टीका
॥ श्रीरस्तु ॥ श्रीमत्प्रणतार्तिहरवरदपरब्रह्मणे नमः ।
श्रीमते हयग्रीवाय नमः । श्रीमते रामानुजाय नमः । श्रीमते निगमान्तमहादेशिकाय नमः ।
श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
कवितार्किकसिंहसर्वतन्त्रस्वतन्त्र-श्रीमद्वेदान्ताचार्यविरचितम्
॥ ईशावास्योपनिषद्भाष्यम् ॥
येनाऽऽवास्यमिदं सर्वं चेतनाचेतनात्मकम् । विशुद्धसद्गुणौघं तं वासुदेवमुपास्महे ॥ १ ॥
सर्वेशानस्सहजमहिमा सर्वभूतान्तरात्मा सर्वान् दोषान् स्वयमतिपतन् सर्वविद्यैकवेद्यः ।
कर्माध्यक्षः कलुषशमनः कोऽपि मुक्तोपभोग्यः सिद्धोपायः स्फुरति पुरुषो वाजिनां संहितान्ते ॥ २ ॥
ईशावास्यमिदं सर्वमित्यादि यदनूच्यते । शिष्यं प्रति गुरोरेतद्ब्रह्मविद्यानुशासनम् ॥ ३ ॥
संहितोदाहृतं सर्वं विनियोगपृथक्त्वतः । विद्यार्थं स्यादिति व्यङ्क्तुं निबन्धोऽस्य तदन्ततः ॥ ४ ॥
मूलम्
ईशावास्यमिदँ सर्वं यत्किंच जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ॥ १
टीका
तत्र प्रथमम् अधिचिकारयिषितस्य (अचिद्विकाराधिष्ठितस्य) स्वतन्त्रात्मभ्रमादिपरिजिहीर्षया सर्वस्य परमपुरुषायत्तस्वरूपस्थितिप्रवृत्तित्वमभिप्रेत्याह - ईशावास्यमिदं सर्वं यत्किञ्च जगत्यां जगत् इति । इदं - तत्तत्प्रमाणसिद्धमीश्वरव्यतिरिक्तं चिदचिदात्मकम् । ईशा - ‘ज्ञाज्ञौ द्वावजावीशनीशौ’ इत्यादिषु जीवादत्यन्तविलक्षणतया प्रख्यातेन सर्वनियन्त्रा पुरुषोत्तमेन । वास्यम् - व्याप्यमित्यर्थः; सर्वाधारे स्वस्मिन् स्वेन वासनीयं वा । स्मर्यते हि - ‘सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः । ततः स वासुदेवेति विद्वद्भिः परिपठ्यते ॥’ इति । जगत्यामिति लोकान्तराणामुपलक्षणम् । जगत् - स्वरूपतो धर्मतो वाऽन्यथात्वं गच्छत् भोग्यभोक्तृरूपं वस्तुजातम् । अतदात्मकं किञ्चिदपि नास्तीति द्रढयितुं यत्किञ्चेति विशेष्यते । ‘इन्द्रियाणि मनो बुद्धिस्सत्त्वं तेजो बलं धृतिः । वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञमेव च ॥ इति ह्युपबृंहितम् ।
ननु ‘रूढिर्योगमपहरति’ इति न्यायादीशोऽत्र रुद्रः स्यात् । सर्वाद्युपपदाभावाच्च ॥ मैवम्; कारणविषयाकाशप्राणादिशब्दवत् रूढेरिह बाधितत्वात् । ‘एको ह वै नारायण आसीत्; न ब्रह्मा नेशानः’, ‘अनपहतपाप्माऽहमस्मि नामानि मे धेहि’ इत्यादिभिः असर्वकारणत्वेन कर्मवश्यत्वेन च सम्प्रतिपन्ने रुद्रे सर्वावास्यत्व-सर्वाधारत्वादेरसम्भवात् । तद्वत्तया प्रसिद्धे अनवच्छिन्नैश्वर्ये सर्वेश्वरे यौगिकोऽयं शब्दः प्रत्येतव्यः । यद्यपि प्रसिद्धवन्निर्देशाभावादाकाशादिवाक्यवैषम्यम्, तथाऽप्यैन्द्रीन्यायात् विरुद्धार्थविषयतयैव रूढिभङ्गोपपत्तिः । न चात्र ‘सर्वत्वमाधिकारिकम्’ इति न्यायः, सङ्कोचादृष्टेः ।
प्रवाहेश्वरानेकेश्वरपक्षौ तु त्रैकालिकसर्वनिर्वाहकेश्वरप्रतिष्ठापकैः प्रमाणैः(णगणैः) प्रत्यूढौ ।
अतः, ‘पतिं विश्वस्यात्मेश्वरम्’ इत्यादिप्रसिद्धानन्याधीनैश्वर्यम्, ‘योऽसावसौ पुरुषः’ इत्यनुवदिष्यमाणम्, ब्रह्मेशानजनकतयाऽनन्यथासिद्धवाक्यनिर्धारितम्, ‘एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायणः’ इत्यादिषु सर्वान्तर्यामित्वेन प्रख्यातम्, तत एव, ‘स ब्रह्मा स शिवः’ इत्यादिषु विभूतिभूतानां ब्रह्मशिवेन्द्रादीनां ‘विश्वमेवेदं पुरुषः’ इत्यत्र विश्वस्येव विशेष्यतयोक्तं नारायणमेव सर्वस्यऽऽवासमीशं वक्तुमुचितमेतद्वाक्यमित्यलमन्यरूढिप्रसङ्गरहितासमस्तपदाध्ययनानभिज्ञाश्रोत्रियचोद्योपालम्भेन ॥
एवं मुमुक्षोरीश्वरपारतन्त्र्यबोधमुत्पाद्य वैराग्यभूषितां वृत्तिमुपदिशति - तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् इति । तेन - जगता भोग्यताभ्रमविषयेण, त्यक्तेन - दोषभूयस्त्वदर्शनात् परित्यक्तेन उपलक्षितः सन् भुञ्जीथाः । अप्रतिषिद्धयोगधर्मोपयुक्तदेहधारणमात्रौपयिकं भोक्तव्यवर्गमित्यर्थप्रकरणाभ्यां सिद्ध्यति । यद्वा, सर्वावासत्वेन प्रकृतं निरतिशयभोग्यं वक्ष्यमाणोपायमुखेन भुञ्जीथाः इति योज्यम् । (कस्यस्वित्?) कस्यापि बन्धोरबन्धोर्वा धनं, मा गृधः - माऽभिकाङ्क्षः । आह च यमः किङ्करं प्रति ‘परमसुहृदि’ इत्यारभ्य, ‘शठमतिरुपयाति योऽर्थतृष्णां(?) …. पुरुषपशुर्न स वासुदेवभक्तः’ इति । इदं च धनायाप्रहाणं परमात्मेतरकृत्स्नविषयवैराग्योपलक्षणम् । स्मर्यते हि ‘परमात्मनि यो रक्तो विरक्तोऽपरमात्मनि’ इति ॥ १ ॥
मूलम्
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतँ समाः । एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ २
टीका
एवं विदुषः फलसङ्गकर्तृत्वादित्यागयुक्तं नित्यनैमित्तिकरूपं (विद्याङ्गभूतं) कर्म यावज्जीवमनुष्ठेयमित्याह - कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः इति । ब्रह्मविदोऽपि यावद्विद्यापूर्ति जीवनमिष्टं भवतीति ज्ञापनाय सन्प्रयोगः । शतमिति च प्रायिक(प्रायशत)विषयम् । शतं समाः, जीवन् - अधिकारानुगुणानि कर्माणि कुर्वीतैव । न कदाचिदपि विद्याङ्गं कर्म परित्यजेदित्यर्थः । अस्य वाक्यस्य फलसाधनभूतस्वतन्त्रकर्मविषयत्वे विशेषहेत्वभावस्सूत्रितः ‘नाविशेषात्’ इति । अर्थान्तरं च प्रकरणाविरुद्धम् अनन्तरसूत्रोक्तम् ‘स्तुतयेऽनुमतिर्वा’ इति । भाष्यम् - (3-4-14) “वाशब्दोऽवधारणार्थः । ‘ईशा वास्यमिदं सर्वम’ इति विद्याप्रकरणात् विद्यास्तुतये सर्वदा कर्मानुष्ठानानुमतिरियम् । विद्यामाहात्म्यात्सर्वदा कर्म कुर्वन्नपि न लिप्यते कर्मभिरिति हि विद्या स्तुता भवति । वाक्यशेषश्चैतदेव दर्शयति, ‘एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे’ इति” इति । त्वयि - ब्रह्मविद्याधिकारिणि एवमेवानुष्ठेयार्थः, इतोऽन्यथा नास्तीति व्यतिरेकेणोक्तं दृढीकारार्थम् । ननु ब्रह्मविदोऽपि कर्मानुष्ठानं स्वभावाद्बन्धकं स्यादित्यत्राह - न कर्म लिप्यते नरे इति । प्रस्तुतब्रह्मविदि नरे, ‘अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात्’ इति विनियोगपृथक्त्वन्यायेन कर्म न स्वर्गादिफललेपहेतुर्भवति । विद्यानुपयुक्तकाम्यानां निषिद्धानां च विरक्तेन विवेकिना न बुद्धिपूर्वोपादानसम्भवः । सम्भावितानामपि केषाञ्चित् ‘नाविरतो दुश्चरितात्’ इत्यादिबलात् स्वानुगुणा निष्कृतिस्स्यात् । तदधिगमाधिकरणे (4-1-7) तु प्रामादिकानामेवाश्लेषः परविद्यावतामपि स्थापितः । ज्ञानाग्निदग्धाधिकारो विधिनिषेधानधिकारीति पक्षस्तु न वेदवित्सम्मतः ॥ २ ॥
मूलम्
असुर्या नाम ते लोका अन्धेन तमसावृताः । तांस्ते प्रेत्याभिगच्छन्ति ये केचात्महनो जनाः ॥ ३
टीका
वक्ष्यमाणविद्यायां शीघ्रप्रवृत्त्यर्थम् - उक्तप्रकारब्रह्मवेदनविधुरतया वित्तैषणादियोगाच्च अन्यथाभवद्भिर्ज्ञानानुष्ठानैरात्मघातिनां निरयपातोऽवश्यम्भावीत्याह - असुर्या …. जना इति । असुर्याः - ‘असुरस्य स्वम्’ इति यत् । आसुरप्रकृतीनामनुभाव्या इत्यर्थः । नामेति प्रसिद्धौ । ते - नरकसंज्ञिता भीषणतमा लोकाः सन्ति । पुनस्तान् विशिनष्टि - अन्धेन तमसा वृताः । गाढेनान्धकारेण व्याप्ताः । तान् - आलोकप्रसङ्गरहितान्, ते - स्वात्मघातिनः । प्रेत्य - तदातनदेहादुत्क्रम्य । अभिगच्छन्ति - कार्त्स्न्येन निरन्तरं प्राप्नुवन्ति । ये के च - देवजातीया मनुष्यजातीया वा, तथा ब्राह्मणाः क्षत्रियादयो वा । आत्महनः - ‘असन्नेव स भवति, असद्ब्रह्मेति वेद चेत्’ इत्या(त्यादिनाऽऽ)म्नातामसत्कल्पतां स्वात्मानं नयन्तः । देहघा(पा)तमुखेन पातकवर्गोपलक्षणमि(णं त्वि)दम् । जनाः - जनिमन्तः । संसरन्त इत्यर्थः ॥ ३ ॥
मूलम्
अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन् पूर्वमर्षत् । तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥ ४
टीका
सर्वावासत्वेन प्रस्तुतमीश्वरतत्त्वं विरुद्धवदभिलापव्यञ्जितेन विचित्रशक्तियोगेन विशदयति - अनेजदेकं मनसो जवीय इति । अनेजत् - अकम्पमानम् । एकम् - प्रधानभूतम्, स्वानधीनस्वसमानद्वितीयरहितं वा (स्वाधीनस्वसमानद्वितीयरहितं वा) (स्वाधीनं समानद्वितीयरहितं वा) (अस्वाधीनस्वसमानद्वितीयरहितम्), मनसो जवीयः - वेगवत्तरान्मनसोऽप्यतिशयितजवम् ।
नन्विदं न जाघटीति निष्कम्पत्वं वेगवत्तरत्वं चेति । मैवं, तात्पर्यवृत्त्या सुघटितत्वात् । सर्वस्य स्वेन नित्यव्याप्तत्वादनेजत्, सर्वदा मनसो गोचरदेशमतिक्रम्य वृत्तेः मनसो जवीय इत्युपचर्यते । एवमुत्तरेष्वपि वाक्येषु भाव्यम् । नैनद्देवा आप्नुवन् पूर्वमर्षत् - एनत् - प्रकृतमेकतत्त्वं, पूर्वमर्षत् - प्रागेव सर्वान् प्राप्नुवत्, देवाः - हिरण्यगर्भादयः, नाप्नुवन् - एतावन्तं कालं न लेभिरे । विभुत्वेन नित्यप्राप्तमपि कर्मप्रतिबद्धज्ञानाः क्षेत्रज्ञाः विद्याधिगमात्पूर्वं स्वया बुद्ध्या न प्राप्नुवन्तीति न विरोधः । यथोक्तं छान्दोग्ये, ‘तत् यथा हिरण्यनिधिमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुः, एवमेवेमाः सर्वाः प्रजाः अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति; अनृतेन हि प्रत्यूढाः’ इति । तद्द्धावतोऽन्यानत्येति तिष्ठत् - ‘यः पृथिव्यां तिष्ठन्’, ‘य आत्मनि तिष्ठन्’ इत्यादिक्रमेण तत् सर्वत्र तिष्ठदेव धावतो गरुडादीन् अप्यत्येति । यावद्यावत् धावन्ति जविनः, तावतः परस्तादपि वर्तत इत्यर्थः । यथोच्यते ‘वर्षायुतशतेनापि पक्षिराडिव सम्पतन् । नैवान्तं कारणस्येयात् यद्यपि स्यान्मनोजवः ॥’ इति । अन्येषां क्वचित्तिष्ठतां धावदतिक्रमणं नास्तीति वैचित्री । अन्यदपि किञ्चिदाश्चर्यमित्याह - तस्मिन्नपो मातरिश्वा दधातीति । तस्मिन्नवस्थितः पतनप्र(अप्र)तिबन्धानुगुणकाठिन्यादिरहितोऽपि वायुः अपो बिभर्ति । सर्वाधारभूतेन सर्वेश्वरेण विधृतः सन् मातरिश्वा तच्छक्त्यैव पाथःपयोधरनक्षत्रग्रहतारकादिकं बिभर्तीत्युक्तं भवति । स्मर्यते हि - ‘द्यौस्सचन्द्रार्कनक्षत्रं खं दिशो भूर्महोदधिः । वासुदेवस्य वीर्येण विधृतानि महात्मनः ॥’ इति ॥ ४ ॥
मूलम्
तदेजति तदु नैजति तद्दूरे तद्वन्तिके । तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥ ५
टीका
अनेजदेकं मनसो जवीयः इत्युक्तमर्थमादरान्मुखान्तरेणानुशास्ति - तदेजति तदु नैजतीति । तत् - व्याप्तं तत्त्वं पूर्वोक्तप्रकारेण जवीयस्त्वादिना, एजति - कम्पते । कम्पत इवेत्यर्थः । तदु नैजति - तदेव वस्तुवृत्त्या न कम्पते ।
तद्दूरे तद्वन्तिके - तद्दूरे वर्तते । तदेव अन्तिके - अदूरे समीपे वर्तते । मूढप्रतिबुद्धपुरुषभेदापेक्षया विभोरेव दूरान्तिकवर्तित्वव्यपदेशः । यथाऽऽह शौनकः - ‘पराङ्मुखानां गोविन्दे विषयासक्तचेतसाम् । तेषां तत्परमं ब्रह्म दूराद्दूरतरे स्थितम् ॥ तन्मयत्वेन गोविन्दे ये नरा न्यस्तचेतसः । विषयत्यागिनस्तेषां विज्ञेयं च तदन्तिके ॥’ इति ।
केचित्पदार्थाः कस्यचिदन्तर्भवन्ति, न बहिः । केचित् बहिर्भवन्ति, नान्तः । तदुभयव्यावृत्तिमाह - तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यत इति । तत् - सर्वव्याप्तमुक्तं परं ब्रह्म । अस्य - विचित्रचिदचिद्रूपेण प्रमाणसिद्धस्य सर्वस्य वस्तुनः, अन्तर्भवति - अप्रतिघातादविभक्तदेशं वर्तत इत्यर्थः । तदेव सर्वस्यास्य बहिरपि भवति । परिमितानां पदार्थानां भावदेश इवाभावदेशेऽपि वर्तत इति यावत् । तदेतद्व्यक्तमुक्तं तैत्तिरीये सर्वपरविद्योपास्यविशेषनिर्धारणार्थे सहस्रशीर्षम् इत्यनुवाके - ‘यच्च किञ्चिज्जगत्यस्मिन् दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ॥’ इति ॥ ५ ॥
मूलम्
यस्तु सर्वाणि भूतानि आत्मन्येवानुपश्यति । सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ६
टीका
एवं सर्वस्य ब्रह्मात्मकत्वमुक्तम् । अथ तद्विदः साम्प्रतिकं प्रयोजनमाह - यस्तु …. जुगुप्सत इति । ब्रह्मविन्माहात्म्यविशेषद्योतनाय तुशब्दः । सर्वाणि भूतानि - ब्रह्मादिस्थावरान्तानि । अत्रात्मशब्दः सङ्कोचकाभावात् प्रकरणादर्थस्वभावाच्च सर्वान्तरात्मविषयः । पृथिव्यादिभिर्ध्रियमाणमपि तन्मुखेन परमात्मन्येव स्थितमित्येवकाराभिप्रायः । अनुपश्यति - अनुस्यूतं विशदं निध्यायति । सर्वभूतेषु चात्मानमिति व्याप्तिमात्रपरम् । तस्य तैर्धार्यत्वाभावात् । स इति प्रतिनिर्देशोऽध्याहार्यः । ततो न विजुगुप्सते - ब्रह्मात्मकत्वेनानुदृष्टेपु सर्वेषु स्वात्मविभूतिन्यायात् कुतश्चिदपि न विजुगुप्सते । क्वचिदपि निन्दां न करोतीत्यर्थः ॥ ६ ॥
मूलम्
यस्मिन् सर्वाणि भूतानि आत्मैवाभूद्विजानतः । तत्र को मोहः कश्शोक एकत्वमनुपश्यतः ॥ ७
टीका
पुनरपि सर्वस्य ब्रह्मात्मकत्वं सामानाधिकरण्येन द्रढयन् तस्यानुदर्शनस्य सद्यः शोकनिवर्तकत्वमाह - यस्मिन् …. पश्यत इति । यस्मिन् - प्रणिधानसमये । विजानतः - स्वतन्त्रवस्तुभेदं सम्यगुपदिष्टेन मार्गेण (सद्गुरूपदिष्टेन) शास्त्रेण विविच्य जानतः । आत्मैव सर्वाणि भूतान्यभूत् - परमात्मैव सर्वविशिष्टः प्रतीतः इत्यर्थः । देवोऽहम् इत्यादिवत् लोकवेदमर्यादया शरीरात्मभावेन जगद्ब्रह्मसामानाधिकरण्ये सम्भवति बाधोपचारस्वरूपैक्यादिपक्षाः बहिष्कार्याः । तत्र - तदा, को मोहः - स्वतन्त्रात्मभ्रमादिलक्षणो मोहो न सम्भवतीत्यर्थः । कः शोकः - परविभूतिभूते सर्वस्मिन् निर्ममत्वसिद्ध्या पुत्रमरण-राज्यहरणादावपि न कश्चिच्छोकः स्यादित्यर्थः । यथाऽऽह - ‘अनन्तं बत मे वित्तं यस्य मे नास्ति किञ्चन । मिथिलायां प्रदीप्तायां न मे किञ्चित्प्रदह्यते ॥’ इति । एकत्वमनुपश्यतः - सर्वविशिष्टैक्यमनुपश्यतः ।
न ह्ययमेकशब्द एकव्यतिरिक्ताभावपरः, ‘ईशा वास्यमिदं सर्वम्’ इति ईश्वरव्याप्तत्वेन प्रक्रान्तस्य कस्यचित् केनचिद्बाधाभावात् । सर्वभेदमिथ्यात्ववेदनावेदनयोः कथञ्चिदपि तादृशैक्योपदेशादिप्रवृत्त्ययोगाच्च । न चासौ परस्परविरुद्धानां स्वरूपैक्यप्रतिपादकः, सर्वव्याघातोत्सादने स्वपरमतविवेकादिविप्लवप्रसङ्गात् । विशिष्टैकत्व(विशेष्यैक्य)विवक्षा तु सर्वप्रमाणानुगुण्यात् भाव्यते । ततोऽपि वरमत्र प्रकृतसामानाधिकरण्यनिर्वाहानुगुणसम्बन्धविवक्षा । प्रयुज्यते हि सम्बन्धविशेषविवक्षया ‘रामसुग्रीवयोरैक्यम्’ इत्यादिष्वेकशब्दः ।
एतौ च श्लोकौ यद्यपि मुक्तविषयतया नेतुं शक्यौ, तथाऽपि पूर्वानुगुण्यान्मुमुक्षुप्रशंसार्थत्वमुचितम् । ततश्च वैशद्यातिशयविवक्षया शास्त्रजन्यज्ञाने तन्मूलोपासनात्मकज्ञाने चानुदर्शनवाचोयुक्तिः । समाधिविशेषफलभूतस्त्वद्यतनः साक्षात्कारः उपायत्वेनाभिहितत्वान्नात्र प्रशंसनीयः । मोक्षोपायोपदेशपरेषु सर्वेषु वाक्येषु दर्शनशब्द उपासनविषय इति शारीरकभाष्ये प्रत्यपादि ॥ ७ ॥
मूलम्
स पर्यगाच्छुक्रमकायमव्रणमस्राविरँ शुद्धमपापविद्धम् । कविर्मनीषी परिभूस्स्वयंभूर्याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यस्समाभ्यः ॥ ८
टीका
पुनरप्येनम् ईशेशितव्यतत्त्ववेदिनं वेदितव्यविशेषशोधनेन च विशिनष्टि - स पर्यगात् …. समाभ्यः इति ।
सः - सर्वभूतान्तरात्मभूतब्रह्मदर्शी, पर्यगात् - पर्यगच्छत्; प्राप्नुयात् इत्यर्थः । ‘ब्रह्मविदाप्नोति परम्’ इति न्यायात् । समाधिलब्धेनानुभवेन प्राप्तवानिति सिद्धानुवादो वा, ‘अत्र ब्रह्म समश्नुते’ इतिवत् । शुक्रम् - अवदातं स्वप्रकाशरूपम् । अकायम् - सर्वशरीरकमपि कर्मकृतशरीररहितम् । अत एव अव्रणम् अस्नाविरञ्च । शुद्धम् - अनाघ्राताज्ञानादिदोषम् । अपापविद्धम् - अज्ञानादिकार्यकारणभूतपुण्यापुण्यरूपकर्मानालीढमित्यर्थः । ‘न सुकृतं न दुष्कृतम्’ इत्यारभ्य ‘सर्वे पाप्मानोऽतो निवर्तन्ते’ इति हि निगम्यते । एवमशेषहेयप्रत्यनीकः परमात्मा मुमुक्षोः प्राप्यः प्रापक उपास्यश्चेत्युक्तं भवति (उपास्यश्च स्यात्) ।
स इत्युक्तमेव ब्रह्मविदमतीन्द्रियसर्वार्थदर्शित्वादिना विशिनष्टि । कविः - क्रान्तदर्शी । व्यासादिवत् परतत्त्व(तद्गुण)बोधनानुगुणप्रबन्धनिर्मातेति वाऽर्थः । मनस ईशित्री बुद्धिः मनीषा, तद्वान् मनीषी । अभ्यासवैराग्याभ्यां निगृहीतान्तःकरण इत्यर्थः । परिभूः - परितो भवतीति परिभूः - विद्यान्तरवतः सर्वान् अतिक्रम्य वर्तते । कामक्रोधलोभादीन् दुर्जयान् अरातीन् अभिभवतीति वा । स्वयम्भूः - अन्यनिरपेक्षसत्ताकः, नित्यात्मस्वरूपदर्शीति यावत् । याथातथ्यतोऽर्थान् व्यदधात् - परमपुरुषार्थतदुपायतद्विरोधिप्रभृतीन् सर्वान् पदार्थान् यथावद्विविच्य हृदयेन धृतवान् । शाश्वतीभ्यः समाभ्यः - यावद्ब्रह्मप्राप्ति सर्वप्रत्यूहशमनार्थमिति भावः ।
यद्वा प्रथमान्तं च द्वितीयान्तं च पदजातं क्रमात् परावरात्मविषयतया व्याख्येयम् । तदा शुक्रम् इत्यादिकं सर्वोपाधिविनिर्मुक्तपरिशुद्धजीवपरम् । तमपि च, सः - परमात्मा, पर्यगात् - परितो व्याप्य स्थितः । कविः इत्यादिकं सुगमम् । याथातथ्यत इत्यादि । अर्थान् - कार्यपदार्थान्, शाश्वतीभ्यस्समाभ्यः - यावद्विलयमवस्थातुं, याथातथ्यतो व्यदधात् - न पुनरैन्द्रजालिकवत्केवलं प्रकाशितवान् ॥ ८ ॥
मूलम्
अन्धं तमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमो य उ विद्यायाँ रताः ॥ ९
टीका
एवं विचित्रशक्तिपरमात्मविषयां कर्माङ्गिकां विद्यामुपदिश्यानन्तरं केवलकर्मावलम्बिनः केवलविद्यावलम्बिनश्च निन्दन् वर्णाश्रमधर्मानुगृहीतया विद्ययैव निश्श्रेयसावाप्तिरित्याह - अन्धं तमः प्रविशन्ति येऽविद्यामुपासत इत्यादिना । ये - भोगैश्वर्यादिप्रसक्ताः, अविद्यां - कर्म, ज्ञानविधुरकर्ममात्रम् । ‘अविद्या कर्मसंज्ञाऽन्या तृतीया शक्तिरिष्यते’ इति हि स्मर्यते । उपासते - एकान्तमनसोऽनुतिष्ठन्तीत्यर्थः । अन्धम् - अतिगाढम् । तमः - अज्ञानम्, त्रिवर्गाभिषङ्गात् नान्तरीयकं नारकं तमो वा । केवलकर्मनिरतानां दुःखानुवृत्तिमधीयते च आथर्वणिकाः - ‘प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म । एतच्छ्रेयो येऽभिनन्दन्ति मूढाः जरामृत्यू ते पुनरेवापियन्ति ॥’ इति ।
ततो भूय इव ते तमो य उ विद्यायां रताः - कर्ममात्रनिष्ठप्राप्यादन्धतमसादधिकं तमः स्वाधिकारोचितकर्मपरित्यागेन विद्यामात्रे रताः प्रविशन्ति । इवशब्दस्तमस इयत्ताया दुर्ग्रहत्वं द्योतयति । उकार उत्तरपदेनान्वेतव्यः । विद्यायामेव रताः इत्यर्थः ॥ ९ ॥
मूलम्
अन्यदेवाहुर्विद्यया अन्यदाहुरविद्यया । इति शुश्रुम धीराणां ये नस्तद्व्याचचक्षिरे ॥ १०
टीका
किं तर्हि मोक्षसाधनमित्यत्राह - अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्ययेति । अत्र व्यत्ययानुशासनात् पञ्चम्यर्थे तृतीया, अन्यथा अनन्वयात् । अन्यदेवाहुस्सम्भवात् इति वक्ष्यमाणसारूप्याच्च । एवं केवलकर्मणः कर्मनिरपेक्षविद्यातश्चान्यत् मोक्षसाधनमित्युक्तं भवति । आहुः - पूर्वाचार्या इति शेषः । औचित्यादुपनिषद इति वा । पूर्वपूर्व(सत्)सम्प्रदायसिद्धोऽस्माकमयमर्थ इत्याह - इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे । ये - पूर्वाचार्याः, नः - प्रणिपातादिभिः सम्यगुपसन्नानामस्माकम्, तत् - मोक्षसाधनम्, विचचक्षिरे - विविच्योपादिक्षन् । तेषां धीराणाम् - परमात्मध्यानपराणाम् । वचनमित्यध्याहार्यम् । नटस्य शृणोतीतिवद्वा कथञ्चित् पञ्चम्यर्थे षष्ठी । इति शुश्रुम - एवम्प्रकारमश्रौष्म । ब्रह्मविद्याया दुरवगाहत्वेन निश्शेषग्रहणाशक्यत्वाभिप्रायोऽत्र लिडुत्तमः ॥ १० ॥
मूलम्
विद्यां चाविद्यां च यस्तद्वेदोभयँ सह । अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥ ११
टीका
अन्यदिति सङ्ग्रहेणोक्तं विवृणोति - विद्यां चाविद्यां च यस्तद्वेदोभयं सहेति । यः - यथावस्थितोपदेशवान्, विद्याम् - परमात्मोपासनरूपाम्, अविद्याम् - तदङ्गभूतकर्मात्मिकां, च तदुभयम् - परस्परविरोधप्रसङ्गरहितम् । सह वेद - अङ्गाङ्गिनोरप्यनुष्ठेयत्वसाम्यादुभयं सह वेदेत्यविशेषेण वेदनीयतोक्तिः, न पुनर्हेयोपादेययोः ज्ञातव्यत्वसाम्यात् ॥ पूर्वमविद्याया निन्दनात् तदौचित्यमिति चेत्, तर्हि विद्याया अपि निन्दिततया हेयद्वयसमुच्चयोक्तिप्रसङ्गः । तथा सत्युत्तरवाक्यमपि विघटेत, अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुत इति । अय(तदय)मर्थः - विद्याङ्गतया चोदितकर्मणा, मृत्युम् - ज्ञानसङ्कोचरूपमृतिहेतुं प्राक्तनं कर्म । तीर्त्वा - निरवशेषमुल्लङ्घ्य । विद्यया - पूर्वोक्तपरमात्मानुदर्शनरूपया, अमृतमश्नुते - ‘एतदमृतमभयमेतद्ब्रह्म’ इत्यादिषु सर्वदोषरहितत्वेन प्रतीतं परमात्मानं प्राप्नोतीत्यर्थः (तीति?) । अत्रामृतशब्दस्य मोक्षपरत्वेऽपि न पुनरुक्तिः । मृत्युं तीर्त्वेत्यस्योपायविरोधितरणपरत्वात्, अमृतमश्नुत इति प्राप्तिविरोधिनिवृत्तिलाभोक्तेः ।
अत्र ‘अविद्यया मृत्युं प्राप्य स्थिताः’ इति व्याचक्षाणाः निर्बाधं पदवाक्यस्वारस्यमुपबृंहणं च प्रस्मृत्य स्वाविद्यया स्वयमेव मृत्युं प्राप्य स्थिताः । एतदेव वाक्यमनुसंहितं वैष्णवे पुराणे - ‘इयाज सोऽपि सुबहून् यज्ञान् ज्ञानव्यपाश्रयः । ब्रह्मविद्यामधिष्ठाय तर्तुं मृत्युमविद्यया ॥’ इति । इह त्वविद्याशब्दः प्रकरणादौचित्याच्च विद्याङ्गकर्मविषय इत्यभाषि भाष्यकारैः, ‘अत्राविद्याशब्दाभिहितं वर्णाश्रमविहितं कर्म’, ‘मृत्युतरणोपायतया प्रतीता अविद्या विद्येतरत् विहितं कर्मैव’ इति । विद्यां पर्युदस्यन् अयमविद्याशब्दः क्षत्रियादिविषयाब्राह्मणशब्दादिवत् आसन्नतदन्यवृत्तिरन्तरङ्गकर्मविषय इति भावः । एवं, ‘तपो विद्या च विप्रस्य निःश्रेयसकरावुभौ । तपसा कल्मषं हन्ति विद्ययाऽमृतमश्नुते ॥’ इत्याद्युपबृंहणान्यपि सुसङ्गतानि भवेयुः ।
ये पुनरिह विद्याकर्माख्यसाधनद्वयसमुच्चयं मृत्युतरणामृतत्वप्राप्तिरूपसाध्यद्वित्वं च वर्णयन्ति, तेषां कर्मज्ञानयोरङ्गाङ्गिभावं विद्ययैव मृत्युतरणं च व्यक्तं प्रतिपादयद्भिः श्रुतिस्मृतिसूत्रगणैर्यथाभाष्यमुत्तरं देयम् । विषमसमुच्चयवादेऽपि यथाभागं (गमम्) सन्निपत्योपकारकत्वसम्भवे गत्यन्तरगमनिका नीतिविद्भिर्न सम्मन्यते ॥ ११ ॥
मूलम्
अन्धं तमः प्रविशन्ति येऽसंभूतिमुपासते । ततो भूय इव ते तमो य उ संभूत्याँ रताः ॥ १२
टीका
तदेवमुपास्यं परमात्मतत्त्वं साङ्गतदुपासनरूपं च परमहितं परमपुरुषार्थपर्यन्तमुपदिश्य, अनन्तरं त्रिभिः श्लोकैः प्रतिबन्धनिवृत्ति-परब्रह्मानुभवरूपयोः फलपर्वणोः समुच्चित्यानुसन्धानं विद्याङ्गत्वेनोपादेयमित्युच्यते । तत्र प्रथममेकैकमात्रानुसन्धानं निन्दति - अन्धं तमः …. रता इति । ‘एतमितः प्रेत्याभिसम्भविताऽस्मि’, ‘धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवानि’ इत्यादिषु ब्रह्मप्राप्तिरूपा सम्भूतिरुक्ता । तां पर्युदस्यन् अयमसम्भूतिशब्दः तदासन्नप्रतिबन्धविनाशमभि(सं)धत्ते । ‘सम्भूतिं च विनाशं च’ इत्यपि ह्यनन्तरमुच्यते । न चात्रासम्भूतिशब्देन सम्भूतेरनुत्पत्तिः विनाशो वा प्रतिपाद्यः, अमृतप्राप्तिहेतुतयोक्तायाः सम्भूतेः प्रागभावस्य प्रध्वंसस्य वा मृत्युतरणहेतुत्वेन वक्तुमयुक्तत्वात् । अत्रापि तरतेः प्राप्तिवचनत्वं पूर्ववत् प्रतिक्षेप्यम् ॥ १२ ॥
मूलम्
अन्यदेवाहुस्संभवादन्यदाहुरसंभवात् । इति शुश्रुम धीराणां ये नस्तद्व्याचचक्षिरे ॥ १३
टीका
अन्यदेवेति । अत्र तच्छब्दः समुच्चित्यानुसन्धेयतया वक्ष्यमाणद्वितयं वक्ति ॥ १३ ॥
मूलम्
संभूतिं च विनाशं च यस्तद्वेदोभयँ सह । विनाशेन मृत्युं तीर्त्वा संभूत्याऽमृतमश्नुते ॥ १४
टीका
अत्रापि अन्यत् इत्युक्तं विवृण्वन् विद्याङ्गमुभयानुसन्धानमाह - सम्भूतिं …. सहेति । तस्यैव फलप्रदर्शनेनावश्यकर्तव्यतां स्थापयति - विनाशेन ….. अश्नुत इति । अनुसन्धीयमानेन विनाशेन प्रतिबन्धमपोह्य, सम्भूत्याऽनुसन्धीयमानया ब्रह्म प्राप्नोति । सम्भूतिविनाशानुसन्धानरूपेऽङ्गे स्तुत्यर्थं यथोचितमङ्गिफलनिर्देशः । यद्वा विनाशेन मृत्युं तीर्त्वा इति पूर्वोक्तसरूपशब्दे विरूपार्थपरिहाराय विनाशशब्देन मानदम्भादीनां, हिंसास्तेयादीनां बहिर्मुखेन्द्रियवृत्तीनां च विनाशो विवक्षितः । अतो विरुद्धनिवृत्तिरूपाङ्गसेवनेन समाधिविरोधिपापमपाकृत्य समाधिनिष्पत्तिरूपब्रह्मसम्भूत्या तदेवाश्नुते ।
अत्र सम्भूतिविनाशशब्दाभ्यां सृष्टिप्रलयादिविवक्षया मृत्युतरणामृतप्राप्तिरूपफलविभागवचनस्यौचित्यलवोऽपि नोपलभ्यते ॥ १४ ॥
मूलम्
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् । तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ १५
टीका
अथ एवं फलपर्यन्तसाङ्गब्रह्मविद्यानिष्ठस्यानुसन्धेया मन्त्रा उपदिश्यन्ते । तेषु च पूषादिशब्दाः सर्वशब्दवाच्यं परमात्मानमनुसन्दधतां तद्देवताप्रणाड्या साक्षाद्वा तत्पर्यन्ताः । अत्र हि यमसूर्यादिशब्दानामेकविषयत्वं स्वरसगतं तथासत्येवोपपद्यते । तत्र प्रथमेन मन्त्रेण पूषशब्दविवक्षितं भगवन्तं प्रति प्रस्तुतां समाधिप्रतिबन्धनिवृतिं प्रार्थयते - हिरण्मयेन …. दृष्टये इति ।
सत्यशब्दोऽत्र जीवपरः । ‘सत्यं चानृतं च सत्यमभवत्’, ‘अथ नामधेयं सत्यस्य सत्यम्; प्राणा वै सत्यम्; तेषामेष सत्यम्’ इत्यादिषु जीवेऽपि तत्प्रयोगात् । तस्य मुखम् - अनेकेन्द्रियावष्टम्भतया मुखवदवस्थितं मनः, हिरण्मयेन पात्रेण अपिहितं - रागात्मकतया हिरण्मयसदृशेन रजोमयेन पात्रेण परमात्मविषयवृत्तिप्रतिरोधकेन च्छादितम् । हृदि सन्निहिते परमात्मविषये निरुद्धवृत्तिकमित्यर्थः । रजःकथनं तमसोऽप्युपलक्षणम् । हिरण्मयशब्देन कर्माधीनभोग्यवर्गप्रदर्शनं वा । तत् - जीवस्य मुखस्थानीयं मनः, पूषन् - आश्रितपोषणस्वभाव, अपावृणु - निरस्तपिधानं कुरु । कस्य हेतोः? सत्यधर्माय दृष्टये । सत्यस्य जीवस्य धर्मभूताय पूर्वोक्तब्रह्मानुभवदर्शनायेत्यर्थः ॥ १५ ॥
मूलम्
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह तेजः । यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषस्सोऽहमस्मि ॥ १६
टीका
पुनरपि तया दृष्ट्या द्रष्टव्यं विशिंषन् दृष्ट्यनुगुणमभ्यर्थयते - पूषन्नेकर्षे …. पश्यामि इति ।
एकर्षे - अद्वितीयातीन्द्रियद्रष्टः । यम - सर्वान्तर्यामिन् । सूर्य - स्वभक्तबुद्धीनां सुष्ठु प्रेरक । प्राजापत्य - प्रजापतिप्रसूतस्य सर्वस्यान्तर्यामिन् । अविवक्षितप्रत्ययार्थो वा प्राजापत्यशब्दः । प्रजानां पत इत्यर्थः । व्यूह रश्मीन् समूह तेजः - स्वस्वरूपप्रकाशानौपयिकान् स्वोग्ररश्मीन् व्यपोह; प्रभात्मकं च तेजः समूढं कुरु । यत् - आदित्यवर्णम् इत्यादिप्रसिद्धम्, सर्वेभ्यः कल्याणेभ्योऽतिशयितकल्याणं शुभाश्रयभूतं ते दिव्यं रूपं, तत् पश्यामि । अत्र वर्तमानव्यपदेशः उत्तरवाक्यवत् तात्कालिकानुसन्धानानुवादः । प्रार्थनाप्रकरणानुरोधे तु व्यत्ययेन, पश्येयमिति लिङर्थो ग्राह्यः । (ते इत्यस्य) पुनरुक्तिः तदसाधारण्यज्ञापनार्था । त्वदर्थं पश्यामीति वा निरुपाधिकशेष(षि)त्वानुगुणोक्तिः ।
अथान्तरात्मनोऽहङ्ग्रहेणानुसन्धान(णोपासन)माह - योऽसावसौ पुरुषः सोऽहमस्मि इति । वीप्सा अत्यादरव्यञ्जनार्था । यद्वा ‘योऽसावतीन्द्रियग्राह्यः सूक्ष्मोऽव्यक्तस्सनातनः । सर्वभूतमयोऽचिन्त्यः स एष स्वयमुद्बभौ ॥’ इत्यादिवाक्यच्छायया यत्तच्छब्दाभ्यामदश्शब्दौ विभज्यान्वेतव्यौ । तौ च सर्वेन्द्रियदूरत्वप्रमाणप्रसिद्धत्वद्योतनार्थौ । पुरुषः - पूर्णत्व(पुरिशयत्व)पूर्वसत्त्वादिगुणकः आदित्यवर्णविग्रहविशिष्टः सर्ववेदपठितानन्यपरपुरुषसूक्तादिप्रसिद्धो महापुरुषः । सोऽहमस्मि - अहंशब्दोऽत्र जीवद्वारा तदन्तरात्मपर्यन्तः । अत एव अस्मीत्यपि प्रत्यग्रूपस्वविशिष्टे परमात्मनि विश्राम्यति । ‘अस्मद्युत्तमः’ इत्येतावदेव ह्यनुशिष्टम्; न पुनरस्मच्छब्दस्य प्रत्यगात्मद्वारा परमात्मपर्यन्ततायामुत्तमनिवृत्तिः । एवं ‘तत्त्वमसि’ इत्यादिष्वसिशब्दोऽपि निर्वाह्यः । तत्र हि, ‘युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः’ इत्येतावदेव हि स्मर्यते । न तु युष्मच्छब्दस्य स्वाभिमुखचेतनद्वारा तदन्तर्यामिपर्यन्तत्वे मध्यमनिवृत्तिः । लोके हि अहं त्वमस्मि, त्वमहमसीत्याद्युपचारप्रयोगेषु उद्देश्यानुसारेण मध्यमोत्तमयोर्व्यवस्था । तद्वदत्रापि, ‘त्वं वा अहमस्मि भगवो देवते’ इत्यादिषु युष्मदस्मदोः सहप्रयोगेऽपि व्यवस्थोपपद्यते; उद्देश्यविषययोरेवात्र युष्मदस्मच्छब्दयोरुपपदत्वेन सूत्रकृदभिप्रेतत्वात् । भाष्ये तु तत्त्वमसिनिरूपणावसरे ‘नात्र किञ्चिदुद्दिश्य किमपि विधीयते’ इत्युक्तिरप्राप्तांशनिषेधाभिप्राया व्यक्ता; उपसंहारत्वोपपादनात् ।
ये पुनः ‘तत्त्वमसि’, ‘सोऽहमस्मि’ इत्यादिषु कार्यकारणोपाध्याकारविधूननेन निर्विशेषस्वरूपैक्यं वाक्यवेद्यमाहुः, तेषाम् असिवत् अस्मिरपि खण्डकः । श्रोतर्यनुसन्धातरि च युष्मदस्मदी हि परित्यक्ते । न ह्यसिना कश्चित् प्रतिबोधनीयः; न च कश्चिदस्मिना विशिष्यानुसन्धेयः । विधूननीयोपाधिविषयव्युत्पत्तिमच्छब्दसन्निधिमात्रोपजीवनेन क्व(कथं)चिन्मध्यमोत्तमसम्पत्तिरिति चेत् - ततो वरमपरित्यक्तप्रवृत्तिनिमित्तमास्माकं निर्वहणमनुसर्तुम् ।
सन्मात्रस्यांशिनः अंशद्वयविशिष्टताप्रतिपादनं वदतामपि, सन्मात्रविवक्षायामत्र (तावन्मात्रविवक्षयाऽत्र) वाक्ये त्वमहम्भावायोगात्, त्वन्ताऽहन्ताविशिष्टं सदिति विशिष्टविवक्षायामपि प्रथमपुरुषोपनिपातप्रसङ्गात्, दृश्ययोश्च (अत्रत्ययोश्च) युष्मदस्मदर्थयोः, मृत्पिण्डांशे मणिक इव घटशरावाकारयोः, सदंशभूतेश्वराकारेऽपि समन्वययोगात्, त्वमहमर्थयोः सत्ताद्याकारस्य नित्यप्रतिपन्नतया विशेषतोऽनिर्दे(नुपदे)श्यत्वादननुसन्धेयत्वाच्च न कथञ्चिदपि ‘तत्त्वमसि’, ‘सोऽहमस्मि’ इत्यादेर्निर्वाहः शक्यः ।
दृष्टिविधिस्तु मोक्षार्थविद्यासु वेदान्तवेदिना नाङ्गीक्रियते । यद्यप्यत्र ‘त्वं राजाऽसि, अहं राजाऽस्मि’ इत्यादिवत् तादधीन्याद्युपचारविवक्षया(क्षायां) मध्यमोत्तमयोः सामञ्जस्यं, तथाऽपि लोकवेदयोः चेतनपर्यन्तदेवमनुष्यादिव्यवहारन्यायेन जातिगुणशब्दगतिलाभात् तदुपेक्षा ।
नन्वेवं पुरुषाख्यस्वेतरात्मसामानाधिकरण्यक्लेशं परित्यज्य, ‘योऽसावसौ पुरुषः सोऽहमस्मि’ इति परिशुद्धस्वरूपमात्रानुसन्धानपरमिदं वाक्यमस्तु ॥ मैवम्; ‘तत्त्वमसि’, ‘त्वं वा अहमस्मि’ इत्यादिषु तदनुपपत्तेः अत्रापि तत्समानन्यायतया तथैवानुसन्धानस्यौचित्यात् । ब्रह्मात्मकोऽहमस्मि इति परविद्याङ्गभूतस्वात्मानुसन्धानपरत्वेऽपि तच्छब्देन तादधीन्यादिकं लक्षणीयं स्यात् ॥ १६ ॥
मूलम्
वायुरनिलममृतमथेदं भस्मान्ँत शरीरम् । ओं क्रतो स्मर कृतँ स्मर क्रतो स्मर कृतँ स्मर ॥ १७
टीका
अनन्तरं तु परिशुद्धात्मस्वरूपमुच्यते - वायुरनिलममृतम् इति । विद्याकर्मानुसारेण तत्रतत्र गन्तृत्वात् वायुः । निलयनरहितत्वात् क्वचिदपि व्यवस्थितत्वाभावाच्च अनिलम् । अमृतम् - म्रियमाणेऽपि देहसन्ताने स्वयममृतम् । इदं विजरत्वादीनामप्युपलक्षणम् । परिशुद्धजीवविषये प्रजापतिवाक्येऽपि ‘विजरो विमृत्युर्विशोकः’ इत्यादिसहपाठात् ।
अत्र ‘वायुश्चान्तरिक्षं चैतदमृतम्’ इत्यादिपरामर्शात् वाय्वादिशब्दानां भूतद्वितीयविषयत्वं न शङ्कनीयम्; पूर्वापराभ्यामसङ्गतेः । यद्यप्यमीषां परमात्मविषयत्वं विशिष्टवृत्त्या योगतो वा युज्यते, तथाऽपि वरमिह नश्वरस्य देहस्यानन्तरं वचनात् तद्व्यावृत्तप्रत्यगात्मपरत्वम् । प्राणविषयत्वेऽप्यत्र मन्दं प्रयोजनम् । श्वेताश्वतरीयाश्च भोक्तृभोग्यनियन्तॄणां विवेचने भोक्तृशब्दविवक्षितं प्रत्यगात्मानममृतशब्देनाऽऽमनन्ति ‘क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः’ इति, ‘क्षरं त्वविद्या ह्यमृतं तु विद्या विद्याविद्ये ईशते यस्तु सोऽन्यः’ इति च ।
एवं प्रत्यगात्मस्वरूपस्य ‘न जायते म्रियते वा विपश्चित्’ इत्यादिप्रसिद्धममृतत्वमभिधाय क्षेत्रज्ञशरीरस्य मृतिमत्त्वमवश्यम्भावीत्याह - अथेदं भस्मान्तं शरीरमिति । प्रकृतादर्थादर्थान्तरविवक्षया अथशब्दः; आत्मोत्क्रमणानन्तर्यार्थो वा; कर्मवश्यकार्त्स्न्यपरो वा । तथा च स्मर्यते - ‘गङ्गायां सिकता धारा यथा वर्षति वासवे । शक्या गणयितुं लोके न व्यतीताः पितामहाः ॥’ इति; ‘ब्रह्मादिषु प्रलीनेषु’ इत्यादि च । इदमिति विशेषणं नित्यत्वेन प्रमाणसिद्धानां नित्यमुक्तेश्वरशरीराणां व्यवच्छेदार्थम् । भस्मान्तमिति संस्कारमात्रव्यञ्जकम् । कीटान्तत्वादेरप्यन्यत्र प्रसिद्धस्योपलक्षणं वा । शरीरशब्दे व्युत्पत्तिनिमित्तानुसारेण विशरणस्वभावत्वं गम्यते ।
एवं ‘भोक्ता भोग्यं प्रेरितारं च मत्वा’ इति क्रमेण चिदचिद्विवेकमुक्त्वा प्रेरितारं प्रकृतं महापुरुषं प्रणवेनोपादत्ते - ओमिति । यथाऽऽमनन्त्याथर्वणाः ‘यः पुनरेतं त्रिमात्रेण ओमित्यनेनैवाक्षरेण परं पुरुषमभिध्यायीत’ इति । उक्तं च योगानुशासने ‘क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः । स पूर्वेषामपि गुरुः कालेनानवच्छेदात् । तस्य वाचकः प्रणवः ।’ इति । आह च सर्वज्ञः - ‘ओमित्येवं सदा विप्राः पठध्वं ध्यात केशवम्’ इति । स्वयं चागायत् ‘ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन्’ इति । एवं सर्वत्र द्रष्टव्यम् ।
अथ क्रतुरूपिणं भगवन्तं ज्ञानयज्ञगोचरमभिमुखीकुर्वन् तदनुग्रहं याचते - क्रतो स्मर कृतं स्मरेति । क्रतो - क्रत्वात्मक । यथाऽऽह - ‘अहं क्रतुरहं यज्ञः’ इति । ‘यथाक्रतुरस्मिन् लोके पुरुषो भवति, तथेतःप्रेत्य भवति । स क्रतुं कुर्वीत’, ‘एवङ्क्रतुर्ह’ इत्यादिष्विवात्रापि प्रकरणादेव क्रतुशब्द उपासनपरो वा । तद्गोचरे तु भगवति तच्छब्द उपचारात् । स्मर - सानुग्रहया बुद्ध्या विषयीकुरु । ‘स्नेहपूर्णेन मनसा किं न (यन्नः) स्मरसि केशव’ इतिवत् । उक्तञ्च भगवता - ‘स्थिते मनसि’ इत्यारभ्य ‘ततस्तं म्रियमाणं तु काष्ठपाषाणसन्निभम् । अहं स्मरामि मद्भक्तं नयामि परमां गतिम् ॥’ इति । सर्वदा सर्वं साक्षात्कुर्वतः स्मर्तृत्ववचनमिह पूर्वकृतप्रत्यवेक्षणाभिप्रायम् । कृतं स्मरेत्यत्रापि तथैव विवक्षा । मत्कृतं यत्किञ्चिदनुकूलमनुसन्धाय कृतज्ञस्त्वं मां रक्षेति भावः । एतावदन्तं त्वत्कृतमानुकूल्यं प्रतिसन्धाय त्वमेव शेषपूरणं कुर्विति वा । स्मरन्ति हि - ‘जायमानं हि पुरुषम्’ इत्यादि । स्वयमप्याह - ‘तेषां सततयुक्तानाम्’ इत्यादि । क्रतो स्मर कृतं स्मर इत्यावृत्तिरुक्तार्थे त्वरातिशयात्(शयं द्योतयति) ॥ १७ ॥
मूलम्
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ॥ १८
टीका
पुनरप्यग्निशब्दवाच्यं भगवन्तं स्वापेक्षितं प्रापयेत्याह - अग्ने नय ….विधेम इति । अग्ने - अग्निशरीरक; ‘यस्याग्निः शरीरम्’ इत्यन्तर्यामिब्राह्मणम् । ‘साक्षादप्यविरोधं जैमिनिः’ इति न्यायात् अग्रनयनादिगुणयुक्तेति वा । नय - प्रवर्तयेत्यर्थः । सुपथा - शोभनेन मार्गेण । प्रतिषेधस्पर्शरहितेनोपायेनेति यावत् । राये - विद्यार्थशरीरसंरक्षणत्वदर्चनाद्यनुगुणाय धनाय । यद्वा (अर्थ)प्रकरणानुगुण्यात् ‘अतस्करकरग्राह्यमराजकवशंवदम् । अदायादविभागार्हं धनमार्जय सुस्थिरम् ॥’, ‘अनन्तं बत मे वित्तम्’ इत्यादिषूक्तमलौकिकं धनमिह विवक्षितम् । एक एव मन्त्रः प्रकरणादिभिर्विशेषितस्तत्तदनुगुणमर्थं विवक्षतीति सम्यङ्न्यायविदः । अस्मान् - त्वदनन्यभावान् अनन्यगतींश्च । विश्वानि देव वयुनानि विद्वान् - देव - अस्मदपेक्षितप्रदानानुरूपविचित्रक्रीडायुक्त । विश्वानि वयुनानि - सर्वाणि ज्ञानानि । ‘माया वयुनं ज्ञानम्’ इति नैघण्टुकाः । अतो ज्ञानमुखेनोपायविशेषा इह वयुनशब्देन विवक्षिताः । सर्वान् - तत्तदधिकारानुगुणान् चतुर्विधपुरुषार्थोपायान् यथावत् विद्वान् त्वमविदुषोऽस्मान् नेतुमर्हसीति भावः । युयोध्यस्मज्जुहुराणम् - बन्धनात्मकतया अचिन्त्यप्रकारकौटिल्यवत्तया वा बाधमानमित्यर्थः । एनः - अकृत्यकरणकृत्याकरणादिरूपं त्वदनुभवादिप्रतिबन्धकम्, अस्मत् - अस्मत्तः, युयोधि - पृथक्कुरु, विनाशयेत्यर्थः । भूयिष्ठां ते नमउक्तिं विधेम - ‘अनन्यगतिः’ इत्यादिगुणैरावृत्तितश्च भूयसीं नमउक्तिं ते विदध्महे । व्यत्ययो हि बहुलमनुशिष्टः । नमउक्तेरनुवृत्तिं वा नाथं प्रति नाथते । ‘नम इत्येव वादिनः’ इति हि मुक्तलक्षणा अपि पुरुषा मोक्षधर्मे प्रत्यपादिषत । मानसकायिकयोर्नमसोरभावेऽपि (कनमस्काराभावेऽपि) नमश्शब्दमात्रेण प्रसत्तुमर्हसीत्युक्तिशब्दाभिप्रायः ॥ एवं परतत्त्व-तद्विभूतियोग-तदुपासन-तत्फलविशेषान् सङ्गृह्य संहितेयं समपूर्यत ॥
व्यक्ताव्यक्ते वाजिनां संहितान्ते व्याख्यामित्थं वाजिवक्त्रप्रसादात् ।
वैश्वामित्रो विश्वमित्रं व्यतानीत् विद्वच्छात्रप्रीतये वेङ्कटेशः ॥
अभेदं भोक्तॄणामथ च भविनामेव परतां तथा भेदाभेदं जिनसुगतनीतिं च जगति ।
असम्पाद्यां मुक्तिं भवभयमलीकं च पठताम् असावीशेत्यादिर्न कथमनुवाकः प्रतिभटः ॥
हरिः ओम् ॥
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु ईशावास्योपनिषद्भाष्यं समाप्तम् ॥