति तद् दृंहस्व, किन्तु तत्कदाचिन्मा ह्वार्मा त्यजेरिदं ते तव यज्ञपतिर्दृंहतां मा ह्वार्षीन्मा त्यजतु। एवं भवन्तः सर्वे मनुष्याः पञ्चभिरुत्क्षेपणादिभिः कर्मभिर्यदग्नौ हूयते तन्नियच्छन्तां निगृह्णन्तु। यद्द्रव्यं विष्णुर्व्यापनशीलः सूर्य्योऽपहतं रक्षो यथा स्यात्तथोरु वाताय [क्रमताम्] क्रमयति चालयति त्वा तत्सर्वं मनुष्या अग्नौ होमद्वारा यच्छन्तां निगृह्णन्तु ॥९॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदा मनुष्याः परस्परं प्रीत्या कुटिलतां विहाय शिक्षकशिष्या भूत्वेमामग्निविद्यां विज्ञानक्रियाभ्यां ज्ञात्वाऽनुतिष्ठन्ति तदा महतीं शिल्पविद्यां संपाद्य शत्रुदारिद्र्यनिवारणपुरःसरं सर्वाणि सुखानि प्राप्नुवन्तीति ॥९॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जेव्हा माणसे कुटिलता सोडून परस्पर प्रेमाने वागतात व विद्वान लोकांचे शिष्य बनतात, विशेष ज्ञान व कर्माद्वारे भौतिक अग्नीची विद्या जाणतात आणि त्याचे अनुष्ठान करतात तेव्हा शिल्पविद्येची सिद्धी होऊन शत्रू, दारिद्र्य व दुःख नष्ट होते आणि त्यांना सर्व सुख मिळते. याप्रमाणे विष्णू अर्थात व्यापक परमेश्वराने सर्व माणसांना आज्ञा दिलेली आहे, तिचे पालन करणे योग्य ठरते.
१० देवस्य त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳙ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम्। अ॒ग्नये॒ जुष्टं॑ गृह्णाम्य॒ग्नीषोमा॑भ्यां॒ जुष्टं॑ गृह्णामि ॥१०॥
मूलम् ...{Loading}...
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳙ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम्। अ॒ग्नये॒ जुष्टं॑ गृह्णाम्य॒ग्नीषोमा॑भ्यां॒ जुष्टं॑ गृह्णामि ॥१०॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दे॒वस्य॑। त्वा॒। सवि॒तुः। प्र॒स॒व इति॑ प्रऽस॒वे। अ॒श्विनोः॑। बा॒हुभ्या॒मिति॑ बा॒हुभ्या॑म्। पू॒ष्णः। हस्ता॑भ्याम्। अ॒ग्नये॑। जुष्ट॑म्। गृ॒ह्णा॒मि॒। अ॒ग्नीषोमा॑भ्याम्। जुष्ट॑म्। गृ॒ह्णा॒मि॒। १०।
महीधरः
म० ‘देवस्य त्वेति गृह्णात्याग्नेयं चतुरो मुष्टीनेवमग्नीषोमीयं यथादैवतमन्यत्’ (का० २ । ३ । २०-२२) इति । हे हविः, सवितुर्देवस्य प्रसवे प्रेरणे सति तेन प्रेरितोऽहम् अग्नये जुष्टं प्रियं त्वा गृह्णामि । अग्नीषोमाभ्यां व्यासक्तदेवताभ्यां च जुष्टं त्वा गृह्णामि । काभ्याम् । अश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां च । अंसमणिबन्धयोर्मध्यभागो दीर्घदण्डाकारो बाहुः । पञ्चाङ्गुलियुक्ताग्रभागो हस्तः । अश्विनौ हि देवानामध्वर्यू । पूषा हि देवानां भागधुक् । अतो ग्रहणसाधनयोः स्वबाह्वोरश्विबाहुभावना कार्या । हस्तयोस्तु पूषहस्तभावनेति भावः । सर्वात्मकस्याग्नेर्हविस्तादृशं मनुष्येण कथं ग्रहीतुं शक्यमिति सवित्रानुज्ञातोऽश्विबाहुभ्यां पूष्णो हस्ताभ्यां गृह्णामीत्यर्थः । किंच। ‘सत्यं देवा अनृतं मनुष्याः ’ (१।१।२।१७) इति श्रुतेः देवानां सत्यरूपत्वात्तदनुस्मृतिपूर्वकं हविर्ग्रहणं फलपर्यवसायित्वात्सत्यं भवति । देवतास्मृत्यभावे तु मनुष्याणामनृतरूपत्वात्तत्कृतमनुष्ठानं निष्फलत्वादनृतं भवतीति देवतास्मरणमित्यभिप्रायः । हविर्गृह्णन्तमध्वर्युं देवताः सेवन्ते मम नाम ग्रहीष्यतीति । अनामग्रहं हविषि गृहीते तासां मिथः कलहो भवेदिदं मदर्थमेव गृहीतमिति तत्कलहनिवृत्यर्थमग्नये जुष्टमग्नीषोमाभ्यां जुष्टमिति देवतानिर्देशपूर्वकं हविर्ग्रहणमित्यभिप्रायः १०
एकादशी।
अधिमन्त्रम् (VC)
- सविता देवता
- परमेष्ठी प्रजापतिर्ऋषिः
- भूरिग् बृहती,
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
उस यज्ञ के फल का ग्रहण किस करके होता है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - मैं (सवितुः) सब जगत् के उत्पन्नकर्त्ता सकल ऐश्वर्य के दाता तथा (देवस्य) संसार का प्रकाश करनेहारे और सब सुखदायक परमेश्वर के (प्रसवे) उत्पन्न किये हुए इस संसार में (अश्विनोः) सूर्य्य और चन्द्रमा के (बाहुभ्याम्) बल और वीर्य्य से तथा (पूष्णः) पुष्टि करनेवाले प्राण के (हस्ताभ्याम्) ग्रहण और त्याग से (अग्नये) अग्निविद्या के सिद्ध करने के लिये (जुष्टम्) विद्या पढ़नेवाले जिस कर्म की सेवा करते हैं, (त्वा) उसे (गृह्णामि) स्वीकार करता हूँ। इसी प्रकार (अग्नीषोमाभ्याम्) अग्नि और जल की विद्या से (जुष्टम्) विद्वानों ने जिस कर्म को चाहा है, उस के फल को (गृह्णामि) स्वीकार करता हूँ ॥१०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्वान् मनुष्यों को उचित है कि विद्वानों का समागम वा अच्छे प्रकार अपने पुरुषार्थ से परमेश्वर की उत्पन्न की हुई प्रत्यक्ष सृष्टि अर्थात् संसार में सकल विद्या की सिद्धि के लिये सूर्य्य, चन्द्र, अग्नि और जल आदि पदार्थों के प्रकाश से सब के बल वीर्य्य की वृद्धि के अर्थ अनेक विद्याओं को पढ़ के उन का प्रचार करना चाहिये अर्थात् जैसे जगदीश्वर ने सब पदार्थों की उत्पत्ति और उन की धारणा से सब का उपकार किया है, वैसे ही हम लोगों को भी नित्य प्रयत्न करना चाहिये ॥१०॥
दयानन्द-सरस्वती (सं) - विषयः
तस्य यज्ञफलस्य ग्रहणं केन कुर्वन्तीत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यत्सवितुर्देवस्य प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये जुष्टमस्ति त्वा तत् कर्माहं गृह्णामि। एवं च यद्विद्वद्भिरग्नीषोमाभ्यां जुष्टं प्रीतं चारु फलमस्ति तदहं गृह्णामि ॥१०॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - विद्वद्भिर्मनुष्यैर्विद्वत्सङ्गत्या सम्यक् पुरुषार्थेनेश्वरेणोत्पादितायामस्यां सृष्टौ सकलविद्यासिद्धये सूर्य्याचन्द्राग्निजलादिपदार्थानां सकाशात् सर्वेषां बलवीर्य्यवृद्धये च सर्वा विद्याः संसेव्य प्रचारणीयाः। यथा जगदीश्वरेण सकलपदार्थानामुत्पादनधारणाभ्यां सर्वोपकारः कृतोऽस्ति तथैवास्माभिरपि नित्यं प्रयतितव्यम् ॥१०॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - परमेश्वराने उत्पन्न केलेल्या या जगात सर्व विद्यांची सिद्धी करण्यासाठी सूर्य, चंद्र, अग्नी व जल इत्यादी पदार्थांच्या साह्याने सर्वांचे बल वाढावे त्यासाठी विद्वानांनी विद्वानांच्या संगतीने पुरुषार्थ करून अनेक प्रकारच्या विद्या प्राप्त केल्या पाहिजेत व त्यांचा प्रसार व प्रचार केला पाहिजे. अर्थात ज्याप्रमाणे परमेश्वराने सर्व पदार्थांची निर्मिती करून त्यांना धारण केलेले आहे व उपकार केलेला आहे त्याप्रमाणे आपणही सदैव तशा प्रकारे प्रयत्न केला पाहिजे.
११ भूताय त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
भू॒ताय॑ त्वा॒ नारा॑तये॒ स्व᳖रभि॒विख्ये॑षं॒ दृँह॑न्तां॒ दुर्याः॑ पृथि॒व्यामु॒र्व᳙न्तरि॑क्ष॒मन्वे॑मि। पृ॒थि॒व्यास्त्वा॒ नाभौ॑ सादया॒म्यदि॑त्याऽउ॒पस्थेऽग्ने॑ ह॒व्यँ र॑क्ष ॥११॥
मूलम् ...{Loading}...
भू॒ताय॑ त्वा॒ नारा॑तये॒ स्व᳖रभि॒विख्ये॑षं॒ दृँह॑न्तां॒ दुर्याः॑ पृथि॒व्यामु॒र्व᳙न्तरि॑क्ष॒मन्वे॑मि। पृ॒थि॒व्यास्त्वा॒ नाभौ॑ सादया॒म्यदि॑त्याऽउ॒पस्थेऽग्ने॑ ह॒व्यँ र॑क्ष ॥११॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
भू॒ताय॑। त्वा॒। न। अरा॑तये। स्वः॑। अ॒भि॒विख्ये॑ष॒मित्य॑भि॒ऽविख्ये॑षम्। दृँह॑न्ताम्। दुर्य्याः॑। पृ॒थि॒व्याम्। उ॒रु। अ॒न्तरि॑क्षम्। अनु। ए॒मि॒। पृ॒थि॒व्याः। त्वा॒। नाभौ॑। सा॒द॒या॒मि॒। अदि॑त्याः। उ॒पस्थ॒ इत्यु॒पऽस्थे॑। अग्ने॑। ह॒व्यम् र॒क्ष॒। ११।
महीधरः
म० ‘भूताय त्वेति शेषाभिमर्शनम्’ (का० २ । ३ । २३) इति । हे व्रीहिशेष शकटावस्थित, भूताय भवनाय यागान्तराणां ब्राह्मणभोजनस्य च पुनरपि सद्भावाय त्वा त्वां संपरिशेषयामीति शेषः । न अरातये अदानाय शेषयामि । ‘स्वरिति प्राङीक्षते’ (का० २ । ३ । २४ ) इति । अहं स्वः अभिविख्येषं यज्ञं पश्येयं । ‘यज्ञो वै स्वरहर्देवाः सूर्यः’ (१।१।२ । २१) इति श्रुतेः । यज्ञदिवसदेवसूर्याः स्वःशब्देनोच्यन्ते । स्वर्गहेतुत्वादपि स्वःशब्देन यज्ञः । ‘ख्या प्रकथने’ । अभिविख्येषम् अभितो विशेषेण ख्यापयेयं पश्येयमित्यर्थः । अनेन मन्त्रेण प्राङ्मुखो यज्ञभूमिं वीक्षते ॥ दृᳪं᳭हन्तामित्यवरोहति’ (का० २।३।२५) इति । पृथिव्यां वर्तमानाः । दुर्याः ग्रहाः । दृᳪं᳭हन्तां दृढा भवन्तु । अनेन मन्त्रेण शकटादवरोहयेत् । दुरो द्वाराण्यर्हन्तीति दुर्या गृहाः । हविर्गृहीत्वोत्तरतोऽध्वर्योर्भारेण गृहक्षोभः संभाव्यते सोऽनेन मन्त्रेण वार्यते । ‘गच्छत्युर्वन्तरिक्षम्’ (का० २। ३ । २६) इति । व्याख्यातम् । ‘श्रपणस्य पश्चात्सादयति पृथिव्यास्त्वा’ (का० २ । ३ । २५) इति । हे हविः, पृथिव्या नाभौ मध्ये त्वां सादयामि स्थापयामि । तस्यैव व्याख्यानं अदित्या उपस्थ इति । उपस्थेऽङ्के । यथा सुप्तं बालं पुत्रं माता स्वाङ्के स्थापयति एवमिदं हविः अदित्या उपस्थे भूम्या अङ्के सादयामि । हे अग्ने, तव समीपे स्थापितमिदं हव्यं त्वं रक्ष । सुप्तं पुत्रमिव बाधकेभ्यः पालय ॥ ११ ॥
द्वादशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी प्रजापतिर्ऋषिः
- स्वराड् जगती,
- निषादः
१२ पवित्रे स्थो
विश्वास-प्रस्तुतिः ...{Loading}...
प॒वित्रे॑ स्थो वैष्ण॒व्यौ᳖ सवि॒तुर्वः॑ प्रस॒व उत्पु॑ना॒म्यच्छि॑द्रेण प॒वित्रे॑ण॒ सूर्य्य॑स्य रश्मिभिः॑। देवी॑रापोऽअग्रेगुवोऽअग्रेपु॒वोऽग्र॑ऽइ॒मम॒द्य य॒ज्ञं न॑य॒ताग्रे॑ य॒ज्ञप॑तिँ सु॒धातुं॑ य॒ज्ञप॑तिं देव॒युव॑म् ॥१२॥
मूलम् ...{Loading}...
प॒वित्रे॑ स्थो वैष्ण॒व्यौ᳖ सवि॒तुर्वः॑ प्रस॒व उत्पु॑ना॒म्यच्छि॑द्रेण प॒वित्रे॑ण॒ सूर्य्य॑स्य रश्मिभिः॑। देवी॑रापोऽअग्रेगुवोऽअग्रेपु॒वोऽग्र॑ऽइ॒मम॒द्य य॒ज्ञं न॑य॒ताग्रे॑ य॒ज्ञप॑तिँ सु॒धातुं॑ य॒ज्ञप॑तिं देव॒युव॑म् ॥१२॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प॒वित्रे॒ऽइति॑ प॒वित्रे॑। स्थः॒। वै॒ष्ण॒व्यौ᳖। स॒वि॒तुः। वः॒। प्र॒स॒व इति॑ प्र॒ऽस॒वे। उत्। पु॒ना॒मि॒। अच्छि॑द्रेण। प॒वित्रे॑ण। सूर्य्य॑स्य। र॒श्मिभि॒रिति॑ र॒श्मिऽभिः॑। देवीः॑। आ॒पः॒। अ॒ग्रे॒गु॒व॒ इत्य॑ग्रेऽगुवः। अ॒ग्रे॒पु॒व॒ इत्य॑ग्रेऽपुवः॒। अग्रे॑। इ॒मम्। अ॒द्य। य॒ज्ञम्। न॒य॒त॒। अग्रे॑। य॒ज्ञप॑ति॒मिति॑ य॒ज्ञऽप॑तिम्। सु॒धातु॒मिति॑ सु॒धाऽतु॑म्। य॒ज्ञप॑ति॒मिति॑ यज्ञऽप॑तिम्। दे॒व॒युव॒मिति॑ देव॒ऽयुव॑म्। १२।
महीधरः
म० कुशौ समावप्रशीर्णाग्रावनन्तर्गर्भौ कुशैश्छिनत्ति ‘पवित्रे स्थ इति त्रीन्वा’ (का०२।३।३२) इति । वैष्णवे इति प्राप्ते ‘व्यत्ययो बहुलम्’ (पा० ३।१।८५) इति स्त्रीत्वम् । हे पवित्रे शोधके कुशद्वयरूपे, युवां वैष्णव्यौ यज्ञसंबन्धिनी स्थः भवथः । ‘यज्ञो वै विष्णुर्यज्ञिये स्थः’ (१।१।३।१) इति श्रुतेः । हविर्ग्रहण्यामपः कृत्वा ताभ्यामुत्पुनाति ‘सवितुर्व इति’ ( का० २। ३ । ३३) इति । सवितुः प्रेरकस्य प्रसवे प्रेरणे सति हे आपः, वः युष्मान् उत्पुनामि उत्कर्षेण शोधयामि । केन । अच्छिद्रेण छिद्रहीनेन पवित्रेण शोधकेन वायुरूपेण । ‘यो वा अयं पवत एषोऽच्छिद्रं पवित्रम्’ (१।१।३ । ६ ) इति श्रुतेः । सूर्यस्य रश्मिभिः शुद्धिहेतुभिरुत्पुनामीति संबन्धः । वायोः सूर्यरश्मीनां च पादप्रक्षालनाद्युपहतभूमिशुद्धिहेतुत्वं प्रसिद्धम् । ‘सव्ये कृत्वा दक्षिणेनोदिङ्गयति देवीरापः’ (का० २ । ३ । ३५) इति । उत्पूताभिरद्भिः पूरितामग्निहोत्रहवणीं सव्यहस्ते स्थापयित्वा मन्त्रमुच्चारयन् दक्षिणहस्तेनोर्ध्वं चालयेदिति सूत्रार्थः । मन्त्रार्थस्तु-हे देवीः आपः द्योतनात्मिका आपः, यूयम् अद्य अस्मिन्दिने इमम् इदानीं प्रवर्तमानं यज्ञम् अग्रे नयत पुरतः प्रवर्तयत निर्विघ्नं समापयत । किंभूता आपः । अग्रेगुवः अग्रे गच्छन्ति इत्यग्रेगुवः पुरतो निम्नदेशं प्रति गमनशीलाः। तथा अग्रेपुवः अग्रे पुनन्तीत्यग्रेपुवः । अग्रे यस्मिन्पूर्वभागे गच्छन्ति तस्मिन्नपहतिनिवारणेन शोधनशीलाः । यद्वा । अग्रे पिबन्तीत्यग्रेपुवः । प्रथमं सोमरसस्य पानकर्त्र्यः । गमेः क्विप्प्रत्यये ‘गमः क्वौ’ (पा० ६।४।४०)इत्यनुनासिकलोपे पुनातेः पिबतेर्वा क्वौ ‘ऊङ् च गमादीनाम्’ (क० ६।४।४० वा० २) इत्यूकारः । किंच यज्ञपतिं यजमानमग्रे नयतेत्यनुवर्तते । फलभोगाय प्रेरयत । कथंभूतम् । सुधातुम् सुष्ठु दक्षिणादिना दधाति यज्ञं पुष्णातीति सुधातुस्तं यज्ञस्य पतिं पालयितारम् । एको यज्ञपतिशब्दो योगेन व्याख्येय एको रूढ्या । तथा देवयुवम् । ‘यु मिश्रणे’ । देवान् यौति यज्ञादिना मिश्रीकरोति देवयुस्तम् । क्विप् । ‘अनित्यमागमशासनम्’ इति तुगभावः । यद्वा देवान्कामयते इति देवयुस्तम् । ‘इदंयुरिदंकामयमानः’ (निरु० ६ । ३१) इति यास्कोक्तेः । ‘सुप आत्मनः क्यच्’ (पा० ३।१।८) इति क्यच् ‘क्यचि च’ (७ । ४ । ३३) इतीत्वे प्राप्ते ‘न छन्दस्यपुत्रस्य’ (पा० ७।४।३५) इतीत्वाभावः । ‘अश्वाघस्यात्’ (पा० ७।४।३७) इति अश्वाघयोरेवात्वविधानात् ‘अकृत्सार्वधातुकयोः’ (पा० ७। ४ । २५) इति प्राप्तो दीर्घो न भवति । ततः ‘क्याच्छन्दसि’ (पा० ३ । २ । १७० ) इति उप्रत्ययः । देवयुशब्दस्यामि परे ‘अमि पूर्वः’ (पा० ६।१।१०७) इति प्राप्तस्य पूर्वरूपस्य ‘वा छन्दसि’ (पा० ६ । १ । १०६) इति विकल्पेन ‘तन्वादीनां वा इयङ्चङौ’ (पा० क० ६।४।६८ वा० १) इत्युवङ् ॥ १२ ॥
त्रयोदशी।
अधिमन्त्रम् (VC)
- अप्सवितारौ देवते
- परमेष्ठी प्रजापतिर्ऋषिः
- भूरिग् अत्यष्टिः,
- गान्धारः
१३ युष्माऽइन्द्रोऽवृणीत वृत्रतूर्य्ये
विश्वास-प्रस्तुतिः ...{Loading}...
यु॒ष्माऽइन्द्रो॑ऽवृणीत वृत्र॒तूर्य्ये॑ यू॒यमिन्द्र॑मवृणीध्वं वृत्र॒तूर्ये॒ प्रोक्षि॑ता स्थ। अ॒ग्नये॑ त्वा॒ जुष्टं॒ प्रोक्षा॑म्य॒ग्नीषोमा॑भ्यां त्वा॒ जुष्टं॒ प्रोक्षा॑मि। दैव्या॑य॒ कर्म॑णे शुन्धध्वं देवय॒ज्यायै॒ यद्वोऽशु॑द्धाः पराज॒घ्नुरि॒दं व॒स्तच्छु॑न्धामि ॥१३॥
मूलम् ...{Loading}...
यु॒ष्माऽइन्द्रो॑ऽवृणीत वृत्र॒तूर्य्ये॑ यू॒यमिन्द्र॑मवृणीध्वं वृत्र॒तूर्ये॒ प्रोक्षि॑ता स्थ। अ॒ग्नये॑ त्वा॒ जुष्टं॒ प्रोक्षा॑म्य॒ग्नीषोमा॑भ्यां त्वा॒ जुष्टं॒ प्रोक्षा॑मि। दैव्या॑य॒ कर्म॑णे शुन्धध्वं देवय॒ज्यायै॒ यद्वोऽशु॑द्धाः पराज॒घ्नुरि॒दं व॒स्तच्छु॑न्धामि ॥१३॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
यु॒ष्माः। इन्द्रः॑। अ॒वृ॒णी॒त॒। वृ॒त्र॒तूर्य्य॒ इति॑ वृत्र॒ऽतूर्य्ये॑। यू॒यम्। इन्द्र॑म्। अ॒वृ॒णी॒ध्व॒म्। वृ॒त्र॒तूर्य्य॒ इति॑ वृ॒त्र॒ऽतूर्य्ये॑। प्रोक्षि॑ता॒ इति॒ प्रऽउ॑क्षिताः। स्थ॒। अ॒ग्नये॑। त्वा॒। जुष्ट॑म्। प्र। उ॒क्षा॒मि॒। अ॒ग्नीषोमा॑भ्याम्। त्वा॒। जुष्ट॑म्। प्रऽउ॒क्षा॒मि॒। दैव्या॑य। कर्म॑णे। शु॒न्ध॒ध्व॒म्। दे॒व॒य॒ज्याया॒ इति॑ देवऽय॒ज्यायै॑। यत्। वः॒। अशु॑द्धाः। प॒रा॒ज॒घ्नुरिति॑ पराऽज॒घ्नुः। इ॒दम्। वः॒ तत्। शु॒न्धा॒मि॒। १३।
महीधरः
म० हे आपः, इन्द्रः देवः वृत्रतूर्ये । तूर्यतिर्वधकर्मा । वृत्रवधे निमित्तभूते सति युष्माः युष्मान् अवृणीत । आकारश्छान्दसः । सहकारित्वेन प्रार्थितवान् । यूयम् अपि वृत्रतूर्ये निमित्ते तम् इन्द्रं अवृणीध्वं वृतवत्यः सहकारित्वेन । ‘प्रोक्षिताः स्थेति तासां प्रोक्षणम्’ (का० २।३।३६) इति । हे आपः, यूयं प्रोक्षिताः भवथ । असंस्कृता अन्यसंस्कारक्षमा न भवन्तीति ‘हविश्चाग्नये त्वाग्नीषोमाभ्यां त्वेति यथादैवतमन्यत्’ (का० २।३ । ३७ । ३८) इति । अन्यदपि हविस्तद्देवतोच्चारेण प्रोक्षणीयम् । अग्नये त्वां जुष्टं प्रोक्षामि अग्नीषोमाभ्यां त्वा जुष्टं प्रोक्षामि ( का० २ । ३ । ३९) पात्राणि दैव्यायेति । कृष्णाजिनोलूखलादीनि पात्राणि प्रोक्षयेत् । हे यज्ञपात्राणि, यूयं शुन्धध्वम् शुद्धानि भवत । किमर्थम् । दैव्याय कर्मणे अग्न्यादिदेवतासंबन्धिने कर्मणे । तदेव कर्म विशिष्यते । देवयज्यायै देवसंबन्धिन्यै यागक्रियायै दर्शादिकायै । किंच । अशुद्धाः नीचजातयस्तक्षादयः वः युष्माकं संबन्धि यदङ्गं पराजघ्नुः पराहतं कृतवन्तः । छेदनतक्षणादिकाले स्वकीयहस्तस्पर्शरूपमशुचित्वं चक्रुः । तदिदं वः युष्माकमङ्गं शुन्धामि प्रोक्षणेन शुद्धं करोमि ॥ १३ ॥
चतुर्दशी।
अधिमन्त्रम् (VC)
- इन्द्रो देवता। अग्निर्यज्ञो देवता
- परमेष्ठी प्रजापतिर्ऋषिः
- निचृद् उष्णिक्, भूरिग् आर्ची गायत्री, भुरिग् उष्णिक्,
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
उक्त जल किस प्रकार के हैं वा इन्द्र और वृत्र का युद्ध कैसे होता है, सो अगले मन्त्र में कहा गया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - यह जैसे (इन्द्रः) सूर्य्यलोक (वृत्रतूर्य्ये) मेघ के वध के लिये (युष्माः) पूर्वोक्त जलों को (अवृणीत) स्वीकार करता है, जैसे जल (इन्द्रम्) वायु को (अवृणीध्वम्) स्वीकार करते हैं, वैसे ही (यूयम्) हे मनुष्यो ! तुम लोग उन जल, औषधि, रसों को शुद्ध करने के लिये (वृत्रतूर्य्ये) मेघ के शीघ्रवेग में (प्रोक्षिताः) संसारी पदार्थों के सींचनेवाले जलों को (अवृणीध्वम्) स्वीकार करो और जैसे वे जल शुद्ध (स्थ) होते हैं, वैसे तुम भी शुद्ध हो। इसलिये मैं यज्ञ का अनुष्ठान करनेवाला (दैव्याय) सब को शुद्ध करनेवाले (कर्मणे) उत्क्षेपण=उछालना, अवक्षेपण=नीचे फेंकना, आकुञ्चन=सिमेटना, प्रसारण=फैलाना, गमन=चलना आदि पाँच प्रकार के कर्म हैं, उन के और (देवयज्यायै) विद्वान् वा श्रेष्ठ गुणों की दिव्य क्रिया के लिये तथा (अग्नये) भौतिक अग्नि से सुख के लिये (जुष्टम्) अच्छी क्रियाओं से सेवन करने योग्य (त्वा) उस यज्ञ को (प्रोक्षामि) करता हूँ तथा (अग्नीषोमाभ्याम्) अग्नि और सोम से वर्षा के निमित्त (जुष्टम्) प्रीति देनेवाला और प्रीति से सेवने योग्य (त्वा) उक्त यज्ञ को (प्रोक्षामि) मेघमण्डल में पहुँचाता हूँ। इस प्रकार यज्ञ से शुद्ध किये हुए जल (शुन्धध्वम्) अच्छे प्रकार शुद्ध होते हैं। (यत्) जिस कारण यज्ञ की शुद्धि से (वः) पूर्वोक्त जलों के अशुद्धि आदि दोष (पराजघ्नुः) निवृत्त हों, (तत्) उन जलों की शुद्धि को मैं (शुन्धामि) अच्छे प्रकार शुद्ध करता हूँ ॥ यह इस मन्त्र का प्रथम अर्थ है ॥१॥१३॥ हे यज्ञ करनेवाले मनुष्यो ! (यत्) जिस कारण (इन्द्रः) सूर्य्यलोक (वृत्रतूर्य्ये) मेघ के वध के निमित्त (युष्माः) पूर्वोक्त जल और (इन्द्रम्) पवन को (अवृणीत) स्वीकार करता है तथा जिस कारण सूर्य्य ने (वृत्रतूर्य्ये) मेघ की शीघ्रता के निमित्त (युष्माः) पूर्वोक्त जलों को (प्रोक्षिताः) पदार्थ सींचनेवाले (स्थ) किये हैं, इससे (यूयम्) तुम (त्वा) उक्त यज्ञ को सदा स्वीकार करके (नयत) सिद्धि को प्राप्त करो। इस प्रकार हम सब लोग (दैव्याय) श्रेष्ठ कर्म वा (देवयज्यायै) विद्वान् और दिव्य गुणों की श्रेष्ठ क्रियाओं के तथा (अग्नये) परमेश्वर की प्राप्ति के लिये (जुष्टम्) प्रीति करानेवाले यज्ञ को (प्रोक्षामि) सेवन करें तथा (अग्नीषोमाभ्याम्) अग्नि और सोम से प्रकाशित होनेवाले (त्वा) उक्त यज्ञ को (प्रोक्षामि) मेघमण्डल में पहुँचावें। हे मनुष्यो ! इस प्रकार करते हुए तुम सब पदार्थों वा सब मनुष्यों को (शुन्धध्वम्) शुद्ध करो और (यत्) जिससे (वः) तुम लोगों के अशुद्धि आदि दोष हैं, वे सदा (पराजघ्नुः) निवृत्त होते रहें। वैसे ही मैं वेद का प्रकाश करनेवाला तुम लोगों के शोधन अर्थात् शुद्धिप्रकार को (शुन्धामि) अच्छे प्रकार बढ़ाता हूँ ॥२॥१३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - (इस मन्त्र में लुप्तोपमालङ्कार है) परमेश्वर ने अग्नि और सूर्य्य को इसलिये रचा है कि वे सब पदार्थों में प्रवेश कर के उनके रस और जल को छिन्न-भिन्न कर दें, जिस से वे वायुमण्डल में जाकर फिर वहाँ से पृथिवी पर आके सब को सुख और शुद्धि करनेवाले हों। इस से मनुष्यों को उत्तम सुख प्राप्त होने के लिये अग्नि में सुगन्धित पदार्थों के होम से वायु और वृष्टि जल की शुद्धि द्वारा श्रेष्ठ सुख बढ़ाने के लिये प्रीतिपूर्वक नित्य यज्ञ करना चाहिये। जिस से इस संसार के सब रोग आदि दोष नष्ट होकर उस में शुद्ध गुण प्रकाशित होते रहें। इसी प्रयोजन के लिये मैं ईश्वर तुम सबों को उक्त यज्ञ के निमित्त शुद्धि करने का उपदेश करता हूँ कि हे मनुष्यो ! तुम लोग परोपकार करने के लिये शुद्ध कर्मों को नित्य किया करो तथा उक्त रीति से वायु, अग्नि और जल के गुणों को शिल्पक्रिया में युक्त करके अनेक यान आदि यन्त्रकला बना कर अपने पुरुषार्थ से सदैव सुखयुक्त होओ ॥१३॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्ताः कथंभूता आप इन्द्रवृत्रयुद्धं चेत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यथाऽयमिन्द्रो वृत्रतूर्य्ये युष्मास्ताः पूर्वोक्ता अप अवृणीत वृणीते। यथा ता इन्द्रं वायुमवृणीध्वं वृणते तथैव ता अपो यूयं वृत्रतूर्य्ये प्रोक्षिताऽवृणीध्वम्। यथा ता आपः शुद्धा स्थ भवेयुरेतदर्थमहं यज्ञानुष्ठाता दैव्याय कर्मणे देवयज्याया अग्नये जुष्टं त्वा तं यज्ञं प्रोक्षामि। एवमग्नीषोमाभ्यां जुष्टं त्वा तं यज्ञं प्रोक्षामि। एवं यज्ञशोधितास्ता आपः शुन्धध्वं शुन्धन्ति यद्वस्तासामशुद्धा गुणास्ते पराजघ्नुस्तत् तस्मात् वस्तासामिदं शोधनं शुन्धामि ॥ इत्येकोऽन्वयः ॥१३॥ हे यज्ञानुष्ठातारो मनुष्या ! यद्यदिन्द्रो वृत्रतूर्य्ये युष्मा इन्द्रमवृणीत यद्यस्माश्चेन्द्रेण वृत्रतूर्य्ये ताः प्रोक्षिताः स्थ भवन्ति। तस्माद्यूयं त्वा तं यज्ञं सदाऽवृणीध्वम्। एवं च सर्वे जनाः दैव्याय कर्मणे देवयज्याया अग्नये त्वा तं जुष्टं यज्ञं प्रोक्षामि तथा चाग्नीषोमाभ्यां जुष्टं तं यज्ञं प्रोक्षामि एवं कुर्वन्तो यूयं सर्वान् पदार्थान् जनांश्च शुन्धध्वं शोधयत। यद्वोऽशुद्धा दोषास्ते सदैव पराजघ्नुर्निवृत्ता भवेयुस्तत् तस्मात् कारणादहं वो युष्माकमिदं शोधनं शुन्धामि ॥ इति द्वितीयोऽन्वयः ॥१३॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र लुप्तोपमालङ्कारः। ईश्वरेणाग्निसूर्य्यावेतदर्थौ रचितौ यदिमौ सर्वेषां पदार्थानां मध्ये प्रविष्टौ जलौषधिरसान् छित्त्वा, वायुं प्राप्य मेघमण्डलं गत्वाऽऽगत्य च शुद्धिसुखकारका भवेयुस्तस्मान्मनुष्यैरुत्तमसुखलाभायाग्नौ सुगन्ध्यादिपदार्थानां होमेन वायुवृष्टिजलशुद्धिद्वारा दिव्यसुखानामुत्पादनाय संप्रीत्या नित्यं यज्ञः करणीयः। यतः सर्वे दोषा नष्टा भूत्वाऽस्मिन् विश्वे सततं शुद्धा गुणाः प्रकाशिता भवेयुः। एतदर्थमहमीश्वर इदं शोधनमादिशामि यूयं परोपकारार्थानि शुद्धानि कर्माणि नित्यं कुरुतेति। एवं रीत्यैव वाय्वग्निजलगुणग्रहणप्रयोजनाभ्यां शिल्पविद्ययाऽनेकानि यानानि यन्त्रकलाश्च रचयित्वा पुरुषार्थेन सदैव सुखिनो भवतेति ॥१३॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात लुप्तोपमालंकार आहे. परमेश्वराने अग्नी व सूर्याची निर्मिती यासाठी केलेली आहे की, ते सर्व पदार्थांत प्रविष्ट होऊन त्यातील रसाचे व जलाचे सूक्ष्मरूपात परिवर्तन व्हावे. ते वायुमंडळात मिसळून पुन्हा पृथ्वीवर पर्जन्याच्या रूपाने यावेत, शुद्ध व्हावेत व त्यांच्याकडून सर्वांना सुख प्राप्त व्हावे. सर्व माणसांना सुख मिळावे यासाठी अग्नीत सुगंधित पदार्थ घालून होम करावा. वायू व वृष्टिजलाची शुद्धी व्हावी आणि त्याद्वारे सुख प्राप्त व्हावे यासाठी नित्य निष्ठेने यज्ञ करावा. यज्ञामुळे जगातील सर्व रोग नष्ट व्हावेत. वातावरण शुद्धी व्हावी आणि त्याद्वारे सुख प्राप्त व्हावे नित्य यज्ञ करावा, यज्ञामुळे जगातील सर्व रोग नष्ट व्हावेत, वातावरण शुद्धी व्हावी या हेतूने मी (ईश्वर) यज्ञाद्वारे शुद्ध वातावरण करावे, असा तुम्हाला उपदेश करतो.
सविता जोशी ← दयानन्दः (म) - पादटिप्पनी
टिप्पणी: हे माणसांनो ! तुम्ही परोपकार करण्यासाठी सदैव चांगले कर्म करा. पूर्वोक्त वायू, अग्नी, जल यांचा शिल्पविद्येमध्ये प्रयोग करून आपल्या पुरुषार्थाने याने इत्यादी यंत्रे तयार करून सुख प्राप्त करा.
१४ शर्मास्यवधूतं रक्षोऽवधूताऽअरातयोऽदित्यास्त्वगसि
विश्वास-प्रस्तुतिः ...{Loading}...
शर्मा॒स्यव॑धूतँ॒ रक्षोऽव॑धूता॒ऽअरा॑त॒योऽदि॑त्या॒स्त्वग॑सि॒ प्रति॒ त्वादि॑तिर्वेत्तु। अद्रि॑रसि वानस्प॒त्यो ग्रावा॑सि पृ॒थुबु॑ध्नः॒ प्रति॒ त्वादि॑त्या॒स्त्वग्वे॑त्तु ॥१४॥
मूलम् ...{Loading}...
शर्मा॒स्यव॑धूतँ॒ रक्षोऽव॑धूता॒ऽअरा॑त॒योऽदि॑त्या॒स्त्वग॑सि॒ प्रति॒ त्वादि॑तिर्वेत्तु। अद्रि॑रसि वानस्प॒त्यो ग्रावा॑सि पृ॒थुबु॑ध्नः॒ प्रति॒ त्वादि॑त्या॒स्त्वग्वे॑त्तु ॥१४॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
शर्म॑। अ॒सि॒। अव॑धूत॒मित्यव॑ऽधूतम्। रक्षः॑। अव॑धूता॒ इत्यव॑धूताः। अरा॑तयः। अदि॑त्याः। त्वक्। अ॒सि॒। प्रति॑। त्वा॒। अदि॑तिः। वे॒त्तु॒। अद्रिः॑। अ॒सि॒। वा॒न॒स्प॒त्यः। ग्रावा॑। अ॒सि॒। पृ॒थुबु॑ध्न॒ इति॑ पृ॒थुबु॑ध्नः। प्रति॑। त्वा॒। अदि॑त्याः। त्वक्। वे॒त्तु॒। १४।
महीधरः
म० ‘शर्मासीति कृष्णाजिनादानम्’ ( का० २।४।१) इति । हे कृष्णाजिन, त्वमुलूखलस्य धारणार्थं शर्म सुखहेतुरसि। अजिनस्य चर्मेति मानुषं नाम शर्मेति दैवं नाम । ‘अपेत्य दात्रेभ्योऽवधूनोत्यवधूतमिति’ (का० २।४ । २) इति । रक्षः कृष्णाजिने गूढम् अवधूतम् । कृष्णाजिनकम्पनेन भूमौ पातितम् एवमरातयोऽपि पातिताः । ‘प्रत्यग्ग्रीवमास्तृणात्यदित्यास्त्वगिति’ ( का० २ । ४ । ३) इति । हे कृष्णाजिन, त्वम् आदित्याः भूमिदेवतायास्त्वग्रूपम् असि । ततोऽदितिर्भूमिस्त्वा त्वां प्रतिवेत्तु प्रतिगृह्य मदीयेयं त्वगिति वेत्तु जानातु । पुरा यज्ञो देवेषु रुष्टः कृष्णमृगो भूत्वागमत्तदा देवा ज्ञात्वा तदीयां त्वचमुत्कृत्य जगृहुस्तस्माच्चर्मास्तरणमित्यभिप्रायः श्रुतावाम्नातः (१।१।४।१)। ‘सव्याशून्ये निदधात्युलूखलमद्रिरसि ग्रावासीति वा प्रति त्वेत्युभयोः’ (का० २।४ ।. ४-५) इति । विकल्पितयोर्मन्त्रयोः प्रति त्वेति शेषो योजनीयः । हे उलूखल, त्वं यद्यपि वानस्पत्यः दारुमयस्तथापि दृढत्वात् अद्रिरसि पाषाणोऽसि । किंभूतः । पृथुबुध्नः स्थूलमूलः । - मुसलघातोपद्रवेण चाञ्चल्यराहित्याय मूलस्थूलत्वम् । हे उलूखल, तथाविधस्त्वं ग्रावासि दार्ढ्येन पाषाणसदृशोऽसि । अदित्यास्त्वक् अधस्तादास्तीर्णा कृष्णाजिनरूपा भूमेर्या त्वगस्ति सा त्वां प्रति वेत्तु स्वकीयत्वेन जानातु ॥ १४ ॥
पञ्चदशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- परमेष्ठी प्रजापतिर्ऋषिः
- स्वराड् जगती,
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
उक्त यज्ञ किस प्रकार का है, और किस प्रकार से करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम्हारा घर (शर्म) सुख देनेवाला (असि) हो। उस घर से (रक्षः) दुष्टस्वभाववाले प्राणी (अवधूतम्) अलग करो और (अरातयः) दान आदि धर्मरहित शत्रु (अवधूताः) दूर हों। उक्त गृह (अदित्याः) पृथिवी की (त्वक्) त्वचा के तुल्य (असि) हों, (अदितिः) ज्ञानस्वरूप ईश्वर ही से उस घर को (प्रतिवेत्तु) सब मनुष्य जानें और प्राप्त हों तथा जो (वानस्पत्यः) वनस्पति के निमित्त से उत्पन्न होने (पृथुबुध्नः) अतिविस्तारयुक्त अन्तरिक्ष में रहने तथा (ग्रावा) जल का ग्रहण करनेवाला (अद्रिः) मेघ (असि) है, उस और इस विद्या को (अदितिः) जगदीश्वर तुम्हारे लिये (वेत्तु) कृपा करके जनावे। विद्वान् पुरुष भी (अदित्याः) पृथिवी की (त्वक्) त्वचा के समान (त्वा) उक्त घर की रचना को (प्रतिवेत्तु) जानें ॥१४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ईश्वर मनुष्यों को आज्ञा देता है कि तुम लोग शुद्ध और विस्तारयुक्त भूमि के बीच में अर्थात् बहुत से अवकाश में सब ऋतुओं में सुख देने योग्य घर को बना के उस में सुखपूर्वक वास करो तथा उसमें रहनेवाले दुष्ट स्वभावयुक्त मनुष्यादि प्राणी और दोषों को निवृत्त करो, फिर उसमें सब पदार्थ स्थापन और वर्षा का हेतु जो यज्ञ है, उस का अनुष्ठान कर के नाना प्रकार के सुख उत्पन्न करना चाहिये, क्योंकि यज्ञ के करने से वायु और वृष्टिजल की शुद्धि द्वारा संसार में अत्यन्त सुख सिद्ध होता है ॥१४॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स यज्ञः कीदृशोऽस्ति कथं कर्तव्यश्चेत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्या ! युष्मद्गृहं शर्मासि भवतु तस्माद् गृहाद् रक्षोऽवधूतमरातयोऽवधूता भवन्तु। तच्च गृहमदित्याग्त्वगसि पृथिव्यास्त्वग्वदस्त्विति सर्वो जनः प्रतिवेत्तु। यो वानस्पत्योऽद्रिः [असि] पृथुबुध्नो ग्रावा मेघोऽसि वर्त्तते, एतद्विद्यामदितिर्जगदीश्वरस्तुभ्यं वेत्तु कृपया वेदयतु। विद्वानप्यदित्यास्त्वग्वत् त्वा तं व्यवहारं प्रतिवेत्तु ॥१४॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ईश्वरेणाज्ञाप्यते मनुष्यैः शुद्धायाः सर्वतोऽवकाशयुक्तायाः पृथिव्या मध्ये सर्वेष्वृतुषु सुखदायकं गृहं रचयित्वा तत्र सुखेन स्थातव्यम्। तस्मात् सर्वे दुष्टा मनुष्या दोषाश्च निवारणीयास्तत्र सर्वाणि साधनान्यपि स्थापनीयानि। तत्रैव वृष्टिहेतुर्यज्ञोऽनुष्ठाय सुखानि संपादनीयानि। एवं कृते वायुवृष्टिजलशुद्धिद्वारा जगति महत्सुखं सिध्यतीति ॥१४॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ईश्वर माणसांना अशी आज्ञा करतो की, तुम्ही या विस्तृत भूमीवर सर्व ऋतूंमध्ये सुखकारक अशी घरे बांधून त्यात सुखाने राहा व तेथे सर्व पदार्थांचा संग्रह करा. दुष्ट माणसांना दूर करून दोष नाहीसे करा. पर्जन्याचा हेतू असणाऱ्या यज्ञाचे अनुष्ठान करून नाना प्रकारचे सुख प्राप्त करा. यज्ञानेच वायू व वृष्टिजलाची शुद्धी होऊन या जगात परम सुख प्राप्त होते.
१५ अग्नेस्तनूरसि वाचो
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्नेस्त॒नूर॑सि वा॒चो वि॒सर्ज॑नं दे॒ववी॑तये त्वा गृह्णामि बृ॒हद् ग्रा॑वासि वानस्प॒त्यः सऽइ॒दं दे॒वेभ्यो॑ ह॒विः श॑मीष्व सु॒शमि॑ शमीष्व। हवि॑ष्कृ॒देहि॒ हवि॑ष्कृ॒देहि॑ ॥१५॥
मूलम् ...{Loading}...
अ॒ग्नेस्त॒नूर॑सि वा॒चो वि॒सर्ज॑नं दे॒ववी॑तये त्वा गृह्णामि बृ॒हद् ग्रा॑वासि वानस्प॒त्यः सऽइ॒दं दे॒वेभ्यो॑ ह॒विः श॑मीष्व सु॒शमि॑ शमीष्व। हवि॑ष्कृ॒देहि॒ हवि॑ष्कृ॒देहि॑ ॥१५॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अ॒ग्नेः। त॒नूः। अ॒सि॒। वा॒चः। वि॒सर्ज॑न॒मिति॑ वि॒ऽसर्ज॑नम्। दे॒ववी॑तय॒ इति॑ दे॒वऽवी॑तये। त्वा॒। गृ॒ह्णा॒मि॒। बृ॒हद्ग्रा॒वेति॑ बृ॒हत्ऽग्रा॑वा। अ॒सि॒। वा॒न॒स्प॒त्यः। सः। इ॒दम्। दे॒वेभ्यः॑। ह॒विः। श॒मी॒ष्व॒। श॒मि॒ष्वेति॑ शमिष्व। सु॒शमीति॑ सु॒ऽशमि॑। श॒मी॒ष्व॒। श॒मि॒ष्वेति॑ शमिष्व। हवि॑ष्कृत्। हविः॑कृ॒दिति॒ हविः॑कृत्। आ। इ॒हि॒। हवि॑ष्कृत्। हविः॑कृ॒दिति॒ हविः॑ऽकृत्। आ। इ॒हि॒। १५।
महीधरः
म० ‘हविरावपत्यग्नेस्तनूरसीति’ ( का० २।४।६) इति । हे हविः, त्वं अग्नेः आहवनीयस्य तनूः शरीरमसि । यतस्तत्र क्षिप्तं हविरग्नीभवति अतो हविः अग्नेस्तनूः । किंभूतं हविः । वाचो विसर्जनम् । अपां प्रणयनकाले नियमिताया यजमानवाचो हविरावपनकाले विसर्गो भवति । तस्मादिदं हविर्वाचो विसर्जनम् । अतः देववीतये देवानां तर्पणाय । त्वा त्वां । गृह्णामि आवपामीत्यर्थः । ‘बृहद्ग्रावेति मुसलमादत्ते’ - (का० २। ४ । ११) इति । हे मुसल, त्वं यद्यपि वानस्पत्यः । दारुमयस्तथापि ग्रावासि दार्ढ्येन पाषाणसदृशोऽसि । तथा दीर्घत्वेन बृहन्महानसि । ‘स इदमित्यवदधाति’ (का० २।४। १२) इति । हे मुसल, त्वं देवेभ्यः अग्न्यादिदेवोपकारार्थम् । | इदं हविर्व्रीहिरूपं शमीष्व शमय । भक्षणविरोधितुषापनयनेन शान्तं कुरु । तस्यैव पदस्य व्याख्यानम् । सुशमि शमीष्व सुष्ठु शान्तं यथा भवति तथा शमीष्व शमय । ‘शमु उपशमे’ व्यत्ययेन शपो लुक् । ‘तुरुस्तुशम्यमः सार्वधातुके’ (पा० ७।३।९५) इति ईडागमः । शान्तिर्द्विविधा । बाह्यतुषापनयनादाद्या । सा प्रथमावघातेन स्यात् । अन्तःस्थितमालिन्यस्यापनयनादन्या । सा फलीकरणेन भवति । तं द्विविधं तण्डुलसंस्कारं कुर्वित्यर्थः। ‘हविष्कृदेहीति त्रिराह्वयति’ ( का० २।४ । १३) इति यजमानः पत्नी वान्यो वा यो व्रीहीनवहन्ति स संबोध्याहूयते । हे हविष्कृत् हविः करोतीति हविष्कृत् । एहि अत्रागच्छ । त्रिवारमुक्तमर्थं देवा मन्यन्त इति त्रिराह्वानम् ॥ १५ ॥
षोडशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- परमेष्ठी प्रजापतिर्ऋषिः
- निचृद् जगती, याजुषी पङ्क्तिः,
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
उक्त यज्ञ किस प्रकार का होता है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - मैं सब जनों के सहित जिस हवि अर्थात् पदार्थ के संस्कार के लिये (बृहद्ग्रावा) बड़े-बड़े पत्थर (असि) हैं और (वानस्पत्यः) काष्ठ के मूसल आदि पदार्थ (देवेभ्यः) विद्वान् वा दिव्यगुणों के लिये उस यज्ञ को (देववीतये) श्रेष्ठ गुणों के प्रकाश और श्रेष्ठ विद्वान् वा विविध भोगों की प्राप्ति के लिये (प्रतिगृह्णामि) ग्रहण करता हूँ। हे विद्वान् मनुष्य ! तुम (देवेभ्यः) विद्वानों के सुख के लिये (सु, एमि) अच्छे प्रकार दुःख शान्त करनेवाले (हविः) यज्ञ करने योग्य पदार्थ को (शमीष्व) अत्यन्त शुद्ध करो। जो मनुष्य वेद आदि शास्त्रों को प्रीतिपूर्वक पढ़ते वा पढ़ाते हैं, उन्हीं को यह (हविष्कृत्) हविः अर्थात् होम में चढ़ाने योग्य पदार्थों का विधान करनेवाली जो कि यज्ञ को विस्तार करने के लिये वेद के पढ़ने से ब्राह्मण, क्षत्रिय, वैश्य और शूद्रों की शुद्ध सुशिक्षित और प्रसिद्ध वाणी है, सो प्राप्त होती है ॥१५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जब मनुष्य वेद आदि शास्त्रों के द्वारा यज्ञक्रिया और उसका फल जान के शुद्धि और उत्तमता के साथ यज्ञ को करते हैं, तब वह सुगन्धि आदि पदार्थों के होम द्वारा परमाणु अर्थात् अति सूक्ष्म होकर वायु और वृष्टि जल में विस्तृत हुआ सब पदार्थों को उत्तम कर के दिव्य सुखों को उत्पन्न करता है। जो मनुष्य सब प्राणियों के सुख के अर्थ पूर्वोक्त तीन प्रकार के यज्ञ को नित्य करता है, उस को सब मनुष्य हविष्कृत् अर्थात् यह यज्ञ का विस्तार करनेवाला, यज्ञ का विस्तार करनेवाला उत्तम मनुष्य है, ऐसा वारम्वार कहकर सत्कार करें ॥१५॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स यज्ञः कीदृशो भवतीत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - अहं सर्वो जनो यस्य हविषः संस्काराय। बृहद्ग्रावाऽ(स्य)स्ति वानस्पत्यश्च यदिदं देवेभ्यो भवति तं देववीतये गृह्णामि। हे विद्वन् ! स त्वं देवेभ्यो विद्वद्भ्यः सुशमिं तद्धविः शमीष्व शमीष्व। ते मनुष्या वेदादीनि शास्त्राणि पठन्ति पाठयन्ति च तानेवेयं वाग् हविष्कृदेहि हविष्कृदेहीत्याह ॥१५॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यदा मनुष्या वेदादिशास्त्रद्वारा यज्ञक्रियां फलं च विदित्वा सुसंस्कृतेन हविषा यज्ञं कुर्वन्ति तदा स सुगन्ध्यादिद्रव्यहोमद्वारा परमाणुमयो भूत्वा वायौ वृष्टिजले च विस्तृतः सन् सर्वान् पदार्थानुत्तमान् कुर्वन् दिव्यानि सुखानि सम्पादयति। यश्चैवं सर्वेषां प्राणिनां सुखाय पूर्वोक्तं त्रिविधं यज्ञं नित्यं करोति तं सर्वे मनुष्या हविष्कृदेहि हविष्कृदेहीति सत्कुर्य्युः ॥१५॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जेव्हा माणसे वेदशास्त्रानुसार यज्ञक्रियेचे फळ जाणून शुद्ध रीतीने उत्तम यज्ञ करतात. तेव्हा होमात अर्पण केलेल्या सुगंधी वस्तूंचे परमाणू अतिसूक्ष्म होऊन वायू व वृष्टिजलात मिसळून सर्व पदार्थांना उत्तम बनवितात व दिव्य सुख उत्पन्न करतात. तसेच जो मनुष्य पूर्वोक्त (१) इहलोक व परलोक सुखाची विद्या, (२) शिल्पविद्येचे प्रात्यक्षिक, (३) विद्वानाचा संग असे तीन प्रकारचे यज्ञ करतो त्या माणसाला सर्वांनी हविष्कृत अर्थात यज्ञविस्तार करणारा उत्तम माणूस समजून त्याचा स्वीकार करावा.
१६ कुक्कुटोऽसि मधुजिह्वऽइषमूर्जमावद
विश्वास-प्रस्तुतिः ...{Loading}...
कु॒क्कु॒टो᳖ऽसि॒ मधु॑जिह्व॒ऽइष॒मूर्ज॒माव॑द॒ त्वया॑ व॒यँ स॑ङ्घा॒तँ स॑ङ्घातं जेष्म व॒र्षवृ॑द्धमसि॒ प्रति॑ त्वा व॒र्षवृ॑द्धं वेत्तु॒ परा॑पूतँ॒ रक्षः॒ परा॑पूता॒ अरा॑त॒योऽप॑हतँ॒ रक्षो॑ वा॒युर्वो॒ विवि॑नक्तु दे॒वो वः॑ सवि॒ता हिर॑ण्यपाणिः॒ प्रति॑गृभ्णा॒त्वच्छि॑द्रेण पा॒णिना॑ ॥१६॥
मूलम् ...{Loading}...
कु॒क्कु॒टो᳖ऽसि॒ मधु॑जिह्व॒ऽइष॒मूर्ज॒माव॑द॒ त्वया॑ व॒यँ स॑ङ्घा॒तँ स॑ङ्घातं जेष्म व॒र्षवृ॑द्धमसि॒ प्रति॑ त्वा व॒र्षवृ॑द्धं वेत्तु॒ परा॑पूतँ॒ रक्षः॒ परा॑पूता॒ अरा॑त॒योऽप॑हतँ॒ रक्षो॑ वा॒युर्वो॒ विवि॑नक्तु दे॒वो वः॑ सवि॒ता हिर॑ण्यपाणिः॒ प्रति॑गृभ्णा॒त्वच्छि॑द्रेण पा॒णिना॑ ॥१६॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
कु॒क्कु॒टः। अ॒सि॒। मधु॑जिह्व॒ इति॒ मधु॑ऽजिह्वः। इष॑म्। ऊर्ज्ज॑म्। आ। वद॒। त्वया॑। व॒यं। सं॒घा॒तम् सं॑घात॒मि॑ति संघा॒तँसं॑घातम्। जे॒ष्म॒। व॒र्षवृद्ध॒मिति व॒र्षऽवृद्ध॑म्। अ॒सि॒। प्रति। त्वा॒। व॒र्षवृ॑द्ध॒मिति व॒र्षऽवृ॑द्धम्। वे॒त्तु॒। परा॑पूत॒मिति॒। परा॑ऽपूतम्। रक्षः॑। परा॑पूता॒ इति॒ परा॑ऽपूताः। अरा॑तयः। अप॑हत॒मित्यप॑ऽहतम्। रक्षः॑। वा॒युः। वः॒। वि। वि॒न॒क्तु दे॒वः। वः॒। स॒वि॒ता। हिर॑ण्यपाणि॒रिति॒ हिर॑ण्यऽपाणिः। प्रति॑। गृ॒भ्णा॒तु॒। अच्छिद्रेण। पा॒णिना॑। १६।
महीधरः
म० ‘आहन्त्यन्यो दृषदुपले कुक्कुटोऽसीति त्रिः शम्यया द्विर्दृषदं सकृदुपलम्’ (का० २ । ४ । १५) इति । हे शम्यारूप यज्ञायुधविशेष, त्वं कुक्कुटोऽसि असुराणां । मधुजिह्वः चासि देवानाम् । असुराः क्व क्वेति तान्हन्तुमिच्छन्योऽटति सर्वत्र संचरति स कुक्कुटः । यद्वा कुकं कुत्सितशब्दं कुटति तनोतीति कुक्कुटः । यद्वा कुक्कुटाख्यपक्षिवद्ध्वनिविशेषमसुरभीत्यर्थं तनोतीति कुक्कुट इत्युपचर्यते । मधुजिह्वकनामा कश्चिद्देवानां भृत्यः। मधुर्मधुरभाषिणी जिह्वा यस्य तद्रूप हे यज्ञायुध, त्वमसुरान्पराभवन्यजमानस्य इषमूर्जं चावद । अन्नं रसं च यथा समागच्छति तथा शब्दं कुरु । तव शब्देनासुरेषु पराभूतेषु तदीयमन्नं रसं च यजमानः प्राप्नोति । ततः त्वया कृत्वा वयं सङ्घातं सङ्घातं जेष्म असुरैः सह क्रियमाणं तं तं संग्रामं जेष्म जयेम । कदाचिदपि पराजयोऽस्माकं मास्त्वित्यर्थः । सम्यक् हन्यन्ते असुरा यत्रेति सङ्घातो युद्धम् । मनो राज्ञ एको वृषभ आसीत्तस्मिन्नसुरघ्नी वाक् स्थिता तस्मिन् शब्दं कुर्वति तं श्रुत्वैवासुरा म्रियन्ते । ततः किलाताकुलीनामानावसुरयाजकौ मनुं गत्वा तेनैव ऋषभेणायाजयतामृषभे हते सा वाङ्मनोर्जायां प्रविष्टा । तौ पुनस्तयापि मनुमयाजयताम् । ततः सा वाग्यज्ञपात्राणि प्रविष्टेत्यसुरपराभवाय तद्वाक्प्रकटनार्थं शम्यया दृषदुपलहननमिति श्रुत्योक्तोऽभिप्रायः (१ । १।४।१४)। ‘वर्षवृद्धमसीति शूर्पमादत्ते’ (का० २ । ४ । १६ ) इति । हे शूर्प, त्वं वर्षवृद्धमसि वर्षेण वृष्ट्या तद्भूतजलेन वृद्धं वर्षवृद्धम् । वर्षवृद्धवेणुशलाकानिर्मितत्वात् शूर्पस्य वर्षवृद्धत्तम् । ‘प्रति त्वेति हविरुद्वपति’ ( का० २ । ४ । १७) इति । हे हविः, वर्षवृद्धं शूर्पं त्वा त्वां प्रतिवेत्तु स्वकीयत्वेन जानातु । व्रीहिशूर्पयोर्वर्षवृद्धत्वाद्भातृत्वम् । ‘परापूतमिति निष्पुनाति’ (का० २ । ४ । १८) इति । रक्षः परापूतं निराकृतम् । शूर्पेण तुषेषु परापूतेषु तद्गतं रक्षोऽपि तैः सह भूमौ पातितम् । अरातयः हविःप्रतिकूलाः आलस्यादिशत्रवश्च परापूता निराकृताः । ‘अपहतमिति तुषान्निरस्यति’ ( का० २। ४ । १९) इति । रक्षः अपहतं दूरेऽपनीय मारितम् । भूमौ पतितान्दूरे निःसारयेत् ‘वायुर्व इति विविनक्ति’ (का० २।४।२०) इति । हे तण्डुलाः, वायुः शूर्पचालनोत्थः वः युष्मान् विविनक्तु सूक्ष्मकणेभ्यः पृथक्करोतु । ‘देवो व इति पात्र्यामोप्याभिमन्त्रयते’ ( का० २ । ४ । २१) इति । हे तण्डुलाः, सविता देवः वः युष्मान् अच्छिद्रेण पाणिना अङ्गुलिविश्लेषहीनेन स्वहस्तेन प्रतिगृभ्णातु स्वीकरोतु । ‘हृग्रहोर्भश्छन्दसि’ (पा० ८ । २ । ३२) इति हस्य भः।पात्रीप्रक्षेपसमये भूमौ पतनं मा भूदिति सवितुर्ग्रहणं प्रार्थ्यते । किंभूतः सविता । हिरण्यपाणिः हिरण्ययुक्तावङ्गुलीयाद्याभरणयुक्तौ पाणी यस्य स हिरण्यपाणिः । यद्वा दैत्यैः प्राशित्रप्रहारेण छिन्नौ सवितुः पाणी देवैर्हिरण्मयौ कृताविति सवितुर्हिरण्यपाणित्वमिति बह्वृश्रुतौ कथा ॥ १६ ॥
सप्तदशी।
अधिमन्त्रम् (VC)
- वायुः सविता देवता
- परमेष्ठी प्रजापतिर्ऋषिः
- स्वराड् ब्राह्मी त्रिष्टुप्, विराड् गायत्री,
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी यह यज्ञ कैसा है, सो अगले मन्त्र में उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जिस कारण यह यज्ञ (मधुजिह्वः) जिस में मधुर गुणयुक्त वाणी हो तथा (कुक्कुटः) चोर वा शत्रुओं का विनाश करनेवाला (असि) है और (इषम्) अन्न आदि पदार्थ वा (ऊर्जम्) विद्या आदि बल और उत्तम से उत्तम रस को देता है, इसी से उसका अनुष्ठान सदा करना चाहिये। हे विद्वान् लोगो ! तुम उक्त गुणों को देनेवाला जो तीन प्रकार का यज्ञ है, उसके अनुष्ठान और गुण के ज्ञाता (असि) हो, अतः हम लोगों को भी उसके गुणों का (आवद) उपदेश करो, जिससे (वयम्) हम लोग (त्वया) तुम्हारे साथ (संघातं संघातम्) जिनमें उत्तम रीति से शत्रुओं का पराजय होता है अर्थात् अति भारी संग्रामों को वारम्वार (आ जेष्म) सब प्रकार से जीतें, क्योंकि आप युद्धविद्या के जाननेवाले (असि) हैं, इसी से सब मनुष्य (वर्षवृद्धम्) शस्त्र और अस्त्रविद्या की वर्षा को बढ़ानेवाले (त्वा) आप तथा (वर्षवृद्धम्) वृष्टि के बढ़ानेवाले उक्त यज्ञ को (प्रतिवेत्तु) जानें। इस प्रकार संग्राम करके सब मनुष्यों को (परापूतम्) पवित्रता आदि गुणों को छोड़नेवाले (रक्षः) दुष्ट मनुष्य तथा (परापूताः) शुद्धि को छोड़नेवाले और (अरातयः) दान आदि धर्म से रहित शत्रुजन तथा (रक्षः) डाकुओं का जैसे (अपहतम्) नाश हो सके, वैसा प्रयत्न सदा करना चाहिये। जैसे यह (हिरण्यपाणिः) जिसका ज्योति हाथ है, ऐसा जो (वायुः) पवन है, वह (अच्छिद्रेण) एकरस (पाणिना) अपने गमनागमन व्यवहार से यज्ञ और संसार में अग्नि और सूर्य्य से अति सूक्ष्म हुए पदार्थों को (प्रतिगृभ्णातु) ग्रहण करता है। वा (हिरण्यपाणिः) जैसे किरण हैं हाथ जिस के वह (हिरण्यपाणिः) किरण व्यवहार से (सविता) वृष्टि वा प्रकाश के द्वारा दिव्य गुणों के उत्पन्न करने में हेतु (देवः) प्रकाशमय सूर्य्यलोक (वः) उन पदार्थों को (विविनक्तु) अलग-अलग अर्थात् परमाणुरूप करता है, वैसे ही परमेश्वर वा विद्वान् पुरुष (अच्छिद्रेण) निरन्तर (पाणिना) अपने उपदेशरूप व्यवहार से सब विद्याओं को (विविनक्तु) प्रकाश करें, वैसे ही कृपा करके प्रीति के साथ (वः) तुमको अत्यन्त आनन्द करने के लिये (प्रतिगृभ्णातु) ग्रहण करते हैं ॥१६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। परमेश्वर सब मनुष्यों को आज्ञा देता है कि यज्ञ का अनुष्ठान, संग्राम में शत्रुओं का पराजय, अच्छे-अच्छे गुणों का ज्ञान, विद्वानों की सेवा, दुष्ट मनुष्य वा दुष्ट दोषों का त्याग तथा सब पदार्थों को अपने ताप से छिन्न-भिन्न करनेवाला अग्नि वा सूर्य्य और उनका धारण करनेवाला वायु है, ऐसा ज्ञान और ईश्वर की उपासना तथा विद्वानों का समागम करके और सब विद्याओं को प्राप्त होके सब के लिये सब सुखों की उत्पन्न करनेवाली उन्नति सदा करनी चाहिये ॥१६॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स यज्ञः कीदृशोऽस्तीत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यतोऽयं यज्ञो मधुजिह्वः कुक्कुटोऽस्यस्तीषमूर्ज्जं च प्रापयति तस्मात् स सदैवानुष्ठेयः। हे विद्वन् ! त्वमस्य त्रिविधस्य यज्ञस्यानुष्ठानस्य गुणानां च वेत्तासि तस्माद् आवद प्रत्यक्षमुपदिश। यतो वयं त्वया सह संघातं संघातमाजेष्म सर्वान् संग्रामान् विजयेमहि। सर्वो मनुष्यो वर्षवृद्धं त्वा त्वां तं वर्षवृद्धं यज्ञं वा प्रतिवेत्तु। एवं कृत्वा सर्वैर्जनैः परापूतं रक्षः परापूता अरातयोऽपहतं रक्षः सदैव कार्य्यम्। यथाऽयं हिरण्यपाणिर्वायुरच्छिद्रेण पाणिना यज्ञे संसारेऽग्निना सूर्य्येण विच्छिन्नान् पदार्थकणान् प्रतिगृभ्णाति। यथा च हिरण्यपाणिः सविता देवः [वः] तान् विविनक्ति पृथक्करोति तथैव परमेश्वरो विद्वान् मनुष्यश्चाच्छिद्रेण पाणिना सर्वा विद्या विविनक्तु। प्रतिगृभ्णातु तथैव कृपया संप्रीत्या चैतौ वो युष्मानानन्दकरणाय प्रतिगृह्णीतः ॥१६॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। ईश्वरः सर्वान् मनुष्यानाज्ञापयति मनुष्यैर्यज्ञानुष्ठानं संग्रामे दुष्टशत्रूणां विजयो गुणज्ञानं विद्यावृद्धसेवनं दुष्टानां मनुष्याणां दोषाणां वा निराकरणं सर्वपदार्थच्छेदकोऽग्निः सूर्य्यो वा तथा सर्वपदार्थधारको वायुश्चास्तीति विज्ञानं परमेश्वरोपासनां विद्वत्समागमं च कृत्वा सर्वा विद्याः प्राप्य सदैव सर्वार्था सुखोन्नतिः कार्येति ॥१६॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. परमेश्वर सर्व माणसांना अशी आज्ञा देतो की, यज्ञाचे अनुष्ठान करा, युद्धात शत्रूंचा पराजय करा, चांगल्या गोष्टींचे ज्ञान घ्या, विद्वानांची सेवा करा, दुष्ट माणसांचा किंवा वाईट गुणांचा त्याग करा. सर्व पदार्थांना उष्णतेने छिन्नभिन्न करणारा अग्नी किंवा सूर्य व त्यांना धारण करणारा वायू यांचे ज्ञान प्राप्त करा तसेच ईश्वराची उपासना व विद्वानांची संगती करून सर्व विद्या प्राप्त करून सर्व सुखांची वृद्धी होईल, असा प्रयत्न करा.
१७ धृष्टिरस्यपाऽग्नेऽअग्निमामादं जहि
विश्वास-प्रस्तुतिः ...{Loading}...
धृष्टि॑र॒स्यपा॑ऽग्नेऽअ॒ग्निमा॒मादं॑ जहि॒ निष्क्र॒व्यादँ॑ से॒धा दे॑व॒यजं॑ वह। ध्रु॒वम॑सि पृथि॒वीं दृँ॑ह ब्रह्म॒वनि॑ त्वा क्षत्र॒वनि॑ सजात॒वन्युप॑दधामि॒ भ्रातृ॑व्यस्य व॒धाय॑ ॥१७॥
मूलम् ...{Loading}...
धृष्टि॑र॒स्यपा॑ऽग्नेऽअ॒ग्निमा॒मादं॑ जहि॒ निष्क्र॒व्यादँ॑ से॒धा दे॑व॒यजं॑ वह। ध्रु॒वम॑सि पृथि॒वीं दृँ॑ह ब्रह्म॒वनि॑ त्वा क्षत्र॒वनि॑ सजात॒वन्युप॑दधामि॒ भ्रातृ॑व्यस्य व॒धाय॑ ॥१७॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
धृष्टिः। अ॒सि। अप॑। अ॒ग्ने॒। अ॒ग्निम्। आ॒माद॒मित्या॑मऽअद॑म्। ज॒हि॒। निष्क्र॒व्याद॒मिति निष्क्रव्य॒ऽअद॑म्। सेध॒। आ। दे॒व॒यज॒मिति। देव॒ऽयज॑म्। व॒ह॒। ध्रु॒वम्। अ॒सि॒। पृ॒थिवी॑म्। दृँ॒ह॒। ब्र॒ह्म॒वनीति ब्रह्म॒ऽवनि॑। त्वा॒। क्ष॒त्र॒वनीति॑ क्षत्र॒ऽवनि॑। स॒जा॒त॒वनीति॑ सजात॒ऽवनि॑। उप॑ऽद॒धा॒मि॒। भ्रातृ॑व्यस्य व॒धाय॑। १७।
महीधरः
म० ‘मूलतः शाखां परिवास्योपवेषं करोतीति । धृष्टिरसीत्युपवेषमादायेति च’ (का०२।४।२५)। पलाशशाखाया मूलदेशे छिन्नः काष्ठभाग उपवेषस्तमादत्ते । हे उपवेश, त्वम् धृष्टिरसि प्रगल्भोऽसि । “ञिधृषा प्रागल्भ्ये’। तीव्राङ्गाराणामितस्ततश्चालने प्रभुत्वादस्य प्रागल्भ्यम् । ‘अपाग्न इत्यङ्गारान्प्राचः करोति’ (का० २।४।२६) । इति तत्र त्रयोऽअग्नयः सन्ति । एक: आमात् आममपक्वमत्तीत्यामाल्लौकिकोऽग्निः । द्वितीयः क्रव्यात् शवदाहे क्रव्यं मांसमत्तीति क्रव्यात् चिताग्नि-। तृतीयो यागयोग्यः । तथाविधांस्त्रीनह्गारान्गार्हपत्यात्प्राग्भागे पृथक्कृत्य तेषां मध्ये यागयोग्यताहीनौ द्वावग्नी आमात्क्रव्यात्संज्ञौ तौ वारयितुं गार्हपत्यं प्रत्युच्यते । हे अग्ने हे गार्हपत्य, आमादमग्निम् अपजहि परित्यज । ‘व्यवहिताश्च’ (१।४।८२) इति क्रियापदोपसर्गयोर्व्यवधानम् । तथा क्रव्यादम् अग्निं निःषेध निःशेषं दूरे गमय । परित्यजेत्यर्थः। ‘आ देवयजमित्यङ्गारमाहृत्य’ (का० २।४।२७) इति । हे गार्हपत्य, देवयजं देवानां यागयोग्यं तृतीयमङ्गारम् आवह समीपमानय । देवा इज्यन्ते यस्मिन्नसौ देवयाट् तं देवयजम् । ‘कपालेनावच्छादयति ध्रुवमसि’ (का० ४।२।२७) इति । देवयजमङ्गारं कपालेनाच्छादयेत् । हे कपाल, त्वं ध्रुवमसि स्थिरं भवसि । अङ्गारोपरि वर्तमानमपि इतस्ततो न पतसि । पृथिवीं भूमिं दृंह दृढीकुरु । पुरोडाशपाकसमये त्वत्कृतव्यवधानेन भूमेर्दाहकृतं शैथिल्यं न भविष्यतीत्यर्थः । किंच त्वाम् उपदधामि अङ्गारे स्थापयामि। किमर्थं । भ्रातृव्यस्य शत्रोरसुरस्य पाप्मनो वा वधाय हिंसार्थम् । ‘व्यन्त्सपत्ने’ (पा० ४।१।१४५) इत्याद्युदात्तत्वाद्भ्रातृव्यशब्दः शत्रुवाची । किंभूतं त्वां । ब्रह्मवनि । ‘वन षण संभक्तौ’ ब्रह्मणा ब्राह्मणेन वन्यते पुरोडाशनिष्पत्त्यर्थं स्वीक्रियते इति ब्रह्मवनि। तथा क्षत्रवनि सजातवनीति पदद्वयं योज्यम् । सजाताः समानकुले जाताः यजमानस्य ज्ञातयस्तैर्वन्यते इति ॥ १७ ॥
अष्टादशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी प्रजापतिर्ऋषिः
- निचृद् ब्राह्मी पङ्क्तिः,
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब अग्निशब्द से किस-किस का ग्रहण किया जाता और इससे क्या क्या कार्य्य होता है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) परमेश्वर ! आप (धृष्टिः) प्रगल्भ अर्थात् अत्यन्त निर्भय (असि) हैं, इस कारण (निष्क्रव्यादम्) पके हुए भस्म आदि पदार्थों को छोड़ के (आमादम्) कच्चे पदार्थ जलाने और (देवयजम्) विद्वान् वा श्रेष्ठ गुणों से मिलाप करानेवाले (अग्निम्) भौतिक वा विद्युत् अर्थात् बिजुलीरूप अग्नि को आप (सेध) सिद्ध कीजिये। इस प्रकार हम लोगों के मङ्गल अर्थात् उत्तम-उत्तम सुख होने के लिये शास्त्रों की शिक्षा कर के दुःखों को (अपजहि) दूर कीजिये और आनन्द को (आवह) प्राप्त कीजिये तथा हे परमेश्वर ! आप (ध्रुवम्) निश्चल सुख देनेवाले (असि) हैं, इस से (पृथिवीम्) विस्तृतभूमि वा उसमें रहनेवाले मनुष्यों को (दृंह) उत्तम गुणों से वृद्धियुक्त कीजिये। हे अग्ने जगदीश्वर ! जिस कारण आप अत्यन्त प्रशंसनीय हैं, इससे मैं (भ्रातृव्यस्य) दुष्ट वा शत्रुओं के (वधाय) विनाश के लिये (ब्रह्मवनि) (क्षत्रवनि) (सजातवनि) ब्राह्मण, क्षत्रिय तथा प्राणिमात्र के सुख वा दुःख व्यवहार के देनेवाले (त्वा) आप को (उपदधामि) हृदय में स्थापन करता हूँ ॥ यह इस मन्त्र का प्रथम अर्थ हुआ ॥ तथा हे विद्वान् यजमान ! जिस कारण यह (अग्ने) भौतिक अग्नि (धृष्टिः) अतितीक्ष्ण (असि) है तथा निकृष्ट पदार्थों को छोड़ कर उत्तम पदार्थों से (देवयजम्) विद्वान् वा दिव्य गुणों को प्राप्त करानेवाले यज्ञ को (आवह) प्राप्त कराता है, इससे तुम (निष्क्रव्यादम्) पके हुए भस्म आदि पदार्थों को छोड़ के (आमादम्) कच्चे पदार्थ जलाने और (देवयजम्) विद्वान् वा दिव्य गुणों के प्राप्त करानेवाले (अग्निम्) प्रत्यक्ष वा बिजुलीरूप अग्नि को (आवह) प्राप्त करो तथा उसके जानने की इच्छा करनेवाले लोगों को शास्त्रों की उत्तम-उत्तम शिक्षाओं के साथ उसका उपदेश (सेध) करो तथा उसके अनुष्ठान में जो दोष हों, उनको (अपजहि) विनाश करो। जिस कारण यह अग्नि सूर्य्यरूप से (ध्रुवम्) निश्चल (असि) है, इसी कारण यह आकर्षणशक्ति से (पृथिवीम्) विस्तृत भूमि वा उसमें रहनेवाले प्राणियों को (दृंह) दृढ़ करता है, इसी से मैं (त्वा) उस (ब्रह्मवनि) (क्षत्रवनि) (सजातवनि) ब्राह्मण, क्षत्रिय वा जीवमात्र के सुख दुःख को अलग-अलग करानेवाले भौतिक अग्नि को (भ्रातृव्यस्य) दुष्ट वा शत्रुओं के (वधाय) विनाश के लिये हवन करने की वेदी वा विमान आदि यानों में (उपदधामि) स्थापन करता हूँ ॥ यह दूसरा अर्थ हुआ ॥१७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। सर्वशक्तिमान् ईश्वर ने यह भौतिक अग्नि आम अर्थात् कच्चे पदार्थ जलानेवाला बनाया है, इस कारण भस्मरूप पदार्थों के जलाने को समर्थ नहीं है। जिससे कि मनुष्य कच्चे-कच्चे पदार्थों को पका कर खाते हैं [वह आमात्] तथा जिस करके सब प्राणियों का खाया हुआ अन्न आदि द्रव्य पकता है [वह जाठर] और जिस करके मनुष्य लोग मरे हुए शरीर को जलाते हैं, वह क्रव्यात् अग्नि कहाता है और जिससे दिव्य गुणों को प्राप्त करानेवाली विद्युत् बनी है तथा जिससे पृथिवी का धारण और आकर्षण करनेवाला सूर्य्य बना है और जिसे वेदविद्या के जाननेवाले ब्राह्मण वा धनुर्वेद के जाननेवाले क्षत्रिय वा सब प्राणिमात्र सेवन करते हैं तथा जो सब संसारी पदार्थों में वर्त्तमान परमेश्वर है, वही सब मनुष्यों का उपास्य देव है तथा जो क्रियाओं की सिद्धि के लिये भौतिक अग्नि है, यह भी यथायोग्य कार्य्य द्वारा सेवा करने के योग्य है ॥१७॥
दयानन्द-सरस्वती (सं) - विषयः
अथाग्निशब्देन किं किं गृह्यते तेन किं किं च भवतीत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने परमेश्वर ! त्वं धृष्टिरसि। अतो निष्क्रव्यादमामादं देवयजमग्निं सेध। एवं मङ्गलाय शास्त्राणि शिक्षित्वा दुःखमपजहि सुखं चावद। तथा हे परमेश्वर ! त्वं ध्रुवमसि। अतः पृथिवीं दृंह। हे जगदीश्वराग्ने ! यत ईदृशो भवान् तस्मादहं भ्रातृव्यस्य वधाय ब्रह्मवनि क्षत्रवनि सजातवनि त्वा त्वामुपदधामीत्येकोऽन्वयः ॥ हे यजमान विद्वन् ! यतोऽयमग्निर्धृष्टिर(स्य)स्ति तथा चामान्निष्क्रव्याद् देवयजं यज्ञमावहति तस्मात् त्वमिममामादं देवयजमग्निमावह। सेध। अन्येभ्यस्तमेवं शिक्षय तदनुष्ठानेन दोषानपजहि। यतोऽयमग्निः सूर्य्यरूपेण ध्रुवोऽ(स्य)स्ति तस्मादयमाकर्षणेन पृथिवीं दृंह दृंहति धरति तस्मात् [त्वा] तमहं [ब्रह्मवनि] ब्रह्मवनिं [क्षत्रवनि] क्षत्रवनिं [सजातवनि] सजातवनिं भ्रातृव्यस्य वधायोपदधामीति द्वितीयः ॥१७॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। सर्वशक्तिमतेश्वरेण यतोऽयमामाद्दाहकस्वभावोऽग्नी रचितस्ततो नायं भस्मादिकं दग्धुं समर्थो भवति। येनेमान् पदार्थान् पक्त्वाऽदन्ति [स आमात्] येनोदरस्थमन्नं पच्यते [स जाठरः] येन च मनुष्या मृतं देहं दहन्ति स क्रव्यात् संज्ञोऽग्निर्येनायं दिव्यगुणप्रापको विद्युदाख्यश्च रचितस्तथा येन पृथिवीधारणाकर्षणप्रकाशकः सूर्य्यो रचितः। यश्च ब्रह्मभिर्वेदविद्भिर्ब्राह्मणैः क्षत्रियैः समानजन्मभिर्मनुष्यैश्च वन्यते संसेव्यते। तथा यः सर्वेषु जातेषु पदार्थेषु वर्त्तमानः परमेश्वरो भौतिकोऽग्निर्वा। स एव सर्वैरुपास्यो भौतिकश्च क्रियासिध्यर्थं सेवनीय इति ॥१७॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. सर्वशक्तिमान ईश्वराने अपरिपक्व पदार्थ पक्व व्हावा यासाठी भौतिक अग्नी बनविलेला आहे. कारण भस्मरूपी पदार्थांना तो जाळू शकत नाही. माणसे कच्चे पदार्थ शिजवून खातात तो आम अग्नी होय व खाल्लेले अन्न पचविणारा तो जठराग्नी होय. मृत शरीर जाळणाऱ्या अग्नीला क्रव्यात अग्नी म्हणतात.
सविता जोशी ← दयानन्दः (म) - पादटिप्पनी
टिप्पणी: परमेश्वराने दिव्यगुणयुक्त विद्युत तयार केलेली आहे. पृथ्वीचे धारण व आकर्षण करणारा सूर्य निर्माण केलेला आहे. ज्याला वैदिक विद्यायुक्त ब्राह्मण किंवा धनुर्वेद पारंगत क्षत्रिय व सर्व माणसे उपास्य देव मानतात व जगातील सर्व पदार्थांत जो विद्यमान असतो, त्या परमेश्वराची सर्व माणसांनी उपासना केली पाहिजे. प्रत्यक्ष कार्य सिद्ध व्हावे, यासाठी भौतिक अग्नीही निर्माण केलेला आहे. त्याचाही यथायोग्य उपयोग केला पाहिजे.
१८ अग्ने ब्रह्म
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने॒ ब्रह्म॑ गृभ्णीष्व ध॒रुण॑मस्य॒न्तरि॑क्षं दृँह ब्रह्म॒वनि॑ त्वा क्षत्र॒वनि॑ सजात॒वन्युप॑दधामि॒ भ्रातृ॑व्यस्य व॒धाय॑। ध॒र्त्रम॑सि॒ दिवं॑ दृँह ब्रह्म॒वनि॑ त्वा क्षत्र॒वनि॑ सजात॒वन्युप॑दधामि॒ भ्रातृ॑व्यस्य व॒धाय॑। विश्वा॑भ्य॒स्त्वाशा॑भ्य॒ऽउप॑दधामि॒ चित॑ स्थोर्ध्व॒चितो॒ भृगू॑णा॒मङ्गि॑रसां॒ तप॑सा तप्यध्वम् ॥१८॥
मूलम् ...{Loading}...
अग्ने॒ ब्रह्म॑ गृभ्णीष्व ध॒रुण॑मस्य॒न्तरि॑क्षं दृँह ब्रह्म॒वनि॑ त्वा क्षत्र॒वनि॑ सजात॒वन्युप॑दधामि॒ भ्रातृ॑व्यस्य व॒धाय॑। ध॒र्त्रम॑सि॒ दिवं॑ दृँह ब्रह्म॒वनि॑ त्वा क्षत्र॒वनि॑ सजात॒वन्युप॑दधामि॒ भ्रातृ॑व्यस्य व॒धाय॑। विश्वा॑भ्य॒स्त्वाशा॑भ्य॒ऽउप॑दधामि॒ चित॑ स्थोर्ध्व॒चितो॒ भृगू॑णा॒मङ्गि॑रसां॒ तप॑सा तप्यध्वम् ॥१८॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अग्ने॑। ब्रह्म॑। गृ॒भ्णी॒ष्व॒। ध॒रुण॑म्। अ॒सि॒। अ॒न्तरि॑क्षम्। दृँ॒ह॒। ब्र॒ह्म॒वनीति॑ ब्रह्म॒ऽवनि॑। त्वा॒। क्ष॒त्र॒वनीति॑ क्षत्र॒ऽवनि॑। स॒जा॒त॒वनीति॑ सजात॒ऽवनि॑। उप॑। द॒धा॒मि॒। भ्रातृ॑व्यस्य। व॒धाय॑। ध॒र्त्रम्। अ॒सि॒। दिव॑म्। दृँ॒ह॒। ब्र॒ह्म॒वनीति॑ ब्रह्म॒ऽवनि॑। त्वा॒। क्ष॒त्र॒वनीति॑ क्षत्र॒ऽवनि॑। स॒जा॒त॒वनीति॑ सजात॒ऽवनि॑। उप॑। द॒धा॒मि॒। भ्रातृ॑व्यस्य। व॒धाय॑। विश्वा॑भ्यः। त्वा॒। आशा॑भ्यः। उप॑। द॒धा॒मि॒। चितः॑। स्थ॒। ऊ॒र्ध्व॒चित॒ इत्यू॑र्ध्व॒ऽचि॒तः॑। भृगू॑णाम्। अङ्गि॑रसाम्। तप॑सा। त॒प्य॒ध्व॒म्। १८।
महीधरः
म०. ‘सव्याङ्गुल्या शून्येऽङ्गारं निदधात्यग्ने ब्रह्मेति’ (का. २॥४॥३०) इति । हे अग्ने, निधीयमानाङ्गाररूपं ब्रह्म प्रौढं कर्मास्माभिः क्रियमाणं गृभ्णीष्व गृह्णीष्व । नाशकरक्षोवधेनानुगृह्णीष्व । यद्वा ब्रह्म ब्राह्मणं मामनुगृह्णीष्व । अङ्गुलिदानासक्तं मा दृंहेत्यर्थः । ‘धरुणमिति पश्चात्’ (का. २॥४॥३१) इति पूर्वस्थापितकपालस्य पश्चाद्भागे द्वितीयं निदधाति । हे द्वितीय कपाल, त्वं धरुणं पुरोडाशस्य धारकम् असि । अतोऽन्तरिक्षं दंह दृढीकुरु । पुरोडाशपाकोत्पन्नज्वालयान्तरिक्षलोकोपद्रवो यथा न स्यात्तथा कुरु । यद्यप्येतत् कपालं ज्वालान्तरिक्षयोर्मध्ये व्यवधायकं नास्ति तथाप्यन्तरिक्षदार्ढ्याय कपालदेवता प्रार्थ्यते । ब्रह्मवनीत्यादि पूर्ववत् । ‘पुरस्ताद्धर्त्रमिति’ (का० २।४।३२) इति । प्रथमस्य पूर्वभागे तृतीयं स्थापयेत् । हे कपाल, त्वं धर्त्रं धारकम् असि । दिवं दृंह । ज्वालाग्रेण दाहाभावो द्युलोकस्य दार्ढ्यम् । अन्यत् पूर्ववत् । (का० २।४।३३) विश्वाभ्यः इति । दक्षिणत इति । हे चतुर्थकपाल, विश्वाभ्यः आशाभ्य सर्वदिग्भ्यः सर्वदिग्दार्ढ्याय वा उपदधामि । एवं कपालत्रयोपधानेन यजमानो लोकत्रयं जयति । चतुर्थेन दिशो जयति । तद्गतः पुरोडाशो लोकत्रयरूपो भूत्वा देवताः प्रीणातीत्याशयः । ‘समं विभज्य द्वे दक्षिणत एवमुत्तरतश्चितःस्थेति’ (का० २।४।३४) इति । आग्नेयपुरोडाशस्याष्टकपालत्वाच्चतुर्णां स्थापितत्वादवशिष्टानां चतुर्णां मध्ये द्वे द्वे दक्षिणोत्तरयोर्निदध्यात् । ‘चिञ् चयने’ क्विबन्तस्य चित इति बहुवचनम् । हे कपालविशेषाः, यूयं चितः स्थ प्रथमकपालोपचयकारिणः स्थ भवथ । तथा ऊर्ध्वचितः स्थ ऊर्ध्वमुपहितानां द्वितीयादिकपालानामुपकारिणो भवथ । ‘भृगूणामित्यङ्गारैरभ्यूहति’ (का० २।४। ३८) इति । अङ्गारैः कपालानि छादयेत् । हे कपालानि, यूयं भृगूणामङ्गिरसां भृगुनामकानामङ्गिरोनामकानां देवर्षीणां तपसा तपोरूपेणाग्निनानेन तप्यध्वं तप्तानि भवत । अस्याग्नेस्तदीयरूपत्वं भावयेदित्यर्थः ॥ १८ ॥
एकोनविंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी प्रजापतिर्ऋषिः
- ब्राह्मी उष्णिक्, आर्ची त्रिष्टुप्, आर्ची पङ्क्तिः,
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी अग्नि शब्द से अगले मन्त्र में फिर दोनों अर्थों का प्रकाश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) परमेश्वर ! आप (धरुणम्) सब के धारण करनेवाले (असि) हैं, इससे मेरी (ब्रह्म) वेद मन्त्रों से की हुई स्तुति को (गृभ्णीष्व) ग्रहण कीजिये तथा (अन्तरिक्षम्) आत्मा में स्थित जो अक्षय ज्ञान है, उसको (दृंह) बढ़ाइये। मैं (भ्रातृव्यस्य) शत्रुओं के (वधाय) विनाश के लिये (ब्रह्मवनि) सब मनुष्यों के सुख के निमित्त वेद के शाखा-शाखान्तर द्वारा विभाग करनेवाले ब्राह्मण तथा (क्षत्रवनि) राजधर्म के प्रकाश करनेहारे (सजातवनि) जो परस्पर समान क्षत्रियों के धर्म और संसारी मूर्तिमान् पदार्थ हैं, इनका प्राणियों के लिये अलग-अलग प्रकाश करनेवाले (त्वा) आपको (उपदधामि) हृदय के बीच में धारण करता हूँ। हे सब के धारण करनेवाले परमेश्वर ! जो आप (धर्त्रम्) लोकों के धारण करनेवाले [असि] हैं, इससे कृपा करके हम लोगों में (दिवम्) अत्युत्तम ज्ञान को (दृंह) बढ़ाइये और मैं (भ्रातृव्यस्य) शत्रुओं के (वधाय) विनाश के लिये (ब्रह्मवनि) (क्षत्रवनि) (सजातवनि) उक्त वेद राज्य वा परस्पर समान विद्या वा राज्यादि व्यवहारों को यथायोग्य विभाग करनेवाले (त्वा) आपको (उपदधामि) वारंवार अपने हृदय में धारण करता हूँ। तथा मैं (त्वा) आपको सर्वव्यापक जानकर (विश्वाभ्यः) सब (आशाभ्यः) दिशाओं से सुख होने के निमित्त वारंवार (उपदधामि) अपने मन में धारण करता हूँ। हे मनुष्यो ! तुम लोग उक्त व्यवहार को अच्छी प्रकार जानकर (चितः) विज्ञानी (ऊर्ध्वचितः) उत्तम ज्ञानवाले पुरुषों की प्रेरणा से कपालों को अग्नि पर धरके तथा (भृगूणाम्) जिनसे विद्या आदि गुणों को प्राप्त होते हैं, ऐसे (अङ्गिरसाम्) प्राणों के (तपसा) प्रभाव से (तप्यध्वम्) तपो और तपाओ ॥ यह इस मन्त्र का प्रथम अर्थ हुआ ॥ अब दूसरा भी कहते हैं ॥ हे विद्वान् धर्मात्मा पुरुष ! जिस (अग्ने) भौतिक अग्नि से (धरुणम्) सब का धारण करनेवाला तेज (ब्रह्म) वेद और (अन्तरिक्षम्) आकाश में रहनेवाले पदार्थ ग्रहण वा वृद्धियुक्त किये जाते हैं, (त्वा) उसको तुम होम वा शिल्पविद्या की सिद्धि के लिये (गृभ्णीष्व) ग्रहण करो (दृंह) वा विद्यायुक्त क्रियाओं से बढ़ाओ और मैं भी (भ्रातृव्यस्य) शत्रुओं के (वधाय) विनाश के लिये (त्वा) उस (ब्रह्मवनि) (क्षत्रवनि) (सजातवनि) संसारी मूर्तिमान् पदार्थों के प्रकाश करने वा राजगुणों के दृष्टान्तरूप से प्रकाश करानेवाले भौतिक अग्नि को शिल्पविद्या आदि व्यवहारों में (उपदधामि) स्थापन करता हूँ। ऐसे स्थापन किया हुआ अग्नि हमारे अनेक सुखों को धारण करता है। इसी प्रकार सब लोगों का (धर्त्रम्) धारण करनेवाला वायु (असि) है तथा (दिवम्) प्रकाशमय सूर्य्यलोक को (दृंह) दृढ़ करता है। हे मनुष्यो ! जैसे उसको मैं (भ्रातृव्यस्य) अपने शत्रुओं के (वधाय) विनाश के लिये (ब्रह्मवनि) (क्षत्रवनि) (सजातवनि) वेद राज्य वा परस्पर समान उत्तम-उत्तम शिल्पविद्याओं को यथायोग्य कार्य्यों में युक्त करनेवाले उस भौतिक अग्नि को (उपदधामि) स्थापन करता हूँ, वैसे तुम भी उत्तम-उत्तम क्रियाओं में युक्त करके विद्या के बल से (दृंह) उसको बढ़ाओ। हे विद्या चाहनेवाले पुरुष ! जो पवन, पृथिवी और सूर्य्य आदि लोकों को धारण कर रहा है उसे तुम अपने जीवन आदि सुख वा शिल्पविद्या की सिद्धि के लिये यथायोग्य कार्यों में लगाकर उसकी विद्या से (दृंह) वृद्धि करो तथा जैसे हम अपने शत्रुओं के विनाश के लिये (ब्रह्मवनि) (क्षत्रवनि) (सजातवनि) अग्नि के उक्त गुणों के समान वायु को शिल्पविद्या आदि व्यवहारों में (उपदधामि) संयुक्त करते हैं, वैसे ही तुम भी अपने अनेक दुःखों के विनाश के लिये उसको यथायोग्य कार्य्यों में संयुक्त करो। हे मनुष्यो ! जैसे मैं वायुविद्या का जाननेवाला (त्वा) उस अग्नि वा वायु को (विश्वाभ्यः) सब (आशाभ्यः) दिशाओं से सुख होने के लिये यथायोग्य शिल्पव्यवहारों में (उपदधामि) धारण करता हूँ, वैसे तुम भी धारण करो तथा शिल्पविद्या वा होम करने के लिये (चितः) (ऊर्ध्वचितः) [स्थ] पदार्थों के भरे हुए पात्र वा सवारियों में स्थापन किये हुए कलायन्त्रों को (भृगूणाम्) जिनसे पदार्थों को पकाते हैं, उन [अङ्गिरसाम्] अङ्गारों के (तपसा) ताप से (तप्यध्वम्) उक्त पदार्थों को तपाओ ॥१८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। ईश्वर का यह उपदेश है कि हे मनुष्यो ! तुम विद्वानों की उन्नति तथा मूर्खपन का नाश वा सब शत्रुओं की निवृत्ति से राज्य बढ़ने के लिये वेदविद्या को ग्रहण करो तथा वृद्धि का हेतु अग्नि वा सब का धारण करनेवाला वायु, अग्निमय सूर्य्य और ईश्वर इन्हें सब दिशाओं में व्याप्त जानकर यज्ञसिद्धि वा विमान आदि यानों की रचना धर्म के साथ करो तथा इन से इन को सिद्ध कर के दुःखों को दूर कर के शत्रुओं को जीतो ॥१८॥
दयानन्द-सरस्वती (सं) - विषयः
पुनरग्निशब्देनोक्तावर्थावुपदिश्येते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे अग्ने परमेश्वर ! त्वं धरुणमसि कृपयाऽस्मत्प्रयुक्तं ब्रह्म गृभ्णीष्व तथाऽस्मास्वन्तरिक्षमक्षयं विज्ञानं दृंह वर्धय। अहं भ्रातृव्यस्य वधाय ब्रह्मवनि क्षत्रवनि सजातवनि त्वोपदधामि। हे सर्वधातर्जगदीश्वर ! त्वं सर्वेषां लोकानां धर्त्रमसि कृपयाऽस्मासु दिवं ज्ञानप्रकाशं दृंह। अहं भ्रातृव्यस्य वधाय ब्रह्मवनि क्षत्रवनि सजातवनि त्वा त्वामुपदधामि। [त्वा] त्वां सर्वव्यापकं ज्ञात्वा विश्वाभ्य आशाभ्य उपदधामि। हे मनुष्या ! यूयमप्यैवं विदित्वा चित [स्थ] ऊर्ध्वचितः कपालानि कृत्वा भृगूणामङ्गिरसां तपसा तप्यध्वं यथा तपन्तु तथा तापयतेत्येकः ॥ हे विद्वन् [अग्ने] येनाग्निना धरुणं ब्रह्मान्तरिक्षं गृह्यते दृह्यते च [त्वा] तं त्वं होमार्थं शिल्पविद्यासिध्यर्थं च गृभ्णीष्व दृंह च। तथैवाहमपि भ्रातृव्यस्य वधाय तं ब्रह्मवनि क्षत्रवनि सजातवन्युपदधामि। एवं सोऽग्निर्धृतः (हितः) सन् सुखमुपदधाति। एवं यो वायुर्धर्त्रं सर्वलोकधारको(स्य)स्ति दिवं च दृंह दृंहति तमहं यथा भ्रातृव्यस्य वधाय ब्रह्मवनि क्षत्रवनि सजातवन्युपदधामि। तथैव त्वमप्येतं तस्मै प्रयोजनायोपदृंह। हे शिल्पविद्यां चिकीर्षो विद्वन् ! येन वायुना पृथिवी द्यौः सूर्य्यलोकश्च धार्य्यते दृह्यते च तं त्वं जीवनार्थं शिल्पविद्यायै च धारय दृंह च ब्रह्मवनि इत्यादि पूर्ववत्। हे मनुष्या ! यथाऽहं वायुविद्यावित् त्वा तमग्निं वायुं च विश्वाभ्य आशाभ्य उपदधामि तथैव यूयमप्युपधत्त। यज्ञार्थं शिल्पविद्यार्थंमुपरिरचित ऊर्ध्वचितः कपालानि कला धारितवन्तः सन्तो भृगूणामङ्गिरसां तपसा तप्यध्वम् तापयत च ॥१८॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। ईश्वरेणेदमादिश्यते भवन्तो विद्वदुन्नतये मूर्खत्वविनाशाय सर्वशत्रूणां निवारणेन राज्यवर्धनाय च वेदविद्यां गृह्णीयुः। योऽग्नेर्वृद्धिहेतुः सर्वाधारको वायुरग्निमयः सूर्य्य ईश्वरश्च स्थ सन्ति, तान् सर्वासु दिक्षु विस्तृतान् व्यापकान् विदित्वा यज्ञसिद्धिं विमानादियानरचनं तानि चालयित्वा दुःखानि निवार्य्य शत्रून् विजयन्ताम् ॥१८॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. ईश्वर असा उपदेश करतो की, हे माणसांनो ! विद्वानाची उन्नती व्हावी, अज्ञान नष्ट व्हावे, शत्रूंचा नाश होऊन राज्य वाढावे यासाठी वेदविद्या ग्रहण करा. तसेच उन्नतीसाठी साह्यभूत ठरणारे अग्नी, वायू, सूर्य, ईश्वर हे सर्वत्र व्याप्त आहेत हे जाणून यज्ञसिद्धी करा व विमान इत्यादी यानांची रचना करून वरील पदार्थांद्वारे दुःख दूर करून शत्रूंना जिंका.
१९ शर्मास्यवधूतं रक्षोऽवधूताऽअरातयोऽदित्यास्त्वगसि
विश्वास-प्रस्तुतिः ...{Loading}...
शर्मा॒स्यव॑धूतँ॒ रक्षोऽव॑धूता॒ऽअरा॑त॒योऽदि॑त्या॒स्त्वग॑सि॒ प्रति॒ त्वादि॑तिर्वेतु। धि॒षणा॑सि पर्व॒ती प्रति॒ त्वादि॑त्या॒स्त्वग्वे॑त्तु दि॒वः स्क॑म्भ॒नीर॑सि धि॒षणा॑सि पार्वते॒यी प्रति॑ त्वा पर्व॒ती वे॑त्तु ॥१९॥
मूलम् ...{Loading}...
शर्मा॒स्यव॑धूतँ॒ रक्षोऽव॑धूता॒ऽअरा॑त॒योऽदि॑त्या॒स्त्वग॑सि॒ प्रति॒ त्वादि॑तिर्वेतु। धि॒षणा॑सि पर्व॒ती प्रति॒ त्वादि॑त्या॒स्त्वग्वे॑त्तु दि॒वः स्क॑म्भ॒नीर॑सि धि॒षणा॑सि पार्वते॒यी प्रति॑ त्वा पर्व॒ती वे॑त्तु ॥१९॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
शर्म॑। अ॒सि॒। अव॑धूत॒मित्यव॑ऽधूतम्। रक्षः॑। अव॑धूता॒ इत्यव॑ऽधूताः। अरा॑तयः। अदि॑त्याः। त्वक्। अ॒सि॒। प्रति॑। त्वा॒। अदि॑तिः। वे॒त्तु॒। धि॒षणा॑। अ॒सि॒। प॒र्व॒ती। प्रति॑। त्वा॒। अदि॑त्याः। त्वक्। वे॒त्तु॒। दि॒वः। स्क॒म्भ॒नीः। अ॒सि॒। धिषणा॑। अ॒सि॒। पा॒र्व॒ते॒यी। प्रति॑। त्वा॒। प॒र्व॒ती वे॒त्तु॒। १९।
महीधरः
म० ‘कृष्णाजिनमादत्ते पूर्ववत्’ (का० २।५।२) इति यथावघातार्थं कृष्णाजिनप्रयोगस्तद्वदत्रापि । शर्मासि । अवधूतम् । अदित्याः । इति मन्त्रत्रयं व्याख्यातम् । ‘तस्मिन्दृषदं धिषणासीति’ (का० २।५।३।) तस्मिंश्चर्मणि शिलां स्थापयेत् । हे शिले पेषणाधारभूते, त्वं पर्वती पर्वतात्मिका तदुत्पन्ना त्वं धिषणासि धियं बुद्धिं कर्म वा सिनोति व्याप्नोति ददाति वा धिषणा । ह्रस्वत्वमार्षम् । पर्वतवद्धारयन्त्यसि । अदित्याः भूमेः त्वक् कृष्णाजिनरूपा तादृशीं त्वा त्वां प्रति वेत्तु त्वदवस्थानमनुजानातु । ‘पश्चाच्छम्यामुपोहत्युदीचीं दिवः’ (का० २।५। ४) इति । दृषदः पश्चाद्भागेऽधस्ताच्छम्यां स्थापयेत् । तां प्रत्युच्यते। हे शम्ये, दिवः द्युलोकस्य स्कम्भनीः स्तम्भनकारिणी त्वम् असि । व्यत्ययेन द्वितीयाबहुवचनम् । पतनवारणायान्तरिक्षरूपेण स्तम्भनकारित्वम् । ‘अन्तरिक्षेण होमे द्यावापृथिवी विष्टब्धे’ (१।२।१।१६) इति श्रुतेः । ‘दृषद्युपलां धिषणासीति’ (का० २।५।५) । हे उपले, उपरितनशिले, त्वं धिषणासि पेषणव्यापारधारिकासि । किंभूता । पार्वतेयी पर्वत्या अधस्तनदृषदः पुत्री पार्वतेयी बालस्वरूपा । ‘कनीयसी ह्येषा दुहितेव भवति’ ( १।२।१७) इति श्रुतेः । अतः पर्वती मातृसमा त्वां प्रतिवेत्तु पुत्रीं जानातु ॥ १९ ॥
विंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी प्रजापतिर्ऋषिः
- निचृद् ब्राह्मी त्रिष्टुप्,
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
इस के अनन्तर ईश्वर ने यज्ञ का स्वरूप और इसके अङ्ग अगले मन्त्र में उपदेश किये हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोग जो यज्ञ (शर्म) सुख का देनेवाला (असि) है और (अदितिः) नाशरहित है तथा जिससे (रक्षः) दुःख और दुष्टस्वभावयुक्त मनुष्य (अवधूतम्) विनाश को प्राप्त तथा (अरातयः) दान आदि धर्मों से रहित पुरुष (अवधूताः) नष्ट (असि) होते हैं और जो (अदित्याः) अन्तरिक्ष वा पृथिवी के (त्वक्) त्वचा के समान (असि) है, (त्वा) उसे (प्रति वेत्तु) जानो और जिस विद्यारूप उक्त यज्ञ से (पर्वती) बहुत ज्ञानवाली (दिवः) प्रकाशमान सूर्यादि लोकों की (स्कम्भनीः) रोकनेवाली [असि] है तथा (पार्वतेयी) मेघ की कन्या अर्थात् पृथिवी के तुल्य (धिषणा) वेदवाणी [(असि)] है, (अदित्याः) पृथिवी के (त्वक्) शरीर के तुल्य विस्तार को प्राप्त होती है, (त्वा) उसे (प्रतिवेत्तु) यथावत् जानो और जिस सत्सङ्गतिरूप यज्ञ से (पर्वती) उत्तम-उत्तम ब्रह्मज्ञान प्राप्त करनेवाली (धिषणा) द्यौः अर्थात् प्रकाशरूपी बुद्धि (असि) प्राप्त होती है, (त्वा) उसे भी (प्रतिवेत्तु) जानो ॥१९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को अपने विज्ञान से अच्छी प्रकार पदार्थों को इकट्ठा करके उन से यज्ञ का अनुष्ठान करना चाहिये जो कि वृष्टि वा बुद्धि का बढ़ानेवाला है, वह अग्नि और मन से सिद्ध किया हुआ सूर्य्य के प्रकाश को त्वचा के समान सेवन करता है ॥१९॥
दयानन्द-सरस्वती (सं) - विषयः
अथ यज्ञस्य स्वरूपमङ्गानि चोपदिश्यन्ते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्या ! भवन्तो यो यं यज्ञः शर्मासि सुखदोऽदितिनाशरहितोऽस्ति येन रक्षोऽवधूतं दुःखमरातयोऽवधूता विनष्टाश्च भवन्ति योऽदित्या अन्तरिक्षस्य पृथिव्याश्च त्वग्वद(स्य)स्ति, त्वा तं वेत्तु विदन्तु येन विद्याख्येन यज्ञेन पर्वती दिवः स्कम्भनीः [असि] पार्वतेयी धिषणाऽ[असि] अदित्यास्त्वग्वद्विस्तार्य्यते त्वा तं प्रतिवेत्तु यथावज्जानन्तु, येन सत्सङ्गत्याख्येन पर्वती ब्रह्मज्ञानवती धिषणा [असि] प्राप्यते [त्वा] तमपि प्रतिवेत्तु जानन्तु ॥१९॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - मनुष्यैर्यो विज्ञानेन सम्यक् सामग्रीं संपाद्य यज्ञोऽनुष्ठीयते, यश्च वृष्टिबुद्धिवर्धकोऽस्ति, सोऽग्निना मनसा च संसाधितः सूर्य्यप्रकाशं त्वग्वत्सेवते ॥१९॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - माणसांनी आपल्या विशेष ज्ञानाने चांगल्या प्रकारे पदार्थांचा संग्रह करून वृष्टी व बुद्धी वाढविणारा यज्ञ केला पाहिजे. तो मनाने सिद्ध केलेला अग्नी सूर्यप्रकाशाचा त्वचेप्रमाणे अंगीकार करतो. त्याप्रमाणेच सत्संगतिरूपी यज्ञाने प्रकाशमय बुद्धी प्राप्त होते हेही जाणले पाहिजे.
२० धान्यमसि धिनुहि
विश्वास-प्रस्तुतिः ...{Loading}...
धा॒न्य᳖मसि धिनु॒हि दे॒वान् प्रा॒णाय॑ त्वोदा॒नाय॑ त्वा व्या॒नाय॑ त्वा। दी॒र्घामनु॒ प्रसि॑ति॒मायु॑षे धां दे॒वो वः॑ सवि॒ता हिर॑ण्यपाणिः॒ प्रति॑गृभ्णा॒त्वच्छि॑द्रेण पा॒णिना॒ चक्षु॑षे त्वा म॒हीनां॒ पयो॑ऽसि ॥२०॥
मूलम् ...{Loading}...
धा॒न्य᳖मसि धिनु॒हि दे॒वान् प्रा॒णाय॑ त्वोदा॒नाय॑ त्वा व्या॒नाय॑ त्वा। दी॒र्घामनु॒ प्रसि॑ति॒मायु॑षे धां दे॒वो वः॑ सवि॒ता हिर॑ण्यपाणिः॒ प्रति॑गृभ्णा॒त्वच्छि॑द्रेण पा॒णिना॒ चक्षु॑षे त्वा म॒हीनां॒ पयो॑ऽसि ॥२०॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
धा॒न्य᳖म्। अ॒सि॒। धि॒नु॒हि। दे॒वान्। प्रा॒णाय॑। त्वा॒। उ॒दा॒नायेत्यु॑त्ऽआ॒नाय॑। त्वा॒। व्या॒नायेति॑ विऽआ॒नाय॑। त्वा॒। दी॒र्घाम्। अनु॑। प्रसि॑तिमिति॒ प्रऽसि॑तिम्। आयु॑षे। धा॒म्। दे॒वः। वः॒। स॒वि॒ता। हिर॑ण्यपाणि॒रिति॒ हिर॑ण्यऽपाणिः। प्रति॑। गृ॒भ्णा॒तु॒। अच्छि॑द्रेण। पा॒णिना॒। चक्षु॑षे। त्वा॒। म॒हीना॑म्। पयः॑। अ॒सि॒। २०।
महीधरः
म० ‘धान्यमसीति तण्डुलानोप्येति’ (का० २।५।५)। हे हविः, त्वं धान्यमसि । धिनोति प्रीणातीति धान्यम् । अतो देवान् अग्न्यादीन् धिनुहि प्रीणय । ‘पिनष्टि प्राणाय त्वेति प्रतिमन्त्रमिति’ ( का० २ । ५। ६)। प्रकर्षेण अनिति सर्वदा मुखे चेष्टत इति प्राणः श्वासवायुः । उद् अनिति ऊर्ध्वं चेष्टत इत्युदानः उत्क्रान्तिवायुः । व्यनिति व्याप्य चेष्टते इति व्यानो व्यापको बलहेतुर्वायुः । हे तण्डुल, त्वा त्वां प्राणाय प्राणदानार्थं पिनष्मीति शेषः । एवमुत्तरमन्त्रयोर्योज्यम् । देवानां सजीवं हविर्भवतीत्येभिर्मन्त्रैर्हविषां प्राणादिदानेन सजीवत्वं क्रियत इत्यभिप्रायः । ‘दीर्घामिति कृष्णाजिने प्रोहति’ ( का. २।५। ७) इति । प्रसयनं प्रसितिः। ‘षिञ् बन्धने’ । प्रबन्धः कर्मसंततिः । दीर्घामविच्छिन्नां प्रसितिमनु कर्मसंततिमनुलक्ष्य । आयुषे यजमानस्यायुरभिवृद्ध्यर्थं हे हविः, त्वां धां कृष्णाजिने दधामि । दधातेर्लुङि ‘बहुलं छन्दस्यमाङयोगेऽपि’ (६।४ । ७५) इति अडागमाभावः । यजमानस्यायुर्वृद्धौ सत्यां कर्मसन्ततिः प्रवर्तत इति भावः । यद्वायमर्थः । पूर्वमन्त्रैर्हषिषः प्राणादिदानेन सजीवत्वं कृतम् , अनेन पुनरायुर्दीयते हविषः । हे हविः, दीर्घां प्रसितिं कृष्णाजिनाख्यामनु त्वां धां धारयामि । कृष्णाजिने प्रक्षिपामीत्यर्थः । किमर्थम् । आयुषे त्वदीयायुर्वृद्ध्यर्थम् । ‘प्रसितिः प्रसयनात् तन्तुर्वा जालं वा’ ( निरु० ६ । १२) इति यास्कोक्तेरिह पिष्टग्राहकत्वात्प्रसितिशब्देन कृष्णाजिनमुच्यते । देवो व इत्यादिमन्त्रशेषो व्याख्यातः । ‘चक्षुषे त्वेतीक्षत इति’ (२।५।८)। हे हविः, चक्षुषे यजमानस्य चक्षुरिन्द्रियपाटवाय त्वा त्वां पश्यामीति शेषः। यद्वा चक्षुषे तव चक्षुरादिबाह्येन्द्रियदानाय त्वामीक्षे । हविषः सजीवत्वे कृते चक्षुराद्यपेक्षा भवतीत्यनेन तत्क्रियते इति भावः । ‘पिष्यमाणेषु निर्वपत्यन्यो महीनामित्याज्यम्’ (का. २।५।९) इति । हे आज्य, त्वं महीनां गवां पयोऽसि क्षीरमसि क्षीरोत्पन्नत्वाद्धृतं पयःशब्देनोच्यते । महीति गोनाम ॥ २० ॥
एकविंशी।
अधिमन्त्रम् (VC)
- सविता देवता
- परमेष्ठी प्रजापतिर्ऋषिः
- विराड् ब्राह्मी त्रिष्टुप्,
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
किस प्रयोजन के लिये उक्त यज्ञ करना चाहिये, सो अगले मन्त्र में प्रकाश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (धान्यम्) यज्ञ से शुद्ध उत्तम स्वभाववाला सुख का हेतु रोग का नाश करनेवाला तथा चावल आदि अन्न वा (पयः) जल (असि) है, वह (देवान्) विद्वान् वा जीव तथा इन्द्रियों को (धिनुहि) तृप्त करता है, इस कारण हे मनुष्यो ! मैं जिस प्रकार (त्वा) उसे (प्राणाय) अपने जीवन के लिये वा (त्वा) उसे (उदानाय) स्फूर्ति बल और पराक्रम के लिये वा (त्वा) उसे (व्यानाय) सब शुभ गुण, शुभ कर्म वा विद्या के अङ्गों के फैलाने के लिये तथा (दीर्घाम्) बहुत दिनों तक (प्रसितिम्) अत्युत्तम सुखबन्धनयुक्त (आयुषे) पूर्ण आयु के भोगने के लिये (धाम्) धारण करता हूँ, वैसे तुम भी उक्त प्रयोजन के लिये उस को नित्य धारण करो। जैसे (वः) हम लोगों को (हिरण्यपाणिः) जिस का मोक्ष देना ही व्यवहार है, ऐसा सब जगत् का उत्पन्न करनेहारा (देवः) (सविता) सब ऐश्वर्य का दाता ईश्वर (अच्छिद्रेण) अपनी व्याप्ति वा [पाणिना] उत्तम व्यवहार से (महीनाम्) वाणियों के [चक्षुषे] प्रत्यक्ष ज्ञान के लिये (प्रत्यनुगृभ्णातु) अपने अनुग्रह से ग्रहण करता है, वैसे ही हम भी उस ईश्वर को (अच्छिद्रेण) निरन्तर (पाणिना) स्तुतियों से ग्रहण करें और जैसे (हिरण्यपाणिः) पदार्थों का प्रकाश करनेवाला (देवः) (सविता) सूर्य्यलोक (महीनाम्) लोक-लोकान्तरों की पृथिवियों में नेत्र सम्बन्धी व्यवहार के लिये (अच्छिद्रेण) निरन्तर तीव्र प्रकाश से (पयः) जल को (प्रतिगृभ्णातु) ग्रहण कर के अन्न आदि पदार्थों को पुष्ट करता है, वैसे ही हम लोग भी उसे (अच्छिद्रेण) निरन्तर (पाणिना) व्यवहार से (महीनाम्) पृथिवी के (चक्षुषे) पदार्थों की दृष्टिगोचरता के लिये स्वीकार करते हैं ॥२०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में लुप्तोपमालङ्कार है। जो यज्ञ से शुद्ध किये हुए अन्न, जल और पवन आदि पदार्थ हैं, वे सब की शुद्धि, बल, पराक्रम और दृढ़ दीर्घ आयु के लिये समर्थ होते हैं। इससे सब मनुष्यों को यज्ञकर्म का अनुष्ठान नित्य करना चाहिये तथा परमेश्वर की प्रकाशित की हुई जो वेदचतुष्टयी अर्थात् चारों वेदों की वाणी है, उस के प्रत्यक्ष करने के लिये ईश्वर से अनुग्रह की इच्छा तथा अपना पुरुषार्थ करना चाहिये और जिस प्रकार परोपकारी मनुष्यों पर ईश्वर कृपा करता है, वैसे ही हम लोगों को भी सब प्राणियों पर नित्य कृपा करनी चाहिये अथवा जैसे अन्तर्यामी ईश्वर आत्मा और वेदों में सत्य ज्ञान तथा सूर्यलोक संसार में मूर्तिमान् पदार्थों का निरन्तर प्रकाश करता है, वैसे ही हम सब लोगों को परस्पर सब के सुख के लिये सम्पूर्ण विद्या मनुष्यों को दृष्टिगोचर करा के नित्य प्रकाशित करनी चाहिये और उनसे हमको पृथिवी का चक्रवर्ती राज्य आदि अनेक उत्तम उत्तम सुखों को उत्पन्न निरन्तर उत्पन्न करना चाहिये ॥२०॥
दयानन्द-सरस्वती (सं) - विषयः
कस्मै प्रयोजनाय स यज्ञः कर्त्तव्य इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यदिदं यज्ञशोधितं धान्यम(स्य)स्ति यज्ञ यज्ञशोधितं पयोऽ(स्य)स्ति तत् देवान् धिनुहि धिनाति तस्माद्यथाऽहं (त्वा) तत्प्राणाय (त्वा) तदुदानाय (त्वा) तद्व्यानाय दीर्घां प्रसितिमायुषे (धाम्) दधामि, तथैव यूयं सर्वे मनुष्यास्तस्मै प्रयोजनायैतन्नित्यं धत्त (त्वा) यथा वः योऽस्मान् हिरण्यपाणिर्देवः सविता जगदीश्वरोऽच्छिद्रेण पाणिना महीनां चक्षुषे (त्वा) प्रत्यनुगृभ्णातु प्रकृष्टतयानुगतं गृह्णाति तथैव वयं तं प्रतिगृभ्णीमः। यथा च हिरण्यपाणिर्देवः सविता सूर्य्यलोको महीनां चक्षुषेऽच्छिद्रेण पाणिना पयो गृहीत्वा धान्यं पोषयति, तथैव तं वयमपि अच्छिद्रेण पाणिना महीनां चक्षुषि प्रतिगृह्णीमः ॥२०॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र लुप्तोपमालङ्कारः। ये यज्ञेन शोधिता अन्नजलवाय्वादयः पदार्था भवन्ति, ते सर्वेषां शुद्धये बलपराक्रमाय दृढाय दीर्घायुषे च समर्था भवन्ति, तस्मात् सर्वैर्मनुष्यैरेतद्यज्ञकर्म नित्यमनुष्ठेयम्। तथा च परमेश्वरेण या महती पूज्या वाक् प्रकाशितास्त्यस्याः प्रत्यक्षकरणायेश्वरानुग्रहापेक्षा स्वपुरुषार्थता च कार्य्या। यथेश्वरः परोपकारिणां नृणामुपर्य्यनुग्रहं करोति, तथैवाऽस्माभिरपि सर्वेषां प्राणिनामुपरि नित्यमनुग्रहः कार्य्यः। यथाऽयमन्तर्यामीश्वरः सूर्य्यलोकश्च संसारे अध्यात्मनि वेदेषु च सत्यं ज्ञानं मूर्त्तद्रव्याणि नैरन्तर्य्येण प्रकाशयति, तथैव सर्वैरस्माभिर्मनुष्यैः सर्वेषां सुखायाऽखिला विद्याः प्रत्यक्षीकृत्य नित्यं प्रकाशनीयाः। ताभिः पृथिवीराज्यसुखं नित्यं कार्य्यमिति ॥२०॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात लुप्तोपमालंकार आहे. यज्ञामुळे अन्न, जल, वायू इत्यादी पदार्थ शुद्ध होतात. तसेच ते सर्वांना शुद्ध करणारे, बल देणारे, दीर्घायुषी व पराक्रमी बनविणारे असतात. त्यामुळे सर्व लोकांनी यज्ञाचे नित्य अनुष्ठान करावे. परमेश्वरकृत चारही वेदवाणीचा प्रत्यय येण्यासाठी पुरुषार्थ करावा व परमेश्वराचा अनुग्रह व्हावा, अशी इच्छा बाळगावी. ज्याप्रमाणे परोपकारी माणसावर ईश्वर कृपा करतो त्याप्रमाणे सर्व प्राण्यांवर आपणही कृपादृष्टी ठेवावी. ज्याप्रमाणे अन्तर्यामी ईश्वर आत्म्यात व वेदात सत्य ज्ञान देतो व सूर्य जगातील मूर्त पदार्थांना सतत प्रकाश देत असतो. तसेच परस्पर सुखासाठी आपणही सर्व विद्या सर्व माणसांसमोर प्रकट केली पाहिजे व चक्रवर्ती राज्य वगैरे अनेक सुखांची निर्मिती त्या विद्यांद्वारे केली पाहिजे.
२१ देवस्य त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳙ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम्। सं व॑पामि॒ समाप॒ऽओष॑धीभिः॒ समोष॑धयो॒ रसे॑न। सँ रे॒वती॒र्जग॑तीभिः पृच्यन्ताँ॒ सं मधु॑मती॒र्मधु॑मतीभिः पृच्यन्ताम् ॥२१॥
मूलम् ...{Loading}...
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳙ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम्। सं व॑पामि॒ समाप॒ऽओष॑धीभिः॒ समोष॑धयो॒ रसे॑न। सँ रे॒वती॒र्जग॑तीभिः पृच्यन्ताँ॒ सं मधु॑मती॒र्मधु॑मतीभिः पृच्यन्ताम् ॥२१॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दे॒वस्य॑। त्वा॒। स॒वि॒तुः। प्र॒स॒व इति॑ प्रऽस॒वे। अ॒श्विनोः॑। बा॒हुभ्या॒मिति॑ बा॒हुभ्या॑म्। पू॒ष्णः। हस्ता॑भ्याम्। सम्। व॒पा॒मि॒। सम्। आपः॑। ओष॑धीभिः। सम्। ओष॑धयः। रसे॑न। सम्। रे॒वतीः॑। जग॑तीभिः। पृ॒च्य॒न्ता॒म्। सम्। मधु॑मती॒रिति॒ मधु॑ऽमतीः। मधु॑मतीभि॒रिति॒ मधु॑ऽमतीभिः। पृ॒च्य॒न्ता॒म्। २१।
महीधरः
म० पात्र्यां सपवित्रायां पिष्टान्यावपति देवस्य त्वेति’ (का० २।५।१०)इति । हस्ताभ्यामित्यन्तं व्याख्यातम् । एतानि पिष्टानि संवपामि पात्र्यां सम्यक् क्षिपामि । ‘उपसर्जनीरानयत्यन्यः पवित्राभ्यां प्रतिगृह्णाति समाप इति’ (का० २।५।१२-१३)इति । पिष्टसंवपनीया आप उपसर्जन्यः । ता अग्नीदानयेदध्वर्युः पवित्राभ्यां प्रतिगृह्णीयात् । आपः उपसर्जनीरूपाः औषधीभिः पिष्टरूपाभिः संपृच्यन्ताम् । ‘पृची संपर्के’ संगच्छन्तां सम्यगेकीभवन्तु । तथा ओषधयः पिष्टाख्याः रसेन उपसर्जनीरूपेणोदकेन संपृच्यन्ताम् । आपो हि ओषधीनां रसः । तथा रेवतीः रेवत्यः आपः जगतीभिः पिष्ठाख्याभिः संपृच्यन्ताम् । ‘रेवत्य आपो जगत्य ओषधयः’ (माश १।२।२।२) इति श्रुतेः । मधुमतीः माधुर्योपेता आपः मधुमतीभिः माधुर्योपेताभिः पिष्टरूपौषधीभिः संपृच्यन्ताम् । अपामोषधीनां परस्परं च परस्परं प्रीतिहेतुत्वात्संपर्को भवत्वित्यर्थः ॥ २१ ॥
द्वाविंशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता सर्वस्य
- परमेष्ठी प्रजापतिर्ऋषिः
- गायत्री, निचृत् पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
जिन औषधियों से अन्न बनता है, वे यज्ञादि करने से कैसे शुद्ध होती हैं, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे मैं (सवितुः) सकल ऐश्वर्य्य के देनेवाले (देवस्य) परमेश्वर के (प्रसवे) उत्पन्न किये हुए प्रत्यक्ष संसार में, सूर्य्यलोक के प्रकाश में (अश्विनोः) सूर्य्य और भूमि के तेज की (बाहुभ्याम्) दृढ़ता से (पूष्णः) पुष्टि करनेवाले वायु के (हस्ताभ्याम्) प्राण और अपान से (त्वा) पूर्वोक्त तीन प्रकार के यज्ञ का (संवपामि) विस्तार करता हूँ, वैसे ही तुम भी उसको विस्तार से सिद्ध करो। जैसे इस उत्पन्न किये हुए संसार में (ओषधीभिः) यवादि ओषधियों से (आपः) जल और (ओषधयः) ओषधी (रसेन) आनन्दकारक रस से तथा (जगतीभिः) उत्तम ओषधियों से (रेवतीः) उत्तम जल और जैसे (मधुमतीभिः) अत्यन्त मधुर रसयुक्त ओषधियों से (मधुमतीः) अत्यन्त उत्तम रसरूप जल ये सब मिल कर वृद्धियुक्त होते हैं, वैसे हम सब लोगों को भी ओषधियों से जल और ओषधि, उत्तम जल से तथा सब उत्तम ओषधियों से उत्तम रसयुक्त जल तथा अत्युत्तम मधुर रसयुक्त ओषधियों से प्रशंसनीय रसरूप जल इन सबों को यथायोग्य परस्पर (संपृच्यन्ताम्) युक्ति से वैद्यक वा शिल्पशास्त्र की रीति से मेल करना चाहिये ॥२१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में लुप्तोपमालङ्कार है। विद्वान् मनुष्यों को ईश्वर के उत्पन्न किये हुए सूर्य्य से प्रकाश को प्राप्त हुए इस संसार में अनेक प्रकार से संप्रयुक्त करने योग्य पदार्थों को मिलाने के योग्य पदार्थों से मेल कर के उक्त तीन प्रकार के यज्ञ का अनुष्ठान नित्य करना चाहिये। जैसे जल अपने रस से ओषधियों को बढ़ाता है और वे उत्तम रसयुक्त जल के संयोग से रोगनाश करने से सुखदायक होती हैं और जैसे ईश्वर कारण से कार्य्य को यथावत् रचता है तथा सूर्य्य सब जगत् को प्रकाशित करके और निरन्तर रस को भेदन करके पृथिवी आदि पदार्थों का आकर्षण करता है तथा वायु रस को धारण करके पृथिवी आदि पदार्थों को पुष्ट करता है, वैसे हम लोगों को भी यथावत् संस्कारयुक्त संयुक्त किये हुए पदार्थों से विद्वानों का सङ्ग तथा विद्या की उन्नति से वा होम शिल्प कार्य्यरूपी यज्ञों से वायु और वर्षा जल की शुद्धि सदा करनी चाहिये ॥२१॥
दयानन्द-सरस्वती (सं) - विषयः
ईश्वरेण याभ्य ओषधिभ्योऽन्नादिकं जायते, ताः कथं शुद्धा जायन्त इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्या ! यथाऽहं सवितुर्देवस्य परमात्मनः प्रसवे सवितृमण्डलस्य प्रकाशे चाश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां यमिमं यज्ञं संवपामि। तथैव त्वा तं यूयमपि संवपत। यथैतस्मिन् प्रसवे प्रकाशे चौषधीभिराप ओषधयो रसेन। जगतीभी [रेवती] रेवत्यश्च संपृच्यन्ते। यथा च मधुमतीभिः [मधुमतीः] मधुमत्यः संपृच्यन्ते। तथैवौषधीभिरोषधय ओषधयो रसेन जगतीभिः सह रेवत्यश्चास्माभिः संपृच्यन्ताम्। एवं मधुमतीभिः सह मधुमत्यो नित्यं संपृच्यन्ताम् ॥२१॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र लुप्तोपमालङ्कारः। विद्वद्भिर्मनुष्यैरीश्वरोत्पादिते सूर्य्यप्रकाशितेऽस्मिन् जगति बहुविधानां संप्रयोक्तव्यानां द्रव्याणां संप्रयोक्तुमर्हैर्बहुविधैर्द्रव्यैः सह संमेलनेन त्रिविधो यज्ञो नित्यमनुष्ठेयः। यथा जलं स्वरसेनौषधीर्वर्धयति, ता उत्तमरसयोगाद् रोगनाशकत्वेन सुखदायिन्यो भवन्ति, यथेश्वरः कारणात् कार्य्यं यथावद् रचयति, सूर्य्यः सर्वं जगत् प्रकाश्य सततं रसं भित्त्वा पृथिव्याद्याकर्षति, वायुश्च धारयित्वा पुष्णाति तथैवाऽस्माभिरपि यथावत् संस्कृतैः संप्रयोजितैर्द्रव्यैर्विद्वत्सङ्गविद्योन्नितिर्होमशिल्पाख्यैर्यज्ञैर्वायुवृष्टि-जलशुद्धयश्च सदैव कार्य्या इति ॥२१॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात लुप्तोपमालंकार आहे. विद्वान माणसांनी ईश्वराने निर्माण केलेल्या व सूर्यप्रकाशांनी युक्त असलेल्या या जगात अनेक वस्तूंचे मिश्रण करून तीन प्रकारचे यज्ञ केले पाहिजेत. ज्याप्रमाणे जलाने वृक्षसंवर्धन होते व ते रोगनाशक ठरतात व जसे ईश्वर कारणांमुळे कार्य घडवून आणतो तसेच सूर्य जगाला प्रकाश देऊन रसभेदन करून पृथ्वी इत्यादी पदार्थांना आकर्षित करतो व वायू या रसाला धारण करून पृथ्वीला बलवान बनवितो. त्याप्रमाणेच आपणही संस्कारित पदार्थांचा उपयोग करून विद्वानांच्या संगतीने विद्येची वाढ करावी व अग्निहोत्र इत्यादी कौशल्ययुक्त कार्यरूपी यज्ञांनी वायू आणि वृष्टिजलाची शुद्धी करावी.
२२ जनयत्यै त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
जन॑यत्यै त्वा॒ संयौ॑मी॒दम॒ग्नेरि॒दम॒ग्नीषोम॑योरि॒षे त्वा॑ घ॒र्मो᳖ऽसि वि॒श्वायु॑रु॒रुप्र॑थाऽउ॒रु प्र॑थस्वो॒रु। ते॑ य॒ज्ञप॑तिः प्रथताम॒ग्निष्टे॒ त्वचं॒ मा हिँ॑सीद् दे॒वस्त्वा॑ सवि॒ता श्र॑पयतु॒ वर्षि॒ष्ठेऽधि॒ नाके॑ ॥२२॥
मूलम् ...{Loading}...
जन॑यत्यै त्वा॒ संयौ॑मी॒दम॒ग्नेरि॒दम॒ग्नीषोम॑योरि॒षे त्वा॑ घ॒र्मो᳖ऽसि वि॒श्वायु॑रु॒रुप्र॑थाऽउ॒रु प्र॑थस्वो॒रु। ते॑ य॒ज्ञप॑तिः प्रथताम॒ग्निष्टे॒ त्वचं॒ मा हिँ॑सीद् दे॒वस्त्वा॑ सवि॒ता श्र॑पयतु॒ वर्षि॒ष्ठेऽधि॒ नाके॑ ॥२२॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
जन॑यत्यै। त्वा॒। सम्। यौ॒मि॒। इ॒दम्। अ॒ग्नेः। इ॒दम्। अ॒ग्नीषोम॑योः। इ॒षे। त्वा॒। घ॒र्मः। अ॒सि॒। वि॒श्वायु॒रिति॑ वि॒श्वऽआ॑युः। उ॒रुप्र॑था॒ इत्यु॒रुऽप्र॑थाः। उ॒रु। प्र॒थ॒स्व॒। उ॒रु। ते॒। य॒ज्ञप॑ति॒रिति॑ य॒ज्ञऽप॑तिः। प्र॒थ॒ता॒म्। अ॒ग्निः। ते॒। त्वच॑म्। मा। हिँ॒सी॒त्। दे॒वः। त्वा॒। स॒वि॒ता। श्र॒प॒य॒तु॒। वर्षि॑ष्ठे। अधि॑। नाके॑। २२।
महीधरः
म०. ‘संयौति जनयत्यै त्वेति’ (का० २।५ । १४ ) इति । अपां पिष्टानां च मिश्रीकरणे संयवनम् । हे जलपिष्टरूपपदार्थद्वय, त्वां संयौमि सम्यङ्मिश्रीकरोमि । ‘यु मिश्रणामिश्रणयोः’। किमर्थम् । जनयत्यै यजमानस्य प्रजोत्पादनार्थम् । जलपिष्टयोर्यथा मिश्रणं तथा शुक्रशोणितमिश्रणेन यजमानस्य प्रजोत्पत्तिर्भवति तदर्थं त्वां संयौमि । यद्वा जनयत्यै पुरोडाशोत्पत्त्यै त्वां संयौमि । ‘संविभज्यासंहरिष्यन्नालभते इदमग्नेरिदमग्नीषोमयोरिति’ (का० २।५।१५) इति । मिश्रीकृतस्य पिष्टस्यावदानाङ्कितं पिण्डद्वयं कृत्वा पुनरमेलयिष्यन् इदमग्नेः अग्निसंबन्धि भवत्विति प्रथमं पिण्डं स्पृशेत् । इदमग्नीषोमयोर्भवत्विति द्वितीयं स्पृशेत् । ‘इषे त्वेत्याज्यमधिश्रयति’ (का० २।५।१६) इति । हे आज्य, इषे इष्यमाणवृष्ट्यर्थं त्वामधिश्रयामीति शेषः । आज्यप्रविलापनार्थं तत्पात्रस्याग्नौ स्थापनमधिश्रयणम् । ‘घर्मोऽसीति पुरोडाशमिति’ (का० २।५।१७)। हे पुरोडाश, त्वं घर्मोऽसि । ‘घृ क्षरणदीप्त्योः ’ । घर्मशब्देन दीप्यमानः प्रवर्ग्य उच्यते । श्रप्यमाणतया दीप्यमानत्वात्प्रवर्ग्योऽसि । तथा विश्वायुः विश्वं कृत्स्नमायुर्यस्मात्स विश्वायुः ॥ यस्माद्यजमानः सर्वमायुराप्नोतीति भावः । ‘उरुप्रथा इति प्रथयति यावत्कपालमिति’ (का० २।५।२०)। सर्वकपालेषु संश्लेषयितुं तं प्रसारयेत् । हे पुरोडाश, त्वं स्वभावतः उरुप्रथाः उरु विस्तीर्णं यथा तथा प्रथते प्रसरतीत्युरुप्रथाः । अत इदानीमपि उरु प्रथस्व प्रख्यातो भव । किंच ते यज्ञपतिः तव यजमानः उरु विस्तीर्णं पुत्रपश्वादिभिः प्रथतां प्रख्यातो भवतु । ‘अग्निष्ट इत्यद्भिरभिमृशतीति’ ( का० २।५।२१)। हे पुरोडाश, अग्निः श्रपणाय प्रवृत्तः ते तव त्वचं त्वक्सदृशमुपरितनभागं मा हिंसीन्मा विनाशयतु । अतिदाहेन मषीभावो विनाशः सोऽत्र मास्वित्यर्थः । अवघातपेषणोत्थः श्रपणाज्जायमानश्च हविष उपद्रवो जलस्पर्शेन शाम्यतीति भावः । ‘देवस्वेति श्रपणमिति’ (का० २।५।२३)। हे पुरोडाश, सविता देवः वर्षिष्ठे अत्यन्तवृद्धे नाके द्युलोकवर्तिनि नाकनाम्नि अग्नौ त्वा त्वाम् अधि अधिश्रित्य श्रपयतु पक्वं करोतु । मनुष्यस्य श्रपणे कर्तृत्वं मा भूदित्यभिप्रेत्य देवस्त्वेत्युच्यते । ‘दिवि नाको नामाग्नी रक्षोहा’ इति तित्तिरिवचनान्नाको नाम स्वर्गस्थोऽग्निः ॥ २२ ॥
त्रयोविंशी[२१]।
अधिमन्त्रम् (VC)
- प्रथतामितिपर्य्यन्तस्य यज्ञो देवता। अन्त्यस्याग्निसवितारौ देवते
- परमेष्ठी प्रजापतिर्ऋषिः
- भुरिक् त्रिष्टुप्, गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
उक्त यज्ञ किस प्रयोजन के लिये करना चाहिये, इस विषय का उपदेश अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे मैं (जनयत्यै) सर्व सुख उत्पन्न करनेवाली राज्यलक्ष्मी के लिये (त्वा) उस यज्ञ को (संयौमि) अग्नि के बीच में पदार्थों को छोड़कर युक्त करता हूँ, वैसे ही तुम लोगों को भी अग्नि के संयोग से सिद्ध करना चाहिये। जो हम लोगों का (इदम्) यह संस्कार किया हुआ हवि (अग्नेः) अग्नि के बीच में छोड़ा जाता है, (इदम्) वह विस्तार को प्राप्त होकर (अग्नीषोमयोः) अग्नि और सोम के बीच पहुँच कर (इषे) अन्न आदि पदार्थों के उत्पन्न करने के लिये होता है और जो (विश्वायुः) पूर्ण आयु और (उरुप्रथाः) बहुत सुख का देनेवाला (घर्मः) यज्ञ (असि) है, उसका जैसे मैं अनेक प्रकार विस्तार करता हूँ, वैसे (त्वा) उसको हे पुरुषो ! तुम भी (उरु प्रथस्व) विस्तृत करो। इस प्रकार विस्तार करनेवाले (ते) तुम्हारे लिये (यज्ञपतिः) यज्ञ का स्वामी (अग्निः) यज्ञ सम्बन्धी अग्नि (सविता) अन्तर्यामी (देवः) जगदीश्वर (उरु प्रथताम्) अनेक प्रकार सुख को बढ़ावे [(ते त्वचं) तुम्हारे शरीर को] (मा हिंसीत्) कभी नष्ट न करे तथा वह परमेश्वर (वर्षिष्ठे) अतिशय करके वृद्धि को प्राप्त हुआ (अधिनाके) जो अत्युत्तम सुख है, उसमें (त्वा) तुम को (श्रपयतु) सुख से युक्त करे ॥ यह इस मन्त्र का प्रथम अर्थ हुआ ॥ अब दूसरा कहते हैं। हे मनुष्यो ! जैसे मैं जो (विश्वायुः) पूर्ण आयु तथा (उरुप्रथाः) बहुत सुख का देनेवाला (घर्मः) यज्ञ (असि) है, (त्वा) उस यज्ञ को (जनयत्यै) राज्यलक्ष्मी तथा (इषे) अन्न आदि पदार्थों के उत्पन्न करने के लिये (संयौमि) संयुक्त करता हूँ तथा उसकी सिद्धि के लिये (इदम्) यह (अग्नेः) अग्नि के बीच में और (इदम्) यह (अग्नीषोमयोः) अग्नि और सोम के बीच में संस्कार किया हुआ हवि [संवपामि] छोड़ता हूँ, वैसे तुम भी उस यज्ञ को (उरु प्रथस्व) विस्तार को प्राप्त करो, जिस कारण यह (अग्निः) भौतिक अग्नि (ते) तुम्हारे (त्वचम्) शरीर को (मा हिंसीत्) रोगों से नष्ट न करे और जैसे (देवः) जगदीश्वर (सविता) अन्तर्यामी (वर्षिष्ठे) अतिशय करके वृद्धि को प्राप्त हुआ, जो (अधिनाके) अत्युत्तम सुख है, उस में (त्वा) उस यज्ञ को अग्नि के बीच में परिपक्व करता है, वैसे तुम भी उस यज्ञ को (श्रपयतु) परिपक्व करो और (ते) तुम्हारे (यज्ञपतिः) यज्ञ का स्वामी भी उस यज्ञ को (उरु प्रथताम्) विस्तारयुक्त करे ॥२२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में लुप्तोपमालङ्कार जानना चाहिये। मनुष्यों को इस प्रकार का यज्ञ करना चाहिये कि जिससे पूर्ण लक्ष्मी, सकल आयु, अन्न आदि पदार्थ, रोगनाश और सब सुखों का विस्तार हो, उसको कभी नहीं छोड़ना चाहिए, क्योंकि उसके बिना वायु और वृष्टि जल तथा ओषधियों की शुद्धि नहीं हो सकती और शुद्धि के बिना किसी प्राणी को अच्छी प्रकार सुख नहीं हो सकता, इसलिए ईश्वर ने उक्त यज्ञ करने की आज्ञा सब मनुष्यों को दी है ॥२२॥
दयानन्द-सरस्वती (सं) - विषयः
स यज्ञः कस्मै प्रयोजनाय संपादनीय इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्या ! यथाऽहं जनयत्यै यं यज्ञं संयौमि तथैव स भवद्भिरपि संयूयताम्। अस्माभिर्यदिदं संस्कृतं हविरग्नेर्मध्ये प्रक्षिप्यते, तदिदं विस्तीर्णं भूत्वाऽग्नीषोमयोर्मध्ये स्थित्वेषे भवति। यो विश्वायुरुरुप्रथा घर्मो यज्ञोऽ(स्य) स्ति यथाऽयं मया उरु प्रथ्यते तथैव प्रतिजनं त्वं [त्वा] तमेतमुरु प्रथस्व। एवं कृतवते ते तुभ्यमयं यज्ञपतिरग्निः सविता देवो जगदीश्वरश्चोरु सुखं प्रथताम्। ते तव त्वचं मा हिंसीत् नैव हिनस्ति। स खलु त्वां वर्षिष्ठेऽधिनाके [त्वां तं श्रपयतु] सुखयुक्तं करोतु ॥ इत्येकः ॥ हे मनुष्य ! यथाऽहं मनुष्यो यो विश्वायुरुरुप्रथा घर्मो यज्ञो(स्य)स्ति, त्वा तं जनयत्या इषे संयौमि तत्सिध्यर्थमिदमग्नेर्मध्ये इदमग्नीषोमयोर्मध्ये संस्कृतं हविः संवपामि प्रक्षिपामि तथा त्वमप्येतमुरुप्रथस्व बहु विस्तारय यतोऽयमग्निस्ते तव त्वचं मा हिंसीत् न हिंस्यात्। यथा च देवः सविता वर्षिष्ठेऽधिनाके यं यज्ञं श्रपयेत्। तथा भवानपि त्वा तं संयौतु श्रपयतु। ते तव यज्ञपतिश्च तमुरु प्रथतामिति द्वितीयः ॥२२॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र लुप्तोपमालङ्कारो वेद्यः। मनुष्यैरेवंभूतो यज्ञः सदैव कार्य्यः, यः पूर्णां श्रियं सकलमायुरन्नादिपदार्थान् रोगनाशं सर्वाणि सुखानि च प्रथयति। स केनापि कदाचिन्नैव त्याज्यः। कुतः? नैवैतेन वायुवृष्टिजलौषधिशुद्धिकारकेण विना कस्यापि प्राणिनः सम्यक् सुखानि सिध्यन्तीत्यतः। एवं स जगदीश्वरः सर्वान् प्रत्याज्ञापयति ॥२२॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात लुप्तोपमालंकार आहे. माणसांनी अशा प्रकारचा यज्ञ केला पाहिजे की, ज्यामुळे लक्ष्मीची प्राप्त होऊन दीर्घायुष्य मिळावे व अन्न इत्यादी पदार्थ रोगनाशक बनावेत आणि सर्वत्र सुख पसरावे. त्यामुळे यज्ञाचा त्याग कधीही करता कामा नये. यज्ञामुळेच वायू व वृष्टिजल शुद्ध होतात. औषधी इत्यादी शुद्ध होतात. औषधी शुद्ध झाल्याखेरीज कोणत्याही प्राण्याला सुख मिळू शकत नाही. यासाठी परमेश्वराने सर्वांना यज्ञ करण्याची आज्ञा केलेली आहे.
२३ मा भेर्मा
विश्वास-प्रस्तुतिः ...{Loading}...
मा भे॒र्मा॒ संवि॑क्था॒ऽअत॑मेरुर्य॒ज्ञोऽत॑मेरु॒र्यज॑मानस्य प्र॒जा भू॑यात् त्रि॒ताय॑ त्वा द्वि॒ताय॑ त्वैक॒ताय॑ त्वा ॥२३॥
मूलम् ...{Loading}...
मा भे॒र्मा॒ संवि॑क्था॒ऽअत॑मेरुर्य॒ज्ञोऽत॑मेरु॒र्यज॑मानस्य प्र॒जा भू॑यात् त्रि॒ताय॑ त्वा द्वि॒ताय॑ त्वैक॒ताय॑ त्वा ॥२३॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
मा। भेः॒। मा। सम्। वि॒क्थाः॒। अत॑मेरुः। य॒ज्ञः। अत॑मेरुः। यज॑मानस्य। प्र॒जेति॑ प्र॒ऽजा। भू॒या॒त्। त्रि॒ताय॑। त्वा॒। द्वि॒ताय॑। त्वा॒। ए॒क॒ताय॑। त्वा॒। २३।
महीधरः
म० ‘मा भेरित्यालभत इति’ (का० २ । ५। २४ )। हे पुरोडाश, त्वं मा भेः भयं मा कार्षीः । मा संविक्थाः चलनं मा कार्षीः । ‘ञिभी भये’ ‘ओविजी भयचलनयोः’ इत्यनयोः प्रयोगौ । ‘अतमेरुरिति शृतावभिवासयति भस्मना वेदेनोपवेषेण वेति’ (का० २।५।२५)। यज्ञः यागहेतुः पुरोडाशः अतमेरुः भूयात् । ‘तमु ग्लानौ’ ताम्यतीति तमेरुः । : औणादिक एरुप्रत्ययः । न तमेरुरतमेरुः । भस्माच्छादनेन ग्लानिरहितो भवतु । यजमानस्य प्रजा पुत्रपौत्रप्रपौत्रादिः अतमेरुः ग्लानिरहिता भूयात् । यजमानस्य प्रजायाः कदाचिद्दुःखं मास्त्वित्यर्थः । ‘पात्र्यङ्गुलिप्रक्षालनमाप्त्येभ्यो निनयत्यभितप्य प्रत्यगसᳪं᳭स्यन्दमानं त्रिताय त्वेति प्रतिमन्त्रमिति’ (का० २।५।२६) । हे पात्र्यङ्गुलिप्रक्षालनोदक, त्रिताय त्रितनाम्ने देवाय त्वां निनयामीति शेषः । तथा द्विताय त्वा निनयामि । तथा एकताय त्वा निनयामि । पूर्वं कुतश्चिद्धेतोः भीतोऽग्निरपः प्राविशत्ततो देवास्तं ज्ञात्वा जगृहुस्तदाग्निना वीर्यमप्सु मुक्तं तत आप्त्या उत्पन्नास्त्रितद्वितैकतसंज्ञास्ते देवैः सह चरन्तो यज्ञे पात्रीप्रक्षालनजललक्षणं भागं लेभिरे (१।२ । ३ । १) इति श्रुतिकथानुसंधातव्या ॥२३ ॥
चतुर्विंशी।
अधिमन्त्रम् (VC)
- अग्निर्देवता
- परमेष्ठी प्रजापतिर्ऋषिः
- बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
निःशङ्क होकर उक्त यज्ञ सब को करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् पुरुषो ! तुम (अतमेरुः) श्रद्धालु होकर (यजमानस्य) यजमान के यज्ञ के अनुष्ठान से (मा भेः) भय मत करो और उससे (मा संविक्थाः) मत चलायमान हो। इस प्रकार (यज्ञः) यज्ञ करते हुए तुम को उत्तम से उत्तम (अतमेरुः) ग्लानिरहित श्रद्धावान् (प्रजा) सन्तान (भूयात्) प्राप्त हो और मैं (त्वा) भौतिक अग्नि को उक्त गुणयुक्त तथा (एकताय) सत्य सुख के लिये (द्विताय) वायु तथा वृष्टि जल की शुद्धि तथा (त्रिताय) अग्नि, कर्म और हवि के होने के लिये (संयौमि) निश्चल करता हूँ ॥२३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ईश्वर सब मनुष्यों को आज्ञा और आशीर्वाद देता है कि किसी मनुष्य को यज्ञ, सत्याचार और विद्या के ग्रहण से डरना वा चलायमान कभी न होना चाहिये, क्योंकि मनुष्यों को उक्त यज्ञ आदि अच्छे-अच्छे कार्यों से ही उत्तम-उत्तम सन्तान शारीरिक, वाचिक और मानस विविध प्रकार के निश्चल सुख प्राप्त हो सकते हैं ॥२३॥
दयानन्द-सरस्वती (सं) - विषयः
निःशङ्कतया सर्वैः स यज्ञोऽनुष्ठातव्य इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! त्वमतमेरुः सन् यजमानस्य यज्ञस्यानुष्ठानान्मा भेर्भयं मा कुरु। एतस्मान्मा संविक्था मा विचल। एवं यज्ञं कृतवतस्तेऽतमेरुः प्रजा भूयात्। अहं त्वा तमग्निं यज्ञाय त्रिताय [त्वा] द्विताय [त्वा] एकताय च सुखाय संयौमि ॥२३॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ईश्वरः प्रतिमनुष्यमाज्ञापयत्याशीश्च ददाति, नैव केनापि मनुष्येण यज्ञसत्याचारविद्याग्रहणस्य सकाशाद् भेतव्यम्, विचलितव्यं वा। कस्माद् युष्माभिरेतैरेव सुप्रजाः शारीरिकवाचिकमानसानि निश्चलानि (च) सुखानि प्राप्तुं शक्यानि भवन्त्यस्मादिति ॥२३॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ईश्वर सर्व माणसांना अशी आज्ञा करतो व आशीर्वाद देतो की कोणत्याही माणसाने यज्ञ, सत्याचरण व विद्येचे ग्रहण यात आळस करू नये. विचलित होऊ नये. अशा प्रकारचे यज्ञ इत्यादी उत्तम कर्म केल्याने चांगली संताने आणि शारीरिक, वाचिक, मानसिक इत्यादी निश्चल सुख प्राप्त होऊ शकते.
२४ देवस्य त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳙ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम्। आद॑देऽध्वर॒कृतं॑ दे॒वेभ्य॒ऽइन्द्र॑स्य बा॒हुर॑सि॒ दक्षि॑णः स॒हस्र॑भृष्टिः श॒तते॑जा वा॒युर॑सि ति॒ग्मते॑जा द्विष॒तो व॒धः ॥२४॥
मूलम् ...{Loading}...
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳙ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम्। आद॑देऽध्वर॒कृतं॑ दे॒वेभ्य॒ऽइन्द्र॑स्य बा॒हुर॑सि॒ दक्षि॑णः स॒हस्र॑भृष्टिः श॒तते॑जा वा॒युर॑सि ति॒ग्मते॑जा द्विष॒तो व॒धः ॥२४॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
दे॒वस्य॑। त्वा॒। स॒वि॒तुः। प्र॒स॒व इति॑ प्रऽस॒वे। अ॒श्विनोः॑। बा॒हुभ्या॒मिति॑ बा॒हुऽभ्या॑म्। पू॒ष्णः। हस्ता॑भ्याम्। आ। द॒दे॒। अ॒ध्व॒र॒कृत॒मित्य॑ध्वर॒ऽकृत॑म् दे॒वेभ्यः॑। इन्द्र॑स्य। बा॒हुः। अ॒सि॒। दक्षि॑णः। स॒हस्र॑भृष्टि॒रिति॑ स॒हस्र॑ऽभृष्टिः। श॒तते॑जा॒ इति श॒तऽते॑जाः। वा॒युः। अ॒सि॒। ति॒ग्मते॑जा॒ इति॑ ति॒ग्मऽते॑जाः। द्वि॒ष॒तः। व॒धः। २४।
महीधरः
म० ‘देवस्य त्वेति स्फ्यमादायेति’ (का० २ । ६ । १२) देवस्य त्वेति व्याख्यातम् । देवेभ्यो देवोपकारार्थं अध्वरकृतं अध्वरं करोति वेदिखननादिद्वारेणेत्यध्वरकृतं स्फ्यमहमाददे गृह्णामि । ‘सतृणᳪं᳭ सव्ये कृत्वा दक्षिणेनालभ्य जपतीन्द्रस्य बाहुरितीति’ (का० २ । ६ । १३)। हे स्फ्य, त्वमिन्द्रस्य दक्षिणो बाहुरसि । तेन बाहुना धृतत्वात्तत्समानवीर्योपेतत्वाद्वा स्फ्यस्य बाहुरूपत्वोपचारः । किंभूतः स्फ्यः । सहस्रभृष्टिः भृष्टिर्भर्जनं पाकः । मारणमिति यावत् । सहस्रसंख्याकानां शत्रूणां भृष्टिर्यस्य स सहस्रभृष्टिः । तथा शततेजाः शतं तेजांसि यस्य सः बहुधा दीप्यमानः । किंच वायुरसि न केवलमिन्द्रबाहुसदृशः किंतु वायुसदृशोऽप्यसि । अतएव तिग्मतेजाः तीक्ष्णतेजाः । यथा वायुर्वह्निं प्रदीप्य तीव्रां ज्वालामुत्पादयंस्तीव्रतेजा भवति एवं स्फ्योऽपि स्तम्बच्छेदरूपं कर्म कुर्वंस्तीव्रतेजा उच्यते । तथा द्विषतो वधः । हन्तीति वधः कर्मद्वेषिणामसुरादीनां हन्तेत्यर्थः ॥ २४ ॥
पञ्चविंशी।
अधिमन्त्रम् (VC)
- द्योविद्युतौ देवते
- परमेष्ठी प्रजापतिर्ऋषिः
- स्वराड् ब्राह्मी पङ्क्तिः,
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उक्त यज्ञ कैसा और क्यों उसका अनुष्ठान करना चाहिये, सो अगले मन्त्र में उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - मैं (सवितुः) अन्तर्यामी प्रेरणा करने (देवस्य) सब आनन्द के देनेवाले परमेश्वर की (प्रसवे) प्रेरणा में (अश्विनोः) सूर्य्य, चन्द्र और अध्वर्य्युओं के [बाहुभ्याम्] बल और वीर्य्य से तथा (पूष्णः) पुष्टिकारक वायु के (हस्ताभ्याम्) जो कि ग्रहण और त्याग के हेतु उदान और अपान हैं, उन से (देवेभ्यः) विद्वान् वा दिव्य सुखों की प्राप्ति के लिये (अध्वरकृतम्) यज्ञ से सुखकारक [(त्वा) उस] कर्म को (आददे) अच्छे प्रकार ग्रहण करता हूँ और मेरा किया हुआ जो यज्ञ है सो (इन्द्रस्य) सूर्य्य का (सहस्रभृष्टिः) जिसमें अनेक प्रकार के पदार्थों के पचाने का सामर्थ्य वा (शततेजाः) अनेक प्रकार का तेज तथा (दक्षिणः) प्राप्त करनेवाला (बाहुः) किरणसमूह (असि) है और जिस (इन्द्रस्य) सूर्य्य वा मेघमण्डल का (तिग्मतेजाः) तीक्ष्ण तेजवाला (वायुः) वायु हेतु (असि) है, उस से हम को अनेक प्रकार के सुख तथा (द्विषतः) शत्रुओं का (वधः) नाश करना चाहिये ॥२४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ईश्वर आज्ञा करता है कि मनुष्यों को अच्छी प्रकार सिद्ध किया हुआ यज्ञ जिस में भौतिक अग्नि के संयोग से ऊपर को अच्छे-अच्छे पदार्थ छोड़े जाते हैं, वह सूर्य्य की किरणों में स्थिर होता है तथा पवन उस को धारण करता है और वह सब के उपकार के लिये हजारों सुखों को प्राप्त कराके दुःखों का विनाश करनेवाला होता है ॥२४॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स यज्ञः कीदृशोऽस्ति किमर्थश्चानुष्ठेय इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - अहं सवितुर्देवस्य प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां देवेभ्योऽध्वरकृतं [त्वा त]माददे यो मयाऽनुष्ठितो यज्ञ इन्द्रस्य सहस्रभृष्टिः शततेजा दक्षिणो बाहुरसि भवति। यस्येन्द्रस्य सूर्य्यलोकस्य मेघस्य वा तिग्मतेजा वायुर्हेतुरस्ति तेन सुखानि द्विषतो वधश्च कार्य्यः ॥२४॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ईश्वर आज्ञापयति मनुष्यैः सम्यक् संपादितोऽयं यज्ञोऽग्निनोर्ध्वं प्रक्षिप्तद्रव्यः सूर्य्यकिरणस्थो वायुना धृतः सर्वोपकारी भूत्वा सहस्राणि सुखानि प्रापयित्वा दुःखानां नाशकारी भवतीति ॥२४॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ईश्वर उपदेश करतो की, माणसे चांगल्या प्रकारे केलेल्या यज्ञात उत्तम पदार्थांची आहुती देतात. ती अग्नीच्या साह्याने वर जाते व तो यज्ञरूपी अग्नी सूर्यकिरणांमध्ये स्थिर होतो. वायू त्यांना धारण करतो व तो सर्वांवर उपकार करणारा, हजारो प्रकारचे सुख देणारा आणि दुःखांचा नाश करणारा ठरतो.
२५ पृथिवि देवयजन्योषध्यास्ते
विश्वास-प्रस्तुतिः ...{Loading}...
पृथि॑वि देवयज॒न्योष॑ध्यास्ते॒ मूलं॒ मा हिँ॑सिषं व्र॒जं ग॑च्छ गो॒ष्ठानं वर्ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्यां॑ पृथि॒व्याँ श॒तेन॒ पाशै॒र्यो᳙ऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मस्तमतो॒ मा मौ॑क् ॥२५॥
मूलम् ...{Loading}...
पृथि॑वि देवयज॒न्योष॑ध्यास्ते॒ मूलं॒ मा हिँ॑सिषं व्र॒जं ग॑च्छ गो॒ष्ठानं वर्ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्यां॑ पृथि॒व्याँ श॒तेन॒ पाशै॒र्यो᳙ऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मस्तमतो॒ मा मौ॑क् ॥२५॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पृथि॑वि। दे॒व॒य॒ज॒नीति॑ देवऽयजनि। ओष॑ध्याः। ते॒। मूल॑म्। मा। हिँ॒सि॒ष॒म्। व्र॒जम्। ग॒च्छ॒। गो॒ष्ठान॑म्। गो॒स्थान॒मिति॑ गो॒ऽस्थान॑म्। वर्ष॑तु। ते॒। द्यौः। ब॒धा॒न। दे॒व॒। स॒वि॒त॒रिति॑ सवितः। प॒र॒म्। अस्या॑म्। पृ॒थि॒व्याम्। श॒तेन॑। पाशैः॑। यः। अ॒स्मान्। द्वेष्टि॑। यम्। च॒। व॒यम्। द्वि॒ष्मः। तम्। अतः॑। मा। मौ॒क्। २५।
महीधरः
म० ‘पृथिवि देवयजनीति तृणेऽन्तर्हिते प्रहरतीति’ (का० २।६।१५-१६)। हे पृथिवि हे देवयजनि, देवा इज्यन्ते यस्यां सा देवयजनी तस्याः संबोधने हे देवयजनि, ते तव ओषध्यास्तृणरूपाया मूलमहं मा हिᳪं᳭सिषं मा विनाशयामि। ‘व्रजं गच्छेति पुरीषमादत्ते’ (का० २ । ६ । १७) इति । स्फ्यप्रहारोत्पन्ना मृत् पुरीषमुच्यते । हे पुरीष, त्वं व्रजं गच्छ । व्रजन्ति गच्छन्ति स्थातुं गावो यत्र स देशो व्रजस्तं । किंभूतम् । गोष्ठानं गवां स्थानमिदानीमवस्थितिर्यत्र तं गोयुक्तं तदीयं स्थानं गच्छेत्यर्थः ॥ ‘वर्षतु त इति वेदिं प्रेक्षत इति’ (का. २। ६ । १८)। हे वेदे, ते तुभ्यं त्वदर्थं द्यौर्द्युलोकाभिमानी देवो वर्षतु जलसेकं करोतु । ‘वृष सेचने’ वर्षणेन खननजनितदुःखशान्तिरस्त्वित्यर्थः ॥ ‘बधानेत्युत्करे करोतीति’ (का. २।६। १९)। स्फ्योत्खातां मृदमुत्करे त्यजेत् । हे देव सवितः, योऽस्मान्द्वेष्टि द्वेषं करोति वयं च यं शत्रुं द्विष्मस्तमुभयविधं शत्रु परमस्यां पृथिव्यां बधान । परमा अन्तिमा पृथिवी । छान्दसः स्याडागमः । उत्करे क्षिप्तायां धूल्यां निगूढस्य शत्रोस्तत्र बन्धनं कुरु यत्र भूमेरन्तिमप्रदेशेऽन्धतामिस्रो नरकोऽस्ति । तथाच श्रुतिः ‘अन्धे तमसि बधानेति यदाह परमस्यां पृथिव्याम्’ (१।४ । १६) इति । कैर्बन्धनं कर्तव्यं तदाह । शतेन पाशैः शतसंख्याकाभिर्बन्धनरज्जुभिः । किंच अस्मादन्धतामिस्रान्नरकात्तं मा मौक् कदाचिदपि मा मुञ्च ॥२५॥
षड्विंशी ।
अधिमन्त्रम् (VC)
- सविता देवता
- परमेष्ठी प्रजापतिर्ऋषिः
- विराड् ब्राह्मी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उक्त यज्ञ कहाँ जाके क्या करनेवाला होता है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (देव) सूर्य्यादि जगत् के प्रकाश करने तथा (सवितः) राज्य और ऐश्वर्य्य के देनेवाले परमेश्वर ! (ते) आपकी कृपा से मैं (देवयजनि) विद्वानों के यज्ञ करने की जगह (ते) यह जो (पृथिवि) भूमि है, उसके [और (ओषध्याः) जो यवादि ओषधि हैं] उनके (मूलम्) वृद्धि करनेवाले मूल को (मा हिँसिषम्) नाश न करूँ और मैं (पृथिव्याम्) अनेक प्रकार सुखदायक भूमि में (यः) जिस यज्ञ का अनुष्ठान करता हूँ, वह (व्रजम्) जलवृष्टिकारक मेघ को (गच्छ) प्राप्त हो, वहाँ जाकर (गोष्ठानम्) सूर्य्य की किरणों के गुणों से (वर्षतु) वर्षाता है और (द्यौः) सूर्य्य के प्रकाश को (वर्षतु) वर्षाता है। हे वीर पुरुषो ! आप (अस्याम्) इस उत्कृष्ट पृथिवी में (यः) जो कोई अधर्मात्मा डाकू (अस्मान्) सब के उपकार करनेवाले धर्मात्मा सज्जन हम लोगों से (द्वेष्टि) विरोध करता है (च) और (यम्) जिस दुष्ट शत्रु से (वयम्) धार्मिक शूर हम लोग (द्विष्मः) विरोध करें, (तम्) उस दुष्ट (परम्) शत्रु को (शतेन) अनेक (पाशैः) बन्धनों से (बधान) बाँधो और उसको (अतः) इस बन्धन से कभी (मा मौक्) मत छोड़ो ॥२५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ईश्वर आज्ञा देता है कि विद्वान् मनुष्यों को पृथिवी का राज्य तथा उसी पृथिवी में तीन प्रकार के यज्ञ और ओषधियाँ इनका नाश कभी न करना चाहिये। जो यज्ञ अग्नि में हवन किये हुए पदार्थों का धूम मेघमण्डल को जाकर शुद्धि के द्वारा अत्यन्त सुख उत्पन्न करनेवाला होता है, इससे यह यज्ञ किसी पुरुष को कभी छोड़ने योग्य नहीं है तथा जो दुष्ट मनुष्य हैं, उनको इस पृथिवी पर अनेक बन्धनों से बाँधे और उनको कभी न छोड़ें, जिससे कि वे दुष्ट कर्मों से निवृत्त हों और सब मनुष्यों को चाहिये कि परस्पर ईर्ष्या-द्वेष से अलग होकर एक-दूसरे की सब प्रकार सुख की उन्नति के लिये सदा यत्न करें ॥२५॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स यज्ञः क्व गत्वा किंकारी भवतीत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे देव सवितः परमात्मन् ! ते तव कृपयाऽहं देवयजानि देवयज्ञाधिकरणायास्तेऽस्याः पृथिवि भूमेर्मूलं वृद्धिहेतुं मा हिंसिषं मया पृथिव्यां योऽयं यज्ञोऽनुष्ठीयते स व्रजं मेघं गच्छ गच्छतु गत्वा गोष्ठानं वर्षतु द्यौर्वर्षतु। हे वीर ! त्वमस्यां योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तं परं शत्रुं शतेन पाशैर्बधान बन्धय। तमसो बन्धनात् कदाचिन्मा मौक् मा मोचय ॥२५॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ईश्वर आज्ञापयति विद्वद्भिर्मनुष्यैः पृथिव्यां राज्यस्य त्रिविधस्य यज्ञस्यौषधीनां च हिंसनं कदाचिन्नैव कार्य्यम्। योऽग्नौ हुतद्रव्यस्य सुगन्ध्यादिगुणविशिष्टो धूमो मेघमण्डलं गत्वा सूर्य्यवायुभ्यां छिन्नस्याकर्षितस्य धारितस्य जलसमूहस्य शुद्धिकरो भूत्वाऽस्यां पृथिव्यां वायुजलौषधिशुद्धिद्वारा महत्सुखं संपादयति। तस्मात् स यज्ञः केनापि कदाचिन्नैव त्याज्यः। ये दुष्टा मनुष्यास्तानस्यां पृथिव्यामनेकैः पाशैर्बध्वा दुष्टकर्मभ्यो निवर्त्य कदाचित्ते न मोचनीयाः। अन्यच्च परस्परं द्वेषं विहायान्योऽन्यस्य सुखोन्नतये सदैव प्रयतितव्यमिति ॥२५॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ईश्वराची ही आज्ञा आहे की, विद्वान माणसांनी पृथ्वीवरील राज्य, तीन प्रकारचे यज्ञ व औषधीयुक्त वृक्षांचा नाश करता कामा नये. यज्ञात अग्नीमुळे उत्पन्न झालेला धूर मेघमंडळात जातो व शुद्धी करून सुख उत्पन्न करतो त्यासाठी माणसांनी यज्ञाचा त्याग कधीही करू नये व विरोध करणाऱ्या दुष्ट माणसांवर असे निर्बंध घालावेत की ज्यामुळे ते दुष्ट कर्मापासून परावृत्त होतील. सर्व माणसांचे हे कर्तव्य आहे की, त्यांनी परस्परांशी ईर्षा व द्वेषाने न वागता एकमेकांच्या उन्नतीसाठी प्रयत्न करावेत.
२६ अपाररुं पृथिव्यै
विश्वास-प्रस्तुतिः ...{Loading}...
अपा॒ररुं॑ पृथि॒व्यै दे॑व॒यज॑नाद्वध्यासं व्र॒जं ग॑च्छ गो॒ष्ठानं॒ वर्ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्यां॑ पृथि॒व्याँ श॒तेन॒ पाशै॒र्यो᳙ऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्विष्मस्तमतो॒ मा मौ॑क्। अर॑रो॒ दिवं॒ मा प॑प्तो द्र॒प्सस्ते॒ द्यां मा स्क॑न् व्र॒जं ग॑च्छ गो॒ष्ठानं॒ वर्ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्यां॑ पृथि॒व्याँ श॒तेन॒ पाशै॒र्यो᳙ऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मस्तमतो॒ मा मौ॑क् ॥२६॥
मूलम् ...{Loading}...
अपा॒ररुं॑ पृथि॒व्यै दे॑व॒यज॑नाद्वध्यासं व्र॒जं ग॑च्छ गो॒ष्ठानं॒ वर्ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्यां॑ पृथि॒व्याँ श॒तेन॒ पाशै॒र्यो᳙ऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्विष्मस्तमतो॒ मा मौ॑क्। अर॑रो॒ दिवं॒ मा प॑प्तो द्र॒प्सस्ते॒ द्यां मा स्क॑न् व्र॒जं ग॑च्छ गो॒ष्ठानं॒ वर्ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्यां॑ पृथि॒व्याँ श॒तेन॒ पाशै॒र्यो᳙ऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मस्तमतो॒ मा मौ॑क् ॥२६॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अप॑। अ॒ररु॑म्। पृ॒थि॒व्यै। दे॒व॒यज॑ना॒दिति॑ देव॒ऽयज॑नात्। व॒ध्या॒स॒म्। व्र॒जम्। ग॒च्छ॒। गो॒ष्ठान॑म्। गो॒स्थान॒मिति गो॒ऽस्थान॑म्। व॑र्षतु। ते॒। द्यौः। ब॒धा॒न। दे॒व॒। स॒वि॒त॒रिति सवितः। प॒र॒म्। अस्या॑म्। पृ॒थि॒व्याम्। श॒तेन॑। पाशैः॑। यः। अ॒स्मान्। द्वेष्टि॑। यम्। च॒। व॒यम्। द्वि॒ष्मः। तम्। अतः॑। मा। मौ॒क्। अर॑रो॒ऽइत्यर॑रो। दिव॑म्। मा। प॒प्तः॒। द्र॒प्सः। ते॒। द्याम्। मा। स्क॒न्। व्र॒जम्। ग॒च्छ॒। गो॒ष्ठान॑म्। गो॒स्थान॒मिति गो॒ऽस्थान॑म्। व॑र्षतु। ते॒। द्यौः। ब॒धा॒न। दे॒व॒। स॒वि॒त॒रिति॑ सवितः। प॒र॒मस्या॑म्। पृ॒थि॒व्याम्। श॒तेन॑। पाशैः॑। यः। अ॒स्मान्। द्वेष्टि॑। यम्। च॒। व॒यम्। द्वि॒ष्मः। तम्। अतः॑। मा। मौ॒क्। २६।
महीधरः
म० ‘अपाररुमिति द्वितीयं प्रहरतीति’ (का० २।६।२१)। पृथिव्यै देवयजनात्पृथिव्याः संबन्धिनो देवयजनाख्याद्वेदिस्थानात् अररुम् अररुनामानमसुरमप बध्यासम् अपनीय यथा हतो भवति तथा करवाणि । अनेन मन्त्रेण द्वितीयवारं पूर्ववत्प्रहरेत् । व्रजं वर्षतु बधानेति मन्त्रत्रयस्य प्रयोगो व्याख्या च पूर्ववत् ॥ ‘अभिन्यस्यत्यग्नीदुत्करमररो दिवमितीति’ (का० २। ६ । २२)। हे अररो असुर, दिवं द्युलोकं यागफलरूपं त्वं मा पप्तः मा गमः । स्वर्गे त्वया न गन्तव्यम् । ‘पत्लृ गतौ’ ‘पतः पुम्’ (पा० ७.१.१९) इति लुङि पुमागमे रूपम् ॥ ‘द्रप्सस्त इति तृतीयमिति’ (का० २ । ६ । २३ )। हे वेदिदेवते, ते तव पृथिवीरूपाया यो द्रप्स उपजीव्यो रसः द्यां द्युलोकं मा स्कन् मा स्कन्दतु मा गच्छतु । ‘स्कन्दिर्गतिशोषणयोः’ । व्रजं गच्छेत्यादिमन्त्रत्रयप्रयोगो व्याख्या च पूर्ववत् ॥ २६ ॥
सप्तविंशी।
अधिमन्त्रम् (VC)
- सविता देवता
- परमेष्ठी प्रजापतिर्ऋषिः
- स्वराड् ब्राह्मी पङ्क्तिः, भुरिग् ब्राह्मी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर इस यज्ञ से क्या क्या कार्य सिद्ध होता है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (देव) सर्वानन्द के देनेवाले जगदीश्वर ! (सवितः) सब प्राणियों में अन्तर्यामी, सत्य प्रकाश करनेहारे आप की कृपा से हम लोग परस्पर उपदेश करें कि जैसे यह सब का प्रकाश करनेवाला सूर्य्यलोक इस पृथिवी में अनेक बन्धन के हेतु किरणों से खींचकर पृथिवी आदि सब पदार्थों को बाँधता है, वैसे तुम भी दुष्टों को बाँधकर अच्छे-अच्छे गुणों का प्रकाश करो और जैसे मैं (पृथिव्यै) पृथिवी में (देवयजनात्) विद्वान् लोग जिस संग्राम से अच्छे-अच्छे पदार्थ वा उत्तम-उत्तम विद्वानों की सङ्गति को प्राप्त होते हैं, उस से (अररुम्) दुष्ट स्वभाववाले शत्रुजन को (अपवध्यासम्) मारता हूँ, वैसे ही तुम लोग भी उसको मारो तथा जैसे मैं (व्रजम्) उत्तम-उत्तम गुण जतानेवाले सज्जनों के सङ्ग को प्राप्त होता हूँ, वैसे तुम भी उसको (गच्छ) प्राप्त हो। जैसे मैं (गोष्ठानम्) पठन-पाठन व्यवहार को बतानेवाली मेघ की गर्जना के समतुल्य वेदवाणी को अच्छे-अच्छे शब्दरूपी बूँदों से हर्षाता हूँ, वैसे तुम भी (वर्षतु) वर्षाओ। जैसे मेरी विद्या की (द्यौः) शोभा सब को दृष्टिगोचर है, वैसे (ते) तुम्हारी भी विद्या सुशोभित हो। जैसे मैं (यः) जो मूर्ख (अस्मान्) विद्या का प्रचार करनेवाले हम लोगों से (द्वेष्टि) विरोध करता है (च) और (यम्) जिस विद्याविरोधीजन को (वयम्) हम विद्वान् लोग (द्विष्मः) दुष्ट समझते हैं, (तम्) उस (परम्) विद्या के शत्रु को (अस्याम्) इस सब पदार्थों की धारण करने और विविध सुख देनेवाली (पृथिव्याम्) पृथिवी में (शतेन) बहुत से (पाशैः) बन्धनों से नित्य बाँधता हूँ, कभी उससे उसको नहीं त्यागता, वैसे हे वीर लोगो ! तुम भी उसको (बधान) बाँधो, कभी उसको (अतः) उस बन्धन से (मा मौक्) मत छोड़ो और जो दुष्ट जन हम लोगों से विरोध करें तथा जिस दुष्ट से हम लोग विरोध करें, उसको उस बन्धन से कोई मनुष्य न छोड़े। इस प्रकार सब लोग उसको उपदेश करते रहें कि हे (अररो) दुष्टपुरुष ! तू (दिवम्) प्रकाश उन्नति को (मा पप्तः) मत प्राप्त हो तथा (ते) तेरा (द्रप्सः) आनन्द देनेवाला विद्यारूपी रस (द्याम्) आनन्द को (मा स्कन्) मत प्राप्त करे। हे श्रेष्ठों के मार्ग चाहनेवाले मनुष्यो ! जैसे मैं (व्रजम्) विद्वानों के प्राप्त होने योग्य श्रेष्ठ मार्ग को प्राप्त होता हूँ, वैसे तुम भी (गच्छ) उसको प्राप्त हो। जैसे यह (द्यौः) सूर्य का प्रकाश (गोष्ठानम्) पृथिवी का स्थान अन्तरिक्ष को सींचता है, वैसे ही ईश्वर वा विद्वान् पुरुष (ते) तुम्हारी कामनाओं को (वर्षतु) वर्षावें अर्थात् क्रम से पूरी करें। जैसे यह (देव) व्यवहार का हेतु (सवितः) सूर्य्यलोक (अस्याम्) इस बीज बोने योग्य (पृथिव्याम्) बहुत प्रजायुक्त पृथिवी में (शतेन) अनेक (पाशैः) बन्धन के हेतु किरणों से आकर्षण के साथ पृथिवी आदि सब पदार्थों को बाँधता है, वैसे तुम भी दुष्टों को बाँधो और (यः) जो न्यायविरोधी (अस्मान्) न्यायाधीश हम लोगों से (द्वेष्टि) कोप करता है (च) और (यम्) अन्यायकारी जन पर (वयम्) सम्पूर्ण हितसम्पादन करनेवाले हम लोग (द्विष्मः) कोप करते हैं, (तम्) उस (परम्) शत्रु को (अस्याम्) इस (पृथिव्याम्) उक्त गुणवाली पृथिवी में (शतेन) अनेक (पाशैः) साम, दाम, दण्ड और भेद आदि उद्योगों से बाँधता हूँ और जैसे मैं उसको उस दण्ड से बाँधकर कभी नहीं छोड़ता, वैसे ही तुम भी (बधान) बाँधो अर्थात् बन्धनरूप दण्ड सदा दो। (अतः) उसको कभी (मा मौक्) मत छोड़ो ॥२६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में लुप्तोपमालङ्कार है। ईश्वर आज्ञा देता है कि हे मनुष्यो ! तुम लोगों को विद्या के सिद्ध करनेवाले कार्य्यों के नियमों में विघ्नकारी दुष्ट जीवों को सदा मारना चाहिये और सज्जनों के समागम से विद्या की वृद्धि नित्य करनी चाहिये। जिस प्रकार अनेक उद्योगों से श्रेष्ठों की हानि दुष्टों की वृद्धि न हो सो नियम करना चाहिये और सदा श्रेष्ठ सज्जनों का सत्कार तथा दुष्टों को दण्ड देने के लिये उनका बन्धन करना चाहिये। परस्पर प्रीति के साथ विद्या और शरीर का बल सम्पादन करके क्रिया तथा कलायन्त्रों से अनेक यान बनाकर सब को सुख देना ईश्वर की आज्ञा का पालन तथा ईश्वर की उपासना करनी चाहिये ॥२६॥
दयानन्द-सरस्वती (सं) - विषयः
पुनरेतेन यज्ञेन किं किं सिध्यतीत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे देव सवितर्भवत्कृपया वयं परस्परं विद्यामेवेपदिशाम। यथायं सविता देवः सूर्य्यलोकोऽस्यां पृथिव्यां शतेन पाशैर्बन्धनहेतुभिः किरणैराकर्षणेन पृथिव्यादीन् सर्वान् पदार्थान् बध्नाति। तथैव त्वमपि दुष्टान् बद्ध्वा शुभगुणान् प्रकाशय। हे विद्वांसो यथाहं [पृथिव्यै] पृथिव्यां देवयजनादररुमपवध्यासं तथैव तं यूयमप्यपाघ्नत। यथाऽहं व्रजं गच्छामि तथैव त्वमप्येतं गच्छ। यथाहं गोष्ठानं वर्षामि तथैव भवानपि वर्षतु। यथा मम द्यौर्विद्याप्रकाशः सर्वान् प्राप्नोति तथैव ते तवापि प्राप्नोतु। यथाऽहं योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तं परमस्यां पृथिव्यां शतेन पाशैर्नित्यं बध्नामि कदाचित्तं न त्यजामि तथैव हे वीर ! तं त्वमिमं बधान तं चातः कदाचिन्मा मौक्। योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तमतो बन्धनात् कोऽपि मा मुञ्चतु ॥ एवं च तं प्रति सर्व उपदिशन्तु। हे अररो ! त्वं दिवं मा पप्तस्तथा ते तव द्रप्सो द्यां माऽस्कन्। हे सन्मार्गजिज्ञासो ! यथाऽहं व्रजं सन्मार्गं गच्छामि तथैव त्वमप्येतं गच्छ। यथेयं द्यौर्गोष्ठानं वर्षति तथैवेश्वरो विद्वान् वा ते तव कामान् वर्षतु। यथायं सविता देवः सूर्य्यलोकोऽस्यां पृथिव्यां शतेन पाशैर्बन्धनहेतुभिः किरणैराकर्षणेन पृथिव्यादीन् सर्वान् पदार्थान् बध्नाति तथैव त्वमपि च पुनर्योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तं परं शत्रुमस्यां पृथिव्यां शतेन पाशैर्बधान। यथाऽहं तं द्वेष्टारं शत्रुं शतेन पाशैर्बद्ध्वा न कदाचिन्मुञ्चामि तथैव त्वमप्येनं सदा बधान कदाचिन्मा मौक् ॥२६॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र लुप्तोपमालङ्कारः। ईश्वर आज्ञापयति हे मनुष्या ! युष्माभिर्विद्वत्कार्य्यानुष्ठाने विघ्नकारिणो दुष्टाः प्राणिनः सदाऽपहन्तव्याः। सत्समागमेन विद्यावृद्धिर्नित्यं कार्य्या। यथाऽनेकोपायैः श्रेष्ठानां हानिर्दुष्टानां च वृद्धिर्न स्यात् तथैवानुष्ठेयम्। सदा श्रेष्ठाः सत्कार्य्या दुष्टास्ताडनीया बन्धनीयाश्च। परस्परं प्रीत्या विद्याशरीरबलं संपाद्य क्रियया कलायन्त्रैरनेकानि यानानि रचयित्वा सर्वेभ्यः सुखं देयं निरन्तरमीश्वरस्याज्ञापालनं (कर्तव्यम्) स एवोपासनीयश्चेति ॥२६॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात लुप्तोपमालंकार आहे. ईश्वर अशी आज्ञा करतो की, हे माणसांनो, विद्येचा प्रसार करताना अडथळा आणणाऱ्या दुष्ट जीवांचा नाश केला पाहिजे आणि सज्जनांच्या संगतीत राहून सदैव विद्येची वृद्धी केली पाहिजे. श्रेष्ठांचे नुकसान व दुष्टांची वृद्धी होऊ नये यासाठी निरनिराळ्या प्रकारचे नियम बनविले पाहिजेत. नेहमी श्रेष्ठ सज्जनाचा सन्मान केला पाहिजे व दुष्टांना दंड देण्यासाठी त्यांना बंधनात ठेवले पाहिजे. परस्पर प्रेमाने विद्या व शरीरबल यांची वृद्धी करून अनेक कार्ये केली पाहिजेत. निरनिराळ्या यंत्रांनी युक्त याने तयार केली पाहिजेत आणि सर्वांना सुखी केले पाहिजे. याप्रमाणे ईश्वराच्या आज्ञेचे पालन करून त्याची उपासना केली पाहिजे.
२७ गायत्रेण त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
गा॒य॒त्रेण त्वा॒ छन्द॑सा॒ परि॑गृह्णामि॒ त्रैष्टु॑भेन त्वा॒ छन्द॑सा॒ परि॑गृह्णामि॒ जाग॑तेन त्वा॒ छन्द॑सा॒ परि॑गृह्णामि॒। सु॒क्ष्मा चासि॑ शि॒वा चा॑सि स्यो॒ना चासि॑ सु॒षदा॑ चा॒स्यू॑र्ज॑स्वती॒ चासि॒ पय॑स्वती च ॥२७॥
मूलम् ...{Loading}...
गा॒य॒त्रेण त्वा॒ छन्द॑सा॒ परि॑गृह्णामि॒ त्रैष्टु॑भेन त्वा॒ छन्द॑सा॒ परि॑गृह्णामि॒ जाग॑तेन त्वा॒ छन्द॑सा॒ परि॑गृह्णामि॒। सु॒क्ष्मा चासि॑ शि॒वा चा॑सि स्यो॒ना चासि॑ सु॒षदा॑ चा॒स्यू॑र्ज॑स्वती॒ चासि॒ पय॑स्वती च ॥२७॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
गा॒य॒त्रेण॑। त्वा॒। छन्द॑सा। परि॑। गृ॒ह्णा॒मि॒। त्रैष्टु॑भेन। त्रैस्तु॑भे॒नेति॒ त्रैस्तु॑भेन। त्वा॒। छन्द॑सा। परि॑। गृ॒ह्णा॒मि॒। जाग॑तेन। त्वा॒। छन्द॑सा। परि॑। गृ॒ह्णा॒मि॒। सु॒क्ष्मा। च॒। असि॑। शि॒वा। च॒। अ॒सि॒। स्यो॒ना। च॒। असि॑। सु॒षदा॑। सु॒सदेति॑ सु॒ऽसदा॑। च॒। अ॒सि॒। ऊर्ज॑स्वती। च॒। असि॑। पय॑स्वती। च॒। २७।
महीधरः
म० ‘पूर्वं परिग्रहं परिगृह्णाति दक्षिणतः पश्चादुत्तरतश्च स्येतीन गायत्रेणेति प्रतिमन्त्रमिति’ ( का० २। ६ । २५)। यस्मात्प्रदेशादररुर्निष्काशितस्तत्र वेदेरियत्तां निश्चेतुं दक्षिणादिदिक्त्रये स्फ्येन रेखात्रयकरणं पूर्वः परिग्रहः । विष्णुदेवता मन्त्रत्रयस्य । ‘ते प्राञ्चं विष्णुं निपाद्य छन्दोभिरभितः पर्यगृह्णन्’ (१।२ । ५-६ ) इति श्रुतेः । हे विष्णो, त्वा त्वां गायत्रेण छन्दसा गायत्र्यादिच्छन्दत्रयरूपतया भावितेन स्फ्येन दिक्त्रये परिगृह्णामि । एवं त्रैष्टुभेन जागतेनेत्युत्तरमन्त्रयोः । ततः छन्दोदेवताः दिक्त्रयेऽसुरेभ्यस्त्वां पालयिष्यन्ति । पूर्वस्यामाहवनीय एव पालकोऽस्तीति भावः । प्रजापतिपुत्रा देवा असुराश्च पूर्वं स्पर्धां चक्रुस्तदा देवान्पराजयं प्राप्तान्मत्वा भूमिमसुरा विभेजुस्तदा देवा वामनरूपं विष्णुमग्रे कृत्वाऽसुरानागत्यास्मभ्यमपि भूम्यंशो दातव्य इति तानयाचिषुः । ततोऽसुरा असूयन्तोऽयं विष्णुर्यावति भूभागे शेते तावान्भवदीयोऽस्त्वित्यूचुस्ततो देवा बह्वेतदस्माकमित्युक्त्वा ते प्राञ्चं विष्णुं निपात्य गायत्रेणेत्यादिमन्त्रैर्यज्ञभूमिं जगृहुः । यज्ञो विष्णुः स यत्र तिष्ठति सैव यज्ञभूमिरिति तैर्विदितत्वाद्वेदिरिति तद्भूमेर्नाम । (१।२५।१-७) इति श्रुतिकथामनुसंधाय वेदिग्रहणं विधेयम् ॥ । ‘उत्तरं परिग्रहं परिगृह्णाति सुक्ष्मा स्योनोर्जस्वतीति’ ( का० २ ।६।३१)। वेदिखननात्पूर्वं क्रियमाणः पूर्वः परिग्रहः ।पश्चात्रिरहयमाण उत्तरपरिग्रहः । तत्रापि पूर्ववद्दिक्त्रये स्फ्येन रेखात्रयं कार्यम् । हे वेदे, त्वं सुक्ष्मासि शिवा शान्ता चासि । क्ष्मा शोभना भूमिः सुक्ष्मा। खननेनाश्मादिदोषनिवर्तनं भूमेः शोभनत्वम् । उग्रस्यासुरस्य निष्कासनेन शान्तत्वम् । गुणद्वयस्यान्योन्यसमुच्चयार्थौ चकारौ । एकोऽयं मन्त्रः । स्योना सुखरूपासि । स्योनमिति सुखनाम । सुषदा सुष्टु सीदन्ति देवा यस्यां सा सुषदा । सम्यगुपवेशनयोग्या चासि । चकारौ पूर्ववत् । द्वितीयोऽयं मन्त्रः । ऊर्जस्वती पयस्वती चासि । ऊर्जःशब्दोऽन्नवाची । पयःशब्दस्तद्विकारदध्यादिवाची तदुभयवती । चौ पूर्ववत् । तृतीयो मन्त्रः ॥ २७ ॥
अष्टाविंशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- परमेष्ठी प्रजापतिर्ऋषिः
- ब्राह्मी त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
उक्त यज्ञ का ग्रहण वा अनुष्ठान किससे करना चाहिये, सो अगले मन्त्र में प्रकाश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जिस यज्ञ से उत्तम पदार्थों के साथ (सुक्ष्मा) यह पृथिवी शोभायमान (असि) होती है (च) तथा जिससे सुखकारक गुण (च) अथवा मनुष्यों के साथ यह (शिवा) मङ्गल की देनेवाली (असि) होती है (च) तथा जिस कर के उत्तम से उत्तम सुखों के साथ यह पृथिवी (स्योना) सुख उत्पन्न करनेवाली (असि) होती है (च) और जिससे उत्तम-उत्तम सुख करनेवाले और चलने के साथ यह (सुषदा) सुख से स्थिति करने योग्य (असि) होती है [च] तथा जिन उत्तम यव आदि अन्नों के साथ यह (ऊर्जस्वती) अन्नवाली (असि) होती है। (च) और जिन उत्तम मधुर आदि रसवाले फलों करके यह पृथिवी (पयस्वती) प्रशंसा करने योग्य रसवाली (असि) होती है, (त्वा) उस यज्ञ को मैं यज्ञविद्या का जाननेवाला मनुष्य (गायत्रेण) गायत्री (छन्दसा) जो कि चित्त को प्रफुल्लित करनेवाला है, उससे (परिगृह्णामि) सब प्रकार से सिद्ध करता हूँ और मैं (त्रैष्टुभेन) त्रिष्टुभ् (छन्दसा) जो कि स्वतन्त्रतारूप से आनन्द का देनेवाला है, उससे (त्वा) पदार्थसमूह को (परिगृह्णामि) सब प्रकार से इकट्ठा करता हूँ तथा मैं (जागतेन) जगती जो कि (छन्दसा) अत्यन्त आनन्द का प्रकाश करनेवाला है, उससे (त्वा) उस भौतिक अग्नि को (परिगृह्णामि) अच्छी प्रकार स्वीकार करता हूँ ॥२७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - वेद का प्रकाश करनेवाला ईश्वर हम लोगों के प्रति कहता है कि हे मनुष्यो ! तुम लोग वेदमन्त्रों के विना पढ़े, उन के अर्थों के विना जाने और यज्ञ का अनुष्ठान विना किये सुखरूप फल को प्राप्त नहीं हो सकते और जो सब शुभ गुणयुक्त सुखकारी अन्न, जल और वायु आदि पदार्थ हैं, उनको शुद्ध नहीं कर सकते। इससे यह तीन प्रकार के यज्ञ की सिद्धि यत्नपूर्वक सम्पादन कर के सदा सुख ही में रहना चाहिये और जो इस पृथिवी में वायु, जल तथा ओषधियों को दूषित करनेवाले दुर्गन्ध, अपगुण तथा दुष्ट मनुष्य हैं, वे सर्वदा निवारण करने चाहियें ॥२७॥
दयानन्द-सरस्वती (सं) - विषयः
केन स यज्ञो ग्राह्योऽनुष्ठातव्यश्चेत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - येन यज्ञेन चोत्तमैः पदार्थैः सह सुक्ष्मासि भवति। येन च कल्याणकारिभिर्गुणैर्मनुष्यैश्चेयं शिवासि भवति। येन चानुत्तमैः सुखैः सहेयं स्योनासि भवति। येन चोत्तमाभिः सुखकारिकाभिः स्थितिगतिभिः सहेयं सुषदासि भवति। येन चौत्तमैर्यवादिभिरन्नैः सहेयमूर्जस्वत्यसि भवति। येन चौत्तमैर्मधुरादिरसवद्भिः फलैर्युक्तेयं पृथिवी पयस्वती च जायते। अहं यज्ञविद्याविन्मनुष्यो गायत्रेण छन्दसा त्वा तं यज्ञं परिगृह्णामि। अहं त्रैष्टुभेन छन्दसा त्वा तमिमं पदार्थसमूहं परिगृह्णामि। अहं जागतेन छन्दसा त्वा तमिममग्निं परिगृह्णामि ॥२७॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - वेदप्रकाशकेश्वरोऽस्मान् प्रत्यभिवदति युष्माभिर्न चान्तरेण वेदमन्त्राणां पठनं तदर्थज्ञान[मन्तरेण च] यज्ञानुष्ठानं सुखफलं प्राप्तुं सर्वशुभगुणाढ्याः सुखकारिणोऽन्नजलवाय्वादयः पदार्थाः शुद्धाश्च कर्तुं शक्यन्ते। तस्मादेतस्य त्रिविधस्य यज्ञस्य सिद्धिं प्रयत्नेन निष्पाद्य सुखे स्थातव्यम्। ये चाऽस्यां वायुजलौषधिदूषका दुर्गन्धादयो दोषा दुष्टाश्च मनुष्याः सन्ति ते सर्वदा निवारणीयाः ॥२७॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - वेद ज्ञान देणारा परमेश्वर सर्व लोकांना असा उपदेश करतो की हे माणसांनो, वेदमंत्रांचा अर्थ जाणल्याखेरीज यज्ञाच्या अनुष्ठानाचे सुखद फळ प्राप्त होऊ शकत नाही व अन्न, पाणी, वायू इत्यादी पदार्थ शुद्ध करता येत नाहीत. यासाठी तीन प्रकारे यज्ञसिद्धी करून सुखाने राहावे. या पृथ्वीवरील वायू, जल, वृक्ष यांना प्रदूषित करणारे दुर्गंधयुक्त पदार्थ नष्ट करावेत व दुर्गुणी आणि दुष्ट माणसांचेही निर्दालन करावे.
२८ पुरा क्रूरस्य
विश्वास-प्रस्तुतिः ...{Loading}...
पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विरप्शिन्नुदा॒दाय॑ पृथि॒वीं जी॒वदा॑नुम्। यामैर॑यँश्च॒न्द्रम॑सि स्व॒धाभि॒स्तामु॒ धीरा॑सोऽअनु॒दिश्य॑ यजन्ते। प्रोक्ष॑णी॒रासा॑दय द्विष॒तो व॒धो॒सि ॥२८॥
मूलम् ...{Loading}...
पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विरप्शिन्नुदा॒दाय॑ पृथि॒वीं जी॒वदा॑नुम्। यामैर॑यँश्च॒न्द्रम॑सि स्व॒धाभि॒स्तामु॒ धीरा॑सोऽअनु॒दिश्य॑ यजन्ते। प्रोक्ष॑णी॒रासा॑दय द्विष॒तो व॒धो॒सि ॥२८॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
पु॒रा। क्रूरस्य॑। वि॒सृप॒ इति वि॒ऽसृपः॑। वि॒र॒प्शि॒न्निति॑ विऽरप्शिन्। उ॒दा॒दायेत्यु॑त्ऽआ॒दाय॑। पृ॒थि॒वीम्। जी॒वदा॑नु॒मिति॑ जी॒वऽदा॑नुम्। याम्। ऐर॑यन्। च॒न्द्रम॑सि। स्व॒धाभिः॑। ताम्। ऊँ॒ इत्यूँ॑। धीरा॑सः। अ॒नु॒दिश्येत्य॑नु॒ऽदिश्य॑। य॒ज॒न्ते॒। प्रोक्ष॑णी॒रिति॑ प्र॒ऽउक्ष॑णीः। आ। सा॒द॒य॒। द्वि॒ष॒तः। व॒धः अ॒सि॒। २८।
महीधरः
म० ‘पुरा क्रूरस्येत्यनुमार्ष्टीति’ (का० २।६।३२)। अत्रेयमाख्यायिका मन्त्रेऽभिप्रेता–कदाचिद्देवानामसुरैः सह संग्राम उपस्थितस्तदा देवैर्मिथो मन्त्रितं यदस्या भूमेरुत्कृष्टं देवयजनस्थलं तच्चन्द्रे संस्थाप्य युद्धं कुर्मस्तत्र यद्यप्यस्माकं पराजयः स्यात्तदा देवयजने यागं विधाय पुनर्दैत्यपराजयं करिष्याम इति संमन्त्र्य भूमेः सारभागं देवयजनं चन्द्रे स्थापयामासुस्तत् कृष्णवर्णमिदानीमपि दृश्यत इत्याख्यानमयं मन्त्रो ब्रूते (१ । २ । ५। १८)। पुरा क्रूरस्येति त्रिष्टुप् चन्द्रदेवत्या । विरप्शीति महन्नाम । विविधं रपति वेदत्रयरूपेण शब्दं करोतीति विरप्शी । यज्ञो वेदित्वं प्राप्तो विष्णुः संबोध्यते । हे विरप्शिन् विष्णो परमेश्वर, त्वं शृणु । अनुगृहाणेति शेषः । क्रूरशब्दोऽत्र संग्रामवाची । ‘संग्रामो वै क्रूरम्’ (१।२।५।१९) इति श्रुतेः । विविधं सर्पन्ति योधा यस्मिन्निति विसृप् तस्येति क्रूरविशेषणम् । पञ्चम्यर्थौ षष्ठ्यौ । विसृपो नानायोधयुतात्क्रूराद्युद्धात्पुरार्थाद्देवाः जीवदानुं जीवं ददातीति जीवदानुस्तां जीवस्य धात्रीं सारभूतां यां पृथिवीमुदादाय ऊर्ध्वं गृहीत्वा स्वधाभिः वेदैः सह चन्द्रमसि इन्दौ ऐरयन्प्राक्षिपन्स्थापयामासुः । धीरासः धीरा मेधाविनः । तामु । उ एवार्थे । तामेव चन्द्रस्थां पृथिवीमनुदिश्य दर्शनेन संपाद्य सैव भूमिरस्यां वेद्यां विद्यत इति भावयित्वा यजन्ते यागं कुर्वन्ति । स्वधाशब्दो यद्यप्यन्नवाची तथाप्यत्रान्नहेतुभूता वेदत्रयी कथ्यते । ‘यां चन्द्रमसि ब्राह्मणा दधुः’ (१।२।५। १९) इति श्रुतेः। ब्रह्मणा वेदेन सहेत्यर्थः । अनेन मन्त्रेण खातायां वेद्यां लोष्टकृतवैषम्यनिवृत्तये समीकरणरूपं मार्जनं कुर्यात् । प्रोक्षणीरासादयेति अग्नीध्रंप्रति प्रैषः । प्रोक्ष्यन्त आभिरिति प्रोक्षण्य आपस्ता आसादय वेद्यां स्थापय । ‘द्विषतो वध इति स्फ्यमुदञ्चं प्रहरतीति’ (का० २।६।४२)। हे स्फ्य, त्वं द्विषतः शत्रोर्वधोऽसि हिंसकोऽसि ॥ २८ ॥
एकोनत्रिंशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता
- परमेष्ठी प्रजापतिर्ऋषिः
- विराड् ब्राह्मी पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
वे दोष कैसे निवारण करने और वहाँ मनुष्यों को फिर क्या करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (विरप्शिन्) महाशय महागुणवान् जगदीश्वर ! आपने (याम्) जिस (स्वधाभिः) अन्न आदि पदार्थों से युक्त और (जीवदानुम्) प्राणियों को जीवन देनेवाले पदार्थ तथा (पृथिवीम्) बहुत सी प्रजायुक्त पृथिवी को (उदादाय) ऊपर उठाकर (चन्द्रमसि) चन्द्रलोक के समीप स्थापन की है, इस कारण [ताम्] उस पृथिवी को (धीरासः) धीर बुद्धिवाले पुरुष प्राप्त होकर आपके (अनुदिश्य) अनुकूल चलकर [(यजन्ते)] यज्ञ का अनुष्ठान नित्य करते हैं। जैसे (चन्द्रमसि) आनन्द में वर्त्तमान होकर (धीरासः) बुद्धिमान् पुरुष (याम्) जिस (जीवदानुम्) जीवों की हितकारक (पृथिवीम्) पृथिवी के [(अनुदिश्य)] आश्रित होकर सेना और शस्त्रों को (उदादाय) क्रम से लेकर (विसृपः) जो कि युद्ध करनेवाले पुरुषों के प्रभाव दिखाने योग्य और (क्रूरस्य) शत्रुओं के अङ्ग विदीर्ण करनेवाले संग्राम के बीच में शत्रुओं को जीत कर राज्य को [ऐरयन्] प्राप्त होते हैं तथा जैसे इस उक्त प्रकार से धीर पुरुष (पुरा) पहिले समय में प्राप्त हुए जिन क्रियाओं से (प्रोक्षणीः, उ) अच्छी प्रकार पदार्थों को सींच के उनको [आसादय] सम्पादन करते हैं, वैसे ही (विरप्शिन्) महान् ऐश्वर्य्य की इच्छा करनेवाले पुरुष ! तू भी उसको प्राप्त होके ईश्वर का पूजन तथा पदार्थ सिद्धि करनेवाली उत्तम-उत्तम क्रियाओं का सम्पादन कर। जैसे (द्विषतः) शत्रुओं का (वधः) नाश (असि) हो, वैसे कामों को करके नित्य आनन्द में वर्तमान रह ॥२८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जिस ईश्वर ने क्रम से अन्तरिक्ष में पृथिवी, पृथिवियों के समीप चन्द्रलोक, चन्द्रलोकों के समीप पृथिवियाँ, एक-दूसरे के समीप तारालोक और सब के बीच में अनेक सूर्य्यलोक तथा इन सब में नाना प्रकार की प्रजा रचकर स्थापन की है, वही परमेश्वर सब मनुष्यों को उपासना करने योग्य है। जब तक मनुष्य बल और क्रियाओं से युक्त होकर शत्रुओं को नहीं जीतते, तब तक राज्यसुख को नहीं प्राप्त हो सकते, क्योंकि बिना युद्ध और बल के शत्रु जन कभी नहीं डरते तथा विद्वान् लोग विद्या, न्याय और विनय के बिना यथावत् प्रजा के पालन करने को समर्थ नहीं हो सकते, इस कारण सब को जितेन्द्रिय होकर उक्त पदार्थों का सम्पादन करके सब के सुख के लिये उत्तम-उत्तम प्रयत्न करना चाहिये ॥२८॥
दयानन्द-सरस्वती (सं) - विषयः
ते दोषाः कथं निवारणीयास्तत्र मनुष्यैः पुनः किं करणीयमित्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे विरप्शिन् जगदीश्वर ! भवानेव यां स्वधाभिर्युक्तां जीवदानुं पृथिवीमुदादाय चन्द्रमसि स्थापितवानस्ति तस्माद् धीरासस्तामिमां पृथिवीं प्राप्य भवन्तमनुदिश्य नित्यं यजन्ते, यथा चन्द्रमस्यानन्देन वर्त्तमाना धीरासः यां जीवदानुं पृथिवीमनुदिश्य सेनां शस्त्राण्युदादाय विसृपः क्रूरस्य मध्ये शत्रून् जित्वा राज्यमैरयन् प्राप्नुवन्ति। यथा चैवं कृत्वा धीरासः पुरा प्रोक्षणीश्चासादितवन्तस्तथैव। हे विरप्शिन् ! त्वमपि उ इति वितर्के तां प्राप्येश्वरं यज प्रोक्षणीश्चासादय यथा च द्विषतो वधोऽसि भवेत्। तथा कृत्वाऽऽनन्दे नित्यं प्रवर्त्तस्व ॥२८॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - येनेश्वरेणान्तरिक्षे पृथिव्यस्तत्समीपे चन्द्रास्तत्समीपे पृथिव्योऽन्योन्यं समीपस्थानि नक्षत्राणि सर्वेषां मध्ये सूर्य्यलोका एतेषु विविधाः प्रजाश्च रचयित्वा स्थापिताः सर्वैस्तत्रस्थैर्मनुष्यैः स एवोपासितुं योग्योऽस्ति। न यावन्मनुष्या बलक्रियाभ्यां युक्ता भूत्वा शत्रून् विजयन्ते, नैव तावत्स्थिरं राज्यसुखं प्राप्नुवन्ति। नैव युद्धबलाभ्यां विना शत्रवो बिभ्यति। नैव च विद्यान्यायविनयैर्विना यथावत् प्रजाः पालयितुं शक्नुवन्ति तस्मात् सर्वैर्जितेन्द्रियैर्भूत्वैतत् समासाद्य सर्वेषां सुखं कर्तुमनुलक्ष्य नित्यं प्रयतितव्यम् ॥२८॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्या ईश्वराने नियमपूर्वक अंतरिक्षात पृथ्वी व तिच्याजवळ चंद्र, असंख्य तारे, त्या सर्वांमध्ये अनेक सूर्य अशी रचना करून त्यात विविध प्रकारच्या पदार्थांची निर्मिती केलेली आहे, अशा परमेश्वराची उपासना सर्वांनीच केली पाहिजे. जोपर्यंत माणूस बलवान बनून कर्म करण्यास उद्युक्त होणार नाही तोपर्यत तो शत्रूला जिंकणार नाही व राज्याचे सुख प्राप्त करू शकणार नाही. कारण युद्धाशिवाय, शक्तीशिवाय शत्रू कधीही घाबरणार नाही व विद्वान लोकही त्याशिवाय विद्या, न्याय व नम्रता यांच्या योगाने प्रजेचे पालन करू शकणार नाहीत. यासाठी सर्वांनी जितेंद्रिय बनून वरील पदार्थ प्राप्त करून सर्वांच्या सुखासाठी इष्ट प्रयत्न करावेत.
२९ प्रत्युष्टं रक्षः
विश्वास-प्रस्तुतिः ...{Loading}...
प्रत्यु॑ष्टँ॒ रक्षः॒ प्रत्यु॑ष्टा॒ऽअरा॑तयो॒ निष्ट॑प्तँ॒ रक्षो॒ निष्ट॑प्ता॒ऽअरा॑तयः। अनि॑शितोऽसि सपत्न॒क्षिद्वा॒जिनं॑ त्वा वाजे॒ध्यायै॒ सम्मा॑र्ज्मि। प्रत्यु॑ष्टँ॒ रक्षः॒ प्रत्यु॑ष्टा॒ऽअरा॑तयो॒ निष्ट॑प्तँ॒ रक्षो॒ निष्ट॑प्ता॒ऽअरा॑तयः। अनि॑शितासि सपत्न॒क्षिद्वा॒जिनीं॑ त्वा वाजे॒ध्यायै॒ सम्मा॑र्ज्मि ॥२९॥
मूलम् ...{Loading}...
प्रत्यु॑ष्टँ॒ रक्षः॒ प्रत्यु॑ष्टा॒ऽअरा॑तयो॒ निष्ट॑प्तँ॒ रक्षो॒ निष्ट॑प्ता॒ऽअरा॑तयः। अनि॑शितोऽसि सपत्न॒क्षिद्वा॒जिनं॑ त्वा वाजे॒ध्यायै॒ सम्मा॑र्ज्मि। प्रत्यु॑ष्टँ॒ रक्षः॒ प्रत्यु॑ष्टा॒ऽअरा॑तयो॒ निष्ट॑प्तँ॒ रक्षो॒ निष्ट॑प्ता॒ऽअरा॑तयः। अनि॑शितासि सपत्न॒क्षिद्वा॒जिनीं॑ त्वा वाजे॒ध्यायै॒ सम्मा॑र्ज्मि ॥२९॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
प्रत्यु॑ष्ट॒मिति॒ प्रति॑ऽउष्टम्। रक्षः॑। प्रत्यु॑ष्टा॒ इति॒ प्रति॑ऽउष्टाः। अरा॑तयः। निष्ट॑प्तम्। निस्त॑प्त॒मिति॒ निःऽत॑प्तम्। रक्षः॑। निष्ट॑प्ताः। निस्त॑प्ता॒ इति॒ निःऽत॑प्ताः। अरा॑तयः। अनि॑शित॒ इत्यनि॑ऽशितः। अ॒सि॒। स॒प॒त्न॒क्षिदिति॑ सपत्न॒ऽक्षित्। वा॒जिन॑म्। त्वा॒। वा॒जे॒ध्याया॒ इति॑ वाजऽइ॒ध्यायै॑। सम्। मा॒र्ज्मि॒। प्रत्यु॑ष्ट॒मिति॒ प्रति॑ऽउष्टम्। रक्षः॑। प्रत्यु॑ष्टा॒ इति॒ प्रति॑ऽउष्टाः। अरा॑तयः। निष्ट॑प्तम्। निस्त॑प्त॒मिति॒ निःत॑प्तम्। रक्षः॑। निष्ट॑प्ताः। निस्त॑प्ता॒ इति॒ निःत॑प्ताः। अरा॑तयः। अनि॑शि॒तेत्यनि॑ऽशिता। अ॒सि॒। स॒प॒त्न॒क्षिदिति॑ सपत्न॒ऽक्षित्। वा॒जिनी॑म्। त्वा॒। वा॒जे॒ध्याया॒ इति॑ वाजऽइ॒ध्यायै॑। सम्। मा॒र्ज्मि॒। २९।
महीधरः
म० ‘स्रुवं प्रतप्य पूर्ववदिति’ (का० २।६।४५)। यथा | शूर्पाग्निहोत्रहवण्योः प्रत्युष्टमिति प्रतपनं कृतं तथा स्रुवस्यापि कार्यमित्यर्थः । मन्त्रो व्याख्यातः ॥ ‘वेदाग्रैरन्तरतः प्राक्संमार्ष्ट्यनिशित इतीति’ ( का० २।६। ४६)। हे स्रुव, त्वमनिशितोऽसि । ‘शो तनूकरणे’ । नितरां शितस्तीक्ष्णीकृतो निशितस्तथा न भवतीत्यनिशितः । अस्मद्विषये तीक्ष्ण उपद्रवकारी न भवसीत्यर्थः । यतः सपत्नक्षित् । ‘क्षिणु हिंसायाम् । सपत्नानस्मच्छत्रून्क्षिणोति हिनस्तीति सपत्नक्षित् । अतएव त्वां संमार्ज्मि सम्यक् शोधयामि । ‘मृजू शुद्धौ’ । किंभूतं त्वाम्। वाजिनं वाजोऽन्नमस्यास्तीति वाजिनं यज्ञद्वारा अन्नहेतुत्वादन्नवन्तम् । यद्वा वाजो यज्ञस्तद्वन्तम् । ‘यज्ञो हि देवानामन्नम् (५।१।१-२) इति श्रुतेः । वाजं यज्ञाख्यमन्नमर्हतीति वाजिनम् । अर्हार्थे इन्प्रत्ययः । किमर्थं संमार्ज्मि । वाजेध्यायै ‘ञिइन्धी दीप्तौ’ इन्धनं इध्या दीप्तिः । वाजस्येध्या वाजेध्या तस्यै वाजेध्यायै यज्ञस्य दीप्त्यै प्रकाशनार्थम् । शोधितेन स्रुवेणाज्ये गृहीते हुते च सति अग्निर्दीप्यते । तद्दीप्त्याहुतिफलभूतमन्नं प्रकाशितं भवतीत्यर्थः ॥ ‘प्रतप्य प्रतप्य प्रयच्छत्यनिशितेति स्रुचा’ (का० २ । ६ । ४७-४८) इति । अनिशितेति मन्त्रेण स्रुचस्तिस्रो जुहूपभृद्ध्रुवाः संमृज्य प्रत्येकं प्रत्युष्टमिति मन्त्रेण प्रतप्य प्रतप्य वेद्यां स्थापनार्थमध्वर्यवे प्रयच्छतीति सूत्रार्थः । प्रत्युष्टमिति व्याख्यातम् । अनिशितेत्यपि व्याख्यातम् । स्रुवस्य पुंस्त्वादादौ स्रुवसंमार्जनम् । स्रुचां स्त्रीत्वात्पश्चात् । ‘योषा वै स्रुग्वृषा स्रुवः’ (१।३। १।९) इत्यादिश्रुतेः । जुह्वादीनां स्रुचां स्त्रीलिङ्गत्वात्तद्विशेषणयोरनिशितावाजिनीमित्यनयोः स्त्रीत्वं विशेषः ॥ २९ ॥
त्रिंशी।
अधिमन्त्रम् (VC)
- यज्ञो देवता सर्वस्य
- परमेष्ठी प्रजापतिर्ऋषिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उक्त संग्राम कैसे जीतना और यज्ञ का अनुष्ठान कैसे करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - मैं जिस [अनिशितः] अतिविस्तृत [सपत्नक्षित्] शत्रुओं के नाश करनेवाले संग्राम से (प्रत्युष्टं रक्षः) विघ्नकारी प्राणी और जिससे (प्रत्युष्टा अरातयः) सत्यविरोधी अच्छी प्रकार दाहरूप दण्ड को प्राप्त (असि) होते हैं, वा जिस बन्धन से (निष्टप्तं रक्षः) बाँधने योग्य (निष्टप्ता अरातयः) विद्या के विघ्न करनेवाले निरन्तर संताप को प्राप्त होते हैं, (त्वा) उस (वाजिनम्) वेग आदि गुणवाले संग्राम को (वाजेध्यायै) जो कि अन्न आदि पदार्थों से बलवान् करने के योग्य सेना है, उसके लिये युद्ध के साधनों को (संमार्ज्मि) अच्छी प्रकार शुद्ध करता हूँ, अर्थात् उनके दोषों का विनाश करता हूँ और मैं जिस (सपत्नक्षित्) शत्रु का नाश करनेवाले और (अनिशिता) अति विस्तारयुक्त सेना से (प्रत्युष्टं रक्षः) परसुख का न सहनेवाला मनुष्य वा (प्रत्युष्टा अरातयः) उक्त अवगुणवाले अनेक मनुष्य (निष्टप्तं रक्षः) जुआ खेलने और परस्त्रीगमन करने तथा (निष्टप्ता अरातयः) औरों को सब प्रकार से दुःख देनेवाले मनुष्य अच्छी प्रकार निकाले जाते हैं, (त्वा) उस (वाजिनीम्) बल और वेग आदि गुणवाली सेना को (वाजेध्यायै) बहुत साधनों से प्रकाशित करने के लिये (संमार्ज्मि) अच्छी प्रकार उत्तम-उत्तम शिक्षाओं से शुद्ध करता हूँ। [यह प्रथम अर्थ हुआ] ॥ और जो कि (अनिशितः) बड़ी क्रियाओं से सिद्ध होने योग्य वा (सपत्नक्षित्) दोषों वा शत्रुओं के विनाश करनेहारे (प्रत्युष्टं रक्षः) विघ्नकारी प्राणी और (प्रत्युष्टा अरातयः) जिसमें सत्यविरोधी अच्छी प्रकार दाहरूप दण्ड को प्राप्त (असि) होते हैं, वा (निष्टप्तं रक्षः) जिस बन्धन से बाँधने योग्य (निष्टप्ता अरातयः) विद्या के विघ्न करनेवाले निरन्तर सन्ताप को प्राप्त होते हैं (त्वा) उस (वाजिनम्) यज्ञ को (वाजेध्यायै) अन्न आदि पदार्थों के प्रकाशित होने के लिये (संमार्ज्मि) शुद्धता से सिद्ध करता हूँ। इस प्रकार जिस (सपत्नक्षित्) शत्रुओं का नाश करनेवाली (अनिशिता) अतिविस्तारयुक्त क्रिया से (प्रत्युष्टं रक्षः) विघ्नकारी प्राणी और (प्रत्युष्टा अरातयः) दुर्गुण तथा नीच मनुष्य नष्ट होते हैं, (निष्टप्तं रक्षः) काम, क्रोध आदि राक्षसी भाव दूर होते हैं, (निष्टप्ता अरातयः) जिसमें दुःख तथा दुर्गन्ध आदि दोष नष्ट [(असि)] होते हैं, (त्वा) उस (वाजिनीम्) सत्क्रिया को (वाजेध्यायै) अन्न आदि पदार्थों के प्रकाशित होने के लिये (सम्मार्ज्मि) भली प्रकार सिद्ध करता हूँ। इसी प्रकार आप भी इस यज्ञ तथा सत्क्रिया को पवित्रतापूर्वक सिद्ध करो, यह दूसरा अर्थ हुआ ॥२९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ईश्वर आज्ञा देता है कि मनुष्यों को विद्या और शुभ गुणों के प्रकाश और दुष्ट शत्रुओं की निवृत्ति के लिये नित्य पुरुषार्थ करना चाहिये तथा सदैव श्रेष्ठ शिक्षा शस्त्र-अस्त्र और सत्पुरुषयुक्त उत्तम सेना से श्रेष्ठों की रक्षा तथा दुष्टों का विनाश करना चाहिये, जिसे करके अशुद्धि आदि दोषों के विनाश होने से सर्वत्र पवित्रता फैले ॥२९॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स संग्रामः किं कृत्वा जेतव्यो यज्ञश्चानुष्ठातव्य इत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - अहं येन [अनिशितः] अनिशितेन [सपत्नक्षित्] सपत्नक्षिता संग्रामेण प्रत्युष्टं रक्षः [असि] प्रत्युष्टा अरातयो निष्टप्तं रक्षो निष्टप्ता अरातयो भवन्ति [त्वा] तं वाजिनं युद्धाङ्गानि वाजेध्यायै संमार्ज्मि। अहं यया [सपत्नक्षित्] सपत्नक्षिता [अनिशिता] ऽनिशितया सेनया प्रत्युष्टं रक्षः [असि] प्रत्युष्टा अरातयो निष्टप्तं रक्षो निष्टप्ता अरातयो भवन्ति [त्वा] तां वाजिनीं सेनां शिक्षया वाजेध्यायै संमार्ज्मि ॥ [इत्येकोऽर्थः] ॥ अहं येन [अनिशितः] अनिशितेन [सपत्नक्षित्] सपत्नक्षिता यज्ञेन प्रत्युष्टं रक्षः प्रत्युष्टा अरातयो निष्टप्तं रक्षो निष्टप्ता अरातयो [असि] भवन्ति [त्वा] तं वाजिनं यज्ञं वाजेध्यायै संमार्ज्मि। एवं यया [सपत्नक्षित्] सपत्नक्षिता [अनिशिता] अनिशितया क्रियया प्रत्युष्टं रक्षः प्रत्युष्टा अरातयो निष्टप्तं रक्षो निष्टप्ता अरातयो [ऽसि] भवन्ति [त्वा] तां वाजिनीं वाजेध्यायै सम्मार्ज्मि तथैव भवन्तोऽप्येतं, एतां सम्मार्जन्तु ॥ इति द्वितीयोऽर्थः ॥२९॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - ईश्वर आज्ञापयति सर्वैर्मनुष्यैर्विद्याशुभगुणदीप्त्या दुष्टशत्रुनिवारणाय नित्यं पुरुषार्थः कर्त्तव्यः। सुशिक्षया शस्त्रास्त्रसत्पुरुषाढ्यसेनया श्रेष्ठानां रक्षणं दुष्टानां ताडनं च नित्यं कर्त्तव्यम्। यतोऽशुद्धिक्षयात् सर्वत्र पवित्रता प्रवर्त्तेत ॥२९॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ईश्वराच्या आज्ञेनुसार माणसांनी विद्या व शुभ गुण प्रकट केले पाहिजेत व दुष्टांचे निर्दालन करण्यासाठी सदैव पुरुषार्थ केला पाहिजे. नेहमी उत्तम शिक्षण घेऊन शस्त्रांस्त्रानी युक्त अशी सेना सज्ज ठेवली पाहिजे व श्रेष्ठांचे रक्षण व दुष्टांचा नाश केला पाहिजे म्हणजे सर्व दोष नष्ट होऊन सर्वत्र चांगल्या गुणांचे संवर्धन होऊ शकेल. याप्रकारे सत्क्रियारूपी यज्ञ सर्वांनी केला पाहिजे.
३० अदित्यै रास्नासि
विश्वास-प्रस्तुतिः ...{Loading}...
अदि॑त्यै॒ रास्ना॑सि॒ विष्णो॑र्वे॒ष्पो᳖स्यू॒र्ज्जे त्वाऽद॑ब्धेन॒ त्वा॒ चक्षु॒षाव॑पश्यामि। अ॒ग्नेर्जि॒ह्वासि॑ सु॒हूर्दे॒वेभ्यो॒ धाम्ने॑ धाम्ने मे भव॒ यजु॑षे यजुषे ॥३०॥
मूलम् ...{Loading}...
अदि॑त्यै॒ रास्ना॑सि॒ विष्णो॑र्वे॒ष्पो᳖स्यू॒र्ज्जे त्वाऽद॑ब्धेन॒ त्वा॒ चक्षु॒षाव॑पश्यामि। अ॒ग्नेर्जि॒ह्वासि॑ सु॒हूर्दे॒वेभ्यो॒ धाम्ने॑ धाम्ने मे भव॒ यजु॑षे यजुषे ॥३०॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
अदि॑त्यै। रास्ना॑। अ॒सि॒। विष्णोः॑। वे॒ष्पः। अ॒सि॒। ऊ॒र्ज्जे। त्वा॒। अद॑ब्धेन। त्वा॒। चक्षु॑षा। अव॑। प॒श्या॒मि॒। अ॒ग्नेः। जि॒ह्वा। अ॒सि॒। सु॒हूरिति सु॒ऽहूः॑। दे॒वेभ्यः॑। धाम्ने॑। धाम्न॒ऽइति॒ धाम्ने॑ धाम्ने। मे॒। भ॒व॒। यजु॑षे यजुष॒ऽइति॒ यजु॑षे यजुषे। ३०।
महीधरः
म० ‘पत्नीᳪं᳭ संनह्यति प्रत्यग्दक्षिणत उपविष्टां गार्हपत्यस्य मुञ्जयोक्त्रेण त्रिवृता परिहरत्यधोवासोऽदित्यै रास्नासीति’ (का. २।७।१) इति । हे योक्त्र, अदित्यै अदित्या भूम्यास्त्वं रास्नासि रशना भवसि ॥ ‘दक्षिणं पाशमुत्तरे प्रतिमुच्योर्ध्वमुद्गूहति विष्णोर्वेष्य इति न ग्रन्थिं करोतीति’ (का० २।७।२-३) हे दक्षिणपाश, त्वं विष्णोः यज्ञस्य वेष्योऽसि व्यापकोऽसि । ‘विष्लृ व्याप्तौ’ ॥ ‘ऊर्जेत्वेत्याज्यमुद्वास्येति’ (का० २ । ७ । ४) हे आज्य, त्वामुद्वासयामीति शेषः । किमर्थम् । ऊर्जे उत्तमरसलाभाय । विलापितं घृतं सुस्वादु भवति । ‘पत्नीमवेक्षयत्यदब्धेनेतीति’ ( का० २।७।४) । दभ्नोतिर्हिंसार्थः । हे आज्य, अदब्धेन अनुपहिंसितेन चक्षुषा त्वामवपश्यामि । अवाचीनं यथा तथाधोमुखी सती पश्यामि । किंच हे आज्य, त्वमग्नेर्जिह्वासि । यदाज्यमग्नौ हूयते तदा जिह्वेव ज्वालोत्पद्यतेऽतस्त्वमग्नेर्जिह्वा । किंभूतम् । देवेभ्योऽर्थाय सुहूः सुष्ठु हूयन्ते इति सुहूः । पुंस्त्वं छान्दसम् । यद्वा जिह्वाविशेषणम् । सुष्ठु हूयन्ते देवा आहूयन्तेऽनया सा सुहूर्जिह्वा । ज्वालां दृष्ट्वा आयान्तीत्यर्थः । अतो मे मम धाम्ने धाम्ने भव । तथा यजुषे यजुषे च भव । धाम स्थानम् । फलेन युज्यत इति यजुःशब्दो यागवाची । धाम्ने धाम्ने तत्तद्यागफलोपभोगस्थानसिद्ध्यर्थं भव । यजुषे यजुषे तत्तद्यागसिद्धये योग्यं भवेत्यर्थः ॥ ३० ॥
एकत्रिंशी।
इति माध्यंदिनीयवाजसनेयिसंहितायां प्रथमोऽध्यायः ॥१॥
अधिमन्त्रम् (VC)
- यज्ञो देवता
- परमेष्ठी प्रजापतिर्ऋषिः
- निचृद् जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर उक्त यज्ञ किस प्रकार का और कौन फल का देनेवाला होता है, सो अगले मन्त्र में प्रकाशित किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे जगदीश्वर ! जो आप (अदित्यै) पृथिवी के (रास्ना) रस आदि पदार्थों के उत्पन्न करनेवाले (असि) हैं, (विष्णोः) व्यापक (वेष्पः) पृथिवी आदि सब पदार्थों में प्रवर्त्तमान भी (असि) हैं तथा (अग्नेः) भौतिक अग्नि के (जिह्वा) जीभरूप (असि) हैं वा (देवेभ्यः) विद्वानों के लिये (धाम्ने धाम्ने) जिनमें कि वे विद्वान् सुखरूप पदार्थों को प्राप्त होते हैं, जो तीनों धाम अर्थात् स्थान, नाम और जन्म हैं, उन धामों की प्राप्ति के तथा (यजुषे यजुषे) यजुर्वेद के मन्त्र-मन्त्र का आशय प्रकाशित होने के लिये (सुहूः) जो श्रेष्ठता से स्तुति करने के योग्य है, इस प्रकार के (त्वा) आप को मैं (अदब्धेन) प्रेमसुखयुक्त (चक्षुषा) विज्ञान से (ऊर्ज्जे) पराक्रम (अदित्यै) पृथिवी तथा (देवेभ्यः) श्रेष्ठ गुणों वा (धाम्ने धाम्ने) स्थान, नाम और जन्म आदि पदार्थों की प्राप्ति तथा (यजुषे यजुषे) यजुर्वेद के मन्त्र-मन्त्र के आशय जानने के लिये [(त्वा) आपको] (अवपश्यामि) ज्ञानरूपी नेत्रों से देखता हूँ, आप भी कृपा करके [मे] मुझको विदित और मेरे पूजन को प्राप्त (भव) हूजिये ॥ यह इस मन्त्र का प्रथम अर्थ हुआ ॥ अब दूसरा कहते हैं ॥ जिस कारण यह यज्ञ (अदित्यै) अन्तरिक्ष के सम्बन्धी (रास्ना) रसादि पदार्थों की क्रिया का कारण (असि) है, (विष्णोः) यज्ञसम्बन्धी कार्य्यों का (वेष्पः) व्यापक (असि) है, (अग्नेः) भौतिक अग्नि का (जिह्वा) जिह्वारूप (असि) है, (देवेभ्यः) तथा दिव्य गुण (धाम्ने धाम्ने) कीर्ति, स्थान और जन्म इनकी प्राप्ति वा [मे] मेरे लिये (यजुषे यजुषे) यजुर्वेद के मन्त्र-मन्त्र का आशय जानने के लिये (सुहूः) अच्छी प्रकार प्रशंसा करने योग्य (भव) होता है, इस कारण (त्वा) उस यज्ञ को मैं (अदब्धेन) सुखपूर्वक (चक्षुषा) प्रत्यक्ष प्रमाण के साथ नेत्रों से (अवपश्यामि) देखता हूँ तथा (त्वा) उसे (अदित्यै) पृथिवी आदि पदार्थ (देवेभ्यः) उत्तम-उत्तम गुण [(ऊर्जे) पराक्रम] (धाम्ने धाम्ने) स्थान-स्थान तथा (यजुषे यजुषे) यजुर्वेद के मन्त्र-मन्त्र से हित होने के लिये (अवपश्यामि) क्रिया की कुशलता से देखता हूँ ॥३०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। सब मनुष्यों को जैसे यह जगदीश्वर वस्तु-वस्तु में स्थित तथा वेद के मन्त्र-मन्त्र में प्रतिपादित और सेवा करने योग्य है, वैसे ही यह यज्ञ वेद के प्रति मन्त्र से अच्छी प्रकार सिद्ध प्रतिपादित विद्वानों ने सेवित किया हुआ, सब प्राणियों के लिये पदार्थ-पदार्थ में पराक्रम और बल के पहुँचाने के योग्य होता है ॥३०॥
दयानन्द-सरस्वती (सं) - विषयः
पुनः स यज्ञः कीदृशः किंफलो भवतीत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे जगदीश्वर ! यस्त्वम[दित्यै अ] अदित्या रास्नासि विष्णुरसि सर्वस्य वेष्पोऽस्यग्नेर्जिह्वासि देवेभ्यो धाम्ने धाम्ने [मे भवं] यजुषे यजुषे सुहूरसि। एवंभूतं [त्वा] त्वाहमदब्धेन चक्षुषा ऊर्ज्जे [त्वा] ऽदित्यै देवेभ्यो धाम्ने धाम्ने यजुषे यजुषे चावपश्यामि। स च त्वमस्माभिः सर्वत्र कृपया विदितः पूजितश्च भवेत्येकः ॥ यतोऽयं यज्ञोऽ[दित्यै] अदित्या रास्ना [स्य] स्ति विष्णोर्वेष्पोऽ[स्य] स्त्यग्नेर्जिह्वा [स्य] स्ति देवेभ्यो धाम्ने धाम्ने [मे भव] यजुषे यजुषे सुहूर्भवति तस्मात् तमहमदब्धेन [त्वा] चक्षुषोर्ज्जे [त्वा] ऽवपश्यामि तथाऽदित्यै देवेभ्यो धाम्ने धाम्ने यजुषे यजुषे हितायावपश्यामि ॥३०॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। सर्वैर्मनुष्यैरयं जगदीश्वरः प्रतिवस्तु स्थितः प्रतिमन्त्रं प्रतिपादितः पूज्यश्च भवतीति मन्तव्यम्। तथा चायं यज्ञः प्रतिमन्त्रेण सम्यगनुष्ठितः सर्वप्राणिभ्यः प्रतिवस्तुषु पराक्रमबलप्राप्तये भवतीति ॥३०॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. परमेश्वर हा प्रत्येक पदार्थात व्याप्त असून, वेदाच्या मंत्रामंत्रातून वर्णिलेला आहे. त्यासाठी सर्व माणसांनी त्याचा स्वीकार केला पाहिजे.
सविता जोशी ← दयानन्दः (म) - पादटिप्पनी
टिप्पणी: प्रत्येक वेदमंत्रात वर्णन केल्याप्रमाणे विद्वानांनी ग्रहण केलेला हा यज्ञ सर्व प्राण्यांना प्रत्येक पदार्थाद्वारे पराक्रम व बल देण्यास समर्थ असतो.
३१ सवितुस्त्वा प्रसवऽउत्पुनाम्यच्छिद्रेण
विश्वास-प्रस्तुतिः ...{Loading}...
स॒वि॒तुस्त्वा॑ प्रस॒वऽउत्पु॑ना॒म्यच्छि॑द्रेण प॒वित्रेण॒ सूर्य्य॑स्य र॒श्मिभिः॑। स॒वि॒तुर्वः॑ प्र॒स॒वऽउत्पु॑ना॒म्यच्छि॑द्रेण प॒वित्रे॑ण॒ सूर्य्य॑स्य र॒श्मिभिः॑। तेजो॑ऽसि शु॒क्रम॑स्य॒मृत॑मसि॒ धाम॒ नामा॑सि प्रि॒यं दे॒वाना॒मना॑धृष्टं देव॒यज॑नमसि ॥३१॥
मूलम् ...{Loading}...
स॒वि॒तुस्त्वा॑ प्रस॒वऽउत्पु॑ना॒म्यच्छि॑द्रेण प॒वित्रेण॒ सूर्य्य॑स्य र॒श्मिभिः॑। स॒वि॒तुर्वः॑ प्र॒स॒वऽउत्पु॑ना॒म्यच्छि॑द्रेण प॒वित्रे॑ण॒ सूर्य्य॑स्य र॒श्मिभिः॑। तेजो॑ऽसि शु॒क्रम॑स्य॒मृत॑मसि॒ धाम॒ नामा॑सि प्रि॒यं दे॒वाना॒मना॑धृष्टं देव॒यज॑नमसि ॥३१॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः - दयानन्दादि
स॒वि॒तुः त्वा॒। प्र॒स॒व इति॑ प्रऽस॒वे। उत्। पु॒ना॒मि॒। अच्छि॑द्रेण। प॒वित्रे॑ण। सूर्य्य॑स्य। र॒श्मिभि॒रिति॑ र॒श्मिऽभिः॑। स॒वि॒तुः। वः॒। प्र॒स॒व इति॑ प्रऽस॒वे। उत्। पु॒ना॒मि॒। अच्छि॑द्रेण। प॒वित्रे॑ण। सूर्य्य॑स्य। र॒श्मिभि॒रिति॑ र॒श्मिभिः॑। ते॑जः। अ॒सि॒। शु॒क्रम्। अ॒सि॒। अ॒मृत॑म्। अ॒सि॒। धाम॑। नाम॑। अ॒सि॒। प्रि॒यम्। दे॒वाना॑म्। अना॑धृष्टम्। दे॒व॒यज॑न॒मिति॑ देव॒ऽयजन॑म्। अ॒सि॒। ३१।
महीधरः
म० ‘सवितुस्त्वेत्याज्यमुत्पुनातीति’ (का०२।७।७)। सवितुर्देवस्य प्रसवे आज्ञायां वर्तमानः संस्त्वामुत्पुनामि शोधयामि । व्याख्यातमन्यत् । ‘प्रोक्षणीश्च पूर्ववदिति’ ( का० २।७।८)। सुवितुर्वः । वो युष्मानुत्पुनामीति व्याख्यातम् । ‘आज्यमवेक्षते तेजोऽसीति’ (का० २ । ७ । ७)। हे आज्य, त्वं तेजोऽसि । शरीरकान्तिहेतुत्वात्तेजस्त्वम् । शुक्रमसि दीप्तिमदसि । स्निग्धरूपत्वाद्दीप्तिमत्त्वम् । अमृतमसि विनाशरहितमसि । बहुदिवसावस्थानेऽप्योदनादिवत्पर्युषितत्वादिदोषाभावादविनाशित्वम् ॥ ‘स्रुवेणाज्यग्रहणं चतुर्जुह्वां धाम नामेति सकृन्मन्त्रं’ ( का० २ । ७ । ११-१२) इति । हे आज्य, त्वं धाम स्थानमसि । धीयते स्थाप्यते चित्तवृत्तिर्देवैरत्रेति धाम । तथा नाम नामयति आत्मानं प्रति सर्वाणि भूतानीति नाम । आज्यं दृष्ट्वा सर्वेऽप्यत्तुं नमन्ति । तथा देवानां प्रियमिष्टमनभिभूतम् । गतसारत्वदोषेणातिरस्कृतम् । चरुपुरोडाशादीनि चिरस्थित्या गतसाराणि स्युरिदं न तथा । देवयजनं देवा इज्यन्तेऽनेनेति यागसाधनम् ईदृशं त्वमस्यतस्त्वां गृह्णामीति वाक्यशेषः ॥३१॥
श्रीमन्महीधरकृते वेददीपे मनोहरे । शाखाद्याज्यग्रहान्तोऽयमध्यायः प्रथमोऽगमत् ॥ १॥
अधिमन्त्रम् (VC)
- यज्ञो देवता सर्वस्य
- परमेष्ठी प्रजापतिर्ऋषिः
- जगती अनुष्टुप्
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
उक्त यज्ञ कैसे पवित्र होता है, सो अगले मन्त्र में उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो यज्ञ (सवितुः) परमेश्वर के (प्रसवे) उत्पन्न किये संसार में (अच्छिद्रेण) निरन्तर (पवित्रेण) पवित्र तथा (सूर्य्यस्य) प्रकाशमय सूर्य्य की (रश्मिभिः) किरणों के साथ मिल के सब पदार्थों को शुद्ध करता है (त्वा) उस यज्ञ वा यज्ञकर्त्ता को मैं (उत्पुनामि) उत्कृष्टता के साथ पवित्र करता हूँ। इसी प्रकार (सवितुः) परमेश्वर के (प्रसवे) उत्पन्न किये हुए संसार में (अच्छिद्रेण) निरन्तर (पवित्रेण) शुद्धिकारक (सूर्य्यस्य) जो कि ऐश्वर्य हेतुओं के प्रेरक प्राण के (रश्मिभिः) अन्तराशय के प्रकाश करनेवाले गुण हैं, उनसे (वः) तुम लोगों को तथा प्रत्यक्ष पदार्थों को यज्ञ करके (उत्पुनामि) पवित्र करता हूँ। हे ब्रह्मन् ! जिस कारण आप (तेजोऽसि) स्वयंप्रकाशवान् (शुक्रमसि) शुक्र (अमृतमसि) नाशरहित (धामासि) सब पदार्थों का आधार (नामासि) वन्दना करने योग्य (देवानाम्) विद्वानों के (प्रियम्) प्रीतिकारक (अनाधृष्टम्) तथा किसी की भयता में न आने योग्य वा (देवयजनमसि) विद्वानों के पूजा करने योग्य हैं, इससे मैं (त्वा) आपका ही आश्रय करता हूँ ॥ यह इस मन्त्र का प्रथम अर्थ हुआ ॥ जिस कारण यह यज्ञ (तेजोऽसि) प्रकाश और (शुक्रमसि) शुद्धि का हेतु (अमृतमसि) मोक्ष सुख का देने तथा (धामासि) सब अन्न आदि पदार्थों की पुष्टि करने वा (नामासि) जल का हेतु (देवानाम्) श्रेष्ठ गुणों की (प्रियम्) प्रीति कराने तथा (अनाधृष्टम्) किसी को खण्डन करने के योग्य नहीं अर्थात् अत्यन्त उत्कृष्ट और (देवयजनम्) विद्वान् जनों को परमेश्वर का पूजन करानेवाला (असि) है, इस कारण इस यज्ञ से मैं (सवितुः) जगदीश्वर के (प्रसवे) उत्पन्न किये हुए संसार में (अच्छिद्रेण) निरन्तर (पवित्रेण) अति शुद्ध यज्ञ वा (सूर्य्यस्य) ऐश्वर्य्य उत्पन्न करनेवाले परमेश्वर के गुण अथवा ऐश्वर्य्य के उत्पन्न करानेवाले सूर्य्य की (रश्मिभिः) विज्ञानादि प्रकाश वा किरणों से (वः) तुम लोग वा प्रत्यक्ष पदार्थों को (उत्पुनामि) पवित्र करता हूँ ॥ यह दूसरा अर्थ हुआ ॥३१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। परमेश्वर यज्ञ विद्या के फल को जनाता है कि जो तुम लोगों से अनुष्ठान किया हुआ यज्ञ है, वह सूर्य्य की किरणों के साथ रहकर अपने निरन्तर शुद्ध गुण से सब पदार्थों को पवित्र करता है तथा वह उसके द्वारा सब पदार्थों को सूर्य्य की किरणों से तेजवान् शुद्ध उत्तम रसवाले सुखकारक प्रसन्नता का हेतु दृढ़ और यज्ञ करानेवाले पदार्थों को उत्पन्न कर के उनके भोजन, वस्त्र से शरीर की पुष्टि, बुद्धि और बल आदि शुद्ध गुणों को सम्पादन करके सब जीवों को सुख देता है ॥३१॥ ईश्वर ने इस अध्याय में मनुष्यों को शुद्ध कर्म के अनुष्ठान दोष और शत्रुओं की निवृत्ति, यज्ञक्रिया के फल को जानने, अच्छी प्रकार पुरुषार्थ करने, विद्या के विस्तार करने, धर्म के अनुकूल प्रजा पालने, धर्म के अनुष्ठान में निर्भयता से स्थिर होने, सब के साथ मित्रता से वर्त्तने, वेदों से सब विद्याओं का ग्रहण करने और कराने को शुद्धि तथा परोपकार के लिये प्रयत्न करने को आज्ञा दी है, सो यह सब मनुष्यों को अनुष्ठान करने के योग्य है ॥३१॥
दयानन्द-सरस्वती (सं) - विषयः
स यज्ञः कथं पवित्रीकरोतीत्युपदिश्यते ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यो यज्ञः [सवितुः प्रसवे] अच्छिद्रेण पवित्रेण सूर्य्यस्य रश्मिभिः सह सर्वान् पदार्थान् पुनाति [त्वा] त्वां [तं यज्ञं] यजमानं वाहमुत्पुनामि। त्वां यजमानं वा। एवं च सवितुः प्रसवेऽच्छिद्रेण पवित्रेण सूर्य्यस्य रश्मिभिर्वो युष्मानेताँश्च पदार्थान् यज्ञेनोत्पुनामि। हे ब्रह्मन् ! यतस्वं तेजोसि शुक्रमस्यमृतमसि धामासि नामासि देवानां प्रियमस्यनाधृष्टमसि देवयजनमसि तस्मात् त्वामेवाहमाश्रयामीत्येकः ॥ यतोऽयं यज्ञस्तेजोऽ[स्य]स्ति शुक्रम[स्य]स्त्यमृतम[स्य]स्ति धामास्ति नामा[स्य]स्ति देवानां प्रियमनाधृष्टं देवयजनम[स्य]स्ति तेनानेन यज्ञेनाहं सवितुर्जगदीश्वरस्य प्रसवेऽच्छिद्रेण पवित्रेण सूर्य्यस्य रश्मिभिर्वो युष्मानेतान् सर्वान् पदार्थांश्चोत्पुनामि ॥ इति द्वितीयः ॥३१॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। ईश्वरो यज्ञविद्याफलं ज्ञापयति युष्माभिर्यथावदनुष्ठितो यज्ञः सूर्य्यस्य रश्मिभिर्विहरति स स्वकीयेन पवित्रेणाच्छिद्रेण गुणेन सर्वान् पदार्थान् पवित्रयति। स च तद्द्वारा सूर्य्यस्य रश्मिभिस्तेजस्विनः शुद्धानमृतरसान् सुखहेतुकान् प्रसन्नताजनकान् दृढान् यज्ञहेतून् पदार्थान् करोति यतस्तद्भोजनाच्छादनद्वारा वयं शरीरपुष्टिबुद्धिबलादीन् शुद्धगुणाँश्च संपाद्य नित्यं सुखयाम इति ॥३१॥ ईश्वरेणास्मिन्नध्याये मनुष्यान् प्रति शुद्धकर्मानुष्ठातुं दोषान् शत्रूंश्च निवारयितुं यज्ञक्रियाफलं ज्ञातुं सम्यक् पुरुषार्थं कर्त्तुं विद्या विस्तारयितुं धर्मेण प्रजाः पालयितुं धर्मानुष्ठाने निर्भयतया स्थातुं सर्वैः सह मित्रतामाचरितुं वेदाध्ययनाध्यापनाभ्यां सर्वाविद्या ग्रहीतुं ग्राहयितुं शुद्धये परोपकाराय च प्रयतितुमाज्ञा दत्तास्ति सेयं सर्वैर्मनुष्यैर्यथावदनुष्ठातव्येति ॥ इति श्रीमत्परिव्राजकाचार्य्यश्रीयुतदयानदसरस्वतीस्वामिना सुविरचिते संस्कृतार्य्यभाषाविभूषिते यजुर्वेदभाष्ये प्रथमोऽध्यायः सम्पूर्णः ॥१॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. परमेश्वराकडून यज्ञाचे फळ असे मिळते की, यज्ञ हा सूर्यकिरणांच्या समवेत सर्व पदार्थांना शुद्ध व पवित्र करून त्यांना तेजस्वी शुद्ध, उत्तम, रसयुक्त, सुखकारक बनवून प्रसन्नता निर्माण करतो. परमेश्वर प्रत्यक्ष यज्ञीय पदार्थांना उत्पन्न करून त्याद्वारे जीवांना शरीर. बुद्धी व बल इत्यादी शुभगुणांनी युक्त करून त्यांना सुखी करतो.